बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥
समाप्तं याज्ञवल्कीयं काण्डमैकात्म्यनिष्ठितम् ।।
खिलकाण्डमथेदानीं यथावदुपवर्ण्यते ।। १ ।।
संभावितं न यत्पूर्वं कर्मविज्ञानकाण्डयोः ।।
तदत्र भण्यते सर्वं खिलकाण्डत्वहेतुतः ।। २ ।।
अपास्तनिखिलध्वान्ततज्जं ब्रह्मोपवर्णितम् ।।
पूर्वैश्चतुर्भिरध्यायैर्यद्धीः कैवल्यसिद्धये ।। ३ ।। ।।
सोपाधकस्य तस्यैव व्यवाहारानुपातिनः
उपासनानि वाच्यानि यान्यनुक्तान्यतः परम् ।। ४ ।।
प्रकृष्टाभ्युदयार्थानि क्रममुक्तिकराणि च ।।
सर्वोास्त्यङ्गभूतानि वक्तव्यानीति यत्यते ।। ६ ।।
कार्यकारणसंबन्धव्याजमाश्रित्य तत्परम् ।।
व्याख्यातं यत्नतः पूर्वमात्मज्ञानप्रसिद्धये ।। ७ ।।
चरितार्थत्वतस्तस्य कार्यकारणवस्तुनः ।।
निषेधायेयमुक्तिः स्यात्पूर्णमित्येवमादिना ।। ८ ।।
न व्यावृत्तमिदं सर्वं पराक्प्रत्ययमानगम् ।।
नानुवृत्तं तथैवैतन्नाप्यभावैकनिष्ठितम् ।। ९ ।।
अव्यावृत्ताननुगतमात्मप्रत्ययमीरितम् ।।
यस्मात्पूर्णमिदं साक्षात्तादात्म्यं तेन वर्ण्यते ।। १० ।।
अज्ञातामिथ्याविज्ञाततत्त्वमात्रैकनिष्ठितम् ।।
सम्यग्ज्ञानं यतस्तस्मात्पूर्णं तज्ज्ञेयमुच्यते ।। ११ ।।
गोत्ववन्नानुवृत्तं यन्न व्यावृत्तं च खण्डवत् ।।
अनन्यमानमानन्दं पूर्णं तदभिधीयते ।। १२ ।।
अदः परोक्षमत्यन्तं सर्वकार्यस्य कारणम् ।।
कार्यानुमेयं तद्विद्यात्पूर्णमात्रसतत्त्वकम् ।। १३ ।।
इदं यज्जनिमत्किंचिन्नामरूपक्रियात्मकम् ।।
प्रत्यक्षाद्यवसेयं यत्पूर्णं तदपि पूर्ववत् ।। १४ ।।
कार्यकारणयोश्चेष्टा पूर्णात्पूर्णमितीर्यते ।।
वस्तुवृत्तमिदं तावत्प्रगपि ज्ञानसंगतेः ।। १५ ।।
अथ हेतुफलावेशनिषेधाय परं वचः ।।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। १६ ।।
ब्रह्म वा इदमित्यादि मधुकाण्डे यदीरितम् ।।
तदेव पूर्णमित्यादिवाक्येनेहोपसंहृतम् ।। १७ ।।
अपीताखिलकार्यं सत्तमोमात्रावशेषगम् ।।
भास्वत्स्वार्थं चिदेकस्थमदः पूर्णामिहोच्यते ।। १८ ।।
तमोन्वितं च यत्कार्यं साक्षिणः साक्ष्यतां गतम् ।।
प्रत्यक्षमागमापायि विद्यात्पूर्णमिदं तथा ।। १९ ।।
ईशक्षेत्रज्ञयोरेवं तमस्तज्जाभिसंस्थयोः ।।
सामानाधिकरण्यादेर्वाक्यादैकात्म्यमुच्यते ।। २० ।।
क्षेत्रज्ञेश्वरभेदेन ह्यभिन्नं वस्त्वविद्यया ।।
भिन्नं बोधात्तमोध्वस्तौ नेतीत्यात्माऽवशिष्यते ।। २१ ।।
न भेदो न च संसर्गो नाप्यभावोऽवसीयते ।।
तन्मूलाज्ञानविध्वस्तेर्यथोक्तागममानतः ।। २२ ।।
स्रगज्ञानमनादाय तदुत्थैः संगतिः स्रजः ।।
नैव संभाव्यते यद्वत्तथेहाऽऽत्मनि वीक्ष्यताम् ।। २३ ।।
कार्यकारणयोर्ध्वस्तावपूर्वाद्युक्तिबोधतः ।।
आत्मप्रत्ययमागम्यः स्वार्थ आत्माऽवशिष्यते ।। २४ ।।
यादृगस्य द्वये रूपमात्मनैवावगम्यते ।।
तावदेव हतान्ध्यस्य तदन्यानवशेषतः ।। २५ ।।
यदेवेहेति च तथा मन्त्रोऽप्युच्चैर्जगाद नः ।।
अन्यदेवेति च श्रुतिः कार्येतरनिषेधिनी ।। २६ ।।
आत्मेतिदृष्टेर्मेयत्वं स्वार्यावगतितोऽपरम् ।।
नान्यदुत्सहते वोढुमिति पूर्वमवादिषम् ।। २७ ।।
एवं यथोदिते तावत्प्रमाणार्थेऽप्यवस्थिते ।।
अन्यथेदं वचः केचिद्व्याचख्युरतिनैपुणात् ।। २८ ।।
पूर्णमित्यादिवाक्यस्य षष्ठान्त्यवचसा सह ।।
वक्तुकामो हि संबन्धमेवं यत्नादचीक्लृपत् ।। २९ ।।
द्वैताद्वैतात्मकं ब्रह्म मैत्रेय्यै वर्णितं किल ।।
यत्र हि द्वैतमित्युक्त्या यत्र त्वस्येति चाऽऽदरात् ।। ३० ।।
यद्यद्वैतं परं ब्रह्म तत्र स्यात्परमार्थतः ।।
कल्पितं प्रसजेद्दूैतं तोयबुद्धिरिवोषरे ।। ३१ ।।
मृषात्वाद्भेदजातस्य सर्गस्थित्याद्यसंभवात् ।।
सर्गस्थितिलयानां स्यादन्वाख्यानं मृषैव तु ।। ३२ ।।
श्रवणप्रतिपत्ती च व्यर्थे स्यातां तथाऽद्वये ।।
अथ स्वेनैव रूपेण द्वैतमस्तीति भण्यते ।। ३३ ।।
अन्वाख्यानं सतामेव सर्गादीनां तथा भवेत् ।।
तथाऽप्यद्वैतसंदृष्टेर्मृषात्वं स्याद्विरोधतः ।। ३४ ।।
परिकल्पिततादोष एवमत्र प्रसज्यते ।।
तद्दोषापनुनुत्सायै पूर्णमित्यादिका श्रुतिः ।। ३५ ।।
न कश्चिदपि दोषोऽत्र यथा तदभिधीयते ।।
स्वानुभूत्यनुसारेण सर्वं सुस्थं भवेदतः ।। ३६ ।।
ब्रह्मणो याऽद्वयावस्था सैव तावदिहोदिता ।।
एवं चेदद्वयं ब्रह्म द्वैतावस्था न सिध्यति ।। ३८ ।।
इतिदोषनिषेधार्थमिदं पूर्णमितीर्यते ।।
यथोक्तावस्थयोर्मा भून्मृषात्वं ब्रह्मणः सदा ।। ३९ ।।
पूर्णब्रह्मपरिज्ञानाव्यतिरेकत्वहेतुतः ।।
अदोवत्कार्यमप्येतत्पूर्णमेवावसीयताम् ।। ४० ।।
पूर्णेनाभेदतः कार्यं पूर्णं स्यान्न मृषा श्रुतेः ।।
यद्यते नातिरेकेण तत्तदेवेति निश्चितिः ।। ४१ ।।
एवं तर्ह्येकरूपेऽस्मिंस्तत्त्वे सत्ये समर्थिते ।।
ततः सर्गाद्यभावः स्यादेकरूपतया स्थितेः ।। ४२ ।।
नैवं यतः श्रुतिः प्राह पूर्णात्पूर्णमुदच्यते ।।
पूर्णात्कारणतः पूर्णं द्वैतमेतदुदच्यते ।। ४३ ।।
यस्मादुद्रिच्यमानं हि द्वैतं नैवातिरिच्यते ।।
तदेवोद्रेचनं चेत्स्याद्वैतस्येति मतं यदि ।। ४४ ।।
