अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥

समाप्तं याज्ञवल्कीयं काण्ड­मै­का­त्म्य­नि­ष्ठि­तम् ।।
खिल­का­ण्ड­म­थे­दानीं यथावदुपवर्ण्यते ।। १ ।।

संभावितं न यत्पूर्वं कर्म­वि­ज्ञा­न­का­ण्डयोः ।।
तदत्र भण्यते सर्वं खिल­का­ण्ड­त्व­हे­तुतः ।। २ ।।

अपा­स्त­नि­खि­ल­ध्वा­न्त­तज्जं ब्रह्मो­प­व­र्णि­तम् ।।
पूर्वै­श्च­तु­र्भि­र­ध्या­यै­र्यद्धीः कैवल्यसिद्धये ।। ३ ।। ।।

सोपाधकस्य तस्यैव व्यवा­हा­रा­नु­पा­तिनः
उपासनानि वाच्यानि यान्य­नु­क्ता­न्यतः परम् ।। ४ ।।

प्रकृ­ष्टा­भ्यु­द­या­र्थानि क्रममुक्तिकराणि च ।।
सर्वोा­स्त्य­ङ्ग­भू­तानि वक्तव्यानीति यत्यते ।। ६ ।।

कार्य­का­र­ण­सं­ब­न्ध­व्या­ज­मा­श्रित्य तत्परम् ।।
व्याख्यातं यत्नतः पूर्व­मा­त्म­ज्ञा­न­प्र­सि­द्धये ।। ७ ।।

चरि­ता­र्थ­त्व­त­स्तस्य कार्य­का­र­ण­व­स्तुनः ।।
निषे­धा­ये­य­मुक्तिः स्यात्पू­र्ण­मि­त्ये­व­मा­दिना ।। ८ ।।

न व्यावृत्तमिदं सर्वं परा­क्प्र­त्य­य­मा­न­गम् ।।
नानुवृत्तं तथै­वै­त­न्ना­प्य­भा­वै­क­नि­ष्ठि­तम् ।। ९ ।।

अव्या­वृ­त्ता­न­नु­ग­त­मा­त्म­प्र­त्य­य­मी­रि­तम् ।।
यस्मा­त्पू­र्ण­मिदं साक्षा­त्ता­दात्म्यं तेन वर्ण्यते ।। १० ।।

अज्ञा­ता­मि­थ्या­वि­ज्ञा­त­त­त्त्व­मा­त्रै­क­नि­ष्ठि­तम् ।।
सम्यग्ज्ञानं यत­स्त­स्मा­त्पूर्णं तज्ज्ञेयमुच्यते ।। ११ ।।

गोत्व­व­न्ना­नु­वृत्तं यन्न व्यावृत्तं च खण्डवत् ।।
अनन्यमानमानन्दं पूर्णं तदभिधीयते ।। १२ ।।

अदः परोक्षमत्यन्तं सर्वकार्यस्य कारणम् ।।
कार्यानुमेयं तद्वि­द्या­त्पू­र्ण­मा­त्र­स­त­त्त्व­कम् ।। १३ ।।

इदं यज्ज­नि­म­त्किं­चि­न्ना­म­रू­प­क्रि­या­त्म­कम् ।।
प्रत्य­क्षा­द्य­व­सेयं यत्पूर्णं तदपि पूर्ववत् ।। १४ ।।

कार्य­का­र­ण­यो­श्चेष्टा पूर्णा­त्पू­र्ण­मि­ती­र्यते ।।
वस्तुवृत्तमिदं तावत्प्रगपि ज्ञानसंगतेः ।। १५ ।।

अथ हेतु­फ­ला­वे­श­नि­षे­धाय परं वचः ।।
पूर्णस्य पूर्णमादाय पूर्ण­मे­वा­व­शि­ष्यते ।। १६ ।।

ब्रह्म वा इदमित्यादि मधुकाण्डे यदीरितम् ।।
तदेव पूर्ण­मि­त्या­दि­वा­क्ये­ने­हो­प­सं­हृ­तम् ।। १७ ।।

अपीताखिलकार्यं सत्त­मो­मा­त्रा­व­शे­ष­गम् ।।
भास्वत्स्वार्थं चिदेकस्थमदः पूर्णामिहोच्यते ।। १८ ।।

तमोन्वितं च यत्कार्यं साक्षिणः साक्ष्यतां गतम् ।।
प्रत्य­क्ष­मा­ग­मा­पायि विद्या­त्पू­र्ण­मिदं तथा ।। १९ ।।

ईश­क्षे­त्र­ज्ञ­यो­रेवं तम­स्त­ज्जा­भि­सं­स्थयोः ।।
सामा­ना­धि­क­र­ण्या­दे­र्वा­क्या­दै­का­त्म्य­मु­च्यते ।। २० ।।

क्षेत्र­ज्ञे­श्व­र­भे­देन ह्यभिन्नं वस्त्वविद्यया ।।
भिन्नं बोधा­त्त­मो­ध्वस्तौ नेती­त्या­त्माऽ­व­शि­ष्यते ।। २१ ।।

न भेदो न च संसर्गो नाप्य­भा­वोऽ­व­सी­यते ।।
तन्मू­ला­ज्ञा­न­वि­ध्व­स्ते­र्य­थो­क्ता­ग­म­मा­नतः ।। २२ ।।

स्रगज्ञानमनादाय तदुत्थैः संगतिः स्रजः ।।
नैव संभाव्यते यद्व­त्त­थे­हाऽऽ­त्मनि वीक्ष्यताम् ।। २३ ।।

कार्य­का­र­ण­यो­र्ध्व­स्ता­व­पू­र्वा­द्यु­क्ति­बो­धतः ।।
आत्म­प्र­त्य­य­मा­गम्यः स्वार्थ आत्माऽवशिष्यते ।। २४ ।।

यादृगस्य द्वये रूप­मा­त्म­नै­वा­व­ग­म्यते ।।
तावदेव हतान्ध्यस्य तदन्यानवशेषतः ।। २५ ।।

यदेवेहेति च तथा मन्त्रोऽ­प्यु­च्चै­र्ज­गाद नः ।।
अन्यदेवेति च श्रुतिः कार्ये­त­र­नि­षे­धिनी ।। २६ ।।

आत्मे­ति­दृ­ष्टे­र्मे­यत्वं स्वार्या­व­ग­ति­तोऽ­प­रम् ।।
नान्यदुत्सहते वोढुमिति पूर्वमवादिषम् ।। २७ ।।

एवं यथोदिते ताव­त्प्र­मा­णा­र्थेऽ­प्य­व­स्थिते ।।
अन्यथेदं वचः केचि­द्व्या­च­ख्यु­र­ति­नै­पु­णात् ।। २८ ।।

पूर्ण­मि­त्या­दि­वा­क्यस्य षष्ठान्त्यवचसा सह ।।
वक्तुकामो हि संबन्धमेवं यत्नादचीक्लृपत् ।। २९ ।।

द्वैता­द्वै­ता­त्मकं ब्रह्म मैत्रेय्यै वर्णितं किल ।।
यत्र हि द्वैत­मि­त्युक्त्या यत्र त्वस्येति चाऽऽदरात् ।। ३० ।।

यद्यद्वैतं परं ब्रह्म तत्र स्यात्परमार्थतः ।।
कल्पितं प्रसजेद्दूैतं तोय­बु­द्धि­रि­वो­षरे ।। ३१ ।।

मृषा­त्वा­द्भे­द­जा­तस्य सर्ग­स्थि­त्या­द्य­सं­भ­वात् ।।
सर्ग­स्थि­ति­ल­यानां स्यादन्वाख्यानं मृषैव तु ।। ३२ ।।

श्रवणप्रतिपत्ती च व्यर्थे स्यातां तथाऽद्वये ।।
अथ स्वेनैव रूपेण द्वैतमस्तीति भण्यते ।। ३३ ।।

अन्वाख्यानं सतामेव सर्गादीनां तथा भवेत् ।।
तथाऽ­प्य­द्वै­त­सं­दृ­ष्टे­र्मृ­षात्वं स्याद्विरोधतः ।। ३४ ।।

परिकल्पिततादोष एवमत्र प्रसज्यते ।।
तद्दो­षा­प­नु­नु­त्सायै पूर्णमित्यादिका श्रुतिः ।। ३५ ।।

न कश्चिदपि दोषोऽत्र यथा तदभिधीयते ।।
स्वानु­भू­त्य­नु­सा­रेण सर्वं सुस्थं भवेदतः ।। ३६ ।।

ब्रह्मणो याऽद्वयावस्था सैव तावदिहोदिता ।।
एवं चेदद्वयं ब्रह्म द्वैतावस्था न सिध्यति ।। ३८ ।।

इति­दो­ष­नि­षे­धा­र्थ­मिदं पूर्णमितीर्यते ।।
यथो­क्ता­व­स्थ­योर्मा भून्मृषात्वं ब्रह्मणः सदा ।। ३९ ।।

पूर्ण­ब्र­ह्म­प­रि­ज्ञा­ना­व्य­ति­रे­क­त्व­हे­तुतः ।।
अदो­व­त्का­र्य­म­प्ये­त­त्पू­र्ण­मे­वा­व­सी­य­ताम् ।। ४० ।।

पूर्णेनाभेदतः कार्यं पूर्णं स्यान्न मृषा श्रुतेः ।।
यद्यते नातिरेकेण तत्तदेवेति निश्चितिः ।। ४१ ।।

