अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ (५)

जाति­क्रि­या­गु­णा­दीनां निषे­धा­दा­त्म­व­स्तुनः ||
अस्थूलं नेति नेतीति प्रती­चोऽ­न्य­न्नि­षि­ध्यते || १५९१ ||

द्रष्टुश्चापि न नित्यत्वं क्रियो­द्भू­ति­नि­मि­त्ततः ||
क्रियाकारकयो रूप­मि­त­रे­त­र­हे­तु­कम् || १५९२ ||

स्वमात्रेण न यत्सिद्धं तत्सिद्धं परतः कथम् ||
स्वमात्रेण च यत्सिद्धं तस्या­पे­क्षाऽ­न्यतः कुतः || १५९३ ||

न सिद्ध­यो­र्मि­थोऽ­पेक्षो न स्वतोऽ­सि­द्ध­यो­स्तथा ||
इत्यादेः पूर्व­मु­क्त­त्वा­न्नेह भूयोऽपि यत्यते || १५९४ ||

नासतो विद्यतेऽपेक्षा नापि कूटस्थवस्तुनः ||
शक्त्यवस्थं यतो वस्तु हेत्वपेक्ष्येति विक्रियाम् || १५९५ ||

नित्यं न भवनं यस्य यस्य वा नित्यभूतता ||
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव || १५९६ ||

उत्पत्त्यादौ तु यच्छक्तं शक्ति­मा­त्रा­त्मना स्थितम् ||
तदेव हेत्वपेक्षं सदुत्पत्त्यादि प्रपद्यते || १५९७ ||

उत्प­त्त्या­दा­व­श­क्त­त्वा­त्कौ­ट­स्थ्या­दा­त्म­व­स्तुनः ||
अद्वि­ती­य­त्व­त­श्चास्य नोत्पत्त्यादि प्रसिध्यति || १५९८ ||

शक्त्यवस्थानि वस्तूनि योग्य­हे­तो­र­सं­भ­वात् ||
नाऽऽर्तवानि प्रसूयन्ते योग्यहेतौ च तज्जनिः || १५९९ ||

कार्यं नाक्रियमाणं सन्ना­कु­र्व­त्का­रणं तथा ||
मिथो न व्यतिरेकेण सिध्येते कार्यकारणे || १६०० ||

वस्त्वेव दृष्टिरत्रातो न क्रिया नापि कारकम् ||
तस्मा­दे­वा­वि­ना­शि­त्वा­दिति हेतुरिहोदितः || १६०१ ||

निर्णीतं प्रथमं वस्तु पश्यन्निति यदीरितम् ||
न पश्यतीति यत्तूक्तं तस्य व्याख्याऽ­धु­नो­च्यते || १६०२ ||

दृष्टे­र­प­रि­लो­प­श्चे­दथ कस्मान्न पश्यति ||
प्रबो­ध­व­त्सु­षु­प्तेऽ­स्मि­न्निति प्रतिविधीयते || १६०३ ||

पश्य­न्ने­वा­य­मा­त्मेति यथो­क्त­न्या­य­सं­श्र­यात् ||
न तु द्वितीयं जाग्र­द्व­त्प­श्य­त्यात्मा सुषुप्तगः || १६०४ ||

द्वितीयं नेक्षते कस्मा­दि­त्य­त्रै­वा­भि­धी­यते ||
हेतुर्न तु तदस्तीति पश्येद्यद्वस्तु बोधवत् || १६०५ ||

विशे­ष­दृ­ष्ट्य­भि­व्य­क्ति­र्य­दा­श्रित्य प्रसिध्यति ||
न तदस्ति यत­स्त­स्मा­त्प­श्य­न्नपि न पश्यति || १६०६ ||

इति व्याख्या न साध्वीयं द्रष्टव्यासंभवे यतः ||
न प्रात्यक्ष्यं द्रष्टृ­दृष्ट्योः स्यात्सु­षु­प्त­प्र­सि­द्धि­वत् || १६०७ ||

तम­स्य­व­स्थि­तोऽ­प­श्य­ञ्ज्ञा­तृ­ज्ञा­न­त­मांसि हि ||
प्रपद्यते विवेकेन यथा कुम्यादिवीक्षणे || १६०८ ||

न प्राज्ञे तु ततोऽयुक्तं दृश्य­मा­त्र­नि­षे­ध­नम् ||
ग्राह­क­ग्र­ह­ण­ग्रा­ह्य­भा­वा­भा­वा­द्य­प­ह्नुतेः || १६०९ ||

ननु चास्त्येव तद्दृश्यं सम­स्त­व्य­स्त­रू­पतः ||
यथोक्तवस्तुनो मैवं तस्या­न­त्य­न्त­भे­दतः || १६१० ||

बाढमस्त्वेव तद्दृश्यं न त्वत्य­न्त­वि­भा­ग­वत् ||
स्याद्विभक्तं तद­न्य­च्चे­त्प­श्ये­देव प्रबोधवत् || १६११ ||

नात्यन्तमेव सर्वत्र विभागोऽयं समीक्ष्यते ||
विशे­ष­ण­म­तोऽ­न्या­य्य­म­त्य­न्त­मिति भण्यते || १६१२ ||

विभक्तमविभक्तं वा वस्तु वस्त्व­न्त­रा­श्र­यात् ||
सर्वैकत्वे विभागो वाऽविभागो वा न युज्यते || १६१३ ||

यद्धि यस्माद्विभक्तं स्यात्तदेव स्यात्ततः कथम् ||
अविभक्तं विरु­द्ध­त्वा­त्त­स्मा­दु­क्त­म­शो­भ­नम् || १६१४ ||

अप­ह्नु­ति­र्वि­भा­गस्य ह्यवि­भ­क्त­गि­रो­च्यते ||
विभागान्नापरं वस्तु ह्यविभक्तगिरा ततः || १६१५ ||

अन्य­द्वि­भ­क्त­मिति च तथा द्रष्ट­व्य­मि­त्यपि ||
सामर्थ्यादेक एवार्थो भूयो भूयोऽभिधीयते || १६१६ ||

अस्मत्पक्षे तु दोषोऽत्र मनागपि न विद्यते ||
द्रष्टव्यो दृष्टि­यो­ग्योऽर्थो ह्यन्योऽनन्यश्च युज्यते || १६१७ ||

पर­मा­र्था­त्म­न­स्त­द्व­त्क­ल्पि­ता­ज्ञा­न­ल­क्षणः ||
अविभक्तोऽपि चान्यः स्याद्वै­ल­क्ष­ण्या­त्प­र­स्प­रम् || १६१८ ||

धर्मादीनां विभ­क्त­त्व­म­वि­भ­क्तेऽपि धर्मिणि ||
एवं न पुनरुक्तत्वं द्रष्टव्यादेः प्रसज्यते || १६१९ ||

साक्ष्यार्थो दृष्टियोग्यः स्यादन्यो मात्रादिरात्मनः ||
द्रष्टृ­द­र्श­न­दृ­श्यार्था विभक्ताः स्युः परस्परम् || १६२० ||

द्वैता­द्वै­ता­त्म­कत्वं च प्रवा­णा­न्नो­प­प­द्यते ||
यथेह वस्तुनः साक्षात्तथा पूर्वमवादिषम् || १६२१ ||

पूर्ववाक्ये यथा व्याख्या कृता कृत्स्ना तथैव सा ||
उत्तरेष्वपि वाक्येषु कर्तव्या पण्डितैरतः || १६२२ ||

दर्श­ना­दि­क्रि­याणां यदस्तित्वं तन्न वास्तवम् ||
सद­स­त्त्वा­दि­सं­भे­द­शू­न्य­त्वा­दा­त्म­व­स्तुनः || १६२३ ||

विदि­ता­द­न्य­दे­वै­त­त्त­थै­वा­वि­दि­ता­दधि ||
ब्रह्मा­त्म­व­स्त्विति ज्ञेयमिति श्रौतं वचः स्फ़ुटम् || १६२४ ||

द्रष्टुरिति तृजन्तेन कर्तृ­त्व­म­भि­धी­यते ||
द्रष्टा कस्ये­त्य­पे­क्षायां दृष्टे­रि­त्य­भि­धी­यते || १६२५ ||

दृष्टिरित्यपि भावः स्यात्स­मा­प्तिर्या क्रियात्मनः ||
फ़लाश्रितोऽसौ भावोऽत्र दृष्टिशब्देन भण्यते || १६२६ ||

फ़लं प्रकाशनं ज्ञानं तत्कर्तृत्वं च वस्तुनः ||
प्रत्ये­क­मु­च्य­तेऽ­त्रै­त­द्वा­क्ये­प्वे­तेषु वस्तुनः || १६२७ ||

इह यद्दूषणं वाच्यं तदुक्तमिति नोच्यते ||
कार­का­दे­र­स­द्भा­वा­त्सु­षुप्ते परमार्थतः || १६२८ ||

कार­का­दि­वि­ध­र्माऽपि प्रत्य­ग­ज्ञा­न­हे­तुजैः ||
ग्राह­क­ग्र­ह­ण­ग्रा­ह्य­रू­पै­रा­त्मे­क्ष्यते तथा || १६२९ ||

कर्तृ­का­र्या­व­भा­सि­त्वा­त्क­र्तृ­का­र्य­दि­सा­क्ष्य­यम् ||
कर्तृ­का­र्या­दि­व­द्भाति कूट­स्थोऽ­प्या­त्म­मो­हतः || १६३० ||

एकैवेयमतो दृष्टि­र्ज­न्म­हा­ना­दि­व­र्जिता ||
बहु­त्व­ज­न्म­ना­शादि यात्य­वि­द्यो­त्थ­सं­गतेः || १६३१ ||

यन्न रसयतीत्यत्र विजानन्वा इतीर्यते ||
विरूपं प्रस्तु­ता­द्रू­पा­द­न्याय्यं भण्यते कुतः || १६३२ ||

नैष दोषोऽत्र विज्ञ­प्ति­मा­त्र­रूपे परात्मनि ||
दृष्ट्या­दि­श­क्ति­भे­दोऽयं मा प्रसा­ङ्क्षी­दि­ती­र्यते || १६३३ ||

यत एवमतो ज्ञप्ति­मा­त्र­मे­वा­भि­धी­यते ||
दृष्ट्या­दि­श­ब्दै­स्त­स्माच्च सलि­ला­दि­व­चोऽ­र्थ­वत् || १६३४ ||

बाह्य­दृ­ष्ट्या­द्यु­पा­धिस्था प्रत्य­गा­त्मै­क­ल­क्षणा ||
दृष्टि­र्दृ­ष्ट्या­दि­वा­च्येह विनाशादिनिषेधतः || १६३५ ||

अन्तर्भावेऽपि दृष्ट्यादौ मतिविज्ञानयोरिह ||
स्वातत्र्येणापि तद्वृत्तेः सिद्धेर्भूयः पृथग्ग्रदहः || १६३६ ||

दह­नौ­ष्ण्या­दि­व­द्व­ह्ने­र्वि­भिन्नाः स्युः परस्परम् ||
द्रुष्टु­र्दृ­ष्ट्या­दयो धर्मा भिन्ना­भि­न्ना­त्मना स्थिताः || १६३७ ||

उतैकस्यैव धर्मस्य तदबोधोत्थभेदतः ||
भेदोऽयं लक्ष्यते मोहाद्रवेः स्वोत्थै­र्ज­लै­रिव || १६३८ ||

इह व्याचक्षते केचि­न्ना­ना­त्वै­क­त्वा­रू­पता ||
स्वत एवाऽऽत्मनो ग्राह्या चैतन्यमिव सर्वदा || १६३९ ||

भेदाभेदात्मकं सर्वं वस्तु दृष्टं यतस्ततः ||
परपक्षे न दृष्टान्तः कश्चि­द­प्यु­प­ल­भ्यते || १६४० ||

एकैव गोता गोपिण्डे सास्ना­द्य­र्था­नु­सा­रिणी ||
सास्नादयो मिथो भिन्ना न चान्यो­न्य­वि­रो­धिनः || १६४१ ||

न च सामा­न्य­बु­द्ध्येह भेद­बु­द्धि­र्नि­व­र्तते ||
नापि सामान्यधीबाधो विशे­षो­त्थ­धि­ये­ष्यते || १६४२ ||

स्थूलेषु यद्व­त्सा­मा­न्य­वि­शे­षा­त्म­कता तथा ||
संभावनीया निःशे­ष­सू­क्ष्म­व­स्तु­ष्व­पी­दृशी || १६४३ ||

