अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ (३)

सहोपलम्भमात्रेण सा तु सर्वत्र जायते |
धियो नो विषये शङ्का व्यभि­चा­रा­नु­सा­रिणी || ७२० ||

तदा­श­ङ्का­नि­वृ­त्त्य­र्थ­मतः कार्यं प्रयत्नतः |
साध्याभावेन तद्धे­तो­र­भा­व­प­रि­मा­र्ग­णम् || ७२१ ||

साध्याभावे कथं हेतोरभाव इति कथ्यताम् |
ज्ञान­ल­क्ष­ण­सं­प्रा­प्ता­व­थ­वाऽ­प्य­वि­शे­षतः || ७२२ ||

यदि मालक्षणाप्तस्य साध्याभावादि भण्यते |
तदा भ्राष्ट्रा­द्य­दू­रस्थे साध्याभावादि सज्जते || ७२३ ||

प्रत्यक्षगोचरे साध्य­भा­व­श्चे­त्प्र­ति­पा­द्यते |
प्रत्यक्षेणैव सिद्ध­त्वा­द­नु­मैवं वृथा भवेत् || ७२४ ||

अधित्यकादौ देशे तु ह्युप­ल­ब्धे­र­सं­भ­वात् |
मा भूद­ग्न्या­द्य­भा­वेऽपि कदाचिद्धूमसंभवः || ७२५ ||

यद्ये­व­म­न्व­योऽ­प्यत्र नैव प्राप्नोति तत्कथम् |
अन्यत्र यदि नाम स्याद्धू­म­भा­वेऽ­ग्नि­भा­वता || ७२६ ||

दर्शनादस्तु सा कामं दर्श­ना­धी­न­सि­द्धितः |
अधित्यकादौ देशे तु यावत्साक्षान्न दर्शनाम् || ७२७ ||

तावन्नावसितुं शक्यं भवि­त­व्य­मि­हा­ग्निना |
इति धूमो­प­ल­म्भ­त्वा­द्धा­ष्ट्र­धू­मो­प­ल­म्भ­वत् || ७२८ ||

इदं तावद्वदत्वत्र लिङ्ग­ल­क्ष­ण­त­त्त्व­वित् |
धूमा­दि­लि­ङ्गे­ने­हार्थो भवता कोऽनुमीयते || ७२९ ||

नाग्निस्तस्य प्रसि­द्ध­त्वा­न्नापि देशः प्रसिद्धितः |
न च संबन्धमात्रं स्याद्य­थो­क्ता­देव कारणात् || ७३० ||

तस्मान्नैवानुमा नाम मानं युक्तिमदिष्यते |
मेयाभावादिति प्राप्तावत्र प्रतिविधीयते || ७३१ ||

सहो­प­ल­ब्धि­सं­स्का­र­व­शा­द्धू­मा­दि­द­र्श­नात् |
अग्न्यादौ विप्र­कृ­ष्टेऽर्थे निश्तिता जायते मतिः || ७३२ ||

लिङ्गात्तावदिदं ज्ञानं जातं बाधकवर्जितम् |
उत्प­न्न­त्वा­त्त­दु­त्पन्नं नानुत्पन्नं कथंचन || ७३३ ||

जातं किम­वि­ना­भा­व­सं­ब­न्धे­ने­द­मी­दृ­शम् |
किंवा नेति परीक्षेयं जात­त्वा­त्स्या­द­पा­र्थिका || ७३४ ||

सर्वथा फ़लवज्ज्ञानं जातत्वान्न तदन्यथा |
तस्मा­त्प्र­त्य­क्ष­व­त्किं­चि­द्व्य­भि­चा­र­कृ­द­ञ्जसा || ७३५ ||

यावन्नेक्षामहे ताव­न्ना­प्र­मा­ण­मि­ती­र्यते |
तदपह्नवमानस्य तवा­त्य­न्त­म­सं­भ­वात् || ७३६ ||

अत्राऽऽह यदि विज्ञा­न­ज­न्म­मा­त्रा­त्प्र­सि­ध्यति |
प्रति­ज्ञा­मा­त्रतः सिद्धेर्वृथा स्याद्धे­तु­की­र्त­नम् || ७३७ ||

बाढमेवं भवे­दे­त­दा­श­ङ्का­का­रणं न चेत् |
किंचि­त्त­त्रो­प­ल­भ्येत ह्यनवद्यं भवेद्वचः || ७३८ ||

पुरु­षा­दि­नि­मि­त्तस्तु जायते यत्र संशयः |
अन्व­य­व्य­ति­रे­काभ्यां हेतोः स्यात्तत्र निश्चयः || ७३९ ||

उत्पन्न एव ज्ञानेऽ­त­स्त­त्सं­दे­ह­नि­वृ­त्तये |
अन्वयव्यतिरेकौ स्तो न ताभ्यामनुमेयधीः || ७४० ||

संदे­ह­नि­र्ण­या­द­न्य­त्स्व­भा­वादि यदुच्यते |
तस्या­नु­मि­त्य­न­ङ्ग­त्वा­त्प्राप्तं तत्तुषकण्डनम् || ७४१ ||

अवि­ना­भा­व­सि­द्ध्यर्थं नन्विदं वर्ण्यते त्रयम् |
त्रिष्वेव त्ववि­ना­भा­वा­द्भद्रं तैरपि कीर्तितम् || ७४२ ||

स्वभा­वा­द­वि­ना­भावे स्यादौ­ष्ण्य­स्या­ग्नि­लि­ङ्गता |
स्वभा­वोऽ­था­वि­ना­भा­वा­त्कार्ये प्राप्ता स्वभावता || ७४३ ||

औष्ण्यस्वभावो दृष्टोऽ­ग्नि­स्त­स्या­न्य­त्राऽपि दर्शनात् |
क्षिति­तो­या­ग्नि­म­रुतां दृष्टा स्पर्शस्वभावता || ७४४ ||

मतं चेदस्वभावोऽसौ यो नैका­र्थ­प्र­वृ­त्ति­मान् |
धवादावपि तद्वृ­त्ते­र्वृ­क्षात्मा शिंशपा न हि || ७४५ ||

शिंशपा वृक्ष एवेति ह्यवि­ना­भा­व­का­र­णात् |
क्षणिकत्वं न भावानां स्वभावः स्यात्तथा सति || ७४६ ||

तस्या­ने­का­र्थ­शा­यि­त्वा­द­हे­तुत्वं प्रसज्यते || ७४७ |
क्षणिकत्वं यदैकस्य तदाऽ­सा­धा­र­णा­त्मता |
हेतोः साधारणात्मत्वं यदाऽनेकस्य तन्मतम् || ७४८ ||

अग्नेर्धूमाच्च धूमस्य कार्यत्वस्य समीक्षणात् |
अनैकान्तिकता हेतोः कार्यत्वस्येह सज्जते || ७४९ ||

यदि नाम सदा स्पर्शो वाय्वादावपि वर्तते || ७५० ||
नैतावता भवेल्लोके गौर­स्प­र्श­स्व­भा­विका |
भुवो हि स्पर्शवत्त्वस्य लोकेऽ­स्मि­न्सु­प्र­सि­द्धितः || ७५१ ||

किंचा­प्य­व्य­भि­चा­रेण स्वभावत्वं विवक्षतः |
स्वभावान्नैव संसि­ध्ये­द्व­स्तु­नोऽ­व्य­भि­चा­रिता || ७५२ ||

त्रिष्वेव त्वविनाभावादिति यद्धर्मकीर्तिना |
प्रत्यज्ञायि प्रतिज्ञेयं हीयेतासौ न संशयः || ७५३ ||

तथैवाव्यभिचारेण स्वभावत्वं विवक्षतः |
पुरै­वा­व्य­भि­चा­रस्य संसिद्धेः किं ततोऽपरम् |
स्वभावहेतुना साध्यं वदं यत्ते विवक्षितम् || ७५४ ||

अग्ने­श्चा­व्य­भि­चा­रि­त्वा­त्का­र्य­स्यापि स्वभावता |
धूमस्याऽऽप्नोति भेदो वा द्वयो­र्हे­त्वो­र्नि­व­र्तते || ७५५ ||

कार्यत्वेऽपि च धूमादेर्न सोंऽशोऽनुमितौ मतः |
व्यभि­चा­रा­च्छ­रा­च्छृ­ङ्गा­च्छ­र­स्यो­त्प­त्ति­री­क्ष्यते || ७५६ ||

कार्यत्वान्नैव धूमादिरेति निश्चयहेतुताम् |
व्यभि­चा­र­हे­त्व­स­द्भा­वा­द­ग्ने­र्हे­तु­त्व­मे­त्यसौ || ७५७ ||

अनेककारणं कार्यं यस्माद्दृष्टं शरादिकम् |
तस्मा­द­व्य­भि­चा­रेण कार्यमप्येति हेतुताम् || ७५८ ||

अपेक्षाऽप्यत्र लिङ्गोक्तेः कार्यादौ नैव जायते |
अका­र्य­श्चा­स्व­भा­वश्च नालिङ्गं कृत्तिकोदयः || ७५९ ||

कृत्ति­का­त्वा­दिति ह्युक्तेर्नैव कार्यस्वभावयोः |
अपेक्षा जायते किंतु ह्यन्व­ये­त­र­मा­त्रतः || ७६० ||

अका­र्य­त्वा­स्व­भा­व­त्वा­द­वि­ना­भा­व­मा­त्रतः |
उदयः कार्तिको लिङ्गं प्रत्या­स­त्ते­र्भ­वे­द्ध्रु­वम् || ७६१ ||

रौहि­ण­स्यो­द­य­स्यातो न स्वभा­वा­द्य­पे­क्षते |
यतोऽतो न स्वभा­वा­दे­र्हे­तु­त्व­मु­प­प­द्यते || ७६२ ||

नाऽऽत्मनि स्यात्स्व­श­ब्दोऽत्र विरुद्धा स्वात्मनि क्रिया |
कार्यस्यापि स्वभावत्वं भवेदात्मीयवाचके || ७६३ ||

किमात्मैव स्वशब्देन किं वेहाऽऽत्मीय उच्यते |
स्वभाव आत्मनो भाव इति चेद्भवतो मतम् || ७६४ ||

स्व एवाऽऽत्मा स्वभा­व­श्चे­त्त­दाऽ­न्यस्य ह्यसंभवात् |
व्यतिरिक्तस्य मेयस्य स्यादा­त्मै­वाऽऽ­त्म­नोऽ­नुमा |
तथाच पक्ष­हे­त्वा­दे­र­न­न्यत्वं प्रसज्यते || ७६५ ||

अथ स्वस्य स्वभा­व­श्चे­दा­त्मी­योऽर्थो विवक्षितः |
आत्मीयः शिखिनो धूमस्तस्यापि स्यात्स्वभावता || ७६६ ||

संवि­त्ति­भा­व­यो­र्भेदो यथैवं तदभावयोः |
न भेदोऽ­नु­प­ल­ब्धिर्वो नातो लिङ्गं कथंचन || ७६७ ||

एवं लौकि­क­ता­दा­त्म्य­त­दु­त्पत्ती प्रतीरितम् |
अथ स्वप्र­क्रि­या­क्लृप्तं स्वभावादि परीक्ष्यते || ७६८ ||

अन्या­पो­ह­न­प­क्षेऽपि शब्द­व्या­वृ­त्ति­भे­दतः |
न हेतोः स्यात्स्व­भा­वत्वं क्रियात्वं च न विद्यते || ७६९ ||

वृक्षोऽयं शिंशपेत्यत्र त्वतृ­क्षा­र्थ­वि­वि­क्त­कम् |
वृक्षव्यक्तिषु सर्वत्र रूपमस्ति किलेदृशम् |
अशिंशपाविविक्तं च तद्वदेवाभिधीयते || ७७० ||

तत्रा­वृ­क्ष­वि­वि­क्तेऽर्थे संकेतो वृक्षसंज्ञया |
अशिंशपाविविक्ते च संकेतः शिंशपेति च || ७७१ ||

वृक्षोऽयं शिंशपेयं च भवे­द्व्य­व­हृ­ति­स्ततः ||
शब्दा­र्था­रो­प­णे­नैव सविकल्पधियो जनिः || ७७२ ||

शब्दा­र्था­पो­ह­यो­र्लिङ्गे ज्ञेया गमकगम्यता |
स्वभावकार्ये लिङ्गे स्तः स्वाभाव्यादि च लिङ्ग्यते || ७७३ ||

