अद्वैतशारदा

छान्दोग्योपनिषद्भाष्यम्

सप्तमोऽध्यायः

व्याख्याः

प्रथमः खण्डः

पर­मा­र्थ­त­त्त्वो­प­दे­श­प्र­धा­न­परः षष्ठोऽध्यायः सदा­त्मै­क­त्व­नि­र्ण­य­प­र­त­यै­वो­प­युक्तः । न सतोऽ­र्वा­ग्वि­का­र­ल­क्ष­णानि तत्त्वानि निर्दि­ष्टा­नी­त्य­त­स्तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य तद्द्वारेणापि भूमाख्यं निरतिशयं तत्त्वं निर्देक्ष्यामि — शाखा­च­न्द्र­द­र्श­न­वत् , इतीमं सप्तमं प्रपाठकमारभते ; अनिर्दिष्टेषु हि सतोऽ­र्वा­क्त­त्त्वेषु सन्मात्रे च निर्दिष्टे अन्य­द­प्य­वि­ज्ञातं स्यादित्याशङ्का कस्यचित्स्यात् , सा मा भूदिति वा तानि निर्दिदिक्षति ; अथवा सोपानारोहणवत् स्थूलादारभ्य सूक्ष्मं सूक्ष्मतरं च बुद्धिविषयं ज्ञापयित्वा तदतिरिक्ते स्वारा­ज्येऽ­भि­षे­क्ष्या­मीति नामादीनि निर्दिदिक्षति ; अथवा नामा­द्यु­त्त­रो­त्त­र­वि­शि­ष्टानि तत्त्वानि अतितरां च तेषा­मु­त्कृ­ष्ट­तमं भूमाख्यं तत्त्वमिति तत्स्तुत्यर्थं नामादीनां क्रमेणोपन्यासः । आख्यायिका तु पर­वि­द्या­स्तु­त्यर्था । कथम् ? नारदो देवर्षिः कृतकर्तव्यः सर्वविद्योऽपि सन् अनात्मज्ञत्वात् शुशोचैव, किमु वक्तव्यम् अन्योऽ­ल्प­वि­ज्जन्तुः अकृ­त­पु­ण्या­ति­श­योऽ­कृ­तार्थ इति ; अथवा नान्य­दा­त्म­ज्ञा­ना­न्नि­र­ति­श­य­श्रे­यः­सा­ध­न­म­स्ती­त्ये­त­त्प्र­द­र्श­नार्थं सन­त्कु­मा­र­ना­र­दा­ख्या­यिका आरभ्यते, येन सर्व­वि­ज्ञा­न­सा­ध­न­श­क्ति­स­म्प­न्न­स्यापि नारदस्य देवर्षेः श्रेयो न बभूव, येनो­त्त­मा­भि­ज­न­वि­द्या­वृ­त्त­सा­ध­न­श­क्ति­स­म्प­त्ति­नि­मि­त्ता­भि­मानं हित्वा प्राकृतपुरुषवत् सन­त्कु­मा­र­मु­प­स­साद श्रेयः­सा­ध­न­प्रा­प्तये ; अतः प्रख्यापितं भवति निर­ति­श­य­श्रे­यः­प्रा­प्ति­सा­ध­न­त्व­मा­त्म­वि­द्याया इति ॥

अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्य ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥

अधीहि अधीष्व भगवः भगवन्निति ह किल उपससाद । अधीहि भगव इति मन्‍त्रः । सनत्कुमारं योगीश्वरं ब्रह्मिष्ठं नारदः उपसन्नवान् । तं न्यायतः उपसन्नं ह उवाच — यदात्मविषये किञ्चिद्वेत्थ तेन तत्प्रख्यापनेन मामुपसीद इदमहं जाने इति, ततः अहं भवतः विज्ञानात् ते तुभ्यम् ऊर्ध्वं वक्ष्यामि, इत्युक्तवति स ह उवाच नारदः ॥

ऋग्वेदं भगवोऽध्येमि यजुर्वेदꣳ सामवेदमाथर्वणं चतु­र्थ­मि­ति­हा­स­पु­राणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाको­वा­क्य­मे­का­यनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्त्रविद्यां नक्षत्रविद्याꣳ सर्प­दे­व­ज­न­वि­द्या­मे­त­द्भ­ग­वोऽ­ध्येमि ॥ २ ॥

ऋग्वेदं भगवः अध्येमि स्मरामि, ‘यद्वेत्थ’ इति विज्ञानस्य पृष्टत्वात् । तथा यजुर्वेदं सामवेदमाथर्वणं चतुर्थं वेदं वेदशब्दस्य प्रकृतत्वात् इतिहासपुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेदं व्याक­र­ण­मि­त्यर्थः । व्याकरणेन हि पदादिविभागशः ऋग्वेदादयो ज्ञायन्ते ; पित्र्यं श्राद्धकल्पम् ; राशिं गणितम् ; दैवम् उत्पातज्ञानम् ; निधिं महा­का­ला­दि­नि­धि­शा­स्त्रम् ; वाकोवाक्यं तर्कशास्त्रम् ; एकायनं नीतिशास्त्रम् ; देवविद्यां निरुक्तम् ; ब्रह्मणः ऋग्य­जुः­सा­मा­ख्यस्य विद्यां ब्रह्मविद्यां शिक्षा­क­ल्प­च्छ­न्द­श्चि­तयः ; भूतविद्यां भूततन्‍त्रम् ; क्षत्रविद्यां धनुर्वेदम् ; नक्षत्रविद्यां ज्यौतिषम् ; सर्प­दे­व­ज­न­विद्यां सर्पविद्यां गारुडं देवजनविद्यां गन्ध­यु­क्ति­नृ­त्य­गी­त­वा­द्य­शि­ल्पा­दि­वि­ज्ञा­नानि ; एतत्सर्वं हे भगवः अध्येमि ॥

सोऽहं भगवो मन्‍त्र­वि­दे­वास्मि नात्मविच्छ्रुतं ह्येव मे भग­व­द्दृ­शे­भ्य­स्त­रति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तं होवाच यद्वै किञ्चै­त­द­ध्य­गीष्ठा नामैवैतत् ॥ ३ ॥

सोऽहं भगवः एतत्सर्वं जानन्नपि मन्‍त्र­वि­दे­वास्मि शब्दा­र्थ­मा­त्र­वि­ज्ञा­न­वा­ने­वा­स्मी­त्यर्थः । सर्वो हि शब्दः अभिधानमात्रम् अभिधानं च सर्वं मन्त्रे­ष्व­न्त­र्भ­वति । मन्‍त्र­वि­दे­वास्मि मन्‍त्र­वि­त्क­र्म­वि­दि­त्यर्थः । ‘मन्त्रेषु कर्माणि’(छा. उ. ७ । ४ । १) इति हि वक्ष्यति । न आत्मवित् न आत्मानं वेद्मि । नन्वात्मापि मन्त्रैः प्रकाश्यत एवेति कथं मन्‍त्रविच्चेत् नात्मवित् ? न, अभि­धा­ना­भि­धे­य­भे­दस्य विकारत्वात् । न च विकार आत्मेष्यते । नन्वा­त्मा­प्या­त्म­श­ब्देन अभिधीयते । न, ‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ९ । १)‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ९ । १) , ‘यत्र नान्यत्पश्यति’(छा. उ. ७ । २४ । १) इत्यादिश्रुतेः । कथं तर्हि ‘आत्मै­वा­ध­स्तात्’(छा. उ. ७ । २५ । २) ‘स आत्मा’(छा. उ. ६ । १६ । १) इत्यादिशब्दाः आत्मानं प्रत्याययन्ति ? नैष दोषः । देहवति प्रत्यगात्मनि भेदविषये प्रयुज्यमानः शब्दः देहा­दी­ना­मा­त्मत्वे प्रत्या­ख्या­य­माने यत्परिशिष्टं सत् , अवाच्यमपि प्रत्याययति — यथा सराजिकायां दृश्यमानायां सेनायां छत्र­ध्व­ज­प­ता­का­दि­व्य­व­हिते अदृश्यमानेऽपि राजनि एष राजा दृश्यत इति भवति शब्दप्रयोगः ; तत्र कोऽसौ राजेति राज­वि­शे­ष­नि­रू­प­णायां दृश्य­मा­ने­त­र­प्र­त्या­ख्याने अन्य­स्मि­न्न­दृ­श्य­मा­नेऽपि राजनि राज­प्र­ती­ति­र्भ­वेत् — तद्वत् । तस्मात्सोऽहं मन्‍त्रवित् कर्मविदेवास्मि, कर्मकार्यं च सर्वं विकार इति विकारज्ञ एवास्मि, न आत्मवित् न आत्म­प्र­कृ­ति­स्व­रू­पज्ञ इत्यर्थः । अत एवोक्तम् ‘आचा­र्य­वा­न्पु­रुषो वेद’(छा. उ. ६ । १४ । २) इति ; ‘यतो वाचो निवर्तन्ते’ इत्या­दि­श्रु­ति­भ्यश्च । श्रुत­मा­ग­म­ज्ञा­न­म­स्त्येव हि यस्मात् मे मम भगवद्दॄशेभ्यो युष्म­त्स­दृ­शेभ्यः तरति अतिक्रमति शोकं मनस्तापम् अकृ­ता­र्थ­बु­द्धि­ताम् आत्मवित् इति ; अतः सोऽह­म­ना­त्म­वि­त्त्वात् हे भगवः शोचामि अकृ­ता­र्थ­बुद्ध्या सन्तप्ये सर्वदा ; तं मा मां शोकस्य शोकसागरस्य पारम् अन्तं भगवान् तारयतु आत्मज्ञानोडुपेन कृता­र्थ­बु­द्धि­मा­पा­द­यतु अभयं गमयत्वित्यर्थः । तम् एवमुक्तवन्तं ह उवाच — यद्वै किञ्च एतदध्यगीष्ठाः अधीतवानसि, अध्ययनेन तद­र्थ­ज्ञा­न­मु­प­ल­क्ष्यते, ज्ञात­वा­न­सी­त्ये­तत् , नामैवैतत् , ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) इति श्रुतेः ॥

नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधि­र्वा­को­वा­क्य­मे­का­यनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्त्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामै­वै­त­न्ना­मो­पा­स्स्वेति ॥ ४ ॥

नाम वा ऋग्वेदो यजुर्वेद इत्यादि नामैवैतत् । नामोपास्स्व ब्रह्मेति ब्रह्मबुद्ध्या — यथा प्रतिमां विष्णुबुद्ध्या उपास्ते, तद्वत् ॥

स यो नाम ब्रह्मे­त्यु­पास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ ५ ॥

स यस्तु नाम ब्रह्मे­त्यु­पास्ते, तस्य यत्फलं भवति, तच्छृणु — यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन् नामविषयेअस्य यथाकामचारः कामचरणं राज्ञ इव स्वविषये भवति । यो नाम ब्रह्मे­त्यु­पास्ते इत्युपसंहारः । किमस्ति भगवः नाम्नो भूयः अधिकतरं यद्ब्र­ह्म­दृ­ष्ट्य­र्ह­म­न्य­दि­त्य­भि­प्रायः । सनत्कुमार आह — नाम्नो वाव भूयः अस्त्येवेति । उक्तः आह — यद्यस्ति तन्मे भगवान्ब्रवीतु इति ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदꣳ सामवेदमाथर्वणं चतु­र्थ­मि­ति­हा­स­पु­राणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाको­वा­क्य­मे­का­यनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां सर्प­दे­व­ज­न­विद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाꣳश्च मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च तृण­व­न­स्प­ती­ञ्श्वा­प­दा­न्या­की­ट­प­त­ङ्ग­पि­पी­लकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञा­प­यि­ष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥

वाग्वाव । वागिति इन्द्रियं जिह्वा­मू­ला­दि­ष्व­ष्टसु स्थानेषु स्थितं वर्णा­ना­म­भि­व्य­ञ्ज­कम् । वर्णाश्च नामेति नाम्नो वाग्भू­य­सी­त्यु­च्यते । कार्याद्धि कारणं भूयो दृष्टं लोके — यथा पुत्रात्पिता, तद्वत् । कथं च वाङ्नाम्नो भूयसीति, आह — वाग्वा ऋग्वेदं विज्ञापयति — अयम् ऋग्वेद इति । तथा यजु­र्वे­द­मि­त्यादि समानम् । हृदयज्ञं हृदयप्रियम् ; तद्वि­प­री­त­म­हृ­द­य­ज्ञम् । यत् यदि वाङ् नाभविष्यत् धर्मादि न व्यज्ञापयिष्यत् , वागभावे अध्ययनाभावः अध्ययनाभावे तदर्थश्रवणाभावः तच्छ्रवणाभावे धर्मादि न व्यज्ञापयिष्यत् न विज्ञा­त­म­भ­वि­ष्य­दि­त्यर्थः । तस्मात् वागेवैतत् शब्दोच्चारणेन सर्वं विज्ञापयति । अतः भूयसी वाङ्नाम्नः । तस्माद्वाचं ब्रह्मे­त्यु­पास्स्व ॥

स यो वाचं ब्रह्मे­त्यु­पास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

समानमन्यत् ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥

तृतीयः खण्डः

मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टि­र­नु­भ­व­त्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रा­न­धी­यी­ये­त्य­था­धीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्रांश्च पशूं­श्चे­त्छे­ये­त्य­थे­च्छत इमं च लोकममुं चेत्छे­ये­त्य­थे­च्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥

मनः मन­स्य­न­वि­शि­ष्ट­म­न्तः­क­रणं वाचः भूयः । तद्धि मन­स्य­न­व्या­पा­र­वत् वाचं वक्तव्ये प्रेरयति । तेन वाक् मनस्यन्तर्भवति । यच्च यस्मि­न्न­न्त­र्भ­वति तत्तस्य व्यापकत्वात् ततो भूयो भवति । यथा वै लोके द्वे वा आमलके फले द्वे वा कोले बदरफले द्वौ वा अक्षौ विभीतकफले मुष्टिरनुभवति मुष्टिस्ते फले व्याप्नोति मुष्टौ हि ते अन्तर्भवतः, एवं वाचं च नाम च आमलकादिवत् मनोऽनुभवति । स यदा पुरुषः यस्मिन्काले मनसा अन्तःकरणेन मनस्यति, मनस्यनं विवक्षाबुद्धिः, कथं मन्त्रान् अधीयीय उच्चारयेयम् — इत्येवं विवक्षां कृत्वा अथाधीते । तथा कर्माणि कुर्वीयेति चिकीर्षाबुद्धिं कृत्वा अथ कुरुते । पुत्रांश्च पशूंश्च इच्छेयेति प्राप्तीच्छां कृत्वा तत्प्रा­प्त्यु­पा­या­नु­ष्ठा­नेन अथेच्छते, पुत्रा­दी­न्प्रा­प्नो­ती­त्यर्थः । तथा इमं च लोकम् अमुं च उपायेन इच्छेयेति तत्प्रा­प्त्यु­पा­या­नु­ष्ठा­नेन अथेच्छते प्राप्नोति । मनो हि आत्मा, आत्मनः कर्तृत्वं भोक्तृत्वं च सति मनसि नान्यथेति मनो हि आत्मेत्युच्यते । मनो हि लोकः, सत्येव हि मनसि लोको भवति तत्प्रा­प्त्यु­पा­या­नु­ष्ठानं च इति मनो हि लोकः यस्मात् , तस्मान्मनो हि ब्रह्म । यत एवं तस्मान्मन उपास्स्वेति ॥

स यो मनो ब्रह्मे­त्यु­पास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

स यो मन इत्यादि समानम् ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥

चतुर्थः खण्डः

सङ्कल्पो वाव मनसो भूयान्यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥

सङ्कल्पो वाव मनसो भूयान् । सङ्कल्पोऽपि मनस्यनवत् अन्तः­क­र­ण­वृत्तिः, कर्त­व्या­क­र्त­व्य­वि­ष­य­वि­भा­गेन समर्थनम् । विभागेन हि समर्थिते विषये चिकीर्षाबुद्धिः मनस्यनानन्तरं भवति । कथम् ? यदा वै सङ्कल्पयते कर्त­व्या­दि­वि­ष­या­न्वि­भ­जते — इदं कर्तुं युक्तम् इदं कर्तु­म­यु­क्त­मिति, अथ मनस्यति मन्त्रा­न­धी­यी­ये­त्यादि । अथ अनन्तरं वाचम् ईरयति मन्त्रा­द्यु­च्चा­रणे । तां च वाचम् उ नाम्नि नामो­च्चा­र­ण­नि­मित्तं विवक्षां कृत्वा ईरयति । नाम्नि नामसामान्ये मन्त्राः शब्दविशेषाः सन्तः एकं भवन्ति अन्त­र्भ­व­न्ती­त्यर्थः । सामान्ये हि विशेषः अन्तर्भवति । मन्त्रेषु कर्माण्येकं भवन्ति । मन्‍त्र­प्र­का­शि­तानि कर्माणि क्रियन्ते, न अमन्‍त्रकमस्ति कर्म । यद्धि मन्‍त्र­प्र­का­श­नेन लब्धसत्ताकं सत् कर्म, ब्राह्मणेनेदं कर्तव्यम् अस्मै फलायेति विधीयते, याप्यु­त्प­त्ति­र्ब्रा­ह्म­णेषु कर्मणां दृश्यते, सापि मन्त्रेषु लब्ध­स­त्ता­का­ना­मेव कर्मणां स्पष्टीकरणम् । न हि मन्त्रा­प्र­का­शितं कर्म किञ्चित् ब्राह्मणे उत्पन्नं दृश्यते । त्रयीविहितं कर्मेति प्रसिद्धं लोके ; त्रयीशब्दश्च ऋग्य­जुः­सा­म­स­माख्या । मन्त्रेषु कर्माणि कवयो यान्यपश्यन् — इति च आथर्वणे । तस्माद्युक्तं मन्त्रेषु कर्माण्येकं भवन्तीति ॥

तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समक्लृप्तां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाꣳ सङ्‍क्लृत्यै वर्षꣳ सङ्कल्पते वर्षस्य सङ्क्लृप्त्या अन्नꣳ सङ्क­ल्प­तेऽ­न्नस्य सङ्‍क्लृत्यै प्राणाः सङ्कल्पन्ते प्राणानाꣳ सङ्‍क्लृत्यै मन्त्राः सङ्कल्पन्ते मन्त्राणाꣳ सङ्‍क्लृत्यै कर्माणि सङ्कल्पन्ते कर्मणाꣳ सङ्‍क्लृत्यै लोकः सङ्कल्पते लोकस्य सङ्‍क्लृत्यै सर्वꣳ सङ्कल्पते स एष सङ्कल्पः सङ्क­ल्प­मु­पा­स्स्वेति ॥ २ ॥