नाना­त्वै­क­त्व­व­त्स्थूलं दृष्टं वस्तु यथा तथा ||
आत्मा­द्य­ती­न्द्रियं वस्तु वस्तुत्वदिति गम्यताम् || १६४४ ||

इत्येवं पण्डितंमन्या अनुमानबलादिह ||
भिन्ना­भि­न्ना­त्मकं वस्तु स्थाप­य­न्त्य­वि­शे­षतः || १६४५ ||

इत्यु­क्त­प­रि­फ़­ल्गु­त्व­प्र­बो­धा­या­भि­धी­यते ||
न्यायः श्रेयोर्थिना मा भूद्भ्रा­न्ति­र्वे­दा­न्त­व­स्तुनि || १६४६ ||

भेदग्राहि न नो मानं कृत्स्नेऽपि जगतीक्ष्यते ||
वस्तु­स्व­रू­प­मु­ज्झित्वा मेयं नास्त्यपरं मितेः || १६४७ ||

न च स्वरूपे भेदोऽस्ति कस्यचिद्वस्तुनः क्वचित् ||
स्वरू­पा­च्चा­न्यतो भेदः प्रमाणाभासगोचरः || १६४८ ||

असाधारणरूपेण व्यावर्तन्ते परस्परम् ||
यथा विशेषाः सामान्यं तथा व्यावर्तते ततः || १६४९ ||

तेऽपि सामान्यमात्रं चेद्विशेषा भवतो मताः ||
विशे­ष­वि­र­हा­त्तर्हि सामान्यमपि दुःस्थितम् || १६५० ||

भिन्नं वा स्यान्न वा भिन्नं सामान्यं चेद्विशेषतः ||
भेदे विशेष एव स्यात्सामान्यं खण्डमुण्डवत् || १६५१ ||

भेद­भे­द­व­तो­र्भि­त्ता­व­न­वस्था प्रसज्यते ||
धर्म­ध­र्म्य­प्र­सि­द्धिश्च तदभेदेऽपि सज्यते || १६५२ ||

आत्मैव चेद्विशेषाः स्युर्धर्मिणो धर्मलक्षणाः ||
व्यतिरेको न संसि­ध्ये­दा­त्मत्वं स्यात्त­दाऽऽ­त्मनः || १६५३ ||

स्वयं रूपत्वतो नाऽऽत्मा ह्यात्मनो व्यतिरिच्यते ||
अनात्माभिजना ह्येषा व्यावृ­त्ति­र्याऽऽ­त्मनो भवेत् || १६५४ ||

न च धर्म्य­न्त­रा­सत्त्वे प्रत्य­गा­त्मा­ति­रे­किणः ||
धर्मा लभन्त आत्मानं पार­त­न्त्र्या­त्म­क­त्वतः || १६५५ ||

धर्म्यन्तरस्य चास्तित्वे प्रतिज्ञार्थो न सिध्यति ||
सम­स्त­व्य­स्ता­ता­रूप आत्मैवैक इतीरितः || १६५६ ||

व्यस्ता अपि तदात्मानो धर्माः स्युश्चे­त्स­म­स्त­वत् ||
विशेष उच्यतां कोऽत्र सम­स्त­व्य­स्त­रू­पयोः || १६५७ ||

धर्म्य­न्त­रा­श्रि­तै­र्ध­र्मै­र्नान्यो धर्मी विशेष्यते ||
धर्मि­ध­र्म­त्व­रू­पस्य संब­न्ध­स्या­स­म­न्व­यात् || १६५८ ||

नेति नेत्या­दि­वा­क्यानां नैरर्थक्यं च सज्यते ||
सम­स्त­व्य­स्त­रू­पत्वं यदि स्याद्ब्रह्मणः श्रुतेः || १६५९ ||

व्युत्थाप्य ब्रह्मणो द्वैतं तदनूद्य श्रुतिः पुनः ||
आत्मै­वे­त्य­ब्र­वी­त्सा­क्षा­त्कुतो भेदस्य संभवः || १६६० ||

व्याव­र्त­तेऽ­स्व­रूपं चेत्स्व­रू­पा­द्वस्तु मानतः ||
अनवाप्तस्वरूपं सद्वस्तु स्याच्छ­श­शृ­ङ्ग­वत् || १६६१ ||

मानं विधिमुखं मुक्त्वा न व्यावृ­त्त्ये­क­व­र्त्मना ||
लभते मेयसंबन्धं तत्स­द्व­स्तू­प­ल­म्भतः || १६६२ ||

अघटादिव्युदासेन न घटाद्यर्थसंगतिः ||
मिते­र­ने­वं­ध­र्म­त्वा­न्ना­भावे व्यापृतिर्मितेः || १६६३ ||

अप्र­सि­द्ध­घ­टा­द्य­र्थोऽ­घ­टा­द्य­र्था­प­नो­द­नम् ||
मानेनेह कथं कुर्या­द­न्यो­न्या­श्र­य­का­र­णात् || १६६४ ||

घट­बो­ध­प्र­यु­क्ते­य­म­घ­टस्य ह्यपाक्रिया ||
अघ­टा­र्थ­व्यु­दा­साच्च घटा­र्थ­स्या­व­बो­ध­नम् || १६६५ ||

घटवच्चाघटस्यापि तदन्यापाक्रियां विना ||
नैवा­धि­ग­ति­रि­त्ये­व­म­न­वस्था प्रसज्यते || १६६६ ||

मातृ­मा­ना­प्र­सि­द्धिश्च तदन्यापोहनादृते ||
ताभ्यां विना प्रमेयोऽर्थो नितरां न प्रसिध्यति || १६६७ ||

पृथक्त्वं चापृथक्त्वं च गुणो येषां च वादिनाम् ||
तत्प्र­क्रि­या­नु­सा­रे­णा­प्यत्र नैवास्ति भेदधीः || १६६८ ||

पृथ­ग्गु­ण­स्त­तोऽ­न्यभ्यः पृथक्त्वे वा पृथग्गुणात् ||
अपृथग्वा मिथस्ते स्युर्न तथाऽपि भिदेक्ष्यते || १६६९ ||

अपृ­थ­क्त्वा­गु­ण­द्रव्यं पथक्त्वं संश्रयेत्कथम् ||
पर­स्प­र­वि­रो­धि­त्वा­च्छैत्यं यद्वदविभावसुम् || १६७० ||

पार­त­न्त्र्य­स्व­भा­वाच्च न चाप्रा­प्त­स­मा­श्रयः ||
गुणत्वं लभते लोके गुणः कश्चिद्गुणी यथा || १६७१ ||

असंभित्तिः पृथक्त्वस्य ततोऽन्यभ्यः प्रसज्यते ||
पृथक्त्वस्य न चेद­न्य­त्पृ­थ­क्त्वा­न्त­र­मि­ष्यते || १६७२ ||

अन्यापेक्षं पृथक्त्वं च स्वय­मे­वा­पृ­थ­ग्घटः ||
बली­या­न­न्त­र­ङ्ग­त्वा­द्ब­हि­रङ्गं प्रबाधते || १६७३ ||

पृथग्गुणाच्च व्युत्थाप्य द्रव्यादेः किं स्वलक्षम् ||
स्वतोऽ­पृ­थ­क­त्वा­त्स­र्वस्य पृथक्त्वमपि दुर्लभम् || १६७४ ||

अथा­नु­भ­व­तोऽ­स्तीति पृथक्त्वं भवतो मतम् ||
मैवं मिथ्या­नु­भू­ति­त्वा­च्छु­क्ति­का­र­ज­ता­दि­वत् || १६७५ ||

नैकानुभूतिबलतो वस्तुनो लभ्यते भिदा ||
भिन्नानुभूतितो नापि मिथ­स्ता­सा­म­सं­गतेः || १६७६ ||

एकस्यामनुभूतौ चेद्भेदो नाऽऽत्मन इष्यते ||
मृषा तत्रैव स मिथो व्यभि­चा­रा­द­ध्रुवं भवेत् || १६७७ ||

नानुभूतिः प्रती­ची­य­म­भे­दा­द्भे­द­मी­क्षते ||
स्वरू­पा­व्य­ति­रे­काच्च नापि चानात्मनीक्षते || १६७८ ||

न चैकबुद्धिबाधेन द्व्यादि­धी­रु­प­जा­यते ||
तत्का­र­ण­त्वा­त्त­द्बु­द्धे­र्मृ­त्स्नेव घटजन्मनः || १६७९ ||

द्वित्र्या­दि­बु­द्धि­रे­क­स्मि­न्मि­त्याऽ­त­द्रू­प­व­स्तुनः ||
समू­ह­स्यो­भ­य­त्वेऽपि स्मृते­र­प्य­प्र­मा­णतः || १६८० ||

न चेत्समूहो वस्त्वस्ति एकै­क­त्वा­त्स­मू­हि­नाम् ||
सत्यत्वेऽपि तथै­क­त्वा­न्ना­ने­कत्वं तथाऽपि च || १६८१ ||

अद्वैतविषयैवेयं द्वौ त्रयश्चेति या मतिः ||
एक­त्वा­त्स­मु­दा­यस्य न प्रमाऽतो भिदां प्रति || १६८२ ||

यदि प्रत्य­क्ष­ग­म्योऽर्थो व्यावृ­त्ते­स्त­त्पृ­थ­क्त्वतः ||
न प्रत्य­क्षा­भि­सं­बन्धः कुम्भ­प्र­त्य­क्षतो भवेत् || १६८३ ||

प्रत्य­क्ष­ग­म्य­ध­र्म­श्चे­द्व्या­वृ­त्ति­र्भ­व­तो­च्यते ||
धर्मिप्रतीतिरेव स्यात्साऽपि चेहैककर्मिका || १६८४ ||

धर्मिबुद्धेर्न धर्मेषु बुद्धिभेदः प्रजायते ||
देश­का­ला­द्य­भि­न्न­त्वा­दे­का­त्म­त्वाच्च संविदः || १६८५ ||

सत्तत्त्वं सर्वभावानां तत्र तावन्न भेदधीः ||
भेदधीविषयो यश्च तस्मा­त्स­द्धी­र्नि­व­र्तते || १६८६ ||

सतैव सर्ववस्तूनि बिभ्र­त्या­त्मा­न­मा­त्मना ||
कल्पि­त­त्वा­द­ने­क­त्वा­द्र­ज्जु­स­र्प­द्वि­च­न्द्र­वत् || १६८७ ||

प्रकृ­त्य­र्था­ति­रे­केण प्रत्ययार्थो न गम्यते ||
सत्तेत्यत्र ततः स्वार्थ­स्त­द्धि­तोऽत्र भवन्भवेत् || १६८८ ||

सति व्यभिचरत्येव तदन्यद्वस्तु मोहजम् ||
सर्पा­दि­व­स्तु­व­त्त­स्मा­त्स­त्स­त्य­मि­त­र­न्मृषा || १६८९ ||

व्युत्थिता हि सतो भेदाः प्रत्य­क्षा­ग­म­लि­ङ्गतः ||
अभावात्मकतां प्राप्ता गम्यन्ते नेश्वरैरपि || १६९० ||

सदेकत्वमशेषेषु वस्तु­ष्व­व्य­भि­चारि हि ||
व्यभिचारि ततोन्यद्वत् वस्त्व­तोऽ­द्वै­त­मेव सत् || १६९१ ||

व्युत्थाय न सतो यस्माद्वस्तु संभावनामपि ||
अभावमपि नाऽऽप्नोति काऽऽस्था भूत्यै विनाऽऽत्मना || १६९२ ||

सत्सिद्धिमेव संभाव्य सिद्धाः स्मेत्यभिमन्वते ||
सर्वे भावाः स्रजा यद्वद्भोगी सिद्धायतेऽन्यतः || १६९३ ||

प्रत्यक्षेणापि नाभावः क्वचिज्जगाति मीयते ||
तस्य सद्व­स्तु­मे­य­त्वा­द­भा­व­स्या­प्य­सं­भ­वात् || १६९४ ||

कामं घटाद्यभावोऽयं प्रत्य­क्षा­द­व­सी­य­ताम् ||
प्रत्य­क्षा­भा­व­सं­सिद्धौ किं प्रमा­ण­मि­ती­र्य­ताम् || १६९५ ||

कार्य­रू­पा­भि­धा­भे­दा­द­ती­ता­ना­ग­ते­ष्विव ||
ऐकात्म्यं सर्वभावानां भिन्न­ना­मा­दि­म­त्स्वतः || १६९६ ||

अथ ब्रवीषि भेदोऽत्र स्याद्व­यो­र्ध­र्म­ध­र्मिणोः ||
व्यावृ­त्ते­र्ध­र्म­ध­र्मित्वं न तयोरुष्णशीतवत् || १६९७ ||