न तत्र तावद्विज्ञानं तद्ग्रा­ह्येऽ­स्तीह वस्तुनि ||
स्वभावो वाऽथवा कार्यं विकल्पोऽयं मतो यतः || ७७४ ||

न वस्तु­स्पृ­ग्वि­क­ल्प­त्वा­च्छ­ब्दा­ल­म्ब­न­मा­त्रतः |
शब्दाः सन्तः कथं तेऽर्था ह्यर्हन्ति भवितुं क्वचित् || ७७५ ||

स्वभा­व­का­र्य­ता­सि­द्धि­र­नु­मा­न­स­मा­श्र­यात् |
ताभ्यां चाप्य­नु­मा­सि­द्धि­रे­व­म­न्यो­न्य­सं­श्रयः || ७७६ ||

अशिं­श­पा­नि­वृ­त्तिर्हि न स्वभावो भवेद्यतः |
अवृ­क्षा­पो­ह­रू­पस्य तयोरत्यन्तभेदतः || ७७७ ||

अप्य­धू­म­नि­वृ­त्ति­श्चा­न­ग्नि­व्या­वृ­त्ति­रू­पिणः |
न कार्यं स्यात्स्वभावो वा तयोरत्यन्तभेदतः |
तद्व्य­क्ते­र­ग्नि­का­र्य­त्वान्न सा कार्यं भवेदतः || ७७८ ||

अथा­न्या­पो­ह­व­द्वस्तु गम्यं गमकमेव च |
वक्तव्यं तत्र किं मानमदृष्टौ न त्रिरूपता || ७७९ ||

अशिं­श­पा­नि­वृ­त्त्या­त्म­रूपं वस्त्वे चेन्मतम् |
अवृक्षापोहरूपं च तयोर्गमकगम्यता || ७८० ||

अशिं­श­पा­नि­वृ­त्यात्म स्वभावाद्गमकं भवेत् |
अवृ­क्षा­त्म­नि­वृ­त्त्यात्म गम्यं च स्यात्तदेव तु || ७८१ ||

स्वप­क्ष­सि­द्ध­येऽ­प्येवं क्लिश्यतोऽपि न सिध्यति ||
पक्षोऽयं बुद्धभक्तस्य यथा तदभिधीयते || ७८२ ||

अशिं­श­पा­नि­वृ­त्तिर्वः कुतोऽज्ञायि प्रमाणतः || ७८३ |
प्रत्यक्षेण न तावत्सा तस्य सद्वस्तुमानतः |
लिङ्गान्तरस्य चाभावान्नापि लिङ्गा­त्प्र­सि­ध्यति || ७८४ ||

उपलप्स्यामहे शब्दादेवैनामिति चेन्मतम् |
अना­दि­म­द्व्य­व­हृतेः संबन्धस्य च सिद्धितःस || ७८५ ||

किंमा­न­पू­र्व­कोऽ­स्या­र्थ­सं­बन्ध इति नोच्यते |
सिध्यत्येवं भवत्पक्षो दोषोऽपि स्यादनीप्सितः || ७८६ ||

एवं यतोऽभ्युपगतौ लिङ्गं स्याच्छब्द एव तु |
न स्वभावोऽथवा कार्यं प्रतिज्ञा च मृषा भवेत् || ७८७ ||

त्रिष्वेव त्वविनाभावादिति योक्ता प्रयत्नतः |
प्रतिज्ञार्थस्य संत्यागो न युक्तः शाक्यभिक्षुभिः || ७८८ ||

ननु चाशिं­श­पा­द्य­र्थ­वि­वि­क्तोऽर्थः प्रतीयते |
शब्दादेव तु तज्ज्ञा­ना­द­वृ­क्षा­र्थ­म­ति­र्भ­वेत् || ७८९ ||

अशिं­श­पा­नि­वृ­त्तिर्या काऽसाविह भवन्मता |
नाभावोऽसौ यतोऽभावो मतो वोऽनुपलब्धितः || ७९० ||

शिंश­पा­नु­प­ल­ब्धि­श्चे­द­न्य­व्या­वृ­त्ति­रू­पतः |
ततोऽभावात्तथा सिद्धोऽ­वृ­क्षा­भा­वोऽपि सर्वदा || ७९१ ||

उपलब्ध्यभावतो नैवं यथा तदभिधीयते |
कोऽभा­वा­नु­प­ल­ब्ध्योर्वो भेदः स्यादिति कथ्यताम् || ७९२ ||

ननूपलब्ध्यभावो योऽनुपलब्धिः स उच्यते |
भावा­भा­व­स्त्व­भा­वोऽपि प्रसिद्धं जगति द्वयम् || ७९३ ||

सत्यमेवं तथाऽप्यत्र प्रष्ट­व्य­म­व­शि­ष्टते |
किंचो­प­ल­ब्ध्य­भा­वेन सा सिद्धा किं ततोऽन्यतः || ७९४ ||

घटाभावं घटो यद्व­द्ध­टा­भा­व­त्व­का­र­णात् |
मिनोति नाऽऽत्म­नोऽ­भा­व­मु­प­ल­ब्धि­स्त­थैव च || ७९५ ||

माभा­व­स्या­प्य­भा­वेऽ­स्मि­न्सं­सि­द्धे­र­नु­भू­तितः |
सैवा­तोऽ­नु­प­ल­ब्ध्युक्त्या भव­द्भि­रु­प­व­र्ण्यते || ७९६ ||

भावाभावोऽपि किंचातः शृण्वतो यद्भविष्यति || ७९७ ||
उपलब्ध्या विनाऽ­भा­वा­द्य­द्य­भावः प्रसिध्यति |
तदो­प­ल­ब्ध्य­भा­वोऽसौ यो भावो भवतोच्यते || ७९८ ||

यदि तद्व्यतिरेकेण तदा वक्तव्यमेव ते ||
किंभूतं ते तदा चित्त­म­भा­व­प्र­स­मी­क्षणे || ७९९ ||

उपलब्ध्यभावं मुक्त्वेह नान्या­दृ­क्चि­त्त­मी­क्ष्यते |
किंचोपलब्धितः सर्व­सि­द्धि­मा­प्नोति नान्यथा || ८०० ||

न तादा­त्म्य­त­दु­त्पत्ती मिथोऽ­यो­गा­द­पो­हयोः |
न स्वल­क्ष­ण­यो­स्त­द्व­न्ना­प्य­पो­ह­व­तो­स्तयोः || ८०१ ||

नास­त्स­द्व्य­ति­रे­केण नासता च सदन्वितम् ||
सति नासदभावोऽपि ह्युक्तं तादा­त्म्य­मा­ग­मात् || ८०२ ||

यथाऽसत्सति संवित्तौ सदप्येवं प्रतीयताम् |
तदेतदिति च स्पष्टं श्रुति­रै­का­त्म्य­म­ब्र­वीत् || ८०३ ||

न च भेदमनाश्रित्य स्वभावादि प्रसिध्यति ||
योगस्य भेदनिष्ठत्वान्न च भेदः पुरोक्तितः || ८०४ ||

स्रजि सर्पादिकः क्लृप्तो नाभिन्नो भिन्न एव वा |
यथो­क्त­न्या­य­मा­र्गेण स्वभावादि ततः कुतः || ८०५ ||

एवमागमतः सिद्ध ऐका­त्म्येऽ­नु­भ­वा­श्र­यात् ||
नान्य­सि­द्धा­न्त­सं­सि­द्धि­र्ल­भ्युते सर्वतार्किकैः || ८०६ ||

स्वोक्त्यै­वा­ह्नुतेः कृत्स्न­व­स्तु­नोऽतो न यत्यते |
निराचिकीर्षया शून्य­वा­दि­नोऽ­वि­ष­य­त्वतः || ८०७ ||

न मृत्यवः स्वभावोऽस्य कार्याणि करणानि च ||
कुतस्तदिति चेदाह स वा इति परा श्रुतिः || ८०८ ||

स्वप्नो भूत्वा यथाऽत्येति मृत्यो रूपाण्यसङ्गतः |
आत्मैकस्मिन्नपि तनौ म्रियमाणस्तथैव सः || ८०९ ||

शरीरमिति वाक्येन जायमानविशेषणम् |
क्रियते न स्वतस्तस्य जन्माद्यैः संगतिर्यतः || ८१० ||

मोहा­ल्लि­ङ्गा­त्म­नो­त्क्रान्तः श्रुत­क­र्मा­नु­रू­पतः |
मिथ्याभिमानतो देहं यदाऽऽ­त्मे­त्य­भि­म­न्यते || ८११ ||

देहं संप­द्य­मा­नोऽ­ज­स्त­दाऽऽत्मा जायते खवत् ||
घटादिजन्मना तद्वत्तन्नाशे म्रियतेऽमरः || ८१२ ||

संपद्यमान एवाऽऽत्मा जायते म्रियते यतः ||
न तत्पूर्वं तदूर्ध्वं वा तेन वा अवधारणम् || ८१३ ||

पाप्मेति देह­सं­ब­न्ध­हे­तु­मा­त्र­मि­हो­च्यते |
आ विरि­ञ्चा­त्त­थाऽऽ­स्थाणोः सर्वं कर्मात उच्यते || ८१४ ||

ब्रह्मादीनां शरीराणि श्वसूकरशरीरवत् |
यतो जिहासितान्येव तस्माद्धर्मेऽपि पाप्मगीः || ८१५ ||

दुःखाभावः सदेहस्य नैवास्तीति श्रुतेर्वचः |
तस्मा­द्दै­वोऽ­प्य­नर्थः स्याद्देहो नाशाच्च सर्वदा || ८१६ ||

कर्म नाऽऽरभते याव­द्दुः­खा­दि­फ़­ल­मा­त्मनः |
असत्समं भवे­त्ता­व­त्त­द­पू­र्वा­त्मना स्थितम् || ८१७ ||

शरीरं पाप्मनां कार्यं धर्मा­ध­र्मा­त्म­ना­मि­दम् |
तस्मि­न्ना­त्मा­भि­मानो यः सा संपत्तिरविद्यया || ८१८ ||

देहकर्मक्ष्ये देहपातश्चास्य यदा तदा ||
पाप्मनः कर्मकार्याणि विज­हा­त्य­मृ­तोऽ­व्ययः || ८१९ ||

जहाति मृत्यो रूपाणि मृति­स्व­प्ना­दि­भू­मिषु |
न तु मृत्युमृते ज्ञाना­ज्ज­हा­त्यात्मा निजं तमः || ८२० ||

पाप्मा­दि­प्र­कृ­ता­दा­न­त्या­गा­भ्या­म­निशं यथा |
धिया समानः सन्नात्मा संसरत्या विमोक्षतः || ८२१ ||

परलोकेहलोकौ च तथैवायमविद्यया |
मृति­ज­न्म­प्र­ब­न्धेन संसरत्या विमोक्षतः || ८२२ ||

यत एवमतः सिद्धा देहा­दि­भ्योऽ­न्य­ताऽऽ­त्मनः |
तत्सं­यो­ग­वि­यो­गाभ्यां स्रग्व­स्रा­भ­र­णा­दि­वत् || ८२३ ||

न हि च्छिन्नेन कर्णेन तद्वानस्मीति मन्यते |
यथैवमवशिष्टेन तद्विशेषणहेतुतः || ८२४ ||

आभिमानिक एवास्य येन येन विशेष्यते |
आत्माऽ­वि­शे­ष­णोऽतः स्यात्स्र­गा­भ­र­ण­व­स्र­वत् || ८२५ ||

ननु न स्तोऽस्य लोकौ द्वौ यावात्मा संचरत्ययम् |
मृत्यु­ज­न्म­प्र­ब­न्धेन जाग्र­त्स्व­प्ना­ख्य­लो­क­वत् || ८२६ ||

स्वप्नजागरितौ लोकौ यथा प्रत्यक्षमानतः |
परलोकेहलोकौ तु न तथा मानगोचरौ || ८२७ ||

प्रात्य­क्ष्या­दस्य लोकस्य नास्त्या­श­ङ्काऽस्ति तां प्रति |
परलोकेऽपि नाऽऽशङ्का तत्सि­द्धे­रा­ग­मा­त्सदा || ८२८ ||

प्रत्य­क्सं­वि­त्प्र­मा­णत्वं परलोकेहलोकयोः |
स्वप्न­व­न्ना­न्य­मा­न­त्व­मि­त्य­स्तित्वं विवक्षितम् || ८२९ ||

इत्या­श­ङ्क्यो­त्तरो ग्रन्थस्तस्य वा इति भण्यते |
इत्येष ताव­त्सं­ब­न्ध­स्त­थाऽ­न्योऽ­प्य­भि­धी­यते || ८३० ||

