अद्वैतशारदा

छान्दोग्योपनिषद्भाष्यम्

अष्टमोऽध्यायः

व्याख्याः

प्रथमः खण्डः

यद्यपि दिग्दे­श­का­ला­दि­भे­द­शून्यं ब्रह्म ‘सत् . . . एक­मे­वा­द्वि­ती­यम्’ ‘आत्मैवेदं सर्वम्’ इति षष्ठ­स­प्त­म­यो­र­धि­ग­तम् , तथापि इह मन्दबुद्धीनां दिग्दे­शा­दि­भे­द­व­द्व­स्त्विति एवंभाविता बुद्धिः न शक्यते सहसा परमार्थविषया कर्तुमिति, अनधिगम्य च ब्रह्म न पुरु­षा­र्थ­सि­द्धि­रिति, तदधिगमाय हृद­य­पु­ण्ड­री­क­देशः उपदेष्टव्यः । यद्यपि सत्स­म्य­क्प्र­त्य­यै­क­वि­षयं निर्गुणं च आत्मतत्त्वम् , तथापि मन्दबुद्धीनां गुण­व­त्त्व­स्ये­ष्ट­त्वात् सत्य­का­मा­दि­गु­ण­वत्त्वं च वक्तव्यम् । तथा यद्यपि ब्रह्मविदां स्त्र्यादि­वि­ष­येभ्यः स्वयमेवोपरमो भवति, तथा­प्या­ने­क­ज­न्म­वि­ष­य­से­वा­भ्या­स­ज­निता विषयविषया तृष्णा न सहसा निवर्तयितुं शक्यत इति ब्रह्म­च­र्या­दि­सा­ध­न­वि­शेषो विधातव्यः । तथा यद्य­प्या­त्मै­क­त्व­विदां गन्तृ­ग­म­न­ग­न्त­व्या­भा­वा­द­वि­द्या­दि­शे­ष­स्थि­ति­नि­मि­त्त­क्षये गगन इव विद्युदुद्भूत इव वायुः दग्धेन्धन इव अग्निः स्वात्मन्येव निवृत्तिः, तथापि गन्तृ­ग­म­ना­दि­वा­सि­त­बु­द्धीनां हृद­य­दे­श­गु­ण­वि­शि­ष्ट­ब्र­ह्मो­पा­स­कानां मूर्धन्यया नाड्या गति­र्व­क्त­व्ये­त्य­ष्टमः प्रपाठक आरभ्यते । दिग्दे­श­गु­ण­ग­ति­फ­ल­भे­द­शून्यं हि परमार्थसदद्वयं ब्रह्म मन्द­बु­द्धी­ना­म­स­दिव प्रतिभाति । सन्मा­र्ग­स्था­स्ता­व­द्भ­वन्तु ततः शनैः परमार्थसदपि ग्राहयिष्यामीति मन्यते श्रुतिः —

अथ यदि­द­म­स्मि­न्ब्र­ह्म­पुरे दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­का­श­स्त­स्मि­न्य­द­न्त­स्त­द­न्वे­ष्टव्यं तद्वाव विजि­ज्ञा­सि­त­व्य­मिति ॥ १ ॥

अथ अनन्तरं यदिदं वक्ष्यमाणं दहरम् अल्पं पुण्डरीकं पुण्डरीकसदृशं वेश्मेव वेश्म, द्वार­पा­ला­दि­म­त्त्वात् । अस्मिन् ब्रह्मपुरे ब्रह्मणः परस्य पुरम् — राज्ञोऽ­ने­क­प्र­कृ­ति­म­द्यथा पुरम् , तथे­द­म­ने­के­न्द्रि­य­म­नो­बु­द्धिभिः स्वाम्य­र्थ­का­रि­भि­र्यु­क्त­मिति ब्रह्मपुरम् । पुरे च वेश्म राज्ञो यथा, तथा तस्मि­न्ब्र­ह्म­पुरे शरीरे दहरं वेश्म, ब्रह्मण उप­ल­ब्ध्य­धि­ष्ठा­न­मि­त्यर्थः । यथा विष्णोः सालग्रामः । अस्मिन्हि स्वविकारशुङ्गे देहे नामरूपव्याकरणाय प्रविष्टं सदाख्यं ब्रह्म जीवेन आत्मनेत्युक्तम् । तस्मा­द­स्मि­न्हृ­द­य­पु­ण्ड­रीके वेश्मनि उप­सं­हृ­त­क­र­णै­र्ब्रा­ह्म­वि­ष­य­वि­रक्तैः विशेषतो ब्रह्म­च­र्य­स­त्य­सा­ध­नाभ्यां युक्तैः वक्ष्य­मा­ण­गु­ण­व­द्ध्या­य­मानैः ब्रह्मोपलभ्यत इति प्रकरणार्थः । दहरः अल्पतरः अस्मिन्दहरे वेश्मनि वेश्मनः अल्प­त्वा­त्त­द­न्त­र्व­र्ति­नोऽ­ल्प­त­रत्वं वेश्मनः । अन्तराकाशः आकाशाख्यं ब्रह्म । ‘आकाशो वै नाम’(छा. उ. ८ । १४ । १) इति हि वक्ष्यति । आकाश इव अशरीरत्वात् सूक्ष्म­त्व­स­र्व­ग­त­त्व­सा­मा­न्याच्च । तस्मि­न्ना­का­शाख्ये यदन्तः मध्ये तदन्वेष्टव्यम् । तद्वाव तदेव च विशेषेण जिज्ञासितव्यं गुर्वा­श्र­य­श्र­व­णा­द्यु­पा­यै­र­न्विष्य च साक्षा­त्क­र­णी­य­मि­त्यर्थः ॥

तं चेद्ब्रू­यु­र्य­दि­द­म­स्मि­न्ब्र­ह्म­पुरे दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­काशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजि­ज्ञा­सि­त­व्य­मिति स ब्रूयात् ॥ २ ॥

तं चेत् एव­मु­क्त­व­न्त­मा­चार्यं यदि ब्रूयुः अन्ते­वा­सि­न­श्चो­द­येयुः ; कथम् ? यदि­द­म­स्मि­न्ब्र­ह्म­पुरे परिच्छिन्ने अन्तः दहरं पुण्डरीकं वेश्म, ततोऽप्यन्तः अल्पतर एव आकाशः । पुण्डरीक एव वेश्मनि तावत्किं स्यात् । किं ततोऽल्पतरे खे यद्भवेदित्याहुः । दह­रोऽ­स्मि­न्न­न्त­रा­काशः किं तदत्र विद्यते, न किञ्चन विद्यत इत्यभिप्रायः । यदि नाम बदरमात्रं किमपि विद्यते, किं तस्यान्वेषणेन विजिज्ञासनेन वा फलं विजिज्ञासितुः स्यात् ? अतः यत्त­त्रा­न्वे­ष्टव्यं विजिज्ञासितव्यं वा न तेन प्रयो­ज­न­मि­त्यु­क्त­वतः स आचार्यो ब्रूयादिति श्रुतेर्वचनम् ॥

यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाश उभे अस्मि­न्द्या­वा­पृ­थिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्या­च­न्द्र­म­सा­वुभौ विद्यु­न्न­क्ष­त्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तद­स्मि­न्स­मा­हि­त­मिति ॥ ३ ॥

शृणुत — तत्र यद्ब्रूथ पुण्ड­री­का­न्तः­स्थस्य खस्याल्पत्वात् तत्स्थमल्पतरं स्यादिति, तदसत् । न हि खं पुण्ड­री­क­वे­श्म­गतं पुण्ड­री­का­द­ल्प­तरं मत्वा अवोचं दह­रोऽ­स्मि­न्न­न्त­रा­काश इति । किं तर्हि, पुण्डरीकमल्पं तदनुविधायि तत्स्थमन्तःकरणं पुण्ड­री­का­का­श­प­रि­च्छिन्नं तस्मिन्विशुद्धे संहृतकरणानां योगिनां स्वच्छ इवोदके प्रति­बि­म्ब­रू­प­मा­दर्श इव च शुद्धे स्वच्छं विज्ञा­न­ज्यो­तिः­स्व­रू­पा­व­भासं तावन्मात्रं ब्रह्मोपलभ्यत इति दह­रोऽ­स्मि­न्न­न्त­रा­काश इत्यवोचाम अन्तः­क­र­णो­पा­धि­नि­मि­त्तम् । स्वतस्तु यावान्वै प्रसिद्धः परि­मा­ण­तोऽ­य­मा­काशः भौतिकः, तावा­ने­षोऽ­न्त­र्हृ­दये आकाशः यस्मि­न्न­न्वे­ष्टव्यं विजिज्ञासितव्यं च अवोचाम । नाप्या­का­श­तु­ल्य­प­रि­मा­ण­त्व­म­भि­प्रेत्य तावानित्युच्यते । किं तर्हि, ब्रह्म­णोऽ­नु­रू­पस्य दृष्टा­न्ता­न्त­र­स्या­भा­वात् । कथं पुनर्न आकाशसममेव ब्रह्मे­त्य­व­ग­म्यते, ‘येनावृतं खं च दिवं महीं च’(तै. ना. १) , ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) , ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः’(बृ. उ. ३ । ८ । ११) इत्या­दि­श्रु­तिभ्यः । किं च उभे अस्मि­न्द्या­वा­पृ­थिवी ब्रह्माकाशे बुद्ध्यु­पा­धि­वि­शिष्टे अन्तरेव समाहिते सम्यगाहिते स्थिते । ‘यथा वा अरा नाभौ’(छा. उ. ७ । १५ । १) इत्युक्तं हि ; तथा उभावग्निश्च वायुश्चेत्यादि समानम् । यच्च अस्य आत्मन आत्मीयत्वेन देहवतोऽस्ति विद्यते इह लोके । तथा यच्च आत्मीयत्वेन न विद्यते । नष्टं भविष्यच्च नास्तीत्युच्यते । न तु अत्यन्तमेवासत् , तस्य हृद्याकाशे समा­धा­ना­नु­प­पत्तेः ॥

तं चेद्ब्रू­यु­र­स्मिꣳश्चे­दिदं ब्रह्मपुरे सर्वꣳ समाहितꣳ सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥

तं चेत् एवमुक्तवन्तं ब्रूयुः पुनरन्तेवासिनः — अस्मिंश्चेत् यथोक्ते चेत् यदि ब्रह्मपुरे ब्रह्म­पु­रो­प­ल­क्षि­ता­न्त­रा­काशे इत्यर्थः । इदं सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः । कथ­मा­चा­र्ये­णा­नुक्ताः कामा अन्ते­वा­सि­भि­रु­च्यन्ते ? नैष दोषः । यच्च अस्य इहास्ति यच्च नास्तीत्युक्ता एव हि आचार्येण कामाः । अपि च सर्वशब्देन च उक्ता एव कामाः । यदा यस्मिन्काले एतच्छरीरं ब्रह्मपुराख्यं जरा वली­प­लि­ता­दि­ल­क्षणा वयोहानिर्वा आप्नोति, शस्त्रादिना वा वृक्णं प्रध्वंसते विस्रंसते विनश्यति, किं ततोऽ­न्य­द­ति­शि­ष्यते ? घटा­श्रि­त­क्षी­र­द­धि­स्ने­हा­दि­वत् घटनाशे देहनाशेऽपि देहा­श्र­य­मु­त्त­रो­त्तरं पूर्व­पू­र्व­ना­शा­न्न­श्य­ती­त्य­भि­प्रायः । एवं प्राप्ते नाशे किं ततोऽन्यत् यथो­क्ता­द­ति­शि­ष्यते अवतिष्ठते, न किञ्चनावतिष्ठत इत्यभिप्रायः ॥

स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्म­पु­र­म­स्मि­न्कामाः समाहिता एष आत्मापहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः सत्यकामः सत्यसङ्कल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥

एव­म­न्ते­वा­सि­भि­श्चो­दितः स आचार्यो ब्रूयात् तन्मतिमपनयन् । कथम् ? अस्य देहस्य जरया एतत् यथो­क्त­म­न्त­रा­का­शाख्यं ब्रह्म यस्मिन्सर्वं समाहितं न जीर्यति देहवन्न विक्रियत इत्यर्थः । न च अस्य वधेन शस्त्रादिघातेन एतद्धन्यते, यथा आकाशम् ; किमु ततोऽपि सूक्ष्म­त­र­म­श­ब्द­म­स्पर्शं ब्रह्म देहे­न्द्रि­या­दि­दो­षैर्न स्पृश्यत इत्यर्थः । कथं देहे­न्द्रि­या­दि­दो­षैर्न स्पृश्यत इति एतस्मिन्नवसरे वक्तव्यं प्राप्तम् , तत्प्र­कृ­त­व्या­सङ्गो मा भूदिति नोच्यते । इन्द्र­वि­रो­च­ना­ख्या­यि­का­या­मु­प­रि­ष्टा­द्व­क्ष्यामो युक्तितः । एतत्सत्यमवितथं ब्रह्मपुरं ब्रह्मैव पुरं ब्रह्मपुरम् ; शरीराख्यं तु ब्रह्मपुरं ब्रह्मो­प­ल­क्ष­णा­र्थ­त्वात् । तत्तु अनृतमेव, ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) , (छा. उ. ६ । १ । ५), (छा. उ. ६ । १ । ६) इति श्रुतेः । तद्विकारो अनृतेऽपि देहशुङ्गे ब्रह्मोपलभ्यत इति ब्रह्म­पु­र­मि­त्युक्तं व्यावहारिकम् । सत्यं तु ब्रह्मपुरमेतदेव ब्रह्म, सर्व­व्य­व­हा­रा­स्प­द­त्वात् । अतः अस्मि­न्पु­ण्ड­री­को­प­ल­क्षिते ब्रह्मपुरे सर्वे कामाः, ये बहिर्भवद्भिः प्रार्थ्यन्ते, ते अस्मिन्नेव स्वात्मनि समाहिताः । अतः तत्प्रा­प्त्यु­पा­य­मे­वा­नु­ति­ष्ठत, बाह्य­वि­ष­य­तृष्णां त्यजत इत्यभिप्रायः । एष आत्मा भवतां स्वरूपम् । शृणुत तस्य लक्षणम् — अपहतपाप्मा, अपहतः पाप्मा धर्माधर्माख्यो यस्य सोऽयमपहतपाप्मा । तथा विजरः विगतजरः विमृत्युश्च । तदुक्तं पूर्वमेव न वधेनास्य हन्यत इति ; किमर्थं पुनरुच्यते ? यद्यपि देह­स­म्ब­न्धिभ्यां जरामृत्युभ्यां न सम्बन्ध्यते, अन्यथापि सम्ब­न्ध­स्ताभ्यां स्यादि­त्या­श­ङ्का­नि­वृ­त्त्य­र्थम् । विशोकः विगतशोकः । शोको नाम इष्टा­दि­वि­यो­ग­नि­मित्तो मानसः सन्तापः । विजिघत्सः विगताशनेच्छः । अपिपासः अपानेच्छः । ननु अपहतपाप्मत्वेन जरादयः शोकान्ताः प्रतिषिद्धा एव भवन्ति, कारणप्रतिषेधात् । धर्माधर्मकार्या हि ते इति । जरादिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्य­मा­न­यो­र­प्य­स­त्स­म­त्व­मिति पृथ­क्प्र­ति­षे­धोऽ­न­र्थकः स्यात् । सत्यमेवम् , तथापि धर्म­का­र्या­न­न्द­व्य­ति­रे­केण स्वाभाविकानन्दो यथेश्वरे, ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २८) इति श्रुतेः, तथा अध­र्म­का­र्य­ज­रा­दि­व्य­ति­रे­के­णापि जरा­दि­दुः­ख­स्व­रूपं स्वाभाविकं स्यादि­त्या­श­ङ्क्येत । अतः युक्त­स्त­न्नि­वृ­त्तये जरादीनां धर्माधर्माभ्यां पृथक्प्रतिषेधः । जरादिग्रहणं सर्व­दुः­खो­प­ल­क्ष­णा­र्थम् । पापनिमित्तानां तु दुःखा­ना­मा­न­न्त्या­त्प्र­त्येकं च तत्प्रतिषेधस्य अशक्यत्वात् सर्व­दुः­ख­प्र­ति­षे­धार्थं युक्त­मे­वा­प­ह­त­पा­प्म­त्व­व­च­नम् । सत्याः अवितथाः कामाः यस्य सोऽयं सत्यकामः । वितथा हि संसारिणां कामाः ; ईश्वरस्य तद्विपरीताः । तथा कामहेतवः सङ्कल्पा अपि सत्याः यस्य स सत्यसङ्कल्पः । सङ्कल्पाः कामाश्च शुद्ध­स­त्त्वो­पा­धि­नि­मित्ताः ईश्वरस्य, चित्रगुवत् ; न स्वतः ‘नेति नेति’(बृ. उ. २ । ३ । ६) इत्युक्तत्वात् । यथोक्तलक्षण एष आत्मा विज्ञेयो गुरुभ्यः शास्त्रतश्च आत्मसंवेद्यतया च स्वाराज्यकामैः । न चेद्विज्ञायते को दोषः स्यादिति, शृणुत अत्र दोषं दृष्टान्तेन — यथा ह्येव इह लोके प्रजाः अन्वाविशन्ति अनुवर्तन्ते यथानुशासनम् ; यथेह प्रजाः अन्यं स्वामिनं मन्यमानाः तस्य स्वामिनो यथा यथानुशासनं तथा तथान्वाविशन्ति । किम् ? यं यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं च अभिकामाः अर्थिन्यः भवन्ति आत्म­बु­द्ध्य­नु­रू­पम् , तं तमेव च प्रत्यन्तादिम् उपजीवन्तीति । एष दृष्टान्तः अस्वा­त­न्त्र्य­दोषं प्रति पुण्यफलोपभोगे ॥

तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहा­त्मा­न­म­न­नु­विद्य व्रज­न्त्येताꣳश्च सत्या­न्का­माꣳस्तेषाꣳ सर्वेषु लोकेष्वकामचारो भवत्यथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्येताꣳश्च सत्या­न्का­मां­स्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ६ ॥