न भाव­यो­र­सं­भि­त्ते­र्ध­र्म­ध­र्मि­त्व­मि­ष्यते ||
नित­रा­म­भा­व­यो­र्न­स्यात् न विरु­द्धा­वि­रु­द्धयोः || १६९८ ||

निर्भेदकस्य कुम्भस्य भेदः केनेति भण्यताम् ||
वस्त्वात्मनैव चेत्तर्हि मत्पक्षः साध्यते त्वया || १६९९ ||

वस्तु­स्व­रू­प­मु­ज्झित्वा नान्यत्र व्यापृतिर्मितेः ||
अस्ति यस्मादतोऽद्वैतं वस्तु वस्तुनि सर्वदा || १७०० ||

व्यावृ­त्ति­र­नु­वृ­त्तिर्वा सर्वस्यैवास्य वस्तुनः ||
अद्वैतपक्षो भवता मदीयोऽयं प्रसाध्यते || १७०१ ||

व्यावृ­त्तोऽ­य­मिति ज्ञानं किं कुम्भे किं ततोऽन्यतः ||
अव्या­वृ­त्त­स्व­रू­प­त्वा­त्कुम्भे तावन्न धीरियम् || १७०२ ||

नाप्य­कु­म्भ­व्यु­दा­सेन कुम्भस्य स्याद्विशेषणम् ||
न ह्यम्भस्थेन शैत्येन शिखिनः स्याद्विशेषणम् || १७०३ ||

अस्यायमिति षष्ठ्यर्थः प्रत्य­क्षा­द­व­ग­म्यते ||
घटाभावः पटे किं न कुतो वाऽस्त घटेऽस्तिता || १७०४ ||

भावाभावौ सतो न स्तः सत्त्वादेवासतः कुतः ||
नान­यो­र्ध­र्म­ध­र्मित्वं विरोधादितरेतरम् || १७०५ ||

सर्वे भावाः स्वयं सन्तो व्यावृत्तिः किंसमाश्रया ||
निराकृता स्वयं सद्भिर्यथा वियति कृष्णिमा || १७०६ ||

नभोवत्सदिदं सर्वं तत्र यत्तत्सदात्मना ||
साध्यत्वं नान्यथा दृष्टमसतो यदि वा सतः || १७०७ ||

वस्त्व­न्त­रा­च्चे­द्व्या­वृ­त्ति­रि­ष्यते ह्यन्यवस्तुनः ||
वस्तु­त्वा­त्सा­स्त्वऽ­भा­वस्य वस्तु नो चेत्कुतो भिदा || १७०८ ||

घटो भावा­त्म­नाऽऽ­प्नोति त्वत्साध्यं चेदशेषतः ||
घटीभूतमिदं सर्वं द्वैतं ते किंप्रमं मतम् || १७०९ ||

बोधकं यत्प्रमेयस्य तत्प्र­मा­ण­मि­हे­ष्यते ||
न च प्रमा­ण­ना­स्ति­त्व­मी­दृ­क्त­स्मान्न युज्यते || १७१० ||

मेयाभावः प्रमाणानां यद्यभावेन गम्यते ||
प्रमा­णा­ना­म­भा­वस्य गमकः को भविष्यति || १७११ ||

एक­प्र­त्य­य­नि­र्ग्रा­ह्य­मेकं वस्त्विति भण्यते ||
प्रत्य­भि­ज्ञा­ब­ला­द्वाऽपि नाभा­वेऽ­स्त्यु­भयं हि तत् || १७१२ ||

दर्श­न­स्प­र्श­नाभ्यां स्याद्य­थै­का­र्थ­ग्र­ह­स्तथा ||
प्रत्य­क्षा­भा­व­मा­नाभ्यां नानु­भू­ति­रि­हास्ति नः || १७१३ ||

न प्रमाणं प्रमेयं वा तदभावविशेषणम् ||
तदा द्वयो­र­सं­सि­द्धे­र्वि­रो­धा­च्चा­प्य­सं­गतिः || १७१४ ||

यद्यसन्नपि धर्मः स्यान्नै­पु­ण्या­द्भ­वतः क्वचित् ||
नभो मूर्तं घटोऽमूर्तो विश्रब्धैः किं न साध्यते || १७१५ ||

न भाव­यो­र­भि­न्न­त्वा­द्ध­र्म­ध­र्मि­त्व­मि­ष्यते ||
नितरामभावयोर्न स्याद्दूरतो भावाभावयोः || १७१६ ||

नाऽऽत्मना वस्तुना भेदो भेद­स्या­न्य­व्य­पा­श्र­यात् ||
अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना || १७१७ ||

स्वतोऽ­भि­न्न­स्व­भा­व­त्वान्न भेदोऽ­न्यो­न्य­सं­श्रयः ||
उभयोरप्यसंभेदः कथं भिन्द्या­द्वि­रो­धि­नम् || १७१८ ||

विशे­ष­ण­प्र­भे­देऽपि विशेष्योऽर्थो न भिद्यते ||
शुक्ल­कृ­ष्णा­दि­भे­देऽपि गोपिण्डो न हि भिद्यते || १७१९ ||

विशेषणं विशे­ष्या­च्चे­द्वि­शे­ष्या­न्त­र­व­त्पृ­थक् ||
भिन्न­त्वा­त्सं­ग­तिर्न स्याद्वि­शे­ष­ण­वि­शे­ष्ययोः || १७२० ||

नैकधीगम्यता च स्याज्ज्ञा­न­स्या­यु­ग­प­ज्जनेः ||
युगपन्न हि विज्ञानं जायते घटमेषयोः || १७२१ ||

प्रागे­वा­ना­त्म­सं­ब­न्धा­दु­त्प­त्ता­वे­व­ल­ब्धतः ||
प्रत्य­ग्व­स्तु­प्र­मे­यस्य तावतैव कृतार्थतः || १७२२ ||

प्रमाणस्य ततोऽन्यस्मिन्न तन्मानत्वमर्हति ||
विरो­धि­व्य­भि­चा­रि­त्वा­त्त­द­न्यस्य च वस्तुनः || १७२३ ||

सर्वं मिथोऽनपेक्षं सत्स्वा­त्म­मा­त्र­वि­व­क्षया ||
प्रत्य­ग्रू­पा­त्परं रूपं न वस्तू­त्प्रे­क्ष्यते मितेः || १७२४ ||

यद्वस्तु स्वात्मनैवास्ति तत्परार्थं न बोधवत् ||
पारार्थ्येनैव सद्यच्च तत्प­र­स्मा­द्धि­रुङ्न सत् || १७२५ ||

असा­धा­र­ण­रू­प­त्वा­त्प्र­त्य­क्चि­न्मा­त्र­व­स्तुनः ||
तत्त­त्त्वा­नु­वि­धा­य्येव प्रमा­त्रा­दि­र्भ­व­न्भ­वेत् || १७२६ ||

द्रष्ट­व्या­द्य­नु­सा­रिण्या प्रत्य­ङ्भो­ह­प्र­सू­तितः ||
दृष्ट्या विरु­द्ध­दि­क्स्थस्य प्रतीचो दर्शनं कुतः || १७२७ ||

श्रुति­मा­ना­र्पितं चैतन्नावज्ञेयं विपश्चिता ||
पराञ्चीति तथा शास्रं न दृष्टेरिति च स्फ़ुटम् || १७२८ ||

विदि­ता­वि­दि­ताभ्यां नो व्युत्था­प्य­ब्र­ह्म­चा­ब्र­वीत् ||
नातो वस्त्वन्तरं ज्ञेयं तदन्यस्य निषेधतः || १७२९ ||

मनुते मनसा यन्न येनाऽऽ­हु­स्त­न्मनो मतम् ||
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते || १७३० ||

यतो वाचो निवर्तन्ते नेति नेतीति चापरम् ||
इति स्पष्टं वचो मानं कुतो हेतोरुपेक्ष्यते || १७३१ ||

द्रष्टुः प्रतीचि यत्सा­क्षा­त्प्र­त्य­ग्दृ­ष्ट्याऽ­व­सी­यते ||
दृष्ट्या­दि­ज­न्म­ना­शा­दि­सा­क्ष्य­भे­दा­त्मकं स्वतः || १७३२ ||

तदेतदिति मानेन तत्त्वमस्यादिना तथा ||
ब्रह्मेति बोध्यते साक्षा­त्त­त्त­मो­ध्व­स्ति­व­र्त्मना || १७३३ ||

ब्रह्मा­त्माऽऽ­त्मा­न­मे­वा­वे­दहं ब्रह्मेति च श्रुतेः ||
प्रत्य­ग्दृ­ष्ट्यैव तद्ब्रह्म दृश्यते न पराग्धिया || १७३४ ||

घटोऽत्रास्तीति वाक्येऽस्मिन्को न्वर्थः संप्रतीयते ||
मेयोऽ­न­धि­ग­त­स्ता­व­त्स्वा­नु­भू­त्यै­क­सि­द्धिकः || १७३५ ||

मात्रादिजन्मनः प्राक्च नानु­भू­त्य­ति­रे­कतः ||
द्रष्टृ­द­र्श­न­दृ­श्या­दि­व­स्त्व­न्य­द­व­सी­यते || १७३६ ||

मातृ­मा­न­प्र­मे­या­दे­र­न्यो­न्य­व्य­भि­चा­रतः ||
अन­न्या­नु­भ­वा­त्प्र­त्य­क्सं­वि­द­व्य­भि­चा­रिणी || १७३७ ||

संविदो व्यतिरेकेण वस्तु यद्य­त्प्र­सा­ध्यते ||
रज्जु­स­र्पा­दि­व­त्त­त्त­न्नैति संभावनामपि || १७३८ ||

संवि­द्दे­शा­दि­भे­देन वस्तु चेत्सा­ध्य­तेऽ­न्यतः ||
घटो नास्तीति चान्यद्वा संग­ति­र्ना­न­यो­र्मितेः || १७३९ ||

उपलब्धोऽस्ति सन्कुम्भो लम्बोष्ठो देशकालवान् ||
पूर्व­पू­र्वा­ति­रे­केण नोत्त­रोऽ­र्थोऽ­नु­भू­यते || १७४० ||

कर्त्रा­दि­व्या­पृतेः पूर्वं संवि­त्सं­वि­त्ति­मा­त्रतः ||
अवि­भा­गा­द­ना­ख्येयं तदुद्भूत्या फ़लायते || १७४१ ||

अक्रियेऽपि यथा व्योम्नि ह्युद्भू­ति­स्थि­ति­हा­निभिः ||
जगन्नर्नर्ति मय्येवं कार्य­का­र­ण­व­स्त्वि­दम् || १७४२ ||

नञ्घ­टा­र्था­व­प­ह्नुत्य संवि­त्स­द्रू­प­मा­त्रया ||
अवगत्यात्मना सत्त्व­म­वा­क्या­र्थ­त्व­म­श्नुते || १७४३ ||

दिग्वि­भा­गोऽ­वि­भा­गेऽपि व्योम्नि यद्व­त्प्र­क­ल्पितः ||
प्रध्व­स्त­शे­ष­भे­देऽपि मयि भिन्नधियस्तथा || १७४४ ||

स्वप्ने­भ­बु­द्धि­र्न­ष्टेऽपि स्वप्न आभाति जागरे ||
यथैवं मोहजं द्वैतं नष्टे मोहेऽपि सांप्रतम् || १७४५ ||

आगमादन्यतो माना­द्भि­न्ना­भि­न्न­त्व­मा­त्मनः ||
यथोक्तेन प्रकारेण न मनागपि गम्यते || १७४६ ||

प्रमा­न्त­रा­न­धि­गते मानानां मानतेष्यते ||
अग्निर्हिमस्य भेषजमिति चातोऽन्यथा भवेत् || १७४८ ||

मानान्तराच्च यत्प्राप्तं मानत्वं तत्र च श्रुतेः ||
न कथंचन संभा­व्य­म­नु­वा­द­त्व­का­र­णात् || १७४७ ||

प्रमा­न्त­र­वि­रुद्धं च मातुं नोत्सहते श्रुतिः ||
स्वगोचरेश्वरं मानं न मानान्तरगोचरे || १७४९ ||

श्रोत्रा­दि­क­र­णा­नीव नातो गोचरसंकरः ||
भिन्ना­भि­न्न­प्र­सि­द्ध्यर्थं न चेयं श्रुतिरिष्यते ||
``यद्वै तदि"ति वचस इतोऽ­न्या­र्थ­प­र­त्वतः || १७५० ||