आत्मा ज्योतिरिति ह्येकः समान इति चापरः |
पाप्मनो विजहातीति पदार्थाः सूत्रितास्रयः || ८३१ ||

स्वप्नेन निर्णयो वाच्य एते­षा­मि­त्य­तोऽ­धुना |
तस्येति वर्ण्यतेऽथेदं विधिना येन तच्छृणु || ८३२ ||

अयं चाप्य­भि­सं­ब­न्ध­स्तथा चान्याऽपि वर्ण्यते |
स्वयंज्योतिर्य आत्मो­क्त­स्त­स्या­वि­द्या­क्रि­यो­द्भवाः || ८३३ ||

कर्मो­प­भो­ग­सि­द्ध्यर्थं वर्ण्यन्ते भूमयोऽधुना |
इदं जन्म परं चैव स्वप्न­स्त­न्म­ध्य­ग­स्तथा || ८३४ ||

भावि यज्जन्म यच्चेदं प्रत्य­क्ष­म­नु­भू­यते |
एते एव विभोः स्थाने द्वे एवेत्यवधारणात् || ८३५ ||

ननु स्वप्नोऽपि लोकोऽस्य कथं स्यादवधारणम् |
द्वे एवेति, न संध्य­त्वा­त्स्व­प्नस्य स्थानयोर्द्वयोः || ८३६ ||

संध्यं तृती­य­मि­त्युक्तिः पूर­ण­प्र­त्य­य­श्रुतेः |
न स्थाना­न्त­र­नि­द्द­नुत्यै यत्तू­क्त­म­व­धा­र­णम् || ८३७ ||

तद­यो­ग­व्य­व­च्छित्त्यै नान्य­यो­ग­व्य­पे­क्षया |
तस्मिन्संध्य इतीदं च तथा सति समञ्जसम् || ८३८ ||

स्वप्ने­ह­लो­क­य­स्ता­व­त्सत्त्वं प्रत्यक्षगोचरम् |
परलोकस्य सद्भावे किं प्रमा­ण­मि­ती­र्य­ताम् || ८३९ ||

अस्मिन्नेव तु स स्वप्ने स्थाने तिष्ठ­न्प्र­प­श्यति ||
इमं लोकं परं चाऽऽत्मा कर्म­ज्ञा­ना­दि­सं­स्कृतः || ८४० ||

भूतजन्मनि यद्भुक्तं कर्म तद्भावनाञ्जितः |
पौर्व­दै­हि­क­मे­वातो वय­स्या­द्येऽ­भि­वी­क्षते || ८४१ ||

मध्ये वयसि कार्क­श्या­त्का­र­णा­ना­मि­हाऽऽ­र्जिताः |
प्रायेण वीक्षते स्वप्ने वासनाः कर्मणो वशात् || ८४२ ||

वियासुः परलोकं तु कर्मा­वि­द्या­दि­सं­वृतः |
भाविनो जन्मनो रूपं स्वप्ने प्रायेण पश्यति || ८४३ ||

भुक्त­त्वा­द­वि­व­क्षेह व्यतिक्रान्तस्य जन्मनः |
परलोकेहलोकौ तु गृह्येते संध्यसिद्धये || ८४४ ||

सुखेन दर्शनं तावदैहिकस्येह जन्मनः ||
यथा तु परलोकस्य तथाऽ­थे­त्य­भि­धी­यते || ८४५ ||

स्वप्नस्थानं समाश्रित्य परलोकं प्रपश्यति |
विधिना केन किंचाऽऽत्मा समाश्रित्य प्रपश्यति || ८४६ ||

अथैतदुच्यते स्पष्टं तद्य­था­ब­त्प्र­ती­य­ताम् |
येनाऽऽ­क्रा­म­त्युमुं लोकं सोऽस्याऽऽक्रम इहोच्यते || ८४७ ||

यादृ­क्सा­ध­न­म­स्येह परलोकाप्तये चितम् ||
आक्रमः स यथा यस्य सोऽयमात्मा यथाक्रमः || ८४८ ||

यथाक्रमो यथोपायो विद्या­क­र्मा­दि­ल­क्षणः |
पर­लो­को­न्मु­खी­भूतं तमा­श्रि­त्याऽऽ­क्रमं स्वकम् || ८४९ ||

स्थानं निर्माय संध्याख्यं विपाकानुभयानयम् |
अध­र्म­ध­र्म­यो­रात्मा दुःखा­न­न्दा­न्प्र­प­श्यति || ८५० ||

पाप्म­नोऽ­ध­र्म­का­र्याणि तथाऽऽनन्दांश्च धर्मजान् |
आगमादन्यतः साक्षान्न तु पापादिदर्शनम् || ८५१ ||

धर्मा­ध­र्म­प्र­युक्तो वा देव­ता­नु­ग्र­हा­त्तथा |
आन­न्दा­न्पा­प्म­न­श्चि­त्रा­न्स्वप्न आत्मा प्रपश्यति || ८५२ ||

इह जन्मन्यसंभाव्यं स्वप्ने यस्मा­त्प्र­प­श्यति ||
परलोकाश्रयं तादृ­क्त­स्मा­त्स्व­प्न­स­मी­क्ष­णम् || ८५३ ||

संध्य­स्व­प्न­वि­धि­स्ता­व­देवं समुपवर्णितः ||
पर­लो­क­प्र­सि­द्ध्यर्थं तस्य वा इति वाक्यतः || ८५४ ||

यदुक्तं विर­हेऽ­शे­ष­सू­र्या­दि­ज्यो­ति­षा­म­यम् |
पुमा­न्व्य­व­ह­र­त्या­त्म­ज्यो­ति­षै­वेति लिङ्गतः || ८५५ ||

भान्वा­दि­स­र्व­ज्यो­तिर्भ्यो विविक्तोऽयं पुमानिति |
क सिद्ध इति वक्तव्य यथो­क्ता­र्थ­प्र­सि­द्धये || ८५६ ||

स्वयं­ज्यो­तिः­प्र­सि­द्धिर्वा पूर्व­मु­क्ताऽ­नु­मा­नतः |
साक्षा­द­व्य­व­धा­नेन तत्प्र­सि­द्धि­र­थो­च्यते || ८५७ ||

स स्वयं­ज्यो­ति­रा­त्मैव बाह्य­ज्यो­ति­र्वि­व­र्जितः |
यथा भवति साक्षाच्च तथेदमभिधीयते || ८५८ ||

यत्र यस्यामवस्थायां स्वपि­ती­त्य­भि­धी­यते |
पुरुषोऽजं स्वमात्मानं तदाऽपीतो भवत्ययम् || ८५९ ||

जाग्र­त्क­र्म­क्ष­या­दात्मा बाह्य­दे­हा­भि­मा­नतः |
व्युत्थाय स्वप्रधानः सन्स्वप्नमायां समीक्षते || ८६० ||

प्रवृत्तं फ़लदानाय यदिदं जन्म वर्तते |
अस्येति लोकशब्देन तदेतदभिधीयते || ८६१ ||

जुहो­त्या­दि­क्रि­या­द्वारा यस्मा­त्स­र्व­म­व­त्य­यम् |
सर्वावानिति तेनायमात्मा देहान्त उच्यते || ८६२ ||

कृत्स्नं जगदुपादाय क्रियैकैकस्य सिध्यति |
जुहो­त्या­दि­र्ज­ग­द्धेतुः सर्वावानुच्यते ततः || ८६३ ||

अद्या­त्मा­दि­वि­भा­गेन सर्वा वाऽस्याऽऽत्मनो यतः |
भूतभौतिकमात्राः स्युः सर्वावानुच्यते ततः || ८६४ ||

सर्वावतोऽस्य देहस्य स्वप्न­भो­ग­प्र­सि­द्धये |
आदाय वासनामात्रां स्वप्नमायां तनोत्ययम् || ८६५ ||

अध्या­त्मा­दि­वि­भा­गेन मात्रा जागरिते यथा |
भोगे­ने­हा­प­ची­यन्ते प्रचीयन्ते च कर्मभिः || ८६६ ||

स्वप्नभूमावपि तथा कर्मणोत्थापिता इमाः |
क्षय­वृ­द्धि­प्र­ब­न्धेन मात्राः स्युर्वा­स­ना­त्मिकाः || ८६७ ||

धिया धियेति च तथा प्रागे­त­दु­प­पा­दि­तम् |
ह्रास­वृ­द्धि­प्र­ब­न्धेन यथेदं वर्तते जगत् || ८६८ ||

स्वयमेव विहत्येति देवता प्रतिषेधकृत् |
विशेषणं स्वय मिति देहपाते ऽस्यभण्यते || ८२९ ||

स्वात्मा­प­स­र्प­णा­द्देहं निःसंबोधं करोति यः |
सुषुप्सुः कर्मणां ध्वस्तौ विह­त्ये­त्यु­च्यते ततः || ८७० ||

भान्वा­द्य­नु­ग्र­हा­द्बोध आत्म­न­श्च­क्षु­रा­दिषु |
देहस्य व्यवहारार्थं देह­व्य­व­हृ­ति­स्तथा || ८७१ ||

आत्म­क­र्म­प्र­यु­क्तैव धर्मा­दि­फ़­ल­भु­क्तये |
कर्मणः फ़लभोगान्ते देहो यस्मात्पतत्ययम् || ८७२ ||

निर्मायेति स्वयं तद्व­दा­त्म­क­र्म­व्य­पे­क्षया |
स्वप्न­प्र­प­ञ्च­नि­ष्प­त्ति­र्य­स्मा­त्त­स्मा­द्वि­शे­ष­णम् || ८७३ ||

अपा­स्ता­शे­ष­क­र­ण­दै­व­त­स्यापि चाऽऽत्सनः |
क्रिया­का­र­क­सि­द्ध्यर्थं भावनैवास्य कारणम् || ८७४ ||

निर्मातव्योऽथ भोक्तव्यो यो लोकोऽ­भू­दि­हाऽऽ­त्मनः ||
तेन तेन स्वरूपेण भावना व्यवतिष्ठते || ८७५ ||

अपेतकारकत्वोऽपि कर्मो­त्था­पि­त­भा­वनः |
भाव­ना­का­र­के­क्षि­त्वा­दा­त्मैकः कारकायते || ८७६ ||

जाग्रतो यदुपात्तं प्राग्भा­व­ना­ल­क्षणं स्वयम् |
भास्व­द्धी­सं­श्रयं ज्ञानं भाःशब्देन तदुच्यते || ८७७ ||

बुद्ध्या­दि­क­र­णो­त्थाया व्यावृत्त्यर्थं विशेषणम् |
स्वेनेति भासः प्रत्य­क्चि­द­भि­व्य­क्ति­कृ­तोऽ­भिधा || ८७८ ||

स्वशब्दाविह विज्ञे­या­वा­त्मी­या­त्मा­र्थ­वा­चिनौ |
भाज्यो­ति­र­नु­रो­धेन सामर्थ्यादेव कारणात् || ८७९ ||

परार्था भावना यस्मात्स्वार्थं ज्योति­श्चि­दा­त्मनः |
उक्तार्थवाचिनौ तस्मात्स्वशब्दौ समुदाहृतौ || ८८० ||

स्वयंज्योतिरिति प्रोक्तो निष्क्रि­योऽ­का­र­कोऽ­फ़लः |
यः स एव स्वयं­ज्यो­ति­र्ज्यो­तिः­श­ब्देन भण्यते || ८८१ ||

निःशे­ष­लो­क­धी­वृ­त्ति­सा­क्षि­णै­वा­वि­का­रिणः |
प्रतीच ईदृशी वृत्तिः स्वपी­ती­त्य­भी­धी­यते || ८८२ ||

पीता­ध्या­त्मा­दि­क­ज्यो­ति­र्जा­ग्र­च्छ­ब्दा­दि­व­र्जितः |
वास­नो­पा­धि­रा­त्मैकः स्वयं­ज्यो­ति­रि­ति­र्यते || ८८३ ||

मातृ­मा­न­प्र­मे­या­दि­सा­मग्नी वासनात्मिका |
स्वप्ने भाःश­ब्द­वा­च्याऽस्य स्वयंज्योतिप आत्मनः || ८८४ ||

प्रमातृत्वादिका सर्वा प्रथते विषयात्मना |
भावना स्वार्थरूपस्य प्रती­चोऽ­लु­प्त­च­क्षुषः || ८८५ ||

मातारं मेयसंबद्धं जाग्रद्भूमौ यथेक्षते |
निष्क्रियो वासनाराशिं स्वप्नभूमौ तथेक्षते || ८८६ ||

