अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ (६)

पुरीतत्प्रमुखं देहं वृत्त्या सामान्यरूपया ||
तप्त­लो­हा­दि­व­द्व्याप्य शेते प्राणात्मतां गतः || ५१ ||

इह त्वेवेति निःशेषा लिङ्ग­स्या­स्यो­प­सं­हृतिः ||
विशे­षे­भ्योऽ­वि­शे­षेभ्यो युक्तं प्रत्यवसर्पणम् || ५२ ||

अवदध्रेऽत एवेति मा भूत्स्व­प्ना­दि­व­त्स्थितिः ||
सामान्यं वा विशेषो वा न यतोऽ­त्रा­व­शि­ष्यते ||
कार्त्स्न्येन हृदय एव पिण्डीभावं व्रजत्यतः || ५३ ||

विधिराकर्षणो ताव­त्ते­जो­मा­त्रा­श्रयो गतः ||
अथा­सं­वे­द­ना­वि­धि­र्मु­मू­र्षो­रु­च्यते यथा || ५४ ||

साधारणात्मनो योंऽशो भोक्तृ­क­र्म­व­शी­कृतः ||
अध्यात्मं चक्षुषि रवे­श्च­क्षु­र्व्या­पा­र­सि­द्धि­कृत् || ५५ ||

कर्मो­प­भो­ग­सि­द्ध्यर्थं परिच्छिन्नः स्वचक्षुषा ||
चाक्षुषोऽतः स विज्ञेयः सामान्यात्माऽपि भास्करः || ५६ ||

स एष पुरुषो यत्र तत्प्र­यो­क्तृ­क्रि­या­क्षये ||
क्षेत्र­ज्ञा­र्था­त्प­रा­ङेव पर्यावर्तत आत्मनि || ५७ ||

निर­नु­ग्र­ह­तै­वास्य पर्या­व­र्त­न­मु­च्यते || ५८ ||
हृल्लि­ङ्ग­प्र­सृतो योंऽश उप­भो­गा­र्थ­म­क्षिणि ||
सोऽस्य कर्म­क्ष­या­दक्ष्णः पराङावर्तते हृदि || ५९ ||

चाक्षुषे पुरुषे तस्मिन्नावृत्ते कर्मणः क्षयात् ||
देवता देवतामेति लिङ्गैक्यं करणं तथा || ६० ||

अथैवं स्यरूपज्ञो देवताकरणच्युतेः ||
आत्मै­व­मु­क्ता­नु­क्तेषु योज्यं प्राणेष्वशेषतः || ६१ ||

चेत­ना­व­द­धि­ष्ठा­ना­त्क­र­णा­दे­र्ज­डा­त्मनः ||
प्रवृ­त्ति­र्नि­यता दृष्टा लोकेऽतो न विपर्यते || ६२ ||

अरूपज्ञत्वहेतुः क इत्या­श­ङ्क्यो­त्तरं वचः ||
लोक­प्र­सि­द्धि­मा­चष्ट एकीत्यादि मुमूर्षति || ६३ ||

एकी भवति सावित्रः सवि­त्रांऽ­श­स्त­थैव च ||
लिङ्गां­श­श्चा­क्षुषो व्यूढो लिङ्गैक्यं प्रतिपद्यते || ६४ ||

स्वांशि­भ्या­मे­क­ता­पत्तौ देव­ता­लि­ङ्ग­भा­गयोः ||
अथारूपज्ञतामेति यः प्राग्रू­पा­दि­वे­द्य­भूत् || ६५ ||

अथैनं पार्श्वगाः प्राहु­र्ब­न्ध­वोऽस्य मुमूर्षतः ||
वाक्यमेकी भवतीति निराशास्तस्य जीविते || ६६ ||

करणे देवता यस्मिन्पूर्वं मुञ्च­त्य­नु­ग्र­हम् ||
तस्यैव प्रथमं वृत्तिनिरोध उपजायते || ६७ ||

कस्मिं­श्चि­त्क­रणे वृत्तिनिरोधः पूर्वमीक्ष्यते ||
अयौ­ग­प­द्ये­नो­त्क्रान्तौ तल्लिङ्गं देवतात्मनाम् || ६८ ||

यदाऽऽलोचनमात्रं स्याद्रूपादौ चक्षुरादिभिः ||
प्रविवेक्ता तु रूपादेः सम्यङ्नैव पुमान्भॆवेत् || ६९ ||

तदोत्क्रान्तां विजानीयान्मनसो देवतामितः ||
केव­ला­लो­च­ना­ल्लि­ङ्गा­त्तथा बुद्धेश्च देवताम् || ७० ||

एवं तद्दे­व­तो­क्रा­न्ता­वे­की­भा­वेन संगतेः ||
मनुते नो न जाना­ती­त्ये­व­मा­हु­स्तथा जनाः || ७१ ||

उक्तं विमोक्षणं तावत्करणानां स्वदेशतः ||
असंविज्ञानता चोक्ता हृदये चोपसंहृतिः || ७२ ||

अथो­प­सं­हृ­ता­शे­ष­क­र­ण­स्याऽऽ­त्मनो यथा ||
लोका­न्त­रो­प­सं­क्रा­न्ति­स्त­थै­त­द­भि­धी­यते || ७३ ||

तस्यैतस्य यथोक्तस्य कृत्स्न­प्रा­णो­प­सं­हृतेः ||
नाड्यग्रं हृदयस्याथ प्रकर्षेण प्रकाशते || ७४ ||

सर्वेषु संहृतेष्वेवं करणेषु सवायुषु ||
बुद्धेः प्रद्यो­त­तेऽ­थाग्रं हृदयस्य यियासतः || ७५ ||

स एष कर्मजो बुद्धेः प्रकाशो जायते मृतौ ||
स्वकर्मनिर्मितं लोकं येनाऽऽत्माऽयं प्रपश्यति || ७६ ||

कर्मणैवास्य विज्ञानं तादा­त्म्य­मु­प­नी­यते ||
पश्चा­दा­प­न्न­त­द्भावो देहमेतं विमुञ्चति || ७७ ||

भाविलोकात्मिका याऽस्य प्रत्य­क्चै­त­न्य­बि­म्बिता ||
वासनैवाऽऽत्मनः प्रोक्ता प्रद्योतवचसा स्फ़ुटम् || ७८ ||

मात्रो­पा­दा­न­रू­पेण स्वेन भासा पुराऽब्रवीत् ||
स्वेनैव ज्योतिषा स्वप्ने यथा तद्वदिहापि तत् || ७९ ||

प्रद्योतेन यथोक्तेन प्रद्योतितपथा कृत -
कर्मकार्योऽथ हृद­या­न्नि­ष्क्रा­मति यथासुखम् || ८० ||

साध्वेवातः प्रयत्नेन कर्म कार्यं विपश्चिता ||
पश्यता प्राणिनामेवं कर्ममूलामिमां गतिम् || ८१ ||

आत्मा स्वकर्मणोपात्तं प्रद्योतेन यथोचितम् ||
लोकं पश्य­न्स्व­हृ­द­या­न्नि­ष्क्रा­मति यथायथम् || ८२ ||

चक्षुष्टो वाऽथ मूर्ध्नो वा यं यं लोकं प्रपत्स्यते ||
तद्दूरेणैव निष्क्रामन्न कचि­त्प्र­ति­ह­न्यते || ८३ ||

आदि­त्य­लो­क­सं­प्राप्तौ चक्षुष्टोऽयं गिगच्छति ||
ब्रह्म­लो­क­प­रि­प्राप्तौ मूर्ध्न आत्मा निगच्छति || ८४ ||

कर्म­श्रु­ता­नु­रो­धेन ह्यन्येभ्यो वा यथायथम् ||
हृद­य­सृ­त­ना­डी­भि­रित आत्मा निगच्छति || ८५ ||

लिङ्गं च सर्वतो गच्छन्न कचि­त्प्र­ति­ह­न्यते ||
अति­सू­क्ष्म­स्व­भा­व­त्वा­दपि लोहसमुद्रगम् || ८६ ||

उत्क्रामन्तं तमात्मानं यथोक्तेनेह वर्त्मना ||
प्राणोऽ­नू­त्क्रा­मति ततः प्राणं प्राणास्तथा परे || ८७ ||

नन्वा­त्म­प्रा­ण­वा­गा­दे­र­न्यो­न्य­व्य­ति­मि­श्र­णात् ||
देश­का­ला­द्य­सं­भे­दा­त्क्र­मे­णो­त्क्र­मणं कथम् || ८८ ||

नैष दोषो यतो नेह क्रमकालो विवक्ष्यते ||
प्रयो­ज­क­प्र­यो­ज्यत्वं यतोऽमीषां विवक्षितम् || ८९ ||

इहोच्चिक्रमिषा याऽस्य विज्ञा­ना­त्मै­क­सं­श्रया ||
प्राणो­त्क्रान्तेः प्रयोक्त्री सा वागा­द्यु­त्क्र­म­णस्य च || ९० ||

मुख्यप्राणस्य योत्क्रान्तिः प्रयोक्त्री सैव नापरा ||
विज्ञा­ना­त्मै­क­नी­डाया भावनायाः प्रधानता || ९१ ||

सा हि देहा­न्त­र­प्रा­प्ता­वा­त्मनो मार्गदर्शिनी ||
तया प्रयुक्तः प्राणोऽयं प्राणानादाय चेतरान् || ९२ ||

आत्मनाऽनन्यभूतः सञ्ज­ल­पा­त्रा­र्क­व­द्बहिः ||
निष्क्रामति यथाकर्म सविज्ञानो भवत्यथ || ९३ ||

ननू­प­सं­हृ­ता­शे­ष­क­र­ण­त्वा­दधीः पुमान् ||
तदाकूतानुगुण्यं स्यात्प्राणादेः कथमुच्यते || ९४ ||

प्रत्य­भि­ज्ञा­त्मकं ज्ञानं संज्ञानमिति भण्यते ||
पूर्वं यद्धृ­द­य­स्या­ग्र­द्यो­त­नेन प्रकाशितम् || ९५ ||

भाविनोऽर्थस्य विज्ञानं प्रत्य­भि­ज्ञा­न­मु­च्यते ||
स तथोद्भूतविज्ञान आत्मा देहान्निगच्छति || ९६ ||

हृद­या­ग्र­प्र­का­शेन निष्क्रा­न्त­स्यापि देहतः ||
निःसंबोधस्य गमनं कथं देहान्तरं प्रति || ९७ ||

इत्यस्य परिहाराय स इत्यादि परं वचः ||
स एष ज्ञः परो देवः सविज्ञानो भवत्यथ || ९८ ||

संहृताशेषकरणो भावनाकर्महेतुतः ||
सविज्ञानो यथा स्वप्ने तथो­त्क्रा­न्ता­व­पी­ष्यते || ९९ ||

विशे­ष­ज्ञा­न­सं­बन्धः कर्मणैवास्य हेतुना ||
न तु स्वातंत्र्यतो लभ्यः स्वात­न्त्र्या­सं­भ­वा­दिह || १०० ||

कृतकृत्यो भवेत्सर्वो विशे­ष­ज्ञा­न­सं­गतिः ||
स्वात­न्त्र्ये­णेह चेल्लभ्या न तु लभ्या तथाऽऽह च || १०१ ||

यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् ||
तं तमेवैति कौन्तेय सदा तद्भावभावितः || १०२ ||

एवमात्मा सविज्ञानो गन्तव्य यत्पुराऽर्जितम् ||
तदा­त्म­भा­व­वि­ज्ञा­न­स्त­दे­वातो निगच्छति || १०३ ||

यत एवमतः पुम्भिः स्वात­न्त्रा­यार्थं प्रयत्नतः ||
योगा­दि­सा­ध­ना­भ्यासः कर्तव्यः पुण्यसंचयः || १०४ ||

सर्व­शा­स्त्र­स­मा­र­म्भ­स्त­द­र्थोऽयं महानिह ||
वाङ्भ­नः­का­य­सा­ध्या­ना­मु­पा­यानां प्रबुद्धये || १०५ ||

तथाऽ­न­र्थ­प­रि­प्रा­प्ता­वु­पा­यानां निषेधनम् ||
एतावानेव शास्त्रार्थः कर्त्रधीनः सुखाप्तये || १०६ ||

मात्रा­ल­क्ष­ण­मा­दानं कृत्वा स्वप्नस्य सर्जनम् ||
यथेह न तथा किंचिदुपादानं समीक्ष्यते || १०७ ||

अथैवं देवतात्यक्ते लिङ्गे देहाद्बहिर्गते ||
लोकान्तरगतौ हेतुर्लोकारम्भे च भण्यताम् || १०८ ||