अथ अन्यो दृष्टान्तः तत्क्षयं प्रति तद्यथेहेत्यादिः । तत् तत्र यथा इह लोके तासामेव स्वाम्य­नु­शा­स­ना­नु­व­र्ति­नीनां प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयते अन्तवान्भवति । अथ इदानीं दार्ष्टा­न्ति­क­मु­प­सं­ह­रति — एवमेव अमुत्र अग्नि­हो­त्रा­दि­पु­ण्य­जितो लोकः पराधीनोपभोगः क्षीयत एवेति । उक्तः दोषः एषामिति विषयं दर्शयति — तद्य इत्यादिना । तत् तत्र ये इह अस्मिंल्लोके ज्ञान­क­र्म­णो­र­धि­कृताः योग्याः सन्तः आत्मानं यथोक्तलक्षणं शास्त्रा­चा­र्यो­प­दि­ष्ट­म­न­नु­विद्य यथोपदेशमनु स्वसं­वे­द्य­ता­म­कृत्वा व्रजन्ति देहा­द­स्मा­त्प्र­यन्ति, य एतांश्च यथोक्तान् सत्यान् सत्य­स­ङ्क­ल्प­का­र्यांश्च स्वात्म­स्था­न्का­मान् अननुविद्य व्रजन्ति, तेषां सर्वेषु लोकेषु अकामचारः अस्वतन्‍त्रता भवति — यथा राजा­नु­शा­स­ना­नु­व­र्ति­नीनां प्रजा­ना­मि­त्यर्थः । अथ ये अन्ये इह लोके आत्मानं शास्त्रा­चा­र्यो­प­दे­श­म­नु­विद्य स्वात्म­सं­वे­द्य­ता­मा­पाद्य व्रजन्ति यथोक्तांश्च सत्यान्कामान् , तेषां सर्वेषु लोकेषु कामचारो भवति — राज्ञ इव सार्वभौमस्य इह लोके ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥

कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यते — य आत्मानं यथोक्तलक्षणं हृदि साक्षात्कृतवान् वक्ष्य­मा­ण­ब्र­ह्म­च­र्या­दि­सा­ध­न­स­म्पन्नः सन् तत्स्थांश्च सत्यान्कामान् ; स त्यक्तदेहः यदि पितृलोककामः पितरो जनयितारः त एव सुखहेतुत्वेन भोग्यत्वात् लोका उच्यन्ते, तेषु कामो यस्य तैः पितृभिः सम्बन्धेच्छा यस्य भवति, तस्य सङ्क­ल्प­मा­त्रा­देव पितरः समुत्तिष्ठन्ति आत्म­स­म्ब­न्धि­ता­मा­प­द्यन्ते, विशु­द्ध­स­त्त्व­तया सत्य­स­ङ्क­ल्प­त्वात् ईश्वरस्येव । तेन पितृलोकेन भोगेन सम्पन्नः सम्पत्तिः इष्टप्राप्तिः तया समृद्धः महीयते पूज्यते वर्धते वा महिमानमनुभवति ॥

अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥

अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥

अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥

अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥

अथ यदि गन्ध­मा­ल्य­लो­क­कामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समु­त्ति­ष्ठ­त­स्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥

अथ यद्य­न्न­पा­न­लो­क­कामो भवति सङ्क­ल्पा­दे­वा­स्या­न्न­पाने समु­त्ति­ष्ठ­त­स्ते­ना­न्न­पा­न­लो­केन सम्पन्नो महीयते ॥ ७ ॥

अथ यदि गीत­वा­दि­त्र­लो­क­कामो भवति सङ्कल्पादेवास्य गीतवादित्रे समु­त्ति­ष्ठ­त­स्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥

अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥

समानमन्यत् । मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात् । न हि दुःखहेतुभूतासु ग्राम­सू­क­रा­दि­ज­न्म­नि­मि­त्तासु मातृषु विशु­द्ध­स­त्त्वस्य योगिनः इच्छा तत्सम्बन्धो वा युक्तः ॥

यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥

१०

यं यमन्तं प्रदेशमभिकामो भवति, यं च कामं कामयते यथो­क्त­व्य­ति­रे­के­णापि, सः अस्यान्तः प्राप्तुमिष्टः कामश्च सङ्कल्पादेव समु­त्ति­ष्ठ­त्यस्य । तेन इच्छाविघाततया अभि­प्रे­ता­र्थ­प्राप्त्या च सम्पन्नो महीयते इत्युक्तार्थम् ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥

तृतीयः खण्डः

त इमे सत्याः कामा अनृ­ता­पि­धा­ना­स्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥

यथो­क्ता­त्म­ध्या­न­सा­ध­ना­नु­ष्ठानं प्रति साध­का­ना­मु­त्सा­ह­ज­न­ना­र्थ­म­नु­क्रो­श­न्त्याह — कष्टमिदं खलु वर्तते, यत्स्वात्मस्थाः शक्यप्राप्या अपि त इमे सत्याः कामाः अनृतापिधानाः, तेषा­मा­त्म­स्थानां स्वाश्रयाणामेव सतामनृतं बाह्यविषयेषु स्त्र्यन्न­भो­ज­ना­च्छा­द­ना­दिषु तृष्णा तन्निमित्तं च स्वेच्छा­प्र­चा­रत्वं मिथ्या­ज्ञा­न­नि­मि­त्त­त्वा­द­नृ­त­मि­त्यु­च्यते । तन्निमित्तं सत्यानां कामा­ना­म­प्रा­प्ति­रिति अपि­धा­न­मि­वा­पि­धा­नम् । कथ­म­नृ­ता­पि­धा­न­नि­मित्तं तेषामलाभ इति, उच्यते — यो यो हि यस्मादस्य जन्तोः पुत्रो भ्राता वा इष्टः इतः अस्माल्लोकात् प्रैति प्रगच्छति म्रियते, तमिष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपि इह पुन­र्द­र्श­ना­ये­च्छ­न्नपि न लभते ॥

अथ ये चास्येह जीवा ये च प्रेता यच्चा­न्य­दि­च्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृ­ता­पि­धा­ना­स्त­द्य­थापि हिरण्यनिधिं निहि­त­म­क्षे­त्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दे­यु­रे­व­मे­वेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥

अथ पुनः ये च अस्य विदुषः जन्तोर्जीवाः जीवन्तीह पुत्राः भ्रात्रादयो वा, ये च प्रेताः मृताः इष्टाः सम्बन्धिनः, यच्चान्यदिह लोके वस्त्रा­न्न­पा­नादि रत्नानि वा वस्त्विच्छन् न लभते, तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना विन्दते लभते । अत्र अस्मि­न्हा­र्दा­काशे हि यस्मात् अस्य ते यथोक्ताः सत्याः कामाः वर्तन्ते अनृतापिधानाः । कथमिव तदन्याय्यमिति, उच्यते — तत् तत्र यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निधातृभिः निधीयत इति निधिः तं हिरण्यनिधिं निहितं भूमे­र­ध­स्ता­न्नि­क्षि­प्तम् अक्षेत्रज्ञाः निधि­शा­स्त्रै­र्नि­धि­क्षे­त्र­म­जा­नन्तः ते निधेः उपर्युपरि सञ्चरन्तोऽपि निधिं न विन्देयुः शक्यवेदनमपि, एवमेव इमाः अविद्यावत्यः सर्वा इमाः प्रजाः यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोकः ब्रह्मलोकः तम् अहरहः प्रत्यहं गच्छन्त्योऽपि सुषुप्तकाले न विन्दन्ति न लभन्ते — एषोऽहं ब्रह्म­लो­क­भा­व­मा­प­न्नोऽ­स्म्य­द्येति । अनृतेन हि यथोक्तेन हि यस्मात् प्रत्यूढाः हृताः, स्वरू­पा­द­वि­द्या­दि­दो­षै­र्ब­हि­र­प­कृष्टा इत्यर्थः । अतः कष्टमिदं वर्तते जन्तूनां यत्स्वायत्तमपि ब्रह्म न लभ्यते इत्यभिप्रायः ॥

स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्मा­द्धृ­द­य­म­ह­र­हर्वा एवंवित्स्वर्गं लोकमेति ॥ ३ ॥

स वै यः ‘आत्मा­प­ह­त­पाप्मा’ इति प्रकृतः, वै - शब्देन तं स्मारयति । एषः विवक्षित आत्मा हृदि हृदयपुण्डरीके आका­श­श­ब्दे­ना­भि­हितः । तस्य एतस्य हृदयस्य एतदेव निरुक्तं निर्वचनम् , नान्यत् । हृदि अयमात्मा वर्तत इति यस्मात् , तस्माद्धृदयम् , हृद­य­ना­म­नि­र्व­च­न­प्र­सि­द्ध्यापि स्वहृदये आत्मे­त्य­व­ग­न्त­व्य­मि­त्य­भि­प्रायः । अहरहर्वै प्रत्यहम् एवंवित् हृदि अयमात्मेति जानन् स्वर्गं लोकं हार्दं ब्रह्म एति प्रतिपद्यते । ननु अनेवंविदपि सुषुप्तकाले हार्दं ब्रह्म प्रतिपद्यते एव, ‘सता सोम्य तदा सम्पन्नः’(छा. उ. ६ । ८ । १) इत्युक्तत्वात् । बाढमेवम् , तथाप्यस्ति विशेषः — यथा जानन्नजानंश्च सर्वो जन्तुः सद्ब्रह्मैव, तथापि तत्त्वमसीति प्रतिबोधितः विद्वान् — सदेव नान्योऽस्मि — इति जानन् सदेव भवति ; एवमेव विद्वा­न­वि­द्वांश्च सुषुप्ते यद्यपि सत्सम्पद्यते, तथाप्येवंविदेव स्वर्गं लोक­मे­ती­त्यु­च्यते । देहपातेऽपि विद्या­फ­ल­स्या­व­श्य­म्भा­वि­त्वा­दि­त्येष विशेषः ॥

अथ य एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यत एष आत्मेति होवा­चै­त­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥

सुषुप्तकाले स्वेन आत्मना सता सम्पन्नः सन् सम्य­क्प्र­सी­द­तीति जाग्र­त्स्व­प्न­यो­र्वि­ष­ये­न्द्रि­य­सं­यो­ग­जातं कालुष्यं जहातीति सम्प्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणः, तथापि एवंवित् स्वर्गं लोकमेतीति प्रकृतत्वात् एष सम्प्रसाद इति संनि­हि­त­व­द्य­त्न­वि­शे­षात् सः अथेदं शरीरं हित्वा अस्मा­च्छ­री­रा­त्स­मु­त्थाय शरीरात्मभावनां परि­त्य­ज्ये­त्यर्थः । न तु आसनादिव समुत्थायेति इह युक्तम् , स्वेन रूपेणेति विशेषणात् — न हि अन्यत उत्थाय स्वरूपं सम्पत्तव्यम् । स्वरूपमेव हि तन्न भवति प्रतिपत्तव्यं चेत्स्यात् । परं परमात्मलक्षणं विज्ञ­प्ति­स्व­भावं ज्योति­रु­प­स­म्पद्य स्वास्थ्य­मु­प­ग­म्ये­त्ये­तत् । स्वेन आत्मीयेन रूपेण अभिनिष्पद्यते, प्रागेतस्याः स्वरू­प­स­म्प­त्ते­र­वि­द्यया देहमेव अपरं रूपम् आत्मत्वेनोपगत इति तदपेक्षया इदमुच्यते — स्वेन रूपेणेति । अशरीरता हि आत्मनः स्वरूपम् । यत्स्वं परं ज्योतिः­स्व­रू­प­मा­प­द्यते सम्प्रसादः, एष आत्मेति ह उवाच — स ब्रूयादिति यः श्रुत्या नियुक्तः अन्तेवासिभ्यः । किं च एतदमृतम् अविनाशि भूमा ‘यो वै भूमा तदमृतम्’(छा. उ. ७ । २४ । १) इत्युक्तम् । अत एवाभयम् , भूम्नो द्वितीयाभावात् । अत एतद्ब्रह्मेति । तस्य ह वा एतस्य ब्रह्मणो नाम अभिधानम् । किं तत् ? सत्यमिति । सत्यं हि अवितथं ब्रह्म । ‘तत्सत्यं स आत्मा’(छा. उ. ६ । ८ । ७) इति हि उक्तम् । अथ किमर्थमिदं नाम पुनरुच्यते ? तदु­पा­स­न­वि­धि­स्तु­त्य­र्थम् ॥

तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्य­त्स­त्त­द­मृ­त­मथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्मा­द्य­म­ह­र­हर्वा एवंवित्स्वर्गं लोकमेति ॥ ५ ॥

तानि ह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि सतीयमिति, सकारस्तकारो यमिति च । ईकारस्तकारे उच्चा­र­णा­र्थोऽ­नु­बन्धः, ह्रस्वे­नै­वा­क्ष­रेण पुनः प्रतिनिर्देशात् । तेषां तत् तत्र यत् सत् सकारः तदमृतं सद्ब्रह्म — अमृ­त­वा­च­क­त्वा­द­मृत एव सकारस्तकारान्तो निर्दिष्ठः । अथ यत्ति तकारः तन्मर्त्यम् । अथ यत् यम् अक्षरम् , तेना­क्ष­रे­णा­मृ­त­म­र्त्याख्ये पूर्वे उभे अक्षरे यच्छति नियमयति वशी­क­रो­त्या­त्म­ने­त्यर्थः । यत् यस्मात् अनेन यमित्येतेन उभे यच्छति, तस्मात् यम् । संयते इव हि एतेन यमा लक्ष्येते । ब्रह्म­ना­मा­क्ष­र­स्यापि इद­म­मृ­त­त्वा­दि­ध­र्म­वत्त्वं महाभाग्यम् , किमुत नामवतः — इत्युपास्यत्वाय स्तूयते ब्रह्म नामनिर्वचनेन । एवं नामवतो वेत्ता एवंवित् । अहरहर्वा एवंवित्स्वर्गं लोक­मे­ती­त्यु­क्ता­र्थम् ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥

चतुर्थः खण्डः

अथ य आत्मा स सेतु­र्वि­धृ­ति­रेषां लोकानामसम्भेदाय नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो निव­र्त­न्तेऽ­प­ह­त­पाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥

अथ य आत्मेति । उक्तलक्षणो यः सम्प्रसादः, तस्य स्वरूपं वक्ष्य­मा­णै­रु­क्तै­र­नु­क्तैश्च गुणैः पुनः स्तूयते, ब्रह्म­च­र्य­सा­ध­न­स­म्ब­न्धा­र्थम् । य एषः यथोक्तलक्षणः आत्मा, स सेतुरिव सेतुः । विधृतिः विधरणः । अनेन हि सर्वं जग­द्व­र्णा­श्र­मा­दि­क्रि­या­का­र­क­फ­ला­दि­भे­द­नि­यमैः कर्तुरनुरूपं विदधता विधृतम् । अध्रियमाणं हि ईश्वरेणेदं विश्वं विनश्येद्यतः, तस्मात्स सेतुः विधृतिः । किमर्थं स सेतुरिति, आह — एषां भूरादीनां लोकानां कर्तृ­क­र्म­फ­ला­श्र­या­णाम् असम्भेदाय अविदारणाय अवि­ना­शा­ये­त्ये­तत् । किंवि­शि­ष्ट­श्चासौ सेतुरिति, आह — नैतम् , सेतु­मा­त्मा­न­म­हो­रात्रे सर्वस्य जनिमतः परिच्छेदके सती नैतं तरतः । यथा अन्ये संसारिणः कालेन अहो­रा­त्रा­दि­ल­क्ष­णेन परिच्छेद्या, न तथा अयं कालपरिच्छेद्य इत्यभिप्रायः, ‘यस्मा­द­र्वा­क्सं­व­त्स­रोऽ­होभिः परिवर्तते’(बृ. उ. ४ । ४ । १६) इति श्रुत्यन्तरात् । अत एव एनं न जरा तरति न प्राप्नोति । तथा न मृत्युः न शोकः न सुकृतं न दुष्कृतम् , सुकृतदुष्कृते धर्माधर्मौ । प्राप्तिरत्र तरणशब्देन अभिप्रेता, नातिक्रमणम् । कारणं हि आत्मा । न शक्यं हि कारणातिक्रमणं कर्तुं कार्येण । अहोरात्रादि च सर्वं सतः कार्यम् । अन्येन हि अन्यस्य प्राप्तिः अतिक्रमणं वा क्रियेत, न तु तेनैव तस्य । न हि घटेन मृत्प्राप्यते अतिक्रम्यते वा । यद्यपि पूर्वम् ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) इत्यादिना पाप्मा­दि­प्र­ति­षेध उक्त एव, तथापीहायं विशेषः — न तरतीति प्राप्ति­वि­ष­यत्वं प्रतिषिध्यते । तत्र अविशेषेण जरा­द्य­भा­व­मा­त्र­मु­क्तम् । अहोरात्राद्या उक्ता अनुक्ताश्च अन्ये सर्वे पाप्मानः उच्यन्ते ; अतः अस्मादात्मनः सेतोः निवर्तन्ते अप्रा­प्यै­वे­त्यर्थः । अपहतपाप्मा हि एष ब्रह्मैव लोकः ब्रह्मलोकः उक्तः ॥

तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्त­म­ह­रे­वा­भि­नि­ष्प­द्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ २ ॥

यस्माच्च पाप्म­का­र्य­मा­न्ध्यादि शरीरवतः स्यात् न त्वशरीरस्य, तस्माद्वा एतमात्मानं सेतुं तीर्त्वा प्राप्य अनन्धो भवति देहवत्त्वे पूर्वमन्धोऽपि सन् । तथा विद्धः सन् देहवत्त्वे स देहवियोगे सेतुं प्राप्य अविद्धो भवति । तथोपतापी रोगा­द्यु­प­ता­प­वा­न्सन् अनुपतापी भवति । किञ्च यस्मादहोरात्रे न स्तः सेतौ, तस्माद्वा एतं सेतुं तीर्त्वा प्राप्य नक्तमपि तमोरूपं रात्रिरपि सर्व­म­ह­रे­वा­भि­नि­ष्प­द्यते ; विज्ञ­प्त्या­त्म­ज्यो­तिः­स्व­रू­प­म­ह­रि­वाहः सदैकरूपं विदुषः सम्पद्यत इत्यर्थः । सकृद्विभातः सदा विभातः सदैकरूपः स्वेन रूपेण एष ब्रह्मलोकः ॥