नैतदेवं कुतो यस्माद्दृष्टहानं प्रसज्यते ।।
प्रत्यक्षतो हि दृष्टोऽयं द्वैताख्यो विषयः स्फुटः ।। ४५ ।।
तथा दर्शनतः सिद्धो विधितश्चावसीयते ।।
प्रामाण्योच्छेद एव स्याच्छ्रुतेरेवं समर्थते ।। ४६ ।।
पारमार्थ्यं क्वचिच्छास्रं कच्चिच्चाप्यनृतात्मताम् ।।
विदधन्मानतां जह्यात्परस्परविरोधतः ।। ४७ ।।
पूर्णत्वेनाजहद् वृत्त्या त्रिष्वप्यध्वसु वर्तते ।।
द्वैताद्वैतात्मकं ब्रह्म पूर्णत्वेनाविभागतः ।। ४८ ।।
कुतोऽविभागो मानाच्चेदुभयोरप्यवस्थयोः ।।
पूर्णादित्यादिवचनान्महाप्रलय आत्मनि ।। ४९ ।।
इदं च द्वैतस्त्येव तथाऽदोऽद्वैतमेव च ।।
पूर्णत्वाख्याजहद्वृत्त्या समुद्रोर्मिवदीक्ष्यताम् ।। ५० ।।
अग्ने चलत्वमूर्मीणां मध्य ईषच्चलात्मता ।।
निष्कम्पत्वं तथा मूले समुद्रः सर्वरूपभृत् ।। ५१ ।।
यथैता यौगपद्येन वृत्तीरूर्मिभिरात्मनः ।।
अनुभूयन्त एकत्र देवदत्तादिके तथा ।। ५२ ।।
निष्कम्पा देवदत्तस्य वृत्तिः स्यात्परमात्मना ।।
ईषत्प्रचलिता प्राणभावेनेत्यवगम्यते ।। ५३ ।।
विराड् भावेनातितरां चण्डप्रचलितोर्मिवत् ।।
ऊर्म्यग्रवत्पिण्डभावे नामरूपक्रियात्मना ।। ५४ ।।
जनिस्थितिलयेष्वेवं त्रिषु कालेषु पूर्णता ।।
कार्यकारणयोर्ज्ञेया द्वैताद्वैतस्वभावयोः ।। ५५ ।।
सा चैैकैवाविभागत्वात्कार्यकारणभेदतः ।।
भेदेन व्यपदेशार्हा सर्वमेवं समञ्जसम् ।। ५६ ।।
आविर्भावतिरोभावैः कार्यकारणरूपिभिः ।।
समुद्रवन्नृत्यति च प्रत्यवस्थं विभुः स्थितः ।। ५७ ।।
एवं द्वैतस्य सत्यत्वे कर्मकाण्डस्य मानता ।।
अनन्तपुरुषार्थाप्तिरिष्यते कर्मकाण्डतः ।। ५८ ।।
यदा तु कल्पितं द्वैतमद्वैतं परमार्थतः ।।
उच्छिन्नं कर्मकाण्डस्य प्रामाण्यं विषयादृते । ५९ ।।
एकदेशस्य चामात्वे वेदस्याप्यप्रमाणता ।।
सर्वनाशो भवेदेवं सर्वाप्रामाण्यहेतुतः ।। ६० ।।
अतो विरोधनुत्त्यर्थं सत्यत्वप्रतिपत्तये ।।
कार्यकारणयोः शास्रं पूर्णमित्यादिनाऽवदत् ।। ६१ ।।
प्रत्यक्षादीनि मानानि भेदग्राहीणि सर्वदा ।।
तेषां चाप्यप्रमाणत्वं प्रापदद्वैतवादिनः ।। ६२ ।।
इति वेदविदः केचिद्भिन्नाभिन्नसतत्त्वकम् ।।
सर्वं वस्त्वभिवाञ्छन्ति तत्तु युक्त्या न युज्यते ।। ६३ ।।
न युक्तिमदिदं गीतं ह्यपवादविकल्पनम् ।।
न्यायासंभवतः स्पष्टं स च न्यायो विभाव्यते ।। ६४ ।।
अहिंसन्सर्वभूतानीत्यहिंसा सर्वभूतगा ।।
शास्त्रेणोत्सर्गतः प्राप्ता तीर्थे साऽपोद्यते यथा ।। ६५ ।।
न तथेहाद्वावस्था श्रुत्योत्सर्गेण यत्नतः ।।
प्रापिता तद्विशेषेऽसौ निर्भागत्वान्निषेधभाक् ।। ६६ ।।
विकल्पानुपपत्तेश्च पोडशग्रहणादिवत् ।।
वस्तुतन्त्रं हि नो मानं कर्तृतन्त्रं विकल्पते ।। ६७ ।।
यत्कर्तुं वाऽप्यकर्तुं वाऽप्यन्यथा कर्तुमेव वा ।।
कारकैः शक्यते लोके तद्विकल्पस्य गोचरः ।। ६८ ।।
पस्स्परविरोधाच्च नैकदैकत्र संभवः ।।
द्वयोरवस्थयोर्यद्वत्प्रकाशतमसोरिह ।। ६९ ।।
श्रुतिन्यायविरोधाच्च कल्पनेयमशोभना ।।
अपूर्वानपरानन्तप्रज्ञानैकरसाद्वयम् ।। ७० ।।
अपूर्वानपराबाह्यं भेदसंसर्गवर्जितम् ।।
अस्थूलं नेति नेतीति यथोक्तार्थे वचांसि हि ।। ७१ ।।
अमात्वाशङ्कासद्भावाद्यथोक्तार्थविनिश्चितौ ।।
अब्धौ क्षिप्तानि तानि स्युरन्यार्थासंभवत्वतः ।। ७२ ।।
तथा न्यायविरोधोऽपि क्रियाकारकरूपिणः ।।
जडाध्रुवानात्मनो हि त्वत्कृता कल्पनेष्यते ।। ७३ ।।
न तु चिन्मात्ररूपस्य ध्रुवानंशात्मनः स्वतः ।।
नित्यत्वं चाऽऽत्मनः सिद्धं प्रत्यभिज्ञादिमानतः ।। ७४ ।।
प्रसजेत्तद्विरोधश्च भिन्नाभिन्नत्ववादिनः ।।
कल्पनायाश्च वैफल्यमनित्यत्वे परात्मनः ।। ७५ ।।
अकृताभ्यागमः प्राप्तः कृतनाशश्च सत्वरः ।।
कर्मकाण्डस्य वैफल्यमेवं कल्पयतो भवेत् ।। ७६ ।।
मकरी ननु दृष्टान्तो भिन्नाभिन्नत्वसिद्धिकृत् ।।
ब्रह्मणः प्रागुपन्यस्तोऽसाध्वीयं कल्पना कथम् ।। ७७ ।।
अतोऽन्यविषयत्वात्सोऽविरोधः प्रागुदीरितः ।।
नतु चिन्मात्ररूपस्य ह्यत्रावोचं विरुद्धताम् ।। ७८ ।।
नाध्येयत्वाच्च शास्रार्थकल्पनेयं त्वया कृता ।।
षड्भावविक्रियं वस्तु ध्येयं वक्ति न हि श्रुतिः ।। ७९ ।।
स्वतस्तस्य च संप्राप्तेर्विनाऽप्यागमाशासनम् ।।
ध्येयत्वेनेह सर्वेषां खारोष्ट्रादेरपीक्षणात् ।। ८० ।।
एकधैवानुविज्ञेयमिति च श्रुतिशासनम् ।।
भेददृष्ट्यपवादाच्च मृत्योरिति विनिन्दनात् ।। ८१ ।।
यत्तूक्तं वेदभागत्वाद्भिन्नवस्त्ववबोधिनः ।।
नामात्वं कर्मकाण्डस्येत्यत्र प्रतिविधीयते ।। ८२ ।।
न हि जात्यादिसंभेदसंसिद्धौ मानता श्रुतेः ।।
प्रत्यक्षाद्यनवष्टब्धे तस्यामात्वं यतः स्थितम् ।। ८३ ।।
भेदग्राहि न नो मानं लौकिकं वैदिकं च यत् ।।
अविचारितसंसिद्धिस्तस्माद्भेदोऽवसीयताम् ।। ८४ ।।
न स्वतः परतो वाऽयं भेदो वस्तुन ईक्ष्यते ।।
सर्वस्यैव स्वतोऽभित्तेस्तदन्यस्याप्यभेदतः ।। ८५ ।।
वस्तु वस्त्वन्तरं भिन्द्याद्योगाद्यद्वा विभागतः ।।
योगोे नातिशयैकत्वात्तयोश्चाप्येकरूपतः ।। ८६ ।।
