अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ षष्ठाध्यायस्य प्रथमं ब्राह्मणम् ॥

समाप्तः सप्तमोऽध्यायः प्राप्तावसर उच्यते ।।
अष्टमः खिल­का­ण्डेऽ­स्मि­न्पू­र्व­का­ण्डे­ष्व­नु­क्तितः ।। १ ।।

गायत्र्याः प्राणभावोक्तिः कस्माद्धेतोः पुरोदिता ।।
न तु वागा­दि­भा­वोऽ­स्या­स्तत्र हेतुरिहोच्यते ।। २ ।।

ज्येष्ठः श्रेष्ठो यतः प्राणो न तु वागादयस्ततः ।।
प्राणात्मभाव एवोक्त आनन्तर्यार्थमेव तु ।। ३ ।।

उपा­स्त्य­न्त­र­मे­वै­त­त्फ­ल­वत्तु विवक्षितम् ।।
न तूक्तशेषतैतस्या भिन्नो­पा­स्ति­त्व­का­र­णात् ।। ४ ।।

मन्थकर्मणि ये मन्त्राः पञ्च ज्येष्ठादयः श्रुताः ।।
प्राणा­त्म­वे­दि­न­स्तेषां प्रयो­गोऽ­त्रो­प­व­र्ण्यते ।। ५ ।।

पृथग्वा फलनिर्देशाद्यो ह वा इति पञ्चधा ।।
प्राणविद्या पृथ­ङ्म­न्था­न्म­न्थस्तु महिमार्थिनः ।। ६ ।।

फलेऽ­न्य­स्मि­न्न­नि­र्दिष्टे वाक्यशेषगतं फलम् ।।
तस्मिन्सति हि सद्भा­वा­द्वा­गा­दीनां न तं विना ।। ७ ।।

शास्रेणोक्ता शरी­रेऽ­स्मि­न्वृत्तिः प्राणस्य जीवनम् ।।
पूर्वमाविशति प्राणो देहं पश्चाच्च मुञ्चति ।। ८ ।।

ज्येष्ठः श्रेष्ठश्च सर्वेषां प्राणानामाश्रयो हि सः ।।
श्रेष्ठता वक्ष्यमाणेन ग्रन्थेनास्य विभाव्यते ।। ९ ।।

अस्मिल्लोँके परस्मिंश्च वागेव न विहन्यते ।।
देहा­न्त­र­स्था­न्प्रा­णांश्च नियुङ्के सा ततोऽधिका ।। १० ।।

श्रुता­न्म­ता­त्त­थो­क्ताद्वा प्रमाणं दृष्टिरात्मनः ।।
चक्षुः प्रतिष्ठा ज्ञानानामात्मा तत्र प्रतिष्ठितः ।। ११ ।।

वाग्घि संपद्यते श्रोत्रादश्रुतं न हि भाषते ।।
स्ववृत्तेः परवृत्तेश्च संपच्छ्रोत्रे प्रतिष्ठिता ।। १२ ।।

मन आयतनं तत्र वागादीनां हि वृत्तयः ।।
स्थिता­स्त­त्पू­र्वि­का­श्चैव ध्यायतः साधनंं हि तत् ।। १३ ।।

उपस्थेन्द्रियं प्रजातिः स्यात्तस्य जन्मैकहेतुतः ।।
न हि रेतो विना जन्म प्राणिनोऽत्र समीक्ष्यते ।। १४ ।।

वृत्तीनां प्राण­पू­र्व­त्वा­द्व्य­प­दे­शाच्च तत्कृतात् ।।
प्राणानां प्रथमः प्राणः स ह्यत्ताऽन्नं हि तस्य तत् ।। १५ ।।

ते प्राणाः स्वगु­णे­रु­क्तै­र्व­सि­ष्ठ­त्वा­दि­ल­क्षणैः ।।
श्रेया­न­स्म्य­ह­मे­वेति विवदन्तः परस्परम् ।। १६ ।।

निर्णयार्थाय ते ब्रह्म जग्मुरिन्द्रं प्रजापतिम् ।।
को नो वसिष्ठ इति तं पप्र­च्छु­र्नि­र्ण­या­र्थिनः ।। १७ ।।

यस्मिन्व इति वाक्येन वसिष्ठत्वस्य लक्षणम् ।।
प्राणेभ्यः प्राब्र­वी­द्ब्रह्म पक्षपातभयात्किल ।। १८ ।।

जानन्नपि वसि­ष्ठा­दि­गु­ण­वत्त्वं यथार्थतः ।।
तथाऽपि नावदद्ब्रह्म स्वानु­भू­त्य­व­बु­द्धये ।। १९ ।।

उत्क्रा­न्तेऽ­न्य­तमे यस्मि­न्प्र­त्ये­क­म­प­स­र्पणे ।।
पापीयो मन्यते लोको वसिष्ठो वः समीक्ष्यताम् ।। २० ।।

अन्व­य­व्य­ति­रे­काभ्यां वसि­ष्ठ­त्वा­व­बु­द्धये ।।
उपा­स्या­र्थ­प­री­क्षायै प्रवृत्तैषा परा श्रुतिः ।। २१ ।।

संहतानां क्रियासिद्धेः करणानां पृथक्पृथक् ।।
नैकैकस्य क्रियासिद्धिः शिबि­को­द्वा­ह­व­त्ततः ।। २२ ।।

प्राण­प्रा­धा­न्य­सि­द्ध्यार्थं श्रुत्याऽऽ­ख्या­यि­क­च्छ­द्मना ।।
अन्व­य­व्य­ति­रे­काभ्यां न्यायो लौकिक उच्यते ।। २३ ।।

यथा मूका विना वाचा यथाऽ­न्धा­श्च­क्षुषा विना ।।
इत्यादिवचसा प्राणे सति जीवनमुच्यते ।। २४ ।।

उत्क्रान्तौ च प्रवेशे च ह्यलं दहः स्वकर्मणे ।।
वागादीनां न पातोऽस्य नापि चोत्था­न­मी­क्ष्यते ।। २५ ।।

उत्क्रान्ते प्राण एवास्माच्छरीरं पतति ध्रुवम् ।।
उत्तिष्ठति प्रविष्टे च प्राणः श्रेयां­स्त­तोऽ­न्यतः ।। २६ ।।

मामृते जीवितुं यूयं यद्यशक्ताः स्थ सर्वदा ।।
प्रधानं तर्हि मां वित्त भव­न्त­श्चा­प­रा­धिनः ।। २७ ।।

करं बलिं प्रधानाय दत्त वागादयोऽचिरात् ।।
इत्युक्तास्ते तथेत्यूचुः सर्वस्वं ददते प्रभोः ।। २८ ।।

त्वद्व­सि­ष्ठ­त­यै­वाहं वाग्व­सि­ष्ठे­त्यु­दा­ह­रत् ।।
इत्यु­क्त्वाऽ­न्येऽपि सर्वस्वं ददुर्वागादयः सुराः ।। २९ ।।

किमन्नं मे बुभुक्षोः स्याद्वासो वा मे किमीर्यताम् ।।
इति प्राणवचः श्रुत्वा प्रत्यूचुः करणानि तम् ।। ३० ।।

आ श्वभ्यो यदिदं किंचिदा कृमिभ्यश्च लक्ष्यते ।।
अन्नं तद्भवतः सर्वं वयं त्वच्छेषभोगिनः ।। ३१ ।।

जीवः प्राणोऽत्र संसारी भोक्ते­न्द्रि­य­म­नः­परः ।।
प्राणो ह्येतानि सर्वाणि भवतीति च लिङ्गतः ।। ३२ ।।

तन्मया हीतरे प्राणा­स्त­न्मू­ला­स्त­न्नि­ब­न्धनाः ।। ३३ ।।
एवंंविदे हि नानन्नं किंचिदस्तीति दर्शनात् ।।
फलं स्यात्प्रा­ण­सा­युज्यं सर्वं तस्य हि भोजनम् ।। ३४ ।।

भवत्यत्ता स सर्वस्य नान्नं भवति कस्यचित् ।।
केव­लेऽ­व­स्थि­तेऽ­त्तृत्वे मृत्युनाऽपि न गीर्यते ।। ३५ ।।

अद्भिः परि­द­ध­त्ये­न­म­शि­ष्यन्त इति श्रुतेः ।।
विदधाति ह्यपां पानमपूर्वं शास्रलक्षणम् ।। ३६ ।।

शास्रं मुख्यार्थमेव स्याद्विध्यर्थं यदि कल्प्यते ।।
युक्तः फलानुषङ्गोऽस्य वासोलाभो विधिर्यदि ।। ३७ ।।

एके च शाखिनो व्यक्तं विधिरूपमधीयते ।।
मन्त्रेण प्राशनं चापामेकेषां शाखिनां मतम् ।। ३८ ।।

अन्न­द­र्श­न­व­च्चैके वासोदृष्टिं प्रचक्षते ।।
प्राय­त्या­र्थ­मपां पाने दृष्टेः प्रकरणादिह ।।
सर्वा­भ­क्ष्य­प्र­सक्तिः स्याद्यदि कर्म विधित्स्यते ।। ३९ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके षष्ठाध्यायस्य प्रथमं ब्राह्मणम्

यन्न संभावितं पूर्वं वस्तु­प्रा­धा­न्य­हे­तुतः ।।
वक्तुं तदत्र वक्तव्यं खिल­का­ण्डा­धि­का­रतः ।। १ ।।

सप्त­मा­व­सि­ता­वुक्तं मार्ग­प्रा­र्थ­न­म­ग्नितः ।।
सुपथेति श्रुतं तत्र श्रुत्या मार्गविशेषणम् ।। २ ।।

संभवे व्यभिचारे च विशे­ष­ण­वि­शे­ष्ययोः ।।
दृष्टं विशेषणं लोके यथेहापि तथेक्ष्यताम् ।। ३ ।।

मुपथेति ततो युक्तं संभवे भूयसां पथाम् ।।
विशेषणमतो वाच्याः पन्थानः कर्महेतवः ।। ४ ।।

दक्षि­णो­द­ग­धो­मार्गा विहि­त­प्र­ति­षि­द्धयोः ।।
विपाकाः कर्म­णो­र्वा­च्या­स्त­द्वै­रा­ग्य­प्र­सि­द्धये ।। ५ ।।

नाविरक्तस्य निःशे­ष­सां­सा­रि­क­पु­म­र्थतः ।।
प्रवृ­त्ति­र्मु­क्तये तस्माच्छ्रुत्या यत्नात्तदुच्यते ।। ६ ।।

शक्नुवन्ति न कर्मणि सर्वकामसमापनम् ।।
निषेद्धुं वाऽखि­ला­न­र्थां­स्त­त्फ­ल­स्या­ति­फ­ल्गुतः ।। ७ ।।

न कर्म कारणं मुक्ते­र्ना­ग्नि­र्ग­ह­ज्व­रा­प­नुत् ।।
कर्मभ्यु जन्म नियतं जन्म चेन्निर्वृत्तिः कुतः ।। ८ ।।

न कर्मणा कनीयस्ता महत्त्वं चान्तरात्मनः ।।
इति बाहुमिवोद्धृत्य वेदान्तैर्घोषणा कृता ।। ९ ।।

न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते ।।
इति श्रीया­ज्ञ­व­ल्क्येन मुक्त­क­ण्ठ­मु­दा­हृ­तम् ।। १० ।।

अतो मुक्तिं परी­च्छ­द्भि­रु­त्प­त्त्या­दि­वि­रो­धि­नीम् ।।
त्यकत्वा कर्मा­ण्य­थै­का­त्म्य­ज्ञानं सर्वा­त्म­नाऽऽ­श्र­येत् ।। ११ ।।

तमोन्तरायतो मुक्ते­र्ना­न्त­रा­योऽ­प­रोऽस्ति हि ।।
तमोहतिर्न कर्मभ्यो ज्ञानात्सा व्यञ्जकत्वतः ।। १२ ।।

