अद्वैतशारदा

छान्दोग्योपनिषद्भाष्यम्

चतुर्थोऽध्यायः

व्याख्याः

प्रथमः खण्डः

वायु­प्रा­ण­यो­र्ब्र­ह्मणः पाद­दृ­ष्ट्य­ध्यासः पुर­स्ता­द्व­र्णितः । अथेदानीं तयोः साक्षा­द्ब्र­ह्म­त्वे­नो­पा­स्य­त्वा­यो­त्त­र­मा­र­भ्यते । सुखावबोधार्था आख्यायिका, विद्या­दा­न­ग्र­ह­ण­वि­धि­प्र­द­र्श­नार्था च । श्रद्धा­न्न­दा­ना­नु­द्ध­त­त्वा­दीनां च विद्या­प्रा­प्ति­सा­ध­नत्वं प्रदर्श्यते आख्यायिकया —

जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आव­स­था­न्मा­प­या­ञ्चक्रे सर्वत एव मेऽन्न­म­त्स्य­न्तीति ॥ १ ॥

जानश्रुतिः जन­श्रु­त­स्या­प­त्यम् । ह ऐतिह्यार्थः । पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेयः श्रद्धा­पु­रः­स­र­मेव ब्राह्मणादिभ्यो यमस्येति श्रद्धादेयः । बहुदायी प्रभूतं दातुं शीलमस्येति बहुदायी । बहुपाक्यः बहु पक्तव्यमहन्यहनि गृहे यस्यासौ बहुपाक्यः ; भोजनार्थिभ्यो बह्वस्य गृहेऽन्नं पच्यत इत्यर्थः । एवं­गु­ण­स­म्प­न्नोऽसौ जानश्रुतिः पौत्रायणो विशिष्टे देशे काले च कस्मिंश्चित् आस बभूव । स ह सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु आवसथान् एत्य वसन्ति येष्विति आवसथाः तान् मापयाञ्चक्रे कारि­त­वा­नि­त्यर्थः । सर्वत एव मे मम अन्नं तेष्वावसथेषु वसन्तः अत्स्यन्ति भोक्ष्यन्त इत्येवमभिप्रायः ॥

अथ हꣳसा निशा­या­म­ति­पे­तु­स्त­द्धैवꣳ हꣳ सोहꣳ समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा मा प्रधाक्षीरिति ॥ २ ॥

तत्रैवं सति राजनि तस्मिन्घर्मकाले हर्म्यतलस्थे अथ ह हंसा निशायां रात्रौ अतिपेतुः । ऋषयो देवता वा राज्ञोऽ­न्न­दा­न­गु­णै­स्तो­षिताः सन्तः हंसरूपा भूत्वा राज्ञो दर्शनगोचरे अतिपेतुः पतितवन्तः । तत् तस्मिन्काले तेषां पततां हंसानाम् एकः पृष्ठतः पतन् अग्रतः पतन्तं हंसमभ्युवाद अभ्युक्तवान् — हो होयीति भो भो इति सम्बोध्य भल्लाक्ष भल्ला­क्षे­त्या­दरं दर्शयन् यथा पश्य पश्याश्चर्यमिति तद्वत् ; भल्लाक्षेति मन्ददृष्टित्वं सूचयन्नाह ; अथवा सम्य­ग्ब्र­ह्म­द­र्श­ना­भि­मा­न­व­त्त्वा­त्तस्य अस­कृ­दु­पा­ल­ब्ध­स्तेन पीड्य­मा­नोऽ­म­र्षि­तया तत्सूचयति भल्लाक्षेति ; जानश्रुतेः पौत्रायणस्य समं तुल्यं दिवा द्युलोकेन ज्योतिः प्रभास्वरम् अन्न­दा­ना­दि­ज­नि­त­प्र­भा­व­जम् आततं व्याप्तं द्युलो­क­स्पृ­गि­त्यर्थः ; दिवा अह्ना वा समं ज्योतिरित्येतत् ; तन्मा प्रसाङ्क्षीः सञ्जनं सक्तिं तेन ज्योतिषा सम्बन्धं मा कार्षिरित्यर्थः । तत्प्रसञ्जनेन तत् ज्योतिः त्वा त्वां मा प्रधाक्षीः मा दहत्वित्यर्थः ; पुरुषव्यत्ययेन मा प्रधाक्षीदिति ॥

तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तꣳ सयुग्वानमिव रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ३ ॥

तम् एवमुक्तवन्तं परः इतरोऽग्रगामी प्रत्युवाच — अरे निकृष्टोऽयं राजा वराकः, तं कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयति एनमेवं सब­हु­मा­न­मे­त­द्व­च­न­मात्थ रैक्वमिव सयुग्वानम् , सह युग्वना गन्त्र्या वर्तत इति सयुग्वा रैक्वः, तमिव आत्थ एनम् ; अन­नु­रू­प­म­स्मि­न्न­यु­क्त­मी­दृशं वक्तुं रैक्व इवेत्यभिप्रायः । इतरश्च आह — यो नु कथं त्वयोच्यते सयुग्वा रैक्वः । इत्युक्तवन्तं भल्लाक्ष आह — शृणु यथा स रैक्वः ॥

यथा कृता­य­वि­जि­ता­या­ध­रेयाः संयन्त्येवमेनं सर्वं तदभिसमैति यत्किञ्चप्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४ ॥

यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसि­द्ध­श्च­तु­रङ्कः, स यदा जयति द्यूते प्रवृत्तानाम् , तस्मै विजिताय तदर्थमितरे त्रिद्व्ये­काङ्का अधरेयाः त्रेता­द्वा­प­र­क­लि­ना­मानः संयन्ति सङ्ग­च्छ­न्तेऽ­न्त­र्भ­वन्ति ; चतुरङ्के कृताये त्रिद्व्ये­का­ङ्कानां विद्य­मा­न­त्वा­त्त­द­न्त­र्भ­व­न्ती­त्यर्थः । यथा अयं दृष्टान्तः, एवमेनं रैक्वं कृतायस्थानीयं त्रेता­द्य­य­स्था­नीयं सर्वं तदभिसमैति अन्तर्भवति रैक्वे । किं तत् ? यत्किञ्च लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं कुर्वन्ति, तत्सर्वं रैक्वस्य धर्मेऽ­न्त­र्भ­वति, तस्य च फले सर्व­प्रा­णि­ध­र्म­फ­ल­म­न्त­र्भ­व­ती­त्यर्थः । तथा अन्योऽपि कश्चित् यः तत् वेद्यं वेद । किं तत् ? यत् वेद्यं सः रैक्वः वेद ; तद्वे­द्य­म­न्योऽपि यो वेद, तमपि सर्व­प्रा­णि­ध­र्म­जातं तत्फलं च रैक्व­मि­वा­भि­स­मै­ती­त्य­नु­व­र्तते । सः एवंभूतः अरैक्वोऽपि मया विद्वान् एतदुक्तः एवमुक्तः, रैक्ववत्स एव कृतायस्थानीयो भवतीत्यभिप्रायः ॥

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह सञ्जिहान एव क्षत्ता­र­मु­वा­चा­ङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ५ ॥

यथा कृता­य­वि­जि­ता­या­ध­रेयाः संयन्त्येवमेनं सर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ६ ॥

तदु ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सा­रू­प­म­न्यस्य विदुषो रैक्वादेः प्रशंसारूपम् उपशुश्राव श्रुत­वा­न्ह­र्म्य­त­लस्थो राजा जानश्रुतिः पौत्रायणः । तच्च हंसवाक्यं स्मरन्नेव पौनःपुन्येन रात्रि­शे­ष­म­ति­वा­ह­या­मास । ततः स वन्दिभी राजा स्तुति­यु­क्ता­भि­र्वाग्भिः प्रतिबोध्यमानः उवाच क्षत्तारं सञ्जिहान एव शयनं निद्रां वा परित्यजन्नेव, हेऽङ्ग वत्स अरे सयुग्वानमिव रैक्वमात्थ किं माम् ; स एव स्तुत्यर्हो नाह­मि­त्य­भि­प्रायः । अथवा सयुग्वानं रैक्वमात्थ गत्वा मम तद्दिदृक्षाम् । तदा इव­श­ब्दोऽ­व­धा­र­णा­र्थोऽ­न­र्थको वा वाच्यः । स च क्षत्ता प्रत्युवाच रैक्वानयनकामो राज्ञोऽ­भि­प्रा­यज्ञः — यो नु कथं सयुग्वा रैक्व इति, राज्ञा एवं चोक्तः आनेतुं तच्चिह्नं ज्ञातुमिच्छन् यो नु कथं सयुग्वा रैक्व इत्यवोचत् । स च भल्ला­क्ष­व­च­न­मे­वा­वो­चत् तस्य स्मरन् ॥

स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तꣳ होवाच यत्रारे ब्राह्म­ण­स्या­न्वे­षणा तदेनमर्च्छेति ॥ ७ ॥

स ह क्षत्ता नगरं ग्रामं वा गत्वा अन्विष्य रैक्वं नाविदं न व्यज्ञासिषमिति प्रत्येयाय प्रत्यागतवान् । तं होवाच क्षत्तारम् — अरे यत्र ब्राह्मणस्य ब्रह्मविद एकान्तेऽरण्ये नदीपुलिनादौ विविक्ते देशे अन्वेषणा अनुमार्गणं भवति, तत् तत्र एनं रैक्वम् अर्च्छ ऋच्छ गच्छ, तत्र मार्गणं कुर्वित्यर्थः ॥

सोऽध­स्ता­च्छ­क­टस्य पामानं कषमाणमुपोपविवेश तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहं ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति प्रत्येयाय ॥ ८ ॥