दृष्ट्या­दि­भे­द­सि­द्ध्यर्थं नेदं वचनमिष्यते ||
भेदस्यातोऽन्यतः प्राप्तेर्न श्रुत्या तत्र यत्यते || १७५१ ||

किंतु चैतन्यमप्यस्य काम­क­र्मा­दि­व­द्भ­वेत् ||
न स्वतोऽ­द­र्श­ना­त्प्राज्ञ इत्या­श­ङ्क्यै­त­दी­रि­तम् || १७५२ ||

स्वप्न­प्र­बो­ध­यो­र्य­द्वत् दृष्टि­र­स्याऽऽ­त्मनः स्वतः ||
मात्रा­दि­वि­क्रि­या­ग्रा­म­सा­क्षिणी साऽविनश्वरी || १७५३ ||

प्राज्ञेऽपीयं तथैवाऽऽस्ते कूट­स्थै­का­त्म्य­ल­क्षण ||
भावाभावौ त्ववि­द्या­दे­र्वि­शेषः केवलस्त्विह || १७५४ ||

कामा­द्य­शे­षो­पा­धीनां निवृत्तौ न निवर्तते ||
तन्नि­वृ­त्त्ये­क­सा­क्षि­त्वा­त्का­मा­द्य­स्ति­त्व­सा­क्षि­वत् || १७५५ ||

भावा­भा­वा­र्थ­सा­क्षि­त्वा­द्भा­वा­भा­वा­त्मि­कैव सा ||
गृह्यतेऽविद्यया मूढैर्मणिः शुद्धो यथाऽऽश्रयैः || १७५६ ||

सत्यं ज्ञानमनन्तं च विज्ञा­न­घ­न­मि­त्यपि ||
प्रज्ञानं ब्रह्म चेत्येवं ज्ञान­मा­त्रा­त्म­ताऽऽ­त्मनः || १७५७ ||

दृष्टान्तश्च न नो नास्ति मण्यादेरिह संभवात् ||
मणे­र्नी­ला­दि­व­द्भेदो दृष्ट्या­दि­प्र­त्य­गा­त्मनः || १७५८ ||

प्रति­ज्ञा­हे­तु­दृ­ष्टान्ता भिन्ना­भि­न्न­त्व­वा­दिनः ||
मिथो भिन्ना न सन्तीह भिन्ना­भि­न्न­त्व­मा­त्रतः || १७५९ ||

दृष्टा­न्त­मा­त्र­ना­स्तित्वं दोषोऽस्मास्विह चोद्यते ||
दृष्टा­न्तोऽ­स्त्येव नः स्पष्ट­स्त्व­न्मु­खे­नैव तद्ग्रहात् || १७६० ||

भिन्ना­भि­न्न­त्व­वा­देऽ­स्मिन्यो भिन्नो भवतोच्यते ||
स एव नोऽस्तु दृष्टान्तो नातोऽन्यः प्रार्थ्यते मया || १७६१ ||

अवश्यमेव भिन्नार्थौ भिन्ना­भि­न्न­र­वा­विमौ ||
भव­तै­वा­भ्यु­पे­तव्यौ भिन्ना­भि­न्न­त्व­सि­द्धये || १७६२ ||

ऐकार्थ्यमेव चेदिष्टं भिन्ना­भि­न्ना­भि­धा­नयोः ||
तवैव न स्याद्दृ­ष्टान्तः सर्व­स्यै­क­स्व­रू­पतः || १७६३ ||

भिन्ना­भि­न्न­त्व­व­चसा न चैकार्थोऽपि भण्यते ||
भिन्ना­र्थ­प्र­ति­षे­ध­त्वा­द­भि­न्न­व­च­स­स्तव || १७६४ ||

गोभि­धा­ना­भि­धे­या­र्था­द्य­थे­हा­श्व­गि­रो­च्यते ||
भिन्नोऽर्थो भेदशब्दार्थान्न तथाऽभेदशब्दतः || १७६५ ||

सर्वा­त्म­क­त्व­सं­प्रा­प्ता­व­सा­धा­र­ण­व­स्तुनः ||
सर्वा­त्म­त्व­नि­षे­धार्थं प्रमा­भा­व­स्त्व­याऽऽ­श्रितः || १७६६ ||

भिन्ना­भि­न्न­त्व­वा­चेह तत्कृतं खातपूरितम् ||
सर्वैः सर्वस्य चाभे­दा­द्व्य­व­हा­रोऽपि नश्यति || १७६७ ||

एकैकं भेदतो वस्तु निःसंसर्ग परस्परम् ||
एकमेव त्वभेदे स्याद­सा­मा­न्य­वि­शे­ष­वत् || १७६८ ||

दृष्ट्यादिवचसां लोके प्रवृ­त्ते­र्ज्ञान एव च ||
दर्श­ना­ज्ज्ञ­प्ति­मात्रं स्यादर्थस्तेषां प्रसिद्धितः || १७६९ ||

पञ्च श्रोत्रादिभिः साक्षा­ज्जा­ना­मीति समीक्ष्यते ||
शब्दादीनिह लोकेऽतो दृष्ट्या­दे­र्ज्ञा­न­वा­च्यता || १७७० ||

येन रूपं रसं गन्धं शब्दा­न्स्प­र्शांश्च मैथुनान् ||
एतेनैव विजानातीत्यपि च श्रुतिशासनम् || १७७१ ||

लावकः पाचको वेति कारकस्य सतो यतः ||
संभेदोऽयं क्रियाभिः स्यान्ना­तोऽ­का­र­क­ता­न्वितः || १७७२ ||

गच्छतः पठतो भोक्तृ­न्ना­ना­क­र्म­कृतो रविः ||
यथा प्रकाशयत्येकरूप एव तथा धियः || १७७३ ||

दृष्य्या­दि­भि­न्न­चे­ष्टास्ता भिन्न­दे­शा­दि­ल­क्षणाः ||
एकरूपं परं ज्योतिरेकं सद्वीक्षते धियः || १७७४ ||

किंज्यो­ति­रि­त्यु­प­क्रम्य यत्नेन महताऽऽदरात् ||
अर्थोऽयमेव निर्णी­त­स्त­द्वि­रुद्धं किमुच्यते || १७७५ ||

मोहो­त्थो­पा­धि­सं­ब­न्धा­द­भि­न्नोऽपि स्वतोदृशिः ||
द्रष्टा श्रोतेति नानात्वं याति यद्वदलक्तकम् || १७७६ ||

रक्तादिभेदतो भेदः प्रकाशस्य प्रकाश्यतः ||
यथैवमात्मनो भेदो ज्योति­ष्ट्वा­द्भा­स्य­भे­दतः || १७७७ ||

निरंशेषु न चाप्येवं सभागेष्विव वस्तुषु ||
भिन्ना­भि­न्ना­त्मता शक्या कर्तुं साक्षादपीश्वरैः || १७७८ ||

न चापीह निरंशेषु भिन्ना­भि­न्न­त्व­क­ल्पने ||
दृष्टान्तः कश्चिदप्यस्ति जग­त्य­स्मिं­श्च­रा­चरे || १७७९ ||

दृगा­दि­श­क्ति­भे­दानां चक्षू­रू­पा­दि­भे­दतः ||
विकारकल्पनैतेन न्याये­नाऽऽ­त्म­न्य­पा­कृता || १७८० ||

कार्यलिङ्गाद्धि शक्ती­ना­म­स्तित्वं कारणत्वतः ||
यतोऽवगम्यते नातोऽकारके शक्तिरात्मनि || १७८१ ||

शक्ति­श­क्ति­म­तो­रैक्यं तयोर्भेदान्न युक्तितः ||
प्रतिपत्तुं क्वचिच्छक्यं प्रकृ­ति­प्र­त्य­या­र्थयोः || १७८२ ||

प्रकृ­त्य­र्थेऽ­थ­वाऽयं स्यान्म­तु­ब्यद्वा ततोऽन्यतः ||
पक्षासिद्धिर्हि पूर्व­स्मि­न्भे­दा­न्नैक्यं तथोत्तरे || १७८३ ||

आत्माविद्यैव नः शक्तिः सर्वशक्यस्य सर्जने ||
नातोऽन्यथा शक्तिवादः प्रमाणेनावसीयते || १७८४ ||

अशक्तं शक्तिमच्छक्त्या शक्तिः शक्तिमता तथा ||
अशक्तैति कथं योगमन्योन्यं हेत्वसंभवात् || १७८५ ||

शक्तयः सन्ति भूयस्यस्तयोरपि मतं यदि ||
तत्रापि तुल्य­चो­द्य­त्वा­द­न­वस्था प्रसज्यते || १७८६ ||

तस्मादज्ञात आत्मैव शक्ति­रि­त्य­भि­धी­यते ||
आकाशादेस्ततो जन्म यस्मा­च्छ्रु­त्याऽ­भि­धी­यते || १७८७ ||

नन्वेवं चेत्स्वभावोऽस्य निर्वि­भा­गै­क­दृ­ष्टिता ||
अथ स्वभावसंत्यागे को हेतुरिति भण्यताम् || १७८८ ||

विशे­ष­ज्ञा­न­मे­वास्य स्वभावो वाऽभ्युपेयते ||
सुषुप्ते तत्परित्यागः कस्मा­दि­त्य­भि­धी­यते || १७८९ ||

जाग्र­त्स्व­प्न­प्र­प­ञ्चेऽ­स्मि­न्ना­त्मा­वि­द्यै­क­हे­तुके ||
अनन्योऽपि स्वतो यत्र मोहादन्य इवेक्ष्यते || १७९० ||

तत्रान्यः कारको द्रष्टा तथाऽन्येनैव चक्षुषा ||
दृश्य­म­न्य­द­वि­द्योत्थं पश्येत्स्वप्ने यथा तथा || १७९१ ||

विशेषदर्शने यस्मा­द­वि­द्यै­वास्य कारणम् ||
अतस्तस्यां निवृत्तायां कृत्न्सो भेदो निवर्तते || १७९२ ||

छान्दो­ग्यो­प­नि­ष­द्वाक्यं तथा च सति युक्तिमत् ||
यत्र नान्यदिति तथा­चाऽऽ­त्मै­वे­त्यु­प­सं­हृतेः || १७९३ ||

मैत्रे­यी­ब्रा­ह्मणे चैतद्व्याख्यातं वाक्यमादरात् ||
यतो भूयो न तद्व्याख्या क्रियतेऽत्र ततोऽधुना || १७९४ ||

यद्वै तदित्युपक्रम्य व्याख्यातं वस्तु विस्तरात् ||
सलिलादिगिरा तस्य क्रिय­तेऽ­त्रो­प­सं­हृतिः || १७९५ ||

अविद्यैव यतो हेतुः कार्यकारणतां प्रति ||
सम्य­ग्ज्ञा­ना­द­त­स्तस्यां ध्वस्ता­या­मा­त्म­मा­त्रता || १७९६ ||

नावि­द्या­म­नु­पा­दाय प्रती­चोऽ­ना­त्म­सं­गतिः ||
यतो विध्वंसने तस्या नाऽऽत्म­नोऽ­न्योऽ­व­शि­ष्यते || १७९७ ||

स्वतोऽ­व­बो­ध­मा­त्र­त्वा­त्कु­तोऽ­वि­द्या­दि­सं­प्लुतिः ||
तस्मा­त्स­लि­ल­व­च्छुद्धः कार्यकारणहानतः || १७९८ ||

अन्तरेणापि संबन्धं कार्य­का­र­ण­व­स्तुनः ||
स्वतोऽनेकात्मकं तत्स्या­दि­त्या­श­ङ्क्यैक उच्यते || १७९९ ||

न कपि­त्था­दि­व­त्तत्त्वं स्वतोऽ­ने­क­स्व­भा­व­कम् ||
उक्त्वा सलिलवत्तस्मादेक इत्य­ब्र­वी­च्छ्रुतिः || १८०० ||

सजातीयनिषेधो वा ह्येकशब्देन भण्यते ||
सलिलोक्त्या विजातीयसंबन्धो हि निवारितः || १८०१ ||

एकशब्दो न संख्यार्थः संख्ये­या­सं­भ­वा­दिह ||
अद्वि­ती­या­र्थ­तै­वातो द्विती­या­र्थ­नि­षे­धतः || १८०२ ||

सदेवेत्यादिना चास्य तथा सत्यविरुद्धता || १८०३ ||
प्रत्य­ङ्भा­त्रा­व­सा­यित्वं प्रत्य­ग्दृ­ष्टे­र्य­त­स्ततः ||

