अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ (४)

स्वप्न­बु­द्धा­न्त­यो­र्वेह दृष्टान्तः संप्रदर्शितः ||
संप्रसादस्य दृष्टान्तः श्येने­ना­था­धु­नो­च्यते || ११५९ ||

श्येनः शशादो विज्ञेयो बृहत्कायश्च रोहितः ||
क्षिप्रः श्येनः सुपर्णस्तु बलवानल्पविग्रहः || ११६० ||

श्येनः श्रान्तो यथाऽऽकाशे भक्ष्यहेतोः परिभ्रमन् ||
पक्षौ वितत्य नीडं स्वमेति हि श्रमहानये || ११६१ ||

यथा तथाऽयमप्यात्मा जाग्रत्स्वप्े परिभ्रमन् ||
श्रान्त­स्त­च्छ्र­म­हा­नार्थं ब्रह्मनीडं प्रपद्यते || ११६२ ||

अन्ताय धावतीत्युक्तं तस्यान्तस्य विशेषणम् ||
यत्र सुप्तो न कमिति जाग्र­त्स्व­प्न­नि­षे­ध­कृत् || ११६३ ||

सुप्त­स्ति­सृ­ष्व­व­स्थासु सामान्येन यतस्ततः ||
विशि­न­ष्ट्या­त्मनः स्वापं यत्र सुप्तगिरा स्फ़ुटम् || ११६४ ||

न कंचनेति कामो यः स्वप्न­जा­ग्र­द­व­स्थयोः ||
निषिध्यते सुषुप्तेऽसौ तथा स्वप्नोऽपि यस्तयोः || ११६५ ||

स्वप्ने वा काम­वि­र­हा­द्य­थो­क्ते­नैव वर्त्मना ||
जाग्र­त्का­म­नि­षे­धोऽ­त­स्तत्र कामादिसंभवात् || ११६६ ||

एकै­क­स्या­म­व­स्थायां जाग्र­त्स्व­प्न­सु­षु­प्तिभिः ||
यदि वा विद्यते भेदः कंचनेति च लिङ्गतः || ११६७ ||

त्रय आवसथा इति तथा च श्रुतिशासनम् ||
जाग्र­त्स्व­प्न­सु­षु­प्तानां त्रैवि­ध्य­प्र­ति­पा­द­कम् || ११६८ ||

तत्र त्रयाणां स्थानानां जाग्र­त्स्व­प्न­नि­षे­ध­नम् ||
न कंचनेति वाक्येन तयोरेव ग्रहः श्रुतेः || ११६९ ||

स्वप्नं न कंचनेत्युक्त्या सर्व­स्व­प्न­नि­षे­ध­नम् ||
इति प्रबो­ध­स्व­प्नाभ्यां विविक्तं स्थानमुच्यते || ११७० ||

जाग्र­त्स्व­प्ना­त्मकौ पक्षौ वित­त्याऽऽ­त्माऽऽ­त्म­मो­ह­वान् ||
भुक्त्वा भोगानथ श्रान्तः पक्षौ संहृत्य चाऽऽत्मनि || ११७१ ||

अवि­द्या­या­म­व­स्थानं तदुद्भूतस्य वस्तुनः ||
संहत्यपक्षोपमया श्रुत्येह प्रतिपाद्यते || ११७२ ||

संलयायेति यच्छुद्धं रूपं स्यात्प्र­त्य­गा­त्मनः ||
प्रत्यक्चिदाभ आगत्य ध्रियते प्रत्यगात्मने || ११७३ ||

बुद्ध्या­दि­का­र्य­सं­हारे प्रत्य­क्चै­त­न्य­रू­पिणः ||
चिद्बिम्बस्यापि संहारो जला­र्क­प्र­वि­ला­प­वत् || ११७४ ||

अविद्यावान्पुरा योऽभू­द­वि­द्या­का­र्य­ग­श्चितिः ||
अविद्यया विभागोऽस्य चिद्बि­म्ब­स्यो­प­जा­यते || ११७५ ||

प्रत्याख्यातैव साऽविद्या सकार्या सर्वदाऽऽत्मना ||
प्रत्याचष्टे तु नाविद्या निरा­त्म­त्वा­च्चि­दा­त्प्रनः || ११७६ ||

अवि­द्या­त­ज्ज­का­र्या­भ्या­मा­त्माऽ­न्या­न­व­शे­षतः ||
संबध्यते स्वतोऽसङ्ग आत्मत्वादेव कारणात् || ११७७ ||

अविद्या यच्च तत्का­र्य­मा­त्मानं स्वात्मसिद्धये ||
संबि­भ­त्स­त्य­ना­त्म­त्वा­दात्मा तन्नानुमन्यते || ११७८ ||

निःसङ्गस्य ससङ्गेन कूटस्थस्य निरात्मना ||
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते || ११७९ ||

प्रत्या­ख्या­ताऽऽ­त्म­नै­वेयं प्रत्य­गा­त्मा­न­मे­क­लम् ||
अवि­द्याऽऽ­लि­ङ्गते वह्निं घृतपिण्ड इवोल्बणम् || ११८० ||

अवि­चा­रि­त­सं­सिद्धा संगतिः परमात्मनः ||
अवि­द्या­त­ज्ज­का­र्या­भ्या­मे­व­मे­वेति गम्यताम् || ११८१ ||

एवं सत्यस्य बाधः स्यात्प­र­मा­र्था­त्म­सं­श्र­यात् ||
संसा­रा­न­र्थ­सं­ब­न्ध­हे­तो­रा­त्म­प्र­मा­णतः || ११८२ ||

प्रत्य­ग्धी­मा­त्रतः प्रत्य­ङ्ङ­द्व­य­त्व­वि­शे­षणः ||
निःसं­ब­न्धा­त्म­सं­ब­न्धा­द­नात्मा त्वात्मवन्न सन् || ११८३ ||

सम­स्त­व्य­स्त­ता­मेवं सति व्याचक्षतेऽत्र ये ||
कर्षन्ति नासिकाग्रेण कर्णमूलं सुखेन ते || ११८४ ||

आत्म­व­स्त्व­ति­रे­केण नान्य­द्व­स्त्वस्ति मानतः ||
तन्मानमिति चेन्मैवं यत­स्त­त्प्रा­क्प्र­बो­धतः || ११८५ ||

अस्तु वस्त्वन्तरं चान्य­त्त­स्या­प्या­त्मा­भि­सं­गतौ ||
को हेतुरिति वक्तव्यं नावि­द्याऽ­का­र­क­त्वतः || ११८६ ||

सम­स्त­व्य­स्त­ता­व्याख्या तस्मादन्धपरंपरा ||
वैश्वानरवरादेव न तु न्यायानुसारतः || ११८७ ||

अस्य हि द्वैतविषये विज्ञानं भानुरश्मिवत् ||
विकीर्णं बोधदेशीयं समन्तात्प्रथते दृशेः || ११८८ ||

तत्र कर्मप्रसूतोऽयं कामः सर्व­प्र­वृ­त्ति­कृत् ||
जाता कर्मण एवेयं भाव­नाऽ­स्या­न्त­रा­त्मनः || ११८९ ||

यथा लक्षणया कर्म कृतं भावनयाऽऽत्मना ||
फ़लं तादृग्विधं दातुमेकीभवति साऽऽत्मनः || ११९० ||

तयाऽनुराञ्जित इव ह्यात्मा कामान्परीप्सति ||
वासनालक्षणः कामः स्वप्नसर्गाय जायते || ११९१ ||

सुखादिफ़लभोगाय स्वप्नः क्षुद्रस्य कर्मणः ||
परिच्छेदेन निर्मातृज्ञानं च प्रत्यगात्मनः || ११९२ ||

विज्ञा­ना­नु­वि­धायी हि विकारः कर्मणो यतः ||
विज्ञानं विप­री­ता­र्थ­द­र्शनं चेह भण्यते || ११९३ ||

साऽविद्या सति बाह्येऽर्थे द्रष्टव्येऽलं न चासति ||
कामः स एव बोधेऽस्य विज्ञानात्मन इष्यते || ११९४ ||

प्रयोक्त्री भावना तत्र कर्म त्वस्य विकारकृत् ||
विपरीतग्रहाय स्यादन्यथेति विनिश्चितिः || ११९५ ||

कामे­हा­भा­व­ना­ज्ञा­न­प­दा­र्थानां यथाक्रमम् ||
पर­स्प­र­व्य­पे­क्ष­त्वा­देवं स्यादेकवाक्यता || ११९६ ||

तत्र भावनयैवाऽऽत्मा कामान्कामयते तथा ||
विद्यया वीक्षते चार्था­न­वि­द्यो­त्था­पि­ता­निह || ११९७ ||

संप्रसादे तु बाह्यस्य वस्तु­नोऽ­सं­भ­वा­दि­दम् ||
कर्म निस्प­न्द­मे­वाऽऽस्ते भावनाऽपि च शाम्यति || ११९८ ||

प्रयो­ज्य­वि­र­हा­त्क­र्म­का­र्य­स्या­सं­भ­वा­त्तथा || ११९९ ||

विद्याऽपि विपरीतस्य प्रविभक्तस्य वस्तुनः ||
अभा­वा­द­वि­शे­षा­त्म­ज्ञा­नोऽयं व्यवतिष्ठते || १२०० ||

दाह्याभावाद्यथा वह्निः स्वात्म­न्ये­वो­प­शा­म्यति ||
कर्मण्यस्तमिते तद्व­त्प्र­त्य­ङ्ङास्ते स्वभावतः || १२०१ ||

एवं कृत्वेदमत्राऽऽह श्रुतिः कामं न कंचन ||
काम­क­र्मा­दि­नि­र्मुक्तं सुषुप्ते रूपमात्मनः || १२०२ ||

इत्येवं श्येनदृष्टान्तः कैश्चि­द्व्या­ख्यायि सादरैः ||
तत्र युक्तमयुक्तं वा श्रुति­वा­क्या­नु­सा­रतः || १२०३ ||

न्यायैर्जगति संसिद्धैः स्वयमेव विचार्यताम् ||
अप­क्ष­पा­त­प­ति­तै­र्वि­द्व­द्भि­र्व­स्तु­सि­द्धये || १२०४ ||

एतदस्य स्वतो रूपं यद­त्रो­प­प्र­द­र्शि­तम् ||
अवि­द्या­का­म­क­र्मा­दि­वि­विक्तं यत्सुषुप्तगम् || १२०५ ||

इतोऽन्यथा तु यद्रूपं जाग्र­त्स्व­प्न­स्व­ल­क्ष­णम् ||
तदस्य परतो ज्ञेय­मा­त्मा­ज्ञा­नै­क­हे­तु­कम् || १२०६ ||

यद्धेतुकमिदं रूपं साऽवि­द्याऽ­न­र्थ­का­रिणी ||
सा स्वतः परतो वाऽस्ये­त्ये­त­द­त्रा­धु­नो­च्यते || १२०७ ||

न त्वाग­न्तु­र­वि­द्ये­य­म­नि­र्मो­क्ष­प्र­स­ङ्गतः ||
आत्म­स्व­भा­वोऽ­वि­द्येयं न वेत्ये­त­द्वि­चा­र्यते || १२०८ ||

अवि­द्या­का­म­क­र्मा­दि­प्र­वि­वि­क्त­मि­हाऽऽ­त्मनः ||
रूपं पूर्वमुपन्यस्तं तस्य साक्षा­च्चि­की­र्षया || १२०९ ||

अविद्यायाश्च यत्कार्यं तच्च वाच्यमशेषतः ||
इत्या­वि­ष्कृ­ति­सि­द्ध्यर्थं परो ग्रन्थोऽ­व­ता­र्यते || १२१० ||

नाड्यायत्ता यतोऽ­वि­द्या­का­र्य­दृ­ष्टि­रतः परम् ||
नाडीनां स्यादु­प­न्या­सस्ता वा अस्येतिवाक्यतः || १२११ ||

यद्वा मृषा­त्व­सि­द्ध्यर्थं नाड्युपन्यास इष्यते ||
अत्यन्ततनुतो ह्यन्त­र्वि­न्ध्या­दे­री­क्षणं कुतः || १२१२ ||

अवि­द्या­का­र्य­मे­त­च्चेत् अवि­द्या­व­न्मृ­षे­ष्यते ||
अतो मृषा­त्व­सि­द्ध्यर्थं तनुनाडीपरिग्रहः || १२१३ ||

