बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ (३)
सहोपलम्भमात्रेण सा तु सर्वत्र जायते |
धियो नो विषये शङ्का व्यभिचारानुसारिणी || ७२० ||
तदाशङ्कानिवृत्त्यर्थमतः कार्यं प्रयत्नतः |
साध्याभावेन तद्धेतोरभावपरिमार्गणम् || ७२१ ||
साध्याभावे कथं हेतोरभाव इति कथ्यताम् |
ज्ञानलक्षणसंप्राप्तावथवाऽप्यविशेषतः || ७२२ ||
यदि मालक्षणाप्तस्य साध्याभावादि भण्यते |
तदा भ्राष्ट्राद्यदूरस्थे साध्याभावादि सज्जते || ७२३ ||
प्रत्यक्षगोचरे साध्यभावश्चेत्प्रतिपाद्यते |
प्रत्यक्षेणैव सिद्धत्वादनुमैवं वृथा भवेत् || ७२४ ||
अधित्यकादौ देशे तु ह्युपलब्धेरसंभवात् |
मा भूदग्न्याद्यभावेऽपि कदाचिद्धूमसंभवः || ७२५ ||
यद्येवमन्वयोऽप्यत्र नैव प्राप्नोति तत्कथम् |
अन्यत्र यदि नाम स्याद्धूमभावेऽग्निभावता || ७२६ ||
दर्शनादस्तु सा कामं दर्शनाधीनसिद्धितः |
अधित्यकादौ देशे तु यावत्साक्षान्न दर्शनाम् || ७२७ ||
तावन्नावसितुं शक्यं भवितव्यमिहाग्निना |
इति धूमोपलम्भत्वाद्धाष्ट्रधूमोपलम्भवत् || ७२८ ||
इदं तावद्वदत्वत्र लिङ्गलक्षणतत्त्ववित् |
धूमादिलिङ्गेनेहार्थो भवता कोऽनुमीयते || ७२९ ||
नाग्निस्तस्य प्रसिद्धत्वान्नापि देशः प्रसिद्धितः |
न च संबन्धमात्रं स्याद्यथोक्तादेव कारणात् || ७३० ||
तस्मान्नैवानुमा नाम मानं युक्तिमदिष्यते |
मेयाभावादिति प्राप्तावत्र प्रतिविधीयते || ७३१ ||
सहोपलब्धिसंस्कारवशाद्धूमादिदर्शनात् |
अग्न्यादौ विप्रकृष्टेऽर्थे निश्तिता जायते मतिः || ७३२ ||
लिङ्गात्तावदिदं ज्ञानं जातं बाधकवर्जितम् |
उत्पन्नत्वात्तदुत्पन्नं नानुत्पन्नं कथंचन || ७३३ ||
जातं किमविनाभावसंबन्धेनेदमीदृशम् |
किंवा नेति परीक्षेयं जातत्वात्स्यादपार्थिका || ७३४ ||
सर्वथा फ़लवज्ज्ञानं जातत्वान्न तदन्यथा |
तस्मात्प्रत्यक्षवत्किंचिद्व्यभिचारकृदञ्जसा || ७३५ ||
यावन्नेक्षामहे तावन्नाप्रमाणमितीर्यते |
तदपह्नवमानस्य तवात्यन्तमसंभवात् || ७३६ ||
अत्राऽऽह यदि विज्ञानजन्ममात्रात्प्रसिध्यति |
प्रतिज्ञामात्रतः सिद्धेर्वृथा स्याद्धेतुकीर्तनम् || ७३७ ||
बाढमेवं भवेदेतदाशङ्काकारणं न चेत् |
किंचित्तत्रोपलभ्येत ह्यनवद्यं भवेद्वचः || ७३८ ||
पुरुषादिनिमित्तस्तु जायते यत्र संशयः |
अन्वयव्यतिरेकाभ्यां हेतोः स्यात्तत्र निश्चयः || ७३९ ||
उत्पन्न एव ज्ञानेऽतस्तत्संदेहनिवृत्तये |
अन्वयव्यतिरेकौ स्तो न ताभ्यामनुमेयधीः || ७४० ||
संदेहनिर्णयादन्यत्स्वभावादि यदुच्यते |
तस्यानुमित्यनङ्गत्वात्प्राप्तं तत्तुषकण्डनम् || ७४१ ||
अविनाभावसिद्ध्यर्थं नन्विदं वर्ण्यते त्रयम् |
त्रिष्वेव त्वविनाभावाद्भद्रं तैरपि कीर्तितम् || ७४२ ||
स्वभावादविनाभावे स्यादौष्ण्यस्याग्निलिङ्गता |
स्वभावोऽथाविनाभावात्कार्ये प्राप्ता स्वभावता || ७४३ ||
औष्ण्यस्वभावो दृष्टोऽग्निस्तस्यान्यत्राऽपि दर्शनात् |
क्षितितोयाग्निमरुतां दृष्टा स्पर्शस्वभावता || ७४४ ||
मतं चेदस्वभावोऽसौ यो नैकार्थप्रवृत्तिमान् |
धवादावपि तद्वृत्तेर्वृक्षात्मा शिंशपा न हि || ७४५ ||
शिंशपा वृक्ष एवेति ह्यविनाभावकारणात् |
क्षणिकत्वं न भावानां स्वभावः स्यात्तथा सति || ७४६ ||
तस्यानेकार्थशायित्वादहेतुत्वं प्रसज्यते || ७४७ |
क्षणिकत्वं यदैकस्य तदाऽसाधारणात्मता |
हेतोः साधारणात्मत्वं यदाऽनेकस्य तन्मतम् || ७४८ ||
अग्नेर्धूमाच्च धूमस्य कार्यत्वस्य समीक्षणात् |
अनैकान्तिकता हेतोः कार्यत्वस्येह सज्जते || ७४९ ||
यदि नाम सदा स्पर्शो वाय्वादावपि वर्तते || ७५० ||
नैतावता भवेल्लोके गौरस्पर्शस्वभाविका |
भुवो हि स्पर्शवत्त्वस्य लोकेऽस्मिन्सुप्रसिद्धितः || ७५१ ||
किंचाप्यव्यभिचारेण स्वभावत्वं विवक्षतः |
स्वभावान्नैव संसिध्येद्वस्तुनोऽव्यभिचारिता || ७५२ ||
त्रिष्वेव त्वविनाभावादिति यद्धर्मकीर्तिना |
प्रत्यज्ञायि प्रतिज्ञेयं हीयेतासौ न संशयः || ७५३ ||
तथैवाव्यभिचारेण स्वभावत्वं विवक्षतः |
पुरैवाव्यभिचारस्य संसिद्धेः किं ततोऽपरम् |
स्वभावहेतुना साध्यं वदं यत्ते विवक्षितम् || ७५४ ||
अग्नेश्चाव्यभिचारित्वात्कार्यस्यापि स्वभावता |
धूमस्याऽऽप्नोति भेदो वा द्वयोर्हेत्वोर्निवर्तते || ७५५ ||
कार्यत्वेऽपि च धूमादेर्न सोंऽशोऽनुमितौ मतः |
व्यभिचाराच्छराच्छृङ्गाच्छरस्योत्पत्तिरीक्ष्यते || ७५६ ||
कार्यत्वान्नैव धूमादिरेति निश्चयहेतुताम् |
व्यभिचारहेत्वसद्भावादग्नेर्हेतुत्वमेत्यसौ || ७५७ ||
अनेककारणं कार्यं यस्माद्दृष्टं शरादिकम् |
तस्मादव्यभिचारेण कार्यमप्येति हेतुताम् || ७५८ ||
अपेक्षाऽप्यत्र लिङ्गोक्तेः कार्यादौ नैव जायते |
अकार्यश्चास्वभावश्च नालिङ्गं कृत्तिकोदयः || ७५९ ||
कृत्तिकात्वादिति ह्युक्तेर्नैव कार्यस्वभावयोः |
अपेक्षा जायते किंतु ह्यन्वयेतरमात्रतः || ७६० ||
अकार्यत्वास्वभावत्वादविनाभावमात्रतः |
उदयः कार्तिको लिङ्गं प्रत्यासत्तेर्भवेद्ध्रुवम् || ७६१ ||
रौहिणस्योदयस्यातो न स्वभावाद्यपेक्षते |
यतोऽतो न स्वभावादेर्हेतुत्वमुपपद्यते || ७६२ ||
नाऽऽत्मनि स्यात्स्वशब्दोऽत्र विरुद्धा स्वात्मनि क्रिया |
कार्यस्यापि स्वभावत्वं भवेदात्मीयवाचके || ७६३ ||
किमात्मैव स्वशब्देन किं वेहाऽऽत्मीय उच्यते |
स्वभाव आत्मनो भाव इति चेद्भवतो मतम् || ७६४ ||
स्व एवाऽऽत्मा स्वभावश्चेत्तदाऽन्यस्य ह्यसंभवात् |
व्यतिरिक्तस्य मेयस्य स्यादात्मैवाऽऽत्मनोऽनुमा |
तथाच पक्षहेत्वादेरनन्यत्वं प्रसज्यते || ७६५ ||
अथ स्वस्य स्वभावश्चेदात्मीयोऽर्थो विवक्षितः |
आत्मीयः शिखिनो धूमस्तस्यापि स्यात्स्वभावता || ७६६ ||
संवित्तिभावयोर्भेदो यथैवं तदभावयोः |
न भेदोऽनुपलब्धिर्वो नातो लिङ्गं कथंचन || ७६७ ||
एवं लौकिकतादात्म्यतदुत्पत्ती प्रतीरितम् |
अथ स्वप्रक्रियाक्लृप्तं स्वभावादि परीक्ष्यते || ७६८ ||
अन्यापोहनपक्षेऽपि शब्दव्यावृत्तिभेदतः |
न हेतोः स्यात्स्वभावत्वं क्रियात्वं च न विद्यते || ७६९ ||
वृक्षोऽयं शिंशपेत्यत्र त्वतृक्षार्थविविक्तकम् |
वृक्षव्यक्तिषु सर्वत्र रूपमस्ति किलेदृशम् |
अशिंशपाविविक्तं च तद्वदेवाभिधीयते || ७७० ||
तत्रावृक्षविविक्तेऽर्थे संकेतो वृक्षसंज्ञया |
अशिंशपाविविक्ते च संकेतः शिंशपेति च || ७७१ ||
वृक्षोऽयं शिंशपेयं च भवेद्व्यवहृतिस्ततः ||
शब्दार्थारोपणेनैव सविकल्पधियो जनिः || ७७२ ||
शब्दार्थापोहयोर्लिङ्गे ज्ञेया गमकगम्यता |
स्वभावकार्ये लिङ्गे स्तः स्वाभाव्यादि च लिङ्ग्यते || ७७३ ||
न तत्र तावद्विज्ञानं तद्ग्राह्येऽस्तीह वस्तुनि ||
