अद्वैतशारदा

छान्दोग्योपनिषद्भाष्यम्

षष्ठोऽध्यायः

व्याख्याः

प्रथमः खण्डः

श्वेतकेतुः ह आरुणेय आस इत्या­द्य­ध्या­य­स­म्बन्धः — ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्युक्तम् , कथं तस्मात् जगदिदं जायते तस्मिन्नेव च लीयते अनिति च तेनैव इत्ये­त­द्व­क्त­व्यम् । अनन्तरं च एकस्मिन्भुक्ते विदुषि सर्वं जगत्तृप्तं भवतीत्युक्तम् , तत् एकत्वे सति आत्मनः सर्वभूतस्थस्य उपपद्यते, न आत्मभेदे ; कथं च तदेकत्वमिति तदर्थोऽयं षष्ठोऽध्याय आरभ्यते —

श्वेत­के­तु­र्हा­रु­णेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वैसो­म्या­स्म­त्कु­ली­नोऽ­न­नूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥

पिता­पु­त्रा­ख्या­यिका विद्यायाः सारि­ष्ठ­त्व­प्र­द­र्श­नार्था । श्वेतकेतुरिति नामतः, ह इत्यै­ति­ह्यार्थः, आरुणेयः अरुणस्य पौत्रः आस बभूव । तं पुत्रं ह आरुणिः पिता योग्यं विद्याभाजनं मन्वानः तस्यो­प­न­य­न­का­ला­त्ययं च पश्यन् उवाच — हे श्वेतकेतो अनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम् ; न च एतद्युक्तं यदस्मत्कुलीनो हे सोम्य अननूच्य अनधीत्य ब्रह्मबन्धुरिव भवतीति ब्राह्म­णा­न्ब­न्धू­न्व्य­प­दि­शति न स्वयं ब्राह्मणवृत्त इति । तस्य अतः प्रवासो अनुमीयते पितुः, . येन स्वयं गुणवान्सन् पुत्रं नोपनेष्यति ॥

स ह द्वादशवर्ष उपेत्य चतु­र्विꣳश­ति­वर्षः सर्वा­न्वे­दा­न­धीत्य महामना अनूचानमानी स्तब्ध एयाय तꣳह पितोवाच ॥ २ ॥

सः पित्रोक्तः श्वेतकेतुः ह द्वादशवर्षः सन् उपेत्य आचार्यं याव­च्च­तु­र्विं­श­ति­वर्षो बभूव, तावत् सर्वान्वेदान् चतुरोऽप्यधीत्य तदर्थं च बुद्ध्वा महामनाः महत् गम्भीरं मनः यस्य अस­म­मा­त्मा­न­म­न्यै­र्म­न्य­मानं मनः यस्य सोऽयं महामनाः अनूचानमानी अनूचानमात्मानं मन्यत इति एवंशीलो यः सोऽनूचानमानी स्तब्धः अप्रणतस्वभावः एयाय गृहम् । तम् एवंभूतं ह आत्म­नोऽ­न­नु­रू­प­शीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्ध­र्मा­व­ता­र­चि­की­र्षया ॥

श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमा­दे­श­म­प्राक्ष्यः येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥

श्वेतकेतो यन्नु इदं महामनाः अनूचानमानी स्तब्धश्चासि, कस्तेऽतिशयः प्राप्तः उपाध्यायात् , उत अपि तमादेशं आदिश्यत इत्यादेशः केव­ल­शा­स्त्रा­च­र्यो­प­दे­श­ग­म्य­मि­त्ये­तत् , येन वा परं ब्रह्म आदिश्यते स आदेशः तमप्राक्ष्यः पृष्ट­वा­न­स्या­चा­र्यम् ? तमादेशं विशिनष्टि — येन आदेशेन श्रुतेन अश्रुतमपि अन्यच्छ्रुतं भवति अमतं मतम् अतर्कितं तर्कितं भवति अविज्ञातं विज्ञातं अनिश्चितं निश्चितं भवतीति । सर्वानपि वेदानधीत्य सर्वं च अन्य­द्वे­द्य­म­धि­ग­म्यापि अकृतार्थ एव भवति यावदात्मतत्त्वं न जाना­ती­त्या­ख्या­यि­का­तोऽ­व­ग­म्यते । तदेतदद्भुतं श्रुत्वा आह, कथं नु एतदप्रसिद्धम् अन्य­वि­ज्ञा­ने­ना­न्य­द्वि­ज्ञातं भवतीति ; एवं मन्वानः पृच्छति — कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति ॥

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वा­चा­र­म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥

यथा स आदेशो भवति तच्छृणु हे सोम्य — यथा लोके एकेन मृत्पिण्डेन रुच­क­कु­म्भा­दि­का­र­ण­भू­तेन विज्ञातेन सर्व­म­न्य­त्त­द्वि­का­र­जातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात् । कथं मृत्पिण्डे कारणे विज्ञाते कार्य­म­न्य­द्वि­ज्ञातं स्यात् ? नैष दोषः, कार­णे­ना­न­न्य­त्वा­त्का­र्यस्य । यन्मन्यसे अन्य­स्मि­न्वि­ज्ञा­तेऽ­न्यन्न ज्ञायत इति — सत्यमेवं स्यात् , यद्य­न्य­त्का­र­णा­त्कार्यं स्यात् , न त्वेव­म­न्य­त्का­र­णा­त्का­र्यम् । कथं तर्हीदं लोके — इदं कारणमयमस्य विकार इति ? शृणु । वाचारम्भणं वागारम्भणं वागा­ल­म्ब­न­मि­त्ये­तत् । कोऽसौ ? विकारो नामधेयं नामैव नामधेयम् , स्वार्थे धेयप्रत्ययः, वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति ; परमार्थतो मृत्तिकेत्येव मृत्तिकैव तु सत्यं वस्त्वस्ति ॥

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञा­तꣳस्या­द्वा­चा­र­म्भणं विकारो नामधेयं लोहितमित्येव सत्यम् ॥ ५ ॥

यथा सोम्य एकेन लोहमणिना सुवर्णपिण्डेन सर्व­म­न्य­द्वि­का­र­जातं कट­क­मु­कु­ट­के­यू­रादि विज्ञातं स्यात् । वाचा­र­म्भ­ण­मि­त्यादि समानम् ॥

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्याद्वा­चा­र­म्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवꣳ सोम्य स आदेशो भवतीति ॥ ६ ॥

यथा सोम्य एकेन नख­नि­कृ­न्त­ने­नो­प­ल­क्षि­तेन कृष्णा­य­स­पि­ण्डे­ने­त्यर्थः ; सर्वं कार्ष्णायसं कृष्णा­य­स­वि­का­र­जातं विज्ञातं स्यात् । समानमन्यत् । अने­क­दृ­ष्टा­न्तो­पा­दानं दार्ष्टा­न्ति­का­ने­क­भे­दा­नु­ग­मा­र्थम् , दृढप्रतीत्यर्थं च । एवं सोम्य स आदेशः, यः मयोक्तः भवति । इत्युक्तवति पितरि, आह इतरः —

न वै नूनं भगवन्तस्त एत­द­वे­दि­षु­र्य­द्ध्ये­त­द­वे­दि­ष्य­न्कथं मे नावक्ष्यन्निति भगवाꣳस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ ७ ॥

न वै नूनं भगवन्तः पूजावन्तः गुरवः मम ये, ते एतत् यद्भवदुक्तं वस्तु नावेदिषुः न विज्ञातवन्तः नूनम् । यत् यदि हि अवेदिष्यन् विदितवन्तः एतद्वस्तु, कथं मे गुणवते भक्तायानुगताय नावक्ष्यन् नोक्तवन्तः, तेनाहं मन्ये — न विदितवन्त इति । अवाच्यमपि गुरो­र्न्य­ग्भा­व­म­वा­दीत् पुनर्गुरुकुलं प्रति प्रेषणभयात् । अतो भगवांस्त्वेव मे मह्यं तद्वस्तु, येन सर्वज्ञत्वं ज्ञातेन मे स्यात् , तद्ब्रवीतु कथयतु ; इत्युक्तः पितोवाच — तथास्तु सोम्येति ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम् । तद्धैक आहुरसदेवेदमग्र आसी­दे­क­मे­वा­द्वि­तीयं तस्मादसतः सज्जायत ॥ १ ॥

सदेव सदिति अस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतमेकं निरञ्जनं निरवयवं विज्ञानम् , यदवगम्यते सर्व­वे­दा­न्तेभ्यः । एव - शब्दः अवधारणार्थः । किं तदवध्रियत इति, आह — इदं जगत् , नाम­रू­प­क्रि­या­व­द्वि­कृ­त­मु­प­ल­भ्यते यत् , तत्सदेवासीत् इति आसीच्छब्देन सम्बध्यते । कदा सदेवेदमासीदिति, उच्यते — अग्रे जगतः प्रागुत्पत्तेः । किं नेदानीमिदं सत् , येन अग्रे आसीदिति विशेष्यते ? न । कथं तर्हि विशेषणम् ? इदानीमपीदं सदेव, किन्तु नाम­रू­प­वि­शे­ष­ण­व­दि­दं­श­ब्द­बु­द्धि­वि­षयं च इतीदं च भवति । प्रागु­त्प­त्तेस्तु अग्रे केव­ल­स­च्छ­ब्द­बु­द्धि­मा­त्र­ग­म्य­मे­वेति सदेवेदमग्र आसी­दि­त्य­व­धा­र्यते । न हि प्रागुत्पत्तेः नामवद्रूपवद्वा इदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाले इव । यथा सुषु­प्ता­दु­त्थितः सत्त्व­मा­त्र­म­व­ग­च्छति सुषुप्ते सन्मात्रमेव केवलं वस्त्विति, तथा प्रागु­त्प­त्ते­रि­त्य­भि­प्रायः । यथा इदमुच्यते लोके — पूर्वाह्णे धटादि सिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतः अपराह्णे तत्रैव घट­श­रा­वा­द्य­ने­क­भे­द­भिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्न आसीदिति, तथा इहाप्युच्यते — सदेवेदमग्र आसीदिति । एकमेवेति । स्वका­र्य­प­ति­त­म­न्य­न्ना­स्तीति एकमेवेत्युच्यते । अद्वितीयमिति । मृद्व्यतिरेकेण मृदः यथा अन्य­द्घ­टा­द्या­का­रेण परि­ण­म­यि­तृ­कु­ला­ला­दि­नि­मि­त्त­का­रणं दृष्टम् , तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते — अद्वितीयमिति, नास्य द्वितीयं वस्त्वन्तरं विद्यते इत्यद्वितीयम् । ननु वैशेषिकपक्षेऽपि सत्सा­मा­ना­धि­क­रण्यं सर्व­स्यो­प­प­द्यते, द्रव्यगुणादिषु सच्छ­ब्द­बु­द्ध्य­नु­वृत्तेः — सद्द्रव्यं सन्गुणः सन्क­र्मे­त्या­दि­द­र्श­नात् । सत्यमेवं स्यादिदानीम् ; प्रागु­त्प­त्तेस्तु नैवेदं कार्यं सदे­वा­सी­दि­त्य­भ्यु­प­ग­म्यते वैशेषिकैः, प्रागुत्पत्तेः कार्य­स्या­स­त्त्वा­भ्यु­प­ग­मात् । न च एकमेव सदद्वितीयं प्रागु­त्प­त्ते­रि­च्छन्ति । तस्मा­द्वै­शे­षि­क­प­रि­क­ल्पि­ता­त्सतः अन्यत्कारणमिदं सदुच्यते मृदा­दि­दृ­ष्टा­न्तेभ्यः । तत् तत्र ह एत­स्मि­न्प्रा­गु­त्प­त्ते­र्व­स्तु­नि­रू­पणे एके वैनाशिका आहुः वस्तु निरूपयन्तः — असत् सदभावमात्रं प्रागुत्पत्तेः इदं जगत् एकमेव अग्रे अद्वि­ती­य­मा­सी­दिति । सदभावमात्रं हि प्रागु­त्प­त्ते­स्तत्त्वं कल्पयन्ति बौद्धाः । न तु सत्प्र­ति­द्वन्द्वि वस्त्व­न्त­र­मि­च्छन्ति । यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्विपरीतं तत्त्वं भवतीति नैयायिकाः । ननु सदभावमात्रं प्रागु­त्प­त्ते­श्चे­द­भि­प्रेतं वैनाशिकैः, कथं प्रागु­त्प­त्ते­रि­द­मा­सी­द­स­दे­क­मे­वा­द्वि­तीयं चेति कालसम्बन्धः सङ्‍ख्या­स­म्व­न्धोऽ­द्वि­ती­यत्वं च उच्यते तैः । बाढं न युक्तं तेषां भावा­भा­व­मा­त्र­म­भ्यु­प­ग­च्छ­ताम् । अस­त्त्व­मा­त्रा­भ्यु­प­ग­मोऽ­प्य­युक्त एव, अभ्यु­प­ग­न्तु­र­न­भ्यु­प­ग­मा­नु­प­पत्तेः । इदा­नी­म­भ्यु­प­गन्ता अभ्युपगम्यते न प्रागु­त्प­त्ते­रिति चेत् , न, प्रागुत्पत्तेः सदभावस्य प्रमाणाभावात् । प्रागुत्पत्ते रसदेवेति कल्पनानुपपत्तिः । ननु कथं वस्त्वाकृतेः शब्दार्थत्वे अस­दे­क­मे­वा­द्वि­ती­य­मिति पदा­र्थ­वा­क्या­र्थो­प­पत्तिः, तदनुपपत्तौ च इदं वाक्यमप्रमाणं प्रसज्येतेति चेत् , नैष दोषः, सद्ग्र­ह­ण­नि­वृ­त्ति­प­र­त्वा­द्वा­क्यस्य । सदित्ययं तावच्छब्दः सदाकृतिवाचकः । एक­मे­वा­द्वि­ती­य­मि­त्येतौ च सच्छब्देन समानाधिकरणौ ; तथेदमासीदिति च । तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वा­क्य­मे­वा­व­लम्ब्य सद्वा­क्या­र्थ­वि­षयां बुद्धिं सदे­क­मे­वा­द्वि­ती­य­मि­द­मा­सी­दि­त्ये­वं­ल­क्षणां ततः सद्वा­क्या­र्था­न्नि­व­र्त­यति, अश्वारूढ इव अश्वालम्बनः अश्वं तद­भि­मु­ख­वि­ष­या­न्नि­व­र्त­यति — तद्वत् । न तु पुनः सदभावमेव अबिधत्ते । अतः पुरुषस्य विप­री­त­ग्र­ह­ण­नि­वृ­त्त्य­र्थ­प­रम् इदमसदेवेत्यादि वाक्यं प्रयुज्यते । दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्य­र्थ­व­त्त्वात् असदादिवाक्यस्य श्रौतत्वं प्रामाण्यं च सिद्धमित्यदोषः । तस्मात् असतः सर्वाभावरूपात् सत् विद्यमानम् जायत समुत्पन्नम् अडभावः छान्दसः ॥

कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम् ॥ २ ॥

तदे­त­द्वि­प­री­त­ग्र­हणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति — कुतस्तु प्रमाणात्खलु हे सोम्य एवं स्यात् असतः सज्जायेत इत्येवं कुतो भवेत् ? न कुत­श्चि­त्प्र­मा­णा­देवं सम्भवतीत्यर्थः । यदपि बीजो­प­म­र्देऽ­ङ्कुरो जायमानो दृष्टः अभावादेवेति, तद­प्य­भ्यु­प­ग­म­वि­रुद्धं तेषाम् । कथम् ? ये तावद्बीजावयवाः बीज­सं­स्था­न­वि­शिष्टाः तेऽङ्कु­रेऽ­प्य­नु­व­र्तन्त एव, न तेषा­मु­प­म­र्दोऽ­ङ्कु­र­ज­न्मनि । यत्पु­न­र्बी­जा­का­र­सं­स्था­नम् , तद्बी­जा­व­य­व­व्य­ति­रे­केण वस्तुभूतं न वैना­शि­कै­र­भ्यु­प­ग­म्यते, यद­ङ्कु­र­ज­न्म­न्यु­प­मृ­द्येत । अथ तदस्ति अवयवव्यतिरिक्तं वस्तुभूतम् , तथा च सति अभ्युपगमविरोधः । अथ संवृत्या अभ्युपगतं बीज­सं­स्था­न­रू­प­मु­प­मृ­द्यत इति चेत् , केयं संवृतिर्नाम — किमसावभावः, उत भावः इति ? यद्यभावः, दृष्टान्ताभावः । अथ भावः, तथापि नाभा­वा­द­ङ्कु­रो­त्पत्तिः, बीजावयवेभ्यो हि अङ्कुरोत्पत्तिः । अवयवा अप्युपमृद्यन्त इति चेत् , न, तदवयवेषु तुल्यत्वात् । यथा वैनाशिकानां बीज­सं­स्था­न­रू­पोऽ­व­यवी नास्ति, तथा अवयवा अपीति तेषा­म­प्यु­प­म­र्दा­नु­प­पत्तिः । बीजावयवानामपि सूक्ष्मावयवाः तद­व­य­वा­ना­म­प्यन्ये सूक्ष्मतरावयवाः इत्येवं प्रस­ङ्ग­स्या­नि­वृत्तेः सर्व­त्रो­प­म­र्दा­नु­प­पत्तिः । सद्बु­द्ध्य­नु­वृत्तेः सत्त्वा­नि­वृ­त्ति­श्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति । न तु असद्वादिनां दृष्टान्तोऽस्ति असतः सदुत्पत्तेः । मृत्पि­ण्डा­द्घ­टो­त्प­त्ति­र्दृ­श्यते सद्वादिनाम् , तद्भावे भावात्तदभावे चाभावात् । यद्यभावादेव घट उत्पद्येत, घटार्थिना मृत्पिण्डो नोपादीयेत, अभा­व­श­ब्द­बु­द्ध्य­नु­वृ­त्तिश्च घटादौ प्रसज्येत ; न त्वेतदस्ति ; अतः नासतः सदुत्पत्तिः । यदप्याहुः मृद्बु­द्धि­र्घ­ट­बु­द्धे­र्नि­मि­त्त­मिति मृद्बु­द्धि­र्घ­ट­बुद्धेः कारणमुच्यते, न तु परमार्थत एव मृद्घटो वा अस्तीति, तदपि मृद्बु­द्धि­र्वि­द्य­माना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः सदुत्पत्तिः । मृद्घटबुद्ध्योः निमि­त्त­नै­मि­त्ति­क­तया आनन्तर्यमात्रम् , न तु कार्य­का­र­ण­त्व­मिति चेत् , न, बुद्धीनां नैरन्तर्ये गम्यमाने वैनाशिकानां बहि­र्दृ­ष्टा­न्ता­भा­वात् । अतः कुतस्तु खलु सोम्य एवं स्यात् इति ह उवाच — कथं केन प्रकारेण असतः सज्जायेत इति ; असतः सदुत्पत्तौ न कश्चिदपि दृष्टा­न्त­प्र­का­रोऽ­स्ती­त्य­भि­प्रायः । एव­म­स­द्वा­दि­प­क्ष­मु­न्मथ्य उपसंहरति — सत्त्वेव सोम्येदमग्र आसीदिति स्वपक्षसिद्धिम् । ननु सद्वादिनोऽपि सतः सदुत्पद्यते इति नैव दृष्टा­न्तोऽस्ति, घटा­द्घ­टा­न्त­रो­त्प­त्त्य­द­र्श­नात् । सत्यमेवं न सतः सद­न्त­र­मु­त्प­द्यते ; किं तर्हि, सदेव संस्था­ना­न्त­रे­णा­व­ति­ष्ठते — यथा सर्पः कुण्डली भवति, यथा च मृत् चूर्ण­पि­ण्ड­घ­ट­क­पा­ला­दि­प्र­भेदैः । यद्येवं सदेव सर्व­प्र­का­रा­व­स्थम् , कथं प्रागु­त्प­त्ते­रि­द­मा­सी­दि­त्यु­च्यते ? ननु न श्रुतं त्वया, सदेवेत्यवधारणम् इदं — शब्दवाच्यस्य कार्यस्य । प्राप्तं तर्हि प्रागुत्पत्तेः असदेवासीत् न इदं — शब्दवाच्यम् , इदानीमिदं जातमिति । न, सत एव इदं — शब्द­बु­द्धि­वि­ष­य­तया अवस्थानात् , यथा मृदेव पिण्ड­घ­टा­दि­श­ब्द­बु­द्धि­वि­ष­य­त्वे­ना­व­ति­ष्ठते — तद्वत् । ननु यथा मृद्वस्तु एवं पिण्डघटाद्यपि, तद्वत् सद्बु­द्धे­र­न्य­बु­द्धि­वि­ष­य­त्वा­त्का­र्यस्य सतोऽ­न्य­द्व­स्त्व­न्तरं स्यात्कार्यजातं यथा अश्वाद्गौः । न, पिण्ड­घ­टा­दी­ना­मि­त­रे­त­र­व्य­भि­चा­रेऽपि मृत्त्वा­व्य­भि­चा­रात् । यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटम् , तथापि पिण्डघटौ मृत्त्वं न व्यभिचरतः तस्मा­न्मृ­न्मात्रं पिण्डघटौ । व्यभिचरति त्वश्वं गौः अश्वो वा गाम् । तस्मा­न्मृ­दा­दि­सं­स्था­न­मात्रं घटादयः । एवं सत्सं­स्था­न­मा­त्र­मिदं सर्वमिति युक्तं प्रागुत्पत्तेः सदेवेति, वाचा­र­म्भ­ण­मा­त्र­त्वा­द्वि­का­र­सं­स्था­न­मा­त्रस्य । ननु निरवयवं सत् , ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं’(श्वे. उ. ६ । १९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’(मु. उ. २ । १ । २) इत्या­दि­श्रु­तिभ्यः ; निरवयवस्य सतः कथं विका­र­सं­स्था­न­मु­प­प­द्यते ? नैष दोषः, रज्ज्वा­द्य­व­य­वेभ्यः सर्पा­दि­सं­स्था­न­वत् बुद्धि­प­रि­क­ल्पि­तेभ्यः सदवयवेभ्यः विका­र­सं­स्था­नो­प­पत्तेः । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छा. उ. ६ । १ । ४) एवं सदेव सत्यम् — इति श्रुतेः । एकमेवाद्वितीयं परमार्थतः इद­म्बु­द्धि­का­लेऽपि ॥

तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ३ ॥

तत् सत् ऐक्षत ईक्षां दर्शनं कृतवत् । अतश्च न प्रधानं साङ्ख्य­प­रि­क­ल्पितं जगत्कारणम् , प्रधा­न­स्या­चे­त­न­त्वा­भ्यु­प­ग­मात् । इदं तु सत् चेतनम् , ईक्षितृत्वात् । तत्कथमैक्षतेति, आह — बहु प्रभूतं स्यां भवेयं प्रजायेय प्रक­र्षे­णो­त्प­द्येय, यथा मृद्घ­टा­द्या­का­रेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुद्धि­प­रि­क­ल्पि­तेन । असदेव तर्हि सर्वम् , यद्गृह्यते रज्जुरिव सर्पाद्याकारेण । न, सत एव द्वैतभेदेन अन्य­था­गृ­ह्य­मा­ण­त्वात् न असत्त्वं कस्य­चि­त्क्व­चि­दिति ब्रूमः । यथा सतोऽ­न्य­द्व­स्त्व­न्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वं­सा­च्चो­र्ध्वम् असत्त्वं ब्रुवते तार्किकाः, न तथा अस्माभिः कदाचित्क्वचिदपि सतोऽ­न्य­द­भि­धा­न­म­भि­धेयं वा वस्तु परिकल्प्यते । सदेव तु सर्व­म­भि­धा­न­म­भि­धी­यते च यदन्यबुद्ध्या, यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते, यथा वा पिण्डघटादि मृदोऽ­न्य­बुद्ध्या पिण्ड­घ­टा­दि­श­ब्दे­ना­भि­धी­यते लोके । रज्जु­वि­वे­क­द­र्शिनां तु सर्पा­भि­धा­न­बुद्धी निवर्तेते, यथा च मृद्वि­वे­क­द­र्शिनां घटा­दि­श­ब्द­बुद्धी, तद्वत् सद्वि­वे­क­द­र्शि­ना­म­न्य­वि­का­र­श­ब्द­बुद्धी निवर्तेते — ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह’(तै. उ. २ । ९ । १) इति, ‘अनि­रु­क्तेऽ­नि­ल­यने’(तै. उ. २ । ७ । १) इत्या­दि­श्रु­तिभ्यः । एवमीक्षित्वा तत् तेजः असृजत तेजः सृष्टवत् । ननु ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इति श्रुत्यन्तरे आकाशाद्वायुः ततस्तृतीयं तेजः श्रुतम् , इह कथं प्राथम्येन तस्मादेव तेजः सृज्यते तत एव च आकाशमिति विरुद्धम् ? नैष दोषः, आका­श­वा­यु­स­र्गा­न­न्तरं तत्सत् तेजोऽसृजतेति कल्पनोपपत्तेः । अथवा अविवक्षितः इह सृष्टिक्रमः ; सत्कार्यमिदं सर्वम् , अतः सदे­क­मे­वा­द्वि­ती­य­मि­त्ये­त­द्वि­व­क्षि­तम् , मृदा­दि­दृ­ष्टा­न्तात् । अथवा त्रिवृत्करणस्य विवक्षितत्वात् तेजोबन्नानामेव सृष्टिमाचष्टे । तेज इति प्रसिद्धं लोके दग्धृ पक्तृ प्रकाशकं रोहितं चेति । तत् सत्सृष्टं तेजः ऐक्षत तेजोरूपसंस्थितं सत् ऐक्षतेत्यर्थः । बहु स्यां प्रजायेयेति पूर्ववत् । तत् अपोऽसृजत आपः द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिद्धा लोके । यस्मात्तेजसः कार्यभूता आपः, तस्माद्यत्र क्वच देशे काले वा शोचति सन्तप्यते स्वेदते प्रस्विद्यते वा पुरुषः तेजस एव तत् तदा आपः अधिजायन्ते ॥

ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ४ ॥

ता आप ऐक्षन्त पूर्ववदेव अबाकारसंस्थितं सदैक्षतेत्यर्थः । बह्वयः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहीति । ता अन्नमसृजन्त पृथिवीलक्षणम् । पार्थिवं हि अन्नम् ; यस्मा­द­प्का­र्य­म­न्नम् , तस्मात् यत्र क्व च वर्षति देशे तत् तत्रैव भूयिष्ठं प्रभूतमन्नं भवति । अतः अद्भ्य एव तद­न्ना­द्य­म­धि­जा­यते । ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वम् , इह तु दृष्टान्ते अन्नं च तदाद्यं चेति विशेषणात् व्रीहियवाद्या उच्यन्ते । अन्नं च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिद्धम् ॥

ननु तेजःप्रभृतिषु ईक्षणं न गम्यते, हिंसा­दि­प्र­ति­षे­धा­भा­वात् त्रासा­दि­का­र्या­नु­प­ल­म्भाच्च ; तत्र कथं तत्तेज ऐक्षतेत्यादि ? नैष दोषः । ईक्षि­तृ­का­र­ण­प­रि­णा­म­त्वा­त्ते­जः­प्र­भृ­तीनां सत एव ईक्षितुः निय­त­क्र­म­वि­शि­ष्ट­का­र्यो­त्पा­द­क­त्वाच्च तेजःप्रभृति ईक्षते इव ईक्षते इत्युच्यते भूतम् । ननु सतोऽ­प्यु­प­च­रि­त­मेव ईक्षितृत्वम् । न । सदीक्षणस्य केव­ल­श­ब्द­ग­म्य­त्वात् न शक्यमुपचरितं कल्पयितुम् । तेजःप्रभृतीनां त्वनुमीयते मुख्येक्षणाभाव इति युक्तमुपचरितं कल्पयितुम् । ननु सतोऽपि मृद्व­त्का­र­ण­त्वा­द­चे­त­नत्वं शक्यमनुमातुम् । अतः प्रधा­न­स्यै­वा­चे­त­नस्य सत­श्चे­त­ना­र्थ­त्वात् निय­त­का­ल­क्र­म­वि­शि­ष्ट­का­र्यो­त्पा­द­क­त्वाच्च ऐक्षत इव ऐक्षतेति शक्यमनुमातुम् उपचरितमेव ईक्षणम् । दृष्टश्च लोके अचेतने चेतनवदुपचारः, यथा कूलं पिपतिषतीति तद्वत् सतोऽपि स्यात् । न, ‘तत्सत्यं स आत्मा’(छा. उ. ६ । १४ । ३) इति तस्मि­न्ना­त्मो­प­दे­शात् । आत्मो­प­दे­शोऽ­प्यु­प­च­रित इति चेत्— यथा ममात्मा भद्रसेन इति सर्वा­र्थ­का­रि­ण्य­ना­त्मनि आत्मोपचारः — तद्वत् ; न, सदस्मीति सत्स­त्या­भि­स­न्धस्य ‘तस्य तावदेव चिरम्’(छा. उ. ६ । १४ । २) इति मोक्षोपदेशात् । सोऽप्युपचार इति चेत्— प्रधा­ना­त्मा­भि­स­न्धस्य मोक्षसामीप्यं वर्तत इति मोक्षो­प­दे­शोऽ­प्यु­प­च­रित एव, यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राममिति ब्रूया­त्त्व­ग­पे­क्षया — तद्वत् ; न, येन विज्ञा­ते­ना­वि­ज्ञातं विज्ञातं भव­ती­त्यु­प­क्र­मात् । सति एक­स्मि­न्वि­ज्ञाते सर्वं विज्ञातं भवति, तदनन्यत्वात् सर्व­स्या­द्वि­ती­य­व­च­नाच्च । न च अन्य­द्वि­ज्ञा­त­व्य­म­व­शिष्टं श्रावितं श्रुत्या अनुमेयं वा लिङ्गतः अस्ति, येन मोक्षोपदेश उपचरितः स्यात् । सर्वस्य च प्रपाठकार्थस्य उप­च­रि­त­त्व­प­रि­क­ल्प­नायां वृथा श्रमः परिकल्पयितुः स्यात् , पुरु­षा­र्थ­सा­ध­न­वि­ज्ञा­नस्य तर्के­णै­वा­धि­ग­त­त्वा­त्तस्य । तस्मा­द्वे­द­प्रा­मा­ण्यात् न युक्तः श्रुता­र्थ­प­रि­त्यागः । अतः चेतनावत्कारणं जगत इति सिद्धम् ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥

तृतीयः खण्डः

तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीव­ज­मु­द्भि­ज्ज­मिति ॥ १ ॥

तेषां जीवाविष्टानां खलु एषां पक्ष्यादीनां भूतानाम् , एषामिति प्रत्य­क्ष­नि­र्दे­शात् , न तु तेजःप्रभृतीनाम् , तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वात् ; असति त्रिवृत्करणे प्रत्य­क्ष­नि­र्दे­शा­नु­प­पत्तिः । देव­ता­श­ब्द­प्र­यो­गाच्च तेजःप्रभृतिषु — ‘इमास्तिस्रो देवताः’ इति । तस्मात् तेषां खल्वेषां भूतानां पक्षि­प­शु­स्था­व­रा­दीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भवन्ति । कानि तानीति, उच्यन्ते — आण्डजम् अण्डा­ज्जा­त­म­ण्ड­जम् अण्डजमेव आण्डजं पक्ष्यादि । पक्षि­स­र्पा­दिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते । तेन पक्षी पक्षिणां बीजं सर्पः सर्पाणां बीजं तथा अन्य­द­प्य­ण्डा­ज्जातं तज्जातीयानां बीजमित्यर्थः । ननु अण्डाज्जातम् अण्डजमुच्यते, अतोऽण्डमेव बीजमिति युक्तम् ; कथमण्डजं बीजमुच्यते ? सत्यमेवं स्यात् , यदि त्वदि­च्छा­तन्त्रा श्रुतिः स्यात् ; स्वतन्त्रा तु श्रुतिः, यत आह अण्डजाद्येव बीजं न अण्डादीति । दृश्यते च अण्डजाद्यभावे तज्जा­ती­य­स­न्त­त्य­भावः, न अण्डाद्यभावे । अतः अण्डजादीन्येव बीजानि अण्डजादीनाम् । तथा जीवाज्जातं जीवजं जरा­यु­ज­मि­त्ये­त­त्पु­रु­ष­प­श्वादि । उद्भिज्जम् उद्भि­न­त्ती­त्यु­द्भित् स्थावरं ततो जातमुद्भिज्जम् , धाना वा उद्भित् ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां बीजमित्यर्थः । स्वेद­ज­सं­शो­क­ज­यो­र­ण्ड­जो­द्भि­ज्ज­यो­रेव यथा­स­म्भ­व­म­न्त­र्भावः । एवं हि अवधारणं त्रीण्येव बीजा­नी­त्यु­प­पन्नं भवति ॥

