बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ (८)
अज्ञानध्वंसि विज्ञानं न च कारकरूपताम् ||
गृहीत्वेह तमो हन्ति द्वैधीभावेऽसिवत्कचित् || ९४२ ||
प्रत्यग्बोधोऽप्रमः सिद्ध आगमापायिमातृवत् ||
प्रत्यङ्भात्रफ़लत्वेन साक्षित्वेन च सर्वदा || ९४३ ||
अनात्मवस्तुना नाऽऽत्माऽकारकत्वाद्विना तमः ||
संबन्धं लभते साक्षात्तथाऽनात्माऽपि चाऽऽत्मना || ९४४ ||
बुद्ध्यादिर्जडरूपत्वात्स्वमहिम्ना न सिध्यति ||
बोधात्मवत्स्वतःसिद्धप्रत्यक्सिद्ध्यैव सिध्यति || ९४५ ||
स्वार्थं प्रत्येव सर्वेऽपि परार्थोऽर्थः प्रसिध्यति ||
यथा स्वप्नविनिर्माणं सिध्येत्स्वप्नदृशं प्रति || ९४६ ||
पृथक्त्वे वाऽपृथक्त्वे वा नैव तस्य मृषात्मता ||
पृथक्त्वे स्वमहिम्नैव तस्य सिद्धेः परात्मवत् || ९४७ ||
आत्मत्वादपृथक्त्वे च मानं नाशे च नेक्ष्यते ||
परमार्थमनाविश्य न मिथ्येति प्रसिध्यति || ९४८ ||
क्लृप्तसर्पाद्यभावोऽयं न स्रक्तत्त्वात्पृथङ्मितः ||
व्यतिरेकेण तत्सिद्धेर्नापि चाऽऽत्मानमन्वियात् || ९४९ ||
स्वार्थस्य प्रत्यगात्मत्वात्प्रत्यग्याथात्म्यतोऽपि च ||
खण्डमुण्डादिवन्मत्तो नानात्मा लभते भिदाम् || ९५० ||
सर्वमात्मेत्यतो वाक्यात्प्रत्यङ्भात्रैकरूपताम् ||
तदबोधप्रहाणेन प्रतीमो जगदात्मनः || ९५१ ||
तत्त्वप्रबोधनं मुक्त्वा कार्यकारणवस्तुनः ||
अपूर्वाद्यर्थवचसा नान्वयाद्यवबोध्यते || ९५२ ||
बोधोऽप्यकारको यस्माद्धन्त्यज्ञानमिहाऽऽत्मनि ||
न चाऽऽवृत्तिव्यपेक्षः सन्व्यञ्जकत्वात्तमोपनुत् || ९५३ ||
एवं स्वात्मनि विज्ञाते निष्क्रियेऽकारकेऽफ़ले ||
प्रवृत्तौ वा निवृत्तौ वा को हेतुरिति भण्यताम् || ९५४ ||
प्रत्यङ्भात्रैकतां मुक्त्वा तदविद्यामृते न हि ||
विद्वाप्रूपान्तरं पश्येद्यत्र हीति तथा श्रुतिः || ९५५ ||
यत्रहिद्वैतमिवभवति तदितर इतरं पश्यति
यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कंपश्येत्
नातोऽविद्यासमुच्छित्तौ ब्रह्मयाथात्म्यबोधतः ||
प्रतीचि भूयोऽतिद्यायाः संभवोऽस्ति प्रमाणतः || ९५६ ||
रागादिदर्शनं यच्च ज्ञानिनोऽपीह चोद्यते ||
बाधितस्यैव तत्सूतेस्तदप्युक्ते न दूषणम् || ९५७ ||
बाध्यबाधकयोर्यस्मात्संबन्धः सकृदेव तु ||
संबन्धोत्तरकाले तु तत्स्मृत्योरेव संगतिः || ९५८ ||
न च स्मृतेः प्रमाणत्वं क्वचित्सिद्धान्त इष्यते ||
प्रमाणलक्षणाभावान्न च बोधोऽप्रमाणतः || ९५९ ||
मात्रादिकारणध्वस्तेः पराङ्मानप्रबाधतः ||
प्रत्यक्षादिविरोधोऽपि नातश्चोद्यः कथंचन || ९६० ||
उदर्के च शमादीनि साधनानि प्रवक्ष्यति ||
उक्तप्रज्ञाप्रसिद्ध्यर्थं येषु स्वातन्त्र्यमिष्यते || ९६१ ||
नाभिध्यायेदतः शब्दाननात्मार्थवबोधिनः ||
बहूनित्यनुवादः स्यात्तद्बहुत्वस्य सिद्धितः || ९६२ ||
वाचो विग्लापनमिति श्रुत्या निन्दाऽभीधीयते ||
भूरिशब्दानुचिन्तायास्तन्निषेधप्रसिद्धये || ९६३ ||
प्रभूतशब्दाभिध्यानं नालं मोक्षार्थसिद्धये ||
न चेदेवं फ़लं तत्स्याद्वाक्तालुगलशोषणम् || ९६४ ||
उक्तव्याख्यानतोऽन्यस्य व्याख्यानस्य यथोदित -
न्यायेन दूषितत्वात्तद्दूषणार्थं न यत्यते || ९६५ ||
ओमित्येवं सदा ध्यायेदन्या वाचो विमुञ्चथ ||
तेऽनुवित्त्वेति च तथा त्रयीत्यागे वचः स्फ़ुटम् || ९६६ ||
ईत्वर्थ इतिशब्दोऽयं बहुशब्दजिहासया ||
मन्त्राम्नायसमाप्त्यर्थं यदि वेतिसमीरणम् || ९६७ ||
सहेतुकावभिहितौ बन्धमोक्षौ प्रयत्नतः ||
मन्त्रोक्त्या ब्राह्मणोक्त्या च पुंसां श्रेयोभिवाञ्छिनाम् || ९६८ ||
नानुध्यायाद्ब्रहूञ्शब्दानिति कस्मादिहोच्यते ||
अल्पीयसां वा न त्यागः कस्मादित्यभिधीयताम् || ९६९ ||
शब्दस्याल्पीयसोऽत्यागे तत्र तावदिहोच्यते ||
हेतुस्रय्यास्तु संत्यागे तमेतमिति वक्ष्यते || ९७० ||
यदि वा भिन्नवाक्यत्वात्कर्मविज्ञानकाण्डयोः ||
वेदान्तैः कर्मकाण्डस्य परस्परविरोधतः || ९७१ ||
हेतुतां प्रतिपद्यन्ते कर्माण्यपि विमुक्तये ||
बुद्धेः संस्कारकत्वेन यथा तदभिधीयते || ९७२ ||
पूर्वो भागः समस्तोऽपि वेदान्तार्थावबुद्धये ||
यथा भवति वेदस्य तथाऽथ प्रतिपाद्यते || ९७३ ||
वेदान्तार्थं यथायातमनूद्य श्रुतिरादरात् ||
स वा इत्यादिनोक्तार्थं प्रवक्तुमुपचक्रमे || ९७४ ||
परामर्शः सशब्देन पूर्वोक्तस्य प्रसिद्धितः ||
वैशब्दः स्मृतये तस्य मृतिजन्मादिधर्मिणः || ९७५ ||
ध्रुवान्तमन्त्राम्नायोक्त एष इत्यभिधीयते ||
महानज इति वचस्तद्विशेषणासिद्धये || ९७६ ||
अन्वयव्यतिरेकार्था योऽयमित्यादिका श्रुतिः ||
विशेषणविशेष्यार्थं सर्वस्येति तथा वचः || ९७७ ||
यदत्र किंचिद्वक्तव्यं तस्य प्रागेव चोक्तितः ||
सामानाधिकरण्यादेर्नेह तत्पुनरुच्यते || ९७८ ||
भूयान्स साधुना नेति ज्ञानस्य फ़लमुच्यते ||
एष सर्वेश्वरोकत्या च यथोक्तस्यैव संस्तुतिः || ९७९ ||
एतदुक्तं भवत्यत्र योऽयमित्यादिनोदितः ||
विविक्तः कामकर्मादेः स्वयंज्योतिश्च शब्दितः || ९८० ||
स एष ईश्वरः साक्षादिति श्रुत्या प्रदर्शितः ||
विशेषणविशेष्यत्वमीशितव्येश्योरिह || ९८१ ||
यमपेक्ष्येश्वरत्वं स्यात्तत्तावत्प्रतिषेधति ||
विशेषणविरोधित्वान्महत्खं कुम्भगं यथा || ९८२ ||
ईशितव्यापनुत्तौ च तदपेक्षैकसंश्रयात् ||
ईशित्वमपि निःशेषं प्रतीचो विनिवर्तते || ९८३ ||
घटाकाशो महाकाश इत्युक्ते कुम्भखह्नुतौ ||
आकाशमात्रताशेषो यथैवेह तथाऽऽत्मनि || ९८४ ||
विरुद्धयोरसंसर्गो यथैवमविरुद्धयोः ||
तदबोधसमुच्छित्ताववाक्यार्थोऽवशिष्यते || ९८५ ||
ऐदंपर्यमिदं तावत्पदार्थोऽथाधुनोच्यते ||
स वा इतिवचोर्थस्य व्याख्यातत्वान्न यत्यते ||
तद्ब्याख्यानाय भूयोऽपि तस्य चेहानुवादतः || ९८६ ||
आकाशवचसा चोक्तः परोऽज्ञातो जगद्गुरुः ||
जगज्जनिस्थितिध्वंसहेतुरात्मविशेषणम् || ९८७ ||
क्षेत्रक्षेत्रज्ञयोरेष स्वभावः प्राक्समीरितः ||
अप्रबुद्धात्मतत्त्वः सन्कारणात्मतया स्थितः || ९८८ ||
सर्वमस्य वशे यस्माद्वशी सर्वस्य तेन सः ||
उदासीनस्य तस्य स्याद्वशित्वमिति चेन्यतम् || ९८९ ||
वशित्वशक्तिसंबन्धान्मैवं यस्मात्पुनर्वचः ||
सर्वस्येशान एवेति सर्वस्येष्टे सदैव सः || ९९० ||
कुमारनृपवत्तत्स्यादीशानत्वं परात्मनः ||
इति चेन्नैतदेवं स्याद्यतोऽधिपतिरुच्यते || ९९१ ||
अधिष्ठायाऽऽत्मकार्यत्वादुत्पत्तिस्थितिहानिषु ||
त्रिविधेनाऽऽधिपत्येन स जगत्पाति सर्वदा || ९९२ ||
धर्माधर्मसमायोगो लोकवच्छासनात्प्रभोः ||
प्राप्नोति चेन्न तत्प्राप्तिः स नेति वचसः श्रुतेः || ९९३ ||
स्वकर्तृफ़लदायित्वं स्वभावः कर्मणां मतः ||
कर्तृस्वामित्वविरहान्नेशस्य फ़लसंगतिः || ९९४ ||
कौटस्थ्यान्नास्य कर्तृत्वमकार्याकारणत्वतः ||
कार्यकारणभेदेन तदविद्यैव संस्थिता || ९९५ ||
