अद्वैतशारदा

ईशावास्योपनिषद्भाष्यम्

१ विभागः

व्याख्याः

‘ईशा वास्यम्’ इत्यादयो मन्त्राः कर्म­स्व­वि­नि­युक्ताः, तेषा­म­क­र्म­शे­ष­स्या­त्मनो याथा­त्म्य­प्र­का­श­क­त्वात् । याथात्म्यं चात्मनः शुद्ध­त्वा­पा­प­वि­द्ध­त्वै­क­त्व­नि­त्य­त्वा­श­री­र­त्व­स­र्व­ग­त­त्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवं­ल­क्ष­ण­मा­त्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्यं वा कर्तृभोक्तृरूपं वा, येन कर्मशेषता स्यात् ; सर्वा­सा­मु­प­नि­ष­दा­मा­त्म­या­था­त्म्य­नि­रू­प­णे­नै­वो­प­क्ष­यात् , गीतानां मोक्षधर्माणां चैवम्परत्वात् । तस्मा­दा­त्म­नोऽ­ने­क­त्व­क­र्तृ­त्व­भो­क्तृ­त्वादि च अशु­द्ध­त्व­पा­प­वि­द्ध­त्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि । यो हि कर्मफलेनार्थी दृष्टेन ब्रह्म­व­र्च­सा­दिना अदृष्टेन स्वर्गादिना च द्विजातिरहं न काण­त्व­कु­ब्ज­त्वा­द्य­न­धि­का­र­प्र­यो­ज­क­ध­र्म­वा­नि­त्या­त्मानं मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथा­त्म्य­प्र­का­श­नेन आत्मविषयं स्वाभा­वि­क­क­र्म­वि­ज्ञानं निवर्तयन्तः शोक­मो­हा­दि­सं­सा­र­ध­र्म­वि­च्छि­त्ति­सा­ध­न­मा­त्मै­क­त्वा­दि­वि­ज्ञा­न­मु­त्पा­द­य­न्तीति । एव­मु­क्ता­धि­का­र्य­भि­धे­य­स­म्ब­न्ध­प्र­यो­ज­ना­न्म­न्त्रा­न्स­ङ्क्षे­पतो व्याख्यास्यामः —

ईशा वास्यमिदं सर्वं यत्किंच जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥

ईशा ईष्टे इति ईट् , तेन ईशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्व­ज­न्तू­ना­मात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छादनीयम् । किम् ? इदं सर्वं यत्किंच यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति पर­मा­र्थ­स­त्य­रू­पे­णा­नृ­त­मिदं सर्वं चरा­च­र­मा­च्छा­द­नीयं स्वेन परमात्मना । यथा चन्द­ना­ग­र्वा­दे­रु­द­का­दि­स­म्ब­न्ध­ज­क्ले­दा­दि­ज­मौ­पा­धिकं दौर्गन्ध्यं तत्स्व­रू­प­नि­घ­र्ष­णे­ना­च्छा­द्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्म­न्य­ध्यस्तं स्वाभाविकं कर्तृ­त्व­भो­क्तृ­त्वा­दि­ल­क्षणं जगद्द्वैतरूपं जगत्यां पृथिव्याम् , जग­त्या­मि­त्यु­प­ल­क्ष­णा­र्थ­त्वा­त्स­र्व­मेव नामरूपकर्माख्यं विकारजातं पर­मा­र्थ­स­त्या­त्म­भा­व­नया त्यक्तं स्यात् । एव­मी­श्व­रा­त्म­भा­व­नया युक्तस्य पुत्रा­द्ये­ष­णा­त्र­य­सं­न्यासे एवाधिकारः, न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो मृतः पुत्रो भृत्यो वा आत्म­स­म्ब­न्धि­ता­भा­वा­दा­त्मानं पालयति । अत­स्त्या­गे­ने­त्य­य­मे­वार्थः । भुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः गृधिम् आकाङ्क्षां मा कार्षीः धनविषयाम् । कस्य स्वित् धनं कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षी­रि­त्यर्थः । स्विदित्यनर्थको निपातः । अथवा, मा गृधः । कस्मात् ? कस्य स्विद्धनम् इत्याक्षेपार्थः । न कस्य­चि­द्ध­न­मस्ति, यद्गृध्येत । आत्मैवेदं सर्व­मि­ती­श्व­र­भा­व­नया सर्वं त्यक्तम् । अत आत्मन एवेदं सर्वम् , आत्मैव च सर्वम् । अतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः ॥

एवमात्मविदः पुत्रा­द्ये­ष­णा­त्र­य­सं­न्या­से­ना­त्म­ज्ञा­न­नि­ष्ठ­तया आत्मा रक्षितव्य इत्येष वेदार्थः । अथेतरस्य अना­त्म­ज्ञ­त­या­त्म­ग्र­ह­णा­या­श­क्तस्य इदमुपदिशति मन्त्रः —