विभागेऽपि न भेदः स्यात्तयोरेकात्मना स्थितेः ।।
अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना ।। ८७ ।।
मेययाथात्म्यसंलेहि मानं मानत्वमश्नुते ।।
भेदं न लभते मेये, मेयादन्यत्र न प्रमा ।। ८८ ।।
सतो न व्यतिरेकेण भेदो नापि सदन्वयात् ।।
यथैवं नासतोऽप्येवं भेदो नैवावसीयते ।। ८९ ।।
सर्वं सदेव यस्येष्टमथवाऽ सदिदं जगत् ।।
भेदः किमाश्रयस्तस्य विरोधान्न द्वयाश्रयः ।। ९० ।।
अन्यापेक्षं गृथक्त्वं चेत्स्वत एवापृथग्घटः ।।
बलीयानन्तरङ्गत्वाद्वहिरङ्गं प्रबोधते ।। ९१ ।।
द्रव्याद्भिन्नं पृथक्त्वं चेदनवस्थैति सत्वरा ।।
द्रव्यमेव पृथक्त्वं चेदपृथक्स्यादिदंं जगत् ।। ९२ ।।
स्वतश्चेद्वस्तुनो भेदो वस्तु शून्यं प्रसज्यते ।।
आपेक्षिकोऽपि क्लृप्तत्वान्न भेदो रज्जुसर्पवत् ।। ९३ ।।
इत्येवमादि बहुशो भिन्नाभिन्नत्वदुषणम् ।।
प्रागप्यक्तं तदत्रापि संधेयं वस्तुसिद्धये ।। ९४ ।।
अपि वेद्वैकदेशस्य प्रामाण्यं यदि नेष्यते ।।
कर्मकाण्डस्य सर्वस्य वेदस्यापि प्रसज्यते ।। ९५ ।।
इति यत्प्रागुपन्यस्तं तस्य दूषणमुच्यते ।।
साध्यसाधतसंवन्धे तस्यापाीष्टा प्रमाणता ।। ९६ ।।
भेदः प्रमान्तरैः सिद्धो न त्वागमसमाश्रयात् ।।
पशवोऽपि हि जानन्ति भेदमक्षादिमानतः ।। ९७ ।।
न च मिथ्यात्वधीर्भेदे जन्मनैवेह कस्यचित् ।।
अप्युत्थापितबुद्धीनां भेदेऽसंभावना न च ।। ९८ ।।
क्रियाकारकसंभित्तौ वस्तुतत्त्वेन मा श्रुतिः ।।
साध्यसाधनसंबन्धमात्रैकविषयत्वतः ।। ९९ ।।
लोकसिद्धमतो भेदमादायेष्टार्थसिद्धये ।।
इदं कार्यमिदं नेति वेदशास्रं प्रवर्तते ।। १०० ।।
सर्वतस्तु विरक्तो यः कर्मभिः शुद्धधीर्नरः ।।
कामयानः पूर्णफलमुत्पत्त्यादिविलक्षणम् ।। १०१ ।।
तमोमात्रान्तरायत्वात्प्रतीचः पूर्णरूपिणः ।।
स्वतःसिद्धत्वतस्तस्य व्यञ्जकान्नान्यदीक्ष्यते ।। १०२ ।।
स्वतः प्राप्तस्य संप्राप्तौ वाक्यान्मोहप्रहाणतः ।।
मानापेक्षा न भूयः स्यात्फलाप्तेस्तत्कृतार्थतः ।। १०३ ।।
साध्ये हि साधनापेक्षा सिद्धेऽसौ विनिवर्तते ।।
किम्वसाध्ये समस्तस्य पूर्णत्वेन समाप्तितः ।। १०४ ।।
द्वैताद्वैतात्मकं ब्रह्म यदाऽण्वभ्युपगम्यते ।
तदाऽपि न विरोधोऽयं केनचिद्विनिवार्यते ।। १०५ ।।
समस्तव्यस्तभूतस्य ब्रह्मण्यवसितात्मनः ।।
बूत कर्मणि को हेतुः सर्वानन्यत्वदर्शिनः ।। १०६ ।।
सर्वजात्यादिमत्त्वे च परस्परविरोधतः ।।
व्याघातान्न प्रवृत्तिः स्यान्निषेधेऽथ विधौ तथा ।। १०७ ।।
न चावच्छेदमानित्वं विदुषोऽस्त्यासुरत्वतः ।।
विदुषोऽप्यासुरत्वे स्यान्निष्फलं ब्रह्मदर्शनम् ।। १०८ ।।
तस्मादसदिदं गीतं भिन्नाभिन्नत्वसिद्धये ।।
श्रुतिन्यायविरुद्धत्वात्प्रकृतं त्वधुनोच्यते ।। १०९ ।।
ओं खं ब्रह्मेति मन्त्रोऽयं श्रुत्येह ध्यानकर्मणि ।।
नियुज्यते फलप्राप्तौ यथा तदभिधीयते ।। ११० ।।
परस्य ब्रह्मणः साक्षाद्याथात्म्याधिगमो यथा ।।
पूर्वैश्चतुर्भिरध्यायैस्तथा श्रुत्योदितोऽञ्जसा ।। १११ ।।
अस्यैव प्रतिपत्त्यर्थमुपासनमथोक्तते ।।
ओं खं ब्रह्मेति वचसा पुंसां श्रेयोभिवाञ्छताम् ।। ११२ ।।
ब्रह्मेतीह विशेष्यार्थः खमित्यपि विशेषणम् ।।
सामानाधिकरण्योक्तेस्तदुवृत्तिः कृष्णसर्पवत् ।। ११३ ।।
प्रवृत्तिर्ब्रह्मशब्दस्य बृहद्वस्त्वेकगोचरा ।।
खेन तद्विशिनष्ट्यत्र सामान्यांशैकपातिना ।। ११४ ।।
अनाकाशस्वभावेभ्यः खेन ब्रह्म निवर्त्यते ।।
तथाऽब्रह्मस्वभावेभ्यः सामर्थ्याद्ब्रह्मणा च खम् ।। ११५ ।।
सामान्यमात्रवाचित्वात्खशब्दस्य विशेषणम् ।।
पुराणमिति निर्वक्ति कारणप्रतिपत्तये ।। ११६ ।।
यत्तद्ब्रह्म खमित्युक्तं तदोंशब्दाभिधानकम् ।।
चिन्तयेत्सततं धीमानोमालम्बनमेव वा ।। ११७ ।।
एतदालम्बनं श्रेष्ठमिति च श्रुतिशासनम् ।।
एतेनैवाक्षरेणेति ह्यथर्वाणोऽप्यधीयते ।। ११८ ।।
अतीन्द्रित्स्वात्तस्यापि कथं स्यात्तदुपासनम् ।
वायुरं खमिति प्राह तदालम्बनसिद्धये ।। ११९ ।।
खं पुराणं न विज्ञेयं मन्त्रेऽस्मिन्निति मन्यते ।।
कौरव्यायणिजो धीमान्वायुरेतिप्रसिद्धितः ।। १२० ।।
रूढ्या वृत्तिः खशब्दस्य वायुरे व्योम्नि लक्ष्यते ।।
बहुशश्च प्रयोगोऽतो वायुरं खं प्रतीयताम् ।। १२१ ।।
पुराणं यदि तद्व्योम यदि वा वायुरं भवेत् ।।
ध्येयं तदोमिति सदा पक्षयोरुभयोरपि ।। १२२ ।।
आलम्बनतर्योकार उपास्तिविषयो भवेत् ।।
चतुर्भुजाङ्कितं दारु विष्णोरिव निगच्छति ।। १२३ ।।
नेदीयो ब्रह्मणः स्थानमोमितीदं प्रतीयताम् ।।
शालग्रामो हरेर्यद्वत्सर्वानर्थापहारिणः ।। १२४ ।।
यद्वाऽभिधानमों विद्यात्तस्यैव परमात्मनः ।।
तस्मिन्निविष्टचित्तस्य तद्ब्रह्माऽऽशु प्रसीदति ।। १२५ ।।
ओंकारो वेद एवेति ब्राह्मणास्तु प्रचक्षते ।।
वेदैनेन यतो वेद्यं ब्रह्म वेदस्ततो मतः ।। १२६ ।।
अभिधानतयैवैनमोंकारं विदुरञ्जसा ।।
ब्राह्मणास्तदभिध्यानाद्विदन्ति ब्रह्म निर्भयम् ।। १२७ ।।
वेदोऽयमिति चोक्तिः स्याद्यथोक्तोपासनं प्रति ।।
