अद्वैतशारदा

हस्तामलकीयभाष्यम्

० विभागः

यस्मिन्ज्ञाते भवेत्सर्वं विज्ञातं परमात्मनि ।
तं वन्दे नित्य­वि­ज्ञा­न­मा­न­न्द­म­ज­म­व्य­यम् ॥

यद­ज्ञा­ना­द­भू­द्द्वैतं ज्ञाते यस्मिन्निवर्तते ।
रज्जु­स­र्प­व­द­त्यन्तं तं वन्दे पुरुषोत्तमम् ॥

यस्यो­प­दे­श­दी­धित्या चिदात्मा नः प्रकाशते ।
नमः सद्गुरवे तस्मै स्वावि­द्या­ध्वा­न्त­भा­नवे ॥

इह हि सर्वस्य जन्तोः सुखं मे भूयाद्दुःखं मे मा भूयात् इति स्वरसत एव सुखो­पा­दि­त्सा­दुः­ख­जि­हासे भवतः । तत्र यः कश्चित् पुण्यातिशयशाली अव­श्यं­भा­वि­दुः­खा­वि­ना­भू­त­त्वा­द­नि­त्य­त्वाच्च विषयजं सुखं दुःखमेवेति ज्ञात्वा यत्नेन ससा­ध­ना­त्सं­सा­रा­त्त्य­क्ता­स­क्ति­र­त्यन्तं विरज्यते । विरक्तश्च संसारहानौ यतते । संसारस्य च आत्म­स्व­रू­पा­प­रि­ज्ञा­न­कृ­त­त्वात् आत्म­ज्ञा­ना­न्नि­वृ­त्ति­रिति तं प्रत्या­त्म­ज्ञा­न­मा­चार्य उपदिशति —

निमित्तं मन­श्च­क्षु­रा­दि­प्र­वृत्तौ
निर­स्ता­खि­लो­पा­धि­रा­का­श­कल्पः ।
रवि­र्लो­क­चे­ष्टा­नि­मित्तं यथा यः
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ १ ॥

ननु सर्वत्र ग्रन्थादौ शिष्टा­ना­मि­ष्ट­दे­व­ता­स्तु­ति­न­म­स्का­र­पू­र्विका प्रवृ­त्ति­रु­प­लब्धा ; अयं च विना स्तुतिनमस्कारौ प्रव­र्त­मा­नोऽ­शि­ष्ट­त्वात् अनादरणीयवचनः प्रसज्येतेति चेत् — न ; स्तुति­न­म­स्का­र­यो­स्त्रै­वि­ध्यात् ; त्रिविधौ हि स्तुतिनमस्कारौ — कायिकौ वाचिकौ मानसिकौ चेति । तत्र कायि­क­वा­चि­क­यो­र­भा­वेऽपि पर­म­शि­ष्ट­त्वा­दा­चा­र्यस्य ग्रन्थस्य अविघ्नेन परिसमाप्तेश्च मानसिकौ स्तुति­न­म­स्का­रा­व­क­रो­द­य­मा­चार्य इत्यवगम्यते ; यत्किञ्चिदेतत् । प्रकृतमनुसरामः — मनश्च चक्षुश्च मनश्चक्षुषी, ते आदिर्येषां तानि मनश्चक्षुरादीनि ; आदिशब्दः प्रत्ये­क­म­भि­स­म्ब­ध्यते ; ततश्च अयमर्थो भवति — मनआदीनां मनोऽ­ह­ङ्का­र­बु­द्धि­चि­त्तानां चतु­र्णा­म­न्तः­क­र­णा­नाम् , तथा चक्षुरादीनां चक्षु­स्त्व­क्श्रो­त्र­जि­ह्वा­घ्रा­णानां पञ्च­बु­द्धी­न्द्रि­या­णाम् , एवं वाक्पा­णि­पा­द­पा­यू­प­स्थानां पञ्च­क­र्मे­न्द्रि­या­णाम् , प्रवृत्तौ स्वस्वव्यापारे, निमित्तं हेतुः यः, सोऽहमात्मेति सम्बन्धः । स कीदृश इत्या­का­ङ्क्षा­या­माह — नित्यो­प­ल­ब्धि­रिति । नित्या च असा­वु­प­ल­ब्धि­श्चेति नित्योपलब्धिः, सा स्वरूपं यस्य स तथोक्तः । रविः आदित्यः यथा येन प्रकारेण प्रकाशकत्वेन लोकानां चेष्टायां स्पन्दने निमित्तं हेतुः, तथैव अधिष्ठातृत्वेन यो निमित्तं सोऽह­मा­त्मे­त्यर्थः — इति इयं दृष्टिः आत्म­ज्ञा­नो­पा­य­त्वेन दर्शिता । परमार्थतस्तु निरस्ताः निराकृताः अखिलाः निरवशेषाः उपाधयो बुद्ध्या­दि­ल­क्षणाः यस्य स तथोक्तः । निर­स्ता­खि­लो­पा­धि­त्वा­देव अयमाकाशकल्पः आकाशवद्विशुद्ध इत्यर्थः ॥

ननु मन­श्च­क्षु­रा­दि­प्र­वृत्तौ किमर्थमधिष्ठाता इष्यते ? स्वयमेव कस्मान्न प्रवर्तन्ते ? कथं च नित्यो­प­ल­ब्धि­स्व­रू­प­त्वम् अधि­ष्ठा­तु­रि­ष्यते ? इत्यत आह —

यम­ग्न्यु­ष्ण­व­न्नि­त्य­बो­ध­स्व­रूपं
मन­श्च­क्षु­रा­दी­न्य­बो­धा­त्म­कानि ।
प्रवर्तन्त आश्रित्य निष्कम्पमेकं
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ २ ॥