सेयं देवतैक्षत हन्ता­ह­मि­मा­स्तिस्रो देवता अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणीति ॥ २ ॥

सेयं प्रकृता सदाख्या तेजोबन्नयोनिः देवता उक्ता ऐक्षत ईक्षितवती यथापूर्वं बहु स्यामिति । तदेव बहुभवनं प्रयोजनं नाद्यापि निर्वृत्तम् इत्यतः ईक्षां पुनः कृतवती बहुभवनमेव प्रयो­ज­न­मु­र­री­कृत्य । कथम् ? हन्त इदानीमहमिमाः यथोक्ताः तेजआद्याः तिस्रो देवताः अनेन जीवेनेति स्वबुद्धिस्थं पूर्व­सृ­ष्ट्य­नु­भू­त­प्रा­ण­धा­र­णम् आत्मानमेव स्मरन्ती आह— अनेन जीवेन आत्मनेति । प्राण­धा­र­ण­कर्त्रा आत्मनेति वचनात् स्वात्म­नोऽ­व्य­ति­रि­क्तेन चैतन्यस्वरूपतया अवि­शि­ष्टे­ने­त्ये­त­द्द­र्श­यति । अनुप्रविश्य तेजो­ब­न्न­भू­त­मा­त्रा­सं­स­र्गेण लब्ध­वि­शे­ष­वि­ज्ञाना सती नाम च रूपं च नामरूपे व्याकरवाणि विस्प­ष्ट­मा­क­र­वाणि, असौनामायम् इदंरूप इति व्याकु­र्या­मि­त्यर्थः ॥

ननु न युक्तमिदम् — असंसारिण्याः सर्वज्ञायाः देवतायाः बुद्धि­पू­र्व­क­म­ने­क­श­त­स­ह­स्रा­न­र्था­श्रयं देहमनुप्रविश्य दुःख­म­नु­भ­वि­ष्या­मीति सङ्कल्पनम् , अनुप्रवेशश्च स्वातन्त्र्ये सति । सत्यमेवं न युक्तं स्यात् — यदि स्वेनैवाविकृतेन रूपे­णा­नु­प्र­वि­शेयं दुःखमनुभवेयमिति च सङ्कल्पितवती ; न त्वेवम् । कथं तर्हि ? अनेन जीवेन आत्मना अनुप्रविश्य इति वचनात् । जीवो हि नाम देवताया आभासमात्रम् , बुद्ध्यादि भूत­मा­त्रा­सं­स­र्ग­ज­नितः — आदर्शे इव प्रविष्टः पुरु­ष­प्र­ति­बिम्बः, जलादिष्विव च सूर्यादीनाम् । अचि­न्त्या­न­न्त­श­क्ति­मत्या देवतायाः बुद्ध्या­दि­स­म्बन्धः चैतन्याभासः देव­ता­स्व­रू­प­वि­वे­का­ग्र­ह­ण­नि­मित्तः सुखी दुःखी मूढ इत्या­द्य­ने­क­वि­क­ल्प­प्र­त्य­य­हेतुः । छायामात्रेण जीव­रू­पे­णा­नु­प्र­वि­ष्ट­त्वात् देवता न दैहिकैः स्वतः सुखदुःखादिभिः सम्बध्यते — यथा पुरुषादित्यादयः आदर्शोदकादिषु च्छाया­मा­त्रे­णा­नु­प्र­विष्टाः आद­र्शो­द­का­दि­दो­षैर्न सम्बध्यन्ते — तद्वद्देवतापि । ‘सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षु­षै­र्बा­ह्य­दोषैः । एकस्तथा सर्व­भू­ता­न्त­रात्मा न लिप्यते लोकदुःखेन बाह्यः’(क. उ. १ । ३ । १) ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) इति हि काठके ; ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति च वाजसनेयके । ननु च्छाया­मा­त्र­श्चे­ज्जीवः मृषैव प्राप्तः, तथा परलोकेहलोकादि च तस्य । नैष दोषः, सदात्मना सत्य­त्वा­भ्यु­प­ग­मात् । सर्वं च नामरूपादि सदात्मनैव सत्यं विकारजातम् , स्वत­स्त्व­नृ­त­मेव, ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) इत्युक्तत्वात् । तथा जीवोऽपीति । यक्षानुरूपो हि बलिरिति न्यायप्रसिद्धिः । अतः सदात्मना सर्वव्यवहाराणां सर्वविकाराणां च सत्यत्वं सतोऽन्यत्वे च अनृतत्वमिति न कश्चिद्दोषः तार्कि­कै­रि­हा­नु­वक्तुं शक्यः, यथा इत­रे­त­र­वि­रु­द्ध­द्वै­त­वादाः स्वबु­द्धि­वि­क­ल्प­मात्रा अतत्त्वनिष्ठा इति शक्यं वक्तुम् ॥

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरोत् ॥ ३ ॥

सैवं तिस्रो देवताः अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीति ईक्षित्वा तासां च तिसृणां देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि — एकै­क­स्या­स्त्रि­वृ­त्क­रणे एकैकस्याः प्राधान्यं द्वयो­र्द्व­यो­र्गु­ण­भावः ; अन्यथा हि रज्ज्वा इव एकमेव त्रिवृत्करणं स्यात् , न तु तिसृणां पृथ­क्पृ­थ­क्त्रि­वृ­त्क­र­ण­मिति । एवं हि तेजोबन्नानां पृथ­ङ्ना­म­प्र­त्य­य­लाभः स्यात् — तेज इदम् इमा आपः अन्नमिदम् इति च । सति च पृथ­ङ्ना­म­प्र­त्य­य­लाभे देवतानां सम्य­ग्व्य­व­हा­रस्य प्रसिद्धिः प्रयोजनं स्यात् । एवमीक्षित्वा सेयं देवता इमास्तिस्रो देवताः अनेनैव यथोक्तेनैव जीवेन सूर्य­बि­म्ब­व­दन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डा­न­नु­प्र­विश्य यथासङ्कल्पमेव नामरूपे व्याकरोत् — असौनामा अयम् इदंरूप इति ॥

तासां त्रिवृतं त्रिवृ­त­मे­कै­का­म­क­रो­द्यथा तु खलु सोम्ये­मा­स्तिस्रो देव­ता­स्त्रि­वृ­त्त्रि­वृ­दे­कैका भवति तन्मे विजानीहीति ॥ ४ ॥

तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतम् एकैकामकरोत् कृतवती देवता । तिष्ठतु ताव­द्दे­व­ता­दि­पि­ण्डानां नामरूपाभ्यां व्याकृतानां तेजोबन्नमयत्वेन त्रिधात्वम् , यथा तु बहिरिमाः पिण्डे­भ्य­स्तिस्रो देव­ता­त्त्रि­वृ­दे­कैका भवति तन्मे मम निगदतः विजानीहि विस्पष्टम् अवधारय उदाहरणतः ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥

चतुर्थः खण्डः

यदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तद­न्न­स्या­पा­गा­द­ग्ने­र­ग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥

यत्तद्देवतानां त्रिवृ­त्क­र­ण­मु­क्तम् तस्यै­वो­दा­ह­र­ण­मु­च्यते — उदाहरणं नाम एक­दे­श­प्र­सिद्ध्या अशे­ष­प्र­सि­द्ध्य­र्थ­मु­दा­ह्रि­यत इति । तदेतदाह — यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्धं लोके, तत् अत्रिवृत्कृतस्य तेजसो रूपमिति विद्धि । तथा यच्छुक्लं रूपमग्नेरेव तद­पा­म­त्रि­वृ­त्कृ­ता­नाम् ; यत्कृष्णं तस्यैवाग्नेः रूपम् तदन्नस्य पृथिव्याः अत्रि­वृ­त्कृ­तायाः इति विद्धि । तत्रैवं सति रूप­त्र­य­व्य­ति­रे­केण अग्निरिति यन्मन्यसे त्वम् , तस्या­ग्ने­र­ग्नि­त्व­मि­दा­नीम् अपागात् अपगतम् । प्राग्रू­प­त्र­य­वि­वे­क­वि­ज्ञा­नात् या अग्नि­बु­द्धि­रा­सीत् ते, सा अग्नि­बु­द्धि­र­प­गता अग्नि­श­ब्द­श्चे­त्यर्थः — यथा दृश्य­मा­न­र­क्तो­प­धा­न­सं­युक्तः स्फटिको गृह्यमाणः पद्म­रा­गोऽ­य­मि­ति­श­ब्द­बुद्ध्योः प्रयोजको भवति प्रागु­प­धा­न­स्फ­टि­क­यो­र्वि­वे­क­वि­ज्ञा­नात् , तद्वि­वे­क­वि­ज्ञाने तु पद्म­रा­ग­श­ब्द­बुद्धी निवर्तेते तद्वि­वे­क­वि­ज्ञातुः — तद्वत् । ननु किमत्र बुद्धि­श­ब्द­क­ल्प­नया क्रियते, प्राग्रू­प­त्र­य­वि­वे­क­क­र­णा­द­ग्नि­रे­वा­सीत् , तदग्नेरग्नित्वं रोहि­ता­दि­रू­प­वि­वे­क­क­र­णा­द­पा­गा­दिति युक्तम् — यथा तन्त्वपकर्षणे पटाभावः । नैवम् , बुद्धि­श­ब्द­मा­त्र­मेव हि अग्निः ; यत आह वाचा­र­म्भ­ण­म­ग्नि­र्नाम विकारो नामधेयं नाम­मा­त्र­मि­त्यर्थः । अतः अग्निबुद्धिरपि मृषैव । किं तर्हि तत्र सत्यम् ? त्रीणि रूपाणीत्येव सत्यम् , नाणुमात्रमपि रूप­त्र­य­व्य­ति­रे­केण सत्य­म­स्ती­त्य­व­धा­र­णार्थः ॥

यदादित्यस्य रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तद­न्न­स्या­पा­गा­दा­दि­त्या­दा­दि­त्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ २ ॥

यच्चन्द्रमसो रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तद­न्न­स्या­पा­गा­च्चा­न्द्रा­च्च­न्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥

यद्विद्युतो रोहितꣳ रूपं तेजसस्तद्रूपं यत्छुक्लं तदपां यत्कृष्णं तद­न्न­स्या­पा­गा­द्वि­द्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥

तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम् । ननु ‘यथा तु खलु सोम्ये­मा­स्तिस्रो देव­ता­स्त्रि­वृ­त्त्रि­वृ­दे­कैका भवति तन्मे विजानीहि’(छा. उ. ६ । ४ । ४) इत्युक्त्वा तेजस एव चतु­र्भि­र­प्यु­दा­ह­रणैः अग्न्यादिभिः त्रिवृत्करणं दर्शितम् , न अबन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे । नैष दोषः अब­न्न­वि­ष­या­ण्य­प्यु­दा­ह­र­णानि एवमेव च द्रष्टव्यानीति मन्यते श्रुतिः । तेजस उदा­ह­र­ण­मु­प­ल­क्ष­णा­र्थम् , रूप­व­त्त्वा­त्स्प­ष्टा­र्थ­त्वो­प­प­त्तेश्च । गन्ध­र­स­यो­र­नु­दा­ह­रणं त्रया­णा­म­स­म्भ­वात् । न हि गन्धरसौ तेजसि स्तः । स्पर्श­श­ब्द­यो­र­नु­दा­ह­रणं विभागेन दर्श­यि­तु­म­श­क्य­त्वात् । यदि सर्वं जगत् त्रिवृत्कृतमिति अग्न्यादिवत् त्रीणि रूपाणीत्येव सत्यम् , अग्ने­र­ग्नि­त्व­वत् अपागाज्जगतो जगत्त्वम् । तथा अन्न­स्या­प्य­प्शु­ङ्ग­त्वात् आप इत्येव सत्यं वाचा­र­म्भ­ण­मा­त्र­म­न्नम् । तथा अपामपि तेजःशुङ्गत्वात् वाचारम्भणत्वं तेज इत्येव सत्यम् । तेज­सोऽ­पि­स­च्छु­ङ्ग­त्वात् वाचारम्भणत्वं सदित्येव सत्यम् इत्येषोऽर्थो विवक्षितः । ननु वाय्वन्तरिक्षे तु अत्रिवृत्कृते तेजः­प्र­भृ­ति­ष्व­न­न्त­र्भू­त­त्वात् अवशिष्येते, एवं गन्ध­र­स­श­ब्द­स्प­र्शा­श्चा­व­शिष्टा इति कथं सता विज्ञातेन सर्व­म­न्य­द­वि­ज्ञातं विज्ञातं भवेत् ? तद्विज्ञाने वा प्रकारान्तरं वाच्यम् ; नैष दोषः, रूपवद्द्रव्ये सर्वस्य दर्शनात् । कथम् ? तेजसि तावद्रूपवति शब्द­स्प­र्श­यो­र­प्यु­प­ल­म्भात् वाय्व­न्त­रि­क्षयोः तत्र स्पर्श­श­ब्द­गु­ण­वतोः सद्भावो अनुमीयते । तथा अबन्नयोः रूपवतो रसगन्धान्तर्भाव इति । रूपवतां त्रयाणां तेजोबन्नानां त्रिवृ­त्क­र­ण­प्र­द­र्श­नेन सर्वं तदन्तर्भूतं सद्विकारत्वात् त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः । न हि मूर्तं रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोः तद्गु­ण­यो­र्ग­न्ध­र­स­योर्वा ग्रहणमस्ति । अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः । यथा तु त्रिवृत्कृते त्रीणि रूपाणीत्येव सत्यम् , तथा पञ्चीकरणेऽपि समानो न्याय इत्यतः सर्वस्य सद्विकारत्वात् सता विज्ञातेन सर्वमिदं विज्ञातं स्यात् सदे­क­मे­वा­द्वि­तीयं सत्यमिति सिद्धमेव भवति । तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम् ॥

एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्च­ना­श्रु­त­म­म­त­म­वि­ज्ञा­त­मु­दा­ह­रि­ष्य­तीति ह्येभ्यो विदाञ्चक्रुः ॥ ५ ॥

एतत् विद्वांसः विदितवन्तः पूर्वे अतिक्रान्ताः महाशालाः महाश्रोत्रियाः आहुः ह स्म वै किल । किमुक्तवन्त इति, आह — न नः अस्माकं कुले अद्य इदानीं यथो­क्त­वि­ज्ञा­न­वतां कश्चन कश्चिदपि अश्रु­त­म­म­त­म­वि­ज्ञा­तम् उदाहरिष्यति नोदाहरिष्यति, सर्वं विज्ञातमेव अस्मत्कुलीनानां सद्वि­ज्ञा­न­व­त्त्वात् इत्यभिप्रायः । ते पुनः कथं सर्वं विज्ञातवन्त इति, आह — एभ्यः त्रिभ्यः रोहि­ता­दि­रू­पेभ्यः त्रिवृ­त्कृ­तेभ्यः विज्ञातेभ्यः सर्व­म­प्य­न्य­च्छि­ष्ट­मे­व­मे­वेति विदाञ्चक्रुः विज्ञातवन्तः यस्मात् , तस्मात्सर्वज्ञा एव सद्विज्ञानात् ते आसुरित्यर्थः । अथवा एभ्यो विदाञ्चक्रुरिति अग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्व­म­न्य­द्वि­दा­ञ्च­क्रु­रि­त्ये­तत् ॥

यदु रोहितमिवाभूदिति तेज­स­स्त­द्रू­प­मिति तद्वि­दा­ञ्च­क्रु­र्यदु शुक्ल­मि­वा­भू­दि­त्यपां रूपमिति तद्वि­दा­ञ्च­क्रु­र्यदु कृष्ण­मि­वा­भू­दि­त्य­न्नस्य रूपमिति तद्विदाञ्चक्रुः ॥ ६ ॥

