अद्वैतशारदा

छान्दोग्योपनिषद्भाष्यम्

पञ्चमोऽध्यायः

व्याख्याः

प्रथमः खण्डः

सगु­ण­ब्र­ह्म­वि­द्याया उत्तरा गतिरुक्ता । अथेदानीं पञ्चमेऽध्याये पञ्चाग्निविदो गृहस्थस्य ऊर्ध्वरेतसां च श्रद्धालूनां विद्या­न्त­र­शी­लिनां तामेव गतिमनूद्य अन्या दक्षि­णा­दि­क्स­म्ब­न्धिनी केवलकर्मिणां धूमादिलक्षणा, पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिः, वैराग्यहेतोः वक्त­व्ये­त्या­र­भ्यते । प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशोऽतीते ग्रन्थे प्राणग्रहणं कृतम् , स कथं श्रेष्ठो वागादिषु सर्वैः संह­त्य­का­रि­त्वा­वि­शेषे, कथं च तस्योपासनमिति तस्य श्रेष्ठ­त्वा­दि­गु­ण­वि­धि­त्सया इद­म­न­न्त­र­मा­र­भ्यते —

यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥

यो ह वै कश्चित् ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैरभ्यधिकं वेद, स ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । फलेन पुरुषं प्रलो­भ्या­भि­मु­खी­कृत्य आह — प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः ; गर्भस्थे हि पुरुषे प्राणस्य वृत्ति­र्वा­गा­दि­भ्यः­पूर्वं लब्धात्मिका भवति, यया गर्भो विवर्धते । चक्षु­रा­दि­स्था­ना­व­य­व­नि­ष्पत्तौ सत्यां पश्चा­द्वा­गा­दीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति । श्रेष्ठत्वं तु प्रतिपादयिष्यति — ‘सुहय’ इत्या­दि­नि­द­र्श­नेन । अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्च अस्मि­न्का­र्य­क­र­ण­स­ङ्घाते ॥

यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ २ ॥

यो ह वै वसिष्ठं वसि­तृ­त­म­मा­च्छा­द­यि­तृ­तमं वसुमत्तमं वा यो वेद, स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् । कस्तर्हि वसिष्ठ इति, आह — वाग्वाव वसिष्ठः, वाग्मिनो हि पुरुषा वसन्ति अभि­भ­व­न्त्य­न्यान् वसुमत्तमाश्च, अतो वाग्वसिष्ठः ॥

यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठ­त्यस्मिꣳश्च लोकेऽमुष्मिꣳश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥

यो ह वै प्रतिष्ठां वेद, स अस्मिंल्लोके अमुष्मिंश्च परे प्रतितिष्ठति ह । का तर्हि प्रतिष्ठेति, आह — चक्षुर्वाव प्रतिष्ठा । चक्षुषा हि पश्यन् समे च दुर्गे च प्रतितिष्ठति यस्मात् , अतः प्रतिष्ठा चक्षुः ॥

यो ह वै सम्पदं वेद सꣳहास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥

यो ह वै सम्पदं वेद, तस्मा अस्मै दैवाश्च मानुषाश्च कामाः सम्पद्यन्ते ह । का तर्हि सम्पदिति, आह — श्रोत्रं वाव सम्पत् । यस्मा­च्छ्रो­त्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च, ततः कर्माणि क्रियन्ते ततः काम­स­म्प­दि­त्ये­वम् , काम­स­म्प­द्धे­तु­त्वा­च्छ्रोत्रं वाव सम्पत् ॥

यो ह वा आयतनं वेदायतनꣳ ह स्वानां भवति मनो ह वा आयतनम् ॥ ५ ॥

यो ह वा आयतनं वेद, आयतनं ह म्वानां भवतीत्यर्थः । किं तदायतनमिति, आह — मनो ह वा आयतनम् । इन्द्रि­यो­प­हृ­तानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपाणां मन आयतनमाश्रयः । अतो मनो ह वा आयतनमित्युक्तम् ॥

अथ ह प्राणा अहꣳ श्रेयसि व्यूदिरेऽहꣳ श्रेयानस्म्यहꣳ श्रेयानस्मीति ॥ ६ ॥

अथ ह प्राणाः एवं यथोक्तगुणाः सन्तः अहंश्रेयसि अहं श्रेयानस्मि अहं श्रेयानस्मि इत्ये­त­स्मि­न्प्र­यो­जने व्यूदिरेनाना विरुद्धं चोदिरे उक्तवन्तः ॥

ते ह प्राणाः प्रजापतिं पित­र­मे­त्यो­चु­र्भ­ग­वन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥

ते ह ते हैवं विवदमाना आत्मनः श्रेष्ठ­त्व­वि­ज्ञा­नाय प्रजापतिं पितरं जनयितारं कञ्चिदेत्य ऊचुः उक्तवन्तः — हे भगवन् कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः ? इत्येवं पृष्टवन्तः । तान् पितोवाच ह — यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापि­ष्ठ­मि­वा­ति­श­येन जीवतोऽपि समु­त्क्रा­न्त­प्राणं ततोऽपि पापि­ष्ठ­त­र­मि­वा­ति­श­येन दृश्येत कुण­प­म­स्पृ­श्य­म­शुचिं दृश्येत, सः वः युष्माकं श्रेष्ठ इत्यवोचत् काक्वा तद्दुःखं परिजिहीर्षुः ॥

सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन पश्य­न्त­श्च­क्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥

चक्षु­र्हो­च्च­क्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ९ ॥

श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्य­न्त­श्च­क्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १० ॥

१०

मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्य­न्त­श्च­क्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ११ ॥

११

तथोक्तेषु पित्रा प्राणेषु सा ह वाक् उच्चक्राम उत्क्रान्तवती ; सा च उत्क्रम्य संवत्सरमात्रं प्रोष्य स्वव्या­पा­रा­न्नि­वृत्ता सती पुनः पर्येत्य इत­रा­न्प्रा­णा­नु­वाच — कथं केन प्रकारेणाशकत शक्तवन्तो यूयं मदृते मां विना जीवितुं धार­यि­तु­मा­त्मा­न­मिति ; ते ह ऊचुः — यथा कला इत्यादि, कलाः मूकाः यथा लोकेऽवदन्तो वाचा जीवन्ति । कथम् । प्राणन्तः प्राणेन पश्य­न्त­श्च­क्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसा, एवं सर्वकरणचेष्टां कुर्वन्त इत्यर्थः । एवं वय­म­जी­वि­ष्मे­त्यर्थः । आत्म­नोऽ­श्रे­ष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक् पुनः स्वव्यापारे प्रवृत्ता बभूवेत्यर्थः । समानमन्यत् चक्षु­र्हो­च्च­क्राम श्रोत्रं होच्चक्राम मनो होच्च­क्रा­मे­त्यादि । यथा बाला अमनसः अप्ररूढमनस इत्यर्थः ॥

अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वी­श­श­ङ्कू­न्स­ङ्खि­दे­दे­व­मि­त­रा­न्प्रा­णा­न्स­म­खि­दत्तं हाभि­स­मे­त्यो­चु­र्भ­ग­व­न्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥

१२

एवं परीक्षितेषु वागादिषु, अथ अनन्तरं ह स मुख्यः प्राणः उच्चिक्रमिषन् उत्क्र­मि­तु­मि­च्छन् किमकरोदिति, उच्यते — यथा लोके सुहयः शोभनोऽश्वः पड्वीशशङ्कून् पादबन्धनकीलान् परीक्षणाय आरूढेन कशया हतः सन् सङ्खिदेत् समुत्खनेत् समुत्पाटयेत् , एव­मि­त­रा­न्वा­गा­दी­न्प्रा­णान् समखिदत् समुद्धृतवान् । ते प्राणाः सञ्चालिताः सन्तः स्वस्थाने स्थातु­म­नु­त्स­ह­मानाः अभिसमेत्य मुख्यं प्राणं तमूचुः — हे भगवन् एधि भव नः स्वामी, यस्मात् त्वं नः श्रेष्ठोऽसि ; मा च अस्मा­द्दे­हा­दु­त्क्र­मी­रिति ॥

अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्व­सि­ष्ठोऽ­सी­त्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्र­ति­ष्ठा­सीति ॥ १३ ॥

१३

अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥

१४

अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येण आपादयन्तः आहुः — बलिमिव हरन्तो राज्ञे विशः । कथम् ? वाक् तावदुवाच — यदहं वसिष्ठोऽस्मि, यदिति क्रियाविशेषणम् , यद्व­सि­ष्ठ­त्व­गु­णा­स्मी­त्यर्थः ; त्वं तद्वसिष्ठः तेन वसिष्ठत्वगुणेन त्वं तद्वसिष्ठोऽसि तद्गु­ण­स्त्व­मि­त्यर्थः । अथवा तच्छब्दोऽपि क्रियाविशेषणमेव । त्वत्कृ­त­स्त्व­दी­योऽसौ वसि­ष्ठ­त्व­गु­णोऽ­ज्ञा­ना­न्म­मेति मया अभिमत इत्येतत् । तथोत्तरेषु योज्यं चक्षुः­श्रो­त्र­म­नःसु ॥

न वै वाचो न चक्षूंषि न श्रोत्राणि न मनां­सी­त्या­च­क्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥

१५

श्रुतेरिदं वचः — युक्तमिदं वागा­दि­भि­र्मुख्यं प्राणं प्रत्यभिहितम् ; यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा ; किं तर्हि, प्राणा इत्येव आचक्षते कथयन्ति ; यस्मात्प्राणो ह्येवैतानि सर्वाणि वागादीनि करणजातानि भवति ; अतो मुख्यं प्राणं प्रत्यनुरूपमेव वागा­दि­भि­रु­क्त­मिति प्रक­र­णा­र्थ­मु­प­स­ञ्जि­ही­र्षति ॥

ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तः अन्योन्यं स्पर्धेरन्निति ; न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति ; तथा अपगमो देहात् पुनः प्रवेशो ब्रह्मगमनं प्राण­स्तु­ति­र्वो­प­प­द्यते । तत्र अग्न्या­दि­चे­त­ना­व­द्दे­व­ता­धि­ष्ठि­त­त्वात् वागादीनां चेतनावत्त्वं तावत् सिद्धमागमतः । तार्किकसमयविरोध इति चेत् देहे एक­स्मि­न्न­ने­क­चे­त­ना­वत्त्वे, न, ईश्वरस्य निमि­त्त­का­र­ण­त्वा­भ्यु­प­ग­मात् । ये ताव­दी­श्व­र­म­भ्यु­प­ग­च्छन्ति तार्किकाः, ते मन­आ­दि­का­र्य­क­र­णा­ना­मा­ध्या­त्मि­कानां बाह्यानां च पृथि­व्या­दी­ना­मी­श्व­रा­धि­ष्ठि­ता­ना­मेव नियमेन प्रवृ­त्ति­मि­च्छन्ति — रथादिवत् । न च अस्माभिः अग्न्या­द्या­श्चे­त­ना­व­त्योऽपि देवता अध्यात्मं भोक्त्र्यः अभ्युपगम्यन्ते ; किं तर्हि, कार्यकरणवतीनां हि तासां प्राणै­क­दे­व­ता­भे­दा­ना­म­ध्या­त्मा­धि­भू­ता­धि­दै­व­भे­द­को­टि­वि­क­ल्पा­ना­म­ध्य­क्ष­ता­मा­त्रेण नियन्ता ईश्व­रोऽ­भ्यु­प­ग­म्यते । स ह्यकरणः, ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’(श्वे. उ. ३ । १९) इत्या­दि­म­न्त्र­व­र्णात् ; ‘हिरण्यगर्भं पश्यत जायमानम्’(श्वे. उ. ४ । १२) ‘हिरण्यगर्भं जनयामास पूर्वम्’(श्वे. उ. ३ । ४) इत्यादि च श्वेताश्वतरीयाः पठन्ति । भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः । वागादीनां च इह संवादः कल्पितः विदु­षोऽ­न्व­य­व्य­ति­रे­काभ्यां प्राण­श्रे­ष्ठ­ता­नि­र्धा­र­णा­र्थम्— यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमानाः कञ्चि­द्गु­ण­वि­शे­षा­भिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति ; तेनोक्ता ऐकैकश्येन अदः कार्यं साध­यि­तु­मु­द्य­च्छत, येनादः कार्यं साध्यते, स वः श्रेष्ठः — इत्युक्ताः तथैवोद्यच्छन्तः आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति — तथेमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः — कथं नाम विद्वान् वागा­दी­ना­मे­कै­क­स्या­भा­वेऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्येतेति । तथा च श्रुतिः कौषीतकिनाम् — ‘जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षु­र­पे­तोऽ­न्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीव­त्यू­रु­च्छिन्नः’(शां. आ. ५ । ३) इत्याद्या ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥

स होवाच मुख्यः प्राणः — किं मेऽन्नं भविष्यतीति । मुख्यं प्राणं प्रष्टारमिव कल्पयित्वा वागा­दी­न्प्र­ति­व­क्तॄ­निव कल्पयन्ती श्रुतिराह — यदिदं लोकेऽन्नजातं प्रसिद्धम् आ श्वभ्यः श्वभिः सह आ शकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नम् , तत् तवान्नमिति होचुर्वागादय इति । प्राण­स्य­स­र्व­मन्नं प्राणोऽत्ता सर्व­स्या­न्न­स्ये­त्येवं प्रतिपत्तये कल्पि­ता­ख्या­यि­का­रू­पा­द्व्या­वृत्य स्वेन श्रुतिरूपेण आह — तद्वै एतत् यत्किञ्चिल्लोके प्राणि­भि­र­न्न­म­द्यते, अनस्य प्राणस्य तदन्नं प्राणेनैव तदद्यत इत्यर्थः । सर्व­प्र­का­र­चे­ष्टा­व्या­प्ति­गु­ण­प्र­द­र्श­ना­र्थम् अन इति प्राणस्य प्रत्यक्षं नाम । प्राद्यु­प­स­र्ग­पू­र्वत्वे हि विशेषगतिरेव स्यात् । तथा च सर्वा­न्ना­ना­म­त्तु­र्ना­म­ग्र­ह­ण­मि­तीदं प्रत्यक्षं नाम अन इति सर्वा­न्ना­ना­मत्तुः साक्षादभिधानम् । न ह वा एवंविदि यथोक्तप्राणविदि प्राणोऽहमस्मि सर्वभूतस्थः सर्वा­न्ना­ना­म­त्तेति, तस्मिन्नेवंविदि ह वै किञ्चन किञ्चिदपि प्राणिभिरद्यं सर्वैः अनन्नम् अनद्यं न भवति, सर्व­मे­वं­वि­द्यन्नं भवतीत्यर्थः, प्राण­भू­त­त्वा­द्वि­दुषः, ‘प्राणाद्वा एष उदेति प्राणेऽस्तमेति’ इत्युपक्रम्य ‘एवंविदो ह वा उदेति सूर्य एवं­वि­द्य­स्त­मेति’(?) इति श्रुत्यन्तरात् ॥

