अद्वैतशारदा

छान्दोग्योपनिषद्भाष्यम्

तृतीयोऽध्यायः

व्याख्याः

प्रथमः खण्डः

‘असौ वा आदित्यः’ इत्यादि अध्यायारम्भे सम्बन्धः । अती­ता­न­न्त­रा­ध्या­यान्ते उक्तम् ‘यज्ञस्य मात्रां वेद’ इति । यज्ञविषयाणि च साम­हो­म­म­न्त्रो­त्था­नानि विशि­ष्ट­फ­ल­प्रा­प्तये यज्ञा­ङ्ग­भू­ता­न्यु­प­दि­ष्टानि । सर्वयज्ञानां च कार्य­नि­र्वृ­त्ति­रूपः सविता महत्या श्रिया दीप्यते । स एष सर्व­प्रा­णि­क­र्म­फ­ल­भूतः प्रत्यक्षं सर्वैरुपजीव्यते । अतो यज्ञ­व्य­प­दे­शा­न­न्तरं तत्का­र्य­भू­त­स­वि­तृ­वि­ष­य­मु­पा­सनं सर्व­पु­रु­षा­र्थेभ्यः श्रेष्ठतमफलं विधा­स्या­मी­त्ये­व­मा­र­भते श्रुतिः —

असौ वा आदित्यो देवमधु तस्य द्यौरेव तिर­श्ची­न­वꣳशोऽ­न्त­रि­क्ष­म­पूपो मरीचयः पुत्राः ॥ १ ॥

असौ वा आदित्यो देवमध्वित्यादि । देवानां मोदनात् मध्विव मधु असौ आदित्यः । वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्व­य­ज्ञ­फ­ल­रू­प­त्वा­दा­दि­त्यस्य । कथं मधुत्वमिति, आह — तस्य मधुनः द्यौरेव भ्रामरस्येव मधुनः तिरश्चीनवंशः तिरश्चीनश्चासौ वंशश्चेति तिरश्चीनवंशः । तिर्यग्गतेव हि द्यौर्लक्ष्यते । अन्तरिक्षं च मध्वपूपः द्युवंशे लग्नः सन् लम्बत इव, अतो मध्व­पू­प­सा­मा­न्यात् अन्तरिक्षं मध्वपूपः, मधुनः सवि­तु­रा­श्र­य­त्वाच्च । मरीचयः रश्मयः रश्मिस्था आपो भौमाः सवित्राकृष्टाः । ‘एता वा आपः स्वराजो यन्मरीचयः’(?) इति हि विज्ञायन्ते । ता अन्त­रि­क्ष­म­ध्व­पू­प­स्थ­र­श्म्य­न्त­र्ग­त­त्वात् भ्रमरबीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्राः, मध्व­पू­प­ना­ड्य­न्त­र्गता हि भ्रमरपुत्राः ॥

तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥

तस्य सवितुः मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां दिशि गताः रश्मयः, ता एव अस्य प्राच्यः प्रागञ्चनात् मधुनो नाड्यः मधुनाड्य इव मध्वा­धा­र­च्छि­द्रा­णी­त्यर्थः । तत्र ऋच एव मधुकृतः लोहितरूपं सवित्राश्रयं मधु कुर्वन्तीति मधुकृतः भ्रमरा इव ; यतो रसानादाय मधु कुर्वन्ति, तत्पुष्पमिव पुष्पम् ऋग्वेद एव । तत्र ऋग्ब्रा­ह्म­ण­स­मु­दा­यस्य ऋग्वे­दा­ख्य­त्वात् शब्दमात्राच्च भोग्य­रू­प­र­स­नि­स्रा­वा­स­म्भ­वात् ऋग्वेदशब्देन अत्र ऋग्वेदविहितं कर्म, ततो हि कर्म­फ­ल­भू­त­म­धु­र­स­नि­स्रा­व­स­म्भ­वात् । मधुकरैरिव पुष्प­स्था­नी­या­दृ­ग्वे­द­वि­हि­ता­त्क­र्मणः अप आदाय ऋग्भिर्मधु निर्वर्त्यते । कास्ता आप इति, आह — ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपाः अग्नौ प्रक्षिप्ताः तत्पा­का­भि­नि­र्वृत्ता अमृताः अमृ­ता­र्थ­त्वा­द­त्य­न्त­र­स­वत्यः आपो भवन्ति । तद्रसानादाय ता वा एता ऋचः पुष्पेभ्यो रसमाददाना इव भ्रमरा ऋचः ॥

एत­मृ­ग्वे­द­म­भ्य­त­पꣳस्त­स्या­भि­त­प्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३ ॥

एतम् ऋग्वेदम् ऋग्वेदविहितं कर्म पुष्पस्थानीयम् अभ्यतपन् अभितापं कृतवत्य इव एता ऋचः कर्मणि प्रयुक्ताः । ऋग्भिर्हि मन्त्रैः शस्त्रा­द्य­ङ्ग­भा­व­मु­प­गतैः क्रियमाणं कर्म मधुनिर्वर्तकं रसं मुञ्च­ती­त्यु­प­प­द्यते, पुष्पाणीव भ्रम­रै­रा­चू­ष्य­मा­णानि । तदेतदाह — तस्य ऋग्वेदस्य अभितप्तस्य । कोऽसौ रसः, यः ऋङ्म­धु­क­रा­भि­ता­प­निः­सृत इत्युच्यते ? यशः विश्रुतत्वं तेजः देहगता दीप्तिः इन्द्रियं साम­र्थ्यो­पे­तै­रि­न्द्रि­यै­र­वै­कल्यं वीर्यं सामर्थ्यं बलमित्यर्थः, अन्नाद्यम् अन्नं च तदाद्यं च येनो­प­यु­ज्य­मा­ने­ना­ह­न्य­हनि देवानां स्थितिः स्यात् तदन्नाद्यम् एष रसः अजायत यागा­दि­ल­क्ष­णा­त्क­र्मणः ॥

तद्व्य­क्ष­र­त्त­दा­दि­त्य­म­भि­तोऽ­श्र­य­त्तद्वा एत­द्य­दे­त­दा­दि­त्यस्य रोहितꣳ रूपम् ॥ ४ ॥

यश आद्य­न्ना­द्य­प­र्यन्तं तत् व्यक्षरत् विशेषेणाक्षरत् अगमत् । गत्वा च तदादित्यम् अभितः पार्श्वतः पूर्वभागं सवितुः अश्रयत् आश्रि­त­व­दि­त्यर्थः । अमु­ष्मि­न्ना­दित्ये सञ्चितं कर्मफलाख्यं मधु भोक्ष्यामह इत्येवं हि यश­आ­दि­ल­क्ष­ण­फ­ल­प्रा­प्तये कर्माणि क्रियन्ते मनुष्यैः — केदा­र­नि­ष्पा­द­न­मिव कर्षकैः । तत्प्रत्यक्षं प्रदर्श्यते श्रद्धाहेतोः । तद्वा एतत् ; किं तत् ? यदेतत् आदित्यस्य उद्यतो दृश्यते रोहितं रूपम् ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूꣳष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥

अथ ये अस्य दक्षिणा रश्मय इत्यादि समानम् । यजूंष्येव मधुकृतः यजुर्वेदविहिते कर्मणि प्रयुक्तानि, पूर्ववन्मधुकृत इव । यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्प­मि­त्यु­च्यते । ता एव सोमाद्या अमृता आपः ॥

तानि वा एतानि यजूꣳष्येतं यजु­र्वे­द­म­भ्य­त­पꣳस्त­स्या­भि­त­प्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳ रसोऽजायत ॥ २ ॥

तद्व्य­क्ष­र­त्त­दा­दि­त्य­म­भि­तोऽ­श्र­य­त्तद्वा एत­द्य­दे­त­दा­दि­त्यस्य शुक्लꣳ रूपम् ॥ ३ ॥

तानि वा एतानि यजूंष्येतं यजु­र्वे­द­म­भ्य­त­पन् इत्येवमादि सर्वं समानम् । मधु एतदादित्यस्य दृश्यते शुक्लं रूपम् ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥

तृतीयः खण्डः

अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥

तानि वा एतानि सामान्येतं साम­वे­द­म­भ्य­त­पं­स्त­स्या­भि­त­प्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳ रसोऽजायत ॥ २ ॥

तद्व्य­क्ष­र­त्त­दा­दि­त्य­म­भि­तोऽ­श्र­य­त्तद्वा एत­द्य­दे­त­दा­दि­त्यस्य कृष्णꣳ रूपम् ॥ ३ ॥

अथ येऽस्य प्रत्यञ्चो रश्मय इत्यादि समानम् । तथा साम्नां मधु, एतदादित्यस्य कृष्णं रूपम् ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥

चतुर्थः खण्डः

अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधु­ना­ड्योऽ­थ­र्वा­ङ्गि­रस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ १ ॥

ते वा एतेऽथर्वाङ्गिरस एत­दि­ति­हा­स­पु­रा­ण­म­भ्य­तपꣳ स्तस्या­भि­त­प्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳ रसोऽजायत ॥ २ ॥

तद्व्य­क्ष­र­त्त­दा­दि­त्य­म­भि­तोऽ­श्र­य­त्तद्वा एत­द्य­दे­त­दा­दि­त्यस्य परं कृष्णꣳ रूपम् ॥ ३ ॥

अथ येऽस्योदञ्चो रश्मय इत्यादि समानम् । अथर्वाङ्गिरसः अथर्वणा अङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः, कर्मणि प्रयुक्ता मधुकृतः । इतिहासपुराणं पुष्पम् । तयो­श्चे­ति­हा­स­पु­रा­ण­यो­र­श्व­मेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनियोगः सिद्धः । मधु एतदादित्यस्य परं कृष्णं रूपम् अतिशयेन कृष्णमित्यर्थः ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

पञ्चमः खण्डः

अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥

ते वा एते गुह्या आदेशा एत­द्ब्र­ह्मा­भ्य­तपꣳ स्तस्या­भि­त­प्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳ रसोऽजायत ॥ २ ॥

तद्व्य­क्ष­र­त्त­दा­दि­त्य­म­भि­तोऽ­श्र­य­त्तद्वा एत­द्य­दे­त­दा­दि­त्यस्य मध्ये क्षोभत इव ॥ ३ ॥

अथ येऽस्योर्ध्वा रश्मय इत्यादि पूर्ववत् । गुह्या गोप्या रहस्या एव आदेशा लोक­द्वा­री­या­दि­वि­धय उपासनानि च कर्माङ्गविषयाणि मधुकृतः, ब्रह्मैव शब्दा­धि­का­रा­त्प्र­ण­वाख्यं पुष्पम् । समानमन्यत् । मधु एतत् आदित्यस्य मध्ये क्षोभत इव समा­हि­त­दृ­ष्टे­र्दृ­श्यते सञ्चलतीव ॥

ते वा एते रसानाꣳ रसा वेदा हि रसास्तेषामेते रसास्तानि वा एता­न्य­मृ­ता­ना­म­मृ­तानि वेदा ह्यमृ­ता­स्ते­षा­मे­ता­न्य­मृ­तानि ॥ ४ ॥

ते वा एते यथोक्ता रोहि­ता­दि­रू­प­वि­शेषा रसानां रसाः । केषां रसानामिति, आह — वेदा हि यस्मा­ल्लो­क­नि­ष्य­न्द­त्वा­त्सारा इति रसाः, तेषां रसानां कर्म­भा­व­मा­प­न्ना­ना­म­प्येते रोहितादिविशेषा रसा अत्यन्तसारभूता इत्यर्थः । तथा अमृतानाममृतानि वेदा ह्यमृताः, नित्यत्वात् , तेषामेतानि रोहितादीनि रूपाण्यमृतानि । रसानां रसा इत्यादि कर्मस्तुतिरेषा — यस्यै­वं­वि­शि­ष्टा­न्य­मृ­तानि फलमिति ॥