स्वभावो वाऽथवा कार्यं विकल्पोऽयं मतो यतः || ७७४ ||
न वस्तुस्पृग्विकल्पत्वाच्छब्दालम्बनमात्रतः |
शब्दाः सन्तः कथं तेऽर्था ह्यर्हन्ति भवितुं क्वचित् || ७७५ ||
स्वभावकार्यतासिद्धिरनुमानसमाश्रयात् |
ताभ्यां चाप्यनुमासिद्धिरेवमन्योन्यसंश्रयः || ७७६ ||
अशिंशपानिवृत्तिर्हि न स्वभावो भवेद्यतः |
अवृक्षापोहरूपस्य तयोरत्यन्तभेदतः || ७७७ ||
अप्यधूमनिवृत्तिश्चानग्निव्यावृत्तिरूपिणः |
न कार्यं स्यात्स्वभावो वा तयोरत्यन्तभेदतः |
तद्व्यक्तेरग्निकार्यत्वान्न सा कार्यं भवेदतः || ७७८ ||
अथान्यापोहवद्वस्तु गम्यं गमकमेव च |
वक्तव्यं तत्र किं मानमदृष्टौ न त्रिरूपता || ७७९ ||
अशिंशपानिवृत्त्यात्मरूपं वस्त्वे चेन्मतम् |
अवृक्षापोहरूपं च तयोर्गमकगम्यता || ७८० ||
अशिंशपानिवृत्यात्म स्वभावाद्गमकं भवेत् |
अवृक्षात्मनिवृत्त्यात्म गम्यं च स्यात्तदेव तु || ७८१ ||
स्वपक्षसिद्धयेऽप्येवं क्लिश्यतोऽपि न सिध्यति ||
पक्षोऽयं बुद्धभक्तस्य यथा तदभिधीयते || ७८२ ||
अशिंशपानिवृत्तिर्वः कुतोऽज्ञायि प्रमाणतः || ७८३ |
प्रत्यक्षेण न तावत्सा तस्य सद्वस्तुमानतः |
लिङ्गान्तरस्य चाभावान्नापि लिङ्गात्प्रसिध्यति || ७८४ ||
उपलप्स्यामहे शब्दादेवैनामिति चेन्मतम् |
अनादिमद्व्यवहृतेः संबन्धस्य च सिद्धितःस || ७८५ ||
किंमानपूर्वकोऽस्यार्थसंबन्ध इति नोच्यते |
सिध्यत्येवं भवत्पक्षो दोषोऽपि स्यादनीप्सितः || ७८६ ||
एवं यतोऽभ्युपगतौ लिङ्गं स्याच्छब्द एव तु |
न स्वभावोऽथवा कार्यं प्रतिज्ञा च मृषा भवेत् || ७८७ ||
त्रिष्वेव त्वविनाभावादिति योक्ता प्रयत्नतः |
प्रतिज्ञार्थस्य संत्यागो न युक्तः शाक्यभिक्षुभिः || ७८८ ||
ननु चाशिंशपाद्यर्थविविक्तोऽर्थः प्रतीयते |
शब्दादेव तु तज्ज्ञानादवृक्षार्थमतिर्भवेत् || ७८९ ||
अशिंशपानिवृत्तिर्या काऽसाविह भवन्मता |
नाभावोऽसौ यतोऽभावो मतो वोऽनुपलब्धितः || ७९० ||
शिंशपानुपलब्धिश्चेदन्यव्यावृत्तिरूपतः |
ततोऽभावात्तथा सिद्धोऽवृक्षाभावोऽपि सर्वदा || ७९१ ||
उपलब्ध्यभावतो नैवं यथा तदभिधीयते |
कोऽभावानुपलब्ध्योर्वो भेदः स्यादिति कथ्यताम् || ७९२ ||
ननूपलब्ध्यभावो योऽनुपलब्धिः स उच्यते |
भावाभावस्त्वभावोऽपि प्रसिद्धं जगति द्वयम् || ७९३ ||
सत्यमेवं तथाऽप्यत्र प्रष्टव्यमवशिष्टते |
किंचोपलब्ध्यभावेन सा सिद्धा किं ततोऽन्यतः || ७९४ ||
घटाभावं घटो यद्वद्धटाभावत्वकारणात् |
मिनोति नाऽऽत्मनोऽभावमुपलब्धिस्तथैव च || ७९५ ||
माभावस्याप्यभावेऽस्मिन्संसिद्धेरनुभूतितः |
सैवातोऽनुपलब्ध्युक्त्या भवद्भिरुपवर्ण्यते || ७९६ ||
भावाभावोऽपि किंचातः शृण्वतो यद्भविष्यति || ७९७ ||
उपलब्ध्या विनाऽभावाद्यद्यभावः प्रसिध्यति |
तदोपलब्ध्यभावोऽसौ यो भावो भवतोच्यते || ७९८ ||
यदि तद्व्यतिरेकेण तदा वक्तव्यमेव ते ||
किंभूतं ते तदा चित्तमभावप्रसमीक्षणे || ७९९ ||
उपलब्ध्यभावं मुक्त्वेह नान्यादृक्चित्तमीक्ष्यते |
किंचोपलब्धितः सर्वसिद्धिमाप्नोति नान्यथा || ८०० ||
न तादात्म्यतदुत्पत्ती मिथोऽयोगादपोहयोः |
न स्वलक्षणयोस्तद्वन्नाप्यपोहवतोस्तयोः || ८०१ ||
नासत्सद्व्यतिरेकेण नासता च सदन्वितम् ||
सति नासदभावोऽपि ह्युक्तं तादात्म्यमागमात् || ८०२ ||
यथाऽसत्सति संवित्तौ सदप्येवं प्रतीयताम् |
तदेतदिति च स्पष्टं श्रुतिरैकात्म्यमब्रवीत् || ८०३ ||
न च भेदमनाश्रित्य स्वभावादि प्रसिध्यति ||
योगस्य भेदनिष्ठत्वान्न च भेदः पुरोक्तितः || ८०४ ||
स्रजि सर्पादिकः क्लृप्तो नाभिन्नो भिन्न एव वा |
यथोक्तन्यायमार्गेण स्वभावादि ततः कुतः || ८०५ ||
एवमागमतः सिद्ध ऐकात्म्येऽनुभवाश्रयात् ||
नान्यसिद्धान्तसंसिद्धिर्लभ्युते सर्वतार्किकैः || ८०६ ||
स्वोक्त्यैवाह्नुतेः कृत्स्नवस्तुनोऽतो न यत्यते |
निराचिकीर्षया शून्यवादिनोऽविषयत्वतः || ८०७ ||
न मृत्यवः स्वभावोऽस्य कार्याणि करणानि च ||
कुतस्तदिति चेदाह स वा इति परा श्रुतिः || ८०८ ||
स्वप्नो भूत्वा यथाऽत्येति मृत्यो रूपाण्यसङ्गतः |
आत्मैकस्मिन्नपि तनौ म्रियमाणस्तथैव सः || ८०९ ||
शरीरमिति वाक्येन जायमानविशेषणम् |
क्रियते न स्वतस्तस्य जन्माद्यैः संगतिर्यतः || ८१० ||
मोहाल्लिङ्गात्मनोत्क्रान्तः श्रुतकर्मानुरूपतः |
मिथ्याभिमानतो देहं यदाऽऽत्मेत्यभिमन्यते || ८११ ||
देहं संपद्यमानोऽजस्तदाऽऽत्मा जायते खवत् ||
घटादिजन्मना तद्वत्तन्नाशे म्रियतेऽमरः || ८१२ ||
संपद्यमान एवाऽऽत्मा जायते म्रियते यतः ||
न तत्पूर्वं तदूर्ध्वं वा तेन वा अवधारणम् || ८१३ ||
पाप्मेति देहसंबन्धहेतुमात्रमिहोच्यते |
आ विरिञ्चात्तथाऽऽस्थाणोः सर्वं कर्मात उच्यते || ८१४ ||
ब्रह्मादीनां शरीराणि श्वसूकरशरीरवत् |
यतो जिहासितान्येव तस्माद्धर्मेऽपि पाप्मगीः || ८१५ ||
दुःखाभावः सदेहस्य नैवास्तीति श्रुतेर्वचः |
तस्माद्दैवोऽप्यनर्थः स्याद्देहो नाशाच्च सर्वदा || ८१६ ||
कर्म नाऽऽरभते यावद्दुःखादिफ़लमात्मनः |
असत्समं भवेत्तावत्तदपूर्वात्मना स्थितम् || ८१७ ||
शरीरं पाप्मनां कार्यं धर्माधर्मात्मनामिदम् |
तस्मिन्नात्माभिमानो यः सा संपत्तिरविद्यया || ८१८ ||
देहकर्मक्ष्ये देहपातश्चास्य यदा तदा ||
पाप्मनः कर्मकार्याणि विजहात्यमृतोऽव्ययः || ८१९ ||
जहाति मृत्यो रूपाणि मृतिस्वप्नादिभूमिषु |
न तु मृत्युमृते ज्ञानाज्जहात्यात्मा निजं तमः || ८२० ||
पाप्मादिप्रकृतादानत्यागाभ्यामनिशं यथा |
धिया समानः सन्नात्मा संसरत्या विमोक्षतः || ८२१ ||
परलोकेहलोकौ च तथैवायमविद्यया |
मृतिजन्मप्रबन्धेन संसरत्या विमोक्षतः || ८२२ ||
यत एवमतः सिद्धा देहादिभ्योऽन्यताऽऽत्मनः |
तत्संयोगवियोगाभ्यां स्रग्वस्राभरणादिवत् || ८२३ ||
न हि च्छिन्नेन कर्णेन तद्वानस्मीति मन्यते |
यथैवमवशिष्टेन तद्विशेषणहेतुतः || ८२४ ||
आभिमानिक एवास्य येन येन विशेष्यते |
आत्माऽविशेषणोऽतः स्यात्स्रगाभरणवस्रवत् || ८२५ ||
ननु न स्तोऽस्य लोकौ द्वौ यावात्मा संचरत्ययम् |
मृत्युजन्मप्रबन्धेन जाग्रत्स्वप्नाख्यलोकवत् || ८२६ ||
स्वप्नजागरितौ लोकौ यथा प्रत्यक्षमानतः |
परलोकेहलोकौ तु न तथा मानगोचरौ || ८२७ ||
प्रात्यक्ष्यादस्य लोकस्य नास्त्याशङ्काऽस्ति तां प्रति |
परलोकेऽपि नाऽऽशङ्का तत्सिद्धेरागमात्सदा || ८२८ ||
प्रत्यक्संवित्प्रमाणत्वं परलोकेहलोकयोः |
स्वप्नवन्नान्यमानत्वमित्यस्तित्वं विवक्षितम् || ८२९ ||
इत्याशङ्क्योत्तरो ग्रन्थस्तस्य वा इति भण्यते |
इत्येष तावत्संबन्धस्तथाऽन्योऽप्यभिधीयते || ८३० ||
आत्मा ज्योतिरिति ह्येकः समान इति चापरः |
