बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ तृतीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ (२)
सर्वार्थं यदि वाऽऽद्यं स्यात्साक्षादिति विशेषणम् ।।
अपरोक्षान्तमथवा ब्रह्मान्तं वोत्तरस्य तु ।। ३५ ।।
यत्साक्षाच्चापरोक्षाच्च ब्रह्माणः स्तो विशेषणे ।।
वाक्याद्ब्रह्याभिसंबन्धात्तदन्यस्य तथाऽश्रवात् ।। ३६ ।।
यदव्यवहितं द्रष्टुर्व्यवधानेन केनचित् ।।
प्रत्यङ्भात्रस्वभावत्वाद्ब्रह्मणोऽव्यवधानता ।। ३७ ।।
अव्यावृत्ताननुगतं ब्रह्मागौणं प्रचक्षते ।।
अपरोक्षाद्भवेत्तादृङ्नातोऽन्यादृक्कथंचन ।। ३८ ।।
सर्वानात्मनिषेधेन बोध आत्मन्यथैकले ।।
परमार्थं त्वसंप्राप्य निषेधो नेष्यते यतः ।। ३९ ।।
व्यतिरेकान्वयाभावैः कार्यं वस्त्वभिलप्यते ।।
कारणत्वनिषेधेन ब्रह्माऽऽत्मानं प्रपद्यते ।। ४० ।।
एतावन्मात्रयाथात्म्यात्कार्यकारणवस्तुनः ।।
अव्यावृत्ताननुगतं ब्रह्माऽऽत्मैव ततो भवेत् ।। ४१ ।।
यश्चाऽऽत्मैव भवेत्प्रत्यक्सर्वान्तरतमस्तथा ।।
तमेवंलक्षणं मह्यं यथावद्वक्तुमर्हसि ।। ४२ ।।
सामानाधिकरण्योक्तेर्ब्रह्मात्मार्थाभिधायिनोः ।।
ऐकार्थ्यमेतयोर्न्याय्यं मिथोर्थावसितेस्तथा ।। ४३ ।।
ब्रह्माऽऽत्मैकस्वभावेन साक्षादिति विशेष्यते ।।
असंभवात्तदन्यत्र ब्रह्मत्वस्य यतस्ततः ।। ४४ ।।
आत्माऽपि ब्रह्मणोऽन्यत्र नैव संभाव्यते यतः ।।
सामानाधिकरण्योक्तिस्तस्माद्ब्रह्मात्मशब्दयोः ।। ४५ ।।
विशेषणविशेष्यत्वे मिथो ब्रह्मात्मनोरतः ।।
अब्रह्मानात्मापह्नुत्याऽसंसर्गैकात्म्यधीर्भवेत् ।। ४६ ।।
ब्रह्मणोऽप्यात्मनो मोहादब्रह्मत्वं न वस्तुतः ।।
आत्मनोऽपि परोक्षत्वं ब्रह्मणोऽपि तमोन्वयात् ।। ४७ ।।
तमसो ज्ञानविध्वस्तावब्रह्मानात्मताहतेः ।।
अपूर्वाद्यात्मकं ब्रह्म निःसंसर्गं प्रपद्यते ।। ४८ ।।
प्रत्यग्याथात्म्यविज्ञानात्तत्तमोनात्मबाधतः ।।
प्रत्यङ्भात्रावशेषत्वात्स्यामपूर्वादिमानहम् ।। ४९ ।।
प्रणिधायाऽऽत्मनि दृष्टिं प्रत्यग्बोधैकरञ्जिताम् ।।
प्रतिवक्त्येष इति तं याज्ञवल्क्योऽप्युदारधीः ।। ५० ।।
आत्मप्रमातृमानादेरनेकस्येह संभवात् ।।
प्रत्यक्षार्थस्यैष इति न विद्मः को विवक्षितः ।। ५१ ।।
प्रत्यक्षार्थविज्ञप्त्यै त आत्मेति ततोऽवदत् ।।
सर्वान्तरगृहीतिस्तु तत्पूर्वोक्तोपलक्षणम् ।। ५२ ।।
क्षोण्युपक्रममाकाशात्षष्ठ्यन्तेनाभिधीयते ।।
आत्मेति च प्रमात्रादेरागमापायसाक्ष्यपि ।। ५३ ।।
मातृमानप्रभेदेऽपि प्रतिदेहं न भिद्यते ।।
साक्षी वाह्यार्थवद्यस्मात ञ आत्मेत्युच्यते ततः ।। ५४ ।।
व्यभिचारो मिथो यद्वत्प्रमात्रादेः स्वसाक्षिकः ।।
सर्वमात्राद्यभावार्थसाक्षित्वान्न तथाऽऽत्मनः ।। ५५ ।।
साक्षादित्यादिभिः प्रत्यक्प्रत्यग्दृष्ट्या यदेक्ष्यते ।।
प्रत्यग्वस्त्वतिरेकेण नान्यदात्मा तदेक्ष्यते ।। ५६ ।।
प्रत्यङ्भात्रैकयाथात्म्यादात्माविद्यातदुत्थयोः ।।
तावन्मात्रावसायित्वं सम्यग्बोधादतस्तयोः ।। ५७ ।।
आत्मनोऽनवशेषेण तदन्यार्थस्य संगतेः ।।
साक्षादित्यादिकं सर्वं संभाव्यं स्याद्विशेषणम् ।। ५८ ।।
प्रत्यक्तयैवावसितेः प्रतीचोऽन्यस्य वस्तुनः ।।
व्यतिरेकैकरुपस्य व्यतिरेको न लभ्यते ।। ५९ ।।
विरोधादन्वयो नास्य खण्डादौ गोत्ववत्तथा ।।
व्यतिरेकोऽपि नैकात्म्ययाथात्म्यादुपपद्यते ।। ६० ।।
प्रत्यङ्भात्रतयैवातोऽनात्माऽऽत्मनि विलीयते ।।
तवाऽऽत्मेत्यपि निर्णीतौ नैव स्यात्प्रश्ननिर्णयः ।। ६१ ।।
ममाऽऽत्मनामनेकेषां संभवादप्रबोधतः ।। ६२ ।।
पिण्डान्तस्तावदात्मैको लिङ्गान्तस्तु तथा परः ।।
बु्धिसाक्षी तृतीयः स्याद्योऽयं संदिह्यते तथा ।। ६३ ।।
यत एवमतो ब्रूहि कतमोऽत्र विवक्षितः ।।
साक्षादित्यादिमानात्मा निर्धार्येदंतयाऽन्यतः ।। ६४ ।।
याज्ञवल्क्योऽपि तं प्राह यः प्राणेनेति लिङ्गतः ।।
प्राणादेः प्रत्यगात्मानं बुबोधयिषुरञ्जसा ।। ६५ ।।
प्राणनाद्यनुमानेन ग्राहयित्वा धियः परम् ।।
ततोऽवबोधयिष्यामि यथोपात्तविशेषणम् ।। ६६ ।।
इत्येतद्धृदये कृत्वा याज्ञवल्क्यो निराह तम् ।।
यः प्राणेनेति वचसा न लिङ्गदुक्तबोधनम् ।। ६७ ।।
मुखसंचारिणाऽप्राणो यः प्राणोनानितीक्षिता ।।
सर्वप्रत्यक्तमः सोऽयमात्मा सर्वान्तरावधिः ।। ६८ ।।
सुप्तेऽस्मिन्करणग्रामे योऽसुप्तोऽलुप्तदृष्टितः ।।
वासनारूपकान्पश्यन्प्राणान्प्राणिति वायुना ।। ६९ ।।
अनात्मत्वमतः सिद्धं प्राणादेः करणोक्तितः ।।
प्राणात्मत्वाच्च बुद्ध्यादेः पिण्डान्तस्याप्यनात्मता ।। ७० ।।
दृश्यत्वाद्धटवद्देहः प्राणादेः करणत्वतः ।।
अनात्मत्वप्रसिद्धिः स्याल्लिङ्गपिण्डात्मनोरतः ।। ७१ ।।
प्राणादिकार्यकरणैः स्वतोऽसंहत एकलः ।।
तच्चेष्टां कुरुतेऽकुर्वन्नयस्कान्तो मणिर्यथा ।। ७२ ।।
लोकेऽनधिष्ठितस्येह केनचिच्चेतनावता ।।
न दृष्टा नियता चेष्टा रथादेर्जडरूपिणः ।। ७३ ।।
देहेन्द्रियमनोबुद्धिप्राणादेर्नियतेक्ष्यते ।।
प्रवृत्तिर्येन तेनैभ्यो ज्ञात्माऽन्योऽभ्युपगम्यताम् ।। ७४ ।।
प्रतिज्ञाय पुरा साक्षाद्गामहं दर्शयामि ते ।।
अशक्नुवंस्तथा कर्तुं लिङ्गेन प्रतिबोधयेत् ।। ७५ ।।
यथा कश्चित्तथैव त्वं प्रतिज्ञाय परात्मनः ।।
साक्षात्त्वं तदसंपाद्य लिङ्गेनाऽऽवेदयस्यमुम् ।। ७६ ।।
यथाप्रतिज्ञमेवातो यथा पृष्टं तथैव तत् ।।
मह्यं प्रतिवचो वाच्यं दोषस्तु स्यात्ततोऽन्यथा ।। ७७ ।।
यथाप्रतिज्ञं प्रत्युक्तिमवोचामासकृत्तव ।।
ततोऽप्यपरितुष्टस्त्वमन्यथैव बुभुत्ससे ।। ७८ ।।
उक्तवर्त्मातिरेकेण नाऽऽत्मवस्तु घटादिवत् ।।
शक्यते प्रतिनिर्देष्टुं प्रमाणागोचरत्वतः ।। ७९ ।।
विद्मीति यद्वलादात्थ न वेद्मीत्यपि यद्वलात् ।।
तद्दृष्ट्यैवेह तं दृष्ट्वा ब्रूह्यवद्यं यदीक्षते ।। ८० ।।
अप्रमेयं हि यद्वस्तु न तच्छक्यं प्रमाणतः ।।
कुम्भवत्प्रतिनिर्देष्टुं यथा तदभिधीयते ।। ८१ ।।
द्रष्टृदर्शनदृश्यानां संहतानां परस्परम् ।।
साक्षित्वमात्मनो नित्यं वस्तुस्वाभाव्यमुच्यते ।। ८२ ।।
प्रमात्रादिप्रवृत्तेः प्राक्सदानस्तमितोदिता ।।
अकारकात्मना तस्थौ प्रत्यग्दृष्टिरसंगतः ।। ८३ ।।
अकार्यकारणात्मैतद्वास्तवं रूपमात्मनः ।।
सकृद्विभातमैकात्म्यं वितमस्कमभेदकम् ।। ८४ ।।
एतत्तमोभिसंबन्धात्साक्षित्वं प्रतिपद्यते ।।
तमोमात्रैकहेतुश्च मोहसंगतिरात्मनः ।। ८५ ।।
कूटस्थदृष्टितन्मोहौ दृष्ट्याभासश्च तत्र्रयम् ।।
कारणं जगतः साक्षी नियन्तेति च भण्यते ।। ८६ ।।
कारणत्वं न कौटस्थ्यात्तन्मोहविरहाद्भवेत् ।।
जाड्यान्वयाच्च बुद्ध्यादेर्युक्ता तत्कारणानुमा ।। ८७ ।।