यद्व­वि­ज्ञा­त­मि­वा­भू­दि­त्ये­ता­सा­मेव देवतानां समास इति तद्वि­दा­ञ्च­क्रु­र्यथा तु खलु सोम्ये­मा­स्तिस्रो देवताः पुरुषं प्राप्य त्रिवृ­त्त्रि­वृ­दे­कैका भवति तन्मे विजानीहीति ॥ ७ ॥

कथम् ? यदन्यद्रूपेण सन्दिह्यमाने कपोतादिरूपे रोहितमिव यद्गृ­ह्य­मा­ण­म­भूत् तेषां पूर्वेषां ब्रह्मविदाम् , तत्तेजसो रूपमिति विदाञ्चक्रुः । तथा यच्छु­क्ल­मि­वा­भू­द्गृ­ह्य­माणं तदपां रूपम् , यत्कृष्णमिव । गृह्यमाणं तदन्नस्येति विदाञ्चक्रुः । एव­मे­वा­त्य­न्त­दु­र्लक्ष्यं यत् उ अपि अविज्ञातमिव विशेषतो अगृह्यमाणमभूत् तदप्येतासामेव तिसृणां देवतानां समासः समुदाय इति विदाञ्चक्रुः । एवं तावद्बाह्यं वस्त्व­ग्न्या­दि­व­द्वि­ज्ञा­तम् , तथेदानीं यथा तु खलु हे सोम्य इमाः यथोक्तास्तिस्रो देवताः पुरुषं शिरः­पा­ण्या­दि­ल­क्षणं कार्य­का­र­ण­स­ङ्घातं प्राप्य पुरु­षे­णो­प­यु­ज्य­मानाः त्रिवृ­त्त्रि­वृ­दे­कैका भवति, तत् आध्यात्मिकं विजानीहि निगदतः इत्युक्त्वा आह ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

पञ्चमः खण्डः

अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माꣳसं योऽणि­ष्ठ­स्त­न्मनः ॥ १ ॥

अन्नम् अशितं भुक्तं त्रेधा विधीयते जाठरेणाग्निना पच्यमानं त्रिधा विभज्यते । कथम् ? तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्ठः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थूलांशः, तत्पुरीषं भवति ; यो मध्यमांशः धातुरन्नस्य, तद्रसादिक्रमेण परिणम्य मांसं भवति ; यः अणिष्ठः अणुतमो धातुः, स ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीषु अनुप्रविश्य वागा­दि­क­र­ण­स­ङ्घा­तस्य स्थिति­मु­त्पा­द­यन् मनो भवति । मनोरूपेण विपरिणमन् मनस उपचयं करोति । ततश्च अन्नोपचितत्वात् मनसः भौतिकत्वमेव न वैशे­षि­क­त­न्त्रो­क्त­ल­क्षणं नित्यं निरवयवं चेति गृह्यते । यदपि मनोऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्य­त्वा­पे­क्षया ; किं तर्हि, सूक्ष्म­व्य­व­हि­त­वि­प्र­कृ­ष्टा­दि­स­र्वे­न्द्रि­य­वि­ष­य­व्या­पा­र­क­त्वा­पे­क्षया । यच्चा­न्ये­न्द्रि­य­वि­ष­या­पे­क्षया नित्यत्वम् , तद­प्या­पे­क्षि­क­मे­वेति वक्ष्यामः, ‘सत् . . . एक­मे­वा­द्वि­ती­यम्’ इति श्रुतेः ॥

आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्य­म­स्त­ल्लो­हितं योऽणिष्ठः स प्राणः ॥ २ ॥

तथा आपः पीताः त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुः, तन्मूत्रं भवति, यो मध्यमः, तल्लोहितं भवति ; योऽणिष्ठः, स प्राणो भवति । वक्ष्यति हि — ‘आपोमयः प्राणो नपिबतो विच्छेत्स्यते’(छा. उ. ६ । ७ । १) इति ॥

तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ३ ॥

तथा तेजः अशितं तैलघृतादि भक्षितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुः तदस्थि भवति ; यो मध्यमः, स मज्जा अस्थ्यन्तर्गतः स्नेहः ; योऽणिष्ठः सा वाक् । तैल­घृ­ता­दि­भ­क्ष­णाद्धि वाग्विशदा भाषणे समर्था भवतीति प्रसिद्धं लोके ॥

अन्नमयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ४ ॥

यत एवम् , अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक् । ननु केवलान्नभक्षिण आखुप्रभृतयो वाग्मिनः प्राणवन्तश्च, तथा अब्मा­त्र­भक्ष्याः सामुद्रा मीनमकरप्रभृतयो मनस्विनो वाग्मिनश्च, तथा स्नेहपानामपि प्राणवत्त्वं मनस्वित्वं च अनुमेयम् ; यदि सन्ति, तत्र कथमन्नमयं हि सोम्य मन इत्याद्युच्यते ? नैष दोषः, सर्वस्य त्रिवृ­त्कृ­त­त्वा­त्स­र्वत्र सर्वोपपत्तेः । न हि अत्रि­वृ­त्कृ­त­म­न्न­म­श्नाति कश्चित् , आपो वा अत्रिवृत्कृताः पीयन्ते, तेजो वा अत्रि­वृ­त्कृ­त­म­श्नाति कश्चित् इत्य­न्ना­दा­ना­मा­खु­प्र­भृ­तीनां वाग्मित्वं प्राणवत्त्वं च इत्या­द्य­वि­रु­द्धम् । इत्येवं प्रत्यायितः श्वेतकेतुराह — भूय एव पुनरेव मा मां भगवान् अन्नमयं हि सोम्य मन इत्यादि विज्ञापयतु दृष्टा­न्ते­ना­व­ग­म­यतु, नाद्यापि मम अस्मिन्नर्थे सम्यङ्निश्चयो जातः । यस्मा­त्ते­जो­ब­न्न­म­य­त्वे­ना­वि­शिष्टे देहे एक­स्मि­न्नु­प­यु­ज्य­मा­ना­न्य­न्ना­प्स्ने­ह­जा­तानि अणिष्ठधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजा­त्य­न­ति­क्र­मे­णेति दुर्वि­ज्ञे­य­मि­त्य­भि­प्रायः ; अतो भूय एवेत्याद्याह । तमेवमुक्तवन्तं तथास्तु सोम्येति ह उवाच पिता शृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि ॥

इति पञ्च­म­ख­ण्ड­भा­ष्यम् ॥

षष्ठः खण्डः

दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ १ ॥

दध्नः सोम्य मथ्यमानस्य योऽणिमा अणुभावः स ऊर्ध्वः समुदीषति सम्भूयोर्ध्वं नवनीतभावेन गच्छति, तत्सर्पिर्भवति ॥

एवमेव खलु सोम्या­न्न­स्या­श्य­मा­नस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ २ ॥

यथा अयं दृष्ठान्तः, एवमेव खलु सोम्य अन्नस्य ओदनादेः अश्यमानस्य भुज्यमानस्य औदर्येणाग्निना वायुसहितेन खजेनेव मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति ; तन्मनो भवति, मनोवयवैः सह सम्भूय मन उपचिनोतीत्येतत् ॥

अपां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥ ३ ॥

तथा अपां सोम्य पीयमानानां यो अणिमा, स ऊर्ध्वः समुदीषति, स प्राणो भवतीति ॥

तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥ ४ ॥

एवमेव खलु सोम्य तेजसोऽश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥

अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ५ ॥

अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक् इति युक्तमेव मयो­क्त­मि­त्य­भि­प्रायः । अतः अप्ते­ज­सो­र­स्त्वे­त­त्स­र्व­मे­वम् । मन­स्त्व­न्न­म­य­मि­त्यत्र नैकान्तेन मम निश्चयो जातः । अतः भूय एव मा भगवान् मनसोऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति । तथा सोम्येति ह उवाच पिता ॥

इति षष्ठखण्डभाष्यम् ॥

सप्तमः खण्डः

षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत इति ॥ १ ॥

अन्नस्य भुक्तस्य यो अणिष्ठो धातुः, स मनसि शक्तिमधात् । सा अन्नोपचिता मनसः शक्तिः षोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता । तया मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्तया संयुक्तः तद्व­न्का­र्य­का­र­ण­स­ङ्घा­त­ल­क्षणो जीवविशिष्टः पुरुषः षोडशकल उच्यते ; यस्यां सत्यां द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञाता सर्व­क्रि­या­स­मर्थः पुरुषो भवति ; हीयमानायां च यस्यां सामर्थ्यहानिः । वक्ष्यति च ‘अथान्नस्यायी द्रष्टा’(छा. उ. ७ । ९ । १) इत्यादि । सर्वस्य कार्यकारणस्य सामर्थ्यं मनःकृतमेव । मानसेन हि बलेन सम्पन्ना बलिनो दृश्यन्ते लोके ध्यानाहाराश्च केचित् , अन्नस्य सर्वात्मकत्वात् । अतः अन्नकृतं मानसं वीर्यम् षोडश कलाः यस्य पुरुषस्य सोऽयं षोडशकलः पुरुषः । एत­च्चे­त्प्र­त्य­क्षी­क­र्तु­मि­च्छसि, पञ्च­द­श­स­ङ्ख्या­का­न्य­हानि माशीः अशनं माकार्षीः, कामम् इच्छातः अपः पिब, यस्मात् नपिबतः अपः ते प्राणो विच्छेत्स्यते विच्छे­द­मा­प­त्स्यते, यस्मादापोमयः अब्विकारः प्राण इत्यवोचाम । न हि कार्यं स्वका­र­णो­प­ष्ट­म्भ­म­न्त­रेण अविभ्रंशमानं स्थातुमुत्सहते ॥

स ह पञ्चदशाहानि नाशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूꣳषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ २ ॥

स ह एवं श्रुत्वा मनसः अन्नमयत्वं प्रत्य­क्षी­क­र्तु­मि­च्छन् पञ्चदशाहानि न आश अशनं न कृतवान् । अथ षोडशेऽहनि ह एवं पितरमुपससाद उपगतवान् उपगम्य च उवाच — किं ब्रवीमि भो इति । इतर आह — ऋचः सोम्य यजूंषि सामान्यधीष्वेति । एवमुक्तः पित्रा आह — न वै मा माम् ऋगादीनि प्रतिभान्ति मम मनसि न दृश्यन्त इत्यर्थः हे भो भगवन्निति ॥

तꣳहोवाच यथा सोम्य मह­तोऽ­भ्या­हि­त­स्यै­कोऽ­ङ्गारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेवꣳ सोम्य ते षोडशानां कलानामेका कलातिशिष्टा स्यात्तयैतर्हि वेदा­न्ना­नु­भ­व­स्य­शा­नाथ मे विज्ञास्यसीति ॥ ३ ॥

एवमुक्तवन्तं पिता आह — शृणु तत्र कारणम् , येन ते तानि ऋगादीनि न प्रतिभान्तीति ; तं ह उवाच — यथा लोके हे सोम्य महतः महत्परिमाणस्य अभ्याहितस्य उपचितस्य इन्धनैः अग्नेः एकोऽङ्गारः खद्योतमात्रः खद्योतपरिमाणः शान्तस्य परिशिष्टः अवशिष्टः स्यात् भवेत् , तेनाङ्गारेण ततोऽपि तत्परिमाणात् ईषदपि न बहु दहेत् , एवमेव खलु सोम्य ते तव अन्नोपचितानां षोडशानां कलानामेका कला अवयवः अतिशिष्टा अवशिष्टा स्यात् , तया त्वं खद्यो­त­मा­त्रा­ङ्गा­र­तु­ल्यया एतर्हि इदानीं वेदान् नानुभवसि न प्रतिपद्यसे, श्रुत्वा च मे मम वाचम् अथ अशेषं विज्ञास्यसि अशान भुङ्क्ष्व तावत् ॥

स हाशाथ हैनमुपससाद तꣳ ह यत्किञ्च पप्रच्छ सर्वꣳ ह प्रतिपेदे ॥ ४ ॥

स ह तथैव आश भुक्तवान् । अथ अनन्तरं ह एवं पितरं शुश्रूषुः उपससाद । तं ह उपगतं पुत्रं यत्किञ्च ऋगादिषु पप्रच्छ ग्रन्थ­रू­प­म­र्थ­जातं वा पिता । स श्वेतकेतुः सर्वं ह तत्प्रतिपेदे ऋगाद्यर्थतो ग्रन्थतश्च ॥

तंहोवाच यथा सोम्य मह­तोऽ­भ्या­हि­त­स्यै­क­म­ङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ५ ॥

तं ह उवाच पुनः पिता — यथा सोम्य महतः अभ्या­हि­त­स्ये­त्यादि समानम् , एकमङ्गारं शान्तस्याग्नेः खद्योतमात्रं परिशिष्टं तं तृणैश्चूर्णैश्च उपसमाधाय प्राज्वलयेत् वर्धयेत् । तेनेद्धेन अङ्गारेण ततोऽपि पूर्वपरिमाणात् बहु दहेत् ॥

एवꣳ सोम्य ते षोडशानां कलानामेका कला­ति­शि­ष्टा­भू­त्सा­न्ने­नो­प­स­मा­हिता प्राज्वाली तयैतर्हि वेदा­न­नु­भ­व­स्य­न्न­मयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥

एवं सोम्य ते षोड­शा­ना­म­न्न­क­लानां साम­र्थ्य­रू­पा­णाम् एका कला अतिशिष्टा अभूत् अतिशिष्टा आसीत् , पञ्च­द­शा­हा­न्य­भु­क्त­वतः एकैकेनाह्ना एकैका कला चन्द्रमस इव अपरपक्षे क्षीणा, सा अतिशिष्टा कला तव अन्नेन भुक्ते­नो­प­स­मा­हिता वर्धिता उपचिता प्राज्वाली, दैर्घ्यं छान्दसम् , प्रज्वलिता वर्धितेत्यर्थः । प्राज्वालिदिति पाठान्तरम् , तदा तेनोपसमाहिता स्वयं प्रज्व­लि­त­व­ती­त्यर्थः । तया वर्धितया एतर्हि इदानीं वेदाननुभवसि उपलभसे । एवं व्यावृ­त्त्य­नु­वृ­त्ति­भ्या­म­न्न­म­यत्वं मनसः सिद्धमिति उपसंहरति — अन्नमयं हि सोम्य मन इत्यादि । यथा एत­न्म­न­सोऽ­न्न­म­यत्वं तव सिद्धम् , तथा आपोमयः प्राणः तेजोमयी वाक् इत्येतदपि सिद्ध­मे­वे­त्य­भि­प्रायः । तदेतद्ध अस्य पितुरुक्तं मन­आ­दी­ना­म­न्ना­दि­म­यत्वं विजज्ञौ विज्ञातवान् श्वेतकेतुः । द्विरभ्यासः त्रिवृ­त्क­र­ण­प्र­क­र­ण­स­मा­प्त्यर्थः ॥

इति सप्त­म­ख­ण्ड­भा­ष्यम् ॥

अष्टमः खण्डः

उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनꣳ स्वपि­ती­त्या­च­क्षते स्वꣳ ह्यपीतो भवति ॥ १ ॥