स्वयंज्योतिरयं प्रत्य­ङ्स­र्व­सा­ध­न­नि­स्पृहः |
कूटस्थो वासनाः स्वप्ने चिदाभासाः करोत्ययम् || ८८७ ||

तत्संनिधौ चिदाभत्वं कार्य­का­र­ण­व­स्तुनः |
यत्त­द­स्याऽऽ­त्मनो मोहा­द्द्र­ष्टृ­त्व­मु­प­च­र्यते || ८८८ ||

ज्योति­षाऽ­का­र­के­णाऽऽत्मा वर्त­तेऽ­सं­स्पृ­श­न्प­रम् |
चिदाभा वासनाश्चैवं संगतिर्न तयोर्मिथः || ८८९ ||

यथा जात्यमणेः शुद्धा ज्वलन्ती निश्चला शिखा |
संनि­ध्य­सं­नि­धा­नेषु घटा­दी­ना­म­वि­क्रिया || ८९० ||

निःशे­ष­बु­द्धि­सा­क्ष्येवं परमात्मप्रदीपकः |
संनि­ध्य­सं­नि­धा­नेषु धीवृ­त्ती­ना­म­वि­क्रियः || ८९१ ||

न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते |
उपचारात्क्रिया साऽस्य यः प्रकाश्यस्य संनिधिः || ८९२ ||

यदेवं वर्तनं श्रुत्या स्वपितीति तदुच्यते |
इत्थंभूते तृतीयाऽतः स्वेन भासेति गृह्यते || ८९३ ||

साम­ग्र्य­भा­वा­न्नै­वेह कर्तृत्वादि विवक्ष्यते |
आत्मनोऽकारकत्वं च प्राधान्येन विवक्षितम् || ८९४ ||

भान्वा­दि­बा­ह्य­ज्यो­तिर्भिः संकीर्णः प्रागभूदयम् |
अन्यस्य ज्योति­षोऽ­भा­वा­त्स्व­यं­ज्योतिः पुमानयम् || ८९५ ||

नान्यत्र कारणाद्वृत्तिः कार्याणां जागरेऽपि हि |
कारणं त तमस्व्यात्मा नातः स्वप्ने मनस्थितिः || ८९६ ||

ननु जाग्र­च्छ­री­रा­दे­र्मा­त्रो­पा­दा­न­मी­रि­तम् |
तस्मिन्सति स्वयंज्योतिः कथ­मा­त्माऽ­भि­धी­यते || ८९७ ||

सत्यमेवं तथाऽपीदं मात्रादानं परात्मनः |
सर्वदा विषयीभूतं गन्ध­र्व­न­ग­रा­दि­वत् || ८९८ ||

एत­स्मि­न्न­नृ­तो­पाधौ शक्यो दर्शयितुं परः |
वासनालक्षणे साक्षा­त्स्व­यं­ज्यो­तिः­स्व­भा­वकः || ८९९ ||

सर्वो­पा­धि­वि­नि­र्मुक्तौ नैव शक्यः स ईक्षितुम् |
सुषुप्त इव तेना­स­न्मा­त्रा­दा­न­मिदं कृतम् || ९०० ||

ननु जाग्र­द्व­दी­क्ष्यन्ते ग्रही­तृ­ग्र­ह­णा­दयः |
स्वयंज्योतिः कथं तेषु सत्सु स्वप्नेऽभिधीयते || ९०१ ||

नैतदेवं, कुतो जाग्र­द्वै­ल­क्ष­ण्या­त्म­क­त्वतः |
स्वप्नस्य देहबुद्ध्यादेः स्वप्न­वृ­त्ता­व­सं­भ­वात् || ९०२ ||

आत्म­बु­द्धि­म­न­श्च­क्षु­रा­लो­का­र्था­दि­ल­क्ष­णम् |
जाग्रदेव न तु स्वप्नो भावनामात्रशेषतः || ९०३ ||

आविश्चिकीर्षुः साक्षादिममर्थं च श्रुतिः परा |
न तत्रेति प्रवृत्तैषा प्रत्य­गा­त्म­वि­शु­द्धये || ९०४ ||

कर्म­कृ­द्धि­ष­णान्तो यः कामा­वि­द्या­स­म­न्वितः |
स्वापबोधाविमौ तस्य न तु तत्साक्षिणो दृशेः || ९०५ ||

कूट­स्थ­ज्यो­ति­षै­वाऽऽस्ते स्वप्न­स्था­नेऽ­क्रि­योऽ­द्वयः |
चिदाभया वासनया तत्साक्षित्वं प्रकल्पते || ९०६ ||

तत्प्र­यो­क्तृ­क्रि­या­भा­वा­द्वु­द्ध्या­दि­ज्यो­ति­पा­मिह |
न व्यापृतिरतः प्रत्य­ङ्ज्यो­तिपा स्वेन वर्तने || ९०७ ||

जाग्राद्वस्तूनि सर्वाणि भाव­ना­मा­त्र­रू­प­ताम् |
जाग्र­त्क­र्म­क्षये यान्ति स्वप्नकरमोद्भवे सति || ९०८ ||

ता भावना उपादाय प्रत्यङ् स्वप्ने रिरंसया |
करोत्येष रथाद्यर्थं स्वप्न­भो­ग­प्र­सि­द्धये || ९०९ ||

करणं कर्म कर्ता च कर्मै­त­त्का­र­का­त्म­कम् |
प्रत्य­ङ्भो­है­क­निष्ठं सच्चि­दा­भ­त्वा­त्त­दा­त्मनि || ९१० ||

कार्यकारणरूपेण कर्मैतत्प्रथते जगत् |
आत्म­न्ये­त­त्स­म­ध्य­स्त­मा­त्मा­वि­द्यै­क­हे­तुतः || ९११ ||

सर्वस्य कर्म­णोऽ­त्य­न्त­मा­त्माऽ­कर्ता विलक्षणः |
तत्संहतः स्वयं त्वात्माऽसंहतो निर्गुणः शुचिः || ९१२ ||

अविद्यया स्वमा­त्मा­न­म­शुद्धं मन्यते यदा |
जाग्र­त्स्व­प्न­सु­षु­प्तानि तदैतानि प्रपद्यते || ९१३ ||

रथा दार्वा­द्य­स­द्भा­वान्न सन्ति स्वप्नदर्शने |
न सन्त्य­श्वा­द­य­स्त­द्व­द्र­थ­योगाः सवर्त्मका || ९१४ ||

रथा­दी­न्सृ­ज­तेऽ­थात्र जाग्र­त्क­र्मा­दि­हे­तु­कान् |
अवि­द्या­का­म­क­र्माणि सृष्टिबीजमिदं दृशेः || ९१५ ||

कर्मणो गमनस्येह साधनाभावहेतुना |
स्वप्ने मृषात्वमाहैवं गमनादेः श्रुतिः स्वयम् || ९१६ ||

न कर्मफ़लमप्यत्र स्वप्ने तद्धेत्वसंभवात् |
नाऽऽनन्दा अपि तत्रेति ह्यतः श्रुतिरभाषत || ९१७ ||

आह् लदाः स्युरिहाऽऽनन्दा हर्षाश्चात्र मुदस्तथा |
प्रक­र्ष­गु­ण­सं­बन्धाः प्रमुदो मुद एव तु || ९१८ ||

पल्वलास्त्विह वेशान्ताः प्रसिद्धार्थं तथोत्तरम् |
इत्येवमसतामेव स्रष्टाऽऽत्मा स्वात्ममायया || ९१९ ||

चिदा­भ­का­र­को­द्भू­त­वा­स­ना­क­र्म­हे­तुकः |
स्वयं निर्माय सृजत इत्यकर्मापि भण्यते || ९२० ||

अवि­चा­रि­त­सं­सिद्धं क्रिया­का­र­क­ल­क्ष­णम् |
जाग्रद्भूमावपि मतं किमु स्वप्नैकनीडगम् || ९२१ ||

रथा­दि­वा­स­ना­नी­ड­चि­त्त­वृ­त्ति­स­मु­द्भव -
कर्महेतुत्वतः कर्ताऽ­क­र्ताऽ­प्या­त्माऽ­भि­धी­यते || ९२२ ||

अकर्तुरपि कर्तृत्वं स्वात्मा­ज्ञा­नै­क­हे­तुतः |
तदन्यस्येह कार्य­त्वा­त्क­र्ताऽऽ­त्मैव तमोवधिः || ९२३ ||

स्वप्न­वृ­त्ता­वु­पा­दानं साधनं वा न विद्यते |
रथा­दे­र­स­त­स्त­स्मा­द्द्र­ष्टै­वाऽऽत्मा न कारकः || ९२४ ||

अस्ति यत्राप्युपादानं साधनं वाऽस्या जागरे || |
तत्रा­प्या­त्म­चि­दा­भा­स­म­नो­बु­द्ध्या­दि­का­रकैः || ९२५ ||

रथा­दि­वा­स­ना­ना­ड­धी­वृ­त्त्यु­द्भ­व­का­र­णम् |
कर्म निर्वर्त्यते तेन स हि कर्तेति भण्यते || ९२६ ||

भान्वादेरिव कर्तृत्वं कर्त्रा­द्य­र्था­व­भा­स­नात् |
बुद्ध्या­दि­क­र्तृ­सा­क्षि­त्वा­त्क­र्तृ­त्वा­द्या­त्मनो भवेत् || ९२७ ||

क्रिया­क­र्तृ­त्व­मे­वास्य हेतु­र्बु­द्ध्या­दि­सं­गतौ |
यथा­व­स्त्व­प­रि­ज्ञा­ना­द्धीति हेतावतः पदम् || ९२८ ||

स्वयं­ज्यो­ति­ष्ट्व­म­स्योक्त्वा बुद्ध्या­दे­श्चा­ति­रे­क­ताम् |
मन्त्रा­ञ्ज­गा­दा­था­त्रार्थे ब्राह्म­णो­क्ते­र­न­न्त­रम् || ९२९ ||

स्वप्नवृत्त्या विहत्येमं जाग्रद्देहं क्रियाक्षयात् |
असुप्तो भाव­ना­रू­पा­न्सु­प्ता­न्प्रा­णा­न्प्र­प­श्यति || ९३० ||

असु­प्तोऽ­क­र्म­हे­तु­त्वा­त्सु­प्ता­न्प्रा­णा­न्क्रि­यो­त्थितेः |
कूट­स्थ­दृ­ष्टि­स्वा­भा­व्य­त्स्वप्न आत्मा प्रपश्यति || ९३१ ||

प्राणा­दि­शु­क्र­मा­दाय कृत्वा तद्भावनामयम् |
लोक­मा­त्माऽ­क्रियः स्वस्थ­श्चा­क­शी­त्य­भि­प­श्यति || ९३२ ||

क्षीण­स्व­प्नो­त्थ­सं­भोगो जाग्र­द्भो­गा­श्रयं पुनः |
याति बुद्ध्यादिकं स्थानं पुमान्हंसाभिधो ध्रुवः || ९३३ ||

पर्यायेण यतश्चोभौ लोकौ हन्त्येकलः स्वतः |
एकहंस इति प्रोक्तः पुराणज्ञैस्ततः प्रभुः || ९३४ ||

हिरण्यं ज्योति­र्वि­ज्ञानं ताव­न्मा­त्र­स­त­त्त्वकः |
हिरण्मयस्ततो देवः स्वार्थेऽत्र मयडिष्यते || ९३५ ||

परस्य पुरुषस्यायं तद­बो­ध­प्र­क­ल्प­नात् |
साक्षि­मा­त्रा­दि­क­स्त­स्मा­त्पा­रु­षोऽ­य­मि­ती­र्यते || ९३६ ||

पूर­णा­न्नि­खि­ल­स्यास्य कार्य­का­र­ण­व­स्तुनः |
पुरुषोऽयं भवेदात्मा पूर्ण­त्वा­द्वाऽ­द्व­या­त्मनः || ९३७ ||

हाने­ना­ङ्ग­वि­क­ल्पानां नवानां संचयेन च |
हंसत्वमृषयः प्राहुरात्मनः पारदर्शिनः || ९३८ ||

प्राणेन ह्यवरं रक्ष­न्म­र­णा­द्दे­हकं परः |
बहिर्देह चरित्वाऽथ पुनरैति यथागतम् || ९३९ ||

नाडीस्त्यक्त्वा यतः स्वप्ने जाग्र­द्भो­ग­प्रदाः पुमान् |
स्वप्नभोगप्रदा याति बहि­र्नी­डा­द­त­स्तदा || ९४० ||