एवं तर्ह्ये­क­रू­पेऽ­स्मिं­स्तत्त्वे सत्ये समर्थिते ।।
ततः सर्गाद्यभावः स्यादेकरूपतया स्थितेः ।। ४२ ।।

नैवं यतः श्रुतिः प्राह पूर्णा­त्पू­र्ण­मु­द­च्यते ।।
पूर्णात्कारणतः पूर्णं द्वैत­मे­त­दु­द­च्यते ।। ४३ ।।

यस्मा­दु­द्रि­च्य­मानं हि द्वैतं नैवातिरिच्यते ।।
तदेवोद्रेचनं चेत्स्या­द्वै­त­स्येति मतं यदि ।। ४४ ।।

नैतदेवं कुतो यस्मा­द्दृ­ष्ट­हानं प्रसज्यते ।।
प्रत्यक्षतो हि दृष्टोऽयं द्वैताख्यो विषयः स्फुटः ।। ४५ ।।

तथा दर्शनतः सिद्धो विधितश्चावसीयते ।।
प्रामाण्योच्छेद एव स्याच्छ्रु­ते­रेवं समर्थते ।। ४६ ।।

पारमार्थ्यं क्वचिच्छास्रं कच्चि­च्चा­प्य­नृ­ता­त्म­ताम् ।।
विदधन्मानतां जह्या­त्प­र­स्प­र­वि­रो­धतः ।। ४७ ।।

पूर्णत्वेनाजहद् वृत्त्या त्रिष्वप्यध्वसु वर्तते ।।
द्वैता­द्वै­ता­त्मकं ब्रह्म पूर्ण­त्वे­ना­वि­भा­गतः ।। ४८ ।।

कुतोऽविभागो माना­च्चे­दु­भ­यो­र­प्य­व­स्थयोः ।।
पूर्णा­दि­त्या­दि­व­च­ना­न्म­हा­प्र­लय आत्मनि ।। ४९ ।।

इदं च द्वैतस्त्येव तथाऽदोऽद्वैतमेव च ।।
पूर्ण­त्वा­ख्या­ज­ह­द्वृत्त्या समु­द्रो­र्मि­व­दी­क्ष्य­ताम् ।। ५० ।।

अग्ने चलत्वमूर्मीणां मध्य ईषच्चलात्मता ।।
निष्कम्पत्वं तथा मूले समुद्रः सर्वरूपभृत् ।। ५१ ।।

यथैता यौगपद्येन वृत्ती­रू­र्मि­भि­रा­त्मनः ।।
अनुभूयन्त एकत्र देवदत्तादिके तथा ।। ५२ ।।

निष्कम्पा देवदत्तस्य वृत्तिः स्यात्परमात्मना ।।
ईषत्प्रचलिता प्राण­भा­वे­ने­त्य­व­ग­म्यते ।। ५३ ।।

विराड् भावेनातितरां चण्ड­प्र­च­लि­तो­र्मि­वत् ।।
ऊर्म्य­ग्र­व­त्पि­ण्ड­भावे नाम­रू­प­क्रि­या­त्मना ।। ५४ ।।

जनि­स्थि­ति­ल­ये­ष्वेवं त्रिषु कालेषु पूर्णता ।।
कार्य­का­र­ण­यो­र्ज्ञेया द्वैता­द्वै­त­स्व­भा­वयोः ।। ५५ ।।

सा चैैकै­वा­वि­भा­ग­त्वा­त्का­र्य­का­र­ण­भे­दतः ।।
भेदेन व्यपदेशार्हा सर्वमेवं समञ्जसम् ।। ५६ ।।

आवि­र्भा­व­ति­रो­भावैः कार्य­का­र­ण­रू­पिभिः ।।
समु­द्र­व­न्नृ­त्यति च प्रत्यवस्थं विभुः स्थितः ।। ५७ ।।

एवं द्वैतस्य सत्यत्वे कर्मकाण्डस्य मानता ।।
अन­न्त­पु­रु­षा­र्था­प्ति­रि­ष्यते कर्मकाण्डतः ।। ५८ ।।

यदा तु कल्पितं द्वैतमद्वैतं परमार्थतः ।।
उच्छिन्नं कर्मकाण्डस्य प्रामाण्यं विषयादृते । ५९ ।।

एकदेशस्य चामात्वे वेद­स्या­प्य­प्र­मा­णता ।।
सर्वनाशो भवेदेवं सर्वा­प्रा­मा­ण्य­हे­तुतः ।। ६० ।।

अतो विरो­ध­नु­त्त्यर्थं सत्य­त्व­प्र­ति­प­त्तये ।।
कार्यकारणयोः शास्रं पूर्ण­मि­त्या­दि­नाऽ­व­दत् ।। ६१ ।।

प्रत्यक्षादीनि मानानि भेदग्राहीणि सर्वदा ।।
तेषां चाप्यप्रमाणत्वं प्राप­द­द्वै­त­वा­दिनः ।। ६२ ।।

इति वेदविदः केचि­द्भि­न्ना­भि­न्न­स­त­त्त्व­कम् ।।
सर्वं वस्त्व­भि­वा­ञ्छन्ति तत्तु युक्त्या न युज्यते ।। ६३ ।।

न युक्तिमदिदं गीतं ह्यप­वा­द­वि­क­ल्प­नम् ।।
न्यायासंभवतः स्पष्टं स च न्यायो विभाव्यते ।। ६४ ।।

अहिं­स­न्स­र्व­भू­ता­नी­त्य­हिंसा सर्वभूतगा ।।
शास्त्रे­णो­त्स­र्गतः प्राप्ता तीर्थे साऽपोद्यते यथा ।। ६५ ।।

न तथेहाद्वावस्था श्रुत्यो­त्स­र्गेण यत्नतः ।।
प्रापिता तद्विशेषेऽसौ निर्भा­ग­त्वा­न्नि­षे­ध­भाक् ।। ६६ ।।

विक­ल्पा­नु­प­प­त्तेश्च पोडशग्रहणादिवत् ।।
वस्तुतन्त्रं हि नो मानं कर्तृतन्त्रं विकल्पते ।। ६७ ।।

यत्कर्तुं वाऽप्यकर्तुं वाऽप्यन्यथा कर्तुमेव वा ।।
कारकैः शक्यते लोके तद्विकल्पस्य गोचरः ।। ६८ ।।

पस्स्प­र­वि­रो­धाच्च नैकदैकत्र संभवः ।।
द्वयो­र­व­स्थ­यो­र्य­द्व­त्प्र­का­श­त­म­सो­रिह ।। ६९ ।।

श्रुति­न्या­य­वि­रो­धाच्च कल्पनेयमशोभना ।।
अपू­र्वा­न­प­रा­न­न्त­प्र­ज्ञा­नै­क­र­सा­द्व­यम् ।। ७० ।।

अपू­र्वा­न­प­रा­बाह्यं भेद­सं­स­र्ग­व­र्जि­तम् ।।
अस्थूलं नेति नेतीति यथोक्तार्थे वचांसि हि ।। ७१ ।।

अमा­त्वा­श­ङ्का­स­द्भा­वा­द्य­थो­क्ता­र्थ­वि­नि­श्चितौ ।।
अब्धौ क्षिप्तानि तानि स्युर­न्या­र्था­सं­भ­व­त्वतः ।। ७२ ।।

तथा न्यायविरोधोऽपि क्रिया­का­र­क­रू­पिणः ।।
जडा­ध्रु­वा­ना­त्मनो हि त्वत्कृता कल्पनेष्यते ।। ७३ ।।

न तु चिन्मात्ररूपस्य ध्रुवानंशात्मनः स्वतः ।।
नित्यत्वं चाऽऽत्मनः सिद्धं प्रत्य­भि­ज्ञा­दि­मा­नतः ।। ७४ ।।

प्रस­जे­त्त­द्वि­रो­धश्च भिन्ना­भि­न्न­त्व­वा­दिनः ।।
कल्पनायाश्च वैफ­ल्य­म­नि­त्यत्वे परात्मनः ।। ७५ ।।

अकृताभ्यागमः प्राप्तः कृतनाशश्च सत्वरः ।।
कर्मकाण्डस्य वैफल्यमेवं कल्पयतो भवेत् ।। ७६ ।।

मकरी ननु दृष्टान्तो भिन्ना­भि­न्न­त्व­सि­द्धि­कृत् ।।
ब्रह्मणः प्रागु­प­न्य­स्तोऽ­सा­ध्वीयं कल्पना कथम् ।। ७७ ।।

अतोऽ­न्य­वि­ष­य­त्वा­त्सोऽ­वि­रोधः प्रागुदीरितः ।।
नतु चिन्मात्ररूपस्य ह्यत्रावोचं विरुद्धताम् ।। ७८ ।।

नाध्येयत्वाच्च शास्रा­र्थ­क­ल्प­नेयं त्वया कृता ।।
षड्भावविक्रियं वस्तु ध्येयं वक्ति न हि श्रुतिः ।। ७९ ।।

स्वतस्तस्य च संप्रा­प्ते­र्वि­नाऽ­प्या­ग­मा­शा­स­नम् ।।
ध्येयत्वेनेह सर्वेषां खारो­ष्ट्रा­दे­र­पी­क्ष­णात् ।। ८० ।।

एक­धै­वा­नु­वि­ज्ञे­य­मिति च श्रुतिशासनम् ।।
भेद­दृ­ष्ट्य­प­वा­दाच्च मृत्योरिति विनिन्दनात् ।। ८१ ।।