न तु त्वमे­त­यो­र्वे­त्थे­त्यु­त्क्रा­न्त्या­दि­स्व­ल­क्ष­णम् ।।
षड्वधं परि­णा­मा­र्थ­म­ग्नि­हो­त्रा­हु­ती­हयोः ।। १३ ।।

इति­प्र­श्न­प्र­ति­व­चस्ते वा इत्यादिकं जगौ ।।
लोकं प्रत्युत्थितं याव­द­ग्नि­हो­त्रा­द्दु­ती­हयोः ।। १४ ।।

अपू­र्व­प­रि­णा­मोऽ­य­म­ग्नि­हो­त्रा­ख्य­क­र्मणः ।।
उत्क्रा­न्त्या­दि­गि­रे­होक्त आलो­को­त्था­न­वा­क्यतः ।। १५ ।।

आहु­त्यो­र­ग्नि­हो­त्रस्य ह्यन्त­रि­क्षा­दि­भे­दतः ।।
आ लोकोत्थानतः श्रुत्या उक्ताऽपूर्वस्य विक्रिया ।। १६ ।।

तदे­वो­क्त­मि­हाऽऽ­लम्व्य तद­ग्नी­क्ष­ण­सि­द्धये ।।
श्वेतकेतुरिति ग्रन्थः पर आरभ्यतेऽधुना ।। १७ ।।

पञ्चाग्निविद्या यत्नेन वृद्धे­ना­ब्रा­ह्म­णा­दपि ।।
हित्वा धनं च मानं च लब्धेत्युक्तिः स्तुतिर्धियः ।। १८ ।।

परिणामो हि पाकेन पाकश्च न विनाऽग्निना ।।
दर्श­ना­त्प­रि­णा­मस्य पक्तासर्वत्र पावकः ।। १९ ।।

समा­प्ता­शे­ष­विद्यं हि समावर्त्य पिता सुतम् ।।
समा­प्ता­शे­ष­वि­द्योऽ­सी­त्ये­व­मा­हो­त्स­सर्ज च ।। २० ।।

निकषोपलसंस्थेषु वेदवित्सु परीक्ष्यताम् ।।
विद्येयं यत्न्तो वत्स द्रढिम्ने मच्छ्रुतस्य च ।। २१ ।।

प्रसिद्धाऽतीव विद्वत्ता पञ्चा­ल­ब्रा­ह्म­णेषु हि ।।
तामेव परिषदं तस्मादाजगाम त्वरान्वितः ।। २२ ।।

पञ्चा­ल­ब्रा­ह्म­णा­ञ्जित्वा विद्यो­त्क­र्षै­क­हे­तुतः ।।
राजानमपि जेष्या­मी­त्या­ज­गाम नृपं ततः ।। २३ ।।

तं जिगीषुं समा­या­न्त­मु­न्मार्गे संस्थितं द्विजम् ।।
सन्मा­र्ग­प्र­ति­प­त्त्यर्थं राजोवाच स्वशास्रतः ।। २४ ।।

आमन्त्रयामास च तं कुमारा इति बालवत् ।।
प्रतिशुश्राव सोऽप्युक्तो भो इत्युक्त्या गुरुं यथा ।। २५ ।।

दर्पो­त्से­क­स­मा­वे­शा­न्ना­नु­शि­ष्टोऽ­य­मा­द­रात् ।।
पित्रे­ति­जा­त­सं­देहः पर्यपृच्छदतो नृपः ।। २६।।

अनुशिष्टोऽसि किं पित्रा उताहो नेति भण्यताम् ।।
नानुशिष्टस्य जगति वृत्त­मी­दृ­क्स­मी­क्ष्यते ।। २७ ।।

बाढं पित्राऽ­नु­शि­ष्टोऽस्मि किं न पश्यसि मज्जयम् ।।
त्वत्पण्डितेषु सर्वेषु पृच्छ मां यदि शङ्कसे ।। २८ ।।

एवं राज्ञो यथोक्तोक्त्या ह्यभ्यु­पे­तेऽ­नु­शा­सने ।।
श्वेत­के­तु­म­था­प्रा­क्षी­प्रञ्च प्रश्ना­न्क्र­मा­न्नृपः ।। २९ ।।

अनुशिष्टोऽसि चेद्ब्रूहि तुल्येऽपि मरणे प्रजाः ।।
यथा विप्रतिपद्यन्त भिन्न­व­र्त्म­प्र­भे­दतः ।। ३० ।।

येन कर्मविशेषेण समानायां मृतौ प्रजाः ।।
अन्या अन्येन संयान्ति यथाऽ­न्ये­ना­प­रा­स्तथा ।। ३१ ।।

त्वयोक्तं न विवेदाहं नानु­शि­ष्टि­रि­हास्ति मे ।।
वेत्थेह ता यथा भूय ावर्तन्ते प्रजा इति ।। ३२ ।।

यथा येन मृताः सत्यो हेतुनाऽनेन च प्रजाः ।।
तं वेत्थ स्विन्न वेत्युक्तो नेति होवाच तं पुनः ।। ३३ ।।

प्रय­द्भि­र­स­कृ­द्भू­तै­र्म­ह­द्भि­र्ब­हुभिः सदा ।।
नैवासौ पूर्यते लोको यथा वेत्थ तथाऽत्र किम् ।। ३४ ।।

नेति होवाच पृष्टः सन्राजा पप्रच्छ तं पुनः ।।
हुतायामाहुतौ वेत्थ यतिथ्यां पुरुषाभिधाः ।। ३५ ।।

आप एव समुत्थाय पुरुषाकृतयो हुताः ।।
प्रवदन्ति यथा वेत्थ तथाऽऽशु प्रतिपद्यताम् ।। ३६ ।।

राजानं नेति होवाच नाहं वेद्मि त्वयोदितम् ।।
पर्यपृच्छदतो राजा शान्तदर्पं द्विजं पुनः ।। ३७ ।।

पथस्त्वं देवयानस्य पितृयाणस्य वाऽञ्जसा ।।
वेत्थ प्रतिपदं किंवा न वेत्सी­त्य­भि­धी­य­ताम् ।। ३८ ।।

प्रति­प­द्व­च­न­स्यार्थं यत्कृ­त्वे­त्या­द­रा­च्छ्रुतिः ।।
व्याचष्टे देव­या­ना­दि­प्र­ति­पत्तौ क्रियैव सा ।। ३९ ।।

स्वाभ्यूह इति मा शङ्कीर्यतो मार्गद्वयेऽपि नः ।।
ऋषेर्मन्त्रस्य श्रवणमस्ति तच्च विभाव्यते ।। ४० ।।

द्वे सृती अशृणवं साक्षा­त्सं­ब­न्धिन्यौ दिवौकसाम् ।।
पितृणां चापि मर्त्यानां मार्गौ तावधिकारतः ।। ४१ ।।

ताभ्यां सर्वमिदं गच्छद्यथाकर्म यथाश्रुतम् ।।
समेति मध्ये भोगाय रोदस्योः कर्मणो जगत् ।। ४२ ।।

त्वदु­क्ता­त्प्र­श्न­ग­णतो न वेद्म्ये­क­म­पी­रि­तम् ।।
प्रश्नं मा मामतः प्राक्षी­रि­त्यु­क्त्वाऽ­वा­क्शिरा ह्यभूत् ।। ४३ ।।

निर्धू­ता­शे­ष­क­लुषं शान्तदर्पं समीक्ष्य तत् ।।
वस­त्याऽऽ­म­न्त्र­यां­चक्र उष्यतामिति पार्थिवः ।। ४४ ।।

ह्रीतो रोषाच्च तद्वाक्यं वस­त्य­र्थ­मु­दी­रि­तम् ।।
अनादृत्य प्रदुद्राव यत्राऽऽस्ते गौतमः पिता ।। ४५ ।।

प्राप्याथ पितरं रोषात्साभ्यसूयं निराह सः ।।
इति वावेति वचनं पूर्वो­त्त­र­वि­रो­धतः ।। ४६ ।।

इती­त्यु­क्त­प­रा­मर्शो वाकोवाक्यं नृपेरितम् ।।
अप्रा­त्य­क्ष्या­त्कि­ले­त्यु­क्ति­र­नु­मा­नाद्धि तद्गतिः ।। ४७ ।।

नृपो­क्त्य­भि­भ­वा­ल्लि­ङ्गा­द्व­ञ्चि­तोऽ­स्मीति लिङ्ग्यते ।।
यथावदनुशिष्टस्य नाभि­भू­ति­र्य­तोऽ­न्यतः ।। ४८ ।।

तं मामननुशिष्यैव किमित्युक्तं त्वया पुरा ।।
अनुशिष्टोऽसि पुत्रेति वञ्चि­तोऽ­स्मी­त्यतो मतिः ।। ४९ ।।

कथं त्वं नानुशिष्टोऽसि ब्रूहि तत्कारणं मम ।।
पञ्च मामि­त्य­तोऽ­वो­च­द्यथा ह्यननुशासनम् ।। ५० ।।

प्रश्नास्ते कतमे वत्स यांस्त्वं न ज्ञातवानसि ।।
प्रश्न­प्र­ती­का­न­व­द­त्पृष्टः पित्रा समासतः ।। ५१ ।।

व्राह्म­ण­ज्ञा­न­तोऽ­न्यत्र विद्यां पप्रच्छ भूमिपः ।।
न हि व्राह्म­ण­वि­ज्ञाने किंचिदस्ति त्वयाऽगतम् ।। ५२ ।।

इत्येतद्धृदये कृत्वा तथा न इति सोऽवदत् ।।
मा शङ्किष्ठास्ततो मां त्वं नोक्तं सर्वं ममेति हि ।। ५३ ।।

प्रेहि तत्र गमि­ष्या­व­स्ता­द्वि­द्या­ल­ब्धि­सिद्ध
ब्रह्मचर्यं च वत्स्याव आवां तत्र नृपे गतौ ।। ५४ ।।

यातु तत्र भवानेव नाहं तं गन्तुमुत्सहे ।।
इत्युक्तः सूनुना ह्रीतः स्वयमेव जगाम तम् ।। ५५ ।।

ससंभ्रमः स चोत्थाय तस्मा आसनमाहरत् ।।
अप आहारयांचक्र अर्घ्य­पा­द्या­र्थ­सि­द्धये ।। ५६ ।।

सत्कृत्य च यथाशास्रं राजाऽथ तमुवाच ह ।।
वरं कामं प्रयच्छामो यः कामो वाञ्छितस्त्वया ।। ५७ ।।

ऋषिराहाथ राजानं कामितार्थस्य सिद्धये ।।
प्रतिज्ञातो वर­स्ता­व­द्भ­व­ताऽ­प्रा­र्थि­तोऽपि सन् ।। ५८ ।।

अस्तु सत्य­प्र­ति­ज्ञोऽत्र प्रतिज्ञातं त्वयेह यत् ।।
देहि प्रश्नात्मिकां वाचं यां मत्सूनोरभाषथाः ।। ५९ ।।

राजाऽपि तमुवाचाथ दैवेष्विति परं वचः ।।
दैवेप्वयं वरः सिद्धो मानुपाणां वरं वृणु ।। ६० ।।

न हि मानुषतो दैवः प्रार्थनीयो विजानता ।।
मानुषस्तूचितो दातुमादातुं मानुषाद्वरः ।। ६१ ।।

ममाप्यस्त्येव तत्सर्वं यद्यद्दित्ससि मानुषम् ।।
विज्ञायते मयैवाऽऽदौ भवताऽपि प्रमान्तरात् ।। ६२ ।।

न च तत्प्रार्यनीयं मे भूरि यद्विद्यते मम ।।
तस्माद्दैवो वरो मह्यं दीयतां नास्त्यसौ मम ।। ६३ ।।

बहो­र­न­न्ता­प­र्य­न्त­दै­व­वि­त्तस्य लोभतः ।।
मा भूर­भ्य­व­दा­न्यस्त्वं दाता भूत्वेह नः प्रति ।। ६४ ।।