तद्य एवैतं ब्रह्मलोकं ब्रह्म­च­र्ये­णा­नु­वि­न्दन्ति तेषामेवैष ब्रह्म­लो­क­स्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥

तत् तत्रैवं सति एवं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्त्रीवि­ष­य­तृ­ष्णा­त्या­गेन शास्त्रा­चा­र्यो­प­दे­श­म­नु­वि­न्दन्ति स्वात्म­सं­वे­द्य­ता­मा­पा­द­यन्ति ये, तेषामेव ब्रह्म­च­र्य­सा­ध­न­वतां ब्रह्मविदाम् एष ब्रह्मलोकः, नान्येषां स्त्रीवि­ष­य­स­म्प­र्क­जा­त­तृ­ष्णानां ब्रह्म­वि­दा­म­पी­त्यर्थः । तेषां सर्वेषु लोकेषु कामचारो भव­ती­त्यु­क्ता­र्थम् । तस्मात्परमम् एतत्साधनं ब्रह्मचर्यं ब्रह्म­वि­दा­मि­त्य­भि­प्रायः ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

पञ्चमः खण्डः

य आत्मा सेतुत्वादिगुणैः स्तुतः, तत्प्राप्तये ज्ञान­स­ह­का­रि­सा­ध­ना­न्तरं ब्रह्मचर्याख्यं विधातव्यमित्याह । यज्ञादिभिश्च तत्स्तौति कर्तव्यार्थम् —

अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदि­ष्ट­मि­त्या­च­क्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवे­ष्ट्वा­त्मा­न­म­नु­वि­न्दते ॥ १ ॥

अथ यद्यज्ञ इत्याचक्षते लोके पर­म­पु­रु­षा­र्थ­सा­धनं कथयन्ति शिष्टाः, तद्ब्र­ह्म­च­र्य­मेव । यज्ञस्यापि यत्फलं तत् ब्रह्म­च­र्य­वा­ल्ल­म्भते ; अतः यज्ञोऽपि ब्रह्म­च­र्य­मे­वेति प्रतिपत्तव्यम् । कथं ब्रह्मचर्यं यज्ञ इति, आह — ब्रह्मचर्येणैव हि यस्मात् यो ज्ञाता स तं ब्रह्मलोकं यज्ञस्यापि पारम्पर्येण फलभूतं विन्दते लभते, ततो यज्ञोऽपि ब्रह्म­च­र्य­मे­वेति । यो ज्ञाता — इत्य­क्ष­रा­नु­वृत्तेः यज्ञो ब्रह्मचर्यमेव । अथ यदि­ष्ट­मि­त्या­च­क्षते, ब्रह्मचर्यमेव तत् । कथम् ? ब्रह्मचर्येणैव साधनेन तम् ईश्वरम् इष्ट्वा पूजयित्वा अथवा एषणाम् आत्मविषयां कृत्वा तमा­त्मा­न­म­नु­वि­न्दते । एषणादिष्टमपि ब्रह्मचर्यमेव ॥

अथ यत्स­त्त्रा­य­ण­मि­त्या­च­क्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौ­न­मि­त्या­च­क्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवा­त्मा­न­म­नु­विद्य मनुते ॥ २ ॥

अथ यत्स­त्त्रा­य­ण­मि­त्या­च­क्षते, ब्रह्मचर्यमेव तत् । तथा सतः परस्मादात्मनः आत्मनस्त्राणं रक्षणं ब्रह्म­च­र्य­सा­ध­नेन विन्दते । अतः सत्त्रा­य­ण­श­ब्द­मपि ब्रह्मचर्यमेव तत् । अथ यन्मौ­न­मि­त्या­च­क्षते, ब्रह्मचर्यमेव तत् ; ब्रह्मचर्येणैव साधनेन युक्तः सन् आत्मानं शास्त्रा­चा­र्या­भ्या­म­नु­विद्य पश्चात् मनुते ध्यायति । अतो मौनशब्दमपि ब्रह्मचर्यमेव ॥

अथ यद­ना­श­का­य­न­मि­त्या­च­क्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्म­च­र्ये­णा­नु­वि­न्द­तेऽथ यद­र­ण्या­य­न­मि­त्या­च­क्षते ब्रह्मचर्यमेव तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयꣳ सरस्तदश्वत्थः सोम­स­व­न­स्त­द­प­रा­जिता पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम् ॥ ३ ॥

अथ यद­ना­श­का­य­न­मि­त्या­च­क्षते, ब्रह्मचर्यमेव तत् । यमात्मानं ब्रह्मचर्येण अनुविन्दते, स एष हि आत्मा ब्रह्म­च­र्य­सा­ध­न­वतो न नश्यति ; तस्मा­द­ना­श­का­य­न­मपि ब्रह्मचर्यमेव । अथ यद­र­ण्या­य­न­मि­त्या­च­क्षते, ब्रह्मचर्यमेव तत् । अर­ण्य­श­ब्द्य­यो­र­र्ण­व­यो­र्ब्र­ह्म­च­र्य­व­तोऽ­य­ना­द­र­ण्या­यनं ब्रह्मचर्यम् । यो ज्ञानाद्यज्ञः एषणादिष्टं सत­स्त्रा­णा­त्स­त्त्रा­यणं मननान्मौनम् अनशनादनाशकायनम् अर­ण्य­यो­र्ग­म­ना­द­र­ण्या­य­नम् इत्या­दि­भि­र्म­हद्भिः पुरुषार्थसाधनैः स्तुतत्वात् ब्रह्मचर्यं परमं ज्ञानस्य सहकारिकारणं साधनम् — इत्यतो ब्रह्मविदा यत्नतो रक्ष­णी­य­मि­त्यर्थः । तत् तत्र हि ब्रह्मलोके अरश्च ह वै प्रसिद्धो ण्यश्च अर्णवौ समुद्रौ समुद्रोपमे वा सरसी, तृतीयस्यां भुवमन्तरिक्षं च अपेक्ष्य तृतीया द्यौः तस्यां तृतीयस्याम् इतः अस्मा­ल्लो­का­दा­रभ्य गण्यमानायां दिवि । तत् तत्रैव च ऐरम् इरा अन्नं तन्मयः ऐरः मण्डः तेन पूर्णम् ऐरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं सरः । तत्रैव च अश्वत्थो वृक्षः सोमसवनो नामतः सोमोऽमृतं तन्निस्रवः अमृतस्रव इति वा । तत्रैव च ब्रह्मलोके ब्रह्म­च­र्य­सा­ध­न­र­हि­तै­र्ब्र­ह्म­च­र्य­सा­ध­न­वद्भ्यः अन्यैः न जीयत इति अपराजिता नाम पूः पुरी ब्रह्मणो हिरण्यगर्भस्य । ब्रह्मणा च प्रभुणा विशेषेण मितं निर्मितं तच्च हिरण्मयं सौवर्णं प्रभुविमितं मण्डपमिति वाक्यशेषः ॥

तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्म­च­र्ये­णा­नु­वि­न्दन्ति तेषामेवैष ब्रह्म­लो­क­स्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥

तत् तत्र ब्रह्मलोके एतावर्णवौ याव­र­ण्या­ख्या­वुक्तौ ब्रह्मचर्येण साधनेन अनुविन्दन्ति ये, तेषामेव एषः यो व्याख्यातः ब्रह्मलोकः । तेषां च ब्रह्म­च­र्य­सा­ध­न­वतां ब्रह्मविदां सर्वेषु लोकेषु कामचारो भवति, नान्ये­षा­म­ब्र­ह्म­च­र्य­प­राणां बाह्य­वि­ष­या­स­क्त­बु­द्धीनां कदाचिदपीत्यर्थः ॥

नन्वत्र ‘त्वमि­न्द्रस्त्वं यमस्त्वं वरुणः’ इत्यादिभिर्यथा कश्चित्स्तूयते महार्हः, एवमिष्टादिभिः शब्दैः न स्त्र्यादि­वि­ष­य­तृ­ष्णा­नि­वृ­त्ति­मात्रं स्तुत्यर्हम् ; किं तर्हि, ज्ञानस्य मोक्षसाधनत्वात् तदेवेष्टादिभिः स्तूयत इति केचित । न, स्त्र्यादि­बा­ह्य­वि­ष­य­तृ­ष्णा­प­हृ­त­चि­त्तानां प्रत्य­गा­त्म­वि­वे­क­वि­ज्ञा­ना­नु­प­पत्तेः, ‘पराञ्चि खानि व्यतृ­ण­त्स्व­य­म्भू­स्त­स्मा­त्प­रा­ङ्प­श्यति नान्तरात्मन्’(का. २ । १ । १) इत्या­दि­श्रु­ति­स्मृ­ति­श­तेभ्यः । ज्ञान­स­ह­का­रि­का­रणं स्त्र्यादि­वि­ष­य­तृ­ष्णा­नि­वृ­त्ति­सा­धनं विधातव्यमेवेति युक्तैव तत्स्तुतिः । ननु च यज्ञादिभिः स्तुतं ब्रह्मचर्यमिति यज्ञादीनां पुरु­षा­र्थ­सा­ध­नत्वं गम्यते । सत्यं गम्यते, न त्विह ब्रह्मलोकं प्रति यज्ञादीनां साध­न­त्व­म­भि­प्रेत्य यज्ञा­दि­भि­र्ब्र­ह्म­चर्यं स्तूयते ; किं तर्हि, तेषां प्रसिद्धं पुरु­षा­र्थ­सा­ध­न­त्व­म­पेक्ष्य । यथेन्द्रादिभिः राजा, न तु यत्रे­न्द्रा­दीनां व्यापारः तत्रैव राज्ञ इति — तद्वत् ॥

य इमेऽर्णवादयो ब्राह्मलौकिकाः सङ्कल्पजाश्च पित्रादयो भोगाः, ते किं प्रार्थिवा आप्याश्च यथेह लोके दृश्यन्ते तद्व­द­र्ण­व­वृ­क्ष­पूः­स्व­र्ण­म­ण्ड­पानि, आहोम्वित् मान­स­प्र­त्य­य­मा­त्रा­णीति । किञ्चातः ? यदि पार्थिवा आप्याश्च स्थूलाः स्युः, हृद्याकाशे समा­धा­ना­नु­प­पत्तिः । पुराणे च मनोमयानि ब्रह्मलोके शरीरादीनीति वाक्यं विरुध्येत ; ‘अशोकमहिमम्’(बृ. उ. ५ । १० । १) इत्याद्याश्च श्रुतयः । ननु समुद्राः सरितः सरांसि वाप्यः कूपा यज्ञा वेदा मन्त्रादयश्च मूर्तिमन्तः ब्रह्मा­ण­मु­प­ति­ष्ठन्ते इति मानसत्वे विरुध्येत पुराणस्मृतिः । न, मूर्तिमत्त्वे प्रसि­द्ध­रू­पा­णा­मेव तत्र गमनानुपपत्तेः । तस्मा­त्प्र­सि­द्ध­मू­र्ति­व्य­ति­रे­केण सागरादीनां मूर्त्यन्तरं साग­रा­दि­भि­रु­पात्तं ब्रह्मलोकगन्तृ कल्पनीयम् । तुल्यायां च कल्पनायां यथाप्रसिद्धा एव मानस्यः आकारवत्यः पुंस्त्र्याद्या मूर्तयो युक्ताः कल्पयितुम् , मान­स­दे­हा­नु­रू­प्य­स­म्ब­न्धो­प­पत्तेः । दृष्टा हि मानस्य एव आकारवत्यः पुंस्त्र्याद्या मूर्तयः स्वप्ने । ननु ता अनृता एव ; ‘त इमे सत्याः कामाः’(छा. उ. ८ । ३ । १) इति श्रुतिः तथा सति विरुध्येत । न, मानसप्रत्ययस्य सत्त्वोपपत्तेः । मानसा हि प्रत्ययाः स्त्रीपु­रु­षा­द्या­काराः स्वप्ने दृश्यन्ते । ननु जाग्र­द्वा­स­ना­रूपाः स्वप्नदृश्याः, न तु तत्र स्त्र्यादयः स्वप्ने विद्यन्ते । अत्य­ल्प­मि­द­मु­च्यते । जाग्रद्विषया अपि मान­स­प्र­त्य­या­भि­नि­र्वृत्ता एव, सदी­क्षा­भि­नि­र्वृ­त्त­ते­जो­ब­न्न­म­य­त्वा­ज्जा­ग्र­द्वि­ष­या­णाम् । सङ्कल्पमूला हि लोका इति च उक्तम् ‘समक्लृप्तां द्यावापृथिवी’(छा. उ. ७ । ४ । २) इत्यत्र । सर्वश्रुतिषु च प्रत्यगात्मन उत्पत्तिः प्रलयश्च तत्रैव स्थितिश्च ‘यथा वा अरा नाभौ’(छा. उ. ७ । १५ । १) इत्यादिना उच्यते । तस्मान्मानसानां बाह्यानां च विषयाणाम् इत­रे­त­र­का­र्य­का­र­ण­त्व­मि­ष्यत एव बीजाङ्कुरवत् । यद्यपि बाह्या एव मानसाः मानसा एव च बाह्याः, नानृतत्वं तेषां कदाचिदपि स्वात्मनि भवति । ननु स्वप्ने दृष्टाः प्रति­बु­द्ध­स्या­नृता भवन्ति विषयाः । सत्यमेव । जाग्रा­द्बो­धा­पेक्षं तु तदनृतत्वं न स्वतः । तथा स्वप्न­बो­धा­पेक्षं च जाग्र­द्दृ­ष्ट­वि­ष­या­नृ­तत्वं न स्वतः । विशेषाकारमात्रं तु सर्वेषां मिथ्या­प्र­त्य­य­नि­मि­त्त­मिति वाचारम्भणं विकारो नामधेयमनृतम् , त्रीणि रूपाणीत्येव सत्यम् । तान्य­प्या­का­र­वि­शे­ष­तोऽ­नृतं स्वतः सन्मात्ररूपतया सत्यम् । प्राक्स­दा­त्म­प्र­ति­बो­धा­त्स्व­वि­ष­येऽपि सर्वं सत्यमेव स्वप्नदृश्या इवेति न कश्चिद्विरोधः । तस्मान्मानसा एव ब्राह्मलौकिका अरण्यादयः सङ्कल्पजाश्च पित्रादयः कामाः । बाह्य­वि­ष­य­भो­ग­व­द­शु­द्धि­र­हि­त­त्वा­च्छु­द्ध­स­त्त्व­स­ङ्क­ल्प­जन्या इति निरतिशयसुखाः सत्याश्च ईश्वराणां भवन्तीत्यर्थः । सत्स­त्या­त्म­प्र­ति­बो­धेऽपि रज्ज्वामिव कल्पिताः सर्पादयः सदा­त्म­स्व­रू­प­ता­मेव प्रतिपद्यन्त इति सदात्मना सत्या एव भवन्ति ॥

इति पञ्च­म­ख­ण्ड­भा­ष्यम् ॥

षष्ठः खण्डः

यस्तु हृदयपुण्डरीकगतं यथो­क्त­गु­ण­वि­शिष्टं ब्रह्म ब्रह्म­च­र्या­दि­सा­ध­न­स­म्पन्नः त्यक्त­बा­ह्य­वि­ष­या­नृ­त­तृष्णः सन् उपास्ते, तस्येयं मूर्धन्यया नाड्या गतिर्वक्तव्येति नाडीखण्ड आरभ्यते —

अथ या एता हृदयस्य नाड्यस्ताः पिङ्ग­ल­स्या­णि­म्न­स्ति­ष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥

अथ या एताः वक्ष्यमाणाः हृदयस्य पुण्डरीकाकारस्य ब्रह्मो­पा­स­न­स्था­नस्य सम्बन्धिन्यः नाड्यः हृद­य­मां­स­पि­ण्डा­त्स­र्वतो विनिःसृताः आदित्यमण्डलादिव रश्मयः, ताश्चैताः पिङ्गलस्य वर्ण­वि­शे­ष­वि­शि­ष्टस्य अणिम्नः सूक्ष्मरसस्य रसेन पूर्णाः तदाकारा एव तिष्टन्ति वर्तन्त इत्यर्थः । तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्र अध्याहार्यम् । सौरेण तेजसा पित्ताख्येन पाका­भि­नि­र्वृ­त्तेन कफेन अल्पेन सम्पर्कात् पिङ्गलं भवति सौरं तेजः पित्ताख्यम् । तदेव च वातभूयस्त्वात् नीलं भवति । तदेव च कफभूयस्त्वात् शुक्लम् । कफेन समतायां पीतम् । शोणितबाहुल्येन लोहितम् । वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः कथं भवन्तीति । श्रुतिस्त्वाह — आदि­त्य­स­म्ब­न्धा­देव तत्तेजसो नाडी­ष्व­नु­ग­त­स्यैते वर्णविशेषा इति । कथम् ? असौ वा आदित्यः पिङ्गलो वर्णतः, एष आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य एव ॥

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामु­ष्मा­दा­दि­त्या­त्प्र­ता­यन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमु­ष्मि­न्ना­दित्ये सृप्ताः ॥ २ ॥