इत्युक्तः क्षत्ता अन्विष्य तं विजने देशे अधस्ताच्छकटस्य गन्त्र्याः पामानं खर्जूं कषमाणं कण्डूयमानं दृष्ट्वा, अयं नूनं सयुग्वा रैक्व इति उप समीपे उपविवेश विन­ये­नो­प­वि­ष्ट­वान् । तं च रैक्वं ह अभ्युवाद उक्तवान् । त्वमसि हे भगवः भगवन् सयुग्वा रैक्व इति । एवं पृष्टः अहमस्मि हि अरा३ अरे इति ह अनादर एव प्रतिजज्ञे अभ्युपगतवान् — स तं विज्ञाय अविदं विज्ञा­त­वा­न­स्मीति प्रत्येयाय प्रत्यागत इत्यर्थः ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तं हाभ्युवाद ॥ १ ॥

तत् तत्र ऋषे­र्गा­र्हस्थ्यं प्रति अभिप्रायं बुद्ध्वा धनार्थितां च उ ह एव जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कं कण्ठहारम् अश्वतरीरथम् अश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैक्वं प्रति गतवान् । तं च गत्वा अभ्युवाद ह अभ्युक्तवान् ॥

रैक्वेमानि षट्शतानि गवामयं निष्कोऽ­य­म­श्व­त­री­र­थोऽनु म एतां भगवो देवताꣳ शाधि यां देवतामुपास्स इति ॥ २ ॥

हे रैक्व गवां षट् शतानि इमानि तुभ्यं मया आनीतानि, अयं निष्कः अश्व­त­री­र­थ­श्चा­यम् एतद्धनमादत्स्व । भगवोऽनुशाधि च मे माम् एताम् , यां च देवतां त्वमुपास्से तद्देवतोपदेशेन माम­नु­शा­धी­त्यर्थः ॥

तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ३ ॥

तम् एवमुक्तवन्तं राजानं प्रत्युवाच परो रैक्वः । अहेत्ययं निपातो विनि­ग्र­हा­र्थी­योऽ­न्यत्र, इह त्वनर्थकः, एवशब्दस्य पृथक्प्रयोगात् । हारेत्वा हारेण युक्ता इत्वा गन्त्री सेयं हारेत्वा गोभिः सह तवैवास्तु तवैव तिष्ठतु न मम अपर्याप्तेन कर्मार्थमनेन प्रयो­ज­न­मि­त्य­भि­प्रायः । हे शूद्रेति — ननु राजासौ क्षत्तृ­स­म्ब­न्धात् , स ह क्षत्ता­र­मु­वा­चे­त्यु­क्तम् ; विद्याग्रहणाय च ब्राह्म­ण­स­मी­पो­प­ग­मात् शूद्रस्य च अनधिकारात् कथमिदमननुरूपं रैक्वेणोच्यते हे शूद्रेति । तत्रा­हु­रा­चार्याः — हंसवचनश्रवणात् शुगेनमाविवेश ; तेनासौ शुचा श्रुत्वा रैक्वस्य महिमानं वा आद्रवतीति ऋषिः आत्मनः परोक्षज्ञतां दर्शयन् शूद्रेत्याहेति । शूद्रवद्वा धनेनैव एवं विद्या­ग्र­ह­णा­यो­प­जा­गम न च शुश्रूषया । न तु जात्यैव शूद्र इति । अपरे पुनराहुः अल्पं धनमाहृतमिति रुषैव एवमुक्तवान् शूद्रेति । लिङ्गं च बह्वाहरणे उपादानं धनस्येति । तदु ह ऋषेर्मतं ज्ञात्वा पुनरेव जानश्रुतिः पौत्रायणो गवां सहस्रमधिकं जायां च ऋषेरभिमतां दुहितरमात्मनः तदादाय प्रतिचक्रमे क्रान्तवान् ॥

तꣳ हाभ्युवाद रैक्वेदꣳ सहस्रं गवामयं निष्कोऽ­य­म­श्व­त­री­रथ इयं जायायं ग्रामो यस्मि­न्ना­स्सेऽ­न्वेव मा भगवः शाधीति ॥ ४ ॥

तस्या ह मुख­मु­पो­द्गृ­ह्ण­न्नु­वा­चा­ज­हा­रेमाः शूद्रानेनैव मुखे­ना­ला­प­यि­ष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ५ ॥

रैक्व इदं गवां सहस्रम् अयं निष्कः अयमश्वतरीरथः इयं जाया जायार्थं मम दुहिता आनीता अयं च ग्रामः यस्मिन्नास्से तिष्ठसि स च त्वदर्थे मया कल्पितः ; तदेतत्सर्वमादाय अनुशाध्येव मा मां हे भगवः, इत्युक्तः तस्या जायार्थमानीताया राज्ञो दुहितुः ह एव मुखं द्वारं विद्याया दाने तीर्थम् उपोद्गृह्णन् जानन्नित्यर्थः । ‘ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः । विद्यया वा विद्यां प्राह तीर्थानि षण्मम’(?) इति विद्याया वचनं विज्ञायते हि । एवं जानन् उपोद्गृह्णन् उवाच उक्तवान् । आजहार आहृतवान् भवान् इमाः गाः यच्चान्यद्धनं तत्साध्विति वाक्यशेषः शूद्रेति पूर्वो­क्ता­नु­कृ­ति­मात्रं न तु कार­णा­न्त­रा­पे­क्षया पूर्ववत् । अनेनैव मुखेन विद्या­ग्र­ह­ण­ती­र्थेन आलापयिष्यथाः आलापयसीति मां भाणयसीत्यर्थः । ते ह एते ग्रामा रैक्वपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैक्वः, तानसौ ग्रामानदादस्मै रैक्वाय राजा । तस्मै राज्ञे धनं दत्तवते ह किल उवाच विद्यां सः रैक्वः ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥

तृतीयः खण्डः

वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥

वायुर्वाव संवर्गः वायुर्बाह्यः, वावे­त्य­व­धा­र­णार्थः, संव­र्ज­ना­त्स­ङ्ग्र­ह­णा­त्स­ङ्ग्र­स­नाद्वा संवर्गः ; वक्ष्यमाणा अग्न्याद्या देवता आत्म­भा­व­मा­पा­द­य­ती­त्यतः संवर्गः संवर्जनाख्यो गुणो ध्येयो वायोः, कृता­या­न्त­र्भा­व­दृ­ष्टा­न्तात् । कथं संवर्गत्वं वायोरिति, आह — यदा यस्मिन्काले वै अग्निः उद्वायति उद्वासनं प्राप्नोति उपशाम्यति, तदा असौ अग्निः वायुमेव अप्येति वायु­स्वा­भा­व्य­म­पि­ग­च्छति । तथा यदा सूर्योऽस्तमेति, वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्येति । ननु कथं सूर्या­च­न्द्र­मसोः स्वरू­पा­व­स्थि­तयोः वायौ अपिगमनम् ? नैष दोषः, अस्तमने अदर्शनप्राप्तेः वायु­नि­मि­त्त­त्वात् ; वायुना हि अस्तं नीयते सूर्यः, चलनस्य वायुकार्यत्वात् । अथवा प्रलये सूर्या­च­न्द्र­मसोः स्वरूपभ्रंशे तेजो­रू­प­यो­र्वा­या­वेव अपिगमनं स्यात् ॥

यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायु­र्ह्ये­वै­ता­न्स­र्वा­न्सं­वृङ्क्त इत्यधिदैवतम् ॥ २ ॥

तथा यदा आपः उच्छुष्यन्ति उच्छो­ष­मा­प्नु­वन्ति, तदा वायुमेव अपियन्ति । वायुर्हि यस्मादेव एतान् अग्न्या­द्या­न्म­हा­ब­लान् संवृङ्क्ते, अतो वायुः संवर्गगुण उपास्य इत्यर्थः । इत्यधिदैवतं देवतासु संव­र्ग­द­र्श­न­मु­क्तम् ॥

अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणꣳ श्रोत्रं प्राणं मनः प्राणो ह्येवै­ता­न्स­र्वा­न्सं­वृङ्क्त इति ॥ ३ ॥

अथ अनन्तरम् अध्यात्मम् आत्मनि संव­र्ग­द­र्श­न­मि­द­मु­च्यते । प्राणः मुख्यः वाव संवर्गः । स पुरुषः यदा यस्मिन्काले स्वपिति, तदा प्राणमेव वागप्येति — वायुमिवाग्निः । प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्मा­दे­वै­ता­न्वा­गा­दीन् सर्वा­न्सं­वृङ्क्त इति ॥

तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥

तौ वा एतौ द्वौ संवर्गौ संवर्जनगुणौ — वायुरेव देवेषु संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः ॥

अथ ह शौनकं च कापे­य­म­भि­प्र­ता­रिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥

अथ एतयोः स्तुत्यर्थम् इयमाख्यायिका आरभ्यते । हेत्यै­ति­ह्यार्थः । शौनकं च शुनकस्यापत्यं शौनकं कापेयं कपि­गो­त्र­म­भि­प्र­ता­रिणं च नामतः कक्ष­से­न­स्या­पत्यं काक्षसेनिं भोजनायोपविष्टौ परिविष्यमाणौ सूपकारैः ब्रह्मचारी ब्रह्म­वि­च्छौण्डो बिभिक्षे भिक्षितवान् । ब्रह्मचारिणो ब्रह्म­वि­न्मा­नितां बुद्ध्वा तं जिज्ञासमानौ तस्मै उ भिक्षां न ददतुः न दत्तवन्तौ ह किमयं वक्ष्यतीति ॥

स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभि­प्र­ता­रि­न्ब­हुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥ ६ ॥