दैवं वरं न संदातुं प्रत्याख्यातुं च तं द्विजम् ।।
इति दुःखि­त्व­मा­प­न्न­स्ती­र्थे­ने­च्छे­त्यु­वाच तम् ।। ६५ ।।

तीर्थेन विद्या देयेति नातीर्थेनेति चाऽऽगमः ।।
यतोऽ­त­स्ती­र्थ­सृ­त्यैव मत्तो विद्यां त्वमाप्नुहि ।। ६६ ।।

शास्रार्थं स्मारितः सोऽथ राज्ञो­पै­मी­त्य­थो­चि­वान् ।।
वाचैव ह्यवरान्पूर्व उपयन्ति यतस्ततः ।। ६७ ।।

स होपायनकीर्त्यैव ब्रह्मचर्यमुवास ह ।।
उपैमीति हि संकी­र्ते­र्ना­न्या­त्किं­चि­च्च­कार सः ।। ६८ ।।

सापराधं स्वमात्मानं राजा परिहरन्नथ ।।
क्षमयामास तमृषिं तथा न इतिवाक्यतः ।। ६९ ।।

मानोऽपराधिनो मंस्थास्तव पूर्वे पितामहाः ।।
नामन्यन्त यथा तद्व­द्भ­वा­न­प्य­प­रा­धिनः ।। ७० ।।

त्वत्संप्रदानतः पूर्वं विद्येयं हि कदाचन ।।
नोवास ब्राह्मणे साध्वी साक्षादपि बृहस्पतौ ।। ७१ ।।

एवं गुप्तामपि तु तां वक्ष्या­म्ये­वा­ह­म­ञ्जसा ।।
प्रत्याख्यातुं समर्थः को ब्रुवन्तं ब्राह्मणं नृपः ।। ७२ ।।

असाविति क्रमोऽभेदि कस्मा­द्धे­तो­रि­ती­र्य­ताम् ।।
प्रश्नस्येह चतुर्थस्य प्राधा­न्या­द्भि­द्यते क्रमः ।। ७३ ।।

उत्प­त्ते­स्त­द­धी­न­त्वा­ज्ज­न्मा­यत्ता स्थितिस्तथा ।।
स्थित्यपाये प्रयाणं च श्रुत्याऽभेदि क्रमस्ततः ।। ७४ ।।

दूरतोऽमुष्य लोकस्य स्यादसाविति गीरियम् ।।
समिद्धूमादिभी रूपैर्लोक्यते लोकगीरपि ।। ७५ ।।

वैशब्दः स्मरणाय स्याद­ग्नि­स्त­त्प­रि­णा­मतः ।।
यत आह­व­नी­योऽ­ग्नि­र्द्यु­लो­का­त्म­तया स्थितः ।। ७६ ।।

अपू­र्व­प­रि­णा­मोऽ­य­म­ग्नि­हो­त्रा­ख्य­क­र्मणः ।।
द्युलोकोपक्रमो ज्ञेयो यावत्पुरुषसंभवः ।। ७७ ।।

आहु­त्यो­र­ग्नि­हो­त्रस्य या विभूतिः पुरोदिता ।।
सैवेह दृष्टिविध्यर्थं श्रुत्या व्याख्या­य­तेऽ­ञ्जसा ।। ७८ ।।

अध्यात्मे चाधियज्ञे च ह्यधि­लो­का­धि­दै­वयोः ।।
श्रुति­रा­ह­व­नी­या­दे­र्व्या­चष्टे विस्तृतिं स्फुटाम् ।। ७९ ।।

लोक आह­व­नी­योऽ­ग्नि­र­सा­विति विचिन्तयेत् ।।
आदित्यादिष्वपि तथा समि­दा­दि­स­मी­क्ष­णम् ।। ८० ।।

समि­न्ध­ना­त्स­मि­द्भानू रश्मयो धूम इत्यपि ।।
समि­न्नि­र्ग­म­सा­मा­न्या­द­र्चि­र­ह­स्त­थैव च ।। ८१ ।।

शान्तत्वाच्च दिशोऽङ्गाराः समिद्धि परिणामतः ।।
अर्चि­र­ङ्गा­र­भा­वस्य यथैवं भानुहेतुकाः ।।
रश्मयश्च दिशश्चैता आदि­त्य­स­मि­दा­श्रयाः ।। ८२ ।।

अवा­न्त­र­दि­श­स्त­द्व­द्वि­क्षि­प्त­त्वै­क­हे­तुतः ।।
विस्फुलिङ्गा इति ज्ञेया­स्त­स्मि­न्नग्नौ यथोदिते ।। ८३ ।।

त्रयस्त्रिंसच्च ये देवाः स्युस्तेऽ­ध्या­त्मा­दि­भू­मिगाः ।।
होतारस्तत्र तत्र स्युः कर्म­ज्ञा­ना­नु­रो­धतः ।। ८४ ।।

ऋत्विग्रूपेण ते ह्यासन्यथा प्राकृतकर्मणि ।।
होतारः परिणामेषु तथैवोत्तरभूमिषु ।। ८५ ।।

आहुत्योः परि­णा­मोऽ­य­मू­र्ग्र­सोऽ­पू­र्व­मि­त्यपि ।।
तस्य श्रद्धै­क­हे­तु­त्वा­च्छ्रद्धा नामेति कीर्त्यते ।। ८६ ।।

तस्या­श्चा­प्या­हुतेः सोमो राजा संभवतीति च ।।
तस्याभिवृद्धिः संभूतिर्न त्वभूतजनिर्यतः ।। ८७ ।।

द्यौरग्निः समिदादित्यः श्रद्धा तस्मिन्हि हूयते ।।
सूर्ये समिधि दीप्तायां श्रद्धां जुह्वति देवताः ।। ८८ ।।

श्रयतेः श्रद्दधातेर्वा श्रद्धे­त्या­हु­र्वि­पा­श्चितः ।। ८९ ।।
श्चय­णा­द्धा­र­णा­च्चाऽऽपः श्रद्धाह्वाः कारणात्मिकाः ।।
भूत्वाऽऽप इति लिङ्गाच्च आपः श्रद्धा­भि­धा­स्ततः ।। ९० ।।

आकृष्टं रश्मि­भि­स्तो­य­मा­दित्ये प्रतितिष्ठति ।।
तस्मादादित्यगः सोमः क्षीण आप्यायते पुनः ।। ९१ ।।

परिणामो ह्यपां सोमः शीतांशुस्तेन सोऽम्मयः ।।
श्रद्धाहुतेर्हि सोमस्य संभवः शास्र उच्यते ।। ९२ ।।

अङ्गा­रा­श्च­न्द्र­मा­स्त­स्मि­न्हु­तेऽग्नौ सोमसंभवः ।।
सोम­च­न्द्र­म­सो­रेवं भेदः शास्त्रेण दर्शितः ।। ९३ ।।

चन्द्रमा मण्डलं स्वच्छं चन्द्रकेण मितो हि सः ।।
सोमस्तु मण्डले श्वेतो वर्धते ह्रसते च यः ।। ९४ ।।

चन्द्रमाः पर आदि­त्या­द­र्वा­क्सोमः श्रुतेर्मतः ।।
आदि­त्या­च्च­न्द्र­मि­त्याह नैते संवत्सरं तथा ।। ९५ ।।

सोम­च­न्द­म­सो­स्त­स्मा­द्भेदः समवगम्यते ।।
देशाभेदादभिन्नौ तावेष सोम इति श्रुतेः ।। ९६ ।।

भिन्नौ च धर्मभेदेन तस्मादुभयथा श्रुतिः ।।
पर्ज­न्योऽ­ग्नि­रिति ज्ञेयः समित्संवत्सरः स्मृतः ।। ९७ ।।

संवत्सरे समिद्धे हि पर्जन्यस्य समेधनात् ।।
धूमोऽभ्राणीति सादृ­श्या­द्वि­द्यु­द­र्चि­स्त­थैव च ।। ९८ ।।

शान्ति­व­र्तु­ल­तोऽ­ङ्गाराः पर्ज­न्य­शि­खि­नोऽ­शनिः ।।
विक्षि­प्त­त्वै­क­सा­मा­न्या­त्स्फु­लिङ्गाः स्तनयित्नवः ।। ९९ ।।

सोमं जुह्वति तत्राग्नौ देवा­श्चा­त्रो­दिताः पुरा ।।
वृष्टेश्च संभ­व­स्त­स्मा­ल्लो­केऽ­स्मि­न्साऽपि द्दूयते ।। १०० ।।

लोकोऽ­य­म­ग्नि­र्वि­ज्ञेयः पृथिवी समिदुच्यते ।।
पृथिव्या हि समिद्धोऽयं समित्तेन क्षितिर्मता ।। १०१ ।।

अग्नि­र्धू­म­स्त­दु­त्था­ना­द्रा­त्रि­र­र्चि­स्त­थैव च ।।
रात्रिमाहुः क्षिति­च्छा­या­म­ङ्गा­रा­श्च­न्द्र­मा­स्तथा ।। १०२ ।।

शान्त­त्व­व­र्तु­ल­त्वाभ्यां विस्फु­लि­ङ्ग­स­म­त्वतः ।।
नक्षत्राणि स्फुलिङ्गाः स्युस्त­स्मि­न्नि­त्यादि पूर्ववत् ।। १०३ ।।

अन्नस्य संभ­व­स्त­स्मा­त्पु­मग्नौ तच्च हूयते ।।
पुरुषोऽग्निरिति ध्येयो व्यात्तं तस्य समित्स्मृता ।। १०४ ।।

व्यात्ते मुखे हि तद्दीप्तिर्धूमः प्राणो मुखोत्थितेः ।।
पुंदी­प्ते­र्वा­ङ्नि­मि­त्त­त्वा­द­र्चि­र्वा­क्तेन भण्यते ।। १०५ ।।

स्थिते­र­ङ्गा­र­व­च्च­क्षु­र­ङ्गाराः श्रोत्रमेव च ।।
विस्फुलिङ्गा इति ज्ञेयं तस्य विक्षे­प­सं­स्थितेः ।। १०६ ।।

अन्नं जुहति तत्राग्नौ संभवो रेतसस्ततः ।।
योषिदग्निरिति ज्ञेया उपस्थश्च समित्तथा ।। १०७ ।।

तदुपस्थेन संदीप्तेर्धूमो लोमानि साम्यतः ।।
अर्चि­र्व­र्ण­स­मा­न­त्वा­द्यो­नि­र­र्चि­र्भ­वे­त्ततः ।। १०८ ।।

अन्तः करोति यत्कामी तेऽङ्गा­रा­स्त­त्स­मा­नतः ।।
विस्फुलिङ्गः सुखलवाः क्षणि­क­त्वै­क­हे­तुतः ।। १०९ ।।

रेतो जुह्वति तत्राग्नौ देवा­श्चे­न्द्रि­य­रू­पिणः ।।
पञ्चम्या आहुतेस्तस्याः पुरुषः संभवत्ययम् ।। ११० ।।

यथोक्तवर्त्मना ह्यापः प्राप्तः पुंस्परिणामताम् ।।
पाकजः परिणामोऽयमेवं पञ्चभिरग्निभिः ।। १११ ।।

तस्मादापः सूक्ष्मभावाः स्थूलतां यान्ति पाकतः ।।
अग्निभिः पञ्चभिः पक्वाः पुरुषाख्या भवन्ति हि ।। ११२ ।।

तस्मान्मृतं प्रियं बन्धुं हरन्त्यग्नय ऋत्विजः ।। ११३ ।।
यथै­वाऽऽ­ह­व­नी­याग्नेः प्रसिद्धं समिदादिकम् ।।
श्यशा­ना­ग्ने­स्त­थै­वै­त­त्सर्वं ज्ञेयं न कल्प्यते ।। ११४ ।।

अन्त्य­सं­स्का­र­सि­द्ध्यर्थं तस्मिन्नग्नौ यथोदिते ।।
ऋत्विजो जुह्वति नरमन्त्याहुत्यै विधानतः ।।
आहुतेर्जायते तस्याः पुमा­न्भा­स्व­र­रू­प­भृत् ।। ११५ ।।