इति पञ्च­म­ख­ण्ड­भा­ष्यम् ॥

षष्ठः खण्डः

तद्य­त्प्र­थ­म­म­मृतं तद्वसव उप­जी­व­न्त्य­ग्निना मुखेन न वै देवा अश्नन्ति न पिब­न्त्ये­त­दे­वा­मृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

तत् तत्र यत्प्रथमममृतं रोहितरूपलक्षणं तद्वसवः प्रातःसवनेशाना उपजीवन्ति अग्निना मुखेन अग्निना प्रधानभूतेन, अग्निप्रधानाः सन्त उप­जी­व­न्ती­त्यर्थः । ‘अन्नाद्यं रसोऽजायत’(छा. उ. ३ । १ । ३) (छा. उ. ३ । २ । २) (छा. उ. ३ । ३ । २) (छा. उ. ३ । ४ । २) (छा. उ. ३ । ५ । २) इति वचनात् कब­ल­ग्रा­ह­म­श्न­न्तीति प्राप्तम् , तत्प्रतिषिध्यते — न वै देवा अश्नन्ति न पिबन्तीति । कथं तर्हि उपजीवन्तीति, उच्यते — एतदेव हि यथोक्तममृतं रोहितं रूपं दृष्ट्वा उपलभ्य सर्वकरणैरनुभूय तृप्यन्ति, दृशेः सर्व­क­र­ण­द्वा­रो­प­ल­ब्ध्य­र्थ­त्वात् । ननु रोहितं रूपं दृष्ट्वे­त्यु­क्तम् ; कथ­म­न्ये­न्द्रि­य­वि­ष­यत्वं रूपस्येति ; न, यशआदीनां श्रोत्रा­दि­गं­य­त्वात् । श्रोत्रग्राह्यं यशः । तेजोरूपं चाक्षुषम् । इन्द्रियं विष­य­ग्र­ह­ण­का­र्या­नु­मेयं करणसामर्थ्यम् । वीर्यं बलं देहगत उत्साहः प्राणवत्ता । अन्नाद्यं प्रत्य­ह­मु­प­जी­व्य­मानं शरीरस्थितिकरं यद्भवति । रसो ह्येवमात्मकः सर्वः । यं दृष्ट्वा तृप्यन्ति सर्वे । देवा दृष्ट्वा तृप्यन्तीति एतत्सर्वं स्वकरणैरनुभूय तृप्य­न्ती­त्यर्थः । आदित्यसंश्रयाः सन्तो वैग­न्ध्या­दि­दे­ह­क­र­ण­दो­ष­र­हि­ताश्च ॥

त एतदेव रूप­म­भि­सं­वि­श­न्त्ये­त­स्मा­द्रू­पा­दु­द्यन्ति ॥ २ ॥

किं ते निरुद्यमा अमृतमुपजीवन्ति ? न ; कथं तर्हि, एतदेव रूपम् अभिलक्ष्य अधुना भोगावसरो नास्माकमिति बुद्ध्वा अभिसंविशन्ति उदासते । यदा वै तस्यामृतस्य भोगावसरो भवेत् , तदै­त­स्मा­द­मृ­ता­द­मृ­त­भो­ग­नि­मि­त्त­मि­त्यर्थः ; एतस्माद्रूपात् उद्यन्ति उत्साहवन्तो भवन्तीत्यर्थः । न हि अनु­त्सा­ह­व­ता­म­न­नु­ति­ष्ठ­ता­म­ल­सानां भोग­प्रा­प्ति­र्लोके दृष्टा ॥

स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूप­म­भि­सं­वि­श­त्ये­त­स्मा­द्रू­पा­दु­देति ॥ ३ ॥

स यः कश्चित् एतदेवं यथोदितम् ऋङ्म­धु­क­र­ता­प­र­स­स­ङ्क्ष­र­णम् ऋग्वे­द­वि­हि­त­क­र्म­पु­ष्पात् तस्य च आदित्यसंश्रयणं रोहितरूपत्वं च अमृतस्य प्राची­दि­ग्ग­त­र­श्मि­ना­डी­सं­स्थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहैकतां गत्वा अग्निना मुखेनोपजीवनं दर्शनमात्रेण तृप्तिं च स्वभोगावसरे उद्यमनं तत्कालापाये च संवेशनं वेद, सोऽपि वसुवत् सर्वं तथैवानुभवति ॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यꣳ स्वाराज्यं पर्येता ॥ ४ ॥

कियन्तं कालं विद्वां­स्त­द­मृ­त­मु­प­जी­व­तीति, उच्यते — स विद्वान् यावदादित्यः पुरस्तात् प्राच्यां दिशि उदेता पश्चात् प्रतीच्याम् अस्तमेता, तावद्वसूनां भोगकालः तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवतीत्यर्थः । न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्रो देवानामन्नभूतः ; किं तर्हि, अयम् आधिपत्यं स्वाराज्यं स्वराड्भावं च अधिगच्छति ॥

इति षष्ठखण्डभाष्यम् ॥

सप्तमः खण्डः

अथ यद्द्वितीयममृतं तद्रुद्रा उप­जी­व­न्ती­न्द्रेण मुखेन न वै देवा अश्नन्ति न पिब­न्त्ये­त­दे­वा­मृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

त एतदेव रूप­म­भि­सं­वि­श­न्त्ये­त­स्मा­द्रू­पा­दु­द्यन्ति ॥ २ ॥

स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूप­म­भि­सं­वि­श­त्ये­त­स्मा­द्रू­पा­दु­देति ॥ ३ ॥

अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम् ॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्ता­व­द्द­क्षि­णत उदे­तो­त्त­र­तोऽ­स्त­मेता रुद्राणामेव तावदाधिपत्यꣳ स्वाराज्यं पर्येता ॥ ४ ॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत् ततो द्विगुणं कालं दक्षिणत उदेता उत्तरतोऽस्तमेता रुद्राणां तावद्भोगकालः ॥

इति सप्त­म­ख­ण्ड­भा­ष्यम् ॥

अष्टमः खण्डः

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिब­न्त्ये­त­दे­वा­मृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

त एतदेव रूप­म­भि­सं­वि­श­न्त्ये­त­स्मा­द्रू­पा­दु­द्यन्ति ॥ २ ॥

स य एतदेवममृतं वेदा­दि­त्या­ना­मे­वैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूप­म­भि­सं­वि­श­त्ये­त­स्मा­द्रू­पा­दु­देति ॥ ३ ॥

स यावादादित्यो दक्षिणत उदे­तो­त्त­र­तोऽ­स्त­मेता द्विस्ता­व­त्प­श्चा­दु­देता पुर­स्ता­द­स्त­मे­ता­दि­त्या­ना­मेव तावदाधिपत्यं स्वाराज्यꣳ पर्येता ॥ ४ ॥

तथा पश्चात् उत्तरतः ऊर्ध्वमुदेता विपर्ययेण अस्तमेता । पूर्व­स्मा­त्पू­र्व­स्मा­द्द्वि­गु­णो­त्त­रो­त्त­रेण कालेनेत्यपौराणं दर्शनम् । सवितुः चतु­र्दि­श­मि­न्द्र­य­म­व­रु­ण­सो­म­पु­रीषु उदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम् , मानसोत्तरस्य मूर्धनि मेरोः प्रद­क्षि­णा­वृ­त्ते­स्तु­ल्य­त्वा­दिति । अत्रोक्तः परिहारः आचार्यैः । अमरावत्यादीनां पुरीणां द्विगु­णो­त्त­रो­त्त­रेण कालेनोद्वासः स्यात् । उदयश्च नाम सवितुः तन्निवासिनां प्राणिनां चक्षु­र्गो­च­रा­पत्तिः, तदत्ययश्च अस्तमनम् ; न परमार्थत उदयास्तमने स्तः । तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति, चक्षु­र्गो­च­रा­प­त्ते­स्त­द­त्य­यस्य च अभावात् । तथा अमरावत्याः सकाशाद्द्विगुणं कालं संयमनी पुरी वसति, अतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इव उदेति उत्तरतोऽस्तमेति इत्यु­च्य­तेऽ­स्म­द्बुद्धिं च अपेक्ष्य । तथोत्तरास्वपि पुरीषु योजना सर्वेषां च मेरुरुत्तरतो भवति । यदा अमरावत्यां मध्याह्नगतः सविता, तदा संय­म­न्या­मु­द्य­न्दृ­श्यते ; तत्र मध्याह्नगतो वारु­ण्या­मु­द्य­न्दृ­श्यते ; तथोत्तरस्याम् , प्रद­क्षि­णा­वृ­त्ते­स्तु­ल्य­त्वात् । इलावृतवासिनां सर्वतः पर्व­त­प्रा­का­र­नि­वा­रि­ता­दि­त्य­र­श्मीनां सविता ऊर्ध्व इव उदेता अर्वागस्तमेता दृश्यते, पर्व­तो­र्ध्व­च्छि­द्र­प्र­वे­शा­त्स­वि­तृ­प्र­का­शस्य । तथा ऋगा­द्य­मृ­तो­प­जी­वि­ना­म­मृ­तानां च द्विगु­णो­त्त­रो­त्त­र­वी­र्य­व­त्त्व­म­नु­मी­यते भोग­का­ल­द्वै­गु­ण्य­लि­ङ्गेन । उद्यमनसंवेशनादि देवानां रुद्रादीनां विदुषश्च समानम् ॥

इति अष्ट­म­ख­ण्ड­भा­ष्यम् ॥

नवमः खण्डः

अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पिब­न्त्ये­त­दे­वा­मृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

त एतदेव रूप­म­भि­सं­वि­श­न्त्ये­त­स्मा­द्रू­पा­दु­द्यन्ति ॥ २ ॥

स य एतदेवममृतं देव मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूप­म­भि­सं­वि­श­त्ये­त­स्मा­द्रू­पा­दु­देति ॥ ३ ॥

स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्ता­व­दु­त्त­रत उदेता दक्षि­ण­तोऽ­स्त­मेता मरुतामेव तावदाधिपत्यं स्वाराज्यꣳ पर्येता ॥ ४ ॥

इति नवमः खण्डः ॥

दशमः खण्डः

अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिब­न्त्ये­त­दे­वा­मृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

त एतदेव रूप­म­भि­सं­वि­श­न्त्ये­त­स्मा­द्रू­पा­दु­द्यन्ति ॥ २ ॥

स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूप­म­भि­सं­वि­श­त्ये­त­स्मा­द्रू­पा­दु­देति ॥ ३ ॥

स यावदादित्य उत्तरत उदेता दक्षि­ण­तोऽ­स्त­मेता द्विस्ता­व­दूर्ध्व उदे­ता­र्वा­ग­स्त­मेता साध्यानामेव तावदाधिपत्यं स्वाराज्यꣳ पर्येता ॥ ४ ॥

इति दशमः खण्डः ॥

एकादशः खण्डः

अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥

कृत्वै­व­मु­द­या­स्त­म­नेन प्राणिनां स्वक­र्म­फ­ल­भो­ग­नि­मि­त्त­म­नु­ग्र­हम् , तत्क­र्म­फ­ल­भो­ग­क्षये तानि प्राणि­जा­ता­न्या­त्मनि संहृत्य, अथ ततः तस्मादनन्तरं प्राण्य­नु­ग्र­ह­का­ला­दूर्ध्वः सन् आत्मन्युदेत्य उद्गंय यान्प्रत्युदेति तेषां प्राणिनामभावात् स्वात्मस्थः नैवोदेता नास्तमेता एकलः अद्वितीयः अनवयवः मध्ये स्वात्मन्येव स्थाता । तत्र कश्चि­द्वि­द्वा­न्व­स्वा­दि­स­मा­न­च­रणः रोहि­ता­द्य­मृ­त­भो­ग­भागी यथोक्तक्रमेण स्वात्मानं सवि­ता­र­मा­त्म­त्वे­नो­पेत्य समाहितः सन् एतं मन्त्रं दृष्ट्वा उत्थितः अन्यस्मै पृष्टवते जगाद यतस्त्वमागतो ब्रह्मलोकात् किं तत्रा­प्य­हो­रा­त्राभ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्माकम् ; इत्येवं पृष्टः प्रत्याह — तत् तत्र यथा पृष्टे यथोक्ते च अर्थे एष श्लोको भवति तेनोक्तो योगिनेति श्रुते­र्व­च­न­मि­दम् ॥