प्रमात्राद्यतिरेकोऽपि वस्तुनो बोधरूपिणः ।।
अज्ञातस्य प्रमेयस्य युक्तः स्वध्वान्तसाक्षिणः ।। ८८ ।।
कूटस्थदृष्टेः साक्षित्वं जडस्येव न युज्यते ।।
साक्ष्यार्थानभिसंबन्धात्तस्मिन्सत्यपि नाचितेः ।। ८९ ।।
तस्मात्परस्य साक्षित्वं स्वमोहाभासवर्त्मना ।।
कार्यकारणसंबन्धे चिदाभासस्य संगतेः ।। ९० ।।
प्रमात्राद्यभिसंबन्धो यथाऽनुभवसिद्धिकः ।।
तथैव तदभावोऽपि सिद्धोऽनुभवमात्रतः ।। ९१ ।।
अनन्यहेतुकं तावत्र्रयमेतद्यथोदितम् ।।
प्रमात्रादिपदार्थस्तु धर्माधर्मादिहेतुकः ।। ९२ ।।
बुद्ध्यादेरभिसंबन्धो जन्मनैव चिदात्मना ।।
घटाद्यर्थाभिसंबन्धो धर्माधर्मादिकारणः ।। ९३ ।।
प्रमातृदृष्टिरेकाऽत्र शब्दाद्यर्थावलेहिनी ।।
भूरिसाधनसापेक्षा सुखदुःखफलप्रदा ।। ९४ ।।
क्षणप्रध्वंसिनी चेयं तद्धेतोर्भङ्गुरत्वतः ।।
प्रतिदेहं विभिन्न च त्वसाधारणकारणात् ।। ९५ ।।
क्रियाकारकरूपेयमक्रियाऽकारकात्मना ।।
तावन्मात्रैकयाथात्म्यात्तया व्याप्तैव जयाते ।। ९६ ।।
कार्त्स्न्येन यत्र वृत्तिः स्याद्व्याप्यव्यापकवस्तुनोः ।।
व्याप्तिस्तत्रैव मुख्या स्याद्रज्जुसर्पादिवस्तुवत् ।। ९७ ।।
देशकालादिसंभेदादसाधारणतत्त्वयोः ।।
व्याप्तिर्न घटते साक्षाद्धिमवद्विन्ध्ययोरिव ।। ९८ ।।
प्रमात्रादिव्यपेक्षेयं लौकिकी दृष्टिरात्मनः ।।
तत्प्रत्यगात्मदृष्टिस्तु विज्ञेया पारमार्थिकी ।। ९९ ।।
परमार्थात्मदृष्ट्येयं लौकिकी दृष्टिरात्मनः ।।
षड्भावविक्रियामेति व्याप्तैवाऽऽकाशकुम्भवत् ।। १०० ।।
धर्माधर्मानपेक्षत्वाच्चैतन्याभासतां प्रति ।।
घटाद्याभासवत्तस्मान्नाऽऽत्माभासो विनश्वरः ।। १०१ ।।
निष्क्रियश्चेतनः साक्षी सक्रियोऽचेतनः पराङ् ।।
व्यावृत्तश्च प्रमात्रादेः सिद्धः साक्षी सुषुप्तगः ।। १०२ ।।
न चेदनुभवव्याप्तिः सुषउप्तस्याभ्युपेयते ।।
नावेदिषं सुषुप्तेऽहमिति धीः किंबलाद्भवेत् ।। १०३ ।।
बुद्ध्यादेः प्रविलीनत्वाद्देहादेश्च जडत्वतः ।।
लोष्टादेरिव, नैव स्यान्नाज्ञासिषमितीक्षणम् ।। १०४ ।।
चिदाभासैकमात्रेण तमःसिद्धिर्न मातृतः ।।
संवित्तन्मोहचिद्विम्बैः प्रात्यक्ष्यं कर्तृरूपिणः ।। १०५ ।।
स्मृतिनिश्चितिसंशीतिरागादिहिरुगात्मसु ।।
अहरूपेण योऽन्वेति स प्रमाता परो मतः ।। १०६ ।।
स्मरणादिविभागेन ज्ञातर्येकत्र यत्पृथक् ।।
प्रथतेऽनेकरूपाभं तज्ज्ञानं ज्ञातृकर्तृकम् ।। १०७ ।।
विभिन्नो बहिराभाति जातिरूपक्रियादिमान् ।।
विभिन्नोऽनुभवादेव ज्ञातुर्ज्ञानात्स गोचरः ।। १०८ ।।
संवित्तन्मोहधीवृत्तिशरीरादिविशेषणम् ।।
भोक्तरीह यदाभाति तत्प्रमाणफलं स्मृतम् ।। १०९ ।।
कर्तृत्वं करणत्वं च कर्मत्वं चाऽऽत्मसाक्षितः ।।
व्यतिरेकेण कर्त्रादेः सिद्धेर्नाऽऽत्मत्वमस्त्यतः ।। ११० ।।
साक्षित्वेनाऽऽत्मनः सिद्धिर्मात्रादिव्यतिरेकतः ।।
न कर्तृता प्रमात्रादेः साक्ष्यत्वेनैव तत्क्षयात् ।। १११ ।।
प्रत्यङ्भोहजबुद्ध्यादिजडरूपप्रधानतः ।।
कर्तृत्वमात्मनो युक्तं चित्प्राधान्याच्च भोक्तृता ।। ११२ ।।
अव्याकृतव्याकरणे यदुक्तं सर्वमेव तत् ।।
अनुसंधेयमत्रापि वस्तुतत्त्वविशुद्धये ।। ११३ ।।
स्वमहिम्ना न संसिध्येत्स्वतोऽनवगमात्मकम् ।।
भावाभावौ न वस्त्वेति प्रत्याख्यातं यदात्मना ।। ११४ ।।
तस्मादजायमानैव जायमानेव लक्ष्यते ।।
संवित्तिस्तदशंबोधहेतूत्थानात्मजन्मना ।। ११५ ।।
तद्विनाशेऽपि तत्साक्ष्याद्विनश्यन्तीव लक्ष्यते ।।
यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत् ।। ११६ ।।
अज्ञानभूमिगं वस्तु मानसंगतिमाप्नुवत् ।।
मेयत्वं लभते नान्यद्यच्च त्यक्तक्षितिद्वयम् ।। ११७ ।।
हेतोः कर्यासमुत्पत्तेः सिद्धेः प्रागापि संविदः ।।
कार्यकारणताहीना तस्मात्संवित्प्रतीयताम् ।। ११८ ।।
शून्यस्यापि हि शून्यत्वं तत्साक्षिणि सतीक्ष्यते ।।
असाक्षिकं चेच्छून्यत्वं साक्षिवत्स्यादसाक्षिकम् ।। ११९ ।।
साक्ष्यसाक्ष्यपि संसिध्येत्स्वायत्वान्न तु शून्यता ।।
पारार्थ्यात्स्वार्थविरहे षष्ठगोचरवद्भवेत् ।। १२० ।।
देहान्तः प्रत्यगात्माऽयं पञ्चधा गम्यते मितेः ।।
एककारणसाक्षित्वकर्तृदुःखित्वरूपतः ।। १२१ ।।
श्रुतितो लिङ्गतः साक्षात्कार्यकारणसंगतिः ।।
यतोऽनुभूय़ते तस्मात्कारणत्वं परात्मनः ।। १२२ ।।
प्रत्यक्साक्ष्यतिरेकेण नाभावोऽपि प्रसिध्यति ।।
किमु भावो जगत्यस्मिन्साक्षी चानन्यसिद्धिकः ।। १२३ ।।
यथोक्तानुभवारूढो बुद्ध्यन्तोऽपि प्रसिध्यति ।।
माता मातरि मानं च मानान्मेयं प्रसिध्यति ।। १२४ ।।
सुखी गौरो धनी गोमान्वाह्यमेयसामाश्रयात् ।।
प्रमाणभूमौ स्थित्वैतदुक्तं सर्वं प्रसिध्यति ।। १२५ ।।
प्राक्प्रमात्रादिसंभूतेर्यत्प्रमात्रादिकारणम् ।।
अनन्यानुभवात्माभं तत्प्रमाणं सदादृशेः ।। १२६ ।।
मेयमानप्रमात्रादिविभागस्तत्र नेक्ष्यते ।।
प्रत्यग्बोधैकयाथात्म्यवस्तुमात्रोपरोधतः ।। १२७ ।।
ईदृगेव फलं चात्र मानमेयादिकं तथा ।।
कुता भेदावकाशः स्यादद्वयैकप्रमात्मनि ।। १२८ ।।
प्रमाणवर्त्मनाऽऽयातमिदं मोहापनुत्तये ।।
वस्तुवृत्तेन नैवालं शास्रानारम्भसक्तितः ।। १२९ ।।
उक्तार्थापरिहारेण तदज्ञानजभूमिषु ।।
व्यवहारः प्रमात्रादेः स्वप्नमायेन्द्रजालवत् ।। १३० ।।
अविचारितसंसिद्धितमोवत्स्यात्तदुद्भवम् ।।
कृत्स्नं जगदतो मोहध्वस्तौ ध्वस्तं भवेच्चितिः ।। १३१ ।।
भिन्नमानप्रमात्रादौ कार्यकारणवस्तुनि ।।
अभिन्नमातृमानादिरात्मैवैकोऽद्वयः स्वतः ।। १३२ ।।
न देशकालावस्थादावपेक्षाऽस्त्यात्मनः स्वतः ।।
अनन्यापेक्षसंसिद्धेर्देशादेस्तदपेक्षतः ।। १३३ ।।
देशकालनिमित्तादिव्यपेक्षं वस्तु यद्भवेत् ।।
तदेव तदपेक्षं स्यान्न तु देशादिसिद्धिदम् ।। १३४ ।।
कारकादिवशाद्यावत्किंचिद्वस्तूपलभ्यते ।।
क्रियाफलं तद्विज्ञेयमनपेक्षिततत्त्वकम् ।। १३५ ।।
वस्त्वधीना यतो विद्या कर्त्रधीना क्रियाऽखिला ।।
कर्त्रादि चाऽऽत्ममोहोत्थं वस्तु सिद्धं स्वतोऽद्वयम् ।। १३६ ।।
कारकाण्युपमृद्गाति विद्या बीजमिवोषरम् ।।
तत्कारणोपमर्दित्वाज्जन्मनैव न कारकम् ।। १३७ ।।
प्रमातृपरिणामत्वात्प्रमासिद्धिः प्रमातरि ।।
प्रमात्रव्यवधानेन संविदैव न वृत्तिभिः ।। १३८ ।।
मात्रन्तरे व्यपेक्षायां मातुर्मानान्तरे मितेः ।।
दुर्वारत्वात्प्रसङ्गस्य ह्यनवस्था प्रसज्यते ।। १३९ ।।
प्रमात्रतिशयेनैव कारणं स्यात्प्रमात्रपि ।।
विज्ञानातिशयं सिध्येन्मानं निश्चयवत्तथा ।। १४० ।।
मेयासाधारणात्मोत्थरूपवान्निश्चयो यथा ।।
बाह्यमेयप्रधानत्वे सत्यसाधारणार्थधीः ।। १४१ ।।