यस्मिन्मनसि जीवे­ना­त्म­ना­नु­प्र­विष्टा परा देवता — आदर्शे इव पुरुषः प्रतिबिम्बेन जलादिष्विव च सूर्यादयः प्रतिबिम्बैः, तन्मनः अन्नमयं तेजोमयाभ्यां वाक्प्राणाभ्यां सङ्गतमधिगतम् । यन्मयो यत्स्थश्च जीवो मन­न­द­र्श­न­श्र­व­णा­दि­व्य­व­हा­राय कल्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते । तदुक्तं श्रुत्यन्तरे — ‘ध्यायतीव लेलायतीव’ ‘सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति’(बृ. मा. ४ । १ । ७) ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः’(बृ. उ. ४ । ४ । ५) , (बृ. मा. ४ । २ । ६) इत्यादि, ‘स्वप्नेन शारीरम्’(बृ. उ. ४ । ३ । ११) इत्यादि, ‘प्राणन्नेव प्राणो नाम भवति’(बृ. उ. १ । ४ । ७) इत्यादि च । तस्यास्य मनस्थस्य मनआख्यां गतस्य मन­उ­प­श­म­द्वा­रे­णे­न्द्रि­य­वि­ष­येभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभूतायां यदवस्थानम् , तत् , पुत्राय आचिख्यासुः उद्दालको ह किल आरुणिः श्वेतकेतुं पुत्रमुवाच उक्तवान् — स्वप्नान्तं स्वप्नमध्यम् स्वप्न इति दर्शनवृत्तेः स्वप्नस्याख्या, तस्य मध्यं स्वप्नान्तं सुषु­प्त­मि­त्ये­तत् ; अथवा स्वप्नान्तं स्वप्न­स­त­त्त्व­मि­त्यर्थः । तत्रा­प्य­र्था­त्सु­षु­प्त­मेव भवति, ‘स्वमपीतो भवति’ इति वचनात् ; न हि अन्यत्र सुषुप्तात् स्वमपीतिं जीवस्य इच्छन्ति ब्रह्मविदः । तत्र हि आदर्शापनयने पुरु­ष­प्र­ति­बिम्बः आदर्शगतः यथा स्वमेव पुरुषमपीतो भवति, एवं मन आद्युपरमे चैत­न्य­प्र­ति­बि­म्ब­रू­पेण जीवेन आत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेव आत्मानं प्रतिपद्यते जीवरूपतां मनआख्यां हित्वा । अतः सुषुप्त एव स्वप्ना­न्त­श­ब्द­वाच्य इत्यवगम्यते । यत्र तु सुप्तः स्वप्नान्पश्यति तत्स्वाप्नं दर्शनं सुख­दुः­ख­सं­यु­क्त­मिति पुण्या­पु­ण्य­का­र्यम् । पुण्या­पु­ण्य­योर्हि सुख­दुः­खा­र­म्भ­कत्वं प्रसिद्धम् । पुण्या­पु­ण्य­यो­श्चा­वि­द्या­का­मो­प­ष्ट­म्भे­नैव सुख­दुः­ख­द­र्श­न­का­र्या­र­म्भ­क­त्व­मु­प­प­द्यते नान्य­थे­त्य­वि­द्या­का­म­क­र्मभिः संसारहेतुभिः संयुक्त एव स्वप्ने इति न स्वमपीतो भवति । ‘अनन्वागतं पुण्ये­ना­न­न्वा­गतं पापेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति’(बृ. उ. ४ । ३ । २२) ‘तद्वा अस्यै­त­द­ति­च्छन्दा’(बृ. उ. ४ । ३ । २१) ‘एष परम आनन्दः’(बृ. उ. ४ । ३ । ३३) इत्या­दि­श्रु­तिभ्यः । सुषुप्त एव स्वं देवतारूपं जीव­त्व­वि­नि­र्मुक्तं दर्श­यि­ष्या­मी­त्याह — स्वप्नान्तं मे मम निगदतो हे सोम्य विजानीहि विस्प­ष्ट­म­व­धा­र­ये­त्यर्थः । कदा स्वप्नान्तो भवतीति, उच्यते — यत्र यस्मिन्काले एतन्नाम भवति पुरुषस्य स्वप्स्यतः । प्रसिद्धं हि लोके स्वपितीति । गौणं चेदं नामेत्याह — यदा स्वपि­ती­त्यु­च्यते पुरुषः, तदा तस्मिन्काले सता सच्छब्दवाच्यया प्रकृतया देवतया सम्पन्नो भवति सङ्गतः एकीभूतो भवति । मनसि प्रविष्टं मनआदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सद्रूपं यत्प­र­मा­र्थ­स­त्यम् अपीतः अपिगतः भवति । अतः तस्मात् स्वपि­ती­त्ये­न­मा­च­क्षते लौकिकाः । स्वमात्मानं हि यस्मादपीतो भवति ; गुण­ना­म­प्र­सि­द्धि­तोऽपि स्वात्म­प्रा­प्ति­र्ग­म्यते इत्यभिप्रायः । कथं पुनर्लौकिकानां प्रसिद्धा स्वात्म­स­म्पत्तिः ? जाग्र­च्छ्र­म­नि­मि­त्तो­द्भ­व­त्वा­त्स्वा­पस्य इत्याहुः — जागरिते हि पुण्या­पु­ण्य­नि­मि­त्त­सु­ख­दुः­खा­द्य­ने­का­या­सा­नु­भ­वा­च्छ्रान्तो भवति ; ततश्च आयस्तानां कर­णा­ना­म­ने­क­व्या­पा­र­नि­मि­त्त­ग्ला­नानां स्वव्यापारेभ्य उपरमो भवति । श्रुतेश्च ‘श्राम्यत्येव वाक् श्राम्यति चक्षुः’(बृ. उ. १ । ५ । २१) इत्येवमादि । तथा च ‘गृहीता वाक् गृहीतं चक्षुः गृहीतं श्रोत्रं गृहीतं मनः’(बृ. उ. २ । १ । १७) इत्येवमादीनि करणानि प्राणग्रस्तानि ; प्राण एकः अश्रान्तः देहे कुलाये यो जागर्ति, तदा जीवः श्रमापनुत्तये स्वं देव­ता­रू­प­मा­त्मानं प्रतिपद्यते । नान्यत्र स्वरू­पा­व­स्था­ना­च्छ्र­मा­प­नोदः स्यादिति युक्ता प्रसि­द्धि­र्लौ­कि­का­नाम् — स्वं ह्यपीतो भवतीति । दृश्यते हि लोके ज्वरा­दि­रो­ग­ग्र­स्तानां तद्विनिर्मोके स्वात्मस्थानां विश्रमणम् , तद्वदिहापि स्यादिति युक्तम् । ‘तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः’(बृ. उ. ४ । ३ । १९) इत्या­दि­श्रु­तेश्च ॥

स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पति­त्वा­न्य­त्रा­य­त­न­म­लब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पति­त्वा­न्य­त्रा­य­त­न­म­लब्ध्वा प्राण­मे­वो­प­श्र­यते प्राणबन्धनꣳ हि सोम्य मन इति ॥ २ ॥

तत्रायं दृष्टान्तः यथोक्तेऽर्थे — स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबद्धः पाशितः दिशं दिशं बन्धनमोक्षार्थी सन् प्रतिदिशं पतित्वा अन्यत्र बन्धनात् आयतनम् आश्रयं विश्रणाय अलब्ध्वा अप्राप्य बन्ध­न­मे­वो­प­श्र­यते । एवमेव यथा अयं दृष्टान्तः खलु हे सोम्य तन्मनः तत्प्रकृतं षोड­श­क­ल­म­न्नो­प­चितं मनो निर्धारितम् , तत्प्रविष्टः तत्स्थः तदुपलक्षितो जीवः तन्मन इति निर्दिश्यते — मञ्चाक्रोशनवत् । स मनआख्योपाधिः जीवः अवि­द्या­का­म­क­र्मो­प­दिष्टां दिशं दिशं सुख­दुः­खा­दि­ल­क्षणां जाग्र­त्स्व­प्नयोः पतित्वा गत्वा अनुभूयेत्यर्थः, अन्यत्र सदाख्यात् स्वात्मनः आयतनं विश्र­म­ण­स्था­न­म­लब्ध्वा प्राणमेव, प्राणेन सर्व­का­र्य­क­र­णा­श्र­ये­णो­प­ल­क्षिता प्राण इत्युच्यते सदाख्या परा देवता, ‘प्राणस्य प्राणम्’(बृ. उ. ४ । ४ । १८) ‘प्राणशरीरो भारूपः’(छा. उ. ३ । १४ । २) इत्यादिश्रुतेः । अतः तां देवतां प्राणं प्राणाख्यामेव उपश्रयते । प्राणो बन्धनं यस्य मनसः तत्प्राणबन्धनं हि यस्मात् सोम्य मनः प्राणो­प­ल­क्षि­त­दे­व­ता­श्र­यम् , मन इति तदुपलक्षितो जीव इति ॥

अशनापिपासे मे सोम्य विजानीहीति यत्रै­त­त्पु­रु­षोऽ­शि­शि­षति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रै­त­च्छु­ङ्ग­मु­त्प­तितꣳ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥

एवं स्वपि­ति­ना­म­प्र­सि­द्धि­द्वा­रेण यज्जीवस्य सत्यस्वरूपं जगतो मूलम् , तत्पुत्रस्य दर्शयित्वा आह अन्ना­दि­का­र्य­का­र­ण­प­र­म्प­र­यापि जगतो मूलं सद्दिदर्शयिषुः — अशनापिपासे अशितुमिच्छा अशना, सन् यलोपेन, पातुमिच्छा पिपासा ते अशनापिपासे अशनापिपासयोः सतत्त्वं विजानीहीत्येतत् । यत्र यस्मिन्काले एतन्नाम पुरुषो भवति । किं तत् ? अशिशिषति अशितुमिच्छतीति । तदा तस्य पुरुषस्य किंनिमित्तं नाम भवतीति, आह — यत्तत्पुरुषेण अशितमन्नं कठिनं पीता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते, तदा भुक्तमन्नं जीर्यति । अथ च भवत्यस्य नाम अशिशिषतीति गौणम् । जीर्णे हि अन्ने अशितुमिच्छति सर्वो हि जन्तुः । तत्र अपा­म­शि­त­ने­तृ­त्वात् अशनाया इति नाम प्रसि­द्ध­मि­त्ये­त­स्मि­न्नर्थे । तथा गोनायः गां नयतीति गोनायः इत्युच्यते गोपालः, यथा अश्वा­न्न­य­ती­त्य­श्व­नायः अश्वपाल इत्युच्यते, पुरुषनायः पुरुषान्नयतीति राजा सेनापतिर्वा, एवं तत् तदा अप आचक्षते लौकिकाः अशनायेति विसर्जनीयलोपेन । तत्रैवं सति अद्भिः रसादिभावेन नीतेन अशितेनान्नेन निष्पादितमिदं शरीरं वटकणिकायामिव शुङ्गः अङ्कुर उत्पतितः उद्गतः ; तमिमं शुङ्गं कार्यं शरीराख्यं वटा­दि­शु­ङ्ग­व­दु­त्प­तितं हे सोम्य विजानीहि । किं तत्र विज्ञेयमिति, उच्यते — शृणु इदं शुङ्ग­व­त्का­र्य­त्वात् शरीरं नामूलं मूलरहितं भविष्यति इत्युक्तः आह श्वेतकेतुः ॥

तस्य क्व मूलꣳ स्याद­न्य­त्रा­न्ना­दे­व­मेव खलु सोम्यान्नेन शुङ्गेनापो मूल­म­न्वि­च्छद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ४ ॥

यद्येवं समूलमिदं शरीरं वटादिशुङ्गवत् , तस्य अस्य शरीरस्य क्व मूलं स्यात् भवेत् इत्येवं पृष्टः आह पिता — तस्य क्व मूलं स्यात् अन्य­त्रा­न्ना­दन्नं मूल­मि­त्य­भि­प्रायः । कथम् ? अशितं हि अन्न­म­द्भि­र्द्र­वी­कृतं जाठरेणाग्निना पच्यमानं रसभावेन परिणमते । रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेद­सोऽ­स्थी­न्य­स्थिभ्यो मज्जा मज्जायाः शुक्रम् । तथा योषिद्भुक्तं च अन्नं रसादिक्रमेणैवं परिणतं लोहितं भवति । ताभ्यां शुक्र­शो­णि­ता­भ्या­म­न्न­का­र्याभ्यां संयु­क्ता­भ्या­म­न्नेन एवं प्रत्यहं भुज्यमानेन आपूर्यमाणाभ्यां कुड्यमिव मृत्पिण्डैः प्रत्य­ह­मु­प­ची­य­मानः अन्नमूलः देहशुङ्गः परिनिष्पन्न इत्यर्थः । यत्तु देहशुङ्गस्य मूलमन्नं निर्दिष्टम् , तदपि देह­व­द्वि­ना­शो­त्प­त्ति­म­त्त्वात् कस्मा­च्चि­न्मू­ला­दु­त्प­तितं शुङ्ग एवेति कृत्वा आह — यथा देहशुङ्गः अन्नमूलः एवमेव खलु सोम्य अन्नेन शुङ्गेन कार्यभूतेन अपो मूलमन्नस्य शुङ्ग­स्या­न्विच्छ प्रतिपद्यस्व ।

अपामपि विना­शो­त्प­त्ति­म­त्त्वात् शुङ्गत्वमेवेति अद्भिः सोम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ । तेजसोऽपि विना­शो­त्प­त्ति­म­त्त्वात् शुङ्गत्वमिति तेजसा सोम्य शुङ्गेन सन्मूलम् एकमेवाद्वितीयं परमार्थसत्यम् । यस्मिन्सर्वमिदं वाचारम्भणं विकारो नामधेयमनृतं रज्ज्वामिव सर्पा­दि­वि­क­ल्प­जा­त­म­ध्य­स्त­म­वि­द्यया, तदस्य जगतो मूलम् ; अतः सन्मूलाः सत्कारणाः हे सोम्य इमाः स्थाव­र­ज­ङ्ग­म­ल­क्षणाः सर्वाः प्रजाः । न केवलं सन्मूला एव, इदानीमपि स्थितिकाले सदायतनाः सदाश्रया एव । न हि मृदमनाश्रित्य घटादेः सत्त्वं स्थितिर्वा अस्ति । अतः मृद्व­त्स­न्मू­ल­त्वा­त्प्र­जानां सत् आयतनं यासां ताः सदायतनाः प्रजाः । अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्ठा लयः समाप्तिः अवसानं परिशेषः यासां ताः सत्प्रतिष्ठाः ॥

अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितꣳ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ५ ॥

अथ इदा­नी­म­प्शु­ङ्ग­द्वा­रेण सतो मूलस्यानुगमः कार्य इत्याह — यत्र यस्मिन्काले एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति । अशिशिषतीतिवत् इदमपि गौणमेव नाम भवति । द्रवी­कृ­त­स्या­शि­त­स्या­न्नस्य नेत्र्यः आपः अन्नशुङ्गं देहं क्लेदयन्त्यः शिथिलीकुर्युः अब्बाहुल्यात् यदि तेजसा न शोष्यन्ते । नितरां च तेजसा शोष्य­मा­णा­स्वप्सु देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते ; तदा पुरुषः पिपासति नाम ; तदेतदाह — तेज एव तत् तदा पीतमबादि शोषयत् देह­ग­त­लो­हि­त­प्रा­ण­भा­वेन नयते परिणमयति । तद्यथा गोनाय इत्यादि समानम् ; एवं तत्तेज आचष्टे लोकः — उदन्येति उदकं नयतीत्युदन्यम् , उदन्येति च्छान्दसं तत्रापि पूर्ववत् । अपामपि एतदेव शरीराख्यं शुङ्गं नान्य­दि­त्ये­व­मादि समानमन्यत् ॥

तस्य क्व मूलꣳ स्याद­न्य­त्रा­द्भ्योऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा तु खलु सोम्ये­मा­स्तिस्रो देवताः पुरुषं प्राप्य त्रिवृ­त्त्रि­वृ­दे­कैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥

सामर्थ्यात् तेजसोऽप्येतदेव शरीराख्यं शुङ्गम् । अतः अप्शुङ्गेन देहेन आपो मूलं गम्यते । अद्भिः शुङ्गेन तेजो मूलं गम्यते । तेजसा शुङ्गेन सन्मूलं गम्यते पूर्ववत् । एवं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचा­र­म्भ­ण­मा­त्रस्य अन्नादिपरम्परया परमार्थसत्यं सन्मू­ल­म­भ­य­म­स­न्त्रासं निरायासं सन्मू­ल­म­न्वि­च्छेति पुत्रं गमयित्वा अशिशिषति पिपासतीति नाम­प्र­सि­द्धि­द्वा­रेण यदन्यत् इह अस्मिन्प्रकरणे तेजोबन्नानां पुरु­षे­णो­प­यु­ज्य­मा­नानां कार्य­क­र­ण­स­ङ्घा­तस्य देहशुङ्गस्य स्वजा­त्य­सा­ङ्क­र्ये­णो­प­च­य­क­रत्वं वक्तव्यं प्राप्तम् , तदिहोक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति — यथा तु खलु येन प्रकारेण इमाः तेजोबन्नाख्याः तिस्रः देवताः पुरुषं प्राप्य त्रिवृ­त्त्रि­वृ­दे­कैका भवति, तदुक्तं पुरस्तादेव भवति ‘अन्नमशितं त्रेधा विधीयते’(छा. उ. ६ । ५ । १) इत्यादि तत्रैवोक्तम् । अन्ना­दी­ना­म­शि­तानां ये मध्यमा धातवः, ते साप्तधातुकं शरी­र­मु­प­चि­न्व­न्ती­त्यु­क्तम् — मांसं भवति लोहितं भवति मज्जा भवति अस्थि भवतीति । ये त्वणिष्ठा धातवः मनः प्राणं वाचं देह­स्या­न्तः­क­र­ण­स­ङ्घा­त­मु­प­चि­न्व­न्तीति च उक्तम् — तन्मनो भवति स प्राणो भवति स वाग्भवतीति ।