तानि ह वा एतानि मनआदीनि सङ्कल्पैकायनानि सङ्कल्पः एको अयनं गमनं प्रलयः येषां तानि सङ्क­ल्पै­का­य­नानि, सङ्कल्पात्मकानि उत्पत्तौ, सङ्कल्पे प्रतिष्ठितानि स्थितौ । समक्लृपतां सङ्कल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावापृथिवी, द्यावापृथिव्यौ निश्चले लक्ष्येते । तथा समकल्पेतां वायुश्चाकाशं च एतावपि सङ्कल्पं कृतवन्ताविव । तथा समकल्पन्त आपश्च तेजश्च, स्वेन रूपेण निश्चलानि लक्ष्यन्ते । यतस्तेषां द्यावा­पृ­थि­व्या­दीनां सङ्‍क्लृप्त्यै सङ्कल्पनिमित्तं वर्षं सङ्कल्पते समर्थीभवति । तथा वर्षस्य सङ्‍क्लृप्त्यै सङ्क­ल्प­नि­मि­त्तम् अन्नं सङ्कल्पते । वृष्टेर्हि अन्नं भवति । अन्नस्य सङ्‍क्लृप्त्यै प्राणाः सङ्कल्पन्ते । अन्नमया हि प्राणाः अन्नोपष्ठम्भकाः । ‘अन्नं दाम’(बृ. उ. २ । २ । १) इति हि श्रुतिः । तेषां सङ्‍क्लृत्यै मन्त्राः सङ्कल्पन्ते । प्राणवान्हि मन्त्रानधीते नाबलः । मन्त्राणां हि सङ्‍क्लृप्त्यै कर्मा­ण्य­ग्नि­हो­त्रा­दीनि सङ्कल्पन्ते अनुष्ठीयमानानि मन्‍त्र­प्र­का­शि­तानि समर्थीभवन्ति फलाय । ततो लोकः फलं सङ्कल्पते कर्म­क­र्तृ­स­म­वा­यि­तया सम­र्थी­भ­व­ती­त्यर्थः । लोकस्य सङ्‍क्लृत्यै सर्वं जगत् सङ्कल्पते स्वरूपावैकल्याय । एतद्धीदं सर्वं जगत् यत्फलावसानं तत्सर्वं सङ्कल्पमूलम् । अतः विशिष्टः स एष सङ्कल्पः । अतः सङ्क­ल्प­मु­पास्स्व — इत्युक्त्वा फलमाह तदुपासकस्य ॥

स यः सङ्कल्पं ब्रह्मे­त्यु­पास्ते सङ्क्लृप्तान्वै स लोका­न्ध्रु­वा­न्ध्रुवः प्रतिष्ठितान् प्रति­ष्ठि­तोऽ­व्य­थ­मा­ना­न­व्य­थ­मा­नोऽ­भि­सि­ध्यति यावत्सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवः सङ्कल्पाद्भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ ३ ॥

स यः सङ्कल्पं ब्रह्मेति ब्रह्मबुद्ध्या उपास्ते, सङ्‍क्लृ­प्तान्वै धात्रा अस्येमे लोकाः फलमिति क्लृप्तान् समर्थितान् सङ्कल्पितान् स विद्वान् ध्रुवान् नित्यान् अत्य­न्ता­ध्रु­वा­पे­क्षया, ध्रुवश्च स्वयम् , लोकिनो हि अध्रुवत्वे लोके ध्रुव­क्लृ­प्ति­र्व्य­र्थेति ध्रुवः सन् प्रति­ष्ठि­ता­नु­प­क­र­ण­स­म्प­न्ना­नि­त्यर्थः, पशुपुत्रादिभिः प्रतितिष्ठतीति दर्शनात् , स्वयं च प्रतिष्ठितः आत्मी­यो­प­क­र­ण­स­म्पन्नः अव्यथमानात् अमि­त्रा­दि­त्रा­स­र­हि­तान् अव्यथमानश्च स्वयम् अभिसिध्यति अभि­प्रा­प्नो­ती­त्यर्थः । यावत्सङ्कल्पस्य गतं सङ्कल्पगोचरः तत्रास्य यथाकामचारो भवति, आत्मनः सङ्कल्पस्य, न तु सर्वेषां सङ्कल्पस्येति, उत्तरफलविरोधात् । यः सङ्कल्पं ब्रह्मे­त्यु­पास्ते इत्यादि पूर्ववत् ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

पञ्चमः खण्डः

चित्तं वाव सङ्कल्पाद्भूयो यदा वै चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥

चित्तं वाव सङ्कल्पाद्भूयः । चित्तं चेतयितृत्वं प्राप्त­का­ला­नु­रू­प­बो­ध­व­त्त्वम् अती­ता­ना­ग­त­वि­ष­य­प्र­यो­ज­न­नि­रू­प­ण­सा­मर्थ्यं च, तत्सङ्कल्पादपि भूयः । कथम् ? यदा वै प्राप्तं वस्तु इदमेवं प्राप्तमिति चेतयते, तदा तदादानाय वा अपोहाय वा अथ सङ्कल्पयते अथ मनस्यतीत्यादि पूर्ववत् ॥

तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नाय­म­स्ती­त्ये­वै­न­मा­हु­र्य­दयं वेद यद्वा अयं विद्वा­न्ने­त्थ­म­चित्तः स्यादित्यथ यद्य­ल्प­वि­च्चि­त्त­वा­न्भ­वति तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्त­मु­पा­स्स्वेति ॥ २ ॥

तानि सङ्कल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्पत्तीनि चित्ते प्रतिष्ठितानि चित्त­स्थि­ता­नी­त्यपि पूर्ववत् । किञ्च चित्तस्य माहात्म्यम् । यस्माच्चित्तं सङ्कल्पादिमूलम् , तस्मात् यद्यपि बहुवित् बहु­शा­स्त्रा­दि­प­रि­ज्ञा­न­वा­न्सन् अचित्तो भवति प्राप्ता­दि­चे­त­यि­तृ­त्व­सा­म­र्थ्य­वि­र­हितो भवति, तं निपुणाः लौकिकाः नायमस्ति विद्य­मा­नोऽ­प्य­स­त्सम एवेति एनमाहुः । यच्चायं किञ्चित् शास्त्रादि वेद श्रुतवान् तदाप्यस्य वृथैवेति कथयन्ति । कस्मात् ? यद्ययं विद्वान्स्यात् इत्थमेवमचित्तो न स्यात् , तस्मादस्य श्रुत­म­प्य­श्रु­त­मे­वे­त्या­हु­रि­त्यर्थः । अथ अल्पविदपि यदि चित्तवान्भवति तस्मा एतस्मै तदु­क्ता­र्थ­ग्र­ह­णा­यैव उत अपि शुश्रूषन्ते श्रोतुमिच्छन्ति तस्माच्च । चित्तं ह्येवैषां सङ्कल्पादीनाम् एकायनमित्यादि पूर्ववत् ॥

स यश्चित्तं ब्रह्मे­त्यु­पास्ते चितान्वै स लोका­न्ध्रु­वा­न्ध्रुवः प्रति­ष्ठि­ता­न्प्र­ति­ष्ठि­तोऽ­व्य­थ­मा­ना­न­व्य­थ­मा­नोऽ­भि­सि­ध्यति यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मे­त्यु­पा­स्तेऽस्ति भग­व­श्चि­त्ता­द्भूय इति चित्ताद्वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ ३ ॥

चितान् उप­चि­ता­न्बु­द्धि­म­द्गुणैः स चित्तोपासकः ध्रुवानित्यादि च उक्तार्थम् ॥

इति पञ्च­म­ख­ण्ड­भा­ष्यम् ॥

षष्ठः खण्डः

ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्याय­ती­वा­न्त­रिक्षं ध्यायतीव द्यौर्ध्या­य­न्ती­वापो ध्यायन्तीव पर्वता देव­म­नु­ष्या­स्त­स्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति ध्यान­मु­पा­स्स्वेति ॥ १ ॥

स यो ध्यानं ब्रह्मे­त्यु­पास्ते यावद्ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

ध्यानं वाव चित्ताद्भूयः । ध्यानं नाम शास्त्रो­क्त­दे­व­ता­द्या­ल­म्ब­ने­ष्व­चलः भिन्न­जा­ती­यै­र­न­न्त­रितः प्रत्ययसन्तानः, एकाग्रतेति यमाहुः । दृश्यते च ध्यानस्य माहात्म्यं फलतः । कथम् ? यथा योगी ध्यायन्निश्चलो भवति ध्यानफललाभे, एवं ध्यायतीव निश्चला दृश्यते पृथिवी । ध्याय­ती­वा­न्त­रि­क्ष­मि­त्यादि समानमन्यत् । देवाश्च मनुष्याश्च देवमनुष्याः मनुष्या एव वा देवसमाः देवमनुष्याः शमा­दि­गु­ण­स­म्पन्नाः मनुष्याः देवस्वरूपं न जहतीत्यर्थः । यस्मादेवं विशिष्टं ध्यानम् , तस्मात् य इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धना­दि­म­ह­त्त्व­हेतुं लभन्त इत्यर्थः । ध्यानापादांशा इव ध्यानस्य आपादनम् आपादः ध्यानफललाभ इत्येतत् , तस्यांशः अवयवः कला काचि­द्ध्या­न­फ­ल­ला­भ­क­ला­वन्त इवैवेत्यर्थः । ते भवन्ति निश्चला इव लक्ष्यन्ते न क्षुद्रा इव । अथा ये पुनरल्पाः क्षुद्राः किञ्चिदपि धना­दि­म­ह­त्त्वै­क­दे­श­म­प्राप्ताः ते पूर्वो­क्त­वि­प­रीताः कलहिनः कलहशीलाः पिशुनाः परदोषोद्भासकाः उपवादिनः परदोषं सामीप्ययुक्तमेव वदितुं शीलं येषां ते उपवादिनश्च भवन्ति । अथ ये महत्त्वं प्राप्ताः धनादिनिमित्तं ते अन्यान्प्रति प्रभवन्तीति प्रभवः विद्या­चा­र्य­रा­जे­श्व­रा­दयो ध्यानापादांशा इवे­त्या­द्यु­क्ता­र्थम् । अतः दृश्यते ध्यानस्य महत्त्वं फलतः ; अतः भूयश्चित्तात् ; अतस्तदुपास्स्व इत्या­द्यु­क्ता­र्थम् ॥

इति षष्ठखण्डभाष्यम् ॥

सप्तमः खण्डः

विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदꣳ सामवेदमाथर्वणं चतु­र्थ­मि­ति­हा­स­पु­राणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाको­वा­क्य­मे­का­यनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्त्रविद्यां नक्षत्रविद्याꣳ सर्प­दे­व­ज­न­विद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाꣳश्च मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च तृण­व­न­स्प­ती­ञ्छ्वा­प­दा­न्या­की­ट­प­त­ङ्ग­पि­पी­लकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञा­न­मु­पा­स्स्वेति ॥ १ ॥