स्तुतित्वादर्थवादोऽयं नातोऽन्योऽर्थोऽवसीयते ।। १२८ ।।
उद्गीथादिप्रभेदेन यं वा संविद्रते द्विजाः ।।
वेदोऽसाविति विज्ञेयस्त्रय्यास्तत्र समाप्तितः ।। १२९ ।।
तस्मिन्प्रयुज्यमानेऽतः सर्वो वेदः ससंग्रहः ।।
प्रयुक्तः स्यादतो वेद ओंकार इति गम्यताम् ।। १३० ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य प्रथमं ब्राह्मणम्
उक्तमाभ्यन्तरं तावद्ब्रह्मोपासनसाधनम् ।।
ओंकारोऽथ दमादीनां साधनत्वं विधीयते ।। १ ।।
दान्तो दाता दयालुश्च सबाह्याभ्यन्तरः शुचिः ।।
एवंविधोऽधिकारी स्यात्सर्वासूपास्तिभूमिषु ।। २ ।।
दमादिविधिशेषोऽयमर्थवादोऽभ्युपेयताम् ।।
त्रया इत्यादिको ग्रन्थः स्पष्टार्थोऽतो न यत्यते ।। ३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य द्वितीयं ब्राह्मणम्
ब्रह्मानुपाधि पूर्वत्र व्याख्यातं यत्नतोऽधुना ।।
सोपाधिकस्य तस्यैव ह्युपास्तिर्वक्ष्यते स्फुटा ।। १ ।।
श्रुतः प्रजापतिः पूर्वं कोऽसाविति न गम्यते ।।
सामान्योक्तेर्विशेषार्थमेप इत्यादि भण्यते ।। २ ।।
हृद्निरा मांसपेश्युक्ता तात्स्थ्याद् बुद्धिस्तु लक्ष्यते ।।
हृदि नामादिसंहारं यत्र शाकल्य ऊचिवान् ।। ३ ।।
सर्वभूतसमुत्पत्तेस्तथा सर्वेश्वरत्वतः ।।
प्रजापतिरिति ज्ञेयं हृदयं तेन हेतुना ।। ४ ।।
सर्वज्ञेयस्य तद्ब्याप्तेर्ब्रह्मापि हृदयं भवेत् ।।
यत एवमतो यत्नादुपास्यं हृदयं सदा ।।
हृदयाख्याक्षराणां च श्रुत्योपासनमुच्यते ।। ५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य तृतीयं ब्राह्मणम्
तस्यैव हृदयाख्यस्य ब्रह्मणोऽन्यदुपासनम् ।।
सत्योपाधिविशिष्टस्य तद्वै तदिति भण्यते ।। १ ।।
तच्छब्देन परामर्शो वैशब्दः स्मरणाय च ।।
प्रकारान्तरनिर्देशे तदासेति च तद्वचः ।। २ ।।
सत्यमेव तदासेति यदुक्तं हृदयात्मना ।।
मूर्तामूर्तात्मकं सत्यं ब्रह्म पूर्वं प्रपञ्चितम् ।। ३ ।।
महत्तत्परिमाणेन यक्षं पूज्यतमत्वतः ।।
अग्रजः प्रथमोद्भूतेस्तदन्यत्कार्यजन्मनः ।। ४ ।।
यः कश्चिदेतं व्याख्यातं वेदोपास्ते दिवानिशम् ।।
लोकाञ्जयति स सर्वाञ्शत्रुश्चास्य जितो भवेत् ।। ५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम्
उक्तं प्रथमजं सत्यं कथं तदिति भण्यते ।।
आप एवेदमित्युकत्या यथोक्तार्थस्तवाय तु ।। १ ।।
पयःसोमादिका आपो ह्यग्निहोत्रादिकर्मसु ।।
सर्वाहुतिषु संसृष्टा बाहुल्यादप्परिग्रहः ।। २ ।।
सत्स्वप्यन्येषु भूतेषु भूयस्त्वादाय एव तु ।।
प्राधान्याच्चैव गृह्यन्ते न त्वन्यद्विनिवार्यते ।। ३ ।।
प्रक्षेपोत्तरकालं ताः सर्वमानातिवर्तिना ।।
तस्थुः सूक्ष्मेण रूपेण क्रियामाश्रित्य सर्वतः ।। ४ ।।
यावत्किंचिज्जगत्यस्मिन्नाहुत्येह व्यपेक्ष्यते ।।
अन्तर्भूतं तदप्स्विति ह्याप एवेदमित्यतः ।। ५ ।।
अग्रे प्रथमतः सृष्टेरग्रजस्य प्रजापतेः ।।
सत्यं ब्रह्मासृजन्नापः कारणत्वादपां ततः ।। ६ ।।
तदिदं हिरण्यगर्भस्य व्यक्तीभावो महेश्वरात् ।।
आदित्यस्येह वाक्येन वर्ण्यतेऽग्रजसिद्धये ।। ७ ।।
भूतादिव्यक्तितो व्यक्तिग्रजस्यापि नान्यथा ।।
ताः सत्यमिति तेनाऽऽह सत्यं ब्रह्मातिविस्तृतेः ।। ८ ।।
सूर्यादिकारणं देवं ब्रह्माऽस्राक्षीज्जगद्रुरुम् ।।
देवान्विराडपि ब्रह्मा ससर्जेत्यनुषज्यते ।। ९ ।।
एवं सत्याद्यतो जातं क्रमेण ब्रह्मणो जगत् ।।
महत्सत्यमतो ब्रह्म यक्षत्वं तूपवर्ण्यते ।। १० ।।
अतीत्य पितरं देवाः पितामहमुपासते ।।
यतोऽतो ब्रह्म यक्षं च सत्यं प्रथमजं विदुः ।। ११ ।।
तस्यापि ब्रह्मणो नाम त्र्यक्षरं सत्यमुच्यते ।।
प्रथमोत्तमे त्वमृतमक्षरे सस्वरत्वतः ।। १२ ।।
निरच्कं मध्यतो मृत्युर्निर्जीवं देहवत्स्थितम् ।।
भूयोऽमृतेन तद्ग्रस्तं मृतं चापि स्वतो यतः ।। १३ ।।
इत्येवं पर्युपासीनो नामाभिज्ञो नरः सदा ।।
सत्यभूयं भवेदेव नैनमित्यादियुक्तिगीः ।। १४ ।।
इति श्रीबुहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम्
संस्थानवदथेदानीमध्यात्मे चाधिदैवते ।।
रूपं प्रकल्प्य सत्यस्य भण्यते तदुपासनम् ।। १ ।।
अक्ष्यादित्याख्यनीडस्थौ स्थानमात्रप्रभेदतः ।।
भिन्नाविव समीक्ष्येते देवतैकैव सा सती ।। २ ।।
उपकार्योपकारित्वसंबन्धेनेतरेतरम् ।।
प्रतिष्ठितौ तावध्यात्मे चक्षुष्यादित्य एव च ।। ३ ।।
प्रतिष्ठितौ तावन्योन्यं कथमित्युच्यते यथा ।।
अक्ष्णि रश्मिभिरादित्यः प्राणैस्तस्मिंश्च चाक्षुषः ।। ४ ।।
अरिष्टदर्शनं चात्र प्रासङ्गिकमथोच्यते ।।
ज्ञातारिष्टः कथं नाम कुर्यादात्महितं पुमान् ।। ५ ।।
उत्क्रमिष्यन्यदा भोक्ता भवतीहाऽऽयुषः क्षये ।।
चन्द्रमण्डलवच्छुद्धं वीक्षते रविमण्डलम् ।। ६ ।।
रश्मयो न समायान्ति विज्ञानपुरुषं प्रति ।।
भोगेन प्रक्षयाद्भोक्तुस्यद्वशीकारिकर्मणः ।। ७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य षष्ठं ब्राह्मणम्
शरीरं व्याहृतिमयं कल्प्यतेऽक्षिरविस्थयोः ।।
तस्यैव सत्यनाम्नोऽथ तदुपासाप्रसिद्धये ।। १ ।।
तस्यैव नामोपनिद्ब्रह्मणो भण्यते द्वयोः ।।