यत्तूक्तं वेद­भा­ग­त्वा­द्भि­न्न­व­स्त्व­व­बो­धिनः ।।
नामात्वं कर्म­का­ण्ड­स्ये­त्यत्र प्रतिविधीयते ।। ८२ ।।

न हि जात्या­दि­सं­भे­द­सं­सिद्धौ मानता श्रुतेः ।।
प्रत्य­क्षा­द्य­न­व­ष्टब्धे तस्यामात्वं यतः स्थितम् ।। ८३ ।।

भेदग्राहि न नो मानं लौकिकं वैदिकं च यत् ।।
अवि­चा­रि­त­सं­सि­द्धि­स्त­स्मा­द्भे­दोऽ­व­सी­य­ताम् ।। ८४ ।।

न स्वतः परतो वाऽयं भेदो वस्तुन ईक्ष्यते ।।
सर्वस्यैव स्वतोऽ­भि­त्ते­स्त­द­न्य­स्या­प्य­भे­दतः ।। ८५ ।।

वस्तु वस्त्वन्तरं भिन्द्या­द्यो­गा­द्यद्वा विभागतः ।।
योगोे नाति­श­यै­क­त्वा­त्त­यो­श्चा­प्ये­क­रू­पतः ।। ८६ ।।

विभागेऽपि न भेदः स्यात्त­यो­रे­का­त्मना स्थितेः ।।
अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना ।। ८७ ।।

मेय­या­था­त्म्य­सं­लेहि मानं मानत्वमश्नुते ।।
भेदं न लभते मेये, मेयादन्यत्र न प्रमा ।। ८८ ।।

सतो न व्यतिरेकेण भेदो नापि सदन्वयात् ।।
यथैवं नासतोऽप्येवं भेदो नैवावसीयते ।। ८९ ।।

सर्वं सदेव यस्येष्टमथवाऽ सदिदं जगत् ।।
भेदः किमाश्रयस्तस्य विरोधान्न द्वयाश्रयः ।। ९० ।।

अन्यापेक्षं गृथक्त्वं चेत्स्वत एवापृथग्घटः ।।
बली­या­न­न्त­र­ङ्ग­त्वा­द्व­हि­रङ्गं प्रबोधते ।। ९१ ।।

द्रव्याद्भिन्नं पृथक्त्वं चेदनवस्थैति सत्वरा ।।
द्रव्यमेव पृथक्त्वं चेद­पृ­थ­क्स्या­दिदंं जगत् ।। ९२ ।।

स्वत­श्चे­द्व­स्तुनो भेदो वस्तु शून्यं प्रसज्यते ।।
आपेक्षिकोऽपि क्लृप्तत्वान्न भेदो रज्जुसर्पवत् ।। ९३ ।।

इत्येवमादि बहुशो भिन्ना­भि­न्न­त्व­दु­ष­णम् ।।
प्रागप्यक्तं तदत्रापि संधेयं वस्तुसिद्धये ।। ९४ ।।

अपि वेद्वैकदेशस्य प्रामाण्यं यदि नेष्यते ।।
कर्मकाण्डस्य सर्वस्य वेदस्यापि प्रसज्यते ।। ९५ ।।

इति यत्प्रा­गु­प­न्यस्तं तस्य दूषणमुच्यते ।।
साध्य­सा­ध­त­सं­वन्धे तस्यापाीष्टा प्रमाणता ।। ९६ ।।

भेदः प्रमान्तरैः सिद्धो न त्वाग­म­स­मा­श्र­यात् ।।
पशवोऽपि हि जानन्ति भेदमक्षादिमानतः ।। ९७ ।।

न च मिथ्या­त्व­धी­र्भेदे जन्मनैवेह कस्यचित् ।।
अप्यु­त्था­पि­त­बु­द्धीनां भेदेऽसंभावना न च ।। ९८ ।।

क्रिया­का­र­क­सं­भित्तौ वस्तुतत्त्वेन मा श्रुतिः ।।
साध्य­सा­ध­न­सं­ब­न्ध­मा­त्रै­क­वि­ष­य­त्वतः ।। ९९ ।।

लोकसिद्धमतो भेद­मा­दा­ये­ष्टा­र्थ­सि­द्धये ।।
इदं कार्यमिदं नेति वेदशास्रं प्रवर्तते ।। १०० ।।

सर्वतस्तु विरक्तो यः कर्मभिः शुद्धधीर्नरः ।।
कामयानः पूर्ण­फ­ल­मु­त्प­त्त्या­दि­वि­ल­क्ष­णम् ।। १०१ ।।

तमो­मा­त्रा­न्त­रा­य­त्वा­त्प्र­तीचः पूर्णरूपिणः ।।
स्वतः­सि­द्ध­त्व­त­स्तस्य व्यञ्ज­का­न्ना­न्य­दी­क्ष्यते ।। १०२ ।।

स्वतः प्राप्तस्य संप्राप्तौ वाक्या­न्मो­ह­प्र­हा­णतः ।।
मानापेक्षा न भूयः स्यात्फ­ला­प्ते­स्त­त्कृ­ता­र्थतः ।। १०३ ।।

साध्ये हि साधनापेक्षा सिद्धेऽसौ विनिवर्तते ।।
किम्वसाध्ये समस्तस्य पूर्णत्वेन समाप्तितः ।। १०४ ।।

द्वैता­द्वै­ता­त्मकं ब्रह्म यदाऽ­ण्व­भ्यु­प­ग­म्यते ।
तदाऽपि न विरोधोऽयं केन­चि­द्वि­नि­वा­र्यते ।। १०५ ।।

सम­स्त­व्य­स्त­भू­तस्य ब्रह्म­ण्य­व­सि­ता­त्मनः ।।
बूत कर्मणि को हेतुः सर्वा­न­न्य­त्व­द­र्शिनः ।। १०६ ।।

सर्व­जा­त्या­दि­मत्त्वे च परस्परविरोधतः ।।
व्याघातान्न प्रवृत्तिः स्यान्निषेधेऽथ विधौ तथा ।। १०७ ।।

न चाव­च्छे­द­मा­नित्वं विदु­षोऽ­स्त्या­सु­र­त्वतः ।।
विदु­षोऽ­प्या­सु­रत्वे स्यान्निष्फलं ब्रह्मदर्शनम् ।। १०८ ।।

तस्मादसदिदं गीतं भिन्ना­भि­न्न­त्व­सि­द्धये ।।
श्रुति­न्या­य­वि­रु­द्ध­त्वा­त्प्र­कृतं त्वधुनोच्यते ।। १०९ ।।

ओं खं ब्रह्मेति मन्त्रोऽयं श्रुत्येह ध्यानकर्मणि ।।
नियुज्यते फलप्राप्तौ यथा तदभिधीयते ।। ११० ।।

परस्य ब्रह्मणः साक्षा­द्या­था­त्म्या­धि­गमो यथा ।।
पूर्वै­श्च­तु­र्भि­र­ध्या­यै­स्तथा श्रुत्यो­दि­तोऽ­ञ्जसा ।। १११ ।।

अस्यैव प्रति­प­त्त्य­र्थ­मु­पा­स­न­म­थो­क्तते ।।
ओं खं ब्रह्मेति वचसा पुंसां श्रेयो­भि­वा­ञ्छ­ताम् ।। ११२ ।।

ब्रह्मेतीह विशेष्यार्थः खमित्यपि विशेषणम् ।।
सामा­ना­धि­क­र­ण्यो­क्ते­स्त­दु­वृत्तिः कृष्णसर्पवत् ।। ११३ ।।

प्रवृ­त्ति­र्ब्र­ह्म­श­ब्दस्य बृह­द्व­स्त्वे­क­गो­चरा ।।
खेन तद्वि­शि­न­ष्ट्यत्र सामा­न्यां­शै­क­पा­तिना ।। ११४ ।।

अना­का­श­स्व­भा­वेभ्यः खेन ब्रह्म निवर्त्यते ।।
तथाऽ­ब्र­ह्म­स्व­भा­वेभ्यः साम­र्थ्या­द्ब्र­ह्मणा च खम् ।। ११५ ।।

सामा­न्य­मा­त्र­वा­चि­त्वा­त्ख­श­ब्दस्य विशेषणम् ।।
पुराणमिति निर्वक्ति कारणप्रतिपत्तये ।। ११६ ।।

यत्तद्ब्रह्म खमित्युक्तं तदों­श­ब्दा­भि­धा­न­कम् ।।
चिन्तयेत्सततं धीमा­नो­मा­ल­म्ब­न­मेव वा ।। ११७ ।।

एतदालम्बनं श्रेष्ठमिति च श्रुतिशासनम् ।।
एते­नै­वा­क्ष­रे­णेति ह्यथ­र्वा­णोऽ­प्य­धी­यते ।। ११८ ।।

अती­न्द्रि­त्स्वा­त्त­स्यापि कथं स्यात्तदुपासनम् ।
वायुरं खमिति प्राह तदालम्बनसिद्धये ।। ११९ ।।

खं पुराणं न विज्ञेयं मन्त्रेऽ­स्मि­न्निति मन्यते ।।
कौरव्यायणिजो धीमा­न्वा­यु­रे­ति­प्र­सि­द्धितः ।। १२० ।।

रूढ्या वृत्तिः खशब्दस्य वायुरे व्योम्नि लक्ष्यते ।।
बहुशश्च प्रयोगोऽतो वायुरं खं प्रतीयताम् ।। १२१ ।।

