बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ षष्ठाध्यायस्य प्रथमं ब्राह्मणम् ॥
समाप्तः सप्तमोऽध्यायः प्राप्तावसर उच्यते ।।
अष्टमः खिलकाण्डेऽस्मिन्पूर्वकाण्डेष्वनुक्तितः ।। १ ।।
गायत्र्याः प्राणभावोक्तिः कस्माद्धेतोः पुरोदिता ।।
न तु वागादिभावोऽस्यास्तत्र हेतुरिहोच्यते ।। २ ।।
ज्येष्ठः श्रेष्ठो यतः प्राणो न तु वागादयस्ततः ।।
प्राणात्मभाव एवोक्त आनन्तर्यार्थमेव तु ।। ३ ।।
उपास्त्यन्तरमेवैतत्फलवत्तु विवक्षितम् ।।
न तूक्तशेषतैतस्या भिन्नोपास्तित्वकारणात् ।। ४ ।।
मन्थकर्मणि ये मन्त्राः पञ्च ज्येष्ठादयः श्रुताः ।।
प्राणात्मवेदिनस्तेषां प्रयोगोऽत्रोपवर्ण्यते ।। ५ ।।
पृथग्वा फलनिर्देशाद्यो ह वा इति पञ्चधा ।।
प्राणविद्या पृथङ्मन्थान्मन्थस्तु महिमार्थिनः ।। ६ ।।
फलेऽन्यस्मिन्ननिर्दिष्टे वाक्यशेषगतं फलम् ।।
तस्मिन्सति हि सद्भावाद्वागादीनां न तं विना ।। ७ ।।
शास्रेणोक्ता शरीरेऽस्मिन्वृत्तिः प्राणस्य जीवनम् ।।
पूर्वमाविशति प्राणो देहं पश्चाच्च मुञ्चति ।। ८ ।।
ज्येष्ठः श्रेष्ठश्च सर्वेषां प्राणानामाश्रयो हि सः ।।
श्रेष्ठता वक्ष्यमाणेन ग्रन्थेनास्य विभाव्यते ।। ९ ।।
अस्मिल्लोँके परस्मिंश्च वागेव न विहन्यते ।।
देहान्तरस्थान्प्राणांश्च नियुङ्के सा ततोऽधिका ।। १० ।।
श्रुतान्मतात्तथोक्ताद्वा प्रमाणं दृष्टिरात्मनः ।।
चक्षुः प्रतिष्ठा ज्ञानानामात्मा तत्र प्रतिष्ठितः ।। ११ ।।
वाग्घि संपद्यते श्रोत्रादश्रुतं न हि भाषते ।।
स्ववृत्तेः परवृत्तेश्च संपच्छ्रोत्रे प्रतिष्ठिता ।। १२ ।।
मन आयतनं तत्र वागादीनां हि वृत्तयः ।।
स्थितास्तत्पूर्विकाश्चैव ध्यायतः साधनंं हि तत् ।। १३ ।।
उपस्थेन्द्रियं प्रजातिः स्यात्तस्य जन्मैकहेतुतः ।।
न हि रेतो विना जन्म प्राणिनोऽत्र समीक्ष्यते ।। १४ ।।
वृत्तीनां प्राणपूर्वत्वाद्व्यपदेशाच्च तत्कृतात् ।।
प्राणानां प्रथमः प्राणः स ह्यत्ताऽन्नं हि तस्य तत् ।। १५ ।।
ते प्राणाः स्वगुणेरुक्तैर्वसिष्ठत्वादिलक्षणैः ।।
श्रेयानस्म्यहमेवेति विवदन्तः परस्परम् ।। १६ ।।
निर्णयार्थाय ते ब्रह्म जग्मुरिन्द्रं प्रजापतिम् ।।
को नो वसिष्ठ इति तं पप्रच्छुर्निर्णयार्थिनः ।। १७ ।।
यस्मिन्व इति वाक्येन वसिष्ठत्वस्य लक्षणम् ।।
प्राणेभ्यः प्राब्रवीद्ब्रह्म पक्षपातभयात्किल ।। १८ ।।
जानन्नपि वसिष्ठादिगुणवत्त्वं यथार्थतः ।।
तथाऽपि नावदद्ब्रह्म स्वानुभूत्यवबुद्धये ।। १९ ।।
उत्क्रान्तेऽन्यतमे यस्मिन्प्रत्येकमपसर्पणे ।।
पापीयो मन्यते लोको वसिष्ठो वः समीक्ष्यताम् ।। २० ।।
अन्वयव्यतिरेकाभ्यां वसिष्ठत्वावबुद्धये ।।
उपास्यार्थपरीक्षायै प्रवृत्तैषा परा श्रुतिः ।। २१ ।।
संहतानां क्रियासिद्धेः करणानां पृथक्पृथक् ।।
नैकैकस्य क्रियासिद्धिः शिबिकोद्वाहवत्ततः ।। २२ ।।
प्राणप्राधान्यसिद्ध्यार्थं श्रुत्याऽऽख्यायिकच्छद्मना ।।
अन्वयव्यतिरेकाभ्यां न्यायो लौकिक उच्यते ।। २३ ।।
यथा मूका विना वाचा यथाऽन्धाश्चक्षुषा विना ।।
इत्यादिवचसा प्राणे सति जीवनमुच्यते ।। २४ ।।
उत्क्रान्तौ च प्रवेशे च ह्यलं दहः स्वकर्मणे ।।
वागादीनां न पातोऽस्य नापि चोत्थानमीक्ष्यते ।। २५ ।।
उत्क्रान्ते प्राण एवास्माच्छरीरं पतति ध्रुवम् ।।
उत्तिष्ठति प्रविष्टे च प्राणः श्रेयांस्ततोऽन्यतः ।। २६ ।।
मामृते जीवितुं यूयं यद्यशक्ताः स्थ सर्वदा ।।
प्रधानं तर्हि मां वित्त भवन्तश्चापराधिनः ।। २७ ।।
करं बलिं प्रधानाय दत्त वागादयोऽचिरात् ।।
इत्युक्तास्ते तथेत्यूचुः सर्वस्वं ददते प्रभोः ।। २८ ।।
त्वद्वसिष्ठतयैवाहं वाग्वसिष्ठेत्युदाहरत् ।।
इत्युक्त्वाऽन्येऽपि सर्वस्वं ददुर्वागादयः सुराः ।। २९ ।।
किमन्नं मे बुभुक्षोः स्याद्वासो वा मे किमीर्यताम् ।।
इति प्राणवचः श्रुत्वा प्रत्यूचुः करणानि तम् ।। ३० ।।
आ श्वभ्यो यदिदं किंचिदा कृमिभ्यश्च लक्ष्यते ।।
अन्नं तद्भवतः सर्वं वयं त्वच्छेषभोगिनः ।। ३१ ।।
जीवः प्राणोऽत्र संसारी भोक्तेन्द्रियमनःपरः ।।
प्राणो ह्येतानि सर्वाणि भवतीति च लिङ्गतः ।। ३२ ।।
तन्मया हीतरे प्राणास्तन्मूलास्तन्निबन्धनाः ।। ३३ ।।
एवंंविदे हि नानन्नं किंचिदस्तीति दर्शनात् ।।
फलं स्यात्प्राणसायुज्यं सर्वं तस्य हि भोजनम् ।। ३४ ।।
भवत्यत्ता स सर्वस्य नान्नं भवति कस्यचित् ।।
केवलेऽवस्थितेऽत्तृत्वे मृत्युनाऽपि न गीर्यते ।। ३५ ।।
अद्भिः परिदधत्येनमशिष्यन्त इति श्रुतेः ।।
विदधाति ह्यपां पानमपूर्वं शास्रलक्षणम् ।। ३६ ।।
शास्रं मुख्यार्थमेव स्याद्विध्यर्थं यदि कल्प्यते ।।
युक्तः फलानुषङ्गोऽस्य वासोलाभो विधिर्यदि ।। ३७ ।।
एके च शाखिनो व्यक्तं विधिरूपमधीयते ।।
मन्त्रेण प्राशनं चापामेकेषां शाखिनां मतम् ।। ३८ ।।
अन्नदर्शनवच्चैके वासोदृष्टिं प्रचक्षते ।।
प्रायत्यार्थमपां पाने दृष्टेः प्रकरणादिह ।।
सर्वाभक्ष्यप्रसक्तिः स्याद्यदि कर्म विधित्स्यते ।। ३९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य प्रथमं ब्राह्मणम्
यन्न संभावितं पूर्वं वस्तुप्राधान्यहेतुतः ।।
वक्तुं तदत्र वक्तव्यं खिलकाण्डाधिकारतः ।। १ ।।
सप्तमावसितावुक्तं मार्गप्रार्थनमग्नितः ।।
सुपथेति श्रुतं तत्र श्रुत्या मार्गविशेषणम् ।। २ ।।
संभवे व्यभिचारे च विशेषणविशेष्ययोः ।।
दृष्टं विशेषणं लोके यथेहापि तथेक्ष्यताम् ।। ३ ।।
मुपथेति ततो युक्तं संभवे भूयसां पथाम् ।।
विशेषणमतो वाच्याः पन्थानः कर्महेतवः ।। ४ ।।
दक्षिणोदगधोमार्गा विहितप्रतिषिद्धयोः ।।
विपाकाः कर्मणोर्वाच्यास्तद्वैराग्यप्रसिद्धये ।। ५ ।।
नाविरक्तस्य निःशेषसांसारिकपुमर्थतः ।।
प्रवृत्तिर्मुक्तये तस्माच्छ्रुत्या यत्नात्तदुच्यते ।। ६ ।।
शक्नुवन्ति न कर्मणि सर्वकामसमापनम् ।।
निषेद्धुं वाऽखिलानर्थांस्तत्फलस्यातिफल्गुतः ।। ७ ।।
न कर्म कारणं मुक्तेर्नाग्निर्गहज्वरापनुत् ।।
कर्मभ्यु जन्म नियतं जन्म चेन्निर्वृत्तिः कुतः ।। ८ ।।
न कर्मणा कनीयस्ता महत्त्वं चान्तरात्मनः ।।
इति बाहुमिवोद्धृत्य वेदान्तैर्घोषणा कृता ।। ९ ।।
न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते ।।
इति श्रीयाज्ञवल्क्येन मुक्तकण्ठमुदाहृतम् ।। १० ।।
अतो मुक्तिं परीच्छद्भिरुत्पत्त्यादिविरोधिनीम् ।।