कर्मणोद्भाविता यत्र वासना कामरूपिणी |
तामादायैति देहं स्वं हंस आत्माऽ­मृ­तोऽ­व्ययः || ९४१ ||

कर्म­ज्ञा­ना­नु­रू­पेण रूपमुच्चावचं मुहुः |
स्वप्न­मा­या­प्र­प­ञ्चस्थ आत्माऽऽप्नोतीव निष्क्रियः || ९४२ ||

नर्मार्थो जक्षतिर्ज्ञेयो हर्षार्थो मोदतिस्तथा |
अविद्यया भयं चेह स्वप्ने तद्धेत्वसंभवात् || ९४३ ||

आराममेव मायोत्थं स्वप्न­नि­र्मा­ण­ल­क्ष­णम् |
मायिनस्तस्य पश्यन्ति न तं पश्यति कश्चन || ९४४ ||

बुद्ध्या­द्दे­र्व्य­ति­रि­क्तत्वं स्वयं­ज्यो­ति­ष्ट्व­मा­ग­मात् |
आत्मनः प्रतिपाद्याथ लोकतोऽपि विभाव्यते || ९४५ ||

सुप्तं न बोधयेद्गाढमिति वादो हि लोकिकः |
किमर्थमिति चेत्तत्र लोकः कारणमीक्षते || ९४६ ||

प्रबो­ध­ना­डी­स्त्य­क­त्वाऽऽत्मा स्वप्ननाडीरयं गतः |
इति लोक­प्र­सि­द्ध­त्वा­त्त­स्मि­ल्लो­कोऽ­नु­शास्ति तत् || ९४७ ||

नाडी­व्य­त्या­स­ग­म­न­श­ङ्क­य­वा­नु­शा­सति |
सुप्तं न बोधयेद्गाढमिति तद्देषदर्शिनः || ९४८ ||

यथायोगमयं नाडीर्गाढं सुप्तः प्रबोधितः |
न प्रपद्येत तेनायं स्यात्सु­दुः­ख­भि­ष­क्क्रियः || ९४९ ||

देह­प्र­वे­श­नि­र्या­ण­हे­तो­र्दे­हा­द्गृ­हा­दि­वत् |
बुद्ध्या­दि­व्य­ति­रि­क्त­त्व­मा­त्म­नोऽ­स्या­व­सी­य­ताम् || ९५० ||

अध्या­त्मा­दि­प­दा­र्थेभ्यो विविक्तं स्वात्मनि स्थितम् |
तं न पश्यत्यहो कष्टं दौर्भाग्यं दुष्टचेतसाम् || ९५१ ||

प्रत्यक्षगोचरं देवं लोकं चातिप्रमादिनम् |
दृष्ट्वा श्रुतिः शिर­स्ता­ड­म­नु­क्रो­शति दुःखिता || ९५२ ||

प्रत्य­क्ष­त­म­म­प्येनं वितमस्कं स्वयंस्थितम् |
अहो कष्टं न पश्यन्ति कं याम शरणं वयम् || ९५३ ||

स्वयं­ज्यो­ति­ष्ट्व­मा­रभ्य यच्छ्रु­त्यो­क्त­मि­हाऽऽ­त्मनि |
उच्यते पूर्वपक्षोऽयं तस्य सिद्धान्तरूपिणः || ९५४ ||

स यत्रेति ह्यतः पूर्वं पूर्व­प­क्ष­त्व­हे­तुतः |
अथो खल्वा­हु­रि­त्या­दि­ग्रन्थं पश्यत्तथा क्रमात् || ९५५ ||

स्वप्नस्य जाग्र­त्स्था­न­त्व­मथो खल्वितिवाक्यतः |
यानि ह्येवेति हेतूक्तिः प्रति­ज्ञा­ता­र्थ­सि­द्धये || ९५६ ||

जाग्रत्समीक्षणं यासु पुंसो नाडीषु तास्विदम् |
स्वप्नेक्षणं विजा­नी­या­न्ना­न्य­त्रेति विनिश्चयः || ९५७ ||

स्वप्ने तमेव चाऽऽत्मानं सुप्तोऽ­य­म­भि­म­न्यते |
यम­न­स्त­प्र­बो­धस्थं न ततोऽन्यं कदाचन || ९५८ ||

जाग्र­द्ब­न्धु­पु­रा­म­प­ग्र­श्वा­रा­मा­दि­ल­क्ष­णान् |
स्वप्ने प्रत्यभिजानाति तानेव न ततोऽपरान् || ९५९ ||

अपूर्वमेव सं पश्ये­त्स्व­प्न­दृ­ग्जा­ग्रतो यदि |
उक्तस्वप्नो भवेदन्यो यथा पूर्वगतस्तथा || ९६० ||

इत्येवमाहुः केचित्तु न तु तद्युक्तिमद्वचः |
अयुक्तिमद्यथा चैतत्तत्पूर्वं प्रतिपादितम् || ९६१ ||

अत्रा­य­मि­त्य­ने­नात्र पूर्व­प­क्ष­नि­रा­क्रिया |
न्यायेनोक्तेन पूर्वेण वक्ष्यमाणेन च ध्रुवम् || ९६२ ||

न जाग्रद्देशगः स्वप्नो जाग्र­त्सा­म­ग्र्य­भा­वतः |
अध्या­त्मा­द्य­र्थ­वि­रहे यतः स्वप्ना­न्प्र­प­श्यति || ९६३ ||

स्वयं­ज्यो­ति­ष्ट्व­म­स्योक्तं स्वप्ने चाकारकात्मता |
मृत्यु­रू­पा­त्य­य­श्चैवं प्रतीचः पूर्ववाक्यतः || ९६४ ||

कामादयः स्वभावोऽस्य मृत्यवोऽथ न वा भवेत् |
इत्याशङ्क्य नृपो दोषं याज्ञ­व­ल्क्य­म­पृ­च्छत || ९६५ ||

पृष्टं वस्तु सुनिर्णीतं मये­ति­प्र­कृ­तो­क्तितः |
निविवृत्सुं नृपो विप्रं भूयोऽ­पृ­च्छ­द्वि­मु­क्तये || ९६६ ||

स्वयं­ज्यु­ति­ष्ट्व­मु­दितं मुक्ते­र­ङ्ग­म­म­न्यत || ९६७ |
न चाङ्ग­नि­र्ण­यो­क्त्यैव निर्णयं मन्यतेऽङ्गिनः |
यतोऽतो मोक्षमुद्दिश्य याज्ञ­व­ल्क्य­म­पृ­च्छत || ९६८ ||

आस­ङ्ग­प्र­वि­वे­कार्थं स वा इत्यादि भण्यते |
कामादिप्रविवेके हि मोक्ष­यो­ग्य­त्व­मा­त्मनः || ९६९ ||

कामा­द्या­त्म­गु­ण­श्चे­त्स्या­द­नि­र्मोक्षः प्रसज्यते |
न हि गुण्यविनाशेन तद्गुणस्य निराकृतिः || ९७० ||

रूपा­ण्ये­वा­य­मा­त्माऽत्र मृत्योः स्वप्नेऽ­ति­व­र्तते |
न तु मृत्युं यतः स्वप्ने मोदत्रासादि दृश्यते || ९७१ ||

मोदत्रासादिको मृत्युः स्वभावो न यथाऽऽत्मनः |
तथाऽत ऊर्ध्वं प्रब्रूहि भगवन्मे विमुक्तये || ९७२ ||

सहस्रदानं तूक्तस्य स्वयं­ज्यो­ति­ष्ट्व­व­स्तुनः |
निर्ण­या­घा­ट­वि­ज्ञप्त्यै नाशे­ष­प्र­श्न­नि­र्ण­यात् || ९७३ ||

स्वयंज्योतिः स वा एष यः पुरा प्रतिपादितः |
स्वप्न­भू­मा­व­स­ङ्गोऽसौ संप्रसादे प्रसीदति || ९७४ ||

अपां कत­क­सं­प­र्का­द्य­थाऽ­त्य­न्त­प्र­स­न्नता |
अपा­स्ता­शे­ष­सं­सा­र­भा­व­न­स्य­व­मा­त्मनः || ९७५ ||

स्वास्थ्यं प्रस­न्न­तै­त­स्मि­न्सु­षुप्ते भवतीत्यतः |
संप्रसादमिमं प्राहुः सुषुप्तं तद्विदो जनाः || ९७६ ||

मात्रादानं यदकरोदात्मा स्वप्नरिरंसया |
तत्क्षये स निरासङ्गः स्वात्मन्येव प्रसीदति || ९७७ ||

जाग्र­द्व्य­पे­क्षया स्वप्ने किंचिच्छेषः प्रसीदति |
तस्या­प्य­स्त­म­या­त्प्राज्ञे समिति स्याद्विशेषणम् || ९७८ ||

केव­ला­ज्ञा­न­मा­त्रा­धि­रिह प्रत्यङ् व्यवस्थितः |
कारणात्मा यत­स्त­स्मा­ज्जा­ग्र­त्स्व­प्ना­ख्य­का­र्य­कृत् || ९७९ ||

कथं केन क्रमेणात्र प्रत्यागात्मा प्रसीदति |
इत्ये­त­द­धु­नाऽऽ­च­ष्टे­र­त्वे­त्या­दि­गिरा श्रुतिः || ९८० ||

स्वप्नभूमावयं रत्वा क्रीडां कृत्वाऽऽ­त्म­मा­यया |
चरित्वा च विहृत्याऽऽत्मा वासनामात्रसाधनः || ९८१ ||

दृष्ट्वै­वे­त्ये­व­श­ब्देन कारकत्वं निवार्यते |
पुण्यपापफ़लं चेह पुण्य­पा­प­गि­रो­च्यते || ९८२ ||

अस्य जाग्र­द­व­स्था­या­मि­न्द्रि­या­र्था­दि­सं­भ­वात् |
क्रिया निर्वर्त्यते सा च सुखा­दि­फ़­ल­दाऽऽ­त्मनः || ९८३ ||

स्वप्ने तु कारकाभावान्न क्रिया­सि­द्धि­रा­त्मनः |
चिदाभं वासनामात्रं प्रथ­तेऽ­तोऽ­वि­का­रिणः || ९८४ ||

यतोऽत्र न क्रिया तस्मादवदध्रे श्रुतिः स्वयम् |
दृष्ट्वै­वाऽऽत्मा न कृत्वेति प्रत्यङ् तस्मान्न कारकः || ९८५ ||

पुण्यपापफ़लं चेह पुण्यपापाभिधं मतम् |
कार्यं कार­ण­व­त्त­स्मा­दु­प­चा­रा­त्स­मी­रि­तम् || ९८६ ||

स्वप्न­क­र्म­व्यु­प­रमे ततः प्राज्ञे स्वयंप्रभः |
प्रसीदति परो देवः प्रतीच्येव परे पदे || ९८७ ||

पुराऽ­प्य­स­कृ­दा­त्माऽयं स्थाना­त्स्था­ना­न्तरं गतः |
यतोऽतः पुनरित्येवं संप्र­सा­दा­प्ति­तोऽ­भिधा || ९८८ ||

आनुलोम्यं सुषु­प्ता­प्ति­रे­व­मु­क्तेन वर्त्मना |
तद्व्युत्थानं प्रतिलोम्यं स्वप्ना­दि­स्था­न­सं­चरः || ९८९ ||

प्रातिलोम्यार्थ एवातः प्रति­श­ब्दोऽ­य­मि­ष्यते |
विपरीताऽऽगतिः स्वप्ने प्रतिस्थानं तथैत्यजः || ९९० ||

यथार्थे प्रतिशब्दोऽयं निश्चयार्थे निरित्ययम् |
अयनं गमनं च स्यादायो धातोरिणो घञि || ९९१ ||

श्रोत्रा­दि­क­र­णा­न्यत्र मात्रादानस्य कारणम् |
योनि­श­ब्दा­भि­लप्यं स्याज्जा­ग्र­द्दे­ह­स­मा­श्र­यम् || ९९२ ||

मात्रादानस्य या यस्य योनि­रा­सी­त्पु­राऽऽ­त्मनः |
तामेवायं पुनर्योनिं स्वप्न आत्मा प्रपद्यते || ९९३ ||

यथाऽऽदानं कृतं पूर्वं मात्राणां स्वप्नसर्जने |
स्वप्न आदाय ता मात्राः स्वाप्नीं योनिं प्रपद्यते || ९९४ ||

प्रतिन्यायगिरा चास्य यथा­व­र्त्मा­भि­धी­यते |
प्रतियोनिरवेणैव यथा­स्था­न­मि­हो­च्यते || ९९५ ||