न वै तत्र न निंलोच नोदियाय कदाचन । देवास्तेनाहꣳ सत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥

न वै तत्र यतोऽहं ब्रह्मलोकादागतः तस्मिन्न वै तत्र एतदस्ति यत्पृच्छसि । न हि तत्र निंलोच अस्तमगमत्सविता न च उदियाय उद्गतः कुतश्चित् कदाचन कस्मिंश्चिदपि काले इति । उद­या­स्त­म­य­व­र्जितः ब्रह्मलोकः इत्यनुपपन्नम् इत्युक्तः शपथमिव प्रतिपेदे हे देवाः साक्षिणो यूयं शृणुत, यथा मयोक्तं सत्यं वचः तेन सत्येन अहं ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि मा विरुध्येयम् , अप्रा­प्ति­र्ब्र­ह्मणो मम मा भूदित्यर्थः ॥

सत्यं तेनोक्तमित्याह श्रुतिः —

न ह वा अस्मा उदेति न निंलोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥

न ह वा अस्मै यथो­क्त­ब्र­ह्म­विदे न उदेति न निंलोचति नास्तमेति, किं तु ब्रह्मविदेऽस्मै सकृद्दिवा हैव सदैव अहर्भवति, स्वय­ञ्ज्यो­ति­ष्ट्वात् ; य एतां यथोक्तां ब्रह्मोपनिषदं वेदगुह्यं वेद, एवं तन्त्रेण वंशादित्रयं प्रत्य­मृ­त­स­म्बन्धं च यच्च अन्यदवोचाम एवं जानातीत्यर्थः । विद्वान् उद­या­स्त­म­य­का­ला­प­रि­च्छेद्यं नित्यमजं ब्रह्म भवतीत्यर्थः ॥

तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजा­भ्य­स्त­द्धै­त­दु­द्दा­ल­का­या­रु­णये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥

तद्धैतत् मधुज्ञानं ब्रह्मा हिरण्यगर्भः विराजे प्रजापतये उवाच ; सोऽपि मनवे ; मनु­रि­क्ष्वा­क्वा­द्याभ्यः प्रजाभ्यः प्रोवाचेति विद्यां स्तौति — ब्रह्मा­दि­वि­शि­ष्ट­क्र­मा­ग­तेति । किं च, तद्धैतत् मधुज्ञानम् उद्दालकाय आरुणये पिता ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय प्रोवाच ॥

इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रू­या­त्प्र­णा­य्याय वान्तेवासिने ॥ ५ ॥

इदं वाव तद्यथोक्तम् अन्योऽपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात् । प्रणाय्याय वा योग्याय अन्तेवासिने शिष्याय ॥

नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६ ॥

नान्यस्मै कस्मैचन प्रब्रूयात् । तीर्थ­द्व­य­म­नु­ज्ञा­त­म­ने­केषां प्राप्तानां तीर्था­ना­मा­चा­र्या­दी­नाम् । कस्मा­त्पु­न­स्ती­र्थ­स­ङ्को­चनं विद्यायाः कृतमिति, आह — यद्यपि अस्मै आचार्याय इमां कश्चित्पृथिवीम् अद्भिः परिगृहीतां समु­द्र­प­रि­वे­ष्टितां समस्तामपि दद्यात् , अस्या विद्याया निष्क्रयार्थम् , आचार्याय धनस्य पूर्णां सम्पन्नां भोगोपकरणैः ; नासावस्य निष्क्रयः, यस्मात् ततोऽपि दानात् एतदेव यन्म­धु­वि­द्या­दानं भूयः बहु­त­र­फ­ल­मि­त्यर्थः । द्विरभ्यासः आदरार्थः ॥

इति एका­द­श­ख­ण्ड­भा­ष्यम् ॥

द्वादशः खण्डः

यत एवमतिशयफलैषा ब्रह्मविद्या, अतः सा प्रका­रा­न्त­रे­णापि वक्तव्येति ‘गायत्री वा’ इत्याद्यारभ्यते । गायत्रीद्वारेण च उच्यते ब्रह्म, सर्व­वि­शे­ष­र­हि­तस्य ‘नेति नेति’(बृ. उ. २ । ३ । ६) इत्या­दि­वि­शे­ष­प्र­ति­षे­ध­गं­यस्य दुर्बोधत्वात् । सत्स्वनेकेषु च्छन्दः­सु­गा­यत्र्या एव ब्रह्म­ज्ञा­न­द्वा­र­त­यो­पा­दानं प्राधान्यात् । सोमाहरणात् इत­र­च्छ­न्दो­क्ष­रा­ह­र­णेन इत­र­च्छ­न्दो­व्याप्त्या च सर्व­स­व­न­व्या­प­क­त्वाच्च यज्ञे प्राधान्यं गायत्र्याः । गाय­त्री­सा­र­त्वाच्च ब्राह्मणस्य मातरमिव, हित्वा गुरुतरां गायत्रीं ततोऽ­न्य­द्गु­रु­तरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति, तस्या­म­त्य­न्त­गौ­र­वस्य प्रसिद्धत्वात् । अतो गायत्रीमुखेनैव ब्रह्मोच्यते —

गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ १ ॥

गायत्री वा इत्यवधारणार्थो वै - शब्दः । इदं सर्वं भूतं प्राणिजातं यत्किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव । तस्या­श्छ­न्दो­मा­त्रायाः सर्व­भू­त­त्व­म­नु­प­प­न्न­मिति गायत्रीकारणं वाचं शब्द­रू­पा­मा­पा­द­यति गायत्रीं वाग्वै गायत्रीति । वाग्वा इदं सर्वं भूतम् । यस्मात् वाक् शब्दरूपा सती सर्वं भूतं गायति शब्दयति — असौ गौः असावश्व इति च, त्रायते च रक्षति — अमुष्मान्मा भैषीः किं ते भयमुत्थितम् इत्यादिना सर्वतो भया­न्नि­व­र्त्य­मानः वाचा त्रातः स्यात् । यत् वाक् भूतं गायति च त्रायते च, गायत्र्येव तत् गायति च त्रायते च, वाचः अन­न्य­त्वा­द्गा­यत्र्याः । गानात्त्राणाच्च गायत्र्या गायत्रीत्वम् ॥

या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याꣳ हीदꣳ सर्वं भूतं प्रति­ष्ठि­त­मे­ता­मेव नातिशीयते ॥ २ ॥

या वै सा एवंलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी । कथं पुनरियं पृथिवी गायत्रीति, उच्यते — सर्व­भू­त­स­म्ब­न्धात् । कथं सर्व­भू­त­स­म्बन्धः, अस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितम् , एतामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत् । यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्याः, एवं भूत­प्र­ति­ष्ठा­ना­द्भू­त­स­म्बद्धा पृथिवी ; अतो गायत्री पृथिवी ॥

या वै सा पृथिवीयं वाव सा यदि­द­म­स्मि­न्पु­रुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥

या वै सा पृथिवी गायत्री इयं वाव सा इदमेव । तत्किम् ? यदि­द­म­स्मि­न्पु­रुषे कार्यकरणसङ्घाते जीवति शरीरम् , पार्थि­व­त्वा­च्छ­री­रस्य । कथं शरीरस्य गायत्रीत्वमिति, उच्यते — अस्मिन्हि इमे प्राणाः भूतशब्दवाच्याः प्रतिष्ठिताः, अतः पृथि­वी­व­द्भू­त­श­ब्द­वा­च्य­प्रा­ण­प्र­ति­ष्ठा­नात् शरीरं गायत्री, एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः ॥

यद्वै तत्पुरुषे शरीरमिदं वाव तद्य­दि­द­म­स्मि­न्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥

यद्वै तत्पुरुषे शरीरं गायत्री इदं वाव तत् । यदि­द­म­स्मि­न्नन्तः मध्ये पुरुषे हृदयं पुण्डरीकाख्यम् एतद्गायत्री । कथमिति, आह — अस्मिन्हि इमे प्राणाः प्रतिष्ठिताः, अतः शरीरवत् गायत्री हृदयम् । एतदेव च नातिशीयन्ते प्राणाः । ‘प्राणो ह पिता । प्राणो माता’(छा. उ. ७ । १५ । १) ‘अहिं­स­न्स­र्व­भू­तानि’(छा. उ. ८ । १५ । १) इति श्रुतेः भूतशब्दवाच्याः प्राणाः ॥

सैषा चतुष्पदा षड्‌विधा गायत्री तदे­त­दृ­चा­भ्य­नू­क्तम् ॥ ५ ॥

सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गायत्री षड्‌विधा — वाग्भू­त­पृ­थि­वी­श­री­र­हृ­द­य­प्रा­ण­रूपा सती षड्‌विधा भवति । वाक्प्रा­ण­यो­र­न्या­र्थ­नि­र्दि­ष्ट­यो­रपि गाय­त्री­प्र­का­र­त्वम् , अन्यथा षड्‌वि­ध­स­ङ्ख्या­पू­र­णा­नु­प­पत्तेः । तत् एतस्मिन्नर्थे एतत् गायत्र्याख्यं ब्रह्म गायत्र्यनुगतं गाय­त्री­मु­खे­नो­क्तम् ऋचा अपि मन्त्रे­णा­भ्य­नूक्तं प्रकाशितम् ॥

तावानस्य महिमा ततो ज्यायंश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥

तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः, यावां­श्च­तु­ष्पा­त्ष­ड्‌वि­धश्च ब्रह्मणो विकारः पादो गायत्रीति व्याख्यातः । अतः तस्मा­द्वि­का­र­ल­क्ष­णा­द्गा­य­त्र्या­ख्या­द्वा­चा­र­म्भ­ण­मा­त्रात् ततो ज्यायन् महत्तरश्च पर­मा­र्थ­स­त्य­रू­पोऽ­वि­कारः पूरुषः पुरुषः सर्वपूरणात् पुरि शयनाच्च । तस्य अस्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि सस्था­व­र­ज­ङ्ग­मानि, त्रिपात् त्रयः पादा अस्य सोऽयं त्रिपात् ; त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्म­न्य­व­स्थि­त­मि­त्यर्थ इति ॥

यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥

यद्वै तत् त्रिपादमृतं गाय­त्री­मु­खे­नोक्तं ब्रह्मेति, इदं वाव तत् इदमेव तत् ; योऽयं प्रसिद्धः बहिर्धा बहिः पुरुषादाकाशः भौतिको यो वै, स बहिर्धा पुरुषादाकाश उक्तः ॥

अयं वाव स योऽयमन्तः पुरुष आकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८ ॥

अयं वाव सः, योऽयमन्तः पुरुषे शरीरे आकाशः । यो वै सोऽन्तः पुरुष आकाशः ॥

अयं वाव स योऽयमन्तर्हृदय आका­श­स्त­दे­त­त्पू­र्ण­म­प्र­वर्ति पूर्णा­म­प्र­व­र्तिनीं श्रियं लभते य एवं वेद ॥ ९ ॥