आत्मनः परलोकाय यत्स्या­द्ग­म­न­का­र­णम् ||
भुङ्क्ते गत्वा च यत्तत्र देहारम्भे च कारणम् || १०९ ||

लिङ्गानस इतो देहाद्देहमन्यं निगच्छतः ||
संभारः कोऽस्य गत्यर्थो देहारम्भे च कथ्यताम् || ११० ||

इतो जिगमिषुं विद्याकर्मणी ये पुराऽर्जिते ||
तं समन्वारभेते ते या चाभू­त्पू­र्व­वा­सना || १११ ||

विज्ञानं संशयज्ञानं मिथ्या­ज्ञा­न­म­थापि वा ||
प्रमा­ण­तोऽ­प्र­मा­णाद्वा सर्वं विद्येति भण्यते || ११२ ||

संसारकारणध्वंसि यत्तु ज्ञानं परात्मगम् ||
तदत्र न परिग्राह्यं सर्वा­प­त्का­र­णा­प­नुत् || ११३ ||

संसारकारणं तस्मा­दा­त्मा­ज्ञा­ना­वि­रोधि यत् ||
अप्रा­प्त­प­र­मा­र्थार्थं ज्ञानमात्रं जिघृक्षितम् || ११४ ||

वाङ्भ­नः­का­य­साध्यं च शास्त्रतो यदि वाऽन्यतः ||
दृष्टा­दृ­ष्टा­र्थ­रूपं यत्तच्च कर्मेति गृह्यते || ११५ ||

अन्वारभेते गच्छन्तं यथोक्ते ज्ञानकर्मणी ||
गच्छन्तं पुरुषं यस्मादन्वेते स्वस्वभावतः ||
गच्छ­तोऽ­तोऽ­नु­श­ब्दोऽत्र पश्चादर्थे प्रयुज्यते || ११६ ||

गमनादिविधौ पुंसः साधनत्वं निगच्छतः || ११७ ||
कर्मणः क्रियमाणस्य संस्कारो यो हृदि श्रितः ||
तत्फ़लस्य च भुक्तस्य पूर्वप्रज्ञेति सोच्यते || ११८ ||

पूर्वो­प­चि­त­सं­स्का­र­हे­तुभ्यः साऽभिजायते || ११९ ||
षण्मा­स­शे­ष­प्रो­द्भूता वासना याऽस्य देहिनः ||
मरि­ष्य­तोऽ­न्य­दे­हार्थं पूर्वप्रज्ञेति तां विदुः || १२० ||

समर्था सैव ते यस्मा­दु­द्बोद्धुं ज्ञानकर्मणी ||
नरस्यातः प्रधा­न­त्वा­त्पृ­थ­क्तस्या ग्रहः कृतः || १२१ ||

समासेनैव निर्दिष्टे कारणत्वाविशेषतः ||
अन्यो­न्य­का­र­ण­त्वाच्च श्रुत्येह ज्ञानकर्मणी || १२२ ||

पूर्वप्रज्ञात उद्भू­ति­र्वि­द्यायाः कर्मणो यतः ||
ताभ्यां च भाव­नो­द्भू­ति­र्नि­र्दे­शोऽतो यथोदितः || १२३ ||

कर्मणो भुज्यमानस्य परिशेषो हि भावना ||
मूलं च जायमानस्य प्रधानं तेन भण्यते || १२४ ||

परिच्छेत्र्री विनिर्मात्री विद्या लोकान्तरस्य हि ||
विकर्तृ कर्म वोढ्री च पूर्वप्रज्ञेह पूर्वयोः || १२५ ||

नाना­वि­क­ल्प­स­द्भा­वा­त्सं­देहो गमनं प्रति ||
पक्षीव वृक्षात्किं ताव­त्प­रि­च्छिन्नो व्रजत्ययम् || १२६ ||

आतिवाहिकदेहेन किंवा देहान्तरं प्रति ||
गति­र्वि­का­स­सं­कोचौ भिन्न­कु­म्भ­स्थ­दी­प­वत् ||
मतं वा किं मनोमात्र देहाद्देहान्तरं व्रजेत् || १२७ ||

किंवा सर्वगतानां स्यात्क­र­णा­ना­मि­हाऽऽ­त्मनि ||
श्रुत­क­र्मा­नु­रो­धेन वृत्ति­हा­न्यु­द्भवौ क्वचित् || १२८ ||

इति भूरिविकल्पायां भूमौ सिद्धान्त उच्यते ||
अनन्ताः सर्व एवैते वाङ्म­नः­प्रा­ण­ल­क्षणाः || १२९ ||

प्राणि­क­र्मा­नु­रो­धेन प्लुष्या­दि­प­रि­मा­णता ||
इति श्रुत्यु­क्ति­त­स्तेषां प्रतिप्राणि यथामति ||
यथाकर्म गतिः स्थानं परिच्छेदोऽथ विस्तृतिः || १३० ||

स्वातन्त्र्यं पारतन्त्र्यं वाऽणि­मा­द्यै­श्व­र्य­मेव वा ||
करणानामिदं सर्वं ज्ञान­क­र्मा­दि­हे­तु­कम् || १३१ ||

अस्मदादेर्यथा तद्व­द्वि­द्या­क­र्मा­नु­रो­धतः ||
अनात्मनोऽपि चाऽऽनन्त्यं न स्वतः सिद्धमात्मवत् || १३२ ||

इतीमं पक्षमाश्रित्य श्रुत्या दृष्टान्त उच्यते || १३३ ||
तृणाग्रस्था जलूकेह प्राप्य तस्मा­त्तृ­णा­न्त­रम् ||
संह­र­त्या­त्म­नाऽऽ­त्मानं पूर्वस्मात्तत्र सा क्रमात् || १३४ ||

यथैवमेवमात्मेदं शरीरं कर्मणः क्षयात् ||
निह­त्या­चे­ष्ट­मा­पाद्य स्वात्म­लि­ङ्गो­प­सं­हृतेः || १३५ ||

गमयित्वा तथाऽविद्यां जाड्यं निःसंज्ञतामिदम् ||
अतोऽन्यमाक्रमं देहं प्राप्य भावनयाऽञ्जितः ||
पूर्व­दे­ह­स्थ­मा­त्मानं संह­र­त्या­त्म­नाऽऽ­त्मनि || १३६ ||

जलू­का­व­द्ग­ति­रि­य­मा­त्मनः प्रतिपादिता ||
तत्र देहान्तरारम्भ उपादानं किमात्मनः || १३७ ||

उप­मृ­द्यो­प­मृ­द्यास्य नित्योपात्तं किमिष्यते ||
पुनः पुनरपूर्वं वा देहारम्भाय कल्पते || १३८ ||

इति दृष्टान्तवचसा निर्ण­योऽ­स्यो­प­व­र्ण्यते || १३९ ||

पेशस्कारी यथा मात्रामुपादायेह पेशसः ||
विमृद्य रचनां पूर्वां कुरुते रचनान्तरम् || १४० ||
नवान्नवतरं रूपं कल्याणतरमेव च ||
कल्याणादिति दृष्टान्तो यथा तद्वदिहापि च || १४१ ||

आपेक्ष्य नवमादानं तत्कार्यं नवमुच्यते ||
श्रुत्या नवतरं रूपं कल्याणतरमेव च || १४२ ||

नित्योपात्तानि भूतानि करणानि च देहिनः ||
द्वे वाव ब्रह्मणो रूपे इति पूर्वमवादिषम् || १४३ ||

उप­मृ­द्यो­प­मृ­द्यैषां रचनां प्राक्तनीं पुनः ||
यथाकर्म यथाज्ञानं कुरुते रचनान्तरम् || १४४ ||

पित्रादियोग्यं पित्र्यादि ह्युत्त­मा­ध­म­म­ध्य­मम् || १४५ ||
पित्र्या­दि­लो­के­ष्वा­त्माऽयं यथाकर्म यथाश्रुतम् ||
तनुते देहजातामि भूरि­रू­पा­ण्य­वि­द्यया || १४६ ||

न तु चैत­न्य­व­त्सा­क्षा­त्सं­सा­रोऽस्य स्वतो मतः ||
इत्य­र्थ­प्र­ति­प­त्त्य­र्थ­मा­ज­गा­मो­त्तरं वचः || १४७ ||

यच्चास्य वास्तवं रूपं यच्चा­वि­द्यो­त्थ­मा­त्मनः ||
स वा इत्यादिना तस्य निर्णयः क्रियतेऽधुना || १४८ ||

तन्नि­र्ण­या­द­शे­षोऽ­र्थाऽ­नि­र्णीतः स्यात्कथं न्विति || १४८ ||

संसारी यो यथोक्तेन ग्रन्थेन प्रतिपादितः ||
तद्गृहीत्यै सशब्दोऽयं तत्स्मृत्यर्थं तथाच वै || १४९ ||

अनात्मभूत एत­स्मि­न्का­र्य­का­र­ण­ल­क्षणे ||
संसारे प्रथते योऽर्थ आत्म­नाऽ­न­न्य­मा­नगः || १५० ||

यत्साक्षिकौ यथोक्तस्य भावाभावौ प्रसिध्यतः ||
संसारवस्तुनः सोऽय­मा­त्मे­त्य­त्रा­भि­धी­यते || १५१ ||

व्यभिचारो न यस्यास्ति सर्वेषु व्यभिचारिषु ||
तदवष्टम्भतः सिद्धे­र्व्य­भि­चा­रस्य सर्वदा || १५२ ||

प्रत्यक्तयाऽस्य साक्षा­त्त्वा­द­क्रि­या­का­र­क­त्वतः ||
अन­न्य­बो­ध­मा­न­त्वा­द­य­मि­त्यु­च्यते ततः || १५३ ||

निःशे­षा­ना­त्म­त­द्धे­तु­नि­रा­क­र­ण­व­र्त्मना ||
आत्मत्वमात्मनः सिध्ये­न्ना­न्य­शे­ष­म­ना­त्म­वत् || १५४ ||

असा­धा­र­ण­सि­द्ध्यैव सिद्धिः स्यादा­त्म­व­स्तुनः ||
यतोऽत आत्मवस्त्वेव कार्य­का­र­ण­व­ज्ज­गत् || १५५ ||

न हीदमात्मनः स्थानं ततोऽन्यत्रापि वाऽश्नुते ||
आत्म­नोऽ­व्य­ति­रे­केण यतोऽनात्मा प्रसिध्यति || १५६ ||

आत्मा त्वना­त्म­प्र­त्य­क्त्वा­द्व्य­ति­रेकं न सोऽर्हति ||
स्रजीव सर्पदण्डादेः स्रग­वि­द्यो­त्थ­व­स्तुनः ||
स्रक्त­त्त्व­व्य­ति­रे­केण सिद्धि­र्ना­न्यत्र कुत्रचित् || १५७ ||

न चाभा­वा­व­सा­य्ये­त­द­भा­व­स्यापि भाववत् ||
प्रत्य­ङ्मा­त्रै­क­या­था­त्म्या­द­श्रु­त­त्वान्न चार्थतः || १५८ ||

अनूद्य निखिलं विश्वं तत्त­त्त्व­प्र­ति­प­त्तये ||
आत्मैवेति श्रुतं यस्मा­न्ना­तोऽ­न्य­त्किं­चि­दि­ष्यते || १५९ ||

प्रत्याख्याय न चाऽऽत्मा­न­म­नात्मा व्यतिरिच्यते ||
व्यति­रे­क­स्व­भा­व­त्वा­न्नापि चाऽऽत्मनि सिध्यति || १६० ||

प्रत्याचष्टे श्रुतिरतः सर्वं नेतीति चाऽऽत्मनि ||
सर्वमात्मेति च तथा व्यतिरेकं निषेधति || १६१ ||

अपू­र्वा­न­प­रा­न­न्त­रा­बाह्यं ब्रह्मलक्षणम् ||
उक्ता­त्म­व­स्तु­स्वा­भा­व्या­दात्मा ब्रह्मेत्यतो वचः || १६२ ||

प्रत्यक्त्वं ब्रह्म­ण­स्तत्त्वं ब्रह्मत्वं चाऽऽत्मनस्तथा ||
परोक्षद्वयहानेन ह्यात्मा ब्रह्मेति बोध्यते || १६३ ||

अव्या­वृ­त्ता­न­नु­गतो ब्रह्मशब्दार्थ इष्यते ||
नाऽऽत्म­नोऽ­न्यत्र लभ्योऽसौ नाप्यात्मा ब्रह्मणोऽन्यतः || १६४ ||