तस्याध्यात्मं नाडीभिः कथं सम्बन्ध इति, अत्र दृष्टान्तमाह — तत् तत्र यथा लोके महान् विस्तीर्णः पन्था महापथः आततः व्याप्तः उभौ ग्रामौ गच्छति इमं च संनिहितम् अमुं च विप्रकृष्टं दूरस्थम् , एवं यथा दृष्टान्तः महापथः उभौ ग्रामौ प्रविष्टः, एवमेवैताः आदित्यस्य रश्मयः उभौ लोकौ अमुं च आदित्यमण्डलम् इमं च पुरुषं गच्छन्ति उभयत्र प्रविष्टाः । यथा महापथः । कथम् ? अमु­ष्मा­दा­दि­त्य­म­ण्ड­लात् प्रतायन्ते सन्तता भवन्ति । ता अध्यात्ममासु पिङ्ग­ला­दि­व­र्णासु यथोक्तासु नाडीषु सृप्ताः गताः प्रविष्टा इत्यर्थः । आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः सन्तानभूताः सत्यः ते अमुष्मिन् । रश्मी­ना­मु­भ­य­लि­ङ्ग­त्वात् ते इत्युच्यन्ते ॥

तद्य­त्रै­त­त्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ३ ॥

तत् तत्र एवं सति यत्र यस्मिन्काले एतत् स्वपनम् अयं जीवः सुप्तो भवति । स्वापस्य द्विप्र­का­र­त्वा­द्वि­शे­षणं समस्त इति । उप­सं­हृ­त­स­र्व­क­र­ण­वृ­त्ति­रि­त्ये­तत् । अतः बाह्य­वि­ष­य­स­म्प­र्क­ज­नि­त­का­लु­ष्या­भा­वात् सम्यक् प्रसन्नः सम्प्रसन्नो भवति । अत एव स्वप्नं विषयाकाराभासं मानसं स्वप्नप्रत्ययं न विजानाति नानुभवतीत्यर्थः । यदैवं सुप्तो भवति, आसु सौरतेजःपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टः, नाडी­भि­र्द्वा­र­भू­ताभिः हृदयाकाशं गतो भवतीत्यर्थः । न हि अन्यत्र सत्सम्पत्तेः स्वप्ना­द­र्श­न­म­स्तीति सामर्थ्यात् नाडीष्विति सप्तमी तृतीयया परिणम्यते । तं सता सम्पन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशतीति, स्वरू­पा­व­स्थि­त­त्वात् तदा आत्मनः । देहे­न्द्रि­य­वि­शिष्टं हि सुख­दुः­ख­का­र्य­प्र­दा­नेन पाप्मा स्पृशतीति, न तु सत्सम्पन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्रष्टु­मु­त्स­हते, अविषयत्वात् । अन्यो हि अन्यस्य विषयो भवति, न त्वन्यत्वं केन­चि­त्कु­त­श्चि­दपि सत्सम्पन्नस्य । स्वरूपप्रच्यवनं तु आत्मनो जाग्र­त्स्व­प्ना­वस्थां प्रति गमनं बाह्य­वि­ष­य­प्र­ति­बोधः अवि­द्या­का­म­क­र्म­बी­जस्य ब्रह्म­वि­द्या­हु­ता­शा­दा­ह­नि­मि­त्त­मि­त्य­वो­चाम षष्ठे एव ; तदिहापि प्रत्येतव्यम् । यदैवं सुप्तः सौरेण तेजसा हि नाड्यन्तर्गतेन सर्वतः सम्पन्नः व्याप्तः भवति । अतः विशेषेण चक्षु­रा­दि­ना­डी­द्वा­रै­र्बा­ह्य­वि­ष­य­भो­गाय अप्रसृतानि करणानि अस्य तदा भवन्ति । तस्मादयं करणानां निरोधात् स्वात्म­न्ये­वा­व­स्थितः स्वप्नं न विजानातीति युक्तम् ॥

अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स याव­द­स्मा­च्छ­री­रा­द­नु­त्क्रान्तो भवति तावज्जानाति ॥ ४ ॥

तत्र एवं सति, अथ यत्र यस्मिन्काले अबलिमानम् अबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृशीभावम् एतत् नयनं नीतः प्रापितः देवदत्तो भवति मुमूर्षुर्यदा भवतीत्यर्थः । तमभितः सर्वतो वेष्टयित्वा आसीना ज्ञातयः आहुः — जानासि मां तव पुत्रं जानासि मां पितरं च इत्यादि । स मुमूर्षुः याव­द­स्मा­च्छ­री­रा­द­नु­त्क्रान्तः अनिर्गतः भवति ताव­त्पु­त्रा­दी­ञ्जा­नाति ॥

अथ यत्रै­त­द­स्मा­च्छ­री­रा­दु­त्क्रा­म­त्य­थै­तै­रेव रश्मि­भि­रू­र्ध्व­मा­क्र­मते स ओमिति वा होद्वा मीयते स याव­त्क्षि­प्ये­न्म­न­स्ता­व­दा­दित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥

अथ यत्र यदा, एत­त्क्रि­या­वि­शे­ष­ण­मिति, अस्मा­च्छ­री­रा­दु­त्क्रा­मति, अथ तदा एतैरेव यथोक्ताभिः रश्मिभिः ऊर्ध्वमाक्रमते यथाकर्मजितं लोकं प्रैति अविद्वान् । इतरस्तु विद्वान् यथो­क्त­सा­ध­न­स­म्पन्नः स ओमिति ओङ्कारेण आत्मानं ध्यायन् यथापूर्वं वा ह एव, उद्वा ऊर्ध्वं वा विद्वांश्चेत् इत­र­स्ति­र्य­ङ्वे­त्य­भि­प्रायः । मीयते प्रमीयते गच्छतीत्यर्थः । स विद्वान् उत्क्र­मि­ष्य­न्या­व­त्क्षि­प्ये­न्मनः यावता कालेन मनसः क्षेपः स्यात् , तावता कालेन आदित्यं गच्छति प्राप्नोति क्षिप्रं गच्छतीत्यर्थः, न तु तावतैव कालेनेति विवक्षितम् । किमर्थमादित्यं गच्छतीति, उच्यते — एतद्वै खलु प्रसिद्धं ब्रह्मलोकस्य द्वारं य आदित्यः ; तेन द्वारभूतेन ब्रह्मलोकं गच्छति विद्वान् । अतः विदुषां प्रपदनम् , प्रपद्यते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम् । निरोधनं निरोधः अस्मा­दा­दि­त्या­द­वि­दुषां भवतीति निरोधः, सौरेण तेजसा देहे एव निरुद्धाः सन्तः मूर्धन्यया नाड्या नोत्क्रमन्त एवेत्यर्थः, ‘विष्वङ्ङन्या’(छा. उ. ८ । ६ । ६) इति श्लोकात् ॥

तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां मूर्धा­न­म­भि­निः­सृ­तैका तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेव विष्वङ्ङन्या उत्क्रमणे भव­न्त्यु­त्क्र­मणे भवन्ति ॥ ६ ॥

तत् तस्मिन् यथोक्तेऽर्थे एष श्लोको मन्त्रो भवति — शतं च एका एकोत्तरशतं नाड्यः हृदयस्य मांसपिण्डभूतस्य सम्बन्धिन्यः प्रधानतो भवन्ति, आन­न्त्या­द्दे­ह­ना­डी­नाम् । तासामेका मूर्धा­न­म­भि­निः­सृता विनिर्गता । तयोर्ध्वमायन् गच्छन् अमृतत्वम् अमृतभावमेति । विष्वक् नानागतयः तिर्य­ग्वि­स­र्पिण्य ऊर्ध्वगाश्च अन्या नाड्यः भवन्ति संसा­र­ग­म­न­द्वा­र­भूताः ; न त्वमृतत्वाय ; किं तर्हि, उत्क्रमणे एव उत्क्रा­न्त्य­र्थ­मेव भवन्तीत्यर्थः । द्विरभ्यासः प्रक­र­ण­स­मा­प्त्यर्थः ॥

इति षष्ठखण्डभाष्यम् ॥

सप्तमः खण्डः

‘अथ य एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यत एष आत्मेति होवा­चै­त­द­मृ­त­भ­य­मे­त­द्ब्रह्म’(छा. उ. ८ । ३ । ४) इत्युक्तम् । तत्र कोऽसौ सम्प्रसादः ? कथं वा तस्याधिगमः, यथा सोऽस्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते ? येन स्वरू­पे­णा­भि­नि­ष्प­द्यते सं किंलक्षण आत्मा ? सम्प्रसादस्य च देहसम्बन्धीनि पररूपाणि, ततो यदन्यत्कथं स्वरूपम् ? इति एतेऽर्था वक्तव्या इत्युत्तरो ग्रन्थ आरभ्यते । आख्यायिका तु विद्या­ग्र­ह­ण­स­म्प्र­दा­न­वि­धि­प्र­द­र्श­नार्था विद्या­स्तु­त्यर्था च — राजसेवितं पानीयमितिवत् ।

य आत्मापहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामा­न्य­स्त­मा­त्मा­न­म­नु­विद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥

य आत्मा अपहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः सत्यकामः सत्यसङ्कल्पः, यस्योपासनाय उपलब्ध्यर्थं हृद­य­पु­ण्ड­री­क­म­भि­हि­तम् , यस्मिन्कामाः समाहिताः सत्याः अनृतापिधानाः, यदुपासनसहभावि ब्रह्मचर्यं साधनमुक्तम् , उपा­स­न­फ­ल­भू­त­का­म­प्र­ति­प­त्तये च मूर्धन्यया नाड्या गतिरभिहिता, सोऽन्वेष्टव्यः शास्त्रा­चा­र्यो­प­दे­शै­र्ज्ञा­तव्यः स विशेषेण ज्ञातुमेष्टव्यः विजिज्ञासितव्यः स्वसं­वे­द्य­ता­मा­पा­द­यि­तव्यः । किं तस्या­न्वे­ष­णा­द्वि­जि­ज्ञा­स­नाच्च स्यादिति, उच्यते — स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् ; यः तमात्मानं यथोक्तेन प्रकारेण शास्त्रा­चा­र्यो­प­दे­शेन अन्विष्य विजानाति स्वसं­वे­द्य­ता­मा­पा­द­यति, तस्य एत­त्स­र्व­लो­क­का­मा­वाप्तिः सर्वात्मता फलं भवतीति ह किल प्रजापतिरुवाच । अन्वेष्टव्यः विजिज्ञासितव्य इति च एष नियमविधिरेव, न अपूर्वविधिः । एवमन्वेष्टव्यो विजिज्ञासितव्य इत्यर्थः, दृष्टा­र्थ­त्वा­द­न्वे­ष­ण­वि­जि­ज्ञा­स­नयोः । दृष्टार्थत्वं च दर्शयिष्यति ‘नाहमत्र भोग्यं पश्यामि’(छा. उ. ८ । ९ । १) , (छा. उ. ८ । १० । २), (छा. उ. ८ । ११ । २) इत्यनेन असकृत् । पररूपेण च देहा­दि­ध­र्मै­र­व­ग­म्य­मा­नस्य आत्मनः स्वरूपाधिगमे विप­री­ता­धि­ग­म­नि­वृ­त्ति­र्दृष्टं फलमिति नियमार्थतैव अस्य विधेर्युक्ता, न त्वग्नि­हो­त्रा­दी­ना­मिव अपू­र्व­वि­धि­त्व­मिह सम्भवति ॥

तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमा­त्मा­न­म­न्वि­च्छामो यमा­त्मा­न­म­न्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव देवा­ना­म­भि­प्र­व­व्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजा­प­ति­स­का­श­मा­ज­ग्मतुः ॥ २ ॥

तद्धोभये इत्या­द्या­ख्या­यि­का­प्र­यो­ज­न­मु­क्तम् । तद्ध किल प्रजापतेर्वचनम् उभये देवासुराः देवाश्चासुराश्च देवासुराः अनु परम्परागतं स्वक­र्ण­गो­च­रा­प­न्नम् अनुबुबुधिरे अनुबुद्धवन्तः । ते च एतत्प्रजापतिवचो बुद्ध्वा किमकुर्वन्निति, उच्यते ते ह ऊचुः उक्तवन्तः अन्योन्यं देवाः स्वपरिषदि असुराश्च — हन्त यदि अनुमतिर्भवताम् , प्रजापतिनोक्तं तमा­त्मा­न­म­न्वि­च्छामः अन्वेषणं कुर्मः, यमा­त्मा­न­म­न्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् इत्युक्त्वा इन्द्रः हैव राजैव स्वयं देवानाम् इतरान्देवांश्च भोगपरिच्छदं च सर्वं स्थापयित्वा शरीरमात्रेणैव प्रजापतिं प्रति अभिप्रवव्राज प्रगतवान् , तथा विरोचनः असुराणाम् । विनयेन गुरवः अभिगन्तव्या इत्ये­त­द्द­र्श­यति, त्रैलोक्य राज्याच्च गुरुतरा विद्येति, यतः देवासुरराजौ महार्हभोगार्हौ सन्तौ तथा गुरु­म­भ्यु­प­ग­त­वन्तौ । तौ ह किल असंविदानावेव अन्योन्यं संविदमकुर्वाणौ विद्याफलं प्रति अन्यो­न्य­मीर्ष्यां दर्शयन्तौ समित्पाणी समिद्भारहस्तौ प्रजा­प­ति­स­का­श­मा­ज­ग्मतुः आगतवन्तौ ॥

तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्म­च­र्य­मू­ष­तुस्तौ ह प्रजापतिरुवाच किमि­च्छ­न्ता­व­वा­स्त­मिति तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामा­न्य­स्त­मा­त्मा­न­म­नु­विद्य विजानातीति भगवतो वचो वेदयन्ते तमि­च्छ­न्ता­व­वा­स्त­मिति ॥ ३ ॥

तौ ह गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यम् ऊषतुः उषितवन्तौ । अभिप्रायज्ञः प्रजापतिः तावुवाच — किमिच्छन्तौ किं प्रयो­ज­न­म­भि­प्रेत्य इच्छन्तौ अवास्तम् उषितवन्तौ युवामिति । इत्युक्तौ तौ ह ऊचतुः — य आत्मेत्यादि भगवतो वचो वेदयन्ते शिष्टाः, अतः तमात्मानं ज्ञातुमिच्छन्तौ अवास्तमिति । यद्यपि प्राक्प्रजापतेः समीपागमनात् अन्यो­न्य­मी­र्ष्या­यु­क्ता­व­भू­ताम् , तथापि विद्या­प्रा­प्ति­प्र­यो­ज­न­गौ­र­वात् त्यक्त­रा­ग­द्वे­ष­मो­हे­र्ष्या­दि­दो­षा­वेव भूत्वा ऊषतुः ब्रह्मचर्यं प्रजापतौ । तेनेदं प्रख्या­पि­त­मा­त्म­वि­द्या­गौ­र­वम् ॥

तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवा­चै­त­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मे­त्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥

तौ एवं तपस्विनौ शुद्धकल्मषौ योग्यौ उपलक्ष्य प्रजापतिरुवाच ह — य एषोऽक्षिणि पुरुषः निवृ­त्त­च­क्षु­र्भि­र्मृ­दि­त­क­षायैः दृश्यते योगि­भि­र्द्रष्टा, एष आत्मा­प­ह­त­पा­प्मा­दि­गुणः, यमवोचं पुरा अहं यद्वि­ज्ञा­ना­त्स­र्व­लो­क­का­मा­वाप्तिः एतदमृतं भूमाख्यम् अत एवाभयम् , अत एव ब्रह्म वृद्धतममिति । अथै­त­त्प्र­जा­प­ति­नो­क्तम् अक्षिणि पुरुषो दृश्यते इति वचः श्रुत्वा छायारूपं पुरुषं जगृहतुः । गृहीत्वा च दृढीकरणाय प्रजापतिं पृष्टवन्तौ — अथ योऽयं हे भगवः अप्सु परिख्यायते परि समन्तात् ज्ञायते, यश्चायमादर्शे आत्मनः प्रतिबिम्बाकारः परिख्यायते खङ्गादौ च, कतम एष एषां भगवद्भिरुक्तः, किं वा एक एव सर्वेष्विति । एवं पृष्टः प्रजापतिरुवाच — एष उ एव यश्चक्षुषि द्रष्टा मयोक्त इति । एतन्मनसि कृत्वा एषु सर्वेष्वन्तेषु मध्येषु परिख्यायत इति ह उवाच ॥

ननु कथं युक्तं शिष्य­यो­र्वि­प­री­त­ग्र­ह­ण­म­नु­ज्ञातुं प्रजापतेः विगतदोषस्य आचार्यस्य सतः ? सत्यमेवम् , नानुज्ञातम् । कथम् ? आत्म­न्य­ध्या­रो­पि­त­पा­ण्डि­त्य­म­ह­त्त्व­बो­द्धृत्वौ हि इन्द्रविरोचनौ, तथैव च प्रथितौ लोके ; तौ यदि प्रजापतिना ‘मूढौ युवां विपरीतग्राहिणौ’ इत्युक्तौ स्याताम् ; ततः तयोश्चित्ते दुःखं स्यात् ; तज्जनिताच्च चित्तावसादात् पुनः­प्र­श्न­श्र­व­ण­ग्र­ह­णा­व­धा­रणं प्रति उत्साहविघातः स्यात् ; अतो रक्षणीयौ शिष्याविति मन्यते प्रजापतिः । गृह्णीतां तावत् , तदु­द­श­रा­व­दृ­ष्टा­न्तेन अपनेष्यामीति च । ननु न युक्तम् एष उ एव इत्यनृतं वक्तुम् । न च अनृतमुक्तम् । कथम् ? आत्मनोक्तः अक्षिपुरुषः मनसि संनिहिततरः शिष्य­गृ­ही­ता­च्छा­या­त्मनः ; सर्वेषां चाभ्यन्तरः ‘सर्वान्तरः’(बृ. उ. ३ । ५ । १) इति श्रुतेः ; तमेवावोचत् एष उ एव इति ; अतो नानृतमुक्तं प्रजापतिना ॥

इति सप्त­म­ख­ण्ड­भा­ष्यम् ॥

अष्टमः खण्डः

तथा च तयो­र्वि­प­री­त­ग्र­ह­ण­नि­वृ­त्त्यर्थं हि आह —

उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होद­श­रा­वेऽ­वे­क्षा­ञ्च­क्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति ॥ १ ॥