अयं वाव सः, योऽयमन्तर्हृदये हृदयपुण्डरीके आकाशः । कथमेकस्य सत आकाशस्य त्रिधा भेद इति, उच्यते — बाह्ये­न्द्रि­य­वि­षये जागरितस्थाने नभसि दुःखबाहुल्यं दृश्यते । ततोऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति । स्वप्नान्पश्यतो हृदयस्थे पुनर्नभसि न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति । अतः सर्व­दुः­ख­नि­वृ­त्ति­रू­प­मा­काशं सुषुप्तस्थानम् । अतो युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम् । बहिर्धा पुरुषादारभ्य आकाशस्य हृदये सङ्कोचकरणं चेतः­स­मा­धा­न­स्था­न­स्तु­तये — यथा ‘त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते । अर्धतस्तु कुरु­क्षे­त्र­म­र्ध­तस्तु पृथूदकम्’(?) इति, तद्वत् । तदे­त­द्धा­र्दा­का­शाख्यं ब्रह्म पूर्णं सर्वगतम् , न हृद­य­मा­त्र­प­रि­च्छि­न्न­मिति मन्तव्यम् , यद्यपि हृदयाकाशे चेतः समाधीयते । अप्रवर्ति न कुत­श्चि­त्क्व­चि­त्प्र­व­र्तितुं शील­म­स्ये­त्य­प्र­वर्ति, तद­नु­च्छि­त्ति­ध­र्म­कम् । यथा अन्यानि भूतानि परि­च्छि­न्ना­न्यु­च्छि­त्ति­ध­र्म­काणि, न तथा हार्दं नभः । पूर्णा­म­प्र­व­र्ति­नी­म­नु­च्छे­दा­त्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टम् । य एवं यथोक्तं पूर्णा­प्र­व­र्ति­गुणं ब्रह्म वेद जानाति इहैव जीवन् तद्भावं प्रतिपद्यत इत्यर्थः ॥

इति द्वाद­श­ख­ण्ड­भा­ष्यम् ॥

त्रयोदशः खण्डः

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राण­स्त­च्चक्षुः स आदि­त्य­स्त­दे­त­त्ते­जोऽ­न्ना­द्य­मि­त्यु­पा­सीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥

तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मणः उपासनाङ्गत्वेन द्वार­पा­ला­दि­गु­ण­वि­धा­ना­र्थ­मा­र­भ्यते । यथा लोके द्वारपालाः राज्ञ उपासनेन वशीकृता राज­प्रा­प्त्यर्था भवन्ति, तथेहापीति । तस्य इति प्रकृतस्य हृदयस्येत्यर्थः । एतस्य अन­न्त­र­नि­र्दि­ष्टस्य पञ्च पञ्चसङ्ख्याकाः देवानां सुषयः देवसुषयः स्वर्ग­लो­क­प्रा­प्ति­द्वा­र­च्छि­द्राणि, देवैः प्राणा­दि­त्या­दिभिः रक्ष्यमाणानि इत्यतो देवसुषयः ; तस्य स्वर्गलोकभवनस्य हृदयस्य अस्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः ; तत्स्थः तेन द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति प्राणः । तेनैव सम्ब­द्ध­म­व्य­ति­रिक्तं तच्चक्षुः ; तथैव स आदित्यः ‘आदित्यो ह वै ब्राह्मप्राणः’(प्र. उ. ३ । ८) इति श्रुतेः चक्षु­रू­प­प्र­ति­ष्ठा­क्र­मेण हृदि स्थितः ; ‘स आदित्यः कस्मि­न्प्र­ति­ष्ठित इति चक्षुषि’(बृ. उ. ३ । ९ । २०) इत्यादि हि वाजसनेयके । प्राणवायुदेवतैव हि एका चक्षुरादित्यश्च सहाश्रयेण । वक्ष्यति च — प्राणाय स्वाहेति हुतं हविः सर्व­मे­त­त्त­र्प­य­तीति । तदेतत् प्राणाख्यं स्वर्ग­लो­क­द्वा­र­पा­ल­त्वात् ब्रह्म । स्वर्गलोकं प्रतिपित्सुः तेजस्वी एतत् चक्षु­रा­दि­त्य­स्व­रू­पेण अन्नाद्यत्वाच्च सवितुः तेजः अन्नाद्यम् इत्याभ्यां गुणाभ्याम् उपासीत । ततः तेज­स्व्य­न्ना­दश्च आमयावित्वरहितो भवति ; य एवं वेद तस्यैतद्गुणफलम् । उपासनेन वशीकृतो द्वारपः स्वर्ग­लो­क­प्रा­प्ति­हे­तु­र्भ­व­तीति मुख्यं च फलम् ॥

अथ योऽस्य दक्षिणः सुषिः स व्यान­स्त­च्छ्रोत्रꣳ स चन्द्र­मा­स्त­दे­त­च्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २ ॥

अथ योऽस्य दक्षिणः सुषिः तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन् विगृह्य वा प्राणापानौ नाना वा अनितीति व्यानः । तत्सम्बद्धमेव च तच्छ्रो­त्र­मि­न्द्रि­यम् । तथा स चन्द्रमाः — श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च इति श्रुतेः । सहाश्रयौ पूर्ववत् ; तदेतत् श्रीश्च विभूतिः श्रोत्र­च­न्द्र­म­सो­र्ज्ञा­ना­न्न­हे­तु­त्वम् ; अतस्ताभ्यां श्रीत्वम् । ज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वात् यशस्त्वम् । अतस्ताभ्यां गुणा­भ्या­मु­पा­सी­ते­त्यादि समानम् ॥ २ ॥

अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्योऽ­ग्नि­स्त­दे­त­द्ब्र­ह्म­व­र्च­स­म­न्ना­द्य­मि­त्यु­पा­सीत ब्रह्म­व­र्च­स्य­न्नादो भवति य एवं वेद ॥ ३ ॥

अथ योऽस्य प्रत्यङ्सुषिः पश्चिमः तत्स्थो वायुविशेषः स मूत्र­पु­री­षा­द्य­प­न­यन् अधोऽनितीत्यपानः । सा तथा वाक् , तत्सम्बन्धात् ; तथा अग्निः ; तदे­त­द्ब्र­ह्म­व­र्चसं वृत्त­स्वा­ध्या­य­नि­मित्तं तेजः ब्रह्मवर्चसम् , अग्नि­स­म्ब­न्धा­द्वृ­त्त­स्वा­ध्या­यस्य । अन्न­ग्र­स­न­हे­तु­त्वात् अपानस्य अन्नाद्यत्वम् । समानमन्यत् ॥

अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्ज­न्य­स्त­दे­त­त्की­र्तिश्च व्युष्टि­श्चे­त्यु­पा­सीत कीर्ति­मा­न्व्यु­ष्टि­मा­न्भ­वति य एवं वेद ॥ ४ ॥

अथ योऽस्योदङ् सुषिः उदग्गतः सुषिः तत्स्थो वायुविशेषः सोऽशितपीते समं नयतीति समानः । तत्सम्बद्धं मनोऽन्तःकरणम् , स पर्जन्यो वृष्ट्यात्मको देवः पर्ज­न्य­नि­मि­त्ताश्च आप इति, ‘मनसा सृष्टा आपश्च वरुणश्च’(ऐ. आ. २ । १) इति श्रुतेः । तदे­त­त्की­र्तिश्च, मनसो ज्ञानस्य कीर्ति­हे­तु­त्वात् । आत्मपरोक्षं विश्रुतत्वं कीर्तिर्यशः । स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देहगतं लावण्यम् । ततश्च कीर्ति­स­म्भ­वा­त्की­र्ति­श्चेति । समानमन्यत् ॥

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आका­श­स्त­दे­त­दो­जश्च मह­श्चे­त्यु­पा­सी­तौ­जस्वी महस्वान्भवति य एवं वेद ॥ ५ ॥

अथ योऽस्योर्ध्वः सुषिः स उदानः आ पाद­त­ला­दा­र­भ्यो­र्ध्व­मु­त्क्र­म­णात् उत्कर्षार्थं च कर्म कुर्वन् अनितीत्युदानः । स वायुः तदाधारश्च आकाशः । तदेतत् वाय्वा­का­श­यो­रो­जो­हे­तु­त्वा­दोजः बलं महत्वाच्च मह इति । समानमन्यत् ॥

ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्म­पु­रु­षा­न्स्व­र्गस्य लोकस्य द्वार­पा­न्वे­दास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्म­पु­रु­षा­न्स्व­र्गस्य लोकस्य द्वारपान्वेद ॥ ६ ॥

ते वा एते यथोक्ताः पञ्च­सु­षि­स­म्ब­न्धात् पञ्च ब्रह्मणो हार्दस्य पुरुषाः राजपुरुषा इव द्वारस्थाः स्वर्गस्य हार्दस्य लोकस्य द्वारपाः द्वारपालाः । एतैर्हि चक्षुः­श्रो­त्र­वा­ङ्म­नः­प्रा­णै­र्ब­हि­र्मु­ख­प्र­वृ­त्तै­र्ब्र­ह्मणो हार्दस्य प्राप्ति­द्वा­राणि निरुद्धानि । प्रत्यक्षं हि एतदजितकरणतया बाह्य­वि­ष­या­स­ङ्गा­नृ­त­प्र­रू­ढ­त्वात् न हार्दे ब्रह्मणि मनस्तिष्ठति । तस्मा­त्स­त्य­मु­क्त­मेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपा इति । अतः स य एतानेवं यथो­क्त­गु­ण­वि­शि­ष्टान् स्वर्गस्य लोकस्य द्वारपान् वेद उपास्ते उपासनया वशीकरोति, स राज­द्वा­र­पा­ला­नि­वो­पा­स­नेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दं ब्रह्म । किं च अस्य विदुषः कुले वीरः पुत्रो जायते वीरपुरुषसेवनात् । तस्य च ऋणापाकरणेन ब्रह्मो­पा­स­न­प्र­वृ­त्ति­हे­तु­त्वम् । ततश्च स्वर्ग­लो­क­प्र­ति­प­त्तये पारम्पर्येण भवतीति स्वर्ग­लो­क­प्र­ति­प­त्ति­रे­वैकं फलम् ॥

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठे­ष्व­नु­त्त­मे­षू­त्त­मेषु लोकेष्विदं वाव तद्य­दि­द­म­स्मि­न्नन्तः पुरुषे ज्योतिः ॥ ७ ॥

अथ यत् असौ विद्वान् स्वर्गं लोकं वीर­पु­रु­ष­से­व­ना­त्प्र­ति­प­द्यते, यच्चोक्तं त्रिपादस्यामृतं दिवीति, तदिदं लिङ्गेन चक्षुः­श्रो­त्रे­न्द्रि­य­गो­च­र­मा­पा­द­यि­त­व्यम् , यथा अग्न्यादि धूमादिलिङ्गेन । तथा हि एवमेवेदमिति यथोक्ते अर्थे दृढा प्रतीतिः स्यात् — अनन्यत्वेन च निश्चय इति । अत आह — यदतः अमुष्मात् दिवः द्युलोकात् , परः परमिति लिङ्गव्यत्ययेन, ज्योति­र्दी­प्यते, स्वयम्प्रभं सदा­प्र­का­श­त्वा­द्दी­प्यत इव दीप्यत इत्युच्यते, अग्न्या­दि­व­ज्ज्व­ल­न­ल­क्ष­णाया दीप्तेरसम्भवात् । विश्वतः पृष्ठे­ष्वि­त्ये­तस्य व्याख्यानं सर्वतः पृष्ठेष्विति, संसा­रा­दु­प­री­त्यर्थः ; संसार एव हि सर्वः, असंसारिणः एक­त्वा­न्नि­र्भे­द­त्वाच्च । अनुत्तमेषु, तत्पु­रु­ष­स­मा­सा­श­ङ्का­नि­वृ­त्तये आह उत्तमेषु लोकेष्विति ; सत्यलोकादिषु हिर­ण्य­ग­र्भा­दि­का­र्य­रू­पस्य परस्येश्वरस्य आस­न्न­त्वा­दु­च्यते उत्तमेषु लोकेष्विति । इदं वाव इदमेव तत् यदि­द­म­स्मि­न्पु­रुषे अन्तः मध्ये ज्योतिः चक्षुः­श्रो­त्र­ग्रा­ह्येण लिङ्गे­नो­ष्णिम्ना शब्देन च अवगम्यते । यत् त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव, दृढ­प्र­ती­ति­क­र­त्वा­त्त्वचः, अविनाभूतत्वाच्च रूपस्पर्शयोः ॥