यं नित्य­बो­ध­स्व­रू­प­मा­त्मा­नम् आश्रित्य मनश्चक्षुरादीनि प्रवर्तन्ते, सोऽहमात्मेति सम्बन्धः । ननु कथं बोधस्य नित्यत्वम् ? बोधो हि नाम ज्ञानम् ; तच्च इन्द्रि­या­र्थ­सं­नि­क­र्षा­दिना जायते समुत्पद्यते ; उत्पन्नं च ज्ञानं स्वकार्येण संस्कारेण विरोधिना ज्ञानान्तरेण वा विनश्यति ; अतः उत्प­त्ति­ना­श­ध­र्म­व­त्त्वात् न नित्यं भवितुमर्हति ; नापि बोध­स्व­रू­प­त्व­मा­त्मन उपपद्यते, नित्य­त्वा­दा­त्मनः, अनित्यत्वाच्च बोधस्य ; न हि नित्या­नि­त्य­यो­रे­क­स्व­भा­व­त्वम् , विरोधात् इति ॥

अत्रोच्यते — बोधो हि नाम चैत­न्य­म­भि­प्रे­तम् ; न च ज्ञानं चैतन्यम् , जन्यज्ञानस्य ज्ञेयत्वेन घटा­दि­व­ज्ज­ड­त्वात् । ज्ञेयं हि ज्ञानम् , घटज्ञानं मे जातं पटज्ञानं मे जातमिति साक्षा­द­नु­भू­य­मा­न­त्वात् । अतः तस्य अनित्यत्वेन अना­त्म­स्व­रू­प­त्वेऽपि, नित्य­बो­ध­स्व­रू­प­त्वम् आत्मन उपपद्यते । ननु आत्मनः चेतनत्वे किं प्रमाणमिति चेत् , जगत्प्रकाश इति ब्रूमः । जगत् प्रकाशत इति सर्वजनसिद्धम् ; तत्र ज्ञानादीनां ज्ञेयत्वेन जडत्वात् , आत्मप्रकाशेनैव जगत् प्रकाशत इति निश्चितं भवति । आत्मा च स्वपरप्रकाशवान् सवितृप्रकाशवत् — यथा सविता स्वयं प्रकाशमानो जगदपि प्रकाशयति, तथा आत्मापीति । अस्तु तर्हि चिद्धर्मा पुरुषः, कथमयं चित्स्वभाव इति ; न, धर्मधर्मिभावस्य अनुपपत्तेः ॥

तथा हि — आत्मनश्चैतन्यं भिन्नम् , अभिन्नं वा, भिन्नाभिन्नं वा । तत्र न तावद्भिन्नम् ; भिन्नं चेत् , घट­व­दा­त्म­ध­र्म­त्वा­नु­प­पत्तेः । ननु घटः असम्बन्धात् आत्मधर्मो न भवति, चैतन्यं तु आत्मसम्बन्धीति युक्त­मा­त्म­ध­र्म­त्वम् इत्यपि न सम्ब­न्धा­नु­प­पत्तेः । सम्बन्धो हि तावत् संयोगो वा समवायो वा स्यात् , सम्बन्धान्तरस्य अत्र असम्भवात् । न तावत्संयोगः, तस्य द्रव्य­मा­त्र­ध­र्म­त्वात् , अद्र­व्य­त्वा­च्चै­त­न्यस्य । नापि समवायः, अनवस्थापातात् । समवायो हि सम्बद्धः समवायिनौ सम्बध्नाति, असम्बद्धो वा ? न तावदसम्बद्धः, घटा­दि­व­द­कि­ञ्चि­त्क­र­त्वात् । सम्बद्धश्चेत् , संयोगादेरभावेन समवायस्यापि सम­वा­या­न्त­र­म­भ्यु­प­ग­न्त­व्यम् । एवं पर­म्प­रा­पे­क्षा­याम् अनवस्थापात इति यत्किञ्चिदेतत् । तस्मा­द्भि­न्न­त्व­पक्षे धर्मधर्मिभावः सर्वथा नोपपद्यते । अभिन्नत्वपक्षे तु बोधस्य आत्मरूपत्वेन सुतरां धर्मधर्मिभावो नास्त्येव । न हि तस्य तदेव धर्मो भवति ; न हि शुक्लं शुक्लस्य धर्मो भवतीति । तस्मात् भिन्ना­भि­न्न­त्व­पक्ष एव अवशिष्यते । स च विरोधान्न युज्यते — न ह्येक­मे­वै­क­स्मात् भिन्नमभिन्नं च भवितुमर्हति, विरोधात् ।

अथोच्यते — प्रत्य­क्ष­सि­द्ध­त्वात् भेदाभेदौ अविरुद्धौ । तथा हि — गौरियमिति पिण्डा­व्य­ति­रे­केण गोत्वं प्रतीयते ; तदेव पिण्डान्तरे प्रत्य­भि­ज्ञा­य­मा­न­त्वात् भेदेनावगम्यते ; अतः प्रत्यक्षेणैव भेदाभेदयोः प्रतीयमानत्वात् अविरोध इति — नैतत्साधु मन्यामहे, प्रत्यक्षस्य अन्य­था­सि­द्ध­त्वात् — भिन्नमपि हि वस्तु प्रत्यक्षेण अत्य­न्त­सं­नि­धा­ना­दि­दो­षात् अभि­न्न­व­त्प्र­ती­यते — यथा दीपज्वाला भिन्नापि कुत­श्चि­त्का­र­णा­द­भि­न्न­व­त्प्र­ति­भा­सन्ते, तथा अभिन्नमपि वस्तु भिन्नमिव प्रतिभासते — यथा एक­स्मा­च्च­न्द्रा­द्वि­ती­य­श्चन्द्र इति — अतः प्रत्यक्षस्य अन्य­था­सि­द्ध­त्वात् न तेन प्रत्यक्षेण प्रमाणसिद्धस्य भेदाभेदविरोधस्य प्रतिक्षेपो युक्त इति ।

