अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ तृतीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ (३)

सूत्रेण ध्रियमाणेयं महाभूतशरीरिणी ।।
अहमस्मि पृथिव्येका बिभर्मि जगदव्ययम् ।।
इत्येवमभिमाना या नान्तर्यामीति सोच्यते ।। २९ ।।

पृथिव्यपि च यं देवं न वेद स्वात्मनि स्तितम् ।।
सोऽन्तर्यामीति मन्तव्यो न त्वियं देवता क्षितिः ।। ३० ।।

क्षितौ करणवत्यां किमन्योऽपि करणादिमान् ।।
नैवं यतः पृथिव्येव शरीरं यस्य नापरम् ।। ३१ ।।

क्ष्माका­र्य­क­र­णे­नैव कार्यवान्करणी च यः ।।
न कार्यं करणं चास्य किंचि­दा­त्मी­य­मि­ष्यते ।। ३२ ।।

अन्तर्यामी परः साक्षा­द­श­री­रोऽ­गु­णोऽ­द्वयः ।।
विलक्षणोऽतो विज्ञेयः पृथि­वी­दे­व­ता­त्मनः ।। ३३ ।।

स्वकार्यभूतां तामेव पृथिवीं मोहवर्त्मना ।।
तत्र लब्धविशेषः संस्तामेवायं नियच्छति ।। ३४ ।।

अदाहकोऽपि वह्निः सन्दा­ह्य­द्र­व्य­स­मा­श्र­यात् ।।
तत्र लब्धात्मकस्तस्य दग्धा दाह्यस्य न स्वतः ।। ३५ ।।

यथा ज्ञातै­व­मे­वाऽऽत्मा देव­ता­द्या­त्म­का­र्यगः ।।
देव­ता­दि­श­री­रा­द्यै­र्दे­व­ता­दी­न्नि­य­च्छति ।। ३६ ।।

स्वत­स्त्व­क­र­णोऽ­देहो निर्गुणोऽभेद एव च ।।
चिदा­भा­स­स्व­मो­हो­त्थ­का­र्यै­स्त­द्वा­नि­वे­क्ष्यते ।। ३७ ।।

चतुर्धा प्रविभज्यैनं सात्वताः पर्युपासते ।।
तथा हैर­ण्य­ग­र्भी­या­स्तथा पाशुपतादयः ।। ३८ ।।

कृष्णद्वैयपनो व्यासो वेदात्मा ध्वान्तहानिकृत् ।।
प्राहेममेव बहुशः प्राणिनां हितकाम्यया ।। ३९ ।।

नारीयणः परोऽ­व्य­क्ता­द­ण्ड­म­व्य­क्त­सं­भ­वम् ।।
अण्ड­स्या­न्त­स्त्विमे लोकाः सप्तद्वीपा च मेदिनी ।। ४० ।।

तस्मै नमोऽस्तु देवाय निर्गुणाय गुणात्मने ।।
नारायणाय विश्वाय देवानां परमात्मने ।। ४१ ।।

एतमेव समुद्दिश्य मन्त्रो नारायणस्तथा ।।
वेद­वि­द्भि­र्म­हा­प्राज्ञैः पुरु­षै­र्वि­नि­यु­ज्यते ।। ४२ ।।

प्रत्य­ग्ध्वान्तं चिदाभासं स्वका­र्य­नि­य­मा­त्म­कम् ।।
तदु­पा­धि­र्नि­य­न्तैष परः प्रोक्तो न तु स्वतः ।। ४३ ।।

सर्वज्ञः सर्वशक्तिश्च सर्वात्मा सर्वगो ध्रुवः ।।
जग­ज्ज­नि­स्थि­ति­ध्वं­स­हे­तु­रेष सदेश्वरः ।। ४४ ।।

स एषोऽभ्यन्तरो देवः सर्वकारणकारणः ।।
नियच्छति क्षितिं देवीं सर्वावस्थासु सर्वदा ।। ४५ ।।

तेजः सामान्यमात्रं स्यात्त­दा­धि­ष्ठा­तृ­दे­वता ।।
एवं तमस्यपि ज्ञेयं क्षेत्र­ज्ञ­श्चाऽऽ­त्म­सं­ज्ञितः ।। ४६ ।।

देव­ता­स्था­न­क­र­ण­त्रयं प्राणगिरोच्यते ।।
नियच्छति यतो गन्धे त्रय­म­प्ये­त­दी­श्वरः ।। ४७ ।।

पृथिवी यं न वेदेति यदुक्तं तस्य निर्णयः ।।
अदृष्टोऽश्रुत इत्युक्त्या क्रियते ज्ञानशुद्धये ।। ४८ ।।

द्रष्टृ­द­र्श­न­दृ­श्यानां प्रत्य­ग्दृ­ष्टि­स­मी­क्षणे ।।
जाड्य­पा­रा­र्थ्य­हे­तुभ्यां शक्तिर्नास्ति मनागपि ।। ४९ ।।

न द्र्ष्ट्रोर्दृ­श्य­यो­र्नापि तथा दर्शनयोर्मिथः ।।
ग्राह्य­ग्रा­ह­क­सं­ब­न्ध­स्त­त्साक्षी न च वीक्ष्यते ।। ५० ।।

रूपा­दि­द­र्श­ना­न्तस्थ आग­मा­पा­य­सा­क्ष्यसौ ।।
नित्या­त्म­दृ­ष्टि­श्चि­न्मात्रः पश्येत्तं पृथिवी कथम् ।। ५१ ।।

मागो­च­रा­ति­व­र्ति­त्वा­द­सा­धा­र­ण­दृ­ष्टितः ।।
द्रष्टुरन्यस्य चाभावान्न तं पश्यन्ति देवताः ।। ५२ ।।

दृष्टे­र्द्र­ष्टा­र­मि­त्यत्र यः साक्षी प्रागुदाहृतः ।।
अन्तर्यामीति सोऽत्रापि नातोऽ­न्योऽ­स्तीति भण्यते ।। ५३ ।।

बुद्ध्यन्तः पर एवाऽऽत्मा विज्ञानात्मेति भण्यते ।।
बुद्ध्या­ग­मा­पा­य­साक्षी नियन्तैवोच्यते परः ।। ५४ ।।

अव्या­वृ­त्ता­न­नु­गतः पूर्णः स्वात्म­न्य­व­स्थितः ।।
संसा­र­हे­त्व­सं­बन्धः सर्वो ब्रह्मेति भण्यते ।। ५५ ।।

कार्यकारणरूपस्य संसारस्य मृषात्मनः ।।
अपू­र्वा­न­प­रा­न­न्त­तत्त्वं ब्रह्मैव वाक्यतः ।। ५६ ।।

पृथिव्यादेश्च द्रष्टृत्वं तथाऽन्तर्यामिणः श्रुतम् ।।
दृष्ट्वभेदः प्रसक्तोऽतो नान्योऽ­तोऽ­स्तीति भण्यते ।। ५७ ।।

एष एवैकलो द्रष्टा कार­का­दि­वि­व­र्जितः ।।
संभाव्यते तद­ज्ञा­न­का­र्य­मा­त्र­स्त­म­स्विभिः ।। ५८ ।।

मां प्रत्येवैतीह यथाऽसाधारण्येन भास्करम् ।।
संभावयन्ति द्रष्टा­र­स्त­थाऽ­ज्ञा­स्त­द­बो­धजैः ।। ५९ ।।

दृष्टिरेकैव सर्वत्र सर्वा­ना­त्म­वि­ल­क्षणा ।।
आभाति बहुधैवेयं तद­वि­द्यो­त्थ­हे­तुभिः ।। ६० ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयाध्यायस्य सप्त­म­म­न्त­र्या­मि­ब्रा­ह्म­णम्

अश­ना­या­दि­नि­र्मुक्तं साक्षा­दि­त्या­दि­ल­क्ष­णम् ।।
अतोऽक्षरं प्रवक्तव्यं निरुषाध्यात्मनि स्थितम् ।। १ ।।

यदुद्दिश्य प्रवृत्तैपा व्याख्य सर्वान्तरं प्रति ।।
तदक्षरं प्रव­क्त­व्य­मि­त्य­र्थै­षो­त्तरा श्रुतिः ।। २ ।।

गौतमेन पुरा पृष्टे सूत्रा­न्त­र्या­मि­व­स्तुनी ।।
ओतप्रोतात्मतां गार्गी तयो­रे­वा­न्व­पृ­च्छत ।। ३ ।।

दिवो यदूर्ध्वं वस्तु स्यात्स­द्वाऽ­सद्वा विशेषितम् ।।
अर्वाग्यच्च कपा­ला­त्स्या­न्मध्ये यच्च कपालयोः ।। ४ ।।

ऊर्ध्वं दिवः कपालाद्यदधो यच्चा­ध­रा­त्पु­टात् ।।
यस्य मध्ये कपाले ते यच्च भूतादिलक्षणम् ।। ५ ।।

पदार्थगतिमेवं वा व्याच­क्षी­ता­वि­रो­धतः ।।
भूतं यत्समतिक्रान्तं भवद्यदधुनातनम् ।। ६ ।।

भविष्यच्च यदागामि नातीतं नापि वर्तते ।।
इत्याचक्षत इत्यु­क्त्याऽ­नु­मा­दो­षोऽ­प­नु­द्यते ।। ७ ।।

एतदेवंविधं सूत्रमागमज्ञाः प्रचक्षते ।।
ओतं प्रोतं च तत्कस्मिन्निति पृष्टो ब्रवीहि मे ।। ८ ।।

सूत्रे तावदिदं सर्वमोतं च प्रोतमेव च ।।
वर्तमाने जगत्काल इति ताव­त्सु­नि­श्चि­तम् ।। ९ ।।

जग­च्चा­प्य­न­भि­व्य­क्त­मा­वि­र्भ­वति सांप्रतम् ।।
व्यक्तिश्चेयं सतो युक्ता नासतो घटते यतः ।। १० ।।

अभिव्यक्तं च सदिदं पुन­र­व्य­क्त­ता­मि­तम् ।।
वायुना विधृतं तस्य रूपं यद्वार्तमानिकम् ।। ११ ।।

अतीतानागतयोस्तु काल­यो­र्ज­ग­दा­त्मनः ।।
सत्ता येनाऽऽत्मना कस्मिन्नोता प्रोतेति भण्यताम् ।। १२ ।।

प्रात्यु­च्चा­र्याथ गार्ग्यो­क्त­मा­काशे प्राब्रवीदृषिः ।।
ओतप्रोतकतां वायोर्जगतोऽसौ प्रयत्नतः ।। १३ ।।

क्ष्माद्ये­त­त्सू­त्र­प­र्यन्तं नाशादूर्ध्वं जनेः पुरा ।।
आकाशे तदविज्ञातं सत्तामात्रेण विद्यते ।। १४ ।।

यावद्धि जनि­म­त्किं­चि­न्ना­मा­दि­प्र­वि­भा­ग­वत् ।।
आकशस्तस्य सर्वस्य तत्त्वमत्र विवक्षितम् ।। १५ ।।

त्र्यतिरेकं सतो नेदं लभ­तेऽ­ना­त्म­क­त्वतः ।।
नाप्यन्वयं तद­व्या­प्ते­र्ना­प्य­भावः सतीष्यते ।। १६ ।।

सदतो जनिमत्तत्त्वं सर्पादे रशना यथा ।।
सत्त­त्त्व­व्य­ति­रे­केण नान्या जनिमतो गतिः ।। १७ ।।

सदेवेदमतः सर्व­मु­द्भू­ति­स्थि­ति­हा­निषु ।।
सदेवेति तथा स्पष्टं छान्दो­ग्यो­प­नि­ष­द्वचः ।। १८ ।।

अर्वा­गे­वा­क्ष­रा­ज्ज्ञेया सत्तेयं जगतो निधिः ।।
कार्य­का­र­ण­नि­र्मु­क्त­म­क्षरं वक्ष्यते यतः ।। १९ ।।

सर्वशक्तिरियं शक्तिर्या सदित्यभिधीयते ।।
न च सत्तेति सामान्यं प्रत्य­या­र्था­स­मी­क्ष­णात् ।। २० ।।

न सतो व्यतिरेकेण सतोऽन्यो भाव ईक्ष्यते ।।
अप्यभावो न लभते किमु भावोऽतिरेकताम् ।। २१ ।।

सद­न्य­बु­द्धि­ग­म्यस्य श्रुति­स्त­स्मा­द­ने­कशः ।।
अब्र­वी­द्वा­न्ति­मा­त्रत्वं मृत्ति­का­दि­नि­द­र्शनैः ।। २२ ।।