विज्ञानं वाव ध्यानाद्भूयः । विज्ञानं शास्त्रा­र्थ­वि­षयं ज्ञानं तस्य ध्यानकारणत्वात् ध्याना­द्भू­य­स्त्वम् । कथं च तस्य भूयस्त्वमिति, आह — विज्ञानेन वै ऋग्वेदं विजानाति अयमृग्वेद इति प्रमाणतया यस्यार्थज्ञानं ध्यानकारणम् । तथा यजु­र्वे­द­मि­त्यादि । किञ्च पश्वादींश्च धर्माधर्मौ शास्त्रसिद्धौ साध्वसाधुनी लोकतः स्मार्ते वा दृष्टविषयं च सर्वं विज्ञानेनैव विजानातीत्यर्थः । तस्माद्युक्तं ध्याना­द्वि­ज्ञा­नस्य भूयस्त्वम् । अतो विज्ञा­न­मु­पा­स्स्वेति ॥

स यो विज्ञानं ब्रह्मे­त्यु­पास्ते विज्ञानवतो वै स लोकां­ज्ञा­न­व­तोऽ­भि­सि­ध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

शृणु उपासनफलं विज्ञानवतः । विज्ञानं येषु लोकेषु तान्विज्ञानवतो लोकान् ज्ञानवतश्च अभिसिध्यति अभिप्राप्नोति । विज्ञानं शास्त्रा­र्थ­वि­षयं ज्ञानम् , अन्यविषयं नैपुण्यम् , तद्व­द्भि­र्यु­क्तां­ल्लो­का­न्प्रा­प्नो­ती­त्यर्थः । याव­द्वि­ज्ञा­न­स्ये­त्यादि पूर्ववत् ॥

इति सप्त­म­ख­ण्ड­भा­ष्यम् ॥

अष्टमः खण्डः

बलं वाव विज्ञा­ना­द्भू­योऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भव­त्यु­त्ति­ष्ठ­न्प­रि­च­रिता भवति परिचरन्नुपसत्ता भव­त्यु­प­सी­द­न्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयांसि च तृणवनस्पतयः श्वाप­दा­न्या­की­ट­प­त­ङ्ग­पि­पी­लकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥

स यो बलं ब्रह्मे­त्यु­पास्ते यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

बलं वाव विज्ञानाद्भूयः । बल­मि­त्य­न्नो­प­यो­ग­ज­नितं मनसो विज्ञेये प्रति­भा­न­सा­म­र्थ्यम् । अनशनादृगादीनि ‘न वै मा प्रतिभान्ति भो’(छा. उ. ६ । ७ । २) इति श्रुतेः । शरीरेऽपि तदे­वो­त्था­ना­दि­सा­मर्थ्यं यस्मा­द्वि­ज्ञा­न­वतां शतमप्येकः प्राणी बलवानाकम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि । यस्मा­दे­व­म­न्ना­द्यु­प­यो­ग­नि­मित्तं बलम् , तस्मात्स पुरुषः यदा बली बलेन तद्वान्भवति अथोत्थाता उत्थानस्य कर्ता उत्तिष्ठंश्च गुरू­णा­मा­चा­र्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन् उपसत्ता तेषां समीपगोऽन्तरङ्गः प्रियो भवतीत्यर्थः । उपसीदंश्च सामीप्यं गच्छन् एकाग्रतया आचा­र्य­स्या­न्यस्य च उपदेष्टुः गुरोर्द्रष्टा भवति । ततस्तदुक्तस्य श्रोता भवति । तत इदमेभिरुक्तम् एवमुपपद्यत इत्युपपत्तितो मन्ता भवति ; मन्वानश्च बोद्धा भवति एवमेवेदमिति । तत एवं निश्चित्य तदुक्तार्थस्य कर्ता अनुष्ठाता भवति विज्ञाता अनु­ष्ठा­न­फ­ल­स्या­नु­भ­विता भवतीत्यर्थः । किञ्च बलस्य माहात्म्यम् — बलेन वै पृथिवी तिष्ठतीत्यादि ऋज्वर्थम् ॥

इति अष्ट­म­ख­ण्ड­भा­ष्यम् ॥

नवमः खण्डः

अन्नं वाव बला­द्भू­य­स्त­स्मा­द्य­द्यपि दश रात्री­र्ना­श्नी­या­द्यद्यु ह जीवे­द­थ­वा­द्र­ष्टा­श्रो­ता­म­न्ता­बो­द्धा­क­र्ता­वि­ज्ञाता भव­त्य­था­न्न­स्यायै द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भव­त्य­न्न­मु­पा­स्स्वेति ॥ १ ॥

अन्नं वाव बलाद्भूयः, बलहेतुत्वात् । कथमन्नस्य बलहेतुत्वमिति, उच्यते — यस्मा­द्ब­ल­का­र­ण­म­न्नम् , तस्मात् यद्यपि कश्चिद्दश रात्री­र्ना­श्नी­यात् , सोऽन्नो­प­यो­ग­नि­मि­त्तस्य बलस्य हान्या म्रियते ; यद्यु ह जीवेत् — दृश्यन्ते हि मासमप्यनश्नन्तो जीवन्तः — अथवा स जीवन्नपि अद्रष्टा भवति गुरोरपि, तत एव अश्रोतेत्यादि पूर्वविपरीतं सर्वं भवति । अथ यदा बहू­न्य­हा­न्य­न­शितः दर्श­ना­दि­क्रि­या­स्व­स­मर्थः सन् अन्नस्यायी, आगमनम् आयः अन्नस्य प्राप्ति­रि­त्यर्थः, सः यस्य विद्यते सोऽन्नस्यायी । आयै इत्ये­त­द्व­र्ण­व्य­त्य­येन । अथ अन्नस्याया इत्यपि पाठे एवमेवार्थः, द्रष्टे­त्या­दि­का­र्य­श्र­व­णात् । दृश्यते हि अन्नोपयोगे दर्श­ना­दि­सा­म­र्थ्यम् , न तदप्राप्तौ ; अतोऽ­न्न­मु­पा­स्स्वेति ॥

स योऽन्नं ब्रह्मे­त्यु­पा­स्तेऽ­न्न­वतो वै स लोका­न्पा­न­व­तोऽ­भि­सि­ध्यति यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

फलं च अन्नवतः प्रभूतान्नान्वै स लोकान् पानवतः प्रभूतोदकांश्च अन्न­पा­न­यो­र्नि­त्य­स­म्ब­न्धात् लोकानभिसिध्यति । समानमन्यत् ॥

इति नवमखण्डभाष्यम् ॥

दशमः खण्डः

आपो वावा­न्ना­द्भू­य­स्त­स्मा­द्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं क नीयो भविष्यतीत्यथ यदा सुवृ­ष्टि­र्भ­व­त्या­न­न्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौ­र्य­त्प­र्वता यद्देवमनुष्या यत्पशवश्च वयाꣳसि च तृणवनस्पतयः श्वाप­दा­न्या­की­ट­प­त­ङ्ग­पि­पी­ल­क­माप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥

आपो वाव अन्नाद्भूयस्य अन्नकारणत्वात् । यस्मादेवं तस्मात् यदा यस्मिन्काले सुवृष्टिः सस्यहिता शोभना वृष्टिः न भवति, तदा व्याधीयन्ते प्राणा दुःखिनो भवन्ति । किंनिमित्तमिति, आह — अन्न­म­स्मि­न्सं­व­त्सरे नः कनीयः अल्पतरं भविष्यतीति । अथ पुनर्यदा सुवृष्टिर्भवति, तदा आनन्दिनः सुखिनः हृष्टाः प्राणाः प्राणिनः भवन्ति अन्नं बहु प्रभूतं भविष्यतीति । अप्स­म्भ­व­त्वा­न्मू­र्तस्य अन्नस्य आप एवेमा मूर्ताः मूर्त­भे­दा­का­र­प­रि­णता इति मूर्ताः — येयं पृथिवी यद­न्तं­रि­क्ष­मि­त्यादि । आप एवेमा मूर्ताः ; अतः अप उपास्स्वेति ॥

स योऽपो ब्रह्मे­त्यु­पास्त आप्नोति सर्वा­न्का­माꣳस्तृ­प्ति­मा­न्भ­वति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

फलम् — स यः अपो ब्रह्मे­त्यु­पास्ते आप्नोति सर्वान्कामान् काम्या­न्मू­र्ति­मतो विषयानित्यर्थः । अप्सम्भवत्वाच्च तृप्ते­र­म्बू­पा­स­ना­त्तृ­प्ति­मांश्च भवति । समानमन्यत् ॥

इति दशमखण्डभाष्यम् ॥

एकादशः खण्डः

तेजो वावाद्भ्यो भूयस्तद्वा एत­द्वा­यु­मा­गृ­ह्या­का­श­म­भि­त­पति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तदे­त­दू­र्ध्वा­भिश्च तिरश्चीभिश्च विद्यु­द्भि­रा­ह्रा­दा­श्च­रन्ति तस्मा­दा­हु­र्वि­द्यो­तते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ॥ १ ॥

तेजो वाव अद्भ्यो भूयः, तेज­सोऽ­प्का­र­ण­त्वात् । कथ­म­प्का­र­ण­त्व­मिति, आह — यस्मा­द­ब्यो­नि­स्तेजः, तस्मात् तद्वा एतत्तेजो वायुमागृह्य अवष्टभ्य स्वात्मना निश्चलीकृत्य वायुम् आकाशमभितपति आका­श­म­भि­व्या­प्नु­व­त्त­पति यदा, तदा आहुर्लौकिकाः — निशोचति सन्तपति सामान्येन जगत् , नितपति देहान् , अतो वर्षिष्यति वै इति । प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्यं भविष्यतीति विज्ञानम् । तेज एव तत्पू­र्व­मा­त्मा­न­मु­द्भूतं दर्शयित्वा अथ अनन्तरम् अपः सृजते, अतः अप्स्र­ष्टृ­त्वा­द्भू­योऽ­द्भ्य­स्तेजः । किञ्चान्यत् , तदेतत्तेज एव स्तनयित्नुरूपेण वर्षहेतुर्भवति । कथम् ? ऊर्ध्वाभिश्च ऊर्ध्वगाभिः विद्युद्भिः तिरश्चीभिश्च तिर्यग्गताभिश्च सह आह्रादाः स्तन­य­न­श­ब्दा­श्च­रन्ति । तस्मा­त्त­द्द­र्श­ना­दा­हु­र्लौ­किकाः — विद्योतते स्तनयति, वर्षिष्यति वै इत्या­द्यु­क्ता­र्थम् । अतस्तेज उपास्स्वेति ॥