स ह उवाच ब्रह्मचारी महात्मनश्चतुर इति द्विती­या­ब­हु­व­च­नम् । देव एकः अग्न्या­दी­न्वा­यु­र्वा­गा­दी­न्प्राणः । कः सः प्रजापतिः जगार ग्रसितवान् । कः स जागरेति प्रश्नमेके । भुवनस्य भव­न्त्य­स्मि­न्भू­ता­नीति भुवनं भूरादिः सर्वो लोकः तस्य गोपाः गोपायिता रक्षिता गोप्तेत्यर्थः । तं कं प्रजापतिं हे कापेय नाभिपश्यन्ति न जानन्ति मर्त्याः मर­ण­ध­र्मा­णोऽ­वि­वे­किनो वा हे अभिप्रतारिन् बहुधा अध्या­त्मा­धि­दै­व­ता­धि­भू­त­प्र­कारैः वसन्तम् । यस्मै वै एतत् अहन्यहनि अन्नम् अदनायाह्रियते संस्क्रियते च, तस्मै प्रजापतये एतदन्नं न दत्तमिति ॥

तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानां हिरण्यदꣳष्ट्रो बभ­सोऽ­न­सू­रि­र्म­हा­न्त­मस्य महि­मा­न­मा­हु­र­न­द्य­मानो यदनन्नमत्तीति वै वयं ब्रह्म­चा­रि­न्ने­द­मु­पा­स्महे दत्तास्मै भिक्षामिति ॥ ७ ॥

तदु ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानः मनसा आलोचयन् ब्रह्मचारिणं प्रत्येयाय आजगाम । गत्वा च आह यं त्वमवोचः नाभिपश्यन्ति मर्त्या इति, तं वयं पश्यामः । कथम् ? आत्मा सर्वस्य स्थावरजङ्गमस्य । किञ्च देवा­ना­म­ग्न्या­दी­नाम् आत्मनि संहृत्य ग्रसित्वा पुनर्जनयिता उत्पादयिता वायु­रू­पे­णा­धि­दै­व­त­म­ग्न्या­दी­नाम् । अध्यात्मं च प्राणरूपेण वागादीनां प्रजानां च जनिता । अथवा आत्मा देवा­ना­म­ग्नि­वा­गा­दीनां जनिता प्रजानां स्थाव­र­ज­ङ्ग­मा­नाम् । हिरण्यदंष्ट्रः अमृतदंष्ट्रः अभग्नदंष्ट्र इति यावत् । बभसो भक्षणशीलः । अनसूरिः सूरिर्मेधावी न सूरि­र­सू­रि­स्त­त्प्र­ति­षे­धोऽ­न­सूरिः सूरिरेवेत्यर्थः । महा­न्त­म­ति­प्र­मा­ण­म­प्र­मे­य­मस्य प्रजा­प­ते­र्म­हि­मानं विभूतिम् आहुर्ब्रह्मविदः । यस्मा­त्स्व­य­म­न्यै­र­न­द्य­मानः अभक्ष्यमाणः यदनन्नम् अग्नि­वा­गा­दि­दे­व­ता­रू­पम् अत्ति भक्षयतीति । वा इति निरर्थकः । वयं हे ब्रह्मचारिन् , आ इदम् एवं यथोक्तलक्षणं ब्रह्म वयमा उपास्महे । वयमिति व्यवहितेन सम्बन्धः । अन्ये न वयमिदमुपास्महे, किं तर्हि ? परमेव ब्रह्म उपास्महे इति वर्णयन्ति । दत्तास्मै भिक्षा­मि­त्य­वो­च­द्भृ­त्यान् ॥

तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतꣳ सैषा विराडन्नादी तयेदꣳ सर्वं दृष्टꣳ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥

तस्मा उ ह ददुः ते हि भिक्षाम् । ते वै ये ग्रस्यन्ते अग्न्यादयः यश्च तेषां ग्रसिता वायुः पञ्चान्ये वागादिभ्यः, तथा अन्ये तेभ्यः पञ्चाध्यात्मं वागादयः प्राणश्च, ते सर्वे दश भवन्ति सङ्ख्यया, दश सन्तः तत्कृतं भवति ते, चतुरङ्क एकायः एवं चत्वा­र­स्त्र्य­ङ्कायः एवं त्रयोऽपरे द्व्यङ्कायः एवं द्वाव­न्या­वे­का­ङ्कायः एवमेकोऽन्यः इत्येवं दश सन्तः तत्कृतं भवति । यत एवम् , तस्मात् सर्वासु दिक्षु दश­स्व­प्य­ग्न्याद्या वागाद्याश्च दश­स­ङ्ख्या­सा­मा­न्या­द­न्न­मेव, ‘दशाक्षरा विराट्’ ‘विराडन्नम्’ इति हि श्रुतिः । अतोऽन्नमेव, दशसङ्ख्यत्वात् । तत एव दश कृतं कृतेऽ­न्त­र्भा­वात् चतु­र­ङ्का­य­त्वे­ने­त्य­वो­चाम । सैषा विराट् दशसङ्ख्या सती अन्नं च अन्नादी अन्नादिनी च कृतत्वेन । कृते हि दशसङ्ख्या अन्तर्भूता, अतोऽ­न्न­म­न्ना­दिनी च सा । तथा विद्वा­न्द­श­दे­व­ता­त्म­भूतः सन् विराट्त्वेन दशसङ्ख्यया अन्नं कृतसङ्ख्यया अन्नादी च । तया अन्नान्नादिन्या इदं सर्वं जगत् दशदिक्संस्थं दृष्टं कृतसङ्ख्याभूतया उपलब्धम् । एवंविदः अस्य सर्वं कृत­स­ङ्ख्या­भू­तस्य दशदिक्सम्बद्धं दृष्टम् उपलब्धं भवति । किञ्च अन्नादश्च भवति, य एवं वेद यथोक्तदर्शी । द्विरभ्यासः उपा­स­न­स­मा­प्त्यर्थः ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥

चतुर्थः खण्डः

सत्यकामो ह जाबालो जबालां मात­र­मा­म­न्त्र­या­ञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रो न्वहमस्मीति ॥ १ ॥

सर्वं वागाद्यग्न्यादि च अन्ना­न्ना­द­त्व­सं­स्तुतं जगदेकीकृत्य षोडशधा प्रविभज्य तस्मि­न्ब्र­ह्म­दृ­ष्टि­र्वि­धा­त­व्ये­त्या­र­भ्यते । श्रद्धा­त­प­सो­र्ब्र­ह्मो­पा­स­ना­ङ्ग­त्व­प्र­द­र्श­नाय आख्यायिका । सत्यकामो ह नामतः, ह—शब्द ऐतिह्यार्थः, जबालाया अपत्यं जाबालः जबालां स्वां मातरम् आम­न्त्र­या­ञ्चक्रे आमन्त्रितवान् । ब्रह्मचर्यं स्वाध्या­य­ग्र­ह­णाय हे भवति विवत्स्यामि आचार्यकुले, किङ्गोत्रोऽहं किमस्य मम गोत्रं सोऽहं किङ्गोत्रो नु अहमस्मीति ॥

सा हैनमुवाच नाहमेतद्वेद तात यद्गो­त्र­स्त्व­मसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गो­त्र­स्त्व­मसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ २ ॥

एवं पृष्टा जबाला सा ह एनं पुत्रमुवाच — नाहमेतत् तव गोत्रं वेद, हे तात यद्गो­त्र­स्त्व­मसि । कस्मान्न वेत्सीत्युक्ता आह — बहु भर्तृगृहे परि­च­र्या­जा­त­म­ति­थ्य­भ्या­ग­तादि चरन्ती अहं परिचारिणी परिचरन्तीति परिचरणशीलैवाहम् , परिचरणचित्ततया गोत्रादिस्मरणे मम मनो नाभूत् । यौवने च तत्काले त्वामलभे लब्धवत्यस्मि । तदैव ते पितोपरतः ; अतोऽनाथा अहम् , साहमेतन्न वेद यद्गो­त्र­स्त्व­मसि । जबाला तु नामाहमस्मि, सत्यकामो नाम त्वमसि, स त्वं सत्यकाम एवाहं जाबा­लोऽ­स्मी­त्या­चा­र्याय ब्रवीथाः ; यद्याचार्येण पृष्ट इत्यभिप्रायः ॥

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्या­म्यु­पेयां भगवन्तमिति ॥ ३ ॥

तꣳ होवाच किङ्गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गो­त्रोऽ­ह­म­स्म्य­पृच्छं मातरं सा मा प्रत्य­ब्र­वी­द्ब­ह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गो­त्र­स्त्व­मसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहं सत्यकामो जाबालोऽस्मि भो इति ॥ ४ ॥

स ह सत्यकामः हारिद्रुमतं हरि­द्रु­म­तोऽ­पत्यं हारिद्रुमतं गौतमं गोत्रतः एत्य गत्वा उवाच — ब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्यामि अतः उपेयाम् उपगच्छेयं शिष्यतया भगवन्तम् इत्युक्तवन्तं तं ह उवाच गौतमः किङ्गोत्रः नु सोम्य असीति, विज्ञा­त­कु­ल­गोत्रः शिष्य उपनेतव्यः ; इति पृष्टः प्रत्याह सत्यकामः । स ह उवाच — नाहमेतद्वेद भो, यद्गो­त्रोऽ­ह­मस्मि ; किं तु अपृच्छं पृष्टवानस्मि मातरम् ; सा मया पृष्टा मां प्रत्य­ब्र­वी­न्माता ; बह्वहं चरन्तीत्यादि पूर्ववत् ; तस्या अहं वचः स्मरामि ; सोऽहं सत्यकामो जाबालोऽस्मि भो इति ॥

तꣳ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधꣳ सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निरा­कृ­त्यो­वा­चेमाः सोम्या­नु­सं­व्र­जेति ता अभि­प्र­स्था­प­य­न्नु­वाच नास­ह­स्रे­णा­व­र्ते­येति स ह वर्षगणं प्रोवास ता यदा सहस्रꣳ सम्पेदुः ॥ ५ ॥