आकाशवचसाऽऽत्मैव ज्ञेयो नान्योऽत्र कश्चन ।।
सर्वान्तरत्वं नान्यस्य युज्यतेऽनात्मनो यतः ।। २३ ।।

आकाशो वा इति तथा ब्रह्मैव श्रुतिरब्रवीत् ।।
कारणं चाऽऽत्मनो नान्य­त्र्र­य्य­न्ते­षू­प­ल­भ्यते ।। २४ ।।

जग­ज्ज­नि­स्थि­ति­ध्व­स्ति­नि­य­मा­द्य­र्थ­का­र्यपि ।।
नाऽऽत्मनः कारणादन्यः कश्चि­त्सं­भा­व्यते श्रुतेः ।। २५ ।।

एषोऽ­न्त­र्या­म्येष योनिः सर्वस्य प्रभवाप्ययौ ।।
माण्डू­के­य­श्रु­ति­वच इति स्पष्टमधीयते ।। २६ ।।

नातोऽ­न्त­र्या­मिणः कल्प्य­म­न्य­द­व्या­कृतं बुधैः ।।
अक्षरान्तेषु तत्त्वेषु नाव्याकृतवचो यतः ।। २७ ।।

तद्धेदमिति चात्रापि जगदेवाभिधीयते ।।
अन्याकृतगिरा तस्य व्याकृ­ता­व्या­कृ­त­त्वतः ।। २८ ।।

सर्वस्यैष वशीत्युक्त्वा यतस्तस्यैव वेद्यताम् ।।
यत्नात्प्राह श्रुति­स्त­स्मा­द्य­न्ताऽ­व्या­कृ­त­मु­च्यते ।। २९ ।।

विद्या कर्म च संस्काराः प्रत्य­ग­ज्ञा­न­त­त्त्वकाः ।।
देह­ग्र­ह­ण­हे­तुत्वं येषां नः श्रुतिरब्रवीत् ।। ३० ।।

अवि­चा­रि­त­सं­सि­द्धि­प्र­त्य­ग­ज्ञा­न­सं­स्थितिः ।।
त्रयमेतत्सदा ग्राह्यं न कार्यं कारणं विना ।। ३१ ।।

कर्मैवैतत्र्रयं तच्च नाऽऽत्मानं लभते यतः ।।
कारकाणि विनोत्पत्तौ प्रयो­ग­म­नु­रु­ध्यते ।। ३२ ।।

प्रयो­ग­रू­पे­णै­वातो वेष्टितं कर्म तिष्ठति ।।
कारणात्मनि संसृष्टं नान्यथाऽतोऽस्य संस्थितिः ।। ३३ ।।

सप्रयोगगणः सर्वः सौक्ष्म्येण परमेण तु ।।
प्राक्फलोद्भवतो नष्ट्वा प्रतीचि व्यवतिष्ठते ।। ३४ ।।

प्रत्य­क्सं­वि­त्ति­व­स्तुस्थः प्रमाणविरहादयम् ।।
न ज्ञातः कुम्भवन्नापि चित्स्थ­त्वा­त्ख­र­शृ­ङ्ग­वत् ।। ३५ ।।

न चायं नेति नेतीति कार­ण­त्वा­दि­हो­च्यते ।।
विशे­ष­स्या­ग्र­हा­त्त­द्व­द्गृ­ह्यते नेदमित्यपि ।। ३६ ।।

क्षित्या­दि­सू­त्र­प­र्यन्तं निय­म्या­पे­क्ष­यो­च्यते ।।
नियन्ता कारणं चेति न तु सूत्रा­न्ति­केऽ­सति ।। ३७ ।।

स्वात्मा­नु­भ­व­त­न्त्र­त्व­त्प्र­त्या­ख्यातुं न शक्यते ।।
व्यावृ­त्ति­वि­धि­रू­पाभ्यां सुषु­प्ति­र­नु­भू­यते ।। ३८ ।।

व्यावृत्तः शुक्ल­पी­ता­दे­र­न्ध­का­रोऽ­नु­भू­यते ।।
तथा विधिमुखेनापि द्विरे­फो­द­र­व­त्तमः ।। ३९ ।।

स्वप्नबोधात्तदा तद्व­दि­वि­क्तोऽ­र्थोऽ­नु­भू­यते ।।
मूढोऽस्मीत्यपि साक्षाच्च मोहोऽयमनुभूयते ।। ४० ।।

मूढोत्पत्तेः पुरा मोहः प्रत्य­ग्व­स्त्व­नु­रो­ध्य­भूत् ।।
तदुत्पत्तौ ससंवित्को मोहो मूढप्रधानकः ।। ४१ ।।

सोऽय­मै­का­त्म्य­गर्भः सन्मोहः सर्वस्य कारकः ।।
धर्मी च सर्वधर्माणां न परो­क्ष­स्त­तोऽ­श्व­वत् ।। ४२ ।।

यन्तृ­त्व­हे­तु­वि­ध्व­स्ता­वेष संपद्यतेऽक्षरम् ।।
कूटस्थस्य द्वितीयेन संब­न्धोऽ­बो­ध­का­रितः ।। ४३ ।।

प्रश्नोऽयं न तृतीयः स्यात्प्र­ति­ज्ञा­त­त्वतो द्वयोः ।।
पूर्वोक्तस्यैव दार्ढ्यार्थं प्रश्नोऽयं पृच्छयते पुनः ।। ४४ ।।

पृष्टं भूयोऽपि चापृ­च्छ­दु­क्त­धी­दृ­ढ­नि­श्चितौ ।।
परा­य­त्त­प्र­बो­धोऽपि शक्तो वक्तुं यतस्ततः ।। ४५ ।।

एवे­त्य­व­धृ­ते­र्यद्वा पूर्व­प्र­श्ना­र्थ­शे­षता ।। ४६ ।।
किमनेकत्र लीनिः स्यात्सू­त्र­स्यापि क्षितेरिव ।।
आकाश एव किंवा स्यादित्येवं पूर्वशेषता ।। ४७ ।।

मोहो­च्छि­त्ति­र्य­था­व­स्तु­स­म्य­ग्ज्ञा­न­प्र­सू­तितः ।।
सम्य­ग्ज्ञा­न­प्र­सि­द्ध्य­र्थ­मतः प्रश्नोऽ­य­मु­त्तरः ।। ४८ ।।

सूत्रा­दि­क्षि­ति­प­र्य­न्त­म­र्वा­ग्य­न्तु­र­चे­त­नम् ।।
निष्णमाणं यत­स्त­स्मा­त्पृ­च्छ्यते सप्रमाणकम् ।। ४९ ।।

सूत्रं ताव­त्सु­दु­र्ज्ञा­न­मा­का­शस्तु ततोऽप्यति ।।
तस्मात्परतरं तत्त्वं दुर्वचोऽपि बृहस्पतेः ।। ५० ।।

सूत्रान्तं वस्तु निर्दे­श्य­म­नि­र्देश्ये प्रवेशितम् ।।
यन्तरि व्योम्नि तदपि दुर्वा­च्य­म­ति­सू­क्ष्मतः ।। ५१ ।।

सर्व­मा­ना­ति­व­र्त्ये­क­मुक्तं प्रत्य­क्चि­दा­त्म­कम् ।।
अव्या­वृ्त्ता­न­नु­गतं ततोऽ­प्य­क्ष­र­सं­ज्ञि­तम् ।। ५२ ।।

अज्ञा­त­ज्ञा­त­तोऽ­न्य­त्वा­न्नि­र्देश्यं न तदक्षरम् ।।
साक्षा­दि­त्या­दि­रू­प­त्वा­न्नापि स्यात्तदपहनुतिः ।। ५३ ।।

अपि चेद्व­क्त्य­नि­र्देश्यं कथं­चि­न्मो­ह­वि­भ्र­मात् ।।
तथा विप्रतिपत्तिः स्यादनुक्तौ च पराजितः ।। ५४ ।।

इति चेतसि संधाय याज्ञ­व­ल्क्य­म­पृ­च्छत ।।
गार्ग्य­क्ष­र­म­नि­र्देश्यं तां चासावब्रवीदिदम् ।। ५५ ।।

एतद्वै तदिति प्राह प्रत्य­क्सा­क्षि­क­म­क्ष­रम् ।।
अपा­स्ता­शे­ष­नि­र्देशं यदनन्यप्रमाणकम् ।। ५६ ।।

यत्सा­क्षा­च्चा­प­रो­क्षाच्च ब्रह्मात्मेति विशेषितम् ।।
प्रत्यक्तया तदैकात्म्यं स्वयमेव प्रतीयताम् ।। ५७ ।।

न व्यावृत्तं विशेषेभ्यो नानुवृत्तं च गोत्ववत् ।।
अव्या­वृ­त्ता­न­नु­गतं चैतन्यं संविदीक्ष्यताम् ।। ५८ ।।

यस्मा­त्प्र­सिद्धं नास्त्य­न्य­त्प्र­सिद्धं यन्न कस्यचित् ।।
अन­न्य­म­म­ष­ष्ठ्यर्थं वैश­ब्द­स्त­त्प्र­सि­द्धये ।। ५९ ।।

साक्षा­दि­त्या­दि­वा­क्येन योऽशनायादिना तथा ।।
प्रत्यङ्ङभिहितो यत्नात्तद्गिरा सोऽत्र युज्यते ।। ६० ।।

प्रत्य­क्षा­स­न्न­नि­ष्ठ­त्वा­दे­त­च्छ­ब्दस्य कुम्भवत् ।।
यदेतदिति तत्सा­क्षा­द्य­था­व­त्प्र­ति­प­द्य­ताम् ।। ६१ ।।

प्रत्य­क्षै­क­प्र­मा­णोऽर्थो लौकिकोऽपि न शक्यते ।।
प्रत्य­क्ष­व­द्बो­ध­यितुं किमु प्रत्य­ङ्नि­र­ञ्ज­नम् ।। ६२ ।।

क्षरा­द्वि­रु­द्ध­ध­र्म­त्वा­द­क्षरं ब्रह्म भण्यते ।।
कार्य­का­र­ण­व­द्वस्तु क्षरमत्र निषिध्यते ।। ६३ ।।

हानि­वृ­द्धि­स्व­भा­वेन कारणात्मैव वर्तते ।।
तत्प्रत्यगात्मा तद्धीनः कूट­स्थोऽ­न­न्य­मा­नगः ।। ६४ ।।

ब्राह्म­णा­स्त­द्व­द­न्तीति स्वाप­रा­ध­नि­षे­धगीः ।।
नाऽऽत्माज्ञानाय सा युक्ता स हि साक्षा­त्त­दी­क्षते ।। ६५ ।।

निर्दे­श्य­त्वा­नु­मा­दो­ष­प्र­स­ङ्ग­वि­नि­वृ­त्तये ।।
आगमैकप्रमाणत्वे वद­न्ती­त्य­भि­श­ब्द­नम् ।। ६६ ।।

एतावदेव प्रत्यक्षं सर्व­या­था­त्म्य­वे­दि­नाम् ।।
ब्राह्मणानामतो युक्तं फलपर्यवसायिनम् ।। ६७ ।।

ध्वस्ता­त्मा­ज्ञा­न­त­त्कार्याः प्रत्य­ग्या­था­त्म्य­बो­धतः ।।
वदन्ति ब्राह्म­णा­स्तेऽ­त­स्त्य­क्त­स­र्वै­ष­णा­स्प­दम् ।। ६८ ।।

एतदेव तु विज्ञाय व्युत्ति­ष्ठ­न्त्ये­ष­णा­त्र­यात् ।।
यतोऽ­त­स्त­त्स्व­सं­वेद्यं गार्ग्य­क्ष­रा­मेदं ध्रुवम् ।। ६९ ।।

तेषां चेत्स्या­त्स्व­सं­वेद्यं निर्देश्यं तद्धटादिवत् ।।
अस्थूलत्वान्न तच्छक्यं निर्देष्टुमिति सोऽब्रवीत् ।। ७० ।।

अक्षरं यदि न स्थूलमणु तर्हि तदिष्यताम् ।।
यत­स्त­त्प्र­ति­षे­धा­र्थ­म­न­ण्विति जगाद ताम् ।। ७१ ।।

परि­मा­ण­म­हा­भू­त­प्रा­ण­ना­मा­न्व­या­दयः ।।
कारणाद्या निषिध्यन्ते क्रमेऩ प्राप्त्य­पे­क्षया ।। ७२ ।।

प्रस­ज्य­प­र्यु­दा­साभ्यां नञर्थः कोऽत्र गृह्यते ।।
स्थूला­प­ह्नु­ति­रे­कत्र पर्युदासे तदन्यता ।। ७३ ।।