अस्थूलं नेति नेतीति न जायत इति श्रुतिः ||
अपूर्वानपरेत्याद्या तथाच सति युज्यते || ९९६ ||
स्वस्वामित्वादिसंबन्धस्तथा नास्याद्वितीयतः ||
यत्र हि द्वैतमित्येवं तथाच श्रुतिशासनम् || ९९७ ||
जन्यादयो विकारा ये संबन्धाश्चापि ये मताः ||
अविद्योपप्लुतस्यैव ते सर्वे स्युर्न तु स्वतः || ९९८ ||
यत एवमतो नेशो भूयान्स्यात्साधुकर्मणा ||
कनीयान्नापि पापेन तदकर्तृत्वहेतुतः || ९९९ ||
क्षेत्रज्ञस्य सतो यद्वत्पण्यपापाभिसंगतिः ||
कर्तृत्वाद्यभिमानित्वान्नेशस्य तदसंभवात् || १००० ||
निर्हेतुत्वात्प्रतीचोऽस्य तमस्वित्वस्य सर्वदा ||
हानिवृद्धी न तस्यातो धर्मोधर्मैरसंगतेः || १००१ ||
न कार्यकारणं वाऽस्य यत्कर्तृत्वादिकारणम् ||
स्वतोऽसङ्गस्वभावत्वान्निरंशैकत्वतस्तथा || १००२ ||
स्वत एवंस्वभावोऽपि तदविद्यासमाश्रयात् ||
एष सर्वेश्वरो देव ईशितव्यव्यपेक्षया || १००३ ||
एष सर्वेश्वर इति पुनरुक्तं किमुच्यते ||
वक्ष्यमाणबुभुत्साया विषयत्वप्रसिद्धये || १००४ ||
अज्ञात एष एवाऽऽत्मा तावन्मात्रसतत्त्वतः ||
ईशादेर्विषयान्तस्य कल्पितत्वमतो भवेत् || १००५ ||
साध्वाद्यनभिसंबन्धे यदि वा हेतुरुच्यते ||
एष इत्यादिवचसा सर्वेशस्याऽऽत्मनः स्फ़ुटः || १००६ ||
धर्माधर्मादितन्त्रोऽर्थस्तत्फ़लेनेह लिप्यते ||
विज्ञानात्मा न तु तथा सर्वेशत्वात्परो भवेत् || १००७ ||
सर्वस्य कर्मणोऽप्येष कारकस्य च तत्कृतः ||
स्वतन्त्र ईश्वरो यस्मान्नातो धर्मादितन्त्रता || १००८ ||
भूतानि जनिमन्त्येष यतः पालयतीश्वरः ||
भूतपालस्ततो देवः कार्याणां कारणत्वतः || १००९ ||
कारणेन हि पाल्यन्ते कार्याणीह यतस्ततः ||
तत्कार्यत्वाच्च भूतानां भूतपालत्वमात्मनः || १०१० ||
भूताधिपतिशब्देन ब्रह्मा वाऽत्राभिधीयते ||
इन्द्रोकेश्वरश्चात्र वरुणाद्यात्मना तथा || १०११ ||
लोकपालोऽपि चाप्येष तथाकार्यस्य दर्शनात् ||
प्रशासिताऽपि चाप्येष तदेतदभिधीयते || १०१२ ||
लोकानां रचना यैषा क्षित्यादीनां व्यवस्थिता ||
सिद्धाऽसंकीर्यमाणेह साऽप्यस्यैवानुशासनात् || १०१३ ||
वर्णाश्रमादिहेतूनां व्यवस्थानामसंकरः ||
नैव सिध्येद्विना हेतुं सेतुरेष इतीक्ष्यताम् || १०१४ ||
यथोदकप्रवाहस्य सेतुर्विधरणस्तथा ||
सर्वलोकव्यवस्थानां सेतुः स परमेश्वरः || १०१५ ||
किमर्थं सेतुरित्येवमाकाङ्क्षायां परं वचः ||
असंभेदाय लोकानामेषामित्यभिधीयते || १०१६ ||
असंभिन्नव्यवस्थाः स्युः कथं नाम यथोदिताः ||
तस्मै तस्मै फ़लायालं सेतुरीशो भवेत्ततः || १०१७ ||
एवं तावत्समासेन षष्ठाध्यायोक्तमादरात् ||
श्रुत्याऽनूद्याखिलं वस्तु तस्याथ प्रतिपत्तये || १०१८ ||
उपायतां यथा सर्वो वेदोऽयं प्रतिपद्यते ||
तमेतमिति वाक्येन तदेतदभिधीयते || १०१९ ||
एतं विविदिषन्त्युक्तं वेदानुवचनादिभिः ||
उपायैरीश्वरं साक्षादपेताशेषकल्पनम् || १०२० ||
स्वातन्त्र्येणेशविषया बुभुत्साऽप्यतिदुर्लभा ||
गम्यते तदुपायानां विधानाद्यत्नतः श्रुतौ || १०२१ ||
विनियोगप्रयत्नाच्च कर्मविज्ञानकाण्डयोः ||
गम्यते भिन्नवाक्यत्वं नैकत्र विनियोगगीः || १०२२ ||
यद्वभुत्साऽपि दुष्प्रापा वद तत्तत्त्वबोधनम् ||
ततोऽपि दुर्लभतरमुपायाल्लभ्यते कुतः || १०२३ ||
बुभुत्सामात्र एवामी वेदानुवचनादयः ||
विनियुक्ता यतस्तस्मान्नैते तज्ज्ञानसिद्धये || १०२४ ||
अत एव श्रुति र्यत्नाच्छमादीनेव वक्ष्यति ||
उपायानात्मयाथात्म्यविज्ञानाय यमात्मकान् || १०२५ ||
बुभुत्सासाधनेष्वेषु वेदानुवचनादिषु ||
अधिकारोऽविशेषेण ह्याश्रमाणां यथायुति || १०२६ ||
यथायोगं यथाश्रद्धं तद्बुभुत्साप्रसिद्धये ||
सर्वाश्रमैरमी कार्या वेदानुवचनादयः || १०२७ ||
वेदानुवचनोक्त्याऽत्र वेदाध्ययनमन्वहम् ||
श्रुत्येह भण्यतेऽस्मभ्यं नित्यस्वाध्यायलक्षणम् || १०२८ ||
ब्राह्मणग्रहणं चात्र द्विजानामुपलक्षणम् ||
अविशिष्टाधिकारित्वात्तेषामात्मावबोधने || १०२९ ||
विविदिषन्तीतिगिरा संबन्धः प्रतिसाधनम् |
साकांक्षत्वादिहज्ञेयो निराकांक्षत्वसिद्धये || १०३० ||
वेदानुवचनोक्त्यावा कर्मकांड परिग्रहः |
व्याख्यानायाथ तस्यैव यज्ञेनेत्यादि रुच्यते || १०३१ ||
प्रकाश्यमान मात्मानं वेदानुवचनेन तु |
इति व्याचक्षते येतु तेषां वेदान्तमात्रकम् |
प्राप्तं वेदानुवचनं तदन्यस्याप्रकाशनात् || १०३२ ||
विरहय्य नवेदान्तान् वेदेन्येन कथंचन |
ग्रन्धेनाऽऽविष्कृतिः साक्षात् आत्मनोस्योपपद्यते || १०३३ ||
तंत्वौपनिषदमिति नियामार्थे सतीष्यते |
श्रौतंवाक्यमिदं न्याय्य नतु सर्वोक्तिभासने || १०३४ ||
ननु सर्वस्य वेदस्य त्वत्पक्षेऽपि नसिद्ध्यति |
ग्रहणं यज्ञदानादि वाचकस्यैव संश्रयात् || १०३५ ||
मैवं विविदिषा मात्र हेतो रेव परिग्रहात् |
वेदानुवचनस्येह नतु तत्वाव बोधिनः || १०३६ ||
त्रय्यन्तस्यग्रहोत्र स्यात् साक्षाज्ञानेतुतद्ग्रहः || १०३७ ||
अप्यभ्यूपगमे नायं दोषोऽस्मान् प्रतिढौकते |
कृत्स्नेवेदग्रहादाद्यव्याख्याने दोष एव न || १०३८ ||
प्रकाश्यमाने मानेन बुभुत्याऽपि नयुज्यते |
साक्षात्त्वाद्वस्तुनो माप्तेः बुभूत्सा प्रात् प्रमायुतेः || १०३९ ||
वेदानुवचनोक्त्याऽत्र नित्यंकर्मोपदिश्यते |
यज्ञदानादिभिस्तन्य साहचर्येणहेतुना || १०४० ||
सिद्धि र्विविधिषायाः स्यात् वेदानु वचनादिभिः |
कथमित्युच्यते तेषां बुद्धि संशुद्धि हेतुतः || १०४१ ||
इदं मेऽङ्गमनेनेति पुंसंस्कारश्रुतेस्तथा ||
यज्ञो दानं तपश्चेति स्मृतेरपि वचः स्फ़ुटम् || १०४२ ||
यस्मिन्विशुद्ध इति च सत्त्वशुद्धौ ध्रुवा स्मृतिः ||
इत्येवमादिवाक्यानि श्रौतान्युक्तार्थसिद्धये || १०४३ ||
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ||
यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि || १०४४ ||
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ||
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् || १०४५ ||
चत्वारिंशत्तथाऽष्टौ च संस्कारा इति च स्मृतिः ||
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्घये || १०४६ ||
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ||
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || १०४७ ||
गार्भैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः ||
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते || १०४८ ||
स्वाध्यायेन व्रतैर्हौमैस्त्रैविद्येनेज्यया सुतैः ||
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः || १०४९ ||
इत्येवं शतशः सन्ति यथोक्तार्थप्रसिद्धये ||
स्मृतिवाक्यानि पुंबुद्धिशुद्धिशंसीनि कर्मभिः || १०५० ||
