अद्वैतशारदा

छान्दोग्योपनिषद्भाष्यम्

द्वितीयोऽध्यायः

व्याख्याः

प्रथमः खण्डः

‘ओमि­त्ये­त­द­क्ष­रम्’ इत्यादिना सामा­व­य­व­वि­ष­य­मु­पा­स­न­म­ने­क­फ­ल­मु­प­दि­ष्टम् । अनन्तरं च स्तोभा­क्ष­र­वि­ष­य­मु­पा­स­न­मु­क्तम् — सर्वथापि सामै­क­दे­श­स­म्ब­द्ध­मेव तदिति । अथेदानीं समस्ते साम्नि सम­स्त­सा­म­वि­ष­या­ण्यु­पा­स­नानि वक्ष्या­मी­त्या­र­भते श्रुतिः । युक्तं हि एक­दे­शो­पा­स­ना­न­न्त­र­मे­क­दे­शि­वि­ष­य­मु­पा­स­न­मु­च्यत इति ॥

समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सा­मे­त्या­च­क्षते यदसाधु तदसामेति ॥ १ ॥

समस्तस्य सर्वा­व­य­व­वि­शि­ष्टस्य पाञ्चभक्तिकस्य साप्तभक्तिकस्य च इत्यर्थः । खल्विति वाक्या­ल­ङ्का­रार्थः । साम्न उपासनं साधु । समस्ते साम्नि साधु­दृ­ष्टि­वि­धि­प­र­त्वान्न पुर्वो­पा­स­न­नि­न्दा­र्थत्वं साधुशब्दस्य । ननु पूर्व­त्रा­वि­द्य­मानं साधुत्वं समस्ते साम्न्यभिधीयते । न, ‘साधु सामेत्युपास्ते’(छा. उ. २ । १ । ४) इत्युपसंहारात् । साधुशब्दः शोभनवाची । कथमवगंयत इति, आह — यत्खलु लोके साधु शोभनमनवद्यं प्रसिद्धम् , तत्सा­मे­त्या­च­क्षते कुशलाः । यदसाधु विपरीतम् , तदसामेति ॥

तदुताप्याहुः साम्नै­न­मु­पा­गा­दिति साधु­नै­न­मु­पा­गा­दि­त्येव तदा­हु­र­सा­म्नै­न­मु­पा­गा­दि­त्य­सा­धु­नै­न­मु­पा­गा­दि­त्येव तदाहुः ॥ २ ॥

तत् तत्रैव साध्व­सा­धु­वि­वे­क­क­रणे उताप्याहुः — साम्ना एनं राजानं सामन्तं च उपागात्

उपगतवान् ; कोऽसौ ? यतः असा­धु­त्व­प्रा­प्त्या­शङ्का स इत्यभिप्रायः ; शोभनाभिप्रायेण साधुना एनमुपागात् इत्येव तत् तत्र आहुः लौकिकाः बन्ध­ना­द्य­सा­धु­का­र्य­म­प­श्यन्तः । यत्र पुनर्विपर्ययेण बन्ध­ना­द्य­सा­धु­कार्यं पश्यन्ति, तत्र असाम्ना एनमुपागादिति असा­धु­नै­न­मु­पा­गा­दि­त्येव तदाहुः ॥

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥

अथोताप्याहुः स्वसंवेद्यं साम नः अस्माकं बतेति अनुकम्पयन्तः संवृ­त्त­मि­त्याहुः ; एतत्तैरुक्तं भवति, यत्साधु भवति साधु बतेत्येव तदाहुः ; विपर्यये जाते असाम नो बतेति ; यदसाधु भवति असाधु बतेत्येव तदाहुः ; तस्मा­त्सा­म­सा­धु­श­ब्द­यो­रे­का­र्थत्वं सिद्धम् ॥

स य एतदेवं विद्वान्साधु सामे­त्यु­पा­स्तेऽ­भ्याशो ह यदेनꣳ साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥

अतः स यः कश्चित्साधु सामेति साधु­गु­ण­व­त्सा­मे­त्यु­पास्ते समस्तं साम साधु­गु­ण­व­द्वि­द्वान् , तस्यैतत्फलम् अभ्याशो ह क्षिप्रं ह, यत् इति क्रिया­वि­शे­ष­णा­र्थम् , एनम् उपासकं साधवः शोभनाः धर्माः श्रुति­स्मृ­त्य­वि­रुद्धाः आ च गच्छेयुः आगच्छेयुश्च ; न केवलमागच्छेयुः, उप च नमेयुः उपनमेयुश्च, भोग्य­त्वे­नो­प­ति­ष्ठे­यु­रि­त्यर्थः ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

लोकेषु पञ्चविधꣳ सामोपासीत पृथिवी हिङ्कारः । अग्निः प्रस्ता­वोऽ­न्त­रि­क्ष­मु­द्गीथ आदित्यः प्रतिहारो द्यौर्नि­ध­न­मि­त्यू­र्ध्वेषु ॥ १ ॥

कानि पुनस्तानि साधु­दृ­ष्टि­वि­शि­ष्टानि समस्तानि सामा­न्यु­पा­स्या­नीति, इमानि तान्युच्यन्ते — लोकेषु पञ्चविधम् इत्यादीनि । ननु लोकादिदृष्ट्या तान्युपास्यानि साधुदृष्ट्या च इति विरुद्धम् ; न, साध्वर्थस्य लोका­दि­का­र्ये­षु­का­र­ण­स्या­नु­ग­त­त्वात् — मृदा­दि­व­द्ध­टा­दि­वि­का­रेषु । साधु­श­ब्द­वा­च्योऽर्थो धर्मो ब्रह्म वा सर्वथापि लोका­दि­का­र्ये­ष्व­नु­ग­तम् । अतः यथा यत्र घटादिदृष्टिः मृदा­दि­दृ­ष्ट्य­नु­ग­तैव सा, तथा साधु­दृ­ष्ट्य­नु­ग­तैव लोकादिदृष्टिः — धर्मा­दि­का­र्य­त्वा­ल्लो­का­दी­नाम् । यद्यपि कार­ण­त्व­म­वि­शिष्टं ब्रह्मधर्मयोः, तथापि धर्म एव साधुशब्दवाच्य इति युक्तम् , साधुकारी साधुर्भवति इति धर्मविषये साधु­श­ब्द­प्र­यो­गात् । ननु लोकादिकार्येषु कार­ण­स्या­नु­ग­त­त्वा­द­र्थ­प्रा­प्तैव तद्दृष्टिरिति ‘साधु सामेत्युपास्ते’(छा. उ. २ । १ । ४) इति न वक्तव्यम् ; न, शास्त्र­ग­म्य­त्वा­त्त­द्दृष्टेः ; सर्वत्र हि शास्त्रप्रापिता एव धर्मा उपास्याः, न विद्यमाना अप्यशास्त्रीयाः ॥

लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चभक्तिभेदेन पञ्चप्रकारं साधु समस्तं सामोपासीत । कथम् ? पृथिवी हिङ्कारः । लोकेष्विति या सप्तमी, तां प्रथमात्वेन विपरिणमय्य पृथिवीदृष्ट्या हिङ्कारे पृथिवी हिङ्कार इत्युपासीत । व्यत्यस्य वा सप्तमीश्रुतिं लोकविषयां हिङ्कारादिषु पृथि­व्या­दि­दृष्टिं कृत्वोपासीत । तत्र पृथिवी हिङ्कारः, प्राथ­म्य­सा­मा­न्यात् । अग्निः प्रस्तावः । अग्नौ हि कर्माणि प्रस्तूयन्ते । प्रस्तावश्च भक्तिः । अन्त­रि­क्ष­मु­द्गीथः । अन्तरिक्षं हि गगनम् । गका­र­वि­शि­ष्ट­श्चो­द्गीथः । आदित्यः प्रतिहारः, प्रति­प्रा­ण्य­भि­मु­ख­त्वान्मां प्रति मां प्रतीति । द्यौर्निधनम् । दिवि निधीयन्ते हि इतो गता इत्यू­र्ध्वे­षू­र्ध्व­ग­तेषु लोकदृष्ट्या सामोपासनम् ॥

अथावृत्तेषु द्यौर्हिङ्कार आदित्यः प्रस्ता­वोऽ­न्त­रि­क्ष­मु­द्गी­थोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ २ ॥

अथ आवृत्तेषु अवाङ्मुखेषु पञ्चविधमुच्यते सामोपासनम् । गत्या­ग­ति­वि­शिष्टा हि लोकाः । यथा ते, तथादृष्ट्यैव सामोपासनं विधीयते यतः, अत आवृत्तेषु लोकेषु । द्यौर्हिङ्कारः, प्राथम्यात् । आदित्यः प्रस्तावः, उदिते ह्यादित्ये प्रस्तूयन्ते कर्माणि प्राणिनाम् । अन्त­रि­क्ष­मु­द्गीथः पूर्ववत् । अग्निः प्रतिहारः, प्राणिभिः प्रतिहरणादग्नेः । पृथिवी निधनम् , तत आगतानामिह निधनात् ॥

कल्पन्ते हास्मै लोका ऊर्ध्वा­श्चा­वृ­त्ताश्च य एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्ते ॥ ३ ॥

उपासनफलं — कल्पन्ते समर्था भवन्ति ह अस्मै लोका ऊर्ध्वाश्च आवृत्ताश्च, गत्या­ग­ति­वि­शिष्टा भोग्यत्वेन व्यवतिष्ठन्त इत्यर्थः । य एतदेवं विद्वान् लोकेषु पञ्चविधं समस्तं साधु सामेत्युपास्ते इति सर्वत्र योजना पञ्चविधे सप्तविधे च ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥

तृतीयः खण्डः

वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ १ ॥

वृष्टौ पञ्चविधं साम उपासीत । लोकस्थितेः वृष्टि­नि­मि­त्त­त्वा­दा­न­न्त­र्यम् । पुरोवातो हिङ्कारः । पुरो­वा­ता­द्यु­द्ग्र­ह­णान्ता हि वृष्टिः, यथा साम हिङ्का­रा­दि­नि­ध­ना­न्तम् ; अतः पुरोवातो हिङ्कारः, प्राथम्यात् । मेघो जायते स प्रस्तावः ; प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिद्धिः ; वर्षति स उद्गीथः, श्रैष्ठ्यात् ; विद्योतते स्तनयति स प्रतिहारः, प्रतिहृतत्वात् ; उद्गृह्णाति तत् निधनम् , समा­प्ति­सा­मा­न्यात् ॥

वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधं सामोपास्ते ॥ २ ॥

फलमुपासनस्य — वर्षति ह अस्मै इच्छातः । तथा वर्षयति ह असत्यामपि वृष्टौ । य एतदित्यादि पूर्ववत् ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥

चतुर्थः खण्डः

सर्वास्वप्सु पञ्चविधꣳ सामोपासीत मेघो यत्सम्प्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ १ ॥

सर्वास्वप्सु पञ्चविधं साम उपासीत । वृष्टि­पू­र्व­क­त्वा­त्स­र्वा­सा­म­पा­मा­न­न्त­र्यम् । मेघो यत्सम्प्लवते एकीभावेनेतरेतरं घनीभवति मेघः यदा उन्नतः, तदा सम्प्लवते इत्युच्यते, तदा अपामारभ्भः स हिङ्कारः ; यद्वर्षति स प्रस्तावः ; आपः सर्वतो व्याप्तुं प्रस्तुताः । याः प्राच्यः स्यन्दन्ते स उद्गीथः, श्रौष्ठ्यात् ; याः प्रतीच्यः स प्रतिहारः, प्रति­श­ब्द­सा­मा­न्यात् ; समुद्रो निधनम् , तन्नि­ध­न­त्वा­द­पाम् ॥

न हाप्सु पॆत्य­प्सु­मा­न्भ­वति य एतदेवं विद्वा­न्स­र्वा­स्वप्सु पञ्चविधꣳ सामोपास्ते ॥ २ ॥

न ह अप्सु प्रैतिं । नेच्छति चेत् । अप्सुमान् अंमान्भवति फलम् ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

पञ्चमः खण्डः

ऋतुषु पञ्चविधꣳ सामोपासीत वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम् ॥ १ ॥

ऋतुषु पञ्चविधं साम उपासीत । ऋतुव्यवस्थाया यथो­क्ता­म्बु­नि­मि­त्त­त्वा­दा­न­न्त­र्यम् । वसन्तो हिङ्कारः, प्राथम्यात् ; ग्रीष्मः प्रस्तावः ; यवादिसङ्ग्रहः प्रस्तूयते हि प्रावृडर्थम् ; वर्षा उद्गीथः, प्राधान्यात् ; शरत् प्रतिहारः, रोगिणां मृतानां च प्रतिहरणात् ; हेमन्तो निधनम् , निवाते निध­ना­त्प्रा­णि­नाम् ॥

कल्पन्ते हास्मा ॠतव ॠतुमान्भवति य एतदेवं विद्वानृतुषु पञ्चविधꣳ सामोपास्ते ॥ २ ॥

फलम् — कल्पन्ते ह ऋतु­व्य­व­स्था­नु­रूपं भोग्यत्वेनास्मै उपासकाय ऋतवः । ऋतुमान् आर्तवैर्भोगैश्च सम्पन्नो भवतीत्यर्थः ॥

इति पञ्च­म­ख­ण्ड­भा­ष्यम् ॥

षष्ठः खण्डः

पशुषु पञ्चविधꣳ सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ १ ॥

पशुषु पञ्चविधं साम उपासीत । संय­ग्वृ­त्ते­ष्वृ­तुषु पशव्यः काल इत्यानन्तर्यम् । अजा हिङ्कारः, प्राधान्यात् , प्राथम्याद्वा — ‘अजः पशूनां प्रथमः’(?) इति श्रुतेः ; अवयः प्रस्तावः, साह­च­र्य­द­र्श­ना­द­जा­वी­नाम् ; गाव उद्गीथः, श्रैष्ठ्यात् ; अश्वाः प्रतिहारः, प्रति­हा­र­णा­त्पु­रु­षा­णाम् ; पुरुषो निधनम् , पुरु­षा­श्र­य­त्वा­त्प­शू­नाम् ॥

भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं विद्वान्पशुषु पञ्चविधꣳ सामोपास्ते ॥ २ ॥

फलम् — भवन्ति ह अस्य पशवः पशुमान्भवति, पशुफलैश्च भोग­त्या­गा­दि­भि­र्यु­ज्यत इत्यर्थः ॥

इति षष्ठखण्डभाष्यम् ॥

सप्तमः खण्डः

प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारो वाक्प्र­स्ता­व­श्च­क्षु­रु­द्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयांसि वा एतानि ॥ १ ॥

प्राणेषु पञ्चविधं परोवरीयः साम उपासीत, परं परं वरी­य­स्त्व­गु­ण­व­त्प्रा­ण­दृ­ष्टि­वि­शिष्टं सामो­पा­सी­ते­त्यर्थः । प्राणो हिङ्कारः, उत्त­रो­त्त­र­व­री­यसां प्राथम्यात् ; वाक् प्रस्तावः, वाचा हि प्रस्तूयते सर्वम् , वाग्वरीयसी प्राणात् — अप्रा­प्त­म­प्यु­च्यते वाचा, प्राप्तस्यैव तु गन्धस्य ग्राहकः प्राणः ; चक्षुरुद्गीथः, वाचो बहुतरविषयं प्रकाशयति चक्षुः, अतो वरीयो वाचः उद्गीथः, श्रैष्ठ्यात् ; श्रोत्रं प्रतिहारः, प्रतिहृतत्वात् ; वरीयश्चक्षुषः, सर्वतः श्रवणात् ; मनो निधनम् , मनसि हि निधीयन्ते पुरुषस्य भोग्यत्वेन सर्वे­न्द्रि­या­हृता विषयाः ; वरीयस्त्वं च श्रोत्रान्मनसः, सर्वे­न्द्रि­य­वि­ष­य­व्या­प­क­त्वात् ; अती­न्द्रि­य­वि­ष­योऽपि मनसो गोचर एवेति । यथोक्तहेतुभ्यः परोवरीयांसि प्राणादीनि वै एतानि ॥

परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वा­न्प्रा­णेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ २ ॥

एतद्दृष्ट्या विशिष्टं यः परोवरीयः साम उपास्ते, परोवरीयो ह अस्य जीवनं भव­ती­त्यु­क्ता­र्थम् । इति तु पञ्चविधस्य साम्न उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये बुद्धि­स­मा­धा­ना­र्थम् । निरपेक्षो हि पञ्चविधे, वक्ष्यमाणे बुद्धिं समाधित्सति ॥

इति सप्त­म­ख­ण्ड­भा­ष्यम् ॥

अष्टमः खण्डः

अथ सप्तविधस्य वाचि सप्तविधꣳ सामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो युत्प्रेति स प्रस्तावो यदेति स आदिः ॥ १ ॥

अथ अनन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते । वाचि इति सप्तमी पूर्ववत् , वाग्दृ­ष्टि­वि­शिष्टं सप्तविधं सामो­पा­सी­ते­त्यर्थः । यत्किञ्च वाचः शब्दस्य हुमिति यो विशेषः स हिङ्कारः, हकारसामान्यात् । यत्प्रेति शब्दरूपं स प्रस्तावः, प्र - सामान्यात् । यत् आ इति स आदिः, आकारसामान्यात् । आदि­रि­त्यो­ङ्कारः, सर्वादित्वात् ॥

यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २ ॥

यदुदिति स उद्गीथः, उत्पू­र्व­त्वा­दु­द्गी­थस्य ; यत्प्रतीति स प्रतिहारः, प्रतिसामान्यात् ; यदुपेति स उपद्रवः, उपो­प­क्र­म­त्वा­दु­प­द्र­वस्य ; यन्नीति तन्निधनम् , नि - शब्दसामान्यात् ॥

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽ­न्न­वा­न­न्नादो भवति य एतदेवं विद्वान्वाचि सप्तविधꣳ सामोपास्ते ॥ ३ ॥

दुग्धेऽस्मै इत्या­द्यु­क्ता­र्थम् ॥

इति अष्ट­म­ख­ण्ड­भा­ष्यम् ॥

नवमः खण्डः

अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥

अवयवमात्रे साम्न्या­दि­त्य­दृष्टिः पञ्चविधेषूक्ता प्रथमे चाध्याये । अथ इदानीं खलु अमुमादित्यं समस्ते साम्न्य­व­य­व­वि­भा­ग­शोऽ­ध्यस्य सप्तविधं सामोपासीत । कथं पुनः साम­त्व­मा­दि­त्य­स्येति, उच्यते — उद्गीथत्वे हेतुवदादित्यस्य सामत्वे हेतुः । कोऽसौ ? सर्वदा समः वृद्धि­क्ष­या­भा­वात् ; तेन हेतुना साम आदित्यः । मां प्रति मां प्रतीति तुल्यां बुद्धि­मु­त्पा­द­यति ; अतः सर्वेण समः ; अतः साम, समत्वादित्यर्थः । उद्गी­थ­भ­क्ति­सा­मा­न्य­व­च­ना­देव लोका­दि­षू­क्त­सा­मा­न्यात् हिङ्कारादित्वं गम्यत इति हिङ्कारादित्वे कारणं नोक्तम् । सामत्वे पुनः सवितुरनुक्तं कारणं न सुबोधमिति समत्वमुक्तम् ॥

तस्मिन्निमानि सर्वाणि भूता­न्य­न्वा­य­त्ता­नीति विद्यात्तस्य यत्पुरोदयात्स हिङ्कारस्तदस्य पश­वोऽ­न्वा­य­त्ता­स्त­स्मात्ते हिं कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २ ॥

तस्मिन् आदित्ये अवयवविभागशः इमानि वक्ष्यमाणानि सर्वाणि भूतानि अन्वायत्तानि अनु­ग­ता­न्या­दि­त्य­मु­प­जी­व्य­त्वेन इति विद्यात् । कथम् ? तस्य आदित्यस्य यत्पुरोदयात् धर्मरूपम् , स हिङ्कारः भक्तिः ; तत्रेदं सामान्यम् , यत्तस्य हिङ्का­र­भ­क्ति­रू­पम् । तदस्यादित्यस्य साम्नः पशवः गवादयः अन्वायत्ताः अनुगताः तद्भ­क्ति­रू­प­मु­प­जी­व­न्ती­त्यर्थः । यस्मादेवम् , तस्मात्ते हिं कुर्वन्ति पशवः प्रागुदयात् । तस्मा­द्धि­ङ्का­र­भा­जिनो हि एतस्य आदित्याख्यस्य साम्नः, तद्भ­क्ति­भ­ज­न­शी­ल­त्वाद्धि त एवं वर्तन्ते ॥

अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वा­य­त्ता­स्त­स्मात्ते प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ ३ ॥

अथ यत्प्रथमोदिते सवितृरूपम् , तदस्य आदित्याख्यस्य साम्नः स प्रस्तावः ; तदस्य मनुष्या अन्वायत्ताः पूर्ववत् । तस्मात्ते प्रस्तुतिं प्रशंसां कामयन्ते, यस्मा­त्प्र­स्ता­व­भा­जिनो हि एतस्य साम्नः ॥

अथ यत्सङ्गववेलायाꣳ स आदिस्तदस्य वयां स्यन्वायत्तानि तस्मा­त्ता­न्य­न्त­रि­क्षेऽ­ना­र­म्ब­णा­न्या­दा­या­त्मानं परि­प­त­न्त्या­दि­भा­जीनि ह्येतस्य साम्नः ॥ ४ ॥

अथ यत् सङ्गववेलायां गवां रश्मीनां सङ्गमनं सङ्गवो यस्यां वेलायाम् , गवां वा वत्सैः सहः, सा सङ्गववेला तस्मिन्काले यत्सावित्रं रूपम् , स आदिः भक्तिविशेषः ओङ्कारः ।

तदस्य वयांसि पक्षि­णोऽ­न्वा­य­त्तानि । यत एवम् , तस्मात् तानि वयांसि अन्तरिक्षे अनारम्बणानि अनालम्बनानि, आत्मानमादाय आत्मानमेव आलम्बनत्वेन गृहीत्वा, परिपतन्ति गच्छन्ति ; अत आका­र­सा­मा­न्या­दा­दि­भ­क्ति­भा­जीनि हि एतस्य साम्नः ॥

अथ यत्स­म्प्र­ति­म­ध्य­न्दिने स उद्गीथस्तदस्य देवा अन्वा­य­त्ता­स्त­स्मात्ते सत्तमाः प्राजा­प­त्या­ना­मु­द्गी­थ­भा­जिनो ह्येतस्य साम्नः ॥ ५ ॥

अथ यत् सम्प्र­ति­म­ध्य­न्दिने ऋजुमध्यन्दिने इत्यर्थः, स उद्गीथभक्तिः, तदस्य देवा अन्वायत्ताः, द्योत­ना­ति­श­या­त्त­त्काले । तस्मात्ते सत्तमाः विशिष्टतमाः प्राजापत्यानां प्रजा­प­त्य­प­त्या­नाम् , उद्गीथभाजिनो हि एतस्य साम्नः ॥

अथ यदूर्ध्वं मध्य­न्दि­ना­त्प्रा­ग­प­रा­ह्णात्स प्रतिहारस्तदस्य गर्भा अन्वा­य­त्ता­स्त­स्मात्ते प्रति­हृ­ता­ना­व­प­द्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ ६ ॥

अथ यदूर्ध्वं मध्यन्दिनात् प्रागपराह्णात् यद्रूपं सवितुः, स प्रतिहारः ; तदस्य गर्भा अन्वायत्ताः । अतः ते सवितुः प्रति­हा­र­भ­क्ति­रू­पे­णोर्ध्वं प्रतिहृताः सन्तः नावपद्यन्ते नाधः पतन्ति, तद्द्वारे सत्यपीत्यर्थः । यतः प्रतिहारभाजिनो हि एतस्य साम्नो गर्भाः ॥

अथ यदू­र्ध्व­म­प­रा­ह्णा­त्प्रा­ग­स्त­म­या­त्स­उ­प­द्र­व­स्त­द­स्या­रण्या अन्वा­य­त्ता­स्त­स्मात्ते पुरुषं दृष्ट्वा कक्षꣳ श्वभ्र­मि­त्यु­प­द्र­व­न्त्यु­प­द्र­व­भा­जिनो ह्येतस्य साम्नः ॥ ७ ॥

अथ यदू­र्ध्व­म­प­रा­ह्णात् प्रागस्तमयात् स उपद्रवः, तदस्य आरण्याः पशवः अन्वायत्ताः । तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षम् अरण्यं श्वभ्रं भयशून्यमिति उपद्रवन्ति उपगच्छन्ति ; दृष्ट्वो­प­द्र­व­णात् उपद्रवभाजिनो हि एतस्य साम्नः ॥

अथ यत्प्र­थ­मा­स्त­मिते तन्निधनं तदस्य पित­रोऽ­न्वा­य­त्ता­स्त­स्मा­त्ता­न्नि­द­धति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधꣳ सामोपास्ते ॥ ८ ॥

अथ यत् प्रथ­मा­स्त­मि­तेऽ­द­र्शनं जिगमिषति सवितरि, तन्निधनम् , तदस्य पितरः अन्वायत्ताः ; तस्मा­त्ता­न्नि­द­धति — पितृ­पि­ता­म­ह­प्र­पि­ता­म­ह­रू­पेण दर्भेषु निक्षिपन्ति तान् ; तदर्थं पिण्डान्वा स्थापयन्ति । निध­न­स­म्ब­न्धा­न्नि­ध­न­भा­जिनो हि एतस्य साम्नः पितरः । एवमवयवशः सप्तधा विभक्तं खलु अमुमादित्यं सप्तविधं सामोपास्ते यः, तस्य तदापत्तिः फलमिति वाक्यशेषः ॥

इति नवमखण्डभाष्यम् ॥

दशमः खण्डः

मृत्युः आदित्यः, अहो­रा­त्रा­दि­का­लेन जगतः प्रमा­प­यि­तृ­त्वात् । तस्य अतितरणाय इदं सामो­पा­स­न­मु­प­दि­श्यते —

अथ खल्वा­त्म­सं­मि­त­म­ति­मृत्यु सप्तविधꣳ सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥

अथ खलु अनन्तरम् , आदि­त्य­मृ­त्यु­वि­ष­य­सा­मो­पा­स­नस्य ; आत्मसंमितं स्वावयवतुल्यतया मितम् , परमात्मतुल्यतया वा संमितम् , अतिमृत्यु, मृत्यु­ज­य­हे­तु­त्वात् ; यथा प्रथमेऽध्याये उद्गी­थ­भ­क्ति­ना­मा­क्ष­राणि उद्गीथ इत्यु­पा­स्य­त्वे­नो­क्तानि, तथेह साम्नः सप्त­वि­ध­भ­क्ति­ना­मा­क्ष­राणि समाहृत्य त्रिभिस्त्रिभिः समतया सामत्वं परिकल्प्य उपास्यत्वेन उच्यन्ते । तदुपासनं मृत्यु­गो­च­रा­क्ष­र­स­ङ्ख्या­सा­मा­न्येन मृत्युं प्राप्य, तद­ति­रि­क्ता­क्ष­रेण तस्य आदित्यस्य मृत्यो­र­ति­क्त­म­णा­यैव सङ्क्रमणं कल्पयति । अतिमृत्यु सप्तविधं साम उपासीत, मृत्यु­म­ति­क्रा­न्त­म­ति­रि­क्ता­क्ष­र­स­ङ्ख्यया इत्यतिमृत्यु साम । तस्य प्रथ­म­भ­क्ति­ना­मा­क्ष­राणि हिङ्कार इति ; एतत् त्र्यक्षरं भक्तिनाम । प्रस्ताव इति च भक्ते­स्त्र्य­क्ष­र­मेव नाम ; तत् पूर्वेण समम् ॥

आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥

आदिरिति द्व्यक्षरम् ; सप्तविधस्य साम्नः सङ्ख्यापूरणे ओङ्कारः आदिरित्युच्यते । प्रतिहार इति चतुरक्षरम् । तत इहै­क­म­क्ष­र­म­व­च्छिद्य आद्यक्षरयोः प्रक्षिप्यते ; तेन तत् सममेव भवति ॥

उद्गीथ इति त्र्यक्ष­र­मु­प­द्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भव­त्य­क्ष­र­म­ति­शि­ष्यते त्र्यक्षरं तत्समम् ॥ ३ ॥

उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवति । अक्षरमतिशिष्यते अतिरिच्यते । तेन वैषंये प्राप्ते, साम्नः समत्वकरणाय आह — तदेकमपि सदक्षरमिति त्र्यक्षरमेव भवति । अतः तत् समम् ॥

निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविं शतिरक्षराणि ॥ ४ ॥

निधनमिति त्र्यक्षरं तत्सममेव भवति । एवं त्र्यक्षरसमतया सामत्वं सम्पाद्य यथा­प्रा­प्ता­न्ये­वा­क्ष­राणि सङ्ख्यायन्ते — तानि ह वा एतानि सप्त­भ­क्ति­ना­मा­क्ष­राणि द्वाविंशतिः ॥

एक­विं­श­त्या­दि­त्य­मा­प्नो­त्ये­क­विंशो वा इतोऽसावादित्यो द्वाविंशेन पर­मा­दि­त्या­ज्ज­यति तन्नाकं तद्विशोकम् ॥ ५ ॥

तत्रै­क­विं­श­त्य­क्ष­र­स­ङ्ख्यया आदित्यमाप्नोति मृत्युम् । यस्मादेकविंशः इतः अस्माल्लोकात् असावादित्यः सङ्ख्यया । ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’(ऐ. ब्रा. ४ । ५) , (तां. ब्रा. १० । १ । १०) इति श्रुतेः ; अतिशिष्टेन द्वाविं­शे­ना­क्ष­रेण परं मृत्योः आदित्यात् जयति आप्नोतीत्यर्थः । यच्च तदादित्यात्परम् ; किं तत् ? नाकम् , कमिति सुखं तस्य प्रतिषेधोऽकं तन्न भवतीति नाकम् , कमेवेत्यर्थः, अमृ­त्यु­वि­ष­य­त्वात् । विशोकं च तत् विगतशोकं मान­स­दुः­ख­र­हि­त­मि­त्यर्थः — तदाप्नोतीति ॥

आप्नोति हादित्यस्य जयं परो हास्या­दि­त्य­ज­या­ज्जयो भवति य एतदेवं विद्वा­ना­त्म­सं­मि­त­म­ति­मृत्यु सप्तविधꣳ सामोपास्ते सामोपास्ते ॥ ६ ॥