त्यकत्वा कर्माण्यथैकात्म्यज्ञानं सर्वात्मनाऽऽश्रयेत् ।। ११ ।।
तमोन्तरायतो मुक्तेर्नान्तरायोऽपरोऽस्ति हि ।।
तमोहतिर्न कर्मभ्यो ज्ञानात्सा व्यञ्जकत्वतः ।। १२ ।।
न तु त्वमेतयोर्वेत्थेत्युत्क्रान्त्यादिस्वलक्षणम् ।।
षड्वधं परिणामार्थमग्निहोत्राहुतीहयोः ।। १३ ।।
इतिप्रश्नप्रतिवचस्ते वा इत्यादिकं जगौ ।।
लोकं प्रत्युत्थितं यावदग्निहोत्राद्दुतीहयोः ।। १४ ।।
अपूर्वपरिणामोऽयमग्निहोत्राख्यकर्मणः ।।
उत्क्रान्त्यादिगिरेहोक्त आलोकोत्थानवाक्यतः ।। १५ ।।
आहुत्योरग्निहोत्रस्य ह्यन्तरिक्षादिभेदतः ।।
आ लोकोत्थानतः श्रुत्या उक्ताऽपूर्वस्य विक्रिया ।। १६ ।।
तदेवोक्तमिहाऽऽलम्व्य तदग्नीक्षणसिद्धये ।।
श्वेतकेतुरिति ग्रन्थः पर आरभ्यतेऽधुना ।। १७ ।।
पञ्चाग्निविद्या यत्नेन वृद्धेनाब्राह्मणादपि ।।
हित्वा धनं च मानं च लब्धेत्युक्तिः स्तुतिर्धियः ।। १८ ।।
परिणामो हि पाकेन पाकश्च न विनाऽग्निना ।।
दर्शनात्परिणामस्य पक्तासर्वत्र पावकः ।। १९ ।।
समाप्ताशेषविद्यं हि समावर्त्य पिता सुतम् ।।
समाप्ताशेषविद्योऽसीत्येवमाहोत्ससर्ज च ।। २० ।।
निकषोपलसंस्थेषु वेदवित्सु परीक्ष्यताम् ।।
विद्येयं यत्न्तो वत्स द्रढिम्ने मच्छ्रुतस्य च ।। २१ ।।
प्रसिद्धाऽतीव विद्वत्ता पञ्चालब्राह्मणेषु हि ।।
तामेव परिषदं तस्मादाजगाम त्वरान्वितः ।। २२ ।।
पञ्चालब्राह्मणाञ्जित्वा विद्योत्कर्षैकहेतुतः ।।
राजानमपि जेष्यामीत्याजगाम नृपं ततः ।। २३ ।।
तं जिगीषुं समायान्तमुन्मार्गे संस्थितं द्विजम् ।।
सन्मार्गप्रतिपत्त्यर्थं राजोवाच स्वशास्रतः ।। २४ ।।
आमन्त्रयामास च तं कुमारा इति बालवत् ।।
प्रतिशुश्राव सोऽप्युक्तो भो इत्युक्त्या गुरुं यथा ।। २५ ।।
दर्पोत्सेकसमावेशान्नानुशिष्टोऽयमादरात् ।।
पित्रेतिजातसंदेहः पर्यपृच्छदतो नृपः ।। २६।।
अनुशिष्टोऽसि किं पित्रा उताहो नेति भण्यताम् ।।
नानुशिष्टस्य जगति वृत्तमीदृक्समीक्ष्यते ।। २७ ।।
बाढं पित्राऽनुशिष्टोऽस्मि किं न पश्यसि मज्जयम् ।।
त्वत्पण्डितेषु सर्वेषु पृच्छ मां यदि शङ्कसे ।। २८ ।।
एवं राज्ञो यथोक्तोक्त्या ह्यभ्युपेतेऽनुशासने ।।
श्वेतकेतुमथाप्राक्षीप्रञ्च प्रश्नान्क्रमान्नृपः ।। २९ ।।
अनुशिष्टोऽसि चेद्ब्रूहि तुल्येऽपि मरणे प्रजाः ।।
यथा विप्रतिपद्यन्त भिन्नवर्त्मप्रभेदतः ।। ३० ।।
येन कर्मविशेषेण समानायां मृतौ प्रजाः ।।
अन्या अन्येन संयान्ति यथाऽन्येनापरास्तथा ।। ३१ ।।
त्वयोक्तं न विवेदाहं नानुशिष्टिरिहास्ति मे ।।
वेत्थेह ता यथा भूय ावर्तन्ते प्रजा इति ।। ३२ ।।
यथा येन मृताः सत्यो हेतुनाऽनेन च प्रजाः ।।
तं वेत्थ स्विन्न वेत्युक्तो नेति होवाच तं पुनः ।। ३३ ।।
प्रयद्भिरसकृद्भूतैर्महद्भिर्बहुभिः सदा ।।
नैवासौ पूर्यते लोको यथा वेत्थ तथाऽत्र किम् ।। ३४ ।।
नेति होवाच पृष्टः सन्राजा पप्रच्छ तं पुनः ।।
हुतायामाहुतौ वेत्थ यतिथ्यां पुरुषाभिधाः ।। ३५ ।।
आप एव समुत्थाय पुरुषाकृतयो हुताः ।।
प्रवदन्ति यथा वेत्थ तथाऽऽशु प्रतिपद्यताम् ।। ३६ ।।
राजानं नेति होवाच नाहं वेद्मि त्वयोदितम् ।।
पर्यपृच्छदतो राजा शान्तदर्पं द्विजं पुनः ।। ३७ ।।
पथस्त्वं देवयानस्य पितृयाणस्य वाऽञ्जसा ।।
वेत्थ प्रतिपदं किंवा न वेत्सीत्यभिधीयताम् ।। ३८ ।।
प्रतिपद्वचनस्यार्थं यत्कृत्वेत्यादराच्छ्रुतिः ।।
व्याचष्टे देवयानादिप्रतिपत्तौ क्रियैव सा ।। ३९ ।।
स्वाभ्यूह इति मा शङ्कीर्यतो मार्गद्वयेऽपि नः ।।
ऋषेर्मन्त्रस्य श्रवणमस्ति तच्च विभाव्यते ।। ४० ।।
द्वे सृती अशृणवं साक्षात्संबन्धिन्यौ दिवौकसाम् ।।
पितृणां चापि मर्त्यानां मार्गौ तावधिकारतः ।। ४१ ।।
ताभ्यां सर्वमिदं गच्छद्यथाकर्म यथाश्रुतम् ।।
समेति मध्ये भोगाय रोदस्योः कर्मणो जगत् ।। ४२ ।।
त्वदुक्तात्प्रश्नगणतो न वेद्म्येकमपीरितम् ।।
प्रश्नं मा मामतः प्राक्षीरित्युक्त्वाऽवाक्शिरा ह्यभूत् ।। ४३ ।।
निर्धूताशेषकलुषं शान्तदर्पं समीक्ष्य तत् ।।
वसत्याऽऽमन्त्रयांचक्र उष्यतामिति पार्थिवः ।। ४४ ।।
ह्रीतो रोषाच्च तद्वाक्यं वसत्यर्थमुदीरितम् ।।
अनादृत्य प्रदुद्राव यत्राऽऽस्ते गौतमः पिता ।। ४५ ।।
प्राप्याथ पितरं रोषात्साभ्यसूयं निराह सः ।।
इति वावेति वचनं पूर्वोत्तरविरोधतः ।। ४६ ।।
इतीत्युक्तपरामर्शो वाकोवाक्यं नृपेरितम् ।।
अप्रात्यक्ष्यात्किलेत्युक्तिरनुमानाद्धि तद्गतिः ।। ४७ ।।
नृपोक्त्यभिभवाल्लिङ्गाद्वञ्चितोऽस्मीति लिङ्ग्यते ।।
यथावदनुशिष्टस्य नाभिभूतिर्यतोऽन्यतः ।। ४८ ।।
तं मामननुशिष्यैव किमित्युक्तं त्वया पुरा ।।
अनुशिष्टोऽसि पुत्रेति वञ्चितोऽस्मीत्यतो मतिः ।। ४९ ।।
कथं त्वं नानुशिष्टोऽसि ब्रूहि तत्कारणं मम ।।
पञ्च मामित्यतोऽवोचद्यथा ह्यननुशासनम् ।। ५० ।।
प्रश्नास्ते कतमे वत्स यांस्त्वं न ज्ञातवानसि ।।
प्रश्नप्रतीकानवदत्पृष्टः पित्रा समासतः ।। ५१ ।।
व्राह्मणज्ञानतोऽन्यत्र विद्यां पप्रच्छ भूमिपः ।।
न हि व्राह्मणविज्ञाने किंचिदस्ति त्वयाऽगतम् ।। ५२ ।।
इत्येतद्धृदये कृत्वा तथा न इति सोऽवदत् ।।
मा शङ्किष्ठास्ततो मां त्वं नोक्तं सर्वं ममेति हि ।। ५३ ।।
प्रेहि तत्र गमिष्यावस्ताद्विद्यालब्धिसिद्ध
ब्रह्मचर्यं च वत्स्याव आवां तत्र नृपे गतौ ।। ५४ ।।
यातु तत्र भवानेव नाहं तं गन्तुमुत्सहे ।।
इत्युक्तः सूनुना ह्रीतः स्वयमेव जगाम तम् ।। ५५ ।।
ससंभ्रमः स चोत्थाय तस्मा आसनमाहरत् ।।
अप आहारयांचक्र अर्घ्यपाद्यार्थसिद्धये ।। ५६ ।।
सत्कृत्य च यथाशास्रं राजाऽथ तमुवाच ह ।।
वरं कामं प्रयच्छामो यः कामो वाञ्छितस्त्वया ।। ५७ ।।
ऋषिराहाथ राजानं कामितार्थस्य सिद्धये ।।
प्रतिज्ञातो वरस्तावद्भवताऽप्रार्थितोऽपि सन् ।। ५८ ।।
अस्तु सत्यप्रतिज्ञोऽत्र प्रतिज्ञातं त्वयेह यत् ।।
देहि प्रश्नात्मिकां वाचं यां मत्सूनोरभाषथाः ।। ५९ ।।
राजाऽपि तमुवाचाथ दैवेष्विति परं वचः ।।
दैवेप्वयं वरः सिद्धो मानुपाणां वरं वृणु ।। ६० ।।
न हि मानुषतो दैवः प्रार्थनीयो विजानता ।।
मानुषस्तूचितो दातुमादातुं मानुषाद्वरः ।। ६१ ।।
ममाप्यस्त्येव तत्सर्वं यद्यद्दित्ससि मानुषम् ।।
विज्ञायते मयैवाऽऽदौ भवताऽपि प्रमान्तरात् ।। ६२ ।।
न च तत्प्रार्यनीयं मे भूरि यद्विद्यते मम ।।
तस्माद्दैवो वरो मह्यं दीयतां नास्त्यसौ मम ।। ६३ ।।