तं ह उवाच गौतमः — नैतद्वचः अब्राह्मणे विशेषेण वक्तुमर्हति आर्ज­वा­र्थ­सं­यु­क्तम् । ऋजावो हि ब्राह्मणा नेतरे स्वभावतः । यस्मान्न सत्यात् ब्राह्म­ण­जा­ति­ध­र्मात् अगाः नापेतवानसि, अतः ब्राह्मणं त्वामुपनेष्ये ; अतः संस्कारार्थं होमाय समिधं सोम्य आहर, इत्युक्त्वा तमुपनीय कृशानामबलानां गोयू­था­न्नि­रा­कृत्य अपकृष्य चतुःशता चत्वारिशतानि गवाम् उवाच — इमाः गाः सोम्य अनुसंव्रज अनुगच्छ । इत्युक्तः ता अरण्यं प्रत्य­भि­प्र­स्था­प­य­न्नु­वाच — नासहस्रेण अपूर्णेन सहस्रेण नावर्तेय न प्रत्यागच्छेयम् । स एवमुक्त्वा गाः अरण्यं तृणोदकबहुलं द्वन्द्वरहितं प्रवेश्य स ह वर्षगणं दीर्घं प्रोवास प्रोषितवान् । ताः सम्यग्गावः रक्षिताः यदा यस्मिन्काले सहस्रं सम्पेदुः सम्पन्ना बभूवुः ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

पञ्चमः खण्डः

अथ हैन­मृ­ष­भोऽ­भ्यु­वाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रꣳ स्मः प्रापय न आचार्यकुलम् ॥ १ ॥

तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिक्सम्बन्धिनी तुष्टा सती ऋषभमनुप्रविश्य ऋषभभावमापन्ना अनुग्रहाय अथ ह एनमृषभोऽभ्युवाद अभ्युक्तवान् सत्यकाम३ इति सम्बोध्य । तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ । प्राप्ताः सोम्य सहस्रं स्मः, पूर्णा तव प्रतिज्ञा, अतः प्रापय नः अस्मा­ना­चा­र्य­कु­लम् ॥

ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥

किञ्च अहं ब्रह्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयानि । इत्युक्तः प्रत्युवाच — ब्रवीतु

कथयतु मे मह्यं भगवान् । इत्युक्तः ऋषभः तस्मै सत्यकामाय ह उवाच — प्राची दिक्कला ब्रह्मणः पादस्य चतुर्थो भागः । तथा प्रतीची दिक्कला दक्षिणा दिक्कला उदीची दिक्कला, एष वै सोम्य ब्रह्मणः पादः चतुष्कलः चतस्रः कला अवयवा यस्य सोऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम प्रकाशवानित्येव नाम अभिधानं यस्य । तथोत्तरेऽपि पादा­स्त्र­य­श्च­तु­ष्कला ब्रह्मणः ॥

स य एतमेवं विद्वां­श्च­तु­ष्कलं पादं ब्रह्मणः प्रका­श­वा­नि­त्यु­पास्ते प्रका­श­वा­न­स्मिं­ल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वां­श्च­तु­ष्कलं पादं ब्रह्मणः प्रका­श­वा­नि­त्यु­पास्ते ॥ ३ ॥

स यः कश्चित् एवं यथोक्तमेतं ब्रह्मणः चतुष्कलं पादं विद्वान् प्रका­श­वा­नि­त्य­नेन गुणेन विशिष्टम् उपास्ते, तस्येदं फलम् — प्रका­श­वा­न­स्मिं­ल्लोके भवति प्रख्यातो भवतीत्यर्थः ; तथा अदृष्टं फलम् — प्रकाशवतः ह लोकान् देवा­दि­स­म्ब­न्धिनः मृतः सन् जयति प्राप्नोति ; य एतमेवं विद्वान् चतुष्कलं पादं ब्रह्मणः प्रका­श­वा­नि­त्यु­पास्ते ॥

इति पञ्च­म­ख­ण्ड­भा­ष्यम् ॥

षष्ठः खण्डः

अग्निष्टे पादं वक्तेति स ह श्वोभूते गा अभि­प्र­स्था­प­या­ञ्च­कार ता यत्राभि सायं बभू­वु­स्त­त्रा­ग्नि­मु­प­स­मा­धाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥

सोऽग्निः ते पादं वक्तेत्युपरराम ऋषभः । सः सत्यकामः ह श्वोभूते परेद्युः नैत्यकं नित्यं कर्म कृत्वा गाः अभि­प्र­स्था­प­या­ञ्च­कार आचार्यकुलं प्रति । ताः शनैश्चरन्त्यः आचा­र्य­कु­ला­भि­मुख्यः प्रस्थिताः यत्र यस्मिन्काले देशेऽभि सायं निशा­या­म­भि­स­म्ब­भूवुः एकत्राभिमुख्यः सम्भूताः, तत्रा­ग्नि­मु­प­स­मा­धाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्मुखः उपविवेश ऋषभवचो ध्यायन् ॥

तमग्निरभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

तमग्निरभ्युवाद सत्यकाम३ इति सम्बोध्य । तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवितु मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्म­णोऽ­न­न्त­वा­न्नाम ॥ ३ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति । ब्रवीतु मे भगवानिति । तस्मै ह उवाच, पृथिवी कला अन्तरिक्षं कला द्यौः कला समुद्रः कले­त्या­त्म­गो­च­र­मेव दर्श­न­म­ग्नि­र­ब्र­वीत् । एष वै सोम्य चतुष्कलः पादो ब्रह्म­णोऽ­न­न्त­वा­न्नाम ॥

स य एतमेवं विद्वाꣳश्च­तु­ष्कलं पादं ब्रह्म­णोऽ­न­न्त­वा­नि­त्यु­पा­स्तेऽ­न­न्त­वा­न­स्मिं­ल्लोके भवत्य नन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्च­तु­ष्कलं पादं ब्रह्म­णोऽ­न­न्त­वा­नि­त्यु­पास्ते ॥ ४ ॥

स यः कश्चित् यथोक्तं पाद­म­न­न्त­व­त्त्वेन गुणेनोपास्ते, स तथैव तद्गुणो भव­त्य­स्मिं­ल्लोके, मृतश्च अनन्तवतो ह लोकान् स जयति ; य एतमेवमित्यादि पूर्ववत् ॥

इति षष्ठखण्डभाष्यम् ॥

सप्तमः खण्डः

हꣳसस्ते पादं वक्तेति स ह श्वोभूते गा अभि­प्र­स्था­प­या­ञ्च­कार ता यत्राभि सायं बभू­वु­स्त­त्रा­ग्नि­मु­प­स­मा­धाय गा उपारुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥

तꣳ हꣳस उप­नि­प­त्या­भ्यु­वाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

सोऽग्निः हंसः ते पादं वक्तेत्युक्त्वा उपरराम । हंस आदित्यः, शौक्ल्या­त्प­त­न­सा­मा­न्याच्च । स ह श्वोभूते इत्यादि समानम् ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥

स य एतमेवं विद्वाꣳश्च­तु­ष्कलं पादं ब्रह्मणो ज्योति­ष्मा­नि­त्यु­पास्ते ज्योति­ष्मा­न­स्मिं­ल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्च­तु­ष्कलं पादं ब्रह्मणो ज्योति­ष्मा­नि­त्यु­पास्ते ॥ ४ ॥

अग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्येति ज्योतिर्विषयमेव च दर्शनं प्रोवाच ; अतो हंसस्य आदित्यत्वं प्रतीयते । विद्वत्फलम् — ज्योतिष्मान् दीप्ति­यु­क्तोऽ­स्मिं­ल्लोके भवति । चन्द्रा­दि­त्या­दीनां ज्योतिष्मत एव च मृत्वा लोकान् जयति । समानमुत्तरम् ॥

इति सप्त­म­ख­ण्ड­भा­ष्यम् ॥

अष्टमः खण्डः

मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभि­प्र­स्था­प­या­ञ्च­कार ता यत्राभि सायं बभू­वु­स्त­त्रा­ग्नि­मु­प­स­मा­धाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥

हंसोऽपि मद्गुष्टे पादं वक्तेत्युपरराम । मद्गुः उदकचरः पक्षी, स च अप्स­म्ब­न्धा­त्प्राणः । स ह श्वोभूते इत्यादि पूर्ववत् ॥

तं मद्गु­रु­प­नि­प­त्या­भ्यु­वाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥

स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कले­त्या­द्या­य­त­न­वा­नि­त्येवं नाम । आयतनं नाम मनः सर्व­क­र­णो­प­हृ­तानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवान्नाम पादः ॥

स य एतमेवं विद्वाꣳश्च­तु­ष्कलं पादं ब्रह्मण आय­त­न­वा­नि­त्यु­पास्त आय­त­न­वा­न­स्मिं­ल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्च­तु­ष्कलं पादं ब्रह्मण आय­त­न­वा­नि­त्यु­पास्ते ॥ ४ ॥

तं पादं तथैवोपास्ते यः स आयतनवान् आश्र­य­वा­न­स्मिं­ल्लोके भवति । आयतनवत एव साव­का­शां­ल्लो­का­न्मृतो जयति । य एतमेवमित्यादि पूर्ववत् ॥

इति अष्ट­म­ख­ण्ड­भा­ष्यम् ॥

नवमः खण्डः

प्राप हाचार्यकुलं तमा­चा­र्योऽ­भ्यु­वाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥

स एवं ब्रह्मवित्सन् प्राप ह प्राप्त­वा­ना­चा­र्य­कु­लम् । तमा­चा­र्योऽ­भ्यु­वाद सत्यकाम३ इति ; भगव इति ह प्रतिशुश्राव ॥