ता वा अस्य हिता नाम नाड्यः सूक्ष्मा हृदि स्थिताः ||
अपकर्षेतरौ याभिः कार्यस्याऽऽत्मा समीक्षते || १२१४ ||

सहस्रतमभागेन केशस्य परिणाहतः ||
नाड्योऽणिम्ना समानास्ता नाना­न्न­र­स­सं­भृताः || १२१५ ||

तास्व­न्न­र­स­पू­र्णासु स आत्माऽ­वि­द्य­याऽऽ­त्मनः ||
रक्त­पी­ता­दि­रू­पत्वं मन्यते स्वप्नमध्यगः || १२१६ ||

रसवर्णानुरोधेन रक्त­पी­ता­दि­रू­प­ताम् ||
प्रतीचो भोगसिद्ध्यर्थं देवतैति मृषात्मिकाम् || १२१७ ||

बौद्ध­वि­ज्ञा­न­वि­क्षे­प­सं­हा­र­क­थ­नाय तु ||
चतुर्थे नाड्युपन्यासो विज्ञा­ना­त्म­वि­शु­द्धये || १२१८ ||

देव­ता­न्न­र­सा­णु­त्व­ज्ञा­नाय च पुनर्ग्रहः ||
षष्ठादौ सूक्ष्मनाडीनां तद्दू­राऽऽ­त्मा­व­बु­द्धये || १२१९ ||

भोक्तुः स्वरू­प­वि­ज्ञप्त्या इह नाडीपरिग्रहः ||
क्रियते काम­क­र्मा­दि­वि­वे­कस्य विवक्षया || १२२० ||

न विज्ञानात्मनो रूपं चैत­न्या­द­न्य­दि­ष्यते ||
स्वात्मा­वि­द्यै­क­हे­त्वेव तस्य रूपान्तरं यतः || १२२१ ||

विज्ञा­न­पु­रु­षाणां हि सर्वेषामेकरूपता ||
चैतन्यात्मतया ज्ञेया तदबोधात्तु भिन्नता || १२२२ ||

अध्या­त्मा­दि­वि­भा­गोऽयं न स्वतः प्रत्यगात्मनः ||
तद­बो­धै­क­हे­तु­त्वा­द­प्रा­प्तै­का­त्म्य­व­स्तुकः || १२२३ ||

लिङ्गमेव ततो रूप­मा­त्मा­वि­द्यै­क­हे­तु­कम् ||
कर्मोत्था भावना याश्च रूपं ता अपि लिङ्गवत् || १२२४ ||

लिङ्गं चाप्यतिसूक्ष्मं तन्ना­डी­म­ध्य­ग­ति­क्ष­मम् ||
स्वामि­क­र्म­व­शा­त्तच्च रूपं गृह्णाति दैवतम् || १२२५ ||

भोग­मा­त्र­प्र­सि­द्ध्यर्थं चैत­न्या­भा­स­मा­त्रतः ||
नाना­त्म­रू­प­मा­त्माऽयं किंचि­द­न्य­द­पे­क्षते || १२२६ ||

विज्ञानपुरुषः सोऽय­म­धि­दै­वा­दि­वा­सनः ||
लिङ्गदेहानुरोधी सल्लिङ्गे कर्त्रा­दि­वि­क्रि­याम् ||
अविद्योपहतात्मा सन्ना­त्म­त्वे­ना­भि­म­न्यते || १२२७ ||

लिङ्गस्य विक्रिया याऽपि सा रसानुविधायिनी || १२२८ ||

अधिदैवादिदेहस्य रसहेतुः स्थितिर्यतः ||
एताभिर्वा इति तथा तेनैता इति च श्रुतिः || १२२९ ||

रसोऽपि चायं जग्धा­न्न­प­रि­णा­म­म­पे­क्षते ||
यतोऽतो वात­पि­त्ता­दी­न्धा­तू­न्सोऽ­प्य­नु­रु­ध्यते || १२३० ||

धातुरूपानुरोधी सन्‍रसो रक्तादिमेत्यथ ||
तं वर्णं देवतादेहो यथो­क्त­म­नु­रु­ध्यते || १२३१ ||

आत्म­नोऽ­वि­क्रि­य­स्यैव लिङ्गे स्वभासवर्त्मना ||
दर्शनं शुक्ल­पी­ता­दे­र्जा­यते कर्मणो वशात् || १२३२ ||

आत्मन्येष यतः सर्व­स्त­द­वि­द्यै­क­हे­तुकः ||
अध्या­त्मा­दि­प्र­पञ्चो हि शुक्ति­का­र­ज­ता­दि­वत् || १२३३ ||

सत्या­नृ­त­वि­भा­गोऽयं तथाऽ­प्य­नृ­त­व­स्तुनि ||
जाग्रद्भूमौ प्रसिद्धोऽस्य लोके स्वप्ने यथा तथा || १२३४ ||

चित्स्व­भा­वा­ति­रे­केण नाविद्यादेः प्रसिध्यति ||
सत्यत्वमिव मानेन मिथ्यात्वमपि वस्तुनः || १२३५ ||

चिन्मात्रतैव तेनास्य कार्य­का­र­ण­व­स्तुनः ||
श्रुत्येहोच्चैः प्रत्यपादि तत्त्व­म­स्या­दि­रू­पया || १२३६ ||

मिथ्या­भा­व­न­मा­त्रा­धे­र्नि­र­स्त­वि­कृ­ते­रिह ||
प्रतीचो दर्शनं स्वप्ने श्रुत्या मिथ्येति वर्ण्यते || १२३७ ||

शुक्लं स्यात्क­फ़­भू­यस्त्वे वात­पि­त्त­स­मा­ग­मात् ||
नीलं कृष्णं च वातस्य परिणामं प्रचक्षते || १२३८ ||

पिङ्गलं पित्त­बा­हु­ल्या­द्ध­रितो मन्दपित्तकः ||
इति वैषम्यतो वर्णो धातु­सा­म्येऽ­ति­लो­हितः || १२३९ ||

इत्येवमादि बहुधा परिणामं प्रचक्षते ||
चिकि­त्सा­शा­स्र­त­त्त्व­ज्ञा­ज­ग्ध­स्या­न्नस्य नाडिगम् || १२४० ||

अथै­त­स्मि­न्न­न्न­र­स­प­रि­णामे यथोदिते ||
प्रत्यङ्मोहस्य यत्कार्यमधुना तत्प्रपञ्च्यते || १२४१ ||

जगदात्मनि निर्माय साधि­भू­ता­धि­दै­व­तम् ||
शुक्ला­द्या­कृ­ति­ना­डी­स्थ­मात्मा पश्यत्यविद्यया || १२४२ ||

अविद्यायाः परा काष्ठाऽ­थे­दा­नी­मु­च्यते स्फ़ुटम् ||
तत्का­र्य­ता­र­त­म्येन साऽविद्या भिद्यते यतः || १२४३ ||

लिङ्गा­दि­का­र्य­भे­देन साऽविद्या भिद्यते सदा ||
स्वस्त्व­वि­द्या­भे­दोऽत्र मनागपि न विद्यते || १२४४ ||

तल्लिङ्गं वासनानीडं सूक्ष्म्यं स्वच्छस्वभावकम् ||
नाडी­ग­त­र­सो­पा­धि­स­सं­र्गा­त्स्फ़­टि­का­दि­वत् || १२४५ ||

धर्मा­दि­प्रे­र­को­द्भू­त­र­थ­स्त्री­ह­स्ति­ल­क्षण
नाना­कृ­ति­र­सा­द्यात्म ह्यात्म­नोऽ­लु­प्त­च­क्षुषः ||
प्रथते पुर­तोऽ­वि­द्या­मा­त्र­तत्त्वं विनश्वरम् || १२४६ ||

एवं ताव­द­वि­द्यै­क­नी­डा­ना­मु­दितो विधिः ||
भावनानां विनिष्पत्तौ बोधे स्वप्नेऽथ भण्यते || १२४७ ||

अथ यत्राऽऽ­त्म­मो­होत्थं घ्नन्ती­वै­न­मि­ती­क्ष­णम् ||
जिनन्तीवैनमिति च मृषैवमभिमन्यते || १२४८ ||

नास्त्यत्र हन्ता जेता वा किंत्व­ज्ञा­नो­त्थ­मेव तत् ||
वास­ना­वि­ष्ट­वि­ज्ञानो हननाद्यभिमन्यते || १२४९ ||

अध­र्मा­दि­प्र­क­र्षोत्थ गर्ता­दि­प­त­ना­दि­कम् || १२५० ||

प्रतीचो दर्शनं स्वप्ने मूढस्येहोपजायते ||
मिथ्यात्वकारणं प्राह यदेवेति श्रुतिः स्वयम् || १२५१ ||

जाग्रद्विषय एवायं यदैक्षिष्ट पुराऽप्यसत् ||
तदत्र स्वप्नेऽ­सं­भाव्यं मन्यतेऽविद्ययैव सः ||
नाविद्या नापि तत्कार्यं यस्मा­दा­त्म­स­मी­क्षणे || १२५२ ||

भयं त्वेका­न्त­तोऽ­वि­द्या­का­र्य­मा­हु­र्वि­प­श्चितः ||
यतो विज्ञा­त­त­त्त्वानां भीतिर्नास्ति कुतश्चन || १२५३ ||

एतदुक्तं भवत्यत्र पूर्वोपात्तस्य कर्मणः ||
फ़लं प्रबोधे यद्भुक्तं तच्छेषो भावनोच्यते || १२५४ ||

यदि नामावसितार्था फ़लं दत्त्वेह भावना ||
पुंभोगसमये कर्म प्रयुङ्ते सा पुनर्नवम् || १२५५ ||

उत्त्प­त्ति­भो­ग­यो­रेवं भावना कर्मणः सदा ||
प्रयोक्त्री भाव­नै­वाऽऽ­त्म­क­र्तृ­भो­क्तृ­त्व­यो­र्मृषा || १२५६ ||

एवं सति प्रबोधे यद्भुक्तं प्राक्कर्मणः फ़लम् ||
तस्यानुवासना धीस्था भावनेत्यभिधीयते || १२५७ ||

आत्म­चै­त­न्य­बि­म्बेन बिम्बिता धीर्यथा तथा ||
कर्मो­त्थ­फ़­ल­बि­म्बेन बिम्बितेयं मतिः सदा || १२५८ ||

अविद्याग्रथितः सोऽयं परमात्माऽशरीरतः ||
कर्ता भोक्तेव चाऽऽभाति स्वप्न­जा­ग्र­द­व­स्थयोः || १२५९ ||

न चाविद्यातिरेकेण कौट­स्थ्या­त्प्र­त्य­गा­त्मनः ||
हेतुमन्यं प्रपश्यामः कर्तृ­त्वा­दि­प्र­सि­द्धये || १२६० ||

रजो­धू­म­तु­षा­रा­भ्र­नी­हा­रा­द्य­न्वितं वियत् ||
संभाव्यते यथा मूढैरात्मैवं कर्तृतादिभिः || १२६१ ||

धर्म­ध­र्म्य­भि­सं­बन्धा नेक्ष्यन्ते मानतो यथा ||
वियत्येवं न वीक्ष्यन्ते प्रत्य­ग्दृष्ट्या यथोदिताः || १२६२ ||

चैत­न्या­भा­स­सं­मोहं भावनेयं समाश्रिता ||
सत्य आत्मनि कूटस्थ आश्रिता इति भण्यते || १२६३ ||

स्वामिन्येव यतः सर्वं समवैति क्रियाफ़लम् ||
ममा­ह­मि­ति­हे­तूत्थं स्वामित्वं चाप्यबोधजम् || १२६४ ||

देशकालादिहीनस्य ह्यन­व­च्छि­न्न­व­स्तुनः ||
अहं ममेत्यवच्छेदो नाऽऽत्मा­वि­द्या­मृते यतः || १२६५ ||

वास­नै­का­धि­क­र­ण­श्चि­दा­भा­सोऽ­भि­धी­यते ||
भाव­ना­र­ञ्जि­त­ज्ञानो भवतीति न निर्द्वयः || १२६६ ||

भाव­ना­र­ञ्जि­त­म­ति­सा­क्षि­त्वा­दा­त्म­व­स्तुनः ||
भाव­ना­श्र­य­व­द्भाति प्रत्य­ङ्ज­ड­धि­या­मतः || १२६७ ||

बहुनाऽत्र किमुक्तेन यदेवायं समीक्षते || १२६८ ||

बोधे हस्त्यादिकं स्वप्ने तदे­वा­वि­द्य­याऽऽ­त्मनि ||
संभावयति मिथ्यैव नभो नीलं यथा तथा || १२६९ ||