पुराणं यदि तद्व्योम यदि वा वायुरं भवेत् ।।
ध्येयं तदोमिति सदा पक्षयोरुभयोरपि ।। १२२ ।।

आलम्बनतर्योकार उपास्तिविषयो भवेत् ।।
चतुर्भुजाङ्कितं दारु विष्णोरिव निगच्छति ।। १२३ ।।

नेदीयो ब्रह्मणः स्थानमोमितीदं प्रतीयताम् ।।
शालग्रामो हरे­र्य­द्व­त्स­र्वा­न­र्था­प­हा­रिणः ।। १२४ ।।

यद्वाऽभिधानमों विद्यात्तस्यैव परमात्मनः ।।
तस्मि­न्नि­वि­ष्ट­चि­त्तस्य तद्ब्रह्माऽऽशु प्रसीदति ।। १२५ ।।

ओंकारो वेद एवेति ब्राह्मणास्तु प्रचक्षते ।।
वेदैनेन यतो वेद्यं ब्रह्म वेदस्ततो मतः ।। १२६ ।।

अभि­धा­न­त­यै­वै­न­मों­कारं विदुरञ्जसा ।।
ब्राह्म­णा­स्त­द­भि­ध्या­ना­द्वि­दन्ति ब्रह्म निर्भयम् ।। १२७ ।।

वेदोऽयमिति चोक्तिः स्याद्य­थो­क्तो­पा­सनं प्रति ।।
स्तुति­त्वा­द­र्थ­वा­दोऽयं नातोऽ­न्योऽ­र्थोऽ­व­सी­यते ।। १२८ ।।

उद्गी­था­दि­प्र­भे­देन यं वा संविद्रते द्विजाः ।।
वेदोऽसाविति विज्ञे­य­स्त्र­य्या­स्तत्र समाप्तितः ।। १२९ ।।

तस्मि­न्प्र­यु­ज्य­मा­नेऽतः सर्वो वेदः ससंग्रहः ।।
प्रयुक्तः स्यादतो वेद ओंकार इति गम्यताम् ।। १३० ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य प्रथमं ब्राह्मणम्

उक्तमाभ्यन्तरं ताव­द्ब्र­ह्मो­पा­स­न­सा­ध­नम् ।।
ओंकारोऽथ दमादीनां साधनत्वं विधीयते ।। १ ।।

दान्तो दाता दयालुश्च सबाह्याभ्यन्तरः शुचिः ।।
एवंविधोऽधिकारी स्यात्स­र्वा­सू­पा­स्ति­भू­मिषु ।। २ ।।

दमा­दि­वि­धि­शे­षोऽ­य­म­र्थ­वा­दोऽ­भ्यु­पे­य­ताम् ।।
त्रया इत्यादिको ग्रन्थः स्पष्टार्थोऽतो न यत्यते ।। ३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य द्वितीयं ब्राह्मणम्

ब्रह्मानुपाधि पूर्वत्र व्याख्यातं यत्नतोऽधुना ।।
सोपाधिकस्य तस्यैव ह्युपा­स्ति­र्व­क्ष्यते स्फुटा ।। १ ।।

श्रुतः प्रजापतिः पूर्वं कोऽसाविति न गम्यते ।।
सामा­न्यो­क्ते­र्वि­शे­षा­र्थ­मेप इत्यादि भण्यते ।। २ ।।

हृद्निरा मांसपेश्युक्ता तात्स्थ्याद् बुद्धिस्तु लक्ष्यते ।।
हृदि नामादिसंहारं यत्र शाकल्य ऊचिवान् ।। ३ ।।

सर्व­भू­त­स­मु­त्प­त्ते­स्तथा सर्वेश्वरत्वतः ।।
प्रजापतिरिति ज्ञेयं हृदयं तेन हेतुना ।। ४ ।।

सर्वज्ञेयस्य तद्ब्या­प्ते­र्ब्र­ह्मापि हृदयं भवेत् ।।
यत एवमतो यत्नादुपास्यं हृदयं सदा ।।
हृद­या­ख्या­क्ष­राणां च श्रुत्यो­पा­स­न­मु­च्यते ।। ५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य तृतीयं ब्राह्मणम्

तस्यैव हृदयाख्यस्य ब्रह्म­णोऽ­न्य­दु­पा­स­नम् ।।
सत्यो­पा­धि­वि­शि­ष्टस्य तद्वै तदिति भण्यते ।। १ ।।

तच्छब्देन परामर्शो वैशब्दः स्मरणाय च ।।
प्रका­रा­न्त­र­नि­र्देशे तदासेति च तद्वचः ।। २ ।।

सत्यमेव तदासेति यदुक्तं हृदयात्मना ।।
मूर्ता­मू­र्ता­त्मकं सत्यं ब्रह्म पूर्वं प्रपञ्चितम् ।। ३ ।।

महत्तत्परिमाणेन यक्षं पूज्यतमत्वतः ।।
अग्रजः प्रथ­मो­द्भू­ते­स्त­द­न्य­त्का­र्य­ज­न्मनः ।। ४ ।।

यः कश्चिदेतं व्याख्यातं वेदोपास्ते दिवानिशम् ।।
लोकाञ्जयति स सर्वा­ञ्श­त्रु­श्चास्य जितो भवेत् ।। ५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम्

उक्तं प्रथमजं सत्यं कथं तदिति भण्यते ।।
आप एवेदमित्युकत्या यथो­क्ता­र्थ­स्त­वाय तु ।। १ ।।

पयःसोमादिका आपो ह्यग्नि­हो­त्रा­दि­क­र्मसु ।।
सर्वाहुतिषु संसृष्टा बाहु­ल्या­द­प्प­रि­ग्रहः ।। २ ।।

सत्स्वप्यन्येषु भूतेषु भूयस्त्वादाय एव तु ।।
प्राधान्याच्चैव गृह्यन्ते न त्वन्य­द्वि­नि­वा­र्यते ।। ३ ।।

प्रक्षे­पो­त्त­र­कालं ताः सर्व­मा­ना­ति­व­र्तिना ।।
तस्थुः सूक्ष्मेण रूपेण क्रियामाश्रित्य सर्वतः ।। ४ ।।

याव­त्किं­चि­ज्ज­ग­त्य­स्मि­न्ना­हु­त्येह व्यपेक्ष्यते ।।
अन्तर्भूतं तदप्स्विति ह्याप एवेदमित्यतः ।। ५ ।।

अग्रे प्रथमतः सृष्टेरग्रजस्य प्रजापतेः ।।
सत्यं ब्रह्मा­सृ­ज­न्नापः कारणत्वादपां ततः ।। ६ ।।

तदिदं हिरण्यगर्भस्य व्यक्तीभावो महेश्वरात् ।।
आदित्यस्येह वाक्येन वर्ण्य­तेऽ­ग्र­ज­सि­द्धये ।। ७ ।।

भूतादिव्यक्तितो व्यक्ति­ग्र­ज­स्यापि नान्यथा ।।
ताः सत्यमिति तेनाऽऽह सत्यं ब्रह्मा­ति­वि­स्तृतेः ।। ८ ।।

सूर्यादिकारणं देवं ब्रह्माऽ­स्रा­क्षी­ज्ज­ग­द्रु­रुम् ।।
देवान्विराडपि ब्रह्मा सस­र्जे­त्य­नु­ष­ज्यते ।। ९ ।।

एवं सत्याद्यतो जातं क्रमेण ब्रह्मणो जगत् ।।
महत्सत्यमतो ब्रह्म यक्षत्वं तूपवर्ण्यते ।। १० ।।

अतीत्य पितरं देवाः पितामहमुपासते ।।
यतोऽतो ब्रह्म यक्षं च सत्यं प्रथमजं विदुः ।। ११ ।।

तस्यापि ब्रह्मणो नाम त्र्यक्षरं सत्यमुच्यते ।।
प्रथमोत्तमे त्वमृतमक्षरे सस्वरत्वतः ।। १२ ।।

निरच्कं मध्यतो मृत्यु­र्नि­र्जीवं देहवत्स्थितम् ।।
भूयोऽमृतेन तद्ग्रस्तं मृतं चापि स्वतो यतः ।। १३ ।।

इत्येवं पर्युपासीनो नामाभिज्ञो नरः सदा ।।
सत्यभूयं भवेदेव नैन­मि­त्या­दि­यु­क्तिगीः ।। १४ ।।
इति श्रीबु­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम्

संस्था­न­व­द­थे­दा­नी­म­ध्यात्मे चाधिदैवते ।।
रूपं प्रकल्प्य सत्यस्य भण्यते तदुपासनम् ।। १ ।।

अक्ष्या­दि­त्या­ख्य­नी­डस्थौ स्थान­मा­त्र­प्र­भे­दतः ।।
भिन्नाविव समीक्ष्येते देवतैकैव सा सती ।। २ ।।

उप­का­र्यो­प­का­रि­त्व­सं­ब­न्धे­ने­त­रे­त­रम् ।।
प्रतिष्ठितौ तावध्यात्मे चक्षुष्यादित्य एव च ।। ३ ।।

प्रतिष्ठितौ तावन्योन्यं कथमित्युच्यते यथा ।।
अक्ष्णि रश्मिभिरादित्यः प्राणै­स्त­स्मिंश्च चाक्षुषः ।। ४ ।।

अरिष्टदर्शनं चात्र प्रास­ङ्गि­क­म­थो­च्यते ।।
ज्ञातारिष्टः कथं नाम कुर्यादात्महितं पुमान् ।। ५ ।।