पाप्मनो विजहातीति पदार्थाः सूत्रितास्रयः || ८३१ ||
स्वप्नेन निर्णयो वाच्य एतेषामित्यतोऽधुना |
तस्येति वर्ण्यतेऽथेदं विधिना येन तच्छृणु || ८३२ ||
अयं चाप्यभिसंबन्धस्तथा चान्याऽपि वर्ण्यते |
स्वयंज्योतिर्य आत्मोक्तस्तस्याविद्याक्रियोद्भवाः || ८३३ ||
कर्मोपभोगसिद्ध्यर्थं वर्ण्यन्ते भूमयोऽधुना |
इदं जन्म परं चैव स्वप्नस्तन्मध्यगस्तथा || ८३४ ||
भावि यज्जन्म यच्चेदं प्रत्यक्षमनुभूयते |
एते एव विभोः स्थाने द्वे एवेत्यवधारणात् || ८३५ ||
ननु स्वप्नोऽपि लोकोऽस्य कथं स्यादवधारणम् |
द्वे एवेति, न संध्यत्वात्स्वप्नस्य स्थानयोर्द्वयोः || ८३६ ||
संध्यं तृतीयमित्युक्तिः पूरणप्रत्ययश्रुतेः |
न स्थानान्तरनिद्दनुत्यै यत्तूक्तमवधारणम् || ८३७ ||
तदयोगव्यवच्छित्त्यै नान्ययोगव्यपेक्षया |
तस्मिन्संध्य इतीदं च तथा सति समञ्जसम् || ८३८ ||
स्वप्नेहलोकयस्तावत्सत्त्वं प्रत्यक्षगोचरम् |
परलोकस्य सद्भावे किं प्रमाणमितीर्यताम् || ८३९ ||
अस्मिन्नेव तु स स्वप्ने स्थाने तिष्ठन्प्रपश्यति ||
इमं लोकं परं चाऽऽत्मा कर्मज्ञानादिसंस्कृतः || ८४० ||
भूतजन्मनि यद्भुक्तं कर्म तद्भावनाञ्जितः |
पौर्वदैहिकमेवातो वयस्याद्येऽभिवीक्षते || ८४१ ||
मध्ये वयसि कार्कश्यात्कारणानामिहाऽऽर्जिताः |
प्रायेण वीक्षते स्वप्ने वासनाः कर्मणो वशात् || ८४२ ||
वियासुः परलोकं तु कर्माविद्यादिसंवृतः |
भाविनो जन्मनो रूपं स्वप्ने प्रायेण पश्यति || ८४३ ||
भुक्तत्वादविवक्षेह व्यतिक्रान्तस्य जन्मनः |
परलोकेहलोकौ तु गृह्येते संध्यसिद्धये || ८४४ ||
सुखेन दर्शनं तावदैहिकस्येह जन्मनः ||
यथा तु परलोकस्य तथाऽथेत्यभिधीयते || ८४५ ||
स्वप्नस्थानं समाश्रित्य परलोकं प्रपश्यति |
विधिना केन किंचाऽऽत्मा समाश्रित्य प्रपश्यति || ८४६ ||
अथैतदुच्यते स्पष्टं तद्यथाबत्प्रतीयताम् |
येनाऽऽक्रामत्युमुं लोकं सोऽस्याऽऽक्रम इहोच्यते || ८४७ ||
यादृक्साधनमस्येह परलोकाप्तये चितम् ||
आक्रमः स यथा यस्य सोऽयमात्मा यथाक्रमः || ८४८ ||
यथाक्रमो यथोपायो विद्याकर्मादिलक्षणः |
परलोकोन्मुखीभूतं तमाश्रित्याऽऽक्रमं स्वकम् || ८४९ ||
स्थानं निर्माय संध्याख्यं विपाकानुभयानयम् |
अधर्मधर्मयोरात्मा दुःखानन्दान्प्रपश्यति || ८५० ||
पाप्मनोऽधर्मकार्याणि तथाऽऽनन्दांश्च धर्मजान् |
आगमादन्यतः साक्षान्न तु पापादिदर्शनम् || ८५१ ||
धर्माधर्मप्रयुक्तो वा देवतानुग्रहात्तथा |
आनन्दान्पाप्मनश्चित्रान्स्वप्न आत्मा प्रपश्यति || ८५२ ||
इह जन्मन्यसंभाव्यं स्वप्ने यस्मात्प्रपश्यति ||
परलोकाश्रयं तादृक्तस्मात्स्वप्नसमीक्षणम् || ८५३ ||
संध्यस्वप्नविधिस्तावदेवं समुपवर्णितः ||
परलोकप्रसिद्ध्यर्थं तस्य वा इति वाक्यतः || ८५४ ||
यदुक्तं विरहेऽशेषसूर्यादिज्योतिषामयम् |
पुमान्व्यवहरत्यात्मज्योतिषैवेति लिङ्गतः || ८५५ ||
भान्वादिसर्वज्योतिर्भ्यो विविक्तोऽयं पुमानिति |
क सिद्ध इति वक्तव्य यथोक्तार्थप्रसिद्धये || ८५६ ||
स्वयंज्योतिःप्रसिद्धिर्वा पूर्वमुक्ताऽनुमानतः |
साक्षादव्यवधानेन तत्प्रसिद्धिरथोच्यते || ८५७ ||
स स्वयंज्योतिरात्मैव बाह्यज्योतिर्विवर्जितः |
यथा भवति साक्षाच्च तथेदमभिधीयते || ८५८ ||
यत्र यस्यामवस्थायां स्वपितीत्यभिधीयते |
पुरुषोऽजं स्वमात्मानं तदाऽपीतो भवत्ययम् || ८५९ ||
जाग्रत्कर्मक्षयादात्मा बाह्यदेहाभिमानतः |
व्युत्थाय स्वप्रधानः सन्स्वप्नमायां समीक्षते || ८६० ||
प्रवृत्तं फ़लदानाय यदिदं जन्म वर्तते |
अस्येति लोकशब्देन तदेतदभिधीयते || ८६१ ||
जुहोत्यादिक्रियाद्वारा यस्मात्सर्वमवत्ययम् |
सर्वावानिति तेनायमात्मा देहान्त उच्यते || ८६२ ||
कृत्स्नं जगदुपादाय क्रियैकैकस्य सिध्यति |
जुहोत्यादिर्जगद्धेतुः सर्वावानुच्यते ततः || ८६३ ||
अद्यात्मादिविभागेन सर्वा वाऽस्याऽऽत्मनो यतः |
भूतभौतिकमात्राः स्युः सर्वावानुच्यते ततः || ८६४ ||
सर्वावतोऽस्य देहस्य स्वप्नभोगप्रसिद्धये |
आदाय वासनामात्रां स्वप्नमायां तनोत्ययम् || ८६५ ||
अध्यात्मादिविभागेन मात्रा जागरिते यथा |
भोगेनेहापचीयन्ते प्रचीयन्ते च कर्मभिः || ८६६ ||
स्वप्नभूमावपि तथा कर्मणोत्थापिता इमाः |
क्षयवृद्धिप्रबन्धेन मात्राः स्युर्वासनात्मिकाः || ८६७ ||
धिया धियेति च तथा प्रागेतदुपपादितम् |
ह्रासवृद्धिप्रबन्धेन यथेदं वर्तते जगत् || ८६८ ||
स्वयमेव विहत्येति देवता प्रतिषेधकृत् |
विशेषणं स्वय मिति देहपाते ऽस्यभण्यते || ८२९ ||
स्वात्मापसर्पणाद्देहं निःसंबोधं करोति यः |
सुषुप्सुः कर्मणां ध्वस्तौ विहत्येत्युच्यते ततः || ८७० ||
भान्वाद्यनुग्रहाद्बोध आत्मनश्चक्षुरादिषु |
देहस्य व्यवहारार्थं देहव्यवहृतिस्तथा || ८७१ ||
आत्मकर्मप्रयुक्तैव धर्मादिफ़लभुक्तये |
कर्मणः फ़लभोगान्ते देहो यस्मात्पतत्ययम् || ८७२ ||
निर्मायेति स्वयं तद्वदात्मकर्मव्यपेक्षया |
स्वप्नप्रपञ्चनिष्पत्तिर्यस्मात्तस्माद्विशेषणम् || ८७३ ||
अपास्ताशेषकरणदैवतस्यापि चाऽऽत्सनः |
क्रियाकारकसिद्ध्यर्थं भावनैवास्य कारणम् || ८७४ ||
निर्मातव्योऽथ भोक्तव्यो यो लोकोऽभूदिहाऽऽत्मनः ||
तेन तेन स्वरूपेण भावना व्यवतिष्ठते || ८७५ ||
अपेतकारकत्वोऽपि कर्मोत्थापितभावनः |
भावनाकारकेक्षित्वादात्मैकः कारकायते || ८७६ ||
जाग्रतो यदुपात्तं प्राग्भावनालक्षणं स्वयम् |
भास्वद्धीसंश्रयं ज्ञानं भाःशब्देन तदुच्यते || ८७७ ||
बुद्ध्यादिकरणोत्थाया व्यावृत्त्यर्थं विशेषणम् |
स्वेनेति भासः प्रत्यक्चिदभिव्यक्तिकृतोऽभिधा || ८७८ ||
स्वशब्दाविह विज्ञेयावात्मीयात्मार्थवाचिनौ |
भाज्योतिरनुरोधेन सामर्थ्यादेव कारणात् || ८७९ ||
परार्था भावना यस्मात्स्वार्थं ज्योतिश्चिदात्मनः |
उक्तार्थवाचिनौ तस्मात्स्वशब्दौ समुदाहृतौ || ८८० ||
स्वयंज्योतिरिति प्रोक्तो निष्क्रियोऽकारकोऽफ़लः |
यः स एव स्वयंज्योतिर्ज्योतिःशब्देन भण्यते || ८८१ ||
निःशेषलोकधीवृत्तिसाक्षिणैवाविकारिणः |
प्रतीच ईदृशी वृत्तिः स्वपीतीत्यभीधीयते || ८८२ ||
पीताध्यात्मादिकज्योतिर्जाग्रच्छब्दादिवर्जितः |
वासनोपाधिरात्मैकः स्वयंज्योतिरितिर्यते || ८८३ ||
मातृमानप्रमेयादिसामग्नी वासनात्मिका |
स्वप्ने भाःशब्दवाच्याऽस्य स्वयंज्योतिप आत्मनः || ८८४ ||
प्रमातृत्वादिका सर्वा प्रथते विषयात्मना |
भावना स्वार्थरूपस्य प्रतीचोऽलुप्तचक्षुषः || ८८५ ||
मातारं मेयसंबद्धं जाग्रद्भूमौ यथेक्षते |
निष्क्रियो वासनाराशिं स्वप्नभूमौ तथेक्षते || ८८६ ||
स्वयंज्योतिरयं प्रत्यङ्सर्वसाधननिस्पृहः |