कार्य­मे­त­द­वि­द्यायाः प्रोद्भूतायाः प्रदर्शितम् ||
अथा­प­कृ­ष्य­मा­णायाः कार्यतः कार्यमुच्यते || १२७० ||

देवा­दि­वि­ष­यो­द्भू­त­वा­स­नाऽस्य यदा तदा ||
जाग्रद्भूमावथ स्वप्ने जायते सैव भावना ||
देवो राजेव चास्मीति स्वप्न­क­र्म­व­शा­द्विभोः || १२७१ ||

ध्वस्ता­त्म­मो­ह­त­त्कार्यः स्यात्प्रबोधे यदा तदा ||
सर्व­म­स्म्य­ह­मे­वे­द­मिति स्वप्नेऽ­भि­म­न्यते || १२७२ ||

अहमेवेति चिन्मा­त्र­मा­त्म­नोऽ­त्रा­व­धा­र्यते ||
इदंशब्देन चावि­द्या­का­र्य­मत्र विवक्षितम् || १२७३ ||

अविद्यायाः समु­च्छि­त्ता­व­ल­मे­व­मिदं वचः ||
सर्वः कृत्स्नोऽ­ह­म­स्मीति तदैतदुपपद्यते || १२७४ ||

एषोऽस्य परमः पूर्णः कृत्स्नो लोकस्तु विद्यया ||
इतोऽपरे तु ये लोका­स्तेऽ­स्या­वि­द्या­प्र­क­ल्पिताः || १२७५ ||

देवो राजेव यत् स्वप्ने दर्शनं प्रत्यगात्मनः ||
विद्याफ़लं न तन्न्याय्य मिव शब्देन संगतेः || १२७६ ||

घ्नन्ती­वा­वि­द्यया यद्वन्मन्यते स्वप्नभूमिगः ||
देवो राजेव चास्मीति मोहादेवं क्रियाफ़लम् || १२७७ ||

अहमेवेति न स्वप्नः साक्षा­द­त्राऽऽ­त्म­व­स्तुनः ||
बोधेऽ­वि­द्या­स­हा­य­त्व­मिह त्वात्मैव निर्द्वयः || १२७८ ||

याव­त्किं­चि­द­वि­द्यो­त्थ­मि­दमा तदनूद्यते ||
यथा­व्या­ख्या­त­मै­का­त्म्य­म­ह­मि­त्य­भि­धी­यते || १२७९ ||

शरीरान्तमिन्दं रूपं साधि­भू­ता­धि­दै­व­तम् ||
प्रती­च्य­वि­द्य­याऽ­ध्य­स्त­म­ह­मै­त­द्वि­शे­ष्यते || १२८० ||

अन्व­य­व्य­ति­रे­काभ्यां यथोक्ताभ्यां पदार्थयोः ||
विज्ञातयोरिदं वाक्य­म­ह­मे­वे­द­मि­त्यतः || १२८१ ||

बाध्यबाधकयोरेवं ज्ञात­यो­रु­क्त­व­र्त्मना ||
प्रतीचि जायते ज्ञानं वाक्या­द­ज्ञा­न­हा­नि­कृत् || १२८२ ||

ज्ञानाद्ध्वस्ते हि तमसि ध्वस्ते द्वैते सहेतुके ||
सर्वः कृत्स्नो भवेदात्मा मनोवाचामगोचरः || १२८३ ||

स एष पर उत्कर्षो विद्यायाः संप्रदर्शितः ||
संप्रसाद इदं सर्व­मा­त्म­नै­वा­व­शि­ष्यते || १२८४ ||

एक आत्मेति तद्वद्धीः स्वप्न­जा­ग्र­द­व­स्थयोः || १२८५ ||

अवि­चा­रि­त­सं­सि­द्धि­स्त­थै­वा­ना­त्म­धी­रपि ||
व्यभि­चा­र­स्व­भा­वोक्ता प्रत्य­गा­त्मै­क­सा­क्षिका || १२८६ ||

व्यभि­चा­रि­म­ति­ष्वेवं बुद्धि­र­व्य­भि­चा­रिणी ||
व्यभि­चा­रि­त्व­सं­सि­द्धि­हे­तु­रै­का­त्म्य­नि­ष्ठिता || १२८७ ||

सत्यामपि त्वविद्यायां प्रमा­णा­नु­ग­मा­त्पुरा ||
वास्तवं वृत्तमीदृङ्नः सिद्धं ह्यनुभवाश्रयम् || १२८८ ||

अविद्याविद्ययो रूपं कार्यं चापि समासतः ||
व्याख्यातमेवं मानानां प्राक्सू­ते­र­नु­भू­तितः || १२८९ ||

अना­त्म­व­स्तु­मा­नानां प्राग­ना­त्मा­भि­सं­गतेः ||
स्वतः सिद्धा­त्म­मे­यो­त्थ­रू­प­तैव प्रतीयते || १२९० ||

चिद्रूपैरेव तैः सद्भि­र­ना­त्मा­र्थोऽपि शक्यते ||
प्रमातुं तदृतेऽनात्मा ह्यन्ध­का­र­प्र­नृ­त्त­वत् || १२९१ ||

अनात्माऽपि विनाऽऽत्मानं नैवानात्मायते यतः ||
अव­स्तु­त्वा­न्नि­रा­त्म­त्वा­द्व­न्ध्या­सू­नु­नृ­शृ­ङ्ग­वत् || १२९२ ||

जाग्र­त्स्व­प्न­सु­षु­प्तेषु त्वात्माविद्या मृषा सती ||
व्यवहारपथं प्राप्ता स्वतः­सि­द्धा­त्म­सा­क्षिका || १२९३ ||

सर्वोऽस्मीति हि विद्ये­य­म­वि­द्याऽ­तोऽ­न्य­द­र्श­नम् ||
उभयं संविदायत्तं दर्शनं प्राक्प्र­मा­ग­मात् || १२९४ ||

एषोऽस्य परमो लोको यः सर्वोऽस्मीति दर्शितः ||
अतः परं परावस्था निरविद्या प्रदर्श्यते || १२९५ ||

अना­प्त­का­म­म­स्यो­क्त­मा­त्मा­वि­द्यै­क­हे­तु­कम् ||
रूपं पूर्वमिह त्वस्य ध्वस्ता­वि­द्य­म­थो­च्यते || १२९६ ||

छन्दः कामोऽ­धि­का­रा­त्स्या­त्सा­ह­च­र्याच्च पाप्मना ||
अतिक्रान्तं यत­श्छ­न्द­म­ति­च्छ­न्द­मिदं ततः || १२९७ ||

विवृतिश्छान्दसी ज्ञेया लक्षणासंभवादिह || १२९८ ||

पाप्मशब्देन चात्र स्याद्ध­र्मा­ध­र्म­प­रि­ग्रहः ||
पाप्मनो विजहातीति तथाचैव पुरोदितम् || १२९९ ||

अपे­त­का­र­क­त्वा­द­हे­तो­र­ज्ञा­नतो हतेः ||
धर्मा­ध­र्मा­दि­पा­प्मानो रूपमात्मन उच्यते || १३०० ||

सदाऽपहतपाप्मेति भयहेतोश्च लङ्घघनात् ||
आत्मनोऽस्या भयं रूपं सदाऽ­न­स्त­मि­तो­दि­तम् || १३०१ ||

वास्तवेनैव वृत्तेन ज्ञेय­का­र्य­स­मा­प्तितः ||
अतः सर्वं कृतं ज्ञानं नातोऽ­न्य­द­व­शि­ष्यते || १३०२ ||

यत एवमतो याव­त्किं­चि­त्का­र्या­न्त­रा­य­कम् ||
मोहव्यवहितं वा यत्प्राप्तं तद्ब्रह्मबोधतः || १३०३ ||

काम­क­र्म­म­हा­मो­ह­र­हितं रूपमात्मनः ||
श्रुत्या प्रदर्शितं साक्षा­त्का­र­वि­न्य­स्त­बि­ल्व­वत् || १३०४ ||

स्वयं­ज्यो­ति­ष्ट्व­मुक्तं यदात्मनः प्राक्प्रयत्नतः ||
तदप्यात्मन आगामि शङ्क्यते कामकर्मवत् || १३०५ ||

यस्मात्सुषुप्त आत्माऽयं नाऽऽत्मानं नाप्यनात्मनः ||
जाग्र­द्व­द्वेत्ति तेनास्य चैतन्यं कामकर्मवत् || १३०६ ||

नैतदेवं यतो भेदज्ञानं मोहोत्थकारक -
संश्रयादेव न पुनर्मोहाभावे तदिष्यते || १३०७ ||

यत्र वा अन्यदित्येवं भेदज्ञानमभाषत ||
सत्येव प्रत्यगज्ञाने तस्या­ज्ञा­न­स­म­न्व­यात् || १३०८ ||

यत्र त्वस्येति विध्वस्त आत्माज्ञाने प्रबोधतः ||
तत्केन कमिति श्रुत्या भेद­दृ­ष्टि­र्नि­षि­ध्यते || १३०९ ||

एकत्वमेव तेनात्र भेदादर्शनकारणम् ||
स्त्रीपुं­दृ­ष्टा­न्त­व­चसा तदे­त­त्प्र­ति­पा­द्यते || १३१० ||

चेतो­नु­रा­ग­सि­द्ध्यर्थं प्रिययेति विशेषणम् ||
द्विष्टायां सत्यपि स्त्रीत्वे चेतो नैवानुरज्यते || १३११ ||

अतीव कामवशगः स्त्रीगुणोपेतया स्त्रिया ||
प्रयया कामयन्त्या च परिष्वक्तः पुमानिह || १३१२ ||

परिष्वक्तगिरा चात्र व्यामिश्रीभाव उच्यते ||
पृक्तावयवयोः प्रीत्या स्त्रीपुं­सो­र­प­र­स्प­रम् || १३१३ ||

उत्प­न्न­सं­भो­ग­फ़लः पुमा­न्मै­थु­न­क­र्मणि ||
स न वेत्ति यथा बाह्यं सुखाविष्टो न चाऽऽन्तरम् || १३१४ ||

परिष्वङ्गाद्यथा पूर्वं वेद बाह्यान्तरं स्फ़ुटम् ||
परिष्वक्तस्तु नैवं स वेद बाह्यं न चाऽऽन्तरम् || १३१५ ||

तमो­व्य­व­हि­तै­का­त्म्य­स्त­थाऽ­वि­द्यो­त्थ­का­र्यगः ||
वेद बाह्यं जगत्सर्वं स्वं चाऽऽत्मानं तमस्विनम् || १३१६ ||

कार्यकारणरूपः संस्त­द्वि­रु­द्धै­क­रू­पिणा ||
परिष्वक्तः पुमान्प्राज्ञे प्राज्ञे­नाऽऽ­त्माऽ­य­मा­त्मना || १३१७ ||

तमस्विनि निवृ­त्तेऽ­स्मि­न्दे­हान्ते प्रत्यगात्मनि ||
वितमस्कात्मना योगे स्वप्न­जा­ग्र­त्क्रि­या­क्षये || १३१८ ||

अविद्याऽन्वेति कार्यं स्वं न त्वात्मा­न­म­का­र्यतः ||
कार्यं स्वकारणस्थं च न त्वात्म­स्थ­म­का­र­णात् || १३१९ ||

आत्माभासोऽपि योऽज्ञाने तत्कार्ये चावभासते ||
कार्य­का­र­ण­ता­रू­प­स्त­म­प्ये­षोऽ­ति­व­र्तते || १३२० ||

कूट­स्था­त्मा­नु­रो­धि­त्वा­त्ता­व­न्मा­त्रा­त्म­क­त्वतः ||
न कार्यं कारणं चातः कटाक्षेणापि वीक्षते || १३२१ ||

विज्ञानात्मा परिष्वक्तः प्राज्ञेनैव परात्मना ||
भेद­का­र­ण­वि­ध्वस्तौ भेद­धी­र्वि­नि­व­र्तते || १३२२ ||

यस्मादेवमतः प्राह न बाह्यमिति नः श्रुतिः ||
ऐका­त्म्य­मा­त्रा­व­सि­तेर्न वेदा­न्त­र्ब­हि­स्तथा || १३२३ ||

क्रिया­का­र­क­सं­भे­द­हेतौ सत्यसतीदृशम् ||
सर्वदैवाऽऽत्मनो रूपं निर­स्ता­शे­ष­भे­द­कम् || १३२४ ||