राजसं तामसं रूपमितो ह्यन्यत्र वक्ष्यते ।। ११६ ।।
इतोऽ­ग्नि­भ्योऽ­ग्नि­मे­वायं स्वां योनिं प्रतिपत्स्यते ।।
इति लोके समा­चा­रा­द­ग्निभ्यः संभवस्ततः ।। ११७ ।।

पञ्च­म्या­मा­हु­ता­वेवं पुनांम्नो जन्म कीर्तितम् ।।
गतिस्तस्याथ वक्तव्या उदग्दक्षिणभेदतः ।। ११८ ।।

ते य एतद्यथाजातं ज्ञानं पञ्चा­ग्नि­सं­श्र­यम् ।।
विदुरर्चिः समायान्ति बहूक्तेश्च द्विजातयः ।। ११९ ।।

उत्प­त्ति­सं­स्थि­ति­लया यथो­क्ता­ग्न्ये­क­हे­तवः ।।
इत्थं ये विदुरर्चिस्ते संभ­व­न्त्या­त्म­भा­विताः ।। १२० ।।

इष्टापूर्तकृतो ये वै ग्रामस्थेभ्यश्च ये परे ।।
अरण्य इति गृह्यन्त इतरेषां पृथग्ग्रहात् ।। १२१ ।।

यज्ञदानतपांसीह गृहस्थ इव तापसे ।।
गृह­स्था­चा­र्य­वा­साच्च न ग्रहो ब्रह्मचारिणाम् ।। १२२ ।।

नारण्यस्था न च ग्राम्या अपेक्षन्तेऽत्र विद्यया ।।
सामा­न्य­व­च­सो­पा­त्तेर्न विशेषपरिग्रहः ।। १२३ ।।

सश्रद्धस्यापि सत्यस्य यद्यप्यन्यत्र संभवः ।।
तथाऽपि यतयो ग्राह्य अरण्येन विशेषणात् ।। १२४ ।।

ते य एवं विदुरिति यदि वा गृहिणां ग्रहः ।।
अग्निसंबन्धतो न्याय्यो वनस्थस्यापि संभवात् ।। १२५ ।।

न चाग्नि­हो­त्र­शे­ष­त्व­मु­क्त­दृ­ष्टे­रि­हे­ष्यते ।।
सामान्येन ग्रहात्तस्याः पञ्चा­ग्नि­रि­ति­लि­ङ्गतः ।। १२६ ।।

त्रिलो­की­सा­ध­न­त्या­गा­न्नापि संन्यासिनो ग्रहः ।।
दैवी विद्या हि वित्तं स्याद्वित्ताच्च व्युत्थितिर्यतः ।। १२७ ।।

प्रजया किं करिष्याम आक्षेपो ब्रह्मवेदनात् ।। १२८ ।।
पञ्चा­ग्नि­ज्ञा­न­व­द्भाव्या गतिरपत्र सर्वदा ।।
यतोऽतो गतिरप्युक्ता नान्यथा तदुदीरणम् ।। १२९ ।।

देवतोपासनस्येह प्रकृतत्वात्तथा गतेः ।।
अर्चिःशब्देन तेनेह देवतैवात्र गृह्यते ।। १३० ।।

अर्चि­र्दे­व­त­यै­कत्वं प्राप्या­ह­र्दे­तै­क­ताम् ।।
संभवन्तीति सर्वत्र संब­न्धोऽ­त्रा­नु­ष­ज्यते ।। १३१ ।।

गृह्यते देवता नो चेदर्चिरादिगिरा तदा ।।
असंभवोऽन्यत्र मृतेरित्यपार्था गतिश्रुतिः ।। १३२ ।।

यत्तू­द­ग­य­ना­पेक्षा भीष्मस्य श्रूयते स्मृतौ ।।
सत्य­वा­दि­त्व­सि­द्ध्यर्थं शंत­नो­स्त­द­पी­क्ष्य­ताम् ।। १३३ ।।

अन्यथा कृतनाशः स्याद­कृ­ता­भ्या­ग­म­स्तथा ।।
देव­ता­ग्र­ह­णा­त्त­स्मा­द्दे­व­तै­वा­र्चि­रु­चते ।। १३४ ।।

तस्मादेवंविदो धीरा अर्चि­रा­द्य­भि­मा­नि­नीम् ।।
क्रमेण देवतां यात्वा वैरिञ्चं यान्ति तत्पदम् ।। १३५ ।।

श्रद्द­धा­ना­स्त­प­स्यन्तः सत्यं ब्रह्म समाहिताः ।।
उपासते बहि­र्ग्रा­मा­द­र्चिस्ते संभवन्त्यतः ।। १३६ ।।

ब्रह्मणः स्थानमायान्ति यद्वा स्वाश्रमकर्मभिः ।।
संन्या­सा­द्ब्र­ह्मणः स्थानं तथाच स्मृतिशासनम् ।। १३७ ।।

ततोऽहर्देवतां यान्ति शुक्लपक्षं ततः क्रमात् ।।
षण्मासांश्च ततो यान्ति ह्युत्त­रा­य­ण­ल­क्ष­णान् ।। १३८ ।।

देवतां च ततो यान्ति देव­लो­का­भि­मा­नि­नीम् ।।
तत आदित्यमायान्ति वैद्युतं चापि भास्करात् ।। १३९ ।।

ब्रह्मणा मनसा सृष्टो मानसः पुरुषस्ततः ।।
ब्रह्मलोकान्स नयति सोऽप्यभ्येत्याथ वैद्युतान् ।। १४० ।।

ते तेषु ब्रह्मलोकेषु दीप्यमानाः पराः समाः ।।
ब्राह्ममानाः समा ग्राह्या ब्रह्मलोकेषु तच्छ्रुतेः ।। १४१ ।।

सार्ष्टि­सा­लो­क्य­सा­यु­ज्य­व्य­पेक्षा बहुगीरियम् ।।
सम­ष्टि­व्य­ष्टि­भेदं वा व्यपेक्ष्य बहुवागियम् ।। १४२ ।।

आवृत्तिर्न पुनस्तेषां याव­दा­भू­त­सं­प्ल­वम् ।।
आभू­त­सं­प्ल­व­स्था­न­म­मृ­तत्वं हि भाष्यते ।। १४३ ।।

ऐका­त्म्य­धी­स­मु­त्प­त्ते­र्थदि वा ब्रह्मलोकतः ।।
मुच्यन्ते न निवर्तन्ते यथा धूमादिमार्गगाः ।। १४४ ।।

इमं मान­व­मा­व­र्त­मि­त्या­द्यस्य विशेषणात् ।।
अत्रैव कल्पेऽ­ना­वृ­त्तिर्न त्वन्ये­ष्व­नि­वा­र­णात् ।। १४५ ।।

देवयानः समासेन पन्था यत्ना­त्प्र­प­ञ्चितः ।।
व्याख्याऽथ पितृयाणस्य सम्य­गा­र­भ्य­तेऽ­धुना ।। १४६ ।।

देवा­दि­ज्ञा­न­ही­नेन येऽथ यज्ञेन सद्द्विजाः ।।
लोकाञ्जयन्ति दानेन सद्देशादिमता तथा ।। १४७ ।।

निःशे­ष­क­ल्म­ष­ध्वं­सि­त­पसा वाऽविपश्चितः ।।
मृतास्ते धूममायान्ति धूमाद्रात्रिं तमस्विनः ।। १४८ ।।

रात्रेरपरपक्षं चद­क्षि­णा­य­न­दे­व­ताम् ।।
मासेभ्यः पितृलोकं हि पितरो यत्र शेरते ।।
पितृलोकाच्च ते चन्द्रं यान्त्यन्नं तद्दिवौकसाम् ।। १४९ ।।

चन्द्रं प्राप्यान्नभावं च ते यतस्तत्र संस्थिताः ।।
अस­कृ­द्भ­क्ष­य­न्त्ये­ता­ना­प्या­य्याऽऽ­प्याय्य सोमवत् ।। १५० ।।

पक्षे शुक्ले तमाप्याय्य कृष्णे तं भक्षन्त्यथ ।। १५१ ।।
भोगसाधनभावाश्च भक्षयन्तीति भण्यते ।।
न त्वभ्य­व­हृ­ति­र्न्याय्या वेदवर्त्मनि तिष्ठिताम् ।। १५२ ।।

यदा तूपचितं कर्म पर्यवस्यति भोगतः ।।
तेषा­म­थै­त­म­ध्वा­न­मा­व­र्तन्ते यथागतम् ।। १५३ ।।

आकाशमनुनिष्पद्य वायु­मा­या­न्त्य­भो­गिनः ।।
वायो­र्वृ­ष्टि­म­वा­प्याथ वृष्टेश्च पृथिवीं ततः ।।
अन्नभावं पृथिव्याऽतस्ते समायान्ति भूमिगाः ।। १५४ ।।

घटी­य­न्त्र­व­द­श्रान्ता एवमेव पुनः पुनः ।।
परिवर्तन्ति संसारे कर्म­वा­यु­स­मी­रिताः ।। १५५ ।।

दक्षिणस्य पथो व्याख्या यथावदनुवर्णिता ।। १५६ ।।
यथोक्तलक्षणौ ये तु पन्था­ना­वु­त्त­रे­तारौ ।।
न विदुस्ते भवन्तीह कीटाद्या दुःखभोगिनः ।। १५७ ।।

नाऽऽद्रियन्त इदं ज्ञान­मु­द­ङ्भा­र्गा­प्ति­सा­ध­नम् ।।
कर्म वा पितृयाणाप्तौ ते कीटा­द्या­मि­यु­र्ग­तिम् ।। १५८ ।।

गोमयाद्युद्भवाः कीटाः पतङ्गाः शलभास्त्था ।।
दंशाश्च मशकाश्चैव दन्दशूकाः सपन्नगाः ।। १५९ ।।

यतिथ्यामिति यः प्रश्नः स पुंजन्मोक्तितो गतः ।।
तदनन्तरमेवोक्ता व्यावृत्तिश्च पथोर्द्वयोः ।। १६० ।।

आका­शा­द्य­भि­सं­भूत्या पुनरावर्तनं गतम् ।।
देवयानं च यत्कृत्वा पितृयाणं च लभ्यते ।। १६१ ।।

साधनं तदपीहोक्तं ज्ञान­क­र्म­स्व­ल­क्ष­णम् ।।
लोकस्यापूरणे हेतुः समाप्तावुदितः स्फुटः ।। १६२ ।।

कीटा­दी­ना­म­ग­म­ना­द्ग­तानां चाऽऽगतेस्तथा ।।
एवं पञ्चापि निर्णीताः प्रश्ना ये प्राक्प्र­चो­दिताः ।। १६३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके षष्ठाध्यायस्य द्वितीयं ब्राह्मणम्

वित्तं विना न सिद्धिः स्याद्दृ­ष्टा­दृ­ष्टा­र्थ­क­र्मणः ।।
यतोऽतः कर्म सन्थाख्यं ताद­र्थ्ये­ना­भी­धी­यते ।। १ ।।

पितुर्लोक्यो यथा पुत्रः कर्मणेहोपजायते ।।
तादृ­क्पु­त्रा­र्थिनः कर्म त्वेषा­मि­त्या­दि­नो­च्यते ।। २ ।।

यः स्यात्का­म­ग्र­ह­ग्रस्तो वित्ता­प­त्यो­द्भवं प्रति ।।
तं प्रत्येवेति विज्ञेयं कर्मेदं न त्वकामिनम् ।। ३ ।।

प्राप्नुयां समुहद्वित्तमिति यः कामयेत ह ।।
इत्यु­क्त्याऽ­वा­प्ता­वि­त्तस्य नेदं कर्मेति गम्यते ।। ४ ।।

मह­त्त्व­मा­त्म­नोऽ­त्यर्थं यो वा कामयते गृही ।।
महत्ता न विना वित्तं कर्मातो वित्तसिद्धये ।। ५ ।।