कूटस्थो वासनाः स्वप्ने चिदाभासाः करोत्ययम् || ८८७ ||
तत्संनिधौ चिदाभत्वं कार्यकारणवस्तुनः |
यत्तदस्याऽऽत्मनो मोहाद्द्रष्टृत्वमुपचर्यते || ८८८ ||
ज्योतिषाऽकारकेणाऽऽत्मा वर्ततेऽसंस्पृशन्परम् |
चिदाभा वासनाश्चैवं संगतिर्न तयोर्मिथः || ८८९ ||
यथा जात्यमणेः शुद्धा ज्वलन्ती निश्चला शिखा |
संनिध्यसंनिधानेषु घटादीनामविक्रिया || ८९० ||
निःशेषबुद्धिसाक्ष्येवं परमात्मप्रदीपकः |
संनिध्यसंनिधानेषु धीवृत्तीनामविक्रियः || ८९१ ||
न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते |
उपचारात्क्रिया साऽस्य यः प्रकाश्यस्य संनिधिः || ८९२ ||
यदेवं वर्तनं श्रुत्या स्वपितीति तदुच्यते |
इत्थंभूते तृतीयाऽतः स्वेन भासेति गृह्यते || ८९३ ||
सामग्र्यभावान्नैवेह कर्तृत्वादि विवक्ष्यते |
आत्मनोऽकारकत्वं च प्राधान्येन विवक्षितम् || ८९४ ||
भान्वादिबाह्यज्योतिर्भिः संकीर्णः प्रागभूदयम् |
अन्यस्य ज्योतिषोऽभावात्स्वयंज्योतिः पुमानयम् || ८९५ ||
नान्यत्र कारणाद्वृत्तिः कार्याणां जागरेऽपि हि |
कारणं त तमस्व्यात्मा नातः स्वप्ने मनस्थितिः || ८९६ ||
ननु जाग्रच्छरीरादेर्मात्रोपादानमीरितम् |
तस्मिन्सति स्वयंज्योतिः कथमात्माऽभिधीयते || ८९७ ||
सत्यमेवं तथाऽपीदं मात्रादानं परात्मनः |
सर्वदा विषयीभूतं गन्धर्वनगरादिवत् || ८९८ ||
एतस्मिन्ननृतोपाधौ शक्यो दर्शयितुं परः |
वासनालक्षणे साक्षात्स्वयंज्योतिःस्वभावकः || ८९९ ||
सर्वोपाधिविनिर्मुक्तौ नैव शक्यः स ईक्षितुम् |
सुषुप्त इव तेनासन्मात्रादानमिदं कृतम् || ९०० ||
ननु जाग्रद्वदीक्ष्यन्ते ग्रहीतृग्रहणादयः |
स्वयंज्योतिः कथं तेषु सत्सु स्वप्नेऽभिधीयते || ९०१ ||
नैतदेवं, कुतो जाग्रद्वैलक्षण्यात्मकत्वतः |
स्वप्नस्य देहबुद्ध्यादेः स्वप्नवृत्तावसंभवात् || ९०२ ||
आत्मबुद्धिमनश्चक्षुरालोकार्थादिलक्षणम् |
जाग्रदेव न तु स्वप्नो भावनामात्रशेषतः || ९०३ ||
आविश्चिकीर्षुः साक्षादिममर्थं च श्रुतिः परा |
न तत्रेति प्रवृत्तैषा प्रत्यगात्मविशुद्धये || ९०४ ||
कर्मकृद्धिषणान्तो यः कामाविद्यासमन्वितः |
स्वापबोधाविमौ तस्य न तु तत्साक्षिणो दृशेः || ९०५ ||
कूटस्थज्योतिषैवाऽऽस्ते स्वप्नस्थानेऽक्रियोऽद्वयः |
चिदाभया वासनया तत्साक्षित्वं प्रकल्पते || ९०६ ||
तत्प्रयोक्तृक्रियाभावाद्वुद्ध्यादिज्योतिपामिह |
न व्यापृतिरतः प्रत्यङ्ज्योतिपा स्वेन वर्तने || ९०७ ||
जाग्राद्वस्तूनि सर्वाणि भावनामात्ररूपताम् |
जाग्रत्कर्मक्षये यान्ति स्वप्नकरमोद्भवे सति || ९०८ ||
ता भावना उपादाय प्रत्यङ् स्वप्ने रिरंसया |
करोत्येष रथाद्यर्थं स्वप्नभोगप्रसिद्धये || ९०९ ||
करणं कर्म कर्ता च कर्मैतत्कारकात्मकम् |
प्रत्यङ्भोहैकनिष्ठं सच्चिदाभत्वात्तदात्मनि || ९१० ||
कार्यकारणरूपेण कर्मैतत्प्रथते जगत् |
आत्मन्येतत्समध्यस्तमात्माविद्यैकहेतुतः || ९११ ||
सर्वस्य कर्मणोऽत्यन्तमात्माऽकर्ता विलक्षणः |
तत्संहतः स्वयं त्वात्माऽसंहतो निर्गुणः शुचिः || ९१२ ||
अविद्यया स्वमात्मानमशुद्धं मन्यते यदा |
जाग्रत्स्वप्नसुषुप्तानि तदैतानि प्रपद्यते || ९१३ ||
रथा दार्वाद्यसद्भावान्न सन्ति स्वप्नदर्शने |
न सन्त्यश्वादयस्तद्वद्रथयोगाः सवर्त्मका || ९१४ ||
रथादीन्सृजतेऽथात्र जाग्रत्कर्मादिहेतुकान् |
अविद्याकामकर्माणि सृष्टिबीजमिदं दृशेः || ९१५ ||
कर्मणो गमनस्येह साधनाभावहेतुना |
स्वप्ने मृषात्वमाहैवं गमनादेः श्रुतिः स्वयम् || ९१६ ||
न कर्मफ़लमप्यत्र स्वप्ने तद्धेत्वसंभवात् |
नाऽऽनन्दा अपि तत्रेति ह्यतः श्रुतिरभाषत || ९१७ ||
आह् लदाः स्युरिहाऽऽनन्दा हर्षाश्चात्र मुदस्तथा |
प्रकर्षगुणसंबन्धाः प्रमुदो मुद एव तु || ९१८ ||
पल्वलास्त्विह वेशान्ताः प्रसिद्धार्थं तथोत्तरम् |
इत्येवमसतामेव स्रष्टाऽऽत्मा स्वात्ममायया || ९१९ ||
चिदाभकारकोद्भूतवासनाकर्महेतुकः |
स्वयं निर्माय सृजत इत्यकर्मापि भण्यते || ९२० ||
अविचारितसंसिद्धं क्रियाकारकलक्षणम् |
जाग्रद्भूमावपि मतं किमु स्वप्नैकनीडगम् || ९२१ ||
रथादिवासनानीडचित्तवृत्तिसमुद्भव -
कर्महेतुत्वतः कर्ताऽकर्ताऽप्यात्माऽभिधीयते || ९२२ ||
अकर्तुरपि कर्तृत्वं स्वात्माज्ञानैकहेतुतः |
तदन्यस्येह कार्यत्वात्कर्ताऽऽत्मैव तमोवधिः || ९२३ ||
स्वप्नवृत्तावुपादानं साधनं वा न विद्यते |
रथादेरसतस्तस्माद्द्रष्टैवाऽऽत्मा न कारकः || ९२४ ||
अस्ति यत्राप्युपादानं साधनं वाऽस्या जागरे || |
तत्राप्यात्मचिदाभासमनोबुद्ध्यादिकारकैः || ९२५ ||
रथादिवासनानाडधीवृत्त्युद्भवकारणम् |
कर्म निर्वर्त्यते तेन स हि कर्तेति भण्यते || ९२६ ||
भान्वादेरिव कर्तृत्वं कर्त्राद्यर्थावभासनात् |
बुद्ध्यादिकर्तृसाक्षित्वात्कर्तृत्वाद्यात्मनो भवेत् || ९२७ ||
क्रियाकर्तृत्वमेवास्य हेतुर्बुद्ध्यादिसंगतौ |
यथावस्त्वपरिज्ञानाद्धीति हेतावतः पदम् || ९२८ ||
स्वयंज्योतिष्ट्वमस्योक्त्वा बुद्ध्यादेश्चातिरेकताम् |
मन्त्राञ्जगादाथात्रार्थे ब्राह्मणोक्तेरनन्तरम् || ९२९ ||
स्वप्नवृत्त्या विहत्येमं जाग्रद्देहं क्रियाक्षयात् |
असुप्तो भावनारूपान्सुप्तान्प्राणान्प्रपश्यति || ९३० ||
असुप्तोऽकर्महेतुत्वात्सुप्तान्प्राणान्क्रियोत्थितेः |
कूटस्थदृष्टिस्वाभाव्यत्स्वप्न आत्मा प्रपश्यति || ९३१ ||
प्राणादिशुक्रमादाय कृत्वा तद्भावनामयम् |
लोकमात्माऽक्रियः स्वस्थश्चाकशीत्यभिपश्यति || ९३२ ||
क्षीणस्वप्नोत्थसंभोगो जाग्रद्भोगाश्रयं पुनः |
याति बुद्ध्यादिकं स्थानं पुमान्हंसाभिधो ध्रुवः || ९३३ ||
पर्यायेण यतश्चोभौ लोकौ हन्त्येकलः स्वतः |
एकहंस इति प्रोक्तः पुराणज्ञैस्ततः प्रभुः || ९३४ ||
हिरण्यं ज्योतिर्विज्ञानं तावन्मात्रसतत्त्वकः |
हिरण्मयस्ततो देवः स्वार्थेऽत्र मयडिष्यते || ९३५ ||
परस्य पुरुषस्यायं तदबोधप्रकल्पनात् |
साक्षिमात्रादिकस्तस्मात्पारुषोऽयमितीर्यते || ९३६ ||
पूरणान्निखिलस्यास्य कार्यकारणवस्तुनः |
पुरुषोऽयं भवेदात्मा पूर्णत्वाद्वाऽद्वयात्मनः || ९३७ ||
हानेनाङ्गविकल्पानां नवानां संचयेन च |
हंसत्वमृषयः प्राहुरात्मनः पारदर्शिनः || ९३८ ||
प्राणेन ह्यवरं रक्षन्मरणाद्देहकं परः |
बहिर्देह चरित्वाऽथ पुनरैति यथागतम् || ९३९ ||
नाडीस्त्यक्त्वा यतः स्वप्ने जाग्रद्भोगप्रदाः पुमान् |
स्वप्नभोगप्रदा याति बहिर्नीडादतस्तदा || ९४० ||
कर्मणोद्भाविता यत्र वासना कामरूपिणी |
तामादायैति देहं स्वं हंस आत्माऽमृतोऽव्ययः || ९४१ ||
कर्मज्ञानानुरूपेण रूपमुच्चावचं मुहुः |