आत्मनोऽपि परोक्षत्वं ब्रह्म­णोऽ­वि­द्यया यथा ||
आत्मनः सद्वितीयत्वं ब्रह्मणोऽपि तथा मम || १६५ ||

अतोऽ­वि­द्या­स­मु­च्छित्तौ यथावस्त्ववबोधतः ||
आत्मा ब्रह्मैव सन्नेष ब्रह्माप्येति स्वतोऽद्वयम् || १६६ ||

यथो­क्त­बो­ध­वि­र­हा­द­स्या­न­र्थ­प­रं­परा ||
विज्ञा­ना­द्य­भि­सं­बन्धो यथा तदधुनोच्यते || १६७ ||

आत्मा ब्रह्मैव सन्नेष धर्मै­र्या­व­द्भि­र­न्वितः ||
अज्ञा­ना­त्सं­स­र­त्यत्र वर्ण्यते तत्समासतः || १६८ ||

यतोऽ­वि­द्या­न्व­येऽ­शे­ष­सं­सा­रा­न­र्थ­सं­गतिः ||
तद्ध्व­स्ता­वा­त्म­न­स्त­स्मा­त्पु­रु­षार्थः समाप्यते || १६९ ||

अवि­द्या­मा­त्र­हे­तूक्त्या ह्यात्म­नोऽ­न­र्थ­सं­गतिः ||
इत्यस्य प्रतिपत्त्यर्थं परो ग्रन्थोऽ­व­ता­र्यते || १७० ||

यद्य­वि­द्यै­क­हे­तु­स्या­त्सं­सा­रित्वं तदाऽऽत्मनः ||
विद्यार्थोऽयं समारम्भो युज्यते नान्यथा सति || १७१ ||

प्राणा­त्म­त्वा­भि­मानी सन्यतः प्राणः प्रसूयते ||
प्राणप्राणोऽपि सन्मो­हा­त्प्रा­ण­नादि प्रपद्यते || १७२ ||

ततो बुद्धि­स­मु­त्पत्तौ विज्ञा­नोऽ­स्मी­ति­भा­वतः ||
विज्ञानमयतामेति स्रक्स­र्प­म­य­ता­मिव || १७३ ||

मनसो ग्रहणं चात्र बुद्धि­वृ­त्त्यु­प­ल­क्ष­णम् ||
असुबुद्धी यतो हेतू सर्वे­षा­मि­न्द्रि­या­त्म­नाम् || १७४ ||

कर्मे­न्द्रि­याणां सार्थानां प्राणः कारणमुच्यते ||
स एव बुद्ध्यतिशयः श्रोत्रादेरपि कारणम् || १७५ ||

स्वाभ्य­स्त­भा­व­ना­तोऽस्य श्रुत­क­र्मा­नु­रो­धतः ||
प्राणो बुद्धि­र्म­न­श्च­क्षुः­श्रो­त्रा­द्य­ज्ञस्य जायते || १७६ ||

प्रायार्थे च मयत् ङ्ञेयो विका­रा­दे­र्नि­षे­ध­नात् ||
अवि­ज्ञा­ता­त्म­त­त्त्वस्य विकारो वाऽस्त्वदोषतः || १७७ ||

सर्पादयो यथा रज्ज्वा विकाराः स्युरबोधतः ||
अज्ञा­ना­दा­त्म­न­स्त­द्व­त्ते­जो­ब­न्ना­दि­वि­क्रिया || १७८ ||

न हि वेदा­न्त­सि­द्धान्ते ह्यज्ञा­ता­त्मा­ति­रे­कतः ||
सांख्यानामिव सिद्धान्ते लभ्यते कारणान्तरण् || १७९ ||

प्राणादिमयतां यात्वा तद्वृ­त्ती­ना­म­बो­धतः ||
आत्माऽकर्ताऽपि कर्तृत्वमेति तासां समुद्भवे || १८० ||

चक्षु­ष­श्च­क्षु­र­प्येवं यथा चक्षुर्मयस्तथा ||
श्रोत्रा­दि­म­य­ताऽ­प्यस्य व्याख्येया प्रत्यागात्मनः || १८१ ||

स विज्ञा­न­म­नः­प्रा­ण­च­क्षुः­श्रो­त्रादि मोहजम् ||
मन्वा­नोऽ­वि­द्य­याऽऽ­त्मैति तन्मयत्वं न तु स्वतः || १८२ ||

समा­स­व्या­स­त­स्त­द्व­त्पञ्च भूतान्यविद्यया ||
अश­ब्दा­दि­म­योऽ­प्यात्मा तन्मयत्वं निगच्छति || १८३ ||

लिङ्ग­दे­हा­वि­मा­वेवं पञ्चभूतमयावुभौ ||
प्रधा­न­गु­ण­वृ­त्त्योक्तौ सूक्ष्म­स्थू­ल­वि­भा­गतः || १८४ ||

उक्त­यो­रा­त्म­नो­र­न्त­र्य­द्रूपं भावनामयम् ||
कामा­दि­म­य­तो­क्त्येह तदिदानीं विभाव्यते || १८५ ||

कामं क्रोधं तथा धर्मं तद्विरुद्धं च मोहतः ||
संभा­व­य­न्प्र­ती­च्यात्म तन्मयत्वं निगच्छति || १८६ ||

प्रवृत्तय इहेक्ष्यन्ते वाङ्भ­नः­का­य­सा­धनाः ||
यावत्यो भावनाः पुंसामपि तावत्य एव तु || १८७ ||

इत्ये­व­मा­द­योऽ­नेके कोशाः स्युर्भावनामयाः ||
असंख्येया बहुत्वात्ते संक्षेपोऽतोऽत्र भण्यते || १८८ ||

इदमित्येव यत्सा­क्षा­त्किं­चि­त्क­र्मो­प­ल­क्ष्यते ||
परोक्षं भावनारूपं तेनादोमयतेष्यते || १८९ ||

इदंमयेन लिङ्गेन संब­न्धोऽ­दो­म­या­त्मनः ||
प्रत्यक्ष आत्मनि यथा तथाऽन्यत्रापि लिङ्ग्यते || १९० ||

धूमाग्न्योरिव संब­न्ध­स्त­यो­र्दृष्ट इहाऽऽत्मनि ||
अका­म­प्र­मु­खै­र्यो­गै­स्तथा कामादियोगतः || १९१ ||

धर्माधर्ममयो भूत्वा पुमान्सर्वमयो भवेत् ||
धर्मा­ध­र्मै­क­हे­तु­त्वा­त्स­र्वस्य जगतस्ततः || १९२ ||

अदोमयत्वं लिङ्गं स्याल्लि­ङ्गे­ने­दं­म­या­त्मना ||
भाव­ना­क­र्म­वि­द्या­ना­मे­व­मु­क्तेन वर्त्मना ||
भूरिभेदान्न शक्यन्ते वक्तुं रूपाण्यशेषतः || १९३ ||

किं कारणं पुमा­न्य­स्मा­द्य­था­कारी भवत्ययम् ||
यथाचारी च लोकेऽ­स्मिं­स्त­था­रूपो भवत्यसौ || १९४ ||

करणं नियतं चैव ततोऽन्यच्चरणं तथा ||
करणं कर्मशक्तिर्वा चरणं प्रत्ययात्मकम् || १९५ ||

साधुकारी पुमान्यः स्यात्साधुरेव भवत्यसौ ||
पितृ­ग­न्ध­र्व­दे­वादौ साधुसाधनसंपदा || १९६ ||

पापकारी च पापश्च स्थाण्वा­दा­व­भि­जा­यते ||
काम­क्रो­धा­दि­भू­यिष्ठः पुमानुग्रेण कर्मणा || १९७ ||

साध्वादि भूयो­भ्या­सा­त्स्या­त्ता­च्छी­ल्य­प्र­त्य­य­श्रुतेः ||
फ़ल­मि­त्य­ति­श­ङ्क्याऽऽह पुण्य इत्यादिकं वचः || १९८ ||

नैवा­भ्या­स­व्य­पे­क्षाऽस्ति पुण्य­पा­प­फ़­ला­प्तये ||
सकृ­द­प्य­नु­ति­ष्ठन्ना प्राप्नोत्येव फ़लं तयोः || १९९ ||

फ़ला­ति­शी­ति­र­भ्या­सा­ज्जा­यते पुण्यपापयोः ||
तत्फ़लस्य तु या प्राप्तिः सा सकृत्करणादपि || २०० ||

काम­क्रो­धा­दि­पू­र्वैव कर्तृता पुण्यपापयोः ||
पुंसः सर्वमयत्वस्य हेतुः संसारकारणम् || २०१ ||

धर्माधर्मात्मकं कर्म संसा­रा­न­र्थ­का­र­णम् ||
एत­द्वि­ष­य­मे­वै­त­द्वे­द­शा­स्त्र­म­धी­यते || २०२ ||

कर्मैव वेद­शा­स्त्रेऽ­स्मि­न्प्र­धानं निश्चितं यतः ||
पुंसोऽ­भ्यु­द­य­दुः­खाप्तौ कार्यं वर्ज्यं च तत्ततः || २०३ ||

कर्म साध्वेव कर्त­व्य­मि­च्छ­ताऽ­भ्यु­दयं चिरम् ||
पापं तु सर्वदा हेयं दुःखे­भ्य­स्त्र­स्यता भृशम् || २०४ ||

संसा­रा­न­र्थ­नि­ष्पत्तौ सर्वे­षा­म­वि­शि­ष्टता ||
आरम्भकाणां विज्ञा­न­प्र­मु­खा­णा­मि­हाऽऽ­त्मनः || २०५ ||

यद्यप्येवं तथाऽपीह धर्माधर्मात्मकं बुधाः ||
कर्म प्रधानमिच्छन्ति यतः कर्म प्रयोजकम् || २०६ ||

प्रयो­ज्य­मि­त­र­त्सर्वं विज्ञानादि यदीरितम् ||
प्रयोजकं प्रयोज्याच्च प्रधानमिति निश्चितम् || २०७ ||

पुण्य इत्यादिवचसा कर्म­प्रा­धा­न्य­वा­ञ्छया ||
कर्मोपसंहृतं श्रुत्या यथोक्तेनैव हेतुना || २०८ ||

कर्म प्रधानमित्येवं साक्षा­च्छ्रु­त्यो­प­सं­हृ­तम् ||
पूर्वपक्षेऽथ सिद्धान्तः खल्वाहुरिति भण्यते || २०९ ||

अथो खल्वत्र पूर्वोक्ते प्राहु­रु­च्चै­र्वि­प­श्चितः ||
न कर्ममय एवायं पुमान्सर्वमयः कुतः || २१० ||

यतः काममयो भूत्वा प्राप सर्वमयात्मताम् ||
प्रयो­ज­क­प्र­यो­ज्यत्वे ज्ञानादीनां प्रयोजकम् || २११ ||

कर्मैवावधृतं यद्व­त्क­र्मा­न्तानां प्रयोजकः ||
काम एवेति तत्स्पष्टं स यथेति विभाव्यते || २१२ ||

प्रयोजकत्वे कर्मादेः काम­प्रा­धा­न्य­मी­रि­तम् ||
प्रयोजकानां निष्ठात्वे न तु कामो विवक्षितः || २१३ ||

यथा­व­स्त्व­प­रि­ज्ञानं कामस्यापि प्रयोजकम् ||
आप्ता­शे­ष­सु­खा­पा­स्त­दुः­ख­त्वा­दा­त्म­व­स्तुनः || २१४ ||

नानवाप्तं सुखं किंचि­न्ना­न­पास्तं तथाऽसुखम् ||
यो वै भूमेति वच­ना­द्योऽ­श­ना­येति चाऽऽत्मनि || २१५ ||

स्वत एवंविधं वस्तु यतोऽतस्तदबोधतः ||
काम­द्वे­षा­दि­सं­भू­ति­र्मि­थ्या­ज्ञा­न­त्व­का­र­णात् || २१६ ||

अज्ञातं वस्तु चोद्दिश्य तत्त­त्त्व­प्र­ति­प­त्तये ||
प्रमाणानां प्रवृत्तिः स्यादन्यथा नोपपद्यते || २१७ ||

प्रयो­ज­क­त्वेऽ­वि­द्येयं यदि नामेह न श्रुता ||
मिति­प्र­वृ­त्ति­हे­तु­त्वा­त्त­थाऽ­प्य­त्राऽऽ­श्रि­तैव सा || २१८ ||