अथैवमुच्यते — चैतन्यस्य द्वे रूपे स्तः, आत्मस्वरूपता चैतन्यस्वरूपता चेति । तत्र आत्मस्वरूपतया आत्मनो न भिद्यते ; भिद्यते च चैतन्यस्वरूपतया । अतः उभयरूपाभ्यां भिन्ना­भि­न्न­त्व­म­वि­रु­द्ध­मिति — तदपि न, धर्म­ध­र्मि­त्वा­भा­वात् । तथा हि — येन रूपेण तदभिन्नं न तेन रूपेण धर्मत्वम् अभि­न्न­त्वा­द­वो­चाम । येन रूपेण भिन्नम् , तेनापि न धर्मः, भिन्न­त्वा­द्घ­टा­दि­व­दि­त्यु­क्तम् । यच्चोक्तम् उभयरूपाभ्यां भिन्ना­भि­न्न­त्व­मिति, तदपि विचारं न सहते । ते रूपे किं चैत­न्या­द्भिन्ने, अभिन्ने, भिन्नाभिन्ने वा । तत्र न तावद्भिन्ने, भिन्नत्वे घटा­दि­व­द­कि­ञ्चि­त्क­र­ण­त्वात् ; अभिन्नत्वे चैत­न्य­मा­त्र­मे­वेति न ताभ्यां भिन्ना­भि­न्न­त्वम् । भिन्नाभिन्नत्वं च विरोधादेव न युक्तम् । तयोरपि रूपान्तराभ्यां भिन्न­भि­न्न­त्वा­भ्यु­प­गमे अनवस्थापात इत्य­ल­म­ति­वि­स्त­रेण । तस्मान्नात्मा सर्वथा चिद्धर्मा ; किं तर्हि ? चित्स्वरूप एवेति । एतेन सदानन्दयोरपि आत्मस्वरूपत्वं व्याख्यातम् ।

नित्यश्च आत्मा, सदकारणवत्त्वात् परमाणुवत् ; सन् आत्मा, अहमस्मीति प्रतीतेः । अकारणवांश्च ; न हि अस्य कारणं वस्तु प्रत्य­क्षा­दि­भि­रु­प­ल­भ्यते, नापि श्रूयते ; किं तु त्रैलो­क्यै­क­का­र­णता हि आत्मनः श्रूयते ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्या­दि­श्रु­तिभ्यः । न त्वात्मनोऽपि कारणान्तरम् । अतः सदकारणवत्त्वात् नित्य आत्मेति सिद्धम् । तस्मात् साधूक्तं नित्य­बो­ध­स्व­रू­प­मिति । तत्रैव दृष्टान्तमाह — अग्न्युष्णवदिति । यथा उष्णत्वमग्नेर्न व्यतिरिच्यते । व्यतिरेके हि कदा­चि­द­ग्ने­र­न्य­त्रा­प्यु­प­ल­भ्येत — यथा पुरुषाद्दण्डादि ; न चैवमस्ति ; तस्मा­द­ग्नि­स्व­रू­प­मेव अग्नेरुष्णत्वम् । एवमात्मनोऽपि चैतन्यं स्वरू­प­मे­वे­त्यर्थः । तथा च उक्तम् — ‘निरं­श­त्वा­द्वि­भु­त्वाच्च तथानश्वरभावतः । ब्रह्म­व्यो­म्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम्’ इति । यच्चोक्तं मन­श्च­क्षु­रा­दीनां प्रवृत्तौ किमर्थमधिष्ठाता इष्यते, स्वयमेव कस्मान्न प्रवर्तन्ते इति, तत्राह — अबोधात्मकानीति । हेतुगर्भमिदं विशेषणम् ; अतश्च अयमर्थः सेत्स्यति — अबोधात्मकत्वात् अचेतनत्वाच्च घटा­दि­व­च्चे­त­न­म­धि­ष्ठा­ता­र­मा­श्रि­त्यैव प्रवर्तन्त इति । तदचेतनत्वं चैषां तज्ज्ञेयत्वात् घटादिवदिति । श्रुतिरपि ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिना आत्म­व्य­ति­रि­क्तस्य चेतनत्वं प्रतिषेधति । अतो युक्तमुक्तं चेत­न­मा­त्मा­न­मा­श्रित्य प्रवर्तन्त इति । निष्कम्पं निस्तरङ्गं निःसं­श­य­मि­त्यर्थः । तथा च श्रुतिः ‘भिद्यते हृद­य­ग्र­न्थि­श्च्छि­द्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ इति । एकम् अद्वितीयं देव­ति­र्य­ङ्म­नु­ष्या­दि­श­री­रेषु एकम् , न तु साङ्ख्या­दि­प­रि­क­ल्पि­त­वत् नाना­भू­त­मि­त्यर्थः ॥

ननु आत्मन एकत्वे सुख­दुः­खा­दि­व्य­वस्था न स्यात् । तथा हि — सर्वशरीरेषु यदि एक आत्मा भवेत् तदा एकस्मिन् सुखिनि सर्व एव सुखिनः प्रसज्येरन् , सर्वस्य अविशेषात् ; एकमेकस्मिन् दुःखिनि सर्व एव दुःखिनो भवेयुः ; एव­मे­क­स्मि­ञ्जा­नति सर्व एव जानीयुः ; तथैव एकस्मिञ्जायमाने म्रियमाणे वा सर्व एव जायेरन् म्रियेरन् ; एव­मे­क­स्मि­न्बद्धे मुक्ते वा सर्व एव बद्ध्येरन् मुच्येरन् इति । न चैवमस्ति । तस्मा­दे­क­त्व­मा­त्मनो न भवितुमर्हति इत्यत आह —

मुखाभासको दर्पणे दृश्यमानो
मुख­त्वा­त्पृ­थ­क्त्वेन नैवास्ति वस्तु ।
चिदाभासको धीषु जीवोऽपि तद्व —
त्स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ ३ ॥