उत्क्र­मि­ष्य­न्यदा भोक्ता भवतीहाऽऽयुषः क्षये ।।
चन्द्र­म­ण्ड­ल­व­च्छुद्धं वीक्षते रविमण्डलम् ।। ६ ।।

रश्मयो न समायान्ति विज्ञानपुरुषं प्रति ।।
भोगेन प्रक्ष­या­द्भो­क्तु­स्य­द्व­शी­का­रि­क­र्मणः ।। ७ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य षष्ठं ब्राह्मणम्

शरीरं व्याहृतिमयं कल्प्य­तेऽ­क्षि­र­वि­स्थयोः ।।
तस्यैव सत्यनाम्नोऽथ तदु­पा­सा­प्र­सि­द्धये ।। १ ।।

तस्यैव नामो­प­नि­द्ब्र­ह्मणो भण्यते द्वयोः ।।
स्थितस्य रथानयोः साक्षा­द्य­द्ग्र­हा­त्त­त्प्र­सी­दति ।। २ ।।

हन्तेर्वेदं जहा­ते­र्वाऽ­ह­रि­त्ये­त­दि­हे­ष्यते ।।
पाप्मानं हन्ति तेनातो जहाति च न संशयः ।। ३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य सप्तमं ब्राह्मणम्

मनोमयोऽयमिति च तस्यैव ब्रह्मणोऽपरम् ।।
स्वान्तो­पा­धि­वि­शि­ष्टस्य ह्युपा­स­न­म­थो­च्यते ।। १ ।।

मनो­भि­मा­न­तोऽ­ज्ञा­ना­त्पु­रु­षोऽयं मनोमयः ।।
यदि वा मनसि व्यक्तेर्मनसा वोपलभ्यते ।। २ ।।

भाः प्रकाशोऽमलं ज्योतिः सा सत्थमविनाशतः ।।
तस्मि­न्नि­त्या­दि­व­चनं पूर्वो­क्त­स्था­न­सि­द्धये ।। ३ ।।

बुद्ध्यु­पा­धि­व्य­व­च्छे­दा­द्व्री­ह्या­दि­प­रि­मा­णता ।।
स्वतोऽनन्तत्वतो माना­त्स­र्वे­शा­ना­दि­रू­पता ।। ४ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्च­मा­ध्या­य­स्य­स्या­ष्टमं ब्राह्मणम्

वद्युद्देहस्य तस्यैव ब्रह्म­णोऽ­न्य­दु­पा­स­नम् ।।
अशे­ष­पा­प्म­वि­ध्वस्त्यै श्रूत्याऽथ प्रतिपाद्यते ।। १ ।।

विद्यु­द्ब्र­ह्मेति युक्तं तद्विद्युद्धि स्याद्विदानतः ।।
द्यतेरेतद्यतो रूप­म­व­ख­ण्ड­न­क­र्मणः ।। २ ।।

तमोऽ­न्ध­का­र­म­खि­ल­म­व­ख­ण्ड­यति क्षणात् ।।
विद्युद्यथा तथाऽस्मत्तः पाप्मानं तदुपासितुः ।। ३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य नवमं ब्राह्मणम्

तस्यैव ब्रह्म­णोऽ­था­न्य­दु­पा­स­न­मि­हो­च्यते ।।
वाग्धे­नू­पा­धि­यो­गेन फलाय महतेऽधुना ।। १ ।।

वागित्यत्र त्रयी ग्राह्या न स्थानकरणादयः ।।
स्वाहाकारादि नान्यत्र त्रय्याः संभाव्यते क्चचित् ।। २ ।।

त्रयीयं धयते सर्वं स्वाहाकारादिभिः स्तनैः ।।
धेनुमित्येव तां तेन सदोपासीत भारतीम् ।। ३ ।।

केभ्यः क्षरति सा धेनु­रि­त्ये­त­द­धु­नो­च्यते ।।
तस्यै द्वौ स्तना­वि­त्युक्त्या कथ्यन्ते च स्तनास्तथा ।। ४ ।।

ऋषभोऽस्यास्तथा ज्ञेयः प्राण­स्त­स्मा­त्प्र­सू­यते ।।
अप्राणस्य न वागस्ति वाग­प्यु­च्चा­र्यते बलात् ।। ५ ।।

वाक्प्र­स्र­व­ण­हे­तु­त्वा­द्धेन्वा वत्सो मनो भवेत् ।।
यद्यद्ध्यायति मनसा तत्तद्वाचा प्रभाषते ।। ६ ।।

यथो­क्तो­पा­स­न­फ­मु­क्त­ब्र­ह्मा­त्म­रू­पता ।।
तं यथा यथा इत्यु­क्ते­र­नि­र्दे­शेऽपि गम्यते ।। ७ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य दशमं ब्राह्मणम्

उपा­स्त्य­न्त­र­म­स्यैव कौक्षे­या­ग्ने­र्व­पु­र्भृतः ।।
अयमग्निरिति श्रुत्या यत्नेनाथ विधीयते ।। १ ।।

वैश्वा­न­र­ग्नि­राऽ­स्याग्नेः सामा­न्ये­ना­भि­धा­नतः ।।
योऽय­म­न्त­रि­ती­त्युक्त्या तद्वि­शे­ष­ण­मु­च्यते ।। २ ।।

तस्याग्नेरेष घोषः स्यात्कर्णौ प्रोर्णूय यच्छ्रुतिः ।।
उपास्यार्थस्य साक्षात्त्वं घोषरूपेण वर्ण्यते ।। ३ ।।

अरिष्टदर्शनं चात्र प्रास­ङ्गि­क­म­थो­च्यते ।।
नैनं घोषं शृणोतीति प्रत्या­स­न्न­मृ­ति­र्नरः ।। ४ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्च­मा­ध्या­य­स्यै­का­दशं ब्राह्मणम्

गतिः फलं च वक्तव्यं पूर्वत्र तदनुक्तितः ।।
उपासनानां सर्वे­षा­मि­त्यर्थः पर आगमः ।। १ ।।

उत्क्रामति यदा विद्वा­ञ्श­री­रा­दा­युषः क्षयात् ।।
आश्वेव वायु दुर्भेद्यं स आगच्छति वेगवान् ।। २ ।।

प्राप्ताय लोकभोगार्थं वायुस्तस्मै विगच्छति ।।
कियच्छिद्रं मरु­द्द­द्या­द्र­थ­च­क्र­ख­मा­निगीः ।। ३ ।।

द्विका­ष्ठ­सं­त­ता­घा­त­मा­ड­म्ब­र­मि­हो­च्यते ।।
भेरीं च दुन्दुभिं विद्या­त्ते­नोर्ध्वं यात्युपासकः ।। ४ ।।

लोकं प्रजापतिं ब्रह्म प्रैत्यसौ भावनाबलात् ।।
अशोकमहिमं चेति दुःख­त­द्धे­तु­व­र्जि­तम् ।। ५ ।।

शाश्वतीश्च समा नित्या अस्मिल्लोँके वसत्यसौ ।।
पूर्व­त्रा­नु­क्त­का­र्या­णा­मु­पा­स्ती­ना­मिदं फलम् ।। ६ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य द्वादशं ब्राह्मणम्

ज्वरादिव्याधिना तप्तो व्याधितस्तप्यते तु यत् ।।
परमं तत्तपश्चिन्त्यं परमं लोकमीप्सता ।। १ ।।

व्याधि­ग्र­ह­ग्र­हा­वि­ष्टोऽ­सह्यं दुःखं समश्नुते ।।
तपोऽतः परमं हि स्यात्त­च्चि­कि­त्सा­म­कु­र्वतः ।। २ ।।

निर्ह­र­न्त्यृ­त्वि­जोऽ­र­ण्य­मन्ये वा मां मृतं गृहात् ।।
परमं तदपि ध्येयं वानप्रस्थ्येन संमितम् ।। ३ ।।

अभ्यादधति यच्चाग्नौ प्रेतं मां ज्ञातयोऽथ तत् ।।
परमं तदपि ध्येय­म­ग्न्या­वे­श­स­म­त्वतः ।। ४ ।।

उचितं यस्य यद्य­त्स्या­त्त­त्त­ल्लो­क­गि­रो­च्यते ।।
तप­स­स्ता­प­स­स्यै­व­म­ग्न्या­वे­शस्य यत्फलम् ।। ५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य त्रयोदशं ब्राह्मणम्

अन्नं ब्रह्मेेति निर्वक्ति पुरे­वा­न्य­दु­पा­स­नम् ।।
उदा­र­फ­ल­सि­द्ध्यर्थं तस्य न्यायेन निर्णयः ।। १ ।।

अन्नमेव परं ब्रह्मेत्येक आहुर्विपश्चितः ।।
तत्तथा नावगन्तव्यं क्लिद्य­त्य­न्न­मसुं विना ।। २ ।।

प्राणो ब्रह्मेति चाप्यन्ये तच्च ग्राह्यं पुरेव न ।।
अन्नादृते यतः प्राणः शोषमाशु निगच्छति ।। ३ ।।

ब्रह्मत्वं नान­यो­र्य­स्मा­दे­कै­कस्य न युक्तिमत् ।।
संभूय देवते तस्मा­द्ब्र­ह्मत्वं संनिगच्छतः ।। ४ ।।

तदे­त­त्सं­प्र­धा­र्याऽऽह प्रातृदः पितरं किल ।।
किंस्विदित्यादि संहृ­ष्ट­स्त­द्दो­ष­स्या­स­मी­क्ष­णात् ।। ५ ।।