मानव्यापारकाले स्याद्वाह्यमेयोपसर्जनम् ।।
आभासादिप्रमाणान्तं तद्विशिष्टफलोत्थितेः ।। १४२ ।।
प्रमाणव्यापृतेस्तूर्ध्वं वासनाधानकारणात् ।।
मेयोपसर्जना बुद्धिः स्मृत्या साक्षात्प्रतीयते ।। १४३ ।।
साक्षात्कुर्वत्स्वमात्मानं यदालम्बनतां व्रजेत् ।।
कार्यकारणरूपस्य तदेवाऽऽलम्बनं मतम् ।। १४४ ।।
पूर्वोपलम्भसंस्कारसमुत्थस्मृतिविभ्रमात् ।।
वस्तुवृत्तातिवर्त्येष व्यापारः सार्वलौकिकः ।। १४५ ।।
मोयाभिसंगतेः पूर्वं ज्ञानं ज्ञातृसमाश्रयम् ।।
ज्ञातृत्वसिद्धये ज्ञानं ज्ञातृत्वं तत्कृतं यतः ।। १४६ ।।
वासनाबलतः स्पष्टं बहिर्वद्यन्मतौ स्थितम् ।।
भावनागोचरं ज्ञानं बाह्यवस्त्ववलम्बनम् ।। १४७ ।।
अपेक्षावृत्तवद्वस्तु यावत्किंचिदिेहेक्ष्यते ।।
मातृमात्राश्रयं तत्स्यान्न स्वतःसिद्धिनिष्ठितम् ।। १४८ ।।
अन्तःकरणवृत्तिर्या चक्षुरादिसमाश्रया ।।
रूपादिविषयाभासा लौकिकी दृष्टिरूच्यते ।। १४९ ।।
तस्याश्च क्रियमाणत्वाज्जन्मनाशाभिसंगतिः ।।
आत्मदृष्टिस्त्वियं नित्य जन्मनाशादिवर्जिता ।। १५० ।।
कार्यकारणयोस्तत्त्वं प्रत्यगात्मा चितिर्यतः ।।
तस्मान्नित्यश्चिदाभासो बुद्धौ तत्प्रत्ययेषु च ।। १५१ ।।
प्रत्यक्चिदुपरक्तायां बुद्धौ धर्मादिहेतुकः ।।
आकारो जायतेऽनित्यो दुःखशब्दादिलक्षणः ।। १५२ ।।
स्यास्नौ प्रत्यक्चिदाकारे बाह्यहेतुनिबन्धनः ।।
आकारो जायते बुद्धेरागमापायधर्मवान् ।। १५३ ।।
उपाधिभूतया दृष्ट्या हानोपादानरूपया ।।
एकाश्रयत्वतः स्थास्न्वी संसृष्टेवोपजायते ।। १५४ ।।
बुद्धितद्वृत्तिसाक्षित्वाद्बुद्धितत्प्रत्ययैरजः ।।
गृह्यतेऽविद्ययाऽभिन्नो मणिर्यद्वदुपाश्रयैः ।। १५५ ।।
कर्तृकार्यावभासित्वात्कर्तृकार्याभिधायिभिः ।।
लक्ष्यते नामभिः साक्षी साक्षान्न त्वभिधीयते ।। १५६ ।।
तज्जन्मनाशसाक्षित्वादजोऽनाशी स्वयंप्रभः ।।
जायते नश्यतीत्येवं तत्साक्ष्यप्यभिधीयते ।। १५७ ।।
दृष्टेर्जडस्वभावायाः परार्थायाः स्वतश्चितिम् ।।
न पश्येः प्रत्यगात्मानं द्रष्टारं दृश्ययाऽनया ।। १५८ ।।
दिदृक्षितपरिच्छिन्नपराग्रपाद्यपेक्षया ।।
तद्विरुद्धं कथं पश्येर्दृष्ट्या तत्कर्मभूतया ।। १५९ ।।
द्रष्टुर्हि व्यापृतिर्दृष्टौ दृष्टे रूपादिकर्माणि ।।
ताभ्यां तत्प्रत्यगात्मानं कथं पश्येश्चितिं स्वतः ।। १६० ।।
नाकारकं समीक्षेत द्रष्टुदर्शनगोचरान् ।।
कारकत्वमृतेऽविद्यां कूटस्थस्याऽऽत्मनः कुतः ।। १६१ ।।
कारकं सत्तथैकात्म्यं न कथंचन वीक्षते ।।
अविद्यानन्वयाद्भास्वत्प्रत्यग्ज्योतिः सतत्त्वतः ।। १६२ ।।
येन चक्षुरिदं दृष्टं चक्षुषा यन्न पश्यति ।।
ब्रह्म विद्धि तदेव त्वं न तु तद्यदुपासते ।। १६३ ।।
मनसा मनुते यन्न येन चाऽऽहुर्मनो मतम् ।।
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते ।। १६४ ।।
इत्येवमादिवाक्यानि यथोक्तार्थसमर्थने ।।
श्रौतानि शतशः सन्ति दृगमेयत्वसिद्धये ।। १६५ ।।
एतन्मोहसमुत्थत्वाल्प्रमात्रादेर्मनागपि ।।
नैकात्म्यं शक्यते वक्तुं क्लृप्तहेतोरबाधया ।। १६६ ।।
दृष्टिभेदमकृत्वैव दृष्टेरित्यादिकां श्रुतिम् ।।
केचिद्व्याचक्षते धीराः प्रसादाज्जातवेदसः ।। १६७ ।।
दृष्टेः कर्तारमात्मानं न पश्येः क्रियमाणया ।।
दृष्ट्या रूपानुपातिन्या न क्रिया कर्तृकर्मिका ।। १६८ ।।
दृष्टेरिति च षष्ठीयं क्रियमाणत्वहेतुतः ।।
कर्मण्येव तु विज्ञेया नासावर्थान्तरे यतः ।। १६९ ।।
दृष्टिकर्तृत्वमाचष्टे तृजन्तेन तथाऽऽत्मनः ।।
यतोऽतः कर्मदृष्ट्या तं द्रष्ठारं नानुपश्यति ।। १७० ।।
कर्मेप्सिततमं रूपं दृष्टेः कार्यत्वहेतुतः ।।
चक्षुर्मनो वा बुद्धिर्वा कर्तुः करणमिष्यते ।। १७१ ।।
विज्ञानात्मा तु कर्ताऽत्र स्वातन्त्र्यात्सर्वकर्मसु ।।
फलं रूपोपलब्धिश्च कर्तुर्दृष्ट्यवसानजम् ।। १७२ ।।
साधनत्वेन कर्ताऽत्र दृष्टाववसितिं गतः ।।
क्रियासिद्ध्युत्तरे काले फलं कस्यापि चेष्यते ।। १७३ ।।
स्वामिनो यदि वाऽन्यस्य कर्म प्रत्येव च क्रिया ।।
कर्म दर्शयितव्यं स्याद्दृष्ट्या द्रष्टा न दृश्यते ।। १७४ ।।
तत्रैवं सति तं दृष्टेर्द्रष्टारं कर्मभूतया ।।
दृष्ट्या पश्येः स्वमात्मानं न कथंचन कर्तृतः ।। १७५ ।।
व्य़ाख्यानमेतन्महतां न साधु प्रतिभाति नः ।।
न्यायाक्षरानुपात्तत्वाद्यथा तदभिधीयते ।। १७६ ।।
यथाप्रश्नमियं तावत्प्रत्युक्तिर्नोपपद्यते ।।
यतो द्र्ष्टर्यसंभाव्यं कृत्स्नं प्रश्नविशेषणम् ।। १७७ ।।
साक्षादित्यादिकं यस्मान्न मनागपि युज्यते ।।
विशेषणं यथोक्तं तत्कारके दृष्टिकारिणि ।। १७८ ।।
क्षेत्रज्ञपरमात्मानौ नापि प्रश्ने विवक्षितौ ।।
एकार्थयोगाद्वाक्यस्य नैकोक्तौ स्याद्दूयार्थता ।। १७९ ।।
न चेप्सिततमत्वं स्याद्द्रष्टुर्दृष्टेरसंभवात् ।।
दृष्ट्यन्तरस्य दृष्टुश्च न च द्रष्ट्रन्तरं तथा ।। १८० ।।
तदभ्युपगमे वः स्यागदनवस्थाऽनिवारणा ।।
दृष्ट्यन्तरेण संव्याप्तिर्नातो दृष्टेः कथंचन ।। १८१ ।।
तथा द्रष्टृगृहीत्यैव कामितार्थसमाप्तितः ।।
निरर्थकमिदं च स्याद्दृष्टेरिति यदुच्यते ।। १८२ ।।
सदैवाव्यभिचारित्वादृष्टिद्रष्ट्रोः परस्परम् ।।
विशेषणविशेष्यत्वं व्यभिचारे सतीष्यते ।। १८३ ।।
न च प्रमादपाठोऽयं सर्वेषामविगानतः ।।
विध्यशेषत्वतो नापि चार्थवादत्वमिष्यते ।। १८४ ।।
अहंदृष्ट्यधिगम्यत्वमपि द्रष्टुरिहेष्यते ।।
प्रत्यक्षमाविरूद्धत्वं तथाचोक्तेः प्रसज्यते ।। १८५ ।।
मेयमानप्रमातृणां प्रात्यक्ष्यं प्रागपीरितम् ।।
व्याख्या व्यरोधि तेनेयं दृष्टेरित्यत्र या कृता ।। १८६ ।।
यथोक्तादात्मनोऽन्यद्यत्कार्यकारणरूपकम् ।।
आर्तं विनाशि तत्तुच्छं शुक्तिकारजतादिवत् ।। १८७ ।।
एतदेवमनार्तं स्यात्स्वतःसिद्धत्वकारणात् ।।
सदैकानुदितालुप्तप्रत्यगदृष्टिसतत्त्वकम् ।। १८८ ।।
हेतूक्तिरथवाऽतः स्यावुक्तवस्तुस्वभावतः ।।
तदन्यभावासंसिद्धेरार्तत्वं हेतुमद्भवेत् ।। १८९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यास्य चतुर्थमुषस्तब्राह्मणम्
आदावभिहितं सर्वं बन्धनं सप्रयोजकम् ।।
अस्तित्वव्यतिरिक्तत्वे बद्धस्य च विनिश्चिते ।। १ ।।
संसारानर्थसंप्राप्तिहेतोर्विध्वस्तथेऽधुना ।।
संन्यासैकसाहायात्मयाथात्म्यज्ञानमुच्यते ।। २ ।।
उत्पन्नसम्यग्ज्ञानस्य संन्यासो लक्षणं यतः ।।
साधनं च तदुत्पत्तौ संन्यासोऽतोऽत्र भण्यते ।। ३ ।।
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।।
तस्माज्ज्ञानं पुरुस्कृत्य संन्यसेदिह बुद्धिमान् ।। ४ ।।
उषस्तप्रश्न एवायं कहोलेनापि पृच्छयते ।।