स यस्तेजो ब्रह्मे­त्यु­पास्ते तेजस्वी वै स तेजस्वतो लोका­न्भा­स्व­तोऽ­प­ह­त­त­म­स्का­न­भि­सि­ध्यति यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

तस्य तेजस उपासनफलम् — तेजस्वी वै भवति । तेजस्वत एव च लोकान्भास्वतः प्रकाशवतः अपहततमस्कान् बाह्या­ध्या­त्मि­का­ज्ञा­ना­द्य­प­नी­त­त­म­स्कान् अभिसिध्यति । ऋज्वर्थमन्यत् ॥

इति एका­द­श­ख­ण्ड­भा­ष्यम् ॥

द्वादशः खण्डः

आकाशो वाव तेजसो भूयानाकाशे वै सूर्या­च­न्द्र­म­सा­वुभौ विद्यु­न्न­क्ष­त्रा­ण्य­ग्नि­रा­का­शे­ना­ह्व­य­त्या­का­शेन शृणोत्याकाशेन प्रति­शृ­णो­त्या­काशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आका­श­मु­पा­स्स्वेति ॥ १ ॥

आकाशो वाव तेजसो भूयान् , वायुसहितस्य तेजसः कार­ण­त्वा­द्व्योम्नः । ‘वायुमागृह्य’(छा. उ. ७ । ११ । १) इति तेजसा सहोक्तः वायुरिति पृथगिह नोक्तस्तेजसः । कारणं हि लोके कार्याद्भूयो दृष्टम् — यथा घटादिभ्यो मृत् , तथा आकाशो वायुसहितस्य तेजसः कारणमिति ततो भूयान् । कथम् ? आकाशे वै सूर्या­च­न्द्र­म­सा­वुभौ तेजोरूपौ विद्यु­न्न­क्ष­त्रा­ण्य­ग्निश्च तेजो­रू­पा­ण्या­का­शेऽन्तः । यच्च यस्यान्तर्वर्ति तदल्पम् , भूय इतरत् । किञ्च आकाशेन आह्वयति च अन्यमन्यः ; आहूतश्चेतरः आकाशेन शृणोति ; अन्योक्तं च शब्दम् अन्यः प्रतिशृणोति ; आकाशे रमते क्रीड­त्य­न्योन्यं सर्वः ; तथा च रमते च आकाशे बन्ध्वादिवियोगे ; आकाशे जायते, न मूर्ते­ना­व­ष्टब्धे । तथा आकाशमभि लक्ष्य अङ्कुरादि जायते, न प्रतिलोमम् । अतः आकाशमुपास्स्व ॥

स य आकाशं ब्रह्मे­त्यु­पास्त आकाशवतो वै स लोका­न्प्र­का­श­व­तोऽ­स­म्बा­धा­नु­रु­गा­य­व­तोऽ­भि­सि­ध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मे­त्यु­पा­स्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

फलं शृणु — आकाशवतो वै विस्ता­र­यु­क्तान्स विद्वां­ल्लो­का­न्प्र­का­श­वतः, प्रका­शा­का­श­यो­र्नि­त्य­स­म्ब­न्धा­त्प्र­का­श­व­तश्च लोकानसम्बाधान् सम्बाधनं सम्बाधः सम्बा­धोऽ­न्यो­न्य­पीडा तद्र­हि­ता­न­स­म्बा­धान् उरुगायवतः विस्ती­र्ण­ग­ती­न्वि­स्ती­र्ण­प्र­चा­रां­ल्लो­कान् अभिसिध्यति । याव­दा­का­श­स्ये­त्या­द्यु­क्ता­र्थम् ॥

इति द्वाद­श­ख­ण्ड­भा­ष्यम् ॥

त्रयोदशः खण्डः

स्मरो वावा­का­शा­द्भू­य­स्त­स्मा­द्य­द्यपि बहव आसीरन्न स्मरन्तो नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन्यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण वै पुत्रा­न्वि­जा­नाति स्मरेण पशू­न्स्म­र­मु­पा­स्स्वेति ॥ १ ॥

स यः स्मरं ब्रह्मे­त्यु­पास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मे­त्यु­पा­स्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

स्मरो वाव आकाशाद्भूयः, स्मरणं स्मरोऽ­न्तः­क­र­ण­धर्मः, स आकाशाद्भूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन । स्मर्तुः स्मरणे हि सति आकाशादि सर्वमर्थवत् , स्मरणवतो भोग्यत्वात् । असति तु स्मरणे सदप्यसदेव, सत्त्व­का­र्या­भा­वात् । नापि सत्त्वं स्मृत्यभावे शक्य­मा­का­शा­दी­ना­म­व­ग­न्तु­मि­त्यतः स्मरणस्य आका­शा­द्भू­य­स्त्वम् । दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मात् , तस्माद्यद्यपि समुदिता बहव एकस्मिन्नासीरन् उपविशेयुः, ते तत्र आसीनाः अन्यो­न्य­भा­षि­त­मपि न स्मर­न्त­श्चेत्स्युः, नैव ते कञ्चन शब्दं शृणुयुः ; तथा न मन्वीरन् , मन्तव्यं चेत्स्मरेयुः तदा मन्वीरन् , स्मृत्यभावान्न मन्वीरन् ; तथा न विजानीरन् । यदा वाव ते स्मरे­यु­र्म­न्तव्यं विज्ञाताव्यं श्रोतव्यं च, अथ शृणुयुः अथ मन्वीरन् अथ विजानीरन् । तथा स्मरेण वै — मम पुत्रा एते — इति पुत्रा­न्वि­जा­नाति, स्मरेण पशून् । अतो भूय­स्त्वा­त्स्म­र­मु­पा­स्स्वेति । उक्तार्थमन्यत् ॥

इति त्रयो­द­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्दशः खण्डः

आशा वाव स्मरा­द्भू­य­स्या­शेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राꣳश्च पशूꣳश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥

आशा वाव स्मराद्भूयसी, आशा अप्रा­प्त­व­स्त्वा­काङ्क्षा, आशा तृष्णा काम इति यामाहुः पर्यायैः ; सा च स्मराद्भूयसी । कथम् ? आशया हि अन्तःकरणस्थया स्मरति स्मर्तव्यम् । आशाविषयरूपं स्मरन् असौ स्मरो भवति । अतः आशेद्धः आशया अभिवर्धितः स्मरभूतः स्मरन् ऋगा­दी­न्म­न्त्रा­न­धीते ; अधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्माणि कुरुते तत्फलाशयैव ; पुत्रांश्च पशूंश्च कर्मफलभूतान् इच्छते अभिवाञ्छति ; आशयैव तत्सा­ध­ना­न्य­नु­ति­ष्ठति । इमं च लोकम् आशेद्ध एव स्मरन् लोक­स­ङ्ग्र­ह­हे­तु­भि­रि­च्छते । अमुं च लोकम् आशेद्धः स्मरन् तत्सा­ध­ना­नु­ष्ठा­नेन इच्छते । अतः आशारशनावबद्धं स्मरा­का­शा­दि­ना­म­प­र्यन्तं जगच्चक्रीभूतं प्रतिप्राणि । अतः आशायाः स्मरादपि भूयस्त्वमित्यत आशामुपास्स्व ॥

स य आशां ब्रह्मे­त्यु­पास्त आशयास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मे­त्यु­पा­स्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भग­वा­न्ब्र­वी­त्विति ॥ २ ॥

यस्त्वाशां ब्रह्मे­त्यु­पास्ते शृणु तस्य फलम् — आशया सदोपासितया अस्योपासकस्य सर्वे कामाः समृध्यन्ति समृद्धिं गच्छन्ति । अमोघा ह अस्य आशिषः प्रार्थनाः सर्वाः भवन्ति ; यत्प्रार्थितं सर्वं तदवश्यं भवतीत्यर्थः । यावदाशाया गतमित्यादि पूर्ववत् ॥

इति चतु­र्द­श­ख­ण्ड­भा­ष्यम् ॥

पञ्चदशः खण्डः

प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥

नामो­प­क्र­म­मा­शान्तं कार्यकारणत्वेन निमि­त्त­नै­मि­त्ति­क­त्वेन च उत्त­रो­त्त­र­भू­य­स्तया अवस्थितं स्मृति­नि­मि­त्त­स­द्भा­व­मा­शा­र­श­ना­प­शै­र्वि­पा­शितं सर्वं सर्वतो बिसमिव तन्तु­भि­र्य­स्मि­न्प्राणे समर्पितम् , येन च सर्वतो व्यापिना अन्तर्बहिर्गतेन सूत्रे मणिगणा इव सूत्रेण ग्रथितं विधृतं च, स एष प्राणो वा आशाया भूयान् । कथमस्य भूयस्त्वमिति, आह दृष्टान्तेन समर्थयन् तद्भूयस्त्वम् — यथा वै लोके रथचक्रस्य अराः रथनाभौ समर्पिताः सम्प्रोताः सम्प्रवेशिता इत्येतत् , एव­म­स्मिं­ल्लि­ङ्ग­स­ङ्घा­त­रूपे प्राणे प्रज्ञात्मनि दैहिके मुख्ये — यस्मिन्परा देवता नामरूपव्याकरणाय आदर्शादौ प्रति­बि­म्ब­व­ज्जी­वेन आत्मना अनुप्रविष्टा ; यश्च महाराजस्येव सर्वा­धि­का­री­श्व­रस्य, ‘कस्मि­न्न्व­ह­मु­त्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति­ष्ठा­स्या­मीति स प्राणमसृजत’(प्र. उ. ६ । ३) इति श्रुतेः ; यस्तु च्छायेवानुगत ईश्वरम् , ‘तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञा­मा­त्रा­स्व­र्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा’(कौ. उ. ३ । ९) इति कौषीतकिनाम् — अत एवमस्मिन्प्राणे सर्वं यथोक्तं समर्पितम् । अतः स एष प्राणोऽ­प­र­तन्त्राः प्राणेन स्वशक्त्यैव याति, नान्यकृतं गम­ना­दि­क्रि­या­स्वस्य साम­र्थ्य­मि­त्यर्थः । सर्वं क्रिया­का­र­क­फ­ल­भे­द­जातं प्राण एव, न प्राणा­द्ब­हि­र्भू­त­म­स्तीति प्रकरणार्थः । प्राणः प्राणं ददाति । यद्ददाति तत्स्वा­त्म­भू­त­मेव । यस्मै ददाति तदपि प्राणायैव । अतः पित्रा­द्या­ख्योऽपि प्राण एव ॥