उक्तस्यैव पिण्डितार्थमाह — एक­विं­श­ति­स­ङ्ख्यया आदित्यस्य जयमनु, परो ह, अस्य एवंविदः आदित्यजयात् मृत्युगोचरात् परो जयो भवति, द्वाविं­श­त्य­क्ष­र­स­ङ्ख्य­ये­त्यर्थः । य एतदेवं विद्वा­नि­त्या­द्यु­क्ता­र्थम् , तस्यैतद्यथोक्तं फलमिति । द्विरभ्यासः साप्त­वि­ध्य­स­मा­प्त्यर्थः ॥

इति दशमखण्डभाष्यम् ॥

एकादशः खण्डः

मनो हिङ्कारो वाक्प्र­स्ता­व­श्च­क्षु­रु­द्गीथः श्रोत्रं प्रतिहारः प्राणो निध­न­मे­त­द्गा­यत्रं प्राणेषु प्रोतम् ॥ १ ॥

विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च साम्न उपासनमुक्तम् । अथेदानीं गाय­त्रा­दि­ना­म­ग्र­ह­ण­पू­र्वकं विशिष्टफलानि सामो­पा­स­ना­न्त­रा­ण्यु­च्यन्ते । यथाक्रमं गायत्रादीनां कर्मणि प्रयोगः, तथैव मनो हिङ्कारः, मनसः सर्व­क­र­ण­वृ­त्तीनां प्राथम्यात् । तदानन्तर्यात् वाक् प्रस्तावः ; चक्षुः उद्गीथः, श्रैष्ठ्यात् । श्रोत्रं प्रतिहारः, प्रतिहृतत्वात् । प्राणो निधनम् , यथोक्तानां प्राणे निध­ना­त्स्वा­प­काले । एतद्गायत्रं साम प्राणेषु प्रोतम् , गायत्र्याः प्राण­सं­स्तु­त­त्वात् ॥

स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २ ॥

सः, य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति ; अविकलकरणो भवतीत्येतत् । सर्वमायुरेति, शतं वर्षाणि सर्वमायुः पुरुषस्य इति श्रुतेः । ज्योक् उज्ज्वलः सन् जीवति । महान् भवति प्रजादिभिः । महांश्च कीर्त्या । गायत्रोपासकस्य एतत् व्रतं भवति, यत् महामनाः अक्षुद्रचित्तः स्यादित्यर्थः ॥

इति एका­द­श­ख­ण्ड­भा­ष्यम् ॥

द्वादशः खण्डः

अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशांयति तन्निधनं संशांयति तन्नि­ध­न­मे­त­द्र­थ­न्त­र­मग्नौ प्रोतम् ॥ १ ॥

अभिमन्थति स हिङ्कारः, प्राथंयात् । अग्नेर्धूमो जायते स प्रस्तावः, आनन्तर्यात् । ज्वलति स उद्गीथः, हविः­स­म्ब­न्धा­च्छ्रैष्ठ्यं ज्वलनस्य । अङ्गारा भवन्ति स प्रतिहारः, अङ्गाराणां प्रतिहृतत्वात् । उपशमः, साव­शे­ष­त्वा­दग्नेः, संशमः निःशेषोपशमः ; समा­प्ति­सा­मा­न्या­न्नि­ध­नम् । एतद्रथन्तरम् अग्नौ प्रोतम् । मन्थने हि अग्निर्गीयते ॥

स य एव­मे­त­द्र­थ­न्त­र­मग्नौ प्रोतं वेद ब्रह्म­व­र्च­स्य­न्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या न प्रत्य­ङ्ङ­ग्नि­मा­चा­मेन्न निष्ठी­वे­त्त­द्व्र­तम् ॥ २ ॥

स य इत्यादि पूर्ववत् । ब्रह्मवर्चसी वृत्त­स्वा­ध्या­य­नि­मित्तं तेजो ब्रह्मवर्चसम् । तेजस्तु केवलं त्विड्भावः । अन्नादो दीप्ताग्निः । न प्रत्यक् , अग्नेरभिमुखो न आचामेत् न भक्ष­ये­त्कि­ञ्चित् ; न निष्ठीवेत् श्लेष्मनिरसनं च न कुर्यात् ; तद्व्रतम् ॥

इति द्वाद­श­ख­ण्ड­भा­ष्यम् ॥

त्रयोदशः खण्डः

उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्नि­ध­न­मे­त­द्वा­म­देव्यं मिथुने प्रोतम् ॥ १ ॥

उपमन्त्रयते सङ्केतं करोति, प्राथम्यात् स हिङ्कारः । ज्ञपयते तोषयति, स प्रस्तावः । सहशयनम् एकपर्यङ्कगमनम् , स उद्गीथः, श्रैष्ठ्यात् । प्रति स्त्रीं शयनं स्त्रिया अभिमुखीभावः, स प्रतिहारः । कालं गच्छति मैथुनेन, पारं समाप्तिं गच्छति तन्निधनम् ; एतद्वामदेव्यं मिथुने प्रोतम् , वाय्व­म्बु­मि­थु­न­स­म्ब­न्धात् ॥

स य एव­मे­त­द्वा­म­देव्यं मिथुने प्रोतं वेद मिथुनी भवति मिथु­ना­न्मि­थु­ना­त्प्र­जा­यते सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या न काञ्चन परि­ह­रे­त्त­द्व्र­तम् ॥ २ ॥

स य इत्यादि पूर्ववत् । मिथुनीभवति अविधुरो भवतीत्यर्थः । मिथु­ना­न्मि­थु­ना­त्प्र­जा­यते इति अमो­घ­रे­त­स्त्व­मु­च्यते । न काञ्चन, काञ्चिदपि स्त्रियं स्वात्म­त­ल्प­प्राप्तां न परिहरेत् समागमार्थिनीम् , वाम­दे­व्य­सा­मो­पा­स­ना­ङ्ग­त्वेन विधानात् । एतस्मादन्यत्र प्रतिषेधस्मृतयः । वच­न­प्रा­मा­ण्याच्च धर्मावगतेर्न प्रति­षे­ध­शा­स्त्रे­णास्य विरोधः ॥

इति त्रयो­द­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्दशः खण्डः

उद्यन्हिङ्कार उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्नि­ध­न­मे­त­द्बृ­ह­दा­दित्ये प्रोतम् ॥ १ ॥

उद्यन्सविता स हिङ्कारः, प्राथं­या­द्द­र्श­नस्य । उदितः प्रस्तावः, प्रस्त­व­न­हे­तु­त्वा­त्क­र्म­णाम् । मध्यन्दिन उद्गीथः, श्रैष्ठ्यात् । अपराह्णः प्रतिहारः, पश्वादीनां गृहान्प्रति हरणात् । यदस्तं यंस्तन्निधनम् , रात्रौ गृहे निधा­ना­त्प्रा­णि­नाम् । एतद्बृहत् आदित्ये प्रोतम् , बृहतः आदि­त्य­दै­व­त्य­त्वात् ॥

स य एव­मे­त­द्बृ­ह­दा­दित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्दे­त्त­द्व्र­तम् ॥ २ ॥

स य इत्यादि पूर्ववत् । तपन्तं न निन्देत् ; तद्व्रतम् ॥

इति चतु­र्द­श­ख­ण्ड­भा­ष्यम् ॥

पञ्चदशः खण्डः

अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्नि­ध­न­मे­त­द्वै­रूपं पर्जन्ये प्रोतम् ॥ १ ॥

अभ्राणि अब्भरणात् । मेघः उदकसेक्तृत्वात् । उक्तार्थमन्यत् । एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् । अनेकरूपत्वात् अभ्रादिभिः पर्जन्यस्य, वैरूप्यम् ॥

स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपाꣳश्च सुरूपाꣳश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या वर्षन्तं न निन्दे­त्त­द्ब्र­तम् ॥ २ ॥

विरूपांश्च सुरू­पां­श्चा­जा­वि­प्र­भृ­ती­न्प­शू­न­व­रुन्धे प्राप्नो­ती­त्यर्थः । वर्षन्तं न निन्देत् तद्व्रतम् ॥

इति पञ्च­द­श­ख­ण्ड­भा­ष्यम् ॥

षोडशः खण्डः

वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निध­न­मे­त­द्वै­रा­ज­मृ­तुषु प्रोतम् ॥ १ ॥

वसन्तो हिङ्कारः, प्राथम्यात् । ग्रीष्मः प्रस्तावः इत्यादि पूर्ववत् ॥

स य एव­मे­त­द्वै­रा­ज­मृ­तुषु प्रोतं वेद विराजति प्रजया पशु­भि­र्ब्र­ह्म­व­र्च­सेन सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महा­न्की­र्त्य­र्तून्न निन्दे­त्त­द्व्र­तम् ॥ २ ॥

एतद्वैराजमृतुषु प्रोतं वेद, विराजति ऋतुवत् — यथा ऋतवः आर्त­वै­र्ध­र्मै­र्वि­रा­जन्ते, एवं प्रजा­दि­भि­र्वि­द्वा­निति । उक्तमन्यम् । ऋतून्न निन्देत् , तद्व्रतम् ॥

इति षोडशखण्डभाष्यम् ॥

सप्तदशः खण्डः

पृथिवी हिङ्का­रोऽ­न्त­रिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः ॥ १ ॥

पृथिवी हिङ्कार इत्यादि पूर्ववत् । शक्वर्य इति नित्यं बहुवचनं रेवत्य इव । लोकेषु प्रोताः ॥

स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या लोकान्न निन्दे­त्त­द्व्र­तम् ॥ २ ॥

लोकी भवति लोकफलेन युज्यत इत्यर्थः । लोकान्न निन्देत् , तद्व्रतम् ॥

इति सप्त­द­श­ख­ण्ड­भा­ष्यम् ॥

अष्टादशः खण्डः

अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ १ ॥

अजा हिङ्कार इत्यादि पूर्ववत् । पशुषु प्रोताः ॥

स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान्भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या पशून्न निन्दे­त्त­द्व्र­तम् ॥ २ ॥

पशून् न निन्देत् , तद्व्रतम् ॥

इति अष्टा­द­श­ख­ण्ड­भा­ष्यम् ॥

एकोनविंशः खण्डः

लोम हिङ्का­र­स्त्व­क्प्र­स्तावो मांस­मु­द्गी­थोऽस्थि प्रतिहारो मज्जा निध­न­मे­त­द्य­ज्ञा­य­ज्ञी­य­म­ङ्गेषु प्रोतम् ॥ १ ॥