अकारकस्वभावत्वा दद्र­ष्टे­त्य­त्य­भि­धी­यते || १८०४ ||
यत्र हि द्वैत­मि­त्यु­क्ते­र्यत्र त्वस्येति चेरणात् ||
स्वतः पूर्णात्मकं ज्योति­र­द्र­ष्टे­त्य­भि­धा­यते || १८०५ ||

यस्मा­दे­व­म­तोऽ­द्वै­तोऽ­वि­द्या­त­त्का­र्य­ल­ङ्घ­नात् ||
न ह्यवि­द्या­दि­वि­रहे द्वैत­धी­रु­प­प­द्यते || १८०६ ||

द्विधेतं द्वीत­मि­त्या­हु­स्त­द्भावो द्वैतमुच्यते ||
तन्निषेधेन चाद्वैतं प्रत्य­ग्व­स्त्व­भि­धी­यते || १८०७ ||

द्विधा त्रिधा वा बहुधा कारणं सद्भवेदिह ||
तस्याऽऽत्मनि निषि­द्ध­त्वा­दा­त्माऽ­द्वैतो भवेत्ततः || १८०८ ||

भेद­सं­स­र्ग­हा­ना­र्थ­मे­वं­य­त्ना­मपि श्रुतिम् ||
अनादृत्यान्यथा प्राहुरहो विद्या महीयसी || १८०९ ||

मिथो विभा­ग­सं­सि­द्धि­र्ध­र्माणां नाऽऽत्म­सं­श्र­यात् ||
धर्म­ध­र्म्य­भि­सं­बन्धो दृश्य­त्वा­द्द्र­ष्ट्र­पे­क्षया || १८१० ||

द्रष्टा सलिलवच्छुद्धो निःस­ङ्गै­का­द्व­य­स्तथा ||
श्रुत्युक्तोऽतो विरुद्धोऽर्थो निर्ह्रीकैरिह वर्ण्यते || १८११ ||

तमोंशत्वं यथा भानोः सतश्चाप्यसदंशता ||
वियतो मूर्ततैवं स्याद्भि­न्ना­भि­न्न­त्व­मा­त्मनः || १८१२ ||

अत ऊर्ध्वं विमो­क्षा­ये­त्युक्तं प्राग्यत्पुनः पुनः ||
तद्विमुक्तेः समाप्तत्वादेष इत्य­भ्य­धा­न्मुनिः || १८१३ ||

प्रत्य­ग्दृ­ष्ट्य­व्य­व­हितेः प्रात्य­क्ष्या­दा­त्म­व­स्तुनः ||
एष इत्या­त्म­नि­र्देशो यत्साक्षादिति च श्रुतिः || १८१४ ||

अव्या­वृ­त्ता­न­नु­गतं निःसा­मा­न्य­वि­शे­षतः ||
ब्रह्मेति मुख्यवृत्त्येह वस्तु श्रुत्याऽ­भि­धी­यते || १८१५ ||

तथा लोक­य­ते­र्धा­तो­र्द­र्श­ना­र्थ­त्व­हे­तुतः ||
प्रकृतत्वात्तथा दृष्टेर्लोकनं लोक उच्यते || १८१६ ||

कर्मधारय एवातः समा­सोऽ­त्रो­प­प­द्यते ||
न तु षष्ठीसमासोऽत्र विभा­ग­स्या­प्र­सि­द्धितः || १८१७ ||

श्रुतं चैकविभक्तित्वं युक्तं नाश्रुतकल्पना ||
कल्प­ना­हे­त्व­स­द्भावे निराकाङ्क्षे तथा श्रुते || १८१८ ||

षष्ठ्या­दि­क­ल्प­नाऽ­साध्वी तस्मादत्रेति भण्यते ||
सामानाधिकरण्यं च विशेषणविशेष्यता || १८१९ ||

लक्ष्य­ल­क्ष­ण­सं­बन्धो ब्रह्म­लो­का­श्रि­धा­नयोः ||
ब्रह्मेति चाऽऽत्म­या­थात्म्यं लक्ष्यते नाभिधीयते || १८२० ||

तथा लोकगिरा ब्रह्म­त­त्त्व­मा­त्मो­प­ल­क्ष्यते ||
मुख्य­मै­का­र्थ्य­मेवं स्याद्ब्र­ह्म­लो­क­प­दा­र्थयोः || १८२१ ||

न हि लोकातिरेकेण ब्रह्म­त्व­मु­प­प­द्यते ||
ब्रह्मणो व्यतिरेकेण प्रत्यक्ता नान्यतस्तथा || १८२२ ||

अन­यो­रै­क्य­सं­मो­हा­त्पा­रो­क्ष्य­द्व­य­क­ल्पने ||
संसारोऽयमतो मोहसमुच्छित्तौ विमुक्तता || १८२३ ||

अतोऽ­शे­ष­म­हा­न­र्थ­हे­तो­र्मो­हस्य हानये ||
एष इत्या­दि­वा­क्योक्तिः सम्य­ग्द­र्श­न­ज­न्मने || १८२४ ||

इतिशब्दो यथो­क्ता­र्थ­प­रा­म­र्श­न­क­र्मणे ||
ऐतिह्यार्थस्तथा हेति सम्रा­डि­त्य­भि­म­न्त्र­णम् || १८२५ ||

इत्युक्तेन प्रकारेण मुमुक्षुं जनकं मुनिः ||
अन्व­शा­त्स­क­ला­न­र्थ­हे­त्व­वि­द्या­प­नु­त्तये || १८२६ ||

व्युत्था­याऽऽ­ख्या­यि­कातो नः श्रुति­रे­वे­द­म­ब्र­वीत् ||
अन्वशात्स कथं धीमान्राजानमिति चेच्छृणु || १८२७ ||

विज्ञान पुरुषस्यास्य या यथोक्ता पुरोक्तिभिः |
नैष्ठिकी गति रेषाऽस्य सत्य­न्त­र­स­मा­प्तितः || १८२८ ||

इतोऽन्या गतयः सर्वाः क्षयि­सा­ध­न­सं­श्र­यात् ||
क्षयिण्योऽतो हि परमा गतिरेषैव नापरा || १८२९ ||

अवि­द्या­मा­त्र­हे­तु­त्वा­त्का­म­क­र्मा­दि­सा­धनाः ||
गतयोऽपरमाः सर्वा माया स्वप्नगतिर्यथा || १८३० ||

संपच्च परमैषैव मोहो­त्था­स्त्व­न्य­सं­पदः ||
उत्कर्षातिशयः संप­द्वि­भू­ति­श्चेति भण्यते || १८३१ ||

एषोऽस्य परमो लोको लोकास्त्वन्ये क्षयिष्णवः ||
क्षयि­ष्णु­सा­ध­नो­त्प­त्तेर्न त्वेषोऽ­सा­ध­ना­श्र­यात् || १८३२ ||

ब्रह्मैव सन्स्वतो यस्मा­द्ब्र­ह्मा­प्ये­त्य­व­बो­धतः ||
तदविद्यानिरासेन मुक्ति­र्ना­तोऽ­न्य­सा­ध­नात् || १८३३ ||

लोकशब्दस्य मुख्योऽर्थ आत्मैवेह यतस्ततः ||
कर्मा­दि­हे­तु­सा­ध्येषु गौणी लोकार्थता भवेत् || १८३४ ||

न कर्मणा कनीयस्ता वृद्धिर्वा नान्तरात्मनः ||
इति बाहुमिवोद्धृत्य वेदान्तैर्घोषणा कृता || १८३५ ||

आनन्दः परमोऽस्यैष सुखो­त्क­र्ष­स­मा­प्तितः ||
सर्वा­न­न्दा­ति­शा­यि­त्वा­त्त­था­चैवं प्रवक्ष्यते || १८३६ ||

विष­य­स्प­र्श­जा­नन्दाः साधनानुविधानतः ||
आद्य­न्त­व­त्त्व­स्वा­भा­व्या­द्दुः­ख­हे­तव एव ते || १८३७ ||

कूट­स्था­त्म­स्व­भा­व­त्वा­त्स­र्व­सा­ध­न­नि­स्पृहः ||
सर्वा­न­न्दा­ति­व­र्ति­त्वा­दा­नन्दः परमो मतः || १८३८ ||

आनन्दः परमोऽस्यैष इत्यु­क्ता­र्थ­प्र­सि­द्धये ||
एतस्यैवेति वचसा समर्थो हेतुरुच्यते || १८३९ ||

एतस्यैव यथोक्तस्य सर्वा­न­न्दा­ति­व­र्तिनः ||
उपजीवन्ति भूतानि ब्रह्मानन्दस्य विप्लुषम् || १८४० ||

एष एवंविधो यस्मादानन्दः परमस्ततः ||
आन­न्दा­न­ति­शे­तेऽ­न्या­न्स­र्वा­न­स्यैव कृत्स्नतः || १८४१ ||

कृत्स्नोऽपि चैष आन­न्द­स्त­द­वि­द्यै­क­हे­तुजः ||
बुद्ध्या­द्यु­पा­ध्य­व­च्छे­दा­न्मा­त्रेति व्यपदिश्यते || १८४२ ||

तन्मा­त्रा­व­र्त्म­नै­वैनं बुबो­ध­यि­षु­रा­द­रात् ||
लवणाब्धिं यथा तद्व­ल्ल­व­णा­व­य­वै­रिह || १८४३ ||

उत्त­रो­त्त­र­वृ­द्ध्याऽत आन­न्दा­न्मा­नु­षा­दधि ||
परा­न­न्दा­व­बो­धार्थं प्रवृत्तैषा परा श्रुतिः || १८४४ ||

मनुष्याणां स यः कश्चि­त्सं­सि­द्धोऽ­व­य­वै­र्दृढैः ||
सम­ग्रा­शे­ष­चा­र्वङ्गो राद्धो भोगक्षमः पुमान् || १८४५ ||

कृत्स्न­सा­ध­न­सं­पन्नः समृ­द्धोऽ­त्रा­भि­धी­यते ||
बाह्यै­रा­ध्या­त्मि­कै­रेवं साधनैरन्वितः पुमान् || १८४६ ||

तथाऽ­धि­प­ति­र­न्येषां नृणामेवेह यो भवेत् ||
स्वत­न्त्रोऽ­धि­प­ति­र्ज्ञेयो मनुष्यैर्न विहन्यते || १८४७ ||

मानुष्यकेण भोगेन संपन्नानां नृणामिह ||
संप­न्नोऽ­ति­श­ये­नातः संपन्नतम उच्यते || १८४८ ||

सर्वै­र्मा­नु­ष्य­कै­र्भोगैः संपन्नो न तु दैविकैः ||
आनन्द एष परमो मनु­ष्या­णा­मि­हो­च्यते || १८४९ ||

शतकृत्वो मनु­ष्या­णा­मा­नन्दो गुणितस्तु यः ||
पितृणामेक आनन्दस्तेन तुल्यप्रमाणतः || १८५० ||

यत्सुखं साधनाधीनं दुःखमेव तदुच्यते ||
अनन्यसाधनं तस्मा­त्स्वा­त्मस्थं परमं सुखम् || १८५१ ||

तस्मा­दा­त्म­प­रि­ज्ञा­ना­त्का­र्य­ज्ञे­य­स­मा­प्तितः ||
निर­स्त­ति­श­या­नन्दो भवतीत्यस्य निर्णयः || १८५२ ||

तार­त­म्या­दु­पा­यानां शुद्धिस्तरतमा धियः ||
शुद्धे­स्त­र­त­म­त्वाच्च सुखं तरतमं भवेत् || १८५३ ||

यावद्यावन्मलो व्येति बुद्धे­र्ध­र्मा­दि­सं­च­यात् ||
तावत्तावद्धियः स्वास्थ्यं ताव­त्ता­व­त्सु­खो­न्नतिः || १८५४ ||

याव­द्या­व­द्ध­नी­भावो बुद्धेः पापादिसंगतेः ||
ताव­त्ता­व­द्धि­योऽ­स्वास्थ्यं दुःखो­द्भू­ति­स्तथा तथा || १८५५ ||

पितृलोको जितो यैः स्यात्पि­तृ­य­ज्ञा­दि­क­र्मभिः ||
जितलोकास्त उच्यन्ते पितरो दिव्यभोगिनः || १८५६ ||

य एष दक्षिणः पन्थाः पितृलोकः स उच्यते ||
मनुष्यानन्दतः सोऽयं गुणितः स्याच्छताधिकः || १८५७ ||

उत्तरेष्वपि वाक्येषु यथो­क्त­मु­प­पा­द­येत् ||
शता­धि­कोऽ­य­मा­नन्दः पूर्व­स्मा­दु­त्तरः क्रमात् || १८५८ ||