नाऽऽत्म­वृ­त्त­म­पे­क्ष्येदं नापि बाह्यस्य वस्तुनः ||
क्रिया­का­र­क­व­द्वस्तु किंचि­दी­क्षा­म­हेऽ­मितेः || १३२५ ||

सर्व­म­न्या­न­पेक्षं सत्स्वा­त्म­मा­त्र­त­ये­क्षि­तम् ||
ऐकात्म्यतो हिरुग्रूपं न वस्तू­त्प्रे­क्ष्य­तेऽ­ण्वपि || १३२६ ||

आपेक्षिकं तु यद्रूपं तन्मि­थ्ये­त्यु­प­पा­दि­तम् ||
स्वतो यद्वस्तुतो नास्ति तत्कु­तोऽ­न्य­व्य­पे­क्षया || १३२७ ||

अतः सर्वानपेक्षं यत्स्वमहिम्नैव सिध्यति ||
तदेव परमार्थं स्याद्व­स्त्वै­का­त्म्य­स्व­ल­क्ष­णम् || १३२८ ||

यस्मादेवमतः प्राह तद्वा अस्येति नः श्रुतिः ||
उक्तात्मवस्तुनो रूपं कामा­वि­द्या­वि­व­र्जि­तम् || १३२९ ||

काम­क­र्मा­दि­व­न्नेदं मृत्योर्धर्मो भवेदतः ||
चैतन्यं प्रत्यगात्मैव यस्मादुक्तेन हेतुना || १३३० ||

आत्मत्वान्न विभागोऽत्र ज्ञातृ­ज्ञा­ना­दि­ल­क्षणः ||
अन­पा­स्त­त­म­स्कोऽपि भेदं नाऽऽत्मनि पश्यति || १३३१ ||

अवि­द्या­व­र्त्म­दृ­ष्ट्यैव ह्यवि­द्या­का­र्य­व­स्तु­गम् ||
द्वैतमाभासते व्योम्नि नील­दि­ङ्म­ण्ड­ल­त्व­वत् || १३३२ ||

निरविद्यं तु यद्रू­प­म­न­न्या­पे­क्ष­सि­द्धि­कम् ||
तद्वा अस्यैतदिति तच्छ्रुत्या निर्व­र्ण्य­तेऽ­धुना || १३३३ ||

सर्वै­का­त्म्य­मिदं यस्मादात्मनो रूपमीदृशम् ||
तदाविष्क्रियते तस्मा­त्क­र­वि­न्य­स्त­बि­ल्व­वत् || १३३४ ||

आत्मनो यदविद्योत्थं रूपं संसारभूमिगम् ||
अनाप्तकामं तत्स­र्व­म­पे­क्ष्ये­द­मि­हो­च्यते || १३३५ ||

आप्तकामादिकं सर्वं वस्तु­वृ­त्त­व्य­पे­क्षया ||
आप्ता­प्त­व्या­दि­ही­न­त्वा­दा­न­न्दै­का­त्म्य­व­स्तुनः || १३३६ ||

पुमर्थः कामशब्दार्थो नान्योऽर्थः काम्यते यतः ||
आप्ता­शे­ष­पु­म­र्थोऽयं सर्व­सा­ध­न­नि­स्पृहः || १३३७ ||

सत्य­का­मा­दि­श­ब्देन यदप्यन्यत्र भाषितम् ||
एत­द्वा­क्या­नु­रो­धेन व्याख्येयं तदपि स्फ़ुटम् || १३३८ ||

आत्ममात्रं समुत्सृज्य सत्यत्वं नान्यतो यतः ||
तत्रैव निर­धा­र्ये­तद्य्‍त्र नान्यदिति श्रुतेः || १३३९ ||

सुखसंविद्धि काम्योऽर्थो बाह्यसाधनसाधनः ||
संविदेव सुखं यस्मा­दा­प्त­का­म­मिदं ततः || १३४० ||

कामकामिप्रभेदेन प्रती­चोऽ­स्याऽऽ­प्त­का­मता ||
हिर­ण्य­ग­र्भ­व­त्किंवा निर्भेदस्येह भण्यते || १३४१ ||

आत्मैव कामा निःशेषा नाऽऽत्म­रू­प­प्र­भे­दतः ||
आत्मैवेदं सर्वमिति प्रत्य­ङ्म­त्रा­व­शे­षतः || १३४२ ||

सम­स्त­व्य­स्त­ता­श­ङ्का­मु­च्छेत्तुं चोत्तरं वचः ||
अकाममित्यतो ध्वस्त­स­म­स्त­व्य­स्त­रू­प­कम् || १३४३ ||

आप्त­का­मा­त्म­का­म­त्व­व­च­सैव निराकृताः ||
कामाः सर्वेऽकाममिति तथाऽपि पुनरुच्यते || १३४४ ||

आत्माश्रयत्वं कामानां केचि­द्व्या­च­क्ष­तेऽ­बुधाः ||
अत­स्त­त्प्र­ति­षे­धार्थं भूयोऽ­का­म­मि­ती­र­णम् || १३४५ ||

कामादिहेतुकः शोकः कामा­द्य­ज्ञा­न­हे­तु­कम् ||
तद­भा­वा­द­थै­कात्म्यं शोका­न्त­र­मि­ती­र्यते || १३४६ ||

यदि वा शोकवद्वस्तु शोकशब्देन भण्यते ||
गुण­त्वा­च्छो­क­श­ब्दस्य मतुपो लुप्तता भवेत् || १३४७ ||

शोका­र्ह­व­त्प­दा­र्थेभ्यो जात्यन्तरमिदं यतः ||
अहे­तु­फ़­ल­रू­प­त्वा­च्छो­का­न्त­र­मतो मतम् || १३४८ ||

शोकस्य प्रत्यगात्मा वा शोका­न्त­र­गि­रो­च्यते ||
शोकहेतोरपि प्रत्यङ्ङात्मा स्याच्छो­क­वा­न्क­थम् || १३४९ ||

अशोकान्तरमिति वा श्रुत्य­न्त­र­स­मा­श्र­यात् ||
अशो­का­द­प­रोऽ­शो­कोऽ­शो­का­न्त­र­मि­ती­र्यते || १३५० ||
शोकायोग्यः शुचा हीनोऽशोकशब्देन भण्यते ||

यद्वाऽन्तरयते शोक­मा­न­न्दै­क­स्व­भा­वतः ||
शैत्यं हुता­श­व­त्त­स्मा­च्छो­का­न्त­र­मिदं भवेत् || १३५१ ||

शोकादेर्जनकं यद्वा तच्छोकान्तं भवेत्तमः ||
तस्यारं छिद्र­मे­त­त्स्या­च्छा­न्दसि वर्णनिह्नतिः || १३५२ ||

अवि­द्या­का­म­क­र्माणि निःस­ङ्ग­त्व­स्व­भा­वतः ||
अतिवर्तत आत्माऽयं वस्तु­वृ­त्ता­नु­रो­धतः || १३५३ ||

स्वतो बुद्धं यतो वस्तु स्वतः शुद्धमतोऽद्वयम् ||
स्वतो मुक्तमतः सिद्ध­म­वि­द्या­त­ज्ज­हा­नतः || १३५४ ||

यत एवमिदं वस्तु अति­च्छ­न्दा­दि­ल­क्ष­णम् ||
निःशे­ष­ध्वा­न्त­सं­ब­न्ध­व्य­ति­क्रा­न्त­मिदं ततः || १३५५ ||

जन्य­का­र­ण­सं­ब­न्धा­त्का­र्य­का­र­ण­सं­गतेः ||
जन्य­हे­त्व­ति­वृ­त्त­त्वा­त्पि­ताऽ­प्य­त्रा­पिता ततः || १३५६ ||

अविद्यैव यतो हेतुः कर्तृत्वस्य न वस्तुतः ||
कर्तृत्वे सति कर्मणि नान्य­थाऽ­क­र्तु­रा­त्मनः || १३५७ ||

अवि­द्या­या­म­तोऽ­सत्यां नाऽऽत्मानः कर्तृकर्मणी ||
पितृ­पु­त्रा­दि­सं­बन्धो नातोऽस्तीह सुषुप्तगे || १३५८ ||

असङ्गोऽयं स्वतो यस्मान्नातः केनचिदात्मनः ||
सर्वावस्थासु संबन्धः संबन्धोऽतोऽस्य मोहतः || १३५९ ||

शुभ­क­र्मा­भि­सं­बन्धः केवलो नास्य वार्यते ||
निषिध्यते यतो योगः कुत्सितेनापि कर्मणा || १३६० ||

विप्र­हा­ट­क­हा­र्यत्र स्तेनशब्देन भण्यते ||
भ्रूण­घ्न­स­ह­चा­रि­त्वा­च्चा­ण्डालो ब्राह्मणीसुतः || १३६१ ||

शूद्रेण जातो विज्ञेयः प्राति­लो­म्यो­प­ल­क्षणः ||
वरिष्ठब्रह्महा चेह भ्रूण­हे­त्य­भि­धी­यते || १३६२ ||

उत्पन्नः क्षत्र्रियायां यः शूद्रेणैव स उच्यते ||
पैल्कसः पुल्कसो ज्ञेयः स्वार्थ एव च तद्धितः || १३६३ ||

निकृ­ष्ट­दे­ह­सं­ब­न्ध­प्रा­प­कै­रपि कर्मभिः ||
असंबद्धः सुषुप्तस्थः कर्म­हे­त्व­न­भि­प्लुतेः || १३६४ ||

तथैवानभिसंबन्ध आश्रमाख्यैश्च कर्मभिः ||
परिव्राट्श्रमणो ज्ञेय­स्ता­प­सा­श्र­म­सं­निधेः || १३६५ ||

वर्णा­श्र­मा­दि­हे­तूनां सर्वेषामपि कर्मणाम् ||
उप­ल­क्ष­ण­कृ­ज्ज्ञेयः परि­व्रा­ट्ता­प­स­ग्रहः || १३६६ ||

इत्ये­व­मा­द­योऽ­नन्ताः संबन्धा मोहहेतवः ||
नरेण परिसंख्यातुं न शक्याः कल्पकोटिभिः || १६६७ ||

पुण्यापुण्ये हि निखि­ल­सं­ब­न्ध­स्येह कारणम् ||
प्राज्ञोऽ­न­न्वा­ग­त­स्ताभ्यां कर्म­हे­त्व­स­म­न्व­यात् || १३६८ ||

परं रूपं समापन्नः कर्मा­वि­द्या­नि­मि­त्त­कम् ||
पितृ­मा­त्रा­दि­सं­बन्धं सुषुप्ते सोऽतिवर्तते || १३६९ ||

जीवत्येव शरी­रेऽ­स्मिं­स्तत्स्थ एव कथं पुनः ||
सर्व­स­ङ्ग­व्य­ती­तोऽयं भवतीत्यभिधीयते || १३७० ||

यतोऽनन्वागतं रूपं सुषु­प्तेऽ­स्याऽऽ­त्मनः स्वतः ||
उभाभ्यां पुण्यपापाभ्यां कुतस्तदपि चेन्मतम् || १३७१ ||

हृद­या­ति­क्र­मा­द्या­स्मा­त्त­द्ध­र्मा­न­ति­व­र्तते ||
कर्म­प्र­यो­ज­का­न्का­मां­स्त­स्मा­त्सुस्थं यथोदितम् || १३७२ ||

हृदयस्यैव धर्मास्ते शोककामादयो यतः ||
तीर्णबुद्धिर्हि तद्ध­र्मां­स्त­स्मा­दे­षोऽ­ति­व­र्तते || १३७३ ||

पुण्य­पा­पा­भि­सं­बन्धः स्वप्ने हृदयसंगतेः ||
वासनामात्रया त्वत्र साऽपि प्राज्ञे निवर्तते || १३७४ ||

करणत्वं विहायेह केव­ला­ज्ञा­न­मा­त्र­कम् ||
स्वप्न आस्ते मनोरूपं वासनामयविग्रहम् || १३७५ ||

वासनामय एवातो भुङ्के स्वप्ने क्रियाफ़लम् ||
न हि स्वप्नदृशो योगः स्वप्नेऽ­न्ये­नास्ति केनचित् || १३७६ ||

स्वाभा­स­व­र्त्म­नै­वाऽऽस्ते जाग्र­त्स्व­प्न­सु­षु­प्तिषु ||
अवि­द्या­का­म­क­र्मादि बिभर्तीव न तु स्वतः || १३७७ ||