बहोरनन्तापर्यन्तदैववित्तस्य लोभतः ।।
मा भूरभ्यवदान्यस्त्वं दाता भूत्वेह नः प्रति ।। ६४ ।।
दैवं वरं न संदातुं प्रत्याख्यातुं च तं द्विजम् ।।
इति दुःखित्वमापन्नस्तीर्थेनेच्छेत्युवाच तम् ।। ६५ ।।
तीर्थेन विद्या देयेति नातीर्थेनेति चाऽऽगमः ।।
यतोऽतस्तीर्थसृत्यैव मत्तो विद्यां त्वमाप्नुहि ।। ६६ ।।
शास्रार्थं स्मारितः सोऽथ राज्ञोपैमीत्यथोचिवान् ।।
वाचैव ह्यवरान्पूर्व उपयन्ति यतस्ततः ।। ६७ ।।
स होपायनकीर्त्यैव ब्रह्मचर्यमुवास ह ।।
उपैमीति हि संकीर्तेर्नान्यात्किंचिच्चकार सः ।। ६८ ।।
सापराधं स्वमात्मानं राजा परिहरन्नथ ।।
क्षमयामास तमृषिं तथा न इतिवाक्यतः ।। ६९ ।।
मानोऽपराधिनो मंस्थास्तव पूर्वे पितामहाः ।।
नामन्यन्त यथा तद्वद्भवानप्यपराधिनः ।। ७० ।।
त्वत्संप्रदानतः पूर्वं विद्येयं हि कदाचन ।।
नोवास ब्राह्मणे साध्वी साक्षादपि बृहस्पतौ ।। ७१ ।।
एवं गुप्तामपि तु तां वक्ष्याम्येवाहमञ्जसा ।।
प्रत्याख्यातुं समर्थः को ब्रुवन्तं ब्राह्मणं नृपः ।। ७२ ।।
असाविति क्रमोऽभेदि कस्माद्धेतोरितीर्यताम् ।।
प्रश्नस्येह चतुर्थस्य प्राधान्याद्भिद्यते क्रमः ।। ७३ ।।
उत्पत्तेस्तदधीनत्वाज्जन्मायत्ता स्थितिस्तथा ।।
स्थित्यपाये प्रयाणं च श्रुत्याऽभेदि क्रमस्ततः ।। ७४ ।।
दूरतोऽमुष्य लोकस्य स्यादसाविति गीरियम् ।।
समिद्धूमादिभी रूपैर्लोक्यते लोकगीरपि ।। ७५ ।।
वैशब्दः स्मरणाय स्यादग्निस्तत्परिणामतः ।।
यत आहवनीयोऽग्निर्द्युलोकात्मतया स्थितः ।। ७६ ।।
अपूर्वपरिणामोऽयमग्निहोत्राख्यकर्मणः ।।
द्युलोकोपक्रमो ज्ञेयो यावत्पुरुषसंभवः ।। ७७ ।।
आहुत्योरग्निहोत्रस्य या विभूतिः पुरोदिता ।।
सैवेह दृष्टिविध्यर्थं श्रुत्या व्याख्यायतेऽञ्जसा ।। ७८ ।।
अध्यात्मे चाधियज्ञे च ह्यधिलोकाधिदैवयोः ।।
श्रुतिराहवनीयादेर्व्याचष्टे विस्तृतिं स्फुटाम् ।। ७९ ।।
लोक आहवनीयोऽग्निरसाविति विचिन्तयेत् ।।
आदित्यादिष्वपि तथा समिदादिसमीक्षणम् ।। ८० ।।
समिन्धनात्समिद्भानू रश्मयो धूम इत्यपि ।।
समिन्निर्गमसामान्यादर्चिरहस्तथैव च ।। ८१ ।।
शान्तत्वाच्च दिशोऽङ्गाराः समिद्धि परिणामतः ।।
अर्चिरङ्गारभावस्य यथैवं भानुहेतुकाः ।।
रश्मयश्च दिशश्चैता आदित्यसमिदाश्रयाः ।। ८२ ।।
अवान्तरदिशस्तद्वद्विक्षिप्तत्वैकहेतुतः ।।
विस्फुलिङ्गा इति ज्ञेयास्तस्मिन्नग्नौ यथोदिते ।। ८३ ।।
त्रयस्त्रिंसच्च ये देवाः स्युस्तेऽध्यात्मादिभूमिगाः ।।
होतारस्तत्र तत्र स्युः कर्मज्ञानानुरोधतः ।। ८४ ।।
ऋत्विग्रूपेण ते ह्यासन्यथा प्राकृतकर्मणि ।।
होतारः परिणामेषु तथैवोत्तरभूमिषु ।। ८५ ।।
आहुत्योः परिणामोऽयमूर्ग्रसोऽपूर्वमित्यपि ।।
तस्य श्रद्धैकहेतुत्वाच्छ्रद्धा नामेति कीर्त्यते ।। ८६ ।।
तस्याश्चाप्याहुतेः सोमो राजा संभवतीति च ।।
तस्याभिवृद्धिः संभूतिर्न त्वभूतजनिर्यतः ।। ८७ ।।
द्यौरग्निः समिदादित्यः श्रद्धा तस्मिन्हि हूयते ।।
सूर्ये समिधि दीप्तायां श्रद्धां जुह्वति देवताः ।। ८८ ।।
श्रयतेः श्रद्दधातेर्वा श्रद्धेत्याहुर्विपाश्चितः ।। ८९ ।।
श्चयणाद्धारणाच्चाऽऽपः श्रद्धाह्वाः कारणात्मिकाः ।।
भूत्वाऽऽप इति लिङ्गाच्च आपः श्रद्धाभिधास्ततः ।। ९० ।।
आकृष्टं रश्मिभिस्तोयमादित्ये प्रतितिष्ठति ।।
तस्मादादित्यगः सोमः क्षीण आप्यायते पुनः ।। ९१ ।।
परिणामो ह्यपां सोमः शीतांशुस्तेन सोऽम्मयः ।।
श्रद्धाहुतेर्हि सोमस्य संभवः शास्र उच्यते ।। ९२ ।।
अङ्गाराश्चन्द्रमास्तस्मिन्हुतेऽग्नौ सोमसंभवः ।।
सोमचन्द्रमसोरेवं भेदः शास्त्रेण दर्शितः ।। ९३ ।।
चन्द्रमा मण्डलं स्वच्छं चन्द्रकेण मितो हि सः ।।
सोमस्तु मण्डले श्वेतो वर्धते ह्रसते च यः ।। ९४ ।।
चन्द्रमाः पर आदित्यादर्वाक्सोमः श्रुतेर्मतः ।।
आदित्याच्चन्द्रमित्याह नैते संवत्सरं तथा ।। ९५ ।।
सोमचन्दमसोस्तस्माद्भेदः समवगम्यते ।।
देशाभेदादभिन्नौ तावेष सोम इति श्रुतेः ।। ९६ ।।
भिन्नौ च धर्मभेदेन तस्मादुभयथा श्रुतिः ।।
पर्जन्योऽग्निरिति ज्ञेयः समित्संवत्सरः स्मृतः ।। ९७ ।।
संवत्सरे समिद्धे हि पर्जन्यस्य समेधनात् ।।
धूमोऽभ्राणीति सादृश्याद्विद्युदर्चिस्तथैव च ।। ९८ ।।
शान्तिवर्तुलतोऽङ्गाराः पर्जन्यशिखिनोऽशनिः ।।
विक्षिप्तत्वैकसामान्यात्स्फुलिङ्गाः स्तनयित्नवः ।। ९९ ।।
सोमं जुह्वति तत्राग्नौ देवाश्चात्रोदिताः पुरा ।।
वृष्टेश्च संभवस्तस्माल्लोकेऽस्मिन्साऽपि द्दूयते ।। १०० ।।
लोकोऽयमग्निर्विज्ञेयः पृथिवी समिदुच्यते ।।
पृथिव्या हि समिद्धोऽयं समित्तेन क्षितिर्मता ।। १०१ ।।
अग्निर्धूमस्तदुत्थानाद्रात्रिरर्चिस्तथैव च ।।
रात्रिमाहुः क्षितिच्छायामङ्गाराश्चन्द्रमास्तथा ।। १०२ ।।
शान्तत्ववर्तुलत्वाभ्यां विस्फुलिङ्गसमत्वतः ।।
नक्षत्राणि स्फुलिङ्गाः स्युस्तस्मिन्नित्यादि पूर्ववत् ।। १०३ ।।
अन्नस्य संभवस्तस्मात्पुमग्नौ तच्च हूयते ।।
पुरुषोऽग्निरिति ध्येयो व्यात्तं तस्य समित्स्मृता ।। १०४ ।।
व्यात्ते मुखे हि तद्दीप्तिर्धूमः प्राणो मुखोत्थितेः ।।
पुंदीप्तेर्वाङ्निमित्तत्वादर्चिर्वाक्तेन भण्यते ।। १०५ ।।
स्थितेरङ्गारवच्चक्षुरङ्गाराः श्रोत्रमेव च ।।
विस्फुलिङ्गा इति ज्ञेयं तस्य विक्षेपसंस्थितेः ।। १०६ ।।
अन्नं जुहति तत्राग्नौ संभवो रेतसस्ततः ।।
योषिदग्निरिति ज्ञेया उपस्थश्च समित्तथा ।। १०७ ।।
तदुपस्थेन संदीप्तेर्धूमो लोमानि साम्यतः ।।
अर्चिर्वर्णसमानत्वाद्योनिरर्चिर्भवेत्ततः ।। १०८ ।।
अन्तः करोति यत्कामी तेऽङ्गारास्तत्समानतः ।।
विस्फुलिङ्गः सुखलवाः क्षणिकत्वैकहेतुतः ।। १०९ ।।
रेतो जुह्वति तत्राग्नौ देवाश्चेन्द्रियरूपिणः ।।
पञ्चम्या आहुतेस्तस्याः पुरुषः संभवत्ययम् ।। ११० ।।
यथोक्तवर्त्मना ह्यापः प्राप्तः पुंस्परिणामताम् ।।
पाकजः परिणामोऽयमेवं पञ्चभिरग्निभिः ।। १११ ।।
तस्मादापः सूक्ष्मभावाः स्थूलतां यान्ति पाकतः ।।
अग्निभिः पञ्चभिः पक्वाः पुरुषाख्या भवन्ति हि ।। ११२ ।।
तस्मान्मृतं प्रियं बन्धुं हरन्त्यग्नय ऋत्विजः ।। ११३ ।।
यथैवाऽऽहवनीयाग्नेः प्रसिद्धं समिदादिकम् ।।
श्यशानाग्नेस्तथैवैतत्सर्वं ज्ञेयं न कल्प्यते ।। ११४ ।।
अन्त्यसंस्कारसिद्ध्यर्थं तस्मिन्नग्नौ यथोदिते ।।
ऋत्विजो जुह्वति नरमन्त्याहुत्यै विधानतः ।।
आहुतेर्जायते तस्याः पुमान्भास्वररूपभृत् ।। ११५ ।।
