छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायः
प्रथमः खण्डः
परमार्थतत्त्वोपदेशप्रधानपरः षष्ठोऽध्यायः सदात्मैकत्वनिर्णयपरतयैवोपयुक्तः । न सतोऽर्वाग्विकारलक्षणानि तत्त्वानि निर्दिष्टानीत्यतस्तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य तद्द्वारेणापि भूमाख्यं निरतिशयं तत्त्वं निर्देक्ष्यामि — शाखाचन्द्रदर्शनवत् , इतीमं सप्तमं प्रपाठकमारभते ; अनिर्दिष्टेषु हि सतोऽर्वाक्तत्त्वेषु सन्मात्रे च निर्दिष्टे अन्यदप्यविज्ञातं स्यादित्याशङ्का कस्यचित्स्यात् , सा मा भूदिति वा तानि निर्दिदिक्षति ; अथवा सोपानारोहणवत् स्थूलादारभ्य सूक्ष्मं सूक्ष्मतरं च बुद्धिविषयं ज्ञापयित्वा तदतिरिक्ते स्वाराज्येऽभिषेक्ष्यामीति नामादीनि निर्दिदिक्षति ; अथवा नामाद्युत्तरोत्तरविशिष्टानि तत्त्वानि अतितरां च तेषामुत्कृष्टतमं भूमाख्यं तत्त्वमिति तत्स्तुत्यर्थं नामादीनां क्रमेणोपन्यासः । आख्यायिका तु परविद्यास्तुत्यर्था । कथम् ? नारदो देवर्षिः कृतकर्तव्यः सर्वविद्योऽपि सन् अनात्मज्ञत्वात् शुशोचैव, किमु वक्तव्यम् अन्योऽल्पविज्जन्तुः अकृतपुण्यातिशयोऽकृतार्थ इति ; अथवा नान्यदात्मज्ञानान्निरतिशयश्रेयःसाधनमस्तीत्येतत्प्रदर्शनार्थं सनत्कुमारनारदाख्यायिका आरभ्यते, येन सर्वविज्ञानसाधनशक्तिसम्पन्नस्यापि नारदस्य देवर्षेः श्रेयो न बभूव, येनोत्तमाभिजनविद्यावृत्तसाधनशक्तिसम्पत्तिनिमित्ताभिमानं हित्वा प्राकृतपुरुषवत् सनत्कुमारमुपससाद श्रेयःसाधनप्राप्तये ; अतः प्रख्यापितं भवति निरतिशयश्रेयःप्राप्तिसाधनत्वमात्मविद्याया इति ॥
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्य ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥
१अधीहि अधीष्व भगवः भगवन्निति ह किल उपससाद । अधीहि भगव इति मन्त्रः । सनत्कुमारं योगीश्वरं ब्रह्मिष्ठं नारदः उपसन्नवान् । तं न्यायतः उपसन्नं ह उवाच — यदात्मविषये किञ्चिद्वेत्थ तेन तत्प्रख्यापनेन मामुपसीद इदमहं जाने इति, ततः अहं भवतः विज्ञानात् ते तुभ्यम् ऊर्ध्वं वक्ष्यामि, इत्युक्तवति स ह उवाच नारदः ॥
ऋग्वेदं भगवोऽध्येमि यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्त्रविद्यां नक्षत्रविद्याꣳ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥
२ऋग्वेदं भगवः अध्येमि स्मरामि, ‘यद्वेत्थ’ इति विज्ञानस्य पृष्टत्वात् । तथा यजुर्वेदं सामवेदमाथर्वणं चतुर्थं वेदं वेदशब्दस्य प्रकृतत्वात् इतिहासपुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेदं व्याकरणमित्यर्थः । व्याकरणेन हि पदादिविभागशः ऋग्वेदादयो ज्ञायन्ते ; पित्र्यं श्राद्धकल्पम् ; राशिं गणितम् ; दैवम् उत्पातज्ञानम् ; निधिं महाकालादिनिधिशास्त्रम् ; वाकोवाक्यं तर्कशास्त्रम् ; एकायनं नीतिशास्त्रम् ; देवविद्यां निरुक्तम् ; ब्रह्मणः ऋग्यजुःसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दश्चितयः ; भूतविद्यां भूततन्त्रम् ; क्षत्रविद्यां धनुर्वेदम् ; नक्षत्रविद्यां ज्यौतिषम् ; सर्पदेवजनविद्यां सर्पविद्यां गारुडं देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्यशिल्पादिविज्ञानानि ; एतत्सर्वं हे भगवः अध्येमि ॥
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तं होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥
३सोऽहं भगवः एतत्सर्वं जानन्नपि मन्त्रविदेवास्मि शब्दार्थमात्रविज्ञानवानेवास्मीत्यर्थः । सर्वो हि शब्दः अभिधानमात्रम् अभिधानं च सर्वं मन्त्रेष्वन्तर्भवति । मन्त्रविदेवास्मि मन्त्रवित्कर्मविदित्यर्थः । ‘मन्त्रेषु कर्माणि’(छा. उ. ७ । ४ । १) इति हि वक्ष्यति । न आत्मवित् न आत्मानं वेद्मि । नन्वात्मापि मन्त्रैः प्रकाश्यत एवेति कथं मन्त्रविच्चेत् नात्मवित् ? न, अभिधानाभिधेयभेदस्य विकारत्वात् । न च विकार आत्मेष्यते । नन्वात्माप्यात्मशब्देन अभिधीयते । न, ‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ९ । १)‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ९ । १) , ‘यत्र नान्यत्पश्यति’(छा. उ. ७ । २४ । १) इत्यादिश्रुतेः । कथं तर्हि ‘आत्मैवाधस्तात्’(छा. उ. ७ । २५ । २) ‘स आत्मा’(छा. उ. ६ । १६ । १) इत्यादिशब्दाः आत्मानं प्रत्याययन्ति ? नैष दोषः । देहवति प्रत्यगात्मनि भेदविषये प्रयुज्यमानः शब्दः देहादीनामात्मत्वे प्रत्याख्यायमाने यत्परिशिष्टं सत् , अवाच्यमपि प्रत्याययति — यथा सराजिकायां दृश्यमानायां सेनायां छत्रध्वजपताकादिव्यवहिते अदृश्यमानेऽपि राजनि एष राजा दृश्यत इति भवति शब्दप्रयोगः ; तत्र कोऽसौ राजेति राजविशेषनिरूपणायां दृश्यमानेतरप्रत्याख्याने अन्यस्मिन्नदृश्यमानेऽपि राजनि राजप्रतीतिर्भवेत् — तद्वत् । तस्मात्सोऽहं मन्त्रवित् कर्मविदेवास्मि, कर्मकार्यं च सर्वं विकार इति विकारज्ञ एवास्मि, न आत्मवित् न आत्मप्रकृतिस्वरूपज्ञ इत्यर्थः । अत एवोक्तम् ‘आचार्यवान्पुरुषो वेद’(छा. उ. ६ । १४ । २) इति ; ‘यतो वाचो निवर्तन्ते’ इत्यादिश्रुतिभ्यश्च । श्रुतमागमज्ञानमस्त्येव हि यस्मात् मे मम भगवद्दॄशेभ्यो युष्मत्सदृशेभ्यः तरति अतिक्रमति शोकं मनस्तापम् अकृतार्थबुद्धिताम् आत्मवित् इति ; अतः सोऽहमनात्मवित्त्वात् हे भगवः शोचामि अकृतार्थबुद्ध्या सन्तप्ये सर्वदा ; तं मा मां शोकस्य शोकसागरस्य पारम् अन्तं भगवान् तारयतु आत्मज्ञानोडुपेन कृतार्थबुद्धिमापादयतु अभयं गमयत्वित्यर्थः । तम् एवमुक्तवन्तं ह उवाच — यद्वै किञ्च एतदध्यगीष्ठाः अधीतवानसि, अध्ययनेन तदर्थज्ञानमुपलक्ष्यते, ज्ञातवानसीत्येतत् , नामैवैतत् , ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) इति श्रुतेः ॥