सर्वेषमापि मानानां प्रमाणं परमं श्रुतिः ||
सर्व­मे­या­ति­व­र्त्या­त्म­या­था­त्म्य­प्र­ति­बो­धतः || २१९ ||

तस्मादज्ञात आत्मैव कामादेः स्यात्प्रयोजकः ||
यतोऽबोधस्य विध्वस्तौ पुंसः स्यात्कृ­त­कृ­त्यता || २२० ||

वाङ्भ­नः­का­य­सा­ध्यायाः प्रवृत्तेः काममूलता ||
यथा तत्प्र­ति­प­त्त्यर्थं स यथेत्युत्तरा श्रुतिः || २२१ ||

सर्वस्य जगतो हेतू पुण्यापुण्ये समीरिते ||
यद्यपीह परो हेतुः काम एव तयोरपि || २२२ ||

अकामस्य क्रिया काचिद्दृश्यते नेह कस्यचित् ||
यद्यद्धि कुरुते जन्तु­स्त­त्त­त्का­मस्य चेष्टितम् || २२३ ||

निष्फ़लं कर्म सर्वं स्यान्न चेत्कामपुरःसरम् ||
अपराधलघुत्वं च दृष्टं पुंसोऽप्यकामतः || २२४ ||

कामप्रयुक्तो हि नरः संचिनोति शुभाशुभे ||
आत्मैवेदमिति गिरा श्रुत्यै­त­त्प्रा­ग­पी­रि­तम् || २२५ ||

कामो गर्धोऽभिलाषश्च तृष्णे­त्ये­का­र्थ­वा­चकाः ||
आसङ्गपूर्वकः कामो नाऽऽस­ङ्ग­वि­र­हा­दसौ || २२६ ||

ध्यायतो विषयान्पुंसः सङ्ग­स्ते­षू­प­जा­यते ||
सङ्गात्संजायते काम इति सर्व­ज्ञ­शा­स्त्रतः || २२७ ||

पुंसो या विषयादित्सा स काम इति भण्यते ||
तद्गु­ण­स्म­र­णा­भ्या­सा­दिच्छा पुंसोऽभिवर्धते || २२८ ||

कामि­ता­द्वि­ष­या­न्ना­न्य­स्तदा तस्येह रोचते ||
निराकर्तुं न च ततः शक्यते येन केनचित् || २२९ ||

इत्येवं वर्धमानः सन्क्रतुत्वं प्रतिपद्यते ||
यदनन्तरमेवेहा स कामः क्रतुरुच्यते || २३० ||

क्रतुना यादृशेनायं यत्क्रतुः स्यात्पुमानिह ||
कुरुते तादृशं कर्म वाङ्भ­नः­का­य­सा­धनैः || २३१ ||

यत्कर्म कुरुते चायं शुभं वा यदि वाऽशुभम् ||
संपद्यतेऽथ तत्सा­क्षा­दा­त्म­त्वेन पुमानयम् || २३२ ||

अपूर्वमिति चेदं स्याददृष्टमिति चोच्यते ||
पुण्यापुण्यमय इति प्राक्चै­त­दु­प­व­र्णि­तम् || २३३ ||

पुमान्काममय एव कर्मादेः स्यात्प्रयोजकः ||
यथा तदुक्तं श्रुत्येह मन्त्रोऽप्यत्र निगद्यते || २३४ ||

तदेवैति पुमानस्य सक्तं यत्र मनो भवेत् ||
आत्मा सक्त इदं लिङ्गं कर्मणा सह तत्सदा || २३५ ||

सूक्ष्मो देहोऽत्र लिङ्गं स्याल्लि­ङ्ग­ना­त्प्रा­त्य­गा­त्मनः ||
स्वात्म­चै­त­न्य­बि­म्बेन निःसङ्गः सक्त आत्मना || २३६ ||

उद­पा­त्रा­र्क­ग­ति­व­द­ग­ते­र्ग­ति­रा­त्मनः ||
ध्यायतीवेति च तथा निषिद्धैव स्वतो गतिः || २३७ ||

तदेवैतीति यदि वा गन्तव्यमभिधीयते ||
कामप्रधानता चैवं प्रकृ­ता­र्था­नु­रो­धिनी || २३८ ||

कामादयो यतो धर्माः स्वान्तस्यैवेह कीर्तिताः ||
तदात्ममानिनोऽतः स्युरात्मनस्ते न तु स्वतः || २३९ ||

लिङ्गा­स­क्ति­व­शा­दात्मा सक्त इत्यभिधीयते ||
सक्तः सन्कर्मणा सार्धमेत्यात्मा कर्मणः फ़लम् || २४० ||

मनोभिष्वङ्गवशगः कर्मणैति यतः सह ||
कामस्यातः प्रधानत्वं तत्प्र­यु­क्ता­त्म­सं­सृतेः || २४१ ||

लिङ्गं मनः­प्र­धा­न­त्वा­ल्लिङ्गं मन इहोच्यते ||
यदि वा लिङ्ग्यते तेन मनो लिङ्ग­मि­हाऽऽ­त्मनः || २४२ ||

निश्चयेन तदासक्तं यस्मिन्विषय आत्मना ||
विषयं कर्मणा सार्धं तमेवैतीति संगतिः || २४३ ||

इति काम­प्र­धा­न­त्व­सि­द्धा­न्त­स्यो­प­सं­हृतिः ||
कर्मणोऽन्तं फ़लं प्राप्य भुक्त्वा निरवशेषतः || २४४ ||

कस्य कर्मण इत्युक्ते यत्किंचेहेति तद्वचः || २४५ ||
फ़लभोगावसानेऽथ किमसौ प्रतिपद्यते ||
तस्माल्लोकादिमं लोकं पुनरैति स कर्मणे || २४६ ||

अस्मै लोकाय देहाय देहयोगश्च कर्मणे ||
इत्ये­व­म­प­रि­श्रान्तो बंभ्रमीति पुनः पुनः || २४७ ||

अनि­र्ज्ञा­ता­त्म­तत्त्वः सन्का­म­ब­न्ध­न­ब­न्धनः ||
घटी­य­न्त्र­व­द­श्रान्तो बंभ्रमीत्यनिशं नरः || २४८ ||

इती­त्यु­क्त­प­रा­मर्शे न्विति खेदानुकम्पयोः ||
एवमज्ञः कामवशाद्भूयो योनीः प्रपद्यते || २४९ ||

अस्माल्लोकादमुं लोक­म­मु­ष्मा­दि­म­मेव च ||
अज्ञः कामा­ङ्कु­शा­कृष्टो जायते म्रियतेऽसकृत् || २५० ||

इति कामप्रधानस्य संसा­रा­न­र्थ­सं­ग­तिम् ||
उक्त्वा तदु­प­सं­हा­र­मि­ती­ति­व­च­साऽ­क­रोत् || २५१ ||

एवं कामयमानोऽयं स्वप्न­बु­द्धां­त­व­न्नरः ||
संसा­र­त्य­प्र­बुद्धः संपरलोकॆहलोकगः || २५२ ||

अथ तस्यावदत्पूर्वं योषिदालिङ्गने यथा ||
सौषुप्तं स्थानमाप्तस्य रूपं कामादिवर्जितम् || २५३ ||

तद्वा अस्यैतदित्येवं प्राक्श्रुत्या प्रतिपादितम् ||
मोक्षो दार्ष्टा­न्ति­क­स्तस्य दृष्टान्तस्येह वर्ण्यते || २५४ ||

अथशब्दोऽत्र हेत्वर्थ उक्तस्य तदपेक्षतः ||
काम्येव हि यतोऽजस्रं संसरत्यविचक्षणः || २५५ ||

तद्भा­व­भा­वि­हे­तु­त्वा­द­तोऽ­कामो विमुच्यते ||
नरोऽकामयमानः स्यात्का­म­हे­तो­र्नि­रा­कृतेः || २५६ ||

स्वत एवा­खि­ल­सु­ख­प्रा­प्त­तत्त्वे स्व आत्मनि ||
निरस्ताशेषदुःखे च मोहात्तत्र विपर्ययः || २५७ ||

अप्राप्तं दुःख­व­न्मो­हा­न्म­न्वानः सुखमुत्तमम् ||
सुखं मे स्यादिति सदा नरः कामयतेऽबुधः || २५८ ||

तथा परि­हृ­ता­शे­ष­दुः­ख­हेतुः स्वतोऽपि सन् ||
मा भूद्दुःखं ममेत्येवं जाड्या­त्का­म­य­तेऽ­नि­शम् || २५९ ||

कृत्स्नानन्दस्य चाना­प्ति­र­वा­प्ति­र­सु­खस्य च ||
नाऽऽत्म­व­स्त्व­नु­रो­धेन तद­बो­धा­त्त­द­श्नुते || २६० ||

वस्तुतन्त्रा भवेद्विद्या कर्तृतन्त्रैव च क्रिया ||
अतः कामयमानत्वं कर्तृ­त­न्त्र­म­बो­धतः || २६१ ||

कार­का­ण्यु­प­मृ­द्नाति विद्या बीजमिवोषरम् ||
तत्का­र­णो­प­म­र्दि­त्वा­ज्ज­न्म­नैव न कारकम् || २६२ ||

यत एवमतो विद्वा­न्का­म­हे­तू­प­म­र्द­नात् ||
स्याद­का­म­य­मा­नोऽत्र न त्ववि­द्वा­न्क­थं­चन || २६३ ||

कुतोऽकामयमानः स्यादि­त्ये­व­म­भि­चो­दिते ||
योऽकाम इति वचनं पूर्व­प्र­त्यु­क्ति­रु­च्यते || २६४ ||

कामा यस्य न विद्यन्ते दृष्टा­नु­श्रा­विका बहिः ||
सोऽकाम इति संभाव्यः कृत्स्न­क­र्म­नि­रा­कृतेः || २६५ ||

क्रियमाणो यथा कामः क्रत्वादीनि प्रसूयते ||
तथा संत्यज्यमानोऽपि नैष्क­र्म्ये­णा­व­ति­ष्ठते || २६६ ||

अकामोऽपि क इत्येवं पृष्टे निष्काम उच्यते || २६७ ||
प्रयोजकात्मकाः कामा निष्क्रान्ता यस्य बुद्धितः ||
अतिग्रहाः स निष्कामो विद्व­द्भि­र­भि­धी­यते || २६८ ||

बाह्या­ना­मा­न्त­राणां च कार्यकारणता मिथः ||
प्रत्य­ग­ज्ञा­न­हेतुः स्यात्त­दु­च्छित्तौ न सा ततः || २६९ ||

तदुच्छित्तावतः प्रत्य­ग्या­था­त्म्य­ज्ञा­न­मु­च्यते ||
आप्तकामादिवचसा यथा­व­स्त्व­व­बो­धिना || २७० ||

आप्ताः सर्वे स्वतोऽप्यस्य कामा ये बाह्यसाधनाः ||
फ़ल­तोऽ­वा­प्त­का­मोऽसौ परानन्दस्वभावतः || २७१ ||

मानु­षा­न­न्द­मा­रभ्य ह्युत्त­रो­त्त­र­वृ­द्धितः ||
सह­स्र­द­श­मां­शोक्त्या परानन्दो निरूपितः || २७२ ||

कामि­का­म­प्र­भे­दस्य प्रस­क्ता­वि­द­मु­च्यते ||
श्रुत्याऽऽ­त्म­काम इत्ये­व­मा­त्मै­वामी न ते पृथक् || २७३ ||

आत्मैव सर्वमित्येवं बुद्धा­व­स्याऽऽ­प्त­का­मता || २७४ ||
अबाह्याभ्यन्तरः कृत्स्नः प्रज्ञा­न­घ­न­मा­त्र­भाक् ||
इत्येवं यस्य वेदा­न्त­वा­क्योत्थं ज्ञानमात्मनि || २७५ ||

ध्वस्ता­शे­प­त­म­स्क­त्वा­त्स­म्य­ग्ज्ञा­न­प्र­सू­तितः ||
वद तस्य कुतो हेतोः कामादेः स्यात्स­मु­त्थितिः || २७६ ||

यत्र वा अन्यदित्येवं सत्येवाज्ञान आह हि ||
ज्ञातृ­ज्ञे­या­दिकं भेदं तमोध्वस्तौ न सोऽस्त्यतः || २७७ ||

यत्र त्वस्येत्यतः प्राह ध्वस्तात्मतमसि श्रुतिः ||
तत्केन कमितीत्यादि साक्षेपं वचनं स्वयम् || २७८ ||

ऐका­त्म्य­मा­त्र­कू­ट­स्थ­प्र­बो­धा­व­सितेः कुतः ||
मातृ­मा­न­क्रि­या­मे­य­व्य­व­हा­रस्य संभवः || २७९ ||