राजसं तामसं रूपमितो ह्यन्यत्र वक्ष्यते ।। ११६ ।।
इतोऽग्निभ्योऽग्निमेवायं स्वां योनिं प्रतिपत्स्यते ।।
इति लोके समाचारादग्निभ्यः संभवस्ततः ।। ११७ ।।
पञ्चम्यामाहुतावेवं पुनांम्नो जन्म कीर्तितम् ।।
गतिस्तस्याथ वक्तव्या उदग्दक्षिणभेदतः ।। ११८ ।।
ते य एतद्यथाजातं ज्ञानं पञ्चाग्निसंश्रयम् ।।
विदुरर्चिः समायान्ति बहूक्तेश्च द्विजातयः ।। ११९ ।।
उत्पत्तिसंस्थितिलया यथोक्ताग्न्येकहेतवः ।।
इत्थं ये विदुरर्चिस्ते संभवन्त्यात्मभाविताः ।। १२० ।।
इष्टापूर्तकृतो ये वै ग्रामस्थेभ्यश्च ये परे ।।
अरण्य इति गृह्यन्त इतरेषां पृथग्ग्रहात् ।। १२१ ।।
यज्ञदानतपांसीह गृहस्थ इव तापसे ।।
गृहस्थाचार्यवासाच्च न ग्रहो ब्रह्मचारिणाम् ।। १२२ ।।
नारण्यस्था न च ग्राम्या अपेक्षन्तेऽत्र विद्यया ।।
सामान्यवचसोपात्तेर्न विशेषपरिग्रहः ।। १२३ ।।
सश्रद्धस्यापि सत्यस्य यद्यप्यन्यत्र संभवः ।।
तथाऽपि यतयो ग्राह्य अरण्येन विशेषणात् ।। १२४ ।।
ते य एवं विदुरिति यदि वा गृहिणां ग्रहः ।।
अग्निसंबन्धतो न्याय्यो वनस्थस्यापि संभवात् ।। १२५ ।।
न चाग्निहोत्रशेषत्वमुक्तदृष्टेरिहेष्यते ।।
सामान्येन ग्रहात्तस्याः पञ्चाग्निरितिलिङ्गतः ।। १२६ ।।
त्रिलोकीसाधनत्यागान्नापि संन्यासिनो ग्रहः ।।
दैवी विद्या हि वित्तं स्याद्वित्ताच्च व्युत्थितिर्यतः ।। १२७ ।।
प्रजया किं करिष्याम आक्षेपो ब्रह्मवेदनात् ।। १२८ ।।
पञ्चाग्निज्ञानवद्भाव्या गतिरपत्र सर्वदा ।।
यतोऽतो गतिरप्युक्ता नान्यथा तदुदीरणम् ।। १२९ ।।
देवतोपासनस्येह प्रकृतत्वात्तथा गतेः ।।
अर्चिःशब्देन तेनेह देवतैवात्र गृह्यते ।। १३० ।।
अर्चिर्देवतयैकत्वं प्राप्याहर्देतैकताम् ।।
संभवन्तीति सर्वत्र संबन्धोऽत्रानुषज्यते ।। १३१ ।।
गृह्यते देवता नो चेदर्चिरादिगिरा तदा ।।
असंभवोऽन्यत्र मृतेरित्यपार्था गतिश्रुतिः ।। १३२ ।।
यत्तूदगयनापेक्षा भीष्मस्य श्रूयते स्मृतौ ।।
सत्यवादित्वसिद्ध्यर्थं शंतनोस्तदपीक्ष्यताम् ।। १३३ ।।
अन्यथा कृतनाशः स्यादकृताभ्यागमस्तथा ।।
देवताग्रहणात्तस्माद्देवतैवार्चिरुचते ।। १३४ ।।
तस्मादेवंविदो धीरा अर्चिराद्यभिमानिनीम् ।।
क्रमेण देवतां यात्वा वैरिञ्चं यान्ति तत्पदम् ।। १३५ ।।
श्रद्दधानास्तपस्यन्तः सत्यं ब्रह्म समाहिताः ।।
उपासते बहिर्ग्रामादर्चिस्ते संभवन्त्यतः ।। १३६ ।।
ब्रह्मणः स्थानमायान्ति यद्वा स्वाश्रमकर्मभिः ।।
संन्यासाद्ब्रह्मणः स्थानं तथाच स्मृतिशासनम् ।। १३७ ।।
ततोऽहर्देवतां यान्ति शुक्लपक्षं ततः क्रमात् ।।
षण्मासांश्च ततो यान्ति ह्युत्तरायणलक्षणान् ।। १३८ ।।
देवतां च ततो यान्ति देवलोकाभिमानिनीम् ।।
तत आदित्यमायान्ति वैद्युतं चापि भास्करात् ।। १३९ ।।
ब्रह्मणा मनसा सृष्टो मानसः पुरुषस्ततः ।।
ब्रह्मलोकान्स नयति सोऽप्यभ्येत्याथ वैद्युतान् ।। १४० ।।
ते तेषु ब्रह्मलोकेषु दीप्यमानाः पराः समाः ।।
ब्राह्ममानाः समा ग्राह्या ब्रह्मलोकेषु तच्छ्रुतेः ।। १४१ ।।
सार्ष्टिसालोक्यसायुज्यव्यपेक्षा बहुगीरियम् ।।
समष्टिव्यष्टिभेदं वा व्यपेक्ष्य बहुवागियम् ।। १४२ ।।
आवृत्तिर्न पुनस्तेषां यावदाभूतसंप्लवम् ।।
आभूतसंप्लवस्थानममृतत्वं हि भाष्यते ।। १४३ ।।
ऐकात्म्यधीसमुत्पत्तेर्थदि वा ब्रह्मलोकतः ।।
मुच्यन्ते न निवर्तन्ते यथा धूमादिमार्गगाः ।। १४४ ।।
इमं मानवमावर्तमित्याद्यस्य विशेषणात् ।।
अत्रैव कल्पेऽनावृत्तिर्न त्वन्येष्वनिवारणात् ।। १४५ ।।
देवयानः समासेन पन्था यत्नात्प्रपञ्चितः ।।
व्याख्याऽथ पितृयाणस्य सम्यगारभ्यतेऽधुना ।। १४६ ।।
देवादिज्ञानहीनेन येऽथ यज्ञेन सद्द्विजाः ।।
लोकाञ्जयन्ति दानेन सद्देशादिमता तथा ।। १४७ ।।
निःशेषकल्मषध्वंसितपसा वाऽविपश्चितः ।।
मृतास्ते धूममायान्ति धूमाद्रात्रिं तमस्विनः ।। १४८ ।।
रात्रेरपरपक्षं चदक्षिणायनदेवताम् ।।
मासेभ्यः पितृलोकं हि पितरो यत्र शेरते ।।
पितृलोकाच्च ते चन्द्रं यान्त्यन्नं तद्दिवौकसाम् ।। १४९ ।।
चन्द्रं प्राप्यान्नभावं च ते यतस्तत्र संस्थिताः ।।
असकृद्भक्षयन्त्येतानाप्याय्याऽऽप्याय्य सोमवत् ।। १५० ।।
पक्षे शुक्ले तमाप्याय्य कृष्णे तं भक्षन्त्यथ ।। १५१ ।।
भोगसाधनभावाश्च भक्षयन्तीति भण्यते ।।
न त्वभ्यवहृतिर्न्याय्या वेदवर्त्मनि तिष्ठिताम् ।। १५२ ।।
यदा तूपचितं कर्म पर्यवस्यति भोगतः ।।
तेषामथैतमध्वानमावर्तन्ते यथागतम् ।। १५३ ।।
आकाशमनुनिष्पद्य वायुमायान्त्यभोगिनः ।।
वायोर्वृष्टिमवाप्याथ वृष्टेश्च पृथिवीं ततः ।।
अन्नभावं पृथिव्याऽतस्ते समायान्ति भूमिगाः ।। १५४ ।।
घटीयन्त्रवदश्रान्ता एवमेव पुनः पुनः ।।
परिवर्तन्ति संसारे कर्मवायुसमीरिताः ।। १५५ ।।
दक्षिणस्य पथो व्याख्या यथावदनुवर्णिता ।। १५६ ।।
यथोक्तलक्षणौ ये तु पन्थानावुत्तरेतारौ ।।
न विदुस्ते भवन्तीह कीटाद्या दुःखभोगिनः ।। १५७ ।।
नाऽऽद्रियन्त इदं ज्ञानमुदङ्भार्गाप्तिसाधनम् ।।
कर्म वा पितृयाणाप्तौ ते कीटाद्यामियुर्गतिम् ।। १५८ ।।
गोमयाद्युद्भवाः कीटाः पतङ्गाः शलभास्त्था ।।
दंशाश्च मशकाश्चैव दन्दशूकाः सपन्नगाः ।। १५९ ।।
यतिथ्यामिति यः प्रश्नः स पुंजन्मोक्तितो गतः ।।
तदनन्तरमेवोक्ता व्यावृत्तिश्च पथोर्द्वयोः ।। १६० ।।
आकाशाद्यभिसंभूत्या पुनरावर्तनं गतम् ।।
देवयानं च यत्कृत्वा पितृयाणं च लभ्यते ।। १६१ ।।
साधनं तदपीहोक्तं ज्ञानकर्मस्वलक्षणम् ।।
लोकस्यापूरणे हेतुः समाप्तावुदितः स्फुटः ।। १६२ ।।
कीटादीनामगमनाद्गतानां चाऽऽगतेस्तथा ।।
एवं पञ्चापि निर्णीताः प्रश्ना ये प्राक्प्रचोदिताः ।। १६३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य द्वितीयं ब्राह्मणम्
वित्तं विना न सिद्धिः स्याद्दृष्टादृष्टार्थकर्मणः ।।
यतोऽतः कर्म सन्थाख्यं तादर्थ्येनाभीधीयते ।। १ ।।
पितुर्लोक्यो यथा पुत्रः कर्मणेहोपजायते ।।
तादृक्पुत्रार्थिनः कर्म त्वेषामित्यादिनोच्यते ।। २ ।।
यः स्यात्कामग्रहग्रस्तो वित्तापत्योद्भवं प्रति ।।
तं प्रत्येवेति विज्ञेयं कर्मेदं न त्वकामिनम् ।। ३ ।।
प्राप्नुयां समुहद्वित्तमिति यः कामयेत ह ।।
इत्युक्त्याऽवाप्तावित्तस्य नेदं कर्मेति गम्यते ।। ४ ।।
महत्त्वमात्मनोऽत्यर्थं यो वा कामयते गृही ।।
महत्ता न विना वित्तं कर्मातो वित्तसिद्धये ।। ५ ।।