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्त्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥
४नाम वा ऋग्वेदो यजुर्वेद इत्यादि नामैवैतत् । नामोपास्स्व ब्रह्मेति ब्रह्मबुद्ध्या — यथा प्रतिमां विष्णुबुद्ध्या उपास्ते, तद्वत् ॥
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ५ ॥
५स यस्तु नाम ब्रह्मेत्युपास्ते, तस्य यत्फलं भवति, तच्छृणु — यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन् नामविषयेअस्य यथाकामचारः कामचरणं राज्ञ इव स्वविषये भवति । यो नाम ब्रह्मेत्युपास्ते इत्युपसंहारः । किमस्ति भगवः नाम्नो भूयः अधिकतरं यद्ब्रह्मदृष्ट्यर्हमन्यदित्यभिप्रायः । सनत्कुमार आह — नाम्नो वाव भूयः अस्त्येवेति । उक्तः आह — यद्यस्ति तन्मे भगवान्ब्रवीतु इति ॥
इति प्रथमखण्डभाष्यम् ॥
द्वितीयः खण्डः
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाꣳश्च मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥
१वाग्वाव । वागिति इन्द्रियं जिह्वामूलादिष्वष्टसु स्थानेषु स्थितं वर्णानामभिव्यञ्जकम् । वर्णाश्च नामेति नाम्नो वाग्भूयसीत्युच्यते । कार्याद्धि कारणं भूयो दृष्टं लोके — यथा पुत्रात्पिता, तद्वत् । कथं च वाङ्नाम्नो भूयसीति, आह — वाग्वा ऋग्वेदं विज्ञापयति — अयम् ऋग्वेद इति । तथा यजुर्वेदमित्यादि समानम् । हृदयज्ञं हृदयप्रियम् ; तद्विपरीतमहृदयज्ञम् । यत् यदि वाङ् नाभविष्यत् धर्मादि न व्यज्ञापयिष्यत् , वागभावे अध्ययनाभावः अध्ययनाभावे तदर्थश्रवणाभावः तच्छ्रवणाभावे धर्मादि न व्यज्ञापयिष्यत् न विज्ञातमभविष्यदित्यर्थः । तस्मात् वागेवैतत् शब्दोच्चारणेन सर्वं विज्ञापयति । अतः भूयसी वाङ्नाम्नः । तस्माद्वाचं ब्रह्मेत्युपास्स्व ॥
स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२समानमन्यत् ॥
इति द्वितीयखण्डभाष्यम् ॥
तृतीयः खण्डः
मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्रांश्च पशूंश्चेत्छेयेत्यथेच्छत इमं च लोकममुं चेत्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥
१मनः मनस्यनविशिष्टमन्तःकरणं वाचः भूयः । तद्धि मनस्यनव्यापारवत् वाचं वक्तव्ये प्रेरयति । तेन वाक् मनस्यन्तर्भवति । यच्च यस्मिन्नन्तर्भवति तत्तस्य व्यापकत्वात् ततो भूयो भवति । यथा वै लोके द्वे वा आमलके फले द्वे वा कोले बदरफले द्वौ वा अक्षौ विभीतकफले मुष्टिरनुभवति मुष्टिस्ते फले व्याप्नोति मुष्टौ हि ते अन्तर्भवतः, एवं वाचं च नाम च आमलकादिवत् मनोऽनुभवति । स यदा पुरुषः यस्मिन्काले मनसा अन्तःकरणेन मनस्यति, मनस्यनं विवक्षाबुद्धिः, कथं मन्त्रान् अधीयीय उच्चारयेयम् — इत्येवं विवक्षां कृत्वा अथाधीते । तथा कर्माणि कुर्वीयेति चिकीर्षाबुद्धिं कृत्वा अथ कुरुते । पुत्रांश्च पशूंश्च इच्छेयेति प्राप्तीच्छां कृत्वा तत्प्राप्त्युपायानुष्ठानेन अथेच्छते, पुत्रादीन्प्राप्नोतीत्यर्थः । तथा इमं च लोकम् अमुं च उपायेन इच्छेयेति तत्प्राप्त्युपायानुष्ठानेन अथेच्छते प्राप्नोति । मनो हि आत्मा, आत्मनः कर्तृत्वं भोक्तृत्वं च सति मनसि नान्यथेति मनो हि आत्मेत्युच्यते । मनो हि लोकः, सत्येव हि मनसि लोको भवति तत्प्राप्त्युपायानुष्ठानं च इति मनो हि लोकः यस्मात् , तस्मान्मनो हि ब्रह्म । यत एवं तस्मान्मन उपास्स्वेति ॥
स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२स यो मन इत्यादि समानम् ॥
इति तृतीयखण्डभाष्यम् ॥
चतुर्थः खण्डः
सङ्कल्पो वाव मनसो भूयान्यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
१सङ्कल्पो वाव मनसो भूयान् । सङ्कल्पोऽपि मनस्यनवत् अन्तःकरणवृत्तिः, कर्तव्याकर्तव्यविषयविभागेन समर्थनम् । विभागेन हि समर्थिते विषये चिकीर्षाबुद्धिः मनस्यनानन्तरं भवति । कथम् ? यदा वै सङ्कल्पयते कर्तव्यादिविषयान्विभजते — इदं कर्तुं युक्तम् इदं कर्तुमयुक्तमिति, अथ मनस्यति मन्त्रानधीयीयेत्यादि । अथ अनन्तरं वाचम् ईरयति मन्त्राद्युच्चारणे । तां च वाचम् उ नाम्नि नामोच्चारणनिमित्तं विवक्षां कृत्वा ईरयति । नाम्नि नामसामान्ये मन्त्राः शब्दविशेषाः सन्तः एकं भवन्ति अन्तर्भवन्तीत्यर्थः । सामान्ये हि विशेषः अन्तर्भवति । मन्त्रेषु कर्माण्येकं भवन्ति । मन्त्रप्रकाशितानि कर्माणि क्रियन्ते, न अमन्त्रकमस्ति कर्म । यद्धि मन्त्रप्रकाशनेन लब्धसत्ताकं सत् कर्म, ब्राह्मणेनेदं कर्तव्यम् अस्मै फलायेति विधीयते, याप्युत्पत्तिर्ब्राह्मणेषु कर्मणां दृश्यते, सापि मन्त्रेषु लब्धसत्ताकानामेव कर्मणां स्पष्टीकरणम् । न हि मन्त्राप्रकाशितं कर्म किञ्चित् ब्राह्मणे उत्पन्नं दृश्यते । त्रयीविहितं कर्मेति प्रसिद्धं लोके ; त्रयीशब्दश्च ऋग्यजुःसामसमाख्या । मन्त्रेषु कर्माणि कवयो यान्यपश्यन् — इति च आथर्वणे । तस्माद्युक्तं मन्त्रेषु कर्माण्येकं भवन्तीति ॥
तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समक्लृप्तां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाꣳ सङ्क्लृत्यै वर्षꣳ सङ्कल्पते वर्षस्य सङ्क्लृप्त्या अन्नꣳ सङ्कल्पतेऽन्नस्य सङ्क्लृत्यै प्राणाः सङ्कल्पन्ते प्राणानाꣳ सङ्क्लृत्यै मन्त्राः सङ्कल्पन्ते मन्त्राणाꣳ सङ्क्लृत्यै कर्माणि सङ्कल्पन्ते कर्मणाꣳ सङ्क्लृत्यै लोकः सङ्कल्पते लोकस्य सङ्क्लृत्यै सर्वꣳ सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥
२तानि ह वा एतानि मनआदीनि सङ्कल्पैकायनानि सङ्कल्पः एको अयनं गमनं प्रलयः येषां तानि सङ्कल्पैकायनानि, सङ्कल्पात्मकानि उत्पत्तौ, सङ्कल्पे प्रतिष्ठितानि स्थितौ । समक्लृपतां सङ्कल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावापृथिवी, द्यावापृथिव्यौ निश्चले लक्ष्येते । तथा समकल्पेतां वायुश्चाकाशं च एतावपि सङ्कल्पं कृतवन्ताविव । तथा समकल्पन्त आपश्च तेजश्च, स्वेन रूपेण निश्चलानि लक्ष्यन्ते । यतस्तेषां द्यावापृथिव्यादीनां सङ्क्लृप्त्यै सङ्कल्पनिमित्तं वर्षं सङ्कल्पते समर्थीभवति । तथा वर्षस्य सङ्क्लृप्त्यै सङ्कल्पनिमित्तम् अन्नं सङ्कल्पते । वृष्टेर्हि अन्नं भवति । अन्नस्य सङ्क्लृप्त्यै प्राणाः सङ्कल्पन्ते । अन्नमया हि प्राणाः अन्नोपष्ठम्भकाः । ‘अन्नं दाम’(बृ. उ. २ । २ । १) इति हि श्रुतिः । तेषां सङ्क्लृत्यै मन्त्राः सङ्कल्पन्ते । प्राणवान्हि मन्त्रानधीते नाबलः । मन्त्राणां हि सङ्क्लृप्त्यै कर्माण्यग्निहोत्रादीनि सङ्कल्पन्ते अनुष्ठीयमानानि मन्त्रप्रकाशितानि समर्थीभवन्ति फलाय । ततो लोकः फलं सङ्कल्पते कर्मकर्तृसमवायितया समर्थीभवतीत्यर्थः । लोकस्य सङ्क्लृत्यै सर्वं जगत् सङ्कल्पते स्वरूपावैकल्याय । एतद्धीदं सर्वं जगत् यत्फलावसानं तत्सर्वं सङ्कल्पमूलम् । अतः विशिष्टः स एष सङ्कल्पः । अतः सङ्कल्पमुपास्स्व — इत्युक्त्वा फलमाह तदुपासकस्य ॥
स यः सङ्कल्पं ब्रह्मेत्युपास्ते सङ्क्लृप्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावत्सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः सङ्कल्पाद्भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥
३स यः सङ्कल्पं ब्रह्मेति ब्रह्मबुद्ध्या उपास्ते, सङ्क्लृप्तान्वै धात्रा अस्येमे लोकाः फलमिति क्लृप्तान् समर्थितान् सङ्कल्पितान् स विद्वान् ध्रुवान् नित्यान् अत्यन्ताध्रुवापेक्षया, ध्रुवश्च स्वयम् , लोकिनो हि अध्रुवत्वे लोके ध्रुवक्लृप्तिर्व्यर्थेति ध्रुवः सन् प्रतिष्ठितानुपकरणसम्पन्नानित्यर्थः, पशुपुत्रादिभिः प्रतितिष्ठतीति दर्शनात् , स्वयं च प्रतिष्ठितः आत्मीयोपकरणसम्पन्नः अव्यथमानात् अमित्रादित्रासरहितान् अव्यथमानश्च स्वयम् अभिसिध्यति अभिप्राप्नोतीत्यर्थः । यावत्सङ्कल्पस्य गतं सङ्कल्पगोचरः तत्रास्य यथाकामचारो भवति, आत्मनः सङ्कल्पस्य, न तु सर्वेषां सङ्कल्पस्येति, उत्तरफलविरोधात् । यः सङ्कल्पं ब्रह्मेत्युपास्ते इत्यादि पूर्ववत् ॥
इति चतुर्थखण्डभाष्यम् ॥
पञ्चमः खण्डः
चित्तं वाव सङ्कल्पाद्भूयो यदा वै चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
१चित्तं वाव सङ्कल्पाद्भूयः । चित्तं चेतयितृत्वं प्राप्तकालानुरूपबोधवत्त्वम् अतीतानागतविषयप्रयोजननिरूपणसामर्थ्यं च, तत्सङ्कल्पादपि भूयः । कथम् ? यदा वै प्राप्तं वस्तु इदमेवं प्राप्तमिति चेतयते, तदा तदादानाय वा अपोहाय वा अथ सङ्कल्पयते अथ मनस्यतीत्यादि पूर्ववत् ॥
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥
२तानि सङ्कल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्पत्तीनि चित्ते प्रतिष्ठितानि चित्तस्थितानीत्यपि पूर्ववत् । किञ्च चित्तस्य माहात्म्यम् । यस्माच्चित्तं सङ्कल्पादिमूलम् , तस्मात् यद्यपि बहुवित् बहुशास्त्रादिपरिज्ञानवान्सन् अचित्तो भवति प्राप्तादिचेतयितृत्वसामर्थ्यविरहितो भवति, तं निपुणाः लौकिकाः नायमस्ति विद्यमानोऽप्यसत्सम एवेति एनमाहुः । यच्चायं किञ्चित् शास्त्रादि वेद श्रुतवान् तदाप्यस्य वृथैवेति कथयन्ति । कस्मात् ? यद्ययं विद्वान्स्यात् इत्थमेवमचित्तो न स्यात् , तस्मादस्य श्रुतमप्यश्रुतमेवेत्याहुरित्यर्थः । अथ अल्पविदपि यदि चित्तवान्भवति तस्मा एतस्मै तदुक्तार्थग्रहणायैव उत अपि शुश्रूषन्ते श्रोतुमिच्छन्ति तस्माच्च । चित्तं ह्येवैषां सङ्कल्पादीनाम् एकायनमित्यादि पूर्ववत् ॥
स यश्चित्तं ब्रह्मेत्युपास्ते चितान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥
३चितान् उपचितान्बुद्धिमद्गुणैः स चित्तोपासकः ध्रुवानित्यादि च उक्तार्थम् ॥
इति पञ्चमखण्डभाष्यम् ॥
षष्ठः खण्डः
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥
१स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२ध्यानं वाव चित्ताद्भूयः । ध्यानं नाम शास्त्रोक्तदेवताद्यालम्बनेष्वचलः भिन्नजातीयैरनन्तरितः प्रत्ययसन्तानः, एकाग्रतेति यमाहुः । दृश्यते च ध्यानस्य माहात्म्यं फलतः । कथम् ? यथा योगी ध्यायन्निश्चलो भवति ध्यानफललाभे, एवं ध्यायतीव निश्चला दृश्यते पृथिवी । ध्यायतीवान्तरिक्षमित्यादि समानमन्यत् । देवाश्च मनुष्याश्च देवमनुष्याः मनुष्या एव वा देवसमाः देवमनुष्याः शमादिगुणसम्पन्नाः मनुष्याः देवस्वरूपं न जहतीत्यर्थः । यस्मादेवं विशिष्टं ध्यानम् , तस्मात् य इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धनादिमहत्त्वहेतुं लभन्त इत्यर्थः । ध्यानापादांशा इव ध्यानस्य आपादनम् आपादः ध्यानफललाभ इत्येतत् , तस्यांशः अवयवः कला काचिद्ध्यानफललाभकलावन्त इवैवेत्यर्थः । ते भवन्ति निश्चला इव लक्ष्यन्ते न क्षुद्रा इव । अथा ये पुनरल्पाः क्षुद्राः किञ्चिदपि धनादिमहत्त्वैकदेशमप्राप्ताः ते पूर्वोक्तविपरीताः कलहिनः कलहशीलाः पिशुनाः परदोषोद्भासकाः उपवादिनः परदोषं सामीप्ययुक्तमेव वदितुं शीलं येषां ते उपवादिनश्च भवन्ति । अथ ये महत्त्वं प्राप्ताः धनादिनिमित्तं ते अन्यान्प्रति प्रभवन्तीति प्रभवः विद्याचार्यराजेश्वरादयो ध्यानापादांशा इवेत्याद्युक्तार्थम् । अतः दृश्यते ध्यानस्य महत्त्वं फलतः ; अतः भूयश्चित्तात् ; अतस्तदुपास्स्व इत्याद्युक्तार्थम् ॥
इति षष्ठखण्डभाष्यम् ॥
सप्तमः खण्डः
विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्त्रविद्यां नक्षत्रविद्याꣳ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाꣳश्च मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥
१विज्ञानं वाव ध्यानाद्भूयः । विज्ञानं शास्त्रार्थविषयं ज्ञानं तस्य ध्यानकारणत्वात् ध्यानाद्भूयस्त्वम् । कथं च तस्य भूयस्त्वमिति, आह — विज्ञानेन वै ऋग्वेदं विजानाति अयमृग्वेद इति प्रमाणतया यस्यार्थज्ञानं ध्यानकारणम् । तथा यजुर्वेदमित्यादि । किञ्च पश्वादींश्च धर्माधर्मौ शास्त्रसिद्धौ साध्वसाधुनी लोकतः स्मार्ते वा दृष्टविषयं च सर्वं विज्ञानेनैव विजानातीत्यर्थः । तस्माद्युक्तं ध्यानाद्विज्ञानस्य भूयस्त्वम् । अतो विज्ञानमुपास्स्वेति ॥
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकांज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२शृणु उपासनफलं विज्ञानवतः । विज्ञानं येषु लोकेषु तान्विज्ञानवतो लोकान् ज्ञानवतश्च अभिसिध्यति अभिप्राप्नोति । विज्ञानं शास्त्रार्थविषयं ज्ञानम् , अन्यविषयं नैपुण्यम् , तद्वद्भिर्युक्तांल्लोकान्प्राप्नोतीत्यर्थः । यावद्विज्ञानस्येत्यादि पूर्ववत् ॥
इति सप्तमखण्डभाष्यम् ॥
अष्टमः खण्डः
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥
१स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२बलं वाव विज्ञानाद्भूयः । बलमित्यन्नोपयोगजनितं मनसो विज्ञेये प्रतिभानसामर्थ्यम् । अनशनादृगादीनि ‘न वै मा प्रतिभान्ति भो’(छा. उ. ६ । ७ । २) इति श्रुतेः । शरीरेऽपि तदेवोत्थानादिसामर्थ्यं यस्माद्विज्ञानवतां शतमप्येकः प्राणी बलवानाकम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि । यस्मादेवमन्नाद्युपयोगनिमित्तं बलम् , तस्मात्स पुरुषः यदा बली बलेन तद्वान्भवति अथोत्थाता उत्थानस्य कर्ता उत्तिष्ठंश्च गुरूणामाचार्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन् उपसत्ता तेषां समीपगोऽन्तरङ्गः प्रियो भवतीत्यर्थः । उपसीदंश्च सामीप्यं गच्छन् एकाग्रतया आचार्यस्यान्यस्य च उपदेष्टुः गुरोर्द्रष्टा भवति । ततस्तदुक्तस्य श्रोता भवति । तत इदमेभिरुक्तम् एवमुपपद्यत इत्युपपत्तितो मन्ता भवति ; मन्वानश्च बोद्धा भवति एवमेवेदमिति । तत एवं निश्चित्य तदुक्तार्थस्य कर्ता अनुष्ठाता भवति विज्ञाता अनुष्ठानफलस्यानुभविता भवतीत्यर्थः । किञ्च बलस्य माहात्म्यम् — बलेन वै पृथिवी तिष्ठतीत्यादि ऋज्वर्थम् ॥
इति अष्टमखण्डभाष्यम् ॥
नवमः खण्डः
अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश रात्रीर्नाश्नीयाद्यद्यु ह जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ॥ १ ॥
१अन्नं वाव बलाद्भूयः, बलहेतुत्वात् । कथमन्नस्य बलहेतुत्वमिति, उच्यते — यस्माद्बलकारणमन्नम् , तस्मात् यद्यपि कश्चिद्दश रात्रीर्नाश्नीयात् , सोऽन्नोपयोगनिमित्तस्य बलस्य हान्या म्रियते ; यद्यु ह जीवेत् — दृश्यन्ते हि मासमप्यनश्नन्तो जीवन्तः — अथवा स जीवन्नपि अद्रष्टा भवति गुरोरपि, तत एव अश्रोतेत्यादि पूर्वविपरीतं सर्वं भवति । अथ यदा बहून्यहान्यनशितः दर्शनादिक्रियास्वसमर्थः सन् अन्नस्यायी, आगमनम् आयः अन्नस्य प्राप्तिरित्यर्थः, सः यस्य विद्यते सोऽन्नस्यायी । आयै इत्येतद्वर्णव्यत्ययेन । अथ अन्नस्याया इत्यपि पाठे एवमेवार्थः, द्रष्टेत्यादिकार्यश्रवणात् । दृश्यते हि अन्नोपयोगे दर्शनादिसामर्थ्यम् , न तदप्राप्तौ ; अतोऽन्नमुपास्स्वेति ॥
स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२फलं च अन्नवतः प्रभूतान्नान्वै स लोकान् पानवतः प्रभूतोदकांश्च अन्नपानयोर्नित्यसम्बन्धात् लोकानभिसिध्यति । समानमन्यत् ॥
इति नवमखण्डभाष्यम् ॥
दशमः खण्डः
आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं क नीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयाꣳसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥
१आपो वाव अन्नाद्भूयस्य अन्नकारणत्वात् । यस्मादेवं तस्मात् यदा यस्मिन्काले सुवृष्टिः सस्यहिता शोभना वृष्टिः न भवति, तदा व्याधीयन्ते प्राणा दुःखिनो भवन्ति । किंनिमित्तमिति, आह — अन्नमस्मिन्संवत्सरे नः कनीयः अल्पतरं भविष्यतीति । अथ पुनर्यदा सुवृष्टिर्भवति, तदा आनन्दिनः सुखिनः हृष्टाः प्राणाः प्राणिनः भवन्ति अन्नं बहु प्रभूतं भविष्यतीति । अप्सम्भवत्वान्मूर्तस्य अन्नस्य आप एवेमा मूर्ताः मूर्तभेदाकारपरिणता इति मूर्ताः — येयं पृथिवी यदन्तंरिक्षमित्यादि । आप एवेमा मूर्ताः ; अतः अप उपास्स्वेति ॥
स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाꣳस्तृप्तिमान्भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२फलम् — स यः अपो ब्रह्मेत्युपास्ते आप्नोति सर्वान्कामान् काम्यान्मूर्तिमतो विषयानित्यर्थः । अप्सम्भवत्वाच्च तृप्तेरम्बूपासनात्तृप्तिमांश्च भवति । समानमन्यत् ॥
इति दशमखण्डभाष्यम् ॥
एकादशः खण्डः
तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ॥ १ ॥
१तेजो वाव अद्भ्यो भूयः, तेजसोऽप्कारणत्वात् । कथमप्कारणत्वमिति, आह — यस्मादब्योनिस्तेजः, तस्मात् तद्वा एतत्तेजो वायुमागृह्य अवष्टभ्य स्वात्मना निश्चलीकृत्य वायुम् आकाशमभितपति आकाशमभिव्याप्नुवत्तपति यदा, तदा आहुर्लौकिकाः — निशोचति सन्तपति सामान्येन जगत् , नितपति देहान् , अतो वर्षिष्यति वै इति । प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्यं भविष्यतीति विज्ञानम् । तेज एव तत्पूर्वमात्मानमुद्भूतं दर्शयित्वा अथ अनन्तरम् अपः सृजते, अतः अप्स्रष्टृत्वाद्भूयोऽद्भ्यस्तेजः । किञ्चान्यत् , तदेतत्तेज एव स्तनयित्नुरूपेण वर्षहेतुर्भवति । कथम् ? ऊर्ध्वाभिश्च ऊर्ध्वगाभिः विद्युद्भिः तिरश्चीभिश्च तिर्यग्गताभिश्च सह आह्रादाः स्तनयनशब्दाश्चरन्ति । तस्मात्तद्दर्शनादाहुर्लौकिकाः — विद्योतते स्तनयति, वर्षिष्यति वै इत्याद्युक्तार्थम् । अतस्तेज उपास्स्वेति ॥