यस्मा­द्य­स्मा­दु­पा­दाय मात्राः स्वप्नं चकार सः |
तत्र तत्रैव ता धत्ते मात्राः स्वात्मांशुभिः सह || ९९६ ||

येनैव वर्त्मना यातः पुनस्तेनैव वर्त्मना |
याति मात्राः समादाय कर्मवायुसमीरितः || ९९७ ||

स आत्मा पुण्यपापोत्थं फ़लं नानाप्रभेदकम् |
तत्र स्वप्नविधौ तिष्ठन्पश्यतीह समीक्षते || ९९८ ||

नैनं स्थानान्तरं प्राप्तं ग्रामा­द्ग्रा­मा­न्तरं यथा |
शुभाशुभं यद­द्रा­क्षी­च­त्सा­क्षा­द­नु­ग­च्छति || ९९९ ||

शुभा­शु­भ­क्रि­यै­वेह पश्य­ती­त्य­भि­धी­यते |
न तु यद्वास्तवं वृत्तं पश्य­ती­त्य­क्रि­या­त्मनः || १००० ||

तेनानन्वागत इति­प्र­ति­ज्ञा­ता­र्थ­सि­द्धये |
असङ्गो हीति हेतूक्तिः प्रति­ज्ञा­र्थोऽ­थवा भवेत् || १००१ ||

यदैवं पूर्वमेव स्यात्तदा हेतुवचः स्फ़ुटम् |
तेनानन्वागत इति प्राक्लृतेनैव कर्मणा || १००२ ||

सासङ्गत्वं समाशङ्क्य प्रवृत्तैषा यतः श्रुतिः |
अनन्वागत इत्यस्य हेतुत्वं हिगिरोच्यते || १००३ ||

न कर्म कुरुते स्वप्ने कारकाणामसंभवात् |
फ़लमात्रमायं तत्र भुङ्के स्वाभासवर्त्मना || १००४ ||

न हि निष्पद्यते स्वप्ने क्रिया जागरिते यथा |
कर्त्रा­दि­का­र­क­स्थाने नातोऽ­न्वे­त्य­क्रि­या­त्मनः || १००५ ||

यदि स्थानान्तरं प्राप्त­म­न्वि­या­त्स्व­प्नजा क्रिया |
शास्रारम्भो वृथैव स्यात्स्वप्ने को नापराध्यति || १००६ ||

अपेतसाधनस्यापि पश्यतः स्वप्नविभ्रमम् |
बिभर्ति वासनैवास्य क्रिया­का­र­क­रू­प­ताम् || १००७ ||

फ़लसंभोगमात्रं च यस्मात्स्वप्ने समीक्ष्यते |
फ़ला­न्त­रा­र­म्भ­वि­धि­र्नातः स्याद­क्रि­या­त्मनः || १००८ ||

न करोति यतः स्वप्ने क्रियामिव समीक्षते |
प्रक्रि­या­फ़­ल­सं­योगो नातो बोधेऽस्य वीक्ष्यते || १००९ ||

तृप्तः स्वप्नेऽथ संबुद्धः क्षुत्परीतः प्रबुध्यते || १०१० ||

यस्मादनृतमेवेदं यत्किंचिदिह वीक्ष्यते |
प्रत्य­ङ्ङ­का­र­क­स्त­स्मा­ल्लि­प्यते न क्रियाफ़लैः || १०११ ||

स्वप्न­स्क­न्न­नि­मित्तं तु प्रायश्चित्तं यदुच्यते |
सत्ये­न्द्रि­य­वि­का­र­त्वा­त्त­च्चापि न निराश्रयम् || १०१२ ||

स्वप्नस्कन्नं यथा स्वप्ने यथा बोधेऽपि वीक्ष्यते |
आत्म­चै­त­न्य­व­त्त­स्मा­त्प्रा­य­श्चित्तं तदुद्भवम् || १०१३ ||

एका तावदियं व्याख्या यथो­क्तै­षो­प­व­र्णिता ||
व्याच­क्ष­तेऽ­न्यथा चेदं वाक्ये­म­त­द्य­थो­दि­तम् || १०१४ ||

अनन्वागतवाक्येन विवेकः कर्मणः कृतः |
असङ्गवचसा त्वस्य कामनिर्मोक उच्यते || १०१५ ||

ननु नैव क्रिया साक्षा­द्धा­न­वृद्धी प्रतीष्यते ||
अपि जागरितस्थाने कामो हेतुर्यतस्तयोः || १०१६ ||

अकामस्य क्रिया यस्मा­न्नि­ष्फ़­लैव समीक्ष्यते |
स यथाकाम इत्यादि तथा चोर्ध्वं प्रवक्ष्यते |
इत्यस्य परि­हा­रा­र्थ­म­सङ्गो हीति भण्यते || १०१७ ||

यमासङ्गमिह स्वप्ने कामं त्वमनुपश्यसि |
स्वपतो न भवेत्काम इत्येतदभिधीयते || १०१८ ||

असङ्गो हीति वाक्येन तद्वतोऽसंभवादिह |
ग्रस्तमत्र मनः कामि वासनामात्रशेषतः || १०१९ ||

यतोऽतोऽसङ्ग एवायं पुरुषः स्वप्नभूमिगः |
बहिः कुला­या­दि­त्युक्तं पाप्मनो विजहाति च || १०२० ||

देहाश्रयादृते कामाः सन्ति नान्यत्र कुत्रचित् |
स्वप्नप्रपञ्चः सर्वोऽपि वासनामात्रमेव तु || १०२१ ||

व्याचक्षाणो यतः स्वप्नं ज्ञानमात्रं प्रभाषते || १०२२ |

जाने पुत्रायुतं जातं जाने पितरमागतम् |
तथाचेवगिरा युक्ता­न्स्व­प्ना­न्व्या­च­क्षते जनाः || १०२३ ||

रथादेरसतो यद्वस्त्वप्ने निर्मा­ण­मी­क्ष्यते |
शरी­रे­न्द्रि­य­का­मा­दे­र­स­त­स्त­द्व­देव तु || १०२४ ||

रथे­न्द्रि­या­दि­व­त्त­स्मा­त्का­मोऽ­प्यत्र समीक्ष्यताम् |
स्वप्नेऽतोऽयं निरासङ्गः पुमा­न­भ्यु­प­ग­म्य­ताम् || १०२५ ||

कौटस्थ्यं यदि वा पुंसोऽ­स­ङ्ग­श­ब्देन भण्यते |
क्रियाश्लेषमृते यस्मा­न्ना­ध्य­क्ष­फ़­ल­सं­गतिः || १०२६ ||

ननु कर्ता पुमानेष स हि कर्तेतिवाक्यतः |
नैवं स्वप्ने यतः पुंसः कर्तृत्वं भावनाकृतम् || १०२७ ||

कर्तृ­का­र्या­व­भा­सि­त्वा­ज्जा­ग्र­त्का­लेऽपि चाऽऽत्मनः |
कर्तृत्वं न स्वतः स्वप्ने किमु वक्तव्यमिष्यते || १०२८ ||

अवि­द्या­स्रो­त­सै­वास्य क्रिया­का­र­क­ताऽऽ­त्मनः |
तस्थ­चै­त­न्य­बि­म्बेन भुङ्केऽसौ कर्मणः फ़लम् || १०२९ ||

कर्त्रा­दि­सा­क्षि­णोऽ­स्या­भू­त्क­र्तृत्वं यत्पुराऽऽत्मनः |
स हि कर्तेति तस्यैव वचनं स्यात्पु­नः­श्रुतिः || १०३० ||

नन्वस्यैव तु तत्कर्म भाव­ना­पे­क्ष­याऽ­खि­लम् |
प्रवर्तते कथं तस्य कर्तृत्वं विनिवार्यते || १०३१ ||

कामं प्रवर्ततां कर्म न च दोषोऽत्र कश्चन |
भावनेयं यतः कर्मगुण एव सती सदा |
स्वसाक्षिणं भावयन्ती न त्वसावात्मनो गुणः || १०३२ ||

पुष्णगन्धः पुटस्थोऽपि पुष्पस्यैव यथा तथा |
बुद्ध्या­दि­का­र­क­स्थस्य भावना कर्मणो गुणः |
आत्म­न­स्तू­चा­रा­त्स्यान्न तु साक्षाद्गुणो भवेत् || १०३३ ||

उत्पत्तौ भोगकाले च कर्माऽऽदायैव भावनाम् |
स्वात्मानं लभते यस्मात्तां विना तदनर्थकम् || १०३४ ||

कर्मणोऽपि तथाऽत्यन्तं प्रयो­गै­क­स­मा­श्र­यात् |
बुद्ध्या­द्य­र्था­भि­सं­ब­न्ध­प­क्ष­तै­वा­व­सी­यते |
न त्वात्मगुणता तस्य कर्मणः स्यात्कदाचन || १०३६ ||

प्रयो­गा­पे­क्ष­णे­वाऽऽस्ते कर्म बुद्ध्या­दि­सं­क्षये || १०३७ |
स्वात्मतः प्रतिलाभाय न त्वात्मा­न­म­पे­क्षते |
सभावनमतः कर्म प्रतीचः प्रविविच्यते || १०३८ ||

तस्मात् कर्मगुणस्यैव कर्मस्थस्यैव सर्वदा |
साक्ष्यात्मा भावनारूपकामस्य स्वप्नसद्मनि || १०३९ ||

आसङ्ग आत्म­न­श्चे­त्स्या­त्सा­क्षा­च्चै­त­न्य­व­द्गुणः |
न पश्ये­दा­त्म­व­त्कामं कर्मस्थं स्वप्रबोधयोः || १०४० ||

एवं चावस्थिते पक्षे श्रुत्याऽकारि समञ्जसम् |
प्रसि­द्ध­व­दु­पा­दा­न­म­सङ्गो हीति सादरण् || १०४१ ||

न कर्मो­प­च­योऽ­तोऽत्र स्वप्ने जाग्रद्वदिष्यते |
सर्वा­स­ङ्ग­वि­नि­र्मो­का­द्वा­स­ना­मा­त्र­शे­षतः || १०४२ ||

नायं कर्ममयो यस्मान्न च काममयः स्वतः |
प्रत्य­ग­ज्ञा­न­त­स्त­स्मा­त्त­न्म­य­त्व­मि­वे­क्ष्यते || १०४३ ||

नाना­सा­ध­न­सं­ब­न्धा­त्क­र्तृत्वं जगतीक्ष्यते |
अयं त्वसङ्गो येनातो न करोति न लिप्यते || १०४४ ||

मूर्ता­मू­र्ता­द्य­प­ह्नुत्या ह्यात्म­न­स्त­त्त्व­म­ब्र­वीत् |
नातोऽ­ना­त्मा­भि­सं­बन्धः कूट­स्थै­का­त्म्य­हे­तुतः || १०४५ ||

सुषुप्ते नन्व­सं­बो­धा­द्र­त्वादि कथमुच्यते |
न त्वित्यपि तथा वाक्यं न बाह्यं चेति वक्ष्यति || १०४६ ||

स्वप्ने रत्वाद्यथ मतं नैवमप्युपपद्यते |
अनन्वागतगीः कुप्ये­त्स्व­प्नेऽ­न्वे­त्येव तत्कृतम् || १०४७ ||

यथा जाग्रत्कृतं कर्म कर्तारमनुगच्छति |
जाग्रत्स्थं स्वप्नकर्मैवं स्वप्ने समधिगच्छति || १०४८ ||

इत्येवं चोदिते केचित्परिहारं प्रचक्षते |
पदच्छेदेन कुशला अर­त्वे­त्ये­व­मा­दिना || १०४९ ||

स यत्त­त्रे­त्यं­स­ङ्गो­क्ते­र्ने­द­म­प्यु­त्तरं भवेत् |
दृष्टिं तत्रापि चाध्यस्य परिहारं प्रचक्षते || १०५० ||

अस्ति भोगः सुषुप्तेऽपि तथा­चाऽऽ­न­न्द­भु­ङ्भतः |
ऐश्वरो वाऽत्र भोगोऽस्ति सर्व­स्था­ना­भि­मा­नतः || १०५१ ||

कार्यभूमिगतो ह्यात्मा सुषुप्तं प्रसमीक्ष्यते |
कार्यस्य कारणव्याप्तेर्न सुषुप्तपरोक्षता || १०५२ ||

यदि वा स्वप्न एवास्तु रत्वादि यदुदीरितम् |
स्वप्नयोरभितः प्राज्ञा­द­न­न्वा­ग­त­ताऽ­प्यतः || १०५३ ||