तस्यैषा दृष्टि­र्य­त्रै­त­द­स्मि­ञ्छ­रीरे सꣳस्पर्शे­नो­ष्णि­मानं विजानाति तस्यैषा श्रुति­र्य­त्रै­त­त्क­र्णा­व­पि­गृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥

कथं पुनः तस्य ज्योतिषः लिङ्गं त्वग्दृ­ष्टि­गो­च­र­त्व­मा­प­द्यत इति, आह — यत्र यस्मिन्काले, एतदिति क्रियाविशेषणम् , अस्मिञ्शरीरे हस्तेन आलभ्य संस्पर्शेन उष्णिमानं रूप­स­ह­भा­वि­न­मु­ष्ण­स्प­र्श­भावं विजानाति, स हि उष्णिमा नामरूपव्याकरणाय देह­म­नु­प्र­वि­ष्टस्य चैत­न्या­त्म­ज्यो­तिषः लिङ्गम् , अव्यभिचारात् । न हि जीव­न्त­मा­त्मा­न­मु­ष्णिमा व्यभिचरति । उष्ण एव जीविष्यन् शीतो मरिष्यन् इति हि विज्ञायते । मरणकाले च तेजः परस्यां देवतायामिति परे­णा­वि­भा­ग­त्वो­प­ग­मात् । अतः असाधारणं लिङ्ग­मौ­ष्ण्य­म­ग्ने­रिव धूमः । अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः । तथा तस्य ज्योतिषः एषा श्रुतिः श्रवणं श्रव­णो­पा­योऽ­प्यु­च्य­मानः । यत्र यदा पुरुषः ज्योतिषो लिङ्गं शुश्रूषति श्रोतुमिच्छति, तदा एतत् कर्णावपिगृह्य, एतच्छब्दः क्रियाविशेषणम् , अपिगृह्य अपिधायेत्यर्थः, अङ्गुलिभ्यां प्रोर्णुत्य निनदमिव रथस्येव घोषो निनदः तमिव शृणोति, नदथुरिव ऋषभकूजितमिव शब्दः, यथा च अग्ने­र्ब­हि­र्ज्व­लतः एवं शब्दमन्तःशरीरे उपशृणोति, तदेतत् ज्योतिः दृष्ट­श्रु­त­लि­ङ्ग­त्वात् दृष्टं च श्रुतं च इत्युपासीत । तथोपासनात् चक्षुष्यः दर्शनीयः श्रुतः विश्रुतश्च । यत् स्पर्श­गु­णो­पा­स­न­नि­मित्तं फलं तत् रूपे सम्पादयति चक्षुष्य इति, रूपस्पर्शयोः सहभावित्वात् , इष्टत्वाच्च दर्शनीयतायाः । एवं च विद्यायाः फलमुपपन्नं स्यात् , न तु मृदु­त्वा­दि­स्प­र्श­वत्त्वे । य एवं यथोक्तौ गुणौ वेद । स्वर्ग­लो­क­प्र­ति­प­त्तिस्तु उक्तमदृष्टं फलम् । द्विरभ्यासः आदरार्थः ॥

इति त्रयो­द­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्दशः खण्डः

पुनस्तस्यैव त्रिपादमृतस्य ब्रह्म­णोऽ­न­न्त­गु­ण­व­तोऽ­न­न्त­श­क्ते­र­ने­क­भे­दो­पा­स्यस्य विशि­ष्ट­गु­ण­श­क्ति­म­त्त्वे­नो­पा­सनं विधित्सन् आह —

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथा­क्र­तु­र­स्मिं­ल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥

सर्वं समस्तम् , खल्विति वाक्या­ल­ङ्का­रार्थो निपातः । इदं जगत् नामरूपविकृतं प्रत्य­क्षा­दि­वि­षयं ब्रह्म कारणम् ; वृद्धतमत्वात् ब्रह्म । कथं सर्वस्य ब्रह्मत्वमित्यत आह — तज्जलानिति ; तस्माद्ब्रह्मणो जातं तेजो­ब­न्ना­दि­क्र­मेण सर्वम् ; अतः तज्जम् ; तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदात्मतया श्लिष्यत इति तल्लम् ; तथा तस्मिन्नेव स्थितिकाले, अनिति प्राणिति चेष्टत इति । एवं ब्रह्मात्मतया त्रिषु काले­ष्व­वि­शि­ष्टम् , तद्व्य­ति­रे­के­णा­ग्र­ह­णात् । अतः तदेवेदं जगत् । यथा च इदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः । यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तः राग­द्वे­षा­दि­दो­ष­र­हितः संयतः सन् , यत् तत्सर्वं ब्रह्म तत् वक्ष्य­मा­णै­र्गु­णै­रु­पा­सीत । कथमुपासीत ? क्रतुं कुर्वीत — क्रतुः निश्च­योऽ­ध्य­व­सायः एवमेव नान्यथेत्यविचलः प्रत्ययः, तं क्रतुं कुर्वीत उपासीत इत्यनेन व्यवहितेन सम्बन्धः । किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम् ? कथं वा क्रतुः कर्तव्यः ? क्रतुकरणं च अभि­प्रे­ता­र्थ­सि­द्धि­सा­धनं कथम् ? इत्यस्यार्थस्य प्रतिपादनार्थम् अथे­त्या­दि­ग्रन्थः । अथ खल्विति हेत्वर्थः । यस्मात्क्रतुमयः क्रतु­प्रा­योऽ­ध्य­व­सा­या­त्मकः पुरुषः जीवः ; यथाक्रतुः यादृशः क्रतुः अस्य सोऽयं यथाक्रतुः यथाध्यवसायः यादृङ्निश्चयः अस्मिंल्लोके जीवन् इह पुरुषो भवति, तथा इतः अस्माद्देहात् प्रेत्य मृत्वा भवति ; क्रत्व­नु­रू­प­फ­ला­त्मको भवतीत्यर्थः । एवं हि एतच्छास्त्रतो दृष्टम् — ‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्’(भ. गी. ८ । ६) इत्यादि । यत एवं व्यवस्था शास्त्रदृष्टा, अतः सः एवं जानन् क्रतुं कुर्वीत ; यादृशं क्रतुं वक्ष्यामः तम् । यत एवं शास्त्र­प्रा­मा­ण्या­दु­प­प­द्यते क्रत्वनुरूपं फलम् , अतः स कर्तव्यः क्रतुः ॥

मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्व­मि­द­म­भ्या­त्तोऽ­वा­क्य­ना­दरः ॥ २ ॥

कथम् ? मनोमयः मनःप्रायः ; मनुतेऽनेनेति मनः तत् स्ववृत्त्या विषयेषु प्रवृत्तं भवति, तेन मनसा तन्मयः ; तथा प्रवृत्त इव तत्प्रायो निवृत्त इव च । अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञा­न­क्रि­या­श­क्ति­द्व­य­सं­मू­र्छितः, ‘यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः’(कौ. उ. ३ । ३) इति श्रुतेः । सः शरीरं यस्य, स प्राणशरीरः, ‘मनोमयः प्राणशरीरनेता’(मु. उ. २ । २ । ८) इति च श्रुत्यन्तरात् । भारूपः भा दीप्तिः चैतन्यलक्षणं रूपं यस्य सः भारूपः । सत्यसङ्कल्पः सत्या अवितथाः सङ्कल्पाः यस्य, सोऽयं सत्यसङ्कल्पः ; न यथा संसारिण इवानैकान्तिकफलः सङ्कल्प ईश्व­र­स्ये­त्यर्थः । संसारिणः अनृतेन मिथ्या­फ­ल­त्व­हे­तुना प्रत्यूढत्वात् सङ्कल्पस्य मिथ्याफलत्वं वक्ष्यति — ‘अनृतेन हि प्रत्यूढाः’(छा. उ. ८ । ३ । २) इति । आकाशात्मा आकाश इव आत्मा स्वरूपं यस्य सः आकाशात्मा । सर्वगतत्वं सूक्ष्मत्वं रूपादिहीनत्वं च आकाशतुल्यता ईश्वरस्य । सर्वकर्मा सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्म यस्य स सर्वकर्मा, ‘स हि सर्वस्य कर्ता’(बृ. उ. ४ । ४ । १३) इति श्रुतेः । सर्वकामः सर्वे कामा दोषरहिता अस्येति सर्वकामः, ‘धर्माविरुद्धो भूतेषु कामोऽस्मि’(भ. गी. ७ । ११) इति स्मृतेः । ननु कामोऽस्मीति वचनात् इह बहुव्रीहिर्न सम्भवति सर्वकाम इति । न, कामस्य कर्तव्यत्वात् शब्दा­दि­व­त्पा­रा­र्थ्य­प्र­स­ङ्गाच्च देवस्य । तस्मात् यथेह सर्वकाम इति बहुव्रीहिः, तथा कामोऽस्मीति स्मृत्यर्थो वाच्यः । सर्वगन्धः सर्वे गन्धाः सुखकरा अस्य सोऽयं सर्वगन्धः, ‘पुण्यो गन्धः पृथिव्याम्’(भ. गी. ७ । ९) इति स्मृतेः । तथा रसा अपि विज्ञेयाः ; अपु­ण्य­ग­न्ध­र­स­ग्र­ह­णस्य पाप्म­स­म्ब­न्ध­नि­मि­त्त­त्व­श्र­व­णात् , ‘तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च । पाप्मना ह्येष विद्धः’(छा. उ. १ । २ । २) इति श्रुतेः । न च पाप्मसंसर्ग ईश्वरस्य, अवि­द्या­दि­दो­ष­स्या­नु­प­पत्तेः । सर्वमिदं जगत् अभ्यात्तः अभिव्याप्तः । अत­ते­र्व्या­प्त्य­र्थस्य कर्तरि निष्ठा । तथा अवाकी — उच्यते अनयेति वाक् वागेव वाकः, यद्वा वचेर्घञन्तस्य करणे वाकः, स यस्य विद्यते स वाकी, न वाकी अवाकी । वाक्प्रतिषेधश्च अत्र उपलक्षणार्थः । गन्ध­र­सा­दि­श्र­व­णात् ईश्वरस्य प्राप्तानि घ्राणादीनि करणानि गन्धादिग्रहणाय ; अतः वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि ; ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’(श्वे. उ. ३ । १९) इत्या­दि­म­न्त्र­व­र्णात् । अनादरः असम्भ्रमः ; अप्रा­प्त­प्राप्तौ हि सम्भ्रमः स्याद­ना­प्त­का­मस्य । न तु आप्तकामत्वात् नित्य­तृ­प्त­स्ये­श्व­रस्य सम्भ्रमोऽस्ति क्वचित् ॥

एष म आत्मा­न्त­र्हृ­द­येऽ­णी­या­न्व्री­हेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामा­क­त­ण्डु­ला­द्वैष म आत्मान्तर्हृदये ज्याया­न्पृ­थिव्या ज्याया­न­न्त­रि­क्षा­ज्ज्या­या­न्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥

एषः यथोक्तगुणः मे मम आत्मा अन्तर्हृदये हृद­य­पु­ण्ड­री­क­स्यान्तः मध्ये अणीयान् अणुतरः, व्रीहेर्वा यवाद्वा इत्यादि अत्य­न्त­सू­क्ष्म­त्व­प्र­द­र्श­ना­र्थम् । श्यामाकाद्वा श्यामा­क­त­ण्डु­लाद्वा इति परि­च्छि­न्न­प­रि­मा­णात् अणी­या­नि­त्यु­क्तेऽ­णु­प­रि­मा­णत्वं प्राप्त­मा­शङ्क्य, अतः तत्प्र­ति­षे­धा­या­र­भते — एष म आत्मान्तर्हृदये ज्याया­न्पृ­थिव्या इत्यादिना । ज्यायः­प­रि­मा­णाच्च ज्यायस्त्वं दर्शयन् अनन्तपरिमाणत्वं दर्शयति — मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन ॥

सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्व­मि­द­म­भ्या­त्तोऽ­वा­क्य­ना­दर एष म आत्मान्तर्हृदय एत­द्ब्र­ह्मै­त­मितः प्रेत्या­भि­स­म्भ­वि­ता­स्मीति यस्य स्यादद्धा न विचि­कि­त्सा­स्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥

यथोक्तगुणलक्षणः ईश्वरः ध्येयः, न तु तद्गुणविशिष्ट एव — यथा राजपुरुषमानय चित्रगुं वा इत्युक्ते न विशे­ष­ण­स्या­प्या­न­यने व्याप्रियते, तद्वदिहापि प्राप्तम् ; अत­स्त­न्नि­वृ­त्त्यर्थं सर्वकर्मेत्यादि पुनर्वचनम् । तस्मात् मनो­म­य­त्वा­दि­गु­ण­वि­शिष्ट एवेश्वरो ध्येयः । अत एव षष्ठसप्तमयोरिव ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इति नेह स्वारा­ज्येऽ­भि­षि­ञ्चति, एष म आत्मा एत­द्ब्र­ह्मै­त­मितः प्रेत्या­भि­स­म्भ­वि­तास्मि इति लिङ्गात् ; न तु आत्मशब्देन प्रत्यगात्मैव उच्यते, ममेति षष्ठ्याः सम्ब­न्धा­र्थ­प्र­त्या­य­क­त्वात् , एत­म­भि­स­म्भ­वि­ता­स्मीति च कर्म­क­र्तृ­त्व­नि­र्दे­शात् । ननु षष्ठेऽपि ‘अथ सम्पत्स्ये’(छा. उ. ६ । १४ । २) इति सत्सम्पत्तेः कालान्तरितत्वं दर्शयति । न, आर­ब्ध­सं­स्का­र­शे­ष­स्थि­त्य­र्थ­प­र­त्वात् ; न काला­न्त­रि­ता­र्थता, अन्यथा तत्त्व­म­सी­त्ये­त­स्या­र्थस्य बाधप्रसङ्गात् । यद्यपि आत्मशब्दस्य प्रत्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतम् एष म आत्मान्तर्हृदय एत­द्ब्र­ह्मे­त्यु­च्यते, तथापि अन्त­र्धा­न­मी­ष­द­प­रि­त्य­ज्यैव एतमात्मानं इतः अस्माच्छरीरात् प्रेत्य अभि­स­म्भ­वि­ता­स्मी­त्यु­क्तम् । यथाक्रतुरूपस्य आत्मनः प्रति­प­त्ता­स्मीति यस्यैवंविदः स्यात् भवेत् अद्धा सत्यम् एवं स्यामहं प्रेत्य, एवं न स्यामिति न च विचिकित्सा अस्ति इत्ये­त­स्मि­न्नर्थे क्रतु­फ­ल­स­म्बन्धे, स तथैवेश्वरभावं प्रतिपद्यते विद्वान् , इत्येतदाह स्म उक्तवान्किल शाण्डिल्यो नाम ऋषिः । द्विरभ्यासः आदरार्थः ॥

इति चतु­र्द­श­ख­ण्ड­भा­ष्यम् ॥

पञ्चदशः खण्डः

‘अस्य कुले वीरो जायते’ इत्युक्तम् । न वीरजन्ममात्रं पितुस्त्राणाय, ‘तस्मा­त्पु­त्र­म­नु­शिष्टं लोक्यमाहुः’(बृ. उ. १ । ५ । १७) इति श्रुत्यन्तरात् । अत­स्त­द्दी­र्घा­युष्ट्वं कथं स्यादि­त्ये­व­मर्थं कोश­वि­ज्ञा­ना­रम्भः । अभ्य­र्हि­त­वि­ज्ञा­न­व्या­स­ङ्गा­द­न­न्त­र­मेव नोक्तं तदिदानीमेव आरभ्यते —

अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दीशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलꣳ स एष कोशो वसु­धा­न­स्त­स्मि­न्वि­श्व­मिदꣳ श्रितम् ॥ १ ॥

अन्तरिक्षम् उदरम् अन्तःसुषिरं यस्य सोऽयम् अन्तरिक्षोदरः, कोशः कोश इव अने­क­ध­र्म­सा­दृ­श्या­त्कोशः ; स च भूमिबुध्नः भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नः, न जीर्यति न विनश्यति, त्रैलो­क्या­त्म­क­त्वात् । सह­स्र­यु­ग­का­ला­व­स्थायी हि सः । दिशो हि अस्य सर्वाः स्रक्तयः कोणाः । द्यौरस्य कोशस्य उत्तरम् ऊर्ध्वं बिलम् ; स एष यथोक्तगुणः कोशः वसुधानः वसु धीय­तेऽ­स्मि­न्प्रा­णिनां कर्मफलाख्यम् , अतो वसुधानः । तस्मिन्नन्तः विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैः इदं यद्गृह्यते प्रत्य­क्षा­दि­प्र­माणैः श्रितम् आश्रितं स्थितमित्यर्थः ॥

तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदं रुदम् ॥ २ ॥

तस्यास्य प्राची दिक् प्राग्गतो भागः जुहूर्नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूर्नाम । सहमाना नाम सहन्तेऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणा दिक् । तथा राज्ञी नाम प्रतीची पश्चिमा दिक् , राज्ञी राज्ञा वरु­णे­ना­धि­ष्ठिता, सन्ध्या­रा­ग­यो­गाद्वा । सुभूता नाम भूति­म­द्भि­री­श्व­र­कु­बे­रा­दि­भि­र­धि­ष्ठि­त­त्वात् सुभूता नाम उदीची । तासां दिशां वायुः वत्सः, दिग्ज­त्वा­द्वायोः, पुरोवात इत्यादिदर्शनात् । स यः कश्चित् पुत्र­दी­र्घ­जी­वि­तार्थी एवं यथोक्तगुणं वायुं दिशां वत्सम् अमृतं वेद, स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति, पुत्रो न म्रियत इत्यर्थः । यत एवं विशिष्टं कोश­दि­ग्व­त्स­वि­षयं विज्ञानम् , अतः सोऽहं पुत्रजीवितार्थी एवमेतं वायुं दिशां वत्सं वेद जाने । अतः पुत्ररोदं मा रुदं पुत्र­म­र­ण­नि­मित्तं पुत्ररोदो मम मा भूदित्यर्थः ॥

अरिष्टं कोशं प्रप­द्येऽ­मु­ना­मु­ना­मुना प्राणं प्रप­द्येऽ­मु­ना­मु­ना­मुना भूः प्रप­द्येऽ­मु­ना­मु­ना­मुना भुवः प्रप­द्येऽ­मु­ना­मु­ना­मुना स्वः प्रप­द्येऽ­मु­ना­मु­ना­मुना ॥ ३ ॥

अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे । अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य । तथा प्राणं प्रप­द्येऽ­मु­ना­मु­ना­मुना, भूः प्रप­द्येऽ­मु­ना­मु­ना­मुना, भुवः प्रप­द्येऽ­मु­ना­मु­ना­मुना, स्वः प्रप­द्येऽ­मु­ना­मु­ना­मुना, सर्वत्र प्रपद्ये इति त्रिर्नाम गृह्णाति पुनः पुनः ॥

स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदꣳ सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥

स यदवोचं प्राणं प्रपद्य इति व्याख्या­ना­र्थ­मु­प­न्यासः । प्राणो वा इदꣳ सर्वं भूतं यदिदं जगत् । ‘यथा वा अरा नाभौ’(छा. उ. ७ । १३ । १) इति वक्ष्यति । अतस्तमेव सर्वं तत् तेन प्राण­प्र­ति­पा­द­नेन प्रापत्सि प्रपन्नोऽभूवम् ॥

अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रप­द्येऽ­न्त­रिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥

तथा भूः प्रपद्ये इति त्रींल्लो­का­न्भू­रा­दी­न्प्र­पद्ये इति तदवोचम् ॥

अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥

अथ यदवोचं भुवः प्रपद्ये इति, अग्न्या­दी­न्प्र­पद्ये इति तदवोचम् ॥

अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ७ ॥

अथ यदवोचं स्वः प्रपद्ये इति, ऋग्वे­दा­दी­न्प्र­पद्ये इत्येव तदवोचमिति । उप­रि­ष्टा­न्म­न्त्रान् जपेत् ततः पूर्वोक्तमजरं कोशं सदिग्वत्सं यथावद्ध्यात्वा । द्विर्व­च­न­मा­द­रा­र्थम् ॥

इति पञ्च­द­श­ख­ण्ड­भा­ष्यम् ॥

षोडशः खण्डः

पुत्रायुष उपासनमुक्तं जपश्च । अथेदानीमात्मनः दीर्घ­जी­व­ना­ये­द­मु­पा­सनं जपं च विदधदाह ; जीवन्हि स्वयं पुत्रादिफलेन युज्यते, नान्यथा । इत्यतः आत्मानं यज्ञं सम्पादयति पुरुषः —

पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशति वर्षाणि तत्प्रातःसवनं चतु­र्विं­श­त्य­क्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदं सर्वं वासयन्ति ॥ १ ॥

पुरुषः जीवनविशिष्टः कार्यकरणसङ्घातः यथाप्रसिद्ध एव ; वाव­श­ब्दोऽ­व­धा­र­णार्थः ; पुरुष एव यज्ञ इत्यर्थः । तथा हि सामान्यैः सम्पादयति यज्ञत्वम् । कथम् ? तस्य पुरुषस्य यानि चतु­र्विं­श­ति­व­र्षा­ण्या­युषः, तत्प्रातःसवनं पुरुषाख्यस्य यज्ञस्य । केन सामान्येनेति, आह — चतु­र्विं­श­त्य­क्षरा गायत्री छन्दः, गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रातःसवनम् ; अतः प्रातः­स­व­न­स­म्प­न्नेन चतु­र्विं­श­ति­व­र्षा­युषा युक्तः पुरुषः अतो विधि­य­ज्ञ­सा­दृ­श्यात् यज्ञः । तथो­त्त­र­यो­र­प्या­युषोः सव­न­द्व­य­स­म्पत्तिः त्रिष्टु­ब्ज­ग­त्य­क्ष­र­स­ङ्ख्या­सा­मा­न्यतो वाच्या । किञ्च, तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव वसवः देवा अन्वायत्ताः अनुगताः ; सवनदेवतात्वेन स्वामिन इत्यर्थः । पुरुषयज्ञेऽपि विधियज्ञ इव अग्न्यादयो वसवः देवाः प्राप्ता इत्यतो विशिनष्टि — प्राणा वाव वसवः वागादयो वायवश्च । एते हि यस्मात् इदं पुरु­षा­दि­प्रा­णि­जा­तम् एते वासयन्ति । प्राणेषु हि देहे वसत्सु सर्वमिदं वसति, नान्यथा । इत्यतो वसनाद्वासनाच्च वसवः ॥