स्थूला­प­ह­नु­ति­रत्र स्याद्वस्तु यत्पारमार्थिकम् ।।
नाभा­वा­नि­ष्ठोऽ­न्य­त्रापि निषेधः किमुताक्षरे ।। ७४ ।।

पर्युदासेऽपि क्लृप्तानां न पृथक्त्वेन संस्थितिः ।।
रज्जु­स­र्पा­दि­व­त्त­स्मा­न्नो­भ­य­त्रापि दोषता ।। ७५ ।।

दृष्टोऽपवादो लोकेऽ­स्मि­न्नु­त्स­र्ग­वि­षये सति ।।
स्थूला­दे­र­प­वा­दोऽयं निर्द्वये घटते कथम् ।। ७६ ।।

उत्सर्गस्यास्ति विषयो योन­नि­र्ज्ञा­ता­त्म­त­त्त्वकः ।।
अपवादस्य विषये ज्ञाता­त्मै­क­स­त­त्त्वकः ।। ७७ ।।

अध्य­स्त­दि­ङ्नि­षे­धश्च व्योम्न्ये­क­स्मि­न्यथा तथा ।।
उत्स­र्गा­प­वा­द­वि­धि­नि­षेधा एकलात्मनि ।। ७८ ।।

यदि वाऽक्ष­र­या­थात्म्यं स्थूलादेरिह भण्यते ।।
स्रग्या­था­त्म्य­म­हे­र्य­द्व­त्त­थाऽ­स्या­क्ष­र­मा­त्रतः ।। ७९ ।।

स्थूला­दि­हे­तो­र्दाहो वा ध्वान्तस्य प्रत्यगात्मनि ।।
अस्थू­लो­क्ति­स­मु­त्था­त्म­या­था­त्म्य­ज्ञा­न­व­ह्निना ।। ८० ।।

क्षित्यादौ विय­द­न्तेऽ­स्मि­न्स्थू­लादेः संभवो नेनु ।।
तदो­त­प्रो­त­वा­क्येन तच्च सर्वं निराकृतम् ।। ८१ ।।

तस्याक्षरे कः प्रसङ्गो यत­स्त­त्प्र­ति­षि­ध्यते ।।
अपि खे तदसंभाव्यं किमु तत्प्र­त्य­गा­त्मनि ।। ८२ ।।

समस्तव्यस्ततां केचिद्ब्रह्मणः प्रतिजानते ।।
यतोऽ­त­स्त­न्नि­षे­धार्थंं निषिद्धं सन्निषिध्यते ।। ८३ ।।

व्यक्ता­व­स्थाऽ­थ­वै­तेषां निषिद्धा कारणात्मनि ।।
शक्त्य­व­स्था­नि­षे­धोऽयं क्रियते त्वक्षरात्मनि ।। ८४ ।।

एवं च सति तत्पूर्णं ब्रह्म कृस्नं च युज्यते ।।
अन्यथाऽकृस्नमेव स्याद­नि­र्मो­क्षश्च सज्यते ।। ८५ ।।

न वा निषेधः स्थूलादेस्तस्य प्रागेव सिद्धितः ।।
तन्नि­षे­धा­नु­वा­देन प्रतीचि ब्रह्म बोध्यते ।। ८६ ।।

स्थूला­दि­मे­य­मा­मा­तृ­नि­षे­ध­फ­लगं स्वभम् ।।
विद्धि सर्वान्तरं ब्रह्म साक्षा­दि­त्या­दि­ल­क्ष­णम् ।। ८७ ।।

सर्वेषामपि चोद्यानामेवं सति न संभवः ।।
नेति नेती­ति­व­द्व्याख्या सर्वाऽपीह समीक्ष्यताम् ।। ८८ ।।

स्थूलादिपरिमाणं हि द्रव्य­मा­त्र­व्य­पा­श्र­यम् ।।
तस्मा­द्द्र­व्य­नि­षे­धोऽयं परिमाणनिषेधतः ।। ८९ ।।

सर्वथाऽपि तु यत्किंचिद्वाचो गोचरता गतम् ।।
प्रमाणस्य च तत्सर्वमक्षरे प्रतिषिध्यते ।। ९० ।।

विशेषप्रतिषेधे च क्रम आश्रीयते ध्रुवम् ।।
सामर्थ्यादेव नान्य­स्मा­त्का­र­णा­दिति निश्चयः ।। ९१ ।।

पूर्वो­त्त­र­नि­षे­ध्यानां सामर्थ्यादेव च क्रमः ।।
पूर्व­स्मि­न्प्र­ति­षि­द्धेऽन्यः सामर्थ्यादेव ढौकते ।। ९२ ।।

अस्थैल्यादणु तत्प्राप्तं तन्नानणु यतोऽक्षरम् ।।
ह्रस्वं नैव यतोऽह्नस्वं नापि दीर्घं यतोऽक्षरम् ।।
अदीर्घमित्यातो द्रव्यं न स्याद­क्ष­र­म­व्य­यम् ।। ९३ ।।

आदि­त्य­व­र्ण­व­च­ना­दस्तु तद्रोहितात्मकम् ।।
नैवं यतोऽलोहितं तत्स­र्व­रू­पा­दि­व­र्जि­तम् ।। ९४ ।।

अपां गुणोऽत्र स्नेहः स्याच्छा­याऽ­दी­प्ति­रि­हे­ष्यते ।
तमो ध्वान्तमिति ज्ञेय­म­त­मोऽ­क्ष­र­मु­च्यते ।। ९५ ।।

न भूतं तत्पृथिव्यादि नापि भूतगुणास्तथा ।।
सर्वा­न्त­रा­धि­का­राद्धि तथोभयनिषेधतः ।। ९६ ।।

अस्तु सङ्गात्मकं तर्हि वास­ना­स­ङ्ग­द­र्श­नात् ।।
नैत­द्य­तोऽ­स­ङ्ग­मि­द­म­सङ्गो हीति वक्ष्यति ।। ९७ ।।

नापीन्द्रियमिदं ज्ञेयं यतोऽ­च­क्षु­ष्क­म­क्ष­रम् ।।
नेन्द्रि­या­ण्यस्य विद्यन्ते नापि तत्स्व­य­मि­न्द्रि­यम् ।। ९८ ।।

विज्ञानलक्षणं तेजोऽतेजस्कमिति वार्यते ।।
कस्मादेतन्न तत्सर्वं यतोऽप्राणं तदक्षरण् ।। ९९ ।।

कारणप्रतिषेधेन कृत्स्न­का­र्य­नि­षे­धतः ।।
पूर्णं तदक्षरं ज्ञेयं साक्षा­दि­त्या­दि­ल­क्षा­णम् ।। १०० ।।

अक्षरं येन रूपेण स्थूलं वस्तु निषेधति ।।
तेनैवाण्वादि निःशेषं तस्य सर्वविरोधतः ।। १०१ ।।

अन्येनान्येन रूपेण विरुद्धान्हन्ति पावकः ।।
विरोधिना यथा तद्वन्नेह स्थूला­द्य­पा­क्रिया ।। १०२ ।।

मानि­त्वा­दि­नि­षेधः स्याद्य­थै­का­क्रि­य­रू­पतः ।।
प्रत्य­क्कू­ट­स्थ­रू­पेण तथा सर्वनिषेधकृत् ।। १०३ ।।

कूट­स्थ­बो­ध­पू­र्णत्वं प्रत्यक्त्वं वस्तुनः स्वतः ।।
एतदस्य विरोधित्वं कार्य­का­र­ण­व­स्तुभिः ।। १०४ ।।

द्वारं मुखं प्रतीकं वा यदि वा लिङ्गमुच्यते ।।
निषे­धोऽ­मु­ख­मि­त्येवं त्रय­स्या­प्य­भि­धी­यते ।। १०५ ।।

मात्रेति मानमिच्छन्ति मेयाऽर्थस्तेन मीयते ।।
अक्षरे तद­सं­भा­व्य­म­मात्रं तद्यतस्ततः ।। १०६ ।।

मात्रादिलक्षणा यत्र सामग्री वस्तुनीष्यते ।।
तत्प्रमेयमिति न्याय्यं न तु वस्त्वद्वयं स्वतः ।। १०७ ।।

व्याप्य­व्या­प­क­सं­बन्धो न चाप्य­क्ष­र­व­स्तुनि ।।
न तदश्नातिवाक्येन यतस्तद्वार्यते द्वयम् ।। १०८ ।।

निषिद्धमखिलं वस्तु यत्किं­चि­ज्ज­ग­ती­क्ष्यते ।।
अवशिष्टं च यत्तच्च न प्रमाणोपपादितम् ।। १०९ ।।

एवं चेदक्षरं तादृक्कथमस्तीति गम्यते ।।
न हि प्रमा­ण­वि­र­हा­दस्ति वस्त्विति वीक्ष्यते ।। ११० ।।

सिद्धसाध्यत्वतो नैवं तथा­चो­क्तो­त्त­र­त्वतः ।।
भावा­भा­वा­ति­रे­कि­त्वा­द­भ्यु­पेतं त्वयोच्यते ।। १११ ।।

मानाभावे त तन्नेति व्यतिरेकः कुतोऽन्वयम् ।।
मानाभावं किम­द्रा­क्षी­र्ये­नै­व­म­भि­धी­यते ।। ११२ ।।

सर्व हि मानं लोकेऽ­स्मि­न्व­स्त्व­भि­व्य­क्ति­सा­ध­नम् ।।
तद­भा­वेऽ­न­भि­व्यक्तं वस्तु नास्तीति दुर्वचः ।। ११३ ।।

स्थूला­द्य­ने­क­ध­र्माणां निषधायासकारणात् ।।
अस्ति­त्व­म­क्ष­र­स्येह सिद्धं तावदृगात्मनः ।। ११४ ।।

स्वमहिम्ना त्वभावोऽपि सेद्धुं नैवाऽऽ­त्म­व­त्क्षमः ।।
तत्पा­रा­र्थ्य­ज­ड­त्वाभ्यां, मित्यभावस्तथा समः ।। ११५ ।।

मामे­य­मा­त्र­स­द्भा­वा­त्ते­भ्योऽ­त्य­न्त­नि­वृ­त्तितः ।।
स्वमहिम्ना प्रसिद्धेश्च कुतोऽभावस्य संभवः ।। ११६ ।।

स्वतो माफलरूपत्वान्न माकार्यं प्रमाणतः ।।
नास्तीति तु विना मानं न सिध्ये­त्कु­म्भ­व­त्स्वतः ।। ११७ ।।

कुम्भ आरोप्यते यद्वत्प्रकाशो भानुसंगतेः ।।
भानु­प्र­का­श­सं­बन्धे भानो­र्ना­न्य­द­पे­क्षते ।। ११८ ।।

स्वतोऽ­व­ग­ति­सं­व­न्धा­त्त­थाऽ­भा­वोऽ­व­ग­म्यते ।।
तथाऽवगतिसंबन्धे नापेक्षाऽवगतेः स्वतः ।। ११९ ।।

अतोऽ­व­ग­त्य­भा­वोऽपि न स्वतोऽवगतिं विना ।।
सिध्यतीह ततोऽस्तित्वं स्वत एवाक्षरात्मनः ।। १२० ।।

उक्तो निरन्वयोऽभावो न बौद्धा­दि­स­मा­श्र­यात् ।।
तत्त्व­म­स्या­दि­वा­क्यो­त्थ­वि­ज्ञा­न­वि­र­हा­त्क्व­चित् ।। १२१ ।।

नान्य­द­ज्ञा­न­तोऽ­स्तित्वं द्विती­य­स्याऽऽ­त्मनो यथा ।
निवृ­त्ति­स्त­द्व­दे­वास्य नाव­ग­त्या­त्म­नोऽ­परा ।। १२२ ।।

अकार्यकारणं साक्षा­दि­त्या­दि­गु­ण­ल­क्ष­णम् ।।
कूटस्थमक्षरं ध्वान्तध्वस्तौ स्यान्नौ निरन्वयम् ।। १२३ ।।

नास्यास्तित्वे यथा मान­मे­क­त्वा­द­क्ष­रा­त्मनः ।।
तन्ना­स्ति­त्वेऽपि च तथा तयो­स्त­स्मा­त्प्र­सि­द्धितः ।। १२४ ।।

सत्त्वं वा यदि वाऽसत्त्वं कार्य­का­र­ण­व­स्तुनः ।।
अतद्वद्बोध एवैतत्सिध्यतीव न तु स्वतः ।। १२५ ।।

यत एवमतो नेह कश्चि­द्वि­प्र­ति­प­द्यते ।।
अक्षरात्मनि नास्तित्वे तस्मा­द्धे­तू­क्ति­रि­ष्यते ।। १२६ ।।

