अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ (८)

अज्ञानध्वंसि विज्ञानं न च कारकरूपताम् ||
गृहीत्वेह तमो हन्ति द्वैधी­भा­वेऽ­सि­व­त्क­चित् || ९४२ ||

प्रत्य­ग्बो­धोऽ­प्रमः सिद्ध आगमापायिमातृवत् ||
प्रत्य­ङ्भा­त्र­फ़­ल­त्वेन साक्षित्वेन च सर्वदा || ९४३ ||

अनात्मवस्तुना नाऽऽत्माऽ­का­र­क­त्वा­द्विना तमः ||
संबन्धं लभते साक्षा­त्त­थाऽ­ना­त्माऽपि चाऽऽत्मना || ९४४ ||

बुद्ध्या­दि­र्ज­ड­रू­प­त्वा­त्स्व­म­हिम्ना न सिध्यति ||
बोधा­त्म­व­त्स्व­तः­सि­द्ध­प्र­त्य­क्सि­द्ध्यैव सिध्यति || ९४५ ||

स्वार्थं प्रत्येव सर्वेऽपि परार्थोऽर्थः प्रसिध्यति ||
यथा स्वप्न­वि­नि­र्माणं सिध्ये­त्स्व­प्न­दृशं प्रति || ९४६ ||

पृथक्त्वे वाऽपृथक्त्वे वा नैव तस्य मृषात्मता ||
पृथक्त्वे स्वमहिम्नैव तस्य सिद्धेः परात्मवत् || ९४७ ||

आत्म­त्वा­द­पृ­थक्त्वे च मानं नाशे च नेक्ष्यते ||
परमार्थमनाविश्य न मिथ्येति प्रसिध्यति || ९४८ ||

क्लृप्त­स­र्पा­द्य­भा­वोऽयं न स्रक्त­त्त्वा­त्पृ­थ­ङ्मितः ||
व्यतिरेकेण तत्सिद्धेर्नापि चाऽऽत्मा­न­म­न्वि­यात् || ९४९ ||

स्वार्थस्य प्रत्य­गा­त्म­त्वा­त्प्र­त्य­ग्या­था­त्म्य­तोऽपि च ||
खण्ड­मु­ण्डा­दि­व­न्मत्तो नानात्मा लभते भिदाम् || ९५० ||

सर्वमात्मेत्यतो वाक्या­त्प्र­त्य­ङ्भा­त्रै­क­रू­प­ताम् ||
तदबोधप्रहाणेन प्रतीमो जगदात्मनः || ९५१ ||

तत्त्वप्रबोधनं मुक्त्वा कार्य­का­र­ण­व­स्तुनः ||
अपू­र्वा­द्य­र्थ­व­चसा नान्व­या­द्य­व­बो­ध्यते || ९५२ ||

बोधोऽप्यकारको यस्मा­द्ध­न्त्य­ज्ञा­न­मि­हाऽऽ­त्मनि ||
न चाऽऽवृ­त्ति­व्य­पेक्षः सन्व्य­ञ्ज­क­त्वा­त्त­मो­प­नुत् || ९५३ ||

एवं स्वात्मनि विज्ञाते निष्क्रि­येऽ­का­र­केऽ­फ़ले ||
प्रवृत्तौ वा निवृत्तौ वा को हेतुरिति भण्यताम् || ९५४ ||

प्रत्य­ङ्भा­त्रै­कतां मुक्त्वा तदविद्यामृते न हि ||
विद्वा­प्रू­पा­न्तरं पश्येद्यत्र हीति तथा श्रुतिः || ९५५ ||

यत्र­हि­द्वै­त­मि­व­भ­वति तदितर इतरं पश्यति
यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कंपश्येत्

नातोऽ­वि­द्या­स­मु­च्छित्तौ ब्रह्म­या­था­त्म्य­बो­धतः ||
प्रतीचि भूयोऽतिद्यायाः संभवोऽस्ति प्रमाणतः || ९५६ ||

रागादिदर्शनं यच्च ज्ञानिनोऽपीह चोद्यते ||
बाधितस्यैव तत्सू­ते­स्त­द­प्युक्ते न दूषणम् || ९५७ ||

बाध्य­बा­ध­क­यो­र्य­स्मा­त्सं­बन्धः सकृदेव तु ||
संबन्धोत्तरकाले तु तत्स्मृत्योरेव संगतिः || ९५८ ||

न च स्मृतेः प्रमाणत्वं क्वचि­त्सि­द्धान्त इष्यते ||
प्रमा­ण­ल­क्ष­णा­भा­वान्न च बोधोऽप्रमाणतः || ९५९ ||

मात्रा­दि­का­र­ण­ध्वस्तेः परा­ङ्मा­न­प्र­बा­धतः ||
प्रत्य­क्षा­दि­वि­रो­धोऽपि नातश्चोद्यः कथंचन || ९६० ||

उदर्के च शमादीनि साधनानि प्रवक्ष्यति ||
उक्त­प्र­ज्ञा­प्र­सि­द्ध्यर्थं येषु स्वात­न्त्र्य­मि­ष्यते || ९६१ ||

नाभिध्यायेदतः शब्दा­न­ना­त्मा­र्थ­व­बो­धिनः ||
बहूनित्यनुवादः स्यात्त­द्ब­हु­त्वस्य सिद्धितः || ९६२ ||

वाचो विग्लापनमिति श्रुत्या निन्दाऽभीधीयते ||
भूरि­श­ब्दा­नु­चि­न्ता­या­स्त­न्नि­षे­ध­प्र­सि­द्धये || ९६३ ||

प्रभू­त­श­ब्दा­भि­ध्यानं नालं मोक्षा­र्थ­सि­द्धये ||
न चेदेवं फ़लं तत्स्या­द्वा­क्ता­लु­ग­ल­शो­ष­णम् || ९६४ ||

उक्त­व्या­ख्या­न­तोऽ­न्यस्य व्याख्यानस्य यथोदित -
न्यायेन दूषि­त­त्वा­त्त­द्दू­ष­णार्थं न यत्यते || ९६५ ||

ओमित्येवं सदा ध्यायेदन्या वाचो विमुञ्चथ ||
तेऽनुवित्त्वेति च तथा त्रयीत्यागे वचः स्फ़ुटम् || ९६६ ||

ईत्वर्थ इतिशब्दोऽयं बहुशब्दजिहासया ||
मन्त्रा­म्ना­य­स­मा­प्त्यर्थं यदि वेतिसमीरणम् || ९६७ ||

सहेतुकावभिहितौ बन्धमोक्षौ प्रयत्नतः ||
मन्त्रोक्त्या ब्राह्मणोक्त्या च पुंसां श्रेयो­भि­वा­ञ्छि­नाम् || ९६८ ||

नानु­ध्या­या­द्ब्र­हू­ञ्श­ब्दा­निति कस्मादिहोच्यते ||
अल्पीयसां वा न त्यागः कस्मा­दि­त्य­भि­धी­य­ताम् || ९६९ ||

शब्द­स्या­ल्पी­य­सोऽ­त्यागे तत्र तावदिहोच्यते ||
हेतुस्रय्यास्तु संत्यागे तमेतमिति वक्ष्यते || ९७० ||

यदि वा भिन्न­वा­क्य­त्वा­त्क­र्म­वि­ज्ञा­न­का­ण्डयोः ||
वेदान्तैः कर्मकाण्डस्य परस्परविरोधतः || ९७१ ||

हेतुतां प्रतिपद्यन्ते कर्माण्यपि विमुक्तये ||
बुद्धेः संस्कारकत्वेन यथा तदभिधीयते || ९७२ ||

पूर्वो भागः समस्तोऽपि वेदा­न्ता­र्था­व­बु­द्धये ||
यथा भवति वेदस्य तथाऽथ प्रतिपाद्यते || ९७३ ||

वेदान्तार्थं यथायातमनूद्य श्रुतिरादरात् ||
स वा इत्या­दि­नो­क्तार्थं प्रव­क्तु­मु­प­च­क्रमे || ९७४ ||

परामर्शः सशब्देन पूर्वोक्तस्य प्रसिद्धितः ||
वैशब्दः स्मृतये तस्य मृति­ज­न्मा­दि­ध­र्मिणः || ९७५ ||

ध्रुवा­न्त­म­न्त्रा­म्ना­योक्त एष इत्यभिधीयते ||
महानज इति वच­स्त­द्वि­शे­ष­णा­सि­द्धये || ९७६ ||

अन्व­य­व्य­ति­रे­कार्था योऽयमित्यादिका श्रुतिः ||
विशे­ष­ण­वि­शे­ष्यार्थं सर्वस्येति तथा वचः || ९७७ ||

यदत्र किंचिद्वक्तव्यं तस्य प्रागेव चोक्तितः ||
सामा­ना­धि­क­र­ण्या­दे­र्नेह तत्पुनरुच्यते || ९७८ ||

भूयान्स साधुना नेति ज्ञानस्य फ़लमुच्यते ||
एष सर्वेश्वरोकत्या च यथोक्तस्यैव संस्तुतिः || ९७९ ||

एतदुक्तं भवत्यत्र योऽय­मि­त्या­दि­नो­दितः ||
विविक्तः कामकर्मादेः स्वयंज्योतिश्च शब्दितः || ९८० ||

स एष ईश्वरः साक्षादिति श्रुत्या प्रदर्शितः ||
विशे­ष­ण­वि­शे­ष्य­त्व­मी­शि­त­व्ये­श्यो­रिह || ९८१ ||

यम­पे­क्ष्ये­श्व­रत्वं स्यात्त­त्ता­व­त्प्र­ति­षे­धति ||
विशे­ष­ण­वि­रो­धि­त्वा­न्म­हत्खं कुम्भगं यथा || ९८२ ||

ईशितव्यापनुत्तौ च तद­पे­क्षै­क­सं­श्र­यात् ||
ईशित्वमपि निःशेषं प्रतीचो विनिवर्तते || ९८३ ||

घटाकाशो महाकाश इत्युक्ते कुम्भखह्नुतौ ||
आकाशमात्रताशेषो यथैवेह तथाऽऽत्मनि || ९८४ ||

विरु­द्ध­यो­र­सं­सर्गो यथैवमविरुद्धयोः ||
तद­बो­ध­स­मु­च्छि­त्ता­व­वा­क्या­र्थोऽ­व­शि­ष्यते || ९८५ ||

ऐदंपर्यमिदं ताव­त्प­दा­र्थोऽ­था­धु­नो­च्यते ||
स वा इतिवचोर्थस्य व्याख्या­त­त्वान्न यत्यते ||
तद्ब्याख्यानाय भूयोऽपि तस्य चेहानुवादतः || ९८६ ||

आकाशवचसा चोक्तः परोऽज्ञातो जगद्गुरुः ||
जग­ज्ज­नि­स्थि­ति­ध्वं­स­हे­तु­रा­त्म­वि­शे­ष­णम् || ९८७ ||

क्षेत्र­क्षे­त्र­ज्ञ­यो­रेष स्वभावः प्राक्समीरितः ||
अप्र­बु­द्धा­त्म­तत्त्वः सन्कारणात्मतया स्थितः || ९८८ ||

सर्वमस्य वशे यस्माद्वशी सर्वस्य तेन सः ||
उदासीनस्य तस्य स्याद्व­शि­त्व­मिति चेन्यतम् || ९८९ ||

वशि­त्व­श­क्ति­सं­ब­न्धा­न्मैवं यस्मात्पुनर्वचः ||
सर्वस्येशान एवेति सर्वस्येष्टे सदैव सः || ९९० ||

कुमा­र­नृ­प­व­त्त­त्स्या­दी­शा­नत्वं परात्मनः ||
इति चेन्नैतदेवं स्याद्य­तोऽ­धि­प­ति­रु­च्यते || ९९१ ||

अधि­ष्ठा­याऽऽ­त्म­का­र्य­त्वा­दु­त्प­त्ति­स्थि­ति­हा­निषु ||
त्रिवि­धे­नाऽऽ­धि­प­त्येन स जगत्पाति सर्वदा || ९९२ ||

धर्मा­ध­र्म­स­मा­योगो लोक­व­च्छा­स­ना­त्प्रभोः ||
प्राप्नोति चेन्न तत्प्राप्तिः स नेति वचसः श्रुतेः || ९९३ ||