त्रिधा त्रिधा वा क्लृप्तेः स्यादे­कै­क­स्ये­त्य­दो­षता |
जाग्र­त्स्व­प्न­सु­षु­प्तानां जाग्र­त्स्व­प्न­सु­षु­प्ततः || १०५४ ||

कार्याकार्यादि यत्सा­क्षा­त्प्र­मा­णा­त्प्र­स­मी­क्ष­यते |
जाग्रज्जागरितं तादृ­क्त­त्स्वप्नो यन्मृषेक्षणम् || १०५५ ||

कामा­दि­वि­ष­या­स­क्तेर्न किंचि­द्वि­वि­नक्ति यत् |
जाग्रत्सुषुप्तं तादृ­क्स्या­न्नि­र्वि­वे­क­स्व­भा­वतः || १०५६ ||

सुप्तोऽपि कर्म कुरुते नरः स्वप्ने प्रबोधवत् |
स्वप्न­जा­ग्र­त्त­था­रूपं स्वप्नः स्वप्ना­त्म­कोऽत्र यः || १०५७ ||

दृष्ट्वाऽपि यत्समाख्यातुं प्रबुद्धो नैव शक्नुयात् |
तादृ­क्स्व­प्न­सु­षुप्तं स्यात्सुषुप्तं च त्रिधोच्यते || १०५८ ||

सुषु­प्त­जा­ग्र­न्मूढः स्याच्छान्तोऽसौ स्वप्न उच्यते |
ऐका­त्म्य­त­त्त्वा­सं­बोधः सुषुप्तः प्राज्ञ उच्यते || १०५९ ||

त्रिवि­ध­त्वा­त्सु­षु­प्तस्व सर्वं रत्वादि युज्यते |
दृष्टान्तः संप्रसादो वा स्वप्न­जा­ग्र­द­व­स्थयोः || १०६० ||

यथा रत्वा­द्य­सं­भाव्यं संप्रसादे तथैव च |
इतरत्रापि विज्ञेयं तत्र वस्त्व­स­मी­क्ष­णात् || १०६१ ||

यत एवमतः कर्म­का­म­दो­ष­वि­व­र्जितः |
पुरुषोऽयं स्वतः सिद्धो यथोक्तेनैव वर्त्मना || १०६२ ||

अस­ङ्ग­त्वा­द­क­र्तेति नन्व­सि­द्धोऽ­य­मु­च्यते |
स्वप्न कामस्य दृष्टत्वाद्यत्र काममिति श्रुतेः || १०६३ ||

इत्यस्य परिहारार्थं स वा इत्यादिकं वचः |
पुनः स्वप्नसमारम्भो गत­त्वा­त्कि­मि­ती­र्यते |
बुद्धा­न्ता­दे­र्यथा तद्वन्नातः स्यात्पु­न­रु­क्तता || १०६४ ||

निशायां संप्रवृत्तायां संहृताक्षस्य निद्रया |
अवस्थां तैजसीं भुक्त्वं स्वापो भवति देहिनः || १०६५ ||

स आनन्दः परो ज्ञेयः सुख­दुः­ख­वि­व­र्जितः |
सततं सर्वभूतानां तिष्ठत्येष पुरीतति || १०६६ ||

तत्र रत्वा यथाकामं कंचित्कालं यदृच्छया |
तामवस्थां तिरश्चक्र आयि­या­सु­स्त­तोऽ­प­राम् || १०६७ ||

भावनाविग्रहो भूत्वा तत्र स्वप्नरिरंसया |
उच्चावचानि वस्तूनि भावनातः करोति सः || १०६८ ||

गतौ प्राणवियोगः स्यात् यथाकालस्य चेक्षणम् |
तदसंभाव्यदेशादौ दर्श­ना­त्त­न्मृ­षा­त्मता || १०६९ ||

याव­त्स्व­प्नेऽस्ति वक्तव्यं प्राक्त­दु­क्त­म­शे­षतः | तस्मा­न्नाऽऽ­स­च्ङ्ग­ग­न्धोऽपि स्वप्ने पुंसोऽस्य विद्यते || १०७० ||

अस­ङ्ग­त्वा­द­सं­बन्धो यथेह स्वप्नकर्मभिः |
जाग्रत्यपि न कर्ताऽ­य­मे­त­स्मा­देव कारणात् || १०७१ ||

अस­ज्जा­ग्र­द­स्थेयं जाग्र­द्रू­प­त्व­का­र­णात् |
स्वप्ने जाग्र­द­व­स्था­व­त्त­था­चाऽऽ­द्य­न्त­व­त्त्वतः || १०७२ ||

अज्ञानोत्थमिदं जाग्र­ज्ज­ड­रू­प­स­म­न्व­यात् |
तथाऽ­पे­क्षा­त्म­क­त्वाच्च मृग­तृ­ष्णो­द­का­दि­वत् || १०७३ ||

निरासङ्गः पुमानेष स्वप्न­बु­द्धा­न्त­यो­रपि |
संप्रसादे किमङ्गायं यत्र किंचिन्न वीक्ष्यते || १०७४ ||

ननु जाग्रदवस्थायां दृष्ट्वै­वे­त्यु­च्यते कथम् |
प्रत्य­क्ष­क­र्तृता तत्र यत आत्मन ईक्ष्यते || १०७५ ||

नैवं कर्त्रा­दि­सा­क्षि­त्वा­त्त­च्चि­दा­भा­स­त­स्तथा |
कर्तृत्वमात्मनो बोध उप­चा­रा­द्य­त­स्त­तःस || १०७६ ||

आत्मनैवायमिति च ध्यायतीवेति च श्रुतेः |
नाऽऽत्मनः कारकत्वं स्यात्स­र्वा­व­स्था­ति­ल­ङ्घिनः || १०७७ ||

वेदात्माऽपि तथाचाऽऽह प्रपन्नाय किरीटिने |
संसा­र­हे­तु­नि­बि­ड­ध्वा­न्तो­च्चि­च्छि­त्स­याऽऽ­द­रात् || १०७८ ||

अना­दि­त्वा­न्नि­र्गु­ण­त्वा­त्प­र­मा­त्माऽ­य­म­व्ययः |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || १०७९ ||

स्वप्न­बृ­द्धा­न्त­वा­क्याभ्यां मृत्यो­रा­स­ङ्ग­ल­क्ष­णात् |
विविक्ततैवं यत्नेन निर्णीता प्रत्यागात्मनः || १०८० ||

अन्यो­न्य­प­रि­हा­रेण स्वप्न­जा­ग्र­द­व­स्थयोः |
काम­क­र्मा­त्म­का­स­ङ्ग­वि­वि­क्त­त्व­मि­हो­दि­तम् || १०८१ ||

यथोदितार्थ एत­स्मि­न्दृ­ष्टा­न्तोऽ­प्य­धु­नो­च्यते |
निरा­स­ङ्ग­त्व­सि­द्ध्यर्थं प्रत्य­गा­त्मा­ख्य­व­स्तुनः || १०८२ ||

स्वात­न्त्र्य­प्र­ति­प­त्त्यर्थं महानिति विशेषणम् |
नादे­य­स्रो­त­साऽ­हार्यो मत्स्यो दृष्टान्त उच्यते || १०८३ ||

यथा सिन्धो­र्म­हा­मत्स्य उभे कूले मिथः पृथक् |
अनुक्रमेण संच­र­न्म­त्स्योऽन्यः कूलतो मतः || १०८४ ||

कूलाभ्या क्रम­सं­ब­न्धा­द्व्य­ति­रे­काच्च कूलतः |
स्रोतोमध्ये द्वया­प्रा­प्ते­र­स­ङ्गोऽयं तिमिर्यथा || १०८५ ||

जाग्र­त्स्व­प्न­कु­ला­याभ्यां क्रम­सं­ब­न्ध­त­स्तथा |
व्यतिरेको द्वया­प्रा­प्ते­र­स­ङ्गोऽयं पुमानपि || १०८६ ||

युग­प­त्स्या­द्द्व­यो­र्भोगो जाग्र­त्स्व­प्न­कु­ला­ययोः |
भूत­मा­त्रा­वि­शे­ष­त्वा­त्ता­भ्या­मात्मा न चेत्पृथक् || १०८७ ||

संबन्धं कुर्वते केचिदन्यथैव महाधियः |
महा­म­त्स्या­दि­वा­क्यस्य स यथो­क्त­स्त­थो­च्यते || १०८८ ||

बाह्यं कर्मास्य बुद्ध्या­दि­प्र­यो­गा­श्रि­त­मेव हि |
पुंसः किल ततोऽभ्येत्य भावनाऽऽप्नोति देहिनम् || १०८९ ||

तस्या विवेका व्याख्यातो यथो­क्त­व­च­साऽऽ­त्मनः |
अविद्या त्वात्म­वि­ज्ञा­न­सं­श्रि­तैव न साऽन्यतः || १०९० ||

यत्त­द्वि­ज्ञा­न­मा­त्मीयं तद्वि­कृ­त्या­व­ति­ष्ठते |
मिथ्या­ज्ञा­न­ग्र­हा­या­सा­व­विद्या प्रत्यगात्मनः || १०९१ ||

अवि­द्या­वि­ष­सं­दष्टं तज्ज्ञानं परमात्मनः |
पारंपर्येण बुद्ध्यादौ स्थूलीभावं निगच्छति || १०९२ ||

स्थूलीभूता बहिः सेयं प्रकाशत्वाय कल्पते |
एवं बहिरविद्येयं निष्क्रा­म­त्या­त्मनः पृथक् || १०९३ ||

स्वप्ने विवेको व्याख्यातः कर्म­णोऽ­स्याऽऽ­त्म­नोऽ­धुना |
अवि­द्या­प्र­वि­वे­कोऽयं वक्ष्यतेऽस्यात उत्तरम् || १०९४ ||

कर्मणा निर्मितं लोकमात्मा पश्यत्यविद्यया |
तयो­र्वि­वे­का­दु­भयोः स्वाभाव्यं प्रतिपद्यते || १०९५ ||

रूपादिविषयासङ्ग कर­णै­श्च­क्षु­रा­दिभिः |
अनुप्रविश्य भोक्तारं रञ्ज­यि­त्वाऽ­व­ति­ष्ठते || १०९६ ||

विज्ञानं पौरुषं शुद्धं तेनाऽऽसङ्गेन दूषितम् |
तमेवाऽऽसृत्य निर्गम्य बाह्यतो व्यवतिष्ठते || १०९७ ||

आस­ङ्गा­वि­द्य­यो­रे­व­म­न्यो­न्या­श्र­य­तो­दिता |
अभावादनयोरात्मा स्वात्मस्थः संप्रसीदति || १०९८ ||

प्रसि­द्ध­मे­त­ल्लो­केऽपि यदि रोगादिसंगतिः
न भवत्यथ जल्पन्ति स्वस्थोऽयमिति लोकिकाः || १०९९ ||

निरासङ्गस्य विदु­ष­स्त­स्मा­न्मुक्तिं प्रतीमहे |
स्याद­न्य­त­र­वै­कल्ये न वेत्ये­त­द­नि­श्चि­तम् || ११०० ||

तद्यथा श्येन इत्य­स्मा­द्या­व­त्स्त्री­ब्रा­ह्म­णा­दिति |
अवि­द्या­प्र­वि­वे­का­र्थ­मे­व­मे­ता­व­दु­च्यते || ११०१ ||

स्वप्न­जा­ग्र­त्य­चा­रेऽ­स्मि­न्नात्मा श्येनः पतन्निव |
परिश्रान्तः सुषुप्ताख्यं नीडं धावत्यथाऽऽत्मनः || ११०२ ||

कर्मा­वि­द्या­वि­नि­र्मुक्त एतस्मिन्नेव लक्ष्यते |
सर्वशोकातिगः स्वस्थः स्तिमितः स्वात्मनि स्थितः || ११०३ ||

इति व्याचक्षते केचि­न्म­हा­म­स्त्या­दिकां श्रुतिम् |
तन्न­या­य्य­म­थ­वाऽ­न्याय्यं यत्नान्न्यायैः परीक्ष्यताम् || ११०४ ||

आत्म­व­स्त्व­ति­रे­केण नास्ति वस्त्वन्तरं यदि |
बाह्या­न्तः­प्र­वि­भा­गोऽयं किमाश्रित्य प्रकल्प्यते || ११०५ ||