स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वा­स्त्वि­त्ये­वै­न­माहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥

कथं पित्रा­दि­श­ब्दानां प्रसि­द्धा­र्थो­त्स­र्गेण प्राण­वि­ष­य­त्व­मिति, उच्यते — सति प्राणे पित्रादिषु पित्रा­दि­श­ब्द­प्र­यो­गात् तदुत्क्रान्तौ च प्रयोगाभावात् । कथं तदिति, आह — स यः कश्चि­त्पि­त्रा­दी­ना­म­न्य­तमं यदि तं भृशमिव तदननुरूपमिव किञ्चिद्वचनं त्वङ्का­रा­दि­युक्तं प्रत्याह, तदैनं पार्श्वस्था आहुः विवेकिनः — धिक्त्वा अस्तु धिगस्तु त्वामित्येवम् । पितृहां वै त्वं पितु­र्ह­न्ते­त्यादि ॥

अथ यद्य­प्ये­ना­नु­त्क्रा­न्त­प्रा­णा­ञ्छू­लेन समासं व्यति­ष­न्द­हे­न्नै­वैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ३ ॥

अथ एनानेव उत्क्रा­न्त­प्रा­णान् त्यक्तदेहनाथान् यद्यपि शूलेन समासं समस्य व्यतिषन्दहेत् व्यत्यस्य सन्दहेत् , एवमप्यतिक्रूरं कर्म समा­स­व्य­त्या­सा­दि­प्र­का­रेण दहनलक्षणं तद्दे­ह­स­म्ब­द्ध­मेव कुर्वाणं नैवैनं ब्रूयुः पितृहेत्यादि । तस्मा­द­न्व­य­व्य­ति­रे­का­भ्या­म­व­ग­म्यते एत­त्पि­त्रा­द्या­ख्योऽपि प्राण एवेति ॥

प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रू­यु­र­ति­वा­द्य­सी­त्य­ति­वा­द्य­स्मीति ब्रूया­न्ना­प­ह्नु­वीत ॥ ४ ॥

तस्मात् प्राणो ह्येवैतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च । स वा एष प्राणविदेवं यथोक्तप्रकारेण पश्यन् फलतो अनुभवन् एवं मन्वानः उप­प­त्ति­भि­श्चि­न्त­यन् एवं विजानन् उपपत्तिभिः संयोज्य एवमेवेति निश्चयं कुर्व­न्नि­त्यर्थः । मन­न­वि­ज्ञा­नाभ्यां हि सम्भूतः शास्त्रार्थो निश्चितो दृष्टो भवेत् । अत एवं पश्यन् अतिवादी भवति नामा­द्या­शा­न्त­म­तीत्य वदनशीलो भवतीत्यर्थः । तं चेद्ब्रूयुः तं ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तस्य हि जगतः प्राण आत्मा अहमिति ब्रुवाणं यदि ब्रूयुः अतिवाद्यसीति, बाढम् अतिवाद्यस्मीति ब्रूयात् , न अपह्नुवीत । कस्माद्धि असावपह्नुवीत ? यत्प्राणं सर्वेश्वरम् अयमहमस्मि इत्या­त्म­त्वे­नो­प­गतः ॥

इति पञ्च­द­श­ख­ण्ड­भा­ष्यम् ॥

षोडशः खण्डः

स एष नारदः सर्वातिशयं प्राणं स्वमात्मानं सर्वात्मानं श्रुत्वा नातः पर­म­स्ती­त्यु­प­र­राम, न पूर्ववत्किमस्ति भगवः प्राणाद्भूय इति पप्रच्छ यतः । तमेव विका­रा­नृ­त­ब्र­ह्म­वि­ज्ञा­नेन परि­तु­ष्ट­म­कृ­तार्थं पर­मा­र्थ­स­त्या­ति­वा­दि­न­मा­त्मानं मन्यमानं योग्यं शिष्यं मिथ्या­ग्र­ह­वि­शे­षात् विप्रच्यावयन् आह भग­वा­न्स­न­त्कु­मारः —

एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्ये­ना­ति­व­दा­नीति सत्यं त्वेव विजि­ज्ञा­सि­त­व्य­मिति सत्यं भगवो विजिज्ञास इति ॥ १ ॥

एष तु वा अतिवदति, यमहं वक्ष्यामि । न प्राणविदतिवादी परमार्थतः । नामाद्यपेक्षं तु तस्या­ति­वा­दि­त्वम् । यस्तु भूमाख्यं सर्वातिक्रान्तं तत्त्वं परमार्थसत्यं वेद, सोऽतिवादीत्याह — एष तु वा अतिवदति यः सत्येन पर­मा­र्थ­स­त्य­वि­ज्ञा­न­व­त्तया अतिवदति । सोऽहं त्वां प्रपन्नः भगवः सत्येनातिवदानि ; तथा मां नियुनक्तु भगवान् , यथा अहं सत्ये­ना­ति­व­दा­नी­त्य­भि­प्रायः । यद्येवं सत्ये­ना­ति­व­दि­तु­मि­च्छसि, सत्यमेव तु ताव­द्वि­जि­ज्ञा­सि­त­व्य­मि­त्युक्त आह नारदः । तथास्तु तर्हि सत्यं भगवो विजिज्ञासे विशेषेण ज्ञातुमिच्छेयं त्वत्तोऽहमिति ॥

इति षोडशखण्डभाष्यम् ॥

सप्तदशः खण्डः

यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजि­ज्ञा­सि­त­व्य­मिति विज्ञानं भगवो विजिज्ञास इति ॥ १ ॥

यदा वै सत्यं परमार्थतः विजानाति — इदं परमार्थतः सत्यमिति, ततः अनृतं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदेवैकं सत्यमिति तदेव अथ वदति यद्वदति । ननु विकारोऽपि सत्यमेव, ‘नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः’(बृ. उ. १ । ६ । ३) ‘प्राणा वै सत्यं तेषामेष सत्यम्’(बृ. उ. २ । १ । २०)‘प्राणा वै सत्यं तेषामेष सत्यम्’(बृ. उ. २ । ३ । ६) इति श्रुत्यन्तरात् । सत्यमुक्तं सत्यत्वं श्रुत्यन्तरे विकारस्य, न तु पर­मा­र्था­पे­क्ष­मु­क्तम् । किं तर्हि ? इन्द्रि­य­वि­ष­या­वि­ष­य­त्वा­पेक्षं सच्च त्यच्चेति सत्यमित्युक्तं तद्द्वारेण च पर­मा­र्थ­स­त्य­स्यो­प­ल­ब्धि­र्वि­व­क्षि­तेति । ‘प्राणा वै सत्यं तेषामेष सत्यम्’ इति च उक्तम् । इहापि तदिष्टमेव । इह तु प्राण­वि­ष­या­त्प­र­मा­र्थ­स­त्त्य­वि­ज्ञा­ना­भि­मा­ना­द्व्यु­त्थाप्य नारदं यत्सदेव सत्यं परमार्थतो भूमाख्यम् , तद्वि­ज्ञा­प­यि­ष्या­मीति एष विशेषतो विवक्षितोऽर्थः । नाविजानन्सत्यं वदति’ यस्त्व­वि­जा­न­न्व­दति सोऽग्न्या­दि­श­ब्दे­ना­ग्न्या­दी­न्प­र­मा­र्थ­स­द्रू­पा­न्म­न्य­मानो वदति’ न तु ते रूप­त्र­य­व्य­ति­रे­केण परमार्थतः सन्ति । तथा तान्यपि रूपाणि सदपेक्षया नैव सन्तीत्यतो नाविजानन्सत्यं वदति । विजानन्नेव सत्यं वदति । न च तत्स­त्य­वि­ज्ञा­न­म­वि­जि­ज्ञा­सि­त­म­प्रा­र्थितं ज्ञायत इत्याह — विज्ञानं त्वेव विजि­ज्ञा­सि­त­व्य­मिति । यद्येवम् , विज्ञानं भगवो विजिज्ञासे इति । एवं सत्यादीनां च उत्तरोत्तराणां करोत्यन्तानां पूर्व­पू­र्व­हे­तुत्वं व्याख्येयम् ॥

इति सप्त­द­श­ख­ण्ड­भा­ष्यम् ॥

अष्टादशः खण्डः

यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजि­ज्ञा­सि­त­व्येति मतिं भगवो विजिज्ञास इति ॥ १ ॥

यदा वै मनुत इति । मतिः मननं तर्कः ॥

इति अष्टा­द­श­ख­ण्ड­भा­ष्यम् ॥

एकोनविंशः खण्डः

यदा वै श्रद्दधात्यथ मनुते नाश्र­द्द­ध­न्म­नुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजि­ज्ञा­सि­त­व्येति श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥

मन्तव्यविषये आदरः आस्तिक्यबुद्धिः श्रद्धा ॥

इति एको­न­विं­श­ति­त­म­ख­ण्ड­भा­ष्यम् ॥

विंशः खण्डः

यदा वै निस्तिष्ठत्यथ श्रद्दधाति नानि­स्ति­ष्ठ­ञ्छ्र­द्द­धाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजि­ज्ञा­सि­त­व्येति निष्ठां भगवो विजिज्ञास इति ॥ १ ॥