संसारानर्थहेतुत्वज्ञानायैव च कर्मणाम् ||
काम्यानामिह निर्देशस्तज्जिहासाप्रसिद्धये || १०५१ ||
यद्वा विविदिषार्थत्वं काम्यानामपि कर्मणाम् ||
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः || १०५२ ||
देशे काले च पात्रे च दानं श्रद्धादिपूर्वकम् ||
शुद्धिकृत्स्याद्धियः पुंसो बहिर्वेद्यपि शास्रतः || १०५३ ||
नियमाद्दूंद्वसंपातसहनं तप उच्यते ||
तस्यापि बुद्धिसंशुद्धिहेतुत्वं शास्त्रतो मतम् || १०५४ ||
विजिज्ञासस्व तद्ब्रह्म तपसैवेति च श्रुतिः ||
तपसा कल्मषं हन्तीत्यपि च स्मृतिशासनम् || १०५५ ||
यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् ||
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् || १०५६ ||
अनाशकं चानशनं कामानशनलक्षणम् ||
रागद्वेषवियुक्तैस्तु विषयानिति चाऽऽह हि || १०५७ ||
कामानशनबोधार्थं वेदव्यासोऽपि यत्नतः ||
मृत्य्वन्तं वा सनियमं तदप्यत्यन्तशुद्धिकृत् || १०५८ ||
प्रत्यग्विविदिषामात्रहेतुत्वान्न मृतेर्भयम् ||
अनेकजन्मसंसिद्धस्ततो यातीति च स्मृतेः || १०५९ ||
भावितैः करणैश्चायं बहुसंसारयोनिषु ||
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे || १०६० ||
पृथूदकादितीर्थेषु तथाच मरणं स्मृतौ ||
श्रूयते मुक्तये साक्षान्न भयं स्यादतो मृतेः || १०६१ ||
साक्षात्तु वस्तुविज्ञाने श्रुत्या यत्र नियुज्यते ||
विद्वापरिहरेत्तत्र मृतिहेतुं प्रयत्नतः || १०६२ ||
चतुर्णामाश्रमाणां वा वेदानुवचनादिना ||
श्रुत्येह ग्रहणं ज्ञेयं तद्बुभुत्साप्रसिद्धये || १०६३ ||
ब्रह्मचर्यान्तवाक्येन ब्रह्मचारिपरिग्रहः ||
तपसा तापसस्यैव यज्ञेन गृहिणस्तथा || १०६४ ||
श्रद्धानाशकवाल्यं तु सर्वार्थमिति गम्यते ||
एतमेव विदित्वेति पारिव्राज्यं च वक्ष्यति || १०६५ ||
सर्वेऽपि क्रमशस्त्वेते सेव्यमाना यथाविधि ||
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् || १०६६ ||
चतुर्भिराश्रमैरेभिर्यथाशास्त्रमनुष्ठितैः ||
अत्यन्तं क्षेममाप्नोतीत्यापस्तम्बोऽप्यभाषत || १०६७ ||
यं तं विविदिषन्त्युच्चैर्यथोक्तैः साधनैः परम् ||
एतमेव विदित्वाऽथ मुनिः स्यात्प्राग्यथोदितः || १०६८ ||
पाण्डित्यबाल्ययोर्निष्ठां मुनित्वं प्रागवादिषम् ||
सर्वकर्ममुचां यस्मान्न तत्साधारणं ततः || १०६९ ||
योगस्य च समस्तस्य प्रत्यग्विज्ञानजन्मने ||
उपयोगो यतस्तस्मान्नाऽऽत्मज्ञानोदयात्परः || १०७० ||
शमादीन्येव विद्यायाः साधनानि यतस्ततः ||
कुतोऽसंन्यासिनस्तत्स्यान्मुनित्वं निष्प्रमाणकम् || १०७१ ||
मननात्मकमेवास्य कर्म नान्यद्यतस्ततः ||
मुनित्वं न्यासिनो युक्तं मौनाच्चाप्यस्य सर्वदा || १०७२ ||
प्रत्यग्याथात्म्यविज्ञाननिष्ठता मुनिता यतः ||
तज्ज्ञानजन्मनो नोर्ध्वं मुनिता तत्फ़लत्वतः || १०७३ ||
एतमेवेत्यवधृतेरस्यैवैकस्य वस्तुनः ||
तदज्ञानैकहेतुत्वात्सर्वस्यानात्मवस्तुनः || १०७४ ||
सामर्थ्याच्च ततोऽस्यैव प्रत्यग्याथात्म्यवेदिनः ||
मुनित्वं प्रत्यगज्ञानहेतुकर्मापवर्जनात् || १०७५ ||
किंचैतमेवमात्मानं सर्वानर्थैककारणम् ||
मोहमात्रव्यवहितमाप्तुमिच्छन्त आदरात् || १०७६ ||
आत्मयाथात्म्यविज्ञानसर्वाविद्योपमर्दिना ||
सम्यग्ज्ञनप्रदीपेन प्रत्यक्प्रवणबुद्घयः || १०७७ ||
विरक्ताः सर्वसंसारादाग्रजाद् बुद्धिशुद्धितः ||
उत्पन्ननिखिलानर्थतित्यक्षा दोषदर्शनात् || १०७८ ||
वाङ्भनःकायकर्मभ्योऽतः प्रव्रजनशीलिनः || १०७९ ||
एतमेवेत्यवधृतेर्न लोकत्रकयामिनाम् ||
पारिव्राज्येऽधिकारोऽस्तीत्ययमर्थोऽवगम्यते || १०८० ||
असाधारणसाध्यानि पुत्रादीनि यथा तथा ||
पुत्रादिकामत्यागोऽपि स्यादसाधारणोऽर्थवान् || १०८१ ||
परस्परविरोधाच्च पराक्प्रत्यक्फ़लात्मनाम् ||
पुत्रादिसाधनानां च तत्त्यागस्य च वर्त्मनः || १०८२ ||
पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् ||
एकः पन्था हि मोक्षस्येत्यपि व्यासोऽपि चावदत् || १०८३ ||
प्रव्राजिनोऽत्र गृह्यन्ते प्रसिद्धेर्यदि वा परे ||
त्रिदण्डिनः समाख्यायास्तेष्वेवातिप्रसिद्धितः || १०८४ ||
पराञ्चि खानीत्यादीनि श्रौतानि च वचांसि नः ||
तानि वा इति निन्दित्वा न्यासो ब्रह्मेति शासनात् || १०८५ ||
उपायो न्यास एवातः प्रत्यग्ज्ञानस्य जन्मने ||
प्रत्यग्ज्ञानविरुद्धत्वान्मनोवाक्कायकर्मणाम् || १०८६ ||
शब्दादिप्रकृतीन्येव कार्याणि करणानि च ||
प्रत्यग्ज्ञानाय नैवालमतस्तानि विरोधतः || १०८७ ||
आत्मलोकपरीप्सायां तस्मात्साधनमुत्तमम् ||
त्याग एव हि विज्ञेयं मनोवाक्कायकर्मणाम् || १०८८ ||
प्रतिसाध्यं सुतादीनि यथा लोकत्रयार्थिनाम् ||
नियतानि तथैवेह प्रत्यग्लोकाप्तिमिच्छताम् || १०८९ ||
सर्वकर्मपरित्यागः साधनं परमं मतम् ||
असंभवे हि कर्माणि विधीयन्तेऽस्य सर्वतः || १०९० ||
रागाद्याकृष्टचेतस्त्वान्न चेच्छक्रोत्यशेषतः ||
कर्माणि मानवस्त्यक्तुं स करोतु यथाविधि || १०९१ ||
कर्माणि कर्मसंत्यागसामर्थ्यार्थं दिवानिशम् ||
न कर्मणामनारम्भात्तथाच स्मृतिशासनम् || १०९२ || ||
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ||
योगारूढस्य तस्यैव शमः कारणमुच्यते || १०९३ ||
कोऽभिप्रायोऽखिलं कर्म त्यजतां साधनैः सह ||
आत्मलोकार्थिनां पुंसामिति पृष्टेऽर्थ उच्यते || १०९४ ||
एतद्ध स्मेति वचसा पारिव्राज्येऽभिधीयते ||
अर्थवादस्वरूपेण हेतुः श्रुत्या प्रयत्नतः || १०९५ ||
तदेतत्कारणं स्पष्टं पारिव्राज्येऽभीधीयते ||
ऐतिह्यार्थं च ह स्मेति वैशब्दः स्मरणाय च || १०९६ ||
पूर्वेऽतिक्रान्तकालीना विद्वांसो ज्ञाततत्त्वकाः ||
तिसृणामेषणानां स्यात्प्रजामित्युपलक्षणम् || १०९७ ||
न कामयन्ते नेच्छन्ति पुत्रोत्पत्त्यादिलक्षणाः ||
एषणाः सकला एताः कस्मादित्यभिधीयते || १०९८ ||
एषणास्त्यजतां तेषामभिप्रायमिमं शृणु ||
एषणात्रितयस्यापि किमित्याक्षेप उच्यते || १०९९ ||
प्रजया किं करिष्यामः कनीयःफ़लया वयम् ||
स्वतःसिद्धैकलो ह्यात्मा येषां लोको ध्रुवोऽक्षयः || ११०० ||
आत्मात्वादेव चावाप्तः सर्वसाधनानिःस्पृहः ||
वस्तूत्पत्त्यादिमद्यस्मात्साधनानि व्यपेक्षते || ११०१ ||
यच्चोत्पत्त्यादिमद्वस्तु तत्तुच्छं स्वप्नवस्तुवत् ||
आत्मज्ञाने तु निःशेषफ़लान्तर्भावकारणात् || ११०२ ||
नाऽऽत्मलाभात्परो लाभः कृत्स्नेऽपि जगतीक्ष्यते ||
सर्वप्राप्यार्थसंप्राप्तेः सर्वहेयनिराकृतेः || ११०३ ||
इति चेतसि संधाय ह्याक्षिपन्ति प्रजादिकम् ||
नृलोकादिफ़लं सर्वमेषणात्रयमादरात् || ११०४ ||
उत्पाद्यमाप्यं संस्कार्यं विकार्यं चैषणाफ़लम् ||
तस्मिन्नेवंविधे कः स्यात्संतोषो विदुषामपि || ११०५ ||