स्वप्नमायाप्रपञ्चस्थ आत्माऽऽप्नोतीव निष्क्रियः || ९४२ ||
नर्मार्थो जक्षतिर्ज्ञेयो हर्षार्थो मोदतिस्तथा |
अविद्यया भयं चेह स्वप्ने तद्धेत्वसंभवात् || ९४३ ||
आराममेव मायोत्थं स्वप्ननिर्माणलक्षणम् |
मायिनस्तस्य पश्यन्ति न तं पश्यति कश्चन || ९४४ ||
बुद्ध्याद्देर्व्यतिरिक्तत्वं स्वयंज्योतिष्ट्वमागमात् |
आत्मनः प्रतिपाद्याथ लोकतोऽपि विभाव्यते || ९४५ ||
सुप्तं न बोधयेद्गाढमिति वादो हि लोकिकः |
किमर्थमिति चेत्तत्र लोकः कारणमीक्षते || ९४६ ||
प्रबोधनाडीस्त्यकत्वाऽऽत्मा स्वप्ननाडीरयं गतः |
इति लोकप्रसिद्धत्वात्तस्मिल्लोकोऽनुशास्ति तत् || ९४७ ||
नाडीव्यत्यासगमनशङ्कयवानुशासति |
सुप्तं न बोधयेद्गाढमिति तद्देषदर्शिनः || ९४८ ||
यथायोगमयं नाडीर्गाढं सुप्तः प्रबोधितः |
न प्रपद्येत तेनायं स्यात्सुदुःखभिषक्क्रियः || ९४९ ||
देहप्रवेशनिर्याणहेतोर्देहाद्गृहादिवत् |
बुद्ध्यादिव्यतिरिक्तत्वमात्मनोऽस्यावसीयताम् || ९५० ||
अध्यात्मादिपदार्थेभ्यो विविक्तं स्वात्मनि स्थितम् |
तं न पश्यत्यहो कष्टं दौर्भाग्यं दुष्टचेतसाम् || ९५१ ||
प्रत्यक्षगोचरं देवं लोकं चातिप्रमादिनम् |
दृष्ट्वा श्रुतिः शिरस्ताडमनुक्रोशति दुःखिता || ९५२ ||
प्रत्यक्षतममप्येनं वितमस्कं स्वयंस्थितम् |
अहो कष्टं न पश्यन्ति कं याम शरणं वयम् || ९५३ ||
स्वयंज्योतिष्ट्वमारभ्य यच्छ्रुत्योक्तमिहाऽऽत्मनि |
उच्यते पूर्वपक्षोऽयं तस्य सिद्धान्तरूपिणः || ९५४ ||
स यत्रेति ह्यतः पूर्वं पूर्वपक्षत्वहेतुतः |
अथो खल्वाहुरित्यादिग्रन्थं पश्यत्तथा क्रमात् || ९५५ ||
स्वप्नस्य जाग्रत्स्थानत्वमथो खल्वितिवाक्यतः |
यानि ह्येवेति हेतूक्तिः प्रतिज्ञातार्थसिद्धये || ९५६ ||
जाग्रत्समीक्षणं यासु पुंसो नाडीषु तास्विदम् |
स्वप्नेक्षणं विजानीयान्नान्यत्रेति विनिश्चयः || ९५७ ||
स्वप्ने तमेव चाऽऽत्मानं सुप्तोऽयमभिमन्यते |
यमनस्तप्रबोधस्थं न ततोऽन्यं कदाचन || ९५८ ||
जाग्रद्बन्धुपुरामपग्रश्वारामादिलक्षणान् |
स्वप्ने प्रत्यभिजानाति तानेव न ततोऽपरान् || ९५९ ||
अपूर्वमेव सं पश्येत्स्वप्नदृग्जाग्रतो यदि |
उक्तस्वप्नो भवेदन्यो यथा पूर्वगतस्तथा || ९६० ||
इत्येवमाहुः केचित्तु न तु तद्युक्तिमद्वचः |
अयुक्तिमद्यथा चैतत्तत्पूर्वं प्रतिपादितम् || ९६१ ||
अत्रायमित्यनेनात्र पूर्वपक्षनिराक्रिया |
न्यायेनोक्तेन पूर्वेण वक्ष्यमाणेन च ध्रुवम् || ९६२ ||
न जाग्रद्देशगः स्वप्नो जाग्रत्सामग्र्यभावतः |
अध्यात्माद्यर्थविरहे यतः स्वप्नान्प्रपश्यति || ९६३ ||
स्वयंज्योतिष्ट्वमस्योक्तं स्वप्ने चाकारकात्मता |
मृत्युरूपात्ययश्चैवं प्रतीचः पूर्ववाक्यतः || ९६४ ||
कामादयः स्वभावोऽस्य मृत्यवोऽथ न वा भवेत् |
इत्याशङ्क्य नृपो दोषं याज्ञवल्क्यमपृच्छत || ९६५ ||
पृष्टं वस्तु सुनिर्णीतं मयेतिप्रकृतोक्तितः |
निविवृत्सुं नृपो विप्रं भूयोऽपृच्छद्विमुक्तये || ९६६ ||
स्वयंज्युतिष्ट्वमुदितं मुक्तेरङ्गममन्यत || ९६७ |
न चाङ्गनिर्णयोक्त्यैव निर्णयं मन्यतेऽङ्गिनः |
यतोऽतो मोक्षमुद्दिश्य याज्ञवल्क्यमपृच्छत || ९६८ ||
आसङ्गप्रविवेकार्थं स वा इत्यादि भण्यते |
कामादिप्रविवेके हि मोक्षयोग्यत्वमात्मनः || ९६९ ||
कामाद्यात्मगुणश्चेत्स्यादनिर्मोक्षः प्रसज्यते |
न हि गुण्यविनाशेन तद्गुणस्य निराकृतिः || ९७० ||
रूपाण्येवायमात्माऽत्र मृत्योः स्वप्नेऽतिवर्तते |
न तु मृत्युं यतः स्वप्ने मोदत्रासादि दृश्यते || ९७१ ||
मोदत्रासादिको मृत्युः स्वभावो न यथाऽऽत्मनः |
तथाऽत ऊर्ध्वं प्रब्रूहि भगवन्मे विमुक्तये || ९७२ ||
सहस्रदानं तूक्तस्य स्वयंज्योतिष्ट्ववस्तुनः |
निर्णयाघाटविज्ञप्त्यै नाशेषप्रश्ननिर्णयात् || ९७३ ||
स्वयंज्योतिः स वा एष यः पुरा प्रतिपादितः |
स्वप्नभूमावसङ्गोऽसौ संप्रसादे प्रसीदति || ९७४ ||
अपां कतकसंपर्काद्यथाऽत्यन्तप्रसन्नता |
अपास्ताशेषसंसारभावनस्यवमात्मनः || ९७५ ||
स्वास्थ्यं प्रसन्नतैतस्मिन्सुषुप्ते भवतीत्यतः |
संप्रसादमिमं प्राहुः सुषुप्तं तद्विदो जनाः || ९७६ ||
मात्रादानं यदकरोदात्मा स्वप्नरिरंसया |
तत्क्षये स निरासङ्गः स्वात्मन्येव प्रसीदति || ९७७ ||
जाग्रद्व्यपेक्षया स्वप्ने किंचिच्छेषः प्रसीदति |
तस्याप्यस्तमयात्प्राज्ञे समिति स्याद्विशेषणम् || ९७८ ||
केवलाज्ञानमात्राधिरिह प्रत्यङ् व्यवस्थितः |
कारणात्मा यतस्तस्माज्जाग्रत्स्वप्नाख्यकार्यकृत् || ९७९ ||
कथं केन क्रमेणात्र प्रत्यागात्मा प्रसीदति |
इत्येतदधुनाऽऽचष्टेरत्वेत्यादिगिरा श्रुतिः || ९८० ||
स्वप्नभूमावयं रत्वा क्रीडां कृत्वाऽऽत्ममायया |
चरित्वा च विहृत्याऽऽत्मा वासनामात्रसाधनः || ९८१ ||
दृष्ट्वैवेत्येवशब्देन कारकत्वं निवार्यते |
पुण्यपापफ़लं चेह पुण्यपापगिरोच्यते || ९८२ ||
अस्य जाग्रदवस्थायामिन्द्रियार्थादिसंभवात् |
क्रिया निर्वर्त्यते सा च सुखादिफ़लदाऽऽत्मनः || ९८३ ||
स्वप्ने तु कारकाभावान्न क्रियासिद्धिरात्मनः |
चिदाभं वासनामात्रं प्रथतेऽतोऽविकारिणः || ९८४ ||
यतोऽत्र न क्रिया तस्मादवदध्रे श्रुतिः स्वयम् |
दृष्ट्वैवाऽऽत्मा न कृत्वेति प्रत्यङ् तस्मान्न कारकः || ९८५ ||
पुण्यपापफ़लं चेह पुण्यपापाभिधं मतम् |
कार्यं कारणवत्तस्मादुपचारात्समीरितम् || ९८६ ||
स्वप्नकर्मव्युपरमे ततः प्राज्ञे स्वयंप्रभः |
प्रसीदति परो देवः प्रतीच्येव परे पदे || ९८७ ||
पुराऽप्यसकृदात्माऽयं स्थानात्स्थानान्तरं गतः |
यतोऽतः पुनरित्येवं संप्रसादाप्तितोऽभिधा || ९८८ ||
आनुलोम्यं सुषुप्ताप्तिरेवमुक्तेन वर्त्मना |
तद्व्युत्थानं प्रतिलोम्यं स्वप्नादिस्थानसंचरः || ९८९ ||
प्रातिलोम्यार्थ एवातः प्रतिशब्दोऽयमिष्यते |
विपरीताऽऽगतिः स्वप्ने प्रतिस्थानं तथैत्यजः || ९९० ||
यथार्थे प्रतिशब्दोऽयं निश्चयार्थे निरित्ययम् |
अयनं गमनं च स्यादायो धातोरिणो घञि || ९९१ ||
श्रोत्रादिकरणान्यत्र मात्रादानस्य कारणम् |
योनिशब्दाभिलप्यं स्याज्जाग्रद्देहसमाश्रयम् || ९९२ ||
मात्रादानस्य या यस्य योनिरासीत्पुराऽऽत्मनः |
तामेवायं पुनर्योनिं स्वप्न आत्मा प्रपद्यते || ९९३ ||
यथाऽऽदानं कृतं पूर्वं मात्राणां स्वप्नसर्जने |
स्वप्न आदाय ता मात्राः स्वाप्नीं योनिं प्रपद्यते || ९९४ ||
प्रतिन्यायगिरा चास्य यथावर्त्माभिधीयते |
प्रतियोनिरवेणैव यथास्थानमिहोच्यते || ९९५ ||
यस्माद्यस्मादुपादाय मात्राः स्वप्नं चकार सः |
तत्र तत्रैव ता धत्ते मात्राः स्वात्मांशुभिः सह || ९९६ ||
येनैव वर्त्मना यातः पुनस्तेनैव वर्त्मना |