स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुर­स्ता­च्चो­प­रि­ष्टा­च्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ २ ॥

स ह उवाच पुनः प्राणः — पूर्ववदेव कल्पना । किं मे वासो भविष्यतीति । आप इति होचुर्वागादयः । यस्मात्प्राणस्य वासः आपः, तस्माद्वा एतदशिष्यन्तः भोक्ष्यमाणा भुक्तवन्तश्च ब्राह्मणा विद्वांसः एतत्कुर्वन्ति । किम् ? अद्भिः वासस्थानीयाभिः पुरस्तात् भोजनात्पूर्वम् उपरिष्टाच्च भोजनादूर्ध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य । लम्भुको लम्भनशीलो वासो ह भवति ; वाससो लब्धैव भवतीत्यर्थः । अनग्नो ह भवति । वाससो लम्भु­क­त्वे­ना­र्थ­सि­द्धै­वा­न­ग्न­तेति अनग्नो ह भव­ती­त्यु­त्त­री­य­वा­न्भ­व­ती­त्ये­तत् ॥

भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्ध्यर्थं विज्ञातम् , तस्मिन् प्राणस्य वास इति दर्शनमात्रमिह विधीयते — अद्भिः परिदधतीति ; न आचमनान्तरम् — यथा लौकिकैः प्राणि­भि­र­द्य­मा­न­मन्नं प्राणस्येति दर्शनमात्रम् , तद्वत् ; किं मेऽन्नं किं मे वास इत्या­दि­प्र­श्न­प्र­ति­व­च­न­यो­स्तु­ल्य­त्वात् । यद्याचमनमपूर्वं तादर्थ्येन क्रियेत, तदा कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् । तुल्य­यो­र्वि­ज्ञा­ना­र्थयोः प्रश्न­प्र­ति­व­च­नयोः प्रकरणस्य विज्ञा­ना­र्थ­त्वा­द­र्ध­ज­र­तीयो न्यायो न युक्तः कल्पयितुम् । यत्तु प्रसिद्धमाचमनं प्रायत्यार्थं प्राण­स्या­न­ग्न­तार्थं च न भवतीत्युच्यते, न तथा वय­मा­च­म­न­मु­भ­यार्थं ब्रूमः । किं तर्हि, प्राय­त्या­र्था­च­म­न­सा­ध­न­भूता आपः प्राणस्य वास इति दर्शनं चोद्यत इति ब्रूमः । तत्र आच­म­न­स्यो­भ­या­र्थ­त्व­प्र­स­ङ्ग­दो­ष­चो­दना अनुपपन्ना । वासोऽर्थ एव आचमने तद्दर्शनं स्यादिति चेत् , न, वासो­ज्ञा­ना­र्थ­वाक्ये वासो­र्था­पू­र्वा­च­म­न­वि­धाने तत्रा­न­ग्न­ता­र्थ­त्व­दृ­ष्टि­वि­धाने च वाक्यभेदः । आचमनस्य तद­र्थ­त्व­म­न्या­र्थत्वं चेति प्रमाणाभावात् ॥

तद्धै­त­त्स­त्य­कामो जाबालो गोश्रुतये वैया­घ्र­प­द्या­यो­क्त्वो­वाच यद्य­प्ये­न­च्छु­ष्काय स्थाणवे ब्रूया­ज्जा­ये­र­न्ने­वा­स्मि­ञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥

तदे­त­त्प्रा­ण­द­र्शनं स्तूयते । कथम् ? तद्धै­त­त्प्रा­ण­द­र्शनं सत्यकामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्र­प­दोऽ­पत्यं वैयाघ्रपद्यः तस्मै गोश्रुत्याख्याय उक्त्वा उवाच अन्यदपि वक्ष्यमाणं वचः । किं तदुवाचेति, आह — यद्यपि शुष्काय स्थाणवे एतद्दर्शनं ब्रूया­त्प्रा­ण­वित् , जायेरन् उत्पद्येरन्नेव अस्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्राणि, किमु जीवते पुरुषाय ब्रूयादिति ॥

यथो­क्त­प्रा­ण­द­र्श­न­विदः इदं मन्थाख्यं कर्म आरभ्यते —

अथ यदि मह­ज्जि­ग­मि­षे­द­मा­वा­स्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहे­त्य­ग्ना­वा­ज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ४ ॥

अथ अनन्तरं यदि महत् महत्त्वं जिगमिषेत् गन्तुमिच्छेत् , महत्त्वं प्राप्तुं यदि कामयेतेत्यर्थः, तस्येदं कर्म विधीयते । महत्त्वे हि सति श्रीरुपनमते । श्रीमतो हि अर्थप्राप्तं धनम् , ततः कर्मानुष्ठानम् , ततश्च देवयानं पितृयाणं वा पन्थानं प्रतिपत्स्यत इत्ये­त­त्प्र­यो­ज­न­मु­र­री­कृत्य मह­त्त्व­प्रे­प्सो­रिदं कर्म, न विषयोपभोगकामस्य । तस्यायं काला­दि­वि­धि­रु­च्यते — अमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्म­च­र्य­मि­त्या­दि­ध­र्म­वा­न्भू­त्वे­त्यर्थः । न पुनर्दैक्षमेव कर्मजातं सर्वमुपादत्ते, अत­द्वि­का­र­त्वा­न्म­न्था­ख्यस्य कर्मणः । ‘उपसद्व्रती’(बृ. उ. ६ । ३ । १) इति श्रुत्यन्तरात् पयोमात्रभक्षणं च शुद्धिकारणं तप उपादत्ते । पौर्णमास्यां रात्रौ कर्म आरभते — सर्वौषधस्य ग्राम्या­र­ण्या­ना­मो­ष­धीनां याव­च्छ­क्त्य­ल्प­म­ल्प­मु­पा­दाय तद्वितुषीकृत्य आममेव पिष्टं दधि­म­धु­नो­रौ­दु­म्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्य­न्त­रा­त्प्र­क्षिप्य उपमथ्य अग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहे­त्य­ग्ना­वा­व­सथ्ये आज्यस्य आवापस्थाने हुत्वा स्रुवसंलग्नं मन्थे सम्पातमवनयेत् संस्रवमधः पातयेत् ॥

वसिष्ठाय स्वाहे­त्य­ग्ना­वा­ज्यस्य हुत्वा मन्थे सम्पा­त­म­व­न­ये­त्प्र­ति­ष्ठायै स्वाहे­त्य­ग्ना­वा­ज्यस्य हुत्वा मन्थे सम्पा­त­म­व­न­ये­त्स­म्पदे स्वाहे­त्य­ग्ना­वा­ज्यस्य हुत्वा मन्थे सम्पा­त­म­व­न­ये­दा­य­त­नाय स्वाहे­त्य­ग्ना­वा­ज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५ ॥

समानमन्यत् , वसिष्ठाय प्रतिष्ठायै सम्पदे आयतनाय स्वाहेति, प्रत्येकं तथैव सम्पातमवनयेत् हुत्वा ॥

अथ प्रति­सृ­प्या­ञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठ्यꣳ श्रैष्ठ्यꣳ राज्यमाधिपत्यं गमयत्वहमेवेदं सर्वमसानीति ॥ ६ ॥

अथ प्रतिसृप्य अग्नेरीषदपसृत्य अञ्जलौ मन्थमाधाय जपति इमं मन्त्रम् — अमो नामास्यमा हि ते ; अम इति प्राणस्य नाम । अन्नेन हि प्राणः प्राणिति देहे इत्यतो मन्थद्रव्यं प्राणस्य अन्नत्वात् प्राणत्वेन स्तूयते अमो नामासीति ; कुतः ? यतः अमा सह हि यस्मात्ते तव प्राणभूतस्य सर्वं समस्तं जगदिदम् , अतः । स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च ; अत एव च राजा दीप्तिमान् अधिपतिश्च अधिष्ठाय पालयिता सर्वस्य । सः मा मामपि मन्थः प्राणो ज्यैष्ठ्या­दि­गु­ण­पू­ग­मा­त्मनः गमयतु, अहमेवेदं सर्वं जगदसानि भवानि प्राणवत् । इति - शब्दो मन्त्र­प­रि­स­मा­प्त्यर्थः ॥

अथ खल्वेतयर्चा पच्छ आचामति तत्स­वि­तु­र्वृ­णी­मह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं सर्व­धा­त­म­मि­त्या­चा­मति तुरं भगस्य धीमहीति सर्वं पिबति निर्णिज्य कंसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥ ७ ॥

अथ अनन्तरं खलु एतया वक्ष्यमाणया ऋचा पच्छः पादशः आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं ग्रासं भक्षयति । तत् भोजनं सवितुः सर्वस्य प्रसवितुः, प्राणमादित्यं च एकीकृत्योच्यते, आदित्यस्य वृणीमहे प्रार्थयेमहि मन्थरूपम् ; येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं सवि­तृ­स्व­रू­पा­पन्ना भवे­मे­त्य­भि­प्रायः । देवस्य सवितुरिति पूर्वेण सम्बन्धः । श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतो धारयितृतमम् अतिशयेन विधातृतममिति वा ; सर्वथा भोजनविशेषणम् । तुरं त्वरं तूर्णं शीघ्रमित्येतत् , भगस्य देवस्य सवितुः स्वरूपमिति शेषः ; धीमहि चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुद्धात्मानः सन्त इत्यभिप्रायः । अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धीमहि चिन्तयेमहीति सर्वं च मन्थलेपं पिबति । निर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं चमसाकारं वा औदुम्बरं पात्रम् ; पीत्वा आचम्य पश्चादग्नेः प्राक्शिराः संविशति चर्मणि वा अजिने स्थण्डिले केवलायां वा भूमौ, वाचंयमो वाग्यतः सन्नित्यर्थः, अप्रसाहो न प्रसह्यते नाभिभूयते स्त्र्याद्य­नि­ष्ट­स्व­प्न­द­र्श­नेन यथा, तथा संयतचित्तः सन्नित्यर्थः । स एवंभूतो यदि स्त्रियं पश्ये­त्स्व­प्नेषु तदा विद्यात्समृद्धं ममेदं कर्मेति ॥

तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु पश्यति समृद्धिं तत्र जानी­या­त्त­स्मि­न्स्व­प्न­नि­द­र्शने तस्मि­न्स्व­प्न­नि­द­र्शने ॥ ८ ॥

तदेतस्मिन्नर्थे एष श्लोको मन्त्रोऽपि भवति — यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा पश्यति, समृद्धिं तत्र जानीयात् , कर्मणां फल­नि­ष्प­त्ति­र्भ­वि­ष्य­तीति जानीयादित्यर्थः ; तस्मिं­स्त्र्या­दि­प्र­श­स्त­स्व­प्न­द­र्शने सतीत्यभिप्रायः । द्विरुक्तिः कर्म­स­मा­प्त्यर्था ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥

तृतीयः खण्डः

ब्रह्मा­दि­स्त­म्ब­प­र्यन्ताः संसारगतयो वक्तव्याः वैरा­ग्य­हे­तो­र्मु­मु­क्षू­णाम् इत्यत आख्यायिका आरभ्यते —

श्वेत­के­तु­र्हा­रु­णेयः पञ्चालानाꣳ समितिमेयाय तꣳ ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशि­ष­त्पि­ते­त्यनु हि भगव इति ॥ १ ॥

श्वेत­के­तु­र्ना­मतः, ह इति ऐतिह्यार्थः, अरु­ण­स्या­प­त्य­मा­रुणिः तस्या­प­त्य­मा­रु­णेयः पञ्चालानां जनपदानां समितिं सभाम् एयाय आजगाम । तमागतवन्तं ह प्रवाहणो नामतः जीवलस्यापत्यं जैवलिः उवाच उक्तवान् — हे कुमार अनु त्वा त्वाम् अशिषत् अन्वशिषत् पिता ? किम­नु­शि­ष्टस्त्वं पित्रेत्यर्थः । इत्युक्तः स आह — अनु हि अनुशिष्टोऽस्मि भगव इति सूचयन्नाह ॥

वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति न भगव इति ॥ २ ॥

तं ह उवाच — यद्य­नु­शि­ष्टोऽसि, वेत्थ यदितः अस्माल्लोकात् अधि ऊर्ध्वं यत्प्रजाः प्रयन्ति यद्गच्छन्ति, तत्किं जानीषे इत्यर्थः । न भगव इत्याह इतरः, न जानेऽहं तत् यत्पृच्छसि । एवं तर्हि, वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति । न भगव इति प्रत्याह । वेत्थ पथोर्मार्गयोः सह­प्र­या­ण­यो­र्दे­व­या­नस्य पितृयाणस्य च व्यावर्तना व्याव­र्त­न­मि­त­रे­त­र­वि­यो­ग­स्थानं सह गच्छतामित्यर्थः ॥

वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति वेत्थ यथा पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३ ॥

वेत्थ यथा असौ लोकः पितृसम्बन्धी — यं प्राप्य पुनरावर्तन्ते, बहुभिः प्रयद्भिरपि येन कारणेन न सम्पूर्यते इति । न भगव इति प्रत्याह । वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्च­स­ङ्ख्या­का­या­मा­हुतौ हुतायाम् आहुतिनिर्वृत्ता आहुतिसाधनाश्च आपः पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासां हूयमानानां क्रमेण षष्ठा­हु­ति­भू­तानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति पुरुषाख्यां लभन्त इत्यर्थः । इत्युक्तो नैव भगव इत्याह ; नैवाहमत्र किञ्चन जानामीत्यर्थः ॥

अथानु किम­नु­शि­ष्टोऽ­वो­चथा यो हीमानि न विद्यात्कथꣳ सोऽनुशिष्टो ब्रुवीतेति स हायस्तः पितुरर्धमेयाय तꣳ होवाचाननुशिष्य वाव किल मा भगवान्ब्रवीदनु त्वाशिषमिति ॥ ४ ॥

अथ एवमज्ञः सन् किमनु कस्मात्त्वम् अनु­शि­ष्टोऽ­स्मीति — अवोचथा उक्तवानसि ; यो हि इमानि मया पृष्टा­न्य­र्थ­जा­तानि न विद्यात् न विजानीयात् , कथं स विद्वत्सु अनु­शि­ष्टोऽ­स्मीति ब्रुवीत । इत्येवं स श्वेतकेतुः राज्ञा आयस्तः आयासितः सन् पितुरर्धं स्थानम् एयाय आगतवान् , तं च पितरमुवाच — अननुशिष्य अनुशासनमकृत्वैव मा मां किल भगवान् समा­व­र्त­न­का­लेऽ­ब्र­वीत् उक्तवान् अनु त्वाशिषम् अन्वशिषं त्वामिति ॥