कालो विधीयते चास्य मन्थाख्यस्येह कर्मणः ।।
श्रुत्योदगयनाद्युक्त्या कर्मसिद्ध्यै प्रयत्नतः ।। ६ ।।
प्रार्थनीयः पुरा कालो विशुद्धिश्चाऽऽत्मनस्ततः ।।
द्रव्याण्योषधयश्चैव देशश्च तदनन्तरम् ।। ७ ।।
कालादीनां गुणानां च कर्मण्यस्मिन्समुच्चयः ।।
न विक्ल्पः समृद्धिः स्यात्कर्मणोऽस्य समुच्चितौ ।। ८ ।।
कर्मणश्चास्य निष्पत्तौ विद्वत्ताऽपि समश्रिता ।।
यतोऽतः सूत्रितं नेदं सूत्रकृद्भिर्यथोदितम् ।। ९ ।।
यो ह वै ज्येष्ठमित्युक्त्या विद्वत्ता या पुरोदिता ।।
तस्यां सत्यामिदं कर्म ज्येष्ठायेत्यादिलिङ्गतः ।। १० ।।
भूमिशय्या पयःपानं ब्रह्मचर्यं च वाग्यमः ।।
उपसद्व्रतमेत्स्यादमावास्येति लिङ्गतः ।। ११ ।।
अग्निमित्येकवचनात्तथैवोल्लेखनादितः ।।
न मुख्योपसदामत्र संभवोऽस्तीति गम्यते ।। १२ ।।
ताम्रं नौदुम्बरं ग्राह्यमिध्मैस्तस्य विरोधतः ।।
वानस्पत्यमतो ग्राह्यं कर्मण्यौदुम्बरं श्रुतौ ।। १३ ।।
ग्राम्याणि दश धान्यानि फलपुष्पाणि सर्वतः ।।
अप्रमादकाणीह भक्ष्यमेध्यानि यानि च ।। १४ ।।
दशेति नियमार्थं स्यान्न ततोऽन्यनिषेधने ।।
भूरिदोषोपदुष्टत्वात्परिसंख्याविधेरिति ।। १५ ।।
कंसाद्याकारसिद्ध्यर्थं कंसाद्युक्तिरिहोच्यते ।।
तण्डुलान्फलपुष्पाणि पष्ट्वा पात्रे निधापयेत् ।। १६ ।।
दध्ना च मधुना पिष्टं सम्यगालोड्य पात्रगम् ।।
स्थापयेत्कृतरक्षं सच्छुचौ देशे प्रयत्नतः ।। १७ ।।
परीत्यादिगिरा चात्र देशसंस्कार उच्यते ।।
संस्कृते भूप्रदेशेऽथ ह्यग्निं संस्थापयेद्गृही ।। १८ ।।
लेपनादि च कर्तव्यं कृतपूर्वेऽपि तद्विधेः ।।
इति कातीयवचनमदृष्टार्थत्वकारणात् ।। १९ ।।
पाकयज्ञविधानेन संस्कृत्याऽऽज्यं यथाविधि ।।
पुंसा हस्तादिनर्क्षेण मन्थमानीय सिद्धये ।। २० ।।
खजकेनैकधीकृ्त्य मन्थद्रव्यमतः परम् ।।
आवापस्थान आज्यस्य हुत्वा नित्याहुतीस्ततः ।। २१ ।।
यावन्त इत्युपक्रम्य मन्त्रैराज्यं यथाक्रमम् ।।
हुत्वा हुत्वा च मन्थेऽथ संस्रवं प्रक्षिपेन्मुहुः ।। २२ ।।
स्वाहाकारावसानाः स्युर्मन्त्राः सर्वे यथोदिताः ।। २३ ।।
मन्त्रद्वयेन ज्येष्ठादौ होमः कार्यो विजानता ।।
अग्न्यादावेकशः कार्यो यावन्मन्थावमर्शनम् ।। २४ ।।
अथ स्विष्टकृदन्तेऽस्मिन्होमानन्तरमेव तत् ।।
द्वितीयेन मथाऽऽलोड्य ह्यथाभिमृशति पाणिना ।। २५ ।।
भ्रमसीत्यादिना मन्थं स्मरंस्तद्देवतां हृदा ।।
भ्रमसि प्राणभूतस्त्वं न ह्येकत्रावतिष्ठमे ।। २६ ।।
ज्वलज्जाज्वल्यमानस्त्वं जठरस्थान्नपाककृत् ।।
पूर्णं च सर्वतोव्यापि सर्वत्रानवखण्डितम् ।। २७ ।।
प्रस्तब्धोऽसि स्थिरत्वाच्च वियद्वन्न विकम्पसे ।। २८ ।।
सर्वतोऽपरिपन्थित्वात्सर्वैश्चाप्यनुकूलतः ।।
त्वमेकशफमित्युक्तं शफैका या त्वदात्मिका ।। २९ ।।
उद्गात्रा हिंकृतं पूर्वं स्तोत्रमूद्गायता स्फुटम् ।।
यज्ञारम्भे तदा मध्ये गीयमानेऽथ सामनि ।। ३० ।।
अपि हिंक्रियमाणोऽसि तथोद्गीथे विनिर्दिशेत् ।।
श्रावितोऽध्वर्युणा च त्वमग्नीधा च तथोत्तरम् ।। ३१ ।।
आर्द्रे मेधोदरे विद्युत्संदीप्तोऽसीति कथ्यते ।।
विविधं त्वमेव भवसि यतोऽतो विभुरुच्यते ।। ३२ ।।
सोमो वृष्ट्यादिभावेन प्रभुः प्रभवसीत्यतः ।।
आदित्यः प्राणभावेन ह्यन्नभावेन सोमता ।। ३३ ।।
अन्नान्नादद्वयं सर्वं त्वमेव तदपि प्रभो ।।
निधनं कारणत्वात्त्वं कारणे कार्यसंलयः ।। ३४ ।।
वागग्न्याद्यात्मसंपातात्संवर्गोऽसीति भण्यते ।।
इति मन्त्रः समाप्तोऽयमभिमर्शनकर्मणि ।। ३५ ।।
अथैनं मन्त्रपूतं सदुद्यच्छति यथोदितम् ।।
आमंसीत्यादिमन्त्रेण तदर्थाविष्कृतिस्त्वियम् ।। ३६ ।।
आमंसीति भवेद्रूपं ज्ञानार्थस्यैव मन्यतेः ।।
लेट्याङ्पूर्वस्य संसिद्धं शब्लुकीत्यवधारणात् ।। ३७ ।।
आसमन्ताद्विजानासि सूक्ष्मादि जगति स्थितम् ।।
ज्ञेयं यावज्जगत्किंचिदामंसीति ततः सदा ।। ३८ ।।
यथाऽस्मांस्त्वं विजानासि तथैव त्वां वयं सदा ।।
मन्यामहे वरीयांसं गुणवद्भ्यो गुणाधिकम् ।। ३९ ।।
महि महत्त्वं जानीम आमोऽसि त्वं तथा प्रभो ।।
न त्वं पाकसमायोगात्फलवन्नाशमृच्छसि ।। ४० ।।
आमोऽपकं त्वयि गतं महत्त्वमपि भण्यते ।।
यस्माद्राजाऽस्य सर्वस्य मां च देवः स सर्वदा ।। ४१ ।।
राजानं च तथेशानं करोत्वधिपतिं च माम् ।।
उद्यम्यानेन मन्त्रेण भक्षयत्यथ भागशः ।। ४२ ।।
गायत्र्या मधुमत्या च व्याहृत्या चेति पादशः ।।
ग्रासमश्नाति मन्थस्य ह्युत्तरेषु तथैव च ।। ४३ ।।
सवितुस्तद्वरेण्यं स्याद्भर्गमन्नं महात्मनः ।।
ऋतायन्ते तथा वाता मधुवत्सुखकारिणः ।। ४४ ।।
अनुद्वेगकरा हृद्या ऋतायन्ते वहन्ति च ।।
अमृतं मधु नद्योऽपि मदर्थं सर्वदा शुभम् ।। ४५ ।।
तृप्ता मोदामहे येन क्षरन्तीति क्रियापदम् ।।
अत्यर्थं मधुररसाः सन्तु ह्योषधयश्च नः ।। ४६ ।।
त्रिकमुच्चार्य भूः स्वाहेत्याहुतिं प्रक्षिपेन्मुखे ।।
त्रिकं त्रिकं तथोच्चार्य ह्युत्तर्ष्वपि योजयेत् ।। ४७ ।।
देवस्य द्योतनवतो हृद्यं यच्चिन्तयेमहि ।।
मधु नक्तमथो रात्रिर्मधुरा दुःखहानिकृत् ।। ४८ ।।
उषसो दिवसस्यापि माधुर्यं नोऽस्तु सर्वदा ।।
पार्थिवं च रजो लोको ह्लादकृन्मधुमांस्तथा ।। ४९ ।।
द्युलोकः पितृलोकोऽथ पिता हि द्यौर्यतो मतः ।।
भुवः स्वाहेति मन्थस्य द्वितीयामाहुतिं क्षिपेत् ।। ५० ।।
धियः प्रचोदयेद्यो न उद्यन्प्रज्ञेन्द्रियाणि च ।।
प्रचोदयतु नो देवः श्रेयसे सर्वदाऽऽत्मनः ।। ५१ ।।
वनस्पतिस्तथा चन्द्रः सूर्यस्तु मधुरोऽस्तु नः ।।
गावो दीधितयः सन्तु मधुमत्यो दिशोऽथवा ।। ५२ ।।
स्वः स्वाहेत्याहुतिक्षेपः समस्तां व्याहरेत्ततः ।।
सावित्रीं मधुमतीश्चैव तिस्रोऽपि व्याहृतीस्तथा ।। ५३ ।।
चतुर्थीं प्रक्षिपेदेवमाहुतिं पूर्ववन्मुखे ।।
अहमेव जगत्सर्वं भूयासमिति निर्ब्रुवन् ।। ५४ ।।
स्मार्तमाचमनं त्वन्ते प्रायत्यार्थमिहोच्यते ।।
अग्नेः पश्चिमतोऽथान्ते प्राक्शिराः संविशेत्ततः ।। ५५ ।।
प्रत्यूषसि ततो भक्त्या ह्यादित्यमुपतिष्ठते ।।
वक्ष्यमाणेन मन्त्रेण ह्युपासीत रविं सदा ।। ५६ ।।
एकपुण्डरीकमिति प्रधानत्वं विवक्षितम् ।।
एकशब्देन नो संख्या यथैकः श्वेतवाहनः ।। ५७ ।।
दिशां यद्व्प्रधानस्त्वं मनुष्याणां तथा ह्यहम् ।।
भवेयं त्वत्प्रसादाद्भोः स्फीतः पुंभोगसाधनैः ।। ५८ ।।
यथेतमेत्याथाऽऽसीनः पश्चादग्नेः समाहितः ।।
तं हैतमिति यत्नेन वंशं जपति भक्तितः ।। ५९ ।।