याति मात्राः समादाय कर्मवायुसमीरितः || ९९७ ||
स आत्मा पुण्यपापोत्थं फ़लं नानाप्रभेदकम् |
तत्र स्वप्नविधौ तिष्ठन्पश्यतीह समीक्षते || ९९८ ||
नैनं स्थानान्तरं प्राप्तं ग्रामाद्ग्रामान्तरं यथा |
शुभाशुभं यदद्राक्षीचत्साक्षादनुगच्छति || ९९९ ||
शुभाशुभक्रियैवेह पश्यतीत्यभिधीयते |
न तु यद्वास्तवं वृत्तं पश्यतीत्यक्रियात्मनः || १००० ||
तेनानन्वागत इतिप्रतिज्ञातार्थसिद्धये |
असङ्गो हीति हेतूक्तिः प्रतिज्ञार्थोऽथवा भवेत् || १००१ ||
यदैवं पूर्वमेव स्यात्तदा हेतुवचः स्फ़ुटम् |
तेनानन्वागत इति प्राक्लृतेनैव कर्मणा || १००२ ||
सासङ्गत्वं समाशङ्क्य प्रवृत्तैषा यतः श्रुतिः |
अनन्वागत इत्यस्य हेतुत्वं हिगिरोच्यते || १००३ ||
न कर्म कुरुते स्वप्ने कारकाणामसंभवात् |
फ़लमात्रमायं तत्र भुङ्के स्वाभासवर्त्मना || १००४ ||
न हि निष्पद्यते स्वप्ने क्रिया जागरिते यथा |
कर्त्रादिकारकस्थाने नातोऽन्वेत्यक्रियात्मनः || १००५ ||
यदि स्थानान्तरं प्राप्तमन्वियात्स्वप्नजा क्रिया |
शास्रारम्भो वृथैव स्यात्स्वप्ने को नापराध्यति || १००६ ||
अपेतसाधनस्यापि पश्यतः स्वप्नविभ्रमम् |
बिभर्ति वासनैवास्य क्रियाकारकरूपताम् || १००७ ||
फ़लसंभोगमात्रं च यस्मात्स्वप्ने समीक्ष्यते |
फ़लान्तरारम्भविधिर्नातः स्यादक्रियात्मनः || १००८ ||
न करोति यतः स्वप्ने क्रियामिव समीक्षते |
प्रक्रियाफ़लसंयोगो नातो बोधेऽस्य वीक्ष्यते || १००९ ||
तृप्तः स्वप्नेऽथ संबुद्धः क्षुत्परीतः प्रबुध्यते || १०१० ||
यस्मादनृतमेवेदं यत्किंचिदिह वीक्ष्यते |
प्रत्यङ्ङकारकस्तस्माल्लिप्यते न क्रियाफ़लैः || १०११ ||
स्वप्नस्कन्ननिमित्तं तु प्रायश्चित्तं यदुच्यते |
सत्येन्द्रियविकारत्वात्तच्चापि न निराश्रयम् || १०१२ ||
स्वप्नस्कन्नं यथा स्वप्ने यथा बोधेऽपि वीक्ष्यते |
आत्मचैतन्यवत्तस्मात्प्रायश्चित्तं तदुद्भवम् || १०१३ ||
एका तावदियं व्याख्या यथोक्तैषोपवर्णिता ||
व्याचक्षतेऽन्यथा चेदं वाक्येमतद्यथोदितम् || १०१४ ||
अनन्वागतवाक्येन विवेकः कर्मणः कृतः |
असङ्गवचसा त्वस्य कामनिर्मोक उच्यते || १०१५ ||
ननु नैव क्रिया साक्षाद्धानवृद्धी प्रतीष्यते ||
अपि जागरितस्थाने कामो हेतुर्यतस्तयोः || १०१६ ||
अकामस्य क्रिया यस्मान्निष्फ़लैव समीक्ष्यते |
स यथाकाम इत्यादि तथा चोर्ध्वं प्रवक्ष्यते |
इत्यस्य परिहारार्थमसङ्गो हीति भण्यते || १०१७ ||
यमासङ्गमिह स्वप्ने कामं त्वमनुपश्यसि |
स्वपतो न भवेत्काम इत्येतदभिधीयते || १०१८ ||
असङ्गो हीति वाक्येन तद्वतोऽसंभवादिह |
ग्रस्तमत्र मनः कामि वासनामात्रशेषतः || १०१९ ||
यतोऽतोऽसङ्ग एवायं पुरुषः स्वप्नभूमिगः |
बहिः कुलायादित्युक्तं पाप्मनो विजहाति च || १०२० ||
देहाश्रयादृते कामाः सन्ति नान्यत्र कुत्रचित् |
स्वप्नप्रपञ्चः सर्वोऽपि वासनामात्रमेव तु || १०२१ ||
व्याचक्षाणो यतः स्वप्नं ज्ञानमात्रं प्रभाषते || १०२२ |
जाने पुत्रायुतं जातं जाने पितरमागतम् |
तथाचेवगिरा युक्तान्स्वप्नान्व्याचक्षते जनाः || १०२३ ||
रथादेरसतो यद्वस्त्वप्ने निर्माणमीक्ष्यते |
शरीरेन्द्रियकामादेरसतस्तद्वदेव तु || १०२४ ||
रथेन्द्रियादिवत्तस्मात्कामोऽप्यत्र समीक्ष्यताम् |
स्वप्नेऽतोऽयं निरासङ्गः पुमानभ्युपगम्यताम् || १०२५ ||
कौटस्थ्यं यदि वा पुंसोऽसङ्गशब्देन भण्यते |
क्रियाश्लेषमृते यस्मान्नाध्यक्षफ़लसंगतिः || १०२६ ||
ननु कर्ता पुमानेष स हि कर्तेतिवाक्यतः |
नैवं स्वप्ने यतः पुंसः कर्तृत्वं भावनाकृतम् || १०२७ ||
कर्तृकार्यावभासित्वाज्जाग्रत्कालेऽपि चाऽऽत्मनः |
कर्तृत्वं न स्वतः स्वप्ने किमु वक्तव्यमिष्यते || १०२८ ||
अविद्यास्रोतसैवास्य क्रियाकारकताऽऽत्मनः |
तस्थचैतन्यबिम्बेन भुङ्केऽसौ कर्मणः फ़लम् || १०२९ ||
कर्त्रादिसाक्षिणोऽस्याभूत्कर्तृत्वं यत्पुराऽऽत्मनः |
स हि कर्तेति तस्यैव वचनं स्यात्पुनःश्रुतिः || १०३० ||
नन्वस्यैव तु तत्कर्म भावनापेक्षयाऽखिलम् |
प्रवर्तते कथं तस्य कर्तृत्वं विनिवार्यते || १०३१ ||
कामं प्रवर्ततां कर्म न च दोषोऽत्र कश्चन |
भावनेयं यतः कर्मगुण एव सती सदा |
स्वसाक्षिणं भावयन्ती न त्वसावात्मनो गुणः || १०३२ ||
पुष्णगन्धः पुटस्थोऽपि पुष्पस्यैव यथा तथा |
बुद्ध्यादिकारकस्थस्य भावना कर्मणो गुणः |
आत्मनस्तूचारात्स्यान्न तु साक्षाद्गुणो भवेत् || १०३३ ||
उत्पत्तौ भोगकाले च कर्माऽऽदायैव भावनाम् |
स्वात्मानं लभते यस्मात्तां विना तदनर्थकम् || १०३४ ||
कर्मणोऽपि तथाऽत्यन्तं प्रयोगैकसमाश्रयात् |
बुद्ध्याद्यर्थाभिसंबन्धपक्षतैवावसीयते |
न त्वात्मगुणता तस्य कर्मणः स्यात्कदाचन || १०३६ ||
प्रयोगापेक्षणेवाऽऽस्ते कर्म बुद्ध्यादिसंक्षये || १०३७ |
स्वात्मतः प्रतिलाभाय न त्वात्मानमपेक्षते |
सभावनमतः कर्म प्रतीचः प्रविविच्यते || १०३८ ||
तस्मात् कर्मगुणस्यैव कर्मस्थस्यैव सर्वदा |
साक्ष्यात्मा भावनारूपकामस्य स्वप्नसद्मनि || १०३९ ||
आसङ्ग आत्मनश्चेत्स्यात्साक्षाच्चैतन्यवद्गुणः |
न पश्येदात्मवत्कामं कर्मस्थं स्वप्रबोधयोः || १०४० ||
एवं चावस्थिते पक्षे श्रुत्याऽकारि समञ्जसम् |
प्रसिद्धवदुपादानमसङ्गो हीति सादरण् || १०४१ ||
न कर्मोपचयोऽतोऽत्र स्वप्ने जाग्रद्वदिष्यते |
सर्वासङ्गविनिर्मोकाद्वासनामात्रशेषतः || १०४२ ||
नायं कर्ममयो यस्मान्न च काममयः स्वतः |
प्रत्यगज्ञानतस्तस्मात्तन्मयत्वमिवेक्ष्यते || १०४३ ||
नानासाधनसंबन्धात्कर्तृत्वं जगतीक्ष्यते |
अयं त्वसङ्गो येनातो न करोति न लिप्यते || १०४४ ||
मूर्तामूर्ताद्यपह्नुत्या ह्यात्मनस्तत्त्वमब्रवीत् |
नातोऽनात्माभिसंबन्धः कूटस्थैकात्म्यहेतुतः || १०४५ ||
सुषुप्ते नन्वसंबोधाद्रत्वादि कथमुच्यते |
न त्वित्यपि तथा वाक्यं न बाह्यं चेति वक्ष्यति || १०४६ ||
स्वप्ने रत्वाद्यथ मतं नैवमप्युपपद्यते |
अनन्वागतगीः कुप्येत्स्वप्नेऽन्वेत्येव तत्कृतम् || १०४७ ||
यथा जाग्रत्कृतं कर्म कर्तारमनुगच्छति |
जाग्रत्स्थं स्वप्नकर्मैवं स्वप्ने समधिगच्छति || १०४८ ||
इत्येवं चोदिते केचित्परिहारं प्रचक्षते |
पदच्छेदेन कुशला अरत्वेत्येवमादिना || १०४९ ||
स यत्तत्रेत्यंसङ्गोक्तेर्नेदमप्युत्तरं भवेत् |
दृष्टिं तत्रापि चाध्यस्य परिहारं प्रचक्षते || १०५० ||
अस्ति भोगः सुषुप्तेऽपि तथाचाऽऽनन्दभुङ्भतः |
ऐश्वरो वाऽत्र भोगोऽस्ति सर्वस्थानाभिमानतः || १०५१ ||
कार्यभूमिगतो ह्यात्मा सुषुप्तं प्रसमीक्ष्यते |
कार्यस्य कारणव्याप्तेर्न सुषुप्तपरोक्षता || १०५२ ||