कालो विधीयते चास्य मन्थाख्यस्येह कर्मणः ।।
श्रुत्यो­द­ग­य­ना­द्युक्त्या कर्मसिद्ध्यै प्रयत्नतः ।। ६ ।।

प्रार्थनीयः पुरा कालो विशु­द्धि­श्चाऽऽ­त्म­न­स्ततः ।।
द्रव्या­ण्यो­ष­ध­य­श्चैव देशश्च तदनन्तरम् ।। ७ ।।

कालादीनां गुणानां च कर्म­ण्य­स्मि­न्स­मु­च्चयः ।।
न विक्ल्पः समृद्धिः स्यात्क­र्म­णोऽस्य समुच्चितौ ।। ८ ।।

कर्मणश्चास्य निष्पत्तौ विद्वत्ताऽपि समश्रिता ।।
यतोऽतः सूत्रितं नेदं सूत्र­कृ­द्भि­र्य­थो­दि­तम् ।। ९ ।।

यो ह वै ज्येष्ठ­मि­त्युक्त्या विद्वत्ता या पुरोदिता ।।
तस्यां सत्यामिदं कर्म ज्येष्ठा­ये­त्या­दि­लि­ङ्गतः ।। १० ।।

भूमिशय्या पयःपानं ब्रह्मचर्यं च वाग्यमः ।।
उप­स­द्व्र­त­मे­त्स्या­द­मा­वा­स्येति लिङ्गतः ।। ११ ।।

अग्नि­मि­त्ये­क­व­च­ना­त्त­थै­वो­ल्ले­ख­ना­दितः ।।
न मुख्योपसदामत्र संभवोऽस्तीति गम्यते ।। १२ ।।

ताम्रं नौदुम्बरं ग्राह्य­मि­ध्मै­स्तस्य विरोधतः ।।
वानस्पत्यमतो ग्राह्यं कर्मण्यौदुम्बरं श्रुतौ ।। १३ ।।

ग्राम्याणि दश धान्यानि फलपुष्पाणि सर्वतः ।।
अप्रमादकाणीह भक्ष्यमेध्यानि यानि च ।। १४ ।।

दशेति नियमार्थं स्यान्न ततोऽन्यनिषेधने ।।
भूरि­दो­षो­प­दु­ष्ट­त्वा­त्प­रि­सं­ख्या­वि­धे­रिति ।। १५ ।।

कंसा­द्या­का­र­सि­द्ध्यर्थं कंसा­द्यु­क्ति­रि­हो­च्यते ।।
तण्डु­ला­न्फ­ल­पु­ष्पाणि पष्ट्वा पात्रे निधापयेत् ।। १६ ।।

दध्ना च मधुना पिष्टं सम्यगालोड्य पात्रगम् ।।
स्थाप­ये­त्कृ­त­रक्षं सच्छुचौ देशे प्रयत्नतः ।। १७ ।।

परीत्यादिगिरा चात्र देशसंस्कार उच्यते ।।
संस्कृते भूप्रदेशेऽथ ह्यग्निं संस्थापयेद्गृही ।। १८ ।।

लेपनादि च कर्तव्यं कृतपूर्वेऽपि तद्विधेः ।।
इति काती­य­व­च­न­म­दृ­ष्टा­र्थ­त्व­का­र­णात् ।। १९ ।।

पाकयज्ञविधानेन संस्कृ­त्याऽऽज्यं यथाविधि ।।
पुंसा हस्तादिनर्क्षेण मन्थमानीय सिद्धये ।। २० ।।

खजकेनैकधीकृ्त्य मन्थद्रव्यमतः परम् ।।
आवापस्थान आज्यस्य हुत्वा नित्याहुतीस्ततः ।। २१ ।।

यावन्त इत्युपक्रम्य मन्त्रैराज्यं यथाक्रमम् ।।
हुत्वा हुत्वा च मन्थेऽथ संस्रवं प्रक्षि­पे­न्मुहुः ।। २२ ।।

स्वाहा­का­रा­व­सानाः स्युर्मन्त्राः सर्वे यथोदिताः ।। २३ ।।
मन्त्रद्वयेन ज्येष्ठादौ होमः कार्यो विजानता ।।
अग्न्यादावेकशः कार्यो याव­न्म­न्था­व­म­र्श­नम् ।। २४ ।।

अथ स्विष्ट­कृ­द­न्तेऽ­स्मि­न्हो­मा­न­न्त­र­मेव तत् ।।
द्वितीयेन मथाऽऽलोड्य ह्यथाभिमृशति पाणिना ।। २५ ।।

भ्रमसीत्यादिना मन्थं स्मरं­स्त­द्दे­वतां हृदा ।।
भ्रमसि प्राणभूतस्त्वं न ह्येक­त्रा­व­ति­ष्ठमे ।। २६ ।।

ज्वल­ज्जा­ज्व­ल्य­मा­नस्त्वं जठ­र­स्था­न्न­पा­क­कृत् ।।
पूर्णं च सर्वतोव्यापि सर्व­त्रा­न­व­ख­ण्डि­तम् ।। २७ ।।

प्रस्तब्धोऽसि स्थिरत्वाच्च वियद्वन्न विकम्पसे ।। २८ ।।
सर्व­तोऽ­प­रि­प­न्थि­त्वा­त्स­र्वै­श्चा­प्य­नु­कू­लतः ।।
त्वमे­क­श­फ­मि­त्युक्तं शफैका या त्वदात्मिका ।। २९ ।।

उद्गात्रा हिंकृतं पूर्वं स्तोत्र­मू­द्गा­यता स्फुटम् ।।
यज्ञारम्भे तदा मध्ये गीयमानेऽथ सामनि ।। ३० ।।

अपि हिंक्रियमाणोऽसि तथोद्गीथे विनिर्दिशेत् ।।
श्रावि­तोऽ­ध्व­र्युणा च त्वमग्नीधा च तथोत्तरम् ।। ३१ ।।

आर्द्रे मेधोदरे विद्यु­त्सं­दी­प्तोऽ­सीति कथ्यते ।।
विविधं त्वमेव भवसि यतोऽतो विभुरुच्यते ।। ३२ ।।

सोमो वृष्ट्यादिभावेन प्रभुः प्रभवसीत्यतः ।।
आदित्यः प्राणभावेन ह्यन्नभावेन सोमता ।। ३३ ।।

अन्नान्नादद्वयं सर्वं त्वमेव तदपि प्रभो ।।
निधनं कारणत्वात्त्वं कारणे कार्यसंलयः ।। ३४ ।।

वाग­ग्न्या­द्या­त्म­सं­पा­ता­त्सं­व­र्गोऽ­सीति भण्यते ।।
इति मन्त्रः समा­प्तोऽ­य­म­भि­म­र्श­न­क­र्मणि ।। ३५ ।।

अथैनं मन्त्रपूतं सदुद्यच्छति यथोदितम् ।।
आमं­सी­त्या­दि­म­न्त्रेण तद­र्था­वि­ष्कृ­ति­स्त्वि­यम् ।। ३६ ।।

आमंसीति भवेद्रूपं ज्ञानार्थस्यैव मन्यतेः ।।
लेट्या­ङ्पू­र्वस्य संसिद्धं शब्लु­की­त्य­व­धा­र­णात् ।। ३७ ।।

आस­म­न्ता­द्वि­जा­नासि सूक्ष्मादि जगति स्थितम् ।।
ज्ञेयं याव­ज्ज­ग­त्किं­चि­दा­मं­सीति ततः सदा ।। ३८ ।।

यथाऽस्मांस्त्वं विजानासि तथैव त्वां वयं सदा ।।
मन्यामहे वरीयांसं गुणवद्भ्यो गुणाधिकम् ।। ३९ ।।

महि महत्त्वं जानीम आमोऽसि त्वं तथा प्रभो ।।
न त्वं पाक­स­मा­यो­गा­त्फ­ल­व­न्ना­श­मृ­च्छसि ।। ४० ।।

आमोऽपकं त्वयि गतं महत्त्वमपि भण्यते ।।
यस्माद्राजाऽस्य सर्वस्य मां च देवः स सर्वदा ।। ४१ ।।

राजानं च तथेशानं करोत्वधिपतिं च माम् ।।
उद्यम्यानेन मन्त्रेण भक्षयत्यथ भागशः ।। ४२ ।।

गायत्र्या मधुमत्या च व्याहृत्या चेति पादशः ।।
ग्रासमश्नाति मन्थस्य ह्युत्तरेषु तथैव च ।। ४३ ।।

सवि­तु­स्त­द्व­रेण्यं स्याद्भर्गमन्नं महात्मनः ।।
ऋतायन्ते तथा वाता मधुवत्सुखकारिणः ।। ४४ ।।

अनुद्वेगकरा हृद्या ऋतायन्ते वहन्ति च ।।
अमृतं मधु नद्योऽपि मदर्थं सर्वदा शुभम् ।। ४५ ।।

तृप्ता मोदामहे येन क्षरन्तीति क्रियापदम् ।।
अत्यर्थं मधुररसाः सन्तु ह्योषधयश्च नः ।। ४६ ।।

त्रिकमुच्चार्य भूः स्वाहेत्याहुतिं प्रक्षिपेन्मुखे ।।
त्रिकं त्रिकं तथोच्चार्य ह्युत्तर्ष्वपि योजयेत् ।। ४७ ।।

देवस्य द्योतनवतो हृद्यं यच्चिन्तयेमहि ।।
मधु नक्तमथो रात्रिर्मधुरा दुःखहानिकृत् ।। ४८ ।।

उषसो दिवसस्यापि माधुर्यं नोऽस्तु सर्वदा ।।
पार्थिवं च रजो लोको ह्लाद­कृ­न्म­धु­मां­स्तथा ।। ४९ ।।

द्युलोकः पितृलोकोऽथ पिता हि द्यौर्यतो मतः ।।
भुवः स्वाहेति मन्थस्य द्वितीयामाहुतिं क्षिपेत् ।। ५० ।।

धियः प्रचोदयेद्यो न उद्य­न्प्र­ज्ञे­न्द्रि­याणि च ।।
प्रचोदयतु नो देवः श्रेयसे सर्वदाऽऽत्मनः ।। ५१ ।।

वनस्पतिस्तथा चन्द्रः सूर्यस्तु मधुरोऽस्तु नः ।।
गावो दीधितयः सन्तु मधुमत्यो दिशोऽथवा ।। ५२ ।।

स्वः स्वाहे­त्या­हु­ति­क्षेपः समस्तां व्याहरेत्ततः ।।
सावित्रीं मधुमतीश्चैव तिस्रोऽपि व्याहृतीस्तथा ।। ५३ ।।

चतुर्थीं प्रक्षि­पे­दे­व­मा­हुतिं पूर्ववन्मुखे ।।
अहमेव जगत्सर्वं भूयासमिति निर्ब्रुवन् ।। ५४ ।।

स्मार्तमाचमनं त्वन्ते प्राय­त्या­र्थ­मि­हो­च्यते ।।
अग्नेः पश्चिमतोऽथान्ते प्राक्शिराः संविशेत्ततः ।। ५५ ।।

प्रत्यूषसि ततो भक्त्या ह्यादि­त्य­मु­प­ति­ष्ठते ।।
वक्ष्यमाणेन मन्त्रेण ह्युपासीत रविं सदा ।। ५६ ।।

एकपुण्डरीकमिति प्रधानत्वं विवक्षितम् ।।
एकशब्देन नो संख्या यथैकः श्वेतवाहनः ।। ५७ ।।

दिशां यद्व्प्र­धा­नस्त्वं मनुष्याणां तथा ह्यहम् ।।
भवेयं त्वत्प्र­सा­दाद्भोः स्फीतः पुंभोगसाधनैः ।। ५८ ।।

यथे­त­मे­त्या­थाऽऽ­सीनः पश्चादग्नेः समाहितः ।।
तं हैतमिति यत्नेन वंशं जपति भक्तितः ।। ५९ ।।