आत्मब्रह्मानुलोम्येन ह्येषणात्याग इष्यते ||
साधनं ब्रह्मविद्येव ब्रह्मज्ञानस्य जन्मने || ११०६ ||
आप्ताशेषपुमर्थस्य प्रत्यग्याथात्म्यबोधिनः ||
दग्धात्मतमसः पुंसो नैषणाऽपेक्षितेष्यते || ११०७ ||
सर्वभूतात्मभूतस्य सर्वैकात्म्यं प्रपश्यतः ||
आप्ताशेषपुमर्थस्य त्यक्ताशेषासुखस्य च || ११०८ ||
प्राप्तस्य परमं स्वास्थ्यं वद किं स्यात्प्रजादिभिः ||
इति निश्चित्य निःसङ्गाः प्रव्रजन्त्येव सर्वतः || ११०९ ||
धावतोऽविदुषो दृष्ट्वा मृगतृष्णोदकार्थिनः ||
तत्तोयतत्त्ववित्कश्चिन्न हि धावति मूढवत् || १११० ||
यथैवं श्रुतितोऽशेषवाङ्भनःकायसाधन-
प्रवृत्तिविषयप्रत्यग्याथात्म्यज्ञानिनामिह || ११११ ||
अविद्यापटसंवीतधिषणान्कामिनो नरान् ||
पुत्रोत्पत्त्यादिसाध्येषु प्रवृत्तान्वीक्ष्य यत्नतः ||
अस्माकं न प्रवृत्तिः स्यात्कृतार्थत्वाच्च कारणात् || १११२ ||
यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् ||
तस्मात्सर्वप्रवृत्तीनां हानिः स्यादात्मबोधतः || १११३ ||
सदोत्पत्तेरनुत्पाद्योऽनाप्यश्चापि तथाऽऽत्मानः || १११४ ||
असंस्कार्योऽक्रियाङ्गत्वान्निर्गुणत्वात्तथाऽऽत्मनः ||
कौटस्थ्यादविकार्योऽयं वद स्यात्कर्थणा हि किम् || १११५ ||
नोत्पत्त्यादि स्वतो यस्य स्वत एवास्ति यस्य तत् ||
न तस्य कर्मापेक्षाऽस्ति कर्मापेक्षा ततोऽन्यतः || १११६ ||
उत्पत्त्यादौ समर्थं यद्धेतुमात्रमपेक्षते ||
फ़लवत्कर्म तत्रैव ततोऽन्यत्राफ़लं भवेत् || १११७ ||
उक्तहेतुबलात्तस्माद्विदित्वाऽऽत्मानमात्मना ||
प्रव्रजेयुः समस्ताभ्य एषणाभ्यो द्रुतं बुधाः || १११८ ||
पुत्रोत्पत्तिं समुद्दिश्य ह्येषणा दारसंग्रहः ||
पुत्रैषणेति सेहोक्ता यदि वाऽतोऽन्यथैषणा || १११९ ||
मनुष्यलोकसंप्राप्तिं समुद्दिश्यास्य यैषणा ||
पुत्रोत्पत्त्येह तत्प्राप्तौ साऽत्र पुत्रैषणोच्यते || ११२० ||
दैवं च मानुषं वित्तं कर्मणे यत्प्रयोजकम् ||
देवतादिपरिज्ञानं दैवं पश्वादि मानुषम् || ११२१ ||
संसारकारणध्वंसि यत्तु ज्ञानं विमुक्तिदम् ||
वित्तश्रुत्या न तद्ग्राह्यं तस्य कर्मविरोधतः || ११२२ ||
यस्य साधनभावः स्यात्प्रवृत्तौ सर्वकर्मणाम् ||
गर्तादेरिव वित्तत्वं तस्य ज्ञानस्य कर्मसु || ११२३ ||
कर्महेतुविरुद्धं तु न वित्तं ज्ञानमिष्यते || ११२४ ||
कर्मप्रकरणाकाङ्क्षि ज्ञानं कर्मगुणो भवेत् ||
यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते || ११२५ ||
स्वरूपलाभमात्रेण यत्त्वविद्यां निहन्ति नः ||
न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित् || ११२६ ||
एतद्बलेन संन्यास एषणाभ्योऽवसीयते ||
देवलोकफ़लं ज्ञानमेषणैवेति गम्यते || ११२७ ||
लोकैषणाग्रहेणैव वित्तान्तर्भावसिद्धितः ||
फ़लोद्देशेन या चेष्टा सैव लोकैषणा यतः || ११२८ ||
यत्तु चोदितमित्येव क्रियते कर्म निष्फ़लम् ||
वित्तैषणेति तां ब्रूमो जामित्वविनिवृत्सया || ११२९ ||
लोकोद्देशेन या चेष्टा वाङ्भनःकायसाधना ||
लोकैपणेति तामाहुरेषणार्थविदो जनाः || ११३० ||
क्रियाकारकरूपाभ्य एषणाभ्यः प्रबोधतः ||
प्रातिलोम्येन यत्स्थानं व्युत्थानमिति तद्विदुः || ११३१ ||
इत्येवमादि व्याख्येयं व्याख्यातं पूर्वमेव तु ||
कहोलब्राह्मणे नातस्तद्व्याख्यानाय यत्यते || ११३२ ||
प्रव्रजेयुरतो लोकमीप्सन्तो ब्राह्मणा बुधाः ||
प्रव्रजन्तीति च विधिरर्थवादेन संगतेः || ११३३ ||
नार्थवादान्तरापेक्षा ह्यर्थवादस्य युज्यते ||
विधिनैवैकवाक्यत्वमर्थवादस्य युज्यते || ११३४ ||
अर्थवादेन लिङ्गेन तस्माद्विधिरयं स्फ़ुटः ||
विधिशेषत्वमुज्झित्वा नार्थवादो यतोऽन्यतः || ११३५ ||
समानकर्तृकत्वोक्तेर्विभागोक्तेः फ़लस्य च ||
प्रव्रजन्तीत्येष विधिरर्थवादेन चान्वयात् || ११३६ ||
विज्ञानेन विदित्वेति श्रूयतेऽस्यैककर्तृता ||
विविनक्ति फ़लं चापि येषामित्येवमादिना || ११३७ ||
प्रव्रजन्तीति नाप्येतत्सकृत्छ्रुतमिहेष्यते ||
प्राप्तवल्लोकनुत्यर्थमर्थवादव्यपेक्षि च ||
प्रधानवदतो नेदं लोकस्तुतिपरं भवेत् || ११३८ ||
नाप्यनुष्ठेयरूपेण पारिव्राज्येन संस्तुतिः ||
आत्मलोकस्य युक्ता स्यान्नापि तज्ज्ञानसंस्तुतिः || ११३९ ||
अथानुष्ठेयमपि संस्तुत्यर्थं भवतेष्यते ||
अनुष्ठेयस्य दर्शादेः स्तुत्यर्थत्वं प्रसज्यते || ११४० ||
कर्तव्यता न च ज्ञाता पारिव्राज्यस्य कुत्रचित् ||
स्तुत्यर्थत्वं यतोऽस्येह भवता परिकल्प्यते || ११४१ ||
अन्यत्रापि विधौ कल्प्य इहैवासौ समर्थ्यताम् || ११४२ ||
भूमिष्ठे मधुनि प्राप्ते को विद्वान्पर्वतं व्रजेत् ||
लब्धेऽपि प्रव्रजन्तीति विधावन्यत्र किं श्रमः || ११४३ ||
काणकुण्ठादिविषये यत्तु कैश्चित्प्रकल्प्यते ||
पारिव्राज्यं न तद्युक्तमननुष्ठेयरूपतः || ११४४ ||
कर्तव्यत्वेन न ज्ञातं वृक्षाद्यारोहणं यथा ||
संन्यासोऽपि तथैवायं नैव कार्यतया मतः ||
प्रव्रजन्तीत्यतो नास्य स्तुतिगन्धोऽपि विद्यते || ११४५ ||
ननु चाऽऽत्मप्रबोधेन विधिगोचरलङ्गघिनः ||
कृतकृत्यस्य मुक्तस्य विधिरेष कथं भवेत् || ११४६ ||
परिहारोऽस्य चोद्यस्य कहोलब्राह्मणेऽखिलः ||
यतोऽभाणि मया पूर्वं नेहातः पुनरूच्यते || ११४७ ||
ब्रह्मचर्यं समाप्येतिप्रत्यक्षश्रुतिमूलतः ||
चतुर्णामाश्रमाणां स्यान्नोपेक्षाऽतोऽनुमानतः || ११४८ ||
न च वेदैकमूलत्वविरहात्स्यात्प्रमाणता ||
आचारस्य स्मृतेर्वाऽपि बौद्धाद्याचारवद्ध्रुवम् || ११४९ ||
धर्मस्य वेदमूलत्वादवेदस्य न धर्मता ||
इत्येवं न्यायवद्वाक्यमाहुर्वेदप्रमाणकाः || ११५० ||
वेदशास्रानपेक्षत्वं स्मृतिशास्रस्य चेन्मतम् ||
निर्ग्रन्थिशास्रतुल्यत्वं स्मृतीनां वः प्रसज्यते || ११५१ ||
नापि स्मृतिव्यपेक्षाऽस्ति श्रुतेः स्वातन्त्र्यकारणात् ||
स्मृत्यर्थस्यानुवादोऽयं पारतन्त्र्येऽसति श्रुतेः || ११५२ ||
स्वतन्त्रयोर्मिथोऽपेक्षा नापि स्यात्परतन्त्रयोः ||
पारतन्त्र्यान्न चापेक्षा स्वतन्त्रस्य स्वतः कचित् || ११५३ ||
स्मृत्यर्थं न श्रुतिस्तस्मादनुवक्तीह कुत्रचित् ||
स्मृतिस्त्वनुवदत्येव श्रुत्यर्थं परतन्त्रतः || ११५४ ||
आत्मा चेदिष्यते लोकः कर्माण्येव न किं नराः ||
तत्प्राप्त्यर्थं प्रयत्नेन कुर्वन्तीह दिवानिशम् || ११५५ ||
पारिव्राज्येन किं कार्यमिति चेदुच्यते शृणु ||
अस्यात्यन्तमसंबन्धादात्मलोकस्य कर्मभिः || ११५६ ||
नोत्पत्त्याद्यभिसंबन्ध आत्मनोऽस्योपपद्यते ||
यतोऽतः कर्मणां कार्यं नेह संभाव्यतेऽण्वपि || ११५७ ||
तदसंभावनायाश्च को हेतुरिति भण्यते ||
स एष नेति नेत्यात्मा यस्मात्प्रागपि वर्णितः || ११५८ ||
प्रध्वस्तैकात्म्यसंमोहो नेति नेत्यात्मविद्यया ||
अगृह्याद्यात्मतां यातः स्वमहिम्नि व्यवस्थितः || ११५९ ||