ब्रह्मविदिव वै सोम्य भासि को नु त्वानु­श­शा­से­त्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवाꣳस्त्वेव मे कामे ब्रूयात् ॥ २ ॥

ब्रह्मविदिव वै सोम्य भासि । प्रस­न्ने­न्द्रियः प्रहसितवदनश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति । अत आह आचार्यो ब्रह्मविदिव भासीति ; को न्विति वितर्कयन्नुवाच — कस्त्वा­म­नु­श­शा­सेति । स च आह सत्यकामः अन्ये मनुष्येभ्यः । देवता मामनुशिष्टवत्यः । कोऽन्यो भगवच्छिष्यं मां मनुष्यः सन् अनु­शा­सि­तु­मु­त्स­हे­ते­त्य­भि­प्रायः । अतोऽन्ये मनुष्येभ्य इति ह प्रतिजज्ञे प्रतिज्ञातवान् । भगवांस्त्वेव मे कामे ममेच्छायां ब्रूयात् किमन्यैरुक्तेन, नाहं तद्ग­ण­या­मी­त्य­भि­प्रायः ॥

श्रुतꣳ ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति वीयायेति ॥ ३ ॥

किञ्च श्रुतं हि यस्मात् मम विद्यते एवास्मिन्नर्थे भगवद्दृशेभ्यो भगवत्समेभ्यः ऋषिभ्यः । आचार्याद्धैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापति प्राप्नोति ; अतो भगवानेव ब्रूया­दि­त्युक्तः आचार्यः अब्रवीत् तस्मै तामेव दैवतैरुक्तां विद्याम् । अत्र ह न किञ्चन षोडशकलविद्यायाः किञ्चि­दे­क­दे­श­मा­त्र­मपि न वीयाय न विगतमित्यर्थः । द्विरभ्यासो विद्या­प­रि­स­मा­प्त्यर्थः ॥

इति नवमखण्डभाष्यम् ॥

दशमः खण्डः

पुन­र्ब्र­ह्म­विद्यां प्रकारान्तरेण वक्ष्या­मी­त्या­र­भते गतिं च तद्वि­दोऽ­ग्नि­विद्यां च । आख्यायायिका पूर्व­व­च्छ्र­द्ध­त­प­सो­र्ब्र­ह्म­वि­द्या­सा­ध­न­त्व­प्र­द­र्श­नार्था —

उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षा­ण्य­ग्नी­न्प­रि­च­चार स ह स्मान्या­न­न्ते­वा­सिनः समावर्तयꣳस्तꣳ ह स्मैव न समावर्तयति ॥ १ ॥

उपकोसलो ह वै नामतः कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्य, ह ऐतिह्यार्थः, तस्य आचार्यस्य द्वादश वर्षाणि अग्नीन्परिचचार अग्नीनां परिचरणं कृतवान् । स ह स्म आचार्यः अन्या­न्ब्र­ह्म­चा­रिणः स्वाध्यायं ग्राहयित्वा समावर्तयन् तमेवोपकोसलमेकं न समावर्तयति स्म ह ॥

तं जायोवाच तप्तो ब्रह्मचारी कुश­ल­म­ग्नी­न्प­रि­च­चा­रीन्मा त्वाग्नयः परि­प्र­वो­च­न्प्र­ब्रू­ह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥

तम् आचार्यं जाया उवाच — तप्तो ब्रह्मचारी कुशलं सम्यक् अग्नीन् परिचचारीत् परिचरितवान् ; भगवांश्च अग्निषु भक्तं न समावर्तयति ; अतः अस्मद्भक्तं न समावर्तयतीति ज्ञात्वा त्वाम् अग्नयः मा परिप्रवोचन् गर्हां तव मा कुर्युः ; अतः प्रब्रूहि अस्मै विद्यामिष्टाम् उपकोसलायेति । तस्मै एवं जायया उक्तोऽपि ह अप्रोच्यैव अनुक्त्वैव किञ्चि­त्प्र­वा­सा­ञ्चक्रे प्रवसितवान् ॥

स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्म­चा­रि­न्न­शान किं नु नाश्नासीति स होवाच बहव इमेऽ­स्मि­न्पु­रुषे कामा नानात्यया व्याधिभिः प्रति­पू­र्णोऽस्मि नाशिष्यामीति ॥ ३ ॥

स ह उपकोसलः व्याधिना मानसेन दुःखेन अनशितुम् अनशनं कर्तुं दध्रे धृतवान्मनः । तं तूष्णी­म­ग्न्या­गा­रेऽ­व­स्थि­तम् आचार्यजायोवाच — हे ब्रह्मचारिन् अशान भुङ्क्ष्व, किं नु कस्मान्नु कारणान्नाश्नासि ? इति । स ह उवाच — बहवः अने­केऽ­स्मि­न्पु­रु­षेऽ­कृ­तार्थे प्राकृते कामाः इच्छाः कर्तव्यं प्रति नाना अत्ययः अतिगमनं येषां व्याधीनां कर्त­व्य­चि­न्तानां ते नानात्ययाः व्याधयः कर्त­व्य­ता­प्रा­प्ति­नि­मि­त्तानि चित्त­दुः­खा­नी­त्यर्थः ; तैः प्रति­पू­र्णोऽस्मि ; अतो नाशिष्यामीति ॥

अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्य­चा­री­द्ध­न्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४ ॥

उक्त्वा तूष्णीम्भूते ब्रह्मचारिणि, अथ ह अग्नयः शुश्रू­ष­या­व­र्जिताः कारुण्याविष्टाः सन्तः त्रयोऽपि समूदिरे सम्भूयोक्तवन्तः — हन्त इदानीम् अस्मै ब्रह्मचारिणे अस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मः अनुप्रब्रवाम ब्रह्मविद्याम् , इति एवं सम्प्रधार्य, तस्मै ह ऊचुः उक्तवन्तः — प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥

स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥

स ह उवाच ब्रह्मचारी — विजानाम्यहं यद्भवद्भिरुक्तं प्रसि­द्ध­प­दा­र्थ­क­त्वा­त्प्राणो ब्रह्मेति, सः यस्मिन्सति जीवनं यदपगमे च न भवति, तस्मि­न्वा­यु­वि­शेषे लोके रूढः ; अतः युक्तं ब्रह्मत्वं तस्य ; तेन प्रसि­द्ध­प­दा­र्थ­क­त्वा­द्वि­जा­ना­म्यहं यत्प्राणो ब्रह्मेति । कं च तु खं च न विजानामीति । ननु कङ्खंशब्दयोरपि सुखा­का­श­वि­ष­य­त्वेन प्रसि­द्ध­प­दा­र्थ­क­त्व­मेव, कस्मा­द्ब्र­ह्म­चा­रि­णोऽ­ज्ञा­नम् ? नूनम् , सुखस्य कंशब्दवाच्यस्य क्षण­प्र­ध्वं­सि­त्वात् खंशब्दवाच्यस्य च आकाशस्याचेतनस्य कथं ब्रह्मत्वमिति, मन्यते ; कथं च भगवतां वाक्यमप्रमाणं स्यादिति ; अतो न विजानामीत्याह । तम् एवमुक्तवन्तं ब्रह्मचारिणं ते ह अग्नय ऊचुः — यद्वाव यदेव वयं कम् अवोचाम, तदेव खम् आकाशम् , इत्येवं खेन विशेष्यमाणं कं विष­ये­न्द्रि­य­सं­यो­ग­जा­त्सु­खा­न्नि­व­र्तितं स्यात् — नीलेनेव विशे­ष्य­मा­ण­मु­त्पलं रक्तादिभ्यः । यदेव खम् इत्याकाशमवोचाम, तदेव च कं सुखमिति जानीहि । एवं च सुखेन विशेष्यमाणं खं भौति­का­द­चे­त­ना­त्खा­न्नि­व­र्तितं स्यात् — नीलोत्पलवदेव । सुखमाकाशस्थं नेतरल्लौकिकम् , आकाशं च सुखाश्रयं नेत­र­द्भौ­ति­क­मि­त्यर्थः । नन्वाकाशं चेत् सुखेन विशे­ष­यि­तु­मि­ष्टम् , अस्त्वन्यतरदेव विशेषणम् — यद्वाव कं तदेव खम् इति, अतिरिक्तमितरत् ; यदेव खं तदेव कमिति पूर्वविशेषणं वा ; ननु सुखा­का­श­यो­रु­भ­यो­रपि लौकि­क­सु­खा­का­शाभ्यां व्यावृ­त्ति­रि­ष्टे­त्य­वो­चाम । सुखेन आकाशे विशेषिते व्यावृ­त्ति­रु­भ­यो­र­र्थ­प्रा­प्तै­वेति चेत् , सत्यमेवम् ; किन्तु सुखेन विशेषितस्यैव आकाशस्य ध्येयत्वं विहितम् ; न त्वाकाशगुणस्य विशेषणस्य शुखस्य ध्येयत्वं विहितं स्यात् , विशेषणोपादानस्य विशे­ष्य­नि­य­न्तृ­त्वे­नै­वो­प­क्ष­यात् । अतः खेन सुखमपि विशेष्यते ध्येयत्वाय । कुत­श्चै­त­न्नि­श्ची­यते ? कंशब्दस्यापि ब्रह्म­श­ब्द­स­म्ब­न्धात् कं ब्रह्मेति । यदि हि सुख­गु­ण­वि­शि­ष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात् , कं खं ब्रह्मेति ब्रूयुः अग्नयः प्रथमम् । न चैवमुक्तवन्तः । किं तर्हि ? कं ब्रह्म खं ब्रह्मेति । अतः ब्रह्मचारिणो मोहापनयनाय कङ्खं­श­ब्द­यो­रि­त­रे­त­र­वि­शे­ष­ण­वि­शे­ष्य­त्व­नि­र्देशो युक्त एव यद्वाव कमित्यादिः । तदे­त­द­ग्नि­भि­रुक्तं वाक्या­र्थ­म­स्म­द्बो­धाय श्रुतिराह — प्राणं च ह अस्मै ब्रह्माचरिणे, तस्य आकाशः तदाकाशः, प्राणस्य सम्बन्धी आश्रयत्वेन हार्द आकाश इत्यर्थः, सुख­गु­ण­व­त्त्व­नि­र्दे­शात् ; तं च आकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्म­स­म्प­र्का­देव ब्रह्मेत्युभयं प्राणं च आकाशं च समुच्चित्य ब्रह्मणी ऊचुः अग्नय इति ॥