तं हैतं मन्थं यत्नो­क्त­मु­द्दा­ल­त­नयः सुधीः ।।
उक्त्वाऽथ याज्ञवल्क्याय तं प्रोवाचाय विस्मितः ।। ६० ।।

मन्थं शुष्केऽपि यः स्थाणौ निषि­ञ्चे­दु­क्त­सं­स्कृ­तम् ।।
जायेरन्नेव तच्छाखाः प्ररो­हे­यु­र्द­लानि च ।। ६१ ।।

यादृगर्थोऽस्य वचस उत्तरेष्वपि तादृशः ।।
चतु­रौ­दु­म्ब­रो­क्त्यर्थो व्याख्यातः पूर्वमेव तु ।।
सुखावबोधतश्चैव स्वयमेव प्रतीयताम् ।। ६२ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके षष्ठाध्यायस्य तृतीयं ब्राह्मणम्

एषामिति नृबीजस्य स्तुतिरुक्त्या विवक्ष्यते ।।
प्रतिष्ठां कल्पयानीति यस्यां पुंस्त्वं प्रपद्यते ।। १ ।।

शुक्रं निषिक्तं यत्रेदं पुरुषत्वं निगच्छति ।।
प्रतिष्ठां तादृशीमीशः प्रजा­प­ति­र­ची­क्लृ­पत् ।। २ ।।

स्रियं ससर्ज तद्योग्यां मधुकाण्डे यथोदिताम् ।।
सृष्ट्वाऽथाधः प्रदेशे तामुपास्ते ग्राम्यधर्मतः ।। ३ ।।

अपत्योत्पत्तये स्रीणामधोदेशं प्रजापतिः ।।
प्रागु­पा­सि­त­वा­न्य­त्ना­दु­पास्यं तेन तत्ततः ।। ४ ।।

सोमा­भि­ष­व­रू­प­त्व­क्लृ­प्त­येऽ­था­धु­नो­च्यते ।।
एतं ग्रावा­ण­व­च्छि­श्न­मु­द­पा­र­य­दा­त्मनः ।। ५ ।।

प्राञ्चं कृत्वाऽथ तं शिश्नं यथैवाभिषवोपलम् ।।
एकीभावेन तं नार्यां यत्ना­त्स­मु­प­वे­श­येत् ।। ६ ।।

तथाभूतेन ग्राव् णैतां स्रिय­म­भ्य­सृ­ज­न्मुहुः ।।
आत्मनः पुरुषार्थाय यथोक्तोपासनं भवेत् ।। ७ ।।

यस्यां प्रजननं पुंसा स्रिया­म­भ्य­न्त­री­कृ­तम् ।।
तस्या वेदिरुपस्थः स्यादूर्वोरुपरि दर्शनम् ।। ८ ।।

बर्हिस्तज्जानि लोमानि चर्माधिषवणे तथा ।।
चर्मेहाऽऽनडुहं पश्ये­त्सो­मा­भि­ष­व­सि­द्धये ।। ९ ।।

फलके चाधिषवणे यथासंख्येन निर्दिशेत् ।। १० ।।
यो योन्यन्तर्गतो देशः समिद्धश्चर्म निर्दिशेत् ।।
तद्देशमभितस्तौ यौ मुष्कौ तौ वृषणाविति ।। ११ ।।

लोकः स्याद्वाजपेयेन यजमानस्य मानतः ।।
तावन्तं लोकमाप्नोति यावन्तं वाजपेयतः ।। १२ ।।

अन्नानि संभ्रियन्ते हि दश सप्त च भागशः ।।
वाजपेये क्रतावन्नकामस्य स विधीयते ।। १३ ।।

रेत­सोऽ­न्न­र­स­स्यैव यत्रा­न्ना­हु­ति­री­क्ष्यते ।।
वाज­पे­या­भि­सं­प­त्स्या­न्मै­थु­ना­ख्य­क्र­तो­रतः ।।

सामान्यादिति विज्ञेयं वाज­पे­य­फ­ला­र्थि­नाम् ।। १४ ।।
स्रीणां च सुकृतं वृङ्के सर्व­मा­व­र्ज­ये­च्छु­भम् ।।
अधोपहासं यो विद्वा­न्य­थो­क्त­मु­प­से­वते ।। १५ ।।

अनेवंविदुषः पुण्यं सुकृतं वृञ्जते स्रियः ।।
मैथ­नो­प­नि­ष­त्त­त्त्व­मे­तद्ध स्माऽऽह भावितः ।। १६ ।।

सर्व­दै­वाऽऽ­हु­ती­र्वि­द्वा­ञ्जु­हो­त्य­श्न­न्नपः पिबन् ।।
उपगच्छन्स्रियं तद्व­दा­रु­णि­र्गो­त्रतः किल ।। १७ ।।

ब्राह्मणा जातिमात्रेण स्रीभि­र्हृ­त­शु­भा­गमाः ।।
उक्तं विधिमजानन्तो म्रियन्ते मैथुने रताः ।। १८ ।।

बह्वेतदिति विज्ञेयं प्रयोजनबहुत्वतः ।।
रेतः स्कन्दति यत्सुप्तौ जाग्रतो वाऽपि कामिनः ।। १९ ।।

हस्तेनाऽऽलभ्य तद्रेतः पश्चा­च्चा­प्य­नु­म­न्त्र­येत् ।। २० ।।
यदद्य मेऽपतद्रेत ओषधीरसरच्च यत् ।।
अपोऽ­ग­च्छ­त्स्व­योनिं च तदहं भूय आददे ।। २१ ।।

अभिमर्शनस्य यो मन्त्रो ग्रहणस्य स एव तु ।।
पुनर्मामैतु तद्रेतो विज्ञानं तेज उच्यते ।। २२ ।।

सौभाग्यं पुनरग्निः स्यः परिशिष्टाश्च देवताः ।। २३ ।।
प्रका­श­क­त्वा­त्स­र्वासां धिष्ण्या­श्चा­प्य­ग्नयो मताः ।।
गमयन्तु यथास्थानं देवा अग्न्यादयो मम ।। २४ ।।

अङ्गु­ष्ठा­ना­मि­काभ्यां तद्रेत आदाय चाऽऽत्मनः ।।
स्तनौ भ्रुवौ वा निमृजेन्मध्ये च स्तनयोस्तदा ।। २५ ।।

रेतःस्वयोनावुदक आत्मानं चेत्प्रमादतः ।।
पश्येन्मन्त्रेण तत्तो­य­म­ने­नै­वा­नु­म­न्त्र­येत् ।। २६ ।।

मयि तेजोऽस्तु विज्ञानमिति रेतोऽभिधीयते ।।
विशि­ष्टा­प­त्य­हे­तु­त्वा­ज्ज­पे­देवं तथोत्तरे ।। २७ ।।

उद्गतं मल­व­द्वा­स­श्च­तु­र्थेऽ­हनि यत्स्रियाः ।।
तां मलोद्वाससं पत्नी­मा­हु­स्त­त्क­र्म­का­रिणः ।। २८ ।।

गुणा­ढ्या­प­त्य­फ­ल­व­त्पु­ष्प­भू­त­त्व­का­र­णात् ।।
मलवद्वाससं प्राहुः श्रियं श्रीहेतुतः स्रियम् ।। २९ ।।

चतुर्थे दिवसे स्नातां गत्वा तामुपमन्त्रयेत् ।।
आत्म­नोऽ­भि­मु­खी­भावे वाग्य­त्नोऽ­त्रो­प­म­न्त्र­णम् ।। ३० ।।

प्रेम्णो­प­म­न्त्रि­ताऽ­प्यस्मै पत्ये दद्यान्न चेदसौ ।।
वस्रा­भ­र­ण­भो­गा­द्यै­रा­त्मनो वशमानयेत् ।। ३१ ।।

तथाऽप्युक्ता न चेद्द­द्या­द्ब­लात्तां वशमानयेत् ।।
उपे­या­त्ता­म­ति­क्रम्य शापदानाय रोषितः ।। ३२ ।।

इन्द्रियेण त इत्या­दि­म­न्त्रे­णाथ शपेद्रुषा ।।
पतिशापादपुत्रा सा वशमाशु भवेत्तदा ।। ३३ ।।

शप्स्यामि त्वामिति ह्युक्त्वा वशं तामानयेत्पतिः ।।
दद्या­च्छा­प­भ­यात्सा चेदनुलोमं तदाऽऽचरेत् ।। ३४ ।।

अथ शाप­भ­या­द्द­द्या­त्पत्ये कामितमादरात् ।।
तदा निवर्तयेच्छापं मन्त्रेणानेन सत्पतिः ।। ३५ ।।

पुरुषद्वेषिणीं भार्यां पति­श्चे­द­भि­का­म­येत् ।।
मामियं कामयेतेति कुर्यात्तस्या इमं विधिम् ।। ३६ ।।

उक्तमन्थविधानेन चरितव्रत एव सन् ।।
उत्तरेष्वपि कार्येषु सर्वं तदनुवर्तयेत् ।। ३७ ।।

स्रीलक्षणे प्रवे­श्या­न्त­रा­त्मीयं पुंस्त्वलक्षणम् ।।
वक्त्रं वक्त्रेण संधाय स्पृष्ट्वोपस्थं जपेदथ ।। ३८ ।।

अङ्गा­द­ङ्गा­त्सं­भ­वसि जग्धा­न्न­प­रि­णा­मतः ।।
रसा­च्छो­णि­त­मि­त्या­दि­क्र­मा­च्छु­क्र­तया मम ।। ३९ ।।

शुक्रप्रवहया नाड्या हृद­या­च्चा­भि­जा­यसे ।।
स त्वमङ्गकषायोऽसि दिग्धविद्धां मृगीमिव ।।
स्नेहो­प­रो­धा­दे­वैतां पत्नीं मे वशमानय ।। ४० ।।

मा बिभ­र्ग­र्भ­मि­त्ये­मथ यां कामयेत सः ।।
रूपभ्रंशो हि भवति यतो गर्भस्य धारणे ।। ४१ ।।

तथा यौवनहानिश्च तस्मादेवं स कामयेत् ।।
तस्यां स्वमर्थं निष्ठाय मुखेनेत्यादि पूर्ववत् ।। ४२ ।।

प्राण्याऽऽदौ रेचकं कृत्वाऽ­पा­न­ये­त्त­द­न­न्त­रम् ।। ४३ ।।
निषिक्तमपि तद्रेतः प्राणवृत्त्या यथाविधि ।।
अपानवृत्त्या तद्ध्व­स्त­मि­त्ये­त्क­र्मणः फलम् ।। ४४ ।।

इन्द्रियेण त इत्या­दि­म­न्त्रोक्त्या तां परामृशेत् ।। ४५ ।।
इन्द्रियेणैव त्वद्रेतो रेतसा आदेदे स्वयम् ।।
अरेता एव सा स्री स्यादेवं पत्याऽ­भि­म­न्त्रिता ।। ४६ ।।

दधीत गर्भमित्येवं यामि­च्छे­त्प­ति­र­ङ्ग­नाम् ।।
तामपान्य प्रयत्नेन प्राण्या­न्म­न्त्रेण कारयेत् ।।
इन्द्रियेण त इत्युक्त्या आदधामीति सत्पतिः ।। ४७ ।।

अथाऽऽभिचारिकं कर्म प्रस­ङ्गा­द­भि­धी­यते ।।
उपायत्वेन विज्ञप्त्यै श्येनवन्न विधीयते ।। ४८ ।।

अथ यस्य गृहस्थस्य पत्न्या जारो भवेत्कचित् ।।
तं चेद्दूि­ष्या­द्रु­षै­वै­ना­मा­र­भेत तदा क्रियाम् ।। ४९ ।।

न ह्यद्वि­ष्ट­म­न­स्कस्य कर्मै­त­त्सि­द्धि­म­श्नुते ।।
अतोऽ­धि­का­रि­वि­ज्ञप्त्यै द्विष्यादिति विशेषणम् ।। ५० ।।