स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२तस्य तेजस उपासनफलम् — तेजस्वी वै भवति । तेजस्वत एव च लोकान्भास्वतः प्रकाशवतः अपहततमस्कान् बाह्याध्यात्मिकाज्ञानाद्यपनीततमस्कान् अभिसिध्यति । ऋज्वर्थमन्यत् ॥
इति एकादशखण्डभाष्यम् ॥
द्वादशः खण्डः
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥
१आकाशो वाव तेजसो भूयान् , वायुसहितस्य तेजसः कारणत्वाद्व्योम्नः । ‘वायुमागृह्य’(छा. उ. ७ । ११ । १) इति तेजसा सहोक्तः वायुरिति पृथगिह नोक्तस्तेजसः । कारणं हि लोके कार्याद्भूयो दृष्टम् — यथा घटादिभ्यो मृत् , तथा आकाशो वायुसहितस्य तेजसः कारणमिति ततो भूयान् । कथम् ? आकाशे वै सूर्याचन्द्रमसावुभौ तेजोरूपौ विद्युन्नक्षत्राण्यग्निश्च तेजोरूपाण्याकाशेऽन्तः । यच्च यस्यान्तर्वर्ति तदल्पम् , भूय इतरत् । किञ्च आकाशेन आह्वयति च अन्यमन्यः ; आहूतश्चेतरः आकाशेन शृणोति ; अन्योक्तं च शब्दम् अन्यः प्रतिशृणोति ; आकाशे रमते क्रीडत्यन्योन्यं सर्वः ; तथा च रमते च आकाशे बन्ध्वादिवियोगे ; आकाशे जायते, न मूर्तेनावष्टब्धे । तथा आकाशमभि लक्ष्य अङ्कुरादि जायते, न प्रतिलोमम् । अतः आकाशमुपास्स्व ॥
स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स लोकान्प्रकाशवतोऽसम्बाधानुरुगायवतोऽभिसिध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२फलं शृणु — आकाशवतो वै विस्तारयुक्तान्स विद्वांल्लोकान्प्रकाशवतः, प्रकाशाकाशयोर्नित्यसम्बन्धात्प्रकाशवतश्च लोकानसम्बाधान् सम्बाधनं सम्बाधः सम्बाधोऽन्योन्यपीडा तद्रहितानसम्बाधान् उरुगायवतः विस्तीर्णगतीन्विस्तीर्णप्रचारांल्लोकान् अभिसिध्यति । यावदाकाशस्येत्याद्युक्तार्थम् ॥
इति द्वादशखण्डभाष्यम् ॥
त्रयोदशः खण्डः
स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन्यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ १ ॥
१स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२स्मरो वाव आकाशाद्भूयः, स्मरणं स्मरोऽन्तःकरणधर्मः, स आकाशाद्भूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन । स्मर्तुः स्मरणे हि सति आकाशादि सर्वमर्थवत् , स्मरणवतो भोग्यत्वात् । असति तु स्मरणे सदप्यसदेव, सत्त्वकार्याभावात् । नापि सत्त्वं स्मृत्यभावे शक्यमाकाशादीनामवगन्तुमित्यतः स्मरणस्य आकाशाद्भूयस्त्वम् । दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मात् , तस्माद्यद्यपि समुदिता बहव एकस्मिन्नासीरन् उपविशेयुः, ते तत्र आसीनाः अन्योन्यभाषितमपि न स्मरन्तश्चेत्स्युः, नैव ते कञ्चन शब्दं शृणुयुः ; तथा न मन्वीरन् , मन्तव्यं चेत्स्मरेयुः तदा मन्वीरन् , स्मृत्यभावान्न मन्वीरन् ; तथा न विजानीरन् । यदा वाव ते स्मरेयुर्मन्तव्यं विज्ञाताव्यं श्रोतव्यं च, अथ शृणुयुः अथ मन्वीरन् अथ विजानीरन् । तथा स्मरेण वै — मम पुत्रा एते — इति पुत्रान्विजानाति, स्मरेण पशून् । अतो भूयस्त्वात्स्मरमुपास्स्वेति । उक्तार्थमन्यत् ॥
इति त्रयोदशखण्डभाष्यम् ॥
चतुर्दशः खण्डः
आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राꣳश्च पशूꣳश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥
१आशा वाव स्मराद्भूयसी, आशा अप्राप्तवस्त्वाकाङ्क्षा, आशा तृष्णा काम इति यामाहुः पर्यायैः ; सा च स्मराद्भूयसी । कथम् ? आशया हि अन्तःकरणस्थया स्मरति स्मर्तव्यम् । आशाविषयरूपं स्मरन् असौ स्मरो भवति । अतः आशेद्धः आशया अभिवर्धितः स्मरभूतः स्मरन् ऋगादीन्मन्त्रानधीते ; अधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्माणि कुरुते तत्फलाशयैव ; पुत्रांश्च पशूंश्च कर्मफलभूतान् इच्छते अभिवाञ्छति ; आशयैव तत्साधनान्यनुतिष्ठति । इमं च लोकम् आशेद्ध एव स्मरन् लोकसङ्ग्रहहेतुभिरिच्छते । अमुं च लोकम् आशेद्धः स्मरन् तत्साधनानुष्ठानेन इच्छते । अतः आशारशनावबद्धं स्मराकाशादिनामपर्यन्तं जगच्चक्रीभूतं प्रतिप्राणि । अतः आशायाः स्मरादपि भूयस्त्वमित्यत आशामुपास्स्व ॥
स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
२यस्त्वाशां ब्रह्मेत्युपास्ते शृणु तस्य फलम् — आशया सदोपासितया अस्योपासकस्य सर्वे कामाः समृध्यन्ति समृद्धिं गच्छन्ति । अमोघा ह अस्य आशिषः प्रार्थनाः सर्वाः भवन्ति ; यत्प्रार्थितं सर्वं तदवश्यं भवतीत्यर्थः । यावदाशाया गतमित्यादि पूर्ववत् ॥
इति चतुर्दशखण्डभाष्यम् ॥
पञ्चदशः खण्डः
प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥
१नामोपक्रममाशान्तं कार्यकारणत्वेन निमित्तनैमित्तिकत्वेन च उत्तरोत्तरभूयस्तया अवस्थितं स्मृतिनिमित्तसद्भावमाशारशनापशैर्विपाशितं सर्वं सर्वतो बिसमिव तन्तुभिर्यस्मिन्प्राणे समर्पितम् , येन च सर्वतो व्यापिना अन्तर्बहिर्गतेन सूत्रे मणिगणा इव सूत्रेण ग्रथितं विधृतं च, स एष प्राणो वा आशाया भूयान् । कथमस्य भूयस्त्वमिति, आह दृष्टान्तेन समर्थयन् तद्भूयस्त्वम् — यथा वै लोके रथचक्रस्य अराः रथनाभौ समर्पिताः सम्प्रोताः सम्प्रवेशिता इत्येतत् , एवमस्मिंल्लिङ्गसङ्घातरूपे प्राणे प्रज्ञात्मनि दैहिके मुख्ये — यस्मिन्परा देवता नामरूपव्याकरणाय आदर्शादौ प्रतिबिम्बवज्जीवेन आत्मना अनुप्रविष्टा ; यश्च महाराजस्येव सर्वाधिकारीश्वरस्य, ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत’(प्र. उ. ६ । ३) इति श्रुतेः ; यस्तु च्छायेवानुगत ईश्वरम् , ‘तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा’(कौ. उ. ३ । ९) इति कौषीतकिनाम् — अत एवमस्मिन्प्राणे सर्वं यथोक्तं समर्पितम् । अतः स एष प्राणोऽपरतन्त्राः प्राणेन स्वशक्त्यैव याति, नान्यकृतं गमनादिक्रियास्वस्य सामर्थ्यमित्यर्थः । सर्वं क्रियाकारकफलभेदजातं प्राण एव, न प्राणाद्बहिर्भूतमस्तीति प्रकरणार्थः । प्राणः प्राणं ददाति । यद्ददाति तत्स्वात्मभूतमेव । यस्मै ददाति तदपि प्राणायैव । अतः पित्राद्याख्योऽपि प्राण एव ॥