नक्ष­त्र­लो­क­श­ब्देन ये पूर्वं प्रतिपादिताः ||
देवलोकगिरा तेऽत्र भण्यन्ते सूक्ष्ममूर्तयः || १८५९ ||

सर्गस्य जननादादौ देवत्वं ये प्रपेदिरे ||
आजा­न­दे­वा­स्तेऽत्र स्युः पूर्वेभ्यः सूक्ष्ममूर्तयः || १८६० ||

व्यापीनि तेषां सूक्ष्माणि शरीराणि महात्मनाम् ||
पूर्वानन्देभ्य एतेषामानन्दोऽतो महान्मतः || १८६१ ||

नाना­द्वं­द्वो­प­घा­ता­र्थ­हे­तूनां बहुलत्वतः ||
आजा­न­दे­वा­न­न्दोऽतः पूर्वेभ्यः स्याच्छताधिकः || १८६२ ||

श्रोत्रि­योऽ­धी­त­वेदः स्याज्ज्ञा­त­वे­दार्थ एव यः ||
कृत्स्न­चो­दि­त­का­रि­त्वा­त्स­र्व­पा­प­वि­व­र्जितः || १८६३ ||

आजा­न­दे­वा­व­धि­क­का­मा­नु­प­ह­ता­शयः ||
ततः परेषु भोगेषु जाततृष्णश्च यः पुमान् || १८६४ ||

आजानदेवानन्देन समं तस्य च यत्सुखम् ||
अस्याकामहतत्वेन सुखो­त्कृ­ष्टि­रि­हो­च्यते || १८६५ ||

श्रोत्रि­या­वृ­जि­नत्वे द्वे तुल्ये एवाऽऽविरिञ्चितः ||
अका­म­ह­त­ता­हे­तो­र्वृद्धौ ह्लादो विवर्धते || १८६६ ||

पूर्व­पू­र्वो­प­भो­गेभ्यो याव­द्या­व­न्नि­व­र्तते ||
कामो, विवर्धते पुंस­स्ता­व­त्ता­व­त्सुखं हृदि || १८६७ ||

कामै­क­क्ष­य­त­न्त्रैव यस्मात्पुंसः सुखोन्नतिः ||
अकामहततैवातः पूर्वाभ्यां साधनं परम् || १८६८ ||

साधनत्वं समानं स्यात्र्र­या­णा­मिह यद्यपि ||
काम­क्ष­य­प्र­क­र्षोऽत्र ह्युत्कृ­ष्टा­ह्ला­द­सा­ध­नम् || १८६९ ||

समु­च्च­य­वि­व­क्षाऽत्र न मनागपि युज्यते ||
कर्तृ­त्वा­दि­स­मु­च्छे­दिं­ज्ञा­न­स्ये­हाऽऽ­श्रि­त­त्वतः || १८७० ||

समु­च्च­य­नि­वृ­त्त्यर्थं न्यायश्चापि पुरोदितः ||
नातः समुच्चयाशेह कर्तव्या सूक्ष्मदर्शिभिः || १८७१ ||

साधनत्वं यतस्तुल्यं श्रोत्रि­या­वृ­जि­न­त्वयोः ||
अवरेष्वपि भोगेषु न चोत्तमसुखं ततः || १८७२ ||

अकामहततैवात्र तार­त­म्या­त्म­क­त्वतः ||
भेदा­दु­त्त­म­सौ­ख्यस्य साधनं चोत्तमा भवेत् || १८७३ ||

युवा साधुयुवेत्येवं तैत्ति­री­य­श्रु­ती­र­णात् ||
अधरेष्वपि वाक्येषु श्रोत्रियादि विवक्षितम् || १८७४ ||

विरा­ट्प्र­जा­प­ति­र्ज्ञे­य­स्रै­लो­क्या­त्म­क­दे­ह­भृत् ||
हिरण्यगर्भो ब्रह्माऽत्र तथा ब्रह्मा­गि­रो­च्यते || १८७५ ||

अतः पर­म­न­न्त­त्वा­द्ग­णितं विनिवर्तते ||
यत एवमतः प्राहाथैष एवेति नः श्रुतिः || १८७६ ||

अनेनातिशयवता ह्यस्म­द्गो­च­र­व­र्तिना ||
अपा­स्ता­ति­श­या­नन्दं सुखेनेहानुमीयते || १८७७ ||

ध्वस्ता­ति­श­य­नि­ष्ठ­त्वा­ल्लोके सातिशयात्मनः ||
यतोऽतोऽतिशयवता गम्यतेऽनतिशयं सुखम् || १८७८ ||

यत्रैतानि समस्तानि निष्ठां यान्ति परात्मनि ||
पर­मोऽ­सा­वि­हाऽऽ­नन्दः सर्वा­न­न्दा­ति­ल­ङ्घ­नात् || १८७९ ||

एषोऽस्येति प्रतिज्ञात आनन्दः सोऽनुमानतः ||
निष्ठां प्रतीचिगमित उत्त­रो­त्त­र­वृ­द्धितः || १८८० ||

अवि­ज्ञा­त­प­रा­न­न्दा­न्प्र­त्ये­षाऽ­नु­मि­ति­र्मता ||
साक्षा­ज्ज्ञा­ता­त्म­त­त्त्वानां प्रत्यक्षतममेव तत् || १८८१ ||

अकामहतधीगम्य आनन्दः प्रत्यगात्मनि ||
यः स एव यथोक्तेभ्यः परमः स्यादनन्ततः || १८८२ ||

तथाच भगवान्व्यासः सर्व­वे­दा­र्थ­त­त्त्व­वित् ||
स्वयं प्राहेममेवार्थं कामानर्थजिहासया || १८८३ ||

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ||
तृष्णा­क्ष­य­सु­ख­स्यैते नार्हतः षोडशीं कलाम् || १८८४ ||

यतो यतो निवर्तते ततस्ततो विमुच्यते ||
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि || १८८५ ||

सलिलादिगिरा योऽर्थः प्रत्यज्ञायि पुराऽखिलः ||
ब्रह्म­लो­का­न्त­वा­क्येन तस्य स्यादुपसंहृतिः || १८८६ ||

प्रश्ना­र्थेऽ­स्मि­न्स­मा­प्तेऽपि पूर्ववत्तं मुनिं नृपः ||
अन्वयुङ्कात ऊर्ध्वं त्वं मुक्तये ब्रूहि यत्परम् || १८८७ ||

याज्ञवल्क्योऽपि राज्ञैवं पृष्टः सन्पूर्ववत्तदा ||
अविभेदन्यतो हेतोर्न त्वसा­म­र्थ्य­का­र­णात् || १८८८ ||

सर्व­ज्ञ­त्वा­न्मु­ने­र्ना­भू­त्प्र­श्ना­र्था­ज्ञा­नतो भयम् ||
कारणं त्वन्यदेवातो यतः श्रुतिरभाषत || १८८९ ||

अविवक्षुमयं राजा काम­प्र­श्न­ब­ला­श्र­यात् ||
किंज्यो­ति­रि­त्ये­व­मा­दि­म­प्रा­क्षीन्मां पुनः पुनः || १८९० ||

अप्रत्याख्येयो ह्यर्थश्च सत्य­स्या­व­श्य­र­क्ष­णात् ||
स्वयं­ज्यो­ति­ष्ट्व­नि­र्णीतिः कृताऽतोऽनवशेषतः || १८९१ ||

निर्णीतेऽप्यथ मां राजा पुनः पुनरपृच्छत ||
अत ऊर्ध्वमिति गिरा निरुणद्ध्येव मां नृपः || १८९२ ||

काम­प्र­श्ना­ङ्कु­शे­नैव मां वशीकृत्य मद्गतम् ||
समादित्सति निःशेषं ज्ञानं राजाऽतिपण्डितः || १८९३ ||

इत्येष भयहेतुः स्याद्या­ज्ञ­व­ल्क्यस्य नान्यतः ||
भय­हे­तो­र­वि­द्यायाः सर्व­ज्ञ­त्वा­द­सं­भ­वात् || १८९४ ||

अस­कृ­न्नि­र्ण­योऽ­कारि पृष्टे वस्तुन्यशेषतः ||
अरौत्सीन्मां तथाऽप्येष सर्वस्वादित्सया नृपः || १८९५ ||

मेधावी पण्डितोऽतोऽयं ब्रह्म­स्वा­दा­न­का­र­णात् ||
न बिभेति यत­स्त­स्मा­द्भे­तव्यं जनकाद्भृशम् || १८९६ ||

ननु प्रश्ना यथो­क्ता­श्चे­न्नि­र्णी­तार्थाः पुरोक्तिभिः ||
अनिर्णीतं किमुद्धिश्य नृपोऽ­प्र­क्षी­न्मुनिं पुनः || १८९७ ||

स्वप्न­बु­द्धा­न्त­सं­चार आत्मनो यः पुरोदितः ||
दृष्टान्तत्वेन राज्ञाऽसौ सर्वोऽपीह विवक्षितः || १८९८ ||

तस्य दार्ष्टान्तिको योऽर्थो यावत्साक्षान्न कथ्यते ||
मुमुक्षति न तावत्तं राजा प्रश्नार्थशेषतः || १८९९ ||

दृष्टान्तस्य सुषुप्तेश्च नार्थं दार्ष्टान्तिकं जगौ ||
ब्रह्मा­स्मी­त्या­ग­मा­द्बोधः सुषु­प्तो­दा­हृ­ते­र्मतः ||
दार्ष्टा­न्ति­कोऽर्थः प्राज्ञस्य दृष्टा­न्त­स्या­व­शे­षतः || १९०० ||

उक्ते दार्ष्टा­न्ति­केऽ­र्थेऽ­स्मि­न्प्र­श्ना­र्थस्य समाप्तितः ||
सर्वमुक्तं भवेद्यस्मादतः सोऽर्थोऽ­धु­नो­च्यते || १९०१ ||

असङ्गो मत्स्य­व­त्प्र­त्य­ङ्का­म­क­र्मा­दिभिः क्रमात् ||
समेति स्वप्न­बु­द्धान्तौ यथाऽयं स्ववशस्तथा || १९०२ ||

सहेतुरस्य संसारः परलोकेहलोकयोः ||
सविस्तरः स वक्तव्य इत्यर्थेयं परा श्रुतिः || १९०३ ||

बन्धो बन्धनहेतुश्च मोक्ष­स्त­द्धे­तु­रेव च ||
सविस्तरः प्रव­क्त­व्य­स्त­दु­क्त्यर्था परा श्रुतिः || १९०४ ||

जाग्र­त्स्था­ना­त्ततः पूर्वं स्वप्नमात्मा प्रवेशितः ||
जाग्रद्भूमिं स नेतव्यो दार्ष्टा­न्ति­क­वि­व­क्षया || १९०५ ||

आन­न्द­नि­र्ण­यान्तं तु संप्रसादवचो यदा ||
तदा निगमनार्थं तत्प्र­ति­ज्ञा­ता­र्थ­गो­च­रम् || १९०६ ||

अलु­प्त­दृ­ष्टि­रा­त्माऽयं यथोक्तं स्वप्नबोधयोः ||
प्राज्ञेऽपि च तथैवायं यद्वै तदितिवाक्यतः || १९०७ ||

अतिकारकहेतुश्च यथाऽऽत्माऽयं सुषुप्तगः ||
कूट­स्थ­दृ­ष्टि­मा­त्र­त्वा­त्तथा स्वप्नप्रबोधयोः || १९०८ ||

इत्येवं पूर्व­सि­द्धेऽर्थे निगमार्थं पुनर्वचः ||
स वा इत्यादिकं ज्ञेयं न तु नाशादिशङ्कया || १९०९ ||

इत आरभ्य संसार आत्मानो वर्णयेऽधुना ||
स्वप्ना­द्बो­धा­प्ति­व­च्चा­स्मा­ल्लो­का­ल्लो­का­न्तरं गतः || १९१० ||

इत्य­र्थ­प्र­ति­प­त्त्यर्थं दृष्टा­न्तोऽ­त्रा­भि­धी­यते ||
सुखा­व­बो­ध­सि­द्ध्यर्थं श्रोतुरर्थे विवक्षिते || १९११ ||

नाना­र्थ­सा­ध­नै­र्मार्गे यथाऽनः सुसमाहितम् ||
शब्दा­न्ना­ना­वि­धा­न्कु­र्व­द्गु­रु­भा­र­प्र­पी­ड­नात् || १९१२ ||

व्रजे­च्छा­क­टि­के­नेह देशा­न्त­र­म­धि­ष्ठि­तम् ||
अन­स­स्त­द्ग­ता­च्चा­र्था­द्वि­ल­क्ष­ण­व­पु­र्भृता || १९१३ ||