पञ्च मा राजन्यबन्धुः प्रश्ना­न­प्रा­क्षी­त्तेषां नैकञ्चनाशकं विवक्तुमिति स होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकञ्चन वेद यद्य­ह­मि­मा­न­वे­दिष्यं कथं ते नावक्ष्यमिति ॥ ५ ॥

स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाच­म­भा­ष­था­स्ता­मेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ६ ॥

यतः पञ्च पञ्च­स­ङ्ख्या­का­न्प्र­श्नान् राजन्यबन्धुः राजन्या बन्धवोऽस्येति राजन्यबन्धुः स्वयं दुर्वृत्त इत्यर्थः, अप्राक्षीत् पृष्टवान् । तेषां प्रश्नानां नैकञ्चन एकमपि नाशकं न शक्तवानहं विवक्तुं विशेषेणार्थतो निर्णे­तु­मि­त्यर्थः । स ह उवाच पिता — यथा मा मां वत्स त्वं तदा आगतमात्र एव एतान्प्रश्नान् अवद उक्तवानसि — तेषां नैकञ्चन अशकं विवक्तुमिति, तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयमज्ञानं जानीहीत्यर्थः । कथम् । यथा अहमेषां प्रश्नानाम् एकं चन एकमपि न वेद न जाने इति — यथा त्वमेवाङ्ग एतान्प्रश्नान् न जानीषे, तथा अहमपि एतान्न जाने इत्यर्थः । अतो मय्यन्यथाभावो न कर्तव्यः । कुत एतदेवम् । यतो न जाने ; यद्य­ह­मि­मा­न्प्र­श्नान् अवेदिष्यं विदितवानास्मि, कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्तवानस्मि — इत्युक्त्वा स ह गौतमः गोत्रतः राज्ञः जैवलेः अर्धं स्थानम् एयाय गतवान् । तस्मै ह गौतमाय प्राप्ताय अर्हाम् अर्हणां चकार कृतवान् । स च गौतमः कृतातिथ्यः उषित्वा परेद्युः प्रातःकाले सभागे सभां गते राज्ञि उदेयाय । भजनं भागः पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानोऽन्यैः स्वयं गोतमः उदेयाय राजानमुद्गतवान् । तं होवाच गौतमं राजा — मानुषस्य भगवन्गौतम मनु­ष्य­स­म्ब­न्धिनो वित्तस्य ग्रामादेः वरं वरणीयं कामं वृणीथाः प्रार्थयेथाः । स ह उवाच गौतमः — तवैव तिष्ठतु राजन् मानुषं वित्तम् ; यामेव कुमारस्य मम पुत्रस्य अन्ते समीपे वाचं पञ्च­प्र­श्न­ल­क्ष­णाम् अभाषथाः उक्तवानसि, तामेव वाचं मे मह्यं ब्रूहि कथय — इत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव — कथं त्विदमिति ॥

तं ह चिरं वसे­त्या­ज्ञा­प­या­ञ्च­कार तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्म­णा­न्ग­च्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥

स ह कृच्छ्रीभूतः अप्रत्याख्येयं ब्राह्मणं मन्वानः न्यायेन विद्या वक्तव्येति मत्वा तं ह गौतमं चिरं दीर्घकालं वस — इत्ये­व­मा­ज्ञा­प­या­ञ्च­कार आज्ञप्तवान् । यत्पूर्वं प्रख्यातवान् राजा विद्याम् , यच्च पश्चाच्चिरं वसे­त्या­ज्ञ­प्त­वान् , तन्निमित्तं ब्राह्मणं क्षमापयति हेतुवचनोक्त्या । तं ह उवाच राजा — सर्वविद्यो ब्राह्मणोऽपि सन् यथा येन प्रकारेण मा मां हे गौतम अवदः त्वम् — तामेव विद्यालक्षणां वाचं मे ब्रूहि — इत्यज्ञानात् , तेन त्वं जानीहि । तत्रास्ति वक्तव्यम् — यथा येन प्रकारेण इयं विद्या प्राक् त्वत्तो ब्राह्मणान् न गच्छति न गतवती, न च ब्राह्मणा अनया विद्यया अनुशासितवन्तः, तथा एतत्प्रसिद्धं लोके यतः, तस्मादु पुरा पूर्वं सर्वेषु लोकेषु क्षत्त्रस्यैव क्षत्त्रजातेरेव अनया विद्यया प्रशासनं प्रशास्तृत्वं शिष्याणामभूत् बभूव ; क्षत्त्रि­य­प­र­म्प­र­यै­वेयं विद्या एतावन्तं कालमागता ; तथाप्यहेतां तुभ्यं वक्ष्यामि ; त्वत्स­म्प्र­दा­ना­दूर्ध्वं ब्राह्म­णा­न्ग­मि­ष्यति ; अतो मया यदुक्तम् , तत्क्ष­न्तु­म­र्ह­सी­त्युक्त्वा तस्मै ह उवाच विद्यां राजा ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥

चतुर्थः खण्डः

‘पञ्च­म्या­मा­हु­ता­वापः’ इत्ययं प्रश्नः प्राथ­म्ये­ना­पा­क्रि­यते, तदपाकरणमनु इत­रे­षा­म­पा­क­र­ण­म­नु­कूलं भवेदिति । अग्नि­हो­त्रा­हुत्योः कार्यारम्भो यः, स उक्तो वाजसनेयके — तं प्रति प्रश्नाः । उत्क्रा­न्ति­रा­हु­त्यो­र्गतिः प्रतिष्ठा तृप्तिः पुन­रा­वृ­त्ति­र्लोकं प्रत्युत्थायी इति । तेषां च अपाकरणमुक्तं तत्रैव — ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्त­रि­क्ष­मा­वि­श­तस्ते अन्त­रि­क्ष­मे­वा­ह­व­नीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्लामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत’(शत. ब्रा. ११ । ६ । २ । ६) इत्यादि ; एवमेव पूर्ववद्दिवं तर्पयतस्ते तत आवर्तेते । इमामाविश्य तर्पयित्वा पुरुषमाविशतः । ततः स्त्रियमाविश्य लोकं प्रत्युत्थायी भवति इति । तत्र अग्नि­हो­त्रा­हुत्योः कार्या­र­म्भ­मा­त्र­मे­वं­प्र­कारं भवतीत्युक्तम् , इह तु तं कार्या­र­म्भ­म­ग्नि­हो­त्रा­पू­र्व­वि­प­रि­णा­म­ल­क्षणं पञ्चधा प्रविभज्य अग्नि­त्वे­नो­पा­स­न­मु­त्त­र­मा­र्ग­प्र­ति­प­त्ति­सा­धनं विधित्सन् आह —

असौ वाव लोको गौत­मा­ग्नि­स्त­स्या­दित्य एव समिद्रश्मयो धूमोऽ­ह­र­र्चि­श्च­न्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ १ ॥

असौ वाव लोको गौत­मा­ग्नि­रि­त्यादि । इह साय­म्प्रा­त­र­ग्नि­हो­त्रा­हुती हुते पयआदिसाधने श्रद्धापुरःसरे आह­व­नी­या­ग्नि­स­मि­द्धू­मा­र्चि­र­ङ्गा­र­वि­स्फु­लि­ङ्ग­भा­विते कर्त्रा­दि­का­र­क­भा­विते च अन्त­रि­क्ष­क्र­मे­णो­त्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते अप्स­म­वा­यि­त्वा­द­प्श­ब्द­वाच्ये श्रद्धा­हे­तु­त्वाच्च श्रद्धा­श­ब्द­वाच्ये । तयोरधिकरणः अग्निः अन्यच्च तत्सम्बन्धं समि­दा­दी­त्यु­च्यते । या च असा­व­ग्न्या­दि­भा­वना आहुत्योः, सापि तथैव निर्दिश्यते । असौ वाव लोकोऽग्निः हे गौतम — यथा­ग्नि­हो­त्रा­धि­क­र­ण­मा­ह­व­नीय इह । तस्या­ग्ने­र्द्यु­लो­का­ख्यस्य आदित्य एव समित् , तेन हि इद्धः असौ लोको दीप्यते, अतः समिन्धनात् समिदादित्यः रश्मयो धूमः, तदुत्थानात् ; समिधो हि धूम उत्तिष्ठति । अहरर्चिः प्रका­श­सा­मा­न्यात् , आदि­त्य­का­र्य­त्वाच्च । चन्द्रमा अङ्गाराः, अह्नः प्रश­मेऽ­भि­व्यक्तेः ; अर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते । नक्षत्राणि विस्फुलिङ्गाः, चन्द्रमसोऽवयवा इव विप्र­की­र्ण­त्व­सा­मा­न्यात् ॥

तस्मि­न्ने­त­स्मि­न्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ २ ॥

तस्मि­न्ने­त­स्मिन् यथो­क्त­ल­क्ष­णेऽग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम् । श्रद्धाम् अग्नि­हो­त्रा­हु­ति­प­रि­णा­मा­व­स्था­रूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते, ‘पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्ति’(छा. उ. ५ । ३ । ३) इत्यपां होम्यतया प्रश्ने श्रुतत्वात् ; ‘श्रद्धा वा आपः श्रद्धामेवारभ्य प्रणीय प्रचरन्ति’(तै. ब्रा. ३ । २ । ४ । २८) इति च विज्ञायते । तां श्रद्धाम् अब्रूपां जुह्वति ; तस्या आहुतेः सोमो राजा अपां श्रद्धा­श­ब्द­वा­च्यानां द्युलोकाग्रौ हुतानां परिणामः सोमो राजा सम्भवति — यथा ऋग्वे­दा­दि­पु­ष्प­रसा ऋगा­दि­म­धु­क­रो­प­नी­तास्ते आदित्ये यशआदिकार्यं रोहि­ता­दि­रू­प­ल­क्ष­ण­मा­र­भन्ते इत्युक्तम् — तथेमा अग्नि­हो­त्रा­हु­ति­स­म­वा­यिन्यः सूक्ष्माः श्रद्धा­श­ब्द­वाच्या आपः द्युलो­क­म­नु­प्र­विश्य चान्द्रं कार्यमारभन्ते फल­रू­प­म­ग्नि­हो­त्रा­हुत्योः । यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावना भाविता आहुतिरूपेण कर्मणा आकृष्टाः श्रद्धा­प्स­म­वा­यिनो द्युलो­क­म­नु­प्र­वि­शय सोमभूता भवन्ति । तदर्थं हि तैरग्निहोत्रं हुतम् । अत्र तु आहुतिपरिणाम एव पञ्चा­ग्नि­स­म्ब­न्ध­क्र­मेण प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः । तां त्वविदुषां धूमा­दि­क्र­मे­णो­त्त­रत्र वक्ष्यति, विदुषां च उत्तरा विद्याकृताम् ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

पञ्चमः खण्डः

पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्यु­द­र्चि­र­श­नि­र­ङ्गारा ह्रादनयो विस्फुलिङ्गाः ॥ १ ॥

द्विती­य­हो­म­प­र्या­या­र्थ­माह — पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्ट्यु­प­क­र­णा­भि­मानी देवताविशेषः । तस्य वायुरेव समित् , वायुना हि पर्जन्योऽग्निः समिध्यते ; पुरो­वा­ता­दि­प्रा­बल्ये वृष्टिदर्शनात् । अभ्रं धूमः, धूम­का­र्य­त्वा­द्धू­म­वच्च लक्ष्यमाणत्वात् । विद्युदर्चिः, प्रका­श­सा­मा­न्यात् । अशनिः अङ्गाराः, काठि­न्या­द्वि­द्यु­त्स­म्ब­न्धाद्वा । ह्रादनयो विस्फुलिङ्गाः ह्रादनयः गर्जितशब्दाः मेघानाम् , विप्र­की­र्ण­त्व­सा­मा­न्यात् ॥

तस्मि­न्ने­त­स्मि­न्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं सम्भवति ॥ २ ॥

तस्मि­न्ने­त­स्मि­न्नग्नौ देवाः पूर्ववत्सोमं राजानं जुह्वति । तस्या आहुतेर्वर्षं सम्भवति ; श्रद्धाख्या आपः सोमाकारपरिणता द्वितीये पर्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन परिणमन्ते ॥

इति पञ्च­म­ख­ण्ड­भा­ष्यम् ॥

षष्ठः खण्डः

पृथिवी वाव गौत­मा­ग्नि­स्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रि­र­र्चि­र्दि­शोऽ­ङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ १ ॥

पृथिवी वाव गौत­मा­ग्नि­रि­त्यादि पूर्ववत् । तस्याः पृथि­व्या­ख्य­स्याग्नेः संवत्सर एव समित् , संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्या­दि­नि­ष्प­त्तये भवति । आकाशो धूमः, पृथिव्या इवोत्थित आकाशो दृश्यते — यथा अग्नेर्धूमः । रात्रिरर्चिः, पृथिव्या हि अप्र­का­शा­त्मि­काया अनुरूपा रात्रिः, तमोरूपत्वात् — अग्ने­रि­वा­नु­रू­प­मर्चिः । दिशः अङ्गाराः, उप­शा­न्त­त्व­सा­मा­न्यात् । अवान्तरदिशः विस्फुलिङ्गाः, क्षुद्र­त्व­सा­मा­न्यात् ॥

तस्मि­न्ने­त­स्मि­न्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नं सम्भवति ॥ २ ॥

तस्मिन्नित्यादि समानम् । तस्या आहुतेरन्नं व्रीहियवादि सम्भवति ॥

इति षष्ठखण्डभाष्यम् ॥

सप्तमः खण्डः

पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वा­र्चि­श्च­क्षु­र­ङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥

पुरुषो वाव गौतमाग्निः । तस्य वागेव समित् , वाचा हि मुखेन समिध्यते पुरुषो न मूकः । प्राणो धूमः, धूम इव मुखा­न्नि­र्ग­म­नात् । जिह्वा अर्चिः, लोहितत्वात् । चक्षुः अङ्गाराः, भास आश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः, विप्र­की­र्ण­त्व­सा­म्यात् ॥

तस्मि­न्ने­त­स्मि­न्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ २ ॥

समानमन्यत् । अन्नं जुह्वति व्रीह्या­दि­सं­स्कृ­तम् । तस्या आहुते रेतः सम्भवति ॥

इति सप्त­म­ख­ण्ड­भा­ष्यम् ॥

अष्टमः खण्डः

योषा वाव गौत­मा­ग्नि­स्तस्या उपस्थ एव समि­द्य­दु­प­म­न्त्र­यते स धूमो योनि­र­र्चि­र्य­दन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ १ ॥