तं हैतं मन्थं यत्नोक्तमुद्दालतनयः सुधीः ।।
उक्त्वाऽथ याज्ञवल्क्याय तं प्रोवाचाय विस्मितः ।। ६० ।।
मन्थं शुष्केऽपि यः स्थाणौ निषिञ्चेदुक्तसंस्कृतम् ।।
जायेरन्नेव तच्छाखाः प्ररोहेयुर्दलानि च ।। ६१ ।।
यादृगर्थोऽस्य वचस उत्तरेष्वपि तादृशः ।।
चतुरौदुम्बरोक्त्यर्थो व्याख्यातः पूर्वमेव तु ।।
सुखावबोधतश्चैव स्वयमेव प्रतीयताम् ।। ६२ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य तृतीयं ब्राह्मणम्
एषामिति नृबीजस्य स्तुतिरुक्त्या विवक्ष्यते ।।
प्रतिष्ठां कल्पयानीति यस्यां पुंस्त्वं प्रपद्यते ।। १ ।।
शुक्रं निषिक्तं यत्रेदं पुरुषत्वं निगच्छति ।।
प्रतिष्ठां तादृशीमीशः प्रजापतिरचीक्लृपत् ।। २ ।।
स्रियं ससर्ज तद्योग्यां मधुकाण्डे यथोदिताम् ।।
सृष्ट्वाऽथाधः प्रदेशे तामुपास्ते ग्राम्यधर्मतः ।। ३ ।।
अपत्योत्पत्तये स्रीणामधोदेशं प्रजापतिः ।।
प्रागुपासितवान्यत्नादुपास्यं तेन तत्ततः ।। ४ ।।
सोमाभिषवरूपत्वक्लृप्तयेऽथाधुनोच्यते ।।
एतं ग्रावाणवच्छिश्नमुदपारयदात्मनः ।। ५ ।।
प्राञ्चं कृत्वाऽथ तं शिश्नं यथैवाभिषवोपलम् ।।
एकीभावेन तं नार्यां यत्नात्समुपवेशयेत् ।। ६ ।।
तथाभूतेन ग्राव् णैतां स्रियमभ्यसृजन्मुहुः ।।
आत्मनः पुरुषार्थाय यथोक्तोपासनं भवेत् ।। ७ ।।
यस्यां प्रजननं पुंसा स्रियामभ्यन्तरीकृतम् ।।
तस्या वेदिरुपस्थः स्यादूर्वोरुपरि दर्शनम् ।। ८ ।।
बर्हिस्तज्जानि लोमानि चर्माधिषवणे तथा ।।
चर्मेहाऽऽनडुहं पश्येत्सोमाभिषवसिद्धये ।। ९ ।।
फलके चाधिषवणे यथासंख्येन निर्दिशेत् ।। १० ।।
यो योन्यन्तर्गतो देशः समिद्धश्चर्म निर्दिशेत् ।।
तद्देशमभितस्तौ यौ मुष्कौ तौ वृषणाविति ।। ११ ।।
लोकः स्याद्वाजपेयेन यजमानस्य मानतः ।।
तावन्तं लोकमाप्नोति यावन्तं वाजपेयतः ।। १२ ।।
अन्नानि संभ्रियन्ते हि दश सप्त च भागशः ।।
वाजपेये क्रतावन्नकामस्य स विधीयते ।। १३ ।।
रेतसोऽन्नरसस्यैव यत्रान्नाहुतिरीक्ष्यते ।।
वाजपेयाभिसंपत्स्यान्मैथुनाख्यक्रतोरतः ।।
सामान्यादिति विज्ञेयं वाजपेयफलार्थिनाम् ।। १४ ।।
स्रीणां च सुकृतं वृङ्के सर्वमावर्जयेच्छुभम् ।।
अधोपहासं यो विद्वान्यथोक्तमुपसेवते ।। १५ ।।
अनेवंविदुषः पुण्यं सुकृतं वृञ्जते स्रियः ।।
मैथनोपनिषत्तत्त्वमेतद्ध स्माऽऽह भावितः ।। १६ ।।
सर्वदैवाऽऽहुतीर्विद्वाञ्जुहोत्यश्नन्नपः पिबन् ।।
उपगच्छन्स्रियं तद्वदारुणिर्गोत्रतः किल ।। १७ ।।
ब्राह्मणा जातिमात्रेण स्रीभिर्हृतशुभागमाः ।।
उक्तं विधिमजानन्तो म्रियन्ते मैथुने रताः ।। १८ ।।
बह्वेतदिति विज्ञेयं प्रयोजनबहुत्वतः ।।
रेतः स्कन्दति यत्सुप्तौ जाग्रतो वाऽपि कामिनः ।। १९ ।।
हस्तेनाऽऽलभ्य तद्रेतः पश्चाच्चाप्यनुमन्त्रयेत् ।। २० ।।
यदद्य मेऽपतद्रेत ओषधीरसरच्च यत् ।।
अपोऽगच्छत्स्वयोनिं च तदहं भूय आददे ।। २१ ।।
अभिमर्शनस्य यो मन्त्रो ग्रहणस्य स एव तु ।।
पुनर्मामैतु तद्रेतो विज्ञानं तेज उच्यते ।। २२ ।।
सौभाग्यं पुनरग्निः स्यः परिशिष्टाश्च देवताः ।। २३ ।।
प्रकाशकत्वात्सर्वासां धिष्ण्याश्चाप्यग्नयो मताः ।।
गमयन्तु यथास्थानं देवा अग्न्यादयो मम ।। २४ ।।
अङ्गुष्ठानामिकाभ्यां तद्रेत आदाय चाऽऽत्मनः ।।
स्तनौ भ्रुवौ वा निमृजेन्मध्ये च स्तनयोस्तदा ।। २५ ।।
रेतःस्वयोनावुदक आत्मानं चेत्प्रमादतः ।।
पश्येन्मन्त्रेण तत्तोयमनेनैवानुमन्त्रयेत् ।। २६ ।।
मयि तेजोऽस्तु विज्ञानमिति रेतोऽभिधीयते ।।
विशिष्टापत्यहेतुत्वाज्जपेदेवं तथोत्तरे ।। २७ ।।
उद्गतं मलवद्वासश्चतुर्थेऽहनि यत्स्रियाः ।।
तां मलोद्वाससं पत्नीमाहुस्तत्कर्मकारिणः ।। २८ ।।
गुणाढ्यापत्यफलवत्पुष्पभूतत्वकारणात् ।।
मलवद्वाससं प्राहुः श्रियं श्रीहेतुतः स्रियम् ।। २९ ।।
चतुर्थे दिवसे स्नातां गत्वा तामुपमन्त्रयेत् ।।
आत्मनोऽभिमुखीभावे वाग्यत्नोऽत्रोपमन्त्रणम् ।। ३० ।।
प्रेम्णोपमन्त्रिताऽप्यस्मै पत्ये दद्यान्न चेदसौ ।।
वस्राभरणभोगाद्यैरात्मनो वशमानयेत् ।। ३१ ।।
तथाऽप्युक्ता न चेद्दद्याद्बलात्तां वशमानयेत् ।।
उपेयात्तामतिक्रम्य शापदानाय रोषितः ।। ३२ ।।
इन्द्रियेण त इत्यादिमन्त्रेणाथ शपेद्रुषा ।।
पतिशापादपुत्रा सा वशमाशु भवेत्तदा ।। ३३ ।।
शप्स्यामि त्वामिति ह्युक्त्वा वशं तामानयेत्पतिः ।।
दद्याच्छापभयात्सा चेदनुलोमं तदाऽऽचरेत् ।। ३४ ।।
अथ शापभयाद्दद्यात्पत्ये कामितमादरात् ।।
तदा निवर्तयेच्छापं मन्त्रेणानेन सत्पतिः ।। ३५ ।।
पुरुषद्वेषिणीं भार्यां पतिश्चेदभिकामयेत् ।।
मामियं कामयेतेति कुर्यात्तस्या इमं विधिम् ।। ३६ ।।
उक्तमन्थविधानेन चरितव्रत एव सन् ।।
उत्तरेष्वपि कार्येषु सर्वं तदनुवर्तयेत् ।। ३७ ।।
स्रीलक्षणे प्रवेश्यान्तरात्मीयं पुंस्त्वलक्षणम् ।।
वक्त्रं वक्त्रेण संधाय स्पृष्ट्वोपस्थं जपेदथ ।। ३८ ।।
अङ्गादङ्गात्संभवसि जग्धान्नपरिणामतः ।।
रसाच्छोणितमित्यादिक्रमाच्छुक्रतया मम ।। ३९ ।।
शुक्रप्रवहया नाड्या हृदयाच्चाभिजायसे ।।
स त्वमङ्गकषायोऽसि दिग्धविद्धां मृगीमिव ।।
स्नेहोपरोधादेवैतां पत्नीं मे वशमानय ।। ४० ।।
मा बिभर्गर्भमित्येमथ यां कामयेत सः ।।
रूपभ्रंशो हि भवति यतो गर्भस्य धारणे ।। ४१ ।।
तथा यौवनहानिश्च तस्मादेवं स कामयेत् ।।
तस्यां स्वमर्थं निष्ठाय मुखेनेत्यादि पूर्ववत् ।। ४२ ।।
प्राण्याऽऽदौ रेचकं कृत्वाऽपानयेत्तदनन्तरम् ।। ४३ ।।
निषिक्तमपि तद्रेतः प्राणवृत्त्या यथाविधि ।।
अपानवृत्त्या तद्ध्वस्तमित्येत्कर्मणः फलम् ।। ४४ ।।
इन्द्रियेण त इत्यादिमन्त्रोक्त्या तां परामृशेत् ।। ४५ ।।
इन्द्रियेणैव त्वद्रेतो रेतसा आदेदे स्वयम् ।।
अरेता एव सा स्री स्यादेवं पत्याऽभिमन्त्रिता ।। ४६ ।।
दधीत गर्भमित्येवं यामिच्छेत्पतिरङ्गनाम् ।।
तामपान्य प्रयत्नेन प्राण्यान्मन्त्रेण कारयेत् ।।
इन्द्रियेण त इत्युक्त्या आदधामीति सत्पतिः ।। ४७ ।।
अथाऽऽभिचारिकं कर्म प्रसङ्गादभिधीयते ।।
उपायत्वेन विज्ञप्त्यै श्येनवन्न विधीयते ।। ४८ ।।
अथ यस्य गृहस्थस्य पत्न्या जारो भवेत्कचित् ।।
तं चेद्दूिष्याद्रुषैवैनामारभेत तदा क्रियाम् ।। ४९ ।।
न ह्यद्विष्टमनस्कस्य कर्मैतत्सिद्धिमश्नुते ।।
अतोऽधिकारिविज्ञप्त्यै द्विष्यादिति विशेषणम् ।। ५० ।।
आमपात्रेऽग्निमित्युक्त्या ह्यभिचाराख्याकर्मणः ।।