चैतन्यमपि नैव स्यादात्मनः कामकर्मवत् ||
धर्मानन्वयतः प्राज्ञ इत्येवमभिचोदिते || १३७८ ||

स्रीपुं­दृ­ष्टा­न्त­वा­क्येन परिहारश्च दर्शितः ||
विभा­ग­हे­त्व­स­द्भा­वा­ज्जा­ग्र­द्व­न्नो­प­ल­भ्यते || १३७९ ||

अविभागात्मतां यातं न पुनः कामकर्मवत् ||
साधितं च प्रयत्नेन स्वयं­ज्यो­ति­ष्ट्व­मा­त्मनः || १३८० ||

यद्यात्माऽयं स्वयंज्योतिः काम­क­र्मा­दि­व­त्क­थम् ||
सुषुप्तेऽस्य स्वभा­व­त्वा­ज्ज­ह्या­च्चै­त­न्य­मि­त्यतः || १३८१ ||

नास्य धर्मो भवे­दे­त­त्सु­षुप्ते तददर्शनात् ||
नाऽऽत्मधर्मो विन­ष्ट­त्वा­त्त­स्मा­च्चै­त­न्य­मत्र तत् || १३८२ ||

अपि विप्रतिषिद्धं च यत्स्व­यं­ज्यो­ति­रा­त्म­कम् ||
प्रत्यग्वस्तु न वेत्तीति भवतेहाभिधीयते || १३८३ ||

ऐक्या­द­नु­प­ल­ब्धि­श्चे­द­नै­का­न्ति­कता तथा ||
यतोऽ­भा­वेऽ­प्य­सं­वि­त्ति­श्चै­त­न्य­स्येह दृश्यते || १३८४ ||

इत्यस्य परिहारार्थं परो ग्रन्थोऽ­व­ता­र्यते ||
यद्वै तदित्युपक्रम्य प्रत्य­ग्व­स्तु­वि­शु­द्धये || १३८५ ||

तथा परोऽपि संबन्धः कैश्चि­द­त्रा­भि­धी­यते ||
अशो­का­न्त­र­मि­त्युक्तं याथात्म्यं प्रत्यागात्मनः || १३८६ ||

ज्योति­र्मा­त्र­त­यै­वाऽऽत्मा सुषुप्ते व्यवतिष्ठते ||
कुतः पुनरिदं सिद्धं विशे­ष­ज्ञा­न­सं­क्षये || १३८७ ||

ज्योतीरूपमिदं तत्त्वं सुषुप्ते व्यवतिष्ठते ||
उक्तं प्राग्व्य­ति­रे­केण स्वयं­ज्यो­ति­ष्ट्व­मा­त्मनः || १३८८ ||

ननूक्तं प्रागिदं सर्वं विशे­ष­ज्ञा­न­मा­त्मनः || १३८९ ||

अवि­द्या­प­क्ष­पा­त्येव न तत्स्या­च्चि­त्ति­व­त्स्वतः ||
नैतदेवं यतोऽदर्शि पूर्व­मे­त्स्फ़ुटं मया || १३९० ||

सर्व­मे­वा­ह­म­स्मीति यद्यपीदं विशेषवत् ||
विज्ञानं न तथाऽ­पी­द­म­वि­द्या­प­क्ष­भा­गिति || १३९१ ||

नानात्वदर्शनं यस्मा­द्भ­या­द­ज्ञा­नजं मतम् ||
प्रति­प­क्ष­म­वि­द्याया अहमेवेदमित्यतः || १३९२ ||

तदेतन्मथ्यमानं सदै­क्य­द­र्श­न­ल­क्ष­णम् ||
भवत्यतीव संशुद्धं प्रसन्नं व्यवतिष्ठते || १३९३ ||

विशे­ष­द­र्श­ना­सू­ते­र­सं­बो­ध­स्त­दाऽऽ­त्मनः ||
देदीप्यमाना विज्ञ­प्ति­र्वि­शे­षा­त्माऽ­व­ति­ष्ठते || १३९४ ||

सुषुप्तस्थानगं रूपं तदे­त­त्प्रा­क्प्र­द­र्शि­तम् || १३९५ ||

तत्रै­त­च्छ­ङ्क्यते ज्ञानेऽसंबोधः कथमात्मनः ||
सति स्याच्चे­द­ना­शङ्का स्त्रीपुं­दृ­ष्टा­न्त­नि­र्ण­यात् || १३९६ ||

नैतदेवं यतस्तत्र सत्स्वेव ज्ञानहेतुषु ||
अविभक्तो विशेषेषु भवतीति प्रदर्शितम् || १३९७ ||

इह पुनर्न शक्यन्ते विशेषाः प्रसमीक्षितुम् ||
यतोऽ­त्रा­प्र­वि­भ­क्तेन स्वेन बोधेन तिष्ठति || १३९८ ||

असंबोधः सति ज्ञाने कथं स्यादिति शङ्क्यते ||
तम एवेति चेन्नैवं स्वयं­ज्यो­ति­ष्ट्व­मा­त्मनः || १३९९ ||

महतेह प्रयत्नेन यतः प्राक्प्र­ति­पा­दि­तम् ||
सिद्धान्तस्य स्थितत्वाच्च यथावदुपपत्तिभिः || १४०० ||

प्रदी­प­व­द्वि­न­ष्टोऽ­य­मिति चेदभिधीयते ||
प्रत्यभिज्ञानतो नैवं पूर्वदृष्टस्य वस्तुनः || १४०१ ||

यतः प्रत्यभिजानाति सुषु­प्ता­दु­त्थि­त­स्ततः ||
सर्वावस्थास्वयं नित्य आत्मा नैव विनश्यति || १४०२ ||

सम­स्तै­रि­न्द्रि­यै­र्हीनः संप्रसन्नो निराकुलः ||
सुप्तः स्वप्नान्न जानाति यः स आत्मेति भण्यते || १४०३ ||

नाद्राक्षं स्वप्नमद्येति प्रति­बु­द्धोऽ­भि­भा­षते ||
जाग्र­त्स्व­प्न­सु­षुप्ते च तस्मादात्मा स एव सः || १४०४ ||

स्वप्नमेति सुषुप्ताच्च स्वप्ना­द्बु­द्धा­न्त­मेव च ||
इति श्रुत्या पुराऽप्युक्तं तस्मान्नाऽऽत्मा विनश्यति || १४०५ ||

स्वयं­ज्यो­तिः­स्व­भा­व­स्थ­स्त­स्मा­दात्मा सुषुप्तगः ||
प्रत्य­ग­ज्ञा­न­त­त्का­र्यै­र­सं­स्पृष्टः स्वभावतः || १४०६ ||

यत्तु तच्छङ्क्यते कस्मादात्मा प्राज्ञे न पश्यति ||
चैत­न्या­त्म­स्व­भा­वोऽपि तच्चापि शृणु सांप्रतम् || १४०७ ||

स्वभावो नाऽऽत्मनः काम­क­र्मा­वि­द्यादि बॊधवत् ||
अस­ङ्गा­न­न्व­यो­क्तिभ्यां कामादेश्च मृषात्वतः || १४०८ ||

चैत­न्य­मा­त्म­न­स्तत्त्वं कूटस्थं, न तु कामवत् ||
अना­द्य­वि­द्या­यो­गोऽस्य तत्का­र्यै­रा­दि­मा­न्मतः || १४०९ ||

अज्ञा­न­मि­थ्या­वि­ज्ञा­न­सं­स्थ­स्या­स्याऽऽ­त्मनः क्वनु ||
उपदेशादिसंबन्धः इत्येतदिह भण्यते || १४१० ||

न पश्यत्येष आत्माऽत्र स्वयंज्योतिश्च स स्वतः ||
इति विप्रतिषिद्धं यत्त­दै­का­त्म्यान्न दुष्यति || १४११ ||

चोदि­ता­र्था­नु­वा­दोऽयं परिहारविवक्षया ||
यद्वै तदिति यत्नेन श्रुत्येह क्रियतेऽञ्जसा || १४१२ ||

न पश्यतीति मन्वीथाः सुषुप्ते यन्न तत्तथा ||
पश्य­न्ने­वा­वि­लु­प्ताक्ष आत्माऽयं वर्तते यतः || १४१३ ||

न पश्यत्येव नन्वत्र चक्षु­रा­दे­र­सं­भ­वात् ||
करणान्यन्तरेणेह जात्यन्धादिर्न वीक्षते || १४१४ ||

नैतदेवं यतो द्रष्टुः कारकस्य समीक्षणे ||
करणानि व्यपेक्ष्यन्ते न त्वकारकवीक्षणे || १४१५ ||

स्वप्नेऽपि चक्षु­रा­दी­ना­म­पीतिः श्रूयते श्रुतौ ||
कुतः सुषुप्तौ तानि स्युर्यत्र तद्वासनाऽपि न || १४१६ ||

न पश्यतीति वचनं कारकादेरसंभवात् ||
वास्तवं वृत्तमापेक्ष्य पश्यन्वै तदितीर्यते || १४१७ ||

पश्य­न्ने­वा­य­म­त्राऽऽस्त इत्ये­त­च्चे­त्कुतो भवेत् ||
इत्यस्य हेतुसिद्ध्यर्थं न हि द्रष्टुरितीरणम् || १४१८ ||

मेय­मा­म­प्र­मा­त्यणां व्यभिचारेऽपि चाऽऽत्मनः ||
अनन्यानुभवादेव सिद्धि­स्त­द्ध्वं­स­सा­क्षितः || १४१९ ||

प्रमा­त्रा­द्या­न­भि­व्याप्तं वस्तु पूर्वं समीक्ष्य हि ||
नाद्राक्षणिति संधत्ते दृष्ट­व­त्स्व­चि­दा­त्मना || १४२० ||

यस्मा­द्र­प्टुर्हि या दृष्टिर्यया द्रष्टा प्रसिध्यति ||
तस्या विपरिलोपोऽयं हेत्वभावान्न युज्यते || १४२१ ||

नाशो­त्प­त्त्या­दयो धर्मा हेतुमद्वस्तुनो यतः ||
निर्हे­तु­सा­क्षिणो न स्युरा­ग­मा­पा­यि­सा­क्षितः || १४२२ ||

नाशादि न स्वयं सिध्येद्विना नाशादिसाक्षिणा ||
नातो विपरिलोपः स्याद्द्र­ष्टु­र्दृष्टेः कदाचन || १४२३ ||

द्रष्टुरात्मैव या दृष्टिः प्रत्य­ग्दृष्ट्या समीक्ष्यते ||
तस्या विपरिलोपोऽत्र न कथंचन युज्यते || १४२४ ||

आत्मै­वाऽऽ­त्मी­य­भू­तस्य या दृष्टिरविनश्वरी ||
द्रष्टु­र्वि­ना­शि­न­स्तस्या नोच्छि­त्ति­रु­प­प­द्यते || १४२५ ||

आगमापायिनो द्रष्टु­र्दृ­ष्टि­स्त­त्सा­क्षिणी तु या ||
द्रष्ट्रा­दि­लो­प­सा­क्षि­त्वा­त्तस्या लोपो न युज्यते || १४२६ ||

सत्येव साक्षिणि यतो भावाभावौ प्रसिध्यतः ||
जगतोऽतो न नाशः स्यादा­त्म­दृष्टेः कुतश्चन || १४२७ ||

ननु विप्र­ति­षि­द्धो­क्ति­र्भ­व­ते­हा­भि­धी­यते ||
न विनश्यति सा दृष्टि­र्द्र­ष्टु­श्चे­त्य­ति­सा­ह­सम् || १४२८ ||

कर्तृ­का­र्या­भि­सं­बन्धो द्रष्टु­र्द­ष्टे­रि­ती­र्यते ||
तत­श्चा­प­रि­लो­पोऽस्याः कार्य­त्वा­न्नो­प­प­द्यते || १४२९ ||

ननु न लुप्यत इति वचनान्न विलोप्स्यति ||
नैवं यतो मितिप्राप्तं वचो नाशं न वारयेत् || १४३० ||

सिद्धस्य व्यञ्जकं मानं न तु तत्कारकं यतः ||
उक्ते­र्नै­तोऽ­वि­ना­शित्वां द्रष्टु­र्दृ­ष्टे­रि­हे­ष्यते || १४३१ ||

नैष दोषो यतो द्रष्टुः श्रुतिराह विशेपणम् ||
द्रष्टु­र्दृ­ष्टे­रिति ततो द्रष्टा नैवेह कारकम् || १४३२ ||