स्वक­र्तृ­फ़­ल­दा­यित्वं स्वभावः कर्मणां मतः ||
कर्तृ­स्वा­मि­त्व­वि­र­हा­न्ने­शस्य फ़लसंगतिः || ९९४ ||

कौट­स्थ्या­न्नास्य कर्तृ­त्व­म­का­र्या­का­र­ण­त्वतः ||
कार्यकारणभेदेन तदविद्यैव संस्थिता || ९९५ ||

अस्थूलं नेति नेतीति न जायत इति श्रुतिः ||
अपू­र्वा­न­प­रे­त्याद्या तथाच सति युज्यते || ९९६ ||

स्वस्वा­मि­त्वा­दि­सं­ब­न्ध­स्तथा नास्याद्वितीयतः ||
यत्र हि द्वैतमित्येवं तथाच श्रुतिशासनम् || ९९७ ||

जन्यादयो विकारा ये संबन्धाश्चापि ये मताः ||
अवि­द्यो­प­प्लु­त­स्यैव ते सर्वे स्युर्न तु स्वतः || ९९८ ||

यत एवमतो नेशो भूया­न्स्या­त्सा­धु­क­र्मणा ||
कनीयान्नापि पापेन तद­क­र्तृ­त्व­हे­तुतः || ९९९ ||

क्षेत्रज्ञस्य सतो यद्व­त्प­ण्य­पा­पा­भि­सं­गतिः ||
कर्तृ­त्वा­द्य­भि­मा­नि­त्वा­न्ने­शस्य तदसंभवात् || १००० ||

निर्हे­तु­त्वा­त्प्र­ती­चोऽस्य तमस्वित्वस्य सर्वदा ||
हानिवृद्धी न तस्यातो धर्मो­ध­र्मै­र­सं­गतेः || १००१ ||

न कार्यकारणं वाऽस्य यत्क­र्तृ­त्वा­दि­का­र­णम् ||
स्वतोऽ­स­ङ्ग­स्व­भा­व­त्वा­न्नि­रं­शै­क­त्व­त­स्तथा || १००२ ||

स्वत एवंस्वभावोऽपि तद­वि­द्या­स­मा­श्र­यात् ||
एष सर्वेश्वरो देव ईशि­त­व्य­व्य­पे­क्षया || १००३ ||

एष सर्वेश्वर इति पुनरुक्तं किमुच्यते ||
वक्ष्य­मा­ण­बु­भु­त्साया विष­य­त्व­प्र­सि­द्धये || १००४ ||

अज्ञात एष एवाऽऽत्मा ताव­न्मा­त्र­स­त­त्त्वतः ||
ईशा­दे­र्वि­ष­या­न्तस्य कल्पितत्वमतो भवेत् || १००५ ||

साध्वा­द्य­न­भि­सं­बन्धे यदि वा हेतुरुच्यते ||
एष इत्यादिवचसा सर्वे­श­स्याऽऽ­त्मनः स्फ़ुटः || १००६ ||

धर्मा­ध­र्मा­दि­त­न्त्रोऽ­र्थ­स्त­त्फ़­ले­नेह लिप्यते ||
विज्ञानात्मा न तु तथा सर्वेशत्वात्परो भवेत् || १००७ ||

सर्वस्य कर्मणोऽप्येष कारकस्य च तत्कृतः ||
स्वतन्त्र ईश्वरो यस्मान्नातो धर्मादितन्त्रता || १००८ ||

भूतानि जनिमन्त्येष यतः पालयतीश्वरः ||
भूतपालस्ततो देवः कार्याणां कारणत्वतः || १००९ ||

कारणेन हि पाल्यन्ते कार्याणीह यतस्ततः ||
तत्कार्यत्वाच्च भूतानां भूत­पा­ल­त्व­मा­त्मनः || १०१० ||

भूताधिपतिशब्देन ब्रह्मा वाऽत्राभिधीयते ||
इन्द्रो­के­श्व­र­श्चात्र वरुणाद्यात्मना तथा || १०११ ||

लोकपालोऽपि चाप्येष तथाकार्यस्य दर्शनात् ||
प्रशासिताऽपि चाप्येष तदेतदभिधीयते || १०१२ ||

लोकानां रचना यैषा क्षित्यादीनां व्यवस्थिता ||
सिद्धाऽ­सं­की­र्य­मा­णेह साऽप्य­स्यै­वा­नु­शा­स­नात् || १०१३ ||

वर्णा­श्र­मा­दि­हे­तूनां व्यव­स्था­ना­म­सं­करः ||
नैव सिध्येद्विना हेतुं सेतुरेष इतीक्ष्यताम् || १०१४ ||

यथोदकप्रवाहस्य सेतु­र्वि­ध­र­ण­स्तथा ||
सर्व­लो­क­व्य­व­स्थानां सेतुः स परमेश्वरः || १०१५ ||

किमर्थं सेतु­रि­त्ये­व­मा­का­ङ्क्षायां परं वचः ||
असंभेदाय लोका­ना­मे­षा­मि­त्य­भि­धी­यते || १०१६ ||

असं­भि­न्न­व्य­वस्थाः स्युः कथं नाम यथोदिताः ||
तस्मै तस्मै फ़लायालं सेतुरीशो भवेत्ततः || १०१७ ||

एवं तावत्समासेन षष्ठा­ध्या­यो­क्त­मा­द­रात् ||
श्रुत्याऽ­नू­द्या­खिलं वस्तु तस्याथ प्रतिपत्तये || १०१८ ||

उपायतां यथा सर्वो वेदोऽयं प्रतिपद्यते ||
तमेतमिति वाक्येन तदेतदभिधीयते || १०१९ ||

एतं विवि­दि­ष­न्त्युक्तं वेदानुवचनादिभिः ||
उपायैरीश्वरं साक्षा­द­पे­ता­शे­ष­क­ल्प­नम् || १०२० ||

स्वात­न्त्र्ये­णे­श­वि­षया बुभु­त्साऽ­प्य­ति­दु­र्लभा ||
गम्यते तदुपायानां विधानाद्यत्नतः श्रुतौ || १०२१ ||

विनि­यो­ग­प्र­य­त्नाच्च कर्म­वि­ज्ञा­न­का­ण्डयोः ||
गम्यते भिन्नवाक्यत्वं नैकत्र विनियोगगीः || १०२२ ||

यद्वभुत्साऽपि दुष्प्रापा वद तत्तत्त्वबोधनम् ||
ततोऽपि दुर्ल­भ­त­र­मु­पा­या­ल्ल­भ्यते कुतः || १०२३ ||

बुभुत्सामात्र एवामी वेदानुवचनादयः ||
विनियुक्ता यतस्तस्मान्नैते तज्ज्ञानसिद्धये || १०२४ ||

अत एव श्रुति र्यत्ना­च्छ­मा­दी­नेव वक्ष्यति ||
उपा­या­ना­त्म­या­था­त्म्य­वि­ज्ञा­नाय यमात्मकान् || १०२५ ||

बुभु­त्सा­सा­ध­ने­ष्वेषु वेदानुवचनादिषु ||
अधिकारोऽविशेषेण ह्याश्रमाणां यथायुति || १०२६ ||

यथायोगं यथाश्रद्धं तद्बु­भु­त्सा­प्र­सि­द्धये ||
सर्वाश्रमैरमी कार्या वेदानुवचनादयः || १०२७ ||

वेदा­नु­व­च­नो­क्त्याऽत्र वेदा­ध्य­य­न­म­न्व­हम् ||
श्रुत्येह भण्यतेऽस्मभ्यं नित्य­स्वा­ध्या­य­ल­क्ष­णम् || १०२८ ||

ब्राह्मणग्रहणं चात्र द्विजा­ना­मु­प­ल­क्ष­णम् ||
अवि­शि­ष्टा­धि­का­रि­त्वा­त्ते­षा­मा­त्मा­व­बो­धने || १०२९ ||

विवि­दि­ष­न्ती­ति­गिरा संबन्धः प्रतिसाधनम् |
साकां­क्ष­त्वा­दि­ह­ज्ञेयो निरा­कां­क्ष­त्व­सि­द्धये || १०३० ||

वेदा­नु­व­च­नो­क्त्यावा कर्मकांड परिग्रहः |
व्याख्यानायाथ तस्यैव यज्ञेनेत्यादि रुच्यते || १०३१ ||

प्रकाश्यमान मात्मानं वेदानुवचनेन तु |
इति व्याचक्षते येतु तेषां वेदान्तमात्रकम् |
प्राप्तं वेदानुवचनं तद­न्य­स्या­प्र­का­श­नात् || १०३२ ||

विरहय्य नवेदान्तान् वेदेन्येन कथंचन |
ग्रन्धे­नाऽऽ­वि­ष्कृतिः साक्षात् आत्म­नो­स्यो­प­प­द्यते || १०३३ ||

तंत्वौपनिषदमिति नियामार्थे सतीष्यते |
श्रौतंवाक्यमिदं न्याय्य नतु सर्वोक्तिभासने || १०३४ ||

ननु सर्वस्य वेदस्य त्वत्पक्षेऽपि नसिद्ध्यति |
ग्रहणं यज्ञदानादि वाचकस्यैव संश्रयात् || १०३५ ||

मैवं विविदिषा मात्र हेतो रेव परिग्रहात् |
वेदानुवचनस्येह नतु तत्वाव बोधिनः || १०३६ ||
त्रय्य­न्त­स्य­ग्र­होत्र स्यात् साक्षा­ज्ञा­ने­तु­त­द्ग्रहः || १०३७ ||

अप्यभ्यूपगमे नायं दोषोऽस्मान् प्रतिढौकते |
कृत्स्ने­वे­द­ग्र­हा­दा­द्य­व्या­ख्याने दोष एव न || १०३८ ||

प्रकाश्यमाने मानेन बुभुत्याऽपि नयुज्यते |
साक्षा­त्त्वा­द्व­स्तुनो माप्तेः बुभूत्सा प्रात् प्रमायुतेः || १०३९ ||

वेदा­नु­व­च­नो­क्त्याऽत्र नित्यं­क­र्मो­प­दि­श्यते |
यज्ञ­दा­ना­दि­भि­स्तन्य साहचर्येणहेतुना || १०४० ||

सिद्धि र्विविधिषायाः स्यात् वेदानु वचनादिभिः |
कथमित्युच्यते तेषां बुद्धि संशुद्धि हेतुतः || १०४१ ||

इदं मेऽङ्गमनेनेति पुंसं­स्का­र­श्रु­ते­स्तथा ||
यज्ञो दानं तपश्चेति स्मृतेरपि वचः स्फ़ुटम् || १०४२ ||

यस्मिन्विशुद्ध इति च सत्त्वशुद्धौ ध्रुवा स्मृतिः ||
इत्ये­व­मा­दि­वा­क्यानि श्रौता­न्यु­क्ता­र्थ­सि­द्धये || १०४३ ||

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ||
यथाऽऽ­द­र्श­त­ल­प्रख्ये पश्य­त्या­त्मा­न­मा­त्मनि || १०४४ ||

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ||
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् || १०४५ ||

चत्वा­रिं­श­त्त­थाऽष्टौ च संस्कारा इति च स्मृतिः ||
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽ­त्म­शु­द्घये || १०४६ ||

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ||
सर्व­भू­ता­त्म­भू­तात्मा कुर्वन्नपि न लिप्यते || १०४७ ||

गार्भै­र्हो­मै­र्जा­त­क­र्म­चू­डा­मौ­ञ्जी­नि­ब­न्धनैः ||
बैजिकं गार्भिकं चैनो द्विजा­ना­म­प­मृ­ज्यते || १०४८ ||

स्वाध्यायेन व्रतै­र्हौ­मै­स्त्रै­वि­द्ये­ने­ज्यया सुतैः ||
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः || १०४९ ||

इत्येवं शतशः सन्ति यथो­क्ता­र्थ­प्र­सि­द्धये ||
स्मृतिवाक्यानि पुंबु­द्धि­शु­द्धि­शं­सीनि कर्मभिः || १०५० ||

संसा­रा­न­र्थ­हे­तु­त्व­ज्ञा­ना­यैव च कर्मणाम् ||
काम्यानामिह निर्दे­श­स्त­ज्जि­हा­सा­प्र­सि­द्धये || १०५१ ||