मुखाभासकः मुखप्रतिबिम्बः दर्पणादौ नानाकारेषु दर्पणेषु इति यावत् दृश्यमानः मुखत्वात् परमार्थतः मुखस्वरूपत्वात् पृथक्त्वेन भेदेन न विद्यते । यद्यपि मुखाभासको नाम वस्तु नास्त्येव, तथापि उपाधिभेदात् परमार्थसतो मुखात् परस्परं च ते मुखाभासका भिन्नाः प्रतीयन्ते । तथा च उपा­धि­ग­त­म­लि­न­त्वा­दि­धर्मैः मलि­न­त्वा­दि­ध­र्मकाः प्रतीयन्ते । तद्वत् मुखाभासकवत् चिदाभासकः आत्मनः प्रतिबिम्बो धीषु बुद्धिषु दृश्यमानो जीव इत्युच्यते यः, सोऽहमात्मा जीवास्ते उपाधिभेदात् भिन्नाः प्रतिभासन्ते । उपा­धि­ग­त­सु­ख­दुः­खा­दि­भिश्च सुख­दुः­खा­दि­म­न्तश्च प्रतिभासन्ते । उपाधयश्च व्यवस्थितरूपा एवेति सुख­दुः­खा­दी­ना­मै­का­त्म्य­पक्षे व्यवस्था युक्तैवेति नायमात्मभेदः शक्यो व्यवस्थापयितुम् । श्रुति­श्चै­का­त्म्य­मेव प्रतिपादयति — ‘एकमेवाद्वितीयं ब्रह्म’ इति । आत्मभेदपक्षं तु इयं सुख­दुः­खा­दि­व्य­वस्था नोपपद्यते । तथा हि — प्रतिशरीरम् आत्मानो भिन्नाः ते च सर्वे प्रत्येकं सर्वगता इति आत्मभेदवादिनो मन्यन्ते । तत्र सर्वेषां सर्वगतत्वात् सर्वसंनिधौ सुखा­दि­क­मु­त्प­द्य­मानं विशे­ष­हे­तो­र­भा­वात् कथमेकस्यैव तत् सुखादिकम् , न सर्वेषाम् इत्यवधारयितुं शक्यते । अथ यत्सम्बन्धिना कार्य­क­र­ण­स­ङ्घा­तेन सुखादिकं जन्यते, तस्यैव तदित्यभिधीयते इति ; तन्न, कार्य­क­र­ण­स­ङ्घा­त­स्यापि सर्वा­त्म­सं­नि­धा­वु­त्प­द्य­मा­नस्य विशे­ष­हे­तो­र­भा­वा­देव कथ­मे­का­त्म­स­म्ब­न्धि­त्व­मिति । अथ यत्क­र्म­व­शा­त्का­र्य­क­र­ण­स­ङ्घा­त­स्यो­त्पत्तिः, तस्यैव असौ कार्यकरणसङ्घात इति विशेषहेतुरिति चेत् ; न, कर्मणोऽपि सर्वा­त्म­सं­नि­धा­वु­त्प­द्य­मा­नस्य सर्वा­त्म­स­म्ब­न्धि­त्वेन तज्ज­नि­त­का­र्य­क­र­ण­स­ङ्घा­त­स्यापि सर्वा­त्म­स­म्ब­न्धि­त्वात् तज्जनितस्य सुखदुःखादेरपि सर्वा­त्म­स­म्ब­न्धि­त्व­मिति सुखादिकस्य नानात्मपक्ष एव न व्यवस्थितिः । पूर्व­पु­र्व­का­र्य­क­र­ण­स­ङ्घा­तस्य कर्मापेक्षायां च अनवस्थादोषः । अनादित्वेन अन­व­स्था­दो­ष­प­रि­हा­रश्च अन्धपरम्परेति । श्रुतिरपि नानात्मपक्षं प्रतिषेधति — ‘नेह नानास्ति किञ्चन’ इति । अतः साधूक्तम् एकमिति ॥

नन्वेवं सति आत्मनः सुख­दुः­खा­दि­स­म्ब­न्धा­भा­वात् बन्धो नास्ति ; बन्धाभावाच्च मोक्षाभावः ; बद्धो हि मुच्यते नाबद्ध इति ; तथा चिदाभासस्यापि बन्धमोक्षौ न विद्येते, अवस्तुत्वात् ; तस्य बुद्धेरपि विनाशित्वात् बन्ध­मो­क्ष­यो­र­भावः ; ततश्च मोक्ष­शा­स्त्र­म­न­र्थ­क­मा­प­न्नम् इत्यत आह —

यथा दर्पणाभाव आभासहानौ
मुखं विद्यते कल्पनाहीनमेकम् ।
तथा धीवियोगे निराभासको यः
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ ४ ॥

यथा दर्पणाभावे सति आभासस्य मुख­प्र­ति­बि­म्बस्य हानौ सत्यां मुखं परमार्थसत् कल्पनाहीनं मिथ्या­ज्ञा­न­र­हि­तम् एकमेव परं नापरं विद्यते, तथा तेनैव प्रकारेण धीवियोगे बुद्धेरभावे निराभासको अप्रतिबिम्बः परमार्थतः सन् एक एव यः, सोऽहमात्मेति योजना । अयमभिप्रायः आत्मा­ज्ञा­न­कृ­तोऽयं बुद्ध्या­दि­प्र­पञ्चः । तत्र बुद्ध्यादौ प्रतिबिम्बरूपेण आत्मानमध्यस्य तद्ग­त­सु­ख­दुः­खा­दि­कम् आत्मन्यध्यस्यति । सोऽयमध्यासो बन्धः । आत्मज्ञानेन अज्ञा­न­नि­वृत्त्या बुद्ध्या­दि­प्र­प­ञ्च­नि­वृत्तौ अध्या­स­नि­वृ­त्ति­र्मोक्षः । न पुनः पारमार्थिकौ बन्धमोक्षौ अस्य विद्येते इति सर्वं समञ्जसमिति ॥

केचित् बुद्ध्या­दी­ना­मा­त्मत्वं मन्यन्ते ; तान्प्रत्याह —

मन­श्च­क्षु­रा­दे­र्वि­युक्तः स्वयं यो
मन­श्च­क्षु­रा­दे­र्म­न­श्च­क्षु­रादिः ।
मन­श्च­क्षु­रा­दे­र­ग­म्य­स्व­रूपः
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ ५ ॥