किंस्विदेवंविदे साधु कृत्स्न­सा­ध्वा­प्ति­हे­तुतः ।।
कुर्यामसाधु वा तस्मै सर्वा­सा­धु­नि­रा­कृतोः ।। ६ ।।

पाणिना मैवमित्युक्त्या तं पिता प्रत्यषेधयत् ।।
संभूय परमत्वं कः स्वतो­श­क्ति­र­वा­प्नु­यात् ।। ७ ।।

स्वतोऽ­श­क्ति­म­तो­र्लोके शक्तिर्योगेऽपि नेक्ष्यते ।।
जात्यन्धयोर्न योगेऽपि शक्ती रूपवदीक्षणे ।। ८ ।।

तस्मा­च्छ­क्ति­म­तो­रेव ग्रासांशानां यथा तथा ।।
तृप्ति­श­क्ति­रि­हापि स्यात्प्रा­णा­न्ना­द्या­त्म­नो­र्युतौ ।। ९ ।।

न चेत्परमतां यातःकथं परमतोच्यताम् ।।
प्रत्येकं शक्ति­म­त्त्वो­क्ति­र्वी­त्या­दि­व­च­सो­च्यते ।। १० ।।

व्याख्यानाय तु वीत्यस्य त्वन्नं वै वीति भण्यते ।।
अन्ने विष्टानि सन्त्येव भूतत्वं यान्ति येन हि ।। ११ ।।

अन्नविष्टानि सर्वाणि भूता­नी­त्य­न्न­मु­च्यते ।।
वीति तेन सदा प्राणो रमि­त्ये­व­मि­हो­च्यते ।। १२ ।।

प्राणे सति रमन्ते हि लोके दृष्टानि सर्वदा ।
भूतानि रमिति प्रोक्त­स्त­स्मा­त्प्रा­णोऽपि सूरिभिः ।। १३ ।।

स्वतो गुण­व­तो­रे­व­म­न्न­प्रा­णा­त्म­नो­र्भ­वेत् ।।
संभूय परमत्वं हि फलोक्तिः सैव योदिता ।। १४ ।।

विशन्ति सर्वभूतानि ह्यन्नभूते प्रजापतौ ।।
रमन्ते प्राणभूते च फलमेतदुपासितुः ।। १५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम्

उक्थादिगुणपूगेन विशि­ष्ट­स्या­न­रू­पिणः ।।
उपासनमथेदानीं ब्रह्मणो भण्यते परम् ।। १ ।।

उक्थं प्राणः कुतो यस्मात्प्राणे सति चराचरम् ।।
उत्थापयति कर्मेदं कर्ता वा नान्यथा ततः ।। २ ।।

वीर­श्चो­क्था­त्म­वि­त्पुत्र उपासीनस्य जायते ।।
दृष्टं फलमदृष्टं तु ह्युक्थ­स्यै­का­त्म्य­म­श्नुते ।। ३ ।।

यजुश्च प्राण एवेति सदोपासीत यत्नतः ।।
कतो यजुष्ट्वं तस्येति युक्ति­ले­शोऽ­भि­धी­यते ।। ४ ।।

युज्यन्ते सर्वभूतानि संहन्यन्ते परस्परम् ।।
प्राणे सति यजु­स्त­स्मा­त्फ­लोक्तिः पूर्ववत्तथा ।। ५ ।।

सामापि प्राण एवेति कथं तदिति भण्यते ।।
सम्यञ्चि सर्वभूतानि प्राणे सति यतस्ततः ।। ६ ।।

क्षत्र्रं च प्राण एवेति चिन्तयेत्सततं हृदा ।।
त्रायते हेति युक्त्युक्तिः क्षत्र्रत्वस्य प्रसिद्धये ।। ७ ।।

क्षणितोर्हि क्षता­त्प्रा­ण­स्रा­यते न तु तं विना ।।
क्षत्रं प्राणस्ततो ज्ञेयो यथो­क्त­न्या­य­गौ­र­वात् ।। ८ ।।

प्राप्नो­त्य­त्र­मसौ क्षत्र्र­म­त्रा­तृ­क­म­नी­श्व­रम् ।।
स एव त्राता सर्वस्य ह्यत्रं क्षत्र्रमतो भवेत् ।। ९ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम्

हृदयं सत्य­मि­त्या­दि­हू­पा­धि­स­मा­श्र­यम् ।।
उपा­स­न­म­ति­क्रान्तं ब्रह्मणः फलवद्बहु ।। १ ।।

सर्वो­पा­ध्यु­प­सं­हा­रि­गा­य­त्र्यु­पा­धिकं प्रभोः ।।
अधुनोपासनं वाच्यमित्यर्थः पर आगमः ।। २ ।।

उदा­र­फ­ल­सं­प्रा­प्ता­वै­श्वर्यं तत्र तत्र हि ।।
श्रुतं श्रुतौ हि गाय­त्र्या­स्त­दु­पा­स्ति­र्वरा ततः ।। ३ ।।

उदारफलसंबन्धो ब्राह्मणस्यैव नान्यतः ।।
ब्राह्मणस्य च गायत्री कारणं तेन सा वरा ।। ४ ।।

भूमि­रि­त्या­दि­वा­क्येन त्रिलो­क्य­ष्टा­क्ष­रो­च्यते ।।
अष्टाक्षरं पदं सिद्धं गायत्र्याः प्रथमं च यत् ।। ५ ।।

अष्टा­क्ष­र­त्व­सा­मा­न्या­द्गा­यत्र्याः प्रथमं पदम्।।
तच्चेदं चैकतामेति संख्या­सा­मा­न्य­हे­तुतः ।। ६ ।।

त्रैलो­क्या­भि­हि­ति­रि­य­म­ष्टा­क्ष­र­स­म­त्वतः ।।
गाय­त्र्या­द्य­पा­द­स­मतो विरा­जाऽऽ­त्मै­क्य­म­श्नुते ।। ७ ।।

एवं पदं त्रयो लोका अभिधानाभिसंगतेः ।।
अत्य­न्त­म­भि­धे­यस्य विराजैक्यं प्रपद्यते ।। ८ ।।

उक्ता­भि­धा­न­द्वा­रेण संपन्नो यस्रिलोकताम् ।।
यथो­क्तो­पा­स­ना­भ्या­सा­द्वि­रा­डेव भवेदसौ ।। ९ ।।

त्रिषु लोकेषु याव­त्स्या­त्पुं­भो­गा­येह साधनम् ।।
तावत्सर्वं जयत्याशु प्रथमोपास्तितः फलम् ।। १० ।।

रूपराशिरशेषेण भूम्या­द्यु­क्त्यो­प­सं­हृतः ।।
ऋच इत्यादिना ज्ञेया नाम­रा­श्यु­प­सं­हृतिः ।। ११ ।।

अभि­धे­या­भि­धा­ना­ख्य­राशी नित्यौ व्यवस्थितौ ।।
पर­स्प­रा­भि­सं­बन्धौ गाय­त्री­व­र्त्म­नो­दितौ ।। १२ ।।

ऋगादेरभिधानस्य यावती व्याप्तिरिष्यते ।।
ताव­त्स­र्व­म­वा­प्नोति यथो­क्तो­पा­स­ना­न्नरः ।। १३ ।।

व्याख्या तुल्यैव पूर्वेण वाक्ये­नो­त्त­र­वा­क्ययोः ।।
अक्षराणामिह ज्ञेया नातो व्याख्यायते पुनः ।। १४ ।।

कर्म­रा­शि­र­थे­दानीं प्राण इत्यादिनोच्यते ।।
विधृतिः पूर्वयोः प्राणो मधुकाण्डे यथोदितः ।। १५ ।।

प्राणात्मानं यथोक्तेन पादेनाऽऽपाद्य यत्नतः ।।
प्राणात्मैव भवत्याशु सदा तद्भावभावितः ।। १६ ।।

अभि­धे­यो­प­सं­हा­र­स्रि­लो­की­व­च­सो­दितः ।।
ऋच इत्यादिना तद्व­द­भि­धा­नो­प­सं­हृतिः ।। १७ ।।

कर्म­णोऽ­प्यु­प­सं­हारः प्राण इत्यादिना तथा ।।
एतावद्वस्तु जगति गाय­त्री­पा­द­सं­श्र­यम् ।। १८ ।।

अभिधेयस्य गायत्री यस्येयं त्रिपदा मता ।।
तस्या­भि­धि­त्स­ये­दानीं प्रार­ब्धै­षो­त्तरा श्रुतिः ।। १९ ।।

व्याचष्टे स्वयमेवार्थं तुर्या­दि­प­द­सं­हतेः ।।
यद्वै चतु­र्थ­मि­त्या­दि­व­चसा यत्नतः श्रुतिः ।। २० ।।

रागो रज इति ज्ञेयः प्रवृत्तेः कारणं तु यत् ।।
रञ्जनं काम आसङ्गः सर्वा­न­र्थ­कृ­दा­त्मनः ।। २१ ।।

तं क्रिमित्वोपरि स्थित्वा तपतीति क्रियापदम् ।।
भूतानि वा रजोवाचा भण्य­न्तेऽ­त्रा­खि­लानि तु ।। २२ ।।

उपर्युपरि तान्येष तप­त्यु­ल्ब­ण­र­श्मि­वान् ।।
श्रीयशोभ्यां यथैवायं तपत्येवमुपासकः ।। २३ ।।