यद्वा विविदिषार्थत्वं काम्यानामपि कर्मणाम् ||
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः || १०५२ ||

देशे काले च पात्रे च दानं श्रद्धा­दि­पू­र्व­कम् ||
शुद्धि­कृ­त्स्या­द्धियः पुंसो बहिर्वेद्यपि शास्रतः || १०५३ ||

निय­मा­द्दूं­द्व­सं­पा­त­स­हनं तप उच्यते ||
तस्यापि बुद्धि­सं­शु­द्धि­हे­तुत्वं शास्त्रतो मतम् || १०५४ ||

विजिज्ञासस्व तद्ब्रह्म तपसैवेति च श्रुतिः ||
तपसा कल्मषं हन्तीत्यपि च स्मृतिशासनम् || १०५५ ||

यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् ||
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् || १०५६ ||

अनाशकं चानशनं कामानशनलक्षणम् ||
राग­द्वे­ष­वि­यु­क्तैस्तु विषयानिति चाऽऽह हि || १०५७ ||

कामानशनबोधार्थं वेदव्यासोऽपि यत्नतः ||
मृत्य्वन्तं वा सनियमं तद­प्य­त्य­न्त­शु­द्धि­कृत् || १०५८ ||

प्रत्य­ग्वि­वि­दि­षा­मा­त्र­हे­तु­त्वान्न मृतेर्भयम् ||
अने­क­ज­न्म­सं­सि­द्ध­स्ततो यातीति च स्मृतेः || १०५९ ||

भावितैः करणैश्चायं बहुसंसारयोनिषु ||
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे || १०६० ||

पृथू­द­का­दि­ती­र्थेषु तथाच मरणं स्मृतौ ||
श्रूयते मुक्तये साक्षान्न भयं स्यादतो मृतेः || १०६१ ||

साक्षात्तु वस्तुविज्ञाने श्रुत्या यत्र नियुज्यते ||
विद्वा­प­रि­ह­रे­त्तत्र मृतिहेतुं प्रयत्नतः || १०६२ ||

चतु­र्णा­मा­श्र­माणां वा वेदानुवचनादिना ||
श्रुत्येह ग्रहणं ज्ञेयं तद्बु­भु­त्सा­प्र­सि­द्धये || १०६३ ||

ब्रह्म­च­र्या­न्त­वा­क्येन ब्रह्म­चा­रि­प­रि­ग्रहः ||
तपसा तापसस्यैव यज्ञेन गृहिणस्तथा || १०६४ ||

श्रद्धा­ना­श­क­वाल्यं तु सर्वार्थमिति गम्यते ||
एतमेव विदित्वेति पारिव्राज्यं च वक्ष्यति || १०६५ ||

सर्वेऽपि क्रमशस्त्वेते सेव्यमाना यथाविधि ||
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् || १०६६ ||

चतु­र्भि­रा­श्र­मै­रे­भि­र्य­था­शा­स्त्र­म­नु­ष्ठितैः ||
अत्यन्तं क्षेम­मा­प्नो­ती­त्या­प­स्त­म्बोऽ­प्य­भा­षत || १०६७ ||

यं तं विवि­दि­ष­न्त्यु­च्चै­र्य­थोक्तैः साधनैः परम् ||
एतमेव विदित्वाऽथ मुनिः स्यात्प्रा­ग्य­थो­दितः || १०६८ ||

पाण्डि­त्य­बा­ल्य­यो­र्निष्ठां मुनित्वं प्रागवादिषम् ||
सर्वकर्ममुचां यस्मान्न तत्साधारणं ततः || १०६९ ||

योगस्य च समस्तस्य प्रत्य­ग्वि­ज्ञा­न­ज­न्मने ||
उपयोगो यत­स्त­स्मा­न्नाऽऽ­त्म­ज्ञा­नो­द­या­त्परः || १०७० ||

शमादीन्येव विद्यायाः साधनानि यतस्ततः ||
कुतोऽ­सं­न्या­सि­न­स्त­त्स्या­न्मु­नित्वं निष्प्रमाणकम् || १०७१ ||

मननात्मकमेवास्य कर्म नान्यद्यतस्ततः ||
मुनित्वं न्यासिनो युक्तं मौनाच्चाप्यस्य सर्वदा || १०७२ ||

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­नि­ष्ठता मुनिता यतः ||
तज्ज्ञानजन्मनो नोर्ध्वं मुनिता तत्फ़लत्वतः || १०७३ ||

एत­मे­वे­त्य­व­धृ­ते­र­स्यै­वै­कस्य वस्तुनः ||
तद­ज्ञा­नै­क­हे­तु­त्वा­त्स­र्व­स्या­ना­त्म­व­स्तुनः || १०७४ ||

सामर्थ्याच्च ततोऽस्यैव प्रत्य­ग्या­था­त्म्य­वे­दिनः ||
मुनित्वं प्रत्य­ग­ज्ञा­न­हे­तु­क­र्मा­प­व­र्ज­नात् || १०७५ ||

किंचै­त­मे­व­मा­त्मानं सर्वा­न­र्थै­क­का­र­णम् ||
मोह­मा­त्र­व्य­व­हि­त­मा­प्तु­मि­च्छन्त आदरात् || १०७६ ||

आत्म­या­था­त्म्य­वि­ज्ञा­न­स­र्वा­वि­द्यो­प­म­र्दिना ||
सम्य­ग्ज्ञ­न­प्र­दी­पेन प्रत्य­क्प्र­व­ण­बु­द्घयः || १०७७ ||

विरक्ताः सर्व­सं­सा­रा­दा­ग्र­जाद् बुद्धिशुद्धितः ||
उत्प­न्न­नि­खि­ला­न­र्थ­ति­त्यक्षा दोषदर्शनात् || १०७८ ||

वाङ्भ­नः­का­य­क­र्म­भ्योऽतः प्रव्रजनशीलिनः || १०७९ ||
एत­मे­वे­त्य­व­धृ­तेर्न लोकत्रकयामिनाम् ||
पारि­व्रा­ज्येऽ­धि­का­रोऽ­स्ती­त्य­य­म­र्थोऽ­व­ग­म्यते || १०८० ||

असाधारणसाध्यानि पुत्रादीनि यथा तथा ||
पुत्रा­दि­का­म­त्या­गोऽपि स्याद­सा­धा­र­णोऽ­र्थ­वान् || १०८१ ||

परस्परविरोधाच्च परा­क्प्र­त्य­क्फ़­ला­त्म­नाम् ||
पुत्रा­दि­सा­ध­नानां च तत्त्यागस्य च वर्त्मनः || १०८२ ||

पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् ||
एकः पन्था हि मोक्षस्येत्यपि व्यासोऽपि चावदत् || १०८३ ||

प्रव्राजिनोऽत्र गृह्यन्ते प्रसिद्धेर्यदि वा परे ||
त्रिदण्डिनः समा­ख्या­या­स्ते­ष्वे­वा­ति­प्र­सि­द्धितः || १०८४ ||

पराञ्चि खानीत्यादीनि श्रौतानि च वचांसि नः ||
तानि वा इति निन्दित्वा न्यासो ब्रह्मेति शासनात् || १०८५ ||

उपायो न्यास एवातः प्रत्य­ग्ज्ञा­नस्य जन्मने ||
प्रत्य­ग्ज्ञा­न­वि­रु­द्ध­त्वा­न्म­नो­वा­क्का­य­क­र्म­णाम् || १०८६ ||

शब्दा­दि­प्र­कृ­ती­न्येव कार्याणि करणानि च ||
प्रत्यग्ज्ञानाय नैवालमतस्तानि विरोधतः || १०८७ ||

आत्म­लो­क­प­री­प्सायां तस्मा­त्सा­ध­न­मु­त्त­मम् ||
त्याग एव हि विज्ञेयं मनो­वा­क्का­य­क­र्म­णाम् || १०८८ ||

प्रतिसाध्यं सुतादीनि यथा लोक­त्र­या­र्थि­नाम् ||
नियतानि तथैवेह प्रत्य­ग्लो­का­प्ति­मि­च्छ­ताम् || १०८९ ||

सर्व­क­र्म­प­रि­त्यागः साधनं परमं मतम् ||
असंभवे हि कर्माणि विधीयन्तेऽस्य सर्वतः || १०९० ||

रागा­द्या­कृ­ष्ट­चे­त­स्त्वान्न चेच्छ­क्रो­त्य­शे­षतः ||
कर्माणि मानवस्त्यक्तुं स करोतु यथाविधि || १०९१ ||

कर्माणि कर्म­सं­त्या­ग­सा­म­र्थ्यार्थं दिवानिशम् ||
न कर्म­णा­म­ना­र­म्भा­त्त­थाच स्मृतिशासनम् || १०९२ || ||

आरु­रु­क्षो­र्मु­ने­र्योगं कर्म कारणमुच्यते ||
योगारूढस्य तस्यैव शमः कारणमुच्यते || १०९३ ||

कोऽभि­प्रा­योऽ­खिलं कर्म त्यजतां साधनैः सह ||
आत्मलोकार्थिनां पुंसामिति पृष्टेऽर्थ उच्यते || १०९४ ||

एतद्ध स्मेति वचसा पारि­व्रा­ज्येऽ­भि­धी­यते ||
अर्थवादस्वरूपेण हेतुः श्रुत्या प्रयत्नतः || १०९५ ||

तदेतत्कारणं स्पष्टं पारि­व्रा­ज्येऽ­भी­धी­यते ||
ऐतिह्यार्थं च ह स्मेति वैशब्दः स्मरणाय च || १०९६ ||

पूर्वेऽ­ति­क्रा­न्त­का­लीना विद्वांसो ज्ञाततत्त्वकाः ||
तिसृणामेषणानां स्यात्प्र­जा­मि­त्यु­प­ल­क्ष­णम् || १०९७ ||

न कामयन्ते नेच्छन्ति पुत्रो­त्प­त्त्या­दि­ल­क्षणाः ||
एषणाः सकला एताः कस्मा­दि­त्य­भि­धी­यते || १०९८ ||

एषणास्त्यजतां तेषा­म­भि­प्रा­य­मिमं शृणु ||
एष­णा­त्रि­त­य­स्यापि किमित्याक्षेप उच्यते || १०९९ ||

प्रजया किं करिष्यामः कनीयःफ़लया वयम् ||
स्वतःसिद्धैकलो ह्यात्मा येषां लोको ध्रुवोऽक्षयः || ११०० ||

आत्मात्वादेव चावाप्तः सर्व­सा­ध­ना­निः­स्पृहः ||
वस्तू­त्प­त्त्या­दि­म­द्य­स्मा­त्सा­ध­नानि व्यपेक्षते || ११०१ ||

यच्चो­त्प­त्त्या­दि­म­द्वस्तु तत्तुच्छं स्वप्नवस्तुवत् ||
आत्मज्ञाने तु निःशे­ष­फ़­ला­न्त­र्भा­व­का­र­णात् || ११०२ ||

नाऽऽत्म­ला­भा­त्परो लाभः कृत्स्नेऽपि जगतीक्ष्यते ||
सर्व­प्रा­प्या­र्थ­सं­प्राप्तेः सर्व­हे­य­नि­रा­कृतेः || ११०३ ||

इति चेतसि संधाय ह्याक्षिपन्ति प्रजादिकम् ||
नृलोकादिफ़लं सर्व­मे­ष­णा­त्र­य­मा­द­रात् || ११०४ ||

उत्पाद्यमाप्यं संस्कार्यं विकार्यं चैषणाफ़लम् ||
तस्मिन्नेवंविधे कः स्यात्संतोषो विदुषामपि || ११०५ ||

आत्म­ब्र­ह्मा­नु­लो­म्येन ह्येषणात्याग इष्यते ||
साधनं ब्रह्मविद्येव ब्रह्मज्ञानस्य जन्मने || ११०६ ||

आप्ता­शे­ष­पु­म­र्थस्य प्रत्य­ग्या­था­त्म्य­बो­धिनः ||
दग्धात्मतमसः पुंसो नैष­णाऽ­पे­क्षि­ते­ष्यते || ११०७ ||