अविजानन्हि विज्ञेयं कामं कामयते कथम् ||
ज्ञात्वैव विषयल्लोके सर्वः कामयते यतः || २८० ||

इत्ये­व­मा­त्म­का­म­त्वा­दा­प्त­का­मोऽत्र यो भवेत् || २८१ ||
आप्तकामतया तद्व­न्नि­ष्का­मत्वं समुश्नुते ||
निष्कामत्वेन चाकामः स आत्मज्ञो विमुच्यते || २८२ ||

संसा­रा­न­र्थ­बी­जस्य प्रध्वं­सा­दा­त्म­बो­धतः ||
तस्मादात्मनि विज्ञाते कामहेतोरसंभवात् || २८३ ||

काम­क­र्मा­द्य­स­द्भा­वा­त्पूर्ण आत्माऽवतिष्ठते ||
न तस्ये­त्यु­त्त­रो­क्त्याऽयं यथोक्तोऽर्थः समर्थ्यते || २८४ ||

अपा­स्ता­न­र्थ­हे­तुत्वं यदुक्तं प्रत्यगात्मनः ||
योऽकाम इत्यादिगिरा यो वेदाऽऽ­त्मा­न­मा­ग­मात् || २८५ ||

जिघृक्षत्यायसं तप्तं शास्त्रा­चा­र्या­त्म­नि­श्च­यात् ||
तस्यो­त्क्रा­मन्ति न प्राणा आसते नापि तत्र ते || २८६ ||

स्थित्यु­त्क्रा­न्त्योर्हि यो हेतु­रा­त्मा­वि­द्या­दि­ल­क्षणः ||
ध्वस्त­त्वा­त्तस्य सर्वस्य प्रत्य­ग्या­था­त्म्य­द­र्श­नात् || २८७ ||

यत एवमतः प्राणाः सम्यग्ज्ञानस्य जन्मनि ||
नोत्क्रामन्ति न तिष्ठन्ति न च नश्यन्त्यहेतुतः || २८८ ||

रज्जुसर्पो यथा लोकेऽ­ज्ञा­त­र­ज्जु­स­त­त्त्वकः ||
नोत्क्रामति न चाप्यास्ते न च नश्यति रज्जुतः || २८९ ||

स्थित्यु­त्क्रा­न्ति­वि­ना­शानां रज्जुस्तत्त्वं यतस्ततः ||
रज्जु­ज्ञा­न­स­मु­त्पत्तौ रज्ज्वा नान्योऽवशिष्यते || २९० ||

अवि­द्या­त­ज्ज­नि­र्मुक्तं वस्त्वत्रैवेति भण्यते ||
समि­त्यै­का­त्म्य­मा­त्रेण प्राणानां स्थितिरुच्यते || २९१ ||

अवनीयन्त इत्युक्त्या नाशा­दि­भ्योऽ­न्य­तो­गतिः ||
प्रत्य­ङ्भा­त्रै­क­नि­ष्ठ­त्वान्न भावाभावयोः स्थितिः || २९२ ||

तादात्म्यमेव सर्वत्र कार्य­का­र­ण­व­स्तुनः ||
उत्क्रा­न्त्या­देश्च कृत्स्नस्य सर्व­मा­त्मे­ति­शा­स्त्रतः || २९३ ||

इति वस्तु स्वतो बुद्धमज्ञानं चानुभूतितः || २९४ ||
प्रत्य­ग्या­था­त्म्य­मा­त्र­त्वा­त्त­न्मो­हा­द्य­प्य­शे­षतः ||
निवर्तते निवृत्तं चेत्ये­त­द­प्य­नु­भू­तितः || २९५ ||

यत एवमतो वस्तु मुक्तमेव विमुच्यते ||
कठवल्लीषु चाप्युक्तं विमुक्तश्च विमुच्यते || २९६ ||

इहापि सपरीवारं श्रुति­न्या­यो­प­प­त्ति­मत् ||
श्रुतिस्तदेव चाऽऽचष्टे वस्तु ब्रह्मैव सन्निति || २९७ ||

ब्रह्म वा इदमित्येवं सूत्रितं वस्तु यत्पुरा ||
स्पष्टं व्याख्याय तच्छ्रुत्या ह्युप­सं­ह्रि­य­तेऽ­धुना || २९८ ||

योऽयं संसारभूमिष्ठो व्याख्या­तोऽ­ज्ञा­त­त­त्त्वकः ||
कार्य­का­र­ण­रू­पोऽयं मोह­वृ­त्ता­नु­रो­धतः || २९९ ||

यतो ब्रह्मैव सन्नेष प्रथते मोहतोऽन्यथा ||
ब्रह्मैवैतीह सन्ब्रह्म तस्मा­न्मो­ह­नि­रा­कृतौ || ३०० ||

नान्य­द­ज्ञा­न­तोऽ­स्तित्वं द्विती­य­स्याऽऽ­त्मनो यथा ||
निवृ­त्ति­स्त­द्व­दे­वास्य नाव­ग­त्या­त्म­नोऽ­परा || ३०१ ||

यस्मादेतत्स्वतो बुद्धं स्वतः शुद्धमतोऽद्वयम् ||
प्रमा­त्रा­दे­स्त­द­ज्ञा­न­नि­वृत्तौ विनिवृत्तितः || ३०२ ||

मुक्तं चातः स्वतस्तत्त्वं मुक्त­मि­त्यु­प­च­र्यते ||
तद­वि­द्या­दि­वि­ध्वं­सा­त्र्रिर्वः शपथयाम्यहम् || ३०३ ||

योऽक्रियाकारकं साक्षा­द­क्रि­या­का­र­का­त्मकः ||
आत्मा­न­मा­त्म­नै­वाऽऽत्मा साक्षाद्वेत्ति सुषुप्तवत् || ३०४ ||

निर­स्ता­शे­ष­सं­भेदं दृष्टिमात्रं निरञ्जनम् ||
वितमस्कं स आत्म­ज्ञ­स्त­तोऽन्ये मूढचेतसः || ३०५ ||

न तस्य जीवतः कश्चि­द्वि­शे­षोऽस्ति मृतस्य वा ||
यतः सर्व­वि­शे­षा­णा­म­वि­द्यै­वास्ति कारणम् || ३०६ ||

अवि­चा­रि­त­सं­सि­द्धि­प्र­त्य­ङ्मो­हा­दि­ल­क्षण -
व्यव­धा­न­मा­त्रा­भा­वेन ब्रह्माप्येतीति शब्द्यते || ३०७ ||

इतोऽन्यथा चेन्मोक्षः स्यादा­र­म्भोऽ­न­र्थकः श्रुतेः ||
मुक्तेश्च कर्म­हे­तु­त्वा­द­नि­त्यत्वं प्रसज्यते || ३०८ ||

एष नित्यो महिमेति श्रुतिवाक्यं विहन्यते ||
स्वाभा­वि­का­त्स्व­भा­वाच्च नित्यो नान्योऽस्ति कश्चन || ३०९ ||

आत्मस्वभावो मोक्ष­श्चे­द्वि­य­च्छि­द्र­त्व­व­त्सदा ||
अग्न्यु­ष्ण­व­च्चा­श­क्योऽतः कर्मोत्थ इति भाषितुम् || ३१० ||

ज्वल­न­व्या­पृ­ते­रग्नेः प्रकाशौष्ण्यादि चेत्फ़लम् ||
नोप­ल­ब्ध्य­न्त­रा­या­र्थ­ध्वं­सा­भि­व्य­क्त्य­पे­क्षतः || ३११ ||

ज्वल­न­व्या­पृ­ते­र्वह्नेः प्रका­शौ­ष्ण्या­दि­ज­न्मनः ||
न त्वग्न्य­पे­क्ष­यौ­ष्ण्या­दे­र­भि­व्य­क्त­स्व­भा­वतः || ३१२ ||

नाभि­व्य­ञ्ज­क­सं­साध्या घटादेरिव चाऽऽत्मनः ||
अभिव्यक्तिः स्वतो­भा­स्व­द्बो­ध­मा­त्रै­क­रू­पतः || ३१३ ||

अग्नेरन्यस्य पुंसोऽ­ग्नि­ज्व­ल­ना­दि­नि­मि­त्ततः ||
उष्ण­प्र­का­श­यो­र्व्य­क्ति­र्व्य­व­धा­नस्य संभवात् || ३१४ ||

अप्य­भि­व्य­क्ति­रू­पेऽ­स्मि­न्मोक्षे नैवास्ति कार्यता ||
प्रदी­पा­दे­र­भि­व्यङ्ग्यं नैव कार्यं घटादिकम् || ३१५ ||

अभिव्यक्तिश्च नैवास्ति सौष्ण्या­द्या­त्म­क­व­स्तुनः ||
तद­न्त­रा­या­स­द्भा­वा­द्वा­स्तवी न तु मोहजा || ३१६ ||

ज्वालानुग्रहतो वह्ने­स्त­त्प्र­का­शा­दि­द­र्श­नात् ||
भ्रमोऽ­य­म­ग्नि­व्या­पा­रा­दु­ष्णा­दे­र्ज­न्म­क­ल्पना || ३१७ ||

न चेदग्नेः प्रका­शा­दि­स्व­भा­वोऽ­भ्यु­प­ग­म्यते ||
यत्स्या­त्स्वा­भा­विकं यस्य तदुदाहरणं भवेत् || ३१८ ||

न च स्वाभाविको धर्मः कस्यचिन्नास्ति वस्तुनः ||
स्वयं तु भवतो यस्मा­द्व­स्तु­नोऽ­न्येन संगतिः || ३१९ ||

निग­ड­ध्वं­स­व­न्नापि पुंसो मोक्ष इहाऽऽत्मनः ||
निवृत्तिमात्रं बन्धस्य कथंचिदुपपद्यते || ३२० ||

एकमेवाद्वितीयं सद्द्वितीयं तदबोधतः ||
न च बद्ध­स्त­तोऽ­न्योऽस्ति यस्य नश्यति बन्धनम् || ३२१ ||

प्रतीचो व्यतिरेकेण तथैवाव्यतिरेकतः ||
वस्त्वन्तरस्य सद्भावमभावं च प्रयत्नतः || ३२२ ||

निराकार्षं सुयु­क्त्युक्त्या मोक्षोऽ­तोऽ­ज्ञा­न­नि­ह्नुतिः ||
सर्पा­द्य­भा­व­व­द्र­ज्जु­मो­ह­मा­त्र­नि­वृ­त्तितः || ३२३ ||

ये तु व्याचक्षते मोक्षे नित्या­न­न्दै­क­गो­चरा ||
ज्ञाना­भि­व्य­क्ति­रि­त्येवं स्वसि­द्धा­न्त­स­मा­श्र­यात् || ३२४ ||

तैर­भि­व्य­क्ति­श­ब्दार्थो वक्तव्यः कीदृगिष्यते ||
प्रसिद्ध एव चेदर्थो विज्ञा­ना­ल­म्ब­ना­प्तिता || ३२५ ||

विज्ञा­ना­ल­म्ब­न­प्राप्तिः किं सतो वाऽथवाऽसतः ||
अभिव्यक्तिः सत­श्चे­त्स्या­द्यस्य मुक्तस्य तत्सुखम् || ३२६ ||

स्वरूपमेव तस्येति विशेषणमनर्थकम् ||
मुक्तौ तद्व्यज्यते ज्ञानं सुखं चेति यदीरितम् || ३२७ ||

स्वात्मभूतं हि यद्यस्य नैव तद्व्यवधीयते ||
आत्म­न­स्त­त्स्व­भा­व­त्वा­त्स­र्व­देति विनिश्चयः || ३२८ ||

अमुक्तावथवा मुक्तौ विशेषोऽस्ति न कश्चन ||
प्रत्य­गा­त्म­स्व­भा­व­त्वा­त्सु­ख­वि­ज्ञा­न­यो­रतः || ३२९ ||

मुक्तौ तद्व्यज्यत इति विशेषवचनं मृषा ||
स्वसि­द्धा­न्त­वि­रो­धोऽपि तद­भि­व्य­क्ति­वा­दिनः || ३३० ||

सत्कार्यवादिनो यस्मा­द­भि­व्यक्तिः प्रशस्यते ||
व्यज्यते सर्वमेवेदं सत्त्वा­त्स­र्वस्य वस्तुतः || ३३१ ||

आरम्भवादे त्विच्छादेः कार्य­त्वा­द­स­दा­त्मता ||
अस­त­श्चा­प्य­भि­व्य­क्तिर्न युक्ता खरशृङ्गवत् || ३३२ ||