योषा वाव गौतमाग्निः । तस्या उपस्थ एव समित् , तेन हि सा पुत्रा­द्यु­त्पा­द­नाय समिध्यते । यदुपमन्त्रयते स धूमः, स्त्रीस­म्भ­वा­दु­प­म­न्त्र­णस्य । योनिरर्चिः लोहितत्वात् । यदन्तः करोति तेऽङ्गाराः, अग्निसम्बन्धात् । अभिनन्दाः सुखलवाः विस्फुलिङ्गाः, क्षुद्रत्वात् ॥

तस्मि­न्ने­त­स्मि­न्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ॥ २ ॥

तस्मि­न्ने­त­स्मि­न्नग्नौ देवा रेतो जुह्वति । तस्या आहुतेर्गर्भः सम्भवतीति । एवं श्रद्धा­सो­म­व­र्षा­न्न­रे­तो­ह­व­न­प­र्या­य­क्र­मेण आप एव गर्भीभूतास्ताः । तत्र अपा­मा­हु­ति­स­म­वा­यि­त्वात् प्राधा­न्य­वि­वक्षा — आपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति । न त्वाप एव केवलाः सोमा­दि­का­र्य­मा­र­भन्ते । न च आपोऽ­त्रि­वृ­त्कृताः सन्तीति । त्रिवृ­त्कृ­त­त्वेऽपि विशेष संज्ञालाभो दृष्टः — पृथिवीयमिमा आपोऽ­य­म­ग्नि­रि­त्य­न्य­त­म­बा­हु­ल्य­नि­मित्तः । तस्मा­त्स­मु­दि­ता­न्येव भूता­न्य­ब्बा­हु­ल्या­त्क­र्म­स­म­वा­यीनि सोमा­दि­का­र्या­र­म्भ­का­र­ण्याप इत्युच्यन्ते । दृश्यते च द्रवबाहुल्यं सोम­वृ­ष्ट्य­न्न­रे­तो­दे­हेषु । बहुद्रवं च शरीरं यद्यपि पार्थिवम् । तत्र पञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः ॥

इति अष्ट­म­ख­ण्ड­भा­ष्यम् ॥

नवमः खण्डः

इति तु पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ १ ॥

इति तु एवं तु पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्तीति व्याख्यातः एकः प्रश्नः । यत्तु द्युलोकादिमां प्रत्या­वृ­त्त­यो­रा­हुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेण आविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयके उक्तम् , तत्प्रा­स­ङ्गि­क­मि­हो­च्यते । इह च प्रथमे प्रश्ने उक्तम् — वेत्थ यदितोऽधि प्रजाः प्रयन्तीति । तस्य च अयमुपक्रमः — स गर्भोऽपां पञ्चमः परिणामविशेष आहु­ति­क­र्म­स­म­वा­यि­नीनां श्रद्धा­श­ब्द­वा­च्या­नाम् उल्बावृतः उल्बेन जरायुणा आवृतः वेष्टितः दश वा नव वा मासान् अन्तः मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूने­ना­ति­रि­क्तेन वा अथ अनन्तरं जायते ॥

उल्बावृत इत्यादि वैरा­ग्य­हे­तो­रि­द­मु­च्यते । कष्टं हि मातुः कुक्षौ मूत्र­पू­री­ष­वा­त­पि­त्त­श्ले­ष्मा­दि­पूर्णे तदनुलिप्तस्य गर्भ­स्यो­ल्बा­शु­चि­प­टा­वृ­तस्य लोहि­त­स­रे­तो­शु­चि­बी­जस्य मातु­र­शि­त­पी­त­र­सा­नु­प्र­वे­शेन विवर्धमानस्य निरु­द्ध­श­क्ति­ब­ल­वी­र्य­ते­जः­प्र­ज्ञा­चे­ष्टस्य शयनम् । ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृ­ति­र्ज­न्मेति वैराग्यं ग्राहयति, मुहू­र्त­म­प्य­सह्यं दश वा नव वा मासा­न­ति­दी­र्घ­का­ल­मन्तः शयित्वेति च ॥

स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ॥ २ ॥

स एवं जातः यावदायुषं पुनः पुन­र्घ­टी­य­न्त्र­व­द्ग­म­ना­ग­म­नाय कर्म कुर्वन् कुलालचक्रवद्वा तिर्यग्भ्रमणाय याव­त्क­र्म­णो­पा­त्त­मायुः तावज्जीवति । तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति — यदि चेज्जीवन् वैदिके कर्मणि ज्ञाने वा अधिकृतः — तमेनं मृतम् इतः अस्माद्ग्रामात् अग्नये अग्न्यर्थम् ऋत्विजो हरन्ति पुत्रा वा अन्त्यकर्मणे । यत एव इत आगतः अग्नेः सकाशात् श्रद्धा­द्या­हु­ति­क्र­मेण, यतश्च पञ्च­भ्योऽ­ग्निभ्यः सम्भूतः उत्पन्नः भवति, तस्मै एव अग्नये हरन्ति स्वामेव योनिम् अग्निम् आपा­द­य­न्ती­त्यर्थः ॥

इति नवमखण्डभाष्यम् ॥

दशमः खण्डः

तद्य इत्थं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चि­ष­म­भि­स­म्भ­व­न्त्य­र्चि­षोऽ­ह­रह्न आपू­र्य­मा­ण­प­क्ष­मा­पू­र्य­मा­ण­प­क्षा­द्या­न्ष­डु­द­ङ्ङेति मासाꣳस्तान् ॥ १ ॥

मासेभ्यः संवत्सरꣳ संव­त्स­रा­दा­दि­त्य­मा­दि­त्या­च्च­न्द्र­मसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥

‘वेत्थ यदितोऽधि प्रजाः प्रयन्ति’(छा. उ. ५ । ३ । २) इत्ययं प्रश्नः प्रत्यु­प­स्थि­तोऽ­पा­क­र्त­व्य­तया । तत् तत्र लोकं प्रति उत्थितानाम् अधिकृतानां गृहमेधिनां ये इत्थम् एवं यथोक्तं पञ्चा­ग्नि­द­र्श­नम् — द्युलो­का­द्य­ग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चा­ग्न्या­त्मानः — इत्येवं विदुः जानीयुः । कथमवगम्यते इत्थं विदुरिति गृहस्था एव उच्यन्ते नान्य इति । गृहस्थानां ये त्वनित्थंविदः केव­ले­ष्टा­पू­र्त­द­त्त­पराः ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति । ये च अरण्योपलक्षिता वैखानसाः परिव्राजकाश्च श्रद्धा तप इत्युपासते, तेषां च इत्थंविद्भिः सह अर्चिरादिना गमनं वक्ष्यति, पारि­शे­ष्या­द­ग्नि­हो­त्रा­हु­ति­स­म्ब­न्धाच्च गृहस्था एव गृह्यन्ते — इत्थं विदुरिति । ननु ब्रह्म­चा­रि­णोऽ­प्य­गृ­हीता ग्रामश्रुत्या अरण्यश्रुत्या च अनुपलक्षिता विद्यन्ते, कथं पारि­शे­ष्य­सिद्धिः ? नैष दोषः । पुरा­ण­स्मृ­ति­प्रा­मा­ण्यात् ऊर्ध्वरेतसां नैष्ठि­क­ब्र­ह्म­चा­रि­णाम् उत्तरेणार्यम्णः पन्थाः प्रसिद्धः, अतः तेऽप्य­र­ण्य­वा­सिभिः सह गमिष्यन्ति । उपकुर्वाणकास्तु स्वाध्या­य­ग्र­ह­णार्था इति न विशे­ष­नि­र्दे­शार्हाः । ननु ऊर्ध्वरेतस्त्वं चेत् उत्त­र­मा­र्ग­प्र­ति­प­त्ति­का­रणं पुरा­ण­स्मृ­ति­प्रा­मा­ण्या­दि­ष्यते, इत्थं­वि­त्त्व­म­न­र्थकं प्राप्तम् । न, गृह­स्था­न्प्र­त्य­र्थ­व­त्त्वात् । ये गृहस्था अनित्थंविदः, तेषां स्वभावतो दक्षिणो धूमादिः पन्थाः प्रसिद्धः, तेषां य इत्थं विदुः सगुणं वा अन्यद्ब्रह्म विदुः, ‘अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि च नार्चिषमेव’(छा. उ. ४ । १५ । ५) इति लिङ्गात् उत्तरेण ते गच्छन्ति । ननु ऊर्ध्वरेतसां गृहस्थानां च समाने आश्रमित्वे ऊर्ध्वरेतसामेव उत्तरेण पथा गमनं न गृहस्थानामिति न युक्तम् अग्नि­हो­त्रा­दि­वै­दि­क­क­र्म­बा­हुल्ये च सति ; नैष दोषः, अपूता हि ते — शत्रु­मि­त्र­सं­यो­ग­नि­मित्तौ हि तेषां रागद्वेषौ, तथा धर्माधर्मौ हिंसा­नु­ग्र­ह­नि­मित्तौ, हिंसा­नृ­त­मा­या­ब्र­ह्म­च­र्यादि च बह्व­शु­द्धि­का­र­ण­म­प­रि­हार्यं तेषाम् , अतोऽपूताः । अपूतत्वात् न उत्तरेण पथा गमनम् । हिंसा­नृ­त­मा­या­ब्र­ह्म­च­र्या­दि­प­रि­हा­राच्च शुद्धात्मानो हि इतरे, शत्रु­मि­त्र­रा­ग­द्वे­षा­दि­प­रि­हा­राच्च विरजसः ; तेषां युक्त उत्तरः पन्थाः । तथा च पौराणिकाः — ‘ये प्रजा­मी­षि­रेऽ­धी­रास्ते श्मशानानि भेजिरे । ये प्रजां नेषिरे धीरा­स्तेऽ­मृ­तत्वं हि भेजिरे’(?) इत्याहुः । इत्थंविदां गृह­स्था­ना­म­र­ण्य­वा­सिनां च समा­न­मा­र्ग­त्वेऽ­मृ­त­त्व­फले च सति, अरण्यवासिनां विद्यानर्थक्यं प्राप्तम् ; तथा च श्रुतिविरोधः — ‘न तत्र दक्षिणा यन्ति नावि­द्वां­स­स्त­प­स्विनः’(शत. ब्रा. १० । ५ । ४ । १६) इति, ‘स एनमविदितो न भुनक्ति’(बृ. उ. १ । ४ । १५) इति च विरुद्धम् । न, आभू­त­स­म्प्ल­व­स्था­न­स्या­मृ­त­त्वेन विवक्षितत्वात् । तत्रैवोक्तं पौराणिकैः — ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’(वि. पु. २ । ८ । ९७) इति । यच्च आत्य­न्ति­क­म­मृ­त­त्वम् , तदपेक्षया ‘न तत्र दक्षिणा यन्ति’ ‘स एनमविदितो न भुनक्ति’ इत्याद्याः श्रुतयः — इत्यतो न विरोधः । ‘न च पुनरावर्तन्ते’(छा. उ. ८ । १५ । १) इति ‘इमं मानवमावर्तं नावर्तन्ते’(छा. उ. ४ । १५ । ५) इत्यादि श्रुतिविरोध इति चेत् , न ; ‘इमं मानवम्’ इति विशेषणात् ‘तेषामिह न पुन­रा­वृ­त्ति­रस्ति’(बृ. मा. ६ । १ । १८) इति च । यदि हि एकान्तेनैव नावर्तेरन् , इमं मानवम् इह इति च विशेषणमनर्थकं स्यात् । इममिह इत्या­कृ­ति­मा­त्र­मु­च्यत इति चेत् , न ; अना­वृ­त्ति­श­ब्दे­नैव नित्या­ना­वृ­त्त्य­र्थस्य प्रतीतत्वात् आकृतिकल्पना अनर्थिका । अतः इममिह इति च विशे­ष­णा­र्थ­व­त्त्वाय अन्यत्र आवृत्तिः कल्पनीया । न च सदे­क­मे­वा­द्वि­ती­य­मि­त्येवं प्रत्ययवतां मूर्धन्यनाड्या अर्चि­रा­दि­मा­र्गेण गमनम् , ‘ब्रह्मैव सन्ब्र­ह्मा­प्येति’(बृ. उ. ४ । ४ । ६) ‘तस्मा­त्त­त्स­र्व­म­भ­वत्’(बृ. उ. १ । ४ । ९) ‘न तस्य प्राणा उत्क्रामन्ति । ’(बृ. उ. ४ । ४ । ६) ‘अत्रैव समवलीयन्ते’(बृ. उ. ३ । २ । ११) इत्या­दि­श्रु­ति­श­तेभ्यः । ननु तस्मा­ज्जी­वा­दु­च्चि­क्र­मिषोः प्राणा नोत्क्रामन्ति सहैव गच्छ­न्ती­त्य­य­मर्थः कल्प्यत इति चेत् ; न, ‘अत्रैव समवलीयन्ते’ इति विशे­ष­णा­न­र्थ­क्यात् , ‘सर्वे प्राणा अनूत्क्रामन्ति’(बृ. उ. ४ । ४ । २) इति च प्राणैर्गमनस्य प्राप्तत्वात् । तस्मा­दु­त्क्रा­म­न्ती­त्य­ना­श­ङ्कै­वैषा । यदापि मोक्षस्य संसा­र­ग­ति­वै­ल­क्ष­ण्या­त्प्रा­णानां जीवेन सह आगमनमाशङ्क्य तस्मा­न्नो­त्क्रा­म­न्ती­त्यु­च्यते, तदापि ‘अत्रैव समवलीयन्ते’ इति विशेषणमनर्थकं स्यात् । न च प्राणै­र्वि­यु­क्तस्य गतिरुपपद्यते जीवत्वं वा, सर्व­ग­त­त्वा­त्स­दा­त्मनो निरवयवत्वात् प्राण­स­म्ब­न्ध­मा­त्र­मेव हि अग्नि­वि­स्फु­लि­ङ्ग­व­ज्जी­व­त्व­भे­द­का­र­ण­मि­त्यतः तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुम् , श्रुत­य­श्चे­त्प्र­मा­णम् । न च सतोऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन् गच्छतीति शक्यं कल्पयितुम् । तस्मात् ‘तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति’(छा. उ. ८ । ६ । ६) इति सगु­ण­ब्र­ह्मो­पा­स­कस्य प्राणैः सह नाड्या गमनम् , सापेक्षमेव च अमृतत्वम् , न साक्षान्मोक्ष इति गम्यते, ‘तदपराजिता पूस्तदैरं मदीयं सरः’(छा. उ. ८ । ५ । ३) इत्याद्युक्त्वा ‘तेषामेवैष ब्रह्मलोकः’(छा. उ. ८ । ५ । ४) इति विशेषणात् ॥