सर्व­भू­ता­त्म­भू­तस्य सर्वैकात्म्यं प्रपश्यतः ||
आप्ता­शे­ष­पु­म­र्थस्य त्यक्ता­शे­षा­सु­खस्य च || ११०८ ||

प्राप्तस्य परमं स्वास्थ्यं वद किं स्यात्प्र­जा­दिभिः ||
इति निश्चित्य निःसङ्गाः प्रव्रजन्त्येव सर्वतः || ११०९ ||

धावतोऽविदुषो दृष्ट्वा मृग­तृ­ष्णो­द­का­र्थिनः ||
तत्तो­य­त­त्त्व­वि­त्क­श्चिन्न हि धावति मूढवत् || १११० ||

यथैवं श्रुति­तोऽ­शे­ष­वा­ङ्भ­नः­का­य­सा­धन-
प्रवृ­त्ति­वि­ष­य­प्र­त्य­ग्या­था­त्म्य­ज्ञा­नि­ना­मिह || ११११ ||

अवि­द्या­प­ट­सं­वी­त­धि­ष­णा­न्का­मिनो नरान् ||
पुत्रो­त्प­त्त्या­दि­सा­ध्येषु प्रवृ­त्ता­न्वीक्ष्य यत्नतः ||
अस्माकं न प्रवृत्तिः स्यात्कृ­ता­र्थ­त्वाच्च कारणात् || १११२ ||

यद­ज्ञा­ना­त्प्र­वृ­त्तिर्या तज्ज्ञानात्सा कुतो भवेत् ||
तस्मा­त्स­र्व­प्र­वृ­त्तीनां हानिः स्यादात्मबोधतः || १११३ ||

सदो­त्प­त्ते­र­नु­त्पा­द्योऽ­ना­प्य­श्चापि तथाऽऽत्मानः || १११४ ||
असं­स्का­र्योऽ­क्रि­या­ङ्ग­त्वा­न्नि­र्गु­ण­त्वा­त्त­थाऽऽ­त्मनः ||
कौट­स्थ्या­द­वि­का­र्योऽयं वद स्यात्कर्थणा हि किम् || १११५ ||

नोत्पत्त्यादि स्वतो यस्य स्वत एवास्ति यस्य तत् ||
न तस्य कर्मा­पे­क्षाऽस्ति कर्मापेक्षा ततोऽन्यतः || १११६ ||

उत्पत्त्यादौ समर्थं यद्धे­तु­मा­त्र­म­पे­क्षते ||
फ़लवत्कर्म तत्रैव ततोऽन्यत्राफ़लं भवेत् || १११७ ||

उक्त­हे­तु­ब­ला­त्त­स्मा­द्वि­दि­त्वाऽऽ­त्मा­न­मा­त्मना ||
प्रव्रजेयुः समस्ताभ्य एषणाभ्यो द्रुतं बुधाः || १११८ ||

पुत्रोत्पत्तिं समुद्दिश्य ह्येषणा दारसंग्रहः ||
पुत्रैषणेति सेहोक्ता यदि वाऽतोऽन्यथैषणा || १११९ ||

मनु­ष्य­लो­क­सं­प्राप्तिं समुद्दिश्यास्य यैषणा ||
पुत्रो­त्प­त्त्येह तत्प्राप्तौ साऽत्र पुत्रैषणोच्यते || ११२० ||

दैवं च मानुषं वित्तं कर्मणे यत्प्रयोजकम् ||
देव­ता­दि­प­रि­ज्ञानं दैवं पश्वादि मानुषम् || ११२१ ||

संसारकारणध्वंसि यत्तु ज्ञानं विमुक्तिदम् ||
वित्तश्रुत्या न तद्ग्राह्यं तस्य कर्मविरोधतः || ११२२ ||

यस्य साधनभावः स्यात्प्रवृत्तौ सर्वकर्मणाम् ||
गर्तादेरिव वित्तत्वं तस्य ज्ञानस्य कर्मसु || ११२३ ||

कर्म­हे­तु­वि­रुद्धं तु न वित्तं ज्ञानमिष्यते || ११२४ ||
कर्म­प्र­क­र­णा­काङ्क्षि ज्ञानं कर्मगुणो भवेत् ||
यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते || ११२५ ||

स्वरू­प­ला­भ­मा­त्रेण यत्त्वविद्यां निहन्ति नः ||
न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित् || ११२६ ||

एतद्बलेन संन्यास एषणाभ्योऽवसीयते ||
देवलोकफ़लं ज्ञानमेषणैवेति गम्यते || ११२७ ||

लोकैषणाग्रहेणैव वित्ता­न्त­र्भा­व­सि­द्धितः ||
फ़लोद्देशेन या चेष्टा सैव लोकैषणा यतः || ११२८ ||

यत्तु चोदितमित्येव क्रियते कर्म निष्फ़लम् ||
वित्तैषणेति तां ब्रूमो जामि­त्व­वि­नि­वृ­त्सया || ११२९ ||

लोकोद्देशेन या चेष्टा वाङ्भनःकायसाधना ||
लोकैपणेति तामा­हु­रे­ष­णा­र्थ­विदो जनाः || ११३० ||

क्रिया­का­र­क­रू­पाभ्य एषणाभ्यः प्रबोधतः ||
प्रातिलोम्येन यत्स्थानं व्युत्थानमिति तद्विदुः || ११३१ ||

इत्येवमादि व्याख्येयं व्याख्यातं पूर्वमेव तु ||
कहोलब्राह्मणे नात­स्त­द्व्या­ख्या­नाय यत्यते || ११३२ ||

प्रव्रजेयुरतो लोकमीप्सन्तो ब्राह्मणा बुधाः ||
प्रव्रजन्तीति च विधिरर्थवादेन संगतेः || ११३३ ||

नार्थ­वा­दा­न्त­रा­पेक्षा ह्यर्थवादस्य युज्यते ||
विधि­नै­वै­क­वा­क्य­त्व­म­र्थ­वा­दस्य युज्यते || ११३४ ||

अर्थवादेन लिङ्गेन तस्माद्विधिरयं स्फ़ुटः ||
विधि­शे­ष­त्व­मु­ज्झित्वा नार्थवादो यतोऽन्यतः || ११३५ ||

समा­न­क­र्तृ­क­त्वो­क्ते­र्वि­भा­गोक्तेः फ़लस्य च ||
प्रव्र­ज­न्ती­त्येष विधिरर्थवादेन चान्वयात् || ११३६ ||

विज्ञानेन विदित्वेति श्रूय­तेऽ­स्यै­क­क­र्तृता ||
विविनक्ति फ़लं चापि येषा­मि­त्ये­व­मा­दिना || ११३७ ||

प्रव्रजन्तीति नाप्ये­त­त्स­कृ­त्छ्रु­त­मि­हे­ष्यते ||
प्राप्त­व­ल्लो­क­नु­त्य­र्थ­म­र्थ­वा­द­व्य­पेक्षि च ||
प्रधानवदतो नेदं लोकस्तुतिपरं भवेत् || ११३८ ||

नाप्य­नु­ष्ठे­य­रू­पेण पारिव्राज्येन संस्तुतिः ||
आत्मलोकस्य युक्ता स्यान्नापि तज्ज्ञा­न­सं­स्तुतिः || ११३९ ||

अथानुष्ठेयमपि संस्तुत्यर्थं भवतेष्यते ||
अनुष्ठेयस्य दर्शादेः स्तुत्यर्थत्वं प्रसज्यते || ११४० ||

कर्तव्यता न च ज्ञाता पारिव्राज्यस्य कुत्रचित् ||
स्तुत्यर्थत्वं यतोऽस्येह भवता परिकल्प्यते || ११४१ ||

अन्यत्रापि विधौ कल्प्य इहैवासौ समर्थ्यताम् || ११४२ ||
भूमिष्ठे मधुनि प्राप्ते को विद्वान्पर्वतं व्रजेत् ||
लब्धेऽपि प्रव्रजन्तीति विधावन्यत्र किं श्रमः || ११४३ ||

काण­कु­ण्ठा­दि­वि­षये यत्तु कैश्चि­त्प्र­क­ल्प्यते ||
पारिव्राज्यं न तद्यु­क्त­म­न­नु­ष्ठे­य­रू­पतः || ११४४ ||

कर्तव्यत्वेन न ज्ञातं वृक्षाद्यारोहणं यथा ||
संन्यासोऽपि तथैवायं नैव कार्यतया मतः ||
प्रव्र­ज­न्ती­त्यतो नास्य स्तुतिगन्धोऽपि विद्यते || ११४५ ||

ननु चाऽऽत्मप्रबोधेन विधि­गो­च­र­ल­ङ्ग­घिनः ||
कृतकृत्यस्य मुक्तस्य विधिरेष कथं भवेत् || ११४६ ||

परिहारोऽस्य चोद्यस्य कहो­ल­ब्रा­ह्म­णेऽ­खिलः ||
यतोऽभाणि मया पूर्वं नेहातः पुनरूच्यते || ११४७ ||

ब्रह्मचर्यं समा­प्ये­ति­प्र­त्य­क्ष­श्रु­ति­मू­लतः ||
चतु­र्णा­मा­श्र­माणां स्यान्नो­पे­क्षाऽ­तोऽ­नु­मा­नतः || ११४८ ||

न च वेदै­क­मू­ल­त्व­वि­र­हा­त्स्या­त्प्र­मा­णता ||
आचारस्य स्मृतेर्वाऽपि बौद्धा­द्या­चा­र­व­द्ध्रु­वम् || ११४९ ||

धर्मस्य वेद­मू­ल­त्वा­द­वे­दस्य न धर्मता ||
इत्येवं न्याय­व­द्वा­क्य­मा­हु­र्वे­द­प्र­मा­णकाः || ११५० ||

वेद­शा­स्रा­न­पे­क्षत्वं स्मृतिशास्रस्य चेन्मतम् ||
निर्ग्र­न्थि­शा­स्र­तु­ल्यत्वं स्मृतीनां वः प्रसज्यते || ११५१ ||

नापि स्मृति­व्य­पे­क्षाऽस्ति श्रुतेः स्वात­न्त्र्य­का­र­णात् ||
स्मृत्य­र्थ­स्या­नु­वा­दोऽयं पार­त­न्त्र्येऽ­सति श्रुतेः || ११५२ ||

स्वत­न्त्र­यो­र्मि­थोऽ­पेक्षा नापि स्यात्प­र­त­न्त्रयोः ||
पारतन्त्र्यान्न चापेक्षा स्वतन्त्रस्य स्वतः कचित् || ११५३ ||

स्मृत्यर्थं न श्रुति­स्त­स्मा­द­नु­व­क्तीह कुत्रचित् ||
स्मृति­स्त्व­नु­व­द­त्येव श्रुत्यर्थं परतन्त्रतः || ११५४ ||

आत्मा चेदिष्यते लोकः कर्माण्येव न किं नराः ||
तत्प्रा­प्त्यर्थं प्रयत्नेन कुर्वन्तीह दिवानिशम् || ११५५ ||

पारिव्राज्येन किं कार्यमिति चेदुच्यते शृणु ||
अस्या­त्य­न्त­म­सं­ब­न्धा­दा­त्म­लो­कस्य कर्मभिः || ११५६ ||

नोत्प­त्त्या­द्य­भि­सं­बन्ध आत्म­नोऽ­स्यो­प­प­द्यते ||
यतोऽतः कर्मणां कार्यं नेह संभाव्यतेऽण्वपि || ११५७ ||

तदसंभावनायाश्च को हेतुरिति भण्यते ||
स एष नेति नेत्यात्मा यस्मात्प्रागपि वर्णितः || ११५८ ||

प्रध्व­स्तै­का­त्म्य­सं­मोहो नेति नेत्या­त्म­वि­द्यया ||
अगृ­ह्या­द्या­त्मतां यातः स्वमहिम्नि व्यवस्थितः || ११५९ ||

कर्मणां चाऽऽत्म­वि­द्यायां चरि­ता­र्थ­त्व­का­र­णात् ||
विद्ययाऽपि न चेत्कार्यं कर्मभिः स्यात्कथं नु तत् || ११६० ||

एवं चतु­र्भि­र­ध्या­यै­र्य­था­व्या­ख्या­त­व­र्त्मना ||
मुमुक्षुः प्रापितः स्वास्थ्यं पर­मै­का­त्म्य­ल­क्ष­णम् || ११६१ ||