उदशरावे उदकपूर्णे शरावादौ आत्मानमवेक्ष्य अनन्तरं यत् तत्र आत्मानं पश्यन्तौ न विजानीथः तन्मे मम प्रब्रूतम् आचक्षीयाथाम् — इत्युक्तौ तौ ह तथैव उदशरावे अवे­क्षा­ञ्च­क्राते अवेक्षणं चक्रतुः । तथा कृतवन्तौ तौ ह प्रजापतिरुवाच — किं पश्यथः इति । ननु तन्मे प्रब्रूतम् इत्युक्ताभ्याम् उदशरावे अवेक्षणं कृत्वा प्रजापतये न निवेदितम् — इदमावाभ्यां न विदितमिति, अनिवेदिते च अज्ञानहेतौ ह प्रजापतिरुवाच — किं पश्यथ इति, तत्र कोऽभिप्राय इति ; उच्यते — नैव तयोः इद­मा­व­यो­र­वि­दि­त­मि­त्या­शङ्का अभूत् , छाया­त्म­न्या­त्म­प्र­त्ययो निश्चित एव आसीत् । येन वक्ष्यति ‘तौ ह शान्तहृदयौ प्रवव्रजतुः’(छा. उ. ८ । ८ । ३) इति । न हि अनिश्चिते अभिप्रेतार्थे प्रशा­न्त­हृ­द­य­त्व­मु­प­प­द्यते । तेन नोचतुः इद­मा­वा­भ्या­म­वि­दि­त­मिति । विपरीतग्राहिणौ च शिष्यौ अनुपेक्षणीयौ इति स्वयमेव पप्रच्छ — किं पश्यथः इति ; विप­री­त­नि­श्च­या­प­न­याय च वक्ष्यति ‘साध्वलङ्कृतौ’(छा. उ. ८ । ८ । २) इत्येवमादि । तौ ह ऊचतुः — सर्वमेवेदम् आवां भगवः आत्मानं पश्यावः आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथैव आवां हे भगवः लोमनखादिमन्तौ स्वः, एवमेवेदं लोम­न­खा­दि­स­हि­त­मा­वयोः प्रति­रू­प­मु­द­श­रावे पश्याव इति ॥

तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वो­द­श­रा­वेऽ­वे­क्षे­था­मिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वो­द­श­रा­वेऽ­वे­क्षा­ञ्च­क्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥

तौ ह पुनः प्रजापतिरुवाच च्छाया­त्म­नि­श्च­या­प­न­याय — साध्वलङ्कृतौ यथा स्वगृहे सुवसनौ महा­र्ह­व­स्त्र­प­रि­धानौ परिष्कृतौ च्छिन्नलोमनखौ च भूत्वा उदशरावे पुनरीक्षेथामिति । इह च न आदिदेश — यदज्ञातं तन्मे प्रब्रूतम् इति । कथं पुनरनेन साध्वलङ्कारादि कृत्वा उदशरावे अवेक्षणेन तयो­श्छा­या­त्म­ग्र­होऽ­प­नीतः स्यात् ? साध्व­ल­ङ्का­र­सु­व­स­ना­दी­ना­मा­ग­न्तु­कानां छाया­क­र­त्व­मु­द­श­रावे यथा शरी­र­स­म्ब­द्धा­नाम् , एवं शरीरस्यापि च्छायाकरत्वं पूर्वं बभूवेति गम्यते ; शरीरैकदेशानां च लोमनखादीनां नित्यत्वेन अभि­प्रे­ता­ना­म­ख­ण्डि­तानां छायाकरत्वं पूर्वमासीत् ; छिन्नेषु च नैव लोमनखादिच्छाया दृश्यते ; अतः लोम­न­खा­दि­व­च्छ­री­र­स्या­प्या­ग­मा­पा­यित्वं सिद्धमिति उदशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्य अनात्मत्वं सिद्धम् ; उदशरावादौ छायाकरत्वात् , देह­स­म्ब­द्धा­ल­ङ्का­रा­दि­वत् । न केवलमेतावत् , एतेन याव­त्कि­ञ्चि­दा­त्मी­य­त्वा­भि­मतं सुख­दुः­ख­रा­ग­द्वे­ष­मो­हादि च कादाचित्कत्वात् नख­लो­मा­दि­व­द­ना­त्मेति प्रत्येतव्यम् । एव­म­शे­ष­मि­थ्या­ग्र­हा­प­न­य­नि­मित्ते साध्व­ल­ङ्का­रा­दि­दृ­ष्टान्ते प्रजापतिनोक्ते, श्रुत्वा तथा कृतवतोरपि च्छाया­त्म­वि­प­री­त­ग्रहो नापजगाम यस्मात् , तस्मात् स्वदोषेणैव केन­चि­त्प्र­ति­ब­द्ध­वि­वे­क­वि­ज्ञानौ इन्द्रविरोचनौ अभूतामिति गम्यते । तौ पूर्ववदेव दृढनिश्चयौ पप्रच्छ — किं पश्यथः इति ॥

तौ होच­तु­र्य­थै­वे­द­मावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परि­ष्कृ­ता­वि­त्येष आत्मेति होवा­चै­त­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥

तौ तथैव प्रतिपन्नौ, यथैवेदमिति पूर्ववत् , यथा साध्व­ल­ङ्का­रा­दि­वि­शिष्टौ आवां स्वः, एवमेवेमौ छायात्मानौ — इति सुतरां विपरीतनिश्चयौ बभूवतुः । यस्य आत्मनो लक्षणम् ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) इत्युक्त्वा पुन­स्त­द्वि­शे­ष­म­न्वि­ष्य­मा­णयोः ‘य एषोऽक्षिणि पुरुषो दृश्यते’(छा. उ. ८ । ७ । ४) इति साक्षादात्मनि निर्दिष्टे, तद्वि­प­री­त­ग्र­हा­प­न­याय उद­श­रा­व­म­सा­ध्व­ल­ङ्का­र­दृ­ष्टा­न्तेऽ­प्य­भि­हिते, आत्म­स्व­रू­प­बो­धा­द्वि­प­री­त­ग्रहो नापगतः । अतः स्वदोषेण केन­चि­त्प्र­ति­ब­द्ध­वि­वे­क­वि­ज्ञा­न­सा­म­र्थ्या­विति मत्वा यथाभिप्रेतमेव आत्मानं मनसि निधाय एष आत्मेति ह उवाच एत­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मेति प्रजापतिः पूर्ववत् । न तु तद­भि­प्रे­त­मा­त्मा­नम् । ‘य आत्मा’(छा. उ. ८ । ७ । १) इत्या­द्या­त्म­ल­क्ष­ण­श्र­व­णेन अक्षि­पु­रु­ष­श्रुत्या च उद­श­रा­वा­द्यु­प­पत्त्या च संस्कृतौ तावत् । मद्वचनं सर्वं पुनः पुनः स्मरतोः प्रति­ब­न्ध­क्ष­याच्च स्वयमेव आत्मविषये विवेको भविष्यतीति मन्वानः पुन­र्ब्र­ह्म­च­र्या­देशे च तयो­श्चि­त्त­दुः­खो­त्पत्तिं परिजिहीर्षन् कृता­र्थ­बु­द्धि­तया गच्छ­न्ता­व­प्यु­पे­क्षि­त­वा­न्प्र­जा­पतिः । तौ ह इन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुद्धी इत्यर्थः ; न तु शम एव ; शमश्चेत् तयोर्जातः विपरीतग्रहो विगतोऽभविष्यत् ; प्रवव्रजतुः गतवन्तौ ॥

तौ हान्वीक्ष्य प्रजा­प­ति­रु­वा­चा­नु­प­ल­भ्या­त्मा­न­म­न­नु­विद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरो­च­नोऽ­सु­रा­ञ्ज­गाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥

एवं तयोः गतयोः इन्द्रविरोचनयोः राज्ञोः भोगासक्तयोः यथोक्तविस्मरणं स्यात् इत्याशङ्क्य अप्रत्यक्षं प्रत्यक्षवचनेन च चित्तदुःखं परिजिहीर्षुः तौ दूरं गच्छन्तौ अन्वीक्ष्य य आत्मापहतपाप्मा इत्यादिवचनवत् एतदप्यनयोः श्रव­ण­गो­च­र­त्व­मे­ष्य­तीति मत्वा उवाच प्रजापतिः — अनुपलभ्य यथो­क्त­ल­क्ष­ण­मा­त्मा­नम् अननुविद्य स्वात्म­प्र­त्यक्षं च अकृत्वा विपरीतनिश्चयौ च भूत्वा इन्द्र­वि­रो­च­ना­वेतौ व्रजतः गच्छेयाताम् । अतः यतरे देवा वा असुरा वा किं विशेषितेन, एतदुपनिषदः आभ्यां या गृहीता आत्मविद्या सेयमुपनिषत् येषां देवानामसुराणां वा, त एतदुपनिषदः एवंविज्ञानाः एतन्निश्चयाः भवि­ष्य­न्ती­त्यर्थः । ते किम् ? पराभविष्यन्ति श्रेयो­मा­र्गा­त्प­रा­भूता बहिर्भूता विनष्टा भवि­ष्य­न्ती­त्यर्थः । स्वगृहं गच्छतोः सुरासुरराजयोः योऽसुरराजः, स ह शान्तहृदय एव सन् विरोचनः असुराञ्जगाम । गत्वा च तेभ्योऽसुरेभ्यः शरीरात्मबुद्धिः योपनिषत् तामेतामुपनिषदं प्रोवाच उक्तवान् — देहमात्रमेव आत्मा पित्रोक्त इति । तस्मादात्मैव देहः इह लोके महय्यः पूजनीयः, तथा परिचर्यः परिचर्यणीयः, तथा आत्मानमेव इह लोके देहं महयन् परिचरंश्च उभौ लोकौ अवाप्नोति इमं च अमुं च । इहलोकपरलोकयोरेव सर्वे लोकाः कामाश्च अन्तर्भवन्तीति राज्ञोऽभिप्रायः ॥

तस्मा­द­प्य­द्ये­हा­द­दा­न­म­श्र­द्द­धा­न­म­य­ज­मा­न­मा­हु­रा­सुरो बतेत्यसुराणाꣳ ह्येषो­प­नि­ष­त्प्रे­तस्य शरीरं भिक्षया वस­ने­ना­ल­ङ्का­रे­णेति सꣳस्कुर्व­न्त्ये­तेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥

तस्मात् तत्सम्प्रदायः अद्याप्यनुवर्तत इति इह लोके अददानं दानमकुर्वाणम् अविभागशीलम् अश्रद्दधानं सत्कार्येषु श्रद्धारहितं यथा­श­क्त्य­य­ज­मा­नम् अयजनस्वभावम् आहुः आसुरः खल्वयं यत एवंस्वभावः बत इति खिद्यमाना आहुः शिष्टाः । असुराणां हि यस्मात् अश्र­द्द­धा­न­ता­दि­ल­क्ष­णै­षो­प­नि­षत् । तयोपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षया गन्ध­मा­ल्या­न्ना­दि­ल­क्ष­णया वसनेन वस्त्रा­दि­ना­च्छा­द­ना­दि­प्र­का­रे­णा­ल­ङ्का­रेण ध्वज­प­ता­का­दि­क­र­णे­ने­त्येवं संस्कुर्वन्ति । एतेन कुणपसंस्कारेण अमुं प्रेत्य प्रतिपत्तव्यं लोकं जेष्यन्तो मन्यन्ते ॥

इति अष्ट­म­ख­ण्ड­भा­ष्यम् ॥

नवमः खण्डः

अथ हेन्द्रोऽ­प्रा­प्यैव देवानेतद्भयं ददर्श यथैव खल्व­य­म­स्मि­ञ्छ­रीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एव­मे­वा­य­म­स्मि­न्न­न्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥

अथ ह किल इन्द्रः अप्राप्यैव देवान् दैव्या अक्रौ­र्या­दि­स­म्पदा युक्तत्वात् गुरोर्वचनं पुनः पुनः स्मरन्नेव गच्छन् एतद्वक्ष्यमाणं भयं स्वात्म­ग्र­ह­ण­नि­मित्तं ददर्श दृष्टवान् । उद­श­रा­व­दृ­ष्टा­न्तेन प्रजापतिना यदर्थो न्याय उक्तः, तदेकदेशो मघवतः प्रत्यभात् बुद्धौ, येन च्छायत्मग्रहणे दोषं ददर्श । कथम् ? यथैव खलु अयमस्मिञ्छरीरे साध्वलङ्कृते छायात्मापि साध्वलङ्कृतो भवति, सुवसने च सुवसनः परिष्कृते परिष्कृतः यथा नख­लो­मा­दि­दे­हा­व­य­वा­प­गमे छायात्मापि परिष्कृतो भवति नखलोमादिरहितो भवति, एवमेवायं छायात्मापि अस्मिञ्छरीरे नख­लो­मा­दि­भि­र्दे­हा­व­य­व­त्वस्य तुल्यत्वात् अन्धे चक्षुषोऽपगमे अन्धो भवति, स्रामे स्रामः । स्रामः किल एकनेत्रः तस्यान्धत्वेन गतत्वात् । चक्षुर्नासिका वा यस्य सदा स्रवति स स्रामः । परिवृक्णः छिन्नहस्तः छिन्नपादो वा । स्रामे परिवृक्णे वा देहे छायात्मापि तथा भवति । तथा अस्य देहस्य नाशमनु एष नश्यति । अतः नाहमत्र अस्मिं­श्छा­या­त्म­द­र्शने देहात्मदर्शने वा भोग्यं फलं पश्यामीति ॥

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघ­व­न्य­च्छा­न्त­हृ­दयः प्राव्राजीः सार्धं विरोचनेन किमि­च्छ­न्पु­न­रा­गम इति स होवाच यथैव खल्वयं भग­वोऽ­स्मि­ञ्छ­रीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एव­मे­वा­य­म­स्मि­न्न­न्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥

एवं दोषं देह­च्छा­या­त्म­द­र्शने अध्यवस्य स समित्पाणिः ब्रह्मचर्यं वस्तुं पुनरेयाय । तं ह प्रजापतिरुवाच — मघवन् यत् शान्तहृदयः प्राव्राजीः प्रगतवानसि विरोचनेन सार्धं किमि­च्छ­न्पु­न­रा­गम इति । विजानन्नपि पुनः पप्रच्छ इन्द्रा­भि­प्रा­या­भि­व्य­क्तये — ‘यद्वेत्थ तेन मोपसीद’(छा. उ. ७ । १ । १) इति यद्वत् । तथा च स्वाभिप्रायं प्रकटमकरोत् — यथैव खल्वयमित्यादि ; एवमेवेति च अन्वमोदत प्रजापतिः ॥

ननु तुल्येऽ­क्षि­पु­रु­ष­श्र­वणे, देहच्छायाम् इन्द्रोऽ­ग्र­ही­दा­त्मेति देहमेव तु विरोचनः, तत्किंनिमित्तम् ? तत्र मन्यते । यथा इन्द्रस्य उद­श­रा­वा­दि­प्र­जा­प­ति­व­चनं स्मरतो देवा­न­प्रा­प्त­स्यैव आचा­र्यो­क्त­बुद्ध्या छायात्मग्रहणं तत्र दोषदर्शनं च अभूत् , न तथा विरोचनस्य ; किं तर्हि, देहे एव आत्मदर्शनम् ; नापि तत्र दोषदर्शनं बभूव । तद्वदेव विद्या­ग्र­ह­ण­सा­म­र्थ्य­प्र­ति­ब­न्ध­दो­षा­ल्प­त्व­ब­हु­त्वा­पे­क्षम् इन्द्र­वि­रो­च­न­यो­श्छा­या­त्म­दे­ह­यो­र्ग्र­ह­णम् । इन्द्रोऽ­ल्प­दो­ष­त्वात् ‘दृश्यते’ इति श्रुत्यर्थमेव श्रद्दधानतया जग्राह ; इतरः छायानिमित्तं देहं हित्वा श्रुत्यर्थं लक्षणया जग्राह — प्रजा­प­ति­नो­क्तोऽ­य­मिति, दोषभूयस्त्वात् । यथा किल नीला­नी­ल­यो­रा­दर्शे दृश्य­मा­न­यो­र्वा­स­सो­र्य­न्नीलं तन्महार्हमिति च्छायानिमित्तं वास एवोच्यते न च्छया — तद्वदिति विरोचनाभिप्रायः । स्वचि­त्त­गु­ण­दो­ष­व­शा­देव हि शब्दार्थावधारणं तुल्येऽपि श्रवणे ख्यापितं ‘दाम्यत दत्त दयध्वम्’ इति दका­र­मा­त्र­श्र­व­णा­च्छ्रु­त्य­न्तरे । निमित्तान्यपि तदनुगुणान्येव सहकारीणि भवन्ति ॥

एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच ॥ ३ ॥

एवमेवैष मघवन् , सम्यक्त्वया अवगतम् , न च्छाया आत्मा — इत्युवाच प्रजापतिः । यो मयोक्त आत्मा प्रकृतः, एतमेवात्मानं तु ते भूयः पूर्वं व्याख्यातमपि अनु­व्या­ख्या­स्यामि । यस्मा­त्स­कृ­द्व्या­ख्यातं दोष­र­हि­ता­ना­म­व­धा­र­ण­वि­षयं प्राप्तमपि नाग्रहीः, अतः केनचिद्दोषेण प्रति­ब­द्ध­ग्र­ह­ण­सा­म­र्थ्य­स्त्वम् । अतस्तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि — इत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै ह उवाच ॥

इति नवमखण्डभाष्यम् ॥

दशमः खण्डः

य एष स्वप्ने मही­य­मा­न­श्च­र­त्येष आत्मेति होवा­चै­त­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदꣳ शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १ ॥