यतो विप्रतिपद्यन्ते त्वन्तर्यमिणि वादिनः ।।
तत्सि­द्ध­येऽ­नु­मा­यत्नः क्रियतेऽतः परोक्तिभिः ।। १२७ ।।

ईशि­त­व्या­र्थ­सं­ब­न्धा­द­न्त­र्या­म्ये­त­द­क्ष­रम् ।।
चैत­न्या­भा­स­मो­हा­ख्य­व­र्त्म­नैव न तु स्वतः ।। १२८ ।।

अनु­मा­न­श्रु­ति­स्त­स्मा­दा­गा­त्त­स्यैव सिद्धये ।।
कारणात्मनि संसिद्धे सर्वं सिद्धं भवेद्यतः ।। १२९ ।।

एतस्य वा अक्षरस्य प्रशासनविधौ सति ।।
सर्व­तः­स्थि­र­म­र्यादं जगदेतद्विवर्तते ।। १३० ।।

प्रशासने यथा राज्ञोऽ­भि­न्न­म­र्या­दिकाः प्रजाः ।।
पृथि­व्या­द्या­स्त­थै­वेमा अक्षरस्य प्रशासने ।। १३१ ।।

विवादगोचरापन्ना यन्तृपूर्वा जगत्स्थितिः ।।
व्यव­स्थि­त­त्वा­ल्लो­कस्य राजपूर्वा स्थितिर्यथा ।। १३२ ।।

सूर्याचन्द्रमसौ तज्ज­का­र्या­भि­ज्ञ­पु­रः­सरौ ।।
सर्व­प्रा­ण्यु­प­का­रि­त्वा­त्प्रा­सा­द­स्थ­प्र­दी­प­वत् ।। १३३ ।।

सूर्या­च­न्द्र­म­सा­वीशौ मर्यादां नातिगच्छतः ।।
येनेह विधृतौ नित्यं सोऽन्तर्यामीति गम्यताम् ।। १३४ ।।

कुसूलवन्न भिद्येते सांश­त्वा­त्प­त­तोऽपि न ।।
गुरु­त्वा­ल्लो­ह­व­त्पृथ्वी द्यौर­पी­त्य­ति­वि­स्मयः ।। १३५ ।।

चेत­ना­व­त्स्व­त­न्त्र­त्वा­द्दे­व­ता­त्म­त्व­का­र­णात् ।।
नान्तरेण नियन्तारं तयोरेषा व्यवस्थितिः ।। १३६ ।।

संयु­क्त­यो­र्वि­यो­गोऽपि न तयोरीक्ष्यते क्वचित् ।।
प्रशासनमृते शास्तुर्न व्यवस्थेदृशी भवेत् ।। १३७ ।।

द्यावा­पृ­थि­व्यो­र्लो­केऽ­स्मि­न्ना­न्य­थेयं समीक्ष्यते ।।
स्वभा­व­म­ति­ल­ङ्घ्यैते तिष्ठतः शास्तृशासने ।। १३८ ।।

निमे­षा­दि­वि­भ­क्तानां कालांशानां व्यवस्थितिः ।।
या स्वलि­ङ्गा­ज­ह­द्वृत्त्या तदीशस्य प्रशासनम् ।। १३९ ।।

नियतैव प्रवृत्तिश्च स्रोतसां महतामपि ।।
नान्तरेण नियन्तारं संभा­व्ये­त्य­व­सी­य­ताम् ।। १४० ।।

दुःखा­र्जि­त­ध­न­त्या­गि­नु­तिश्च जगतीक्ष्यते ।।
नेयं युक्ताऽ­प्र­सि­द्धेशे तत्कर्मफलदायिनि ।। १४१ ।।

दातृ­प्र­ति­ग्र­ही­त्रोश्च क्रिया­त्य­क्त­व्य­यो­स्तथा ।।
अन्वक्षमेव विलयो दृश्यते सार्वलौकिकैः ।। १४२ ।।

तथाऽपि तान्प्रशंसन्ति दुःखा­र्जि­त­ध­न­त्यजः ।।
अपि सम्य­क्प्र­मा­ण­ज्ञा­स्तच्च नर्ते महेश्वरम् ।। १४३ ।।

दानादिकर्मणः साक्षा­त्प­श्यन्तः फलसंगतिम् ।।
प्रमाणज्ञाः प्रशंसन्ति यच्च तच्च सतीश्वरे ।। १४४ ।।

शास्तर्यसति तत्क­र्म­फ­ल­वै­चि­त्र्य­वे­दिनि ।।
सर्व­ज्ञेऽ­नु­प­पन्नं स्यात्क­र्म­ज्ञा­न­फ­ल­प्रदे ।। १४५ ।।

नाप्यनीशमपूर्वं च प्रकल्प्यं फलसंगतौ ।।
यतोऽपूर्वस्य संसिद्धौ प्रमाणं नाोपपद्यते ।। १४६ ।।

नियन्तुरपि चेन्मैवं श्रुते­र्व­स्तु­न्यपि ध्रुवम् ।।
प्रामाण्यस्य पुरो­क्त­त्वा­त्त­त्सि­द्धे­श्चा­नु­मा­नतः ।। १४७ ।।

अर्था­प­त्ते­र­पू­र्वस्य कल्पनाऽपि न युज्यते ।।
अन्य­थाऽ­प्यु­प­प­न्न­त्वा­द­र्था­पत्तेः क्षयो यतः ।। १४८ ।।

सेव्या­त्से­वा­फ­ल­प्रा­प्ति­द­र्श­नान्न त्वपूर्वतः ।।
सेवायाश्च क्रिया­त्म­त्वा­द्दा­न­या­गादि च क्रिया ।। १४९ ।।

दाना­दि­फ­ल­सं­प्राप्तिः सेव्या­द्भ­वि­तु­म­र्हति ।।
क्रिया­त्म­क­त्वा­द्दा­नादे राज­से­वा­फ­ला­प्ति­वत् ।। १५० ।।

सर्व­क­र्म­फ­ल­प्रा­प्ति­री­श्व­रा­देव नान्यतः ।।
इत्याह भगवान्व्यासः सर्वज्ञोऽपि महामतिः ।। १५१ ।।

यतः प्रवृ­त्ति­र्भू­तानां येन सर्वमिदं ततम् ।।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।। १५२ ।।

अपिं दृष्ट­क्रि­या­ध­र्म­सा­म­र्थ्य­म­नि­रस्य तु ।।
फला­प्ति­क­ल्प­ना­सि­द्धा­व­प­न्या­योऽ­न्यथा भवेत् ।। १५३ ।।

लोक­दृ­ष्ट­क्रि­या­ध­र्म­सा­म­र्थ्य­त्या­ग­ल­क्षणः ।।
अपन्यायो न युक्तोऽतो न्याय­व­र्त्मा­स­म­न्व­यात् ।। १५४ ।।

कल्प­ना­धि­क्य­त­श्चै­त­द­पूर्वं नोपपद्यते ।
कल्प्य ईशोऽथवाऽपूर्वं किं कल्प्यमुपपद्यते ।। १५५ ।।

सेव्या­त्क्रि­या­फ­ल­प्रा­प्ति­र्दृ­ष्टेयं न त्वपूर्वतः ।।
नाप्यपूर्वं क्वचिद्दृष्टं तन्मानासंभवादिह ।। १५६ ।।

अपूर्वं निष्प्रमाणं च दातुं शक्तिरथास्य च ।।
फल­दा­तृ­त्व­सा­मर्थ्ये दानं चाभ्यधिकं तथा ।। १५७ ।।

इह त्वीशातिरेकेण नान्य­त्किं­चि­त्प्र­क­ल्प्यते ।।
परिशिष्टस्य कल्प्य़स्य सेव्ये दृष्टत्वकारणात् ।। १५८ ।।

देवाश्च पितरश्चैव मनु­ष्या­णा­म­धी­न­ताम् ।।
नाऽऽप्नु­यु­र्ह­व्य­क­व्यार्थं यदि नाभूत्प्रशासिता ।। १५९ ।।

यद­ज्ञा­ना­ज्ज­ग­त्य­स्मिं­स्ती­व्रा­न­र्थ­प­रं­परा ।।
ज्ञानाच्च मुक्तिः संसारात्कथं नास्ति प्रशास्तृ तत् ।। १६० ।।

ननु क्रियात एवेयं संसा­रो­च्छि­त्ति­रि­ष्यते ।।
नैवं यतो न कर्मभ्यो मुक्तिः संभा­व्य­तेऽ­श्रुतेः ।। १६१ ।।

यथाच कर्मणा मुक्तिर्न कथंचन युज्यते ।।
तथो­क्त­त्वा­त्पुरा नेह भूयो वक्तव्यमिष्यते ।। १६२ ।।

असंभवो यथा मुक्तेः क्रिया­सा­ध­न­सं­श्र­यात् ।।
तथेयं श्रुतिरप्याह यो वा इत्यादिवाक्यतः ।। १६३ ।।

उदारफलदायीनि बहु­शोऽ­नु­ष्ठि­ता­न्यपि ।।
क्षयि­ष्णु­फ­ल­व­न्त्येव कर्माणि यदबोधतः ।। १६४ ।।

तथाच यत्प­रि­ज्ञा­ना­त्कृ­त्स्न­का­र्प­ण्य­निः­सृतिः ।।
कथमेवंविधं गार्गि नास्ती­त्य­क्ष­र­मु­च्यते ।। १६५ ।।

सर्वे कार्पण्ययुक्ताः स्युर्यदि न स्यात्तदक्षरम् ।।
ईक्ष्यन्ते चाप्य­कृ­प­णा­स्तच्च सत्येव यन्तरि ।। १६६ ।।

यो वा एतदिति स्पष्टं श्रुतिरप्याह यत्नतः ।।
अक्षराज्ञानतः पुंसां कार्प­ण्ये­ना­वि­यु­क्त­ताम् ।। १६७ ।।

अक्षरं यो विदि­त्वाऽ­स्मा­ल्लो­का­द्गार्गि प्रमीयते ।।
निवर्तते स कार्प­ण्या­त्त­ज्ज्ञा­ना­द्ध्वा­न्त­बा­धतः ।। १६८ ।।

यस्त्व­क्ष­र­प­रि­ज्ञा­ना­न्मृ­त्यु­मृत्युः प्रमीयते ।।
स एव ब्राह्मणो नान्यो जग­त्य­ध्य­व­सी­य­ताम् ।। १६९ ।।

सर्वज्ञः सर्वकृच्चासौ निर­स्ता­शे­ष­सं­सृतिः ।।
प्राप्ता­शे­ष­पु­म­र्थश्च ब्राह्म­णोऽ­त्रा­भि­धी­यते ।। १७० ।।

ज्ञेयत्वसिद्धये प्राह यथो­क्ते­श्व­र­व­र्त्मना ।।
अक्षरस्य श्रुतिः साक्षात्तद्वा इत्येवमादिना ।। १७१ ।।

एतदस्य प्रशास्तृत्वं स्वमो­हा­भा­स­हे­तु­कम् ।।
नेति नेत्या­दि­वा­क्येभ्यो दृष्टि­मा­त्रा­त्म­व­स्तुनः ।। १७२ ।।

इत्ये­त­त्प्र­ति­प­त्त्यर्थं तद्वा एतदिति श्रुतिः ।।
मागो­च­रा­ति­व­र्ति­त्वा­द­दृष्टं स्यात्तदक्षरम् ।। १७३ ।।

अभा­व­त्व­नि­षे­धार्थं द्रष्ट्र­क्ष­र­मि­हो­च्यते ।।
कूट­स्थ­दृ­ष्टि­मा­त्र­त्वान्न तु द्रष्टृ­त्व­मु­च्यते ।। १७४ ।।

ओत­प्रो­त­गि­राऽ­शे­ष­दृ­श्य­व­स्तु­नि­रा­कृतेः ।।
अका­र­का­द्व­य­त्वाभ्यां द्रष्टृत्वं नाक्षरात्मनः ।। १७५ ।।

बहु­द्र­ष्टृ­नि­षे­धार्थं नान्य­दि­त्या­द्यु­दी­र­णम् ।।
विजा­ती­य­स­जा­ती­य­व­स्त्व­न्त­र­नि­षे­धतः ।।
कूटस्थमेकं चैतन्यं सिद्धं श्रुत्यनुसारतः ।। १७६ ।।

एतस्मिन्नक्षरे गार्गि स्रजि क्लृप्त­फ­णी­न्द्र­वत् ।।
ओतः प्रोतश्च निःशेष आका­शोऽ­का­र­णा­त्मनि ।। १७७ ।।