यस्मादेवमयं तस्माद्विदिते परमात्मनि ||
ज्ञेय­का­र्य­स­मा­प्त­त्वान्न किंचिदवशिष्यते || ११६२ ||

सर्वकर्मफ़लानां च तथाऽ­न्त­र्भा­व­सं­भ­वात् ||
आप्ते कर्मफ़ले नात आरम्भः कर्मणामिह || ११६३ ||

तथाच भगावान्व्यास इममर्थमुवाच ह ||
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || ११६४ ||

नातो विज्ञा­त­त­त्त्वस्य कर्म­हे­तु­प्र­बा­ध­नात् ||
वाङ्भ­नः­का­य­सा­ध्या­ना­मा­रम्भः सर्वकर्मणाम् || ११६५ ||

यस्त्वे­ष­णा­नि­वृत्तः स्यान्नेति नेत्या­त्म­वि­द्यया || ११६६ ||
नेतीत्यात्मैव संवृत्तो यतोऽतस्तं विपश्चितम् ||
उभे न व्याप्नु­तोऽ­ज्ञोत्थे नेति नेत्यात्मनि स्थितम् || ११६७ ||

के ते उभे न तरत इत्यु­क्ता­र्थ­वि­व­क्षया ||
अत इत्यादिकं तस्मा­दा­ज­गा­मो­त्तरं वचः || ११६८ ||

अतो निमि­त्ता­द­त्य­र्थ­महं पापमकारिषम् ||
भोक्तव्यं तन्मयेदानीं मरणात्समनन्तरम् || ११६९ ||

अस­ह्या­न­न्त­दुः­खौ­घ­म­हा­भ­य­मु­प­स्थि­तम् ||
इत्येष घोरसंकल्पो हिक्कि­का­व­श­व­र्तिनः ||
सर्व­सा­म­र्थ्य­ही­नस्य जायते तापकारणम् || ११७० ||

क्षयिष्णु पुण्यं चैत­स्मा­द्धे­तो­र­क­रवं पुरा ||
इत्येते विचिकित्से द्वे सर्वस्य भवतो मृतौ || ११७१ ||

एते न तरतोऽज्ञोत्थे तद्धे­त्व­ज्ञा­न­घ­स्म­रम् ||
अश­ना­या­द्य­ति­क्रान्तं ब्रह्मा­स्मी­त्या­त्म­वे­दि­नम् ||
कथं ते व्याप्नु­तोऽ­वि­द्या­हे­तूत्थे ब्रह्मवेदितम् || ११७२ ||

तापाय पुण्यमप्याहुः परिणामादिसंगतेः ||
क्षया­ति­श­य­यो­गि­त्वा­त्तथा व्यासोऽप्यभाषत ||
तस्य स्थानवरिष्ठस्य सर्वे निरयसंज्ञिताः || ११७३ ||

न व्याप्नुतस्ते तं कस्मात्कर्मणी साध्वसाधुनी ||
इति­हे­तू­प­दे­शा­र्थ­मुभे इति परं वचः || ११७४ ||

उभे एते तरत्येष विद्वां­स्त­द्धे­तु­बा­ध­नात् ||
उभे न तरतोऽतस्तमुभे न तपतश्च तम् || ११७५ ||

कृतं फ़लप्रदानेन प्रत्यवायेन चाकृतम् ||
न तापयति कर्मैतन्नेति नेत्या­त्म­द­र्शि­नम् || ११७६ ||

पुण्यं वा यदि वा पापं न कर्मेहास्ति तादृशम् ||
लोकोऽस्य मीयते येन ब्रह्म­वि­द्या­प्र­का­शितः || ११७७ ||

न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ||
इति मन्त्रोऽपि चाऽऽन­न्त्य­मै­का­त्म्य­स्या­व­द­त्स्व­यम् || ११७८ ||

सर्वकर्मातिगं ब्रह्म प्रत्य­ङ्भा­त्र­स­त­त्त्व­कम् ||
मन्त्रे­णा­प्या­त्मनो रूपं तदेतदिति वर्ण्यते || ११७९ ||

एष योऽभिहितः पूर्वं तं साक्षा­द्दृ­ष्ट­वा­नृषिः ||
तत्रैव निष्ठां यातः सन्म­न्त्र­मे­त­मु­दी­र­येत् || ११८० ||

आ ब्रह्मणोऽस्य ये सिद्धा अवि­द्या­क­र्म­हे­तुतः ||
सर्वेऽपि महिमानोऽमी क्षणप्रध्वंसिनो मताः || ११८१ ||

एष एवैकलो नित्यो बाह्य­सा­ध­न­नि­स्पृहः ||
महिमा ब्राह्म­ण­स्योक्तो नेती­त्या­द्यु­क्तिभिः पुरा || ११८२ ||

अस्यैकस्य स्वतः सिद्धेर्न वृद्धिः पुण्यकर्मभिः ||
न च पापैः कनीयस्ता तस्या­सा­ध्य­त्व­हे­तुतः || ११८३ ||

वृद्धिहानी यतो दृष्टे कर्मसाध्यस्य वस्तुनः ||
कर्मा­न­पे­क्ष­सं­सिद्धेः कथं ते भवतो वद || ११८४ ||

स ब्राह्मण इति गिरा यः श्रुत्या प्रतिपादितः ||
ग्रहणं ब्राह्मणस्येति तस्यै­वे­हाऽऽ­त्म­व­स्तुनः || ११८५ ||

महिमा विद्यामानोऽपि तद­वि­द्या­स­मु­द्भव-
देह­जा­त्या­दि­मा­नस्य वृद्धि­हा­न्या­दि­सं­गतेः || ११८६ ||

अवि­द्य­मा­न­व­ज्ज्ञेयो महिमाप्रतिबोधतः ||
ब्राह्म­ण­ग्र­ह­णे­नातः कृतकृत्या इहोच्यते || ११८७ ||

महिमैवंविधो यस्मा­द्ब्रा­ह्म­ण­स्यात आदरात् ||
पद­वि­त्स्या­न्म­हि­म्नोऽस्य महत्तज्ज्ञानतः फ़लम् || ११८८ ||

तत्त्व­वि­त्स्या­न्म­हि­म्नोऽ­स्ये­त्येष मन्त्रो विधित्सितः ||
फ़लवादोऽर्थवादः स्यादस्यैव तु विधेः परः || ११८९ ||

महिम्नोऽस्यैव वा साक्षा­द्वा­क्या­र्थ­प्र­ति­बु­द्धये ||
अन्व­य­व्य­ति­रे­काभ्यां स्यात्प­दा­र्थ­वि­च­क्षणः || ११९० ||

यतः पदा­र्थ­सं­बो­धा­न्नेति नेत्यादिलक्षणम् ||
महिमानं श्रुतेर्वेत्ति फ़लं चेत्स्या­त्त­तोऽपि किम् || ११९१ ||

तं विदित्वेत्यतः प्राह फ़लं वाक्यार्थबोधतः ||
यस्मादेवंफ़लं ज्ञान­मे­वं­वि­द्य­त्न­त­स्ततः || ११९२ ||

शमादिसाधनो भूत्वा महम्निः पदविद्भवेत् ||
इति मन्त्रोक्त एवार्थो ब्राह्मणेनापि वर्ण्यते || ११९३ ||

धर्मा­ध­र्मा­स­मा­योगो यस्मा­त्प्र­त्य­ग्धियः फ़लम् ||
एवं­वि­दा­द­रा­त्त­स्मा­त्प्र­त्य­क्प्र­व­ण­धी­र्नरः || ११९४ ||

उत्प­न्ना­त्म­बु­भुत्सुः सन्वे­दा­नु­व­च­ना­दिभिः ||
विरक्त आग्र­जा­ल्लो­का­न्मो­क्षा­द­र्वाक्षु भूमिषु || ११९५ ||

संशु­द्ध­धि­ष­णोऽ­त्यर्थं वैदिकैरेव साधनैः ||
पराङ्भुखीकृतः शुद्ध्या तैस्तैः संसारिकैः फ़लैः || ११९६ ||

दुःखा­त्म­क­त्वा­त्स­र्वेषां शिखि­वि­न्य­स्त­ह­स्त­वत् || ११९७ ||
इत्येवं ध्वस्त­निः­शे­ष­क­ल्मषः पूर्वसाधनैः ||
उत्प­न्ना­त्म­बु­भुत्सुः संस्त्य­क्त­स­र्व­प­रि­ग्रहः || ११९८ ||

रज­स्त­मो­ज­रा­गा­दि­दो­षा­ना­क्षि­प्त­शे­मुषिः ||
मुमुक्ष्ववस्थां संप्राप्त एवं पूर्वोक्तसाधनैः || ११९९ ||

मन्त्र­ब्रा­ह्म­ण­रू­पि­ण्याऽ­थे­दानीं विनियुज्यते ||
श्रुत्याऽ­शे­ष­त­मो­घा­ति­प्र­त्य­ग्ज्ञा­नस्य जन्मने || १२०० ||

एवं पूर्वो­क्त­म­न्त्रा­र्थ­ज्ञा­न­त­त्फ़­ल­वि­त्सुधीः ||
शमादिसाधनो विद्या­द­न्व­य­व्य­ति­रे­कतः ||
व्युत्था­प्या­ना­त्मनः पश्ये­त्प्र­वि­श्याऽऽ­त्मा­न­मा­त्मना || १२०१ ||

वाक्यादेव ततोऽसङ्गः सर्वमात्मोति वीक्षते ||
इत्ये­त­द्ब्रा­ह्म­णे­नेह प्रयत्नेन विधीयते || १२०२ ||

दान्तो भूत्वा ततः शान्त­स्त­त­श्चो­प­रतो भवेत् ||
अर्थक्रमो बली­या­न्स्या­द्यतः पाठक्रमादिह || १२०३ ||

क्रिया­नि­वृ­त्ति­वि­षये प्रयोगो जगतीक्ष्यते ||
अभिधानस्य शान्तादेः प्रत्यक्षेणेह सर्वतः || १२०४ ||

बहि­ष्क­र­ण­चे­ष्टाया निवृत्तौ दान्त उच्यते ||
दान्तोऽश्वो गौर्गजो वाऽपि प्रयोगस्तत्र वीक्ष्यते || १२०५ ||

अन्तः­क­र­ण­चे­ष्टाया निवृत्तौ शान्त उच्यते ||
शान्तो भिक्षु­स्त­प­स्वीति तत्प्र­यो­ग­स­मी­क्ष­णात् || १२०६ ||

नन्वप्राप्तौ विधिर्युक्तः प्राप्ता­स्त्वेते दमादयः ||
कुत­स्त­त्प्रा­प्ति­रिति चेद्यथा प्राप्ति­स्त­थो­च्यते || १२०७ ||

प्रतिषिद्धं तथा काम्यं चापलं नित्यमेव च ||
इयदेव जग­त्य­स्मि­न्पुंसां कर्म समीक्ष्यते || १२०८ ||

निषिद्धस्य निषि­द्ध­त्वा­त्का­र्म­का­ण्डेऽपि कर्मणः ||
कुतो वेदा­न्त­वि­द्यायां तस्य प्राप्ति­र्म­ना­गपि || १२०९ ||

मुक्तेरर्वाक्षु काम्येषु मुमु­क्षु­त्वा­द्वि­र­क्ततः ||
काम्यकर्मापि नैवेह मुमुक्षोः संभवत्यतः || १२१० ||

रज­स्त­मो­ति­व­र्ति­त्वा­त्स­त्त्व­सं­शु­द्धि­हे­तुतः ||
चापलान्यपि कर्माणि नातः सन्त्यस्य कानिचित् || १२११ ||

न पाणिपादचपल इत्युक्तेर्वा निषेधतः ||
नातः संभाव्यते कर्म मुमुक्षोश्चापलं क्वचित् || १२१२ ||

नित्य­स्या­क­र­णाद्यः स्यादनर्थः करणादपि ||
नित्य­स्या­वा­प्य­तेऽसौ चेद्वद किं नित्यकर्मणा || १२१३ ||

एवं नित्यानि कर्माणि कुर्वतः शुद्धचेतसः ||
तित्यक्षा जायते पुंसो नित्येष्वपि च कर्मसु || १२१४ ||