स्वार्थे­ना­धि­ष्ठितं गच्छेत्पथि शाकटिकेन तत् ||
दृष्टान्तार्थेन संबन्ध एवमेवेति भण्यते || १९१४ ||

भुक्तदेहादिदं लिङ्ग­मु­त्क्रान्तं भोगसंक्षयात् ||
याति देहान्तरं तद्व­त्क­र्म­वि­द्या­दि­सं­भृ­तम् || १९१५ ||

वियुक्तं देवताभिः सत्क­र्म­सं­भा­र­सं­भृ­तम् ||
अनो­व­ल्लि­ङ्ग­मे­त्ये­त­त्प्र­त्य­गा­त्मा­र्थ­सि­द्धये || १९१६ ||

शारीरवचसा चात्र लिङ्ग­मे­वा­भि­धी­यते ||
शरी­र­दे­श­सं­स्थ­त्वान्न तु प्रत्यङ्ङसंहते || १९१७ ||

प्राज्ञे­ना­धि­ष्ठितं गच्छेद्रथिना स्वार्थरूपिणा ||
प्रत्यग्धियः समा­रो­ह­म­न्वा­त्माऽऽ­रू­ढ­व­द्यतः || १९१८ ||

प्राज्ञे­ने­हाऽऽ­त्मना तस्मा­द­न्वा­रू­ढोऽ­भि­धी­यते ||
भानु­ने­वो­द­पा­त्रा­दे­रा­रोहो नाऽऽत्मनः स्वतः || १९१९ ||

प्राक्चो­क्त­मा­त्म­नै­वायं ज्योति­षे­त्या­दिकं वचः ||
आत्मानं रथिनं विद्धीत्यपि श्रुत्यन्तरे वचः || १९२० ||

मर्म­कृ­न्त­न­सं­भू­त­वे­द­ना­र्दि­त­मा­न­सम् ||
बिक्किकालक्षणं शब्दं मृतिकाल उपस्थिते || १९२१ ||

उत्सर्जद्याति लिङ्गं तदिति प्रत्यक्षगोचरः ||
तदिदं भण्यते श्रुत्या पुंसां वैराग्यजन्मने || १९२२ ||

मर्म­सू­त्कृ­त्य­मा­नेषु मुच्यमानेषु संधिषु ||
मुमूर्षतोऽत्र यद्दुःखं स्मर्यतां तन्मुमुक्षुभिः || १९२३ ||

कस्मिन्काल इदं जन्तोः किंनिमित्तं च जायते ||
इत्यस्य प्रतिपत्त्यर्थं परो ग्रन्थोऽ­व­ता­र्यते || १९२४ ||

उदानवायौ प्रबले यत्रै­त­त्स्या­न्मु­मू­र्षतः ||
ऊर्ध्वोच्छ्वासी पुमांस्तत्र यथोक्तं जायते मृतौ || १९२५ ||

पिण्डोऽणुत्वं यदाऽभ्येति जर­याऽ­भ्य­र्दि­त­स्तदा ||
उपतापान्वितो वा सन्यथोक्तं प्रतिपद्यते || १९२६ ||

अणिमानमणोर्भावं कार्श्यं देहो यदैत्ययम् ||
जरया रोगहेतोर्वा ऊर्ध्वोच्छ्वासी तदा भवेत् || १९२७ ||

जरया रोगतो वाऽस्य जायते विषमाग्निता ||
सम्य­क्प­क्ति­स्त­तोऽ­न्नस्य मन्दा­ग्ने­र्नो­प­जा­यते || १९२८ ||

रसा­दि­धा­तु­भि­र्दे­ह­स्त­तोऽ­नु­प­च­या­द­यम् ||
अबलः सन्पतत्येष जीर्ण­म­न्दि­र­व­त्क्षितौ || १९२९ ||

अथैवं कृशतापन्ने देहेऽ­न्त­रु­प­जा­यते ||
या वृत्तिः सोच्यते साक्षा­द्दृ­ष्टा­न्तोक्त्या प्रयत्नतः || १९३० ||

आम्रं यथा रसादार्ड्ये स्वस्मा­द्‍वृ­न्ता­त्प्र­मु­च्यते ||
तथे­हा­न्न­र­स­ग्लानौ लिङ्गं देहा­त्प्र­मु­च्यते || १९३१ ||

वृन्ते निबध्यते येन रसेनाऽऽपरिपाकतः ||
स रसो बन्धनं ज्ञेयो वृन्तं वा बन्धनं मतम् || १९३२ ||

वृन्ते­नाऽऽ­म्रस्य संबन्धो रस­स्याऽऽ­प­रि­पा­कतः ||
बाल्ये दृढो यथा तद्वन्नैवं पक्वरसस्य सः १९३३ ||

क्लैद्य­मा­प­द्य­मा­नोऽथ पाककाल उपस्थिते ||
रस आम्रं धारयितुं नैवे­हो­त्स­ह­तेऽ­बलः || १९३४ ||

गुरु­त्वा­द्ब­न्ध­ना­द्वृ­न्ता­द्र­सा­द्वाऽथ प्रमुच्यते || १९३५ ||
नानाहेतुकपातस्य फ़लस्य प्रतिपत्तये ||
दृष्टा­न्ता­ना­मि­होक्तिः स्याद्भूयसां भिन्नरूपिणाम् || १९३६ ||

वृन्ता­दे­वाऽऽ­म्र­पा­तोऽत्र वृन्तेनोदुम्बरं सह ||
पत­त्य­श्व­त्थ­पा­तस्तु पाकेऽ­प्य­न्य­नि­मि­त्ततः || १९३७ ||

बहु­प्र­का­र­सि­द्ध्यर्थं वाश­ब्द­व्या­हृ­ति­स्त्विह ||
बहु­हे­तु­र्मृ­ति­र्य­स्मा­त्प्रा­णिनां जगतीक्ष्यते || १९३८ ||

यथाऽयमुक्तो दृष्टान्तः पुरुषोऽप्येवमेव हि ||
लिङ्गात्मा पुरुषो ज्ञेय­स्त­स्यै­वे­हा­ङ्ग­सं­गतेः || १९३९ ||

श्रोत्र­त्व­गा­दि­ना­ड्यश्च प्रोच्य­न्तेऽ­त्रा­ङ्ग­सं­ज्ञया ||
तेषु व्युह्यैव लिङ्गात्मा यतोऽलं स्यात्स्वकर्मणे || १९४० ||

अङ्गस्य कृष्णसारस्य चक्षुषः करणस्य च ||
आश्र­या­श्र­यि­सं­बन्धे हेतुरन्नरसो भवेत् || १९४१ ||

अन्नं दामेति चाप्युक्तं रसादिपरिणामतः ||
तद्यावकत्कठिनं देहे तावल्लिङ्गं स्थिरं भवेत् || १९४२ ||

जरादिहेतुपाके तु पतत्याम्रादिवद् द्रुतम् ||
एभ्योऽङ्गेभ्य इति गिरा तदेतदभिधीयते || १९४३ ||

उपसर्गः समित्येष एकी­भा­व­प्र­सि­द्धये ||
तथा प्रक­र्ष­सि­द्ध्यर्थं प्रोपसर्गः प्रयुज्यते || १९४४ ||

व्यस्तानि स्थान­सं­ब­न्धा­त्क­र­णानि यतस्ततः ||
स्वस्था­ने­भ्योऽ­प­कृ­ष्टानि मरणे यान्त्यथैकताम् || १९४५ ||

स्वप्ने प्राणा­व­शे­ष­त्वा­त्स्था­ना­त्क­र­ण­सं­हृतेः ||
मृतौ सहैव चानेन प्रकर्षोऽत्रात ईक्ष्यते || १९४६ ||

देहान्तरादमुं देहं पूर्व­मा­गा­द्य­त­स्ततः ||
तदपेक्ष्य पुनःशब्दः श्रुत्यै­वे­हा­भि­धी­यते || १९४७ ||

स्वप्नाद्यथेतो बुद्धान्तं स्वप्नं बुद्धान्ततः पुनः ||
पूर्व­दे­हा­त्त­थै­वाऽऽत्मा याति देहान्तरं पुनः || १९४८ ||

बाह्या­द्दे­हा­त्त­थै­वा­न्त­र्लिङ्गं स्वाप्नं प्रपद्यते ||
यथा­न्या­य­प्र­ति­न्यायौ यथा तत्रोदितौ पुरा || १९४९ ||

देहा­द्दे­हा­न्त­र­प्राप्तौ तथैवेति विनिर्दिशेत् ||
प्रतियोनि यथा­स्था­न­मि­त्य­त्रापि तथैव तत् || १९५० ||

श्रुत­क­र्मा­नु­रू­पेण चक्षु­रा­द्य­नु­रू­पतः ||
प्रतियोनि यथा­स्था­न­मा­द्र­व­त्येष जन्मने || १९५१ ||

देहा­न्त­र­गृ­ही­त्यर्थं प्राणिनां मरणं यतः ||
प्राणायेति ततो वक्ति जन्मन्यसति नो मृतिः || १९५२ ||

प्राणव्यूहाय चैवा­य­मा­द्र­व­त्य­न्य­दे­हतः ||
स्थाने­ष्व­व्यू­ढ­क­रणो नालं स्यात्कर्मणे यतः || १९५३ ||

प्राणव्यूहस्य संसिद्धिः कथमस्येति शङ्क्यते ||
शरी­र­ग्र­ह­णा­श­क्ते­र­व्यू­ढ­क­र­ण­त्वतः || १९५४ ||

न च देहान्तरं कृत्वा राज्ञो भृत्या इवाऽऽसते ||
यतः कर्म­स­हा­योऽ­य­मे­का­क्ये­वेह गच्छति || १९५५ ||

इत्यस्य परिहारार्थं दृष्टा­न्तोऽ­त्रा­भि­धी­यते ||
कृत्स्नं जगत्स्वभोगार्थं पुंसोपात्तं स्वकर्मणा || १९५६ ||

तत्क­र्म­फ़­ल­भो­गार्थं कृत्वा देहं प्रतीक्षते ||
शुभं वा यदि वा पापं श्रुत­क­र्मा­नु­रू­पतः || १९५७ ||

कर्मोपात्तानि भूतानि तत्प्रयुक्तानि देहिनः ||
कृत्वा देहान्तरं योग्यं तस्थू राज्ञोऽग्रगा इव || १९५८ ||

तत्रै­त­स्मि­न्य­थो­क्तेऽर्थे दृष्टा­न्तोऽ­प्य­भि­धी­यते ||
विव­क्षि­ता­र्थ­वि­ज्ञा­न­प्र­सिद्धिः स्यात्कथं न्विति || १९५९ ||

यथा राजानमायान्तं सद्म­पा­ना­दि­सा­धनैः ||
बुद्ध्वा क्लृप्तैः प्रतीक्षन्त उग्राः सूतादयो जनाः || १९६० ||

उग्रे कर्मणि ये राज्ञा नियुक्ताः पापकारिषु ||
उग्रा­स्तेऽ­त्रा­भि­धी­यन्ते जातितो वाऽभिधा भवेत् || १९६१ ||

एन एनः प्रति तथा नियुक्ता ये नराधिपैः ||
प्रत्येनसोऽत्र ते ज्ञेया भिन्नास्ते स्वाधिकारतः || १९६२ ||

रथवाहाश्च सूताः स्यू रथवाहनकोविदाः ||
ग्रामण्यो ग्रामनेतारः सेनाधिपतयो मताः || १९६३ ||

ते यथा कर्मणोपात्ता राज्ञः प्रागेव चाऽऽगमात् ||
अन्न­पा­न­गृ­हा­द्य­र्था­न्कृत्वा राजप्रतीक्षिणः ||
राजाऽयं नः समायातीत्यासते यत्नमास्थिताः || १९६४ ||

यथैवं सर्वभूतानि भोक्त्रा कर्मादिकारणैः ||
अर्जितान्युचितं देहं भोक्तु­र्भो­ग­क्षमं तथा || १९६५ ||

कृत्वा तत्प्राप्तितः पूर्वं यथा सूतादयो नृपम् ||
प्रतीक्षन्ते प्रयत्नेन ब्रह्मै­ती­त्य­भि­का­ङ्क्षया || १९६६ ||

विज्ञा­ना­त्म­न्यु­प­क्रान्ते ब्रह्मेति यदिहोच्यते ||
स्वतो ब्रह्म­त्व­त­स्तस्य संसा­रि­त्व­म­वि­द्यया || १९६७ ||