तत्किमर्थं पुनः प्रश्नः स एव कृतनिर्णयः ।। ५ ।।
प्रष्टृभेदाददोषश्चेन्मैवं प्रत्युक्तिभेदतः ।।
एकार्थप्रश्नवाक्यस्य ह्येका प्रत्युक्तिरिष्यते ।। ६ ।।
पुनरूक्तं न च न्याय्यमेकप्रवचने क्वचित् ।।
न चेह लौकिको जल्पः प्रष्ट्वभेदो यतो भवेत् ।। ७ ।।
समानशब्दौ तेनेमौ स्यातां भिन्नार्थवाचकौ ।।
कहोलोषस्तवक्त्रोक्तौ प्रश्नाविति विनिर्णयः ।। ८ ।।
क्षेत्रज्ञात्मानमप्राक्षीदुषस्तो न परं पदम् ।।
अप्राक्षीत्परमात्मानं कहोलोऽपि न दुःखिनम् ।। ९ ।।
एकदेश उपन्यासादैकार्थ्यसवसीयते ।।
मिथःसंकीर्णधर्मोक्तौ यथायोगं व्यवस्थितिः ।। १० ।।
यद्वन्तरतमत्वं प्रागुक्तं तत्परमात्मनि ।।
तदेकदेशाभिहितेर्विज्ञानात्मानमेष्यति ।। ११ ।।
शोकमोहाद्यतीतत्वं प्राकाशात्मकता तथा ।।
विज्ञानात्मनि चोकाऽपि परमात्मानमेष्यति ।। १२ ।।
पञ्चमाध्यायशेषेण परमात्मविनिर्णयः ।।
षष्ठे तु वक्ष्यतेऽध्याये विज्ञानात्मविनिर्णयः ।। १३ ।।
उपन्यासो द्वयोरत्र विज्ञानात्मपरात्मनोः ।।
व्यज्ञाय्यपुनरुक्तत्वं न्यायमार्गसमाश्रयात् ।। १४ ।।
इति व्याचक्षते केचित्प्रश्नावेतौ यथोदितौ ।।
न सम्यगेतद्व्याख्यानं यथा तदभिधीयते ।। १५ ।।
प्रत्युक्तेरेष त इति प्रश्नयोरुभयोरपि ।।
क्षेत्रज्ञपरमात्मानौ नात्राऽऽत्मानौ विवक्षितौ ।। १६ ।।
प्रश्नोक्तिरेकरूपा च प्रत्यभिज्ञायतेऽञ्जसा ।।
प्रत्युक्तिश्च तवाऽऽत्मेति भिन्नार्थे वचसी कथम् ।। १७ ।।
एकत्र च न संभाव्यावात्मानौ द्वौ शरीरके .।
आत्मप्रत्यय एकार्थस्तथा श्रुतिवचांस्यपि ।। १८ ।।
एकात्मकाः सर्वदेहा विवादो येषु वर्तते ।।
शरीरत्वाविशेषत्वात्प्रतिवादिशरीरवत् ।। १९ ।।
सर्वान्तरावसानस्य साक्षादित्यादिकस्य च ।।
ऐकार्थ्यात्प्रश्नवाक्यस्य नाऽऽत्मानौ द्वौ विवक्षितौ ।। २० ।।
अगौणाव्यवधानादिविशेषणविशेष्यता ।।
नानेकस्याऽऽत्मनो न्याय्या तदसंभवहेतुतः ।। २१ ।।
व्यर्थोपनिषदारब्धिर्यदि भेदो भवेत्तयोः ।।
अनिर्मोक्षप्रसक्तिश्च क्षेत्रज्ञपरमात्मनोः ।। २२ ।।
अकृत्स्नदृष्टिविषयो निषेधोऽपि न युज्यते ।।
प्रविष्टस्य न चेत्कार्त्स्न्यं विज्ञानात्मन इष्यते ।। २३ ।।
वस्तुवृत्तानुरोधेन नातो भेदोऽस्ति कुत्रचित् ।।
वस्तुवृत्तानभिज्ञानाद्भेदः स्वप्नेन्द्रजालवत् ।। २४ ।।
एक एव ततः प्रश्नो न प्रश्नद्वयमिष्यते ।।
कंचिद्विशेषमापेक्ष्य पृष्टो भूयोऽपि पृच्छ्यते ।। २५ ।।
उपदेशस्य विषयः प्रश्नप्रत्युक्तिवाक्ययोः ।।
निरधारि पुरा तस्य याथात्म्यं त्वत्र पृच्छयते ।। २६ ।।
बुद्ध्यन्ताद्व्यतिरिक्तोऽस्ति साक्षी प्रश्नस्य गोचरः ।।
योग्यः प्रत्यङ्ङिति ज्ञेयः पूर्वप्रश्नार्थसंग्रहः ।। २७ ।।
अशनायाद्यतीतत्वं पूर्वोक्तस्यैव वस्तुनः ।।
द्वितीयेनोच्यते तत्त्वं प्रत्यङ्भोहनिवृत्तये ।। २८ ।।
यथाप्रश्नं प्रतिवचो न सम्यगुदितं पुरा ।।
इति मत्वाऽथवाऽप्राक्षीत्पृष्टमर्थं पुनर्ऋषिम् ।। २९ ।।
साक्षादित्यादिना पृष्टं साक्षादित्यादिलक्षणम् ।।
यथा संभाव्यते नेदृक्प्रत्युक्तौ किंचिदीक्ष्यते ।। ३० ।।
असंतोषात्कहोलोऽत उषस्तप्रश्नमेव तु ।।
भूयोऽप्राक्षीन्मुनिं विद्वान्याथात्म्यर्थावबुद्धये ।। ३१ ।।
एष आत्मेति प्रत्युक्तिर्यः प्राणेनेति चापरा ।।
तावन्भात्रोक्तितो नासौ प्रश्नार्थोऽवधृतो भवेत् ।। ३२ ।।
ननूर्मिषट्कातीतत्वं दुःखित्वं चाद्वयात्मनि ।।
एकदैकत्र न स्यातां प्रकाशतमसी यथा ।। ३३ ।।
नैष दोषस्तदज्ञानमिथ्याधीभ्रमहेतुतः ।।
संसारिताऽऽत्मनः क्लृप्ता कृष्णिमेव नभस्तले ।। ३४ ।।
बृहद्विचारे सम्यक्च प्रागप्येतद्विचारितम् ।।
विरुद्धागमविषयप्रविवेकप्रसङ्गतः ।। ३५ ।।
रज्जुत्वाहित्वयोर्यद्वदेकस्मिन्नपि वस्तुनि ।।
स्वतस्तन्मोहतश्चैव संभवस्तद्वदात्मनि ।। ३६ ।।
मुक्तत्वं च सितत्वं च परस्परविरुद्धयोः ।।
धर्मयोः समवायः स्यान्न तु नीलोत्पलादिवत् ।। ३७ ।।
एवं विरुद्धधर्मत्वे न च दोषोऽस्ति कश्चन ।।
नामरूपादिसद्भावो दोषश्चेदिह चोद्यते ।। ३८ ।।
नेह नानेति वचनादेकमेवेति चोक्तितः ।।
नैवं परिहृतेस्तस्य मृद्दृष्टान्तादियुक्तिभिः ।। ३९ ।।
अगृह्यमाणं सत्तत्त्वं विपरीतमिवेक्ष्यते ।
यथावस्त्वीक्ष्यमाणं तु यथावस्त्वेव वीक्ष्यते ।। ४० ।।
यदत्र चोद्ये वक्तव्यं तत्पुरैवासकृद्बहु ।।
सम्यगुक्तं तदखिलमिह स्मर्तव्यमादृतैः ।। ४१ ।।
अविचारितसंसिद्धिमोहोपहतचेतसाम् ।।
अप्यद्वयं परं ब्रह्म द्वयवत्प्रथते मृषा ।। ४२ ।।
यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः ।।
संकीर्णमिव मात्राभिश्चित्राभिरूपलक्षयेत् ।। ४३ ।।
तथेदममलं ब्रह्म निर्विकारमविद्यया ।।
कलुषत्वमिवाऽऽपन्नं भेदरूपं प्रकाशते ।। ४४ ।।
तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते ।।
अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम् ।। ४५ ।।
बाध्य एवाऽऽत्मसंमोहो न त्वसौ बाधको यतः ।।
प्रत्यग्याथात्म्यविज्ञानं न बाध्यं बाधकं यतः ।। ४६ ।।
स्वभावानपहारेण संगतिः स्यात्ततस्तयोः ।।
इति चेतसि संधाय सर्वयोगेश्वरेश्वरः ।। ४७ ।।
मोहापनुत्तये प्राह प्रपन्नाय किरीटिने ।।
बाध्यबाधकरूपं च न व्येतीति प्रकाशयन् ।। ४८ ।।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। ४९ ।।
ज्ञानाज्ञाने ततोऽपेक्ष्य व्यवहारोऽयमात्मनि ।।
शास्रीयो लौकिकश्चातो विरोधोऽत्र न शङ्क्यते ।। ५० ।।
उत्पन्नात्मप्रबोधानामात्माविद्यातदुद्भवम् ।।
सम्यग्ज्ञानाग्निना नित्यं दह्यमानं प्रजायते ।। ५१ ।।
ऐकात्म्यवस्तुयाथात्म्यमभिप्रेत्यात उत्तरः ।।
साक्षादित्यादिकः प्रश्नो यदेवेतिपुरः सरः ।। ५२ ।।
प्रत्याहैष त आत्मेति याज्ञवल्क्योऽपि पूर्ववत् ।।
संभाव्यते यतोऽत्रैव साक्षादित्यादिलक्षणम् ।। ५३ ।।
निःशेषनिर्णयोक्तीच्छुः कहोलोऽप्याह पूर्ववत् ।।
कतमो याज्ञवल्क्येति स तं प्रत्याह शुद्धधीः ।। ५४ ।।
योऽशनायापिपासादीन्धर्मान्सर्वान्विरोधतः ।।
अतीत्य वस्तुवृत्तेन स्वमहिम्नि व्यवस्थितः ।। ५५ ।।
अशनायापिपासे यस्तद्धेतोरत्ययात्सदा ।।
अत्येति वस्तुवृत्तेन स साक्षादिति गृह्यताम् ।। ५६ ।।
शोकादासङ्गबीजाद्धि जज्ञाते ते यथोदिते ।।
इच्छाविशेषास्ताभ्यां च जज्ञिरेऽन्ये सहस्रशः ।। ५७ ।।
आत्माऽत्येतीति संबन्धो योऽशनायादिलक्षणान् ।।
क्रियार्थोऽत्येतिशब्दश्चेन्न क्रियार्थो विवक्षितः ।। ५८ ।।
औष्ण्यं शैत्यं यथाऽत्येति वस्तुवृत्तेन सर्वदा ।।
गार्ताद्यत्ययवत्त्वत्र न मानादुपपद्यते ।। ५९ ।।