व्यङ्ग्य­व्य­ञ्ज­क­सं­बन्धः प्रदीपघटयोरिव ||
उभयोः सिद्ध­यो­र्यो­गा­न्नेष्टा कारणकार्यता || ३३३ ||

सुख­वि­ज्ञा­न­यो­श्चापि किमभेदोऽथवा भिदा ||
नैक्येऽ­भि­व्य­क्ति­श­ब्दार्थः कदाचिदपि लभ्यते || ३३४ ||

अथ भेदस्तयोरिष्टो व्यवधानं प्रसज्यते ||
तद्भे­दा­भे­द­ता­सिद्धौ न च मानमिहास्ति वः || ३३५ ||

भेदग्राहि न नो मान­मि­तोऽ­न्य­त्रापि विद्यते ||
मेय­मा­त्रा­व­सा­यि­त्वा­त्स­र्व­मा­नस्य सर्वदा || ३३६ ||

स्वमे­य­व्य­ति­रे­केण मेया­न्त­र­स­मा­श्रयः ||
न व्यावृ­त्त्य­नु­वृ­त्त्या­दि­व्या­पा­रोऽस्ति मितेः क्चित् || ३३७ ||

अभिव्यक्तिः सुखस्यास्तु कामं ज्ञानेन संगतेः ||
ज्ञानव्यक्तौ तु किं मानं यतोऽ­भि­व्य­क्ति­वा­गि­यम् || ३३८ ||

प्रमाणानां प्रमाणत्वं न स्वरूपप्रमेयता ||
न च मानान्तरादिष्टं तयो­स्तु­ल्य­स्व­भा­वतः || ३३९ ||

अभि­व्य­क्ति­र्म­ताऽ­थापि कादाचित्की न सर्वदा ||
तद­न्त­रा­य­स­द्भा­वा­द­व्यक्तिः स्यात्सदा ध्रुवम् || ३४० ||

अन्तरायनिवृत्तौ च व्यपेक्षा वः प्रसज्यते ||
साधनान्तरविषया तज्ज्ञा­न­व्य­ति­रे­कतः || ३४१ ||

उप­ल­ब्ध्ये­क­नी­डत्वे व्यवधानस्य कल्पना ||
न चोपपद्यते माना­त्त­यो­रे­का­त्म­क­त्वतः || ३४२ ||

एवं च सत्यभिव्यक्तिः सर्वदा सुखबोधयोः ||
अभिव्यक्तिर्न चेदेवं नाभिव्यक्तिः सदा तदा || ३४३ ||

इतोऽन्यथा कल्पनायां न प्रमाणं समीक्ष्यते || ३४४ ||
नाप्ये­का­श्र­यिणां लोके धर्माणां क्वचिदीक्ष्यते ||
मान­मे­य­त्व­सं­बन्धो मिथो­यो­ग्य­त्व­त­स्तथा || ३४५ ||

सुखादिव्यक्तितः पूर्वं यस्य संसारिता मता ||
सोऽन्य एव सदा­व्य­क्त­नि­त्य­ज्ञा­न­सु­खा­त्मनः ||
शीतोष्णयोरिव तयो­र्वै­ल­क्ष­ण्या­त्प­र­स्प­रम् || ३४६ ||

परा­त्म­भे­द­क्लृप्तौ च संत्यागो वः प्रसज्यते ||
यतो वैदिकपक्षस्य नातः कल्प्याऽऽत्मनो भिदा || ३४७ ||

आत्म­धी­मा­न­मा­त्र­त्वा­त्प्र­त्य­गा­त्मै­क­व­स्तुनः ||
प्रमाणासंभवश्च स्यादा­त्म­भे­द­प्र­क­ल्पने || ३४८ ||

नन्विदानीं यथा तद्वन्मुक्तौ चेदविशेषता ||
नातियत्नो भवेन्नृणां शास्त्र­वै­य­र्थ्य­मेव च || ३४९ ||

नाऽऽत्मा­वि­द्या­हा­न­मा­त्र­का­रि­त्वा­दा­ग­मा­त्मनः ||
तदर्थं यत्नसाफ़ल्यं शास्त्रा­र­म्भोऽपि चार्थवान् || ३५० ||

मुक्ता­मु­क्त­त्व­रू­पोऽयं न विशेषोऽस्ति वस्तुनि ||
तदविद्यैव निःशेषविशेषाणां प्रसूतिकृत् || ३५१ ||

अशेषानर्थहेतुं तामविद्यां शास्त्रजा मतिः ||
यतो निहन्ति तेन स्यात्साफ़ल्यं यत्नशास्त्रयोः || ३५२ ||

अथा­वि­द्या­व­तोऽ­वि­द्या­हा­न्य­हा­नि­कृतो भवेत् ||
विशेष आत्मनः कश्चिदिति चेन्नैवमिष्यते || ३५३ ||

अवि­द्या­मा­त्र­हे­तू­त्थ­गो­च­र­त्व­स­मा­श्र­यात् ||
रज्जु­ख­ण्डा­द्य­वि­द्यो­त्थ­स­र्पा­दि­वि­नि­वृ­त्ति­वत् || ३५४ ||

आत्मनो मोह­क­र्तृ­त्व­म­क­र्तृत्वं यदीष्यते ||
विशेष इति नैवं स्याध्यायतीवेति वारणात् || ३५५ ||

अजो न जायते नेति ध्यायतीवेति चाऽऽगमैः ||
निषेधः क्रिय­तेऽ­शे­ष­वि­का­रा­दे­रि­हाऽऽ­त्मनः || ३५६ ||

विष­य­त्वो­प­प­त्तेश्च प्रत्य­ङ्मो­ह­त­दु­त्थयोः ||
नावि­द्या­वा­न्भ­वे­दात्मा नापि तत्का­र्य­वां­स्ततः || ३५७ ||

ग्राह­क­ग्र­ह­ण­ग्रा­ह्य­भा­वा­भा­व­प्र­सि­द्धता ||
यथाऽऽ­त्म­सा­क्षिका तद्वन्न वेद्मी­त्या­त्म­सा­क्षि­कम् || ३५८ ||

अज्ञा­त­त्वा­न्य­था­ज्ञा­त­सि­द्धे­रा­त्मै­क­सा­क्षितः ||
अज्ञा­न­म­न्य­था­ज्ञा­न­मतो नास्त्या­त्म­सा­क्षिणः || ३५९ ||

न हि यो यत्र साक्षीह स तत्राज्ञ इतीर्यते ||
असामान्येन तत्सिद्धेः साक्षि­सा­क्ष्य­प­दा­र्थयोः || ३६० ||

तस्मिन्साक्षी च मूढ­श्चे­त्य­ती­वै­त­द्वि­रु­ध्यते ||
मिथो वाक्यमतो नेदृग्वक्तव्यं मानिना ततः || ३६१ ||

न जाने मुग्ध एवाहं भवदुक्तं मनागपि ||
इति चेद्वीक्षसे तर्हि मूढमज्ञं च कुम्भवत् || ३६२ ||

त्वं त्वज्ञो मूढ एवेति भव कामं यथेच्छसि ||
मूढाज्ञयोस्तु यः साक्षी नासौ मुग्धोऽज्ञ एव वा || ३६३ ||

लोकेऽपि यस्य यः साक्षी सम्यगर्श्येव तस्य सः ||
यथा लोके तथेहापि साक्षी सम्यक्प्रपश्यति || ३६४ ||

महा­भू­ता­दि­धृ­त्यन्तं क्षेत्रमेवेति चाब्रवीत् ||
साक्षा­त्स्व­यं­भू­र्वे­दात्मा संसा­रा­न­र्थ­शा­न्तये || ३६५ ||

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ||
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत || ३६६ ||

ज्योतिषामपि तज्ज्योतिः स्वयं­ज्यो­तिः­श्रु­ते­स्तथा ||
न तत्र सूर्यो भातीति नान्योऽ­तोऽ­स्तीति च श्रुतेः || ३६७ ||

यत एवमतो नास्ति विशेषोऽत्र मनागपि ||
बन्ध­मो­क्षा­दि­रू­पोऽ­य­मा­त्म­नीति विनिश्चयः || ३६८ ||

ये त्वतः कल्प­य­न्ती­म­म­न्य­थैव महाधियः ||
अर्थवादं च बन्धादिशास्त्रं व्याचक्षते तथा || ३६९ ||

इत्यु­क्ता­व­स­कृ­त्पूर्वं परिहारोऽपि वर्णितः || ३७० ||
एवं परि­हृ­तेऽ­प्या­हु­र्य­थेच्छं दूषणं परे ||

विद्वद्भिस्त उपेक्ष्याः स्युर्बा­लो­न्म­त्त­समा जनाः || ३७१ ||

ब्रह्मा­प्ये­ती­त्यतो वाक्य मुपचार समाश्रयात् ||
तदविद्योत्थ देहादि संतत्युच्छेद हेतुतः || ३७२ ||

अवि­द्या­ध्व­स्ति­मा­पेक्ष्य सम्य­ग्धी­ज­न्म­मा­त्रतः ||
आत्मा ब्रह्मैव सन्सा­क्षा­द्ब्र­ह्मा­प्ये­तीति भण्यते || ३७३ ||

इत्ये­त­त्स­र्व­वे­दा­न्त­स­र्वस्वं ब्राह्मणोदितम् ||
अर्थस्य ब्राह्मणोक्तस्य द्रढिम्नेऽतः परा श्रुतिः || ३७४ ||

यथा काममये तद्वन्मन्त्रं श्लोकमुदाहरत् ||
ब्रह्मास्मीति परि­ज्ञा­ना­त्प्र­त्य­ग­ज्ञा­न­हा­नतः || ३७५ ||

यदा सर्वेऽखिलाः कामाः काम्यैश्च विषयैः सह ||
प्रमुच्यन्ते विनश्यन्ति तेषा­म­ज्ञा­न­हे­तुतः ||
कार्याणां कारणे वृत्ति­र्ना­न्यत्र जगतीक्ष्यते || ३७६ ||

यदा कामाः प्रमुच्यन्त इत्युक्त्यैव कृतार्थता ||
विशेषणं सर्व इति किमर्थमभिधीयते || ३७७ ||

जाग्र­त्स्व­प्न­क्षये कामाः प्रमु­च्य­न्तेऽ­खिला नृणाम् ||
संस्का­र­मा­त्र­शे­षास्ते सुषुप्ते यान्ति संक्षयम् ||
यतस्तदवरोधार्थं तस्मा­त्स­र्व­वि­शे­ष­णम् || ३७८ ||

कामहेतौ हि विध्वस्ते न कश्चिदवशिष्यते ||
संस्कारो वाऽथवाऽप्यन्यः, सर्व­स्या­ज्ञा­न­मू­लतः || ३७९ ||

हृदि श्रिता इति वचः काम­ध­र्म्य­ब्र­वी­न्मनः ||
कामः संकल्प इत्येवं तथाच प्राक्श्रु­ती­र­णम् || ३८० ||

इदं च हेतुवचनं प्रतिज्ञातस्य वस्तुनः ||
हृदि श्रिता यतः कामाः प्रमु­च्य­न्तेऽ­खि­ला­स्ततः || ३८१ ||

अविद्याया यतः कार्य­म­ध्या­त्मा­दि­वि­शे­ष­णम् ||
त्रयं वा इदमित्युक्तं वाङ्भ­नः­प्रा­ण­भे­द­वत् || ३८२ ||

अतोऽ­वि­द्या­स­मु­च्छित्तौ तद्धेतूनामशेषतः ||
कामानामपि नाशः स्याद्ग्र­हा­ति­ग्र­ह­रू­पि­णाम् || ३८३ ||

निःशे­ष­ज­नि­म­द्धेतुः काम एवावधारितः ||
श्रिता अतिग्रहाः कामा­इ­न्द्रि­याणां प्रवर्तकाः ||
हृदि श्रिता इति वच­स्ते­षा­म­व­रु­रु­त्सया || ३८४ ||

वेदव्यासोऽपि च मुनिर्जगादेमं यथोदितम् ||
श्रुत्य­र्थ­मु­र­री­कृत्य लोका­नु­ग्र­ह­का­म्यया || ३८५ ||

विषया विनिवर्तन्ते निराहारस्य देहिनः ||
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || ३८६ ||

एवं बुद्धेः परं बुद्ध्वा संस्त­भ्याऽऽ­त्मा­न­मा­त्मना ||
जहि शत्रुं महाबाहो कामरूपं दुरासदम् || ३८७ ||