इति दशमखण्डभाष्यम् ॥

एकादशः खण्डः

अथ हैनं गार्ह­प­त्योऽ­नु­श­शास पृथि­व्य­ग्नि­र­न्न­मा­दित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥

सम्भूयाग्नयः ब्रह्मचारिणे ब्रह्म उक्तवन्तः । अथ अनन्तरं प्रत्येकं स्वस्वविषयां विद्यां वक्तुमारेभिरे । तत्र आदौ एनं ब्रह्मचारिणं गार्हपत्यः अग्निः अनुशशास — पृथि­व्य­ग्नि­र­न्न­मा­दित्य इति ममै­ता­श्च­त­स्र­स्त­नवः । तत्र य आदित्ये एष पुरुषो दृश्यते, सोऽहमस्मि गार्ह­प­त्योऽग्निः, यश्च गार्ह­प­त्योऽग्निः स एवाहमादित्ये पुरुषोऽस्मि, इति पुनः परावृत्त्या स एवाहमस्मीति वचनम् । पृथिव्यन्नयोरिव भोज्य­त्व­ल­क्ष­णयोः सम्बन्धो न गार्ह­प­त्या­दि­त्ययोः । अत्तृ­त्व­प­क्तृ­त्व­प्र­का­श­न­धर्मा अविशिष्टा इत्यतः एक­त्व­मे­वा­न­यो­र­त्य­न्तम् । पृथि­व्य­न्न­योस्तु भोज्यत्वेन आभ्यां सम्बन्धः ॥

स य एतमेवं विद्वा­नु­पा­स्तेऽ­प­हते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जा­मोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥

स यः कश्चित् एवं यथोक्तं गार्ह­प­त्य­म­ग्निम् अन्नान्नादत्वेन चतुर्धा प्रविभक्तम् उपास्ते, सोऽपहते विनाशयति पापकृत्यां पापं कर्म । लोकी लोक­वां­श्चा­स्म­दी­येन लोकेनाग्नेयेन तद्वान्भवति यथा वयम् । इह च लोके सर्वं वर्षशतम् आयुरेति प्राप्नोति । ज्योक् उज्ज्वलं जीवति नाप्रख्यात इत्येतत् । न च अस्य अवराश्च ते पुरुषाश्च अस्य विदुषः सन्ततिजा इत्यर्थः, न क्षीयन्ते सन्तत्युच्छेदो न भवतीत्यर्थः । किं च तं वयम् उपभुञ्जामः पालयामः अस्मिंश्च लोके जीवन्तम् अमुष्मिंश्च परलोके । य एतमेवं विद्वानुपास्ते, यथोक्तं तस्य तत्फलमित्यर्थः ॥

इति एका­द­श­ख­ण्ड­भा­ष्यम् ॥

द्वादशः खण्डः

अथ हैन­म­न्वा­हा­र्य­प­च­नोऽ­नु­श­शा­सापो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥

स य एतमेवं विद्वा­नु­पा­स्तेऽ­प­हते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जा­मोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥

अथ ह एनम् अन्वाहार्यपचनः अनुशशास दक्षिणाग्निः — आपो दिशो नक्षत्राणि चन्द्रमा इत्येता मम चतस्रस्तनवः चतुर्धा अह­म­न्वा­हा­र्य­प­चने आत्मानं प्रवि­भ­ज्या­व­स्थितः । तत्र य एष चन्द्रमसि पुरुषो दृश्यते, सोऽहमस्मि, स एवाहमस्मीति पूर्ववत् । अन्न­स­म्ब­न्धा­ज्ज्यो­ति­ष्ट्व­सा­मा­न्याच्च अन्वा­हा­र्य­प­च­न­च­न्द्र­म­सो­रे­कत्वं दक्षि­ण­दि­क्स­म्ब­न्धाच्च । अपां नक्षत्राणां च पूर्व­व­द­न्न­त्वे­नैव सम्बन्धः, नक्षत्राणां चन्द्रमसो भोग्य­त्व­प्र­सिद्धेः । अपा­म­न्नो­त्पा­द­क­त्वा­द­न्नत्वं दक्षिणाग्नेः — पृथि­वी­व­द्गा­र्ह­प­त्यस्य । समानमन्यत् ॥

इति द्वाद­श­ख­ण्ड­भा­ष्यम् ॥

त्रयोदशः खण्डः

अथ हैन­मा­ह­व­नी­योऽ­नु­श­शास प्राण आकाशो द्यौर्वि­द्यु­दिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥

स य एतमेवं विद्वा­नु­पा­स्तेऽ­प­हते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जा­मोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥

अथ ह एन­मा­ह­व­नी­योऽ­नु­श­शास — प्राण आकाशो द्यौर्वि­द्यु­दिति ममा­प्ये­ता­श्च­त­स्र­स्त­नवः । य एष विद्युति पुरुषो दृश्यते, सोऽहमस्मीत्यादि पूर्ववत् सामान्यात् । द्य्वाकाशयोः स्वाश्रयत्वात् विद्यु­दा­ह­व­नी­ययोः भोग्यत्वेनैव सम्बन्धः । समानमन्यत् ॥

इति त्रयो­द­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्दशः खण्डः

ते होचुरुपकोसलैषा सोम्य तेऽस्म­द्वि­द्या­त्म­विद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्या­चा­र्य­स्त­मा­चा­र्योऽ­भ्यु­वा­दो­प­को­सल३ इति ॥ १ ॥

ते पुनः सम्भूयोचुः ह — उपकोसल एषा सोम्य ते तव अस्मद्विद्या अग्नि­वि­द्ये­त्यर्थः ; आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति च ; आचार्यस्तु ते गतिं वक्ता विद्या­फ­ल­प्रा­प्तये इत्युक्त्वा उपरेमुरग्नयः । आजगाम ह अस्य आचार्यः कालेन । तं च शिष्यम् आचार्यो अभ्युवाद उपकोसल३ इति ॥

भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव निह्नुत इमे नूनमीदृशा अन्यादृशा इती­हा­ग्नी­न­भ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥

इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥

भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को नु त्वा अनुशशास इत्युक्तः प्रत्याह — को नु मा अनुशिष्यात् अनुशासनं कुर्यात् भो भगवन् त्वयि प्रोषिते, इति इह अप इव निह्नुते अपनिह्नुत इवेति व्यवहितेन सम्बन्धः, न च अपनिह्नुते, न च यथा­व­द­ग्नि­भि­रुक्तं ब्रवी­ती­त्य­भि­प्रायः । कथम् ? इमे अग्नयः मया परिचरिताः उक्तवन्तः नूनम् , यतस्त्वां दृष्ट्वा वेपमाना इव ईदृशा दृश्यन्ते पूर्वमन्यादृशाः सन्तः, इति इह अग्नीन् अभ्यूदे अभ्युक्तवान् काक्वा अग्नीन्दर्शयन् । किं नु सोम्य किल ते तुभ्यम् अवोचन् अग्नयः ? इति, पृष्टः इत्येवम् इदमुक्तवन्तः इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान् प्रतीकमात्रं किञ्चित् , न सर्वं यथो­क्त­म­ग्नि­भि­रु­क्त­म­वो­चत् । यत आह आचार्यः — लोकान्वाव पृथिव्यादीन् हे सोम्य किल ते अवोचन् , न ब्रह्म साकल्येन । अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि, शृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञान­मा­हा­त्म्यम् — यथा पुष्करपलाशे पद्मपत्रे आपो न श्लिष्यन्ते, एवं यथा वक्ष्यामि ब्रह्म, एवंविदि पापं कर्म न श्लिष्यते न सम्बध्यते इति । एवमुक्तवति आचार्ये आह उपकोसलः — ब्रवीतु मे भगवानिति । तस्मै ह उवाच आचार्यः ॥

इति चतु­र्द­श­ख­ण्ड­भा­ष्यम् ॥

पञ्चदशः खण्डः

य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवा­चै­त­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मेति तद्य­द्य­प्य­स्मि­न्स­र्पि­र्वो­दकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥

य एषोऽक्षिणि पुरुषः दृश्यते निवृ­त्त­च­क्षु­र्भि­र्ब्र­ह्म­च­र्या­दि­सा­ध­न­स­म्पन्नैः शान्तै­र्वि­वे­किभिः दृष्टे­र्द्रष्टा, ‘चक्षु­ष­श्चक्षुः’(के. उ. १ । २) इत्या­दि­श्रु­त्य­न्त­रात् ; ननु अग्निभिरुक्तं वितथम् , यतः आचार्यस्तु ते गतिं वक्ता इति गतिमात्रस्य वक्तेत्यवोचन् , भवि­ष्य­द्वि­ष­या­प­रि­ज्ञानं च अग्नीनाम् ; नैष दोषः, सुखाकाशस्यैव अक्षिणि दृश्यत इति द्रष्टु­र­नु­वा­दात् । एष आत्मा प्राणिनामिति ह उवाच एवमुक्तवान् ; एतत् यदेव आत्म­त­त्त्व­म­वो­चाम, एतदमृतम् अमरणधर्मि अविनाशि अत एवाभयम् , यस्य हि विनाशाशङ्का तस्य भयोपपत्तिः तदभावादभयम् , अत एव एतद्ब्रह्म बृहदनन्तमिति । किञ्च, अस्य ब्रह्म­णोऽ­क्षि­पु­रु­षस्य माहात्म्यम् — तत् तत्र पुरुषस्य स्थाने अक्षिणि यद्य­प्य­स्मि­न्स­र्पि­र्वो­दकं वा सिञ्चति, वर्त्मनी एव गच्छति पक्ष्मावेव गच्छति ; न चक्षुषा सम्बध्यते — पद्म­प­त्रे­णे­वो­द­कम् । स्थान­स्या­प्ये­त­न्मा­हा­त्म्यम् , किं पुनः स्थानि­नोऽ­क्षि­पु­रु­षस्य निरञ्जनत्वं वक्त­व्य­मि­त्य­भि­प्रायः ॥