मनश्चक्षुरादेः मनआदेः चक्षुरादेश्च वियुक्तः पृथग्भूतः यः सोऽहमात्मेति सम्बन्धः । मन­श्च­क्षु­रा­द्यु­पा­दा­नेन तदन्तर्गतत्वात् शरीरमपि उपात्तं द्रष्टव्यम् । एतेन शरीरादपि वियुक्त इति लक्ष्यते । तथा च गुरुः — ‘बुद्धी­न्द्रि­य­श­री­रेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानारूपः प्रति­क्षे­त्र­मात्मा वृत्तिषु भासते’ इति कथं मन­श्च­क्षु­रा­दि­कस्य प्रकाशकस्य उपरि अयमात्मा प्रकाशकः, मनआदेः चक्षुरादेः कथं वियुक्तः इत्यत आह — स्वयमिति । स्वयं य आत्मा मनश्चक्षुरादेः मनश्चक्षुरादिः मन­श्च­क्षु­रा­दि­कस्य प्रकाशकस्य मनश्चक्षुरादिः प्रकाशकः, प्रका­श­क­त्व­गु­ण­यो­गात् ; अयमर्थः — यथा बाह्यस्य घटादेः प्रकाशको मनश्चक्षुरादिः ततो व्यतिरिच्यते, तथा, आन्तरस्यापि मनश्चक्षुरादेः प्रकाशकः आत्मा ततो व्यतिरिच्यत इति निश्चीयते । अत एव मन­श्च­क्षु­रा­दी­नाम् अनात्मत्वमिति सिद्धं ज्ञेयादन्यो ज्ञाता भवति । ननु आत्मनोऽपि ज्ञेयत्वात् अनात्मत्वं प्रसज्यते इत्यत आह — मन­श्च­क्षु­रा­दे­र­ग­म्य­स्व­रूपः प्रकाशस्वभावः । तथा च श्रुतिः — ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इति ॥

ननु यद्यात्मा मन­श्च­क्षु­रा­दे­र­गम्यः कथं तर्हि अस्य सिद्धिः ? घटपटादयो हि मन­श्च­क्षु­रा­द्य­धी­न­सि­द्धयो दृष्टाः । ततः आत्मनोऽपि तद­धी­न­सि­द्धि­र्युक्ता । यदा तस्य तदधीना सिद्धिर्न भवति, तदा अस्य सिद्धिरेव न स्यात् शशविषाणवत् इत्यत आह —

य एको विभाति स्वतः शुद्धचेताः
प्रका­श­स्व­रू­पोऽपि नानेव धीषु ।
शरावोदकस्थो यथा भानुरेकः
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ ६ ॥

य इति स्वतःसिद्धतामाह । एकः अद्वितीयः विभाति विशेषेण प्रकाशते स्वतः स्वयमेव न परतः शुद्धं निर्मलं चेतो मनो यस्य सः स्वतःशुद्धचेताः ; शुद्धचित्तस्य हि आत्मा स्वयमेव स्फुरतीत्यर्थः । अत एव सत्त्व­शु­द्ध्यर्थं वेदेऽपि वेदानुवचनादयो विहिताः — ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’ इति । घटपटादयश्च जडत्वात् प्रका­शा­न्त­रा­पे­क्ष­त्वाच्च न प्रकाशन्त इति युक्तम् । आत्मा तु प्रका­श­स्व­रू­प­त्वात् प्रका­शा­न्त­रा­न­पेक्षः प्रकाशते सवितृवत् — यथा सविता स्वप्रकाशः प्रकाशान्तरं नापेक्षते अथ च प्रकाशते, तद्वदात्मापीति भावः । एव­मु­त्प­न्ना­त्म­ज्ञानो अद्वयो जीवन्मुक्तः स्वयं प्रकाशरूपोऽपि परमार्थतो नानाविधासु धीषु उपाधिषु नानेव भाति यः, सोऽहमात्मेति सम्बन्धः । शरावोदकेषु उपाधिषु अवस्थितो भानुः आदित्यः प्रका­श­स्व­रू­पोऽपि एक एव सन् नानेव भाति, तद्वदात्मापीति भावः ।

ननु कथं जीवन्मुक्तः ? देहवांस्तावत् जीव­न्नि­त्यु­च्यते ; तस्य जीवतोऽपि यदि देहाभावो मुक्ति­र­भि­प्रे­यते, नासावुपपद्यते, विरोधात् । न हि जीवतो देहाभावः सम्भवति । अथ सत्यपि देहे भोगविच्छेदो मुक्तिरिति, तदपि च चतुरश्रम् । सक­ल­भो­ग­का­र­णे­न्द्रि­य­स­म्पत्तौ भोगविच्छेदस्य असम्भावितत्वात् । मिथ्या­ज्ञा­न­नि­ब­न्धनो हि भोगः ; तस्य च संयग्ज्ञानेन निवृत्तत्वात् भोगविच्छेद इति चेत् ; न, बाधितस्यापि मिथ्याज्ञानस्य द्विच­न्द्रा­दि­ज्ञा­न­वत् अनु­वृ­त्त्य­भ्यु­प­ग­मात् । अन्यथा देहवानेव न स्यात् अत एव विदुषां जनकादीनां राज्यादिकं श्रूयते । श्रुतिरपि देहवतो भोगविच्छेदं प्रतिषेधति — ‘न ह वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­रस्ति’ इति । तस्मादयुक्ता जीवन्मुक्तिरिति ।