अशनायापिपासे द्वे एव नात्येति केवले ।।
शोकश्च यस्तयोर्बीजं तमप्येषोऽतिवर्तते ।। ६० ।।
शोकोऽत्रारतिमात्रं स्याच्चेतसो याऽनवस्थितिः ।।
मोहं चात्येति वैचित्यं विषयापहृतिं धियः ।। ६१ ।।
स्वतोऽनानात्मकेऽज्ञानाद्यन्नानात्मसमीक्षणम् ।।
मिथ्याज्ञानमनात्माभं मोह इत्युपदिश्यते ।। ६२ ।।
सर्वग्रःप्राणधर्मत्वादशनायापिपासयोः ।।
समासेनाभिधानं स्याद्यदि वा शोककार्यतः ।। ६३ ।।
असमासेन निर्देशो भिन्नकार्यत्वकारणात् ।।
प्रवृत्तिररतेः कार्यं मोहस्यानर्थसंप्लुतिः ।। ६४ ।।
जरेति परिणामः स्याद्वलीपलितलक्षणः ।।
देहस्य मृत्युर्विच्छेदो वियोगो देहलिङ्गयोः ।। ६५ ।।
प्राणाधिकरणे पूर्वे शोकमोहौ मनोगती ।
जरामृत्यू तु देहस्य धर्माविति विनिश्चयः ।। ६६ ।।
अशनायादिसंबन्धो नाऽऽत्मनो वास्तवो मतः ।।
अनिर्मोक्षप्रसक्तिः स्यात्तस्य चासङ्गरूपतः ।। ६७ ।।
यत एवमतः प्रत्यग्याथात्म्यानवबोधतः ।।
अशनायादिसंबन्धः सम्यग्बोधादतो हनुतिः ।। ६८ ।।
यः स्वकारणसंसर्गः कार्याणामत्ययो भवेत् ।।
अनात्यन्तिकरूपत्वादत्ययोऽसौ न गृह्यते ।। ६९ ।।
तत्कारणनिषेधो यः स्वमहिम्नैव वस्तुनः ।।
तमत्ययं मोक्षविधौ तद्विद्वांसः प्रचक्षते ।। ७० ।।
अशनायापिपासाभ्यां तस्मात्तत्कारणग्रहः ।।
संवर्गात्मातिवर्तित्वात्तत्कार्यातिगतिस्ततः ।। ७१ ।।
मृत्युनैवेत्युपक्रम्य तथाच श्रुतिरब्रवीत् ।।
लक्षणं ह्यशनायेति प्राणमृत्युप्रबुद्धये ।। ७२ ।।
अविचारितसंसिद्धप्रत्यगज्ञानलक्षणम् ।।
अशनायापिपासादिधर्मिणं प्राहुरीश्वरम् ।। ७३ ।।
तत्प्रत्यगात्मयाथात्म्यभास्वज्ज्ञानोदयात्तमः ।।
प्रध्वस्याऽऽत्माऽयमत्येति तदुत्थं वस्तुवृत्ततः ।। ७४ ।।
आत्माऽसामान्यचैतन्यरूपोत्थेनाऽऽत्मगं तमः ।।
जग्ध्वा मानेन निःशेषं प्रत्यङ् पूर्णोऽवशिष्यते ।। ७५ ।।
यस्मादेष स्वतो बुद्धो निरविद्यः स्वतस्ततः ।।
शुद्धश्चातोऽद्वितीयत्वात्प्रत्यङ्भुक्तः स्वतस्ततः ।। ७६ ।।
एवं ध्वस्तात्ममोहस्य कुतोऽविद्योत्थवस्तुभिः ।।
प्रतीचोऽस्त्यभिसंबन्धो ह्यशनायादिलक्षणैः ।। ७७ ।।
यथा विशुद्धमाकाशं सति वाऽसति वा मले ।।
नीहारादौ तथैवाऽऽत्मा कार्यकारणवस्तुनि ।। ७८ ।।
प्रत्याग्याथात्म्यदृष्ट्याऽऽत्मा कारणं स्वतमोवधि ।।
बाधित्वाऽज्ञानसंसारौ यात्यपूर्वादिरूपताम् ।। ७९ ।।
शोकमोहावतः स्यातां सूत्रकार्योपलक्षणम् ।।
जरामृत्यू विराजश्च सर्वकार्योपसंहृतिः ।। ८० ।।
अध्यात्माद्यधियज्ञादेराधिदैवतरूपता ।।
पुरुक्तोऽर्थवती चैवं सति सर्वा भवेद्ध्रुवम् ।। ८१ ।।
सर्वाण्युपासनान्येवं ब्रह्मविद्याभिसंगतेः ।।
विद्याधिकार उक्तत्वादर्थवन्तीति निश्चितिः ।। ८२ ।।
प्रतीचोऽसङ्गयाथात्म्यान्मोहादेश्चाप्यवस्तुतः ।।
प्रत्यङ्भात्रावशेषत्वात्कुतः षष्ठ्यर्थसंभवः ।। ८३ ।।
हेतुहेतुमदुक्त्यैतद्व्याख्येयं त्रयमात्मनि ।।
आनन्दवद्वा शङ्क्योक्तिर्योऽशनायेतिपूर्विका ।। ८४ ।।
स्वाभाविकत्वं मा प्रापच्छोकादेरात्मसौख्यवत् ।।
यस्मिन्सत्येव यत्सत्स्यात्तस्मिंस्त्वसति तन्न सत् ।। ८५ ।।
अशनायादिकास्तस्मात्कार्यकारणलक्षणान् ।।
तद्विरुद्धात्मविज्ञानाद् ध्वंसित्वाऽऽत्मैकलो भवेत् ।। ८६ ।।
परमात्मस्वभावोऽयं स्वयं श्रुत्या प्रपञ्चितः ।।
एतमेव तमात्मानं विदित्वोक्तेेन वर्त्मना ।।
व्युत्थाय ब्राह्मणा यत्नाद्भिक्षाचर्यं चरन्ति हि ।। ८७ ।।
अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः ।।
न संन्यासविधिर्यस्माच्छ्रुतौ क्षत्र्रियवैश्ययोः ।। ८८ ।।
त्रयाणामविशेषेण संन्यासः श्रूयते श्रूतौ ।।
यदोपलक्षणार्थं स्याद्ब्राह्मणग्रहणं तदा ।। ८९ ।।
कर्माधिकारविच्छेदि ज्ञानं चेदभ्युपेयते ।।
कुतोऽधिकारनियमो व्युत्थाने क्रियते बलात् ।। ९० ।।
प्रत्यग्याथात्म्यविज्ञानस्वभावश्चेत्समर्थ्यते ।।
व्युत्थानं यस्य यस्य स्यात्स स व्युत्थातुमर्हति ।। ९१ ।।
एवं चेद्ब्राह्मणोक्तिः स्याद्ध्वस्ताविद्यगृहीतये ।।
स ब्राह्मण इति स्पष्टं श्रुतिरन्ते च वक्ष्यति ।। ९२ ।।
प्राणस्वान्ततनूधर्मा अशनायादिलक्षणाः ।।
य एते सर्वभूतेषु वर्तन्तेऽम्भःप्रवाहवत् ।। ९३ ।।
संसारोऽनर्थ इत्येष प्रत्यङ्भोहैकहेतुकः ।।
यतो बिभ्यति भूतानि परोत्कर्षगतान्यपि ।। ९४ ।।
कारणं प्रत्यगज्ञानं कार्यं संसार उच्यते ।।
तद्विरुद्धात्मकः प्रत्यङ्ब्रह्यापूर्वादिवाक्यतः ।। ९५ ।।
एतं तमिति वाक्येन दृष्ट्यादेः साक्षिणं श्रुतिः ।।
अनूद्यापेतदुःखेन साक्षात्संगतिमब्रवीत् ।। ९६ ।।
तं दृष्ट्यादिदृशं साक्षादात्मानं कल्पितात्मनाम् ।।
तमेतमिति विज्ञाय यथाव्याख्यातलक्षणम् ।। ९७ ।।
उषस्तोक्तो विशेष्योऽत्र कहोलोक्तो विशेषणम् ।।
एवं संसारविध्वस्तिस्तद्धेतोर्ज्ञानहानितः ।। ९८ ।।
घटाकाशो महाकाश इत्युक्तेः केवलं वियत् ।।
यथाऽधिगम्यते तद्वत्साक्षादित्यादिलक्षणः ।। ९९ ।।
भेदसंसर्गहीनोऽर्थस्तद्धेतुध्वंसवर्त्मना ।।
एतस्मादेव विज्ञेयो वाक्यान्नान्यप्रमाणतः ।। १०० ।।
साक्षादित्यादिकं सर्वमुषस्तप्रश्नगोचरः ।।
योऽशनायेति चात्रोक्तौ संभाव्यं तदशेषतः ।। १०१ ।।
सामान्यमात्रपत्युक्तेर्न यथापृष्टवस्तुधीः ।।
पूर्वत्राभूद्यथा साक्षादिति प्रत्युक्तितो मतिः ।। १०२ ।।
पौैर्वापर्यं यथायोगं कत्वान्तयोः पदयोर्द्वयोः ।।
पूर्वं यदि विदित्वेति तदा द्वेधा प्रकल्पनम् ।। १०३ ।।
ज्ञानस्वभावाद्व्युत्थानं ज्ञेयवस्तूपरोधतः ।।
व्युत्थाने चोदनापेक्षा नाधिकारोपमर्दतः ।। १०४ ।।
शाब्दी वा प्रतिपत्तिः स्याद् व्युत्थानादेः प्रयोजिका ।।
विध्यर्थो ह्यपि बाल्यादिस्तथोर्ध्वमपि दृश्यते ।। १०५ ।।
व्युत्थायाथ विदित्वेति पौर्वापर्यं यदेष्यते ।।
व्युत्थानसाधना विद्येत्ययमर्थो भवेत्तदा ।। १०६ ।।
विदित्वा कथमित्यस्य प्रत्युक्त्यर्था परा श्रुतिः ।।
तस्मादित्यादिका योज्या न्यासहेतुत्वसिद्धये ।। १०७ ।।
तस्मादेवंविदित्येवं तथाचोर्ध्वं प्रवक्ष्यति ।।
निःशेषकर्मसंन्यासं विद्यायाः साधनं श्रुतिः ।। १०८ ।।
संन्याससाधनं ज्ञानं निर्वक्त्यत्रापि च श्रुतिः ।।
यथा तथा पराश्चात्र श्रुतयः सन्ति कोटिशः ।। १०९ ।।
ज्ञानानुरोधिनी यद्वत्प्रवृत्तिः प्राणिनामिह ।।
तथेहापि श्रुतिर्वक्ति प्रत्यग्याथात्म्यवेदिनाम् ।। ११० ।।
पुत्रोत्पत्तिं समुद्धिश्य दारान्परिजिघृक्षति ।।
यतो दारार्थ उद्योगस्ततः पुत्रैषणोच्यते ।। १११ ।।
पुरुषार्थाय यन्नालं लब्धात्माऽपि कुठारवत् ।।
अप्रविश्य प्रयोगं तद्वित्तमित्युपदिश्यते ।। ११२ ।।
यत्त्वात्मलाभमात्रेण पुरुषार्थसमाप्तिकृत् ।।