स्थितस्य रथानयोः साक्षाद्यद्ग्रहात्तत्प्रसीदति ।। २ ।।
हन्तेर्वेदं जहातेर्वाऽहरित्येतदिहेष्यते ।।
पाप्मानं हन्ति तेनातो जहाति च न संशयः ।। ३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य सप्तमं ब्राह्मणम्
मनोमयोऽयमिति च तस्यैव ब्रह्मणोऽपरम् ।।
स्वान्तोपाधिविशिष्टस्य ह्युपासनमथोच्यते ।। १ ।।
मनोभिमानतोऽज्ञानात्पुरुषोऽयं मनोमयः ।।
यदि वा मनसि व्यक्तेर्मनसा वोपलभ्यते ।। २ ।।
भाः प्रकाशोऽमलं ज्योतिः सा सत्थमविनाशतः ।।
तस्मिन्नित्यादिवचनं पूर्वोक्तस्थानसिद्धये ।। ३ ।।
बुद्ध्युपाधिव्यवच्छेदाद्व्रीह्यादिपरिमाणता ।।
स्वतोऽनन्तत्वतो मानात्सर्वेशानादिरूपता ।। ४ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्यस्याष्टमं ब्राह्मणम्
वद्युद्देहस्य तस्यैव ब्रह्मणोऽन्यदुपासनम् ।।
अशेषपाप्मविध्वस्त्यै श्रूत्याऽथ प्रतिपाद्यते ।। १ ।।
विद्युद्ब्रह्मेति युक्तं तद्विद्युद्धि स्याद्विदानतः ।।
द्यतेरेतद्यतो रूपमवखण्डनकर्मणः ।। २ ।।
तमोऽन्धकारमखिलमवखण्डयति क्षणात् ।।
विद्युद्यथा तथाऽस्मत्तः पाप्मानं तदुपासितुः ।। ३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य नवमं ब्राह्मणम्
तस्यैव ब्रह्मणोऽथान्यदुपासनमिहोच्यते ।।
वाग्धेनूपाधियोगेन फलाय महतेऽधुना ।। १ ।।
वागित्यत्र त्रयी ग्राह्या न स्थानकरणादयः ।।
स्वाहाकारादि नान्यत्र त्रय्याः संभाव्यते क्चचित् ।। २ ।।
त्रयीयं धयते सर्वं स्वाहाकारादिभिः स्तनैः ।।
धेनुमित्येव तां तेन सदोपासीत भारतीम् ।। ३ ।।
केभ्यः क्षरति सा धेनुरित्येतदधुनोच्यते ।।
तस्यै द्वौ स्तनावित्युक्त्या कथ्यन्ते च स्तनास्तथा ।। ४ ।।
ऋषभोऽस्यास्तथा ज्ञेयः प्राणस्तस्मात्प्रसूयते ।।
अप्राणस्य न वागस्ति वागप्युच्चार्यते बलात् ।। ५ ।।
वाक्प्रस्रवणहेतुत्वाद्धेन्वा वत्सो मनो भवेत् ।।
यद्यद्ध्यायति मनसा तत्तद्वाचा प्रभाषते ।। ६ ।।
यथोक्तोपासनफमुक्तब्रह्मात्मरूपता ।।
तं यथा यथा इत्युक्तेरनिर्देशेऽपि गम्यते ।। ७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य दशमं ब्राह्मणम्
उपास्त्यन्तरमस्यैव कौक्षेयाग्नेर्वपुर्भृतः ।।
अयमग्निरिति श्रुत्या यत्नेनाथ विधीयते ।। १ ।।
वैश्वानरग्निराऽस्याग्नेः सामान्येनाभिधानतः ।।
योऽयमन्तरितीत्युक्त्या तद्विशेषणमुच्यते ।। २ ।।
तस्याग्नेरेष घोषः स्यात्कर्णौ प्रोर्णूय यच्छ्रुतिः ।।
उपास्यार्थस्य साक्षात्त्वं घोषरूपेण वर्ण्यते ।। ३ ।।
अरिष्टदर्शनं चात्र प्रासङ्गिकमथोच्यते ।।
नैनं घोषं शृणोतीति प्रत्यासन्नमृतिर्नरः ।। ४ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्यैकादशं ब्राह्मणम्
गतिः फलं च वक्तव्यं पूर्वत्र तदनुक्तितः ।।
उपासनानां सर्वेषामित्यर्थः पर आगमः ।। १ ।।
उत्क्रामति यदा विद्वाञ्शरीरादायुषः क्षयात् ।।
आश्वेव वायु दुर्भेद्यं स आगच्छति वेगवान् ।। २ ।।
प्राप्ताय लोकभोगार्थं वायुस्तस्मै विगच्छति ।।
कियच्छिद्रं मरुद्दद्याद्रथचक्रखमानिगीः ।। ३ ।।
द्विकाष्ठसंतताघातमाडम्बरमिहोच्यते ।।
भेरीं च दुन्दुभिं विद्यात्तेनोर्ध्वं यात्युपासकः ।। ४ ।।
लोकं प्रजापतिं ब्रह्म प्रैत्यसौ भावनाबलात् ।।
अशोकमहिमं चेति दुःखतद्धेतुवर्जितम् ।। ५ ।।
शाश्वतीश्च समा नित्या अस्मिल्लोँके वसत्यसौ ।।
पूर्वत्रानुक्तकार्याणामुपास्तीनामिदं फलम् ।। ६ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य द्वादशं ब्राह्मणम्
ज्वरादिव्याधिना तप्तो व्याधितस्तप्यते तु यत् ।।
परमं तत्तपश्चिन्त्यं परमं लोकमीप्सता ।। १ ।।
व्याधिग्रहग्रहाविष्टोऽसह्यं दुःखं समश्नुते ।।
तपोऽतः परमं हि स्यात्तच्चिकित्सामकुर्वतः ।। २ ।।
निर्हरन्त्यृत्विजोऽरण्यमन्ये वा मां मृतं गृहात् ।।
परमं तदपि ध्येयं वानप्रस्थ्येन संमितम् ।। ३ ।।
अभ्यादधति यच्चाग्नौ प्रेतं मां ज्ञातयोऽथ तत् ।।
परमं तदपि ध्येयमग्न्यावेशसमत्वतः ।। ४ ।।
उचितं यस्य यद्यत्स्यात्तत्तल्लोकगिरोच्यते ।।
तपसस्तापसस्यैवमग्न्यावेशस्य यत्फलम् ।। ५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य त्रयोदशं ब्राह्मणम्
अन्नं ब्रह्मेेति निर्वक्ति पुरेवान्यदुपासनम् ।।
उदारफलसिद्ध्यर्थं तस्य न्यायेन निर्णयः ।। १ ।।
अन्नमेव परं ब्रह्मेत्येक आहुर्विपश्चितः ।।
तत्तथा नावगन्तव्यं क्लिद्यत्यन्नमसुं विना ।। २ ।।
प्राणो ब्रह्मेति चाप्यन्ये तच्च ग्राह्यं पुरेव न ।।
अन्नादृते यतः प्राणः शोषमाशु निगच्छति ।। ३ ।।
ब्रह्मत्वं नानयोर्यस्मादेकैकस्य न युक्तिमत् ।।
संभूय देवते तस्माद्ब्रह्मत्वं संनिगच्छतः ।। ४ ।।
तदेतत्संप्रधार्याऽऽह प्रातृदः पितरं किल ।।
किंस्विदित्यादि संहृष्टस्तद्दोषस्यासमीक्षणात् ।। ५ ।।
किंस्विदेवंविदे साधु कृत्स्नसाध्वाप्तिहेतुतः ।।
कुर्यामसाधु वा तस्मै सर्वासाधुनिराकृतोः ।। ६ ।।
पाणिना मैवमित्युक्त्या तं पिता प्रत्यषेधयत् ।।