अत्रोच्यते — जीवतस्तावत् तत्त्व­ज्ञा­न­मु­त्प­द्यते न तु मृतस्य ; शमदमादेः श्रवणमननादेश्च ज्ञानहेतोः मृतस्यासम्भवात् । अत एव हि विदुषां याज्ञ­व­ल्क्या­दीनां संन्यासः श्रूयते । न च मृतस्य संन्यासः श्रूयते सम्भवति वा । तस्मात् जीव­त­स्त­त्त्व­ज्ञा­न­मु­त्प­द्यत इति सिद्धम् । आत्मज्ञानादेव मुक्तिरिति सिद्धा जीवन्मुक्तिः ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ ‘ब्रह्म­वि­दा­प्नोति परम्’ इत्या­दि­श्रु­तिभ्यः । ननु ज्ञानस्य मोक्षफलकत्वे श्रुतिषु सहकार्यन्तरं प्रतीयते इति चेत् , न, ज्ञानमात्रस्य श्रवणात् — ‘भिद्यते हृदयग्रन्थिः’ इति ; ‘नान्यः पन्था विद्यतेऽयनाय’ इति सह­का­र्य­न्त­र­प्र­ति­षे­धाच्च । ननु श्रुतिरेव मरणसहकारिणो ज्ञानान्मोक्षं दर्शयति ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’ इति ; न, पूर्वोत्पन्नस्य ज्ञानस्य चिर­प्र­वृ­त्त­त्वात् मरणकाले तस्य संनि­धा­प­यि­तु­म­शक्तेः । तत्का­ल­मे­वो­त्प­न्नात् ज्ञाना­न्त­रा­न्मु­क्ति­रिति चेत् , न, ‘यदेव भगवान्वेद तदेव मे ब्रूहि’ इति ‘आचा­र्य­वा­न्पु­रुषो वेद’ इत्या­दि­श्रु­ति­प­र्या­लो­च­नया प्रथमज्ञानादेव मुक्तेः श्रूयमाणत्वात् । एतेन वच­ना­न्त­र­म­नु­गृ­हीतं भवति — जीवन्नेव हि विद्वान् हर्षमर्षाभ्यां विमुच्यते इति । न च ‘न ह वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­रस्ति’ इति श्रुत्य­न्त­र­वि­रोधो वाच्यः, श्रुत्यन्तरस्य सामा­न्य­वि­ष­य­त्वात् , अत्र ‘विद्वान्’ इति विशेषनिर्देशात् । ‘तस्य तावदेव चिरम्’ इति श्रुतिस्त्यक्ता स्यादिति चेत् , न, व्यवस्थया उपपत्तेः । तथा हि — मुक्तिः खलु स्वाभाविकी सर्वेषाम् , न सा ज्ञानेन जन्यते । किं तर्हि ? अवि­द्या­ति­मि­र­ति­रो­हि­ताया मुक्तेः तिमिरमात्रं निराक्रियते । तच्च प्रथमज्ञानेनैव निराकृतम् । तथापि अविद्याकार्यस्य देहस्य अविनाशात् पुनःपुनः महा­न्ध­का­र­व­दु­त्सा­रि­त­मपि तिरस्करोति । तस्य तिर­स्का­र­प्र­ति­भा­सस्य देह­वि­च्छे­दा­द्वि­च्छेदो भवति । एवं च सति प्राचीनमेव महा­न्ध­का­रो­त्सा­रणं ज्ञान­मा­त्र­नि­ब­न्ध­न­म­व­ति­ष्ठते — यथा सूर्योदयेन महा­ति­मि­रो­त्सा­रणे कृतेऽपि छत्रादिकृतस्य तिमिराभासस्य छत्रादिविगमे विगमः । ततश्च प्राचीनमेव महा­ति­मि­रो­त्सा­रणं सूर्यो­द­य­मा­त्र­नि­ब­न्ध­न­म­व­ति­ष्ठत इति । तस्मात् न ज्ञाना­न्त­रा­न्मुक्तिः । अपि तु पूर्वो­त्प­न्न­ज्ञा­ना­देव मुक्तिरिति सिद्धम् ।

ननु यदि पारमार्थिकम् अद्वैतं मिथ्या­ज्ञा­न­वि­जृ­म्भि­तश्च प्रपञ्च इति श्रुत्यर्थो अवधारितः, तत्कथं सत्यपि बाधके प्रप­ञ्चा­नु­वृत्तिः ; न हि सत्येव शुक्तिकाज्ञाने रजतादिप्रपञ्चो अनुर्तते ; उच्यते — ‘नेति नेति न ह्येतस्मादिति नेत्य­न्य­त्प­र­मस्ति’ ‘नेह नानास्ति किञ्चन’ इत्या­दि­वा­क्य­स­हि­तात् तत्त्व­म­स्या­दि­वा­क्यात् प्रप­ञ्च­वि­ल­य­द्वा­रेण अस­न्दि­ग्ध­म­बा­धितं च अद्वैतज्ञानं तावदुत्पद्यते । न च तत् प्रप­ञ्च­प्र­त्य­येन बाध्यत इति युक्तम् , तत्प्रविलयेनैव उत्पत्तेः ।

यत्पुनरुक्तं कथं प्रप­ञ्च­प्र­त्य­या­नु­वृ­त्ति­रिति, अत्रोच्यते — द्विविधं हि बाधकं भवति — यथा सत्येव मिथ्या­ज्ञा­न­हे­तु­भूते पित्तादौ जाग्रत्येव पीतः शङ्खः इति ज्ञाने निमित्तान्तरात् नायं पीत इति मिथ्या­ज्ञा­न­का­र­णा­प­गमे, वा यथा मन्दा­लो­क­प्र­भ­वस्य शुक्ति­का­र­ज­त­ज्ञा­नस्य महत्यालोके नेदं रजतमिति ज्ञानम् , तद्वदिहापि पीतः शङ्ख इति ज्ञानबाधकवत् सत्येव मिथ्याज्ञाने हेतुभूते शरीरे प्रप­ञ्च­प्र­त्य­यस्य बाध­क­म­द्वै­त­ज्ञा­न­मु­त्प­द्यते । अत एव स्वका­र­णा­द्बा­धि­त­मपि प्रपञ्चज्ञानं पीतशङ्खज्ञानवत् पुनः पुनः जायत इति । ननु देहस्यापि प्रप­ञ्चा­न्त­र्ग­त­त्वात् उच्छित्तिरेव प्रसज्यते इति चेत् ; न, प्रार­ब्ध­क­र्म­व­शात् अनुवृत्तेः । कर्मणश्च कुला­ल­च­क्र­भ्र­म­ण­व­त्सं­स्का­रा­द­नु­वृ­त्ति­रिति सिद्धा जीवन्मुक्तिरिति । कर्म­सं­स्का­र­क्ष­यश्च देहपाते सति सर्वस्यैव प्रप­ञ्च­प्र­त्य­य­स्यापि प्रविलयः । कर्मान्तराणां च ज्ञानेन क्षपितत्वात् देहा­न्त­रा­नु­त्प­त्ति­रिति परममुक्तिः ।