यदि वा स्वप्न एवास्तु रत्वादि यदुदीरितम् |
स्वप्नयोरभितः प्राज्ञादनन्वागतताऽप्यतः || १०५३ ||
त्रिधा त्रिधा वा क्लृप्तेः स्यादेकैकस्येत्यदोषता |
जाग्रत्स्वप्नसुषुप्तानां जाग्रत्स्वप्नसुषुप्ततः || १०५४ ||
कार्याकार्यादि यत्साक्षात्प्रमाणात्प्रसमीक्षयते |
जाग्रज्जागरितं तादृक्तत्स्वप्नो यन्मृषेक्षणम् || १०५५ ||
कामादिविषयासक्तेर्न किंचिद्विविनक्ति यत् |
जाग्रत्सुषुप्तं तादृक्स्यान्निर्विवेकस्वभावतः || १०५६ ||
सुप्तोऽपि कर्म कुरुते नरः स्वप्ने प्रबोधवत् |
स्वप्नजाग्रत्तथारूपं स्वप्नः स्वप्नात्मकोऽत्र यः || १०५७ ||
दृष्ट्वाऽपि यत्समाख्यातुं प्रबुद्धो नैव शक्नुयात् |
तादृक्स्वप्नसुषुप्तं स्यात्सुषुप्तं च त्रिधोच्यते || १०५८ ||
सुषुप्तजाग्रन्मूढः स्याच्छान्तोऽसौ स्वप्न उच्यते |
ऐकात्म्यतत्त्वासंबोधः सुषुप्तः प्राज्ञ उच्यते || १०५९ ||
त्रिविधत्वात्सुषुप्तस्व सर्वं रत्वादि युज्यते |
दृष्टान्तः संप्रसादो वा स्वप्नजाग्रदवस्थयोः || १०६० ||
यथा रत्वाद्यसंभाव्यं संप्रसादे तथैव च |
इतरत्रापि विज्ञेयं तत्र वस्त्वसमीक्षणात् || १०६१ ||
यत एवमतः कर्मकामदोषविवर्जितः |
पुरुषोऽयं स्वतः सिद्धो यथोक्तेनैव वर्त्मना || १०६२ ||
असङ्गत्वादकर्तेति नन्वसिद्धोऽयमुच्यते |
स्वप्न कामस्य दृष्टत्वाद्यत्र काममिति श्रुतेः || १०६३ ||
इत्यस्य परिहारार्थं स वा इत्यादिकं वचः |
पुनः स्वप्नसमारम्भो गतत्वात्किमितीर्यते |
बुद्धान्तादेर्यथा तद्वन्नातः स्यात्पुनरुक्तता || १०६४ ||
निशायां संप्रवृत्तायां संहृताक्षस्य निद्रया |
अवस्थां तैजसीं भुक्त्वं स्वापो भवति देहिनः || १०६५ ||
स आनन्दः परो ज्ञेयः सुखदुःखविवर्जितः |
सततं सर्वभूतानां तिष्ठत्येष पुरीतति || १०६६ ||
तत्र रत्वा यथाकामं कंचित्कालं यदृच्छया |
तामवस्थां तिरश्चक्र आयियासुस्ततोऽपराम् || १०६७ ||
भावनाविग्रहो भूत्वा तत्र स्वप्नरिरंसया |
उच्चावचानि वस्तूनि भावनातः करोति सः || १०६८ ||
गतौ प्राणवियोगः स्यात् यथाकालस्य चेक्षणम् |
तदसंभाव्यदेशादौ दर्शनात्तन्मृषात्मता || १०६९ ||
यावत्स्वप्नेऽस्ति वक्तव्यं प्राक्तदुक्तमशेषतः | तस्मान्नाऽऽसच्ङ्गगन्धोऽपि स्वप्ने पुंसोऽस्य विद्यते || १०७० ||
असङ्गत्वादसंबन्धो यथेह स्वप्नकर्मभिः |
जाग्रत्यपि न कर्ताऽयमेतस्मादेव कारणात् || १०७१ ||
असज्जाग्रदस्थेयं जाग्रद्रूपत्वकारणात् |
स्वप्ने जाग्रदवस्थावत्तथाचाऽऽद्यन्तवत्त्वतः || १०७२ ||
अज्ञानोत्थमिदं जाग्रज्जडरूपसमन्वयात् |
तथाऽपेक्षात्मकत्वाच्च मृगतृष्णोदकादिवत् || १०७३ ||
निरासङ्गः पुमानेष स्वप्नबुद्धान्तयोरपि |
संप्रसादे किमङ्गायं यत्र किंचिन्न वीक्ष्यते || १०७४ ||
ननु जाग्रदवस्थायां दृष्ट्वैवेत्युच्यते कथम् |
प्रत्यक्षकर्तृता तत्र यत आत्मन ईक्ष्यते || १०७५ ||
नैवं कर्त्रादिसाक्षित्वात्तच्चिदाभासतस्तथा |
कर्तृत्वमात्मनो बोध उपचाराद्यतस्ततःस || १०७६ ||
आत्मनैवायमिति च ध्यायतीवेति च श्रुतेः |
नाऽऽत्मनः कारकत्वं स्यात्सर्वावस्थातिलङ्घिनः || १०७७ ||
वेदात्माऽपि तथाचाऽऽह प्रपन्नाय किरीटिने |
संसारहेतुनिबिडध्वान्तोच्चिच्छित्सयाऽऽदरात् || १०७८ ||
अनादित्वान्निर्गुणत्वात्परमात्माऽयमव्ययः |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || १०७९ ||
स्वप्नबृद्धान्तवाक्याभ्यां मृत्योरासङ्गलक्षणात् |
विविक्ततैवं यत्नेन निर्णीता प्रत्यागात्मनः || १०८० ||
अन्योन्यपरिहारेण स्वप्नजाग्रदवस्थयोः |
कामकर्मात्मकासङ्गविविक्तत्वमिहोदितम् || १०८१ ||
यथोदितार्थ एतस्मिन्दृष्टान्तोऽप्यधुनोच्यते |
निरासङ्गत्वसिद्ध्यर्थं प्रत्यगात्माख्यवस्तुनः || १०८२ ||
स्वातन्त्र्यप्रतिपत्त्यर्थं महानिति विशेषणम् |
नादेयस्रोतसाऽहार्यो मत्स्यो दृष्टान्त उच्यते || १०८३ ||
यथा सिन्धोर्महामत्स्य उभे कूले मिथः पृथक् |
अनुक्रमेण संचरन्मत्स्योऽन्यः कूलतो मतः || १०८४ ||
कूलाभ्या क्रमसंबन्धाद्व्यतिरेकाच्च कूलतः |
स्रोतोमध्ये द्वयाप्राप्तेरसङ्गोऽयं तिमिर्यथा || १०८५ ||
जाग्रत्स्वप्नकुलायाभ्यां क्रमसंबन्धतस्तथा |
व्यतिरेको द्वयाप्राप्तेरसङ्गोऽयं पुमानपि || १०८६ ||
युगपत्स्याद्द्वयोर्भोगो जाग्रत्स्वप्नकुलाययोः |
भूतमात्राविशेषत्वात्ताभ्यामात्मा न चेत्पृथक् || १०८७ ||
संबन्धं कुर्वते केचिदन्यथैव महाधियः |
महामत्स्यादिवाक्यस्य स यथोक्तस्तथोच्यते || १०८८ ||
बाह्यं कर्मास्य बुद्ध्यादिप्रयोगाश्रितमेव हि |
पुंसः किल ततोऽभ्येत्य भावनाऽऽप्नोति देहिनम् || १०८९ ||
तस्या विवेका व्याख्यातो यथोक्तवचसाऽऽत्मनः |
अविद्या त्वात्मविज्ञानसंश्रितैव न साऽन्यतः || १०९० ||
यत्तद्विज्ञानमात्मीयं तद्विकृत्यावतिष्ठते |
मिथ्याज्ञानग्रहायासावविद्या प्रत्यगात्मनः || १०९१ ||
अविद्याविषसंदष्टं तज्ज्ञानं परमात्मनः |
पारंपर्येण बुद्ध्यादौ स्थूलीभावं निगच्छति || १०९२ ||
स्थूलीभूता बहिः सेयं प्रकाशत्वाय कल्पते |
एवं बहिरविद्येयं निष्क्रामत्यात्मनः पृथक् || १०९३ ||
स्वप्ने विवेको व्याख्यातः कर्मणोऽस्याऽऽत्मनोऽधुना |
अविद्याप्रविवेकोऽयं वक्ष्यतेऽस्यात उत्तरम् || १०९४ ||
कर्मणा निर्मितं लोकमात्मा पश्यत्यविद्यया |
तयोर्विवेकादुभयोः स्वाभाव्यं प्रतिपद्यते || १०९५ ||
रूपादिविषयासङ्ग करणैश्चक्षुरादिभिः |
अनुप्रविश्य भोक्तारं रञ्जयित्वाऽवतिष्ठते || १०९६ ||
विज्ञानं पौरुषं शुद्धं तेनाऽऽसङ्गेन दूषितम् |
तमेवाऽऽसृत्य निर्गम्य बाह्यतो व्यवतिष्ठते || १०९७ ||
आसङ्गाविद्ययोरेवमन्योन्याश्रयतोदिता |
अभावादनयोरात्मा स्वात्मस्थः संप्रसीदति || १०९८ ||
प्रसिद्धमेतल्लोकेऽपि यदि रोगादिसंगतिः
न भवत्यथ जल्पन्ति स्वस्थोऽयमिति लोकिकाः || १०९९ ||
निरासङ्गस्य विदुषस्तस्मान्मुक्तिं प्रतीमहे |
स्यादन्यतरवैकल्ये न वेत्येतदनिश्चितम् || ११०० ||
तद्यथा श्येन इत्यस्माद्यावत्स्त्रीब्राह्मणादिति |
अविद्याप्रविवेकार्थमेवमेतावदुच्यते || ११०१ ||
स्वप्नजाग्रत्यचारेऽस्मिन्नात्मा श्येनः पतन्निव |
परिश्रान्तः सुषुप्ताख्यं नीडं धावत्यथाऽऽत्मनः || ११०२ ||
कर्माविद्याविनिर्मुक्त एतस्मिन्नेव लक्ष्यते |
सर्वशोकातिगः स्वस्थः स्तिमितः स्वात्मनि स्थितः || ११०३ ||
इति व्याचक्षते केचिन्महामस्त्यादिकां श्रुतिम् |
तन्नयाय्यमथवाऽन्याय्यं यत्नान्न्यायैः परीक्ष्यताम् || ११०४ ||
आत्मवस्त्वतिरेकेण नास्ति वस्त्वन्तरं यदि |
बाह्यान्तःप्रविभागोऽयं किमाश्रित्य प्रकल्प्यते || ११०५ ||