अतः पञ्चाग्निविदो गृहस्थाः, ये च इमे अरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्ठि­क­ब्र­ह्म­चा­रिभिः श्रद्धा तप इत्ये­व­मा­द्यु­पा­सते श्रद्ध­धा­ना­स्त­प­स्वि­न­श्चे­त्यर्थः ; उपा­स­न­श­ब्द­स्ता­त्प­र्यार्थः ; इष्टापूर्ते दत्तमित्युपासत इति यद्वत् । श्रुत्यन्तरात् ये च सत्यं ब्रह्म हिर­ण्य­ग­र्भा­ख्य­मु­पा­सते, ते सर्वे अर्चिषम् अर्चिरभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते । समानमन्यत् चतु­र्थ­ग­ति­व्या­ख्या­नेन । एष देवयानः पन्था व्याख्यातः सत्यलोकावसानः, न अण्डाद्बहिः, ‘यदन्तरापितरं मातरं च’(ऋ. १० । ८८ । १५) इति मन्त्रवर्णात् ॥

अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रे­र­प­र­प­क्ष­म­प­र­प­क्षा­द्या­न्ष­ड्द­क्षि­णैति मासांस्तान्नैते संव­त्स­र­म­भि­प्रा­प्नु­वन्ति ॥ ३ ॥

अथे­त्य­र्था­न्त­र­प्र­स्ता­व­नार्थः, य इमे गृहस्थाः ग्रामे, ग्राम इति गृह­स्था­ना­म­सा­धा­रणं विशेषणम् अरण्यवासिभ्यो व्यावृ­त्त्य­र्थम् — यथा वान­प्र­स्थ­प­रि­व्रा­ज­का­ना­म­रण्यं विशेषणं गृहस्थेभ्यो व्यावृ­त्त्य­र्थम् , तद्वत् ; इष्टापूर्ते इष्ट­म­ग्नि­हो­त्रादि वैदिकं कर्म, पूर्तं वापी­कू­प­त­डा­गा­रा­मा­दि­क­र­णम् ; दत्तं बहिर्वेदि यथा­श­क्त्य­र्हेभ्यो द्रव्यसंविभागो दत्तम् ; इति एवंविधं परि­च­र­ण­प­रि­त्रा­णादि उपासते, इति—शब्दस्य प्रका­र­द­र्श­ना­र्थ­त्वात् । ते दर्श­न­व­र्जि­त­त्वा­द्धूमं धूमाभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते । तया अतिवाहिता धूमाद्रात्रिं रात्रिदेवतां रात्रे­र­प­र­प­क्ष­दे­व­ताम् एवमेव कृष्ण­प­क्षा­भि­मा­नि­नीम् अपरपक्षात् यान्षण्मासान् दक्षिणा दक्षिणां दिशमेति सविता, तान्मासान् दक्षि­णा­य­न­ष­ण्मा­सा­भि­मा­नि­नी­र्दे­वताः प्रतिपद्यन्त इत्यर्थः । सङ्घचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगः तासु । नैते कर्मिणः प्रकृताः संवत्सरं संव­त्स­रा­भि­मा­निनीं देव­ता­म­भि­प्रा­प्नु­वन्ति । कुतः पुनः संव­त्स­र­प्रा­प्ति­प्र­सङ्गः, यतः प्रतिषिध्यते ? अस्ति हि प्रसङ्गः — संवत्सरस्य हि एकस्यावयवभूते दक्षि­णो­त्त­रा­यणे, तत्र अर्चि­रा­दि­मा­र्ग­प्र­वृ­त्ता­ना­मु­द­ग­य­न­मा­से­भ्योऽ­व­य­विनः संवत्सरस्य प्राप्तिरुक्ता ; अतः इहापि तदवयवभूतानां दक्षि­णा­य­न­मा­सानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्व­व­त्प्रा­प्ति­रा­प­न्नेति । अतः तत्प्राप्तिः प्रतिविध्यते — नैते संव­त्स­र­म­भि­प्रा­प्नु­व­न्तीति ॥

मासेभ्यः पितृलोकं पितृ­लो­का­दा­का­श­मा­का­शा­च्च­न्द्र­म­स­मेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥

मासेभ्यः पितृलोकं पितृलोकादाकाशम् आका­शा­च्च­न्द्र­म­सम् । कोऽसौ, यस्तैः प्राप्यते चन्द्रमाः ? य एष दृश्य­तेऽ­न्त­रिक्षे सोमो राजा ब्राह्मणानाम् , तदन्नं देवानाम् , तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति । अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवै­र्भ­क्ष्यन्ते । ननु अनर्थाय इष्टादिकरणम् , यद्यन्नभूता देवै­र्भ­क्ष्ये­रन् । नैष दोषः, अन्न­मि­त्यु­प­क­र­ण­मा­त्रस्य विवक्षितत्वात् — न हि ते कबलोत्क्षेपेण देवै­र्भ­क्ष्यन्ते कं तर्हि, उपकरणमात्रं देवानां भवन्ति ते, स्त्रीप­शु­भृ­त्या­दि­वत् , दृष्ट­श्चा­न्न­शब्द उपकरणेषु — स्त्रियोऽन्नं पशवोऽन्नं विशोऽन्नं राज्ञामित्यादि । न च तेषां स्त्र्यादीनां पुरु­षो­प­भो­ग्य­त्वेऽ­प्यु­प­भोगो नास्ति । तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति । शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते । तदुक्तं पुरस्तात् — श्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवतीति । ता आपः कर्मसमवायिन्यः इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्र­त्व­मा­पन्नाः शरी­रा­द्या­र­म्भिका इष्टा­द्यु­पा­स­कानां भवन्ति । अन्त्यायां च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सह ऊर्ध्वं यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुश­मृ­त्ति­का­स्था­नीया बाह्य­श­री­रा­र­म्भिका भवन्ति । तदारब्धेन च शरीरेण इष्टा­दि­फ­ल­मु­प­भु­ञ्जाना आसते ॥

तस्मि­न्या­व­त्स­म्पा­त­मु­षि­त्वा­थै­त­मे­वा­ध्वानं पुनर्निवर्तन्ते यथे­त­मा­का­श­मा­का­शा­द्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५ ॥

यावत् तदु­प­भो­ग­नि­मि­त्तस्य कर्मणः क्षयः, सम्पतन्ति येनेति सम्पातः कर्मणः क्षयः यावत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः, तावत् तस्मिं­श्च­न्द्र­म­ण्डले उषित्वा अथ अनन्तरम् एतमेव वक्ष्य­मा­ण­म­ध्वानं मार्गं पुनर्निवर्तन्ते । पुनर्निवर्तन्त इति प्रयो­गा­त्पू­र्व­म­प्य­स­कृ­च्च­न्द्र­म­ण्डलं गता निवृत्ताश्च आसन्निति गम्यते । तस्मादिह लोके इष्टा­दि­क­र्मो­प­चित्य चन्द्रं गच्छन्ति ; तत्क्षये च आवर्तन्ते ; क्षणमात्रमपि तत्र स्थातुं न लभ्यते, स्थिति­नि­मि­त्त­क­र्म­क्ष­यात् — स्नेहक्षयादिव प्रदीपस्य ॥

तत्र किं येन कर्मणा चन्द्र­म­ण्ड­ल­मा­रू­ढा­स्तस्य सर्वस्यक्षये तस्मादवरोहणम् , किं वा सावशेष इति । किं ततः ? यदि सर्वस्यैव क्षयः कर्मणः, चन्द्र­म­ण्ड­ल­स्थ­स्यैव मोक्षः प्राप्नोति ; तिष्ठतु तावत्तत्रैव, मोक्षः स्यात् , न वेति ; तत आगतस्य इह शरीरोपभोगादि न सम्भवति । ‘ततः शेषेण’(गौ. ध. २ । २ । २९) इत्या­दि­स्मृ­ति­वि­रो­धश्च स्यात् । नन्वि­ष्टा­पू­र्त­द­त्त­व्य­ति­रे­के­णापि मनुष्यलोके शरी­रो­प­भो­ग­नि­मि­त्तानि कर्माण्यनेकानि सम्भवन्ति, न च तेषां चन्द्रमण्डले उपभोगः, अतोऽक्षीणानि तानि ; यन्निमित्तं चन्द्र­म­ण्ड­ल­मा­रूढः, तान्येव क्षीणा­नी­त्य­वि­रोधः ; शेषशब्दश्च सर्वेषां कर्म­त्व­सा­मा­न्या­द­वि­रुद्धः ; अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः ; विरु­द्धा­ने­क­यो­न्यु­प­भो­ग­फ­लानां च कर्मणाम् एकैकस्य जन्तो­रा­र­म्भ­क­त्व­स­म्भ­वात् । न च एकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते, ब्रह्म­ह­त्या­देश्च एकैकस्य कर्मण अने­क­ज­न्मा­र­म्भ­क­त्व­स्म­र­णात् , स्थाव­रा­दि­प्रा­प्तानां च अत्य­न्त­मू­ढा­ना­मु­त्क­र्ष­हेतोः कर्मण आर­म्भ­क­त्वा­स­म्भ­वात् । गर्भभूतानां च स्रंसमानानां कर्मासम्भवे संसारानुपपत्तिः । तस्मात् न एकस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः ॥

यत्तु कैश्चिदुच्यते — सर्व­क­र्मा­श्र­यो­प­म­र्देन प्रायेण कर्मणां जन्मारम्भकत्वम् । तत्र कानि­चि­त्क­र्मा­ण्य­ना­र­म्भ­क­त्वे­नैव तिष्ठन्ति कानिचिज्जन्म आरभन्त इति नोपपद्यते, मरणस्य सर्व­क­र्मा­भि­व्य­ञ्ज­क­त्वात् , स्वगो­च­रा­भि­व्य­ञ्ज­क­प्र­दी­प­व­दिति । तदसत् , सर्वस्य सर्वा­त्म­क­त्वा­भ्यु­प­ग­मात् — न हि सर्वस्य सर्वात्मकत्वे देश­का­ल­नि­मि­त्ता­व­रु­द्ध­त्वा­त्स­र्वा­त्म­नो­प­मर्दः कस्य­चि­त्क्व­चि­द­भि­व्य­क्तिर्वा सर्वा­त्म­नो­प­प­द्यते, तथा कर्मणामपि साश्रयाणां भवेत् — यथा च पूर्वा­नु­भू­त­म­नु­ष्य­म­यू­र­म­र्क­टा­दि­ज­न्मा­भि­सं­स्कृताः विरु­द्धा­ने­क­वा­सनाः मर्क­ट­त्व­प्रा­प­केन कर्मणा मर्कटजन्म आरभमाणेन नोपमृद्यन्ते — तथा कर्म­ण्य­प्य­न्य­ज­न्म­प्रा­प्ति­नि­मि­त्तानि नोपमृद्यन्त इति युक्तम् । यदि हि सर्वाः पूर्व­ज­न्मा­नु­भ­व­वा­सनाः उपमृद्येरन् , मर्क­ट­ज­न्म­नि­मि­त्तेन कर्मणा मर्क­ट­ज­न्म­न्या­रब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातु­रु­द­र­सं­ल­ग्न­त्वा­दि­कौ­शलं न प्राप्नोति, इह जन्म­न्य­न­भ्य­स्त­त्वात् । न च अती­ता­न­न्त­र­ज­न्मनि मर्कटत्वमेव आसीत्तस्येति शक्यं वक्तुम् , ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’(बृ. उ. ४ । ४ । २) इति श्रुतेः । तस्मा­द्वा­स­ना­व­न्ना­शे­ष­क­र्मो­प­मर्द इति शेषकर्मसम्भवः । यत एवम् , तस्मा­च्छे­षे­णो­प­भु­क्ता­त्क­र्मणः संसार उपपद्यत इति न कश्चिद्विरोधः ॥

कोऽसावध्वा यं प्रति निवर्तन्त इति, उच्यते — यथेतं यथागतं निवर्तन्ते । ननु मासेभ्यः पितृलोकं पितृ­लो­का­दा­का­श­मा­का­शा­च्च­न्द्र­म­स­मिति गमनक्रम उक्तः, न तथा निवृत्तिः ; किं तर्हि, आका­शा­द्वा­यु­मि­त्यादि ; कथं यथेतमित्युच्यते । नैष दोषः, आका­श­प्रा­प्ते­स्तु­ल्य­त्वा­त्पृ­थि­वी­प्रा­प्तेश्च । न च अत्र यथेतमेवेति नियमः, अनेवंविधमपि निवर्तन्ते ; पुनर्निवर्तन्त इति तु नियमः । अत उप­ल­क्ष­णा­र्थ­मे­तत् — यद्यथे तमिति । अतो भौतिकमाकाशं ताव­त्प्र­ति­प­द्यन्ते — यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसन् , तास्तेषां तत्रो­प­भो­ग­नि­मि­त्तानां कर्मणां क्षये विलीयन्ते — घृत­सं­स्था­न­मि­वा­ग्नि­सं­योगे, ता विलीना अन्तरिक्षस्था आकाशभूता इति सूक्ष्माः भवन्ति । ता अन्त­रि­क्षा­द्वा­यु­र्भ­वन्ति, वायुप्रतिष्टा वायुभूता इतश्चामुतश्च ऊह्यमानाः ताभिः सह क्षीणकर्मा वायुभूतो भवति । वायुर्भूत्वा ताभिः सहैव धूमो भवति । धूमो भूत्वा अभ्रम् अब्भरणमात्ररूपो भवति ॥

अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओष­धि­व­न­स्प­त­य­स्ति­ल­माषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥

अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति ; मेघो भूत्वा उन्नतेषु प्रदेशेष्वथ प्रवर्षति ; वर्षधारारूपेण शेषकर्मा पततीत्यर्थः । त इह व्रीहियवा ओष­धि­व­न­स्प­त­य­स्ति­ल­माषा इत्येवंप्रकारा जायन्ते ; क्षीण­क­र्म­णा­म­ने­क­त्वात् बहुवचननिर्देशः । मेघादिषु पूर्वे­ष्वे­क­रू­प­त्वात् एकवचननिर्देशः । यस्मा­द्गि­रि­त­ट­दु­र्ग­न­दी­स­मु­द्रा­र­ण्य­म­रु­दे­शा­दि­सं­नि­वे­श­स­ह­स्राणि वर्षधाराभिः पतितानाम् , अतः तस्माद्धेतोः वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् — यतो गिरि­त­टा­दु­द­क­स्रो­त­सो­ह्य­माना नदीः प्राप्नुवन्ति, ततः समुद्रम् , ततो मक­रा­दि­भि­र्भ­क्ष्यन्ते ; तेऽप्यन्येन ; तत्रैव च सह मकरेण समुद्रे विलीनाः समु­द्रा­म्भो­भि­र्ज­ल­ध­रै­रा­कृष्टाः पुन­र्व­र्ष­धा­रा­म्भि­र्म­रु­देशे शिलातटे वा अगम्ये पति­ता­स्ति­ष्ठन्ति, कदा­चि­द्व्या­ल­मृ­गा­दि­पीता भक्षि­ता­श्चान्यैः तेऽप्य­न्यै­रि­त्ये­वं­प्र­काराः परिवर्तेरन् ; कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन् ; भक्ष्येष्वपि स्थावरेषु जातानां रेतः­सि­ग्दे­ह­स­म्बन्धो दुर्लभ एव, बहु­त्वा­त्स्था­व­रा­णाम् — इत्यतो दुर्नि­ष्क्र­म­ण­त्वम् । अथवा अतः अस्मा­द्व्री­हि­य­वा­दि­भा­वात् दुर्निष्प्रपतरं दुर्निर्गमतरम् । दुर्नि­ष्प्र­प­र­मिति तकार एको लुप्तो द्रष्टव्यः ; व्रीहियवादिभावो दुर्निष्प्रपतः, तस्मादपि दुर्नि­ष्प्र­प­ता­द्रे­तः­सि­ग्दे­ह­स­म्बन्धो दुर्निष्प्रपततर इत्यर्थः ; यस्मा­दू­र्ध्व­रे­तो­भि­र्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते, अने­क­त्वा­द­न्ना­दा­नाम् । कदा­चि­त्का­क­ता­ली­य­वृत्त्या रेतः­सि­ग्भि­र्भ­क्ष्यन्ते यदा, तदा रेतःसिग्भावं गतानां कर्मणो वृत्तिलाभः । कथम् ? यो यो हि अन्नमत्ति अनुशयिभिः संश्लिष्टं रेतःसिक् , यश्च रेतः सिञ्चति ऋतुकाले योषिति, तद्भूय एव तदाकृतिरेव भवति ; तद­व­य­वा­कृ­ति­भू­यस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भाशयेऽन्तः प्रवि­ष्टोऽ­नु­शयी, रेतसो रेतः­सि­गा­कृ­ति­भा­वि­त­त्वात् , ‘सर्वे­भ्योऽ­ङ्गे­भ्य­स्तेजः सम्भूतम्’(ऐ. उ. २ । १ । १) इति हि श्रुत्यन्तरात् । अतो रेतःसिगाकृतिरेव भवतीत्यर्थः । तथा हि पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्य­न्त­रा­कृतिः, तस्माद्युक्तं तद्भूय एव भवतीति ॥

ये त्वन्ये अनु­श­यि­भ्य­श्च­न्द्र­म­ण्ड­ल­म­ना­रुह्य इहैव पाप­क­र्म­भि­र्घो­रै­र्व्री­हि­य­वा­दि­भावं प्रतिपद्यन्ते, पुन­र्म­नु­ष्या­दि­भा­वम् , तेषां नानुशयिनामिव दुर्नि­ष्प्र­प­त­रम् । कस्मात् ? कर्मणा हि तैर्व्री­हि­य­वा­दि­देह उपात्त इति तदु­प­भो­ग­नि­मि­त्त­क्षये व्रीह्या­दि­स्त­म्ब­दे­ह­वि­नाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलू­का­व­त्स­ङ्क्र­मन्ते सविज्ञाना एव ‘सविज्ञानो भवति सवि­ज्ञा­न­मे­वा­न्व­व­क्रा­मति’(बृ. उ. ४ । ४ । २) इति श्रुत्यन्तरात् । यद्य­प्यु­प­सं­हृ­त­क­रणाः सन्तो देहान्तरं गच्छन्ति, तथापि स्वप्नवत् देहा­न्त­र­प्रा­प्ति­नि­मि­त्त­क­र्मो­द्भा­वि­त­वा­स­ना­ज्ञा­नेन सविज्ञाना एव देहान्तरं गच्छन्ति, श्रुति­प्रा­मा­ण्यात् । तथा अर्चिरादिना धूमादिना च गमनं स्वप्नं इवो­द्भू­त­वि­ज्ञा­नेन, लब्ध­वृ­त्ति­क­र्म­नि­मि­त्त­त्वा­द्ग­म­नस्य । न तथा अनुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतः­सि­ग्यो­षि­द्दे­ह­स­म्बन्ध उपपद्यते, न हि व्रीह्या­दि­ल­व­न­क­ण्ड­न­पे­ष­णादौ च सविज्ञानानां स्थितिरस्ति । ननु चन्द्र­म­ण्ड­ला­द­प्य­व­रो­हतां देहान्तरगमनस्य तुल्यत्वात् जलू­का­व­त्स­वि­ज्ञा­न­तैव युक्ता, तथा सति घोरो नरकानुभव इष्टा­पू­र्ता­दि­का­रिणां चन्द्र­म­ण्ड­ला­दा­रभ्य प्राप्तो याव­द्ब्रा­ह्म­णा­दि­जन्म ; तथा च सति, अनर्थायैव इष्टा­पू­र्ता­द्यु­पा­सनं विहितं स्यात् ; श्रुतेश्च अप्रामाण्यं प्राप्तम् , वैदिकानां कर्मणाम् अन­र्था­नु­ब­न्धि­त्वात् । न, वृक्षा­रो­ह­ण­प­त­न­व­द्वि­शे­ष­स­म्भ­वात् — देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्ध­वृ­त्ति­त्वात् कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् — वृक्षाग्रमारोहत इव फलं जिघृक्षोः । तथा अर्चिरादिना गच्छतां सविज्ञानत्वं भवेत् ; धूमादिना च चन्द्र­म­ण्ड­ल­मा­रु­रु­क्ष­ताम् । न तथा चन्द्र­म­ण्ड­ला­द­व­रु­रु­क्षतां वृक्षाग्रादिव पततां सचेतनत्वम् — यथा च मुद्ग­रा­द्य­भि­ह­तानां तद­भि­घा­त­वे­द­ना­नि­मि­त्त­सं­मू­र्छि­त­प्र­ति­ब­द्ध­क­र­णानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा, तथा चन्द्रमण्डलात् मानु­षा­दि­दे­हा­न्तरं प्रति अवरुरुक्षतां स्वर्ग­भो­ग­नि­मि­त्त­क­र्म­क्ष­यात् मृदिताब्देहानां प्रति­ब­द्ध­क­र­णा­नाम् । अतः ते अप­रि­त्य­क्त­दे­ह­बी­ज­भू­ता­भि­रद्भिः मूर्छिता इव आकाशादिक्रमेण इमामवरुह्य कर्म­नि­मि­त्त­जा­ति­स्था­व­र­देहैः संश्लिष्यन्ते प्रतिबद्धकरणतया अनु­द्भू­त­वि­ज्ञाना एव । तथा लव­न­क­ण्ड­न­पे­ष­ण­सं­स्का­र­भ­क्ष­ण­र­सा­दि­प­रि­णा­म­रे­तः­से­क­का­लेषु मूर्छितवदेव, देहा­न्त­रा­र­म्भ­कस्य कर्म­णोऽ­ल­ब्ध­वृ­त्ति­त्वात् । देह­बी­ज­भू­ता­प्स­म्ब­न्धा­प­रि­त्या­गे­नैव सर्वास्ववस्थासु वर्तन्त इति जलूकावत् चेतनावत्त्वं न विरुध्यते । अन्तराले त्वविज्ञानं मूर्छि­त­व­दे­वे­त्य­दोषः । न च वैदिकानां कर्मणां हिंसा­यु­क्त­त्वे­नो­भ­य­हे­तुत्वं शक्यमनुमातुम् , हिंसायाः शास्त्र­चो­दि­त­त्वात् । ‘अहिं­स­न्स­र्व­भू­ता­न्य­न्यत्र तीर्थेभ्यः’(छा. उ. ८ । १५ । १) इति श्रुतेः शास्त्रचोदिताया हिंसाया न अध­र्म­हे­तु­त्व­म­भ्यु­प­ग­म्यते । अभ्यु­प­ग­तेऽ­प्य­ध­र्म­हे­तुत्वे मन्त्रै­र्वि­षा­दि­वत् तदपनयोपपत्तेः न दुःख­का­र्या­र­म्भ­णो­प­पत्तिः वैदिकानां कर्मणाम् — मन्त्रेणेव विषभक्षणस्येति ॥

तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनि­मा­प­द्ये­र­न्ब्रा­ह्म­ण­योनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनि­मा­प­द्ये­र­ञ्श्व­योनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥

तत् तत्र तेष्वनुशयिनां ये इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रम­णी­य­च­र­णे­नो­प­ल­क्षितः शोभनोऽनुशयः पुण्यं कर्म येषां ते — रमणीयचरणाः उच्यन्ते ; क्रौर्या­नृ­त­मा­या­व­र्जि­तानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः ; तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेण अभ्याशो ह क्षिप्रमेव, यदिति क्रियाविशेषणम् , ते रमणीयां क्रौर्या­दि­व­र्जितां योनिमापद्येरन् प्राप्नुयुः ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण । अथ पुन­र्ये­त­द्वि­प­रीताः कपू­य­च­र­णो­प­ल­क्षि­त­क­र्माणः अशुभानुशया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन् कपूयामेव धर्म­स­म्ब­न्ध­व­र्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा स्वक­र्मा­नु­रू­पे­णैव ॥

अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्रा­ण्य­स­कृ­ता­व­र्तीनि भूतानि भवन्ति जायस्व म्रिय­स्वे­त्ये­त­त्तृ­तीयꣳ स्थानं तेनासौ लोको न सम्पूर्यते तस्मा­ज्जु­गु­प्सेत तदेष श्लोकः ॥ ८ ॥

ये तु रमणीयचरणा द्विजातयः, ते स्वक­र्म­स्था­श्चे­दि­ष्टा­दि­का­रिणः, ते धूमादिगत्या गच्छ­न्त्या­ग­च्छन्ति च पुनः पुनः, घटीयन्त्रवत् । विद्यां चेत्प्रा­प्नुयुः, तदा अर्चिरादिना गच्छन्ति ; यदा तु न विद्यासेविनो नापि इष्टादिकर्म सेवंते, तदा अथैतयोः पथोः यथो­क्त­यो­र­र्चि­र्धू­मा­दि­ल­क्ष­णयोः न कतरेण अन्यतरेण चनापि यन्ति । तानीमानि भूतानि क्षुद्राणि दंश­म­श­क­की­टा­दी­न्य­स­कृ­दा­व­र्तीनि भवन्ति । अतः उभ­य­मा­र्ग­प­रि­भ्रष्टा हि असकृज्जायन्ते म्रियन्ते च इत्यर्थः । तेषां जन­न­म­र­ण­स­न्त­ते­र­नु­क­र­ण­मि­द­मु­च्यते । जायस्व म्रियस्व इति ईश्व­र­नि­मि­त्त­चेष्टा उच्यते । जननमरणलक्षणेनैव कालयापना भवति, न तु क्रियासु शोभनेषु भोगेषु वा कालोऽ­स्ती­त्यर्थः । एतत् क्षुद्र­ज­न्तु­ल­क्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरताम् , येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्ति, अनधिकृतानां ज्ञान­क­र्म­णो­र­ग­म­न­मेव दक्षिणेन पथेति, तेनासौ लोको न सम्पूर्यते । पञ्चमस्तु प्रश्नः पञ्चा­ग्नि­वि­द्यया व्याख्यातः । प्रथमो दक्षि­णो­त्त­र­मा­र्गा­भ्या­म­पा­कृतः । दक्षिणोत्तरयोः पथो­र्व्या­व­र्त­नापि — मृतानामग्नौ प्रक्षेपः समानः, ततो व्यावर्त्य अन्येऽ­र्चि­रा­दिना यन्ति, अन्ये धूमादिना, पुन­रु­त्त­र­द­क्षि­णा­यने षण्मा­सा­न्प्रा­प्नु­वन्तः संयुज्य पुन­र्व्या­व­र्तन्ते, अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकम् —

इति व्याख्याता । पुनरावृत्तिरपि क्षीणानुशयानां चन्द्र­म­ण्ड­ला­दा­का­शा­दि­क्र­मेण उक्ता । अमुष्य लोकस्यापूरणं स्वश­ब्दे­नै­वो­क्तम् — तेनासौ लोको न सम्पूर्यत इति । यस्मादेवं कष्टा संसारगतिः, तस्मा­ज्जु­गु­प्सेत । यस्माच्च जन्म­म­र­ण­ज­नि­त­वे­द­ना­नु­भ­व­कृ­त­क्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः — सागर इव अगाधेऽप्लवे निरा­शा­श्चो­त्त­रणं प्रति, तस्मा­च्चै­वं­विधां संसारगति जुगुप्सेत बीभत्सेत घृणी भवेत् — मा भूदेवंविधे संसारमहोदधौ घोरे पात इति । तदेतस्मिन्नर्थे एषः श्लोकः पञ्चा­ग्नि­वि­द्या­स्तु­तये ॥

स्तेनो हिरण्यस्य सुरां पिबꣳश्च गुरो­स्त­ल्प­मा­व­स­न्ब्र­ह्महा चैते पतन्ति चत्वारः पञ्च­म­श्चा­च­रꣳस्तै­रिति ॥ ९ ॥

स्तेनो हिरण्यस्य ब्राह्म­ण­सु­व­र्णस्य हर्ता, सुरां पिबन् , ब्राह्मणः सन् , गुरोश्च तल्पं दारानावसन् , ब्रह्महा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः । पञ्चमश्च तैः सह आचरन्निति ॥

अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह तैर­प्या­च­र­न्पा­प्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ १० ॥

१०

अथ ह पुनः यो यथो­क्ता­न्प­ञ्चा­ग्नी­न्वेद, स तैरप्याचरन् महापातकिभिः सह न पाप्मना लिप्यते, शुद्ध एव । तेन पञ्चा­ग्नि­द­र्श­नेन पावितः यस्मात्पूतः, पुण्यो लोकः प्राजा­प­त्या­दि­र्यस्य सोऽयं पुण्यलोकः भवति ; य एवं वेद यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टमर्थजातं वेद । द्विरुक्तिः सम­स्त­प्र­श्न­नि­र्ण­य­प्र­द­र्श­नार्था ॥

इति दशमखण्डभाष्यम् ॥

एकादशः खण्डः

दक्षिणेन पथा गच्छतामन्नभाव उक्तः — ‘तद्दे­वा­ना­म­न्नम् तं देवा भक्षयन्ति’(छा. उ. ५ । १० । ४) इति ; क्षुद्र­ज­न्तु­ल­क्षणा च कष्टा संसारगतिरुक्ता । तदु­भ­य­दो­ष­प­रि­जि­ही­र्षया वैश्वा­न­रा­त्तृ­भा­व­प्र­ति­प­त्त्य­र्थ­मु­त्तरो ग्रन्थ आरभ्यते, ‘अत्स्यन्नं पश्यसि प्रियम्’(छा. उ. ५ । १२ । २) इत्यादिलिङ्गात् । आख्यायिका तु सुखावबोधार्था विद्या­स­म्प्र­दा­न­न्या­य­प्र­द­र्श­नार्था च —