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥
२कथं पित्रादिशब्दानां प्रसिद्धार्थोत्सर्गेण प्राणविषयत्वमिति, उच्यते — सति प्राणे पित्रादिषु पित्रादिशब्दप्रयोगात् तदुत्क्रान्तौ च प्रयोगाभावात् । कथं तदिति, आह — स यः कश्चित्पित्रादीनामन्यतमं यदि तं भृशमिव तदननुरूपमिव किञ्चिद्वचनं त्वङ्कारादियुक्तं प्रत्याह, तदैनं पार्श्वस्था आहुः विवेकिनः — धिक्त्वा अस्तु धिगस्तु त्वामित्येवम् । पितृहां वै त्वं पितुर्हन्तेत्यादि ॥
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषन्दहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ३ ॥
३अथ एनानेव उत्क्रान्तप्राणान् त्यक्तदेहनाथान् यद्यपि शूलेन समासं समस्य व्यतिषन्दहेत् व्यत्यस्य सन्दहेत् , एवमप्यतिक्रूरं कर्म समासव्यत्यासादिप्रकारेण दहनलक्षणं तद्देहसम्बद्धमेव कुर्वाणं नैवैनं ब्रूयुः पितृहेत्यादि । तस्मादन्वयव्यतिरेकाभ्यामवगम्यते एतत्पित्राद्याख्योऽपि प्राण एवेति ॥
प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ४ ॥
४तस्मात् प्राणो ह्येवैतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च । स वा एष प्राणविदेवं यथोक्तप्रकारेण पश्यन् फलतो अनुभवन् एवं मन्वानः उपपत्तिभिश्चिन्तयन् एवं विजानन् उपपत्तिभिः संयोज्य एवमेवेति निश्चयं कुर्वन्नित्यर्थः । मननविज्ञानाभ्यां हि सम्भूतः शास्त्रार्थो निश्चितो दृष्टो भवेत् । अत एवं पश्यन् अतिवादी भवति नामाद्याशान्तमतीत्य वदनशीलो भवतीत्यर्थः । तं चेद्ब्रूयुः तं ब्रह्मादिस्तम्बपर्यन्तस्य हि जगतः प्राण आत्मा अहमिति ब्रुवाणं यदि ब्रूयुः अतिवाद्यसीति, बाढम् अतिवाद्यस्मीति ब्रूयात् , न अपह्नुवीत । कस्माद्धि असावपह्नुवीत ? यत्प्राणं सर्वेश्वरम् अयमहमस्मि इत्यात्मत्वेनोपगतः ॥
इति पञ्चदशखण्डभाष्यम् ॥
षोडशः खण्डः
स एष नारदः सर्वातिशयं प्राणं स्वमात्मानं सर्वात्मानं श्रुत्वा नातः परमस्तीत्युपरराम, न पूर्ववत्किमस्ति भगवः प्राणाद्भूय इति पप्रच्छ यतः । तमेव विकारानृतब्रह्मविज्ञानेन परितुष्टमकृतार्थं परमार्थसत्यातिवादिनमात्मानं मन्यमानं योग्यं शिष्यं मिथ्याग्रहविशेषात् विप्रच्यावयन् आह भगवान्सनत्कुमारः —
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥ १ ॥
१एष तु वा अतिवदति, यमहं वक्ष्यामि । न प्राणविदतिवादी परमार्थतः । नामाद्यपेक्षं तु तस्यातिवादित्वम् । यस्तु भूमाख्यं सर्वातिक्रान्तं तत्त्वं परमार्थसत्यं वेद, सोऽतिवादीत्याह — एष तु वा अतिवदति यः सत्येन परमार्थसत्यविज्ञानवत्तया अतिवदति । सोऽहं त्वां प्रपन्नः भगवः सत्येनातिवदानि ; तथा मां नियुनक्तु भगवान् , यथा अहं सत्येनातिवदानीत्यभिप्रायः । यद्येवं सत्येनातिवदितुमिच्छसि, सत्यमेव तु तावद्विजिज्ञासितव्यमित्युक्त आह नारदः । तथास्तु तर्हि सत्यं भगवो विजिज्ञासे विशेषेण ज्ञातुमिच्छेयं त्वत्तोऽहमिति ॥
इति षोडशखण्डभाष्यम् ॥
सप्तदशः खण्डः
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥ १ ॥
१यदा वै सत्यं परमार्थतः विजानाति — इदं परमार्थतः सत्यमिति, ततः अनृतं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदेवैकं सत्यमिति तदेव अथ वदति यद्वदति । ननु विकारोऽपि सत्यमेव, ‘नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः’(बृ. उ. १ । ६ । ३) ‘प्राणा वै सत्यं तेषामेष सत्यम्’(बृ. उ. २ । १ । २०)‘प्राणा वै सत्यं तेषामेष सत्यम्’(बृ. उ. २ । ३ । ६) इति श्रुत्यन्तरात् । सत्यमुक्तं सत्यत्वं श्रुत्यन्तरे विकारस्य, न तु परमार्थापेक्षमुक्तम् । किं तर्हि ? इन्द्रियविषयाविषयत्वापेक्षं सच्च त्यच्चेति सत्यमित्युक्तं तद्द्वारेण च परमार्थसत्यस्योपलब्धिर्विवक्षितेति । ‘प्राणा वै सत्यं तेषामेष सत्यम्’ इति च उक्तम् । इहापि तदिष्टमेव । इह तु प्राणविषयात्परमार्थसत्त्यविज्ञानाभिमानाद्व्युत्थाप्य नारदं यत्सदेव सत्यं परमार्थतो भूमाख्यम् , तद्विज्ञापयिष्यामीति एष विशेषतो विवक्षितोऽर्थः । नाविजानन्सत्यं वदति’ यस्त्वविजानन्वदति सोऽग्न्यादिशब्देनाग्न्यादीन्परमार्थसद्रूपान्मन्यमानो वदति’ न तु ते रूपत्रयव्यतिरेकेण परमार्थतः सन्ति । तथा तान्यपि रूपाणि सदपेक्षया नैव सन्तीत्यतो नाविजानन्सत्यं वदति । विजानन्नेव सत्यं वदति । न च तत्सत्यविज्ञानमविजिज्ञासितमप्रार्थितं ज्ञायत इत्याह — विज्ञानं त्वेव विजिज्ञासितव्यमिति । यद्येवम् , विज्ञानं भगवो विजिज्ञासे इति । एवं सत्यादीनां च उत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वं व्याख्येयम् ॥
इति सप्तदशखण्डभाष्यम् ॥
अष्टादशः खण्डः
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ॥ १ ॥
१यदा वै मनुत इति । मतिः मननं तर्कः ॥
इति अष्टादशखण्डभाष्यम् ॥
एकोनविंशः खण्डः
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥
१मन्तव्यविषये आदरः आस्तिक्यबुद्धिः श्रद्धा ॥
इति एकोनविंशतितमखण्डभाष्यम् ॥
विंशः खण्डः