कर्मणां चाऽऽत्मविद्यायां चरितार्थत्वकारणात् ||
विद्ययाऽपि न चेत्कार्यं कर्मभिः स्यात्कथं नु तत् || ११६० ||
एवं चतुर्भिरध्यायैर्यथाव्याख्यातवर्त्मना ||
मुमुक्षुः प्रापितः स्वास्थ्यं परमैकात्म्यलक्षणम् || ११६१ ||
यस्मादेवमयं तस्माद्विदिते परमात्मनि ||
ज्ञेयकार्यसमाप्तत्वान्न किंचिदवशिष्यते || ११६२ ||
सर्वकर्मफ़लानां च तथाऽन्तर्भावसंभवात् ||
आप्ते कर्मफ़ले नात आरम्भः कर्मणामिह || ११६३ ||
तथाच भगावान्व्यास इममर्थमुवाच ह ||
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || ११६४ ||
नातो विज्ञाततत्त्वस्य कर्महेतुप्रबाधनात् ||
वाङ्भनःकायसाध्यानामारम्भः सर्वकर्मणाम् || ११६५ ||
यस्त्वेषणानिवृत्तः स्यान्नेति नेत्यात्मविद्यया || ११६६ ||
नेतीत्यात्मैव संवृत्तो यतोऽतस्तं विपश्चितम् ||
उभे न व्याप्नुतोऽज्ञोत्थे नेति नेत्यात्मनि स्थितम् || ११६७ ||
के ते उभे न तरत इत्युक्तार्थविवक्षया ||
अत इत्यादिकं तस्मादाजगामोत्तरं वचः || ११६८ ||
अतो निमित्तादत्यर्थमहं पापमकारिषम् ||
भोक्तव्यं तन्मयेदानीं मरणात्समनन्तरम् || ११६९ ||
असह्यानन्तदुःखौघमहाभयमुपस्थितम् ||
इत्येष घोरसंकल्पो हिक्किकावशवर्तिनः ||
सर्वसामर्थ्यहीनस्य जायते तापकारणम् || ११७० ||
क्षयिष्णु पुण्यं चैतस्माद्धेतोरकरवं पुरा ||
इत्येते विचिकित्से द्वे सर्वस्य भवतो मृतौ || ११७१ ||
एते न तरतोऽज्ञोत्थे तद्धेत्वज्ञानघस्मरम् ||
अशनायाद्यतिक्रान्तं ब्रह्मास्मीत्यात्मवेदिनम् ||
कथं ते व्याप्नुतोऽविद्याहेतूत्थे ब्रह्मवेदितम् || ११७२ ||
तापाय पुण्यमप्याहुः परिणामादिसंगतेः ||
क्षयातिशययोगित्वात्तथा व्यासोऽप्यभाषत ||
तस्य स्थानवरिष्ठस्य सर्वे निरयसंज्ञिताः || ११७३ ||
न व्याप्नुतस्ते तं कस्मात्कर्मणी साध्वसाधुनी ||
इतिहेतूपदेशार्थमुभे इति परं वचः || ११७४ ||
उभे एते तरत्येष विद्वांस्तद्धेतुबाधनात् ||
उभे न तरतोऽतस्तमुभे न तपतश्च तम् || ११७५ ||
कृतं फ़लप्रदानेन प्रत्यवायेन चाकृतम् ||
न तापयति कर्मैतन्नेति नेत्यात्मदर्शिनम् || ११७६ ||
पुण्यं वा यदि वा पापं न कर्मेहास्ति तादृशम् ||
लोकोऽस्य मीयते येन ब्रह्मविद्याप्रकाशितः || ११७७ ||
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ||
इति मन्त्रोऽपि चाऽऽनन्त्यमैकात्म्यस्यावदत्स्वयम् || ११७८ ||
सर्वकर्मातिगं ब्रह्म प्रत्यङ्भात्रसतत्त्वकम् ||
मन्त्रेणाप्यात्मनो रूपं तदेतदिति वर्ण्यते || ११७९ ||
एष योऽभिहितः पूर्वं तं साक्षाद्दृष्टवानृषिः ||
तत्रैव निष्ठां यातः सन्मन्त्रमेतमुदीरयेत् || ११८० ||
आ ब्रह्मणोऽस्य ये सिद्धा अविद्याकर्महेतुतः ||
सर्वेऽपि महिमानोऽमी क्षणप्रध्वंसिनो मताः || ११८१ ||
एष एवैकलो नित्यो बाह्यसाधननिस्पृहः ||
महिमा ब्राह्मणस्योक्तो नेतीत्याद्युक्तिभिः पुरा || ११८२ ||
अस्यैकस्य स्वतः सिद्धेर्न वृद्धिः पुण्यकर्मभिः ||
न च पापैः कनीयस्ता तस्यासाध्यत्वहेतुतः || ११८३ ||
वृद्धिहानी यतो दृष्टे कर्मसाध्यस्य वस्तुनः ||
कर्मानपेक्षसंसिद्धेः कथं ते भवतो वद || ११८४ ||
स ब्राह्मण इति गिरा यः श्रुत्या प्रतिपादितः ||
ग्रहणं ब्राह्मणस्येति तस्यैवेहाऽऽत्मवस्तुनः || ११८५ ||
महिमा विद्यामानोऽपि तदविद्यासमुद्भव-
देहजात्यादिमानस्य वृद्धिहान्यादिसंगतेः || ११८६ ||
अविद्यमानवज्ज्ञेयो महिमाप्रतिबोधतः ||
ब्राह्मणग्रहणेनातः कृतकृत्या इहोच्यते || ११८७ ||
महिमैवंविधो यस्माद्ब्राह्मणस्यात आदरात् ||
पदवित्स्यान्महिम्नोऽस्य महत्तज्ज्ञानतः फ़लम् || ११८८ ||
तत्त्ववित्स्यान्महिम्नोऽस्येत्येष मन्त्रो विधित्सितः ||
फ़लवादोऽर्थवादः स्यादस्यैव तु विधेः परः || ११८९ ||
महिम्नोऽस्यैव वा साक्षाद्वाक्यार्थप्रतिबुद्धये ||
अन्वयव्यतिरेकाभ्यां स्यात्पदार्थविचक्षणः || ११९० ||
यतः पदार्थसंबोधान्नेति नेत्यादिलक्षणम् ||
महिमानं श्रुतेर्वेत्ति फ़लं चेत्स्यात्ततोऽपि किम् || ११९१ ||
तं विदित्वेत्यतः प्राह फ़लं वाक्यार्थबोधतः ||
यस्मादेवंफ़लं ज्ञानमेवंविद्यत्नतस्ततः || ११९२ ||
शमादिसाधनो भूत्वा महम्निः पदविद्भवेत् ||
इति मन्त्रोक्त एवार्थो ब्राह्मणेनापि वर्ण्यते || ११९३ ||
धर्माधर्मासमायोगो यस्मात्प्रत्यग्धियः फ़लम् ||
एवंविदादरात्तस्मात्प्रत्यक्प्रवणधीर्नरः || ११९४ ||
उत्पन्नात्मबुभुत्सुः सन्वेदानुवचनादिभिः ||
विरक्त आग्रजाल्लोकान्मोक्षादर्वाक्षु भूमिषु || ११९५ ||
संशुद्धधिषणोऽत्यर्थं वैदिकैरेव साधनैः ||
पराङ्भुखीकृतः शुद्ध्या तैस्तैः संसारिकैः फ़लैः || ११९६ ||
दुःखात्मकत्वात्सर्वेषां शिखिविन्यस्तहस्तवत् || ११९७ ||
इत्येवं ध्वस्तनिःशेषकल्मषः पूर्वसाधनैः ||
उत्पन्नात्मबुभुत्सुः संस्त्यक्तसर्वपरिग्रहः || ११९८ ||
रजस्तमोजरागादिदोषानाक्षिप्तशेमुषिः ||
मुमुक्ष्ववस्थां संप्राप्त एवं पूर्वोक्तसाधनैः || ११९९ ||
मन्त्रब्राह्मणरूपिण्याऽथेदानीं विनियुज्यते ||
श्रुत्याऽशेषतमोघातिप्रत्यग्ज्ञानस्य जन्मने || १२०० ||
एवं पूर्वोक्तमन्त्रार्थज्ञानतत्फ़लवित्सुधीः ||
शमादिसाधनो विद्यादन्वयव्यतिरेकतः ||
व्युत्थाप्यानात्मनः पश्येत्प्रविश्याऽऽत्मानमात्मना || १२०१ ||
वाक्यादेव ततोऽसङ्गः सर्वमात्मोति वीक्षते ||
इत्येतद्ब्राह्मणेनेह प्रयत्नेन विधीयते || १२०२ ||
दान्तो भूत्वा ततः शान्तस्ततश्चोपरतो भवेत् ||
अर्थक्रमो बलीयान्स्याद्यतः पाठक्रमादिह || १२०३ ||
क्रियानिवृत्तिविषये प्रयोगो जगतीक्ष्यते ||
अभिधानस्य शान्तादेः प्रत्यक्षेणेह सर्वतः || १२०४ ||
बहिष्करणचेष्टाया निवृत्तौ दान्त उच्यते ||
दान्तोऽश्वो गौर्गजो वाऽपि प्रयोगस्तत्र वीक्ष्यते || १२०५ ||
अन्तःकरणचेष्टाया निवृत्तौ शान्त उच्यते ||
शान्तो भिक्षुस्तपस्वीति तत्प्रयोगसमीक्षणात् || १२०६ ||
नन्वप्राप्तौ विधिर्युक्तः प्राप्तास्त्वेते दमादयः ||
कुतस्तत्प्राप्तिरिति चेद्यथा प्राप्तिस्तथोच्यते || १२०७ ||
प्रतिषिद्धं तथा काम्यं चापलं नित्यमेव च ||
इयदेव जगत्यस्मिन्पुंसां कर्म समीक्ष्यते || १२०८ ||
निषिद्धस्य निषिद्धत्वात्कार्मकाण्डेऽपि कर्मणः ||
कुतो वेदान्तविद्यायां तस्य प्राप्तिर्मनागपि || १२०९ ||
मुक्तेरर्वाक्षु काम्येषु मुमुक्षुत्वाद्विरक्ततः ||
काम्यकर्मापि नैवेह मुमुक्षोः संभवत्यतः || १२१० ||
रजस्तमोतिवर्तित्वात्सत्त्वसंशुद्धिहेतुतः ||
चापलान्यपि कर्माणि नातः सन्त्यस्य कानिचित् || १२११ ||
न पाणिपादचपल इत्युक्तेर्वा निषेधतः ||
नातः संभाव्यते कर्म मुमुक्षोश्चापलं क्वचित् || १२१२ ||
नित्यस्याकरणाद्यः स्यादनर्थः करणादपि ||
नित्यस्यावाप्यतेऽसौ चेद्वद किं नित्यकर्मणा || १२१३ ||