आम­पा­त्रेऽ­ग्नि­मि­त्युक्त्या ह्यभि­चा­रा­ख्या­क­र्मणः ।।
योग्य­तै­वाऽऽ­म­पा­त्रस्य भिंदु­र­त्व­स­म­न्व­यात् ।। ५१ ।।

यथाऽऽमं भिदुरं पात्रमप्सु सद्यो विलीयते ।।
प्राप्तजारोऽपि मे शत्रु­स्त­थै­वाऽऽशु विदीर्यताम् ।। ५२ ।।

अग्नि­मि­त्ये­क­व­च­ना­दु­ल्लि­ख्या­देश्च लिङ्तः ।।
आव­स­थ्या­ग्नि­नि­र्देशो न तु त्रेता­ग्नि­सं­ग्रहः ।। ५३ ।।

प्रति­लो­म­म­व­स्तीर्य कर्मणः प्रतिलोमतः ।।
शरबर्हिः प्रयत्नेन विद्वा­न्रो­ष­स­म­न्वितः ।। ५४ ।।

तस्मिन्नग्नौ शरेषीका घृताक्ता जुहुयादथ ।।
जारस्य दोषं प्रंख्याप्य मन्त्रेणानेन सत्वरः ।। ५५ ।।

मम स्वभूते योषाग्नौ समिद्धे यौवनादिना ।।
शुक्राहुतिं यतोऽहौषीरेष तेऽत्र व्यतिक्रमः ।। ५६ ।।

आद­देऽ­तोऽ­प­रा­धात्ते प्राणापानौ जिजीविषोः ।।
फट्कारेणैव जुहु­या­च्छ­र­भृ­ष्टी­र्य­थो­दिताः ।। ५७ ।।

तथा पुत्रा­न्प­शूं­श्चैव आददे तेऽद्य कामुक ।।
श्रौतमिष्टिं विजा­नी­या­त्स्मार्तं सुकृतमित्यपि ।। ५८ ।।

श्रौतं स्मार्तं च यत्किं­चि­त्पुण्यं कर्म त्वया कृतम् ।।
तत्सर्वं त आददेऽहमाहुतिं प्रक्षिपेद्रुषा ।। ५९ ।।

प्रार्थनाऽऽशेति विज्ञेया पराकाशा प्रतीक्षणम् ।।
आदानान्तो भवेन्मन्त्रः सर्वत्रैवं विनिर्दिशेत् ।। ६० ।।

वाङ्भात्रेण प्रतिज्ञातं कर्मणा नोपपादितम् ।।
तत्प्र­ती­क्ष­ण­मा­काङ्क्षा पराकाशेति भण्यते ।। ६१ ।।

स वा इत्यादिनाऽथास्य फलमुक्तस्य कर्मणः ।।
भण्यते वचसोक्तस्य निरि­न्द्रि­य­पु­रः­स­रम् ।। ६२ ।।

निःशे­ष­पु­रु­षा­र्था­प्ति­लो­प­कृ­त्कर्म वर्णितम् ।।
जायया मैथुनाख्यं यच्छ्रोत्रियस्य विपश्चितः ।। ६३ ।।

उपहासमतो नेच्छेत्सार्धं श्रोत्रियजायया ।।
मैथुनं तु विशेषेण ह्युक्ता­न­र्थ­जि­हा­सया ।। ६४ ।।

कर्माऽऽभिचारिकं प्रोक्तं प्रसङ्गान्न प्रधानतः ।।
यदर्थस्तु प्रयासोऽयं तत्कमार्थ प्रपञ्च्यते ।। ६५ ।।

यस्य मन्थविधिज्ञस्य जायां चेदार्तवं व्रजेत् ।।
तिस्रो रात्रीर्न कांस्येन पानं कुर्या­त्त­थाऽ­श­नम् ।। ६६ ।।

तथैवाहतवासाः स्यादहःस्वेतुषु शुद्धधीः ।।
वृषलो वृषली वैनां नोपहन्यात्कदाचन ।। ६७ ।।

अन्यो वा पाप­कृ­त्क­श्चि­त्स्प­र्श­सं­भा­ष­णा­दिभिः ।।
व्रतस्था नोप­ह­न्या­त्ता­म­भी­प्सि­त­फ­ला­प्तये ।। ६८ ।।

सा त्रिरात्रान्त आप्लु­त्या­ह­त­वासाः शुचिः सती ।।
श्रपणाय चरोर्भर्ता व्रीहीं­स्ता­म­व­घा­त­येत् ।। ६९ ।।

शुक्लो गौरोऽत्र विज्ञेयः शुक्लो वा बलदेववत् ।।
सुव्या­ख्ये­य­त्वतः शेषः स्वय­मे­वा­वा­ग­म्य­ताम् ।। ७० ।।

क्षीरौदनं तयैवाथ पाचयित्वा स्वयं पतिः ।। ७१ ।।
दंपती घृतवन्तं तम­श्नी­या­ता­म­थौ­द­नम् ।।
स्वत­न्त्रा­वी­श्वरौ स्यातां सत्पुत्रप्रसवाय तौ ।। ७२ ।।

यथो­क्त­पु­त्र­प्र­सवे यदि वा क्षिप्रकारिणौ ।।
यथोक्तकर्मणैतेन स्यातां तावेव दंपती ।। ७३ ।।

दुहता पण्डितेत्यत्र स्रीणा­मु­चि­त­क­र्मसु ।।
तत्पाण्डित्यमिह ज्ञेयं न तु वेदार्थगोचरम् ।। ७४ ।।

विजिगीतो जग­त्य­स्मि­न्न­त्यर्थं यो विशब्दितः ।।
विद्वत्सभा च समि­ति­स्त­द्योग्यः समितिंगमः ।। ७५ ।।

प्रकृतायां त्रिसंख्यायां सर्व­श­ब्द­प्र­यो­गतः ।।
प्रतीयाच्चतरो वेदा­न्स­र्व­श­ब्दा­र्थ­वि­त्तये ।। ७६ ।।

तण्डु­ला­न्मां­स­सं­मि­श्रा­न्प­कत्वा मांसौदनं विदुः ।।
उक्षा सेचनशक्तो गौः स एव ऋषभो महान् ।। ७७ ।।

प्रसि­द्ध्य­सं­भ­वा­त्त्वद्य ह्युक्तं मांसौदनं प्रति ।।
मांसं कृष्ण­मृ­ग­च्छा­ग­वि­षयं त्वद्य कुर्वते ।। ७८ ।।

यत्नेनोपार्जितं तच्चेत्क्रीत्वा वा मांसमाहरेत् ।।
हिंसायाः प्रति­षि­द्ध­त्वा­त्प­शू­न्ह­न्यान्न तु स्वयम् ।। ७९ ।।

अथशब्दो विकल्पार्थो यथोक्तानां यथारुचि ।।
काम्यानां ह्यन्यतम् पक्षमाश्रित्य भण्यते ।। ८० ।।

आरभ्योद्गमने भानोः सर्वं स्नानाद्यशेषतः ।।
निर्वर्त्य संस्कारमथ यत्नात्प्राग्य उदाहृतः ।। ८१ ।।

स्थालीपाके क्रिया या सा चाऽऽवृ­दि­त्य­भि­धी­यते ।।
स्थाली­पा­क­वि­धा­नेन संस्कृ­त्याऽऽज्यं तथैव तु ।। ८२ ।।

उप­ल­क्ष­ण­म­न्ये­षा­मा­ज्यस्य ग्रहणं भवेत् ।।
आदिशब्दस्य वा लोपा­गा­ज्या­दि­मिति गम्यताम् ।। ८३ ।।

उपहत्येपहत्याथ स्थालीपाकस्य मन्त्रतः ।।
नित्या­स्त­त्राऽऽ­हु­ती­र्हुत्वा आवापस्थान आदरात् ।। ८४ ।।

प्रधा­ना­हु­त­य­स्तिस्रो याः स्युर­ग्न्या­दि­पू­र्विकाः ।।
हुत्वा स्विष्टकृदन्तं तत्समापय्य यथोदितम् ।। ८५ ।।

कर्मेदं तत उद्धृत्य चरुं स्थाल्याः समाहितः ।।
सर्पि­ष्म­न्त­म­था­श्नी­या­त्का­मि­ता­र्था­नु­रो­धतः ।। ८६ ।।

चरुं प्राश्य स्वयं शेषं भार्यायै संप्रयच्छति ।।
उच्छिष्टमेव भार्यायै चरुं भर्ता प्रयच्छति ।। ८७ ।।

पाणी प्रक्षाल्य यत्नेन सामर्थ्यादेव गम्यते ।।
स्मार्तमाचमनं शुद्ध्यै पाणि­प्र­क्षा­ल­नो­क्तितः ।। ८८ ।।

उदपात्रमथाऽऽदाय तदद्भिस्रिः सुताप्तये ।।
वक्ष्यमाणेन मन्त्रेण जायाे­म­भ्यु­क्ष­ये­न्मुहु ।। ८९ ।।

अतोऽ­स्म­दी­य­दा­रेभ्य उत्थायान्यत आव्रज ।।
विश्वा­व­स्व­भि­धा­नेन गन्धर्वोऽत्र प्रबोध्यते ।। ९० ।।

प्रपूर्व्यामिति नार्यत्र भण्यते तरुणी किल ।।
प्रपूर्वी पीवरीमन्यां याहि विश्वावसो द्रुतम् ।। ९१ ।।

प्रपूर्व्यामिति लिङ्गाच्च तरुण्यां सत्पतिः सदा ।।
यथोदितं कर्म सत्यां कुर्या­त्स­त्पु­त्र­ज­न्मने ।। ९२ ।।

अहं तु स्वामिमां जायां समुपैमीति संगतिः ।।
एवं प्रस्थाप्य गन्ध­र्व­म­थै­ना­म­भि­प­द्यते ।। ९३ ।।

अभी­ष्ट­ग­र्भा­धा­नाय जायामालिङ्गते पतिः ।।
अमोऽ­ह­मि­ति­म­न्त्रोक्त्या तावावां देवतात्मकौ ।। ९४ ।।

कर्माऽऽरभावहै देवि सत्सु­तो­त्प­त्ति­सि­द्धये ।।
त्वं चाहं चैव संभूय योनौ रेतो दधावहै ।। ९५ ।।

रेतःक्षेपफलं चाऽऽह पुंसे पुत्राय लब्धये ।।
मन्त्रो­क्त्य­न­न्तरं तस्या विजि­ही­था­मि­ती­र­येत् ।। ९६ ।।

विहापयति मन्त्रेण ऊरू पत्न्याः प्रयत्नतः ।।
ऊर्वोरामन्त्रणं चैत­द्वि­जि­ही­था­मि­ती­क्ष्य­ताम् ।। ९७ ।।

विजिहीतेरिदं रूपं ण्यन्तस्य गतिकर्मणः ।। ९८ ।।
मन्त्रतः पाणिनाऽथैनां त्रीन्वा­रा­न­नु­लो­मतः ।।
अनुमार्ष्ट्यथ तां जायां मन्त्रं विष्णुरितीरयन् ।। ९९ ।।

समर्थनं कल्प­ना­र्थ­स्त्व­ष्टाऽ­व­य­व­श­स्तथा ।।
निर्वर्तयतु रूपाणि शोभनानि सुतस्य मे ।। १०० ।।

दर्शाहर्देवता चेह सिनीवालीति भण्यते ।।
पृथुष्टुकेति सौवोक्ता पृथुस्तुतिरसौ यतः ।। १०१ ।।

गर्भं चे सम्य­गा­धा­त्ता­म­श्विनौ पुष्करस्रजौ ।।
सूर्या­च­न्द्र­म­सा­वेव विज्ञे­या­व­श्वि­ना­विह ।। १०२ ।।

स्वर­श्मि­स्र­ग्विणौ तौ हि प्रसिद्धौ जगति यतः ।। १०३ ।।
हिरण्यं ज्योतिरमृतं तन्मय्यावरणी शुभे ।।
निरमन्थतां याभ्यां तावश्विनावमृतं पुरा ।।। १०४ ।।