सोऽयं प्राणकरणसङ्घातः देहे विशीर्णे देहान्तरं जीवाधिष्ठितः येन क्रमेण पूर्व­दे­हा­त्प्र­च्युतः गच्छति, तदाह — अस्य हे सोम्य पुरुषस्य प्रयतः म्रियमाणस्य वाक् मनसि सम्पद्यते मन­स्यु­प­सं­ह्रि­यते । अथ तदाहुः ज्ञातयो न वदतीति । मनःपूर्वको हि वाग्व्यापारः, ‘यद्वै मनसा ध्यायति तद्वाचा वदति’(?) इति श्रुतेः । वाच्यु­प­सं­हृ­तायां मनसि मननव्यापारेण केवलेन वर्तते । मनोऽपि यदा उपसंह्रियते, तदा मनः प्राणे सम्पन्नं भवति — सुषुप्तकाले इव ; तदा पार्श्वस्था ज्ञातयः न विजानातीत्याहुः । प्राणश्च तदो­र्ध्वो­च्छ्वासी स्वात्म­न्यु­प­सं­हृ­त­बा­ह्य­क­रणः संवर्गविद्यायां दर्शनात् हस्त­पा­दा­दी­न्वि­क्षि­पन् मर्मस्थानानि निकृन्तन्निव उत्सृजन् क्रमेणोपसंहृतः तेजसि सम्पद्यते ; तदाहुः ज्ञातयो न चलतीति । मृतः नेति वा विचिकित्सन्तः देहमालभमानाः उष्णं च उपलभमानाः देहः उष्णः जीवतीति यदा तद­प्यौ­ष्ण्य­लिङ्गं तेज उपसंह्रियते, तदा तत्तेजः परस्यां देवतायां प्रशाम्यति । तदैवं क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवोऽपि सुषुप्तकालवत् निमि­त्तो­प­सं­हा­रा­दु­प­सं­ह्रि­य­माणः सन् सत्या­भि­स­न्धि­पू­र्वकं चेदुपसंह्रियते सदेव सम्पद्यते न पुनर्देहान्तराय सुषु­प्ता­दि­वो­त्ति­ष्ठति, यथा लोके सभये देशे वर्तमानः कथञ्चिदिवाभयं देशं प्राप्तः — तद्वत् । इतरस्तु अनात्मज्ञः तस्मादेव मूलात् सुषु­प्ता­दि­वो­त्थाय मृत्वा पुन­र्दे­ह­जा­ल­मा­वि­शति यस्मा­न्मू­ला­दु­त्थाय देहमाविशति जीवः ॥

स य एषोऽ­णि­मै­त­दा­त्म्य­मिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ७ ॥

स यः सदाख्यः एषः उक्तः अणिमा अणुभावः जगतो मूलम् ऐतदात्म्यम् एतत्सदात्मा यस्य सर्वस्य तत् एतदात्म तस्य भावः ऐतदात्म्यम् । एतेन सदाख्येन आत्मना आत्मवत् सर्वमिदं जगत् । चान्योऽ­स्त्य­स्या­त्मा­सं­सारी, ‘नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ’(बृ. उ. ३ । ८ । ११) इत्या­दि­श्रु­त्य­न्त­रात् । येन च आत्मना आत्मवत्सर्वमिदं जगत् , तदेव सदाख्यं कारणं सत्यं परमार्थसत् । अतः स एव आत्मा जगतः प्रत्यक्स्वरूपं सतत्त्वं याथात्म्यम् , आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवत् निरूढत्वात् । अतः तत् सत् त्वमसीति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्रः आह — भूय एव मा भगवान् विज्ञापयतु, यद्भवदुक्तं तत् सन्दिग्धं मम — अहन्यहनि सर्वाः प्रजाः सुषुप्तौ सत् सम्पद्यन्ते इत्येतत् , येन सत् सम्पद्य न विदुः सत्सम्पन्ना वयमिति । अतः दृष्टान्तेन मां प्रत्या­य­य­त्वि­त्यर्थः । एवमुक्तः तथा अस्तु सोम्य इति ह उवाच पिता ॥

इति अष्ट­म­ख­ण्ड­भा­ष्यम् ॥

नवमः खण्डः

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाꣳ रसा­न्स­म­व­हा­र­मे­कताꣳ रसं गमयन्ति ॥ १ ॥

यत्पृच्छसि — अहन्यहनि सत्सम्पद्य न विदुः सत्सम्पन्नाः स्म इति, तत्कस्मादिति — अत्र शृणु दृष्टान्तम् — यथा लोके हे सोम्य मधुकृतः मधु कुर्वन्तीति मधुकृतः मधुकरमक्षिकाः मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः । कथम् ? नानात्ययानां नानागतीनां नानादिक्कानां वृक्षाणां रसान् समवहारं समाहृत्य एकताम् एकभावं मधुत्वेन रसान् गमयन्ति मधु­त्व­मा­पा­द­यन्ति ॥

ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽ­स्म्य­मु­ष्याहं वृक्षस्य रसोऽ­स्मी­त्ये­व­मेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ २ ॥

ते रसाः यथा मधुत्वेनैकतां गताः तत्र मधुनि विवेकं न लभन्ते ; कथम् ? अमु­ष्या­ह­मा­म्रस्य पनसस्य वा वृक्षस्य रसोऽस्मीति — यथा हि लोके बहूनां चेतनावतां समेतानां प्राणिनां विवेकलाभो भवति अमुष्याहं पुत्रः अमुष्याहं नप्तास्मीति ; ते च लब्धविवेकाः सन्तः न सङ्कीर्यन्ते ; न तथा इह अने­क­प्र­का­र­वृ­क्ष­र­सा­ना­मपि मधु­रा­म्ल­ति­क्त­क­टु­का­दीनां मधुत्वेन एकतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः । यथा अयं दृष्टान्तः, इत्येवमेव खलु सोम्य इमाः सर्वाः प्रजाः अहन्यहनि सति सम्पद्य सुषुप्तिकाले मरणप्रलययोश्च न विदुः न विजानीयुः — सति सम्पद्यामहे इति सम्पन्ना इति वा ॥

त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ३ ॥

यस्माच्च एवमात्मनः सद्रू­प­ता­म­ज्ञा­त्वैव सत्सम्पद्यन्ते, अतः ते इह लोके यत्क­र्म­नि­मित्तां यां यां जातिं प्रतिपन्ना आसुः व्याघ्रादीनाम् — व्याघ्रोऽहं सिंहो­हऽ­मि­त्ये­वम् , ते तत्क­र्म­ज्ञा­न­वा­स­ना­ङ्किताः सन्तः सत्प्रविष्टा अपि तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति बभूवुरित्यर्थः, तदेव पुनरागत्य भवन्ति । युग­स­ह­स्र­को­ट्य­न्त­रि­तापि संसारिणः जन्तोः या पुरा भाविता वासना, सा न नश्यतीत्यर्थः । ‘यथाप्रज्ञं हि सम्भवाः’(ऐ. आ. २ । ३ । २) इति श्रुत्यन्तरात् ॥

स य एषोऽ­णि­मै­त­दा­त्म्य­मिदꣳ सर्वꣳ तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ४ ॥

ताः प्रजाः यस्मिन्प्रविश्य पुन­रा­वि­र्भ­वन्ति, ये तु इतोऽन्ये सत्स­त्या­त्मा­भि­सन्धाः यमणुभावं यदात्मानं प्रविश्य नावर्तन्ते, स य एषोऽणिमेत्यादि व्याख्यातम् । यथा लोके स्वकीये गृहे सुप्तः उत्थाय ग्रामान्तरं गतः जानाति स्वगृ­हा­दा­ग­तोऽ­स्मीति, एवं सत आगतोऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय एव मा भग­वा­न्वि­ज्ञा­प­यतु इत्युक्तः तथा सोम्येति ह उवाच पिता ॥

इति नवमखण्डभाष्यम् ॥

दशमः खण्डः

इमाः सोम्य नद्यः पुर­स्ता­त्प्राच्यः स्यन्दन्ते पश्चा­त्प्र­ती­च्यस्ताः समु­द्रा­त्स­मु­द्र­मे­वा­पि­यन्ति स समुद्र एव भवति ता यथा तत्र न विदु­रि­य­म­ह­म­स्मी­य­म­ह­म­स्मीति ॥ १ ॥

शृणु तत्र दृष्टान्तम् — यथा सोम्य इमा नद्यः गङ्गाद्याः पुरस्तात् पूर्वां दिशं प्रति प्राच्यः प्रागञ्चनाः स्यन्दन्ते स्रवन्ती । पश्चात् प्रतीची दिशं प्रति सिन्ध्वाद्याः प्रतीचीम् अञ्जन्ति गच्छन्तीति प्रतीच्यः, ताः समु­द्रा­द­म्भो­निधेः जल­ध­रै­रा­क्षिप्ताः पुन­र्वृ­ष्टि­रू­पेण पतिताः गङ्गा­दि­न­दी­रू­पिण्यः पुनः समुद्रम् अम्भोनिधिमेव अपियन्ति स समुद्र एव भवति । ता नद्यः यथा तत्र समुद्रे समुद्रात्मना एकतां गताः न विदुः न जानन्ति — इयं गङ्गां अहमस्मि इयं यमुना अहमस्मीति च ॥

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामाह इति त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ २ ॥

स य एषोऽ­णि­मै­त­दा­त्म्य­मिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ३ ॥

एवमेव खलु सोम्य इमाः सर्वाः प्रजाः यस्मात् सति सम्पद्य न विदुः, तस्मात्सत आगम्य विदुः — सत आगच्छामहे आगता इति वा । त इह व्याघ्र इत्यादि समानमन्यत् । दृष्टं लोके जले वीची­त­र­ङ्ग­फे­न­बु­द्बु­दा­दय उत्थिताः पुनस्तद्भावं गता विनष्टा इति । जीवास्तु तत्कारणभावं प्रत्यहं गच्छन्तोऽपि सुषुप्ते मरणप्रलययोश्च न विन­श्य­न्ती­त्ये­तत् , भूय एव मा भग­वा­न्वि­ज्ञा­प­यतु दृष्टान्तेन । तथा सोम्येति ह उवाच पिता ॥

इति दशमखण्डभाष्यम् ॥

एकादशः खण्डः

अस्य सोम्य महतो वृक्षस्य यो मूलेऽ­भ्या­ह­न्या­ज्जी­व­न्स्र­वेद्यो मध्येऽ­भ्या­ह­न्या­ज्जी­व­न्स्र­वे­द्योऽ­ग्रेऽ­भ्या­ह­न्या­ज्जी­व­न्स्र­वेत्स एष जीवे­ना­त्म­ना­नु­प्र­भूतः पेपीयमानो मोदमानस्तिष्टति ॥ १ ॥

शृणु दृष्टान्तम् — अस्य हे सोम्य महतः अने­क­शा­खा­दि­यु­क्तस्य वृक्षस्य, अस्येत्यग्रतः स्थितं वृक्षं दर्शयन् आह — यदि यः कश्चित् अस्य मूले अभ्याहन्यात् , परश्वादिना सकृद्घातमात्रेण न शुष्यतीति जीवन्नेव भवति, तदा, तस्य रसः स्रवेत् । तथा यो मध्ये अभ्याहन्यात् जीवन्स्रवेत् , तथा योऽग्रे अभ्याहन्यात् जीवन्स्रवेत् । स एष वृक्षः इदानीं जीवेन आत्मना अनुप्रभूतः अनुव्याप्तः पेपीयमानः अत्यर्थं पिबन् उदकं भौमांश्च रसान् मूलैर्गृह्णन् मोदमानः हर्षं प्राप्नुवन् तिष्ठति ॥

अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ २ ॥

तस्यास्य यदेकां शाखां रोगग्रस्ताम् आहतां वा जीवः जहाति उपसंहरति शाखायां विप्र­सृ­त­मा­त्मां­शम् , अथ सा शुष्यति । वाङ्म­नः­प्रा­ण­क­र­ण­ग्रा­मा­नु­प्र­विष्टो हि जीव इति तदुपसंहारे उपसंह्रियते । जीवेन च प्राणयुक्तेन अशितं पीतं च रसतां गतं जीवच्छरीरं वृक्षं च वर्धयत् रसरूपेण जीवस्य सद्भावे लिङ्गं भवति । अशितपीताभ्यां हि देहे जीवस्तिष्ठति । ते च अशितपीते जीव­क­र्मा­नु­सा­रिणी इति तस्यै­का­ङ्ग­वै­क­ल्य­नि­मित्तं कर्म यदोपस्थितं भवति, तदा जीवः एकां शाखां जहाति शाखाय आत्मानमुपसंहरति ; अथ तदा सा शाखा शुष्यति । जीव­स्थि­ति­नि­मित्तो रसः जीव­क­र्मा­क्षिप्तः जीवोपसंहारे न तिष्ठति । रसापगमे च शाखा शोषमुपैति । तथा सर्वं वृक्षमेव यदा अयं जहाति तदा सर्वोऽपि वृक्षः शुष्यति । वृक्षस्य रस­स्र­व­ण­शो­ष­णा­दि­लि­ङ्गात् जीववत्त्वं दृष्टा­न्त­श्रु­तेश्च चेतनावन्तः स्थावरा इति बौद्ध­का­णा­द­म­त­म­चे­तनाः स्थावरा इत्येतदसारमिति दर्शितं भवति ॥

एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति स य एषोऽ­णि­मै­त­दा­त्म्य­मिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ३ ॥

यथा अस्मि­न्वृ­क्ष­दृ­ष्टान्ते दर्शितम् — जीवेन युक्तः वृक्षः अशुष्कः रसपानादियुक्तः जीवतीत्युच्यते, तदपेतश्च म्रियत इत्युच्यते ; एवमेव खलु सोम्य विद्धीति ह उवाच — जीवापेतं जीववियुक्तं वाव किल इदं शरीरं म्रियते न जीवो म्रियत इति । कार्यशेषे च सुप्तोत्थितस्य मम इदं कार्यशेषम् अपरिसमाप्तमिति स्मृत्वा समापनदर्शनात् । जातमात्राणां च जन्तूनां स्तन्या­भि­ला­ष­भ­या­दि­द­र्श­नाच्च अती­त­ज­न्मा­न्त­रा­नु­भू­त­स्त­न्य­पा­न­दुः­खा­नु­भ­व­स्मृ­ति­र्ग­म्यते । अग्नि­हो­त्रा­दीनां च वैदिकानां कर्म­णा­म­र्थ­व­त्त्वात् न जीवो म्रियत इति । स य एषोऽणिमेत्यादि समानम् । कथं पुन­रि­द­म­त्य­न्त­स्थूलं पृथिव्यादि नामरूपवज्जगत् अत्य­न्त­सू­क्ष्मा­त्स­द्रू­पा­न्ना­म­रू­प­र­हि­ता­त्सतो जायते, इति एतद्दृष्टान्तेन भूय एव मा भग­वा­न्वि­ज्ञा­प­यतु इति । तथा सोम्येति ह उवाच पिता ॥

इति एका­द­श­ख­ण्ड­भा­ष्यम् ॥

द्वादशः खण्डः

न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ १ ॥

यदि एत­त्प्र­त्य­क्षी­क­र्तु­मि­च्छसि अतोऽस्मान्महतः न्यग्रोधात् फलमेकमाहर — इत्युक्तः तथा चकार सः ; इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रति आह — फलं भिन्द्धीति । भिन्नमित्याह इतरः । तमाह पिता — किमत्र पश्यसीति ; उक्तः आह — अण्व्यः अणुतरा इव इमाः धानाः बीजानि पश्यामि भगव इति । आसां धानानामेकां धानाम् अङ्ग हे वत्स भिन्द्घि, इत्युक्तः आह — भिन्ना भगव इति । यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसि, इत्युक्तः आह — न किञ्चन पश्यामि भगव इति ॥