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्रा वसव इदं मे प्रातःसवनं माध्यंन्दिनꣳ सव­न­म­नु­स­न्त­नु­तेति माहं प्राणानां वसूनां मध्ये यज्ञो विलो­प्सी­ये­त्यु­द्धैव तत एत्यगदो ह भवति ॥ २ ॥

तं चेत् यज्ञसम्पादिनम् एतस्मिन् प्रातः­स­व­न­स­म्पन्ने वयसि किञ्चित् व्याध्यादि मरणशङ्काकारणम् उपतपेत् दुःखमुत्पादयेत् , स तदा यज्ञसम्पादी पुरुषः आत्मानं यज्ञं मन्यमानः ब्रूयात् जपेदित्यर्थः इमं मन्त्रम् — हे प्राणाः वसवः इदं मे प्रातःसवनं मम यज्ञस्य वर्तते, तत् माध्यन्दिनं सवनम् अनुसन्तनुतेति माध्यन्दिनेन सवनेन आयुषा सहितं एकीभूतं सन्ततं कुरुतेत्यर्थः । मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातःसवनेशानां मध्ये विलोप्सीय विलुप्येय विच्छि­द्ये­ये­त्यर्थः । इतिशब्दो मन्त्र­प­रि­स­मा­प्त्यर्थः । स तेन जपेन ध्यानेन च ततः तस्मादुपतापात् उत् एति उद्गच्छति । उद्गंय विमुक्तः सन् अगदो ह अनुपतापो भवत्येव ॥

अथ यानि चतु­श्च­त्वा­रिं­श­द्व­र्षाणि तन्माध्यन्दिनं सवनं चतु­श्च­त्वा­रिं­श­द­क्षरा त्रिष्टु­प्त्रै­ष्टुभं माध्यंन्दिनꣳ सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदं सर्वꣳ रोदयन्ति ॥ ३ ॥

अथ यानि चतु­श्च­त्वा­रिं­श­द्व­र्षा­णी­त्यादि समानम् । रुदन्ति रोदयन्तीति प्राणा रुद्राः । क्रूरा हि ते मध्यमे वयसि, अतो रुद्राः ॥

तं चेदेतस्मिन्वयसि किञ्चि­दु­प­त­पे­त्स­ब्रू­या­त्प्राणा रुद्रा इदं मे माध्यंन्दिनꣳ सवनं तृती­य­स­व­न­म­नु­स­न्त­नु­तेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलो­प्सी­ये­त्यु­द्धैव तत एत्यगदो ह भवति ॥ ४ ॥

अथ यान्य­ष्टा­च­त्वा­रिꣳश­द्व­र्षाणि तत्तृ­ती­य­स­व­न­म­ष्टा­च­त्वा­रिꣳश­द­क्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदं सर्वमाददते ॥ ५ ॥

तं चेदस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा आदित्या इदं मे तृती­य­स­व­न­मा­यु­र­नु­स­न्त­नु­तेति माहं प्राणा­ना­मा­दि­त्यानां मध्ये यज्ञो विलो­प्सी­ये­त्यु­द्धैव तत एत्यगदो हैव भवति ॥ ६ ॥

तथा आदित्याः प्राणाः । ते हि इदं शब्दादिजातम् आददते, अत आदित्याः । तृतीयसवनमायुः षोड­शो­त्त­र­व­र्ष­शतं समापयत अनुसन्तनुत यज्ञं समापयतेत्यर्थः । समानमन्यत् ॥

निश्चिता हि विद्या फला­ये­त्ये­त­द्द­र्श­यन् उदाहरति —

एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥

एतत् यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो नामतः ; इतराया अपत्यम् ऐतरेयः । किं कस्मात् मे मम एतत् उपतपनम् उपतपसि स त्वं हे रोग ; योऽहं यज्ञः अनेन त्वत्कृ­ते­नो­प­ता­पेन न प्रेष्यामि न मरिष्यामि ; अतो वृथा तव श्रम इत्यर्थः । इत्येवमाह स्म — इति पूर्वेण सम्बन्धः । स एवंनिश्चयः सन् षोडशं वर्षशतमजीवत् । अन्योऽ­प्ये­वं­नि­श्चयः षोडशं वर्षशतं प्रजीवति, य एवं यथोक्तं यज्ञसम्पादनं वेद जानाति, स इत्यर्थः ॥

इति षोडशखण्डभाष्यम् ॥

सप्तदशः खण्डः

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥

स यद­शि­शि­ष­ती­त्या­दि­य­ज्ञ­सा­मा­न्य­नि­र्देशः पुरुषस्य पूर्वेणैव सम्बध्यते । यदशिशिषति अशितुमिच्छति ; तथा पिपासति पातुमिच्छति ; यन्न रमते इष्टा­द्य­प्रा­प्ति­नि­मि­त्तम् ; यदेवंजातीयकं दुःखमनुभवति, ता अस्य दीक्षाः ; दुःख­सा­मा­न्या­द्वि­धि­य­ज्ञ­स्येव ॥

अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ २ ॥

अथ यदश्नाति यत्पिबति यद्रमते रतिं च अनुभवति इष्टादिसंयोगात् , तत् उपसदैः समानतामेति । उपसदां च पयो­व्र­त­त्व­नि­मित्तं सुखमस्ति । अल्पभोजनीयानि च अहान्यासन्नानि इति प्रश्वासः ; अतोऽ­श­ना­दी­ना­मु­प­सदां च सामान्यम् ॥

अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३ ॥

अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति, स्तुतशस्त्रैरेव तत्समानतामेति ; शब्द­व­त्त्व­सा­मा­न्यात् ॥

अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥

अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति, ता अस्य दक्षिणाः, धर्म­पु­ष्टि­क­र­त्व­सा­मा­न्यात् ॥

तस्मादाहुः सोष्य­त्य­सो­ष्टेति पुन­रु­त्पा­द­न­मे­वास्य तन्मरणमेवावभृथः ॥ ५ ॥

यस्माच्च यज्ञः पुरुषः, तस्मात् तं जनयिष्यति माता यदा, तदा आहुरन्ये सोष्यतीति तस्य मातरम् ; यदा च प्रसूता भवति, तदा असोष्ट पूर्णिकेति ; विधियज्ञे इव सोष्यति सोमं देवदत्तः, असोष्ट सोमं यज्ञदत्त इति ; अतः शब्द­सा­मा­न्याद्वा पुरुषो यज्ञः । पुन­रु­त्पा­द­न­मे­वास्य तत् पुरुषाख्यस्य यज्ञस्य, यत्सो­ष्य­त्य­सो­ष्टेति शब्द­स­म्ब­न्धित्वं विधियज्ञस्येव । किञ्च तन्मरणमेव अस्य पुरुषयज्ञस्य अवभृथः, समा­प्ति­सा­मा­न्यात् ॥

तद्धैतद्घोर आङ्गिरसः कृष्णाय देव­की­पु­त्रा­यो­क्त्वो­वा­चा­पि­पास एव स बभूव सोऽन्त­वे­ला­या­मे­त­त्त्रयं प्रति­प­द्ये­ता­क्षि­त­म­स्य­च्यु­त­मसि प्राणसं शितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥

तद्धैतत् यज्ञदर्शनं घोरः नामतः, आङ्गिरसः गोत्रतः, कृष्णाय देवकीपुत्राय शिष्याय उक्त्वा, उवाच तदेतत्त्रयम् इत्या­दि­व्य­व­हि­तेन सम्बन्धः । स च एतद्दर्शनं श्रुत्वा अपिपास एवान्याभ्यो विद्याभ्यो बभूव । इत्थं च विशिष्टा इयम् , यत्कृष्णस्य देवकीपुत्रस्य अन्यां विद्यां प्रति तृड्‌विच्छेदकरी इति पुरु­ष­य­ज्ञ­विद्यां स्तौति । घोर आङ्गिरसः कृष्णा­यो­क्त्वेमां विद्यां किमुवाचेति, तदाह — स एवं यथोक्तयज्ञवित् अन्तवेलायां मरणकाले एतत् मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः । किं तत् ? अक्षितम् अक्षीणम् अक्षतं वा असि इत्येकं यजुः । साम­र्थ्या­दा­दि­त्यस्थं प्राणं च एकीकृत्य आह । तथा तमेव आह, अच्युतं स्वरू­पा­द­प्र­च्यु­त­मसि इति द्वितीयं यजुः । प्राणसंशितं प्राणश्च स संशितं संयक्तनूकृतं च सूक्ष्मं तत् त्वमसि इति तृतीयं यजुः । तत्र एतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतः, न जपार्थे, त्रयं प्रतिपद्येत इति त्रित्व­स­ङ्ख्या­बा­ध­नात् ; पञ्चसङ्ख्या हि तदा स्यात् ॥

आदित्प्रत्नस्य रेतसः । उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरꣳस्वः पश्यन्ति उत्तरं देवं देवत्रा सूर्यमगन्म ज्योति­रु­त्त­म­मिति ज्योति­रु­त्त­म­मिति ॥ ७ ॥

आदित् इत्यत्र आका­र­स्या­नु­ब­न्ध­स्त­कारः अनर्थक इच्छब्दश्च । प्रत्नस्य चिरन्तनस्य पुरा­ण­स्ये­त्यर्थः ; रेतसः कारणस्य बीजभूतस्य जगतः, सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति । आशब्द उत्सृ­ष्टा­नु­बन्धः पश्यन्तीत्यनेन सम्बध्यते ; किं तज्ज्योतिः पश्यन्ति ; वासरम् अहः अहरिव तत् सर्वतो व्याप्तं ब्रह्मणो ज्योतिः ; निवृत्तचक्षुषो ब्रह्मविदः ब्रह्म­च­र्या­दि­नि­वृ­त्ति­सा­धनैः शुद्धान्तःकरणाः आ समन्ततः ज्योतिः पश्यन्तीत्यर्थः । परः परमिति लिङ्गव्यत्ययेन, ज्योति­ष्प­र­त्वात् , यत् इध्यते दीप्यते दिवि द्योतनवति पर­स्मि­न्ब्र­ह्मणि वर्तमानम् येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्यु­द्वि­द्यो­तते ग्रहतारागणा विभासन्ते । किं च, अन्यो मन्त्रदृगाह यथोक्तं ज्योतिः पश्यन् — उद्वयं तमसः अज्ञानलक्षणात् परि परस्तादिति शेषः ; तमसो वा अपनेतृ यज्ज्योतिः उत्तरम् — आदित्यस्थं परिपश्यन्तः वयम् उत् अगन्म इति व्यवहितेन सम्बन्धः ; तज्ज्योतिः स्वः स्वम् आत्मी­य­म­स्म­द्धृदि स्थितम् , आदित्यस्थं च तदेकं ज्योतिः ; यत् उत्तरम् उत्कृ­ष्ट­त­र­मू­र्ध्व­तरं वा अपरं ज्योतिरपेक्ष्य, पश्यन्तः उदगन्म वयम् । कमुदगन्मेति, आह । देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु, सूर्यं रसानां रश्मीनां प्राणानां च जगतः ईरणात्सूर्यः तमुदगन्म गतवन्तः, ज्योतिरुत्तमं सर्वज्योतिर्भ्य उत्कृष्टतमम् अहो प्राप्ता वयमित्यर्थः । इदं तज्ज्योतिः, यत् ऋग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम् । द्विरभ्यासो यज्ञ­क­ल्प­ना­प­रि­स­मा­प्त्यर्थः ॥

इति सप्त­द­श­ख­ण्ड­भा­ष्यम् ॥

अष्टादशः खण्डः

मनो ब्रह्मे­त्यु­प­सी­ते­त्य­ध्या­त्म­म­था­धि­दै­व­त­मा­काशो ब्रह्मे­त्यु­भ­य­मा­दिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥

मनोमय ईश्वर उक्तः आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन । अथेदानीं मनआकाशयोः सम­स्त­ब्र­ह्म­दृ­ष्टि­वि­धा­नार्थ आरम्भः मनो ब्रह्मेत्यादि । मनः मनु­तेऽ­ने­ने­त्य­न्तः­क­रणं तद्ब्रह्म पर­मि­त्यु­पा­सी­तेति एतदात्मविषयं दर्शनम् अध्यात्मम् । अथ अधिदैवतं देवताविषयमिदं वक्ष्यामः । आकाशो ब्रह्मे­त्यु­पा­सीत ; एव­मु­भ­य­म­ध्या­त्म­म­धि­दै­वतं च उभयं ब्रह्म­दृ­ष्टि­वि­ष­यम् आदिष्टम् उपदिष्टं भवति ; आकाशमनसोः सूक्ष्मत्वात् मन­सो­प­ल­भ्य­त्वाच्च ब्रह्मणः, योग्यं मनो ब्रह्मदृष्टेः, आकाशश्च, सर्व­ग­त­त्वा­त्सू­क्ष्म­त्वा­दु­पा­धि­ही­न­त्वाच्च ॥

तदे­त­च्च­तु­ष्पा­द्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्य­ध्या­त्म­म­था­धि­दै­व­त­मग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्यु­भ­य­मे­वा­दिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥

तदेतत् मनआख्यं चतु­ष्पा­द्ब्रह्म, चत्वारः पादा अस्येति । कथं चतुष्पात्त्वं मनसो ब्रह्मण इति, आह — वाक्प्रा­ण­श्च­क्षुः­श्रो­त्र­मि­त्येते पादाः इत्यध्यात्मम् । अथाधिदैवतम् आकाशस्य ब्रह्म­णोऽ­ग्नि­र्वा­यु­रा­दित्यो दिश इत्येते । एवमुभयमेव चतुष्पाद्ब्रह्म आदिष्टं भवति अध्यात्मं चैवाधिदैवतं च । तत्र वागेव मनसो ब्रह्म­ण­श्च­तुर्थः पाद इत­र­पा­द­त्र­या­पे­क्षया — वाचा हि पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति ; अतो मनसः पाद इव वाक् । तथा प्राणो घ्राणः पादः ; तेनापि गन्धविषयं प्रति च क्रामति । तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्मं चतुष्पात्त्वं मनसो ब्रह्मणः । अथाधिदैवतम् अग्नि­वा­य्वा­दि­त्य­दिशः आकाशस्य ब्रह्मण उदर इव गोः पादा इव लग्ना उपलभ्यन्ते ; तेन तस्य आकाशस्य अग्न्यादयः पादा उच्यन्ते । एवमुभयमध्यात्मं चैवाधिदैवतं च चतुष्पादादिष्टं भवति ॥

वागेव ब्रह्म­ण­श्च­तुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥

तत्र वागेव मनसो ब्रह्म­ण­श्च­तुर्थः पादः । सोऽग्निना अधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च सन्तापं च औष्ण्यं करोति । अथवा तैल­घृ­ता­द्या­ग्ने­या­श­नेन इद्धा वाग्भाति च तपति च वदनायोत्साहवती स्यादित्यर्थः । विद्वत्फलम् , भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं यथोक्तं वेद ॥

प्राण एव ब्रह्म­ण­श्च­तुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥

चक्षुरेव ब्रह्म­ण­श्च­तुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥

श्रोत्रमेव ब्रह्म­ण­श्च­तुर्थः पादः स दिग्भि­र्ज्यो­तिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥

तथा प्राण एव ब्रह्म­ण­श्च­तुर्थः पादः । स वायुना गन्धाय भाति च तपति च । तथा चक्षुः आदित्येन रूपग्रहणाय, श्रोत्रं दिग्भिः शब्दग्रहणाय । विद्याफलं समानं सर्वत्र ब्रह्म­स­म्प­त्ति­र­दृष्टं फलं य एवं वेद । द्विरु­क्ति­र्द­र्श­न­स­मा­प्त्यर्था ॥

इति अष्टा­द­श­ख­ण्ड­भा­ष्यम् ॥

एकोनविंशः खण्डः

आदित्यो ब्रह्मणः पाद उक्त इति तस्मि­न्स­क­ल­ब्र­ह्म­दृ­ष्ट्य­र्थ­मि­द­मा­र­भ्यते —

आदित्यो ब्रह्मे­त्या­दे­श­स्त­स्यो­प­व्या­ख्या­न­म­स­दे­वे­द­मग्र आसीत् । तत्स­दा­सी­त्त­त्स­म­भ­व­त्त­दाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥

आदित्यो ब्रह्मेत्यादेशः उपदेशः ; तस्यो­प­व्या­ख्यानं क्रियते स्तुत्यर्थम् । असत् अव्या­कृ­त­ना­म­रू­पम् इदं जगत् अशेषमग्रे प्राग­व­स्था­या­मु­त्पत्तेः आसीत् , न त्वसदेव ; ‘कथमसतः सज्जायेत’(छा. उ. ६ । २ । २) इति असत्कार्यत्वस्य प्रतिषेधात् । ननु इहासदेवेति विधानाद्विकल्पः स्यात् । न, क्रियास्विव वस्तुनि विक­ल्पा­नु­प­पत्तेः । कथं तर्हि इदमसदेवेति ? नन्ववोचाम अव्या­कृ­त­ना­म­रू­प­त्वा­द­स­दि­वा­स­दिति । नन्वे­व­श­ब्दोऽ­व­धा­र­णार्थः ; सत्यमेवम् , न तु सत्त्वा­भा­व­म­व­धा­र­यति ; किं तर्हि, व्याकृ­त­ना­म­रू­पा­भा­व­म­व­धा­र­यति ; नाम­रू­प­व्या­कृ­त­वि­षये सच्छब्दप्रयोगो दृष्टः । तच्च नाम­रू­प­व्या­क­र­ण­मा­दि­त्या­यत्तं प्रायशो जगतः । तदभावे हि अन्धं तम इव इदं न प्रज्ञायेत किञ्चन इत्यतः तत्स्तुतिपरे वाक्ये सदपीदं प्रागु­त्प­त्ते­र्ज­ग­द­स­दे­वे­त्या­दित्यं स्तौति ब्रह्म­दृ­ष्ट्य­र्ह­त्वाय ; आदित्यनिमित्तो हि लोके सदिति व्यवहारः — यथा असदेवेदं राज्ञः कुलं सर्वगुणसम्पन्ने पूर्णवर्मणि राजन्यसतीति तद्वत् । न च सत्त्वमसत्त्वं वा इह जगतः प्रति­पि­पा­द­यि­षि­तम् , आदित्यो ब्रह्मे­त्या­दे­श­प­र­त्वात् । उप­सं­ह­रि­ष्य­त्यन्ते आदित्यं ब्रह्मे­त्यु­पास्त इति । तत्सदासीत् तत् असच्छब्दवाच्यं प्रागुत्पत्तेः स्तिमितम् अनिस्पन्दमसदिव सत्का­र्या­भि­मु­खम् ईष­दु­प­जा­त­प्र­वृत्ति सदासीत् ; ततो लब्धपरिस्पन्दं तत्समभवत् अल्प­त­र­ना­म­रू­प­व्या­क­र­णेन अङ्कुरीभूतमिव बीजम् । ततोऽपि क्रमेण स्थूलीभवत् अद्भ्यः आण्डं समवर्तत संवृत्तम् । आण्डमिति दैर्घ्यं छान्दसम् । तदण्डं संवत्सरस्य कालस्य प्रसिद्धस्य मात्रां परिमाणम् । अभिन्नस्वरूपमेव अशयत स्थितं बभूव । तत् ततः संव­त्स­र­प­रि­मा­णा­त्का­ला­दूर्ध्वं निरभिद्यत निर्भिन्नम् — वयसामिवाण्डम् । तस्य निर्भि­न्न­स्या­ण्डस्य कपाले द्वे रजतं च सुवर्णं च अभवतां संवृत्ते ॥

तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु ते पर्वता यदुल्बं समेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः ॥ २ ॥

तत् तयोः कपालयोः यद्रजतं कपालमासीत् , सेयं पृथिवी पृथि­व्यु­प­ल­क्षि­त­म­धोऽ­ण्ड­क­पा­ल­मि­त्यर्थः । यत्सुवर्णं कपालं सा द्यौः द्युलो­को­प­ल­क्षि­त­मूर्ध्वं कपालमित्यर्थः । यज्जरायु गर्भपरिवेष्टनं स्थूलम् अण्डस्य द्विशकलीभावकाले आसीत् , ते पर्वता बभूवुः । यदुल्बं सूक्ष्मं गर्भपरिवेष्टनम् , तत् सह मेघैः समेघः नीहारोऽवश्यायः बभूवेत्यर्थः । या गर्भस्य जातस्य देहे धमनयः शिराः, तानद्यो बभूवुः । यत् तस्य वस्तौ भवं वास्तेयमुदकम् , स समुद्रः ॥

अथ यत्तदजायत सोऽसा­वा­दि­त्यस्तं जायमानं घोषा उलू­ल­वोऽ­नू­द­ति­ष्ठ­न्स­र्वाणि च भूतानि सर्वे च कामा­स्त­स्मा­त्त­स्यो­दयं प्रति प्रत्यायनं प्रति घोषा उलू­ल­वोऽ­नू­त्ति­ष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३ ॥

अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे, सोऽसावादित्यः ; तमादित्यं जायमानं घोषाः शब्दाः उलूलवः उरूरवो विस्तीर्णरवाः उदतिष्ठन् उत्थिवन्तः ईश्वरस्येवेह प्रथ­म­पु­त्र­ज­न्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः कांयन्त इति विषयाः स्त्रीव­स्त्रा­न्ना­दयः । यस्मा­दा­दि­त्य­ज­न्म­नि­मित्ता भूत­का­मो­त्पत्तिः, तस्मा­द­द्य­त्वेऽपि तस्या­दि­त्य­स्यो­दयं प्रति प्रत्यायनं प्रति अस्तगमनं च प्रति, अथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्नि­मि­त्ती­कृ­त्ये­त्यर्थः ; सर्वाणि च भूतानि सर्वे च कामा घोषा उलू­ल­व­श्चा­नु­ति­ष्ठन्ति । प्रसिद्धं हि एतदुदयादौ सवितुः ॥

स य एतमेवं विद्वानादित्यं ब्रह्मे­त्यु­पा­स्तेऽ­भ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रे­डे­र­न्नि­म्रे­जे­रन् ॥ ४ ॥

स यः कश्चित् एतमेवं यथोक्तमहिमानं विद्वान्सन् आदित्यं ब्रह्मे­त्यु­पास्ते, स तद्भावं प्रतिपद्यत इत्यर्थः । किञ्च दृष्टं फलम् अभ्याशः क्षिप्रं तद्विदः, यदिति क्रियाविशेषणम् , एनमेवंविदं साधवः शोभना घोषाः, साधुत्वं घोषादीनां यदुपभोगे पापा­नु­ब­न्धा­भावः, आ च गच्छेयुः आगच्छेयुश्च, उप च निम्रेडेरन् उपनिम्रेडेरंश्च — न केवलमागमनमात्रं घोषाणाम् उपसुखयेयुश्च उपसुखं च कुर्युरित्यर्थः । द्विरभ्यासः अध्या­य­प­रि­स­मा­प्त्यर्थः आदरार्थश्च ॥

इति एको­न­विं­श­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ छान्दो­ग्यो­प­नि­ष­द्भाष्ये तृतीयोऽध्यायः समाप्तः ॥