व्युत्थानं तद्बलादेव न तु यत्स्याद्गवादिवत् ।। ११३ ।।
प्रत्यगज्ञानसंभूतकामोत्थं साधनात्मकम् ।।
देवतादिपरिज्ञानं मन्त्रवद्वित्तमुच्यते ।। ११४ ।।
नाऽऽत्मानं लभते कर्म यतो वित्तमृते ततः ।।
वित्तैषणेयं कर्मार्था न लोकार्थेति निश्चितिः ।। ११५ ।।
नित्यकर्मप्रसिद्ध्यर्थमतो वित्तमिहेष्यते ।।
न चेज्जामि भवेद्वाक्यं पृथग्लोकैषणाग्रहात् ।। ११६ ।।
लोकानुद्दिश्य यः कामस्तत्साधनसमाश्रयः ।।
लोकैषणेति तामाहुः काम्यकर्मार्थुमुद्यमम् ।। ११७ ।।
यतोऽसाधनसाध्यं तं प्रत्यगात्मानमात्मना ।।
साक्षादित्यादिनाऽज्ञासीद्विरुद्धं साध्यसाधनैः ।। ११८ ।।
साध्यसाधनरूपाभ्यस्तस्मादुक्तार्थवेदिनः ।।
व्युत्तिष्ठन्त्येषणाभ्यस्ते तद्विरुद्धात्मकत्वतः ।। ११९ ।।
अज्ञानकामजन्यत्वं वाङ्भनःकायकर्मणाम् ।।
सोऽकामयत इत्येवं पुराऽप्युक्तं तमस्विनः ।। १२० ।।
यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।।
प्रत्यग्ज्ञानोदयेऽतः स्यान्निवृत्तिः सर्वकर्मणाम् ।। १२१ ।।
जिज्ञासुरपि चैतस्य यथोक्तस्याऽऽत्मवस्तुनः ।।
सर्वैषणानिवृत्त्यैव तज्ज्ञानं समवाप्नुयात् ।। १२२ ।।
यस्तु त्यक्तुं न शक्नोति रागादिप्रबलत्वतः ।।
रागादिहेतुनाशार्थं कार्यं कर्मैव तेन तु ।। १२३ ।।
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।।
योगारूढस्य तस्यैव शमः कारणमुच्यते ।। १२४ ।।
न्याय्यां वृत्तिं समुल्लङ्घ्य तद्विरुद्धतया स्थितिः ।।
व्युत्थानमिति तामाहुर्व्युत्थानज्ञा महाधियः ।। १२५ ।।
सामन्तो व्युत्थितो राज्ञा विरोधेन व्यवस्थितौ ।।
व्युत्थानशब्दो लोकेऽपि प्रसिद्धोऽत्र तथैव सः ।। १२६ ।।
भिक्षया लक्ष्यते चर्या ह्याकिंचन्यैकसंश्रया ।।
अममापरिग्रहोक्तेर्निष्कर्मा मुनिरूच्यते ।। १२७ ।।
एषणा कामपर्यायः कामश्चाप्राप्तगोचरः ।।
अवाप्ताशेषकामेऽसौ भवंस्तन्मोहतो भवेत् ।। १२८ ।।
आनन्दैकस्वभावत्वान्नाऽऽत्मनः सुखकामिता ।।
विरोधात्सुखरूपस्य न दुःखेन समागमः ।। १२९ ।।
बुभुक्षादिनिषेधोऽयं तथाऽप्यात्मन उच्यते ।।
सर्वानर्थैकमूलस्य प्रत्यङ्भोहस्य हानये ।। १३० ।।
निरेषणैकयाथात्म्ये न यथावस्तुकामधीः ।।
निरेषणात्मसंबोधाद्बाध्यैवेयमतो भवेत् ।। १३१ ।।
फलार्थैषणयैकत्वप्रसिद्ध्यर्थमतः श्रुतिः ।।
प्रवक्तुमुपचक्राम पुत्रवित्तैषणैकताम् ।। १३२ ।।
यतो धनाभिलाषोऽयं कृतदारस्य सार्थकः ।।
पुत्रैषणाऽतोऽभिन्नैव ज्ञेया वित्तैषणात्मनः ।। १३३ ।।
साधनत्वाविशेषत्वात्पुत्रवित्तैषणात्मनोः ।।
एवं चैकत्वमनयोरिह व्याख्येयमादृतैः ।। १३४ ।।
साध्यैषणाप्रयुक्तत्वात्पुत्रवित्तैषणात्मनः ।।
एका लोकैषणैवेयं त्रिधाऽतो व्यपदिश्यते ।। १३५ ।।
स्वमहिम्नैव निष्पत्तिर्न विना साधनं यतः ।।
साध्यस्य साधनादानमतः साध्यानुरोधतः ।। १३६ ।।
अपास्ताशेषानर्थाप्तपुरुषार्थत्वतः स्वतः ।।
तन्मोहमात्रजे तस्मादेषणे प्रत्यगात्मनि ।। १३७ ।।
ब्रह्माज्ञानं यतो हेतुरेषणानां न वस्तुतः ।।
परमार्थविदां न स्युरेषणा या यथोदिताः ।। १३८ ।।
आप्ताशेषपुमर्थत्वान्नापेक्ष साधनं प्रति ।।
साध्यत्वेऽपि हि सिद्धस्य किंत्वसाध्यस्य वस्तुनः ।। १३९ ।।
सर्वोपाया निवर्तन्त उपेयावसितौ यतः ।।
चरितार्थत्वतोऽमीषां नापेक्षा सिद्धवस्तुनः ।। १४० ।।
अप्यज्ञातात्मयाथात्म्यो जिज्ञासुर्योऽत्र वस्तुनि ।।
सर्वकर्मपरित्यागो ज्ञानाप्त्यै तस्य साधनम् ।। १४१ ।।
तस्मादेवंविदित्यत्र श्रुतिः स्पष्टं यथोदितम् ।।
निःशेषकर्मसंन्यासं स्वयमेव प्रवक्ष्यति ।। १४२ ।।
प्रत्यग्याथात्म्यविज्ञानसाधनत्वप्रसिद्धये ।।
श्रुत्यन्तरेषु तद्वच्च सन्ति वाक्यान्यनेकशः ।। १४३ ।।
मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुर्नरान् ।।
प्रावर्तन्त ततो भीताः कर्मस्वज्ञाततत्त्वकाः ।। १४४ ।।
सर्वकर्माण्यतस्त्यक्त्वा प्रत्यक्प्रवणबुद्धयः ।।
मोहं भित्त्वाऽऽत्मसंबोधाद्ययुः कैवल्यमुत्तमम् ।। १४५ ।।
इति भाल्लविश्रुतिवचः सम्यग्ज्ञानस्य जन्मने ।।
संन्यासं साधनं वक्ति वाङ्भनःकायकर्मणाम् ।। १४६ ।।
पराञ्चि खानीति तथा पराक्प्रवणसाधनम् ।।
निषेधत्यात्मविज्ञाने मन्त्रवर्णोऽपि काठके ।। १४७ ।।
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।।
मन्त्रोऽपि चैकात्म्यविनिश्चयाय निःशेषकर्मोज्झितिमाह साक्षात् ।। १४८ ।।
ब्रह्मचर्यं समापय्य गृही तस्माद्भवेद्द्विजः ।।
गृहाश्रमं समाप्याथ वानप्रस्थं समापयेत् ।। १४९ ।।
यथोक्ताश्रमवासार्थं सामर्थ्यान्नियमो भवेत् ।।
एवं सति समर्थः स्यात्सर्वाश्रमसमुच्चयः ।। १५० ।।
वानप्रस्थाश्रमादूर्ध्वं प्रव्रजेदविचारयन् ।।
प्रत्यक्षश्रुतिमूलोऽयं सर्वाश्रमसमुच्चयः ।। १५१ ।।
कषायं पाचयित्वा च श्रेणीस्थानेषु च त्रिषु ।।
प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम् ।। १५२ ।।
इति व्यासस्मृतौ वाक्यं प्रत्यक्षश्रुतिबन्धनम् ।।
तथाऽन्यान्यपि विद्यन्ते वाक्यान्यत्र सहस्रशः ।। १५३ ।।
ब्रह्मचर्याश्रमादेव यदि वा प्रव्रजेद्दूिजः ।।
गृहाच्च प्रव्रजेत्तद्वत्प्रव्रजेच्च वनात्तथा ।। १५४ ।।
विकल्पेनैव व्याख्यात एकद्वित्रिसमुच्चयः ।।
कषायपक्तिमापेक्ष्य विकल्पोऽयं त्रिधोदितः ।। १५५ ।।
परीक्ष्य लोकानित्यादि तथाचाऽऽथर्वणे वचः ।।
विरक्तः कर्मभूमिभ्यो ज्ञानं प्रति नियुज्यते ।। १५६ ।।
सर्वकर्मपरित्यागात्संत्यक्ताशेषसाधनः ।।
श्रुत्युक्तोऽत्र परिव्राट् स्यादैकात्म्यज्ञानजन्मने ।। १५७ ।।
मुण्डोऽपरिग्रहश्चेति प्रत्यक्षश्रुतिवाक्यतः ।।
तद्विरुद्धं स्मृतेर्वाक्यं नापेक्ष्यं दुर्बलत्वतः ।। १५८ ।।
विगीता च विरुद्धा च दृष्टार्था दृष्टकारणा ।।
इति वेदविदाऽप्युक्तं तदप्रामाण्यकारणम् ।। १५९ ।।
क्रियमाणानि कर्माणि यथा स्युः फलसिद्धये ।।
तदक्रियोक्ता श्रुत्येह तथाऽऽत्मज्ञानजन्मने ।। १६० ।।
सत्यानृते सुखदुःखे वेदाल्लोँकदूयं तथा ।।
संन्यस्याऽऽत्मनमन्विच्छेदित्यदुष्टं स्मृतेर्वचः ।। १६१ ।।
त्यज धर्ममधर्मं च तथा सत्यानृते त्यज ।।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ।। १६२ ।।
नैष्कर्म्यसाधनेष्वेवं श्रुतयः स्मृतिभिः सह ।।
मुमुक्षुं विनियुञ्जन्ति सदाऽऽत्मज्ञानजन्मने ।। १६३ ।।
तथाऽनधिकृतानां च संन्यासस्य विधानतः ।।
काणकुब्जादिविषया न्यासक्लृप्तिरतोऽशुभा ।। १६४ ।।
सत्सु प्रत्यक्षविधिषु यथोक्तेष्वफलः श्रमः ।।
भिक्षाचर्यं चरन्तीतिविध्यर्थः क्रियते महान् ।। १६५ ।।