संभूय परमत्वं कः स्वतोशक्तिरवाप्नुयात् ।। ७ ।।
स्वतोऽशक्तिमतोर्लोके शक्तिर्योगेऽपि नेक्ष्यते ।।
जात्यन्धयोर्न योगेऽपि शक्ती रूपवदीक्षणे ।। ८ ।।
तस्माच्छक्तिमतोरेव ग्रासांशानां यथा तथा ।।
तृप्तिशक्तिरिहापि स्यात्प्राणान्नाद्यात्मनोर्युतौ ।। ९ ।।
न चेत्परमतां यातःकथं परमतोच्यताम् ।।
प्रत्येकं शक्तिमत्त्वोक्तिर्वीत्यादिवचसोच्यते ।। १० ।।
व्याख्यानाय तु वीत्यस्य त्वन्नं वै वीति भण्यते ।।
अन्ने विष्टानि सन्त्येव भूतत्वं यान्ति येन हि ।। ११ ।।
अन्नविष्टानि सर्वाणि भूतानीत्यन्नमुच्यते ।।
वीति तेन सदा प्राणो रमित्येवमिहोच्यते ।। १२ ।।
प्राणे सति रमन्ते हि लोके दृष्टानि सर्वदा ।
भूतानि रमिति प्रोक्तस्तस्मात्प्राणोऽपि सूरिभिः ।। १३ ।।
स्वतो गुणवतोरेवमन्नप्राणात्मनोर्भवेत् ।।
संभूय परमत्वं हि फलोक्तिः सैव योदिता ।। १४ ।।
विशन्ति सर्वभूतानि ह्यन्नभूते प्रजापतौ ।।
रमन्ते प्राणभूते च फलमेतदुपासितुः ।। १५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम्
उक्थादिगुणपूगेन विशिष्टस्यानरूपिणः ।।
उपासनमथेदानीं ब्रह्मणो भण्यते परम् ।। १ ।।
उक्थं प्राणः कुतो यस्मात्प्राणे सति चराचरम् ।।
उत्थापयति कर्मेदं कर्ता वा नान्यथा ततः ।। २ ।।
वीरश्चोक्थात्मवित्पुत्र उपासीनस्य जायते ।।
दृष्टं फलमदृष्टं तु ह्युक्थस्यैकात्म्यमश्नुते ।। ३ ।।
यजुश्च प्राण एवेति सदोपासीत यत्नतः ।।
कतो यजुष्ट्वं तस्येति युक्तिलेशोऽभिधीयते ।। ४ ।।
युज्यन्ते सर्वभूतानि संहन्यन्ते परस्परम् ।।
प्राणे सति यजुस्तस्मात्फलोक्तिः पूर्ववत्तथा ।। ५ ।।
सामापि प्राण एवेति कथं तदिति भण्यते ।।
सम्यञ्चि सर्वभूतानि प्राणे सति यतस्ततः ।। ६ ।।
क्षत्र्रं च प्राण एवेति चिन्तयेत्सततं हृदा ।।
त्रायते हेति युक्त्युक्तिः क्षत्र्रत्वस्य प्रसिद्धये ।। ७ ।।
क्षणितोर्हि क्षतात्प्राणस्रायते न तु तं विना ।।
क्षत्रं प्राणस्ततो ज्ञेयो यथोक्तन्यायगौरवात् ।। ८ ।।
प्राप्नोत्यत्रमसौ क्षत्र्रमत्रातृकमनीश्वरम् ।।
स एव त्राता सर्वस्य ह्यत्रं क्षत्र्रमतो भवेत् ।। ९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम्
हृदयं सत्यमित्यादिहूपाधिसमाश्रयम् ।।
उपासनमतिक्रान्तं ब्रह्मणः फलवद्बहु ।। १ ।।
सर्वोपाध्युपसंहारिगायत्र्युपाधिकं प्रभोः ।।
अधुनोपासनं वाच्यमित्यर्थः पर आगमः ।। २ ।।
उदारफलसंप्राप्तावैश्वर्यं तत्र तत्र हि ।।
श्रुतं श्रुतौ हि गायत्र्यास्तदुपास्तिर्वरा ततः ।। ३ ।।
उदारफलसंबन्धो ब्राह्मणस्यैव नान्यतः ।।
ब्राह्मणस्य च गायत्री कारणं तेन सा वरा ।। ४ ।।
भूमिरित्यादिवाक्येन त्रिलोक्यष्टाक्षरोच्यते ।।
अष्टाक्षरं पदं सिद्धं गायत्र्याः प्रथमं च यत् ।। ५ ।।
अष्टाक्षरत्वसामान्याद्गायत्र्याः प्रथमं पदम्।।
तच्चेदं चैकतामेति संख्यासामान्यहेतुतः ।। ६ ।।
त्रैलोक्याभिहितिरियमष्टाक्षरसमत्वतः ।।
गायत्र्याद्यपादसमतो विराजाऽऽत्मैक्यमश्नुते ।। ७ ।।
एवं पदं त्रयो लोका अभिधानाभिसंगतेः ।।
अत्यन्तमभिधेयस्य विराजैक्यं प्रपद्यते ।। ८ ।।
उक्ताभिधानद्वारेण संपन्नो यस्रिलोकताम् ।।
यथोक्तोपासनाभ्यासाद्विराडेव भवेदसौ ।। ९ ।।
त्रिषु लोकेषु यावत्स्यात्पुंभोगायेह साधनम् ।।
तावत्सर्वं जयत्याशु प्रथमोपास्तितः फलम् ।। १० ।।
रूपराशिरशेषेण भूम्याद्युक्त्योपसंहृतः ।।
ऋच इत्यादिना ज्ञेया नामराश्युपसंहृतिः ।। ११ ।।
अभिधेयाभिधानाख्यराशी नित्यौ व्यवस्थितौ ।।
परस्पराभिसंबन्धौ गायत्रीवर्त्मनोदितौ ।। १२ ।।
ऋगादेरभिधानस्य यावती व्याप्तिरिष्यते ।।
तावत्सर्वमवाप्नोति यथोक्तोपासनान्नरः ।। १३ ।।
व्याख्या तुल्यैव पूर्वेण वाक्येनोत्तरवाक्ययोः ।।
अक्षराणामिह ज्ञेया नातो व्याख्यायते पुनः ।। १४ ।।
कर्मराशिरथेदानीं प्राण इत्यादिनोच्यते ।।
विधृतिः पूर्वयोः प्राणो मधुकाण्डे यथोदितः ।। १५ ।।
प्राणात्मानं यथोक्तेन पादेनाऽऽपाद्य यत्नतः ।।
प्राणात्मैव भवत्याशु सदा तद्भावभावितः ।। १६ ।।
अभिधेयोपसंहारस्रिलोकीवचसोदितः ।।
ऋच इत्यादिना तद्वदभिधानोपसंहृतिः ।। १७ ।।
कर्मणोऽप्युपसंहारः प्राण इत्यादिना तथा ।।
एतावद्वस्तु जगति गायत्रीपादसंश्रयम् ।। १८ ।।
अभिधेयस्य गायत्री यस्येयं त्रिपदा मता ।।
तस्याभिधित्सयेदानीं प्रारब्धैषोत्तरा श्रुतिः ।। १९ ।।
व्याचष्टे स्वयमेवार्थं तुर्यादिपदसंहतेः ।।
यद्वै चतुर्थमित्यादिवचसा यत्नतः श्रुतिः ।। २० ।।
रागो रज इति ज्ञेयः प्रवृत्तेः कारणं तु यत् ।।
रञ्जनं काम आसङ्गः सर्वानर्थकृदात्मनः ।। २१ ।।
तं क्रिमित्वोपरि स्थित्वा तपतीति क्रियापदम् ।।
भूतानि वा रजोवाचा भण्यन्तेऽत्राखिलानि तु ।। २२ ।।
उपर्युपरि तान्येष तपत्युल्बणरश्मिवान् ।।
श्रीयशोभ्यां यथैवायं तपत्येवमुपासकः ।। २३ ।।
गुणैः सर्वानतिक्रम्य स्थित्वोपरि श्रिया ज्वलन् ।।
यशसा च सुदीप्तेन विद्वांस्तपति विद्विषः ।। २४ ।।
कामितार्थस्य लब्धत्वात्सर्वग्रहणमात्रतः ।।