य आत्मा­प­ह­त­पा­प्मा­दि­ल­क्षणः ‘य एषोऽक्षिणि’(छा. उ. ८ । ७ । ४) इत्यादिना व्याख्यात एष सः । कोऽसौ ? यः स्वप्ने महीयमानः स्त्र्यादिभिः पूज्यमानश्चरति अने­क­वि­धा­न्स्व­प्न­भो­गा­न­नु­भ­व­ती­त्यर्थः । एष आत्मेति ह उवाच इत्यादि समानम् । स ह एवमुक्तः इन्द्रः शान्तहृदयः प्रवव्राज । स ह अप्राप्यैव देवान् पूर्व­व­द­स्मि­न्न­प्या­त्मनि भयं ददर्श । कथम् ? तदिदं शरीरं यद्यप्यन्धं भवति, स्वप्नात्मा यः अनन्धः स भवति । यदि स्राममिदं शरीरम् , अस्रामश्च स भवति । नैवैष स्वप्नात्मा अस्य देहस्य दोषेण दुष्यति ॥

न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छा­द­य­न्ती­वा­प्रि­य­वे­त्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति ॥ २ ॥

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघ­व­न्य­च्छा­न्त­हृ­दयः प्राव्राजीः किमि­च्छ­न्पु­न­रा­गम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ३ ॥

न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छा­द­य­न्ती­वा­प्रि­य­वे­त्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्या­मी­त्ये­व­मे­वैष मघवन्निति होवाचैतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच ॥ ४ ॥

नापि अस्य वधेन स हन्यते छायात्मवत् । न च अस्य स्राम्येण स्रामः स्वप्नात्मा भवति । यदध्यायादौ आग­म­मा­त्रे­णो­प­न्य­स्तम् — ‘नास्य जरयैतज्जीर्यति’(छा. उ. ८ । १ । ५) इत्यादि, तदिह न्याये­नो­प­पा­द­यि­तु­मु­प­न्य­स्तम् । न तावदयं छाया­त्म­व­द्दे­ह­दो­ष­युक्तः, किं तु घ्नन्ति त्वेव एनम् । एव - शब्दः इवार्थे । घ्नन्तीवैनं केचनेति द्रष्टव्यम् , न तु घ्नन्त्येवेति, उत्तरेषु सर्वे­ष्वि­व­श­ब्द­द­र्श­नात् । नास्य वधेन हन्यत इति विशेषणात् घ्नन्ति त्वेवेति चेत् , नैवम् । प्रजापतिं प्रमाणीकुर्वतः अनृ­त­वा­दि­त्वा­पा­द­ना­नु­प­पत्तेः । ‘एतदमृतम्’ इत्ये­त­त्प्र­जा­प­ति­व­चनं कथं मृषा कुर्यादिन्द्रः तं प्रमाणीकुर्वन् । ननु च्छायापुरुषे प्रजापतिनोक्ते ‘अस्य शरीरस्य नाशमन्वेष नश्यति’(छा. उ. ८ । ९ । २) इति दोषमभ्यदधात् , तथेहापि स्यात् । नैवम् । कस्मात् ? ‘य एषोऽक्षिणि पुरुषो दृश्यते’(छा. उ. ८ । ७ । ४) इति न च्छायात्मा प्रजापतिनोक्त इति मन्यते मघवान् । कथम् ? अप­ह­त­पा­प्मा­दि­ल­क्षणे पृष्टे यदि च्छायात्मा प्रजापतिनोक्त इति मन्यते, तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समि­त्पा­णि­र्ग­च्छेत् ? जगाम च । तस्मात् न च्छायात्मा प्रजापतिनोक्त इति मन्यते । तथा च व्याख्यातम् — द्रष्टा अक्षिणि दृश्यत इति । तथा विच्छादयन्तीव विद्रावयन्तीव, तथा च पुत्रा­दि­म­र­ण­नि­मि­त्त­म­प्रि­य­वे­त्तेव भवति । अपि च स्वयमपि रोदितीव । ननु अप्रियं वेत्त्येव, कथं वेत्तेवेति, उच्यते — न, अमृ­ता­भ­य­त्व­व­च­ना­नु­प­पत्तेः, ‘ध्यायतीव’(बृ. उ. ४ । ३ । ७) इति च श्रुत्यन्तरात् । ननु प्रत्यक्षविरोध इति चेत् , न, शरी­रा­त्म­त्व­प्र­त्य­क्ष­व­द्भ्रा­न्ति­स­म्भ­वात् । तिष्ठतु ताव­द­प्रि­य­वे­त्तेव न वेति । नाहमत्र भोग्यं पश्यामि । स्वप्ना­त्म­ज्ञा­नेऽपि इष्टं फलं नोपलभे इत्यभिप्रायः । एवमेवैषः तवाभिप्रायेणेति वाक्यशेषः, आत्म­नोऽ­मृ­ता­भ­य­गु­ण­व­त्त्व­स्या­भि­प्रे­त­त्वात् । द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति ; तस्मात्पूर्ववत् अस्य अद्यापि प्रति­ब­न्ध­का­र­ण­म­स्तीति मन्वानः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् इत्यादिदेश प्रजापतिः । तथा उषितवते क्षपितकल्मषाय आह ॥

इति दशमखण्डभाष्यम् ॥

एकादशः खण्डः

तद्य­त्रै­त­त्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवा­चै­त­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवꣳ संप्रत्यात्मानं जाना­त्य­य­म­ह­म­स्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघ­व­न्य­च्छा­न्त­हृ­दयः प्राव्राजीः किमि­च्छ­न्पु­न­रा­गम इति स होवाच नाह खल्वयं भगव एवꣳ संप्रत्यात्मानं जाना­त्य­य­म­ह­म­स्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥

पूर्ववदेतं त्वेव त इत्याद्युक्त्वा तद्य­त्रै­त­त्सुप्त इत्यादि व्याख्यातं वाक्यम् । अक्षिणि यो द्रष्टा स्वप्ने च महीयमानश्चरति स एषः सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति, एष आत्मेति ह उवाच एत­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मेति स्वाभिप्रेतमेव । मघवान् तत्रापि दोषं ददर्श । कथम् ? नाह नैव सुषु­प्त­स्थोऽ­प्यात्मा खल्वयं सम्प्रति सम्यगिदानीं च आत्मानं जानाति नैवं जानाति । कथम् ? अयमहमस्मीति नो एवेमानि भूतानि चेति । यथा

जाग्रति स्वप्ने वा । अतो विनाशमेव विनाशमिवेति पूर्व­व­द्द्र­ष्ट­व्यम् । अपीतः अपिगतो भवति, विनष्ट इव भवतीत्यभिप्रायः । ज्ञाने हि सति ज्ञातुः सद्भा­वोऽ­व­ग­म्यते, न असति ज्ञाने । न च सुषुप्तस्य ज्ञानं दृश्यते ; अतो विनष्ट इवेत्यभिप्रायः । न तु विनाशमेव आत्मनो मन्यते अमृताभयवचनस्य प्रामा­ण्य­मि­च्छन् ॥

एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि नो एवा­न्य­त्रै­त­स्मा­द्व­सा­प­राणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतꣳ सम्पे­दु­रे­त­त्त­द्य­दा­हु­रे­क­शतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ३ ॥

पूर्व­व­दे­व­मे­वे­त्युक्त्वा आह — यो मया उक्तः त्रिभिः पर्यायैः तमेवैतं नो एवा­न्य­त्रै­त­स्मा­दा­त्मनः अन्यं कञ्चन, किं तर्हि, एतमेव व्याख्यास्यामि । स्वल्पस्तु दोष­स्त­वा­व­शिष्टः, तत्क्षपणाय वस अपराणि अन्यानि पञ्च वर्षाणि — इत्युक्तः सः तथा चकार । तस्मै मृदि­त­क­षा­या­दि­दो­षाय स्थान­त्र­य­दो­ष­स­म्ब­न्ध­र­हि­त­मा­त्मनः स्वरूपम् अप­ह­त­पा­प्म­त्वा­दि­ल­क्षणं मघवते तस्मै ह उवाच । तान्येकशतं वर्षाणि सम्पेदुः सम्पन्नानि बभूवुः । यदाहुर्लोके शिष्टाः — एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास इति । तदे­त­द्द्वा­त्रिं­श­त­मि­त्या­दिना दर्शि­त­मि­त्या­ख्या­यि­कातः अपसृत्य श्रुत्या उच्यते । एवं किल तदिन्द्रत्वादपि गुरुतरम् इन्द्रेणापि महता यत्नेन एको­त्त­र­व­र्ष­श­त­कृ­ता­या­सेन प्राप्त­मा­त्म­ज्ञा­नम् । अतो नातः परं पुरु­षा­र्था­न्त­र­म­स्ती­त्या­त्म­ज्ञानं स्तौति ॥

इति एका­द­श­ख­ण्ड­भा­ष्यम् ॥

द्वादशः खण्डः

मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना तद­स्या­मृ­त­स्या­श­री­र­स्या­त्म­नोऽ­धि­ष्ठा­न­मात्तो वै सशरीरः प्रिया­प्रि­याभ्यां न वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­र­स्त्य­श­रीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥

मघवन् मर्त्यं वै मरणधर्मीदं शरीरम् । यन्म­न्य­सेऽ­क्ष्या­धा­रा­दि­ल­क्षणः सम्प्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति, शृणु तत्र कारणम् — यदिदं शरीरं वै यत्पश्यसि तदेतत् मर्त्यं विनाशि । तच्च आत्तं मृत्युना ग्रस्तं सततमेव । कदाचिदेव म्रियत इति मर्त्य­मि­त्युक्ते न तथा सन्त्रासो भवति, यथा ग्रस्तमेव सदा व्याप्तमेव मृत्यु­ने­त्युक्ते — इति वैराग्यार्थं विशेष इत्युच्यते — आत्तं मृत्युनेति । कथं नाम देहाभिमानतो विरक्तः सन् निवर्तत इति । शरीरमित्यत्र सहे­न्द्रि­य­म­नो­भि­रु­च्यते । तच्छरीरमस्य सम्प्रसादस्य त्रिस्थानतया गम्यमानस्य अमृतस्य मर­णा­दि­दे­हे­न्द्रि­य­म­नो­ध­र्म­व­र्जि­त­स्ये­त्ये­तत् ; अमृ­त­स्ये­त्य­ने­नैव अशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत् साव­य­व­त्व­मू­र्ति­मत्त्वे मा भूतामिति ; आत्मनो भोगाधिष्ठानम् ; आत्मनो वा सत ईक्षितुः तेजो­ब­न्ना­दि­क्र­मेण उत्प­न्न­म­धि­ष्ठा­नम् ; जीव रूपेण प्रविश्य सदे­वा­धि­ति­ष्ठ­त्य­स्मि­न्निति वा अधिष्ठानम् । यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्मा­ध­र्म­ज­नि­त­त्वा­त्प्रि­य­व­द­धि­ष्ठा­नम् , तदधिष्ठितः तद्वान् सशरीरो भवति । अशरीरस्वभावस्य आत्मनः तदेवाहं शरीरं शरीरमेव च अहम् — इत्य­वि­वे­का­दा­त्म­भावः सशरीरत्वम् ; अत एव सशरीरः सन् आत्तः ग्रस्तः प्रिया­प्रि­या­भ्याम् । प्रसिद्धमेतत् । तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोः बाह्य­वि­ष­य­सं­यो­ग­वि­यो­ग­नि­मि­त्तयोः बाह्य­वि­ष­य­सं­यो­ग­वि­योगौ ममेति मन्यमानस्य अपहतिः विनाशः उच्छेदः सन्त­ति­रू­प­यो­र्ना­स्तीति । तं पुन­र्दे­हा­भि­मा­ना­द­श­री­र­स्व­रू­प­वि­ज्ञा­नेन निव­र्ति­ता­वि­वे­क­ज्ञा­न­म­श­रीरं सन्तं प्रियाप्रिये न स्पृशतः । स्पृशिः प्रत्येकं सम्बध्यत इति प्रियं न स्पृशति अप्रियं न स्पृशतीति वाक्यद्वयं भवति । ‘न म्लेच्छा­शु­च्य­धा­र्मिकैः सह सम्भाषेत’(गौ. ध. १ । ९ । १७) इति यद्वत् । धर्माधर्मकार्ये हि ते ; अशरीरता तु स्वरूपमिति तत्र धर्मा­ध­र्म­यो­र­स­म्भ­वात् तत्कार्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः ॥

ननु यदि प्रियमप्यशरीरं न स्पृशतीति, यन्मघवतोक्तं सुषुप्तस्थो विनाशमेवापीतो भवतीति, तदे­वे­हा­प्या­प­न्नम् । नैष दोषः, धर्मा­ध­र्म­का­र्ययोः शरीरसम्बन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् — अशरीरं न प्रियाप्रिये स्पृशत इति । आगमापायिनोर्हि स्पर्शशब्दो दृष्टः — यथा शीतस्पर्श उष्णस्पर्श इति, न त्वग्ने­रु­ष्ण­प्र­का­शयोः स्वभा­व­भू­त­यो­र­ग्निना स्पर्श इति भवति ; तथा अग्नेः सवितुर्वा उष्णप्रकाशवत् स्वरूपभूतस्य आनन्दस्य प्रियस्यापि नेह प्रतिषेधः, ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २८) ‘आनन्दो ब्रह्म’(तै. उ. ३ । ६ । १) इत्या­दि­श्रु­तिभ्यः । इहापि भूमैव सुख­मि­त्यु­क्त­त्वात् । ननु भूम्नः प्रियस्य एकत्वे असंवेद्यत्वात् स्वरूपेणैव वा नित्य­सं­वे­द्य­त्वात् निर्विशेषतेति न इन्द्रस्य तदिष्टम् , ‘नाह खल्वयं संप्रत्यात्मानं जाना­त्य­य­म­ह­म­स्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि’(छा. उ. ७ । ११ । २) इत्युक्तत्वात् । तद्धि इन्द्रस्येष्टम् — यद्भूतानि च आत्मानं च जानाति, न च अप्रियं किञ्चिद्वेत्ति, स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् येन ज्ञानेन । सत्य­मे­त­दि­ष्ट­मि­न्द्रस्य — इमानि भूतानि मत्तोऽन्यानि, लोकाः कामाश्च सर्वे मत्तो अन्ये, अहमेषां स्वामीति । न त्वेतदिन्द्रस्य हितम् । हितं च इन्द्रस्य प्रजापतिना वक्तव्यम् । व्योम­व­द­श­री­रा­त्म­तया सर्व­भू­त­लो­क­का­मा­त्म­त्वो­प­ग­मेन या प्राप्तिः, तद्धितमिन्द्राय वक्तव्यमिति प्रजापतिना अभिप्रेतम् । न तु राज्ञो राज्या­प्ति­व­द­न्य­त्वेन । तत्रैवं सति कं केन विजा­नी­या­दा­त्मै­कत्वे इमानि भूता­न्य­य­म­ह­म­स्मीति । नन्वस्मिन्पक्षे ‘स्त्रीभिर्वा यानैर्वा’(छा. उ. ८ । १२ । ३) ‘स यदि पितृलोककामः’(छा. उ. ८ । २ । १) ‘स एकधा भवति’(छा. उ. ७ । २६ । २) इत्या­द्यै­श्व­र्य­श्रु­त­योऽ­नु­प­पन्नाः ; न, सर्वात्मनः सर्व­फ­ल­स­म्ब­न्धो­प­प­त्ते­र­वि­रो­धात् — मृद इव सर्व­घ­ट­क­र­क­कु­ण्डा­द्याप्तिः । ननु सर्वात्मत्वे दुःखसम्बन्धोऽपि स्यादिति चेत् , न, दुःख­स्या­प्या­त्म­त्वो­प­ग­मा­द­वि­रोधः । आत्म­न्य­वि­द्या­क­ल्प­ना­नि­मि­त्तानि दुःखानि — रज्ज्वामिव सर्पा­दि­क­ल्प­ना­नि­मि­त्तानि । सा च अविद्या अश­री­रा­त्मै­क­त्व­स्व­रू­प­द­र्श­नेन दुःखनिमित्ता उच्छिन्नेति दुःख­स­म्ब­न्धा­शङ्का न सम्भवति । शुद्ध­स­त्त्व­स­ङ्क­ल्प­नि­मि­त्तानां तु कामानाम् ईश्व­र­दे­ह­स­म्बन्धः सर्वभूतेषु मानसानाम् । पर एव सर्व­स­त्त्वो­पा­धि­द्वा­रेण भोक्तेति सर्वा­वि­द्या­कृ­त­सं­व्य­व­हा­राणां पर एव आत्मा आस्पदं नान्योऽस्तीति वेदा­न्त­सि­द्धान्तः ॥