हेत्वर्थे चाथशब्दोऽयं हेत्व­र्थ­प्र­कृ­त­त्वतः ||
यस्मादज्ञानतो मर्त्योऽ­तोऽ­मृ­तोऽ­ज्ञा­न­हा­नतः || ३८८ ||

प्रत्य­ग्या­था­त्म्य­वि­ज्ञानं यद­त्रे­त्य­भि­धी­यते ||
सम्य­ग्ज्ञा­न­स­मु­त्प­त्ता­व­त्रैव ब्रह्म सोऽश्नुते || ३८९ ||

ब्रह्मज्ञानोदये यस्मा­ज्ज­न्म­बन्धो व्यपेयते ||
मृतिरात्ममति स्तस्य हेतु­हे­तू­प­म­र्द­नात् || ३९० ||

यथो­क्ता­द­न्य­थै­वेमं व्याख्या­ना­द्य­त्नतो बुधाः ||
श्लोकं व्याच­क्ष­तेऽ­युक्त्या हुत­भु­ग्व­र­सं­श्र­यात् || ३९१ ||

यथैव पूर्वं संसारः काम­मू­लोऽ­नु­व­र्णितः ||
श्लोकेन तद्वन्मोक्षोऽपि निष्का­म­स्यो­प­व­र्ण्यते || ३९२ ||

प्राज्ञादात्मन एत­स्मा­त्प्र­मु­च्य­न्तेऽ­खिला यदा ||
कामास्ते कतम इति तद्वि­शे­ष­ण­मु­च्यते || ३९३ ||

हृदि येऽस्य श्रिताः कामाः प्रमुच्यन्ते त एव तु ||
आत्माश्रितास्तु ये त्वस्य प्रमुच्यन्ते न ते सदा || ३९४ ||

हृदयं नाम विज्ञानं मांसपेशी च भण्यते ||
रूढ्या वृत्ति­र्मां­स­खण्डे तात्स्थ्या­द्वि­ज्ञा­न­वा­च­कम् || ३९५ ||

कामाः पुनरिहोच्यन्ते य उक्ता वासनात्मकाः ||
माहा­र­ज­न­मि­त्या­दि­वा­क्ये­नाऽऽ­त्म­वि­शु­द्धये || ३९६ ||

प्राज्ञ­स्या­भ्या­न्तरं रूपं तन्मा­हा­र­ज­ना­दि­कम् ||
हृदयाश्रयिणस्ते तु बाह्याः स्युर्बा­ह्य­सं­श्र­यात् || ३९७ || ||

हृद­या­श्र­यि­का­मेभ्य आत्मसंश्रयिणां यतः ||
प्रसूतिरिह कामा­ना­म­तोऽ­ने­क­स­मा­श्र­यात् || ३९८ ||

हृदयाश्रयणं तेषां विशेषणमिहोच्यते ||
आत्माश्रयाणां कामानां विनिवृत्तिः फ़लं हि तत् || ३९९ ||

मनो­द्वा­रो­प­सं­क्रान्ता भावना याऽऽत्मनि स्तिता ||
देहिनो जन्मवीजं सा तदु­च्छे­दा­द्वि­मु­च्यते || ४०० ||

बीज­स्थ­स्या­ङ्कु­र­स्येह जन्माऽऽश्रित्य यथैव गाम् ||
आश्रयादेव जन्मैवं कामानां हृदयाश्रयात् || ४०१ ||

हृदयेन च संब­न्धा­द्दृ­श्यन्ते येन तेऽखिलाः ||
अतो विशेषकार्येण विशेष्यन्ते हृदैव ते || ४०२ ||

हृदि श्रिता यदा कामाः प्रमु­च्य­न्तेऽस्य देहिनः ||
अथ मर्त्योऽमृतः प्राज्ञो भवतीत्येष निश्चयः || ४०३ ||

विद्या­क­र्म­स­मू­हेन येनायं परमात्मनः ||
संसारित्वं परिच्छिद्य प्रापितः स यदाऽखिलः ||
प्रमुच्यतेऽथ तद्धानाच्छुद्धो ब्रह्म समश्नुते || ४०४ ||

आत्म­का­मो­क्ति­मा­नाच्च प्राग­प्ये­त­द्वि­नि­श्चि­तम् ||
आत्मैव कामा अस्येति न भिन्ना हार्दकामवत् || ४०५ ||

तत्र ये त्वात्म­नोऽ­भि­न्ना­स्ते­भ्योऽ­न्य­त्व­का­र­णात् ||
प्रमु­क्ति­रा­त्मनो नास्ति तैरसंसर्गतः सदा || ४०६ ||

संसर्गः प्रविवेको वा भिन्न­यो­र्व­स्तु­नो­र्यतः ||
नाभिन्नयोरतो मुक्त आत्म­स्था­ना­म­भे­दतः || ४०७ ||

मिथ्यादर्शनजा ये तु माहारजनपूर्वकाः ||
अन्य­त्वेऽ­व­स्थिता बन्धहेतुत्वेन च सर्वदा || ४०८ ||

संसर्गप्रविवेकौ स्तो यतस्तैरात्मनः सदा ||
तानेवोद्दिश्य तेनेदं विशेषणमिहेरितम् || ४०९ ||

हृदयाश्रयिणो येऽस्य न त्वात्मै­क­स­मा­श्रयाः ||
कामास्तेऽस्य प्रमुच्यन्त इत्ये­त­त्प्रा­ग­पी­रि­तम् ||
तदा तीर्णो भवत्येष शोका­न्हृ­द­य­सं­श्रि­तान् || ४१० ||

शोका­भि­धा­ना­स्त­त्रापि कामा एवोदिताः पुरा ||
न्याय­स्त­त्रा­प्ययं कृत्स्नः संभवत्येव निर्णये || ४११ ||

इति श्रीम­न्म­हा­भ­र्तृ­प्र­प­ञ्चस्य महीयसः ||
व्याख्यामधीयते धीरा न्याया­ग­म­ब­हि­ष्कृ­ताम् || ४१२ ||

सर्वात्मभावं विद्यायाः फ़लमुक्त्वा च नः श्रुतिः ||
अथ योऽन्यामिति गिरा प्राहाविद्यां तथा फ़लम् || ४१३ ||

कार्यकारणरूपेण यदे­त­द्भे­द­द­र्श­नम् ||
अविद्याया इदं कार्य­म­न्योऽ­सा­विति भण्यते || ४१४ ||

आ समा­प्ते­स्तृ­ती­यस्य प्रत्य­ग­ज्ञा­न­हे­तु­कम् ||
ब्रह्म वा इत्युपक्रम्य मोहकार्यं विवक्षितम् || ४१५ ||

अस्या­म­वि­द्या­धि­कृतौ सप्ता­न्ना­वि­ष्कृ­ता­विह ||
फ़ला­त्म­का­ना­म­न्नानां प्रसङ्ग इदमीरितम् || ४१६ ||

अव्याकृतस्य तत्त्वस्य नाम­रू­प­क्रि­या­त्मभिः ||
व्याकृ­ति­र्यो­दिता पूर्वं तद­ज्ञा­न­वि­जृ­म्भि­तम् || ४१७ ||

नामरूपादिभेदेन वर्णा­दि­प्र­वि­भा­गतः ||
कार्य­मे­त­द­वि­द्यायाः श्रुत्या व्याख्या­य­तेऽ­खि­लम् || ४१८ ||

कण­भु­ग्जै­मि­नी­यैर्य आत्मधर्मा इतीरिताः ||
नाऽऽत्म­नोऽ­ना­त्म­नस्ते तु काम इत्यादिनोदिताः || ४१९ ||

याव­त्किं­चि­ज्ज­ग­त्य­स्मि­न्न्रूपं मेयत्वमागतम् ||
सर्वं तन्मन एवेति श्रुत्या साक्षा­त्स्फ़ु­टी­कृ­तम् || ४२० ||

प्रकाशोऽपि च यः कश्चिदभिव्यञ्जक इष्यते ||
अभि­व्य­ङ्ग्या­भि­सं­बन्धः स च वागित्यथावदत् || ४२१ ||

क्रियात्मकं च यत्किंचिन्मानतो जगतीक्ष्यते ||
तत्सर्वं प्राण एवेति संजहार श्रुतिः स्वयम् || ४२२ ||

निश्चितं यच्च संदिग्धं तथाऽविज्ञातमेव च ||
वाङ्भ­नः­प्रा­ण­रू­पाणि तानि हीति श्रुतिर्जगौ || ४२३ ||

यतोऽ­वि­द्या­त्म­का­न्येव रूपाण्येतान्यतो दृशेः ||
नाऽऽत्मनः स्युः समस्तानि कार्य­का­र­ण­बा­ह्यतः || ४२४ ||

तथा दिग्भे­द­भि­न्नानां नाम­रू­प­क्रि­या­त्म­नाम् ||
उक्तं हृदय एवेति नीडं नाऽऽत्मा परो मतः || ४२५ ||

समान उपसंहृत्य जगत्कारणरूपके ||
कार­ण­स्या­प्य­प­ह्नुत्यै नेती­त्या­त्मा­न­म­ब्र­वीत् || ४२६ ||

कार्यकारणयोरेव निषे­धा­न्ने­ति­वा­क्यतः ||
आत्माश्रयत्वं कामानां निष्प्र­मा­ण­क­मु­च्यते || ४२७ ||

हृदयोत्पाद्यता नापि कामानामिह कीर्त्यते ||
हृदि श्रिता इति ह्युक्तेर्न श्रुता कारणात्मता || ४२८ ||

नेति नेतीति चोक्तोऽर्थो जनकं प्रति यः पुरा ||
किंज्यो­ति­रि­त्यु­प­क्रम्य स एवार्थः प्रपञ्ज्यते || ४२९ ||

क्रिया­का­र­क­क­र्मभ्यो व्युत्था­प्याऽऽ­त्मा­न­मे­क­लम् ||
पुमा­स­ना­दि­लि­ङ्गेन रवी­न्दू­दा­हृ­ते­स्तथा || ४३० ||

व्यतिरिक्तस्य तस्यै­व­मु­क्ता­ध्या­त्मा­दि­भे­दतः ||
स्वयं­ज्यो­ति­र्वि­शु­द्ध्यर्थं स वा इत्यादिका श्रुतिः || ४३१ ||

स्वतोऽसंदूषितः प्रत्य­ङ्का­म­क­र्मा­दि­भि­र्मलैः ||
अन­न्वा­ग­त­व­च­ना­त्त­थाऽ­स­ङ्ग­श्रु­ते­रपि || ४३२ ||

आत्म­शु­द्धे­र्वि­व­क्षेह न त्वशुद्धेः कथंचन || ४३३ ||

विशेषणस्य श्रव­णा­द्धृ­दी­त्या­त्मनि चेन्मतम् ||
सव्येनाक्ष्णा न पश्यामि यथा सामर्थ्यतस्तथा || ४३४ ||

नोक्तो­त्त­र­त्वा­त्सा­ध्वे­त­द्भ­व­ते­हा­भि­धी­यते ||
प्रति­ज्ञा­ता­र्थ­सि­द्ध्य­र्थ­हे­त्वर्थं तद्विशेषणम् || ४३५ ||

सर्वेषामपि कामानामाश्रयो हृदयं यतः ||
तद्धे­त्व­ति­क्र­मा­दात्मा सर्व­शो­का­ति­ग­स्ततः || ४३६ ||

अना­श्रि­त­वि­भा­गा­र्थ­म­थ­वाऽस्तु विशेषणम् ||
तेषु यत्न­वि­धे­य­त्वा­त्स­फ़लं स्याद्विशेषणम् || ४३७ ||

नाऽऽश्र­या­पे­क्ष­यै­त­त्स्या­द्धृ­दी­तीह विशेषणम् || ४३८ ||
न हि हृद्व्यतिरेकेण कामा­ना­मा­श्र­या­न्त­रम् ||
श्रुतो स्मृतौ वा न्यायाद्वा दृश्यतेऽपि प्रमान्तरात् || ४३९ ||

प्रवृत्तिः कामशब्दस्य भूयःस्वर्थेषु दृश्यते ||
कर्मादिषु जगत्यस्मिं स्तानपेक्ष्यात उच्यते ||
हृदि श्रिता इति वचो नाऽऽश्र­या­न्त­र­वी­क्षया || ४४० ||

अतिच्छन्दा इति वचः कामाधारत्व आत्मनः ||
विरुध्यते प्रमाणं सन्न चान्या­र्थ­त्व­मि­ष्यते || ४४१ ||