योग्यतैवाऽऽमपात्रस्य भिंदुरत्वसमन्वयात् ।। ५१ ।।
यथाऽऽमं भिदुरं पात्रमप्सु सद्यो विलीयते ।।
प्राप्तजारोऽपि मे शत्रुस्तथैवाऽऽशु विदीर्यताम् ।। ५२ ।।
अग्निमित्येकवचनादुल्लिख्यादेश्च लिङ्तः ।।
आवसथ्याग्निनिर्देशो न तु त्रेताग्निसंग्रहः ।। ५३ ।।
प्रतिलोममवस्तीर्य कर्मणः प्रतिलोमतः ।।
शरबर्हिः प्रयत्नेन विद्वान्रोषसमन्वितः ।। ५४ ।।
तस्मिन्नग्नौ शरेषीका घृताक्ता जुहुयादथ ।।
जारस्य दोषं प्रंख्याप्य मन्त्रेणानेन सत्वरः ।। ५५ ।।
मम स्वभूते योषाग्नौ समिद्धे यौवनादिना ।।
शुक्राहुतिं यतोऽहौषीरेष तेऽत्र व्यतिक्रमः ।। ५६ ।।
आददेऽतोऽपराधात्ते प्राणापानौ जिजीविषोः ।।
फट्कारेणैव जुहुयाच्छरभृष्टीर्यथोदिताः ।। ५७ ।।
तथा पुत्रान्पशूंश्चैव आददे तेऽद्य कामुक ।।
श्रौतमिष्टिं विजानीयात्स्मार्तं सुकृतमित्यपि ।। ५८ ।।
श्रौतं स्मार्तं च यत्किंचित्पुण्यं कर्म त्वया कृतम् ।।
तत्सर्वं त आददेऽहमाहुतिं प्रक्षिपेद्रुषा ।। ५९ ।।
प्रार्थनाऽऽशेति विज्ञेया पराकाशा प्रतीक्षणम् ।।
आदानान्तो भवेन्मन्त्रः सर्वत्रैवं विनिर्दिशेत् ।। ६० ।।
वाङ्भात्रेण प्रतिज्ञातं कर्मणा नोपपादितम् ।।
तत्प्रतीक्षणमाकाङ्क्षा पराकाशेति भण्यते ।। ६१ ।।
स वा इत्यादिनाऽथास्य फलमुक्तस्य कर्मणः ।।
भण्यते वचसोक्तस्य निरिन्द्रियपुरःसरम् ।। ६२ ।।
निःशेषपुरुषार्थाप्तिलोपकृत्कर्म वर्णितम् ।।
जायया मैथुनाख्यं यच्छ्रोत्रियस्य विपश्चितः ।। ६३ ।।
उपहासमतो नेच्छेत्सार्धं श्रोत्रियजायया ।।
मैथुनं तु विशेषेण ह्युक्तानर्थजिहासया ।। ६४ ।।
कर्माऽऽभिचारिकं प्रोक्तं प्रसङ्गान्न प्रधानतः ।।
यदर्थस्तु प्रयासोऽयं तत्कमार्थ प्रपञ्च्यते ।। ६५ ।।
यस्य मन्थविधिज्ञस्य जायां चेदार्तवं व्रजेत् ।।
तिस्रो रात्रीर्न कांस्येन पानं कुर्यात्तथाऽशनम् ।। ६६ ।।
तथैवाहतवासाः स्यादहःस्वेतुषु शुद्धधीः ।।
वृषलो वृषली वैनां नोपहन्यात्कदाचन ।। ६७ ।।
अन्यो वा पापकृत्कश्चित्स्पर्शसंभाषणादिभिः ।।
व्रतस्था नोपहन्यात्तामभीप्सितफलाप्तये ।। ६८ ।।
सा त्रिरात्रान्त आप्लुत्याहतवासाः शुचिः सती ।।
श्रपणाय चरोर्भर्ता व्रीहींस्तामवघातयेत् ।। ६९ ।।
शुक्लो गौरोऽत्र विज्ञेयः शुक्लो वा बलदेववत् ।।
सुव्याख्येयत्वतः शेषः स्वयमेवावागम्यताम् ।। ७० ।।
क्षीरौदनं तयैवाथ पाचयित्वा स्वयं पतिः ।। ७१ ।।
दंपती घृतवन्तं तमश्नीयातामथौदनम् ।।
स्वतन्त्रावीश्वरौ स्यातां सत्पुत्रप्रसवाय तौ ।। ७२ ।।
यथोक्तपुत्रप्रसवे यदि वा क्षिप्रकारिणौ ।।
यथोक्तकर्मणैतेन स्यातां तावेव दंपती ।। ७३ ।।
दुहता पण्डितेत्यत्र स्रीणामुचितकर्मसु ।।
तत्पाण्डित्यमिह ज्ञेयं न तु वेदार्थगोचरम् ।। ७४ ।।
विजिगीतो जगत्यस्मिन्नत्यर्थं यो विशब्दितः ।।
विद्वत्सभा च समितिस्तद्योग्यः समितिंगमः ।। ७५ ।।
प्रकृतायां त्रिसंख्यायां सर्वशब्दप्रयोगतः ।।
प्रतीयाच्चतरो वेदान्सर्वशब्दार्थवित्तये ।। ७६ ।।
तण्डुलान्मांससंमिश्रान्पकत्वा मांसौदनं विदुः ।।
उक्षा सेचनशक्तो गौः स एव ऋषभो महान् ।। ७७ ।।
प्रसिद्ध्यसंभवात्त्वद्य ह्युक्तं मांसौदनं प्रति ।।
मांसं कृष्णमृगच्छागविषयं त्वद्य कुर्वते ।। ७८ ।।
यत्नेनोपार्जितं तच्चेत्क्रीत्वा वा मांसमाहरेत् ।।
हिंसायाः प्रतिषिद्धत्वात्पशून्हन्यान्न तु स्वयम् ।। ७९ ।।
अथशब्दो विकल्पार्थो यथोक्तानां यथारुचि ।।
काम्यानां ह्यन्यतम् पक्षमाश्रित्य भण्यते ।। ८० ।।
आरभ्योद्गमने भानोः सर्वं स्नानाद्यशेषतः ।।
निर्वर्त्य संस्कारमथ यत्नात्प्राग्य उदाहृतः ।। ८१ ।।
स्थालीपाके क्रिया या सा चाऽऽवृदित्यभिधीयते ।।
स्थालीपाकविधानेन संस्कृत्याऽऽज्यं तथैव तु ।। ८२ ।।
उपलक्षणमन्येषामाज्यस्य ग्रहणं भवेत् ।।
आदिशब्दस्य वा लोपागाज्यादिमिति गम्यताम् ।। ८३ ।।
उपहत्येपहत्याथ स्थालीपाकस्य मन्त्रतः ।।
नित्यास्तत्राऽऽहुतीर्हुत्वा आवापस्थान आदरात् ।। ८४ ।।
प्रधानाहुतयस्तिस्रो याः स्युरग्न्यादिपूर्विकाः ।।
हुत्वा स्विष्टकृदन्तं तत्समापय्य यथोदितम् ।। ८५ ।।
कर्मेदं तत उद्धृत्य चरुं स्थाल्याः समाहितः ।।
सर्पिष्मन्तमथाश्नीयात्कामितार्थानुरोधतः ।। ८६ ।।
चरुं प्राश्य स्वयं शेषं भार्यायै संप्रयच्छति ।।
उच्छिष्टमेव भार्यायै चरुं भर्ता प्रयच्छति ।। ८७ ।।
पाणी प्रक्षाल्य यत्नेन सामर्थ्यादेव गम्यते ।।
स्मार्तमाचमनं शुद्ध्यै पाणिप्रक्षालनोक्तितः ।। ८८ ।।
उदपात्रमथाऽऽदाय तदद्भिस्रिः सुताप्तये ।।
वक्ष्यमाणेन मन्त्रेण जायाेमभ्युक्षयेन्मुहु ।। ८९ ।।
अतोऽस्मदीयदारेभ्य उत्थायान्यत आव्रज ।।
विश्वावस्वभिधानेन गन्धर्वोऽत्र प्रबोध्यते ।। ९० ।।
प्रपूर्व्यामिति नार्यत्र भण्यते तरुणी किल ।।
प्रपूर्वी पीवरीमन्यां याहि विश्वावसो द्रुतम् ।। ९१ ।।
प्रपूर्व्यामिति लिङ्गाच्च तरुण्यां सत्पतिः सदा ।।
यथोदितं कर्म सत्यां कुर्यात्सत्पुत्रजन्मने ।। ९२ ।।
अहं तु स्वामिमां जायां समुपैमीति संगतिः ।।
एवं प्रस्थाप्य गन्धर्वमथैनामभिपद्यते ।। ९३ ।।
अभीष्टगर्भाधानाय जायामालिङ्गते पतिः ।।
अमोऽहमितिमन्त्रोक्त्या तावावां देवतात्मकौ ।। ९४ ।।
कर्माऽऽरभावहै देवि सत्सुतोत्पत्तिसिद्धये ।।
त्वं चाहं चैव संभूय योनौ रेतो दधावहै ।। ९५ ।।
रेतःक्षेपफलं चाऽऽह पुंसे पुत्राय लब्धये ।।
मन्त्रोक्त्यनन्तरं तस्या विजिहीथामितीरयेत् ।। ९६ ।।
विहापयति मन्त्रेण ऊरू पत्न्याः प्रयत्नतः ।।
ऊर्वोरामन्त्रणं चैतद्विजिहीथामितीक्ष्यताम् ।। ९७ ।।
विजिहीतेरिदं रूपं ण्यन्तस्य गतिकर्मणः ।। ९८ ।।
मन्त्रतः पाणिनाऽथैनां त्रीन्वाराननुलोमतः ।।
अनुमार्ष्ट्यथ तां जायां मन्त्रं विष्णुरितीरयन् ।। ९९ ।।
समर्थनं कल्पनार्थस्त्वष्टाऽवयवशस्तथा ।।
निर्वर्तयतु रूपाणि शोभनानि सुतस्य मे ।। १०० ।।
दर्शाहर्देवता चेह सिनीवालीति भण्यते ।।
पृथुष्टुकेति सौवोक्ता पृथुस्तुतिरसौ यतः ।। १०१ ।।
गर्भं चे सम्यगाधात्तामश्विनौ पुष्करस्रजौ ।।
सूर्याचन्द्रमसावेव विज्ञेयावश्विनाविह ।। १०२ ।।
स्वरश्मिस्रग्विणौ तौ हि प्रसिद्धौ जगति यतः ।। १०३ ।।
हिरण्यं ज्योतिरमृतं तन्मय्यावरणी शुभे ।।
निरमन्थतां याभ्यां तावश्विनावमृतं पुरा ।।। १०४ ।।
अश्विनौ यादृशं गर्भं प्रयत्नान्निरमन्थताम् ।।
आदधावस्तथा रूपं दशमे मासि सूतये ।। १०५ ।।