देहान्तो दृष्टिकारी यो द्रष्टा धर्मादिहेतुमान् ||
दृष्टे­र्द्र­ष्टुश्च लोपोऽत्र प्रत्य­ग्दृ­ष्ट्ये­क­सा­क्षिकः || १४३३ ||

प्राक्प्र­मा­त्रा­दि­सं­भू­तेर्या तु दृष्टिरकर्तृका ||
द्रष्ट्रा­दि­ना­श­सा­क्षि­त्वात्सा दृष्टिरविनश्वरी || १४३४ ||

दृष्टिरेव तु सा द्रष्टा न तु कारकलक्षणः ||
द्रष्टु­र्वि­शे­ष­ण­त्वेन दृष्टेरिति परिग्रहात् || १४३५ ||

परिलोपो हि कार्याणां लोके सिद्धः स्वकारणे ||
नातः कारणरूपस्य नाप्य­का­र­क­व­स्तुनः || १४३६ ||

अभावस्य च भाव­त्वा­द्भा­व­सि­द्धेश्च दृष्टितः ||
दृष्टौ नाभावशङ्काऽतः सर्व­सि­द्धे­स्त­द­न्व­यात् || १४३७ ||

न सुषु­प्त­प्र­सिद्धिः स्यादृ­ष्टे­र्लोपो भवेद्यदि ||
जन्म­ना­शा­दि­ही­ने­य­मतो दृष्टिः परात्मनः || १४३८ ||

शतृ­तृ­ज­न्त­श्र­व­णा­द्द्‍ष्टि­श्चे­त्स्या­त्स­क­र्तृका ||
पश्य­न्द्र­ष्टु­रिति ह्येवं नैवं कर्त्रा­द्य­सं­भ­वात् || १४३९ ||

नेह बुद्ध्या­दि­स­द्भा­व­स्त­दाऽ­पी­ति­श्रु­ते­र्भ­वेत् ||
सुषुप्तेऽतो न धात्वर्थः प्रत्ययार्थश्च नेष्यते || १४४० ||

कर्त्रादिकारकं नो चेत्सुषुप्ते विद्यते कथम् ||
पश्य­न्द्र­ष्टु­रिति वचः कूटस्थ उपपद्यते || १४४१ ||

यथाऽ­व­का­श­दा­त्रिति भण्यते निष्क्रियं वियत् ||
शतृतृजन्तवचसा तथाऽऽत्मा भण्यते ध्रुवः || १४४२ ||

स्वभावः कारकाणां च यदकृत्वेह कुर्वते ||
अकुर्वत्कारकं तस्मा­त्कु­र्व­तोऽ­ति­शयः कुतः || १४४३ ||

प्राक्क्रियाया विनिष्पत्तेः कुर्वद्रूपं न लभ्यते ||
यतोऽ­तोऽ­कु­र्व­दे­वेह स्यात्सर्वत्रैव कारकम् || १४४४ ||

शक्तिमत्कारकं चेत्स्या­त्स्या­त्कार्यं शक्तिवत्सदा ||
शक्यानामपि सद्भावः शक्तिवत्सर्वदा यतः || १४४५ ||

न मिथो व्यतिरेकेण शक्तिशक्यौ प्रसिध्यतः ||
पर­स्प­र­व्य­पे­क्ष­त्वा­च्छ­क्ति­श­क्य­स्व­रू­पयोः || १४४६ ||

शक्तीनां नियमः शक्याच्छक्यानां चापि शक्तितः ||
परस्पराश्रयत्वं च प्राप्नु­या­च्छ­क्ति­वा­दिनः || १४४७ ||

क्रिया­या­श्चा­प्य­का­र्यत्वे कारकं न प्रसिध्यति ||
कार्यत्वे चानवस्था स्यात्कु­र्व­च्चापि सुदुर्लभम् || १४४८ ||

क्रिया­त­त्फ़­ल­यो­श्चापि पौर्वा­प­र्या­प्र­सि­द्धितः ||
किं साध्यं साधनं चेह निश्चयो नोपपद्यते || १४४९ ||

अवि­द्या­मा­त्र­हेतौ तु सर्व­मे­त­त्स­म­ञ्ज­सम् ||
तत्कार्यत्वाच्च सर्वस्य न किंचिदसमञ्जसम् || १४५० ||

यत्राऽऽ­त्म­नोऽस्य संब­न्धोऽ­ना­त्म­नेह विवक्ष्यते ||
अवि­द्या­हे­तु­क­र्त्रा­दि­सं­ग­ति­स्तत्र मोहजा || १४५१ ||

यत्र त्वात्मेति धीरस्य जाय­तेऽ­ना­त्म­धी­रिव ||
यथावस्त्वेव धीस्तत्र नात्रा­वि­द्या­द्य­पे­क्षते || १४५२ ||

जाग्र­त्स्व­प्न­प्र­हा­णेऽपि प्रत्यङ्मात्रं न हीयते ||
तद्धा­ने­रा­त्म­सा­क्षि­त्वा­त्प्र­त्य­ङ्ज­न्मा­दि­व­र्जितः || १४५३ ||

रज्ज्व­ज्ञा­न­म­ना­दाय न सर्पादीक्षणं यथा ||
आत्मा­ज्ञा­न­म­ना­दाय न तथाऽ­ना­त्म­वी­क्ष­णम् || १४५४ ||

कल्प­ना­बी­ज­वि­र­हा­त्क­ल्पना न हि लभ्यते ||
प्रतीचि कल्पितोऽनात्मा प्रतीचि व्यभिचारितः || १४५५ ||

आत्म­नोऽ­व्य­भि­चा­रित्वं सर्व­त्राऽऽ­त्मै­क­सा­क्षि­कम् ||
यतोऽ­त­स्त­त्प­रि­ज्ञाने नाऽऽत्माऽ­ज्ञा­न­म­पे­क्षते || १४५६ ||

प्रका­श्या­र्था­भि­सं­बन्धे कर्तृत्वं सवितुर्यथा ||
अप्र­का­श­प्र­का­शि­त्वान्न तथाऽऽ­त्म­प्र­का­शने || १४५७ ||

बाह्या­र्थ­भा­स­नेऽ­प्यस्य सूर्यादेरिव कर्तृता ||
सर्व­दै­वै­क­रू­प­त्वा­द्भा­नो­र्ना­पू­र्व­का­रिता || १४५८ ||

यथा जात्यमणेः शुभ्रा ज्वलन्ती निश्चला शिखा ||
संनि­ध्य­सं­नि­धा­नेषु प्रका­श्या­ना­म­वि­क्रिया || १४५९ ||

न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते ||
उपचारात्क्रिया साऽस्य यः प्रकाश्यस्य संनिधिः || १४६० ||

न चेदं दर्शनं गौण­म­ग्नि­र्मा­ण­वको यथा ||
इतोऽ­न्य­थाऽ­व­बो­धस्य प्रती­चोऽ­नु­प­ल­ब्धितः || १४६१ ||

ननु भङ्गुरधात्वर्थे तृच्प्रयोगो जगत्यपि ||
द्रष्टृ­श­ब्दा­भि­ल­प्यस्य नित्या दृष्टिः कथं भवेत् || १४६२ ||

नोक्त­त्वा­त्प­रि­हा­रस्य सूर्यादावपि दर्शनात् ||
प्रकाशयिता सविता व्याप्त् वाऽपि वियत्तथा || १४६३ ||

अस्तु प्रकाशकेष्वेवं न प्रतीचीति चेन्मतम् ||
नैवं प्रका­श­क­त्वा­त्स्या­त्प्र­त्य­गा­त्मा­ख्य­व­स्तुनः || १४६४ ||

प्रत्य­क्ष­मा­त्मना लोके द्रष्टा­द्य­र्था­व­भा­स­नम् ||
स्वयं­ज्यो­ति­ष्ट्व­शा­स्त्राच्च प्रत्यगात्मा प्रकाशकः || १४६५ ||

अपयात्मैवेह सर्वत्र स्वयंज्योतिः प्रतीयते ||
ज्योतिषामपि तज्ज्यो­ति­स्त­मे­वेति च शास्त्रतः || १४६६ ||

साक्षा­त्प­श्या­म्यहं कुम्भं न पश्यामीति लोकतः ||
अनुभूतेः प्रसि­द्ध­त्वा­न्नैवं स्यादिति चेन्मतम् || १४६७ ||

मैवं पश्याम्यहं कुम्भं न पश्यामीति दर्शनात् ||
सदाऽ­न­श्व­र­दृ­ष्टित्वं प्रतीचो गम्यते स्फ़ुटम् || १४६८ ||

पश्यामीत्यस्य साक्षित्वं प्रतीचो गम्यते यथा ||
न पश्यामीति चाप्यस्य तथै­वे­हाऽऽ­त्म­सा­क्षि­कम् || १४६९ ||

उत्खातचक्षुषां चापि दृष्टिः स्वप्नेऽनुभूयते ||
द्रष्टृ­दृ­ष्ट्य­ति­रे­केण नित्या दृष्टिरतो मम || १४७० ||

ज्योतिषामपि तज्ज्यो­ति­र­स्म­द्धी­प­रि­मो­ष­णात् ||
तमो­रू­प­मि­वाऽऽ­भाति भानु­र्न­क्तं­दृ­शा­मिव || १४७१ ||

यत एवमतो दृष्टि­र्नि­त्यै­वाऽऽ­त्मन इष्यताम् ||
अनित्यत्वस्य सर्वस्य प्रत्य­ग्दृ­ष्ट्ये­क­सा­क्षितः || १४७२ ||

तयाऽसाधनया दृष्ट्याऽ­प­रि­णा­म­स्व­भा­वया ||
पश्य­न्ने­वा­य­मा­त्माऽऽस्ते तद्‍द्दृ­ष्टे­श्चो­द्य­हे­तुतः || १४७३ ||

पश्यामीति यथाऽ­द्रा­क्षी­रा­त्म­दृ­ष्ट्यैव जागरे ||
न पश्यामीत्यपि तथा नित्यदृष्ट्यैव वीक्षसे || १४७४ ||

पश्य­न्कु­म्भा­दिकं वस्तु देहान्तो ग्राहको यथा ||
दृष्ट्या संबध्यते द्रष्टा द्रष्टृत्वस्य तदाश्रयात् || १४७५ ||

अका­र­क­स्व­भा­व­त्वा­न्नैवं वृत्तं ममाऽऽत्मनः ||
आत्मदृष्टिरतो ग्राह्या प्रत्य­ङ्मा­त्रा­नु­रो­धिनी || १४७६ ||

यथो­क्ता­र्थ­प्र­सि­द्ध­त्वा­द्वै­श­ब्दोऽत्र प्रयुज्यते ||
तन्न पश्यतिशब्देन कारकत्वं निषिध्यते || १४७७ ||

दृश्या­र्था­सं­भ­वा­द्य­दू­त्प­श्य­न्नपि न पश्यति ||
न पश्यामीतिफ़लतः कारकस्य यथा तथा || १४७८ ||

अका­र­का­त्म­नोऽ­दृ­ष्टि­र्द्र­ष्ट­व्या­र्था­प्र­यु­क्तितः ||
वस्तूक्तं दृष्टिशब्देन न क्रिया नापि कारकम् || १४७९ ||

ग्राह­क­ग्र­ह­ण­ग्रा­ह्य­हीनं रूपं यदात्मनः ||
तद्दृष्टिरिति वचसा साक्षान्नः प्रतिपाद्यते || १४८० ||

प्रतीच्येव समाप्तं यद­क्रि­या­का­र­का­त्म­कम् ||
न पश्यति गिरा रूप­मा­त्म­न­स्त­दि­हो­च्यते || १४८१ ||

ननु चोद्यानुवादोऽयं पश्यतिगोरोच्यते ||
कुतोऽ­का­र­क­व­स्त्वत्र प्रमाणादभिधीयते || १४८२ ||

ऐकात्म्यमेव नो ज्ञातं सर्वत्रैव पुरा मितेः ||
अज्ञातमेव च ज्ञातं नातश्चोद्यस्य संभवः || १४८३ ||

स्वतः­सि­द्धा­नु­भू­तिश्च नाज्ञा­ना­द्व्य­ति­रि­च्यते ||
सांख्य­रा­द्धा­न्त­व­न्ना­त­श्चोद्यं मत्तोऽन्यतः कृतम् || १४८४ ||

ऐका­त्म्य­वा­दि­नाऽ­व­श्य­मेकौ मेयोऽर्थ इष्यते ||
मेया­न्त­रा­भ्यु­प­गमे न ह्यैकात्म्यं प्रसिध्यति || १४८५ ||