अक्षरं स्वात्म­सं­मो­हा­त्का­र­णत्वं निगच्छति ।।
तथा कार्य­त्व­म­प्ये­त­न्नि­र­वद्यं तदेकलम् ।। १७८ ।।

सर्व­स्या­क्ष­र­मा­त्र­त्वान्न किंचि­न्नो­प­सं­हृ­तम् ।।
प्रत्य­ग्वि­रो­ध­त­स्त­द्वन्न किंचिन्नापि निह्नुतम् ।। १७९ ।।

तथा ज्ञेयस्य सर्वस्य ज्ञाता­ज्ञा­त­वि­भा­गिनः ।।
उक्ता­क्ष­रा­त्मा­व­सि­तेर्न किंचिदवशिष्यते ।। १८० ।।

नानुत्पन्नमितो ज्ञाना­त्किं­चि­द­प्य­व­शि­ष्यते ।।
नाप्यध्वस्तं तथाऽज्ञानं कृत्स्न­ज्ञे­य­स­मा­प्तितः ।। १८१ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृती­या­ध्या­य­स्या­ष्टमं ब्राह्मणम्

सूत्रा­दि­का­र्य­मा­र्गेण यन्तृत्वं कारणात्मनः ।।
यदभ्यधायि प्राक्श्रुत्या तदेवानूद्य पूर्ववत् ।। १ ।।

साक्षादित्यादि याथात्म्यं भूयोऽप्यात्मन उच्यते ।।
निय­म्य­दे­व­ता­भे­द­व्या­स­सं­क्षे­प­व­र्त्मना ।। २ ।।

चिदाभासं स्वमज्ञानं संनिपत्य तदक्षरण् ।।
कारणं सत्स्वकार्येषु नियन्तृत्वं प्रपद्यते ।। ३ ।।

सुषु­प्त­प्र­ल­या­व­स्थ­प्रा­णा­त्माऽ­क्ष­र­मु­च्यते ।।
स ब्रह्म त्यदिति तथा श्रुतिरप्याह तत्स्फुटम् ।। ४ ।।

इत्य­न्त­र्या­म्य­व­स्थायां स्थित्वैकां प्राणदेवताम् ।।
सूत्रा­द्य­व­च्छे­द­व­शा­त्स­र्व­मे­त­न्नि­य­च्छति ।। ५ ।।

नाना­त्वै­क­त्व­रू­पाभ्यां सा पुनः प्राणदेवता ।।
स्थिता जगदितं व्याप्य प्राणि­क­र्म­व­शा­दि­यम् ।। ६ ।।

तस्या विक्षेपसंहारौ शाकल्यः पर्यपृच्छत ।।
निय­न्त­व्य­नि­य­न्तृ­त्व­सं­ब­न्धस्य प्रसिद्धये ।। ७ ।।

देवसंख्यां स संपृष्टो निविदैव प्रपेदिवान् ।।
देवा निविदि यावन्तो वैश्वदेवस्य संश्रिताः ।। ८ ।।

तावन्त एव सोऽसुः स्याज्ज­ग­त्य­स्मिं­श्च­रा­चरे ।।
आन्त्यं बहुशब्देन देवानां प्राब्र­वी­न्मुनिः ।। ९ ।।

त्रय­स्रि­श­त्प्र­भृ­त्येषां षडादिषु यथाक्रमम् ।।
संहृतिः प्रातिलोम्येन व्यूह­स्त्वा­ग­ण­ना­क्ष­यात् ।। १० ।।

कतम इति पृष्टोऽथ वस्वा­दी­न्प्र­त्य­प­द्यत ।।
वसूनप्यथ संपृष्टः सोऽग्न्या­दी­न्प्रा­ब्र­वी­द्व­सून् ।। ११ ।।

संहृ­ता­त्म­प्र­भेदा हि सैवैका प्राणदेवता ।।
वसुत्वमष्टधा भिन्ना विभार्ति जनिमत्स्थितौ ।। १२ ।।

वसु कर्मफलं चाऽऽहुः कर्मणः साधनं वसु ।।
यस्मात्तदेषु निहितं तस्मात्ते वसवः स्मृताः ।। १३ ।।

पुरुषे ये दश प्राणा इन्द्रियाणि सहाऽऽत्मना ।।
मन­सै­का­द­शा­त्रै­ता­न्नु­द्रा­नि­त्या­च­च­क्षिरे ।। १४ ।।

रोदयन्तो द्रवन्त्येते रुदन्ति च यतस्ततः ।।
रुद्रा इत्यभिधीयन्ते प्राणा एकादशोदिताः ।। १५ ।।

आददाना यतो यन्ति मर्त्यानां स्थितिकारणम् ।।
मासाभिमानिनो देवा आदित्यास्तेन ते स्मृताः ।। १६ ।।

आयुर्वीर्यं स्मृतिं प्रज्ञां सौकुमार्यं वपुःश्रियम् ।।
आददाना यतो यन्ति तेनाऽऽदित्या अमी स्मृताः ।। १७ ।।

इन्द्रश्च देवता ज्ञेया मेघनादाभिमानिनी ।।
स्तनयित्नुरिह ज्ञेयस्तथा यज्ञः प्रजापतिः ।। १८ ।।

वीर्यं वज्रोऽशनिरिति स्तन­यि­त्नु­रि­हो­च्यते ।।
पशुसाधनको यस्मा­द्य­ज्ञ­स्त­स्मा­त्पशुः स्मृतः ।। १९ ।।

अग्न्यादिषु यतः षट्सु यथोक्ताः सर्वदेवताः ।।
षट्संख्यामेव संयान्ति षड­ग्न्या­द्या­स्ततः स्मृताः ।। २० ।।

आधा­रा­धे­य­यो­रै­क्या­त्पृ­थि­व्य­ग्न्या­दिषु त्रिषु ।।
त्रयो देवा­स्त­तोऽ­ग्न्याद्याः कृत्स्ना­न्त­र्भा­व­का­र­णात् ।। २१ ।।

अन्नं प्राणश्च देवौ द्वौ द्वयोरेष विनिर्णयः ।।
एता­व­न्मा­त्र­या­थात्म्यं सर्वस्य जगतस्ततः ।। २२ ।।

योऽयं पवत इ्त्युक्ति­र­ध्य­र्धस्य विनिर्णये ।।
एक­त्वा­त्प­व­मा­नस्य तदाहुरिति चोदना ।। २३ ।।

एकसंक्यैव नान्याऽस्ति द्विसंख्याया यतस्तातः ।।
पृष्टोऽध्यर्ध इति प्राह सोपहासमृषिः सुधीः ।। २४ ।।

वायुर्वा देवता कृत्स्ना तदन्यस्य तदात्मनः ।।
अर्धत्वं स्यात्क­नी­य­स्त्वा­द्व्या­प्य­स्या­ग्न्या­दि­रू­पिणः ।। २५ ।।

ऋद्धिं प्रापद्यतः सर्वं वायौ सति चराचरम् ।।
तस्मादध्यर्ध इत्येवं वायुमाचक्षते बुधाः ।। २६ ।।

संख्या­प्रा­धा­न्य­म­ध्यर्धे विदग्धेन विवक्षितम् ।।
सर्वमृध्नोति यत्प्राणो तेनेति श्रुतिहृद्गतम् ।। २७ ।।

अन्ना­शि­तृ­त्व­सि­द्ध्यर्थं यथा व्युत्प­त्ति­रु­च्यते ।।
अन्नेनाश्नुत इत्ये­व­म­ध्य­र्ध­स्यापि योजनाा ।। २८ ।।

जनि­म­त्स­र्व­भू­तानां प्राणोऽ­न्त­र्भा­व­हे­तुतः ।।
प्राणो देवोऽत एवैकस्तस्यैव महिमा परः ।। २९ ।।

भर­णा­त्स­र्व­का­र्याणां प्राणो ब्रह्मेति भण्यते ।।
त्यदित्याचक्षते तस्मात्प्राणं ब्रह्म परोक्षतः ।। ३० ।।

साक्षा­न्नि­र्दे­श­नु­त्त्यर्थं कार­ण­त्वा­व­बु­द्धये ।।
प्राणं ब्रह्म त्यदित्याद्दुः पारोक्ष्येण महाधियः ।। ३१ ।।

करणेष्वेषु सर्वेषु तथा कार्यात्मकेषु च ।।
अध्यात्मादिषु कार्त्स्न्येन तेषु तेष्ववतिष्ठते ।। ३२ ।।

अष्टधाऽतः पुनस्तस्य भेदोऽ­य­मु­प­व­र्ण्यते ।।
अधिकारविशेषेण पृथि­वी­त्या­दि­नाऽ­धुऩा ।। ३३ ।।

अन­न्त­भे­द­भि­न्नस्य पुन­र­प्य­ष्ट­धो­च्यते ।।
देवतासमुदायस्य भेदः संक्षेपलक्षणः ।। ३४ ।।

पृथिव्यायतनं यस्य तत्स्थोऽ­ग्नि­र्लोक एव च ।।
तस्याऽऽ­लो­क­न­हेतुः स्याद­ग्नि­र्दे­वस्य सर्वदा ।। ३५ ।।

मनश्च ज्योति­र्वि­ज्ञानं संक­ल्पा­दि­स्व­ल­क्ष­णम् ।।
स्वरूपं वा मनोज्योतिर्यस्य देवस्य भण्यते ।। ३६ ।।

क्षिति­दे­होऽ­ग्नि­न­यनो मनःसंकल्पसाधनः ।।
यः पृथि­व्य­भि­मा­न्यत्र सर्वस्यैव परायणम् ।। ३७ ।।

आध्यात्मिकस्य सर्वस्य कार्यस्य करणस्य च ।।
परायणमवष्टम्भ आत्मनः स्यात्तथाविधम् ।। ३८ ।।

याज्ञवल्क्येह यो विद्याद्वेदितिा स्यात्स एव तु ।।
पण्डितो न त्वनेवंविद्यथा त्वं पण्डितायसे ।। ३९ ।।

इयता यदि पाण्डित्यं लभ्यते वेद तर्हि तम् ।।
शारीरः पार्थि­वेंऽ­शेऽत्र देवोऽ­ध्या­त्मा­भि­मा­न­वान् ।। ४० ।।

पृथि­व्ये­वा­ह­मि­त्येवं योऽभिमानी व्यवस्थितः ।।
लोम­त्व­ङ्भां­स­सं­घातः कार्यं तस्यायमेव तु ।। ४१ ।।

स एष देवो यः पृष्टो वद भूयोऽप्यहल्लिक ।।
यतोऽ­स­मा­प्त­मे­वेदं दर्शनं ते विवक्षितम् ।। ४२ ।।

तस्य का देव­ते­त्ये­न­म­प्रा­क्षी­त्क्षो­भितो रूषा ।।
तं प्रत्या­हा­मृ­त­मिति याज्ञवल्क्योऽपि देवताम् ।। ४३ ।।

यतो यो लभते सिद्धिं तस्यासावेव देवता ।।
विवक्षितेह विज्ञे­याऽ­मृ­त­मि­त्या­दि­ल­क्षणा ।। ४४ ।।

योषिज्जाग्धस्य योन्नस्य रसः स्यात्परिणामजः ।।
मातृजस्यासृजो हेतुरमृतं सोऽत्र भण्यते ।। ४५ ।।

रसा­च्छो­णि­त­नि­ष्पत्तिः शोणि­ता­द्बी­ज­सं­श्र­यात् ।।
शरीरं जायते साक्षाद्येन शारीर उच्यते ।। ४६ ।।

अन्येऽमृतमिदं प्राहुर्दिव्यं चान्द्रमसं पयः ।।
तत्पर्जन्यादिना जातं दार्ढ्य­कृ­त्क्षि­ति­दे­हयोः ।। ४७ ।।

उत्तरेष्वपि वाक्येषु यथो­क्त­मु­प­पा­द­येत् ।।
न्यायः साधारणं सर्वं विशेषस्तु प्रवक्ष्यते ।। ४८ ।।

योषि­त्स­मा­ग­मे­च्छेह काम इत्यभिधीयते ।।
हृदयं बुद्धिरालोकः सर्वं तेन हि पश्यति ।। ४९ ।।

स च काममयो देवः काम­भा­व­न­याऽ­ञ्जितः ।।
देवताऽस्य स्रियो ज्ञेयाः कामः स्रीतो हि जायते ।। ५० ।।

शुक्लादीन्यत्र रूपाणि भास्व­रा­ण्यु­त्त­रत्र तु ।।
सावित्रः पुरुषस्तस्य चक्षुः सत्यं च देवता ।। ५१ ।।