‘य एषोऽक्षिणि पुरुषो दृश्यते’ इति च्छायापुरुष एव प्रजापतिना उक्तः, स्वप्न­सु­षु­प्त­योश्च अन्य एव, न परोऽ­प­ह­त­पा­प्म­त्वा­दि­ल­क्षणः, विरोधात् इति केचिन्मन्यन्ते । छायाद्यात्मनां च उपदेशे प्रयोजनमाचक्षते । आदावेव उच्यमाने किल दुर्वि­ज्ञे­य­त्वा­त्प­रस्य आत्मनः अत्य­न्त­बा­ह्य­वि­ष­या­स­क्त­चे­तसः अत्य­न्त­सू­क्ष्म­व­स्तु­श्र­वणे व्यामोहो मा भूदिति । यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुः वृक्षं कञ्चि­त्प्र­त्य­क्ष­मादौ दर्शयति — पश्य अमुमेष चन्द्र इति, ततोऽन्यं ततोऽप्यन्यं गिरिमूर्धानं च चन्द्रसमीपस्थम् — एष चन्द्र इति, ततोऽसौ चन्द्रं पश्यति, एवमेतत् ‘य एषोऽक्षिणि’ इत्याद्युक्तं प्रजापतिना त्रिभिः पर्यायैः, न पर इति । चतुर्थे तु पर्याये देहा­न्म­र्त्या­त्स­मु­त्थाय अशरीरतामापन्नो ज्योतिःस्वरूपम् । यस्मि­न्नु­त्त­म­पु­रुषे स्त्रया­दि­भि­र्ज­क्ष­त्क्री­डन् रममाणो भवति, स उत्तमः पुरुषः पर उक्त इति च आहुः । सत्यम् , रमणीया तावदियं व्याख्या श्रोतुम् । न तु अर्थोऽस्य ग्रन्थस्य एवं सम्भवति । कथम् ? ‘अक्षिणि पुरुषो दृश्यते’ इत्युपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयो­स्त­द्वि­प­री­त­ग्र­हणं मत्वा तदपनयाय उदशरावोपन्यासः ‘किं पश्यथः’(छा. उ. ८ । ८ । १) इति च प्रश्नः साध्व­ल­ङ्का­रो­प­दे­शश्च अनर्थकः स्यात् , यदि छायात्मैव प्रजापतिना ‘अक्षिणि दृश्यते’ इत्युपदिष्टः । किञ्च यदि स्वयमुपदिष्ट इति ग्रह­ण­स्या­प्य­प­न­य­न­का­रणं वक्तव्यं स्यात् । स्वप्न­सु­षु­प्ता­त्म­ग्र­ह­ण­यो­रपि तदपनयकारणं च स्वयं ब्रूयात् । न च उक्तम् । तेन मन्यामहे न अक्षिणि च्छायात्मा प्रजापतिना उपदिष्टः । किं चान्यत् , अक्षिणि द्रष्टा चेत् ‘दृश्यते’ इत्युपदिष्टः स्यात् , तत इदं युक्तम् । ‘एतं त्वेव ते’ इत्युक्त्वा स्वप्नेऽपि द्रष्टु­रे­वो­प­देशः । स्वप्ने न द्रष्टोपदिष्ट इति चेत् , न, ‘अपि रोदितीव’ ‘अप्रियवेत्तेव’ इत्युपदेशात् । न च द्रष्टुरन्यः कश्चित्स्वप्ने महीयमानश्चरति । ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’(बृ. उ. ४ । ३ । ९) इति न्यायतः श्रुत्यन्तरे सिद्धत्वात् । यद्यपि स्वप्ने सधीर्भवति, तथापि न धीः स्वप्न­भो­गो­प­लब्धिं प्रति करणत्वं भजते । किं तर्हि, पट­चि­त्र­व­ज्जा­ग्र­द्वा­स­ना­श्रया दृश्यैव धीर्भवतीति न द्रष्टुः स्वय­ञ्ज्यो­ति­ष्ट्व­बाधः स्यात् । किञ्चान्यत् , जाग्र­त्स्व­प्न­यो­र्भू­तानि च आत्मानं च जानाति — इमानि भूता­न्य­य­म­ह­म­स्मीति । प्राप्तौ सत्यां प्रतिषेधो युक्तः स्यात् — नाह खल्वयमित्यादि । तथा चेतनस्यैव अवि­द्या­नि­मि­त्तयोः सशरीरत्वे सति प्रिया­प्रि­य­यो­र­प­ह­ति­र्ना­स्ती­त्युक्त्वा तस्यैवाशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो युक्तः ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा. उ. ८ । १२ । १) इति । एकश्चात्मा स्वप्न­बु­द्वा­न्त­यो­र्म­हा­म­त्स्य­व­द­सङ्गः सञ्चरतीति श्रुत्यन्तरे सिद्धम् । यच्चोक्तं सम्प्रसादः शरीरात्समुत्थाय यस्मि­न्‌स्त्र्या­दिभिः रममाणो भवति सोऽन्यः सम्प्र­सा­दा­द­धि­क­र­ण­नि­र्दिष्ट उत्तमः पुरुष इति, तदप्यसत् । चतुर्थेऽपि पर्याये ‘एतं त्वेव ते’ इति वचनात् । यदि ततोऽ­न्योऽ­भि­प्रेतः स्यात् , पूर्ववत् ‘एतं त्वेव ते’ इति न ब्रूयान्मृषा प्रजापतिः । किञ्चान्यत् , तेजोबन्नादीनां स्रष्टुः सतः स्ववि­का­र­दे­ह­शुङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुनः तत्त्व­म­सी­त्यु­प­देशः मृषा प्रसज्येत । तस्मिंस्त्वं स्त्र्यादिभिः रन्ता भविष्यसीति युक्त उपदेशोऽभविष्यत् यदि सम्प्रसादादन्य उत्तमः पुरुषो भवेत् । तथा भूम्नि ‘अहमेव’(छा. उ. ७ । २५ । २) इत्यादिश्य ‘आत्मैवेदं सर्वम्’ इति नोपसमहरिष्यत् , यदि भूमा जीवा­द­न्योऽ­भ­वि­ष्यत् , ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्या­दि­श्रु­त्य­न्त­राच्च । सर्वश्रुतिषु च पर­स्मि­न्ना­त्म­श­ब्द­प्र­योगो नाभविष्यत् प्रत्यगात्मा चेत्स­र्व­ज­न्तूनां पर आत्मा न भवेत् । तस्मादेक एव आत्मा प्रकरणी सिद्धः ॥

न च आत्मनः संसारित्वम् , अवि­द्या­ध्य­स्त­त्वा­दा­त्मनि संसारस्य । न हि रज्जु­शु­क्ति­का­ग­ग­ना­दिषु सर्परजतमलादीनि मिथ्या­ज्ञा­ना­ध्य­स्तानि तेषां भवन्तीति । एतेन सशरीरस्य प्रिया­प्रि­य­यो­र­प­ह­ति­र्ना­स्तीति व्याख्यातम् । यच्च स्थित­म­प्रि­य­वे­त्ते­वेति नाप्रि­य­वे­त्तै­वेति सिद्धम् । एवं च सति सर्वपर्यायेषु ‘एत­द­मृ­त­म­भ­य­मे­त­द्ब्रह्म’ इति प्रजापतेर्वचनम् , यदि वा प्रजा­प­ति­च्छ­द्म­रू­पायाः श्रुतेर्वचनम् , सत्यमेव भवेत् । न च तत्कु­त­र्क­बुद्ध्या मृषा कर्तुं युक्तम् , ततो गुरुतरस्य प्रमा­णा­न्त­र­स्या­नु­प­पत्तेः । ननु प्रत्यक्षं दुःखा­द्य­प्रि­य­वे­त्तृ­त्व­म­व्य­भि­चा­र्य­नु­भू­यत इति चेत् , न, जरादिरहितो जीर्णोऽहं जातोऽ­ह­मा­यु­ष्मा­न्गौरः कृष्णो मृतः — इत्या­दि­प्र­त्य­क्षा­नु­भ­व­व­त्त­दु­प­पत्तेः । सर्व­म­प्ये­त­त्स­त्य­मिति चेत् , अस्त्येवैतदेवं दुरवगमम् , येन देव­रा­जोऽ­प्यु­द­श­रा­वा­दि­द­र्शि­ता­वि­ना­श­यु­क्ति­रपि मुमोहैवात्र ‘विनाशमेवापीतो भवति’ इति । तथा विरोचनो महाप्राज्ञः प्राजापत्योऽपि देह­मा­त्रा­त्म­द­र्शनो बभूव । तथा इन्द्रस्य आत्म­वि­ना­श­भ­य­सा­गरे एव वैनाशिका न्यमज्जन् । तथा साङ्ख्या द्रष्टारं देहा­दि­व्य­ति­रि­क्त­म­व­ग­म्यापि त्यक्ता­ग­म­प्र­मा­ण­त्वात् मृत्युविषये एव अन्यत्वदर्शने तस्थुः । तथा अन्ये काणादादिदर्शनाः कषायरक्तमिव क्षारा­दि­भि­र्वस्त्रं नव­भि­रा­त्म­गु­णै­र्यु­क्त­मा­त्म­द्रव्यं विशोधयितुं प्रवृत्ताः । तथा अन्ये कर्मिणो बाह्य­वि­ष­या­प­हृ­त­चे­तसः वेदप्रमाणा अपि पर­मा­र्थ­स­त्य­मा­त्मै­कत्वं सविनाशमिव इन्द्र­व­न्म­न्य­माना घटीयन्‍त्रवत् आरो­हा­व­रो­ह­प्र­का­रै­र­निशं बम्भ्रमन्ति ; किमन्ये क्षुद्रजन्तवो विवेकहीनाः स्वभावत एव बहि­र्वि­ष­या­प­हृ­त­चे­तसः । तस्मादिदं त्यक्त­स­र्व­बा­ह्यै­षणैः अनन्यशरणैः पर­म­हं­स­प­रि­व्रा­जकैः अत्या­श्र­मि­भि­र्वे­दा­न्त­वि­ज्ञा­न­प­रै­रेव वेदनीयं पूज्यतमैः प्राजापत्यं च इमं सम्प्र­दा­य­म­नु­स­रद्भिः उपनिबद्धं प्रकरणचतुष्टयेन । तथा अनुशासति अद्यापि ‘त एव नान्ये’ इति ॥

अशरीरो वायुरभ्रं विद्यु­त्स्त­न­यि­त्नु­र­श­री­रा­ण्ये­तानि तद्य­थै­ता­न्य­मु­ष्मा­दा­का­शा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यन्ते ॥ २ ॥

तत्र अशरीरस्य सम्प्रसादस्य अविद्यया शरीरेणाविशेषतां सशरीरतामेव सम्प्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथा अभिनिष्पत्तिः, तथा वक्तव्येति दृष्टान्त उच्यते — अशरीरो वायुः अविद्यमानं शिरः­पा­ण्या­दि­म­च्छ­री­र­म­स्ये­त्य­श­रीरः । किं च अभ्रं विद्यु­त्स्त­न­यि­त्नु­रि­त्ये­तानि च अशरीराणि । तत् तत्रैवं सति वर्षा­दि­प्र­यो­ज­ना­व­साने यथा, अमुष्मादिति भूमिष्ठा श्रुतिः द्युलो­क­स­म्ब­न्धि­न­मा­का­श­देशं व्यपदिशति, एतानि यथो­क्ता­न्या­का­श­स­मा­न­रू­प­ता­मा­प­न्नानि स्वेन वाय्वा­दि­रू­पे­णा­गृ­ह्य­मा­णानि आकाशाख्यतां गतानि — यथा सम्प्रसादः अविद्यावस्थायां शरीरात्मभावमेव आपन्नः, तानि च तथा­भू­ता­न्य­मु­ष्मात् द्युलो­क­स­म्ब­न्धिन आका­श­दे­शा­त्स­मु­त्ति­ष्टन्ति वर्ष­णा­दि­प्र­यो­ज­ना­भि­नि­र्वृ­त्तये । कथम् ? शिशिरापाये सावित्रं परं ज्योतिः प्रकृष्टं ग्रैष्म­क­मु­प­स­म्पद्य सावित्रमभितापं प्राप्येत्यथः । आदित्याभितापेन पृथ­ग्भा­व­मा­पा­दिताः सन्तः स्वेन स्वेन रूपेण पुरो­वा­ता­दि­वा­यु­रू­पेण स्तिमितभावं हित्वा अभ्रमपि भूमि­प­र्व­त­ह­स्त्या­दि­रू­पेण विद्युदपि स्वेन ज्योति­र्ल­ता­दि­च­प­ल­रू­पेण स्तनयित्नुरपि स्वेन गर्जि­ता­श­नि­रू­पे­णे­त्येवं प्रावृडागमे स्वेन स्वेन रूपे­णा­भि­नि­ष्प­द्यन्ते ॥

एवमेवैष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा प्रयोग्य आचरणे युक्त एव­मे­वा­य­म­स्मि­ञ्छ­रीरे प्राणो युक्तः ॥ ३ ॥

यथा अयं दृष्टान्तो वाय्वा­दी­ना­मा­का­शा­दि­सा­म्य­ग­म­न­व­द­वि­द्यया संसारावस्थायां शरी­र­सा­म्य­मा­पन्नः अहममुष्य पुत्रो जातो जीर्णो मरिष्ये — इत्येवंप्रकारं प्रजापतिनेव मघवान् यथोक्तेन क्रमेण नासि त्वं देहे­न्द्रि­या­दि­धर्मा तत्त्वमसीति प्रतिबोधितः सन् स एष सम्प्रसादो जीवोऽ­स्मा­च्छ­री­रा­दा­का­शा­दिव वाय्वादयः समुत्थाय देहा­दि­वि­ल­क्ष­ण­मा­त्मनो रूपमवगम्य देहात्मभावनां हित्वेत्येतत् , स्वेन रूपेण सदा­त्म­नै­वा­भि­नि­ष्प­द्यत इति व्याख्यातं पुरस्तात् । स येन स्वेन रूपेण सम्प्र­सा­दोऽ­भि­नि­ष्प­द्यते — प्राक्प्र­ति­बो­धात् तद्भ्रा­न्ति­नि­मि­त्ता­त्सर्पो भवति यथा रज्जुः, पश्चा­त्कृ­त­प्र­काशा रज्ज्वात्मना स्वेन रूपे­णा­भि­नि­ष्प­द्यते, एवं च स उत्तमपुरुषः उत्तमश्चासौ पुरु­ष­श्चे­त्यु­त्त­म­पु­रुषः स एव उत्तमपुरुषः । अक्षि­स्व­प्न­पु­रुषौ व्यक्तौ अव्यक्तश्च सुषुप्तः समस्तः सम्प्रसन्नः अशरीरश्च स्वेन रूपेणेति । एषामेव स्वेन रूपेणावस्थितः क्षराक्षरौ व्याकृ­ता­व्या­कृ­ता­व­पेक्ष्य उत्तमपुरुषः ; कृतनिर्वचनो हि अयं गीतासु । सः सम्प्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतः पर्येति क्वचि­दि­न्द्रा­द्या­त्मना जक्षत् हसन् भक्षयन् वा भक्ष्यान् उच्चावचान् ईप्सितान् क्वचि­न्म­नो­मात्रैः सङ्कल्पादेव समु­त्थि­तै­र्ब्रा­ह्म­लौ­कि­कैर्वा क्रीडन् स्त्र्यादिभिः रममाणश्च मनसैव, नोपजनम् , स्त्रीपुं­स­यो­र­न्यो­न्यो­प­ग­मेन जायत इत्युपजनम् आत्मभावेन वा आत्मसामीप्येन जायत इत्युपजनमिदं शरीरम् , तन्न स्मरन् । तत्स्मरणे हि दुःखमेव स्यात् , दुःखात्मकत्वात् तस्य । नन्वनुभूतं चेत् न स्मरेत् असर्वज्ञत्वं मुक्तस्य ; नैष दोषः । येन मिथ्या­ज्ञा­ना­दिना जनितम् तच्च मिथ्याज्ञानादि विद्यया उच्छेदितम् , अत­स्त­न्ना­नु­भू­त­मे­वेति न तदस्मरणे सर्वज्ञत्वहानिः । न हि उन्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदु­न्मा­दा­द्य­प­ग­मेऽपि स्मर्तव्यं स्यात् ; तथेहापि संसा­रि­भि­र­वि­द्या­दो­ष­वद्भिः यदनुभूयते तत्स­र्वा­त्मा­न­म­श­रीरं न स्पृशति, अवि­द्या­नि­मि­त्ता­भा­वात् । ये तु उच्छि­न्न­दो­षै­र्मृ­दि­त­क­षायैः मानसाः सत्याः कामा अनृतापिधाना अनुभूयन्ते विद्या­भि­व्य­ङ्ग्य­त्वात् , त एव मुक्तेन सर्वात्मभूतेन सम्बध्यन्त इति आत्म­ज्ञा­न­स्तु­तये निर्दिश्यन्ते ; अतः साध्वे­त­द्वि­शि­नष्टि — ‘य एते ब्रह्मलोके’(छा. उ. ८ । १२ । ५) इति । यत्र क्वचन भवन्तोऽपि ब्रह्मण्येव हि ते लोके भवन्तीति सर्वा­त्म­त्वा­द्ब्र­ह्मण उच्यन्ते ॥

ननु कथमेकः सन् नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा कामांश्च ब्राह्म­लौ­कि­का­न्प­श्य­न्र­मते इति च विरुद्धम् , यथा एको यस्मिन्नेव क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति च इति । नैष दोषः, श्रुत्यन्तरे परिहृतत्वात् । द्रष्टु­र्दृ­ष्टे­र­वि­प­रि­लो­पा­त्प­श्य­न्नेव भवति ; द्रष्टु­र­न्य­त्वेन कामानामभावान्न पश्यति च इति । यद्यपि सुषुप्ते तदुक्तम् , मुक्तस्यापि सर्वै­क­त्वा­त्स­मानो द्वितीयाभावः । ‘केन कं पश्येत्’(बृ. उ. २ । ४ । १४) इति च उक्तमेव । अश­री­र­स्व­रू­पोऽ­प­ह­त­पा­प्मा­दि­ल­क्षणः सन् कथमेष पुरुषोऽक्षिणि दृश्यत इत्युक्तः प्रजापतिना ? तत्र यथा असावक्षिणि साक्षाद्दृश्यते तद्व­क्त­व्य­मि­ती­द­मा­र­भ्यते । तत्र को हेतुरक्षिणि दर्शने इति, आह — स दृष्टान्तः यथा प्रयोग्यः, प्रयोग्यपरो वा स-शब्दः, प्रयुज्यत इति प्रयोगः, अश्वो बलीवर्दो वा यथा लोके आच­र­त्य­ने­ने­त्या­च­रणः रथः अनो वा तस्मिन्नाचरणे युक्तः तदाकर्षणाय, एवमस्मिञ्छरीरे रथस्थानीये प्राणः पञ्च­वृ­त्ति­रि­न्द्रि­य­म­नो­बु­द्धि­सं­युक्तः प्रज्ञात्मा विज्ञा­न­क्रि­या­श­क्ति­द्व­य­सं­मू­र्छि­तात्मा युक्तः स्वक­र्म­फ­लो­प­भो­ग­नि­मित्तं नियुक्तः, ‘कस्मि­न्न्व­ह­मु­त्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति­ष्ठा­स्या­मीति’(प्र. उ. ६ । ३) ईश्वरेण राज्ञेव सर्वाधिकारी दर्श­न­श्र­व­ण­चे­ष्टा­व्या­पा­रेऽ­धि­कृतः । तस्यैव तु मात्रा एक­दे­श­श्च­क्षु­रि­न्द्रियं रूपो­प­ल­ब्धि­द्वा­र­भू­तम् ॥