साध­ना­ना­म­सा­म­ग्र्या­त्सा­म­ग्र्या­च्चेह कर्तरि ||
न पश्यतीक्षत इति विरुद्धार्थो यथोच्यते || १४८६ ||

पश्यन्न पश्यतीत्यत्र न तथाऽऽत्मनि युज्यते ||
दृङ्मा­त्रा­वि­क्रि­या­त्मत्व एकत्वाकारकत्वतः || १४८७ ||

यत एवमतः पश्य­न्नि­त्य­स्यै­वो­त्तरं वचः ||
न पश्यतीति व्याख्यानं कारकादिनिषेधनम् || १४८८ ||

पश्यन्न पश्यतीत्यत्र तस्मादेकोऽर्थ उच्यते ||
अकारकात्मकं ज्योतिरद्वयं प्रत्यगात्मकम् || १४८९ ||

ग्रही­तृ­ग्र­ह­ण­ग्राह्यं वस्तु द्रष्ट­व्य­मु­च्यते ||
प्रमा­ण­दृ­ष्टि­यो­ग्य­त्वा­त्प्र­मा­त्रा­द्या­त्म­व­स्तुनः || १४९० ||

प्रात्यक्ष्यं च यथैतेषां तथा पूर्वमवादिषम् ||
द्रष्ट्रा­दे­रा­त्म­न­श्चोक्तं वैलक्षण्यं तथा पुरा || १४९१ ||

दर्श­ना­द­र्श­नो­क्ति­भ्या­म­वि­भा­गा­त्मको दृशिः ||
इहाभिधीयते ज्योतिरन्यत्र तु विभागवत् || १४९२ ||

चिते­र­का­र­क­त्वाच्च सर्वा­न्त­र­त­म­त्वतः ||
कार्त्स्न्या­त्त­द­न्य­या­था­त्म्या­त्प­श्य­न्नपि न पश्यति || १४९३ ||

न पश्यति यथा प्राज्ञ उक्त­हे­त्व­वि­शे­षतः ||
तथै­वै­त­द्ग्र­ही­तव्यं स्वप्न­जा­ग्र­द­व­स्थयोः || १४९४ ||

चिते­र्य­थाऽ­वि­ना­शश्च स्वप्न­जा­ग्र­द­व­स्थयोः ||
तथैव संप्र­सा­देऽ­स्मि­न्नु­क्त­हे­तु­स­म­न्व­यात् || १४९५ ||

न हीतिहेतुवचनं प्रति­ज्ञा­ता­र्थ­सि­द्धि­कृत् ||
द्विप्रकारो विनाशश्च द्विर्हे­तूक्त्या निषिध्यते || १४९६ ||

निरन्वयो विनाशोऽस्य न हीत्युक्त्या निषिध्यते ||
अविनाशीति चाप्यत्र विका­रा­प­ह्नु­ते­र्वचः || १४९७ ||

अविनाशीति मैत्रेय्यां द्विधा­ना­श­नि­षे­ध­कृत् ||
वचनं प्रागुपन्यस्तं तदेवात्रापि हेतवे || १४९८ ||

सर्वो­च्छि­त्त्या­त्म­सा­क्षि­त्वा­दु­च्छि­त्ते­श्चा­प्य­सं­भ­वात् ||
तथा सर्वविकाराणां प्रत्य­ङ्मा­त्रै­क­सा­क्षिता || १४९९ ||

पश्य­न्ने­वा­य­म­त्राऽऽस्ते सान्वयानन्वयौ ध्रुवः ||
नाशौ यस्मादतः सिद्ध आत्मा कूटस्थदर्शनः || १५०० ||

पश्यन्न पश्य­ती­त्ये­त­त्स्व­तन्त्रं चाऽऽगमं वचः ||
न हीति तु प्रति­ज्ञो­क्ति­र­नु­मो­क्त्य­नु­सा­रिणी || १५०१ ||

हेतू­क्ति­र­वि­ना­शि­त्वा­दि­त्यु­क्ता­र्थ­प्र­सि­द्धये ||
विना­श­श­क्त्य­भा­वो­क्तेर्न प्रतिज्ञैकदेशता || १५०२ ||

प्रतिज्ञावचसी द्वे वा पश्य­न्नि­त्या­दि­नो­दिते ||
न हीति हेतुवचसी द्वे स्यातामुत्तरे तयोः || १५०३ ||

पश्यन्नेवाऽऽस्त इत्यस्याः प्रतिज्ञोक्तेः प्रसिद्धये ||
हेतुर्न हीति­व­च­न­मु­त्त­र­स्यापि चोत्तरम् || १५०४ ||

निरन्वयविनाशस्य निषेधोऽत्र विवक्ष्यते ||
प्रथमे हेतुवचसि परि­णा­म­स्त­थो­त्तरे || १५०५ ||

द्व वा हेतू यथोक्तार्थौ द्वयोरपि प्रतिज्ञयोः ||
आभ्यां संभूय सिद्धोऽर्थ एवं सति भवेद्यतः || १५०६ ||

पश्य­न्ने­वा­य­म­त्राऽऽस्त इति चेत्कथमुच्यते ||
न पश्यतीति वचनं शृणु तच्च यथा तथा || १५०७ ||

पुरा यद­भ­व­न्मो­हा­त्स्व­प्न­जा­ग्र­द­व­स्थयोः ||
प्रतीचो न तदत्रास्ति रूपं यत्कारकात्मकम् || १५०८ ||

आत्म­नोऽ­द्व­य­त­त्त्वस्य द्वितीयं यदविद्यया ||
सुषुप्ते न तदस्तीह प्रयुक्तं यत्स्वगोचरैः || १५०९ ||

सजातीयप्रयुक्तं यद् बुद्ध्यन्तं रूपमात्मनः ||
धर्मादिहेतुकं प्राज्ञे तद् ध्वस्तं कर्मणः क्षयात् || १५१० ||

तमो­न्ता­त्का­र­णा­त्तद्धि द्वितीयं कार्यरूपतः ||
ततोऽन्यद्ग्रहणं नास्ति, विभक्तं ग्राह्यमेव च || १५११ ||

स्वप्नेऽ­प्ये­त­त्र्रयं नाभू­द्वा­स­ना­मा­त्र­शे­षतः ||
किमु विध्व­स्त­निः­शे­ष­द्वै­त­हेतौ सुषुप्तगे || १५१२ ||

सुषुप्ते योऽवशिष्टोऽत्र कौट­स्थ्या­न्ना­न्य­द­र्श्यसौ ||
योऽप्यन्यदर्शी सोऽप्यत्र नास्ति तद्धेत्वसंभवात् || १५१३ ||

द्विती­य­द­र्श­ना­यालं रूप­मा­सी­द्य­दा­त्मनः ||
तन्नास्ति तद्द्वितीयं विभक्तं नात ईक्षते || १५१४ ||

अवि­द्या­व­द्दू­तीयं वा नित्य­दृ­ष्टे­र्वि­व­क्ष्यते ||
सदा­ही­ना­न­नु­दि­त­भा­स्व­दे­क­दृ­गा­त्मनः || १५१५ ||

तादा­त्म्य­व्य­ति­रे­काभ्यां तमस्तज्जं च नाऽऽत्मनः ||
विरो­धा­द्दॆ­श­तोऽ­का­र्य­का­र­ण­त्वा­त्प­रा­त्मनः || १५१६ ||

विभक्तं यत्तमोऽस्तीव नाविभक्तं मनागपि ||
तमोऽ­न्वि­त­त्वा­द्बु­द्ध्यन्ते न प्राज्ञेऽ­न­न्व­या­त्तमः || १५१७ ||

कूट­स्थ­दृ­ष्टा­वे­क­स्मि­न्न­वि­भक्ते सहस्रधा ||
नामरूपादिभेदेन विभक्तं यत्तमो दृशेः || १५१८ ||

तत्तु द्वितीयं नेहास्ति तमोऽनर्थस्य कारणम् ||
द्रष्ट्रा­दि­रू­प­सं­भे­दा­द्य­त्प­श्ये­ज्जा­गरे यथा || १५१९ ||

अवि­द्या­दे­र­भा­वोक्त्या कूटस्थात्मैव भण्यते ||
कारणात्मा यतोऽभावः कार्याख्यस्येह वस्तुनः || १५२० ||

अज्ञा­ना­न्ना­न्न­य­द­स्तित्वं सर्वस्यानात्मनो यथा ||
निवृ­त्ति­स्त­द्व­त्त­द्धे­तो­र्ना­व­ग­त्या­त्म­नोऽ­परा || १५२१ ||

तत्तु नैवेह वस्त्वस्ति द्वितीयं मोहहेतुजम् ||
साक्षिणो विषयीभूतं विभक्तं कार्यरूपतः || १५२२ ||

संविदैव समा­प्त­त्वा­त्त­मो­जस्य पुरोत्थितेः ||
लभते न द्विती­य­त्व­म­न्य­त्वा­सं­भ­वा­त्तमः || १५२३ ||

कार्यस्यापि च बुद्ध्या­दे­स्त­द्धे­तो­र­वि­भा­गतः ||
न तदस्ति द्वितीयत्वं संविदैव समाप्तितः || १५२४ ||

यत एवमतः प्राह नेह तद्वस्तु विद्यते ||
यत्प­श्ये­द्गॊ­च­रा­पन्नं मुख­श­ब्दा­दि­ल­क्ष­णम् || १५२५ ||

यत्पश्येदिति कर्त्रु­क्ति­र्द्र­ष्टाऽ­त्राऽऽ­श­ङ्क्यते यतः ||
तन्नास्ति विष­यो­ल्ले­खि­द­र्श­न­स्येह कारणम् || १५२६ ||

श्रोत्रा­दि­क­र­णो­पेतं यतोऽन्तःकरणं दृशेः ||
बाह्यार्थदर्शने हेतुः कौटस्थ्यान्न तदक्षरम् || १५२७ ||

तमोन्तः कारणं बुद्धे­र्द्र­ष्टाऽ­न्तः­क­र­णा­वधिः ||
सुखी दुःखी च देहान्तः प्रत्य­ग­ज्ञा­न­हे­तुतः || १५२८ ||

बुद्ध्यादेश्च समुत्पत्तौ धर्माद्येवात्र कारणम् ||
यतोऽतः कारणध्वस्तौ बुद्ध्या­द्ये­त्या­त्म­का­र­णम् || १५२९ ||

तमो­न्व­य­स्त­मः­कार्ये बुद्ध्यादावेव युज्यते ||
न त्वका­र­ण­का­र्येऽ­स्मि­न्नि­त्य­बुद्धे परात्मनि || १५३० ||

वृत्तिं च लभते कार्यं न स्वकारणतोऽन्यतः ||
न कार्यं कारणं वाऽस्ति प्रत्य­ग्वृ­त्त­व्य­पे­क्षया || १५३१ ||

बुद्ध्य­न्त­स्यास्य मूढस्य सुख­श­ब्दा­दि­द­र्शिनः ||
स्वका­र­ण­क्ष­या­द्ध्वस्तौ नाऽऽत्मा पश्यन्नपीक्षते || १५३२ ||

द्रष्टृ­त्वा­दि­वि­भा­गेन विभक्तो यस्त्वविद्यया ||
स कूट­स्था­त्म­नाऽ­पीतो रज्ज्वा सर्पो यथा तथा || १५३३ ||

द्रष्टृ­द­र्श­न­दृ­श्यानां संबन्धोऽतो न वीक्ष्यते ||
तमस्विनः प्रली­न­त्वा­न्ना­वि­द्या­का­र्य­मी­क्षते || १५३४ ||

द्रष्टृ­द­र्श­न­दृ­श्या­दि­भे­दोऽ­वि­द्या­प्र­क­ल्पितः ||
यतोऽतो मोहविध्वस्तौ द्रष्ट्रा­द्या­त्मनि नेक्ष्यते || १५३५ ||

उत्तरेष्वपि वाक्येषु यथो­क्त­मु­प­पा­द­येत् ||
व्याख्या­न­मे­त­दे­वेति नातोऽ­न्य­द­व­शि­ष्यते || १५३६ ||

अन्ये पुनरिमं ग्रन्थमन्यथैव यथोदितात् ||
व्याचक्षते हि व्याख्या­ना­त्त­च्चा­पीह विभाव्यते || १५३७ ||

निरस्य पूर्वपक्षोक्तीः परिहारोक्तिभिः क्रमात् ||
ज्योति­र्मा­त्र­तया स्थानं दृशेः प्राज्ञे जगौ सुधीः || १५३८ ||