यदा वै निस्तिष्ठत्यथ श्रद्दधाति नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥ १ ॥
१निष्ठा गुरुशुश्रूषादितत्परत्वं ब्रह्मविज्ञानाय ॥
इति विंशतितमखण्डभाष्यम् ॥
एकविंशः खण्डः
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ॥ १ ॥
१यदा वै करोति । कृतिः इन्द्रियसंयमः चित्तैकाग्रताकरणं च । सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञानावसानानि ॥
इति एकविंशखण्डभाष्यम् ॥
द्वाविंशः खण्डः
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ १ ॥
१सापि कृतिः यदा सुखं लभते सुखं निरतिशयं वक्ष्यमाणं लब्धव्यं मयेति मन्यते तदा भवतीत्यर्थः । यथा दृष्टफलसुखा कृतिः तथेहापि नासुखं लब्ध्वा करोति । भविष्यदपि फलं लब्ध्वेत्युच्यते, तदुद्दिश्य प्रवृत्त्युपपत्तेः । अथेदानीं कृत्यादिषूत्तरोत्तरेषु सत्सु सत्यं स्वयमेव प्रतिभासत इति न तद्विज्ञानाय पृथग्यत्नः कार्य इति प्राप्तम् ; तत इदमुच्यते — सुखं त्वेव विजिज्ञासितव्यमित्यादि । सुखं भगवो विजिज्ञास इत्यभिमुखीभूताय आह ॥
इदि द्वाविंशखण्डभाष्यम् ॥
त्रयोविंशः खण्डः
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ १ ॥
१यो वै भूमा महत् निरतिशयं बह्विति पर्यायाः, तत्सुखम् । ततोऽर्वाक्सातिशयत्वादल्पम् । अतस्तस्मिन्नल्पे सुखं नास्ति, अल्पस्याधिकतृष्णाहेतुत्वात् । तृष्णा च दुःखबीजम् । न हि दुःखबीजं सुखं दृष्टं ज्वरादि लोके । तस्माद्युक्तं नाल्पे सुखमस्तीति । अतो भूमैव सुखम् । तृष्णादिदुःखबीजत्वासम्भवाद्भूम्नः ॥
इति त्रयोविंशखण्डभाष्यम् ॥
चतुर्विंशः खण्डः
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यꣳ स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति ॥ १ ॥
१किंलक्षणोऽसौ भूमेति, आह — यत्र यस्मिन्भूम्नि तत्त्वे न अन्यद्द्रष्टव्यमन्येन करणेन द्रष्टा अन्यो विभक्तो दृश्यात्पश्यति । तथा नान्यच्छृणोति । नामरूपयोरेवान्तर्भावाद्विषयभेदस्य तद्ग्राहकयोरेवेह दर्शनश्रवणयोर्ग्रहणम् अन्येषां च उपलक्षणार्थत्वेन । मननं तु अत्रोक्तं द्रष्टव्यं नान्यन्मनुत इति, प्रायशो मननपूर्वकत्वाद्विज्ञानस्य । तथा नान्यद्विजानाति । एवंलक्षणो यः स भूमा । किमत्र प्रसिद्धान्यदर्शनाभावो भूम्न्युच्यते नान्यत्पश्यतीत्यादिना, अथ अन्यन्न पश्यति, आत्मानं पश्यतीत्येतत् । किञ्चातः ? यद्यन्यदर्शनाद्यभावमात्रमित्युच्यते, तदा द्वैतसंव्यवहारविलक्षणो भूमेत्युक्तं भवति । अथ अन्यदर्शनविशेषप्रतिषेधेन आत्मानं पश्यतीत्युच्यते, तदैकस्मिन्नेव क्रियाकारकफलभेदोऽभ्युपगतो भवेत् । यद्येवं को दोषः स्यात् ? नन्वयमेव दोषः — संसारानिवृत्तिः । क्रियाकारकफलभेदो हि संसार इति आत्मैकत्वे एव क्रियाकारकफलभेदः संसारविलक्षण इति चेत् , न, आत्मनो निर्विशेषैकत्वाभ्युपगमे दर्शनादिक्रियाकारकफलभेदाभ्युपगमस्य शब्दमात्रत्वात् । अन्यदर्शनाद्यभावोक्तिपक्षेऽपि यत्र इति अन्यन्न पश्यति इति च विशेषणे अनर्थके स्यातामिति चेत् — दृश्यते हि लोके यत्र शून्ये गृहेऽन्यन्न पश्यतीत्युक्ते स्तम्भादीनात्मानं च न न पश्यतीति गम्यते ; एवमिहापीति चेत् , न, तत्त्वमसीत्येकत्वोपदेशादधिकरणाधिकर्तव्यभेदानुपपत्तेः । तथा सदेकमेवाद्वितीयं सत्यमिति षष्ठे निर्धारितत्वात् । ‘अदृश्येऽनात्म्ये’(तै. उ. २ । ७ । १) ‘न सन्दृशे तिष्ठति रूपमस्य’(तै. ना. १ । ३) ‘विज्ञातारमरे केन विजानीयात्’(छा. उ. २ । ४ । १४) इत्यादिश्रुतिभ्यः स्वात्मनि दर्शनाद्यनुपपत्तिः । यत्र इति विशेषणमनर्थकं प्राप्तमिति चेत् , न, अविद्याकृतभेदापेक्षत्वात् , यथा सत्यैकत्वाद्वितीयत्वबुद्धिं प्रकृतामपेक्ष्य सदेकमेवाद्वितीयमिति सङ्ख्याद्यनर्हमप्युच्यते, एवं भूम्न्येकस्मिन्नेव यत्र इति विशेषणम् । अविद्यावस्थायामन्यदर्शनानुवादेन च भूम्नस्तदभावत्वलक्षणस्य विवक्षितत्वात् नान्यत्पश्यति इति विशेषणम् । तस्मात्संसारव्यवहारो भूम्नि नास्तीति समुदायार्थः । अथ यत्राविद्याविषये अन्योऽन्येनान्यत्पश्यतीति तदल्पम् अविद्याकालभावीत्यर्थः ; यथा स्वप्नदृश्यं वस्तु प्राक् प्रबोधात्तत्कालभावीति, तद्वत् । तत एव तन्मर्त्यं विनाशि स्वप्नवस्तुवदेव । तद्विपरीतो भूमा यस्तदमृतम् । तच्छब्दः अमृतत्वपरः ; स तर्हि एवंलक्षणो भूमा हे भगवन् कस्मिन्प्रतिष्ठित इति उक्तवन्तं नारदं प्रत्याह सनत्कुमारः — स्वे महिम्नीति स्वे आत्मीये महिम्नि माहात्म्ये विभूतौ प्रतिष्ठितो भूमा । यदि प्रतिष्ठामिच्छसि क्वचित् , यदि वा परमार्थमेव पृच्छसि, न महिम्न्यपि प्रतिष्ठित इति ब्रूमः ; अप्रतिष्ठितः अनाश्रितो भूमा क्वचिदपीत्यर्थः ॥
गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति होवाचान्यो ह्यन्यस्मिन्प्रतिष्ठित इति ॥ २ ॥
२यदि स्वमहिम्नि प्रतिष्ठितः भूमा, कथं तर्ह्यप्रतिष्ठ उच्यते ? शृणु— गोअश्वादीह महीमेत्याचक्षते । गावश्चाश्वाश्च गोअश्वं द्वन्द्वैकवद्भावः । सर्वत्र गवाश्वादि महिमेति प्रसिद्धम् । तदाश्रितः तत्प्रतिष्ठश्चैत्रो भवति यथा, नाहमेवं स्वतोऽन्यं महिमानमाश्रितो भूमा चैत्रवदिति ब्रवीमि, अत्र हेतुत्वेन अन्यो ह्यन्यस्मिन्प्रतिष्ठित इति व्यवहितेन सम्बन्धः । किन्त्वेवं ब्रवीमीति ह उवाच — स एवेत्यादि ॥
इति चतुर्विंशखण्डभाष्यम् ॥
पञ्चविंशः खण्डः
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदꣳ सर्वमित्यथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदꣳ सर्वमिति ॥ १ ॥