तिष्ठासेदिति चात्रापि प्रत्यक्षः श्रूयते विधिः ।।
तस्मिन्सति वृथा कस्माज्जनोऽयं परिखिद्यते ।। १६६ ।।
साध्यसाधनरूपाभ्यां विरुद्धं प्रत्यगीक्षणम् ।।
यतो यथोक्तं तत्सिद्धौ तस्मादेतद्विधीयते ।। १६७ ।।
व्युत्थायातो यथोक्ताभ्य एषणाभ्यो निरेषणः ।।
पाण्डित्यमथ निर्विद्य बाल्यं परिसमापेयत् ।। १६८ ।।
पदार्याधिगतिः पूर्वं ततस्तदभिसंगतिः ।।
विरुद्धार्थह्नुतिः पश्चात्ततो वाक्यार्थबोधनम् ।। १६९ ।।
एकैकश्येन नीत्वाऽथ निष्ठां पाण्डित्यलक्षणाम् ।।
बाल्यं चैव यथायोगमन्वयव्यतिरेकतः ।। १७० ।।
अद्वितीयार्थनिष्ठत्वमात्मप्रत्ययशब्दयोः ।।
तथाचाऽऽत्मैकनिष्ठत्वमद्वितीयस्य मानसः ।। १७१ ।।
ऐकार्थ्यान्नेह संसर्गस्तद्विरुद्धार्थयोरिव ।।
अशनायाद्यतिक्रान्तदृष्टिद्रष्टृपदार्थयोः ।। १७२ ।।
पण्डेति बुद्धिनामैतत्सा जाता यस्य मानतः ।।
तं पण्डितमिति प्राहुः सोऽत्र श्रुत्या नियुज्यते ।। १७३ ।।
यत्पण्डितस्य कर्म स्यात्तत्पाण्डित्यं प्रचक्षते ।।
अप्राप्ततत्त्वनिष्ठोऽतः पाण्डित्ये विनियुज्यते ।। १७४ ।।
शास्राचार्यात्मतो निष्ठां नीत्वाऽऽत्मप्रत्ययं यतिः ।।
तिष्ठासेदथं बाल्येन, कृत्स्नानात्मधियो ह्नुतिः ।। १७५ ।।
बाल्यशब्दाभिधेया स्यात्तां समापय्य शुद्धधीः ।।
मुनिभावं ततो त्गवा ब्रह्मव ब्राह्मणो भवेत् ।। १७६ ।।
निःशेषमात्मसंबोधं कुर्यादिति विधीयते ।।
तिष्ठासेदिति संबन्धः सर्वत्र विधिना भवेत् ।। १७७ ।।
प्राणेन प्राणितीत्युक्तो दृष्टेर्द्रष्टेति चोदितः ।।
स आत्माऽनुभवात्सिद्ध आ देहादा परात्मनः ।। १७८ ।।
अस्य प्रत्यक्पदार्थस्य ह्या समाप्तेर्विधीयते ।।
धीः पाण्डित्यगिरा साक्षादन्वयव्यतिरेकतः ।। १७९ ।।
तथैव योऽशनायेति परमात्माऽपि शब्दितः ।।
तस्य निष्ठाविधानार्थं बाल्येनेति परं वचः ।। १८० ।।
नान्यत्रेहाद्वितीयार्थात्साक्षादात्मार्थसंभवः ।।
इत्यर्थोऽत्र विधेयः स्यादन्वयव्यतिरेकतः ।। १८१ ।।
अद्वितीयपदार्थस्य तथा नैवाऽऽत्मनोऽन्यतः ।।
संभवोऽस्तीतिविध्यर्थस्तिष्टासेदिति भण्यते ।। १८२ ।।
विशेषणविशेष्यत्वसंबन्धोऽथ पदार्थयोः ।।
विरुद्धार्थनिवृत्त्याऽत्र मुनिरित्यभिधीयते ।। १८३ ।।
ब्रह्मात्मनोरसंसर्गस्तद्विरुद्धार्थयोरिव ।।
पदार्थैकत्वतो भेदो ध्वान्तध्वस्तौ निवर्तते ।। १८४ ।।
सामानाधिकरण्यं च विशेषणविशेष्यता ।।
लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनाम् ।। १८५ ।।
सामानाधिकरण्यादेर्घटेतरखयोरिव ।।
व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः ।। १८६ ।।
चिदज्ञानैकहेतुत्वाद्धातव्यानां चिदात्मनि ।।
मोहध्वस्तौ प्रतीचोऽन्यो नातोऽर्थोऽत्रावशिष्यते ।। १८७ ।।
आत्मधीविषयं नैति तदज्ञानैककारणः ।।
अनात्ममानमेयोऽर्थो यतोऽतः केवलात्मता ।। १८८ ।।
समाप्यामौनमखिलं बाल्यपाण्डित्यलक्षणम् ।।
निर्विद्य च तथा मौनं पदार्थद्वयसंगतिम् ।। १८९ ।।
अथ ब्राह्मण इत्युक्त्या फलावस्थाऽस्य भण्यते ।।
भेदसंसर्गहीनोऽर्थः स्वमहिम्नि व्यवस्थितः ।।
साक्षादित्यादिरूपोऽथ ब्रह्म ब्राह्मण उच्यते ।। १९० ।।
इमामवस्थां संप्राप्य सर्वो ब्राह्मण उच्यते ।।
ब्राह्मण्यं गौणमन्यत्र पूर्वभूमिषु नाञ्जसा ।। १९१ ।।
केनाथ ब्राह्मणः स स्यादिति प्रश्नमपृच्छत ।।
उक्तोपायातिरेकेण पृच्छयते साधनान्तरम् ।। १९२ ।।
यज्ञादिलक्षणं तावत्पारंपर्येण साधनम् ।।
निर्ज्ञातमागमात्तस्मात्पृच्छ्यते साधनान्तरम् ।। १९३ ।।
चतुर्णां कतमेनेति न तु प्रश्नोऽत्र युज्यते ।।
कैवल्याश्रममादाय ब्राह्मण्यस्य समाप्तितः ।। १९४ ।।
न चाऽऽश्रमान्तरं युक्तं मुर्नर्व्युत्थायिनः सतः ।।
कृतार्थस्याकृतार्थस्य तस्य नैवाऽऽश्रमान्तरम् ।। १९५ ।।
प्रश्नोऽयं साधनज्ञप्त्यै ब्राह्मणस्येह पृच्छ्यते ।
किंसाधनो ब्राह्मणः स्यादिति साधनमुच्यताम् ।। १९६ ।।
प्रश्नप्रतिवचस्तेन ब्राह्मणः स्याद्यथोदितः ।।
येनानवाप्तज्ञानोऽपि भवेदीदृश एव ना ।। १९७ ।।
उक्तब्राह्मणसादृश्यं सर्वकर्मनिरासतः ।।
नैष्कर्म्यसाधनेनैव ब्राह्मणः स्याद्यथोदितः ।। १९८ ।।
इत्येषोऽर्थो विधेयोऽत्र येनेति वचसा श्रुतेः ।।
स्मृतयोऽपीममेवार्थं तत्र तत्र प्रचक्षते ।। १९९ ।।
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ।। २०० ।।
इमौ द्वावेव पान्थानौ कर्मतत्त्यागलक्षणौ ।।
सजातीयाद्विनिष्क्रान्तावनुक्रान्ततराविमौ ।। २०१ ।।
संन्यास एव ताभ्यां च विशेषेणातिवर्तते ।।
तथा किं प्रजयेत्यादिः पन्थाः कर्मत्यजां श्रुतः ।। २०२ ।।
ब्रह्मचर्याश्रमादेव प्रव्रजेदिति भूरिशः ।।
संन्यासमेव ब्रुवते मुक्तये सर्वकर्मणाम् ।। २०३ ।।
श्रुतयः स्मृतयश्चोच्चैः शुद्धन्यायसमाश्रयात् ।।
सर्वकर्मनिरासेन ब्राह्मण्यं लभते ततः ।। २०४ ।।
केनेति यदि वाऽऽक्षेप उत्पत्त्यादेरसंभवात् ।।
साधनानामिहैकात्म्ये तथाच प्रागवादिषम् ।। २०५ ।।
साधनेनैतदैकात्म्यं येन येन चिकीर्ष्यते ।।
तेन तेनेदृगेवाऽऽत्मा नातिशीतिर्मनागपि ।। २०६ ।।
अथवा लक्षणोक्तिः स्याद्यथोक्तब्रह्मवेदिनः ।।
येनेदृगेव चिह्नेन ब्राह्मणस्तेन लक्ष्यताम् ।। २०७ ।।
देहेन्द्रियमनोबुद्धिधर्मानेषोऽत्यवर्तत ।।
प्रत्यगैकात्म्यसंबोधात्तद्धर्मैर्लक्ष्यते कथम् ।। २०८ ।।
सर्वसंसारभावोऽस्य न यथा लक्षणं तथा ।।
सर्वाभावोऽपि नैव स्याल्लक्षणं ब्रह्मवेदिनः ।। २०९ ।।
वेद्यानुरोधतो यस्मात्तद्विदो न्यायलक्षणम् ।।
भावाभावद्वयध्वंसि ब्रह्म वेद्यं च तद्विदः ।। २१० ।।
येनेदृगेव तेनेति तस्मादाह श्रुतिः स्फुटम् ।।
मुमुक्षोर्लक्षणं तादृक्श्रद्दधाना यदब्रुवन् ।। २११ ।।
सुषुप्तेऽप्यतिमूढस्य सर्वसंसारनिहनुतिः ।।
गम्यते लक्षणं तादृङ्न चासौ ब्रह्मविन्मतः ।। २१२ ।।
आत्मनो ब्रह्मतेहोक्ता न त्वनात्मन ईरिता ।।
यथोक्तज्ञानतो ध्वस्तिरार्तश्रुत्याऽतं उच्यते ।। २१३ ।।
अतो ब्राह्मण्यतोऽन्यद्यत्क्रियाकारकलक्षणम् ।।
आर्तं विनाशि तज्ज्ञेयं ब्रह्मानार्तं यतस्ततः ।। २१४ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य पञ्चमं कहोलब्राह्मणम्
यः सर्वान्तर इत्युक्तस्तन्निर्णयविवक्षया ।।
आ शाकल्यात्परो ग्रन्थ इतो व्याख्यायतेऽधुना ।। १ ।।
विशेषणस्य सर्वस्य साक्षादित्यादिकस्य च ।।
सर्वोन्तरविनिर्णीतौ निर्णयः स्यात्कथं न्विति ।। २ ।।
अशनायाद्यतिक्रान्त्या प्रश्नार्थाविष्कृतिः कृता ।।
न सम्यगिति मन्वाना गार्ग्यपृच्छदतः पुनः ।। ३ ।।
क्षित्यादेर्वियदन्तस्य यावन्नैकात्म्यमुच्यते ।।