अश्विनौ यादृशं गर्भं प्रय­त्ना­न्नि­र­म­न्थ­ताम् ।।
आदधावस्तथा रूपं दशमे मासि सूतये ।। १०५ ।।

यथाऽग्निगर्भा पृथिवी द्यौरिन्द्रेणेव भानुन ।।
वायुर्दिशां यथा गर्भो दृष्टः श्लथनकर्मकृत् ।। १०६ ।।

आत्मनाम समुच्चार्य तथा गर्भं दधामि ते ।।
तस्या वा नाम गृह्णी­या­न्म­न्त्र­मु­च्चा­र­य­न्पतिः ।। १०७ ।।

मन्त्रेणाथैष सोष्य­न्ती­म­द्भि­र­भ्यु­क्ष­ये­च्छनैः ।।
वायुः पुष्करिणीं यद्वत्समञ्जयति चालयेत् ।। १०८ ।।

यथा पुष्करिणीं वायुश्चालयन्नपि सर्वतः ।।
न करोति क्षतिं तद्वद्गर्भ एजतु ते सुखम् ।। १०९ ।।

गर्भस्त्वां सुखयन्नेतु सहोल्बेण जरायुणा ।।
व्रजो मार्गो हि गर्भस्य सार्गलोऽयं कृतः पुरा ।। ११० ।।

जरायुरर्गलस्तं त्वमिन्द्र निर्जहि सत्वरः ।।
गर्भे विनिःसृते पश्चाद्या निर्गच्छति योनितः ।। १११ ।।

मांसपेशी समा तन्वी साऽवरेति निगद्यते ।।
प्राण­श्चे­न्द्रोऽत्र विज्ञेयः स एव प्रार्थ्यते ततः ।। ११२ ।।

जाते कुमारेऽथ पतिरङ्कमारोप्य तं पिता ।।
अग्निं ह्युपसमाधाय प्रसि­द्धा­र्थ­म­था­प­रम् ।। ११३ ।।

घृतं दधि च संमिश्रं पृष­दा­ज्य­मि­ती­र्यते ।।
एकीकृत्याथ संनीय पृषदाज्यस्य मन्त्रतः ।। ११४ ।।

उपधातं जुहोतीति णमु­ल्वाऽऽ­भीक्ष्ण्य इष्यते ।।
उपहत्योपहत्येति पृषदाज्याहुतीः क्षिपेत् ।। ११५ ।।

पुष्यासं स्वे गृहेऽत्राहं मनुष्याणां प्रकामतः ।।
सहस्रसंख्यया शश्वद्बहोर्नाम सहस्रगीः ।। ११६ ।।

एवं त्वं वर्धमानोऽत्र मन्वीथाः पुत्र संततिम् ।।
संततावुपसन्धां त्वां पश्वादेर्मे करिष्यसि ।। ११७ ।।

नैव व्यपेक्षते व्याख्यां स्पष्टार्थत्वेन हेतुना ।।
मयि प्राणानिति ग्रन्थः स्वय­मे­वा­व­ग­म्य­ताम् ।। ११८ ।।

अथास्य स्वमुखे कर्णं दक्षिणं प्रणिधाय तु ।।
वाग्वागिति हि त्रिर्ब्रू­या­त्र्रयी वागिति भण्यते ।। ११९ ।।

त्रयी वाक्त्वां श्रोत्रमार्गेण श्रेयसे प्रविशत्वियम् ।।
यस्ते स्तन इति गिरा शस्यतेऽत्र सरस्वती ।। १२० ।।

उदारगुणसंपत्तिः सुतस्यास्त्विति भण्यते ।।
शशयः सशयो ज्ञेयः शयश्च फलमुच्यते ।। १२१ ।।

गुहा शयो वा शशयः श्रुत्यैव प्रतिपादितः ।।
मयो­भू­र­न्न­भू­तोऽयं सर्व­प्रा­णि­भृ­दु­च्यते ।। १२२ ।।

रत्नस्य पयसोऽत्यर्थं रत्नाधारश्च यः स्तनः ।।
वसुनो धनस्य लब्धा च तस्य वृष्ट्या­दि­हे­तुनः ।। १२३ ।।

भूरि­क­ल्या­ण­दा­तृ­त्वा­त्सु­दत्र इति भण्यते ।।
येन पुष्यसि वार्याणि सर्वाणीह सरस्वति ।। १२४ ।।

देवादीनि वराणि त्वं सर्वैर्भोगैः प्रपुष्यसि ।। १२५ ।।
पानाय मम पुत्रस्य स्त्रीस्तने संनिवेशय ।।
यथोक्तगुणकं देवि स्वस्तनं सर्वकाभदम् ।। १२६ ।।

इलाऽसीत्यथ मन्त्रेण सूनो­र्मा­त­र­मा­द­रात् ।।
अभिमन्त्रयते साधु­क­र्मा­वाप्त्यै स्वयं पतिः ।। १२७ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके षष्ठाध्यायस्य चतुर्थं ब्राह्मणम्

संभावितं न यत्पूर्वं कृत्स्नेऽ­स्मि­न्ब्र­ह्म­णेऽपि तत् ।।
खिलकाण्डे तदखिलं पुत्र­म­न्था­न्त­मी­रि­तम् ।। १ ।।

पूर्व­का­ण्डै­क­दे­श­त्वा­त्खि­ल­काण्डं न वंशभाक् ।।
पूर्वत्र विद्या­सं­भे­दा­द्भिन्नौ वंशाविहोदितौ ।। २ ।।

पूर्वौ­श्च­तु­र्भि­र­ध्या­यै­स्त्वाष्ट्रं कक्ष्यं च यन्मधु ।।
व्याख्यातं तदशेषेण वंशस्तत्र तदर्थभाक् ।। ३ ।।

मधु­क्र­ण्डा­ग­मा­र्थस्य यथा­कृ­ह्म­ति­प­त्तये ।।
काण्डं स्याद्या­ज्ञ­व­ल्कीयं वंश­स्त­द्वि­ष­य­स्तथा ।। ४ ।।

अयं तु वंशो विज्ञेयः कृत्स्न­प्र­व­च­ना­श्रयः ।।
समाप्तौ ब्राह्म­ण­स्यो­क्ते­र­य­म­र्थोऽ­व­सी­यते ।। ५ ।।

उक्त­वे­दा­र्थ­वि­ज्ञा­न­सा­क­ल्य­प्र­ति­प­त्तये ।।
जपो वंशस्य येनातः श्रुत्या वंश इहोदितः ।। ६ ।।

सर्वज्ञानं यतो वंशा­स्र­योऽ­प्येते यथोदिताः ।।
अतस्तत्स्मृतितः सम्य­ग्ज्ञा­न­भा­नू­दयो भवेत् ।। ७ ।।

पुत्रमन्थेन संस्कारः स्रीणामेवेह वर्णितः ।।
यतोऽतः स्रीप्रधानोऽयं पुत्राणां वंश उच्यते ।। ८ ।।

अन्यतोऽन्यत एवायं संप्रदायो यथाऽभवत् ।।
न तथा ब्रह्म­ण­स्त­स्मा­त्त­त्स्व­यं­भ्विति शब्द्यते ।। ९ ।।

अन्येषां वेदतो ज्ञानं भूरि­सा­ध­न­सं­श्र­यात् ।।
स्वतो वेदा­त्म­न­स्त­स्मा­त्स­र्व­ज्ञा­न­मयो हि सः ।। १० ।।

सर्वस्यैष वशीत्यादि तथाऽपि प्रागवादिषम् ।।
परैव देवता वेदो यच्च किंचिच्चराचरम् ।। ११ ।।

प्रति­पा­द्याऽऽ­त्म­नाऽऽ­त्मानं नामरूपादिसाधनः ।।
एति पूर्णात्मतां साक्षाद्धियां वाचामगोचरम् ।। १२ ।।

त्रय्यैव ब्राह्मणो विद्वा­ना­त्म­नै­वा­द्वयं परम् ।।
विदित्वा निर्वृतिं याति कार्यकारणयोः पराण् ।। १३ ।।

वेदोऽसीत्यत एवास्य नाम जातस्य कुर्वते ।।
वेदात्मना कथं नाम परं ब्रह्म प्रपत्स्यते ।। १४ ।।

वाजिशाखासु सर्वासु ह्यासु­रा­य­ण­पू­र्वकाः ।।
समाना वंशर्षयोऽमी ह्या समा­प्ते­रि­ती­क्ष्य­ताम् ।। १५ ।।

आदित्येन हि प्रोक्तानि यजूंष्येतानि यानि तु ।।
आदि­त्या­नी­त्य­त­स्तानि सम्यगाचक्षते बुधाः ।। १६ ।।

वेदात्मनो रवेरेवं संप्र­दा­योऽ­त्र­य­मा­गतः ।।
पर­मे­ष्ठ्या­दि­का­न्स­र्वा­न्पा­रं­प­र्येण मानुषान् ।। १७ ।।

असंसृष्टं परं ब्रह्म सर्व­दो­ष­वि­व­र्जि­तम् ।।
एतदादित्यगं भाति तद्वेदानां परं वपुः ।। १८ ।।

उत्सन्नमपि यद्ब्रह्म तदादित्ये न नश्यति ।।
तदार्षेणैव विन्दन्ति तपस्तप्त्वा महर्षयः ।। १९ ।।

वेदब्रह्मण आरभ्य सर्वेषामपि शाखिनाम् ।।
सांजी­वी­सू­नु­प­र्यन्तो वंश एको न भिद्यते ।। २० ।।

सांजी­वी­पु­त्र­त­स्त्व­र्वा­क्प्र­ति­शाखं पृथक्पृथक् ।।
आचा­र्य­भे­दा­द्भि­द्यन्ते वंशा वाजसनेयिनाम् ।। २१ ।।

इत्यु­क्तै­का­त्म्य­वा­क्य­प्र­वि­क­च­क­मला प्राज्य­स­न्न्या­य­गन्धा
काण्डैश्चित्रा षड­र्धै­र्म­धु­मु­नि­खि­ल­कै­र्म­स्क­री­न्द्रा­लि­जुष्टा ।।
श्लोक­ग्र­न्थ­प्र­ब­द्धाऽ­वि­ष­य­मि­ति­फला प्रेम­स­त्सू­त्र­सूत्रा ।।
माला गङ्गेव शंभुं पदममलमजं वैष्णवं साऽनुयाता ।। २२ ।।

यत्प्र­ज्ञो­द­धि­यु­क्ति­श­ब्द­न­ख­ज­श्र­द्धै­क­स­न्ने­त्रक-
स्थैर्य­स्त­म्भ­मु­मु­क्षु­दुः­खि­त­कृ­पा­य­त्नो­त्थ­बो­धा­मृ­तम् ।।
पीत्वा जन्म­मृ­ति­प्र­वा­ह­वि­धुरा मोक्षं ययुर्मोक्षिण-
स्तं वन्देऽ­त्रि­कु­ल­प्र­सू­त­म­मलं वेधोभिधं मद्गुरुम् ।। २३ ।।

यामस्मद्गुरुरेव वेद­शि­र­सा­मै­का­त्म्य­ता­त्प­र्यतो
वृत्तिं सज्जनशंकरीं सुविमलां नाना­न­यो­द्द्यो­ति­ताम् ।।
चक्रे काण्व­स­मा­श्रि­तो­प­नि­षदो दुस्त­र्क­दो­षा­पहां
श्रद्धा­मा­त्र­ब­लेन वार्तिकमिदं तस्याः समासात्कृतम् ।। २४ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके षष्ठाध्यायस्य पञ्चमं ब्राह्मणम्
इति द्वाद­श­सा­ह­स्र­वा­र्ति­का­मृ­त­मी­रि­तम् ।।
काण्वा­र­ण्य­क­भा­ष्यस्य शांकरस्य समासतः ।।
श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीम­च्छ­क­र­भ­ग­व­त्पू­ज्य­पा­द­शिष्य श्रीम­त्सु­रे­श्व­रा­चा­र्य­कृतौ बृह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्ति­कप्र- स्थने षष्ठोऽध्यायः