निष्ठा गुरु­शु­श्रू­षा­दि­त­त्प­रत्वं ब्रह्मविज्ञानाय ॥

इति विंश­ति­त­म­ख­ण्ड­भा­ष्यम् ॥

एकविंशः खण्डः

यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजि­ज्ञा­सि­त­व्येति कृतिं भगवो विजिज्ञास इति ॥ १ ॥

यदा वै करोति । कृतिः इन्द्रियसंयमः चित्तै­का­ग्र­ता­क­रणं च । सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञानावसानानि ॥

इति एक­विं­श­ख­ण्ड­भा­ष्यम् ॥

द्वाविंशः खण्डः

यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजि­ज्ञा­सि­त­व्य­मिति सुखं भगवो विजिज्ञास इति ॥ १ ॥

सापि कृतिः यदा सुखं लभते सुखं निरतिशयं वक्ष्यमाणं लब्धव्यं मयेति मन्यते तदा भवतीत्यर्थः । यथा दृष्टफलसुखा कृतिः तथेहापि नासुखं लब्ध्वा करोति । भविष्यदपि फलं लब्ध्वे­त्यु­च्यते, तदुद्दिश्य प्रवृ­त्त्यु­प­पत्तेः । अथेदानीं कृत्या­दि­षू­त्त­रो­त्त­रेषु सत्सु सत्यं स्वयमेव प्रतिभासत इति न तद्विज्ञानाय पृथग्यत्नः कार्य इति प्राप्तम् ; तत इदमुच्यते — सुखं त्वेव विजि­ज्ञा­सि­त­व्य­मि­त्यादि । सुखं भगवो विजिज्ञास इत्यभिमुखीभूताय आह ॥

इदि द्वाविं­श­ख­ण्ड­भा­ष्यम् ॥

त्रयोविंशः खण्डः

यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ १ ॥

यो वै भूमा महत् निरतिशयं बह्विति पर्यायाः, तत्सुखम् । ततोऽ­र्वा­क्सा­ति­श­य­त्वा­द­ल्पम् । अत­स्त­स्मि­न्नल्पे सुखं नास्ति, अल्प­स्या­धि­क­तृ­ष्णा­हे­तु­त्वात् । तृष्णा च दुःखबीजम् । न हि दुःखबीजं सुखं दृष्टं ज्वरादि लोके । तस्माद्युक्तं नाल्पे सुखमस्तीति । अतो भूमैव सुखम् । तृष्णा­दि­दुः­ख­बी­ज­त्वा­स­म्भ­वा­द्भूम्नः ॥

इति त्रयो­विं­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्विंशः खण्डः

यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रा­न्य­त्प­श्य­त्य­न्य­च्छृ­णो­त्य­न्य­द्वि­जा­नाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यꣳ स भगवः कस्मि­न्प्र­ति­ष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति ॥ १ ॥

किंलक्षणोऽसौ भूमेति, आह — यत्र यस्मिन्भूम्नि तत्त्वे न अन्य­द्द्र­ष्ट­व्य­म­न्येन करणेन द्रष्टा अन्यो विभक्तो दृश्यात्पश्यति । तथा नान्यच्छृणोति । नाम­रू­प­यो­रे­वा­न्त­र्भा­वा­द्वि­ष­य­भे­दस्य तद्ग्रा­ह­क­यो­रे­वेह दर्श­न­श्र­व­ण­यो­र्ग्र­ह­णम् अन्येषां च उप­ल­क्ष­णा­र्थ­त्वेन । मननं तु अत्रोक्तं द्रष्टव्यं नान्यन्मनुत इति, प्रायशो मन­न­पू­र्व­क­त्वा­द्वि­ज्ञा­नस्य । तथा नान्यद्विजानाति । एवंलक्षणो यः स भूमा । किमत्र प्रसि­द्धा­न्य­द­र्श­ना­भावो भूम्न्युच्यते नान्य­त्प­श्य­ती­त्या­दिना, अथ अन्यन्न पश्यति, आत्मानं पश्यतीत्येतत् । किञ्चातः ? यद्य­न्य­द­र्श­ना­द्य­भा­व­मा­त्र­मि­त्यु­च्यते, तदा द्वैत­सं­व्य­व­हा­र­वि­ल­क्षणो भूमेत्युक्तं भवति । अथ अन्य­द­र्श­न­वि­शे­ष­प्र­ति­षे­धेन आत्मानं पश्य­ती­त्यु­च्यते, तदैकस्मिन्नेव क्रिया­का­र­क­फ­ल­भे­दोऽ­भ्यु­प­गतो भवेत् । यद्येवं को दोषः स्यात् ? नन्वयमेव दोषः — संसारानिवृत्तिः । क्रिया­का­र­क­फ­ल­भेदो हि संसार इति आत्मैकत्वे एव क्रिया­का­र­क­फ­ल­भेदः संसारविलक्षण इति चेत् , न, आत्मनो निर्वि­शे­षै­क­त्वा­भ्यु­प­गमे दर्श­ना­दि­क्रि­या­का­र­क­फ­ल­भे­दा­भ्यु­प­ग­मस्य शब्दमात्रत्वात् । अन्य­द­र्श­ना­द्य­भा­वो­क्ति­प­क्षेऽपि यत्र इति अन्यन्न पश्यति इति च विशेषणे अनर्थके स्यातामिति चेत् — दृश्यते हि लोके यत्र शून्ये गृहेऽन्यन्न पश्यतीत्युक्ते स्तम्भा­दी­ना­त्मानं च न न पश्यतीति गम्यते ; एवमिहापीति चेत् , न, तत्त्व­म­सी­त्ये­क­त्वो­प­दे­शा­द­धि­क­र­णा­धि­क­र्त­व्य­भे­दा­नु­प­पत्तेः । तथा सदे­क­मे­वा­द्वि­तीयं सत्यमिति षष्ठे निर्धारितत्वात् । ‘अदृ­श्येऽ­नात्म्ये’(तै. उ. २ । ७ । १) ‘न सन्दृशे तिष्ठति रूपमस्य’(तै. ना. १ । ३) ‘विज्ञातारमरे केन विजानीयात्’(छा. उ. २ । ४ । १४) इत्या­दि­श्रु­तिभ्यः स्वात्मनि दर्श­ना­द्य­नु­प­पत्तिः । यत्र इति विशेषणमनर्थकं प्राप्तमिति चेत् , न, अवि­द्या­कृ­त­भे­दा­पे­क्ष­त्वात् , यथा सत्यै­क­त्वा­द्वि­ती­य­त्व­बुद्धिं प्रकृतामपेक्ष्य सदे­क­मे­वा­द्वि­ती­य­मिति सङ्ख्या­द्य­न­र्ह­म­प्यु­च्यते, एवं भूम्न्ये­क­स्मि­न्नेव यत्र इति विशेषणम् । अवि­द्या­व­स्था­या­म­न्य­द­र्श­ना­नु­वा­देन च भूम्न­स्त­द­भा­व­त्व­ल­क्ष­णस्य विवक्षितत्वात् नान्यत्पश्यति इति विशेषणम् । तस्मा­त्सं­सा­र­व्य­व­हारो भूम्नि नास्तीति समुदायार्थः । अथ यत्रा­वि­द्या­वि­षये अन्योऽ­न्ये­ना­न्य­त्प­श्य­तीति तदल्पम् अवि­द्या­का­ल­भा­वी­त्यर्थः ; यथा स्वप्नदृश्यं वस्तु प्राक् प्रबो­धा­त्त­त्का­ल­भा­वीति, तद्वत् । तत एव तन्मर्त्यं विनाशि स्वप्नवस्तुवदेव । तद्विपरीतो भूमा यस्तदमृतम् । तच्छब्दः अमृतत्वपरः ; स तर्हि एवंलक्षणो भूमा हे भगवन् कस्मि­न्प्र­ति­ष्ठित इति उक्तवन्तं नारदं प्रत्याह सनत्कुमारः — स्वे महिम्नीति स्वे आत्मीये महिम्नि माहात्म्ये विभूतौ प्रतिष्ठितो भूमा । यदि प्रति­ष्ठा­मि­च्छसि क्वचित् , यदि वा परमार्थमेव पृच्छसि, न महिम्न्यपि प्रतिष्ठित इति ब्रूमः ; अप्रतिष्ठितः अनाश्रितो भूमा क्वचिदपीत्यर्थः ॥

गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्रा­ण्या­य­त­ना­नीति नाहमेवं ब्रवीमि ब्रवीमीति होवाचान्यो ह्यन्य­स्मि­न्प्र­ति­ष्ठित इति ॥ २ ॥

यदि स्वमहिम्नि प्रतिष्ठितः भूमा, कथं तर्ह्यप्रतिष्ठ उच्यते ? शृणु— गोअश्वादीह महीमेत्याचक्षते । गावश्चाश्वाश्च गोअश्वं द्वन्द्वै­क­व­द्भावः । सर्वत्र गवाश्वादि महिमेति प्रसिद्धम् । तदाश्रितः तत्प्र­ति­ष्ठ­श्चैत्रो भवति यथा, नाहमेवं स्वतोऽन्यं महिमानमाश्रितो भूमा चैत्रवदिति ब्रवीमि, अत्र हेतुत्वेन अन्यो ह्यन्य­स्मि­न्प्र­ति­ष्ठित इति व्यवहितेन सम्बन्धः । किन्त्वेवं ब्रवीमीति ह उवाच — स एवेत्यादि ॥

इति चतु­र्विं­श­ख­ण्ड­भा­ष्यम् ॥

पञ्चविंशः खण्डः

स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदꣳ सर्व­मि­त्य­था­तोऽ­ह­ङ्का­रा­देश एवा­ह­मे­वा­ध­स्ता­द­ह­मु­प­रि­ष्टा­दहं पश्चादहं पुरस्तादहं दक्षि­ण­तोऽ­ह­मु­त्त­र­तोऽ­ह­मे­वेदꣳ सर्वमिति ॥ १ ॥