एवं च सति ज्ञान­मा­त्रा­न्मु­क्ति­रिति प्रतिपादनादेव कर्मणो मुक्ति­हे­तु­त्व­म­पास्तं वेदितव्यम् । तथा हि — न ताव­त्के­व­ला­त्क­र्मणो मुक्तिश्रवणात् । नापि तत एव ज्ञानसहितात् , अश्रुतेरेव । ननु ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’ इति विद्याकर्मणोः सहभावः श्रूयते ; सत्यम् , संसारविषयं तच्छ्रवणं न मुक्तिविषयम् इति । ‘याव­ज्जी­व­म­ग्नि­होत्रं जुहोति’ इत्या­दि­चो­द­ना­प्रा­प्तानां नित्य­नै­मि­त्ति­क­क­र्मणां ज्ञानस्य च अर्थात्समुच्चय इति चेत् ; न, विनि­यो­ज­क­प्र­मा­णा­भा­वात् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’ इत्यत्र तृतीयाश्रुतिः विनियोजिका इति चेत् ; न, विवि­दि­षा­स­म्ब­न्धात् कर्मणां ज्ञाना­र्थ­त्व­प्र­तीतेः मोक्षार्थत्वं नावगम्यते इति । किं च, न हि ज्ञानम् अज्ञाननिवृत्तौ उपकारकमपेक्षते, उत्पन्नादेव तस्मात् अज्ञा­न­नि­वृ­त्ते­र­व­श्य­म्भा­वात् । तथा च श्रुतिः — ‘तमेव विदि­त्वा­ति­मृ­त्यु­मेति नान्यः पन्था विद्यतेऽयनाय’ इति । अपि च यदि कर्मफलं मोक्षो भवेत् , तदा अनित्यत्वं प्रसज्यते घटा­दि­व­त्स्व­र्गा­दि­व­च्चेति । अमुमेवार्थं श्रुतिरप्याह — तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इति । ‘अग्निहोत्रादि तु तत्कार्यायैव’ इति सूत्रकारेण परम्परया कर्मणां मुक्ति­हे­तु­त्व­म­भि­हितं प्रयाजादिवत् । अतः ज्ञानार्थत्वेन कर्म­णा­मु­प­यो­गोऽ­स्त्येव । ज्ञानो­त्प­त्तेस्तु परं कर्म­णा­मु­प­यो­गा­भा­वेऽपि लोक­स­ङ्ग्र­हा­र्थ­म­नु­ष्ठानं कर्तव्यमेवेति सर्वं समञ्जसम् ॥

ननु कथम् एक एव आत्मा युगपत् अनेकां बुद्धिम् अधितिष्ठति ? न ह्येक एव अश्वसादी युग­प­द­ने­का­न­श्वा­न­धि­ति­ष्ठ­न्नु­प­ल­भ्यते । क्रमेण त्वधिष्ठानं युक्तम् । तच्चेह नास्ति ; युगपदेव सर्वबुद्धीनां स्वव्यापारे प्रवृ­त्ति­द­र्श­नात् । अनधिष्ठितानां च प्रवृ­त्त्य­स­म्भ­वाच्च । अतः नैक आत्मा इत्यत आह —

यथा­ने­क­च­क्षुः­प्र­काशो रविर्न
क्रमेण प्रकाशीकरोति प्रकाश्यम् ।
अनेका धियो यस्तथैकप्रबोधः
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ ७ ॥

यथा येन प्रका­श­क­त्व­प्र­का­रेण रविः आदित्यः एक एव अनेकेषां चक्षुषां प्रकाशको युगपदेव अनेकानि चक्षूंषि अधितिष्ठति न च क्रमेण एकैकस्मै चक्षुषे प्रकाश्यं प्रकाशीकरोति, तथा तेनैव प्रकारेण एकश्चासौ प्रबोधश्च एकप्रबोधः सः अधिष्ठाता अनेका धियो बुद्धीः युगपदधितिष्ठति न क्रमेणैकैकस्यै धियै प्रकाश्यं प्रकाशीकरोति यः सोऽहमात्मेति सम्बन्धः ॥

नन्वस्तु तर्हि रविरेव बुद्धीनां प्रेरकः अधिष्ठाता, किमा­त्मा­भ्यु­प­ग­मेन ? तथा च श्रुतिः — ‘धियो यो नः प्रचोदयात्’ इति, अत आह —

विवस्वत्प्रभातं यथारूपमक्षं
प्रगृह्णाति नाभातमेवं विवस्वान् ।
यदाभात आभासयत्यक्षमेकः
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ ८ ॥

विवस्वता सूर्येण प्रभातं प्रकाशितं रूपं यथा येन प्रकारेण अक्षं चक्षुः प्रगृह्णाति प्रकर्षेण जानाति, नाभातं न अप्रकाशितम् , अन्धकारे घटा­द्य­नु­प­ल­म्भात् एवं विवस्वानपि एकः तथा तेनैव प्रकारेण यदाभातः येनाधितिष्ठितः सन् आभासयति अधितिष्ठति अक्षं यथा विवस्वान् अधिष्ठाता, तथा विव­स्व­तोऽ­प्य­धि­ष्ठाता यः, सोऽहमात्मेति सम्बन्धः । स चाह­म्बु­द्धी­ना­म­धि­ष्ठाता ; श्रुत्या तु चक्षु­र­धि­ष्ठा­तृ­त्व­म­भि­प्रेत्य विवस्वतो बुद्धि­प्रे­र­क­त्व­म­भि­हि­तम् । यस्मा­द्वि­व­स्व­द­धि­ष्ठितं चक्षुः बुद्धि­वृ­द्धि­मु­त्पा­द­यति ; अधि­ष्ठा­तु­रा­त्मनो वा स्वरू­प­म­भि­प्रे­त्योक्तः ; तथा च 'सूर्य आत्मा जगतस्तस्थुषश्च’ इति । नन्वपि तर्हि प्रकाशान्तरेणैव अधिष्ठातव्यम् , न, तस्य स्वप्रकाशत्वात् । ‘नान्यदतोऽस्ति द्रष्टा’ इति च श्रुत्या तदि­त­र­प्र­ति­षे­धाच्च ॥