एतꣳ संयद्वाम इत्याचक्षत एतꣳ हि सर्वाणि वामा­न्य­भि­सं­यन्ति सर्वाण्येनं वामा­न्य­भि­सं­यन्ति य एवं वेद ॥ २ ॥

एतं यथोक्तं पुरुषं संयद्वाम इत्याचक्षते । कस्मात् ? यस्मादेतं सर्वाणि वामानि वननीयानि सम्भजनीयानि शोभनानि अभिसंयन्ति अभि­स­ङ्ग­च्छ­न्ती­त्यतः संयद्वामः । तथा एवंविदमेनं सर्वाणि वामा­न्य­भि­सं­यन्ति य एवं वेद ॥

एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥

एष उ एव वामनीः, यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति च आत्मधर्मत्वेन । विदुषः फलम् — सर्वाणि वामानि नयति य एवं वेद ॥

एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥

एष उ एव भामनीः, एष हि यस्मात् सर्वेषु लोकेषु आदि­त्य­च­न्द्रा­ग्न्या­दि­रूपैः भाति दीप्यते, ‘तस्य भासा सर्वमिदं विभाति’(मु. उ. २ । २ । ११) इति श्रुतेः । अतो भामानि नयतीति भामनीः । य एवं वेद, असावपि सर्वेषु लोकेषु भाति ॥

अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चि­ष­मे­वा­भि­स­म्भ­व­न्त्य­र्चि­षोऽ­ह­रह्न आपू­र्य­मा­ण­प­क्ष­मा­पू­र्य­मा­ण­प­क्षा­द्या­न्ष­डु­द­ङ्ङेति मासाꣳस्ता­न्मा­सेभ्यः संवत्सरꣳ संव­त्स­रा­दा­दि­त्य­मा­दि­त्या­च्च­न्द्र­मसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ५ ॥

अथेदानीं यथो­क्त­ब्र­ह्म­विदः गतिरुच्यते । यत् यदि उ च एव अस्मिन् एवंविदि शव्यं शवकर्म मृते कुर्वन्ति, यदि च न कुर्वन्ति ऋत्विजः, सर्व­था­प्ये­वं­वित् तेन शवकर्मणा अकृतेनापि प्रतिबद्धो न ब्रह्म न प्राप्नोति ; न च कृतेन शवकर्मणा अस्य कश्चनाभ्यधिको लोकः, ‘न कर्मणा वर्धते नो कनीयान्’(बृ. उ. ४ । ४ । २३) इति श्रुत्यन्तरात् । शवकर्मण्यनादरं दर्शयन् विद्यां स्तौति, न पुनः शवकर्म एवंविदः न कर्तव्यमिति । अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे प्रतिबन्धः कश्चि­द­नु­मी­य­तेऽ­न्यत्र । यत इह विद्या­फ­ला­र­म्भ­काले शवकर्म स्याद्वा न वेति विद्यावतः अप्रतिबन्धेन फलारम्भं दर्शयति । ये सुखा­का­श­म­क्षिस्थं संयद्वामो वाम­नी­र्भा­म­नी­रि­त्ये­वं­गु­ण­मु­पा­सते प्राण­स­हि­ता­म­ग्नि­विद्यां च, तेषामन्यत्कर्म भवतु मा वा भूत् सर्वथा अपि ते अर्चि­ष­मे­वा­भि­स­म्भ­वन्ति अर्चिरभिमानिनीं देव­ता­म­भि­स­म्भ­वन्ति प्रतिपद्यन्त इत्यर्थः । अर्चिषः अर्चिर्देवताया अहः अहरभिमानिनीं देवताम् , अह्नः आपूर्यमाणपक्षं शुक्ल­प­क्ष­दे­व­ताम् , आपू­र्य­मा­ण­प­क्षात् यान्षाण्मासान् उदङ् उत्तरां दिशम् एति सविता तान्मासान् उत्तरायणदेवताम् , तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवताम् , ततः संव­त्स­रा­दा­दि­त्यम् , आदि­त्या­च्च­न्द्र­म­सम् , चन्द्रमसो विद्युतम् । तत् तत्रस्थान् तान् पुरुषः कश्चि­द्ब्र­ह्म­लो­का­देत्य अमानवः मानव्यां सृष्टौ भवः मानवः न मानवः अमानवः स पुरुषः एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृ­ग­न्त­व्य­ग­म­यि­तृ­त्व­व्य­प­दे­शेभ्यः, सन्मा­त्र­ब्र­ह्म­प्राप्तौ तदनुपपत्तेः । ‘ब्रह्मैव सन्ब्र­ह्मा­प्येति’(बृ. उ. ४ । ४ । ६) इति हि तत्र वक्तुं न्याय्यम् । सर्वभेदनिरासेन सन्मा­त्र­प्र­ति­पत्तिं वक्ष्यति । न च अदृष्टो मार्गोऽ­ग­म­ना­यो­प­ति­ष्ठते, ‘स एनमविदितो न भुनक्ति’(बृ. उ. १ । ४ । १५) इति श्रुत्यन्तरात् । एष देवपथः देवै­र­र्चि­रा­दि­भि­र्ग­म­यि­तृ­त्वे­ना­धि­कृ­तै­रु­प­ल­क्षितः पन्था देवपथ उच्यते । ब्रह्म गन्तव्यं तेन च उपलक्षित इति ब्रह्मपथः । एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टि­ल­क्ष­ण­मा­वर्तं नावर्तन्ते आव­र्त­न्तेऽ­स्मि­ञ्ज­न­न­म­र­ण­प्र­ब­न्ध­च­क्रा­रूढा घटी­य­न्त्र­व­त्पुनः पुनरित्यावर्तः तं न प्रतिपद्यन्ते । नावर्तन्ते इति द्विरुक्तिः सफलाया विद्यायाः परि­स­मा­प्ति­प्र­द­र्श­नार्था ॥

इति पञ्च­द­श­ख­ण्ड­भा­ष्यम् ॥

षोडशः खण्डः

रहस्यप्रकरणे प्रसङ्गात् आर­ण्य­क­त्व­सा­मा­न्याच्च यज्ञे क्षत उत्पन्ने व्याहृतयः प्राय­श्चि­त्तार्था विधातव्याः, तदभिज्ञस्य च ऋत्विजो ब्रह्मणो मौनमित्यत इदमारभ्यते —

एष ह वै यज्ञो योऽयं पवत एष ह यन्निदं सर्वं पुनाति यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥

एष वै एष वायुः योऽयं पवते अयं यज्ञः । ह वै इति प्रसि­द्धा­र्था­व­द्यो­तकौ निपातौ । वायुप्रतिष्ठो हि यज्ञः प्रसिद्धः श्रुतिषु, ‘स्वाहरा वातेधाः’ ‘अयं वै यज्ञो योऽयं पवते’(ऐ. ब्रा. २५ । ८) इत्या­दि­श्रु­तिभ्यः । वात एव हि चल­ना­त्म­क­त्वा­त्क्रि­या­स­म­वायी, ‘वात एव यज्ञस्यारम्भको वातः प्रतिष्ठा’ इति च श्रवणात् । एष ह यन् गच्छन् चलन् इदं सर्वं जगत् पुनाति पावयति शोधयति । न हि अचलतः शुद्धिरस्ति । दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य । यत् यस्माच्च यन् एष इदं सर्वं पुनाति, तस्मादेष एव यज्ञः यत्पुनातीति । तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृता, मनश्च यथा­भू­ता­र्थ­ज्ञाने व्यापृतम् , ते एते वाङ्मनसे वर्तनी मार्गौ, याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी ; ‘प्राणा­पा­न­प­रि­च­ल­न­वत्या हि वाचश्चित्तस्य चोत्त­रो­त्त­र­क्रमो यद्यज्ञः’(ऐ. आ. २ । ३) इति हि श्रुत्यन्तरम् । अतो वाङ्मनसाभ्यां यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्येते यज्ञस्य ॥

तयोरन्यतरां मनसा संस्करोति ब्रह्मा वाचा होता­ध्व­र्यु­रु­द्गा­ता­न्य­तरां स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ २ ॥

अन्यतरामेव वर्तनीꣳ सꣳस्करोति हीयतेऽन्यतरा स यथै­क­पा­द्व्र­ज­न्‌रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञं रिष्यन्तं यज­मा­नोऽ­नु­रि­ष्यति स इष्ट्वा पापीयान्भवति ॥ ३ ॥