कथं नाम मतिस्तस्य ब्रह्मास्मीति भवेदिह ||
श्रुति­स्त­त्त­त्त्व­बो­धार्थं ब्रह्मेत्याह ततो नरम् || १९६८ ||

अनुवादो न तु विधि­रे­वं­वि­द­मि­ती­र्यते || १९६९ ||
सर्वा­न्प्र­त्य­वि­शि­ष्ट­त्वा­दे­वं­वि­द­मि­ती­र­णम् || ||
नानुवादः फ़लोक्तिर्वा यथा­व्या­ख्या­त­वे­दिनः || १९७० ||

करणानुग्रहीतृणि भूतानि च मुमूर्षतः ||
कृत्वा देहं प्रतीक्षन्ते नृपस्येव गृहं नराः || १९७१ ||

एवं जिगमिषुं देवमनुगच्छन्ति के तु तम् ||
गच्छन्तः कस्य गत्या वा स्वात­न्त्र्ये­णाऽऽ­त्म­नोऽ­थवा || १९७२ ||

इत्यर्थमपि दृष्टान्तः पूर्ववद्भण्यते पुनः ||
इतः प्रवसतो देहाद्देहिनः कर्मसंक्षयात् || १९७३ ||

यथेह प्रयि­या­स­न्त­मु­ग्र­सू­ता­दयो जनाः ||
राजा­न­म­भि­सं­यान्ति प्राणा­स्त­द्व­न्मृतौ नरम् || १९७४ ||

यदो­र्ध्वो­च्छ्वा­सि­तै­वास्य पुरुषस्य भवत्यथ ||
सुखयन्तस्तदा प्राणाः संया­न्त्यु­त्क्रा­न्ति­वे­दि­नम् || १९७५ ||

यत उत्क्रा­न्ति­रु­क्तेयं विशि­ष्ट­फ़­ल­सं­गतेः ||
सर्वे­षा­म­वि­शि­ष्टाऽतः स यत्रे­त्यु­च्य­तेऽ­धुना || १ ||

करणानां समु­त्क्रा­न्ति­र्ग­मनं च तयोः समम् ||
प्रागुक्तं तत्र यन्नोक्तं तदे­वे­हो­च्य­तेऽ­धुना || २ ||

संसा­र­स्या­धि­का­रोऽ­यमा श्लोको­दा­हृ­ते­र्मतः ||
स यत्रेत्यत आरभ्य पुंसः संसारवर्णनम् || ३ ||

पुंसः संसरणं पूर्वं सूत्रितं यत्समासतः ||
विस्तरस्तस्य वक्तव्य इत्यर्था वा परा श्रुतिः || ४ ||

तत्संप्रमोक्षणं कस्मिन्पुंसः कालेऽभिजायते ||
कथं वेत्या­दि­कोऽ­त्रार्थो विस्त­रे­णो­प­व­र्ण्यते || ५ ||

प्रकृ­ता­त्म­प­रा­मर्शः सशब्देन विवक्ष्यते ||
संसा­रा­न­र्थ­सं­ब­न्ध­वि­ज्ञा­नाय तमस्विनः || ६ ||

य आत्मा प्रस्तु­तोऽ­वि­द्वान्स यदेदं शरीरकम् ||
कार्श्यं प्रापय्य पूर्वो­क्तै­र्ज­रा­रो­गा­दि­हे­तुभिः || ७ ||

यदि वा स्वयमेवैत्य देहा­भे­द­त्व­हे­तुतः ||
दौर्बल्यमेवं संप्राप्य संमोहमिव यात्यथ || ८ ||

मूर्छादाविव संमो­ह­मि­हा­प्यात्मा निगच्छति ||
बोध­मा­त्रै­क­या­था­त्म्या­न्नायं संमोहभाग्यतः ||
संमू­ढ­बु­द्धि­सा­क्षि­त्वा­त्सं­मूढ इव भात्यतः || ९ ||

संमोहहेतुकं कार्यं संमो­हा­त्म­क­मि­ष्यते ||
अकार्यकारणं प्रत्यग्ज्योतिः संमुह्यते कुतः || १० ||

कार्श्य­सं­मो­ह­सं­बन्धो यतो नास्य स्वतस्ततः ||
मोहो­त्थ­दे­ह­बु­द्ध्या­दि­सं­ग­ते­रि­व­गी­रि­यम् || ११ ||

उत्क्रान्तिकाले प्राणानां स्वस्था­ना­दा­र्ढ्य­हे­तुका ||
स्वगो­च­रे­ष्व­श­क्तिर्या संमो­होऽ­सा­वि­हाऽऽ­त्मनः || १२ ||

दाहच्छेदादयो यद्व­द­दा­ह्या­च्छे­द्य­त­न्विनः ||
परो­पा­धि­नि­मित्ताः स्युर्दु­र्ब­ल­त्वा­द­य­स्तथा || १३ ||

बाह्या तावदियं वृत्ति­र्व्या­ख्याता प्रत्यगात्मनः ||
कार्श्य­सं­मो­ह­रूपा या प्रसिद्धा जगतीदृशी || १४ ||

मरिष्यतोऽस्य या वृत्तिरान्तरी साऽधुनोच्यते ||
हृत्स­द्म­न्यु­प­सं­हारो यथा स्यादि­न्द्रि­या­त्म­नाम् || १५ ||

अथै­न­मु­च्चि­क्रि­मिषु विज्ञा­ना­त्मा­न­मी­श्व­रम् ||
प्राणा वागादयः सर्वे तं समायन्ति कृत्स्नतः || १६ ||

अभीति चाऽऽभि­मु­ख्येऽर्थे सं तु सामस्त्य इष्यते ||
अवध्यर्थे तथाऽऽङत्र यन्तीत्यस्य विशेषणम् || १७ ||

स्वाश्रयेभ्यो यियासन्ति करणानि हृदीश्वरम् ||
यदैषां स्थान­सं­ब­न्ध­वि­मोक्षः स्यात्तदैव तु || १८ ||

कथं तम­भि­सं­या­न्ती­त्युक्ते श्रुत्याऽ­भि­धी­यते ||
आत्मा­न­म­भि­सं­यान्ति वागादीनि यथा स्फ़ुटम् || १९ ||

स आत्मा प्रकृ­त­स्त्वे­ता­श्च­क्षुः­श्चो­त्रा­दि­ल­क्षणः ||
तेजोमात्रा यथादेशं समये मृतिकर्मणः || २० ||

उद्भू­ता­कू­त­वि­ज्ञानो मृतिं प्रति यदा तदा ||
आकूतानुविधायीनि जायन्ते करणान्यथ || २१ ||

स्वाकू­ता­नु­वि­धा­यित्वं यत्तदा करणात्मनाम् ||
अभ्याददान इति तत्कर्तृत्वं स्यादिहाऽऽत्मनः || २२ ||

एत­त्क­र्तृ­त्व­मा­पेक्ष्य श्रुत्यै­व­म­भि­धी­यते ||
अभ्याददान इति तु तेजोमात्राः स्वदेशतः || २३ ||

मीयन्ते विषया याभि­र्मा­त्रा­स्ता­श्च­क्षु­रा­दयः ||
तेजो­वि­कृ­ति­हे­तु­त्वा­त्ते­जो­मा­त्राश्च ताः स्मृताः || २४ ||

सत्त्वं तेजोऽत्र विज्ञेयं तदेव करणात्मना ||
प्रविभक्तं हि तच्छ­ब्द­स्प­र्शा­द्य­र्था­व­भा­स­नात् || २५ ||

पित्ताख्यां वा भवे­त्ते­ज­स्त­दं­शा­श्च­क्षु­रा­दयः ||
इत्ये­व­मा­यु­र्वे­दज्ञाः करणानि प्रचक्षते || २६ ||

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ||
इति प्रकाशरूपत्वं करणानां श्रुतिर्जगौ || २७ ||

भौतिकस्तु प्रकाशोऽयं भौति­का­र्थ­प्र­का­श­नात् ||
प्रदीपवन्न भूतेभ्यो जात्यन्तरमतो भवेत् || २८ ||

स्पष्टं च वक्ष्य­तेऽ­थो­र्ध्व­मे­तेभ्य इति हि श्रुतिः ||
अक्षाणि भौतिकान्येव नातः शक्तय आत्मनः || २९ ||

लिङ्गात्मकानां भूताना निर्दे­शोऽ­वि­द्यया सह ||
तन्नाशमनु नाशः स्याद्यतो दुःखात्मनस्ततः || ३० ||

पिण्डनाशेऽपि नैवास्य नाशः संसारिणो यतः ||
अविद्यादीनि भूतानि तत्रोच्यन्ते ततो ध्रुवम् || ३१ ||

मात्रासंसर्ग एवास्य तथाचैव प्रवक्ष्यते ||
विज्ञानेनाथ विज्ञा­न­मा­दा­ये­त्यपि चावदत् || ३२ ||

अस्य लोकस्य चेत्युक्तं शुक्रमित्यादि चापरम् ||
सर्वेष्वेषु प्रदेशेषु भूतमात्राग्रहः श्रुतौ || ३३ ||

भूतेभ्यो नापरं वस्तु यस्मादात्मन ईक्ष्यते || ३४ ||

अतो विवेको भूतानां यः परोऽतीव शुद्धितः ||
तेजो­मा­त्रा­दि­व­चसा स एवात्राभिधीयते || ३५ ||

इन्द्रि­या­णी­न्द्रि­या­र्थाश्च न विकारः परात्मनः ||
अतो न जायत इति तद्विकारनिषेधतः || ३६ ||

जन्मा­दि­वि­क्रि­या­षट्कं साक्षान्न परमात्मनः ||
अपू­र्वा­न­प­रा­द्यु­क्ते­र्नेति नेत्यादिवाक्यतः || ३७ ||

न च वेदा­न्त­सि­द्धान्ते परमात्मातिरेकतः ||
इष्टं विकारवद्वस्तु यथा कापिलशासने || ३८ ||

स्वतः कूटस्थतत्त्वस्य तदसंबोधतस्ततः ||
जन्मा­दि­वि­क्रि­या­ष­ट्क­सं­गतिः स्यात्परात्मनः || ३९ ||

आत्म­का­र­ण­वा­दोऽ­य­मेवं सत्युपपद्यते ||
न तु विध्व­स्त­निः­शे­ष­ज­न्म­ना­शा­दि­का­रणे || ४० ||

तेजोऽतो भौतिकं सर्वमन्यत्र परमात्मनः ||
स्वयं­ज्यो­तिः­प्र­स­ङ्गेन तदुक्तं प्रागपि श्रुतौ || ४१ ||

आदित्यादीनि तेजांसि तथाऽ­ध्या­त्मा­धि­भू­तयोः ||
भौतिकान्येय तानीति प्रत्यङ् तेभ्यो विलक्षणः || ४२ ||

ता एतास्तेजसो मात्राः सम­स्ता­श्चाऽऽ­भि­मु­ख्यतः ||
साम­स्त्ये­नाऽऽ­द­दानः सन्हृ­त्स­द्म­न्यु­प­स­र्पति || ४३ ||

अभ्याददान एवा­य­म­न्व­व­क्रा­म­ती­श्वरः ||
न त्वाक्रम्य समादत्ते कथं तदिति भण्यते || ४४ ||

विशे­ष­ज्ञा­न­ला­भोऽस्य लिङ्गा­त्मा­नु­वि­धा­नतः ||
यतस्तदपकर्षेण विज्ञा­ना­त्मो­प­सं­हृतिः || ४५ ||

तद्व्याप्तौ चापि संव्या­प्ति­रा­पा­द­त­ल­म­स्त­कम् ||
स्वतस्तु व्याप्ति­सं­हा­र­र­हि­त­त्वा­त्प­रा­त्मनः || ४६ ||

सैन्ध­वा­दि­र­स­व्याप्ते पीयमाने यथोदके ||
पानं सलवणस्यैवं लिङ्ङा­त्म­नु­वि­धा­यिता || ४७ ||

सोऽभ्यादानस्य कर्ताऽत्र लिङ्गं योऽस्मीति मन्यते ||
आक्रामद्धृदयं लिङ्ग­म­न्व­व­क्रा­म­तीव सः || ४८ ||

तथा हृदयशब्देन तत्स्था धीरभिधीयते ||
एवे­त्य­व­धृ­ति­श्चाम्र स्वप्न­प्रा­ज्ञ­नि­वृ­त्तये || ४९ ||

विशे­ष­का­र्य­वा­हिभ्यः स्रोतोभ्यः स्वप्नभूमिगः ||
विशे­षा­न­नु­सृ­प्याऽऽत्मा यात्वा हृदयमाश्रयम् || ५० ||