उपर्युपरीति वीप्सा किमर्थमिति भण्यते ।। २५ ।।
नैव दोषो यतो येषां सूर्यः स्यादुपरि स्थितः ।।
लोकानां सर्वशब्देन तेषामेव ग्रहो भवेत् ।। २६ ।।
पराञ्चो ये रवेर्लोकास्तेषामपि परिग्रहः ।।
कथं नु नाम सिद्धः स्यादतो वीप्सा प्रयुज्यते ।। २७ ।।
व्याख्याता या पुरा यत्नाद्गायत्री जगदात्मिका ।।
मूर्तामूर्तरसे भानौ त्रिपादेषा प्रतिष्ठिता ।। २८ ।।
तदपीदं पदं तुर्यं सत्येऽध्यात्मे प्रतिष्ठितम् ।।
अक्ष्णि प्रकाशरूपे हि सर्वं रूपं प्रतिष्ठितम् ।। २९ ।।
किं पुनस्तत्सत्यमिति सत्यं चक्षुरितीर्यते ।।
चक्षुषः सत्यता कस्मादिति चेदुच्यते तथा ।। ३० ।।
तस्मादित्यादिवाक्येन सत्यताऽक्ष्णो विभाव्यते ।।
दृष्टं मृषाऽपि श्रवणं न तु दृष्टिर्मृषेक्ष्यते ।।
तस्या विशेषनिष्ठत्वान्मृषात्वं नोपपद्यते ।। ३१ ।।
एवं तुरीयमेतस्मिन्सत्ये चक्षुषि सर्वदा ।।
प्रकाशैकस्वभावे हि साक्षादेव प्रतिष्ठितम् ।। ३२ ।।
अक्ष्णि प्रकाशरूपेऽस्मिन्सर्वं रूपं प्रतिष्ठितम् ।।
बले प्राणे प्रतिष्ठा च चक्षुषोऽपि प्रदर्श्यते ।। ३३ ।।
इन्द्राग्नी ताविमौ सिद्धावग्निस्तत्र प्रकाशकः ।।
इन्द्रो विधरणः प्राणः पूर्वयोर्नामरूपयोः ।। ३४ ।।
यावान्प्रकाशो जगति स सर्वोऽग्निरिहोच्यते ।।
परिस्पन्दश्च सर्वत्र प्राण इन्द्रस्तथोच्यते ।। ३५ ।।
त्रिलोकी च त्रिवेदी च प्राणादित्रयमेव च ।।
प्रतिष्ठितमिहाध्यात्म एवमुक्तेन वर्त्मना ।। ३६ ।।
प्राणादित्यौ हि गायत्रीसक्तावुक्तेन वर्त्मना ।।
संजीवनं तदन्येषां प्राणानां भवतीश्वरात् ।। ३७ ।।
सा हैषेति श्रुतिरतो यथोक्तार्थवबुद्धये ।।
प्राणान्गयान्यतस्तत्रे गायत्रीयमतो मता ।। ३८ ।।
उपनीतौ स आचार्यः पच्छश्चार्धर्चशस्तथा ।।
सावित्रीं याममूं प्राह बटवे मन्त्रलक्षणाम् ।। ३९ ।।
साऽप्येषैव च विज्ञेया व्याख्याता या प्रयत्नतः ।।
यस्मै प्राह स आचार्यस्तस्य प्राणानवत्यसौ ।। ४० ।।
एवंवित्सन्स आचार्यो यस्मा अन्वाह सादरः ।।
त्रायते तस्य गायत्री वटोः प्राणान्न संशयः ।। ४१ ।।
माणवकस्योपनयनसमये वेदवादिनाम् ।।
छन्दः प्रति विवादोऽयं तन्निर्णीतौ परा श्रुतिः ।। ४२ ।।
तां हैतामिति वाक्येन सावित्रीं प्रतिदर्श्यताम् ।।
अनुष्टुप्छन्दसं ब्रूयात्पूर्वपक्षप्रसिद्धये ।। ४३ ।।
तामेतामेक आचार्या उपनीताय यत्नतः ।।
अनुष्टुप्छन्दसं प्राहुः सावित्रीं न्यायसंश्रयात् ।। ४४ ।।
वागनुष्टुब्यतः साक्षाद्वाक्च साक्षात्सरस्वती ।।
उपनीताय सैवातो वक्तव्या न ततोऽपरा ।। ४५ ।।
यथैतदुक्तमाचार्यैः कुर्याद्विद्वान्न तत्तथा ।।
गायत्रीमेव सावित्रीं ब्रूयात्सर्वफलाप्तितः ।। ४६ ।।
यथोक्तायां हि गायत्र्यां कृत्स्रं जगदुपाहितम् ।।
तदुक्तौ सर्वमुक्तं स्याद्यत्पुमर्थाय साधनम् ।। ४७ ।।
विज्ञानपुरुषस्येदं स्वभावादेव सर्वदा ।।
आत्मैव हि जगत्कृत्स्नं साधारणविशेषवत् ।। ४८ ।।
साधारणानि वस्तूनि तथाऽसाधारणान्यपि ।।
नानुपादाय कृस्नानि जन्तोः काचित्क्रियेष्यते ।। ४९ ।।
अभिव्यक्तेः पुराऽप्येतद्रूपमासीत्स्वभावतः ।।
अभिव्यक्तौ तु तत्साक्षात्समाष्टिव्यष्टिलक्षणम् ।। ५० ।।
एवं सिद्धे महिम्न्यस्मिन्यथोक्तेनैव वर्त्मना ।।
कनीयस्ता विवृद्धिर्वा नैव संभाव्यते मितेः ।। ५१ ।।
ऊरीकृत्येममेवार्थं स य इत्यादिनोच्यते ।।
महाप्रतिग्रहेणापि नैवंविद्दोषमृच्छति ।। ५२ ।।
दर्शनस्य स्तुतिरियं स य इत्यादिनोच्यते ।।
तादृक्प्रतिग्रहस्येह न क्वचित्संभवो यतः ।। ५३ ।।
प्रतिग्रहस्य निन्दा वा विद्वन्मानात्प्रसक्तितः ।।
निःशेषपुण्यमोषित्वान्निषेधार्थाय कुत्स्यते ।। ५४ ।।
उक्तपादेष्वपि ज्ञानं नैवालमपबाधितुम् ।।
गायत्रीवेदिनो जन्तोरपि भूयान्प्रतिग्रहः ।। ५५ ।।
नैवं दाता जगत्यस्मिन्न च तादृक्प्रतिग्रहः ।।
ग्रहीता वेह नैवेति कुत इत्यादिनोच्यते ।। ५६ ।।
अप्यभ्युपगमे चैषां नैव दोषस्य संभवः ।।
विदुषोऽसतीत्यतः प्राह स य इत्यादिना श्रुतिः ।। ५७ ।।
स यः कश्चिदिमाल्लोँकान्पूर्णान्पुंभोगसाधनैः ।।
विद्वान्संप्रतिगृह्णीयात्कथचित्कामंप्लुतेः ।। ५८ ।।
आद्यपादपरिज्ञानमात्रस्यैव प्रतिग्रहः ।।
क्षयायालं न शेषस्य गायत्रीदर्शनस्य सः ।। ५९ ।।
यावतीयं त्रयी विद्या तावन्तमपि गृह्णतः ।।
द्वितीयपदविज्ञानक्षतिरेव न सर्वतः ।। ६० ।।
असंभवेऽपि कल्प्येत यदि तादृक्प्रतिग्रहः ।।
त्रैविद्यलक्षणः सोऽपि तृतीयं नाऽऽप्नुयात्पदम् ।। ६१ ।।
अन्तरण्डविभक्तस्य यथोक्तैः स्यात्प्रतिग्रहैः ।।
क्षयो नानन्तरूपस्य स्यात्समष्टिवपुर्भृतः ।। ६२ ।।
परिच्छिन्नेन सर्वत्र प्रतिमानं जगत्यपि ।।
अन्तवद्विषयं दृष्टं न त्वनन्तस्य कुत्रचित् ।। ६३ ।।
अयं चानन्तमात्मानमक्षिसूर्यव्यवस्थितम् ।।
अगादुपासानात्प्राणमात्मत्वेन दिवानिशम् ।। ६४ ।।
संभाव्यते क्षयस्तस्य न कुतश्चिदनन्ततः ।।
अन्तवान्क्षीयते लोके न त्वनन्तः कुतश्चन ।। ६५ ।।
आवृत्तिः क्षयशब्देन दुःखप्रायासु भूमिषु ।।