रूप­भा­स्क­र­स­त्येषु त्रिधैषोऽपि व्यवस्थितः ।।
पूर्व­व­च्चो­त्त­र­त्रापि सर्वत्रैव त्रिधा त्रिधा ।। ५२ ।।

प्रति­श्र­व­ण­वे­लायां श्रोत्रे यः संनिधीयते ।।
स त्वये­हा­भि­नि­र्दिष्टो दिशस्तस्यापि देवता ।। ५३ ।।

अन्धकारस्तमो ज्ञेयं तथा छायामयः पुमान् ।।
मृत्युश्च देवता तस्य तमसैव मृतिर्यतः ।। ५४ ।।

रूपायतनदेवस्य प्रति­बि­म्बो­द­या­श्रयः ।।
विशेषकार्यं प्राणोऽ­सु­स्त­स्या­पी­हा­धि­दे­वता ।। ५५ ।।

सामा­न्या­म्म­य­दे­हस्य विशिष्टाः कार्यमस्य ताः ।।
वरुणो देवता तस्य वरुणाद्वि स जायते ।। ५६ ।।

शुक्र­स्ना­य्व­स्थि­म­ज्जानो भवन्ति पितृतो यतः ।।
प्रजापतित्वं पितरि तस्मा­दे­त­दि­हो­च्यते ।। ५७ ।।

याव­त्किं­चि­द्वि­जा­नाति शाकल्यः सर्वमेव तत् ।।
पर्य­पृ­च्छ­द्य­था­शक्ति मुक्त्वा दिग्ज्ञा­न­मा­त्र­कम् ।। ५८ ।।

अवशिष्टं यदप्यस्य तन्मां पृच्छतु कामतः ।।
इति चेतसि संधाय याज्ञ­व­ल्क्योऽ­भ्य­भा­षत ।। ५९ ।।

अतिनिर्बन्धतो वाऽपि निषेध्योऽयं प्रमादवान् ।।
इत्येतद्धृदये कृत्वा कारु­ण्या­त्त­म­था­ब्र­वीत् ।। ६० ।।

मय्यग्नौ शिशु­व­न्मो­हा­त्प्र­वि­शन्तं न कश्चन ।।
त्वां वारयति यत्नेन साधु­ब्रा­ह्म­ण­सं­सदि ।। ६१ ।।

सर्वेषामपि नूनं त्वं हन्तव्यत्वेन संमतः ।।
अक्रत त्वां यतो विप्राः संदंशं मयि पावके ।। ६२ ।।

तस्माद्बुध्यस्व शाक्ल्य मह­द्भ­य­मु­प­स्थि­तम् ।।
अति­नि­र्म­थ­ना­द­ग्नि­श्च­न्द­ना­दपि जायते ।। ६३ ।।

विषायतेऽमृतमपि यथा पथ्यं मुमूर्षतः ।।
तथैव नाग्रहीत्सूक्तं शाकल्यः कालचोदितः ।। ६४ ।।

ब्राह्म­णै­र्घा­त­यि­ष्यामि मां जिघां­स­न्त­मा­श्वि­मम् ।।
इत्युर्थं कोपकृद्वाक्यं शाकल्यो मुनिरब्रवीत् ।। ६५ ।।

अङ्गा­रा­व­क्ष­य­णोक्त्या विद्वान्किं ब्रह्म श्रेयसः ।।
अत्य­वा­दी­स्त्व­मज्ञः सन्का विद्या फलिनी तव ।। ६६ ।।

दिग्वि­भा­गा­धि­का­रेण यथोक्ता एव देवताः ।।
पञ्च­धे­हो­प­दि­श्यन्ते तदेतदनुवर्ण्यते ।। ३७ ।।

का विद्या सफला साक्षा­त्त­वे­ति­प्र­श्न­वा­दि­नम् ।।
सदेवाः सप्रतिष्ठाश्च दिशो वेदे­त्य­था­ब्र­वीत् ।। ६८ ।।

सदे­व­स­प्र­ति­ष्ठा­दि­श­रीरं प्रतिजज्ञिवान् ।।
आत्मानं स मुनिः पृष्टो यतस्तं पर्यपृच्छत ।। ६९ ।।

सदेवाः सप्रतिष्ठैता दिशोऽ­ह­मि­ति­वा­दि­नम् ।।
प्राच्यां किंदेवतोऽसीति विद­ग्ध­स्त­म­पृ­च्छत ।। ७० ।।

पूर्व­दि­गा­त्म­भूतं मां त्वं विद्ध्या­दि­त्या­दे­व­तम् ।।
इत्युक्ते तमृषिं भूयः स प्रति­ष्ठा­म­पृ­च्छत ।। ७१ ।।

सर्वरूपात्मकः सूर्य­श्च­क्षु­ष्येव प्रतिष्ठितः ।।
सर्वरूपेषु चक्षुश्च रूपाणि हृदये तथा ।। ७२ ।।

रूपारब्धमिदं चक्षू रूपाणामेव तद्गहात् ।।
अभि­व्य­ङ्ग्य­स­जा­तीयो व्यञ्जको रूपदीपवत् ।। ७३ ।।

अशे­ष­वि­ष­या­त्मत्वं मनो­बु­द्ध्यो­र्वि­नि­र्दि­शेत् ।।
सर्व­गो­च­र­भा­सि­त्वा­त्ता­दात्म्ये तच्च युज्यते ।। ७४ ।।

एष एवानुसंधेयो न्यायो योऽयमिहोदितः ।।
वक्ष्यमाणासु सर्वासु दिक्षु प्रत्येकशः क्रमात् ।। ७५ ।।

प्राच्यां रूपोपसंहारो दिक्त्र्ये कर्मसंहृतिः ।।
ध्रुवायां संहृतिर्नाम्नो हृद्येवं सर्वसंहृतिः ।। ७६ ।।

केवलं कर्म याम्यायां प्रतीच्यां पुत्रजन्म च ।।
ज्ञान­यु­क्त­मु­दीच्यां च कर्मै­व­मु­प­सं­हृ­तम् ।। ७७ ।।

नाम्न­श्चा­प्यु­प­सं­हारो ध्रुवायां हृदि वर्णितः ।।
एवं क्रमेण निःशेषं जग­द्धृ­द्यु­प­सं­हृ­तम् ।। ७८ ।।

सामर्थ्याच्च मनोऽप्यत्र विज्ञे­य­मु­प­सं­हृ­तम् ।।
रूपादिपञ्चकं यस्मा­त्त­द्द्वा­रे­णाऽऽ­श्रितं हृदि ।। ७९ ।।

निःशेषं ब्रह्मलोकान्तं संहृत्य हृदयात्मना ।।
याज्ञवल्क्यं स्थितं भूयो विदग्धः पर्यपृच्छत ।। ८० ।।

सर्वो­प­सं­हृ­द्धृ­दयं ब्रूहि क्वेैत­त्प्र­ति­ष्ठि­तम् ।।
इत्यु­क्तोऽ­हँ­ल्लि­के­त्येवं संबो­ध्यो­त्त­र­म­ब्र­वीत् ।। ८१ ।।

अहँल्लिकेति वचसा नाऽऽधा­रा­न्त­र­मु­च्यते ।।
आद्यु­दा­त्त­त्व­लि­ङ्गेन ह्यभिधानं विदग्धवत् ।। ८२ ।।

प्रेतीभूतोऽसि नूनं त्वं प्रेतवद्भाषसे यतः ।।
लीयतेऽहनि रात्रौ च व्यज्य­तेऽ­हँ­ल्लि­क­स्ततः ।। ८३ ।।

मत्तः शरी­रा­त्क्वा­न्यत्र मथ्येघातः प्रतिष्ठितम् ।।
अस्मदन्यत्र मन्वीथा यत्रेदं हृदयं क्वचित् ।। ८४ ।।

यद्ये­त­द्दे­ह­तोऽ­न्यत्र हृदयं स्यादवस्थितम् ।।
हृद्वियुक्तं तदा देहमद्युः श्वानो मृतं ध्रुवम् ।। ८५ ।।

न त्वयं मृत इत्य­स्मा­त्का­र­णा­द­व­सी­य­ताम् ।।
वन­सिं­ह­व­दे­वै­त­द्द्व­य­म­न्यो­न्य­सं­श्र­यम् ।। ८६ ।।

नर्ते लिङ्गं शरीरस्य स्थितिः काचिदिहेष्यते ।।
न शरीरं विना लिङ्गं कस्मैचित्कर्मणे क्षमम् ।। ८७ ।।

न ह्यन्यो­न्या­ति­रे­केण संहतानां क्वचित्थितिः ।।
संहतं च प्रती­चोऽ­न्य­ज्ज­ग­दे­त­च्च­रा­च­रम् ।। ८८ ।।

कार्य­त्वा­द्दू­य­म­प्ये­त­द्यतो न स्वाश्रयं ततः ।।
तत्प्र­ति­ष्ठा­म­था­प्रा­क्षी­च्छा­कल्यो निर्णयेच्छया ।। ८९ ।।

द्वावप्येतौ ममाऽऽत्मानौ प्राण एव प्रतिष्ठितौ ।।
प्राणोऽपाने स च व्यान उदाने व्यान आश्रितः ।। ९० ।।

समाने च तथोदानः सूत्रात्मनि समाश्रितः ।।
एवमेप समानान्तः शाक­ल्य­प्र­श्न­नि­र्णयः ।। ९१ ।।

देह­हृ­द्वा­य­वोऽ­न्यो­न्य­प्र­तिष्ठाः संहतत्वतः ।।
प्रयुक्ताः कर्मणा पुंसां वर्तन्ते भोगसिद्धये ।। ९२ ।।

सकारणमिदं सर्वमाकाशान्तं यथोदितम् ।।
ओतं प्रोतं च यत्रेदं तदक्षरमथोच्यते ।। ९३ ।।

विहा­याऽऽ­ख्या­यि­का­रूपं स्वेनैव वचसा श्रुतिः ।।
पुरुषार्थं समापित्सुः स एष इति चावदत् ।। ९४ ।।

प्रशासन इदं तस्थौ यस्या­न्त­र्या­मि­रू­पिणः ।।
स एष नेति नेतीति मधुकाण्डेऽपि वर्णितः ।। ९५ ।।

ननु ब्रह्मा­धि­का­र­त्वा­त्क­थ­मा­त्मे­त्यु­नू­द्यते ।।
नैष दोषोऽतिरेकेण नाऽऽत्मनो ब्रह्मता यतः ।। ९६ ।।

ग्राह्यत्वं शरणं सङ्गो भयं चाज्ञानकारणम् ।।
तद­त्य­या­द्भ­या­न्तानि न सन्ति प्रत्यगात्मनि ।। ९७ ।।

निरविद्योऽसितो भास्व­द­वि­लु­प्त­चि­दा­त्मकः ।।
यत एवमतो नास्य नाशान्ता विक्रियाऽऽत्मनः ।। ९८ ।।

कार्य­ध­र्मा­न­ती­त्यै­तां­स्त­द्धे­तो­र­प्य­ति­क्र­मात् ।।
अपू­र्वा­न­प­रा­द्येकः पूर्णः स्वात्म­न्य­व­स्थितः ।। ९९ ।।

श्रुतिः स्वेनैव वचसा साक्षा­दि­त्या­दि­ल­क्ष­णम् ।।
समा­प­य्याऽऽ­त्म­वि­ज्ञानं भूयोऽ­प्या­ख्या­न­रू­प­कम् ।। १०० ।।

गृहीत्वा परिपप्रच्छ शाक­ल्य­म­भि­मा­नि­नम् ।।
याज्ञ­व­ल्क्या­त्मिका भूत्वा ह्यति­नि­र्ब­न्ध­का­रि­णम् ।। १०१ ।।

धनं निसृष्टं राज्ञेह ब्रह्मि­ष्ठो­द्दे­शतो यतः ।।
प्रष्टुं नैवा­धि­का­रोऽ­तोऽ­ब्र­ह्मि­ष्ठ­स्येह विद्यते ।। १०२ ।।

अब्र­ह्मि­ष्ठ­त्व­सि­द्ध्य­र्थ­म­तोऽ­प्रा­क्षी­द्रु­षाऽ­न्वितः ।।
स याज्ञवल्क्यः शाकल्यं साप­रा­ध­त्व­सि­द्धये ।। १०३ ।।

स एष नेति नेत्याद्यः प्रश्नो वाऽयं समीक्ष्यताम् ।।
मध्ये वाक्य­च्छि­दोऽ­भा­वा­दि­ति­श­ब्दस्य पूर्ववत् ।। १०४ ।।