संसा­र­मो­क्ष­णा­याऽऽशु नित्यं कर्म न चेदलम् ||
कोऽर्थस्तेनेह पुंसः स्यादकृतेन कृतेन वा || १२१५ ||

इति संजा­त­प­र­म­वै­राग्यो नित्यकर्मणः ||
स्वतस्त्यागं करोत्येव प्राप्तास्तेन शमादयः || १२१६ ||

यमान्सेवेत सततं न नित्यं नियमान्बुधः ||
यमा­न्प­त­त्य­कु­र्वाणो निय­मा­न्के­व­ला­न्भ­जन् || १२१७ ||

सत्यमेवं शमादीनां प्राप्त­त्वा­न्ने­ष्यते विधिः ||
प्राप्तानामेव तेषां तु साधनत्वं विधीयते ||
प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­ज­न्मने श्रुतिवाक्यतः || १२१८ ||

यथोक्तविषये तेषां साधनत्वं न मानतः ||
यतः प्राप्तमतः श्रुत्या साधनत्वं विधीयते || १२१९ ||

निवृत्तिमात्रं प्राप्तं वा भवेदुक्तेन वर्त्मना ||
कर्तव्यता निवृत्तेस्तु न प्राप्तेति विधीयते || १२२० ||

ननु दान्तशमोक्त्यैव सर्वस्यैवेह कर्मणः ||
वारि­त­त्वा­दु­प­र­त­श्रु­त्याऽ­न्यत्किं विधीयते || १२२१ ||

बहि­र­न्तः­क्रि­या­तोऽन्या न क्रिया विद्यते यतः ||
नोत्सर्गविधिना यस्मा­न्ना­प­वा­दस्य बाधनम् || १२२२ ||

भूता­हिं­सा­वि­धि­र्य­स्मा­न्ना­ग्नी­षो­मी­य­मा­र­भित् ||
ऊर्ध्वं प्राणा उत्क्रामन्ति यूनः स्थविर आयति || १२२३ ||

प्रत्यु­त्था­ना­भि­वा­दाभ्यां पुन­स्ता­न्प्र­ति­प­द्यतॆ ||
इत्यौ­त्स­र्गि­क­मा­चारं यथा ब्रह्मा प्रबाधतॆ || १२२४ ||

आगच्छति गुरौ तूष्णी­मा­सी­न­स्त­द्व­दत्र च ||
औत्स­र्गि­क­त्या­ग­विधिं नित्य­क­र्म­वि­धि­र्ब­लात् ||
तस्य जीव­न­मा­त्रै­क­हे­तु­त्वा­द्बा­धते ध्रुवम् || १२२५ ||

नित्य­क­र्म­वि­धे­र्य­स्मा­च्छ­मा­दि­वि­धिना हतिः ||
न संप्राप्तेत्यतो यत्ना­त्प्रा­र­ब्धो­प­र­त­श्रुतिः || १२२६ ||

इह चोपरतश्रुत्या तिष्ठ­त्या­दि­व­दु­च्यते ||
कर्माकर्मैव पुंसोऽस्य ह्यनु­ष्ठे­य­त­याऽऽ­मृतेः || १२२७ ||

अनुष्ठेयतया श्रुत्या निवृत्तिः सर्वकर्मणाम् ||
यस्माद्विधीयते तस्मा­त्त­त्त्यागी पतितो भवेत् || १२२८ ||

इत्यत्र चोदयित्वैके परिहारं प्रचक्षते ||
नित्यानां कर्मणां कस्मा­त्प­रि­त्यागो विधीयते || १२२९ ||

काम्या­दि­क­र्म­व­त्तेषां मनो­व्या­क्षे­ष­हे­तुतः ||
त्यागोऽ­त­श्चो­द्यते श्रुत्या नित्यानामपि कर्मणाम् || १२३० ||

भूत्वा समाहित इति समाधानं विधास्यते ||
चोद्य­स्या­सं­भ­वाऽ­स्यात्र श्रुत्यैव विहितत्वतः || १२३१ ||

साधनत्वेन शान्त्यादेः सम्यग्ज्ञानस्य जन्मने ||
नात­श्चो­द्या­व­का­शोऽत्र शमा­दे­र्वि­हि­त­त्वतः || १२३२ ||

साध्य­सा­ध­न­सं­ब­न्ध­वि­धाने सत्यसंभवः ||
स्वर्गादाविव यागा­दे­र्वि­धा­ना­देव कारणात् || १२३३ ||

दोषा­न्त­र­प्र­स­ङ्गार्थं परिहारः कृतस्ततः ||
चोद्यपूर्वक एत­स्मि­न्न­न्य­चो­द्यस्य संभवात् || १२३४ ||

यदि व्याक्षे­प­का­रि­त्वा­न्नित्यं कर्म निषिध्यते ||
बहु भिक्षा­ट­ना­द्यस्ति तत्कस्मान्न निषिध्यते || १२३५ ||

वेदा­न्त­श्र­व­णा­द्यस्ति बहु व्याक्षेपकारि च ||
तन्नि­त्य­क­र्म­व­त्स­स्मा­च्छ्रु­त्येह न निषिध्यते || १२३६ ||

नैष दोषः प्रधा­ना­र्थ­स­मा­प्ते­रेव कारणात् ||
भिक्षा­ट­ना­द्य­नु­ष्ठानं तादर्थ्यान्न निषिध्यते || १२३७ ||

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­स­मा­प्त्याऽ­पे­क्षि­त­त्वतः ||
वेदा­न्त­श्र­व­णा­दीनां न त्यागोऽतोऽत्र भण्यते || १२३८ ||

समाप्तिं न समायाति प्रधानं यदसंभवे ||
निषिद्धमपि तत्कार्यं तत्स­मा­प्ति­प्र­यु­क्तितः || १२३९ ||

प्रधा­न­चो­द­नै­वास्य चोदनातोऽवगम्यते ||
भिक्षाटनादिना नर्ते प्रधानं हि समाप्यते || १२४० ||

शेषभक्षं न कुर्वन्ति प्रधा­ना­र्था­नु­रो­धतः ||
साक्षा­द्वि­हि­त­म­प्येवं तादर्थ्यात्कर्म नो मतम् || १२४१ ||

याः काश्चिज्जीवता शत्यास्त्यक्तुं तित्यक्षता क्रियाः ||
ताः सर्वाः संपरित्यज्य निमेषाजौ व्यवस्थितः || १२४२ ||

उक्त­वि­ध्य­र्थ­वि­ष­याद्याः क्रिया विषयान्तरे ||
निषिध्यन्तेऽत्र ताः सर्वा व्याधातायैव ता यतः || १२४३ ||

द्वंद्व­प्र­वा­ह­सं­पा­त­स­हि­ष्णु­र­भि­धी­यते ||
तिति­क्षु­व­च­ने­नात्र दुरु­क्ता­दे­स्त­थैव च || १२४४ ||

स्वातन्त्र्यं येषु कर्तुः स्यात्करणाकरणं प्रति ||
तान्येव तु निषिद्धानि कर्माणीह शमादिभिः || १२४५ ||

अस्वातन्त्र्यं तु येषु स्यात्कर्तुः कर्मसु सर्वदा ||
समा­हि­तो­क्त्याऽ­थे­दानीं तन्निरोधो विधीयते || १२४६ ||

पिण्डी­कृ­त्ये­न्द्रि­य­ग्रामं बुद्धावारोप्य निश्चलम् ||
विष­यां­स्त­त्स्मृ­तीं­स्त्यक्त्वा तिष्ठे­च्चि­द­नु­रो­धतः || १२४७ ||

एषोऽभ्युपायः सर्वत्र वेदान्तेषु विधीयते ||
तत्त्व­म­स्या­दि­वा­क्या­र्थ­ज्ञा­नो­त्प­त्त्य­र्थ­मा­द­रात् || १२४८ ||

नाविरतो दुश्च­रि­ता­न्ना­शान्तो नासमाहितः ||
नाशान्तमानसो वाऽपि प्रज्ञा­ने­नै­न­मा­प्नु­यात् || १२४९ ||

मुक्तेर्हि बिभ्यातो देवा मोहे­ना­पि­द­धु­र्न­रान् ||
ततस्ते कर्मसूद्युक्ताः प्रावर्तन्त दिवानिशम् || १२५० ||

यतः कर्म तमो­हे­तु­स्त­स्मा­देव मुमुक्षुभिः ||
ज्ञानेन भित्त्वा संमोहं सर्वा­न­र्थै­क­सं­श्रम् || १२५१ ||

संन्यस्य सर्वकर्माणि प्रत्य­क्प्र­व­ण­धी­र्नरः ||
प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­मा­त्र­मेव समाश्रयेत् || १२५२ ||

तत एवै­क­ला­द्य­स्मा­त्सं­सा­रा­द्वि­प्र­मु­च्यते ||
इत्येतदाह विस्पष्टं भाल्ल­वि­ब्रा­ह्मणं वचः || १२५३ ||

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ||
बुद्धिश्च न विचेष्टेन तामाहुः परमां गतिम् || १२५४ ||

तां योगमिति मन्यन्ते स्थिरा­मि­न्द्रि­य­धा­र­णाम् ||
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ || १२५५ ||

यच्छेद्वाङ्भनसी प्राज्ञा­स्त­द्य­च्छे­ज्ज्ञान आत्मनि ||
ज्ञानमात्मनि महति तद्यच्छेच्छान्त आत्मनि || १२५६ ||

उत्तिष्ठत जाग्रत प्राप्य वराग्निबोधत ||
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ||
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः || १२५७ ||

न चक्षुषा गृह्यते नापि वाचा नान्यै­र्दे­वै­स्त­पसा कर्मणा वा ||
ज्ञानप्रसादेन विशु­द्ध­स­त्त्व­स्त­तस्तु तं पश्यते निष्कलं ध्यायमानः || १२५८ ||

प्रतिशाखं तथाऽन्यानि ज्ञानो­पा­य­प्र­सि­द्धये ||
तन्मूलानि तथाऽन्यानि स्मृतिवाक्यानि कोटिशः || १२५९ ||

सन्त्ये­वाऽऽ­त्म­प­रि­ज्ञा­न­सा­ध­नानां प्रसिद्धये ||
अनग्निरनिकेतः स्यादशर्माऽशरणो मुनिः || १२६० ||

त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ||
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज || १२६१ ||

यतो यतो निवर्तते ततस्ततो विमुच्यते ||
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि || १२६२ ||

कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ||
प्रयो­ज­न­म­ति­र्नि­त्य­मेवं मोक्षाश्रमी भवेत् || १२६३ ||

नैतादृशं ब्राह्म­ण­स्यास्ति वित्तं यथैकता समता सत्यता च ||
शीलं स्थिति­र्द­ण्ड­नि­धा­न­मा­र्जवं ततस्ततश्चोपरमः क्रियाभ्यः || १२६४ ||

निवर्तयित्वा रसनं रसेभ्यो घ्राणं च गन्धाच्छ्रवणं च शब्दात् ||
स्पर्शात्तनुं रूपगुणाच्च चक्षुस्ततः परं पश्यति स्वं स्वभावम् || १२६५ ||

एवं मनु­व­सि­ष्ठा­दि­ध­र्मे­ष्वपि सहस्रशः ||
स्पष्टानि सन्ति वाक्यानि यथो­क्ता­र्थ­प्र­सि­द्धये || १२६६ ||

साध्यस्य कर्म­ण­स्त्या­गा­त्सा­म­र्थ्या­देव सिद्धतः ||
तत्साधनस् संत्यागे श्रद्धा­वि­त्त­गि­राऽत्र किम् || १२६७ ||

मैवं दृष्टार्थविषये यत्क­र्मा­स्या­व­शे­षि­तम् ||
तत्सा­ध­ने­ष्व­म­म­ता­वि­धा­नार्थं वचो यतः || १२६८ ||

श्रद्धैव वित्तमस्येति नान्यदस्य यतस्ततः ||
श्रद्धा­वि­त्तोऽ­य­मि­त्युक्तः संन्यासी सर्वकर्मणाम् || १२६९ ||