प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलु­षि­रि­न्द्र­द्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाꣳसां चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥

प्राचीनशाल इति नामतः, उप­म­न्यो­र­प­त्य­मौ­प­म­न्यवः । सत्ययज्ञो नामतः, पुलुषस्यापत्यं पौलुषिः । तथे­न्द्र­द्युम्नो नामतः, भल्लवेरपत्यं भाल्लविः तस्यापत्यं भाल्लवेयः । जन इति नामतः, शर्क­रा­क्ष­स्या­पत्यं शार्कराक्ष्यः । बुडिलो नामतः, अश्व­त­रा­श्व­स्या­प­त्य­मा­श्व­त­राश्विः । पञ्चापि ते हैते महाशालाः महागृहस्था विस्तीर्णाभिः शालाभिर्युक्ताः सम्पन्ना इत्यर्थः, महाश्रोत्रियाः श्रुता­ध्य­य­न­वृ­त्त­स­म्पन्ना इत्यर्थः, ते एवंभूताः सन्तः समेत्य सम्भूय क्वचित् मीमांसां विचारणां चक्रुः कृतवन्त इत्यर्थः । कथम् ? को नः अस्माकमात्मा किं ब्रह्म — इति ; आत्म­ब्र­ह्म­श­ब्द­यो­रि­त­रे­त­र­वि­शे­ष­ण­वि­शे­ष्य­त्वम् । ब्रह्मेति अध्या­त्म­प­रि­च्छि­न्न­मा­त्मानं निवर्तयति, आत्मेति च आत्म­व्य­ति­रि­क्तस्य आदि­त्या­दि­ब्र­ह्मण उपास्यत्वं निवर्तयति । अभेदेन आत्मैव ब्रह्म ब्रह्मैव आत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म स आत्मे­त्ये­त­त्सिद्धं भवति, ‘मूर्धा ते व्यपतिष्यत्’ ‘अन्धोऽभविष्यः’ इत्यादिलिङ्गात् ॥

ते ह सम्पा­द­या­ञ्च­क्रु­रु­द्दा­लको वै भग­व­न्तोऽ­य­मा­रुणिः सम्प्र­ती­म­मा­त्मानं वैश्वानरमध्येति तꣳ हन्ता­भ्या­ग­च्छा­मेति तं हाभ्याजग्मुः ॥ २ ॥

ते ह मीमांसन्तोऽपि निश्चयमलभमानाः सम्पा­द­या­ञ्चक्रुः सम्पादितवन्तः आत्मन उपदेष्टारम् । उद्दालको वै प्रसिद्धो नामतः, भगवन्तः पूजावन्तः, अयमारुणिः अरुणस्यापत्यं सम्प्रति सम्यगिममात्मानं वैश्वानरम् अस्म­द­भि­प्रे­त­म­ध्येति स्मरति । तं हन्त इदा­नी­म­भ्या­ग­च्छाम इत्येवं निश्चित्य तं ह अभ्याजग्मुः गतवन्तः तम् आरुणिम् ॥

स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महा­श्रो­त्रि­या­स्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ता­ह­म­न्य­म­भ्य­नु­शा­सा­नीति ॥ ३ ॥

स ह तान् दृष्ट्वैव तेषा­मा­ग­म­न­प्र­यो­जनं बुद्ध्वा सम्पादयाञ्चकार । कथम् ? प्रक्ष्यन्ति मां वैश्वानरम् इमे महाशालाः महाश्रोत्रियाः, तेभ्योऽहं न सर्वमिव पृष्टं प्रतिपत्स्ये वक्तुं नोत्सहे ; अतः हन्ता­ह­मि­दा­नी­म­न्यम् एषामभ्यनुशासानि वक्ष्या­म्यु­प­दे­ष्टा­र­मिति ॥

तान्हो­वा­चा­श्व­प­तिर्वै भगवन्तोऽयं कैकेयः सम्प्र­ती­म­मा­त्मानं वैश्वानरमध्येति तं हन्ता­भ्या­ग­च्छा­मेति तꣳ हाभ्याजग्मुः ॥ ४ ॥

एवं सम्पाद्य तान् ह उवाच — अश्वपतिर्वै नामतः भगवन्तः अयं केकयस्यापत्यं कैकेयः सम्प्रति सम्यगिममात्मानं वैश्वा­न­र­म­ध्ये­ती­त्यादि समानम् ॥

तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः सञ्जिहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नाना­हि­ता­ग्नि­र्ना­वि­द्वान्न स्वैरी स्वैरिणी कुतोयक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥

तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगर्हाणि अर्हणानि पुरो­हि­तै­र्भृ­त्यैश्च कारयाञ्चकार कारितवान् । स ह अन्येद्युः राजा प्रातः सञ्जिहान उवाच विनयेन उपगम्य — एतद्धनं मत्त उपादध्वमिति । तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनम् , यतो न प्रतिगृह्णन्ति मत्तो धनम् इति मन्वानः आत्मनः सद्वृत्ततां प्रति­पि­पा­द­यि­ष­न्नाह — न मे मम जनपदे स्तेनः परस्वहर्ता विद्यते ; न कदर्यः अदाता सति विभवे ; न मद्यपः द्विजोत्तमः सन् ; न अनाहिताग्निः शतगुः ; न अविद्वान् अधिकारानुरूपम् ; न स्वैरी परदारेषु गन्ताः ; अत एव स्वैरिणी कुतः दुष्टचारिणी न सम्भवतीत्यर्थः । तैश्च न वयं धनेनार्थिन इत्युक्तः आह — अल्पं मत्वा एते धनं न गृह्णन्तीति, यक्ष्यमाणो वै कतिभिरहोभिरहं हे भगवन्तोऽस्मि । तदर्थं क्लृप्तं धनं मया यावदेकैकस्मै यथोक्तम् ऋत्विजे धनं दास्यामि, तावत् प्रत्येकं भगवद्भयोऽपि दास्यामि । वसन्तु भगवन्तः, पश्यन्तु च मम यागम् ॥

ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तं हैव वदे­दा­त्मा­न­मे­वेमं वैश्वानरं संप्र­त्य­ध्ये­षि­त­मेव नो ब्रूहीति ॥ ६ ॥

इत्युक्ताः ते ह ऊचुः — येन ह एव अर्थेन प्रयोजनेन यं प्रति चरेत् गच्छेत् पुरुषः, तं ह एवार्थं वदेत् । इदमेव प्रयो­ज­न­मा­ग­म­न­स्ये­त्ययं न्यायः सताम् । वयं च वैश्वा­न­र­ज्ञा­ना­र्थिनः । आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि सम्यग्जानासि । अतस्तमेव नः अस्मभ्यं ब्रूहि ॥

तान्होवाच प्रातर्वः प्रति­व­क्ता­स्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हा­नु­प­नी­यै­वै­त­दु­वाच ॥ ७ ॥

इत्युक्तः तान् ह उवाच । प्रातः वः युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दाता­स्मी­त्युक्ताः ते ह राज्ञोऽ­भि­प्रा­यज्ञाः समित्पाणयः समिद्भारहस्ताः अपरेद्युः पूर्वाह्णे राजानं प्रतिचक्रमिरे गतवन्तः । यत एवं महाशालाः महाश्रोत्रियाः ब्राह्मणाः सन्तः महा­शा­ल­त्वा­द्य­भि­मानं हित्वा समिद्भारहस्ताः जातितो हीनं राजानं विद्यार्थिनः विनयेनोपजग्मुः । तथा अन्यै­र्वि­द्यो­पा­दि­त्सु­भि­र्भ­वि­त­व्यम् । तेभ्यश्च अदाद्विद्याम् अनुपनीयैव उपनयनमकृत्वैव तान् । यथा योग्येभ्यो विद्यामदात् , तथा अन्येनापि विद्या दातव्येति आख्यायिकार्थः । एत­द्वै­श्वा­न­र­वि­ज्ञा­न­मु­वा­चेति वक्ष्यमाणेन सम्बन्धः ॥

इति एका­द­श­ख­ण्ड­भा­ष्यम् ॥

द्वादशः खण्डः

औपमन्यव कं त्वमा­त्मा­न­मु­पास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमा­त्मा­न­मु­पास्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥

स कथमुवाचेति, आह — औपमन्यव हे कम् आत्मानं वैश्वानरं त्वमुपास्से इति पप्रच्छ । नन्वयमन्यायः — आचार्यः सन् शिष्यं पृच्छतीति । नैष दोषः, ‘यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामि’(छा. उ. ७ । १ । १) इति न्यायदर्शनात् । अन्य­त्रा­प्या­चा­र्यस्य अप्रतिभावनवति शिष्ये प्रति­भो­त्पा­द­नार्थः प्रश्नो दृष्टोऽ­जा­त­शत्रोः, ‘क्वैष तदाभूत्कुत एतदागात्’(बृ. उ. २ । १ । १६) इति । दिवमेव द्युलोकमेव वैश्वानरमुपासे भगवो राजन् इति ह उवाच । एष वै सुतेजाः शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिद्धो वैश्वानर आत्मा, आत्मनः अवयवभूतत्वात् । यं त्वम् आत्मानम् आत्मैकदेशम् उपास्से, तस्मात् सुतेजसो वैश्वानरस्य उपासनात् तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतम् आसुतं च अहर्गणादिषु तव कुले दृश्यते ; अतीव कर्मि­ण­स्त्व­त्कु­लीना इत्यर्थः ॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वा­न­र­मु­पास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यप­ति­ष्य­द्यन्मां नागमिष्य इति ॥ २ ॥

अत्स्यन्नं दीप्ताग्निः सन् पश्यसि च पुत्रपौत्रादि प्रियमिष्टम् । अन्योऽ­प्य­त्त्यन्नं पश्यति च प्रियं भवत्यस्य सुतं प्रसु­त­मा­सु­त­मि­त्यादि कर्मित्वं ब्रह्मवर्चसं कुले, यः कश्चित् एतं यथोक्तम् एवं वैश्वा­न­र­मु­पास्ते । मूर्धा त्वात्मनो वैश्वानरस्य एष न समस्तो वैश्वानरः । अतः समस्तबुद्ध्या वैश्वा­न­र­स्यो­पा­स­नात् मूर्धा शिरस्ते विपरीतग्राहिणो व्यपतिष्यत् विपतितमभविष्यत् यत् यदि मां नागतोऽभविष्यः । साध्वकार्षीः यन्मा­मा­ग­तोऽ­सी­त्य­भि­प्रायः ॥

इति द्वाद­श­ख­ण्ड­भा­ष्यम् ॥

त्रयोदशः खण्डः

अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमा­त्मा­न­मु­पास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमा­त्मा­न­मु­पास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥

अथ होवाच सत्ययज्ञं पौलुषिम् — हे प्राचीनयोग्य कं त्वमा­त्मा­न­मु­पास्से इति ; आदित्यमेव भगवो राजन् इति ह उवाच । शुक्ल­नी­ला­दि­रू­प­त्वा­द्वि­श्व­रू­प­त्व­मा­दि­त्यस्य, सर्व­रू­प­त्वाद्वा, सर्वाणि रूपाणि हि त्वाष्ट्राणी यतः, अतो वा विश्वरूप आदित्यः ; तदुपासनात् तव बहु विश्व­रू­प­मि­हा­मु­त्रा­र्थ­मु­प­क­रणं दृश्यते कुले ॥

प्रवृ­त्तोऽ­श्व­त­री­रथो दासी­नि­ष्कोऽ­त्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वा­न­र­मु­पास्ते चक्षु­ष्ट्वे­त­दा­त्मन इति होवा­चा­न्धोऽ­भ­विष्यो यन्मां नागमिष्य इति ॥ २ ॥

किञ्च त्वामनु प्रवृत्तः अश्वतरीभ्यां युक्तो रथोऽश्वतरीरथः दासीनिष्को दासीभिर्युक्तो निष्को हारो दाशीनिष्कः । अत्स्य­न्न­मि­त्यादि समानम् । चक्षु­र्वै­श्वा­न­रस्य तु सविता । तस्य सम­स्त­बु­द्ध्यो­पा­स­नात् अन्धोऽभविष्यः चक्षु­र्ही­नोऽ­भ­विष्यः यन्मां नागमिष्य इति पूर्ववत् ॥

इति त्रयो­द­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्दशः खण्डः

अथ होवा­चे­न्द्र­द्युम्नं भाल्लवेयं वैयाघ्रम्पद्य कं त्वमा­त्मा­न­मु­पास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथ­ग्व­र्त्मात्मा वैश्वानरो यं त्वमा­त्मा­न­मु­पास्से तस्मात्त्वां पृथग्बलय आयन्ति पृथ­ग्र­थ­श्रे­ण­योऽ­नु­यन्ति ॥ १ ॥

अथ ह उवाच इन्द्रद्युम्नं भाल्लवेयम् — वैयाघ्रपद्य कं त्वमा­त्मा­न­मु­पास्से इत्यादि समानम् । पृथग्वर्त्मा नाना वर्त्मानियस्य वायो­रा­व­हो­द्व­हा­दि­भि­र्भेदैः वर्तमानस्य सोऽयं पृथग्वर्त्मा वायुः । तस्मात् पृथ­ग्व­र्त्मा­त्मनो वैश्वा­न­र­स्यो­पा­स­नात् पृथक् नानादिक्काः त्वां बलयः वस्त्रा­न्ना­दि­ल­क्षणा बलयः आयन्ति आगच्छन्ति । पृथग्रथश्रेणयः रथपङ्क्तयोऽपि त्वामनुयन्ति ॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वा­न­र­मु­पास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्य उद­क्र­मि­ष्य­द्यन्मां नागमिष्य इति ॥ २ ॥

अत्स्य­न्न­मि­त्यादि समानम् । प्राणस्त्वेष आत्मन इति ह उवाच । प्राणस्ते तव उदक्रमिष्यत् उत्क्रा­न्तोऽ­भ­वि­ष्यत् , यन्मां नागमिष्य इति ॥

इति चतु­र्द­श­ख­ण्ड­भा­ष्यम् ॥

पञ्चदशः खण्डः

अथ होवाच जनं शार्कराक्ष्य कं त्वमा­त्मा­न­मु­पास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल आत्मा वैश्वानरो यं त्वमा­त्मा­न­मु­पास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥

अथ ह उवाच जनमित्यादि समानम् । एष वै बहुल आत्मा वैश्वानरः । बहुलत्वमाकाशस्य सर्वगतत्वात् बहु­ल­गु­णो­पा­स­नाच्च । त्वं बहुलोऽसि प्रजया च पुत्र­पौ­त्रा­दि­ल­क्ष­णया धनेन च हिरण्यादिना ॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वा­न­र­मु­पास्ते सन्देहस्त्वेष आत्मन इति होवाच सन्देहस्ते व्यशी­र्य­द्यन्मां नागमिष्य इति ॥ २ ॥

सन्देहस्त्वेष सन्देहः मध्यमं शरीरं वैश्वानरस्य । दिहे­रु­प­च­या­र्थ­त्वात् मांस­रु­धि­रा­स्थ्या­दि­भिश्च बहुलं शरीरं तत्सन्देहः ते तव शरीरं व्यशीर्यत् शीर्णमभविष्यत् यन्मां नागमिष्य इति ॥

इति पञ्च­द­श­ख­ण्ड­भा­ष्यम् ॥

षोडशः खण्डः

अथ होवाच बुडि­ल­मा­श्व­त­राश्विं वैयाघ्रपद्य कं त्वमा­त्मा­न­मु­पास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमा­त्मा­न­मु­पास्से तस्मात्त्वं रयि­मा­न्पु­ष्टि­मा­नसि ॥ १ ॥

अथ ह उवाच बुडि­ल­मा­श्व­त­रा­श्वि­मि­त्यादि समानम् । एष वै रयिरात्मा वैश्वानरो धनरूपः । अद्भ्योऽन्नं ततो धनमिति । तस्माद्रयिमान् धनवान् त्वं पुष्टिमांश्च शरीरेण पुष्टे­श्चा­न्न­नि­मि­त्त­त्वात् ॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वा­न­र­मु­पास्ते बस्तिस्त्वेष आत्मन इत होवाच बस्तिस्ते व्यभे­त्स्य­द्यन्मां नागमिष्य इति ॥ २ ॥

बस्तिस्त्वेष आत्मनो वैश्वानरस्य, बस्तिः मूत्र­स­ङ्ग्र­ह­स्था­नम् , बस्तिस्ते व्यभेत्स्यत् भिन्नोऽभविष्यत् यन्मां नागमिष्य इति ॥

इति षोडशखण्डभाष्यम् ॥

सप्तदशः खण्डः

अथ होवा­चो­द्दा­ल­क­मा­रुणिं गौतम कं त्वमा­त्मा­न­मु­पास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमा­त्मा­न­मु­पास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वा­न­र­मु­पास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥ २ ॥

अथ ह उवाच उद्दालकमित्यादि समानम् । पृथिवीमेव भगवो राजन्निति ह उवाच । एष वै प्रतिष्ठा पादौ वैश्वानरस्य । पादौ ते व्यम्लास्येतां विम्ला­ना­व­भ­वि­ष्यतां श्लथीभूतौ यन्मां नागमिष्य इति ॥

इति सप्त­द­श­ख­ण्ड­भा­ष्यम् ॥

अष्टादशः खण्डः

तान्होवाचैते वै खलु यूयं पृथ­गि­वे­म­मा­त्मानं वैश्वानरं विद्वां­सोऽ­न्न­मत्थ यस्त्वेतमेवं प्रादे­श­मा­त्र­म­भि­वि­मा­न­मा­त्मानं वैश्वा­न­र­मु­पास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वे­ष्वा­त्म­स्व­न्न­मत्ति ॥ १ ॥

तान् यथो­क्त­वै­श्वा­न­र­द­र्श­न­वतो ह उवाच — एते यूयम् , वै खल्वित्यनर्थकौ, यूयं पृथगिव अपृ­थ­क्स­न्त­मि­म­मेकं वैश्वा­न­र­मा­त्मानं विद्वांसः अन्नमत्थ, परि­च्छि­न्ना­त्म­बु­द्ध्ये­त्ये­तत् —हस्तिदर्शन इव जात्यन्धाः । यस्त्वेतमेवं यथोक्तावयवैः द्युमूर्धादिभिः पृथि­वी­पा­द­न्तै­र्वि­शि­ष्ट­मेकं प्रादेशमात्रं प्रादेशैः द्युमूर्धादिभिः पृथिवीपादान्तैः अध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम् । मुखादिषु वा कर­णे­ष्व­त्तृ­त्वेन मीयत इति प्रादेशमात्रः । द्युलो­का­दि­पृ­थि­व्य­न्त­प्र­दे­श­प­रि­माणो वा प्रादेशमात्रः । प्रकर्षेण शास्त्रेण आदिश्यन्त इति प्रादेशा द्युलोकादय एव तावत्परिमाणः प्रादेशमात्रः । शाखान्तरे तु मूर्धा­दि­श्चि­बु­क­प्र­तिष्ठ इति प्रादेशमात्रं कल्पयन्ति । इह तु न तथा अभिप्रेतः, ‘तस्य ह वा एतस्यात्मनः’(छा. उ. ५ । १८ । २) इत्या­द्यु­प­सं­हा­रात् । प्रत्यगात्मतया अभि­वि­मी­य­तेऽ­ह­मिति ज्ञायत इत्यभिविमानः तमेतमात्मानं वैश्वानरम् — विश्वा­न्न­रा­न्न­यति पुण्य­पा­पा­नु­रूपां गतिं सर्वात्सैष ईश्वरो वैश्वानरः, विश्वो नर एव वा सर्वात्मत्वात् , विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरः तमेवमुपास्ते यः, सोऽदन् अन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरी­रे­न्द्रि­य­म­नो­बु­द्धिषु, तेषु हि आत्म­क­ल्प­ना­व्य­प­देशः, प्राणि­ना­म­न्न­मत्ति, वैश्वा­न­र­वि­त्स­र्वात्मा सन् अन्नमत्ति । न यथा अज्ञाः पिण्ड­मा­त्रा­भि­मानः सन् इत्यर्थः ॥

तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुते­जा­श्च­क्षु­र्वि­श्व­रूपः प्राणः पृथ­ग्व­र्त्मात्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽ­न्वा­हा­र्य­प­चन आस्यमाहवनीयः ॥ २ ॥

कस्मादेवम् ? यस्मात्तस्य ह वै प्रकृतस्यैव एतस्य आत्मनो वैश्वानरस्य मूर्धैव सुतेजाः चक्षु­र्वि­श्व­रूपः प्राणः पृथ­ग्व­र्त्मात्मा सन्देहः बहुलो बस्तिरेव रयिः पृथिव्येव पादौ । अथवा विध्य­र्थ­मे­त­द्व­च­नम् — एवमुपास्य इति । अथेदानीं वैश्वानरविदो भोज­नेऽ­ग्नि­होत्रं सम्पिपादयिषन् आह — एतस्य वैश्वानरस्य भोक्तुः उर एव वेदिः, आकारसामान्यात् । लोमानि बर्हिः, वेद्यामिवोरसि लोमा­न्या­स्ती­र्णानि दृश्यन्ते । हृदयं गार्हपत्यः, हृदयाद्धि मनः प्रणी­त­मि­वा­न­न्तरी भवति ; अतोऽ­न्वा­हा­र्य­प­च­नोऽग्निः मनः । आस्यं मुखमाहवनीय इव आहवनीयो हूय­तेऽ­स्मि­न्न­न्न­मिति ॥

इति अष्टा­द­श­ख­ण्ड­भा­ष्यम् ॥

एकोनविंशः खण्डः

तद्यद्भक्तं प्रथ­म­मा­ग­च्छे­त्त­द्धो­मीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥

तत् तत्रैवं सति यद्भक्तं प्रथमं भोजनकाले आग­च्छे­द्भो­ज­ना­र्थम् , तद्धोमीयं तद्धोतव्यम् , अग्नि­हो­त्र­स­म्प­न्मा­त्रस्य विव­क्षि­त­त्वा­न्ना­ग्नि­हो­त्रा­ङ्गे­ति­क­र्त­व्य­ता­प्रा­प्ति­रिह ; स भोक्ता यां प्रथमामाहुतिं जुहुयात् , तां कथं जुहुयादिति, आह — प्राणाय स्वाहेत्यनेन मन्त्रेण ; आहुतिशब्दात् अव­दा­न­प्र­मा­ण­मन्नं प्रक्षि­पे­दि­त्यर्थः । तेन प्राणस्तृप्यति ॥

प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्य­त्या­दि­त्य­स्तृ­प्य­त्या­दित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चा­दि­त्य­श्चा­धि­ति­ष्ठ­त­स्त­त्तृ­प्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्म­व­र्च­से­नेति ॥ २ ॥

प्राणे तृप्यति चक्षुस्तृप्यति, चक्षुषि तृप्यति आदित्यो द्यौश्चेत्यादि तृप्यति, यच्चान्यत् द्यौश्च आदित्यश्च स्वामि­त्वे­ना­धि­ति­ष्ठतः तच्च तृप्यति, तस्य तृप्तिमनु स्वयं भुञ्जानः तृप्यति एवं प्रत्यक्षम् । किं च प्रजादिभिश्च । तेजः शरीरस्था दीप्तिः उज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्त­स्वा­ध्या­य­नि­मित्तं तेजः ॥

इति एको­न­विं­श­ख­ण्ड­भा­ष्यम् ॥

विंशः खण्डः

अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्र­मा­स्तृ­प्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्च चन्द्र­मा­श्चा­धि­ति­ष्ठन्ति तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्म­व­र्च­से­नेति ॥ २ ॥

इति विंशः खण्डः ॥

एकविंशः खण्डः

अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहे­त्य­पा­न­स्तृ­प्यति ॥ १ ॥

अपाने तृप्यति वाक्तृप्यति वाचि तृप्य­न्त्या­म­ग्नि­स्तृ­प्य­त्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्नि­श्चा­धि­ति­ष्ठ­त­स्त­त्तृ­प्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्म­व­र्च­से­नेति ॥ २ ॥

इति एकविंशः खण्डः ॥

द्वाविंशः खण्डः

अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥

समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्ज­न्य­स्तृ­प्यति पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्ज­न्य­श्चा­धि­ति­ष्ठ­त­स्त­त्तृ­प्यति तस्यानु तृप्तिं तृप्यति प्रजया पसुभिरन्नाद्येन तेजसा ब्रह्म­व­र्च­से­नेति ॥ २ ॥

इति द्वाविंशः खण्डः ॥

त्रयोविंशः खण्डः

अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहे­त्यु­दा­न­स्तृ­प्यति ॥ १ ॥

उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायौ तृप्य­त्या­का­श­स्तृ­प्य­त्या­काशे तृप्यति यत्किञ्च वायु­श्चा­का­श­श्चा­धि­ति­ष्ठ­त­स्त­त्तृ­प्यति तस्यानु तृप्तिं प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ॥ २ ॥

अथ यां द्वितीयां तृतीयां चतुर्थीं पञ्चमीमिति समानम् ॥

इति त्रयो­विं­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्विंशः खण्डः

स य इद­म­वि­द्वा­न­ग्नि­होत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहु­या­त्ता­दृ­क्त­त्स्यात् ॥ १ ॥

स यः कश्चित् इदं वैश्वानरदर्शनं यथोक्तम् अविद्वान्सन् अग्निहोत्रं प्रसिद्धं जुहोति, यथा अङ्गा­रा­ना­हु­ति­यो­ग्या­न­पो­ह्या­ना­हु­ति­स्थाने भस्मनि जुहुयात् , तादृक् तत्तुल्यं तस्य तदग्निहोत्रहवनं स्यात् , वैश्वानरविदः अग्नि­हो­त्र­म­पेक्ष्य — इति प्रसि­द्धा­ग्नि­हो­त्र­नि­न्दया वैश्वा­न­र­वि­दोऽ­ग्नि­होत्रं स्तूयते ॥

अथ य एतदेवं विद्वा­न­ग्नि­होत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥

अतश्च एत­द्वि­शि­ष्ट­म­ग्नि­हो­त्रम् । कथम् ? अथ य एतदेवं विद्वान् अग्निहोत्रं जुहोति, तस्य यथो­क्त­वै­श्वा­न­र­वि­ज्ञा­न­वतः सर्वेषु लोके­ष्वि­त्या­द्यु­क्ता­र्थम् , हुतम् अन्नमत्ति इत्य­न­यो­रे­का­र्थ­त्वात् ॥

तद्य­थे­षी­का­तू­ल­मग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वा­न­ग्नि­होत्रं जुहोति ॥ ३ ॥

किञ्च तद्यथा इषीकायास्तूलम् अग्नौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदह्येत क्षिप्रम् , एवं ह अस्य विदुषः सर्वात्मभूतस्य सर्वा­न्ना­ना­मत्तुः सर्वे निरवशिष्टाः पाप्मानः धर्माधर्माख्याः अने­क­ज­न्म­स­ञ्चिताः इह च प्राग्ज्ञा­नो­त्पत्तेः ज्ञानसहभाविनश्च प्रदूयन्ते प्रदह्येरन् वर्त­मा­न­श­री­रा­र­म्भ­क­पा­प्म­व­र्जम् ; लक्ष्यं प्रति मुक्तेषुवत् प्रवृ­त्त­फ­ल­त्वात् तस्य न दाहः । य एतदेवं विद्वान् अग्निहोत्रं जुहोति भुङ्क्ते ॥

तस्मादु हैवंविद्यद्यपि चण्डा­ला­यो­च्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति तदेष श्लोकः ॥ ४ ॥

स यद्यपि चण्डालाय उच्छिष्टानर्हाय उच्छिष्टं दद्यात् प्रति­षि­द्ध­मु­च्छि­ष्ट­दानं यद्यपि कुर्यात् , आत्मनि हैव अस्य चण्डालदेहस्थे वैश्वानरे तद्धुतं स्यात् न अधर्मनिमित्तम् —इति विद्यामेव स्तौति । तदे­त­स्मि­न्स्तु­त्यर्थे श्लोकः मन्त्रोऽप्येष भवति ॥

यथेह क्षुधिता बाला मातरं पर्युपासत एवं सर्वाणि भूता­न्य­ग्नि­हो­त्र­मु­पा­सत इत्य­ग्नि­हो­त्र­मु­पा­सत इति ॥ ५ ॥

यथा इह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते — कदा नो माता अन्नं प्रयच्छतीति, एवं सर्वाणि भूतान्यन्नादानि एवंविदः अग्निहोत्रं भोजनमुपासते — कदा त्वसौ भोक्ष्यत इति, जगत्सर्वं विद्वद्भोजनेन तृप्तं भवतीत्यर्थः । द्विरु­क्ति­र­ध्या­य­प­रि­स­मा­प्त्यर्था ॥

इति चतु­र्विं­श­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ छान्दो­ग्यो­प­नि­ष­द्भाष्ये पञ्चमोऽध्यायः समाप्तः ॥