साधयित्वा स्वयंज्योतिः सुषुप्ते युक्तिभिः स्फ़ुटम् ||
अथैवं ज्ञस्वभावोऽपि कस्मात्प्राज्ञे न पश्यति || १५३९ ||

इत्या­श­ङ्का­प­नु­त्त्यर्थं परो ग्रन्थोऽवतारितः ||
तद्व्याख्यानं यथावच्च ह्यक्षराणां विभाव्यते || १५४० ||

यद्वे न पश्य­ती­त्ये­व­मा­त्मा­न­म­ति­श­ङ्कसे ||
तन्मा शङ्कीर्यतः प्राज्ञे पश्य­न्ना­त्माऽत्र वर्तते || १५४१ ||

इत्थं स तत्त्व­क­स्ता­व­द्द्र­ष्टव्यः श्रुतियुक्तिभिः ||
न पश्यतीति न पुनर्द्रष्टव्यो हेत्वसंभवात् || १५४२ ||

विशेषवन्न चाप्यस्य विज्ञानमिह जायते ||
पश्यन्न पश्यतीत्येवं पदा­र्थ­द्व­य­मी­रि­तम् || १५४३ ||

तदाविष्करणे ग्रन्थः क्रमेणाऽऽरभ्यते परः ||
न हि द्रष्टुरितीत्थं च सौक­र्ये­णा­व­ग­म्यते || १५४४ ||

द्रष्टा दृष्टि­क्रि­या­कारी विज्ञानात्मा पुमानिह ||
बुद्ध्यु­पा­त्तस्य रूपा­दे­र्वि­ज्ञानं च ततः परम् || १५४५ ||

तत्रापि च धियो वृत्ते­र्ग्रा­ह्य­ग्रा­ह­क­रू­पतः ||
घटा­दि­मे­य­वि­ष­या­त्पू­र्वो­त्प­न्न­क्रि­या­त्मनः || १५४६ ||

क्रियान्तरस्य निर्वृत्तौ द्रष्टा तत्रापि पुरूषः ||
दृक्‍शक्तिः पुरुषे तत्र या रूपाद्यनुरोधिनी || १५४७ ||

क्रिया­भा­वोऽ­व­ग­न्तृस्थो विज्ञा­ना­त्मै­क­क­र्तृकः ||
तस्या दृष्टेः क्रियाया हि द्रष्टृ­ध­र्म­त्वतः सदा || १५४८ ||

द्रष्टु­र्वि­प­रि­लो­पोऽत्र मनागपि न विद्यते ||
गुणि­स्थि­त्य­नु­रो­धि­त्वा­द्गु­णा­ना­म­ग्नि­दा­ह­वत् || १५४९ ||

यत एवमतो यावदात्मा द्रष्टा न नश्यति ||
न ताव­त्स्या­त्स­मु­च्छेदो द्रष्टु­र्दृ­ष्टे­स्त­दा­श्र­यात् || १५५० ||

मतं गुणिविनाशेन तद्गुणोऽपि विनङ्क्ष्यति ||
अग्न्या­द्यौ­ष्ण्या­दि­व­च्चेन्न द्रष्टु­र­स्या­वि­ना­शतः || १५५१ ||

अत आहा­वि­ना­शि­त्वा­द्द्र­ष्टु­र्दृ­ष्टि­कृतः सदा ||
विनंष्टुं नाऽऽत्मनः शीलं घटादेरिव युज्यते || १५५२ ||

न विनश्यत्यसौ कस्मादिति हेतुरिहोच्यताम् ||
सर्वा­त्म­त्वा­त्त­थै­क­त्वा­द्द्र­ष्टु­र्नाशो न विद्यते || १५५३ ||

येना­स्याऽऽ­श­ङ्क्यते नाश­स्ते­ना­स्या­प्र­वि­भा­गतः ||
संभाव्यते न नाशोऽस्य नंष्टु­र्ना­शा­वि­भा­गतः || १५५४ ||

न च तेनैव तस्यैव विनाश उपपद्यते ||
ऐका­त्म्या­द्द्वै­त­वि­षये यथाऽ­ग्नी­न्ध­न­यो­स्तथा || १५५५ ||

द्रष्ट­स्त­तोऽ­वि­ना­शि­त्वा­न्नित्या नित्यस्य धर्मिणः ||
आदि­त्या­र­श्मि­व­द्ग्राह्या दृष्टि­र­प्य­वि­ना­शिनी || १५५६ ||

नित्योऽतो नित्यया दृष्ट्या पश्य­न्ने­वा­वि­लु­प्तया ||
द्रष्टऽऽस्ते प्रज्व­ल­न्त्याऽत्र सुषुप्ते यो विवक्षितः || १५५७ ||

एवं तावत्स्थितं पूर्वं पश्यन्निति यदीरितम् ||
न पश्यतीति यत्तूक्तं तदिदानीं प्रपञ्च्यते || १५५८ ||

न पश्यतीदं द्रष्टव्यमिति यत्सूत्रितं पुरा ||
पश्यन्नेव यदि ह्यास्ते कथं तदुपपद्यते || १५५९ ||

यथोपपद्यते सर्वं शृणु तच्चापि भण्यते ||
पश्य­न्ने­वा­य­म­त्राऽऽस्ते पूर्व­हे­तु­स­मा­श्र­यात् || १५६० ||

तत्तु द्वितीयं नेहास्ति द्रष्टव्यं यत्समाश्रयात् ||
विशे­ष­बु­द्ध्य­भि­व्य­क्ति­र्जा­ग्र­द्भू­मा­वि­वे­ष्यते || १५६१ ||

ननु द्रष्ट­व्य­म­स्त्येव द्वैता­द्वै­ता­त्म­क­त्वतः ||
ब्रह्मणोऽस्य कथं नास्ति द्रष्टव्यमिति भण्यताम् ||
द्रष्टव्यं स्याद्विभक्तं तत् नाविभक्तं यथोदितम् || १५६२ ||

यदि ह्यन्यत्ततो द्रष्टुर्दृश्यं तत्स्या­द्वि­भा­ग­वत् ||
ततः पश्येद्विभक्तं सन्न त्वेवमिह विद्यते || १५६३ ||

पश्य­न्ने­वा­य­म­त्राऽऽस्ते द्रष्ट­व्या­सं­भ­वा­त्सदा ||
न पश्यतीति द्रष्टोक्तो न तु दृष्टिविनाशतः || १५६४ ||

ज्वलन्नपि यथा वह्नि­र्ना­न­भ्या­हि­त­मि­न्ध­नम् ||
दहतीह तथा द्रष्टा नाप्राप्तं दृश्यमीक्षते || १५६५ ||

व्याख्या­न­मे­त­त्सु­धियां श्रद्दधाना उपासते ||
युक्त्य­क्ष­र­ब­हि­ष्ठ­त्वान्न विद्वांस उपासते || १५६६ ||

यथा चेदमसंबद्धं न युक्त्य­क्ष­र­सं­श्र­यम् ||
तथाऽ­स­कृ­त्पु­राऽ­प्यु­क्त­म­धु­नाऽ­प्य­भि­धी­यते || १५६७ ||

पश्य­न्ने­वा­य­म­त्राऽऽत्मा सुषुप्ते व्यवतिष्ठते ||
एवं स तत्त्व एवायमिति हेतुरिहोदितः || १५६८ ||

न च प्रादु­र्भ­व­त्यस्य ज्ञान­म­न्य­द्वि­शे­ष­वत् ||
न पश्यतीति वाक्यस्य व्याख्या­न­मि­द­मी­रि­तम् || १५६९ ||

पश्यन्नेवेति चेदे­त­द्व­स्तु­या­था­त्म्य­मु­च्यते ||
इत्थं स तत्त्व इत्युक्त्या कथं द्रष्टृ­क्रि­यो­च्यते || १५७० ||

द्रष्ट्रधीना क्रिया­दृ­ष्टि­रिति चेद्भवतोच्यते ||
कथं विपरिलोपोऽस्याः क्रियात्वे सति वार्यते || १५७१ ||

अभू­त­दृ­ष्टि­क­र्तृत्वे द्रष्टृत्वं द्रष्टुरिष्यते ||
प्रादुर्भावे तथाऽसत्याः क्रियायाश्च क्रियात्मता || १५७२ ||

द्रष्ट्रा च क्रियते दृष्टिर्न चासौ परिलुप्यते ||
इति स्वव­च­सै­वै­त­द्वि­रु­द्ध­म­भि­धी­यते || १५७३ ||

कार्यस्यापि च नित्यत्वं वच­ना­च्चे­त्प्र­सि­ध्यति ||
वच­न­स्या­प्र­मा­णत्वं कार­क­त्वा­त्प्र­स­ज्यते || १५७४ ||

प्रमाणं बोधकं सर्वं तच्च सिद्धस्य वस्तुनः ||
पूर्वं प्रमा­ण­सं­ब­न्धा­द्व्य­ङ्ग्य­व्य­ञ्ज­क­सं­गतेः || १५७५ ||

अनुमानविरोधस्य वचसोऽस्य प्रसज्यते ||
अविनाभाविता यस्मा­द­नि­त्य­कृ­त­क­त्वयोः || १५७६ ||

द्वौ पदा­र्था­वु­प­न्य­स्ता­वि­त्ये­त­द­ति­दु­र्घ­टम् ||
यतो न पश्य­ती­त्ये­त­द­नू­द्या­न्य­द्वि­भा­व्यते || १५७७ ||

न पश्यतीति प्राप्त­त्वा­न्ना­पू­र्वोऽ­र्थोऽ­व­बो­ध्यते ||
न पश्य­ती­त्य­तोऽ­नूद्य पश्यन्निति विधीयते || १५७८ ||

पश्यन्नित्यस्य वा व्याख्या कार­क­त्व­नि­वृ­त्तये ||
न पश्यतीति वचनं न त्वर्था­न्त­र­मु­च्यते || १५७९ ||

किमयं दृष्टि­का­रि­त्वा­त्पु­मा­न्द्र­ष्टेति भण्यते ||
दृष्ट्यात्मकं वा किं वस्तु द्रष्टेत्यत्र विवक्ष्यते || १५८० ||

न ताव­द्दृ­ष्टि­क­र्तृत्वं कौट­स्थ्या­दा­त्म­व­स्तुनः ||
कौटस्थ्यसिद्धौ हेतूंश्च प्रागवोचमनेकशः || १५८१ ||

क्रिया­का­र­क­रू­पस्य प्रत्य­ङ्म­त्र­स­त­त्त्वतः ||
नातोऽस्य कारकत्त्वं स्यात्सा­क्षि­त्वाच्च क्रियावताम् || १५८२ ||

बुद्ध्यु­पा­त्तस्य रूपा­दे­र्वि­ज्ञा­तृत्वं न चाऽऽत्मनः ||
भोक्तृत्वमपि तस्येह चैत­न्या­भा­स­व­र्त्मना || १५८३ ||

मणेरेव विकारोऽयं याऽल­क्ता­दि­स­रू­पता ||
नाल­क्त­का­दे­र्वि­कृ­ति­र्नि­ष्क्रि­य­त्वा­दि­हे­ष्यते || १५८४ ||

रक्त­त्वा­दि­प्र­सि­द्ध्यर्थं विक्रियां न प्रपद्यते ||
अलक्तकादिः सर्वत्र यथैवं ह्यात्मवस्त्वपि || १५८५ ||

गुणि­स्थि­त्य­नु­रो­धित्वं न च सर्वत्र वीक्ष्यते ||
गुणानां केशकृष्णत्वं व्येति केशेषु सत्स्वपि || १५८६ ||

अग्ने­रा­त्य­न्तिको नाशो भवताऽपि न मृष्यते ||
न चोष्णत्वं सतोऽप्यग्ेः काष्ठा­दा­वु­प­ल­भ्यते || १५८७ ||

गुणि­स्थि­त्य­नु­रो­धि­त्व­मस्तु नाम गुणात्मनः ||
द्रष्टु­र्दृष्टेः किमायातं क्रिया दृष्टिर्गुणो न तु || १५८८ ||

कारकाणां स्वभावोऽयं यदकृत्वा प्रवर्तनम् ||
यथाऽभूत्वा तथा भावः क्रिया­या­स्त­त्त्व­मु­च्यते || १५८९ ||

याव­द्द्र­व्या­नु­रो­धित्वं नावश्यं गुणकर्मणोः ||
द्रव्ये सत्यपि लोकेऽ­स्मि­न्व्य­भि­वा­रस्य दर्शनात् || १५९० ||