भूत्वे­त्य­स्या­भि­सं­बन्धः सर्वैः शान्तादिभिः पदैः ||
विधिनाऽस्यापि चाऽऽक्षे­पा­द्वि­धि­त­न्त्र­त्व­मि­ष्यते || १२७० ||

पाण्डित्यादि पुरोक्तं यत्त­स्ये­य­मु­प­सं­हृतिः ||
प्राक्त­दा­त्मा­न­मे­वा­वे­दिति यच्च समीरितम् ||

सेति­क­र्त­व्य­ता­कोऽथ विधि­स्त­स्या­य­मु­च्यते || १२७१ ||

अन्व­य­व्य­ति­रे­काभ्यां यथोक्तैः साधनैर्युतः || १२७२ ||
आत्मन्येव तमात्मानं निष्कृ­ष्या­ना­त्म­रा­शितः ||
पश्ये­दि­त्य­भि­सं­बन्धः पश्यतीत्यथवा भवेत् || १२७३ ||

विध्यर्थस्य पुरा प्राप्तेः काण्वा­ना­म­नु­वा­दतः ||
द्रष्ट­व्या­द्यु­क्ति­त­स्त­स्मा­त्प­श्य­ती­त्य­भि­धी­यते || १२७४ ||

आत्माऽ­ना­त्म­प्र­धा­न­त्वा­द्ब्र­ह्म­रू­पेण नेक्ष्यते || १२७५ ||
विशेषणत्वं स्वार्थोऽपि सत्कार्ये कारणे गतः ||
स्वात्मा­वि­द्या­स­मु­त्थेऽ­स्मि­न्ना­त्मा­वि­द्या­स­मा­श्र­यात् || १२७६ ||

देहे­न्द्रि­य­म­नो­धीभ्यो ह्यन्व­य­व्य­ति­रे­कतः ||
मुञ्जे­षी­का­व­दु­त्कृष्य पश्ये­दा­त्मा­न­मा­त्मनि || १२७७ ||

आत्मन्येव यदाऽऽत्मानं विभ­ज्या­ना­त्म­नोऽ­खि­लात् ||
प्रपश्यति तदाऽनात्मा न पृथ­ग्व्य­व­शि­ष्यते || १२७८ ||

स एष नेति नेत्या­त्मे­त्य­थै­त­स्मा­त्पु­रो­दि­तात् ||
वाक्या­त्स­र्व­म­सं­स­र्ग­मा­त्मानं परिपश्यति || १२७९ ||

अवि­द्या­त­ज्ज­का­र्याणां प्रत्य­ग्द­र्श­न­बा­धतः ||
अव्या­वृ­त्ता­न­नु­गतं ब्रह्मात्मनं प्रपश्यति || १२८० ||

नानुत्पन्नमतो ज्ञानं नाप्य­ज्ञा­न­म­बा­धि­तम् ||
कृत्स्न­ज्ञे­य­स­मा­प्त­त्वान्न किंचिदवशिष्यते || १२८१ ||

इयं सा ब्रह्म­वि­द्योक्ता मधुकाण्डे पुरोदिता ||
या तस्या जन्मनः काले फ़लं श्रुत्याऽ­धु­नो­च्यते || १२८२ ||

अक­र्तृ­त्वा­त्म­वि­ज्ञा­ना­द्ध्व­स्ता­त्मा­ज्ञा­न­हे­तुतः ||
नैनं ब्रह्मविदं पाप्मा तरत्यज्ञं यथा तथा || १२८३ ||

पाप्मशब्देन धर्मोऽपि देहोपादानहेतुतः ||
मुमु­क्षो­स्त­द­नि­ष्ट­त्वा­दिह निःशेष उच्यते || १२८४ ||

दुःखाभावः सदेहस्य नैवास्तीति श्रुतेर्मतम् ||
तस्मा­द्दे­होऽ­प्य­नर्थः स्याद्देहो नाशाच्च सर्वदा || १२८५ ||

न तपत्यथ तं कस्मा­त्ता­प­कोऽ­प्या­त्म­वे­दि­नम् ||
पाप्मेति हेतुरधुना तत्र श्रुत्याऽ­भि­धी­यते || १२८६ ||

अक­र्तृ­त्वा­त्म­या­था­त्म्य­स­म्य­ग्ज्ञा­ना­ग्निना यतः ||
सर्वं पापं तपत्येष भस्म­सा­त्कु­रु­तेऽ­ग्नि­वत् || १२८७ ||

स्वयमेवेश्वरः प्राह प्रपन्नाय किरीटिने ||
पुराणः शाश्व­तोऽ­चिन्त्यः सर्व­भू­ता­नु­क­म्पया || १२८८ ||

यथैधांसि समि­द्धोऽ­ग्नि­र्भ­स्म­सा­त्कु­रु­तेऽ­र्जुन ||
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा || १२८९ ||

संबन्धे सति पाप्माऽयं स्वफ़­ले­ना­नु­ता­प­येत् ||
अकर्तृत्वान्न संबन्धो विदुषोऽस्तीह पाप्मभिः || १२९० ||

तदेतदुच्यते श्रुत्या नैनं पाप्मेति यत्नतः ||
नैनं ब्रह्मविदं पाप्मा तरति व्याप्नुते स्वतः || १२९१ ||

तदकर्तृत्वतो हेतो­र्ब्र­ह्म­वित्तु सकारणम् ||
सर्वं तरति पाप्मानं सर्पादीन्त्रशना यथा || १२९२ ||

आत्म­या­था­त्म्य­वि­त्सोऽयं विपापो विरजः स्वतः ||
निष्कर्मा स्याद्विपापोऽयं विर­ज­स्कोऽ­प्य­का­मतः || १२९३ ||

सर्व­सं­श­य­हे­त्येश्च प्रत्यङ्मोहस्य नाशतः ||
स्यादे­षोऽ­वि­चि­कि­त्सोऽतः सर्वसंशयवर्जितः || १२९४ ||

एव­मा­त्मा­प­रि­ज्ञा­ना­द्ध्व­स्ता­विद्यो भवेद्यदा ||
अना­प­न्ना­दि­म­ध्यान्तं ब्राह्मण्यं लभते तदा || १२९५ ||

इमा­म­व­स्था­मा­पन्नो मुख्यो ब्राह्मण उच्यते ||
भाविवृत्त्या स गौणस्तु प्रागतो ब्राह्मणो भवेत् || १२९६ ||

जातौ ब्राह्म­ण­श­ब्दोऽयं मा प्रापदिति तं श्रुतिः ||
व्याचष्टेऽतः प्रयत्नेन ब्रह्मलोकगिरा स्वयम् || १२९७ ||

अव्या­वृ­त्ता­न­नु­गतं ब्रह्मे­त्य­त्रा­भि­धी­यते ||
लोकोऽपि दृष्टि­मा­त्र­त्वा­त्प्र­त्य­ङ्भात्रं निरुच्यते || १२९८ ||

अन्यो­न्या­र्थ­स­मा­प्ति­त्वा­त्क­र्म­धा­रय एव तु ||
समासोऽत्र परिग्राह्यो निषा­द­स्थ­प­ति­र्यथा || १२९९ ||

श्रुत­मे­क­वि­भ­क्तित्वं विभ­क्त्य­न्त­र­क­ल्प­नात् ||
लघीयोऽतीव यत्त­स्मा­त्क­र्म­धा­रय एव सः || १३०० ||

ब्रह्मलोकमिमं साक्षाद्धे सम्राड् ब्रह्मविद्यया ||
प्रापितोऽस्यभवं पूर्वं यत्प्र­ति­ज्ञा­त­वा­न­हम् || १३०१ ||

इत्येवं याज्ञवल्क्यस्तं नृपमुक्तेन वर्त्मना ||
साक्षा­द­नु­श­शा­सै­न­मि­त्युक्तिः स्याच्छ्रु­ते­रि­यम् || १३०२ ||

अनुशिष्टोऽथ नृप­ति­र्वि­द्या­नि­ष्क्र­य­हे­तुतः ||
सोऽहमित्यादिकं वाक्यं गुरुमाह त्वरान्वितः || १३०३ ||

ब्रह्मविद्या समाप्तेयं ससं­न्या­साऽ­द्व­या­त्मिका ||
सेति­क­र्त­व्य­ता­केयं साङ्गा निःश्रेयसे नृणाम् || १३०४ ||

निःशे­ष­पु­रु­षा­र्थोऽयं समाप्तो ब्रह्मबोधतः ||
सर्वा­न­र्थ­नि­रा­सा­र्थ­मे­ता­वा­नेव चाऽऽदृतैः || १३०५ ||

कर्तव्यो यत्नमास्थाय कृते यस्मि­न्कृ­ता­र्थता ||
नान्यतः कृतकृत्यः स्यादु­क्त­ज्ञा­ना­ति­रे­कतः || १३०६ ||

व्याख्यातो योऽयमत्राऽऽत्मा स विज्ञानानुरोधतः ||
फ़लाय स्यादविज्ञात इत्ये­त­द­धु­नो­च्यते || १३०७ ||

पञ्चमान्त उपन्यस्तं रातेर्दातुः परायणम् ||
तद्वि­द­स्ति­ष्ठ­मा­न­स्ये­त्यस्य चेहोपसंहृतिः || १३०८ ||

आत्मान्तेनास्य वाक्येन स्वत­स्त­त्त्व­मि­हो­च्यते ||
अन्ना­द­व­सु­दा­ना­भ्या­म­वि­द्योत्थं तु भण्यते || १३०९ ||

निःशे­षा­न्ना­द­ना­दात्मा प्राणा­न्तोऽ­न्नाद उच्यते ||
आत्माऽयं कारणं यस्मा­त्का­र्य­मि­त्य­खिलं ततः || १३१० ||

कारणेऽनुपयुक्तं यत्कार्यं तन्नेह विद्यते ||
कार्येऽ­प्य­नु­प­युक्तं यन्न तत्कारणमुच्यते || १३११ ||

अन्यो­न्या­र्थ­व्य­पे­क्षि­त्वा­त्का­र्य­का­र­ण­व­स्तुनोः ||
नान्यो­न्या­र्था­ति­रे­केण सिध्येते कार्यकारणे || १३१२ ||

वसूपकरणं प्रोक्तं तद्द­दा­ती­श्व­र­त्वतः ||
यतस्ततोऽज आत्माऽयं वसुदान इहोच्यते || १३१३ ||

अन्ना­द­व­सु­दा­नाभ्यां गुणाभ्यां यः समीक्षते ||
ईश्वरं स यथादृष्टि फ़लमाप्नोति मानवः || १३१४ ||

इत्ये­व­म­य­था­व­स्तु­द­र्शिनः फ़लमीरितम् ||
यथा­व­स्तु­दृ­शोऽ­प्येवं यथा रज्ज्वा­दि­द­र्शिनः || १३१५ ||

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ||
इति चाऽऽहेश्वरो वाक्य­मु­क्ता­र्थ­प्र­ति­प­त्तये || १३१६ ||

यथातत्त्वं तु योऽज्ञातं वस्तु साक्षा­त्प्र­प­द्यते ||
यथावस्त्वेव तस्यापि फ़लं स्यादिति भण्यते || १३१७ ||

काण्डद्वयस्य वा योऽर्थः स संक्षि­प्या­भि­धी­यते ||
स वा इत्यादिवाक्येन सारार्थस्य जिघृक्षया || १३१८ ||

अविद्यावान्पुरा योक्तो मृत्यु­ज­न्मा­दि­सं­सृतिः ||
स वा इति गिरा सोऽत्र स्मार्यते ब्रह्मसंगतौ || १३१९ ||

स वा एष पुरोक्तेन यो वाक्येन प्रकाशितः ||
प्रध्व­स्ता­ज्ञा­न­तज्जः सन्परां निर्वृतिमगतः || १३२० ||

महानित्यभिधानेन सत्य­ज्ञा­ना­दि­ल­क्ष­णम् ||
ब्रह्मैव प्रोच्यते साक्षा­त्प्र­त्य­गा­त्म­वि­शे­ष­णम् || १३२१ ||

ब्रह्मैवाऽऽत्मा स्वतोऽ­बो­धा­द­ब्र­ह्मैव प्रकाशते ||
जरा­दि­ध­र्म­वां­स्त­स्मा­द्ब्र­ह्म­णैव विशेष्यते || १३२२ ||