अथ यत्रै­त­दा­का­श­म­नु­वि­षण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदे­द­म­भि­व्या­ह­रा­णीति स आत्मा­भि­व्या­हा­राय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥

अथ यत्र कृष्ण­ता­रो­प­ल­क्षि­तम् आकाशं देहच्छिद्रम् अनुविषण्णम् अनुषक्तम् अनुगतम् , तत्र स प्रकृतः अशरीर आत्मा चाक्षुषः चक्षुषि भव इति चाक्षुषः तस्य दर्शनाय रूपोपलब्धये चक्षुः करणम् ; यस्य तत् देहादिभिः संहतत्वात् परस्य द्रष्टुरर्थे, सोऽत्र चक्षुषि दर्शनेन लिङ्गेन दृश्यते परः अशरीरोऽसंहतः । ‘अक्षिणि दृश्यते’ इति प्रजापतिनोक्तं सर्वे­न्द्रि­य­द्वा­रो­प­ल­क्ष­णा­र्थम् ; सर्वविषयोपलब्धा हि स एवेति । स्फुटो­प­ल­ब्धि­हे­तु­त्वात्तु ‘अक्षिणि’ इति विशेषवचनं सर्वश्रुतिषु । ‘अहमदर्शमिति तत्सत्यं भवति’ इति च श्रुतेः । अथापि योऽस्मिन्देहे वेद ; कथम् ? इदं सुगन्धि दुर्गन्धि वा जिघ्राणीति अस्य गन्धं विजानीयामिति, स आत्मा, तस्य गन्धाय गन्धविज्ञानाय घ्राणम् । अथ यो वेद इदं वचनम् अभिव्याहराणीति वदिष्यामीति, स आत्मा, अभि­व्या­ह­र­ण­क्रि­या­सि­द्धये करणं वागिन्द्रियम् । अथ यो वेद — इदं शृणवानीति, स आत्मा, श्रवणाय श्रोत्रम् ॥

अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मन­सै­ता­न्का­मा­न्प­श्य­न्र­मते य एते ब्रह्मलोके ॥ ५ ॥

अथ यो वेद — इदं मन्वानीति मन­न­व्या­पा­र­मि­न्द्रि­या­सं­स्पृष्टं केवलं मन्वानीति वेद, स आत्मा, मननाय मनः । यो वेद स आत्मेत्येवं सर्वत्र प्रयोगात् वेदनमस्य स्वरू­प­मि­त्य­व­ग­म्यते — यथा यः पुर­स्ता­त्प्र­का­श­यति स आदित्यः, यो दक्षिणतः यः पश्चात् उत्तरतो य ऊर्ध्वं प्रकाशयति स आदित्यः — इत्युक्ते प्रकाशस्वरूपः स इति गम्यते । दर्श­ना­दि­क्रि­या­नि­र्वृ­त्त्य­र्थानि तु चक्षुरादिकरणानि । इदं च अस्य आत्मनः साम­र्थ्या­द­व­ग­म्यते — आत्मनः सत्तामात्र एव ज्ञानकर्तृत्वम् , न तु व्यापृततया — यथा सवितुः सत्तामात्र एव प्रका­श­न­क­र्तृ­त्वम् , न तु व्यापृततयेति — तद्वत् । मनोऽस्य आत्मनो दैवमप्राकृतम् इत­रे­न्द्रि­यै­र­सा­धा­रणं चक्षुः चष्टे पश्यत्यनेनेति चक्षुः । वर्त­मा­न­का­ल­वि­ष­याणि च इन्द्रियाणि अतो अदैवानि तानि । मनस्तु त्रिका­ल­वि­ष­यो­प­ल­ब्धि­क­रणं मृदितदोषं च सूक्ष्म­व्य­व­हि­ता­दि­स­र्वो­प­ल­ब्धि­क­रणं च इति दैवं चक्षुरुच्यते । स वै मुक्तः स्वरूपापन्नः अवि­द्या­कृ­त­दे­हे­न्द्रि­य­म­नो­वि­युक्तः सर्वा­त्म­भा­व­मा­पन्नः सन् एष व्योम­व­द्वि­शुद्धः सर्वेश्वरो मनउपाधिः सन् एतेनैवेश्वरेण मनसा एतान्कामान् सवितृप्रकाशवत् नित्यप्रततेन दर्शनेन पश्यन् रमते । कान्कामानिति विशिनष्टि — य एते ब्रह्मणि लोके हिरण्यनिधिवत् बाह्य­वि­ष­या­स­ङ्गा­नृ­ते­ना­पि­हिताः सङ्क­ल्प­मा­त्र­लभ्याः तानित्यर्थः ॥

तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाꣳ सर्वेच लोका आत्ताः सर्वे च कामाः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामा­न्य­स्त­मा­त्मा­न­म­नु­विद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ६ ॥

यस्मादेष इन्द्राय प्रजापतिनोक्त आत्मा, तस्मात् ततः श्रुत्वा तमा­त्मा­न­म­द्य­त्वेऽपि देवा उपासते । तदुपासनाच्च तेषां सर्वे च लोका आत्ताः प्राप्ताः सर्वे च कामाः । यदर्थं हि इन्द्रः एकशतं वर्षाणि प्रजापतौ ब्रह्म­च­र्य­मु­वास, तत्फलं प्राप्तं देवै­रि­त्य­भि­प्रायः । तद्युक्तं देवानां महाभाग्यत्वात् , न त्विदानीं मनु­ष्या­णा­म­ल्प­जी­वि­त­त्वा­न्म­न्द­त­र­प्र­ज्ञ­त्वाच्च सम्भवतीति प्राप्ते, इदमुच्यते — स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् इदानीन्तनोऽपि । कोऽसौ ? इन्द्रादिवत् यः तमा­त्मा­न­म­नु­विद्य विजानातीति ह सामान्येन किल प्रजापतिरुवाच । अतः सर्वे­षा­मा­त्म­ज्ञानं तत्फ­ल­प्रा­प्तिश्च तुल्यैव भवतीत्यर्थः । द्विर्वचनं प्रक­र­ण­स­मा­प्त्य­र्थम् ॥

इति द्वाद­श­ख­ण्ड­भा­ष्यम् ॥

त्रयोदशः खण्डः

श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्रं इव राहो­र्मु­खा­त्प्र­मुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्म­लो­क­म­भि­स­म्भ­वा­मी­त्य­भि­स­म्भ­वा­मीति ॥ १ ॥

श्यामात् शबलं प्रपद्ये इत्या­दि­म­न्त्रा­म्नायः पावनः जपार्थश्च ध्यानार्थो वा । श्यामः गम्भीरो वर्णः श्याम इव श्यामः हार्दं ब्रह्म अत्य­न्त­दु­र­व­गा­ह्य­त्वात् तत् हार्दं ब्रह्म ज्ञात्वा ध्यानेन तस्माच्छ्यामात् शबलं शबल इव शबलः अर­ण्या­द्य­ने­क­का­म­मि­श्र­त्वा­द्ब्र­ह्म­लो­कस्य शाबल्यं तं ब्रह्मलोकं शबलं प्रपद्ये मनसा शरीरपाताद्वा ऊर्ध्वं गच्छेयम् । यस्मादहं शब­ला­द्ब्र­ह्म­लो­कात् नामरूपव्याकरणाय श्यामं प्रपद्ये हार्दभावं प्रप­न्नोऽ­स्मी­त्य­भि­प्रायः । अतः तमेव प्रकृ­ति­स्व­रू­प­मा­त्मानं शबलं प्रपद्य इत्यर्थः । कथं शबलं ब्रह्मलोकं प्रपद्ये इति, उच्यते — अश्व इव स्वानि लोमानि विधूय कम्पनेन श्रमं पांस्वादि च रोमतः अपनीय यथा निर्मलो भवति, एवं हार्द­ब्र­ह्म­ज्ञा­नेन विधूय पापं धर्माधर्माख्यं चन्द्र इव च राहुग्रस्तः तस्मा­द्रा­हो­र्मु­खा­त्प्र­मुच्य भास्वरो भवति यथा — एवं धूत्वा प्रहाय शरीरं सर्वा­न­र्था­श्र­यम् इहैव ध्यानेन कृतात्मा कृतकृत्यः सन् अकृतं नित्यं ब्रह्मलोकम् अभिसम्भवामीति । द्विर्वचनं मन्‍त्र­स­मा­प्त्य­र्थम् ॥

इति त्रयो­द­श­ख­ण्ड­भा­ष्यम् ॥

चतुर्दशः खण्डः

आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म तदमृतꣳ स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽ­ह­म­नु­प्रा­पत्सि स हाहं यशसां यशः श्येत­म­द­त्क­म­दत्कꣳ श्येतं लिन्दु माभिगां लिन्दु माभिगाम् ॥ १ ॥

आकाशो वा इत्यादि ब्रह्मणो लक्ष­ण­नि­र्दे­शा­र्थम् आध्यानाय । आकाशो वै नाम श्रुतिषु प्रसिद्ध आत्मा । आकाश इव अश­री­र­त्वा­त्सू­क्ष्म­त्वाच्च । स च आकाशः नामरूपयोः स्वात्म­स्थ­यो­र्ज­ग­द्बी­ज­भू­तयोः सलिलस्येव फेनस्थानीययोः निर्वहिता निर्वोढा व्याकर्ता । ते नामरूपे यदन्तरा यस्य ब्रह्मणो अन्तरा मध्ये वर्तेते, तयोर्वा नामरूपयोरन्तरा मध्ये यन्ना­म­रू­पा­भ्या­म­स्पृष्टं यदित्येतत् , तद्ब्रह्म नामरूपविलक्षणं नाम­रू­पा­भ्या­म­स्पृष्टं तथापि तयोर्निर्वोढृ एवंलक्षणं ब्रह्मेत्यर्थः । इदमेव मैत्रे­यी­ब्रा­ह्म­णे­नो­क्तम् ; चिन्मा­त्रा­नु­ग­मा­त्स­र्वत्र चित्स्व­रू­प­तै­वेति गम्यते एकवाक्यता । कथं तदवगम्यत इति, आह — स आत्मा । आत्मा हि नाम सर्वजन्तूनां प्रत्यक्चेतनः स्वसंवेद्यः प्रसिद्धः तेनैव स्वरूपेणोन्नीय अशरीरो व्योमवत्सर्वगत आत्मा ब्रह्मे­त्य­व­ग­न्त­व्यम् । तच्च आत्मा ब्रह्म अमृतम् अमरणधर्मा । अत ऊर्ध्वं मन्‍त्रः । प्रजापतिः चतुर्मुखः तस्य सभां वेश्म प्रभुविमितं वेश्म प्रपद्ये गच्छेयम् । किञ्च यशोऽहं यशो नाम आत्मा अहं भवामि ब्राह्मणानाम् । ब्राह्मणा एव हि विशे­ष­त­स्त­मु­पा­सते ततस्तेषां यशो भवामि । तथा राज्ञां विशां च । तेऽप्यधिकृता एवेति तेषामप्यात्मा भवामि । तद्य­शोऽ­ह­म­नु­प्रा­पत्सि अनु­प्रा­प्तु­मि­च्छामि । स ह अहं यशसामात्मनां देहे­न्द्रि­य­म­नो­बु­द्धि­ल­क्ष­णा­ना­मात्मा । किमर्थमहमेवं प्रपद्य इति, उच्यते — श्येतं वर्णतः पक्वबदरसमं रोहितम् । तथा अदत्कं दन्त­र­हि­त­म­प्य­दत्कं भक्षयितृ स्त्रीव्यञ्जनं तत्सेविनां तेजो­ब­ल­वी­र्य­वि­ज्ञा­न­ध­र्मा­णाम् अपहन्तृ विना­श­यि­त्रि­त्ये­तत् । यदेवंलक्षणं श्येतं लिन्दु पिच्छलं तन्मा अभिगां मा अभिगच्छेयम् । द्विर्व­च­न­म­त्य­न्ता­न­र्थ­हे­तु­त्व­प्र­द­र्श­ना­र्थम् ॥

इति चतु­र्द­श­ख­ण्ड­भा­ष्यम् ॥

पञ्चदशः खण्डः

तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचा­र्य­कु­ला­द्वे­द­म­धीत्य यथाविधानं गुरोः कर्मा­ति­शे­षे­णा­भि­स­मा­वृत्य कुटुम्बे शुचौ देशे स्वाध्या­य­म­धी­यानो धार्मि­का­न्वि­द­ध­दा­त्मनि सर्वेन्द्रियाणि सम्प्र­ति­ष्ठा­प्या­हिं­स­न्स­र्व­भू­ता­न्य­न्यत्र तीर्थेभ्यः स खल्वेवं वर्त­य­न्या­व­दा­युषं ब्रह्म­लो­क­म­भि­स­म्प­द्यते न च पुनरावर्तते न च पुनरावर्तते ॥ १ ॥

तद्धैतत् आत्मज्ञानं सोपकरणम् ‘ओमि­त्ये­त­द­क्ष­रम्’ इत्याद्यैः सहोपासनैः तद्वाचकेन ग्रन्थेन अष्टा­ध्या­यी­ल­क्ष­णेन सह ब्रह्मा हिरण्यगर्भः परमेश्वरो वा तद्द्वारेण प्रजापतये कश्यपाय उवाच ; असावपि मनवे स्वपुत्राय ; मनुः प्रजाभ्यः इत्येवं श्रुत्य­र्थ­स­म्प्र­दा­य­प­र­म्प­र­या­ग­तम् उप­नि­ष­द्वि­ज्ञा­नम् अद्यापि विद्वत्सु अवगम्यते । यथेह षष्ठा­द्य­ध्या­य­त्रये प्रकाशिता आत्मविद्या सफला अवगम्यते, तथा कर्मणां न कश्चनार्थ इति प्राप्ते, तदा­न­र्थ­क्य­प्रा­प्ति­प­रि­जि­ही­र्षया इदं कर्मणो विद्व­द्भि­र­नु­ष्ठी­य­मा­नस्य विशि­ष्ट­फ­ल­व­त्त्वेन अर्थ­व­त्त्व­मु­च्यते — आचा­र्य­कु­ला­द्वे­द­म­धीत्य सहार्थतः अध्ययनं कृत्वा यथाविधानं यथा­स्मृ­त्यु­क्तै­र्नि­य­मै­र्युक्तः सन् इत्यर्थः । सर्वस्यापि विधेः स्मृत्युक्तस्य उपकुर्वाणकं प्रति कर्तव्यत्वे गुरुशुश्रूषायाः प्राधा­न्य­प्र­द­र्श­ना­र्थ­माह — गुरोः कर्म यत्कर्तव्यं तत्कृत्वा कर्मशून्यो योऽतिशिष्टः कालः तेन कालेन वेद­म­धी­त्ये­त्यर्थः । एवं हि नियमवता अधीतो वेदः कर्म­ज्ञा­न­फ­ल­प्रा­प्तये भवति, नान्य­थे­त्य­भि­प्रायः । अभिसमावृत्य धर्मजिज्ञासां समापयित्वा गुरु­कु­ला­न्नि­वृत्य न्यायतो दारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्ये विहिते कर्मणि तिष्ठन् इत्यर्थः । तत्रापि गार्ह­स्थ्य­वि­हि­तानां कर्मणां स्वाध्यायस्य प्राधा­न्य­प्र­द­र्श­ना­र्थ­मु­च्यते — शुचौ विविक्ते अमेध्यादिरहिते देशे यथावदासीनः स्वाध्या­य­म­धी­यानः नैत्यकमधिकं च यथाशक्ति ऋगाद्यभ्यासं च कुर्वन् धार्मि­का­न्पु­त्रा­ञ्शि­ष्यांश्च धर्म­यु­क्ता­न्वि­द­धत् धार्मिकत्वेन तान्नियमयन् आत्मनि स्वहृदये हार्दे ब्रह्मणि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य उपसंहृत्य इन्द्रि­य­ग्र­ह­णा­त्क­र्माणि च संन्यस्य अहिंसन् हिंसां परपीडामकुर्वन् सर्वभूतानि स्थावरजङ्गमानि भूतान्यपीडयन् इत्यर्थः । भिक्षा­नि­मि­त्त­म­ट­ना­दि­नापि परपीडा स्यादित्यत आह — अन्यत्र तीर्थेभ्यः । तीर्थं नाम शास्त्रा­नु­ज्ञा­वि­षयः, ततोऽ­न्य­त्रे­त्यर्थः । सर्वाश्रमिणां च एतत्समानम् । तीर्थे­भ्योऽ­न्यत्र अहिंसैवेत्यन्ये वर्णयन्ति । कुटुम्बे एवैतत्सर्वं कुर्वन् , स खल्वधिकृतः, यावदायुषं यावज्जीवम् एवं यथोक्तेन प्रकारेणैव वर्तयन् ब्रह्म­लो­क­म­भि­स­म्प­द्यते देहान्ते । न च पुनरावर्तते शरीरग्रहणाय, पुनरावृत्तेः प्राप्तायाः प्रतिषेधात् । अर्चिरादिना मार्गेण कार्य­ब्र­ह्म­लो­क­म­भि­स­म्पद्य याव­द्ब्र­ह्म­लो­क­स्थितिः तावत्तत्रैव तिष्ठति प्राक्ततो नावर्तत इत्यर्थः । द्विरभ्यासः उप­नि­ष­द्वि­द्या­प­रि­स­मा­प्त्यर्थः ॥

इति पञ्च­द­श­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­त्छ­ङ्क­र­भ­ग­वतः कृतौ छान्दो­ग्यो­प­नि­ष­द्भाष्ये अष्टमोऽध्यायः समाप्तः ॥