समासव्यासरूपेण शाकल्यो यदपृच्छत ।।
ततः परस्ताच्छाकल्यं याज्ञ­व­ल्क्योऽ­प्य­पृ­च्छत ।। १०५ ।।

ऐकात्म्ये सर्वमेवेदं कार्य­का­र­ण­ल­क्ष­णम् ।।
समापनीयं निःशेषं समा­स­व्या­स­व­र्जिते ।। १०६ ।।

अपि शास्रार्थसंबन्ध उत्तरस्याः श्रुतेरयम् ।।
तदनुक्तौ यतः पूर्वं सर्वं स्यात्तु­ष­क­ण्ड­नम् ।। १०७ ।।

अष्टा­वा­य­त­ना­न्यत्र पृथिव्यादीनि निर्दिशेत् ।।
अग्न्योदयस्तथा लोका अमृताद्याश्च देवताः ।। १०८ ।।

शारी­र­प्र­मु­खा­स्त­द्व­दष्टौ ज्ञेया यथोदिताः ।।
पुरुषाः सर्व एवामी पुन­र्दि­क्षू­प­सं­हृताः ।। १०९ ।।

दिशश्च हृदये सर्वाः समाने हृदयादिकम् ।।
एवं समाने संक्षेपो विका­सोऽ­न­न्त­दे­वताः ।। ११० ।।

प्रत्य­ग्या­था­त्म्य­मो­हस्य महिमैष त्वयोदितः ।।
यतोऽविद्यैव प्रथते कार्यकारणरूपिणी ।। १११ ।।

स्वात्मा­वि­द्या­नु­रो­ध्येव समा­स­व्या­स­ता­म­गात् ।।
आत्मा स्वतस्तु भास्व­च्चि­न्मात्रः पूर्णो निरञ्जनः ।। ११२ ।।

यः स एतांस्त्वया पृष्टां­श्च­तु­रोऽ­प्य­ष्ट­का­निह ।।
निरुह्य कार्यतां नीत्वा प्रत्यु­ह्या­थाऽऽ­त्म­का­रणे ।। ११३ ।।

विभ­ज्य­का­र­णा­दु­च्चै­र्नीत्वा कार्यात्मतां मुहुः ।।
वस्तुवृत्तेन निःशे­षा­न्का­र्य­का­र­ण­ल­क्ष­णान् ।। ११४ ।।

योऽत्य­क्रा­म­द­ना­नात्वो भेद­सं­स­र्ग­व­र्जितः ।।
तं त्वौपनिषदं देव साक्षा­दि­त्या­दि­ल­क्ष­णम् ।। ११५ ।।

आस्वे­वो­प­नि­ष­त्स्वेनं यतो व्याचक्षते बुधाः ।।
कर्मकाण्डे विरो­धि­त्वा­न्नै­वैनं व्याचचक्षिरे ।। ११६ ।।

तं त्वौपनिषदं धीरा ब्रह्मात्मानं प्रचक्षते ।।
तं त्वा पृच्छामि शाकल्य तं मह्यं ब्रूहि तत्त्वतः ।। ११७ ।।

न चेद्वक्ष्यसि तं मे त्वं मूर्धा ते विपतिष्यति ।।
न विजज्ञौ च शाक­ल्य­स्त­मा­त्मानं यथोदितम् ।। ११८ ।।

ततः स याज्ञ­व­ल्क्यो­त्थ­शा­प­वा­क्या­ख्य­व­ह्निना ।।
दग्धः सद्यो ममारैव ब्रह्म­वि­द्वि­ड्ज्व­रा­न्वितः ।। ११९ ।।

कर्मप्रकरणे नायं श्रुतः पूर्वं कदाचन ।।
मित्यं ह्युपनिषत्स्वेव श्रूयते वैदिकीष्वयम् ।। १२० ।।

कर्म­का­ण्डा­द­प­च्छिद्य तेनात्रैवैष भण्यते ।।
अपि प्राप्तं कर्मकाण्डे तद्विरोधात्तु नाब्रवीत् ।। १२१ ।।

प्रत्य­ग्ज्ञा­नस्य नैवातः कर्मणा स्यात्समुच्चयः ।।
ऐका­त्म्य­व­स्तु­वि­ज्ञानं कर्मभिर्हि विरुध्यते ।। १२२ ।।

अपरे पण्डितंमन्याः सम्य­ग्ज्ञा­ता­त्म­त­त्त्वकाः ।।
कर्मव्यध्वेषु कुर्वन्ति यथा­व­स्त्वा­त्म­बो­ध­नम् ।। १२३ ।।

वस्तुतन्त्रं, न हि ज्ञानं कर्तृतन्त्रं क्रिया यथा ।।
कर्म­व्य­ध्वो­प­रो­धेन ह्यन्यथात्वं प्रपद्यते ।। १२४ ।।

यत्कर्तुमन्यथा कर्तुमकर्तुं वाऽपि शक्यते ।।
स्वात­न्त्र्या­त्तत्र भवता क्रियतां तद्यथेष्टकम् ।। १२५ ।।

वस्तु­वृ­त्ता­नु­रो­ध्येव यत्तु ज्ञानं भवेदिह ।।
व्यभिचारं न तद्याति पुरु­षे­च्छा­व­शा­त्क्व­चित् ।। १२६ ।।

उपवादिनेह विदुषो न भाव्यं कस्यचित्क्वचित् ।।
एवंविदपि सञ्श­त्रु­रु­प­वा­दा­द­भू­द्यतः ।। १२७ ।।

दग्धक्रोधनिदानः सन्या­ज्ञ­व­ल्क्योऽपि शत्रुताम् ।।
शाकल्यस्यापि संयाच उपवादैकदोषतः ।। १२८ ।।

तस्मा­न्नै­वो­प­वादी स्याद्या­ज्ञ­व­ल्क्योऽपि शत्रुताम् ।।
यस्मा­द­गा­त्क­ष्ट­तरं नोपवादादतः परम् ।। १२९ ।।

परलोकविनाशोऽपि विद्व­द्वि­द्वे­ष­का­र­णात् ।।
अग्नि­हो­त्रा­ग्नि­सं­स्कारं यतो नावाप शापतः ।। १३० ।।

परिमोषिणो यतोऽस्थीनि धन­श­ङ्का­प्र­चो­दिताः ।।
तान्य­प्य­स्या­र­प­ज­ङ्रुस्ते ब्रह्म­वि­द्वे­ष­हे­तुतः ।। १३१ ।।

अना­त्मा­र्थ­नि­षे­धेन यो नेतीति पुरोदितः ।।
विधिद्वारेण तस्यैव निर्देशार्थं परा श्रुतिः ।। १३२ ।।

मूलं च जगतो वाच्यमत आख्यानतोऽपि च ।।
जित्वा देया द्विजान्गाव इत्यर्थं चोत्तरा श्रुतिः ।। १३३ ।।

साधर्म्ये सति वैधर्म्यं शक्यं प्रष्टुं यतस्ततः ।।
साधर्म्यमुच्यते श्रुत्या तद्व­न­स्प­ति­म­र्त्ययोः ।। १३४ ।।

बीजा­द्व­न­स्प­ते­र्जन्म मूला­च्चे­हो­प­ल­भ्यते ।।
मर्त्यस्य जन्ममूलं यत्तद्ब्रूत ब्राह्मणा मम ।। १३५ ।।

रेतो मूलं न वो वाच्यं जीवतस्तद्धि जायते ।।
न मृतस्येह रेतोऽपि विद्यते कस्यचित्कचित् ।। १३६ ।।

अपि धानारुहो वृक्षो बीजा­त्त­ज्ज­न्म­द­र्श­नात् ।।
मृतस्य बीजस्थानीयं न च किंचि­दि­हे­क्ष्यते ।। १३७ ।।

धानारुहो यथा वृक्षः साक्षा­द­व्य­व­धा­नतः ।।
मर्त्यजन्म तथा साक्षा­द्य­त­स्त­द­भि­धी­य­ताम् ।। १३८ ।।

यथाऽनुभूतशक्तीह बीजं वृक्षस्य दृश्यते ।।
न च तादृ­ङ्मृ­त­स्यास्ति यस्मात्तस्य पुनर्भवः ।। १३९ ।।

दृष्टः काण्डरुहोऽपीह वृक्ष­स्त­द्व­च्च­ने­ष्यते ।।
हस्त­पा­दा­दि­त­श्छि­न्नान्न मृतस्य पुनर्भवः ।। १४० ।।

मूलाद्बीजाच्च वृक्षस्य साक्षा­द्य­दू­त्स­मु­द्भवः ।।
तद्वन्मृतस्य वक्तव्यं न तु पुत्रा­प्र­पौ­त्र­वत् ।। १४१ ।।

समूलबीजं चेद्वृ­क्ष­मा­वृ­हे­यु­स्त­दो­भ­यम् ।।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मा­न्मू­ला­त्प्र­रो­हति ।। १४२ ।।

मतं न जायमानोऽस्ति जातत्वादेव कारणात् ।।
पुमा­ञ्ज­नि­प्य­माणो वा संसारस्य प्रवाहतः ।। १४३ ।।

प्रवाहरूपी संसारो दीपा­र्चि­र्व­द­व­स्थितः ।।
न जायते जनिष्यन्वा तस्मादस्तीह कश्चन ।। १४४ ।।

जात एवेत्यतोऽसाधु यदुक्तं पूर्वपक्षिणा ।।
जनित्वा म्रियते सर्वो मृत्वा भूयश्च जायते ।। १४५ ।।

निर्बीजस्य च जन्मेह नाऽऽगमान्न च युक्तितः ।।
ब्रूतातो जगतो मूलं यतो भूयोऽभिजायते ।। १४६ ।।

तत्पृष्टं जगतो मूलं न विदुर्ब्राह्मणा यतः ।।
अतो जिता हृता गावो याताः सर्वे यथायथम् ।। १४७ ।।

पृष्टं यद्या­ज्ञ­व­ल्क्येन न विदु­र्ब्रा­ह्म­णाश्च यत् ।।
श्रुत्या स्वतन्त्रया तन्नो ब्रह्माऽऽ­वि­ष्क्रि­यते परम् ।। १४८ ।।

साक्षा­दि­त्या­दिना प्रोक्तस्तथा सर्वान्तरश्च यः ।।
अस्थू­लोऽ­न­णु­रि­त्ये­व­म­क्ष­रा­त्माऽ­व­धा­रितः ।। १४९ ।।

नेति नेतीति यश्चोक्त इहौपनिषदः पुमान् ।।
तस्य साक्षादयं श्रुत्या निर्देशः क्रियतेऽधुना ।। १५० ।।

विज्ञानमिति चैतन्यं कूटस्थमभिधीयते ।।
न कारकं न धात्वर्थो नापि यत्स्या­त्क्रि­या­फ­लम् ।। १५१ ।।

न चापि तदभावश्च नेत्य­स्थू­ला­दि­शा­स्रतः ।।
अभावस्यापि तत्सा­क्ष्या­त्त­द­भावः कुतो मितेः ।। १५२ ।।

एता­व­न्मा­त्र­या­था­त्म्या­त्का­र्य­का­र­ण­व­स्तुनः ।।
अत­स्त­त्त्व­म­सी­त्युक्त्या तादात्म्यं प्रतिपाद्यते ।। १५३ ।।

निर्धू­ता­शे­ष­दुः­खौ­घ­हे­तु­त्वा­त्सु­ख­मेव तत् ।।
अथैष एव परमो यो वै भूमेतिशास्रतः ।। १५४ ।।

विष­ये­न्द्रि­य­सं­व­न्धा­द्यत्तु दुःखं सुखायते ।।
आद्य­न्त­व­त्त्वा­त्तु­द्दुःखं दुःखसंस्कारजं तथा ।। १५५ ।।

अव्या­वृ­त्ता­न­नु­ग­त­भा­स्व­द्वि­ज्ञा­न­मा­त्रतः ।।
निर­वि­द्या­द्व­य­त्वा­त्त­त्सा­क्षा­द्ब्र­ह्मेति शब्द्यते ।। १५६ ।।

साविद्यः प्रत्यगात्मा यो विय­द्यो­नि­रु­दा­हृतः ।।
अन्त­र्या­म्या­दि­रू­पेण स एव प्रथते मृषा ।। १५७ ।।

अदृ­ष्ट­फ­ल­सं­प्रे­प्सो­र्दृ­ष्ट­क­र्म­फ­ल­त्यजः ।।
रातेर्धनस्य दातु­स्त­द्ब्र­ह्मेदं स्यात्परायणम् ।। १५८ ।।

अस्मि­न्प्र­शा­स्तरि सति क्रिया­त­त्फ­ल­सं­गतेः ।।
नियमो युक्तिमानेष कर्मि­णा­मु­प­प­द्यते ।। १५९ ।।