विषयेन्द्रियादि यद्वस्तु नावि­द्या­व्या­ति­रेकि तत् |
वस्त्वन्तरस्य सद्भाव ऐकात्म्यं बाध्यते यतः || ११०६ ||

आस­ङ्ग­स्याऽऽ­ग­ति­रतो विष­ये­न्द्रि­य­व­र्त्मना ||
न्याया­भा­वा­द­यु­क्तैव नाप्यविद्या तमानयेत् || ११०७ ||

मिथ्याज्ञानमृते नान्यत्कार्यं किंचिदपीष्यते ||
अविद्याया यतो नात आसङ्गाद्याहृतिः स्वतः || ११०८ ||

आत्मा­वि­द्या­प्र­सि­द्ध्यैव हवि­द्याऽ­प्या­त्मनो यतः ||
न स्वतः परतो वाऽतो वस्तुतः प्रत्यगात्मनि || ११०९ ||

निःशे­ष­वि­क्रि­या­व­र्ग­प्र­ति­षे­ध­श्रु­ते­स्तथा ||
आत्मज्ञानं विकृ­त्याऽऽ­स्तेऽ­वि­द्ये­त्ये­तच्च दुर्भणम् || १११० ||

प्रत्य­क्चि­दा­भा­वि­द्याऽतो ह्यवि­चा­रि­त­सि­द्धिका ||
सिद्धायते प्रतीचीयं प्राक्स­म्य­ग्ज्ञा­न­ज­न्मनः || ११११ ||

जाग्र­त्स्व­प्न­वि­वे­कोऽतो वाक्या­र्थ­प्र­ति­प­त्तये ||
वाक्या­र्थ­प्र­ति­प­त्त्यैव प्रत्य­ग­ज्ञा­न­नि­ह्नुतिः || १११२ ||

जाग्र­त्स्व­प्न­सु­षु­प्तेषु संचारोऽयं प्रमान्तरात् ||
सिद्धो यस्मा­द­त­स्त­स्मि­न्वाक्यं स्यादनुवादकम् || १११३ ||

क्रम­सं­चा­रि­ण­स्तस्य जाग्र­त्स्व­प्न­सु­षु­प्तिषु ||
ब्रह्मत्वं नान्यतोऽज्ञायि वाक्यं तत्प्र­ति­प­त्ति­कृत् || १११४ ||

आत्मनो ब्रह्मता साक्षा­द्ब्र­ह्म­णोऽ­प्या­त्मता स्वतः ||
तत्त्व­म­स्या­दि­वा­क्यस्व विषयोऽयमिहोदितः || १११५ ||

महा­म­त्स्या­ख्य­दृ­ष्टान्तः स्वप्न­जा­ग्र­द­व­स्थयोः ||
व्याख्या­तोऽ­प्य­न्यथा त्वन्ये दृष्टान्ते व्याचचक्षिरे || १११६ ||

विज्ञानं प्रस्तुतं तस्मिन्संदेहो नः प्रजायते ||
किमेतद्भौतिकं ज्ञानं भूतेभ्योऽन्यस्य चाऽऽत्मनः || १११७ ||

विज्ञानं भौतिकं ताव­द्भू­त­सं­स­र्ग­ज­न्मनः ||
यथैव बाह्य­न­य­न­प्र­का­शा­र्था­भि­सं­गतेः || १११८ ||

विष­य­ज्ञा­न­ज­न्मै­व­मा­त्मनो भूतसंगतेः ||
बुद्धी­न्द्रि­या­दि­सं­स­र्गा­द­भि­व्यक्तिः समीक्ष्यते || १११९ ||

संवि­ज्ज्ञा­न­वि­शे­षस्य तथा सति न किंचन ||
व्यतिरिक्तस्य विज्ञा­तु­र्वि­ज्ञा­नेऽस्ति प्रयोजनम् || ११२० ||

इत्येवं चोदिते कैश्चिदत्र प्रतिविधीयते ||
व्यतिरिक्तो न चेज्ज्ञाता भूते­भ्योऽ­भ्यु­प­ग­म्यते || ११२१ ||

तुल्य­त्वा­द्भू­त­मा­त्राणां स्वप्न­जा­ग्र­द­व­स्थयोः ||
विज्ञानजन्म युगपत्तदा प्राप्नोति ते ध्रुवम् || ११२२ ||

क्रमवृत्तेस्तु बोधस्य न बोधो भौतिकस्ततः ||
अन्यस्यैव हि संवि­त्स्या­त्स्व­प्न­बु­द्धा­न्त­नी­डतः || ११२३ ||

इत्यस्यार्थस्य विज्ञप्त्यै दृष्टा­न्तोऽ­त्रा­भि­धी­यते ||
क्रमेण संचरन्नद्यां महामत्स्यो यथा बली || ११२४ ||

मत्स्या­भि­सं­ग­ति­र्य­द्व­त्प­र्या­ये­णेह कूलयोः ||
क्रमेण ज्ञातृ­सं­ब­न्ध­स्त­द्व­त्स्व­प्न­प्र­बो­धयोः || ११२५ ||

व्यापि­त्वा­दा­त्म­नोऽ­प्येवं युग­प­ज्ज्ञा­तृ­तेति चेत् ||
भूत­मा­त्रा­व­दि­त्येवं समानं चोद्यमावयोः || ११२६ ||

कस्तर्हि क्रमहेतुः स्यात् देव­ता­हे­तु­कोऽस्तु सः ||
क्रमेण वृत्तिस्तासा स्याद­धि­ष्ठा­तृ­त्व­का­र­णात् || ११२७ ||

अत्रापि युग­प­ज्ज्ञा­न­मु­क्तयोः पक्षयोर्यथा ||
व्यापि­त्वा­द्दे­व­तानां स्यात्स्व­प्न­जा­ग्र­द­व­स्थयोः || ११२८ ||

असं­भ­वा­त्प्र­य­त्नस्य युग­प­द्दे­व­ता­त्मनः ||
नातः स्याद्यु­ग­प­ज्ज्ञा­न­मिति चेन्न तथाऽपि तत् || ११२९ ||

प्राहाऽऽ­त्म­प­क्ष­वा­द्यत्र सिद्धं नो यत्समीहितम् ||
कुतस्तदिति चेन्मत्तः शृणु सर्वं यथोच्यते || ११३० ||

सर्वत्र यौगपद्यं स्याद्वि­भु­त्वा­द्दे­व­ता­त्मनः ||
ऐश्वर्याच्च प्रय­त्नो­त्थ­का­र्ये­ष्व­स्याऽऽ­त्मनो न तु || ११३१ ||

अधि­ष्ठे­ये­न्द्रि­याणां हि स्वप्न­भू­मा­व­सं­भ­वात् ||
व्यापारो नास्त्यतः स्वप्ने देवतानां मनागपि || ११३२ ||

अतो भोक्ता स्वयंसिद्धो यथोक्तेनैव हेतुना ||
प्रय­त्ना­यौ­ग­प­द्येन स्वप्न­जा­ग्र­द्व­या­द्धि­रुक् || ११३३ ||

आत्मनो भोक्तृ­ता­सि­द्धि­र्ज्ञा­तृत्वं च प्रसिध्यति ||
व्यापि­त्वेऽ­प्यस्य यत्नो य आत्मनः कर्तृतां प्रति || ११३४ ||

न संभवत्यसौ यत्नो यौगपद्येन नीडयोः ||
दृष्ट­त्वा­त्प­रि­पाठ्या स्यात्त­स्मा­द्वृ­त्ति­रिति स्थितम् || ११३५ ||

अयौ­ग­प­द्य­द­र्शि­त्व­मा­त्मा­स्ति­त्वेऽ­नु­मे­ष्यते ||
तथा तद्व्यरिक्तत्वे जाग्र­त्स्व­प्न­कु­ला­यतः || ११३६ ||

न च स्वप्न­वि­नि­र्माणे देव­ता­व्या­पृ­ति­र्भ­वेत् ||
यथास्वं स्थानमायान्ति ता मृति­स्वा­प­यो­र्यतः || ११३७ ||

मतं यथा मृतौ देवास्त्यक्त्वा स्वं स्वमनुग्रहम् ||
देहारम्भे पुनर्देवा यथास्वं कुर्वते क्रियाम् || ११३८ ||

तद्व­त्सु­षु­प्सो­रु­त्क्रम्य देवताः स्वाधिकारतः ||
स्वप्नसर्गे पुनस्ताः स्वमधिकारं प्रकुर्वते || ११३९ ||

इत्येवं चोदितेऽथात्र परिहारोऽभिधीयते ||
लिङ्ग­का­र्या­न­भि­व्य­क्ते­र्नालं कार्याय देवताः || ११४० ||

कार­णा­न्य­स­म­र्थानि यथा देहमृते मृतौ ||
स्वका­र्य­स्या­भि­नि­ष्पत्तौ तथा स्वप्नेऽपि देवताः || ११४१ ||

कर­णा­न्य­न­पा­श्रित्य नालं स्वाधिकृतिं प्रति ||
स्वप्ने च करणाभावः श्रुत्यैव प्रतिपादितः || ११४२ ||

यत एवमतः स्वप्ने नाऽऽशंका देवताः प्रति || ||
अधिकारो यतस्तासामात्मनो देहसंगतौ || ११४३ ||

मुक्त्वैव देहसंबन्धं स्वप्नोऽयं प्रत्यगात्मनः ||
बहि­ष्कु­ला­या­व­च­ना­दे­त­च्चा­ध्य­व­सी­यते || ११४४ ||

नातो भौति­क­मे­त­त्स्या­न्नापि स्याद्दे­व­ता­कृ­तम् ||
चैतन्यं स्वप्नगं स्वार्थं शरी­र­द्व­य­व­र्ज­नात् || ११४५ ||

निरनुग्रहं निष्करणं वास­नो­पा­धि­मा­त्र­कम् ||
स्वप्न­द­र्श­न­मे­त­त्स्या­त्प्र्‍त्य­ग्धी­व­स्तु­सं­श्र­यम् || ११४६ ||

पृथक्त्वे वाऽपृथक्त्वे वा भूतेभ्यो देवतात्मनः ||
किमर्थं देवताशङ्का क्रियते हिरुगात्मनः || ११४७ ||

मत्स्य­दृ­ष्टा­न्त­व­चस एता­व­त्फ़­ल­मि­ष्यते ||
मृत्युरूपमिदं सर्वं कार्यं च करणानि च || ११४८ ||

ताभ्यां विल­क्ष­ण­स्त्वात्मा स्वप्ने योऽयं प्रपश्चितः ||
स्थूल­सू­क्ष्म­श­री­राभ्यां केव­ल­श्चे­त­नोऽ­क्रियः || ११४९ ||

तथैव काम­क­र्म­भ्या­म­त्यन्तं स्याद्विलक्षणः ||
प्रयोजकाभ्यां देहस्य तथैव करणस्य च || ११५० ||

अवि­द्या­कृ­त­मे­वातः संसारित्वं न तु स्वतः ||
अतोऽ­वि­द्या­स­मु­च्छित्तौ मुक्तिः स्यात्परमात्मनः || ११५१ ||

इत्युक्तः पूर्ववाक्येन समुदायार्ध ईदृशः ||
पौर्वापर्यं समीक्ष्याऽऽत्मा निष्क्रियः केवलोऽद्वयः || ११५२ ||

अपा­स्त­का­र्य­क­र­ण­क­र्मा­सङ्गो न तु क्वचित् ||
आत्मोपपादितः साक्षा­द्व­च­स्ये­कत्र यत्नतः || ११५३ ||

सासङ्गश्च समृत्युश्च सकार्यकरणस्तथा ||
अविद्यया यतो बोध आत्माऽ­य­मु­प­ल­क्ष्यते || ११५४ ||

स्वप्ने तु वास­ना­का­म­सं­युक्तो मृत्युवर्जितः ||
संप्रसादे प्रसन्नश्च तथाऽसङ्गोऽपि वीक्ष्यते || ११५५ ||

तद्वा अस्यैतदित्यत्र यथोक्तं रूपमात्मनः ||
वक्ष्य­मा­ण­म­त­स्तस्य दृष्टा­न्तोऽ­य­मि­हो­च्यते || ११५६ ||

स्वतो बुद्धं च शुद्धं च मुक्तं रूपमिहाऽऽत्मनः ||
एकवाक्योपसंहारे न पुञ्जीकृत्य दर्शितम् || ११५७ ||

तद्यथा श्येन इत्युक्त्या तद्दृ­ष्टा­न्त­प्र­द­र्श­नात् ||
शुद्धबुद्धादिकं रूपमात्मनः संप्रदर्श्यते || ११५८ ||