लोम हिङ्कारः, देहावयवानां प्राथम्यात् । त्वक् प्रस्तावः, आनन्तर्यात् । मांसम् उद्गीथः, श्रैष्ठ्यात् । अस्थि प्रतिहारः, प्रतिहृतत्वात् । मज्जा निधनम् , आन्त्यात् । एत­द्य­ज्ञा­य­ज्ञीयं नाम साम देहावयवेषु प्रोतम् ॥

स य एव­मे­त­द्य­ज्ञा­य­ज्ञी­य­म­ङ्गेषु प्रोतं वेदाङ्गी भवति नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं मज्ज्ञो नाश्नी­या­त्त­द्व्रतं मज्ज्ञो नाश्नीयादिति वा ॥ २ ॥

अङ्गी भवति समग्राङ्गो भवतीत्यर्थः । नाङ्गेन हस्तपादादिना विहूर्छति न कुटिलीभवति, पङ्गुः कुणी वा इत्यर्थः । संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयात् न भक्षयेत् । बहुवचनं मत्स्यो­प­ल­क्ष­णा­र्थम् । मज्ज्ञो नाश्नीयात् सर्वदैव नाश्नीयादिति वा, तद्व्रतम् ॥

इति एको­न­विं­श­ख­ण्ड­भा­ष्यम् ॥

विंशः खण्डः

अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रति­हा­र­श्च­न्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ १ ॥

अग्निः हिङ्कारः, प्रथ­म­स्था­न­त्वात् । वायुः प्रस्तावः, आन­न्त­र्य­सा­मा­न्यात् । आदित्यः उद्गीथः, श्रैष्ठ्यात् । नक्षत्राणि प्रतिहारः, प्रतिहृतत्वात् । चन्द्रमा निधनम् , कर्मिणां तन्निधनात् । एतद्राजनं देवतासु प्रोतम् , देवतानां दीप्तिमत्त्वात् ॥

स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानाꣳ सलोकताꣳ सार्ष्टि­तांꣳसा­युज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या ब्राह्मणान्न निन्दे­त्त­द्व्र­तम् ॥ २ ॥

विद्वत्फलम् — एता­सा­मे­वा­ग्न्या­दीनां देवतानां सलोकतां समानलोकतां सार्ष्टितां समानर्द्धित्वं सायुज्यं सयुग्भावम् एक­दे­ह­दे­हि­त्व­मि­त्ये­तत् , वा - शब्दोऽत्र लुप्तो द्रष्टव्यः ; सलोकतां वा इत्यादि ; भावनाविशेषतः फलविशेषोपपत्तेः । गच्छति प्राप्नोति ; समु­च्च­या­नु­प­प­त्तेश्च । ब्राह्मणान् न निन्देत् , तद्व्रतम् । ‘एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः’(?) इति श्रुतेः ब्राह्मणनिन्दा देवतानिन्दैवेति ॥

इति विंशखण्डभाष्यम् ॥

एकविंशः खण्डः

त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्ता­वोऽ­ग्नि­र्वा­यु­रा­दित्यः स उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पित­र­स्त­न्नि­ध­न­मे­त­त्साम सर्व­स्मि­न्प्रो­तम् ॥ १ ॥

त्रयी विद्या हिङ्कारः । अग्न्यादिसाम्न आनन्तर्यं त्रयीविद्याया अग्न्या­दि­का­र्य­त्व­श्रुतेः । हिङ्कारः प्राथं­या­त्स­र्व­क­र्त­व्या­नाम् । त्रय इमे लोका­स्त­त्का­र्य­त्वा­द­न­न्तरा इति प्रस्तावः । अग्न्या­दी­ना­मु­द्गी­थत्वं श्रैष्ठ्यात् । नक्षत्रादीनां प्रति­हृ­त­त्वा­त्प्र­ति­हा­र­त्वम् । सर्पादीनां धका­र­सा­मा­न्या­न्नि­ध­न­त्वम् । एतत्साम नाम­वि­शे­षा­भा­वा­त्सा­म­स­मु­दायः सामशब्दः सर्वस्मिन् प्रोतम् । त्रयीविद्यादि हि सर्वम् । त्रयी­वि­द्या­दि­दृष्ट्या हिङ्का­रा­दि­सा­म­भ­क्तय उपास्याः । अतीतेष्वपि सामोपासनेषु येषु येषु प्रोतं यद्यत्साम, तद्दृष्ट्या तदुपास्यमिति । कर्माङ्गानां दृष्टि­वि­शे­षे­णे­वा­ज्यस्य संस्कार्यत्वात् ॥

स य एवमेतत्साम सर्व­स्मि­न्प्रोतं वेद सर्वं ह भवति ॥ २ ॥

सर्वविषयसामविदः फलम् — सर्वं ह भवति सर्वेश्वरो भवतीत्यर्थः । निरु­प­च­रि­त­स­र्व­भावे हि दिक्स्थेभ्यो बलि­प्रा­प्त्य­नु­प­पत्तिः ॥

तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥ ३ ॥

तत् एतस्मिन्नर्थे एषः श्लोकः मन्त्रोऽप्यस्ति । यानि पञ्चधा पञ्चप्रकारेण हिङ्का­रा­दि­वि­भागैः प्रोक्तानि त्रीणि त्रीणि त्रयी­वि­द्या­दीनि, तेभ्यः पञ्चत्रिकेभ्यः ज्यायः महत्तरं परं च व्यतिरिक्तम् अन्यत् वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः । तत्रैव हि सर्व­स्या­न्त­र्भावः ॥

यस्तद्वेद स वेद सर्वꣳ सर्वा दिशो बलिमस्मै हरन्ति सर्व­म­स्मी­त्यु­पा­सीत तद्व्रतं तद्व्रतम् ॥ ४ ॥

यः तत् यथोक्तं सर्वात्मकं साम वेद, स वेद सर्वं स सर्वज्ञो भवतीत्यर्थः । सर्वा दिशः सर्वदिक्स्था अस्मै एवंविदे बलिं भोगं हरन्ति प्राप­य­न्ती­त्यर्थः । सर्वम् अस्मि भवामि इति एवम् एतत्साम उपासीत, तस्य एतदेव व्रतम् । द्विरुक्तिः सामो­पा­स­न­स­मा­प्त्यर्था ॥

इति एक­विं­श­ख­ण्ड­भा­ष्यम् ॥

द्वाविंशः खण्डः

विनर्दि साम्नो वृणे पश­व्य­मि­त्य­ग्ने­रु­द्गी­थोऽ­नि­रुक्तः प्रजा­प­ते­र्नि­रुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृह­स्प­ते­र­प­ध्वान्तं वरुणस्य तान्स­र्वा­ने­वो­प­से­वेत वारुणं त्वेव वर्जयेत् ॥ १ ॥

सामो­पा­स­न­प्र­स­ङ्गेन गान­वि­शे­षा­दि­स­म्पत् उद्गा­तु­रु­प­दि­श्यते, फल­वि­शे­ष­स­म्ब­न्धात् । विनर्दि विशिष्टो नर्दः स्वरविशेषः ऋष­भ­कू­जि­त­स­मोऽ­स्या­स्तीति विनर्दि गानमिति वाक्यशेषः । तच्च साम्नः सम्बन्धि पशुभ्यो हितं पशव्यम् अग्नेः अग्निदेवत्यं च उद्गीथः उद्गानम् । तदहमेवंविशिष्टं वृणे प्रार्थये इति कश्चिद्यजमानः उद्गाता वा मन्यते । अनिरुक्तः अमुकसमः इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स गानविशेषः, आनि­रु­क्त्या­त्प्र­जा­पतेः । निरुक्तः स्पष्टः । सोमस्य सोमदेवत्यः स उद्गीथ इत्यर्थः । मृदु श्लक्ष्णं च गानं वायोः वायुदेवत्यं तत् । श्लक्ष्णं बलवच्च प्रय­त्ना­धि­क्यो­पेतं च इन्द्रस्य ऐन्द्रं तद्गानम् । क्रौञ्चं क्रौञ्च­प­क्षि­नि­ना­द­समं बृहस्पतेः बार्हस्पत्यं तत् । अपध्वान्तं भिन्न­कां­स्य­स्व­र­समं वरुणस्य एतद्गानम् । तान्स­र्वा­ने­वो­प­से­वेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत् ॥

अमृतत्वं देवेभ्य आगा­या­नी­त्या­गा­ये­त्स्वधां पितृभ्य आशां मनु­ष्ये­भ्य­स्तृ­णो­दकं पशुभ्यः स्वर्गं लोकं यज­मा­ना­या­न्न­मा­त्मन आगायानीत्येतानि मनसा ध्याय­न्न­प्र­मत्तः स्तुवीत ॥ २ ॥

अमृतत्वं देवेभ्य आगायानि साधयानि ; स्वधां पितृभ्य आगायानि ; आशां मनुष्येभ्यः, आशां प्रार्थनां प्रार्थि­त­मि­त्ये­तत् ; तृणोदकं पशुभ्यः ; स्वर्गं लोकं यजमानाय ; अन्नम् आत्मने मह्यम् आगायानि ; इत्येतानि मनसा चिन्तयन् ध्यायन् अप्रमत्तः स्वरो­ष्म­व्य­ञ्ज­ना­दिभ्यः स्तुवीत ॥

सर्वे स्वरा इन्द्र­स्या­त्मानः सर्व ऊष्माणः प्रजा­प­ते­रा­त्मानः सर्वे स्पर्शा मृत्यो­रा­त्मा­नस्तं यदि स्वरे­षू­पा­ल­भे­तेन्द्रं शरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ ३ ॥

सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मणः प्राणस्य आत्मानः देहा­व­य­व­स्था­नीयाः । सर्वे ऊष्माणः शषसहादयः प्रजा­प­ते­र्वि­राजः कश्यपस्य वा आत्मानः । सर्वे स्पर्शाः कादयो व्यञ्जनानि मृत्योरात्मानः तमे­वं­वि­द­मु­द्गा­तारं यदि कश्चित् स्वरेषूपालभेत — स्वरस्त्वया दुष्टः प्रयुक्त इति, एवमुपालब्धः इन्द्रं प्राणमीश्वरं शरणम् आश्रयं प्रपन्नोऽभूवं स्वरा­न्प्र­यु­ञ्जा­नोऽ­हम् , स इन्द्रः यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं ब्रूयात् ॥

अथ यद्ये­न­मू­ष्म­सू­पा­ल­भेत प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥

अथ यद्येनमूष्मसु तथैवोपालभेत, प्रजापतिं शरणं प्रपन्नोऽभूवम् , स त्वा प्रति पेक्ष्यति सञ्चू­र्ण­यि­ष्य­ती­त्येनं ब्रूयात् । अथ यद्येनं स्पर्शे­षू­पा­ल­भेत, मृत्युं शरणं प्रपन्नोऽभूवम् , स त्वा प्रति धक्ष्यति भस्मी­क­रि­ष्य­ती­त्येनं ब्रूयात् ॥

सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजा­प­ते­रा­त्मानं परिददानीति सर्वे स्पर्शा­ले­शे­ना­न­भि­नि­हिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ ५ ॥

यत इन्द्रा­द्या­त्मानः स्वरादयः, अतः सर्वे स्वराः घोषवन्तः बलवन्तो वक्तव्याः । तथा

अहमिन्द्रे बलं ददानि बलमादधानीति । तथा सर्वे ऊष्माणः अग्रस्ताः अन्तरप्रवेशिताः अनिरस्ताः बहि­र­प्र­क्षिप्ताः विवृताः विवृ­त­प्र­य­त्नो­पेताः । प्रजा­प­ते­रा­त्मानं परिददानि प्रयच्छानीति । सर्वे स्पर्शाः लेशेन शनकैः अनभिनिहिताः अनभिनिक्षिप्ता वक्तव्याः । मृत्योरात्मानं बालानिव शनकैः परिहरन् मृत्योरात्मानं परिहराणीति ॥

इति द्वाविं­श­ख­ण्ड­भा­ष्यम् ॥

त्रयोविंशः खण्डः

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्म­चा­र्या­चा­र्य­कु­ल­वासी तृती­योऽ­त्य­न्त­मा­त्मा­न­मा­चा­र्य­कु­लेऽ­व­सा­द­य­न्सर्व एते पुण्यलोका भवन्ति ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति ॥ १ ॥

ओङ्का­र­स्यो­पा­स­न­वि­ध्यर्थं त्रयो धर्मस्कन्धा इत्याद्यारभ्यते । नैवं मन्तव्यं सामा­व­य­व­भू­त­स्यै­वो­द्गी­था­दि­ल­क्ष­ण­स्यो­ङ्का­र­स्यो­पा­स­ना­त्फलं प्राप्यत इति ; किं तर्हि, यत्सर्वैरपि सामोपासनैः कर्म­भि­श्चा­प्राप्यं तत्फलममृतत्वं केव­ला­दो­ङ्का­रो­पा­स­ना­त्प्रा­प्यत इति । तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः । त्रयः त्रिसङ्ख्याका धर्मस्य स्कन्धाः धर्मस्कन्धाः धर्मप्रविभागा इत्यर्थः ; के ते इति, आह — यज्ञः अग्निहोत्रादिः, अध्ययनं सनियमस्य ऋगादेरभ्यासः, दानं बहिर्वेदि यथाशक्ति द्रव्यसंविभागो भिक्षमाणेभ्यः, इति एषः प्रथमः धर्मस्कन्धः गृह­स्थ­स­म­वे­त­त्वात् तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते ; प्रथमः एक इत्यर्थः, द्विती­य­तृ­ती­य­श्र­व­णात् न आद्यार्थः । तप एव द्वितीयः ; तप इति कृच्छ्र­चा­न्द्रा­य­णादि तद्वान् तापसः परिव्राड्वा, न ब्रह्मसंस्थः आश्र­म­ध­र्म­मा­त्र­संस्थः, ब्रह्मसंस्थस्य तु अमृतत्वश्रवणात् ; द्वितीयः धर्मस्कन्धः । ब्रह्मचारी आचार्यकुले वस्तुं शील­म­स्ये­त्या­चा­र्य­कु­ल­वासी । अत्यन्तं यावज्जीवम् आत्मानं नियमैः आचार्यकुले अवसादयन् क्षपयन् देहं तृतीयः धर्मस्कन्धः । अत्य­न्त­मि­त्या­दि­वि­शे­ष­णा­न्नै­ष्ठिक इति गम्यते । उपकुर्वाणस्य स्वाध्या­य­ग्र­ह­णा­र्थ­त्वात् न पुण्यलोकत्वं ब्रह्मचर्येण । सर्व एते त्रयोऽ­प्या­श्र­मिणः यथोक्तैर्धर्मैः पुण्यलोका भवन्ति ; पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति । अव­शि­ष्ट­स्त्व­नुक्तः परिव्राट् तुरीयः ब्रह्मसंस्थाः ब्रह्मणि सम्यक्स्थितः, सोऽमृतत्वं पुण्य­लो­क­वि­ल­क्ष­ण­म­म­र­ण­भा­व­मा­त्य­न्ति­कम् एति, न आपेक्षिकम् , देवा­द्य­मृ­त­त्व­वत् , पुण्य­लो­का­त्पृ­थक् अमृतत्वस्य विभागकरणात् ॥

यदि च पुण्य­लो­का­ति­श­य­मा­त्र­म­मृ­त­त्व­म­भ­वि­ष्यत् , ततः पुण्य­लो­क­त्वा­द्वि­भक्तं नावक्ष्यत् । विभक्तोपदेशाच्च आत्य­न्ति­क­म­मृ­त­त्व­मिति गम्यते । अत्र च आश्र­म­ध­र्म­फ­लो­प­न्यासः प्रण­व­से­वा­स्तु­त्यर्थः, न तत्फलविध्यर्थः, स्तुतये च प्रणवसेवायाः, आश्र­म­ध­र्म­फ­ल­वि­धये च, इति हि भिद्येत वाक्यम् । तस्मा­त्स्मृ­ति­प्र­सि­द्धा­श्र­म­फ­ला­नु­वा­देन प्रण­व­से­वा­फ­ल­म­मृ­तत्वं ब्रुवन् प्रणवसेवां स्तौति । यथा पूर्णवर्मणः सेवा भक्त­प­रि­धा­न­मा­त्र­फला, राजवर्मणस्तु सेवा राज्यतुल्यफलेति — तद्वत् । प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात् । ‘एत­द्ध्ये­वा­क्षरं ब्रह्म एतद्ध्येवाक्षरं परम्’(क. उ. १ । २ । १६) इत्या­द्या­म्ना­ना­त्का­ठके, युक्तं तत्से­वा­तोऽ­मृ­त­त्वम् ॥

अत्र आहुः केचित् — चतु­र्णा­मा­श्र­मि­णा­म­वि­शे­षेण स्वध­र्मा­नु­ष्ठा­ना­त्पु­ण्य­लो­कता इहोक्ता ज्ञान­व­र्जि­ता­नाम् ‘सर्व एते पुण्यलोका भवन्ति’ इति । नात्र परिव्राडवशेषितः ; परिव्राजकस्यापि ज्ञानं यमा नियमाश्च तप एवेति ; तप एव द्वितीय इत्यत्र तपः — शब्देन परिव्राट्तापसौ गृहीतौ । अतस्तेषामेव चतुर्णां यो ब्रह्मसंस्थः प्रणवसेवकः सोऽमृतत्वमेतीति चतु­र्णा­म­धि­कृ­त­त्वा­वि­शे­षात् , ब्रह्म­सं­स्थ­त्वेऽ­प्र­ति­षे­धाच्च, स्वकर्मच्छिद्रे च ब्रह्म­सं­स्थ­तायां साम­र्थ्यो­प­पत्तेः । न च यव­व­रा­हा­दि­श­ब्द­वत् ब्रह्म­सं­स्थ­शब्दः परिव्राजके रूढः, ब्रह्मणि संस्थि­ति­नि­मि­त्त­मु­पा­दाय प्रवृत्तत्वात् । न हि रूढिशब्दा निमित्तमुपाददते । सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते । यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिः, तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्म­सं­स्थ­शब्दं परिव्राडेकविषये सङ्कोचे कारणाभावात् निरो­द्धु­म­यु­क्तम् । न च पारि­व्रा­ज्या­श्र­म­ध­र्म­मा­त्रे­णा­मृ­त­त्वम् , ज्ञाना­न­र्थ­क्य­प्र­स­ङ्गात् । पारि­व्रा­ज्य­ध­र्म­यु­क्त­मेव ज्ञान­म­मृ­त­त्व­सा­ध­न­मिति चेत् , न, आश्र­म­ध­र्म­त्वा­वि­शे­षात् । धर्मो वा ज्ञान­वि­शि­ष्टोऽ­मृ­त­त्व­सा­ध­न­मि­त्ये­त­दपि सर्वा­श्र­म­ध­र्मा­णा­म­वि­शि­ष्टम् । न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः, नान्येषाम् इति । ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः । तस्माद्य एव ब्रह्मसंस्थः स्वाश्र­म­वि­हि­त­ध­र्म­व­ताम् , सोऽमृतत्वमेतीति ॥