एवं नित्यानि कर्माणि कुर्वतः शुद्धचेतसः ||
तित्यक्षा जायते पुंसो नित्येष्वपि च कर्मसु || १२१४ ||
संसारमोक्षणायाऽऽशु नित्यं कर्म न चेदलम् ||
कोऽर्थस्तेनेह पुंसः स्यादकृतेन कृतेन वा || १२१५ ||
इति संजातपरमवैराग्यो नित्यकर्मणः ||
स्वतस्त्यागं करोत्येव प्राप्तास्तेन शमादयः || १२१६ ||
यमान्सेवेत सततं न नित्यं नियमान्बुधः ||
यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन् || १२१७ ||
सत्यमेवं शमादीनां प्राप्तत्वान्नेष्यते विधिः ||
प्राप्तानामेव तेषां तु साधनत्वं विधीयते ||
प्रत्यग्याथात्म्यविज्ञानजन्मने श्रुतिवाक्यतः || १२१८ ||
यथोक्तविषये तेषां साधनत्वं न मानतः ||
यतः प्राप्तमतः श्रुत्या साधनत्वं विधीयते || १२१९ ||
निवृत्तिमात्रं प्राप्तं वा भवेदुक्तेन वर्त्मना ||
कर्तव्यता निवृत्तेस्तु न प्राप्तेति विधीयते || १२२० ||
ननु दान्तशमोक्त्यैव सर्वस्यैवेह कर्मणः ||
वारितत्वादुपरतश्रुत्याऽन्यत्किं विधीयते || १२२१ ||
बहिरन्तःक्रियातोऽन्या न क्रिया विद्यते यतः ||
नोत्सर्गविधिना यस्मान्नापवादस्य बाधनम् || १२२२ ||
भूताहिंसाविधिर्यस्मान्नाग्नीषोमीयमारभित् ||
ऊर्ध्वं प्राणा उत्क्रामन्ति यूनः स्थविर आयति || १२२३ ||
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यतॆ ||
इत्यौत्सर्गिकमाचारं यथा ब्रह्मा प्रबाधतॆ || १२२४ ||
आगच्छति गुरौ तूष्णीमासीनस्तद्वदत्र च ||
औत्सर्गिकत्यागविधिं नित्यकर्मविधिर्बलात् ||
तस्य जीवनमात्रैकहेतुत्वाद्बाधते ध्रुवम् || १२२५ ||
नित्यकर्मविधेर्यस्माच्छमादिविधिना हतिः ||
न संप्राप्तेत्यतो यत्नात्प्रारब्धोपरतश्रुतिः || १२२६ ||
इह चोपरतश्रुत्या तिष्ठत्यादिवदुच्यते ||
कर्माकर्मैव पुंसोऽस्य ह्यनुष्ठेयतयाऽऽमृतेः || १२२७ ||
अनुष्ठेयतया श्रुत्या निवृत्तिः सर्वकर्मणाम् ||
यस्माद्विधीयते तस्मात्तत्त्यागी पतितो भवेत् || १२२८ ||
इत्यत्र चोदयित्वैके परिहारं प्रचक्षते ||
नित्यानां कर्मणां कस्मात्परित्यागो विधीयते || १२२९ ||
काम्यादिकर्मवत्तेषां मनोव्याक्षेषहेतुतः ||
त्यागोऽतश्चोद्यते श्रुत्या नित्यानामपि कर्मणाम् || १२३० ||
भूत्वा समाहित इति समाधानं विधास्यते ||
चोद्यस्यासंभवाऽस्यात्र श्रुत्यैव विहितत्वतः || १२३१ ||
साधनत्वेन शान्त्यादेः सम्यग्ज्ञानस्य जन्मने ||
नातश्चोद्यावकाशोऽत्र शमादेर्विहितत्वतः || १२३२ ||
साध्यसाधनसंबन्धविधाने सत्यसंभवः ||
स्वर्गादाविव यागादेर्विधानादेव कारणात् || १२३३ ||
दोषान्तरप्रसङ्गार्थं परिहारः कृतस्ततः ||
चोद्यपूर्वक एतस्मिन्नन्यचोद्यस्य संभवात् || १२३४ ||
यदि व्याक्षेपकारित्वान्नित्यं कर्म निषिध्यते ||
बहु भिक्षाटनाद्यस्ति तत्कस्मान्न निषिध्यते || १२३५ ||
वेदान्तश्रवणाद्यस्ति बहु व्याक्षेपकारि च ||
तन्नित्यकर्मवत्सस्माच्छ्रुत्येह न निषिध्यते || १२३६ ||
नैष दोषः प्रधानार्थसमाप्तेरेव कारणात् ||
भिक्षाटनाद्यनुष्ठानं तादर्थ्यान्न निषिध्यते || १२३७ ||
प्रत्यग्याथात्म्यविज्ञानसमाप्त्याऽपेक्षितत्वतः ||
वेदान्तश्रवणादीनां न त्यागोऽतोऽत्र भण्यते || १२३८ ||
समाप्तिं न समायाति प्रधानं यदसंभवे ||
निषिद्धमपि तत्कार्यं तत्समाप्तिप्रयुक्तितः || १२३९ ||
प्रधानचोदनैवास्य चोदनातोऽवगम्यते ||
भिक्षाटनादिना नर्ते प्रधानं हि समाप्यते || १२४० ||
शेषभक्षं न कुर्वन्ति प्रधानार्थानुरोधतः ||
साक्षाद्विहितमप्येवं तादर्थ्यात्कर्म नो मतम् || १२४१ ||
याः काश्चिज्जीवता शत्यास्त्यक्तुं तित्यक्षता क्रियाः ||
ताः सर्वाः संपरित्यज्य निमेषाजौ व्यवस्थितः || १२४२ ||
उक्तविध्यर्थविषयाद्याः क्रिया विषयान्तरे ||
निषिध्यन्तेऽत्र ताः सर्वा व्याधातायैव ता यतः || १२४३ ||
द्वंद्वप्रवाहसंपातसहिष्णुरभिधीयते ||
तितिक्षुवचनेनात्र दुरुक्तादेस्तथैव च || १२४४ ||
स्वातन्त्र्यं येषु कर्तुः स्यात्करणाकरणं प्रति ||
तान्येव तु निषिद्धानि कर्माणीह शमादिभिः || १२४५ ||
अस्वातन्त्र्यं तु येषु स्यात्कर्तुः कर्मसु सर्वदा ||
समाहितोक्त्याऽथेदानीं तन्निरोधो विधीयते || १२४६ ||
पिण्डीकृत्येन्द्रियग्रामं बुद्धावारोप्य निश्चलम् ||
विषयांस्तत्स्मृतींस्त्यक्त्वा तिष्ठेच्चिदनुरोधतः || १२४७ ||
एषोऽभ्युपायः सर्वत्र वेदान्तेषु विधीयते ||
तत्त्वमस्यादिवाक्यार्थज्ञानोत्पत्त्यर्थमादरात् || १२४८ ||
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ||
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् || १२४९ ||
मुक्तेर्हि बिभ्यातो देवा मोहेनापिदधुर्नरान् ||
ततस्ते कर्मसूद्युक्ताः प्रावर्तन्त दिवानिशम् || १२५० ||
यतः कर्म तमोहेतुस्तस्मादेव मुमुक्षुभिः ||
ज्ञानेन भित्त्वा संमोहं सर्वानर्थैकसंश्रम् || १२५१ ||
संन्यस्य सर्वकर्माणि प्रत्यक्प्रवणधीर्नरः ||
प्रत्यग्याथात्म्यविज्ञानमात्रमेव समाश्रयेत् || १२५२ ||
तत एवैकलाद्यस्मात्संसाराद्विप्रमुच्यते ||
इत्येतदाह विस्पष्टं भाल्लविब्राह्मणं वचः || १२५३ ||
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ||
बुद्धिश्च न विचेष्टेन तामाहुः परमां गतिम् || १२५४ ||
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ||
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ || १२५५ ||
यच्छेद्वाङ्भनसी प्राज्ञास्तद्यच्छेज्ज्ञान आत्मनि ||
ज्ञानमात्मनि महति तद्यच्छेच्छान्त आत्मनि || १२५६ ||
उत्तिष्ठत जाग्रत प्राप्य वराग्निबोधत ||
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ||
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः || १२५७ ||
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ||
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः || १२५८ ||
प्रतिशाखं तथाऽन्यानि ज्ञानोपायप्रसिद्धये ||
तन्मूलानि तथाऽन्यानि स्मृतिवाक्यानि कोटिशः || १२५९ ||
सन्त्येवाऽऽत्मपरिज्ञानसाधनानां प्रसिद्धये ||
अनग्निरनिकेतः स्यादशर्माऽशरणो मुनिः || १२६० ||
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ||
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज || १२६१ ||
यतो यतो निवर्तते ततस्ततो विमुच्यते ||
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि || १२६२ ||
कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ||
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् || १२६३ ||
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ||
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः || १२६४ ||