तꣳ होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महा­न्य­ग्रो­ध­स्ति­ष्ठति श्रद्धत्स्व सोम्येति ॥ २ ॥

तं पुत्रं ह उवाच — वटधानायां भिन्नायां यं वटबीजाणिमानं हे सोम्य एतं न निभालयसे न पश्यसि, तथा अप्येतस्य वै किल सोम्य एष महान्यग्रोधः बीजस्य अणिम्नः सूक्ष्मस्य अदृश्यमानस्य कार्यभूतः स्थूल­शा­खा­स्क­न्ध­फ­ल­प­ला­श­वान् तिष्ठति उत्पन्नः सन् , उत्तिष्ठतीति वा, उच्छ­ब्दोऽ­ध्या­हार्यः । अतः श्रद्धत्स्व सोम्य सत एव अणिम्नः स्थूलं नाम­रू­पा­दि­म­त्कार्यं जगदुत्पन्नमिति । यद्यपि न्यायागमाभ्यां निर्धारितोऽर्थः तथै­वे­त्य­व­ग­म्यते, तथापि अत्य­न्त­सू­क्ष्मे­ष्व­र्थेषु बाह्य­वि­ष­या­स­क्त­म­नसः स्वभा­व­प्र­वृ­त्त­स्या­सत्यां गुरुतरायां श्रद्धायां दुरवगमत्वं स्यादित्याह — श्रद्धत्स्वेति । श्रद्धायां तु सत्यां मनसः समाधानं बुभुत्सितेऽर्थे भवेत् , ततश्च तदर्थावगतिः, ‘अन्यत्रमना अभूवम्’(बृ. उ. १ । ५ । ३) इत्यादिश्रुतेः ॥

स य एषोऽ­णि­मै­त­दा­त्म्य­मिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ३ ॥

स य इत्या­द्यु­क्ता­र्थम् । यदि तत्सज्जगतो मूलम् , कस्मान्नोपलभ्यत इत्ये­त­द्दृ­ष्टा­न्तेन मा भगवान्भूय एव विज्ञापयत्विति । तथा सोम्येति ह उवाच पिता ॥

इदि द्वाद­श­ख­ण्ड­भा­ष्यम् ॥

त्रयोदशः खण्डः

लव­ण­मे­त­दु­द­केऽ­व­धा­याथ मा प्रातरुपसीदथा इति स ह तथा चकार तं होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥

विद्यमानमपि वस्तु नोपलभ्यते, प्रकारान्तरेण तु उपलभ्यत इति शृणु अत्र दृष्टान्तम् — यदि च इममर्थं प्रत्य­क्षी­क­र्तु­मि­च्छसि, पिण्डरूपं लवणम् एतद्घटादौ उदके अवधाय प्रक्षिप्य अथ मा मां श्वः प्रातः उपसीदथाः उपगच्छेथाः इति । स ह पित्रोक्तमर्थं प्रत्य­क्षी­क­र्तु­मि­च्छन् तथा चकार । तं ह उवाच परेद्युः प्रातः — यल्लवणं दोषा रात्रौ उदके अवाधाः निक्षिप्तवानसि अङ्ग हे वत्स तदाहर — इत्युक्तः तल्ल­व­ण­मा­जि­हीर्षुः ह किल अवमृश्य उदके न विवेद न विज्ञातवान् । यथा तल्लवणं विद्यमानमेव सत् अप्सु लीनं संश्लिष्टमभूत् ॥

यथा विली­न­मे­वा­ङ्गा­स्या­न्ता­दा­चा­मेति कथमिति लवणमिति मध्यादाचामेति कथमिति लव­ण­मि­त्य­न्ता­दा­चा­मेति कथमिति लव­ण­मि­त्य­भि­प्रा­स्यै­त­दथ मोपसीदथा इति तद्ध तथा चकार तच्छ­श्व­त्सं­व­र्तते तंꣳ होवाचात्र वाव किल सत्सोम्य न निभालयसेऽत्रैव किलेति ॥ २ ॥

यथा विलीनं लवणं न वेत्थ, तथापि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लवणमगृह्यमाणं विद्यत एव अप्सु, उपलभ्यते च उपायान्तरेण — इत्येतत् पुत्रं प्रत्या­य­यि­तु­मि­च्छन् आह — अङ्ग अस्योदकस्य अन्तात् उपरि गृहीत्वा आचाम — इत्युक्त्वा पुत्रं तथाकृतवन्तमुवाच — कथमिति ; इतर आह — लवणं स्वादुत इति । तथा मध्यादुदकस्य गृहीत्वा आचाम इति, कथमिति, लवणमिति । तथान्तात् अधोदेशात् गृहीत्वा आचाम इति, कथमिति, लवणमिति । यद्येवम् , अभिप्रास्य परित्यज्य एतदुदकम् आचम्य अथ मोपसीदथाः इति ; तद्ध तथा चकार लवणं परित्यज्य पितृ­स­मी­प­मा­ज­गा­मे­त्यर्थः इदं वचनं ब्रुवन् — तल्लवणं तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शश्वन्नित्यं संवर्तते विद्यमानमेव सत् सम्यग्वर्तते । इति एवमुक्तवन्तं तं ह उवाच पिता — यथेदं लवणं दर्श­न­स्प­र्श­नाभ्यां पूर्वं गृहीतं पुनरुदके विलीनं ताभ्या­म­गृ­ह्य­मा­ण­मपि विद्यत एव उपायान्तरेण जिह्व­यो­प­ल­भ्य­मा­न­त्वात् — एवमेव अत्रैव अस्मिन्नेव तेजो­ब­न्ना­दि­कार्ये शुङ्गे देहे, वाव किले­त्या­चा­र्यो­प­दे­श­स्म­र­ण­प्र­द­र्श­नार्थौ, सत् तेजो­ब­न्ना­दि­शु­ङ्ग­का­रणं वट­बी­जा­णि­म­व­द्वि­द्य­मा­न­मेव इन्द्रि­यै­र्नो­प­ल­भसे न निभालयसे । यथा अत्रैवोदके दर्श­न­स्प­र्श­ना­भ्या­म­नु­प­ल­भ्य­मानं लवणं विद्यमानमेव जिह्वया उपलब्धवानसि — एवमेवात्रैव किल विद्यमानं सत् जगन्मूलम् उपायान्तरेण लवणाणिमवत् उपलप्स्यस इति वाक्यशेषः ॥

स य एषोऽ­णि­मै­त­दा­त्म्य­मिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ३ ॥

स य इत्यादि समानम् । यद्येवं लव­णा­णि­म­व­दि­न्द्रि­यै­र­नु­प­ल­भ्य­मा­न­मपि जगन्मूलं सत् उपायान्तरेण उपलब्धुं शक्यते, यदु­प­ल­म्भा­त्कृ­तार्थः स्याम् अनु­प­ल­म्भा­च्चा­कृ­तार्थः स्यामहम् , तस्यैवोपलब्धौ क उपायः इत्येतत् भूय एव मा भगवान् विज्ञापयतु दृष्टान्तेन । तथा सोम्य इति ह उवाच ॥

इति त्रयो­द­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्दशः खण्डः

यथा सोम्य पुरुषं गन्धा­रे­भ्योऽ­भि­न­द्धा­क्ष­मा­नीय तं ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वो­द­ङ्वा­ध­राङ्वा प्रत्यङ्वा प्रध्मा­यी­ता­भि­न­द्धाक्ष आनी­तोऽ­भि­न­द्धाक्षो विसृष्टः ॥ १ ॥

यथा लोके हे सोम्य पुरुषं यं कञ्चित् गन्धारेभ्यो जनपदेभ्यः अभिनद्धाक्षं बद्धचक्षुषम् आनीय द्रव्यहर्ता तस्करः तमभिनद्धाक्षमेव बद्धहस्तम् अरण्ये ततोऽप्यतिजने अतिगतजने अत्यन्तविगतजने देशे विसृजेत् , स तत्र दिग्भ्रमोपेतः यथा प्राङ्वा प्रागञ्चनः प्राह्मुखो वेत्यर्थः, तथोदङ्वा अधराङ्वा प्रत्यङ्वा प्रध्मायीत शब्दं कुर्यात् विक्रोशेत् — अभिनद्धाक्षोऽहं गन्धा­रे­भ्य­स्त­स्क­रे­णा­नी­तोऽ­भि­न­द्धाक्ष एव विसृष्ट इति ॥

तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी गन्धा­रा­ने­वो­प­स­म्प­द्ये­तै­व­मे­वे­हा­चा­र्य­वा­न्पु­रुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ २ ॥

एवं विक्रोशतः तस्य यथाभिनहनं यथा बन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चित् एतां दिशमुत्तरतः गन्धाराः एतां दिशं व्रज — इति प्रब्रूयात् । स एवं कारुणिकेन बन्ध­ना­न्मो­क्षितः ग्रामात् ग्रामान्तरं पृच्छन् पण्डितः उपदेशवान् मेधावी परो­प­दि­ष्ट­ग्रा­म­प्र­वे­श­मा­र्गा­व­धा­र­ण­स­मर्थः सन् गन्धा­रा­ने­वो­प­स­म्प­द्येत । नेतरो मूढमतिः देशा­न्त­र­द­र्श­न­तृड्वा । यथा अयं दृष्टान्तः वर्णितः — स्वविषयेभ्यो गन्धारेभ्यः पुरुषः तस्क­रै­र­भि­न­द्धाक्षः अविवेकः दिङ्मूढः अश­ना­या­पि­पा­सा­दि­मान् व्याघ्र­त­स्क­रा­द्य­ने­क­भ­या­न­र्थ­व्रा­त­यु­त­म­रण्यं प्रवेशितः दुःखार्तः विक्रोशन् बन्धनेभ्यो मुमु­क्षु­स्ति­ष्ठति, स कथञ्चिदेव कारुणिकेन केनचिन्मोक्षितः स्वदे­शा­न्ग­न्धा­रा­ने­वा­पन्नः निर्वृतः सुख्यभूत् — एवमेव सतः जग­दा­त्म­स्व­रू­पा­त्ते­जो­ब­न्ना­दि­मयं देहारण्यं वात­पि­त्त­क­फ­रु­धि­र­मे­दो­मां­सा­स्थि­म­ज्जा­शु­क्र­कृ­मि­मू­त्र­पु­री­ष­वत् शीतो­ष्णा­द्य­ने­क­द्व­न्द्व­दुः­ख­वच्च इदं मोह­प­टा­भि­न­द्धाक्षः भार्या­पु­त्र­मि­त्र­प­शु­ब­न्ध्वा­दि­दृ­ष्टा­दृ­ष्टा­ने­क­वि­ष­य­तृ­ष्णा­पा­शितः पुण्या­पु­ण्या­दि­त­स्करैः प्रवेशितः अहममुष्य पुत्रः, ममैते बान्धवाः, सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुमान् जातः मृतो जीर्णः पापी, पुत्रो मे मृतः, धनं मे नष्टम् , हा हतोऽस्मि, कथं जीविष्यामि, का मे गतिः, किं मे त्राणम् — इत्ये­व­म­ने­क­श­त­स­ह­स्रा­न­र्थ­जा­ल­वान् विक्रोशन् कथञ्चिदेव पुण्या­ति­श­या­त्प­र­म­का­रु­णिकं कञ्चि­त्स­द्ब्र­ह्मा­त्म­विदं विमुक्तबन्धनं ब्रह्मिष्ठं यदा आसादयति, तेन च ब्रह्मविदा कारुण्यात् दर्शि­त­सं­सा­र­वि­ष­य­दो­ष­द­र्श­न­मार्गः विरक्तः संसारविषयेभ्यः — नासि त्वं संसारी अमुष्य पुत्र­त्वा­दि­ध­र्म­वान् , किं तर्हि, सत् यत्तत्त्वमसि —इत्य­वि­द्या­मो­ह­प­टा­भि­न­ह­ना­न्मो­क्षितः गन्धारपुरुषवच्च स्वं सदात्मानम् उपसम्पद्य सुखी निर्वृतः स्यादि­त्ये­त­मे­वा­र्थ­माह — आचा­र्य­वा­न्पु­रुषो वेदेति । तस्यास्य एवमाचार्यवतो मुक्ता­वि­द्या­भि­न­ह­नस्य तावदेव तावानेव कालः चिरं क्षेपः सदा­त्म­स्व­रू­प­स­म्प­त्ते­रिति वाक्यशेषः । किया­न्का­ल­श्चि­र­मिति, उच्यते — यावन्न विमोक्ष्ये न विमोक्ष्यते इत्ये­त­त्पु­रु­ष­व्य­त्य­येन, सामर्थ्यात् ; येन कर्मणा शरीरमारब्धं तस्योपभोगेन क्षयात् देहपातो यावदित्यर्थः । अथ तदैव सत् सम्पत्स्ये सम्पत्स्यते इति पूर्ववत् । न हि देहमोक्षस्य सत्सम्पत्तेश्च कालभेदोऽस्ति येन अथ - शब्दः आनन्तर्यार्थः स्यात् ॥

ननु यथा सद्वि­ज्ञा­ना­न­न्त­र­मेव देहपातः सत्सम्पत्तिश्च न भवति कर्मशेषवशात् , तथा अप्रवृत्तफलानि प्राग्ज्ञा­नो­त्प­त्ते­र्ज­न्मा­न्त­र­स­ञ्चि­ता­न्यपि कर्माणि सन्तीति तत्फलोपभोगार्थं पतिते अस्मि­ञ्श­री­रा­न्त­र­मा­र­ब्ध­व्यम् । उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थं च अवश्यं शरी­रा­न्त­र­मा­र­ब्ध­व्यम् , ततश्च कर्माणि ततः शरीरान्तरम् इति ज्ञानानर्थक्यम् , कर्मणां फलवत्त्वात् । अथ ज्ञानवतः क्षीयन्ते कर्माणि, तदा ज्ञान­प्रा­प्ति­स­म­का­ल­मेव ज्ञानस्य सत्स­म्प­त्ति­हे­तु­त्वा­न्मोक्षः स्यादिति शरीरपातः स्यात् । तथा च आचार्याभावः इति आचा­र्य­वा­न्पु­रुषो वेद इत्यनुपपत्तिः । ज्ञाना­न्मो­क्षा­भा­व­प्र­स­ङ्गश्च देशा­न्त­र­प्रा­प्त्यु­पा­य­ज्ञा­न­व­द­नै­का­न्ति­क­फ­लत्वं वा ज्ञानस्य । न, कर्मणां प्रवृ­त्ता­प्र­वृ­त्त­फ­ल­व­त्त्व­वि­शे­षो­प­पत्तेः । यदुक्तम् अप्रवृत्तफलानां कर्मणां ध्रुव­फ­ल­व­त्त्वा­द्ब्र­ह्म­विदः शरीरे पतिते शरी­रा­न्त­र­मा­र­ब्ध­व्यम् अप्र­वृ­त्त­क­र्म­फ­लो­प­भो­गा­र्थ­मिति, एतदसत् । विदुषः ‘तस्य तावदेव चिरम्’ इति श्रुतेः प्रामाण्यात् । ननु ‘पुण्यो वै पुण्येन कर्मणा भवति’(बृ. उ. ३ । २ । १५) इत्या­दि­श्रु­ते­रपि प्रामाण्यमेव । सत्यमेवम् । तथापि प्रवृ­त्त­फ­ला­ना­म­प्र­वृ­त्त­फ­लानां च कर्मणां विशेषोऽस्ति । कथम् ? यानि प्रवृत्तफलानि कर्माणि यैर्वि­द्व­च्छ­री­र­मा­र­ब्धम् , तेषामुपभागेनैव क्षयः — यथा आरब्धवेगस्य लक्ष्य­मु­क्ते­ष्वादेः वेगक्षयादेव स्थितिः, न तु लक्ष्य­वे­ध­स­म­का­ल­मेव प्रयोजनं नास्तीति — तद्वत् । अन्यानि तु अप्रवृत्तफलानि इह प्राग्ज्ञा­नो­त्प­त्ते­रूर्ध्वं च कृतानि वा क्रियमाणानि वा अती­त­ज­न्मा­न्त­र­कृ­तानि वा अप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्राय­श्चि­त्ते­नेव ; ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’(भ. गी. ४ । ३७) इति स्मृतेश्च । ‘क्षीयन्ते चास्य कर्माणि’(मु. उ. २ । २ । ९) इति च आथर्वणे । अतः ब्रह्मविदः जीव­ना­दि­प्र­यो­ज­ना­भा­वेऽपि प्रवृत्तफलानां कर्मणामवश्यमेव फलोपभोगः स्यादिति मुक्तेषुवत् तस्य तावदेव चिरमिति युक्त­मे­वो­क्त­मिति यथो­क्त­दो­ष­चो­द­ना­नु­प­पत्तिः । ज्ञानो­त्प­त्ते­रूर्ध्वं च ब्रह्मविदः कर्माभावमवोचाम ‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति’(छा. उ. २ । २३ । १) इत्यत्र । तच्च स्मर्तुमर्हसि ॥