आत्मनः कामनीडत्वे न च मानान्तरं क्वचित् ||
सर्वकामादिवचनं प्रमाणमिति चेन्मतम् || ४४२ ||

तन्ना­ति­च्छ­न्द­व­चसा विरोधान्नास्य मानता || ४४३ ||

वस्तु­नोऽ­प्य­न्य­त­न्त्र­त्वा­त्षो­ड­शि­ग्र­ह­णा­दि­वत् ||
विकल्पोऽप्यत्र नैवास्ति न हि वस्तु विकल्प्यते || ४४४ ||

सर्वं हि खल्विदं ब्रह्मेत्येवं तत्रापि च श्रुतिः ||
प्रतिज्ञायाऽऽह युक्तिं च तज्जलानिति सादरात् || ४४५ ||

अक्रियाकारकफ़लं यतो ब्रह्माद्वयं ततः ||
त्यक्ता­शे­ष­क्रि­यै­स्त­स्मा­त्त­दु­पास्यं सदाऽऽत्मना || ४४६ ||

इत्येतज्जगतो वृत्तं ब्रह्मै­वा­का­र्य­का­र­णम् ||
अव्या­वृ­त्ता­न­नु­गतं प्रत्य­ङ्मा­त्र­स­त­त्त्व­कम् || ४४७ ||

उक्त्वैवं वस्तुनो वृत्तं तद्या­था­त्म्या­प्र­बो­ध­जम् ||
कर्त्रा­दि­का­र­का­पेक्षं क्रिया­वृ­त्त­म­भा­षत || ४४८ ||

ब्रह्मा­त्मा­न­मु­पा­सीत ब्रह्म­त­त्त्वा­वि­च­क्षणः ||
कुर्वीत स क्रतुं कर्ता ह्यकार्यत्वेऽपि वस्तुनः || ४४९ ||

मनोमयादिविषयः क्रतुः पुंसो विधीयते ||
स हि तस्मिन्यतः शक्तो लोका­ग्न्या­दि­विधौ यथा || ४५० ||

अतः कर्त्रा­दि­त­न्त्र­त्वा­त्स­र्व­का­मा­दि­व­स्तुनः ||
अति­च्छ­न्दो­क्ति­बाधः स्याद्व­स्तु­त­न्त्र­त्व­हे­तुतः || ४५१ ||

विकल्पोऽत्र न युक्तः स्यादेवमुक्तेन वर्त्मना || ४५२ ||
अस­त्य­का­म­नु­त्त्यर्था कामोक्तिर्याऽपि चाष्टमी ||
सत्यास्त इम इत्यादि स्तुतिर्वा स्याद्वि­धि­त्सिते || ४५३ ||

सन्त्यात्मनि न चेत्कामास्तदेवं फ़लवद्वचः ||
अतिच्छन्दा इति शुभं कामशोकनिषेधकृत् || ४५४ ||

निषिध्यन्ते न चेत्कामा यथोक्ताः प्रत्यगात्मनि ||
अथ काममयत्वेऽस्य संसारोऽपि न वार्यते || ४५५ ||

मतं नालं प्ररोहाय ये कामाः प्रत्यगात्मनि ||
किमर्था तर्हि तत्रैषां कल्प्यते भवता स्थितिः || ४५६ ||

न कश्चि­दु­प­यो­गोऽत्र कामानां विद्यते स्थितौ ||
अजागलस्तनस्येव प्रमा­णा­द्ब­न्ध­मो­क्षयोः || ४५७ ||

प्रमाणबलसद्भावो निष्फ़लोऽपि न वार्यते ||
प्रतीचि कामसंबन्धो न तथेति निषिध्यते || ४५८ ||

कामा­दी­ना­म­न­र्थानां प्रतीचि शतशः श्रुतौ ||
निषेधकानि वाक्यानि सन्त्यपि स्मृतिशासने || ४५९ ||

कामक्लृप्तिरतो नेह प्रत्यगात्मनि युज्यते ||
प्रमा­णा­सं­भ­वा­त्त­स्मात्सा न कल्प्या विपश्चिता || ४६० ||

प्रमा­ण­व­न्त्य­दृ­ष्टानि कल्प्यानि सुबहून्यपि ||
अदृष्टशतभागोऽपि न कल्प्यो निष्प्रमाणकः || ४६१ ||

न चाऽऽत्मकाम इत्यत्र कामाधारत्व आत्मनः ||
माना­न्त­र­प्र­सि­द्ध­त्वा­त्प्रा­माण्यं लभ्यते श्रुतेः || ४६२ ||

न चोपा­स्योऽ­य­म­प्यर्थः सर्व­का­मा­दि­व­च्छ्रुतेः ||
ऐका­त्म्य­व­स्तु­या­था­त्म्य­प्र­का­श­न­प­र­त्वतः || ४६३ ||

कण­भु­ङ्न्या­य­सिद्धा चेत्का­मा­द्या­श्र­य­ताऽऽ­त्मनः ||
श्रुते­स्त­द­न­पे­क्ष­त्वा­न्ना­पेक्ष्यं कणभुङ्मतम् || ४६४ ||

तन्नि­षे­ध­श्रु­ते­श्चापि नापेक्ष्यं तद्विरोधतः ||
सौग­ता­द्यु­क्ति­व­त्त­स्मान्न कामा­श्र­य­ताऽऽ­त्मनः || ४६५ ||

न च कामा­श्र­य­त्वेऽ­न्य­त्प्र­माणं किंचिदीक्ष्यते ||
मान­मे­या­ति­व­र्ति­त्वा­त्स्वतः सिद्धेश्च वस्तुनः || ४६६ ||

मातृ­मा­न­प्र­मे­या­र्थां­श्चाऽऽ­ग­मा­पा­यिनः सदा ||
वीक्षते योऽविलुप्ताक्षः स आत्माऽनन्यमानगः || ४६७ ||

यः स्वतो नाऽऽगमापायी तद्विरुद्धेषु सर्वदा ||
तत्रैवाऽऽत्मेति धीरेषा नाऽऽग­मा­पा­यि­व­स्तुषु || ४६८ ||

कामिनं दुःखिनं मूढं योऽविलुप्ताक्ष ईक्षते ||
नासौ कामोऽथवा कामी तत्संबन्धोऽथवा स्वयम् || ४६९ ||

एवं दुःखादिषु ज्ञेयमुक्तं प्रत्य­क्ष­सं­श्र­याम् ||
इच्छा­दे­श्चि­त्त­ध­र्म­त्वा­त्क­र्म­स्थत्वं सुनिश्चितम् || ४७० ||

इच्छा­दि­ध­र्म­व­त्सा­क्षाद्यः सदा वीक्षते मनः ||
तस्ये­च्छा­द्य­भि­सं­बन्धः केन मानेन गम्यते || ४७१ ||

प्रत्यग्वस्तु परा­ग्बु­द्धि­ग­म्यै­रि­च्छा­दिभिः कथम् ||
विरु­द्ध­त्वा­द्वि­शेष्यं स्यात्तमसा दिनकृद्यथा || ४७२ ||

एक­बु­द्ध्य­धि­ग­म्यत्वं विशे­ष­ण­वि­शे­ष्ययोः ||
नीलो­त्प­ला­दि­व­दृष्टं न तद्दृष्टं विरुद्धयोः || ४७३ ||

नापि चाऽऽत्मातिरेकेण ग्राह­कोऽ­न्योऽ­व­सी­यते ||
ग्राहकस्थश्च कामादिः स कथं ग्राह्यतां व्रजेत् || ४७४ ||

चक्षु­र्दृ­ष्टेर्न चक्षुस्थं कृष्णत्वाद्येति दृश्यताम् ||
प्रमातृस्थं न कामादि तद्व­दे­या­त्प्र­मे­य­ताम् || ४७५ ||

आत्म­त्वा­व­ग­मा­द्वाऽपि जडस्यैवेह वस्तुनः ||
कामकाम्यादि तस्यास्तु दृष्टि­मा­त्रा­त्मनो न तु || ४७६ ||

अचेतनैकनीडत्वं मयाऽपीह प्रसाध्यते || ४७७ ||
स्वेन भासेति च स्वप्ने सर्व­का­मा­दि­व­र्जि­तम् ||
स्वेनैव ज्योति­षे­त्युक्तं स्वयं­ज्यो­ति­ष्ट्व­सि­द्धये || ४७८ ||

स्वयं­ज्यो­ति­ष्ट्व­सि­द्धिश्च श्रुति­न्या­य­पु­रः­सरा ||
कामा­द्या­श्र­य­तो­क्त्याऽ­र्थात्सा त्वया बाधिता भवेत् || ४७९ ||

तथैवाऽऽत्मनि दृष्टे च सर्वं दृष्टं भवेदिति ||
कामा­दे­रा­त्म­नोऽ­न्यत्वे तच्चापि स्यात्प्र­बा­धि­तम् || ४८० ||

सर्व­वे­दा­न्त­बा­धश्च कामाद्याश्रयता यदि ||
अत्म­नोऽ­भ्यु­प­ग­म्येत तेषां तत्प्रतिषेधतः || ४८१ ||

ऐका­त्म्य­स्याऽऽ­ग­मा­र्थ­त्वा­च्छ्रु­ते­श्चा­न्या­न­पे­क्षतः ||
यतोऽ­त­स्ता­र्कि­को­क्तीस्ता नैवापेक्षामहे वयम् || ४८२ ||

हृद्याश्रितत्वं कामानां नन्वत्रोक्तं विशेषणम् ||
संभवे व्यभिचारे च तच्च स्यात् फ़लवत् सति || ४८३ ||

हृद्य­ना­श्रि­त­का­मानां संभवादिष्टमेव तत् ||
आत्मा­श्र­या­ति­रे­केण तच्चावो चं पुराऽप्यहम् || ४८४ ||

मूर्तं मर्त्यं स्थितं सच्च पृथि­व्य­प्ते­ज­सा­मि­दम् ||
न विशे­ष­ण­मि­त्य­स्मा­द­मू­र्त­त्वा­दि­क­ल्प­नम् || ४८५ ||

चलनात्मा मरुन्नित्यं दाह­कोऽ­ग्नि­रि­ती­रिते ||
विशेषणश्रवात् कृप्तिः नैत­यो­स्त­द्वि­रु­द्धयोः || ४८६ ||

वास्येऽर्थे वासनाः सर्वाः सजातीये च ता यतः ||
निःसङ्गे भिन्नजातीये ताः कुतः प्रत्यगात्मनि || ४८७ ||

प्रत्य­गा­त्मा­ति­रे­केण प्राज्ञोऽ­न्य­श्चे­द्वि­व­क्ष्यते ||
नेति नेतीति तस्यो­क्ता­न्नि­षे­धा­न्नेह संभवः || ४८८ ||

निःशे­ष­का­म­क­र्मा­दे­र्व्यु­त्था­प्याऽऽ­त्मा­न­म­ब्र­वीत् ||
तद्वा अस्यै­त­दि­त्युक्त्या नातः कामादयोऽत्र ते || ४८९ ||

तद्वा अस्यैतदित्यादेः प्राज्ञ­स्याऽऽ­न्त­र­रू­पतः ||
वास­ना­का­म­क­र्मादेः कुतोऽ­स्याऽऽ­न्त­र­रू­पता || ४९० ||

पीतरक्तादिभी रूपैः कर्मकार्यैः प्रयुज्यते ||
निर्देष्टुं शक्यते तस्मा­द­नि­र्दे­श्योऽपि सन्नसौ || ४९१ ||

भावनैव विजृम्भन्ती स्थूल­त्व­मु­प­ग­च्छति ||
अव्या­कृ­ता­दि­भा­वेन खवा­य्वा­दि­त्य­सं­ज्ञि­तम् || ४९२ ||

मूर्ता­मू­र्ता­दि­भा­वाच्च क्षीयमाणा हि सैव तु ||
निर्गुणं सन्तमात्मानं रञ्ज­यि­त्वाऽ­व­ति­ष्ठते || ४९३ ||

भावना बहुरूपाऽसौ बहु­रू­प­त्व­मा­त्मनः ||
करोत्यनामरूपस्य मणेरास्तरणं यथा || ४९४ ||

इत्यादि भवतैवोक्तं वास­नो­क्ति­प्र­स­ङ्गतः ||
इहो­क्ते­स्त­द्वि­रु­द्ध­त्वा­त्प­र­स्प­र­वि­रु­द्धता || ४९५ ||

कर्म­रा­शि­गि­राऽऽ­त्माऽपि यदि तत्र विवक्षितः ||
निषेधात्तस्य नेतीति शून्यतैव प्रसज्यते || ४९६ ||