प्रमा­न्त­रा­न­धि­गता ब्रह्मता प्रत्यगात्मनः ||
प्रत्यक्त्वं ब्रह्म­ण­स्त­द्व­द्व­च­सैव प्रबोध्यते || १३२३ ||

अहं ब्रह्मे­ति­वा­क्यो­त्थ­वि­ज्ञा­ना­त्प्र­त्य­गा­त्मनः ||
ध्वस्तेऽज्ञाने सकार्येऽथ यद्रूपं तदिहोच्यते || १३२४ ||

रज्जुः सर्पा­दि­ने­वाऽऽत्मा विनाऽविद्यां न जायते ||
कार्यात्मना यत­स्त­स्मा­दा­त्माऽज इति भण्यते || १३२५ ||

सर्व­भा­व­वि­का­राणां जन्म मूलं यतस्ततः ||
सर्वेषां प्रतिषेधः स्यान्नि­षे­धा­दा­त्म­ज­न्मनः || १३२६ ||

तथाऽपि ताञ्श्रु­ति­र्य­त्ना­ज्ज­रा­दी­न्प्र­ति­षे­धति ||
स्वाभा­वि­क­त्वा­श­ङ्कायाः प्रतिषेधस्य सिद्धये || १३२७ ||

कालात्मना ह्यव­च्छे­दा­न्नायं कालंजरत्वतः ||
देहा­दि­व­ज्ज­रा­मेति तस्मादात्माऽजरः स्मृतः || १३२८ ||

सर्वस्य परिणामस्य हानो­पा­दा­न­मा­त्रतः ||
जराजन्मनिषेधेन सर्वोऽतोऽत्र निषिध्यते || १३२९ ||

परिणामोऽस्य येनान्त्यः श्रुत्येह प्रतिषिध्यते || १३३० ||
देह­स्थि­ते­र­व­सि­ति­र्मृ­ति­श­ब्देन भण्यते ||
तन्नि­षे­धोऽ­म­रो­क­त्याऽत्र नित्यस्याऽऽत्मन उच्यते || १३३१ ||

नाज­स्या­प­रि­णा­मस्य मरणं जगतीक्ष्यते ||
अजोऽजरश्च तेनो­क्तोऽ­म­र­श्चैष ततः स्मृतः || १३३२ ||

परिणामात्मको मृत्यु­र­म­रोक्त्या निवारितः ||
अमृतोक्त्याऽथ नाशोऽस्य वार्यते यो निरन्वयः || १३३३ ||

अविनाशीत्यपि तथा विना­श­द्व­य­मा­त्मनः ||
श्रुत्या निषिध्यते साक्षा­त्प्र­त्य­क्तौ­ट­स्थ्य­सि­द्धये || १३३४ ||

काम­क­र्म­त­मो­भा­वा­द­म­रोऽ­मृत एव च ||
तत एवाभयः प्रत्यङ्भयं हि तदबोधतः ||
कारणस्य निषेधोऽतो भयकार्यनिषेधतः || १३३५ ||

कुतोऽ­भ­य­त्व­सं­सिद्धिः प्रतीच इति शङ्किते ||
ब्रह्मे­त्या­हाऽऽ­त्म­न­स्तत्त्वं ब्रह्म त्वभयमेव हि || १३३६ ||

अहं ब्रह्मेत्यतः साक्षा­द्य­थो­क्ते­नैव वर्त्मना ||
भयहेतोर्निरासेन स ब्रह्माभमश्नुते || १३३७ ||

सर्वोपनिषदामेष संक्षिप्तोऽर्थ इहोदितः ||
उत्प­त्त्या­दि­वि­क­ल्पोऽ­य­म­स्यैव प्रतिपत्तये || १३३८ ||

एक­प्र­भृ­ति­सं­ख्येयं रेखा­सं­के­त­व­र्त्मना ||
प्रति­प­त्ति­र­सं­ख्ये­य­व­स्तुनः स्याद्यथा तथा || १३३९ ||

सर्व­प्र­मा­ण­वि­ष­य­लङ् घिनोऽकार्यकारण-
वस्तुनः प्रतिपत्तिः स्याज्ज­न्मा­दि­ध्वं­स­व­र्त्मना || १३४० ||

संख्येयत्वं न रेखायाः संख्यात्वं वाऽञ्जसेष्यते ||
तदध्यारोपगत्यैव तथाऽपि प्रतिपत्तये || १३४१ ||

यथैवमवगच्छन्ति प्रध्व­स्ता­शे­ष­क­ल्प­नम् ||
आत्मानं स्थिति­ज­न्मा­दि­क­ल्प­नो­पा­य­मा­त्रताः || १३४२ ||

पत्र­क­ज्ज­ल­रे­खा­भि­र्यथा वाऽध्या­स­व­र्त्मना ||
वर्णा­ञ्जा­न­न्त्य­का­रा­दी­न्प­त्रा­दिभ्यो विलक्षणान् || १३४३ ||

तथो­त्प­त्त्या­दि­का­ध्या­स­व­र्त्मना तद्विलक्षणम् ||
जन्मा­दि­हे­तु­ध्वं­सेन नेतीति ब्रह्म गम्यते || १३४४ ||

इति काण्ड­द्व­यो­क्तोऽर्थः संहृत्य सफ़लोऽखिलः ||
इह प्रदर्शितो वाक्ये तत्स­मा­प्ति­वि­वक्षा || १३४५ ||

निरधारि पुरा ब्रह्म मधुक्राण्डागमेन यत् ||
याज्ञ­व­ल्की­य­का­ण्डेन तद्यु­क्त्याऽ­थो­प­प­दि­तम् || १ ||

जल्पन्यायेन तत्पूर्वं पञ्चमे प्रतिपादितम् ||
वादन्यायेन तद्भूयः षष्ठे सम्य­क्प्र­प­ञ्चि­तम् || २ ||

अथाधुना निग­म­न­स्था­नी­य­मि­द­मु­च्यते ||
मैत्रे­यी­ब्रा­ह्मणं श्रुत्या तथाच न्यायविद्वचः || ३ ||

हेतूक्तितः प्रतिज्ञायाः सिद्धार्थाया यदुत्तरम् ||
वचो निगमनं तत्स्या­द्वा­क्य­स्या­व­य­वो­क्ति­भाक् || ४ ||

ससं­न्या­साऽऽ­त्म­विद्या या मधु­का­ण्डा­ग­मो­दिता ||
उप­प­त्ति­प्र­धा­नेऽपि सैव मोक्षेऽवसीयते || ५ ||

आत्मज्ञानं ससंन्यासं मोक्षा­ये­त्या­ग­मा­द्यथा ||
युक्तितोऽपि तथा ज्ञेयमिति चेहोपसंहृतिः || ६ ||

व्याख्या­त­त्वा­त्प­दा­र्थानां चतुर्थेऽध्याय एव तु ||
तद्व्याख्यानाय यत्नोऽतो न भूयः क्रियतेऽधुना || ७ ||

शब्द­स्यै­वाऽऽ­त्मनो जन्म चतुर्थे प्रतिपादितम् ||
सर्वो­प­सं­हृ­ते­रत्र यागादेरपि भण्यते || ८ ||

शब्दोऽयं बहुधा भिन्नो नामैव परमात्मजम् ||
यागदानादिकं कर्म रूपं लोकपुरःसरम् || ९ ||

सर्वमेतदयत्नेन तत एव विनिःसृतम् ||
अनन्यभूतं तेनातः साक्षात्तत्त्वं प्रगीयते || १० ||

अन्तर्बहीरसघनः सैन्धवस्य घनो यथा ||
विज्ञानघन एवायं विज्ञानात्मा तथैव च || ११ ||

स्ववि­का­रो­प­सं­श्ले­षा­द्वि­ज्ञा­ना­त्म­त्व­मे­त्यतः ||
तद्धे­तु­ना­शा­त्प्र­कृतिं स्वामेव प्रतिपद्यते || १२ ||

परिणामनिषेधः स्याद­वि­ना­शि­गि­राऽऽ­त्मनः ||
अनुच्छित्तिगिरा नाशो वार्यते यो निरन्वयः || १३ ||

मात्रा­सं­स­र्ग­ज­स्त्वेष यो विना­शा­दि­ध­र्म­वान् ||
अवि­द्या­मा­त्र­हे­तूत्थो रज्जु­स­र्पा­दि­व­न्मतः || १४ ||

ब्रह्मैवैकः स आत्मोक्तो ह्यध्यायेषु चतुर्ष्वपि ||
उपा­य­मा­त्र­भे­दोऽत्र न तूपेयः प्रभिद्यते || १५ ||

नेति नेति चतुर्थेऽसौ यथैव प्रतिपादितः ||
नेतीति पञ्चमेऽप्येवं निर्वि­क­ल्पोऽ­व­धा­रितः || १६ ||

षष्ठोऽपि जन­का­ख्या­न­प्रा­रम्भे तद्वदीरितः ||
निर्विकल्पो यथैकोऽर्थो नेती­त्य­त्रो­प­सं­दृतः || १७ ||

नेतीति शास्रावसितौ तथै­वाऽऽ­त्मो­प­सं­हृतः ||
एक­रू­प­म­त­स्तत्त्वं सर्वत्रैव विवक्षितम् || १८ ||

नेति नेत्या­त्म­का­त्त­त्त्वा­त्प्र­का­राणां शतैरपि ||
निरूप्यमाणे नान्या­दृ­ग्य­स्मा­त्तत्वं समीक्ष्यते || १९ ||

तर्कतो यदि वा वाक्यादत एवेदमेव तु ||
नेति­ने­त्या­त्म­वि­ज्ञा­न­मृ­त­त्वै­क­सा­ध­नम् || २० ||

ससंन्यासं विनिश्चेयमिति शास्रस्य संग्रहः ||
अमृ­त­प्रा­प्त­येऽलं स्यात्सा­ध­ना­न्त­र­नि­स्पृ­हम् || २१ ||

यथोदितमिदं ज्ञानं सहकार्यन्यसाधन-
निरपेक्षमलं मुक्त्या इत्येतदभिधीयते || २२ ||

एतावदर एवैतदमृत्वस्य सिद्धये ||
प्रत्य­ग्या­था­त्म्य­वि­ज्ञानं नान्य­त्किं­चि­द­पे­क्ष्यते || २३ ||

इत्यु­क्ता­र्थ­प­रि­ज्ञा­न­दा­र्ढ्यार्थं सर्वसाधनम् ||
कर्माणि चापनुद्याऽऽशु प्रव­व्रा­जा­वि­चा­र­यन् || २४ ||

न केवलमिदं ज्ञानं कर्म­सा­ध­न­नि­स्पृ­हम् ||
निःशे­ष­क­र्म­सं­न्या­सा­पे­क्षाऽपि स्याद्यतो मुनिः || २५ ||

सम्य­ग्वि­ज्ञा­त­त­त्त्व­त्वा­त्कृ­ता­र्थोऽ­प्य­खिलं स्वयम् ||
तत्याज कर्म त्वरया वाङ्भ­नः­का­य­सा­ध­नम् || २६ ||

अतोऽवगम्यते नूनं न कर्म सहतेऽखिलम् ||
आत्मज्ञानं यतोऽ­त्या­क्षी­त्स­म्य­ग्ज्ञा­नोऽपि तन्मुनिः || २७ ||

कर्म­हे­तु­वि­रु­द्ध­त्वा­त्स­म्य­ग्ज्ञा­नस्य कर्मणा ||
विरो­धोऽ­त्य­र्थ­मे­वा­त­स्त­त्त्यक्तं ज्ञानशालिना || २८ ||

एवं काण्डद्वयेनेयं सफ़लाऽनवशेषतः ||
सर्व­सं­न्या­स­निष्ठा च ब्रह्मविद्या समीरिता || २९ ||

एतावानुपदेशः स्याद्वेदे श्रेयोर्थिनां नृणाम् ||
कृतकृत्यो भवे­त्क्षि­प्र­मे­त­ज्ज्ञा­त्वाऽ­नु­शा­स­नम् || ३० ||

त्रिसाहस्री तथा पञ्च शतान्यत्र समासतः ||
चत्वारिंशत्तथा श्लोकाः षष्ठाध्यायस्य वार्तिके ||