कैवल्यावसितेर्नासौ स्यात्समष्टिवपुर्भृतः ।। ६६ ।।
उपस्थानं यथोक्ताया गायत्र्याः श्रद्धयाऽन्वितः ।।
गायत्र्यसीतिमन्त्रेण कुर्यादुक्तार्थवित्सदा ।। ६७ ।।
एकद्वित्रिपद्यसीति पूर्वान्पादान्विचिन्तयेत् ।।
चतुष्पात्त्वं च तुर्येण यथोक्तेन विचिन्तयेत् ।। ६८ ।।
अपदसीत्यपि गिरा तस्या आनन्त्यमुच्यते ।।
अव्यया चाक्षयाऽसीति न ह्यन्तस्तेऽधिगम्यते ।। ६९ ।।
नमस्तेऽस्तु तुरीयायेत्युक्त्या तुर्यप्रधानताम् ।।
गुणभावं यथोक्तस्य विद्यात्पादत्रयस्य तु ।। ७० ।।
शत्रुनामगृहीत्यर्थमसावितिपदं त्विह ।।
फलोक्तिरद इत्येतदुपासितुरहं तथा ।। ७१ ।।
शत्रुणा कामितो योऽर्थो मा प्रापत्तमसाविति ।।
मा समृद्ध्यथवा सोऽस्मै तं वाऽहं प्राप्नुयामिति ।। ७२ ।।
अभिचारार्थमेतस्मिन्नुपस्थाने यथोदिने ।।
अभिधानैकदेशोक्त्या विक्ल्पः फलगोचरः ।। ७३ ।।
स्वार्थे त्वहमद इति ह्युपस्थानै फलं भवेत् ।।
अदः प्रयोजनं देवि प्राप्नुयां त्वत्प्रसादतः ।। ७४ ।।
एतावदेव किं ज्ञेयं किंवाऽन्यदपि शिष्यते ।।
अस्त्यन्यदपि विज्ञेयं तद्विनाऽकृत्स्नता यतः ।। ७५ ।।
कार्त्स्न्येन विद्या स्वभ्यस्ता फलायालमुपासितुः ।।
विपर्ययेणानर्थाय तदेतत्प्रतिपाद्यते ।। ७६ ।।
सर्वात्मकत्वाद्गायत्र्या अग्नेरपि परिग्रहः ।।
तन्मुखत्वेनासंसिद्धेस्तादर्थ्येनोत्तरा श्रुतिः ।। ७७ ।।
मुखविज्ञानविरहादनर्थफलकीर्तनम् ।।
अग्निरेव मुखं तस्या इत्युक्त्या कृत्स्नतोच्यते ।। ७८ ।।
गायत्रीदर्शनस्येह फलकार्त्स्न्यं तथैव च ।।
यथोक्ताग्निमुखज्ञानाद्यदीत्यादिगिराऽधुना ।। ७९ ।।
यो वेदाग्निमुखामेतां गायत्रीमग्निरेव सः ।।
अग्निरिन्धनवत्सर्वं दहेद्विद्वान्प्रतिग्रहम् ।। ८० ।।
दाहकस्य न बह्वस्ति दाह्ययोगाभिवृद्धितः ।।
क्षयश्चाशेषदाह्यस्य यस्मात्तस्मादिवेतिगीः ।। ८१ ।।
एवंविदेवमेव स्यात्पापं वह्निवदिन्धनम् ।।
सर्वं संभक्ष्य तत्पापं शुद्धः पापवियोगतः ।। ८२ ।।
पूतोऽसंसर्गिधर्मत्वादजरोऽपरिणामवान् ।।
अमृतोऽस्थूलदेहत्वात्प्राणमात्रस्वभावतः ।। ८३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य षोडशं ब्राह्मणम्
यथोक्तोपासनाभ्यासभावितस्य क्रियाकृतः ।।
उपस्थानं प्रवक्तव्यमित्यर्थः पर आगमः ।। १ ।।
तुरीयं पदमादित्यो लोकद्वारं च येन सः ।।
संभाव्यते प्रसङ्गोऽत आदित्योपस्थितेरिह ।। २ ।।
हिरण्यं ज्योतिरमृतं मण्डलेन तदात्मना ।।
सत्यस्य परमार्थस्य द्वारमाच्छादितं रवेः ।। ३ ।।
त्वद्दर्शनार्थिने मह्यं पूषन्द्वारमपावृणु ।।
जगत्पुष्णाति वृष्ट्याद्यैः पूषाऽऽदित्यस्ततः स्मृतः ।। ४ ।।
सत्या अवितथा धर्मा यस्य मानव्यपाश्रयात् ।।
तस्मै मे सत्यधर्माय दृष्ट्यै द्वारमपावृणु ।। ५ ।।
हिमघर्माम्बुदानेन पुष्णातीदं यतो जगत् ।।
तस्मात्पूषा यतश्चैको गच्छत्येकर्षिता ततः ।। ६ ।।
संयमात्सर्वयाम्यानां यमोऽसि परमेश्वरः ।।
स्वीरणाच्छीततोयादेः सूर्यस्तेनासि घर्मदः ।। ७ ।।
प्रजापतिः परं ब्रह्म कारणं तदपत्यतः ।।
प्राजापत्योऽसि तेन त्वं गीयसे विपुलश्रुतैः ।। ८ ।।
रश्मीनपनुदाशेषांस्तेजः संयच्छं संहर ।।
कल्याणं ते यदत्यर्थं रूपं यच्च तवैव तत् ।। ९ ।।
योऽसावादित्यगो देवः सोऽहमस्मीतिबुद्धिगः ।।
स्थानमात्राच्चा तौ भिन्नौ वस्तुतो नाऽऽवयोर्भिदा ।। ११ ।।
देवतामनिलं यातु वायुर्योऽयं शरीरगः ।।
शरीरं भस्मसाद्यातु मर्त्युत्वं ह्येतदाश्रितम् ।। १२ ।।
भस्मान्तमिति लिङ्गाच्च कर्मिणः स्यादुपस्थितिः ।।
न तु संन्यासिनो न्याय्या दाहासंभवहेतुतः ।। १३ ।।
वायुरित्यादिकं ग्राह्यमुपलक्षणमेव तु ।।
शिष्टानां देवतांशानां यथास्वं प्रतिपत्तये ।। १४ ।।
अग्निं स्वात्ममनःसंस्थामधुना देवतां गृही ।।
प्रार्थयत्योमिति गिरा मुमूर्षुस्तत्परीप्सया ।। १५ ।।
सर्वस्याप्यवनादों स्यादवतेरों यतस्ततः ।।
ऋतुर्मनोमयत्वाच्च सा हि संकल्परूपिणी ।। १६ ।।
ओं क्रतो इति संबोध्य स्मरेत्यत्र नियुज्यते ।।
प्रकृष्टफलसंप्राप्तेः स्मृतिमात्रैकहेतुतः ।। १७ ।।
स्मर्तव्यं स्मर तेनाद्य मरणे प्रत्युपस्थिते ।।
आदरार्थं स्मरेत्यस्य पुनः पुनरुदीरणम् ।। १८ ।।
मुपथा नय नो वह्ने सुपथेति विशेषणात् ।।
उदङ्भार्गग्रहो न्याय्यः शिष्टानां पुनरागतेः ।। १९ ।।
राये कर्मफलायेति रयिः कर्मफलं यतः ।।
प्रज्ञानानि च सर्वाणि देव विद्वान्क्रियास्तथा ।। २० ।।
कुटिलं च तथा पापमस्मत्तस्त्वं वियोजय ।।
वयं तु कृतकृत्यत्वादसक्ताश्च मुमूर्षवः ।। २१ ।।
नमउक्तिमतो भक्त्या तुभ्यं बहुतमां धिया ।।
अयुषोऽन्ते विधेमाद्य क्षम देव प्रसीद मे ।। २२ ।।
मस्करीन्द्रप्रणीतस्य भवनामभृतो यतेः ।।
भाष्यस्य वार्तिकोक्त्यैवमध्यायः सप्तमो गतः ।। २३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य सप्तदशं ब्राह्मणम्
इति श्रीमत्परमहंसपरिव्राजकाचार्यभगवत्पूज्यपादशिष्य श्रीसुरेश्वराचार्यविरचिते बृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमोऽध्यायः