न, कर्म­नि­मि­त्त­वि­द्या­प्र­त्य­य­यो­र्वि­रो­धात् । कर्त्रा­दि­का­र­क­क्रि­या­फ­ल­भे­द­प्र­त्य­य­वत्त्वं हि निमित्तमुपादाय इदं कुरु इदं मा कार्षीः इति कर्मविधयः प्रवृत्ताः । तच्च निमित्तं न शास्त्रकृतम् , सर्वप्राणिषु दर्शनात् । ‘सत् . . . . . एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २६ । २) ‘ब्रह्मैवेदं सर्वम्’ इति शास्त्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविकं क्रिया­का­र­क­फ­ल­भे­द­प्र­त्ययं कर्म­वि­धि­नि­मि­त्त­म­नु­प­मृद्य न जायते, भेदा­भे­द­प्र­त्य­य­यो­र्वि­रो­धात् । न हि तैमि­रि­क­द्वि­च­न्द्रा­दि­भे­द­प्र­त्य­य­म­नु­प­मृद्य तिमिरापगमे चन्द्रा­द्ये­क­त्व­प्र­त्यय उपजायते, विद्या­वि­द्या­प्र­त्य­य­यो­र्वि­रो­धात् । तत्रैवं सति यं भेद­प्र­त्य­य­मु­पा­दाय कर्मविधयः प्रवृत्ताः, स यस्योपमर्दितः ‘सत् . . . एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘तत्सत्यम्’(छा. उ. ६ । ८ । ७) ‘विका­र­भे­दोऽ­नृ­तम्’(छा. उ. ६ । १ । ४) इत्ये­त­द्वा­क्य­प्र­मा­ण­ज­नि­ते­नै­क­त्व­प्र­त्य­येन, स सर्वकर्मभ्यो निवृत्तः, निमि­त्त­नि­वृत्तेः ; स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते ; स च परिव्राडेव, अन्य­स्या­स­म्भ­वात् , अन्यो हि अनि­वृ­त्त­भे­द­प्र­त्ययः सोऽन्य­त्प­श्य­ञ्शृ­ण्व­न्म­न्वानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते । तस्यैवं कुर्वतो न ब्रह्मसंस्थता, वाचा­र­म्भ­ण­मा­त्र­वि­का­रा­नृ­ता­भि­स­न्धि­प्र­त्य­य­व­त्त्वात् । न च अस­त्य­मि­त्यु­प­म­र्दिते भेदप्रत्यये सत्यमिदमनेन कर्तव्यं मयेति प्रमा­ण­प्र­मे­य­बु­द्धि­रु­प­प­द्यते — आकाश इव तल­म­ल­बु­द्धि­र्वि­वे­किनः । उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो न निवर्तते चेत् , प्रागिव भेद­प्र­त्य­या­नु­प­म­र्द­ना­दे­क­त्व­प्र­त्य­य­वि­धा­यकं वाक्य­म­प्र­मा­णी­कृतं स्यात् । अभ­क्ष्य­भ­क्ष­णा­दि­प्र­ति­षे­ध­वा­क्यानां प्रामाण्यवत् युक्त­मे­क­त्व­वा­क्य­स्यापि प्रामाण्यम् , सर्वोपनिषदां तत्परत्वात् । कर्म­वि­धी­ना­म­प्रा­मा­ण्य­प्र­सङ्ग इति चेत् , न, अनु­प­म­र्दि­त­भे­द­प्र­त्य­य­व­त्पु­रु­ष­वि­षये प्रामा­ण्यो­प­पत्तेः स्वप्ना­दि­प्र­त्यय इव प्राक्प्रबोधात् । विवेकिनामकरणात् कर्म­वि­धि­प्रा­मा­ण्यो­च्छेद इति चेत् , न, कांय­वि­ध्य­नु­च्छे­द­द­र्श­नात् । न हि, कामात्मता न प्रशस्तेत्येवं विज्ञानवद्भिः कांयानि कर्माणि नानुष्ठीयन्त इति, कांयकर्मविधय उच्छिद्यन्ते, अनुष्ठीयन्त एव कामिभिरिति ; तथा ब्रह्म­सं­स्थै­र्ब्र­ह्म­वि­द्भि­र्ना­नु­ष्ठी­यन्ते कर्माणीति न तद्विधय उच्छिद्यन्ते, अब्र­ह्म­वि­द्भि­र­नु­ष्ठी­यन्त एवेति । परिव्राजकानां भिक्षाचरणादिवत् उत्प­न्नै­क­त्व­प्र­त्य­या­ना­मपि गृह­स्था­दी­ना­म­ग्रि­हो­त्रा­दि­क­र्मा­नि­वृ­त्ति­रिति चेत् , न, प्रामा­ण्य­चि­न्तायां पुरु­ष­प्र­वृ­त्ते­र­दृ­ष्टा­न्त­त्वात् — न हि, नाभिचरेदिति प्रति­षि­द्ध­म­प्य­भि­च­रणं कश्चि­त्कु­र्व­न्दृष्ट इति, शत्रौ द्वेषरहितेनापि विवेकिना अभिचरणं क्रियते । न च कर्म­वि­धि­प्र­वृ­त्ति­नि­मित्ते भेदप्रत्यये बाधिते अग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम् । इहाप्यकरणे प्रत्यवायभयं प्रवर्तकमिति चेत् , न, भेद­प्र­त्य­य­व­तोऽ­धि­कृ­त­त्वात् । भेदप्रत्ययवान् अनु­प­म­र्दि­त­भे­द­बु­द्धि­र्वि­द्यया यः, स कर्मण्यधिकृत इत्यवोचाम ; यो हि अधिकृतः कर्मणि, तस्य तदकरणे प्रत्यवायः ; न निवृ­त्ता­धि­का­रस्य, गृहस्थस्येव, ब्रह्मचारिणो विशे­ष­ध­र्मा­न­नु­ष्ठाने । एवं तर्हि सर्वः स्वाश्रमस्थः उत्प­न्नै­क­त्व­प्र­त्ययः परिव्राडिति चेत् , न, स्वस्वा­मि­त्व­भे­द­बु­द्ध्य­नि­वृत्तेः, कर्मार्थत्वाच्च इतराश्रमाणाम् — ‘अथ कर्म कुर्वीय’(बृ. उ. १ । ४ । १७) इति श्रुतेः । तस्मात् स्वस्वा­मि­त्वा­भा­वात् भिक्षुरेक एव परिव्राट् , न गृहस्थादिः । एक­त्व­प्र­त्य­य­वि­धि­ज­नि­तेन प्रत्ययेन विधि­नि­मि­त्त­भे­द­प्र­त्य­य­स्यो­प­म­र्दि­त­त्वात् यम­नि­य­मा­द्य­नु­प­पत्तिः परिव्राजकस्येति चेत् , न, बुभुक्षादिना एक­त्व­प्र­त्य­या­त्प्र­च्या­वि­त­स्यो­प­पत्तेः, निवृ­त्त्य­र्थ­त्वात् । न च प्रति­षि­द्ध­से­वा­प्राप्तिः, एक­त्व­प्र­त्य­यो­त्पत्तेः प्रागेव प्रति­षि­द्ध­त्वात् । न हि रात्रौ कूपे कण्टके वा पतितः उदितेऽपि सवितरि पतति तस्मिन्नेव । तस्मात् सिद्धं निवृत्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति । यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकतेति — सत्यमेतत् । यच्चोक्तं तपःशब्देन परिव्राडप्युक्त इति — एतदसत् । कस्मात् ? परिव्राजकस्यैव निवृ­त्त­भे­द­प्र­त्य­यस्य ब्रह्म­सं­स्थ­ता­स­म्भ­वात् । स एव हि अवशेषित इत्यवोचाम । एक­त्व­वि­ज्ञा­न­व­तोऽ­ग्नि­हो­त्रा­दि­व­त्त­पो­नि­वृ­त्तेश्च । भेदबुद्धिमत एव हि तपःकर्तव्यता स्यात् । एतेन कर्मच्छिद्रे ब्रह्म­सं­स्थ­ता­सा­म­र्थ्यम् , अप्रतिषेधश्च प्रत्युक्तः । तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञानवैयर्थ्यं प्रत्युक्तम् । यत्पुनरुक्तं यव­व­रा­हा­दि­श­ब्द­व­त्प­रि­व्रा­जके न रूढो ब्रह्मसंस्थशब्द इति, तत्परिहृतम् ; तस्यैव ब्रह्म­सं­स्थ­ता­स­म्भ­वा­न्ना­न्य­स्येति । यत्पुनरुक्तं रूढशब्दाः निमित्तं नोपाददत इति, तन्न, गृह­स्थ­त­क्ष­प­रि­व्रा­ज­का­दि­श­ब्द­द­र्श­नात् । गृह­स्थि­ति­पा­रि­व्रा­ज्य­त­क्ष­णा­दि­नि­मि­त्तो­पा­दाना अपि, गृह­स्थ­प­रि­व्रा­ज­का­वा­श्र­मि­वि­शेषे, विशिष्टजातिमति च तक्षेति, रूढा दृश्यन्ते शब्दाः । न यत्र यत्र निमित्तानि तत्र तत्र वर्तन्ते, प्रसि­द्ध्य­भा­वात् । तथा इहापि ब्रह्म­सं­स्थ­शब्दो निवृ­त्त­स­र्व­क­र्म­त­त्सा­ध­न­प­रि­व्रा­डे­क­वि­ष­येऽ­त्या­श्र­मिणि परमहंसाख्ये वृत्त इह भवितुमर्हति, मुख्या­मृ­त­त्व­फ­ल­श्र­व­णात् । अतश्चेदमेवैकं वेदोक्तं पारिव्राज्यम् , न यज्ञो­प­वी­त­त्रि­द­ण्ड­क­म­ण्ड­ल्वा­दि­प­रि­ग्रह इति ; ‘मुण्डोऽ­प­रि­ग्र­होऽ­सङ्गः’(जा. उ. ५) इति च । श्रुतिः ‘अत्याश्रमिभ्यः परमं पवित्रम्’(श्वे. उ. ६ । २१) इत्यादि च श्वेताश्वतरीये ; ‘निस्तु­ति­र्नि­र्न­म­स्कारः’(मो. ध. २४२ । ९) इत्या­दि­स्मृ­ति­भ्यश्च ; ‘तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः । ’(मो. ध. २४१ । ७) ‘तस्मादलिङ्गो धर्म­ज्ञोऽ­व्य­क्त­लिङ्गः’(अश्व. ४६ । ५१) (व. १० । १२) इत्या­दि­स्मृ­ति­भ्यश्च ॥

यत्तु साङ्ख्यैः कर्म­त्या­गोऽ­भ्यु­प­ग­म्यते, क्रिया­का­र­क­फ­ल­भे­द­बुद्धेः सत्य­त्वा­भ्यु­प­ग­मात् , तन्मृषा । यच्च बौद्धैः शून्य­ता­भ्यु­प­ग­मात् अक­र्तृ­त्व­म­भ्यु­प­ग­म्यते, तदप्यसत् , तदभ्युपगन्तुः सत्त्वा­भ्यु­प­ग­मात् । यच्च अज्ञैरलसतया अक­र्तृ­त्वा­भ्यु­प­गमः, सोऽप्यसत् , कार­क­बु­द्धे­र­नि­व­र्ति­त­त्वा­त्प्र­मा­णेन । तस्मात् वेदा­न्त­प्र­मा­ण­ज­नि­तै­क­त्व­प्र­त्य­य­वत एव कर्म­नि­वृ­त्ति­ल­क्षणं पारिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम् । एतेन गृह­स्थ­स्यै­क­त्व­वि­ज्ञाने सति पारि­व्रा­ज्य­म­र्थ­सि­द्धम् ॥

ननु अग्न्यु­त्सा­द­न­दो­ष­भा­क्स्यात् परिव्रजन् — ‘वीरहा वा एष देवानां योऽग्रि­मु­द्वा­स­यते’(तै. सं. १ । ५ । २) इति श्रुतेः, न, दैवो­त्सा­दि­त­त्वात् , उत्सन्न एव हि स एकत्वदर्शने जाते — ‘अपा­गा­द­ग्ने­र­ग्नि­त्वम्’(छा. उ. ६ । ४ । १) इति श्रुतेः । अतो न दोषभाक् गृहस्थः परिव्रजन्निति ॥