गुणैः सर्वानतिक्रम्य स्थित्वोपरि श्रिया ज्वलन् ।।
यशसा च सुदीप्तेन विद्वांस्तपति विद्विषः ।। २४ ।।

कामितार्थस्य लब्ध­त्वा­त्स­र्व­ग्र­ह­ण­मा­त्रतः ।।
उपर्युपरीति वीप्सा किमर्थमिति भण्यते ।। २५ ।।

नैव दोषो यतो येषां सूर्यः स्यादुपरि स्थितः ।।
लोकानां सर्वशब्देन तेषामेव ग्रहो भवेत् ।। २६ ।।

पराञ्चो ये रवे­र्लो­का­स्ते­षा­मपि परिग्रहः ।।
कथं नु नाम सिद्धः स्यादतो वीप्सा प्रयुज्यते ।। २७ ।।

व्याख्याता या पुरा यत्नाद्गायत्री जगदात्मिका ।।
मूर्तामूर्तरसे भानौ त्रिपादेषा प्रतिष्ठिता ।। २८ ।।

तदपीदं पदं तुर्यं सत्येऽध्यात्मे प्रतिष्ठितम् ।।
अक्ष्णि प्रकाशरूपे हि सर्वं रूपं प्रतिष्ठितम् ।। २९ ।।

किं पुन­स्त­त्स­त्य­मिति सत्यं चक्षुरितीर्यते ।।
चक्षुषः सत्यता कस्मादिति चेदुच्यते तथा ।। ३० ।।

तस्मा­दि­त्या­दि­वा­क्येन सत्यताऽक्ष्णो विभाव्यते ।।
दृष्टं मृषाऽपि श्रवणं न तु दृष्टि­र्मृ­षे­क्ष्यते ।।
तस्या विशे­ष­नि­ष्ठ­त्वा­न्मृ­षात्वं नोपपद्यते ।। ३१ ।।

एवं तुरी­य­मे­त­स्मि­न्सत्ये चक्षुषि सर्वदा ।।
प्रकाशैकस्वभावे हि साक्षादेव प्रतिष्ठितम् ।। ३२ ।।

अक्ष्णि प्रका­श­रू­पेऽ­स्मि­न्सर्वं रूपं प्रतिष्ठितम् ।।
बले प्राणे प्रतिष्ठा च चक्षुषोऽपि प्रदर्श्यते ।। ३३ ।।

इन्द्राग्नी ताविमौ सिद्धा­व­ग्नि­स्तत्र प्रकाशकः ।।
इन्द्रो विधरणः प्राणः पूर्व­यो­र्ना­म­रू­पयोः ।। ३४ ।।

यावान्प्रकाशो जगति स सर्वोऽ­ग्नि­रि­हो­च्यते ।।
परिस्पन्दश्च सर्वत्र प्राण इन्द्र­स्त­थो­च्यते ।। ३५ ।।

त्रिलोकी च त्रिवेदी च प्राणादित्रयमेव च ।।
प्रति­ष्ठि­त­मि­हा­ध्यात्म एवमुक्तेन वर्त्मना ।। ३६ ।।

प्राणादित्यौ हि गाय­त्री­स­क्ता­वु­क्तेन वर्त्मना ।।
संजीवनं तदन्येषां प्राणानां भवतीश्वरात् ।। ३७ ।।

सा हैषेति श्रुतिरतो यथो­क्ता­र्थ­व­बु­द्धये ।।
प्राणा­न्ग­या­न्य­त­स्तत्रे गायत्रीयमतो मता ।। ३८ ।।

उपनीतौ स आचार्यः पच्छ­श्चा­र्ध­र्च­श­स्तथा ।।
सावित्रीं याममूं प्राह बटवे मन्त्रलक्षणाम् ।। ३९ ।।

साऽप्येषैव च विज्ञेया व्याख्याता या प्रयत्नतः ।।
यस्मै प्राह स आचार्यस्तस्य प्राणानवत्यसौ ।। ४० ।।

एवंवित्सन्स आचार्यो यस्मा अन्वाह सादरः ।।
त्रायते तस्य गायत्री वटोः प्राणान्न संशयः ।। ४१ ।।

माण­व­क­स्यो­प­न­य­न­स­मये वेदवादिनाम् ।।
छन्दः प्रति विवादोऽयं तन्निर्णीतौ परा श्रुतिः ।। ४२ ।।

तां हैतामिति वाक्येन सावित्रीं प्रतिदर्श्यताम् ।।
अनुष्टुप्छन्दसं ब्रूया­त्पू­र्व­प­क्ष­प्र­सि­द्धये ।। ४३ ।।

तामेतामेक आचार्या उपनीताय यत्नतः ।।
अनुष्टुप्छन्दसं प्राहुः सावित्रीं न्यायसंश्रयात् ।। ४४ ।।

वागनुष्टुब्यतः साक्षाद्वाक्च साक्षात्सरस्वती ।।
उपनीताय सैवातो वक्तव्या न ततोऽपरा ।। ४५ ।।

यथै­त­दु­क्त­मा­चार्यैः कुर्या­द्वि­द्वान्न तत्तथा ।।
गायत्रीमेव सावित्रीं ब्रूया­त्स­र्व­फ­ला­प्तितः ।। ४६ ।।

यथोक्तायां हि गायत्र्यां कृत्स्रं जगदुपाहितम् ।।
तदुक्तौ सर्वमुक्तं स्याद्य­त्पु­म­र्थाय साधनम् ।। ४७ ।।

विज्ञा­न­पु­रु­ष­स्येदं स्वभावादेव सर्वदा ।।
आत्मैव हि जगत्कृत्स्नं साधारणविशेषवत् ।। ४८ ।।

साधारणानि वस्तूनि तथाऽ­सा­धा­र­णा­न्यपि ।।
नानुपादाय कृस्नानि जन्तोः काचि­त्क्रि­ये­ष्यते ।। ४९ ।।

अभिव्यक्तेः पुराऽ­प्ये­त­द्रू­प­मा­सी­त्स्व­भा­वतः ।।
अभिव्यक्तौ तु तत्सा­क्षा­त्स­मा­ष्टि­व्य­ष्टि­ल­क्ष­णम् ।। ५० ।।

एवं सिद्धे महि­म्न्य­स्मि­न्य­थो­क्ते­नैव वर्त्मना ।।
कनीयस्ता विवृद्धिर्वा नैव संभाव्यते मितेः ।। ५१ ।।

ऊरी­कृ­त्ये­म­मे­वार्थं स य इत्यादिनोच्यते ।।
महा­प्र­ति­ग्र­हे­णापि नैवं­वि­द्दो­ष­मृ­च्छति ।। ५२ ।।

दर्शनस्य स्तुतिरियं स य इत्यादिनोच्यते ।।
तादृ­क्प्र­ति­ग्र­ह­स्येह न क्वचित्संभवो यतः ।। ५३ ।।

प्रतिग्रहस्य निन्दा वा विद्व­न्मा­ना­त्प्र­स­क्तितः ।।
निःशे­ष­पु­ण्य­मो­षि­त्वा­न्नि­षे­धा­र्थाय कुत्स्यते ।। ५४ ।।

उक्तपादेष्वपि ज्ञानं नैवालमपबाधितुम् ।।
गायत्रीवेदिनो जन्तोरपि भूया­न्प्र­ति­ग्रहः ।। ५५ ।।

नैवं दाता जगत्यस्मिन्न च तादृ­क्प्र­ति­ग्रहः ।।
ग्रहीता वेह नैवेति कुत इत्यादिनोच्यते ।। ५६ ।।

अप्यभ्युपगमे चैषां नैव दोषस्य संभवः ।।
विदुषोऽसतीत्यतः प्राह स य इत्यादिना श्रुतिः ।। ५७ ।।

स यः कश्चि­दि­मा­ल्लोँ­का­न्पू­र्णा­न्पुं­भो­ग­सा­धनैः ।।
विद्वा­न्सं­प्र­ति­गृ­ह्णी­या­त्क­थ­चि­त्का­मं­प्लुतेः ।। ५८ ।।

आद्य­पा­द­प­रि­ज्ञा­न­मा­त्र­स्यैव प्रतिग्रहः ।।
क्षयायालं न शेषस्य गायत्रीदर्शनस्य सः ।। ५९ ।।

यावतीयं त्रयी विद्या तावन्तमपि गृह्णतः ।।
द्विती­य­प­द­वि­ज्ञा­न­क्ष­ति­रेव न सर्वतः ।। ६० ।।

असंभवेऽपि कल्प्येत यदि तादृ­क्प्र­ति­ग्रहः ।।
त्रैविद्यलक्षणः सोऽपि तृतीयं नाऽऽप्नु­या­त्प­दम् ।। ६१ ।।

अन्त­र­ण्ड­वि­भ­क्तस्य यथोक्तैः स्यात्प्र­ति­ग्रहैः ।।
क्षयो नानन्तरूपस्य स्यात्स­म­ष्टि­व­पु­र्भृतः ।। ६२ ।।

परिच्छिन्नेन सर्वत्र प्रतिमानं जगत्यपि ।।
अन्तवद्विषयं दृष्टं न त्वनन्तस्य कुत्रचित् ।। ६३ ।।

अयं चान­न्त­मा­त्मा­न­म­क्षि­सू­र्य­व्य­व­स्थि­तम् ।।
अगा­दु­पा­सा­ना­त्प्रा­ण­मा­त्म­त्वेन दिवानिशम् ।। ६४ ।।

संभाव्यते क्षयस्तस्य न कुतश्चिदनन्ततः ।।
अन्तवान्क्षीयते लोके न त्वनन्तः कुतश्चन ।। ६५ ।।