निर्णीतार्थो न तावत्स्यात्प्रश्नः साक्षादितीरितः ।। ४ ।।
बुभुक्षाद्येकदेहस्थनिषेधादनिषेधतः ।।
क्षित्यादेर्वियदन्तस्य नातः प्रश्नार्थनिर्णयः ।। ५ ।।
य एते पार्थिवा भावा लोष्टकुम्भादयो मताः ।।
तेषामन्तर्बहिर्व्याप्तिः पृथिव्यैवेह लक्ष्यते ।। ६ ।।
यथैव पार्थिवा भावाः पृथिव्यैवं धरित्र्यपि ।।
अद्भिरन्तर्बहिश्चेयं व्याप्तैवेह समीक्ष्यते ।। ७ ।।
एवं दृष्टं यतस्तस्माद्गार्गी पप्रच्छ लिङ्गतः ।।
प्रश्नं यदिदमित्येवं याज्ञवल्क्यं महाधियम् ।। ८ ।।
ओतप्रोतात्मना कार्यं येन येन समाप्लुतम् ।।
तस्य तस्यान्यसंव्याप्तिर्दृष्टा लोके क्षितेर्यथा ।। ९ ।।
अद्भिश्चेयं क्षितिर्व्याप्ता तस्मात्तसामपीष्यते ।।
अन्येन केनचिद्व्याप्तिर्व्यापकत्वाद्यथा भुवः ।। १० ।।
प्रत्युक्तिर्गार्गि वायावित्येवमेवोत्तरेष्वपि ।।
वाक्येषु प्रतिपत्तव्या प्रत्युक्तिप्रश्नयोर्गतिः ।। ११ ।।
पार्थिवाप्यौ समाश्रित्य तेजोऽभिव्यज्यते यतः ।।
धातू न तु स्वतन्त्रं सन्नावदत्तेजसीत्यतः ।। १२ ।।
सूक्ष्मताव्यापिते ज्ञेये भूम्यादेरुत्तरोत्तरम् ।।
अक्षरात्मावसानानां पूर्वपूर्वप्रहाणतः ।। १३ ।।
आरम्भकबहुत्वाच्च बहूक्तिरिह गृह्यते ।।
आत्मनोऽन्यद्यतः सर्वं पञ्चभूतात्मकं विदुः ।। १४ ।।
द्वात्रिंशद्गुणितो मार्गो रथगत्या विवस्वतः ।।
य उक्तस्तस्य संस्थित्या तस्थुरिन्द्रान्तदेवताः ।। १५ ।।
स्थूलसूक्ष्मात्मना सर्वास्तारतम्येन संस्थिताः ।।
व्याप्यव्यापितयाऽन्योन्यं सर्वतःपरिमण्डलाः ।। १६ ।।
प्रजापतिर्विराडत्र योऽण्डस्यान्तर्व्यवस्थितः ।।
ओतप्रोतानि तत्त्वानि तेन पूर्वाणि सर्वशः ।। १७ ।।
तस्योतप्रोतभावोऽयं ब्रह्मलोकेषु भण्यते ।।
अण्डारम्भकभूतानां ब्रह्मलोकाभिधेष्यते ।। १८ ।।
तदेतल्लोकनिर्माणमोतप्रोतात्मनोदितम् ।।
अण्डान्तमेव व्याख्यातं किमन्यदवशिष्यते ।। १९ ।।
समष्टिव्यष्टिभावेन वायुः सर्वाश्रयः पुरा ।।
व्याख्यातो यः स वक्तव्यस्तदर्थः प्रश्न उत्तरः ।। २० ।।
ओतोः प्रोताश्च कस्मिन्नु ब्रह्मलोका इतीर्यताम् ।।
इति पृष्टोऽब्रवीद्रार्गि माऽतिप्राक्षीः कथंचन ।। २१ ।।
माऽतीत्य प्रश्नविषयं गार्गि प्राक्षीः कथंचन ।।
मा ते मूर्धा व्यपप्तेति त्वामहं वारयाम्यतः ।। २२ ।।
उचितोऽस्या भवेत्प्रश्नो देवता येन पृच्छ्यते ।।
वर्तते यस्तमुल्लङ्घ्य सोऽतिप्रश्नोऽनुमोच्यते ।। २३ ।।
या तमर्हति पूर्वोक्ता साऽतिप्रश्न्येह देवता ।।
तदन्यत्वादिमां त्वाहुरनतिप्रश्न्यनामिकाम् ।। २४ ।।
तामेतामनतिप्राशन्यामतिप्रश्नेन साहसात् ।।
पृच्छन्त्या मूर्धपातस्ते स्यादेव स्वापराधतः ।। २५ ।।
स्थूलान्यनुमया युक्तं प्रष्टुं तत्त्वानि कामतः ।।
इयं तु न तथा स्थूला यां त्वं पृच्छसि देवताम् ।। २६ ।।
अचिन्त्या चाप्रतर्क्या च प्राणभावेन च स्थिता ।।
नातोऽन्येन प्रमाणेन प्रष्टव्या देवताऽऽगमात् ।। २७ ।।
एतस्मादेव हेतोस्तां तर्कशास्त्रेषु तार्किका ।।
नैवानुमिन्वते त्रासात्पृथिव्यादीन्यथा तथा ।। २८ ।।
प्राणोऽयमनिरुक्तो हि कस्तं निर्वक्तुमर्हति ।।
मानान्तरेणाऽऽगमतो मा प्राक्षीरित्यतो वचः ।। २९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिक तृतीयाध्यायस्य षष्ठं गार्गिब्राह्मणम्
यत्पिपृच्छिषितं गार्ग्या समष्टिव्यष्टिलक्षणम् ।।
लिङ्गेनोद्दालकः सूत्रं तदपृच्छदथाऽऽगमात् ।। १ ।।
तथा च तन्नियन्तारं जगज्जन्मादिकारणम् ।।
आगमाद्गौतमोऽप्राक्षीद्याज्ञवल्क्यमुदारधीः ।। २ ।।
सूत्राद्यागमसंप्राप्तिं सोऽथाऽऽख्यानैकवर्त्मना ।।
व्याचख्यौ गौतमः साक्षाद्गन्धर्वाल्लब्धवानिति ।। ३ ।।
ब्रह्मेह परमात्मोक्तो लोका भूरादयस्तथा ।।
देवास्त्वग्न्यादयो ज्ञेया वेदाश्चैव प्रसिद्धितः ।। ४ ।।
ब्रह्मादीनि च भूतानि ग्रथितान्यक्षसूत्रवत् ।।
सूत्रेण धियमाणानि सदैवेशयतानि च ।। ५ ।।
सूत्रेण विधृतं चान्तर्यामिणा संयतं तथा ।।
आत्मानं वेद भोक्तारं, वेद सर्वं जगत्तथा ।। ६ ।।
सूत्रान्तर्यामिरूपेण यो वेदैतान्पुरोदितान् ।।
स एव ब्रह्मलोकान्तान्वेदेत्येषोऽस्य संग्रहः ।। ७ ।।
अभ्यन्तरतमं सूत्रं ब्रह्मलोकावधेरपि ।।
सूक्ष्मं हि तदतीवोक्तं सर्वसत्त्वसमाश्रयम् ।। ८ ।।
सर्वसाधारणं कर्म यदभिव्य़क्तमिष्यते ।।
वाय्वात्मना परिच्छिन्नं तदास्ते कारणात्मनि ।। ९ ।।
नाऽऽत्मानं लभते कर्म यतोऽसंश्रित्य साधनम् ।।
वाय्वाश्रितमतः कर्म स्वरूपं प्रतिपद्यते ।। १० ।।
साधारणस्य यो वायुर्विशिष्टस्य च धारकः ।।
समष्टिव्यष्टिभावेन कर्मणः सर्वदेष्यते ।। ११ ।।
तं वायुं तच्च कर्मेह य उपेत्य व्यवस्थितः ।।
वायुकर्माभिमानी सन्पुमान्वायुः स उच्यते ।। १२ ।।
स एष वायुः सूत्रात्मा देवाः सर्वाश्रयः प्रभुः ।।
देवतालिङ्गकर्मादि सर्वमत्रैव संश्रितम् ।। १३ ।।
अनेन विधृतं जन्म वायुनेदं शरीरकम् ।।
यच्चोत्पित्सु परं जन्म धृतं तदपि वायुना ।। १४ ।।
विष्टम्भकं पृथिव्यादेः सूक्ष्ममाकाशवत्स्थितम् ।।
यदात्मकमिदं लिङ्गं यत्सप्तदशमुच्यते ।। १५ ।।
यस्याऽऽवहादयो भेदाः सागरस्योर्मयो यथा ।।
वासनानां च सर्वासामाश्रयो यस्तु कथ्यते ।। १६ ।।
यत एवमयं लोकः परश्चायं च सर्वतः ।।
भूतानि चैव सर्वाणि वायुना ग्रथितान्यतः ।। १७ ।।
तस्यापसर्पणेऽङ्गानि नालं स्युः कर्मणे मृतौ ।।
इत्यर्थे लोकसंसिद्धा प्रसिद्धिं श्रुतिरब्रवीत् ।। १८ ।।
वायुनैव धृताङ्गानीत्यत्र लोकेऽपि विद्यते ।।
प्रसिद्धिरिति तामाह तस्मादित्येवमादिना ।। १९ ।।
वायुनैव धृतं यस्माल्लिङ्गदेहादिकं ततः ।।
ज्ञातयः पुरुषं प्रेतमाहुः कार्यं मृतेरिदम् ।। २० ।।
यथाऽस्याङ्गानि लक्ष्यन्ते विस्रस्तानि न पूर्ववत् ।।
मृतमेनं तथा मन्ये नेदृक्चिह्नं मृतिं विना ।। २१ ।।
वायुनैव यथाऽङ्गानि संदृब्धानि यदा तदा ।।
कर्मण्यानि भवन्त्यस्य न तु तानि तथा यतः ।। २२ ।।
तस्मात्प्रवसितप्राणो मृतोऽयं नात्र संशयः ।।
यथोक्तसूत्रसद्भावे प्रसिद्धिर्गौतमेदृशी ।। २३ ।।
सम्यगुक्तमिदं सूत्रं याज्ञवल्क्य यथा तथा ।।
तदन्तर्गतमात्मानं ब्रूह्यन्तर्यामिणं मम ।। २४ ।।
सूत्रादप्यन्तरतमस्त्वन्तर्याम्यधुनोच्यते ।।
कार्यकारणभावोऽयं यस्मिन्नुक्ते समाप्यते ।। २५ ।।
तिष्ठन्पृथिव्यां योऽत्र स्यात्सोऽन्तर्यामीति गृह्यताम् ।।
इत्युक्तावतिसंव्याप्तिप्रसक्तावुत्तरं वचः ।। २६ ।।
अन्तरो यः पृथिव्याः स्यात्क्षितेरभ्यन्तरो हि यः ।। २७ ।।
पृथिवी देवता तर्हि त्वदुक्तार्थसमन्वयात् ।।
इतिदोषापनुत्त्यर्थं यं न वेदेति भण्यते ।। २८ ।।