स य एषोऽ­णि­मै­त­दा­त्म्य­मिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ३ ॥

स य इत्या­द्यु­क्ता­र्थम् । आचार्यवान् विद्वान् येन क्रमेण सत् सम्पद्यते, तं क्रमं दृष्टान्तेन भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति । तथा सोम्य इति ह उवाच ॥

इति चतु­र्द­श­ख­ण्ड­भा­ष्यम् ॥

पञ्चदशः खण्डः

पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ १ ॥

पुरुषं हे सोम्य उत उपतापिनं ज्वरा­द्यु­प­ता­प­वन्तं ज्ञातयः बान्धवाः परिवार्य उपासते मुमूर्षुम् — जानासि मां तव पितरं पुत्रं भ्रातरं वा — इति पृच्छन्तः । तस्य मुमूर्षोः यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इत्ये­त­दु­क्ता­र्थम् ॥

अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥

संसारिणः यः मरणक्रमः स एवायं विदुषोऽपि सत्सम्पत्तिक्रम इत्येतदाह — परस्यां देवतायां तेजसि सम्पन्ने अथ न जानाति । अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देव­म­नु­ष्या­दि­भावं वा विशति । विद्वांस्तु शास्त्रा­चा­र्यो­प­दे­श­ज­नि­त­ज्ञा­न­दी­प­प्र­का­शितं सद्ब्र­ह्मा­त्मानं प्रविश्य न आवर्तते इत्येष सत्स­म्प­त्ति­क्रमः । अन्ये तु मूर्धन्यया नाड्या उत्क्रम्य आदि­त्या­दि­द्वा­रेण सद्ग­च्छ­न्ती­त्याहुः ; तदसत् , देश­का­ल­नि­मि­त्त­फ­ला­भि­स­न्धा­नेन गमनदर्शनात् । न हि सदा­त्मै­क­त्व­द­र्शिनः सत्याभिसन्धस्य देश­का­ल­नि­मि­त्त­फ­ला­द्य­नृ­ता­भि­स­न्धि­रु­प­प­द्यते, विरोधात् । अवि­द्या­का­म­क­र्मणां च गमननिमित्तानां सद्वि­ज्ञा­न­हु­ता­श­न­वि­प्लु­ष्ट­त्वात् गमनानुपपत्तिरेव ; ‘पर्योप्तकामस्य कृता­त्म­न­स्त्वि­हैव सर्वे प्रविलीयन्ति कामाः’(मु. उ. ३ । २ । २) इत्याद्याथर्वणे नदी­स­मु­द्र­दृ­ष्टा­न्त­श्रु­तेश्च ॥

स य एषोऽ­णि­मै­त­दा­त्म्य­मिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति तथा सोम्येति होवाच ॥ ३ ॥

स य इत्यादि समानम् । यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्सम्पत्तिः, तत्र विद्वान् सत्सम्पन्नो नावर्तते, आवर्तते त्वविद्वान् — इत्यत्र कारणं दृष्टान्तेन भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति । तथा सोम्येति ह उवाच ॥

इति पञ्च­द­श­ख­ण्ड­भा­ष्यम् ॥

षोडशः खण्डः

पुरुषꣳ सोम्योत हस्त­गृ­ही­त­मा­न­य­न्त्य­प­हा­र्षी­त्स्ते­य­म­का­र्षी­त्प­र­शु­मस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृ­ता­भि­स­न्धोऽ­नृ­ते­ना­त्मा­न­म­न्त­र्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥

शृणु — यथा सोम्य पुरुषं चौर्यकर्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तम् आनयन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्च आहुः — अप­हा­र्षी­द्ध­न­म­स्या­यम् । ते च आहुः — किमपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गात् ; इत्युक्ताः पुनराहुः — स्तेयमकार्षीत् चौर्येण धनमपहार्षीदिति । तेष्वेवं वदत्सु इतरः अपह्नुते — नाहं तत्कर्तेति । ते च आहुः — सन्दिह्यमानं स्तेयमकार्षीः त्वमस्य धनस्येति । तस्मिंश्च अपह्नुवाने आहुः — परशुमस्मै तपतेति शोध­य­त्वा­त्मा­न­मिति । स यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापह्नुते, स एवंभूतः तत एवा­नृ­त­म­न्य­था­भूतं सन्त­म­न्य­था­त्मानं कुरुते । स तथा अनृ­ता­भि­स­न्धोऽ­नृ­ते­ना­त्मा­न­म­न्त­र्धाय व्यवहितं कृत्वा परशुं तप्तं मोहा­त्प्र­ति­गृ­ह्णाति, स दह्यते, अथ हन्यते राजपुरुषैः स्वकृ­ते­ना­नृ­ता­भि­स­न्धि­दो­षेण ॥

अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्ये­ना­त्मा­न­म­न्त­र्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥

अथ यदि तस्य कर्मणः अकर्ता भवति, तत एव सत्यमात्मानं कुरुते । स सत्येन तया स्तैन्या­क­र्तृ­तया आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स सत्याभिसन्धः सन् न दह्यते सत्यव्यवधानात् , अथ मुच्यते च मृषा­भि­यो­क्तृभ्यः । तप्त­प­र­शु­ह­स्त­त­ल­सं­यो­गस्य तुल्यत्वेऽपि स्तेय­क­र्त्र­क­र्त्रो­र­नृ­ता­भि­सन्धो दह्यते न तु सत्याभिसन्धः ॥

स यथा तत्र नादा­ह्ये­तै­त­दा­त्म्य­मिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इदि तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ३ ॥

स यथा सत्याभिसन्धः तप्त­प­र­शु­ग्र­ह­ण­क­र्मणि सत्य­व्य­व­हि­त­ह­स्त­त­ल­त्वात् नादाह्येत न दह्येतेत्येतत् , एवं सद्ब्र­ह्म­स­त्या­भि­स­न्धे­त­रयोः शरीरपातकाले च तुल्यायां सत्सम्पत्तौ विद्वान् सत्सम्पद्य न पुन­र्व्या­घ्र­दे­वा­दि­दे­ह­ग्र­ह­णाय आवर्तते । अविद्वांस्तु विका­रा­नृ­ता­भि­सन्धः पुन­र्व्या­घ्रा­दि­भावं देवतादिभावं वा यथाकर्म यथाश्रुतं प्रतिपद्यते । यदा­त्मा­भि­स­न्ध्य­न­भि­स­न्धि­कृते मोक्षबन्धने, यच्च मूलं जगतः, यदायतना यत्प्रतिष्ठाश्च सर्वाः प्रजाः, यदात्मकं च सर्वं यच्चाजममृतमभयं शिवमद्वितीयम् , तत्सत्यं स आत्मा तव, अतस्तत्त्वमसि श्वेतकेतो — इत्यु­क्ता­र्थ­म­स­कृ­द्वा­क्यम् । कः पुनरसौ श्वेतकेतुः त्वंशब्दार्थः ? योऽहं श्वेत­के­तु­रु­द्दा­ल­कस्य पुत्र इति वेद आत्मानमादेशं श्रुत्वा मत्वा विज्ञाय च, अश्रु­त­म­म­त­म­वि­ज्ञातं विज्ञातुं पितरं पप्रच्छ ‘कथं नु भगवः स आदेशो भवति’(छा. उ. ६ । १ । ३) इति । स एषः अधिकृतः श्रोता मन्ता विज्ञाता तेजोबन्नमयं कार्यकरणसङ्घातं प्रविष्टा परैव देवता नामरूपव्याकरणाय — आदर्शे इव पुरुषः सूर्यादिरिव जलादौ प्रतिबिम्बरूपेण । स आत्मानं कार्यकरणेभ्यः प्रविभक्तं सद्रूपं सर्वात्मानं प्राक् पितुः श्रवणात् न विजज्ञौ । अथेदानीं पित्रा प्रतिबोधितः तत्त्वमसि इति दृष्टा­न्तै­र्हे­तु­भिश्च तत् पितुरस्य ह किलोक्तं सदेवाहमस्मीति विजज्ञौ विज्ञातवान् । द्विर्व­च­न­म­ध्या­य­प­रि­स­मा­प्त्य­र्थम् ॥

किं पुनरत्र षष्ठे वाक्यप्रमाणेन जनितं फलमात्मनि ? कर्तृ­त्व­भो­क्तृ­त्व­यो­र­धि­कृ­त­त्व­वि­ज्ञा­न­नि­वृत्तिः तस्य फलम् , यमवोचाम त्वंश­ब्द­वा­च्य­मर्थं श्रोतुं मन्तुं च अधि­कृ­त­म­वि­ज्ञा­त­वि­ज्ञा­न­फ­ला­र्थम् । प्राक्च एत­स्मा­द्वि­ज्ञा­नात् अहमेवं करि­ष्या­म्य­ग्नि­हो­त्रा­दीनि कर्माणि, अहमत्राधिकृतः, एषां च कर्मणां फलमिहामुत्र च भोक्ष्ये, कृतेषु वा कर्मसु कृतकर्तव्यः स्याम् — इत्येवं कर्तृ­त्व­भो­क्तृ­त्व­यो­र­धि­कृ­तोऽ­स्मी­त्या­त्मनि यद्विज्ञानमभूत् तस्य, यत्सज्जगतो मूलम् एकमेवाद्वितीयं तत्त्वमसीत्यनेन वाक्येन प्रतिबुद्धस्य निवर्तते, विरोधात् — न हि एक­स्मि­न्न­द्वि­तीये आत्मनि अयमहमस्मीति विज्ञाते ममेदम् अन्यदनेन कर्तव्यम् इदं कृत्वा अस्य फलं भोक्ष्ये — इति वा भेद­वि­ज्ञा­न­मु­प­प­द्यते । तस्मात् सत्स­त्या­द्वि­ती­या­त्म­वि­ज्ञाने विका­रा­नृ­त­जी­वा­त्म­वि­ज्ञानं निवर्तते इति युक्तम् । ननु ‘तत्त्वमसि’ इत्यत्र त्वंश­ब्द­वा­च्येऽर्थे सद्बु­द्धि­रा­दि­श्यते — यथा आदित्यमनआदिषु ब्रह्मा­दि­बुद्धिः, यथा च लोके प्रतिमादिषु विष्ण्वा­दि­बुद्धिः, तद्वत् ; न तु सदेव त्वमिति ; यदि सदेव श्वेतकेतुः स्यात् , कथमात्मानं न विजानीयात् , येन तस्मै तत्त्व­म­सी­त्यु­प­दि­श्यते ? न, आदि­त्या­दि­वा­क्य­वै­ल­क्ष­ण्यात् — ‘आदित्यो ब्रह्म’(छा. उ. ३ । १९ । १) इत्यादौ इति­श­ब्द­व्य­व­धा­नात् न साक्षा­द्ब्र­ह्मत्वं गम्यते, रूपा­दि­म­त्त्वाच्च आदित्यादीनाम् । आकाशमनसोश्च इति­श­ब्द­व्य­व­धा­ना­देव अब्रह्मत्वम् । इह तु सत एवेह प्रवेशं दर्शयित्वा ‘तत्त्वमसि’ इति निरङ्कुशं सदा­त्म­भा­व­मु­प­दि­शति । ननु पराक्रमादिगुणः सिंहोऽसि त्वम् इतिवत् तत्त्वमसीति स्यात् । न, मृदादिवत् सदे­क­मे­वा­द्वि­तीयं सत्यम् इत्युपदेशात् । न च उपचारविज्ञानात् ‘तस्य तावदेव चिरम्’(छा. उ. ६ । १४ । २) इति सत्स­म्प­त्ति­रु­प­दि­श्येत । मृषा­त्वा­दु­प­चा­र­वि­ज्ञा­नस्य — त्वमिन्द्रो यम इतिवत् । नापि स्तुतिः, अनु­पा­स्य­त्वा­च्छ्वे­त­केतोः । नापि सत् श्वेत­के­तु­त्वो­प­दे­शेन स्तूयेत — न हि राजा दासस्त्वमिति स्तुत्यः स्यात् । नापि सतः सर्वात्मन एकदेशनिरोधो युक्तः तत्त्व­म­सी­ति­दे­शा­धि­प­ते­रिव ग्रामा­ध्य­क्ष­स्त्व­मिति । न च अन्या गतिरिह सदा­त्म­त्वो­प­दे­शात् अर्थान्तरभूता सम्भवति । ननु सदस्मीति बुद्धिमात्रमिह कर्तव्यतया चोद्यते न त्वज्ञातं सदसीति ज्ञाप्यत इति चेत् । नन्व­स्मि­न्प­क्षेऽपि ‘अश्रुतं श्रुतं भवति’(छा. उ. ६ । १ । ३) इत्या­द्य­नु­प­प­न्नम् । न, सदस्मीति बुद्धिविधेः स्तुत्य­र्थ­त्वात् । न, ‘आचा­र्य­वा­न्पु­रुषो वेद । तस्य तावदेव चिरम्’(छा. उ. ६ । १४ । २) इत्युपदेशात् । यदि हि सदस्मीति बुद्धिमात्रं कर्तव्यतया विधीयते न तु त्वंश­ब्द­वा­च्यस्य सद्रूपत्वमेव, तदा न आचार्यवान्वेद इति ज्ञानोपयोपदेशो वाच्यः स्यात् । यथा ‘अग्निहोत्रं जुहुयात्’(?) इत्ये­व­मा­दि­ष्व­र्थ­प्रा­प्त­मेव आचा­र्य­व­त्त्व­मिति, तद्वत् । ‘तस्य तावदेव चिरम्’ इति च क्षेपकरणं न युक्तं स्यात् , सदात्मतत्त्वे अविज्ञातेऽपि सकृ­द्बु­द्धि­मा­त्र­क­रणे मोक्षप्रसङ्गात् । न च तत्त्व­म­सी­त्युक्ते नाहं सदिति प्रमा­ण­वा­क्य­म­ज­निता बुद्धिः निवर्तयितुं शक्या ; नोत्पन्नेति वा शक्यं वक्तुम् , सर्वो­प­नि­ष­द्वा­क्यानां तत्प­र­त­यै­वो­प­क्ष­यात् । यथा अग्नि­हो­त्रा­दि­वि­धि­ज­नि­ता­ग्नि­हो­त्रा­दि­क­र्त­व्य­ता­बु­द्धी­ना­म­त­था­र्थ­त्व­म­नु­त्प­न्नत्वं वा न शक्यते वक्तुम् — तद्वत् । यत्तूक्तं सदात्मा सन् आत्मानं कथं न जानीयादिति, नासौ दोषः, कार्य­क­र­ण­स­ङ्घा­त­व्य­ति­रिक्तः अहं जीवः कर्ता भोक्तेत्यपि स्वभावतः प्राणिनां विज्ञा­ना­द­र्श­नात् । किमु तस्य सदात्मविज्ञानम् । कथमेवं व्यति­रि­क्त­वि­ज्ञाने असति तेषां कर्तृ­त्वा­दि­वि­ज्ञानं सम्भवति दृश्यते च । तद्वत्तस्यापि देहा­दि­ष्वा­त्म­बु­द्धि­त्वात् न स्यात्स­दा­त्म­वि­ज्ञा­नम् । तस्मात् विका­रा­नृ­ता­धि­कृ­त­जी­वा­त्म­वि­ज्ञा­न­नि­व­र्त­क­मेव इदं वाक्यम् ‘तत्त्वमसि’ इति सिद्धमिति ॥

इति षोडशखण्डभाष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ छान्दो­ग्यो­प­नि­ष­द्भाष्ये षष्ठोऽध्यायः समाप्तः ॥