एवं संसरतस्तावत्परं ब्रह्म परायणम् ।।
जग­त­श्चा­प्यु­पा­दानं स्वात्मा­वि­द्या­स­म­न्व­यात् ।। १६० ।।

निविवृत्सोस्तु संसा­रा­न्मु­ने­स्त्य­क्तै­ष­णस्य च ।।
तद्वि­द­स्ति­ष्ठ­मा­नस्य समाप्तिः स्यात्परायणम् ।। १६१ ।।

दग्ध­मो­हा­न्ध­का­रस्य प्रत्य­ग्बो­धा­ग्निना मुनेः ।।
ऐकात्म्ये वर्तमानस्य ब्रह्मात्माऽस्य परायणम् ।। १६२ ।।

तद्विदो ब्रह्मणश्चेह भेदहेतोरसंभवात् ।।
ब्रह्मैव ब्राह्मणः साक्षा­दु­प­चा­रा­त्प­रा­य­णम् ।। १६३ ।।

यत्र वा अन्यदित्येवं यत्र त्वस्ये­ति­वा­क्यतः ।।
इत्यु­क्त्य­र्थो­प­रो­धेन व्याचक्षीत परायणम् ।। १६४ ।।

तस्मात्तमस्विनो ब्रह्म भेदेनैवप परायणम् ।।
ध्वस्ताविद्यस्य चैका­त्म्या­त्कै­व­ल्येन परायणम् ।। १६५ ।।

ब्रह्म­ण्या­न­न्द­श­ब्दोऽयं प्रयुक्तः सुखवाचकः ।।
संवेद्ये च सुखे लोक आनन्दाख्या प्रयुज्यते ।। १६६ ।।

विशे­ष­ण­त­याऽऽ­न­न्द­श­ब्दोऽ­न्य­त्रापि दृश्यते ।।
वेदान्तेष्वत आनन्दो विचार्योऽयं प्रयत्नतः ।। १६७ ।।

आनन्दो ब्रह्मेति तथा तैत्तिरीयश्रुतौ श्रुतम् ।।
अथैष एव इति च तथोदर्के प्रवक्ष्यते ।। १६८ ।।

भूमा तत्सुखमित्येवं छान्दो­ग्यो­प­नि­ष­द्वचः ।।
संवेद्योऽयं किमानन्दः किंवा नेति विचार्यते ।। १६९ ।।

ब्रह्मण्यानन्दः संवेद्यो लौकि­का­न­न्द­व­द्यदि ।।
युक्ताः शब्दास्तदैते स्युर्ब्र­ह्म­ण्या­न­न्द­वा­चकाः ।। १७० ।।

संवे­द्या­न­न्द­रूपं तद्वा­क्या­च्चे­त्प­रि­नि­श्चि­तम् ।।
प्रमा­णा­व­ग­ते­स्तत्र किं चिन्त्यमिति चेन्मतम् ।। १७१ ।।

नान्यो­न्या­ति­वि­रु­द्धा­र्थ­वा­क्यानां तत्र दर्शनात् ।।
अतिप्रमाणविषयं ब्रह्म सर्वत्र विश्रुतम् ।। १७२ ।।

यत्र त्वस्येति वचनं न दृष्टेरिति चापरम् ।।
विदि­ता­वि­दि­ताभ्यां तदन्यदेवेति च श्रुतिः ।। १७३ ।।

निरानन्दं तथा केचित्कैवल्यं प्रतिजानते ।।
तेषामपि निषेधार्थं कर्तव्याऽतो विचारणा ।। १७४ ।।

विक­ल्पा­सं­भ­व­श्चात्र वस्तु­वृ­त्त­त्व­का­र­णात् ।।
क्रियायां स्याद्वि­क­ल्पोऽयं न तु वस्तुन्यसंभवात् ।। १७५ ।।

वादि­वि­प्र­ति­प­त्तेश्च, केचेदिच्छन्ति वादिनः ।।
असंवेद्यं सुखं मोक्षे, केचिन्नेति प्रचक्षते ।। १७६ ।।

कर्तव्योऽतो विचारोऽत्र युक्तिमार्गेण यत्नतः ।।
सम्य­ङ्नि­श्च­य­सि­द्ध्यर्थं पक्षयोरुभयोरपि ।। १७७ ।।

संवेद्यानन्दकं ताव­द्ब्र­ह्मे­ती­हा­व­सी­य­ताम् ।।
जक्ष­त्क्री­ड­न्न­म­माण इत्या­दि­श्रु­ति­वा­क्यतः ।। १७८ ।।

नन्वेकत्वे विभागोऽत्र नास्ति कारकसंश्रयः ।।
भूरिकारकसाध्या च क्रिया लोकेऽपि दृश्यते ।। १७९ ।।

विज्ञानस्य क्रियात्वाच्च न सिद्धिः कारकैर्विना ।।
नातः संवेद्य आनन्दो ब्रह्म­णी­हो­प­प­द्यते ।। १८० ।।

नैष दोषोऽस्ति विज्ञानं स्यादे­वाऽऽ­न­न्द­गो­च­रम् ।।
विज्ञा­न­मा­न­न्द­मि­ति­श­ब्द­प्रा­मा­ण्य­का­र­णात् ।। १८१ ।।

ननु सत्स्वपि वाक्येषु नैतदध्यवसीयते ।।
प्रत्यर्थिनि श्रुतेर्वाक्ये सत्यै­का­त्म्या­व­बो­धिनि ।। १८२ ।।

मानान्तरविरोधेन न हि लोकेऽपि किंचन ।।
मानं प्रवर्तते तस्मा­न्नै­त­द­ध्य­व­सी­यते ।। १८३ ।।

व्यञ्जकत्वाच्च मानानां सिद्ध­व­स्तु­प्र­यो­ज्यता ।।
कार­क­त्वेऽ­प्य­का­र्य­त्वा­द्दुः­सं­भाव्यं त्वयोदितम् ।। १८४ ।।

ननु सुख्यहमस्मीति विज्ञानमनुभूयते ।।
प्रती­च्या­न­न्द­वि­षयं न प्रत्यक्षं विरोध्यतः ।। १८५ ।।

नैतेदेवं यतो मोक्षे विज्ञानं नोपपद्यते ।।
देहाभावो हि मोक्षोऽयं करणानि न सन्त्यतः ।। १८६ ।।

करणाद्यनपेक्षः सन्न च विज्ञानसंभवः ।।
तथा सति शरी­रा­दे­रु­पा­दा­न­म­न­र्थ­कम् ।।
तथै­क­त्व­वि­रो­धान्न संवेद्यानन्दकं परम् ।। १८७ ।।

यद्यानन्दात्मकं ब्रह्म नित्य­मा­त्मा­न­मा­त्मना ।।
तद्विज्ञानस्य नित्य­त्वा­ज्जा­नी­या­न्नि­त्य­मेव तत् ।। १८८ ।।

जले जलं यथा तस्मि­न्सं­सा­र्य­प्ये­कतां गतः ।।
सर्व एकी भवन्तीति न पृथक्त्वेन संस्थितः ।। १८९ ।।

तदा­न­न्दा­त्म­क­ब्र­ह्म­वि­ज्ञा­नाय मनागपि ।।
न तदेकत्वतो वेत्ति ब्रह्माऽऽनन्दं स्वकं तथा ।। १९० ।।

मुक्तोऽपि न च संसारी, तयोरेकत्वहेतुतः ।।
मुक्तो वेत्ति परानन्दमिति तस्माद्वचो मृषा ।। १९१ ।।

ब्रह्मा­न­न्द­म­थान्यः सन्वेद मुक्तो घटादिवत् ।।
ब्रह्मत्वमन्यो वेदेति तदैकत्वं विरुध्यते ।। १९२ ।।

प्रेत्य संज्ञेह नास्तीति श्रुतिरेव निषेधति ।।
मुक्तौ विभा­ग­वि­ज्ञा­न­मे­क­त्वा­देव कारणात् ।। १९३ ।।

स्रीपुं­दृ­ष्टा­न्त­व­चनं यद्वै तदिति चापरम् ।।
ज्ञात्रा­द्य­सं­भवं वक्ति कूट­स्थै­क­त्व­का­र­णात् ।। १९४ ।।

नेति नेत्यादिभूयांसि विरुध्यन्ते वचांस्यपि ।।
कार­का­द्य­भ्यु­प­गतौ मुक्तौ ब्रह्मणि केवले ।। १९५ ।।

विज्ञा­ना­न्द­यो­श्चै­क्या­द­सं­यो­ग­वि­भा­गतः ।।
आनन्दज्ञानविषया कल्पनेयं वृथा श्रमः ।। १९६ ।।

अज्ञा­ना­न्या­र्थ­वि­ज्ञा­न­प्र­स­क्ता­वेव युज्यते ।।
वेत्ति ब्रह्म सुखमिति न तु ज्ञानघनात्मनि ।। १९७ ।।

अज्ञा­ना­न्या­र्थ­वि­ज्ञा­न­प्र­स­ङ्गा­ङ्गी­कृ­ता­वपि ।।
जाड्यं जन्मादिबद्धत्वं ब्रह्मणः प्राप्नु­या­द्ध्रु­वम् ।। १९८ ।।

तस्मा­द्वि­ज्ञा­न­मि­त्यादि यथा­व­स्थि­त­व­स्तुनः ।।
वचोऽन्वाख्यायकं ग्राह्यं, न ज्ञाना­दि­वि­धा­य­कम् ।। १९९ ।।

जक्षदित्यादि यच्चोक्तं तच्चापि न विरुध्यते ।।
सर्वा­त्म­क­त्वा­द्वि­दुषः सर्व­तः­पा­णि­पा­द­वत् ।। २०० ।।

योगि­दे­वा­दि­दे­हेषु जक्ष­णा­द्यु­प­प­त्स्यते ।।
सर्वा­त्म­क­त्वा­द्वि­दुषः स्याद्वि­मु­क्ति­स्तु­ती­र­णम् ।। २०१ ।।

मतं जक्षणवन्मुक्तौ सर्वा­त्म­त्वा­त्प­रा­त्मनः ।।
दुःखित्वमपि संप्राप्तं कुम्भी­पा­का­दि­दे­हिषु ।। २०२ ।।

नैवं नामा­दि­सं­भू­ति­पि­ण्ड­प्रा­णा­दि­सं­श्रय -
संप­र्क­ज­नि­त­भ्रा­न्ति­दुः­खि­त्वा­ध्य­स्ति­हे­तुतः ।। २०३ ।।

विषयप्रविभागश्च विरुद्धवचसां मिथः ।।
प्रागे­वा­स्मा­भि­रु­क्तोऽसौ यथावदुपपत्तिभिः ।। २०४ ।।

आन­न्द­ब्र­ह्म­वि­ज्ञा­न­प­दा­र्थै­क­त्व­हे­तुतः ।।
नीलो­त्प­ला­दि­व­न्नातः संसर्गो ब्रह्मणीष्यते ।। २०५ ।।

मर्त्या­च्छ­त­गु­णे­नात उत्त­रो­त्त­र­वृ­द्धितः ।।
कार्यकारणरूपस्य निष्ठाऽऽनन्दः परो मतः ।। २०६ ।।

साध­ना­दि­व्य­पे­क्षैव सुख­सं­वि­त्ति­रि­ष्यते ।।
लौकिकी नश्वरी साऽपि दुःखसंस्कारजा तथा ।। २०७ ।।

कैवल्ये न तु सापेक्षा सर्व­सा­ध­ना­निः­स्पृहा ।।
आत्मै­वाऽऽ­न­न्द­या­थात्म्यं नातो ज्ञानादिसाधनम् ।। २०८ ।।

न जडं ज्ञान­रू­प­त्वा­दा­न­न्द­त्वान्न निःसुखम् ।।
नान्त­व­द्ब्र­ह्म­रू­प­त्वा­दिति वाक्यप्रमाणतः ।। २०९ ।।

आन­न्दै­क­स्व­भा­वोऽस्य सुषु­प्तेऽ­ध्य­व­सी­यते ।।
व्यावृ­त्ता­शे­ष­मा­त्रा­दे­र­न­न्या­नु­भ­वा­त्मना ।। २१० ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयाध्यायस्य नवमं ब्राह्मणम्
त्रयोदशैव ज्ञेयानि पञ्च­मेऽ­स्मि­न्स­मा­सतः ।।
शतानि वार्तिकग्रन्थे षष्ठे वक्ष्याम्यतः परम् ।।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीसु­रे­श्व­रा­चा­र्य­वि­र­चिते बृह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयोऽध्यायः