यथाऽग्निगर्भा पृथिवी द्यौरिन्द्रेणेव भानुन ।।
वायुर्दिशां यथा गर्भो दृष्टः श्लथनकर्मकृत् ।। १०६ ।।
आत्मनाम समुच्चार्य तथा गर्भं दधामि ते ।।
तस्या वा नाम गृह्णीयान्मन्त्रमुच्चारयन्पतिः ।। १०७ ।।
मन्त्रेणाथैष सोष्यन्तीमद्भिरभ्युक्षयेच्छनैः ।।
वायुः पुष्करिणीं यद्वत्समञ्जयति चालयेत् ।। १०८ ।।
यथा पुष्करिणीं वायुश्चालयन्नपि सर्वतः ।।
न करोति क्षतिं तद्वद्गर्भ एजतु ते सुखम् ।। १०९ ।।
गर्भस्त्वां सुखयन्नेतु सहोल्बेण जरायुणा ।।
व्रजो मार्गो हि गर्भस्य सार्गलोऽयं कृतः पुरा ।। ११० ।।
जरायुरर्गलस्तं त्वमिन्द्र निर्जहि सत्वरः ।।
गर्भे विनिःसृते पश्चाद्या निर्गच्छति योनितः ।। १११ ।।
मांसपेशी समा तन्वी साऽवरेति निगद्यते ।।
प्राणश्चेन्द्रोऽत्र विज्ञेयः स एव प्रार्थ्यते ततः ।। ११२ ।।
जाते कुमारेऽथ पतिरङ्कमारोप्य तं पिता ।।
अग्निं ह्युपसमाधाय प्रसिद्धार्थमथापरम् ।। ११३ ।।
घृतं दधि च संमिश्रं पृषदाज्यमितीर्यते ।।
एकीकृत्याथ संनीय पृषदाज्यस्य मन्त्रतः ।। ११४ ।।
उपधातं जुहोतीति णमुल्वाऽऽभीक्ष्ण्य इष्यते ।।
उपहत्योपहत्येति पृषदाज्याहुतीः क्षिपेत् ।। ११५ ।।
पुष्यासं स्वे गृहेऽत्राहं मनुष्याणां प्रकामतः ।।
सहस्रसंख्यया शश्वद्बहोर्नाम सहस्रगीः ।। ११६ ।।
एवं त्वं वर्धमानोऽत्र मन्वीथाः पुत्र संततिम् ।।
संततावुपसन्धां त्वां पश्वादेर्मे करिष्यसि ।। ११७ ।।
नैव व्यपेक्षते व्याख्यां स्पष्टार्थत्वेन हेतुना ।।
मयि प्राणानिति ग्रन्थः स्वयमेवावगम्यताम् ।। ११८ ।।
अथास्य स्वमुखे कर्णं दक्षिणं प्रणिधाय तु ।।
वाग्वागिति हि त्रिर्ब्रूयात्र्रयी वागिति भण्यते ।। ११९ ।।
त्रयी वाक्त्वां श्रोत्रमार्गेण श्रेयसे प्रविशत्वियम् ।।
यस्ते स्तन इति गिरा शस्यतेऽत्र सरस्वती ।। १२० ।।
उदारगुणसंपत्तिः सुतस्यास्त्विति भण्यते ।।
शशयः सशयो ज्ञेयः शयश्च फलमुच्यते ।। १२१ ।।
गुहा शयो वा शशयः श्रुत्यैव प्रतिपादितः ।।
मयोभूरन्नभूतोऽयं सर्वप्राणिभृदुच्यते ।। १२२ ।।
रत्नस्य पयसोऽत्यर्थं रत्नाधारश्च यः स्तनः ।।
वसुनो धनस्य लब्धा च तस्य वृष्ट्यादिहेतुनः ।। १२३ ।।
भूरिकल्याणदातृत्वात्सुदत्र इति भण्यते ।।
येन पुष्यसि वार्याणि सर्वाणीह सरस्वति ।। १२४ ।।
देवादीनि वराणि त्वं सर्वैर्भोगैः प्रपुष्यसि ।। १२५ ।।
पानाय मम पुत्रस्य स्त्रीस्तने संनिवेशय ।।
यथोक्तगुणकं देवि स्वस्तनं सर्वकाभदम् ।। १२६ ।।
इलाऽसीत्यथ मन्त्रेण सूनोर्मातरमादरात् ।।
अभिमन्त्रयते साधुकर्मावाप्त्यै स्वयं पतिः ।। १२७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य चतुर्थं ब्राह्मणम्
संभावितं न यत्पूर्वं कृत्स्नेऽस्मिन्ब्रह्मणेऽपि तत् ।।
खिलकाण्डे तदखिलं पुत्रमन्थान्तमीरितम् ।। १ ।।
पूर्वकाण्डैकदेशत्वात्खिलकाण्डं न वंशभाक् ।।
पूर्वत्र विद्यासंभेदाद्भिन्नौ वंशाविहोदितौ ।। २ ।।
पूर्वौश्चतुर्भिरध्यायैस्त्वाष्ट्रं कक्ष्यं च यन्मधु ।।
व्याख्यातं तदशेषेण वंशस्तत्र तदर्थभाक् ।। ३ ।।
मधुक्रण्डागमार्थस्य यथाकृह्मतिपत्तये ।।
काण्डं स्याद्याज्ञवल्कीयं वंशस्तद्विषयस्तथा ।। ४ ।।
अयं तु वंशो विज्ञेयः कृत्स्नप्रवचनाश्रयः ।।
समाप्तौ ब्राह्मणस्योक्तेरयमर्थोऽवसीयते ।। ५ ।।
उक्तवेदार्थविज्ञानसाकल्यप्रतिपत्तये ।।
जपो वंशस्य येनातः श्रुत्या वंश इहोदितः ।। ६ ।।
सर्वज्ञानं यतो वंशास्रयोऽप्येते यथोदिताः ।।
अतस्तत्स्मृतितः सम्यग्ज्ञानभानूदयो भवेत् ।। ७ ।।
पुत्रमन्थेन संस्कारः स्रीणामेवेह वर्णितः ।।
यतोऽतः स्रीप्रधानोऽयं पुत्राणां वंश उच्यते ।। ८ ।।
अन्यतोऽन्यत एवायं संप्रदायो यथाऽभवत् ।।
न तथा ब्रह्मणस्तस्मात्तत्स्वयंभ्विति शब्द्यते ।। ९ ।।
अन्येषां वेदतो ज्ञानं भूरिसाधनसंश्रयात् ।।
स्वतो वेदात्मनस्तस्मात्सर्वज्ञानमयो हि सः ।। १० ।।
सर्वस्यैष वशीत्यादि तथाऽपि प्रागवादिषम् ।।
परैव देवता वेदो यच्च किंचिच्चराचरम् ।। ११ ।।
प्रतिपाद्याऽऽत्मनाऽऽत्मानं नामरूपादिसाधनः ।।
एति पूर्णात्मतां साक्षाद्धियां वाचामगोचरम् ।। १२ ।।
त्रय्यैव ब्राह्मणो विद्वानात्मनैवाद्वयं परम् ।।
विदित्वा निर्वृतिं याति कार्यकारणयोः पराण् ।। १३ ।।
वेदोऽसीत्यत एवास्य नाम जातस्य कुर्वते ।।
वेदात्मना कथं नाम परं ब्रह्म प्रपत्स्यते ।। १४ ।।
वाजिशाखासु सर्वासु ह्यासुरायणपूर्वकाः ।।
समाना वंशर्षयोऽमी ह्या समाप्तेरितीक्ष्यताम् ।। १५ ।।
आदित्येन हि प्रोक्तानि यजूंष्येतानि यानि तु ।।
आदित्यानीत्यतस्तानि सम्यगाचक्षते बुधाः ।। १६ ।।
वेदात्मनो रवेरेवं संप्रदायोऽत्रयमागतः ।।
परमेष्ठ्यादिकान्सर्वान्पारंपर्येण मानुषान् ।। १७ ।।
असंसृष्टं परं ब्रह्म सर्वदोषविवर्जितम् ।।
एतदादित्यगं भाति तद्वेदानां परं वपुः ।। १८ ।।
उत्सन्नमपि यद्ब्रह्म तदादित्ये न नश्यति ।।
तदार्षेणैव विन्दन्ति तपस्तप्त्वा महर्षयः ।। १९ ।।
वेदब्रह्मण आरभ्य सर्वेषामपि शाखिनाम् ।।
सांजीवीसूनुपर्यन्तो वंश एको न भिद्यते ।। २० ।।
सांजीवीपुत्रतस्त्वर्वाक्प्रतिशाखं पृथक्पृथक् ।।
आचार्यभेदाद्भिद्यन्ते वंशा वाजसनेयिनाम् ।। २१ ।।
इत्युक्तैकात्म्यवाक्यप्रविकचकमला प्राज्यसन्न्यायगन्धा
काण्डैश्चित्रा षडर्धैर्मधुमुनिखिलकैर्मस्करीन्द्रालिजुष्टा ।।
श्लोकग्रन्थप्रबद्धाऽविषयमितिफला प्रेमसत्सूत्रसूत्रा ।।
माला गङ्गेव शंभुं पदममलमजं वैष्णवं साऽनुयाता ।। २२ ।।
यत्प्रज्ञोदधियुक्तिशब्दनखजश्रद्धैकसन्नेत्रक-
स्थैर्यस्तम्भमुमुक्षुदुःखितकृपायत्नोत्थबोधामृतम् ।।
पीत्वा जन्ममृतिप्रवाहविधुरा मोक्षं ययुर्मोक्षिण-
स्तं वन्देऽत्रिकुलप्रसूतममलं वेधोभिधं मद्गुरुम् ।। २३ ।।
यामस्मद्गुरुरेव वेदशिरसामैकात्म्यतात्पर्यतो
वृत्तिं सज्जनशंकरीं सुविमलां नानानयोद्द्योतिताम् ।।
चक्रे काण्वसमाश्रितोपनिषदो दुस्तर्कदोषापहां
श्रद्धामात्रबलेन वार्तिकमिदं तस्याः समासात्कृतम् ।। २४ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य पञ्चमं ब्राह्मणम्
इति द्वादशसाहस्रवार्तिकामृतमीरितम् ।।
काण्वारण्यकभाष्यस्य शांकरस्य समासतः ।।
श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छकरभगवत्पूज्यपादशिष्य श्रीमत्सुरेश्वराचार्यकृतौ बृहदारण्यकोपनिषद्भाष्यवार्तिकप्र- स्थने षष्ठोऽध्यायः