यत्संस्थः अमृतत्वमेति, तन्नि­रू­प­णा­र्थ­माह —

प्रजा­प­ति­र्लो­का­न­भ्य­त­प­त्ते­भ्योऽ­भि­त­प्ते­भ्य­स्त्रयी विद्या सम्प्रा­स्र­व­त्ता­म­भ्य­त­प­त्तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवः स्वरिति ॥ २ ॥

प्रजापतिः विराट् कश्यपो वा, लोकान् उद्दिश्य तेषु सारजिघृक्षया अभ्यतपत् अभितापं कृतवान् ध्यानं तपः कृतवानित्यर्थः, तेभ्यः अभितप्तेभ्यः सारभूता त्रयी विद्या सम्प्रास्रवत् प्रजापतेर्मनसि प्रत्य­भा­दि­त्यर्थः । तामभ्यतपत् — पूर्ववत् । तस्या अभितप्तायाः एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवः स्वरिति व्याहृतयः ॥

तान्य­भ्य­त­प­त्ते­भ्योऽ­भि­त­प्तेभ्य ओङ्कारः सम्प्रा­स्र­व­त्त­द्यथा शङ्कुना सर्वाणि पर्णानि सन्तृ­ण्णा­न्ये­व­मो­ङ्का­रेण सर्वा वाक्स­न्तृ­ण्णो­ङ्कार एवेदं सर्वमोङ्कार एवेदं सर्वम् ॥ ३ ॥

तानि अक्षराणि अभ्यतपत् , तेभ्यः अभितप्तेभ्यः ओङ्कारः सम्प्रास्रवत् । तत् ब्रह्म कीदृशमिति, आह — तद्यथा शङ्कुना पर्णनालेन सर्वाणि पर्णानि पत्रावयवजातानि सन्तृण्णानि निविद्धानि व्याप्ता­नी­त्यर्थः । एवम् ओङ्कारेण ब्रह्मणा परमात्मनः प्रतीकभूतेन सर्वा वाक् शब्दजातं सन्तृण्णा — ‘अकारो वै सर्वा वाक्’(ऐ. आ. २ । ३ । ७) इत्यादिश्रुतेः । परमात्मविकारश्च नामधेयमात्रम् इत्यतः ओङ्कार एवेदं सर्वमिति । द्विरभ्यासः आदरार्थः । लोका­दि­नि­ष्पा­द­न­क­थ­नम् ओङ्का­र­स्तु­त्य­र्थ­मिति ॥

इति त्रयो­विं­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्विंशः खण्डः

सामो­पा­स­न­प्र­स­ङ्गेन कर्म­गु­ण­भू­त­त्वा­न्नि­वर्त्य ओङ्कारं पर­मा­त्म­प्र­ती­क­त्वा­द­मृ­त­त्व­हे­तु­त्वेन महीकृत्य प्रकृतस्यैव यज्ञस्य अङ्गभूतानि साम­हो­म­म­न्त्रो­त्था­ना­न्यु­प­दि­दि­क्ष­न्नाह —

ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनꣳ रुद्राणां माध्यन्दिनꣳ सवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ १ ॥

ब्रह्मवादिनो वदन्ति, यत्प्रातःसवनं प्रसिद्धं तद्वसूनाम् । तैश्च प्रातः­स­व­न­स­म्ब­द्धोऽयं लोको वशीकृतः प्रातःसवनेशानैः । तथा रुदॆ­र्मा­ध्य­न्दि­न­स­व­ने­शानैः अन्तरिक्षलोकः । आदित्यैश्च विश्वैर्देवैश्च तृती­य­स­व­ने­शा­नै­स्तृ­तीयो लोको वशीकृतः । इति यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते ॥

क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं कुर्यादथ विद्वा­न्कु­र्यात् ॥ २ ॥

अतः क्व तर्हि यजमानस्य लोकः, यदर्थं यजते ; न क्वचि­ल्लो­कोऽ­स्ती­त्य­भि­प्रायः — ‘लोकाय वै यजते यो यजते’(?) इति श्रुतेः । लोकाभावे च स यो यजमानः तं लोकस्वीकरणोपायं साम­हो­म­म­न्त्रो­त्था­न­ल­क्षणं न विद्यात् न विजानीयात् , सोऽज्ञः कथं कुर्यात् यज्ञम् , न कथञ्चन तस्य कर्तृ­त्व­मु­प­प­द्यत इत्यर्थः । सामा­दि­वि­ज्ञा­न­स्तु­ति­प­र­त्वात् न अविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते — स्तुतये च सामा­दि­वि­ज्ञा­नस्य, अवि­द्व­त्क­र्तृ­त्व­प्र­ति­षे­धाय च इति हि भिद्येत वाक्यम् । आद्ये च औषस्त्ये काण्डे अविदुषोऽपि कर्मास्तीति हेतुमवोचाम । अथ एतद्वक्ष्यमाणं सामाद्युपायं विद्वा­न्कु­र्यात् ॥

पुरा प्रात­र­नु­वा­क­स्यो­पा­क­र­णा­ज्ज­घ­नेन गार्ह­प­त्य­स्यो­द­ङ्मुख उपविश्य स वासवं सामाभिगायति ॥ ३ ॥

किं तद्वेद्यमिति, आह — पुरा पूर्वं प्रातरनुवाकस्य शस्त्रस्य प्रारम्भात् जघनेन गार्हपत्यस्य पश्चात् उदङ्मुखः सन् उपविश्य सः वासवं वसुदैवत्यं साम अभिगायति ॥

लो३क­द्वा­र­म­पा­वा३र्णू ३३ पश्येम त्वा वयं रा ३३३३३ हु३म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ ४ ॥

लोकद्वारम् अस्य पृथिवीलोकस्य प्राप्तये द्वारम् अपावृणु हे अग्ने तेन द्वारेण पश्येम त्वा त्वां राज्यायेति ॥

अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ ५ ॥

अथ अनन्तरं जुहोति अनेन मन्त्रेण — नमोऽग्नये प्रह्वीभूताः तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते लोकनिवासाय, पृथि­वी­लो­क­नि­वा­सा­ये­त्यर्थः ; लोकं मे मह्यं यजमानाय विन्द लभस्व ; एष वै मम यजमानस्य लोकः एता गन्ता अस्मि ॥

अत्र यजमानः परस्तादायुषः स्वाहापजहि परि­घ­मि­त्यु­क्त्वो­त्ति­ष्ठति तस्मै वसवः प्रातःसवनं सम्प्रयच्छन्ति ॥ ६ ॥

अत्र अस्मिंल्लोके यजमानः अहम् आयुषः परस्तात् ऊर्ध्वं मृतः सन् इत्यर्थः । स्वाहेति जुहोति । अपजहि अपनय परिघं लोकद्वारार्गलम् — इति एतं मन्त्रम् उक्त्वा उत्तिष्ठति । एवमेतैर्वसुभ्यः प्रातः­स­व­न­स­म्बद्धो लोको निष्क्रीतः स्यात् । ततस्ते प्रातःसवनं वसवो यजमानाय सम्प्रयच्छन्ति ॥

पुरा माध्यन्दिनस्य सव­न­स्यो­पा­क­र­णा­ज्ज­घ­ने­ना­ग्नी­ध्री­य­स्यो­द­ङ्मुख उपविश्य सरौद्रं सामाभिगायति ॥ ७ ॥

लो३क­द्व­र­म­पा­वा३र्णू३३ पश्येम त्वा वयं वैरा३३३३३ हु३म् आ३३ज्या३यो३ आ३२१११इति ॥ ८ ॥

तथा आग्नीध्रीयस्य दक्षिणाग्नेः जघनेन उदङ्मुख उपविश्य सः रौद्रं साम अभिगायति यजमानः रुद्रदैवत्यं वैराज्याय ॥

अथ जुहोति नमो वाय­वेऽ­न्त­रि­क्ष­क्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ ९ ॥

अत्र यजमानः परस्तादायुषः स्वाहापजहि परि­घ­मि­त्यु­क्त्वो­त्ति­ष्ठति तस्मै रुद्रा माध्यन्दिनं सवनं सम्प्रयच्छन्ति ॥ १० ॥

१०

अन्तरिक्षक्षित इत्यादि समानम् ॥

पुरा तृती­य­स­व­न­स्यो­पा­क­र­णा­ज्ज­घ­ने­ना­ह­व­नी­य­स्यो­द­ङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति ॥ ११ ॥

११

लो३क­द्वा­र­म­पा­वा३­र्णू३३­प­श्येम त्वा वयं स्वारा ३३३३३ हु३म् आ३३ ज्या३ यो३ आ ३२१११ इति ॥ १२ ॥

१२

आदित्यमथ वैश्वदेवं लो३क­द्वा­र­म­पा­वा३र्णू३३ पश्येम त्वा वयं साम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ इति ॥ १३ ॥

१३

तथा आह­व­नी­य­स्यो­द­ङ्मुख उपविश्य सः आदित्यदैवत्यम् आदित्यं वैश्वदेवं च साम अभिगायति क्रमेण स्वाराज्याय साम्राज्याय ॥

अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दत ॥ १४ ॥

१४

एष वै यजमानस्य लोक एतास्म्यत्र यजमानः परस्तादायुषः स्वाहापहत परि­घ­मि­त्यु­क्त्वो­त्ति­ष्ठति ॥ १५ ॥

१५

दिविक्षिद्भ्य इत्येवमादि समानमन्यत् । विन्दत अपहत इति बहुवचनमात्रं विशेषः । याजमानं त्वेतत् , एतास्म्यत्र यजमान इत्यादिलिङ्गात् ॥

तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं सम्प्र­य­ज्छ­न्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ १६ ॥

१६

एष ह वै यजमानः एवंवित् यथोक्तस्य सामा­दे­र्वि­द्वान् यज्ञस्य मात्रां यज्ञयाथात्म्यं वेद यथोक्तम् । य एवं वेदेति द्विरु­क्ति­र­ध्या­य­प­रि­स­मा­प्त्यर्था ॥

इति चतु­र्विं­श­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ छान्दो­ग्यो­प­नि­ष­द्भाष्ये द्वितीयोऽध्यायः समाप्तः ॥