निवर्तयित्वा रसनं रसेभ्यो घ्राणं च गन्धाच्छ्रवणं च शब्दात् ||
स्पर्शात्तनुं रूपगुणाच्च चक्षुस्ततः परं पश्यति स्वं स्वभावम् || १२६५ ||
एवं मनुवसिष्ठादिधर्मेष्वपि सहस्रशः ||
स्पष्टानि सन्ति वाक्यानि यथोक्तार्थप्रसिद्धये || १२६६ ||
साध्यस्य कर्मणस्त्यागात्सामर्थ्यादेव सिद्धतः ||
तत्साधनस् संत्यागे श्रद्धावित्तगिराऽत्र किम् || १२६७ ||
मैवं दृष्टार्थविषये यत्कर्मास्यावशेषितम् ||
तत्साधनेष्वममताविधानार्थं वचो यतः || १२६८ ||
श्रद्धैव वित्तमस्येति नान्यदस्य यतस्ततः ||
श्रद्धावित्तोऽयमित्युक्तः संन्यासी सर्वकर्मणाम् || १२६९ ||
भूत्वेत्यस्याभिसंबन्धः सर्वैः शान्तादिभिः पदैः ||
विधिनाऽस्यापि चाऽऽक्षेपाद्विधितन्त्रत्वमिष्यते || १२७० ||
पाण्डित्यादि पुरोक्तं यत्तस्येयमुपसंहृतिः ||
प्राक्तदात्मानमेवावेदिति यच्च समीरितम् ||
सेतिकर्तव्यताकोऽथ विधिस्तस्यायमुच्यते || १२७१ ||
अन्वयव्यतिरेकाभ्यां यथोक्तैः साधनैर्युतः || १२७२ ||
आत्मन्येव तमात्मानं निष्कृष्यानात्मराशितः ||
पश्येदित्यभिसंबन्धः पश्यतीत्यथवा भवेत् || १२७३ ||
विध्यर्थस्य पुरा प्राप्तेः काण्वानामनुवादतः ||
द्रष्टव्याद्युक्तितस्तस्मात्पश्यतीत्यभिधीयते || १२७४ ||
आत्माऽनात्मप्रधानत्वाद्ब्रह्मरूपेण नेक्ष्यते || १२७५ ||
विशेषणत्वं स्वार्थोऽपि सत्कार्ये कारणे गतः ||
स्वात्माविद्यासमुत्थेऽस्मिन्नात्माविद्यासमाश्रयात् || १२७६ ||
देहेन्द्रियमनोधीभ्यो ह्यन्वयव्यतिरेकतः ||
मुञ्जेषीकावदुत्कृष्य पश्येदात्मानमात्मनि || १२७७ ||
आत्मन्येव यदाऽऽत्मानं विभज्यानात्मनोऽखिलात् ||
प्रपश्यति तदाऽनात्मा न पृथग्व्यवशिष्यते || १२७८ ||
स एष नेति नेत्यात्मेत्यथैतस्मात्पुरोदितात् ||
वाक्यात्सर्वमसंसर्गमात्मानं परिपश्यति || १२७९ ||
अविद्यातज्जकार्याणां प्रत्यग्दर्शनबाधतः ||
अव्यावृत्ताननुगतं ब्रह्मात्मनं प्रपश्यति || १२८० ||
नानुत्पन्नमतो ज्ञानं नाप्यज्ञानमबाधितम् ||
कृत्स्नज्ञेयसमाप्तत्वान्न किंचिदवशिष्यते || १२८१ ||
इयं सा ब्रह्मविद्योक्ता मधुकाण्डे पुरोदिता ||
या तस्या जन्मनः काले फ़लं श्रुत्याऽधुनोच्यते || १२८२ ||
अकर्तृत्वात्मविज्ञानाद्ध्वस्तात्माज्ञानहेतुतः ||
नैनं ब्रह्मविदं पाप्मा तरत्यज्ञं यथा तथा || १२८३ ||
पाप्मशब्देन धर्मोऽपि देहोपादानहेतुतः ||
मुमुक्षोस्तदनिष्टत्वादिह निःशेष उच्यते || १२८४ ||
दुःखाभावः सदेहस्य नैवास्तीति श्रुतेर्मतम् ||
तस्माद्देहोऽप्यनर्थः स्याद्देहो नाशाच्च सर्वदा || १२८५ ||
न तपत्यथ तं कस्मात्तापकोऽप्यात्मवेदिनम् ||
पाप्मेति हेतुरधुना तत्र श्रुत्याऽभिधीयते || १२८६ ||
अकर्तृत्वात्मयाथात्म्यसम्यग्ज्ञानाग्निना यतः ||
सर्वं पापं तपत्येष भस्मसात्कुरुतेऽग्निवत् || १२८७ ||
स्वयमेवेश्वरः प्राह प्रपन्नाय किरीटिने ||
पुराणः शाश्वतोऽचिन्त्यः सर्वभूतानुकम्पया || १२८८ ||
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ||
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा || १२८९ ||
संबन्धे सति पाप्माऽयं स्वफ़लेनानुतापयेत् ||
अकर्तृत्वान्न संबन्धो विदुषोऽस्तीह पाप्मभिः || १२९० ||
तदेतदुच्यते श्रुत्या नैनं पाप्मेति यत्नतः ||
नैनं ब्रह्मविदं पाप्मा तरति व्याप्नुते स्वतः || १२९१ ||
तदकर्तृत्वतो हेतोर्ब्रह्मवित्तु सकारणम् ||
सर्वं तरति पाप्मानं सर्पादीन्त्रशना यथा || १२९२ ||
आत्मयाथात्म्यवित्सोऽयं विपापो विरजः स्वतः ||
निष्कर्मा स्याद्विपापोऽयं विरजस्कोऽप्यकामतः || १२९३ ||
सर्वसंशयहेत्येश्च प्रत्यङ्मोहस्य नाशतः ||
स्यादेषोऽविचिकित्सोऽतः सर्वसंशयवर्जितः || १२९४ ||
एवमात्मापरिज्ञानाद्ध्वस्ताविद्यो भवेद्यदा ||
अनापन्नादिमध्यान्तं ब्राह्मण्यं लभते तदा || १२९५ ||
इमामवस्थामापन्नो मुख्यो ब्राह्मण उच्यते ||
भाविवृत्त्या स गौणस्तु प्रागतो ब्राह्मणो भवेत् || १२९६ ||
जातौ ब्राह्मणशब्दोऽयं मा प्रापदिति तं श्रुतिः ||
व्याचष्टेऽतः प्रयत्नेन ब्रह्मलोकगिरा स्वयम् || १२९७ ||
अव्यावृत्ताननुगतं ब्रह्मेत्यत्राभिधीयते ||
लोकोऽपि दृष्टिमात्रत्वात्प्रत्यङ्भात्रं निरुच्यते || १२९८ ||
अन्योन्यार्थसमाप्तित्वात्कर्मधारय एव तु ||
समासोऽत्र परिग्राह्यो निषादस्थपतिर्यथा || १२९९ ||
श्रुतमेकविभक्तित्वं विभक्त्यन्तरकल्पनात् ||
लघीयोऽतीव यत्तस्मात्कर्मधारय एव सः || १३०० ||
ब्रह्मलोकमिमं साक्षाद्धे सम्राड् ब्रह्मविद्यया ||
प्रापितोऽस्यभवं पूर्वं यत्प्रतिज्ञातवानहम् || १३०१ ||
इत्येवं याज्ञवल्क्यस्तं नृपमुक्तेन वर्त्मना ||
साक्षादनुशशासैनमित्युक्तिः स्याच्छ्रुतेरियम् || १३०२ ||
अनुशिष्टोऽथ नृपतिर्विद्यानिष्क्रयहेतुतः ||
सोऽहमित्यादिकं वाक्यं गुरुमाह त्वरान्वितः || १३०३ ||
ब्रह्मविद्या समाप्तेयं ससंन्यासाऽद्वयात्मिका ||
सेतिकर्तव्यताकेयं साङ्गा निःश्रेयसे नृणाम् || १३०४ ||
निःशेषपुरुषार्थोऽयं समाप्तो ब्रह्मबोधतः ||
सर्वानर्थनिरासार्थमेतावानेव चाऽऽदृतैः || १३०५ ||
कर्तव्यो यत्नमास्थाय कृते यस्मिन्कृतार्थता ||
नान्यतः कृतकृत्यः स्यादुक्तज्ञानातिरेकतः || १३०६ ||
व्याख्यातो योऽयमत्राऽऽत्मा स विज्ञानानुरोधतः ||
फ़लाय स्यादविज्ञात इत्येतदधुनोच्यते || १३०७ ||
पञ्चमान्त उपन्यस्तं रातेर्दातुः परायणम् ||
तद्विदस्तिष्ठमानस्येत्यस्य चेहोपसंहृतिः || १३०८ ||
आत्मान्तेनास्य वाक्येन स्वतस्तत्त्वमिहोच्यते ||
अन्नादवसुदानाभ्यामविद्योत्थं तु भण्यते || १३०९ ||
निःशेषान्नादनादात्मा प्राणान्तोऽन्नाद उच्यते ||
आत्माऽयं कारणं यस्मात्कार्यमित्यखिलं ततः || १३१० ||
कारणेऽनुपयुक्तं यत्कार्यं तन्नेह विद्यते ||
कार्येऽप्यनुपयुक्तं यन्न तत्कारणमुच्यते || १३११ ||
अन्योन्यार्थव्यपेक्षित्वात्कार्यकारणवस्तुनोः ||
नान्योन्यार्थातिरेकेण सिध्येते कार्यकारणे || १३१२ ||
वसूपकरणं प्रोक्तं तद्ददातीश्वरत्वतः ||
यतस्ततोऽज आत्माऽयं वसुदान इहोच्यते || १३१३ ||
अन्नादवसुदानाभ्यां गुणाभ्यां यः समीक्षते ||
ईश्वरं स यथादृष्टि फ़लमाप्नोति मानवः || १३१४ ||
इत्येवमयथावस्तुदर्शिनः फ़लमीरितम् ||
यथावस्तुदृशोऽप्येवं यथा रज्ज्वादिदर्शिनः || १३१५ ||
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ||
इति चाऽऽहेश्वरो वाक्यमुक्तार्थप्रतिपत्तये || १३१६ ||
यथातत्त्वं तु योऽज्ञातं वस्तु साक्षात्प्रपद्यते ||
यथावस्त्वेव तस्यापि फ़लं स्यादिति भण्यते || १३१७ ||
काण्डद्वयस्य वा योऽर्थः स संक्षिप्याभिधीयते ||
स वा इत्यादिवाक्येन सारार्थस्य जिघृक्षया || १३१८ ||
अविद्यावान्पुरा योक्तो मृत्युजन्मादिसंसृतिः ||