कस्मात्पुनः क्वचिन्न प्रतिष्ठित इति, उच्यते — यस्मात्स एव भूमा अधस्तात् न तद्व्य­ति­रे­के­णा­न्य­द्वि­द्यते यस्मि­न्प्र­ति­ष्ठितः स्यात् । तथो­प­रि­ष्टा­दि­त्यादि समानम् । सति भूम्नोऽ­न्य­स्मिन् , भूमा हि प्रतिष्ठितः स्यात् ; न तु तदस्ति । स एव तु सर्वम् । अतस्तस्मादसौ न क्वचि­त्प्र­ति­ष्ठितः । ‘यत्र नान्यत्पश्यति’ इत्य­धि­क­र­णा­धि­क­र्त­व्य­ता­नि­र्दे­शात् स एवाधस्तादिति च परो­क्ष­नि­र्दे­शात् द्रष्टु­र्जी­वा­दन्यो भूमा स्यादित्याशङ्का कस्यचिन्मा भूदिति अथातः अनन्तरम् अहङ्कारादेशः अहङ्कारेण आदिश्यत इत्यहङ्कारादेशः । द्रष्टु­र­न­न्य­त्व­द­र्श­नार्थं भूमैव निर्दिश्यते अहङ्कारेण अह­मे­वा­ध­स्ता­दि­त्या­दिना ॥

अथात आत्मादेश एवा­त्मै­वा­ध­स्ता­दा­त्मो­प­रि­ष्टा­दात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदꣳ सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजा­न­न्ना­त्म­र­ति­रा­त्म­क्रीड आत्ममिथुन आत्मानन्दः स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथातो विदु­र­न्य­रा­जा­नस्ते क्षय्यलोका भवन्ति तेषाꣳ सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥

अहङ्कारेण देहा­दि­स­ङ्घा­तोऽ­प्या­दि­श्य­तेऽ­वि­वे­किभिः इत्यतः तदाशङ्का मा भूदिति अथ अनन्तरम् आत्मादेशः आत्मनैव केवलेन सत्स्वरूपेण शुद्धेन आदिश्यते । आत्मैव सर्वतः सर्वम् — इत्येवम् एकमजं सर्वतो व्योमवत्पूर्णम् अन्यशून्यं पश्यन् स वा एष विद्वान् मन­न­वि­ज्ञा­ना­भ्याम् आत्मरतिः आत्मन्येव रतिः रमणं यस्य सोऽयमात्मरतिः । तथा आत्मक्रीडः । देहमात्रसाधनाः रतिः बाह्यसाधना क्रीडा, लोके स्त्रीभिः सखिभिश्च क्रीडतीति दर्शनात् । न तथा विदुषः ; किं तर्हि, आत्म­वि­ज्ञा­न­नि­मि­त्त­मे­वो­भयं भवतीत्यर्थः । मिथुनं द्वन्द्वजनितं सुखं तदपि द्वन्द्व­नि­र­पेक्षं यस्य विदुषः । तथा आत्मानन्दः, शब्दादिनिमित्तः आनन्दः अविदुषाम् , न तथा अस्य विदुषः ; किं तर्हि, आत्मनिमित्तमेव सर्वं सर्वदा सर्वप्रकारेण च ; देह­जी­वि­त­भो­गा­दि­नि­मि­त्त­बा­ह्य­व­स्तु­नि­र­पेक्ष इत्यर्थः । स एवंलक्षणः विद्वान् जीवन्नेव स्वारा­ज्येऽ­भि­षिक्तः पतितेऽपि देहे स्वराडेव भवति । यत एवं भवति, तत एव तस्य सर्वेषु लोकेषु कामचारो भवति । प्राणादिषु पूर्वभूमिषु ‘तत्रास्य’ इति ताव­न्मा­त्र­प­रि­च्छि­न्न­का­म­चा­र­त्व­मु­क्तम् । अन्यराजत्वं च अर्थप्राप्तम् , सातिशयत्वात् । यथा­प्रा­प्त­स्वा­रा­ज्य­का­म­चा­र­त्वा­नु­वा­देन तत्त­न्नि­वृ­त्ति­रि­हो­च्यते — स स्वराडित्यादिना । अथ पुनः ये अन्यथा अतः उक्त­द­र्श­ना­द­न्यथा वैपरीत्येन यथोक्तमेव वा सम्यक् न विदुः, ते अन्यराजानः भवन्ति अन्यः परो राजा स्वामी येषां ते अन्यराजानस्ते किञ्च क्षय्यलोकाः क्षय्यो लोको येषां ते क्षय्यलोकाः, भेददर्शनस्य अल्पविषयत्वात् , अल्पं च तन्म­र्त्य­मि­त्य­वो­चाम । तस्मात् ये द्वैतदर्शिनः ते क्षय्यलोकाः स्वद­र्श­ना­नु­रू­प्ये­णैव भवन्ति ; अत एव तेषां सर्वेषु लोकेष्वकामचारो भवति ॥

इति पञ्च­विं­श­ख­ण्ड­भा­ष्यम् ॥

षड्विंशः खण्डः

तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आवि­र्भा­व­ति­रो­भा­वा­वा­त्म­तोऽ­न्न­मा­त्मतो बलमात्मतो विज्ञानमात्मतो ध्यान­मा­त्म­त­श्चि­त्त­मा­त्मतः सङ्कल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदं सर्वमिति ॥ १ ॥

तस्य ह वा एतस्येत्यादि स्वारा­ज्य­प्रा­प्तस्य प्रकृतस्य विदुष इत्यर्थः । प्राक्स­दा­त्म­वि­ज्ञा­नात् स्वात्म­नोऽ­न्य­स्मा­त्सतः प्राणा­दे­र्ना­मा­न्त­स्यो­त्प­त्ति­प्र­ल­या­व­भू­ताम् । सदात्मविज्ञाने तु सति इदानीं स्वात्मत एव संवृत्तौ । तथा सर्वोऽप्यन्यो व्यवहार आत्मत एव विदुषः ॥

तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताꣳ सर्वꣳ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विꣳशति­रा­हा­र­शुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्र­मो­क्ष­स्तस्मै मृदितकषायाय तमसस्पारं दर्शयति भग­वा­न्स­ना­त्कु­मा­रस्तꣳ स्कन्द इत्याचक्षते तꣳ स्कन्द इत्याचक्षते ॥ २ ॥

किञ्च तत् एतस्मिन्नर्थे एष श्लोकः मन्त्रोऽपि भवति — न पश्यः पश्यतीति पश्यः यथोक्तदर्शी विद्वा­नि­त्यर्थः, मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःखभावं चापि न पश्यति । सर्वं ह सर्वमेव स पश्यः पश्यति आत्मानमेव । सर्वं ततः सर्वमाप्नोति सर्वशः सर्वप्रकारैरिति । किञ्च स विद्वान् प्राक्सृ­ष्टि­प्र­भे­दात् एकधैव भवति ; एकधैव च सन् त्रिधा­दि­भे­दै­र­न­न्त­भे­द­प्र­कारो भवति सृष्टिकाले ; पुनः संहारकाले मूलमेव स्वं पारमार्थिकम् एकधाभावं प्रतिपद्यते स्वतन्‍त्र एव — इति विद्यां फलेन प्ररोचयन् स्तौति । अथेदानीं यथोक्ताया विद्यायाः सम्यगवभासकारणं मुखा­व­भा­स­का­र­ण­स्येव आदर्शस्य विशुद्धिकारणं साधनमुपदिश्यते — आहारशुद्धौ । आह्रियत इत्याहारः शब्दा­दि­वि­ष­य­वि­ज्ञानं भोक्तुर्भोगाय आह्रियते । तस्य विष­यो­प­ल­ब्धि­ल­क्ष­णस्य विज्ञानस्य शुद्धिः आहारशुद्धिः, राग­द्वे­ष­मो­ह­दो­षै­र­सं­सृष्टं विष­य­वि­ज्ञा­न­मि­त्यर्थः । तस्या­मा­हा­र­शुद्धौ सत्यां तद्व­तोऽ­न्तः­क­र­णस्य सत्त्वस्य शुद्धिः नैर्मल्यं भवति । सत्त्वशुद्धौ च सत्यां यथावगते भूमात्मनि ध्रुवा अविच्छिन्ना स्मृतिः अविस्मरणं भवति । तस्यां च लब्धायां स्मृतिलम्भे सति सर्वे­षा­म­वि­द्या­कृ­ता­न­र्थ­पा­श­रू­पा­णाम् अने­क­ज­न्मा­न्त­रा­नु­भ­व­भा­व­ना­क­ठि­नी­कृ­तानां हृदयाश्रयाणां ग्रन्थीनां विप्रमोक्षः विशेषेण प्रमोक्षणं विनाशो भवतीति । यत एतदुत्तरोत्तरं यथो­क्त­मा­हा­र­शु­द्धि­मूलं तस्मात्सा कार्येत्यर्थः । सर्वं शास्त्रा­र्थ­म­शे­षत उक्त्वा आख्या­यि­का­मु­प­सं­ह­रति श्रुतिः — तस्मै मृदितकषायाय वार्क्षादिरिव कषायो रागद्वेषादिदोषः सत्त्वस्य रञ्चनारूपत्वात् सः ज्ञान­वै­रा­ग्या­भ्या­स­रू­प­क्षा­रेण क्षालितः मृदितः विनाशितः यस्य नारदस्य, तस्मै योग्याय मृदितकषायाय तमसः अविद्यालक्षणात् पारं परमार्थतत्त्वं दर्शयति दर्शि­त­वा­नि­त्यर्थः । कोऽसौ ? भगवान् ‘उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’ एवंधर्मा सनत्कुमारः । तमेव सनत्कुमारं देवं स्कन्द इति आचक्षते कथयन्ति तद्विदः । द्विर्व­च­न­म­ध्या­य­प­रि­स­मा­प्त्य­र्थम् ॥

इति षड्विं­श­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­त्छ­ङ्क­र­भ­ग­वतः कृतौ छान्दो­ग्यो­प­नि­ष­द्भाष्ये सप्तमोऽध्यायः समाप्तः ॥