किं च —

यथा सूर्य एकोऽ­प्स्व­ने­क­श्च­लासु
स्थिरा­स्व­प्य­न­न्व­ग्वि­भा­व्य­स्व­रूपः ।
चलासु प्रभिन्नासु धीष्वेवमेकः
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ ९ ॥

यथा येन प्रकारेण आदित्यः एकः अप्सु वारिषु चलासु स्थिरासु च अनेकोऽपि नानापि एकः सन् प्रतिभासते अन­न्व­ग्वि­भा­व्य­स्व­रूपः अनु पश्चात् अञ्चति गच्छतीति अन्वक् न अन्वक् अनन्वक् अननुगत इति यावत् । यद्वा अनन्वक्त्वेन विभाव्यं स्वरूपं यस्य स तथोक्तः । एवं बहुव्रीहिसमासं कृत्वा पश्चात् नञ्समासः । ततश्चायमर्थो भवति — न वारिषु रविरनुगतो भवति । किं तर्हि तथैव नभसि देदीप्यमानो भ्रान्त्या वारिषु दृश्यत इत्यर्थः । एवं एक आत्मा चलासु प्रभिन्नासु नानाभूतासु धीषु बुद्धिषु अनेकः सन् अन­न्व­ग्वि­भा­व्य­स्व­रूपो न बुद्धीरनुगतो भवति । किं तर्हि, पृथगेव देदीप्यते यः सोऽह­मा­त्मे­त्यर्थः ॥

किं च —

घन­च्छ­न्न­दृ­ष्टि­र्घ­न­च्छ­न्न­मर्कं
यथा निष्प्रभं मन्यते चातिमूढः ।
तथा बद्धवद्भाति यो मूढदृष्टेः
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ १० ॥

१०

घनेन मेघेन छन्ना तिरोहिता दृष्टिः दर्शनं यस्य सः घनच्छन्नदृष्टिः पुरुषः घनच्छन्नम् अर्कम् आदित्यं यथा येन घन­च्छ­न्न­त्व­प्र­का­रेण मन्यते जानाति निष्प्रभं प्रभारहितम् अप्र­का­श­स्व­भा­व­मिति यावत् । मूढो मन्यते घन­च्छ­न्न­दृ­ष्टि­त्वात् प्रकाशस्वभावमपि रविम् अप्रकाशं पश्यतीत्याह — अतिमूढ इति । अतिमूर्खत्वात् स्वात्मनो दृष्टि­वि­घा­त­म­ग­ण­यन् सूर्यमेव अप्रकाशं मन्यते । पादपूरणे चकारः । तथा तेन प्रकारेण अवि­द्या­च्छ­न्न­दृष्टिः बुद्धि­मा­त्म­त्वेन गृहीत्वा तद्गतदुःखादिकम् आत्म­न्य­ध्या­रोप्य बद्ध इव आभाति यः मूढदृष्टेः सोऽहमात्मेति सम्बन्धः ॥

किं च —

समस्तेषु वस्तु­ष्व­नु­स्यू­त­मेकं
समस्तानि वस्तूनि यं न स्पृशन्ति ।
वियद्वत्सदा शुद्ध­म­च्छ­स्व­रूपं
स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥ ११ ॥

११

समस्तेषु निरवशेषेषु प्रपञ्चात्मकेषु सदात्मना अनुस्यूतम् अनुगतं व्याप्तम् एवं हि नाना समस्तानि वस्तूनि प्रपञ्चात्मकानि यं सद्रूपं न स्पृशन्ति । कुतः ? वियद्वत् आकाशमिव सदा सर्वदा शुद्धं निर्मलं रागादिदोषरहितम् अच्छस्वरूपम् अमृतरूपं यत् परं ब्रह्म सोऽहमात्मेति सम्बन्धः ॥

व्युत्पा­दि­त­म­र्थ­मु­प­सं­ह­रति —

उपाधौ यथा भेदता सन्मणीनां
तथा भेदता बुद्धिभेदेषु तेऽपि ।
यथा चन्द्रिकाणां जले चञ्चलत्वं
तथा चञ्चलत्वं तवापीह विष्णो ॥ १२ ॥

१२

उपाधौ सति उपा­धि­भे­द­स­म्बन्धे सति यथा भेदता भेद एव भेदता, स्वार्थे तल् , सन्मणीनां विशुद्धमणीनां स्फटिकादीनां लोहि­त­कृ­ष्णा­दि­भे­देन भेदता भेदः । तथा बुद्धिभेदेषु नानाबुद्धिषु ते तवापि नानात्वं हे विष्णो परमार्थतस्तु तव भेदो नास्त्येव बुद्ध्यु­पा­धि­कृ­तस्तु विद्यत इत्यर्थः । यथा चन्द्रिकाणां चन्द्रा एव चन्द्रिकाः, स्वार्थे कप्रत्ययः, निर्मलितानां जले प्रति­बि­म्बि­त­स्व­रू­पेण दृश्यमानानां जलस्य चञ्चलत्वात् चञ्चलत्वम् औपाधिकं न पारमार्थिकम् , तथा बुद्धीनां चञ्चलत्वात् तवापि चञ्च­ल­त्व­मौ­पा­धिकं न पार­मा­र्थि­क­मि­त्यर्थः । इह बुद्धिषु हे विष्णो व्यापनशील ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य
श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य
श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ
हस्ता­म­ल­की­य­भाष्यं सम्पूर्णम् ॥