१कस्मात्पुनः क्वचिन्न प्रतिष्ठित इति, उच्यते — यस्मात्स एव भूमा अधस्तात् न तद्व्यतिरेकेणान्यद्विद्यते यस्मिन्प्रतिष्ठितः स्यात् । तथोपरिष्टादित्यादि समानम् । सति भूम्नोऽन्यस्मिन् , भूमा हि प्रतिष्ठितः स्यात् ; न तु तदस्ति । स एव तु सर्वम् । अतस्तस्मादसौ न क्वचित्प्रतिष्ठितः । ‘यत्र नान्यत्पश्यति’ इत्यधिकरणाधिकर्तव्यतानिर्देशात् स एवाधस्तादिति च परोक्षनिर्देशात् द्रष्टुर्जीवादन्यो भूमा स्यादित्याशङ्का कस्यचिन्मा भूदिति अथातः अनन्तरम् अहङ्कारादेशः अहङ्कारेण आदिश्यत इत्यहङ्कारादेशः । द्रष्टुरनन्यत्वदर्शनार्थं भूमैव निर्दिश्यते अहङ्कारेण अहमेवाधस्तादित्यादिना ॥
अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदꣳ सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषाꣳ सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥
२अहङ्कारेण देहादिसङ्घातोऽप्यादिश्यतेऽविवेकिभिः इत्यतः तदाशङ्का मा भूदिति अथ अनन्तरम् आत्मादेशः आत्मनैव केवलेन सत्स्वरूपेण शुद्धेन आदिश्यते । आत्मैव सर्वतः सर्वम् — इत्येवम् एकमजं सर्वतो व्योमवत्पूर्णम् अन्यशून्यं पश्यन् स वा एष विद्वान् मननविज्ञानाभ्याम् आत्मरतिः आत्मन्येव रतिः रमणं यस्य सोऽयमात्मरतिः । तथा आत्मक्रीडः । देहमात्रसाधनाः रतिः बाह्यसाधना क्रीडा, लोके स्त्रीभिः सखिभिश्च क्रीडतीति दर्शनात् । न तथा विदुषः ; किं तर्हि, आत्मविज्ञाननिमित्तमेवोभयं भवतीत्यर्थः । मिथुनं द्वन्द्वजनितं सुखं तदपि द्वन्द्वनिरपेक्षं यस्य विदुषः । तथा आत्मानन्दः, शब्दादिनिमित्तः आनन्दः अविदुषाम् , न तथा अस्य विदुषः ; किं तर्हि, आत्मनिमित्तमेव सर्वं सर्वदा सर्वप्रकारेण च ; देहजीवितभोगादिनिमित्तबाह्यवस्तुनिरपेक्ष इत्यर्थः । स एवंलक्षणः विद्वान् जीवन्नेव स्वाराज्येऽभिषिक्तः पतितेऽपि देहे स्वराडेव भवति । यत एवं भवति, तत एव तस्य सर्वेषु लोकेषु कामचारो भवति । प्राणादिषु पूर्वभूमिषु ‘तत्रास्य’ इति तावन्मात्रपरिच्छिन्नकामचारत्वमुक्तम् । अन्यराजत्वं च अर्थप्राप्तम् , सातिशयत्वात् । यथाप्राप्तस्वाराज्यकामचारत्वानुवादेन तत्तन्निवृत्तिरिहोच्यते — स स्वराडित्यादिना । अथ पुनः ये अन्यथा अतः उक्तदर्शनादन्यथा वैपरीत्येन यथोक्तमेव वा सम्यक् न विदुः, ते अन्यराजानः भवन्ति अन्यः परो राजा स्वामी येषां ते अन्यराजानस्ते किञ्च क्षय्यलोकाः क्षय्यो लोको येषां ते क्षय्यलोकाः, भेददर्शनस्य अल्पविषयत्वात् , अल्पं च तन्मर्त्यमित्यवोचाम । तस्मात् ये द्वैतदर्शिनः ते क्षय्यलोकाः स्वदर्शनानुरूप्येणैव भवन्ति ; अत एव तेषां सर्वेषु लोकेष्वकामचारो भवति ॥
इति पञ्चविंशखण्डभाष्यम् ॥
षड्विंशः खण्डः
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः सङ्कल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदं सर्वमिति ॥ १ ॥
१तस्य ह वा एतस्येत्यादि स्वाराज्यप्राप्तस्य प्रकृतस्य विदुष इत्यर्थः । प्राक्सदात्मविज्ञानात् स्वात्मनोऽन्यस्मात्सतः प्राणादेर्नामान्तस्योत्पत्तिप्रलयावभूताम् । सदात्मविज्ञाने तु सति इदानीं स्वात्मत एव संवृत्तौ । तथा सर्वोऽप्यन्यो व्यवहार आत्मत एव विदुषः ॥
तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताꣳ सर्वꣳ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विꣳशतिराहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान्सनात्कुमारस्तꣳ स्कन्द इत्याचक्षते तꣳ स्कन्द इत्याचक्षते ॥ २ ॥
२किञ्च तत् एतस्मिन्नर्थे एष श्लोकः मन्त्रोऽपि भवति — न पश्यः पश्यतीति पश्यः यथोक्तदर्शी विद्वानित्यर्थः, मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःखभावं चापि न पश्यति । सर्वं ह सर्वमेव स पश्यः पश्यति आत्मानमेव । सर्वं ततः सर्वमाप्नोति सर्वशः सर्वप्रकारैरिति । किञ्च स विद्वान् प्राक्सृष्टिप्रभेदात् एकधैव भवति ; एकधैव च सन् त्रिधादिभेदैरनन्तभेदप्रकारो भवति सृष्टिकाले ; पुनः संहारकाले मूलमेव स्वं पारमार्थिकम् एकधाभावं प्रतिपद्यते स्वतन्त्र एव — इति विद्यां फलेन प्ररोचयन् स्तौति । अथेदानीं यथोक्ताया विद्यायाः सम्यगवभासकारणं मुखावभासकारणस्येव आदर्शस्य विशुद्धिकारणं साधनमुपदिश्यते — आहारशुद्धौ । आह्रियत इत्याहारः शब्दादिविषयविज्ञानं भोक्तुर्भोगाय आह्रियते । तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धिः आहारशुद्धिः, रागद्वेषमोहदोषैरसंसृष्टं विषयविज्ञानमित्यर्थः । तस्यामाहारशुद्धौ सत्यां तद्वतोऽन्तःकरणस्य सत्त्वस्य शुद्धिः नैर्मल्यं भवति । सत्त्वशुद्धौ च सत्यां यथावगते भूमात्मनि ध्रुवा अविच्छिन्ना स्मृतिः अविस्मरणं भवति । तस्यां च लब्धायां स्मृतिलम्भे सति सर्वेषामविद्याकृतानर्थपाशरूपाणाम् अनेकजन्मान्तरानुभवभावनाकठिनीकृतानां हृदयाश्रयाणां ग्रन्थीनां विप्रमोक्षः विशेषेण प्रमोक्षणं विनाशो भवतीति । यत एतदुत्तरोत्तरं यथोक्तमाहारशुद्धिमूलं तस्मात्सा कार्येत्यर्थः । सर्वं शास्त्रार्थमशेषत उक्त्वा आख्यायिकामुपसंहरति श्रुतिः — तस्मै मृदितकषायाय वार्क्षादिरिव कषायो रागद्वेषादिदोषः सत्त्वस्य रञ्चनारूपत्वात् सः ज्ञानवैराग्याभ्यासरूपक्षारेण क्षालितः मृदितः विनाशितः यस्य नारदस्य, तस्मै योग्याय मृदितकषायाय तमसः अविद्यालक्षणात् पारं परमार्थतत्त्वं दर्शयति दर्शितवानित्यर्थः । कोऽसौ ? भगवान् ‘उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’ एवंधर्मा सनत्कुमारः । तमेव सनत्कुमारं देवं स्कन्द इति आचक्षते कथयन्ति तद्विदः । द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ॥
इति षड्विंशखण्डभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमत्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये सप्तमोऽध्यायः समाप्तः ॥