आवृत्तिः क्षयशब्देन दुःखप्रायासु भूमिषु ।।
कैव­ल्या­व­सि­ते­र्नासौ स्यात्स­म­ष्टि­व­पु­र्भृतः ।। ६६ ।।

उपस्थानं यथोक्ताया गायत्र्याः श्रद्धयाऽन्वितः ।।
गाय­त्र्य­सी­ति­म­न्त्रेण कुर्या­दु­क्ता­र्थ­वि­त्सदा ।। ६७ ।।

एक­द्वि­त्रि­प­द्य­सीति पूर्वा­न्पा­दा­न्वि­चि­न्त­येत् ।।
चतुष्पात्त्वं च तुर्येण यथोक्तेन विचिन्तयेत् ।। ६८ ।।

अपदसीत्यपि गिरा तस्या आनन्त्यमुच्यते ।।
अव्यया चाक्षयाऽसीति न ह्यन्त­स्तेऽ­धि­ग­म्यते ।। ६९ ।।

नमस्तेऽस्तु तुरी­या­ये­त्युक्त्या तुर्यप्रधानताम् ।।
गुणभावं यथोक्तस्य विद्या­त्पा­द­त्र­यस्य तु ।। ७० ।।

शत्रु­ना­म­गृ­ही­त्य­र्थ­म­सा­वि­ति­पदं त्विह ।।
फलोक्तिरद इत्ये­त­दु­पा­सि­तु­रहं तथा ।। ७१ ।।

शत्रुणा कामितो योऽर्थो मा प्रापत्तमसाविति ।।
मा समृद्ध्यथवा सोऽस्मै तं वाऽहं प्राप्नुयामिति ।। ७२ ।।

अभि­चा­रा­र्थ­मे­त­स्मि­न्नु­प­स्थाने यथोदिने ।।
अभि­धा­नै­क­दे­शोक्त्या विक्ल्पः फलगोचरः ।। ७३ ।।

स्वार्थे त्वहमद इति ह्युपस्थानै फलं भवेत् ।।
अदः प्रयोजनं देवि प्राप्नुयां त्वत्प्रसादतः ।। ७४ ।।

एतावदेव किं ज्ञेयं किंवाऽन्यदपि शिष्यते ।।
अस्त्यन्यदपि विज्ञेयं तद्वि­नाऽ­कृ­त्स्नता यतः ।। ७५ ।।

कार्त्स्न्येन विद्या स्वभ्यस्ता फलायालमुपासितुः ।।
विप­र्य­ये­णा­न­र्थाय तदे­त­त्प्र­ति­पा­द्यते ।। ७६ ।।

सर्वा­त्म­क­त्वा­द्गा­यत्र्या अग्नेरपि परिग्रहः ।।
तन्मु­ख­त्वे­ना­सं­सि­द्धे­स्ता­द­र्थ्ये­नो­त्तरा श्रुतिः ।। ७७ ।।

मुख­वि­ज्ञा­न­वि­र­हा­द­न­र्थ­फ­ल­की­र्त­नम् ।।
अग्निरेव मुखं तस्या इत्युक्त्या कृत्स्नतोच्यते ।। ७८ ।।

गाय­त्री­द­र्श­न­स्येह फलकार्त्स्न्यं तथैव च ।।
यथो­क्ता­ग्नि­मु­ख­ज्ञा­ना­द्य­दी­त्या­दि­गि­राऽ­धुना ।। ७९ ।।

यो वेदा­ग्नि­मु­खा­मेतां गायत्रीमग्निरेव सः ।।
अग्नि­रि­न्ध­न­व­त्सर्वं दहे­द्वि­द्वा­न्प्र­ति­ग्र­हम् ।। ८० ।।

दाहकस्य न बह्वस्ति दाह्य­यो­गा­भि­वृ­द्धितः ।।
क्षय­श्चा­शे­ष­दा­ह्यस्य यस्मा­त्त­स्मा­दि­वे­तिगीः ।। ८१ ।।

एवंविदेवमेव स्यात्पापं वह्निवदिन्धनम् ।।
सर्वं संभक्ष्य तत्पापं शुद्धः पापवियोगतः ।। ८२ ।।

पूतोऽ­सं­स­र्गि­ध­र्म­त्वा­द­ज­रोऽ­प­रि­णा­म­वान् ।।
अमृ­तोऽ­स्थू­ल­दे­ह­त्वा­त्प्रा­ण­मा­त्र­स्व­भा­वतः ।। ८३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य षोडशं ब्राह्मणम्

यथो­क्तो­पा­स­ना­भ्या­स­भा­वि­तस्य क्रियाकृतः ।।
उपस्थानं प्रव­क्त­व्य­मि­त्यर्थः पर आगमः ।। १ ।।

तुरीयं पदमादित्यो लोकद्वारं च येन सः ।।
संभाव्यते प्रसङ्गोऽत आदि­त्यो­प­स्थि­ते­रिह ।। २ ।।

हिरण्यं ज्योतिरमृतं मण्डलेन तदात्मना ।।
सत्यस्य परमार्थस्य द्वारमाच्छादितं रवेः ।। ३ ।।

त्वद्द­र्श­ना­र्थिने मह्यं पूष­न्द्वा­र­म­पा­वृणु ।।
जगत्पुष्णाति वृष्ट्याद्यैः पूषाऽऽ­दि­त्य­स्ततः स्मृतः ।। ४ ।।

सत्या अवितथा धर्मा यस्य मानव्यपाश्रयात् ।।
तस्मै मे सत्यधर्माय दृष्ट्यै द्वारमपावृणु ।। ५ ।।

हिम­घ­र्मा­म्बु­दा­नेन पुष्णातीदं यतो जगत् ।।
तस्मात्पूषा यतश्चैको गच्छत्येकर्षिता ततः ।। ६ ।।

संय­मा­त्स­र्व­या­म्यानां यमोऽसि परमेश्वरः ।।
स्वीर­णा­च्छी­त­तो­यादेः सूर्यस्तेनासि घर्मदः ।। ७ ।।

प्रजापतिः परं ब्रह्म कारणं तदपत्यतः ।।
प्राजापत्योऽसि तेन त्वं गीयसे विपुलश्रुतैः ।। ८ ।।

रश्मी­न­प­नु­दा­शे­षां­स्तेजः संयच्छं संहर ।।
कल्याणं ते यदत्यर्थं रूपं यच्च तवैव तत् ।। ९ ।।

योऽसावादित्यगो देवः सोऽह­म­स्मी­ति­बु­द्धिगः ।।
स्थानमात्राच्चा तौ भिन्नौ वस्तुतो नाऽऽवयोर्भिदा ।। ११ ।।

देवतामनिलं यातु वायुर्योऽयं शरीरगः ।।
शरीरं भस्मसाद्यातु मर्त्युत्वं ह्येतदाश्रितम् ।। १२ ।।

भस्मान्तमिति लिङ्गाच्च कर्मिणः स्यादुपस्थितिः ।।
न तु संन्यासिनो न्याय्या दाहासंभवहेतुतः ।। १३ ।।

वायुरित्यादिकं ग्राह्य­मु­प­ल­क्ष­ण­मेव तु ।।
शिष्टानां देवतांशानां यथास्वं प्रतिपत्तये ।। १४ ।।

अग्निं स्वात्म­म­नः­सं­स्था­म­धुना देवतां गृही ।।
प्रार्थ­य­त्यो­मिति गिरा मुमू­र्षु­स्त­त्प­री­प्सया ।। १५ ।।

सर्व­स्या­प्य­व­नादों स्यादवतेरों यतस्ततः ।।
ऋतु­र्म­नो­म­य­त्वाच्च सा हि संकल्परूपिणी ।। १६ ।।

ओं क्रतो इति संबोध्य स्मरेत्यत्र नियुज्यते ।।
प्रकृ­ष्ट­फ­ल­सं­प्राप्तेः स्मृति­मा­त्रै­क­हे­तुतः ।। १७ ।।

स्मर्तव्यं स्मर तेनाद्य मरणे प्रत्युपस्थिते ।।
आदरार्थं स्मरेत्यस्य पुनः पुनरुदीरणम् ।। १८ ।।

मुपथा नय नो वह्ने सुपथेति विशेषणात् ।।
उदङ्भार्गग्रहो न्याय्यः शिष्टानां पुनरागतेः ।। १९ ।।

राये कर्मफलायेति रयिः कर्मफलं यतः ।।
प्रज्ञानानि च सर्वाणि देव विद्वा­न्क्रि­या­स्तथा ।। २० ।।

कुटिलं च तथा पाप­म­स्म­त्तस्त्वं वियोजय ।।
वयं तु कृत­कृ­त्य­त्वा­द­स­क्ताश्च मुमूर्षवः ।। २१ ।।

नमउक्तिमतो भक्त्या तुभ्यं बहुतमां धिया ।।
अयुषोऽन्ते विधेमाद्य क्षम देव प्रसीद मे ।। २२ ।।

मस्क­री­न्द्र­प्र­णी­तस्य भवनामभृतो यतेः ।।
भाष्यस्य वार्ति­को­क्त्यै­व­म­ध्यायः सप्तमो गतः ।। २३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य सप्तदशं ब्राह्मणम्
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­भ­ग­व­त्पू­ज्य­पा­द­शिष्य श्रीसु­रे­श्व­रा­चा­र्य­वि­र­चिते बृह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमोऽध्यायः