तयोः वर्तन्योः अन्यतरां वर्तनीं मनसा विवेकज्ञानवता संस्करोति ब्रह्मा ऋत्विक् , वाचा वर्तन्या होता­ध्व­र्यु­रु­द्गाता इत्येते त्रयोऽपि ऋत्विजः अन्यतरां वाग्लक्षणां वर्तनीं वाचैव संस्कुर्वन्ति । तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे । अथ स ब्रह्मा यत्र यस्मिन्काले उपाकृते प्रारब्धे प्रातरनुवाके शस्त्रे, पुरा पूर्वं परिधानीयाया ऋचः ब्रह्मा एतस्मिन्नन्तरे काले व्यवदति मौनं परित्यजति यदि, तदा अन्यतरामेव वाग्वर्तनीं संस्करोति । ब्रह्मणा संस्क्रियमाणा मनोवर्तनी हीयते विनश्यति छिद्रीभवति अन्यतरा ; स यज्ञः वाग्वर्तन्यैव अन्यतरया वर्ति­तु­म­श­क्नु­वन् रिष्यति । कथमिवेति, आह — स यथैकपात् पुरुषः व्रजन् गच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छन् रिष्यति, एवमस्य यजमानस्य कुब्रह्मणा यज्ञो रिष्यति विनश्यति । यज्ञं रिष्यन्तं यज­मा­नोऽ­नु­रि­ष्यति । यज्ञप्राणो हि यजमानः । अतो युक्तो यज्ञरेषे रेषस्तस्य । सः तं यज्ञमिष्ट्वा तादृशं पापीयान् पापतरो भवति ॥

अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥

स यथो­भ­य­पा­द्व्र­ज­न्‌रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रति­ति­ष्ठ­त्ये­व­मस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यज­मा­नोऽ­नु­प्र­ति­ति­ष्ठति स इष्ट्वा श्रेयान्भवति ॥ ५ ॥

अथ पुनः यत्र ब्रह्मा विद्वान् मौनं परिगृह्य वाग्वि­स­र्ग­म­कु­र्वन् वर्तते याव­त्प­रि­धा­नी­याया न व्यवदति, तथैव सर्वर्त्विजः, उभे एव वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरापि । किमिवेत्याह पूर्वो­क्त­वि­प­रीतौ दृष्टान्तौ । एवमस्य यजमानस्य यज्ञः स्ववर्तनीभ्यां वर्तमानः प्रतितिष्ठति स्वेन आत्म­ना­वि­न­श्य­न्व­र्तत इत्यर्थः । यज्ञं प्रतितिष्ठन्तं यज­मा­नोऽ­नु­प्र­ति­ति­ष्ठति । सः यजमानः एवं मौन­वि­ज्ञा­न­व­द्ब्र­ह्मो­पेतं यज्ञमिष्ट्वा श्रेयान्भवति श्रेष्ठो भवतीत्यर्थः ॥

इति षोडशखण्डभाष्यम् ॥

सप्तदशः खण्डः

अत्र ब्रह्मणो मौनं विहितम् , तद्रेषे ब्रह्मत्वकर्मणि च अथान्यस्मिंश्च हौत्रा­दि­क­र्म­रेषे व्याहृतिहोमः प्राय­श्चि­त्त­मिति तदर्थं व्याहृतयो विधातव्या इत्याह —

प्रजा­प­ति­र्लो­का­न­भ्य­त­प­त्तेषां तप्यमानानां रसा­न्प्रा­वृ­ह­दग्निं पृथिव्या वायु­म­न्त­रि­क्षा­दा­दित्यं दिवः ॥ १ ॥

प्रजापतिः लोकानभ्यतपत् लोकानुद्दिश्य तत्र सारजिघृक्षया ध्यानलक्षणं तपश्चचार । तेषां तप्यमानानां लोकानां रसान् सार­रू­पा­न्प्रा­वृ­हत् उद्धृतवान् जग्राहेत्यर्थः । कान् ? अग्निं रसं पृथिव्याः, वायु­म­न्त­रि­क्षात् , आदित्यं दिवः ॥

स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाꣳ रसा­न्प्रा­वृ­ह­द­ग्ने­र्‌ऋचो वायोर्यजूंषि सामा­न्या­दि­त्यात् ॥ २ ॥

पुन­र­प्ये­व­मे­वा­ग्न्याद्याः स एतास्तिस्रो देवता उद्दिश्य अभ्यतपत् । ततोऽपि सारं रसं त्रयीविद्यां जग्राह ॥

स एतां त्रयीं विद्या­म­भ्य­त­प­त्त­स्या­स्त­प्य­मा­नाया रसा­न्प्रा­वृ­ह­द्भू­रि­त्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥

तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं सन्दधाति ॥ ४ ॥

स एतां पुनरभ्यतपत् त्रयीं विद्याम् । तस्या­स्त­प्य­मा­नाया रसं भूरिति व्याहृतिम् ऋग्भ्यो जग्राह ; भुवरिति व्याहृतिं यजुर्भ्यः ; स्वरिति व्याहृतिं सामभ्यः । अत एव लोकदेववेदरसा महाव्याहृतयः । अतः तत् तत्र यज्ञे यदि ऋक्तः ऋक्स­म्ब­न्धा­दृ­ङ्नि­मित्तं रिष्येत् यज्ञः क्षतं प्राप्नुयात् , भूः स्वाहेति गार्हपत्ये जुहुयात् । सा तत्र प्रायश्चित्तिः । कथम् ? ऋचामेव, तदिति क्रियाविशेषणम् , रसेन ऋचां विर्येण ओजसा ऋचां यज्ञस्य ऋक्सम्बन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षत­रू­प­मु­त्पन्नं सन्दधाति प्रतिसन्धत्ते ॥

स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहु­या­द्य­जु­षा­मेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं सन्दधाति ॥ ५ ॥

अथ यदि सामतो रिष्येत्स्वः स्वाहे­त्या­ह­व­नीये जुहु­या­त्सा­म्ना­मेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं सन्दधाति ॥ ६ ॥

अथ यदि यजुष्टो यजुर्निमित्तं रिष्येत् , भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् । तथा सामनिमित्ते रेषे स्वः स्वाहे­त्या­ह­व­नीये जुहुयात् । तथा पूर्ववद्यज्ञं सन्दधाति । ब्रह्मनिमित्ते तु रेषे त्रिष्वग्निषु तिसृ­भि­र्व्या­हृ­ति­भि­र्जु­हु­यात् । त्रय्या हि विद्यायाः स रेषः, ‘अथ केन ब्रह्म­त्व­मि­त्य­न­यैव त्रय्या विद्यया’(?) इति श्रुतेः । न्यायान्तरं वा मृग्यं ब्रह्म­त्व­नि­मित्ते रेषे ॥

तद्यथा लवणेन सुवर्णं सन्द­ध्या­त्सु­व­र्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥

एवमेषां लोकानामासां देव­ता­ना­म­स्या­स्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रै­वं­वि­द्ब्रह्मा भवति ॥ ८ ॥

तद्यथा लवणेन सुवर्णं सन्दध्यात् । क्षारेण टङ्कणादिना खरे मृदुत्वकरं हि तत् । सुवर्णेन रजतमशक्यसन्धानं सन्दध्यात् । रजतेन तथा त्रपु, त्रपुणा सीसम् , सीसेन लोहम् , लोहेन दारु, दारु चर्मणा चर्मबन्धनेन । एवमेषां लोकानामासां देव­ता­ना­म­स्या­स्त्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं सन्दधाति । भेषजकृतो ह वा एष यज्ञः — रोगार्त इव पुमां­श्चि­कि­त्स­केन सुशिक्षितेन एष यज्ञो भवति । कोऽसौ ? यत्र यस्मिन्यज्ञे एवंवित् यथो­क्त­व्या­हृ­ति­हो­म­प्रा­य­श्चि­त्त­वित् ब्रह्मा ऋत्विग्भवति स यज्ञ इत्यर्थः ॥

एष ह वा उदक्प्रवणो यज्ञो यत्रै­वं­वि­द्ब्रह्मा भवत्येवंविदं ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ ९ ॥

किं च, एष ह वा उदक्प्रवण उदङ्निम्नो दक्षिणोच्छ्रायो यज्ञो भवति ; उत्त­र­मा­र्ग­प्र­ति­प­त्ति­हे­तु­रि­त्यर्थः । यत्रै­वं­वि­द्ब्रह्मा भवति । एवंविदं ह वै ब्रह्माणम् ऋत्विजं प्रति एषा अनुगाथा ब्रह्मणः स्तुतिपरा — यतो यत आवर्तते कर्म प्रदेशात् ऋत्विजां यज्ञः क्षतीभवन् , तत्तद्यज्ञस्य क्षतरूपं प्रतिसन्दधत् प्रायश्चित्तेन गच्छति परि­पा­ल­य­ती­त्ये­तत् ॥

मानवो ब्रह्मैवैक ऋत्वि­क्कु­रू­न­श्वा­भि­र­क्ष­त्ये­वं­विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वां­श्च­र्त्वि­जोऽ­भि­र­क्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥

१०

मानवो ब्रह्मा मौना­च­र­णा­न्म­न­नाद्वा ज्ञानवत्त्वात् ; ततो ब्रह्मैवैकः ऋत्विक् कुरून् कर्तॄन् — योद्धॄ­ना­रू­ढा­नश्वा बडबा यथा अभिरक्षति, एवंवित् ह वै ब्रह्मा यज्ञं यजमानं सर्वांश्च ऋत्वि­जोऽ­भि­र­क्षति, तत्कृ­त­दो­षा­प­न­य­नात् । यत एवं विशिष्टो ब्रह्मा विद्वान् , तस्मादेवंविदमेव यथो­क्त­व्या­हृ­त्या­दि­विदं ब्रह्माणं कुर्वीत, नानेवंविदं कदाचनेति । द्विर­भ्या­सोऽ­ध्या­य­प­रि­स­मा­प्त्यर्थः ॥

इति सप्त­द­श­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ छान्दो­ग्यो­प­नि­ष­द्भाष्ये चतुर्थोऽध्यायः समाप्तः ॥