स वा इति गिरा सोऽत्र स्मार्यते ब्रह्मसंगतौ || १३१९ ||
स वा एष पुरोक्तेन यो वाक्येन प्रकाशितः ||
प्रध्वस्ताज्ञानतज्जः सन्परां निर्वृतिमगतः || १३२० ||
महानित्यभिधानेन सत्यज्ञानादिलक्षणम् ||
ब्रह्मैव प्रोच्यते साक्षात्प्रत्यगात्मविशेषणम् || १३२१ ||
ब्रह्मैवाऽऽत्मा स्वतोऽबोधादब्रह्मैव प्रकाशते ||
जरादिधर्मवांस्तस्माद्ब्रह्मणैव विशेष्यते || १३२२ ||
प्रमान्तरानधिगता ब्रह्मता प्रत्यगात्मनः ||
प्रत्यक्त्वं ब्रह्मणस्तद्वद्वचसैव प्रबोध्यते || १३२३ ||
अहं ब्रह्मेतिवाक्योत्थविज्ञानात्प्रत्यगात्मनः ||
ध्वस्तेऽज्ञाने सकार्येऽथ यद्रूपं तदिहोच्यते || १३२४ ||
रज्जुः सर्पादिनेवाऽऽत्मा विनाऽविद्यां न जायते ||
कार्यात्मना यतस्तस्मादात्माऽज इति भण्यते || १३२५ ||
सर्वभावविकाराणां जन्म मूलं यतस्ततः ||
सर्वेषां प्रतिषेधः स्यान्निषेधादात्मजन्मनः || १३२६ ||
तथाऽपि ताञ्श्रुतिर्यत्नाज्जरादीन्प्रतिषेधति ||
स्वाभाविकत्वाशङ्कायाः प्रतिषेधस्य सिद्धये || १३२७ ||
कालात्मना ह्यवच्छेदान्नायं कालंजरत्वतः ||
देहादिवज्जरामेति तस्मादात्माऽजरः स्मृतः || १३२८ ||
सर्वस्य परिणामस्य हानोपादानमात्रतः ||
जराजन्मनिषेधेन सर्वोऽतोऽत्र निषिध्यते || १३२९ ||
परिणामोऽस्य येनान्त्यः श्रुत्येह प्रतिषिध्यते || १३३० ||
देहस्थितेरवसितिर्मृतिशब्देन भण्यते ||
तन्निषेधोऽमरोकत्याऽत्र नित्यस्याऽऽत्मन उच्यते || १३३१ ||
नाजस्यापरिणामस्य मरणं जगतीक्ष्यते ||
अजोऽजरश्च तेनोक्तोऽमरश्चैष ततः स्मृतः || १३३२ ||
परिणामात्मको मृत्युरमरोक्त्या निवारितः ||
अमृतोक्त्याऽथ नाशोऽस्य वार्यते यो निरन्वयः || १३३३ ||
अविनाशीत्यपि तथा विनाशद्वयमात्मनः ||
श्रुत्या निषिध्यते साक्षात्प्रत्यक्तौटस्थ्यसिद्धये || १३३४ ||
कामकर्मतमोभावादमरोऽमृत एव च ||
तत एवाभयः प्रत्यङ्भयं हि तदबोधतः ||
कारणस्य निषेधोऽतो भयकार्यनिषेधतः || १३३५ ||
कुतोऽभयत्वसंसिद्धिः प्रतीच इति शङ्किते ||
ब्रह्मेत्याहाऽऽत्मनस्तत्त्वं ब्रह्म त्वभयमेव हि || १३३६ ||
अहं ब्रह्मेत्यतः साक्षाद्यथोक्तेनैव वर्त्मना ||
भयहेतोर्निरासेन स ब्रह्माभमश्नुते || १३३७ ||
सर्वोपनिषदामेष संक्षिप्तोऽर्थ इहोदितः ||
उत्पत्त्यादिविकल्पोऽयमस्यैव प्रतिपत्तये || १३३८ ||
एकप्रभृतिसंख्येयं रेखासंकेतवर्त्मना ||
प्रतिपत्तिरसंख्येयवस्तुनः स्याद्यथा तथा || १३३९ ||
सर्वप्रमाणविषयलङ् घिनोऽकार्यकारण-
वस्तुनः प्रतिपत्तिः स्याज्जन्मादिध्वंसवर्त्मना || १३४० ||
संख्येयत्वं न रेखायाः संख्यात्वं वाऽञ्जसेष्यते ||
तदध्यारोपगत्यैव तथाऽपि प्रतिपत्तये || १३४१ ||
यथैवमवगच्छन्ति प्रध्वस्ताशेषकल्पनम् ||
आत्मानं स्थितिजन्मादिकल्पनोपायमात्रताः || १३४२ ||
पत्रकज्जलरेखाभिर्यथा वाऽध्यासवर्त्मना ||
वर्णाञ्जानन्त्यकारादीन्पत्रादिभ्यो विलक्षणान् || १३४३ ||
तथोत्पत्त्यादिकाध्यासवर्त्मना तद्विलक्षणम् ||
जन्मादिहेतुध्वंसेन नेतीति ब्रह्म गम्यते || १३४४ ||
इति काण्डद्वयोक्तोऽर्थः संहृत्य सफ़लोऽखिलः ||
इह प्रदर्शितो वाक्ये तत्समाप्तिविवक्षा || १३४५ ||
निरधारि पुरा ब्रह्म मधुक्राण्डागमेन यत् ||
याज्ञवल्कीयकाण्डेन तद्युक्त्याऽथोपपदितम् || १ ||
जल्पन्यायेन तत्पूर्वं पञ्चमे प्रतिपादितम् ||
वादन्यायेन तद्भूयः षष्ठे सम्यक्प्रपञ्चितम् || २ ||
अथाधुना निगमनस्थानीयमिदमुच्यते ||
मैत्रेयीब्राह्मणं श्रुत्या तथाच न्यायविद्वचः || ३ ||
हेतूक्तितः प्रतिज्ञायाः सिद्धार्थाया यदुत्तरम् ||
वचो निगमनं तत्स्याद्वाक्यस्यावयवोक्तिभाक् || ४ ||
ससंन्यासाऽऽत्मविद्या या मधुकाण्डागमोदिता ||
उपपत्तिप्रधानेऽपि सैव मोक्षेऽवसीयते || ५ ||
आत्मज्ञानं ससंन्यासं मोक्षायेत्यागमाद्यथा ||
युक्तितोऽपि तथा ज्ञेयमिति चेहोपसंहृतिः || ६ ||
व्याख्यातत्वात्पदार्थानां चतुर्थेऽध्याय एव तु ||
तद्व्याख्यानाय यत्नोऽतो न भूयः क्रियतेऽधुना || ७ ||
शब्दस्यैवाऽऽत्मनो जन्म चतुर्थे प्रतिपादितम् ||
सर्वोपसंहृतेरत्र यागादेरपि भण्यते || ८ ||
शब्दोऽयं बहुधा भिन्नो नामैव परमात्मजम् ||
यागदानादिकं कर्म रूपं लोकपुरःसरम् || ९ ||
सर्वमेतदयत्नेन तत एव विनिःसृतम् ||
अनन्यभूतं तेनातः साक्षात्तत्त्वं प्रगीयते || १० ||
अन्तर्बहीरसघनः सैन्धवस्य घनो यथा ||
विज्ञानघन एवायं विज्ञानात्मा तथैव च || ११ ||
स्वविकारोपसंश्लेषाद्विज्ञानात्मत्वमेत्यतः ||
तद्धेतुनाशात्प्रकृतिं स्वामेव प्रतिपद्यते || १२ ||
परिणामनिषेधः स्यादविनाशिगिराऽऽत्मनः ||
अनुच्छित्तिगिरा नाशो वार्यते यो निरन्वयः || १३ ||
मात्रासंसर्गजस्त्वेष यो विनाशादिधर्मवान् ||
अविद्यामात्रहेतूत्थो रज्जुसर्पादिवन्मतः || १४ ||
ब्रह्मैवैकः स आत्मोक्तो ह्यध्यायेषु चतुर्ष्वपि ||
उपायमात्रभेदोऽत्र न तूपेयः प्रभिद्यते || १५ ||
नेति नेति चतुर्थेऽसौ यथैव प्रतिपादितः ||
नेतीति पञ्चमेऽप्येवं निर्विकल्पोऽवधारितः || १६ ||
षष्ठोऽपि जनकाख्यानप्रारम्भे तद्वदीरितः ||
निर्विकल्पो यथैकोऽर्थो नेतीत्यत्रोपसंदृतः || १७ ||
नेतीति शास्रावसितौ तथैवाऽऽत्मोपसंहृतः ||
एकरूपमतस्तत्त्वं सर्वत्रैव विवक्षितम् || १८ ||
नेति नेत्यात्मकात्तत्त्वात्प्रकाराणां शतैरपि ||
निरूप्यमाणे नान्यादृग्यस्मात्तत्वं समीक्ष्यते || १९ ||
तर्कतो यदि वा वाक्यादत एवेदमेव तु ||
नेतिनेत्यात्मविज्ञानमृतत्वैकसाधनम् || २० ||
ससंन्यासं विनिश्चेयमिति शास्रस्य संग्रहः ||
अमृतप्राप्तयेऽलं स्यात्साधनान्तरनिस्पृहम् || २१ ||
यथोदितमिदं ज्ञानं सहकार्यन्यसाधन-
निरपेक्षमलं मुक्त्या इत्येतदभिधीयते || २२ ||
एतावदर एवैतदमृत्वस्य सिद्धये ||
प्रत्यग्याथात्म्यविज्ञानं नान्यत्किंचिदपेक्ष्यते || २३ ||
इत्युक्तार्थपरिज्ञानदार्ढ्यार्थं सर्वसाधनम् ||
कर्माणि चापनुद्याऽऽशु प्रवव्राजाविचारयन् || २४ ||
न केवलमिदं ज्ञानं कर्मसाधननिस्पृहम् ||
निःशेषकर्मसंन्यासापेक्षाऽपि स्याद्यतो मुनिः || २५ ||
सम्यग्विज्ञाततत्त्वत्वात्कृतार्थोऽप्यखिलं स्वयम् ||
तत्याज कर्म त्वरया वाङ्भनःकायसाधनम् || २६ ||
अतोऽवगम्यते नूनं न कर्म सहतेऽखिलम् ||
आत्मज्ञानं यतोऽत्याक्षीत्सम्यग्ज्ञानोऽपि तन्मुनिः || २७ ||
कर्महेतुविरुद्धत्वात्सम्यग्ज्ञानस्य कर्मणा ||
विरोधोऽत्यर्थमेवातस्तत्त्यक्तं ज्ञानशालिना || २८ ||
एवं काण्डद्वयेनेयं सफ़लाऽनवशेषतः ||
सर्वसंन्यासनिष्ठा च ब्रह्मविद्या समीरिता || २९ ||
एतावानुपदेशः स्याद्वेदे श्रेयोर्थिनां नृणाम् ||
कृतकृत्यो भवेत्क्षिप्रमेतज्ज्ञात्वाऽनुशासनम् || ३० ||
त्रिसाहस्री तथा पञ्च शतान्यत्र समासतः ||
चत्वारिंशत्तथा श्लोकाः षष्ठाध्यायस्य वार्तिके ||