विषयेन्द्रियादि यद्वस्तु नाविद्याव्यातिरेकि तत् |
वस्त्वन्तरस्य सद्भाव ऐकात्म्यं बाध्यते यतः || ११०६ ||
आसङ्गस्याऽऽगतिरतो विषयेन्द्रियवर्त्मना ||
न्यायाभावादयुक्तैव नाप्यविद्या तमानयेत् || ११०७ ||
मिथ्याज्ञानमृते नान्यत्कार्यं किंचिदपीष्यते ||
अविद्याया यतो नात आसङ्गाद्याहृतिः स्वतः || ११०८ ||
आत्माविद्याप्रसिद्ध्यैव हविद्याऽप्यात्मनो यतः ||
न स्वतः परतो वाऽतो वस्तुतः प्रत्यगात्मनि || ११०९ ||
निःशेषविक्रियावर्गप्रतिषेधश्रुतेस्तथा ||
आत्मज्ञानं विकृत्याऽऽस्तेऽविद्येत्येतच्च दुर्भणम् || १११० ||
प्रत्यक्चिदाभाविद्याऽतो ह्यविचारितसिद्धिका ||
सिद्धायते प्रतीचीयं प्राक्सम्यग्ज्ञानजन्मनः || ११११ ||
जाग्रत्स्वप्नविवेकोऽतो वाक्यार्थप्रतिपत्तये ||
वाक्यार्थप्रतिपत्त्यैव प्रत्यगज्ञाननिह्नुतिः || १११२ ||
जाग्रत्स्वप्नसुषुप्तेषु संचारोऽयं प्रमान्तरात् ||
सिद्धो यस्मादतस्तस्मिन्वाक्यं स्यादनुवादकम् || १११३ ||
क्रमसंचारिणस्तस्य जाग्रत्स्वप्नसुषुप्तिषु ||
ब्रह्मत्वं नान्यतोऽज्ञायि वाक्यं तत्प्रतिपत्तिकृत् || १११४ ||
आत्मनो ब्रह्मता साक्षाद्ब्रह्मणोऽप्यात्मता स्वतः ||
तत्त्वमस्यादिवाक्यस्व विषयोऽयमिहोदितः || १११५ ||
महामत्स्याख्यदृष्टान्तः स्वप्नजाग्रदवस्थयोः ||
व्याख्यातोऽप्यन्यथा त्वन्ये दृष्टान्ते व्याचचक्षिरे || १११६ ||
विज्ञानं प्रस्तुतं तस्मिन्संदेहो नः प्रजायते ||
किमेतद्भौतिकं ज्ञानं भूतेभ्योऽन्यस्य चाऽऽत्मनः || १११७ ||
विज्ञानं भौतिकं तावद्भूतसंसर्गजन्मनः ||
यथैव बाह्यनयनप्रकाशार्थाभिसंगतेः || १११८ ||
विषयज्ञानजन्मैवमात्मनो भूतसंगतेः ||
बुद्धीन्द्रियादिसंसर्गादभिव्यक्तिः समीक्ष्यते || १११९ ||
संविज्ज्ञानविशेषस्य तथा सति न किंचन ||
व्यतिरिक्तस्य विज्ञातुर्विज्ञानेऽस्ति प्रयोजनम् || ११२० ||
इत्येवं चोदिते कैश्चिदत्र प्रतिविधीयते ||
व्यतिरिक्तो न चेज्ज्ञाता भूतेभ्योऽभ्युपगम्यते || ११२१ ||
तुल्यत्वाद्भूतमात्राणां स्वप्नजाग्रदवस्थयोः ||
विज्ञानजन्म युगपत्तदा प्राप्नोति ते ध्रुवम् || ११२२ ||
क्रमवृत्तेस्तु बोधस्य न बोधो भौतिकस्ततः ||
अन्यस्यैव हि संवित्स्यात्स्वप्नबुद्धान्तनीडतः || ११२३ ||
इत्यस्यार्थस्य विज्ञप्त्यै दृष्टान्तोऽत्राभिधीयते ||
क्रमेण संचरन्नद्यां महामत्स्यो यथा बली || ११२४ ||
मत्स्याभिसंगतिर्यद्वत्पर्यायेणेह कूलयोः ||
क्रमेण ज्ञातृसंबन्धस्तद्वत्स्वप्नप्रबोधयोः || ११२५ ||
व्यापित्वादात्मनोऽप्येवं युगपज्ज्ञातृतेति चेत् ||
भूतमात्रावदित्येवं समानं चोद्यमावयोः || ११२६ ||
कस्तर्हि क्रमहेतुः स्यात् देवताहेतुकोऽस्तु सः ||
क्रमेण वृत्तिस्तासा स्यादधिष्ठातृत्वकारणात् || ११२७ ||
अत्रापि युगपज्ज्ञानमुक्तयोः पक्षयोर्यथा ||
व्यापित्वाद्देवतानां स्यात्स्वप्नजाग्रदवस्थयोः || ११२८ ||
असंभवात्प्रयत्नस्य युगपद्देवतात्मनः ||
नातः स्याद्युगपज्ज्ञानमिति चेन्न तथाऽपि तत् || ११२९ ||
प्राहाऽऽत्मपक्षवाद्यत्र सिद्धं नो यत्समीहितम् ||
कुतस्तदिति चेन्मत्तः शृणु सर्वं यथोच्यते || ११३० ||
सर्वत्र यौगपद्यं स्याद्विभुत्वाद्देवतात्मनः ||
ऐश्वर्याच्च प्रयत्नोत्थकार्येष्वस्याऽऽत्मनो न तु || ११३१ ||
अधिष्ठेयेन्द्रियाणां हि स्वप्नभूमावसंभवात् ||
व्यापारो नास्त्यतः स्वप्ने देवतानां मनागपि || ११३२ ||
अतो भोक्ता स्वयंसिद्धो यथोक्तेनैव हेतुना ||
प्रयत्नायौगपद्येन स्वप्नजाग्रद्वयाद्धिरुक् || ११३३ ||
आत्मनो भोक्तृतासिद्धिर्ज्ञातृत्वं च प्रसिध्यति ||
व्यापित्वेऽप्यस्य यत्नो य आत्मनः कर्तृतां प्रति || ११३४ ||
न संभवत्यसौ यत्नो यौगपद्येन नीडयोः ||
दृष्टत्वात्परिपाठ्या स्यात्तस्माद्वृत्तिरिति स्थितम् || ११३५ ||
अयौगपद्यदर्शित्वमात्मास्तित्वेऽनुमेष्यते ||
तथा तद्व्यरिक्तत्वे जाग्रत्स्वप्नकुलायतः || ११३६ ||
न च स्वप्नविनिर्माणे देवताव्यापृतिर्भवेत् ||
यथास्वं स्थानमायान्ति ता मृतिस्वापयोर्यतः || ११३७ ||
मतं यथा मृतौ देवास्त्यक्त्वा स्वं स्वमनुग्रहम् ||
देहारम्भे पुनर्देवा यथास्वं कुर्वते क्रियाम् || ११३८ ||
तद्वत्सुषुप्सोरुत्क्रम्य देवताः स्वाधिकारतः ||
स्वप्नसर्गे पुनस्ताः स्वमधिकारं प्रकुर्वते || ११३९ ||
इत्येवं चोदितेऽथात्र परिहारोऽभिधीयते ||
लिङ्गकार्यानभिव्यक्तेर्नालं कार्याय देवताः || ११४० ||
कारणान्यसमर्थानि यथा देहमृते मृतौ ||
स्वकार्यस्याभिनिष्पत्तौ तथा स्वप्नेऽपि देवताः || ११४१ ||
करणान्यनपाश्रित्य नालं स्वाधिकृतिं प्रति ||
स्वप्ने च करणाभावः श्रुत्यैव प्रतिपादितः || ११४२ ||
यत एवमतः स्वप्ने नाऽऽशंका देवताः प्रति || ||
अधिकारो यतस्तासामात्मनो देहसंगतौ || ११४३ ||
मुक्त्वैव देहसंबन्धं स्वप्नोऽयं प्रत्यगात्मनः ||
बहिष्कुलायावचनादेतच्चाध्यवसीयते || ११४४ ||
नातो भौतिकमेतत्स्यान्नापि स्याद्देवताकृतम् ||
चैतन्यं स्वप्नगं स्वार्थं शरीरद्वयवर्जनात् || ११४५ ||
निरनुग्रहं निष्करणं वासनोपाधिमात्रकम् ||
स्वप्नदर्शनमेतत्स्यात्प्र्त्यग्धीवस्तुसंश्रयम् || ११४६ ||
पृथक्त्वे वाऽपृथक्त्वे वा भूतेभ्यो देवतात्मनः ||
किमर्थं देवताशङ्का क्रियते हिरुगात्मनः || ११४७ ||
मत्स्यदृष्टान्तवचस एतावत्फ़लमिष्यते ||
मृत्युरूपमिदं सर्वं कार्यं च करणानि च || ११४८ ||
ताभ्यां विलक्षणस्त्वात्मा स्वप्ने योऽयं प्रपश्चितः ||
स्थूलसूक्ष्मशरीराभ्यां केवलश्चेतनोऽक्रियः || ११४९ ||
तथैव कामकर्मभ्यामत्यन्तं स्याद्विलक्षणः ||
प्रयोजकाभ्यां देहस्य तथैव करणस्य च || ११५० ||
अविद्याकृतमेवातः संसारित्वं न तु स्वतः ||
अतोऽविद्यासमुच्छित्तौ मुक्तिः स्यात्परमात्मनः || ११५१ ||
इत्युक्तः पूर्ववाक्येन समुदायार्ध ईदृशः ||
पौर्वापर्यं समीक्ष्याऽऽत्मा निष्क्रियः केवलोऽद्वयः || ११५२ ||
अपास्तकार्यकरणकर्मासङ्गो न तु क्वचित् ||
आत्मोपपादितः साक्षाद्वचस्येकत्र यत्नतः || ११५३ ||
सासङ्गश्च समृत्युश्च सकार्यकरणस्तथा ||
अविद्यया यतो बोध आत्माऽयमुपलक्ष्यते || ११५४ ||
स्वप्ने तु वासनाकामसंयुक्तो मृत्युवर्जितः ||
संप्रसादे प्रसन्नश्च तथाऽसङ्गोऽपि वीक्ष्यते || ११५५ ||
तद्वा अस्यैतदित्यत्र यथोक्तं रूपमात्मनः ||
वक्ष्यमाणमतस्तस्य दृष्टान्तोऽयमिहोच्यते || ११५६ ||
स्वतो बुद्धं च शुद्धं च मुक्तं रूपमिहाऽऽत्मनः ||
एकवाक्योपसंहारे न पुञ्जीकृत्य दर्शितम् || ११५७ ||
तद्यथा श्येन इत्युक्त्या तद्दृष्टान्तप्रदर्शनात् ||
शुद्धबुद्धादिकं रूपमात्मनः संप्रदर्श्यते || ११५८ ||