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥

कुर्वन्नेव निर्वर्तयन्नेव इह कर्माणि अग्निहोत्रादीनि जिजीविषेत् जीवितुमिच्छेत् शतं शतसङ्ख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य पर­मा­यु­र्नि­रू­पि­तम् । तथा च प्राप्तानुवादेन यज्जि­जी­वि­षे­च्छतं वर्षाणि तत्कुर्वन्नेव कर्मा­णी­त्ये­त­द्वि­धी­यते । एवम् एवंप्रकारेण त्वयि जिजीविषति नरे नर­मा­त्रा­भि­मा­निनि इतः एत­स्मा­द­ग्नि­हो­त्रा­दीनि कर्माणि कुर्वतो वर्त­मा­ना­त्प्र­का­रात् अन्यथा प्रकारान्तरं नास्ति, येन प्रकारेणाशुभं कर्म न लिप्यते ; कर्मणा न लिप्यस इत्यर्थः । अतः शास्त्रविहितानि कर्मा­ण्य­ग्नि­हो­त्रा­दीनि कुर्वन्नेव जिजीविषेत् ॥

कथं पुनरिदमवगम्यते — पूर्वेण मन्त्रेण संन्यासिनो ज्ञान­नि­ष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठेति ? उच्यते — ज्ञान­क­र्म­णो­र्वि­रोधं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम् ? इहाप्युक्तम् — यो हि जिजीविषेत्स कर्माणि कुर्वन्नेव इति ; ‘ईशा वास्यमिदं सर्वम्’, ‘तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्विद्धनम्’ इति च । ‘न जीविते मरणे वा गृधिं कुर्वी­ता­र­ण्य­मि­यात् इति पदं ततो न पुनरेयात्’(?) इति च संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । ‘इमौ द्वावेव पन्था­ना­व­नु­नि­ष्क्रा­न्त­तरौ भवतः क्रियापथश्चैव पुर­स्ता­त्सं­न्या­सश्च’ उत्तरेण निवृ­त्ति­मा­र्गे­णै­ष­णा­त्र­यस्य त्यागः(?) ; तयोः संन्यास एवातिरेचयति — ‘न्यास एवात्यरेचयत्’(तै. नारा. ७८) इति तैत्तिरीयके । ‘द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभाषितः’(मो. ध. २४१ । ६) इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता । विभागं चानयोः प्रदर्शयिष्यामः ॥

अथे­दा­नी­म­वि­द्व­न्नि­न्दा­र्थोऽयं मन्त्र आरभ्यते —

असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
तांस्ते प्रेत्या­भि­ग­च्छन्ति ये के चात्महनो जनाः ॥ ३ ॥

असुर्याः पर­मा­त्म­भा­व­म­द्व­य­म­पेक्ष्य देवा­द­योऽ­प्य­सुराः । तेषां च स्वभूता लोका असुर्याः नाम । नामशब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अद­र्श­ना­त्म­के­ना­ज्ञा­नेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान् , प्रेत्य त्यक्त्वेमं देहम् अभिगच्छन्ति यथाकर्म यथाश्रुतम् । ये के च आत्महनः आत्मानं घ्नन्ती­त्या­त्म­हनः । के ? ते जनाः येऽविद्वांसः । कथं ते आत्मानं नित्यं हिंसन्ति ? अविद्यादोषेण विद्य­मा­न­स्या­त्म­न­स्ति­र­स्क­र­णात् । विद्य­मा­न­स्या­त्मनो यत्कार्यं फल­म­ज­रा­म­र­त्वा­दि­सं­वे­द­ना­दि­ल­क्ष­णम् , तत् हतस्येव तिरोभूतं भवतीति प्राकृता अविद्वांसो जना आत्महन इत्युच्यन्ते । तेन ह्यात्महननदोषेण संसरन्ति ते ॥

यस्यात्मनो हननादविद्वांसः संसरन्ति, तद्विपर्ययेण विद्वांसो मुच्य­न्तेऽ­ना­त्म­हनः, तत्की­दृ­श­मा­त्म­त­त्त्व­मि­त्यु­च्यते —

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नु­व­न्पू­र्व­म­र्षत् ।
तद्धा­व­तोऽ­न्या­न­त्येति तिष्ठ­त्त­स्मि­न्नपो मातरिश्वा दधाति ॥ ४ ॥

अनेजत् न एजत् । ‘एजृ कम्पने’, कम्पनं चलनं स्वाव­स्था­प्र­च्युतिः, तद्वर्जितम् , सर्वदा एकरूपमित्यर्थः । तच्च एकं सर्वभूतेषु । मनसः सङ्क­ल्पा­दि­ल­क्ष­णात् जवीयो जववत्तरम् । कथं विरुद्धमुच्यते — ध्रुवं निश्चलमिदम् , मनसो जवीय इति च ? नैष दोषः, निरु­पा­ध्यु­पा­धि­म­त्त्वे­नो­प­पत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यते — अनेजदेकम् इति । मनसः अन्तःकरणस्य सङ्क­ल्प­वि­क­ल्प­ल­क्ष­ण­स्यो­पा­धे­र­नु­व­र्त­नात् । इह देहस्थस्य मनसो ब्रह्म­लो­का­दि­दू­र­स्थ­स­ङ्क­ल्पनं क्षण­मा­त्रा­द्भ­व­ती­त्यतो मनसो जविष्ठत्वं लोकप्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति, प्रथमप्राप्त इवा­त्म­चै­त­न्या­भासो गृह्यते । अतः मनसो जवीयः इत्याह । नैनद्देवाः, द्योतनाद्देवाः चक्षु­रा­दी­नी­न्द्रि­याणि, एनत् प्रकृ­त­मा­त्म­तत्त्वं नाप्नुवन् न प्राप्तवन्तः । तेभ्यो मनो जवीयः । मनो­व्या­पा­र­व्य­व­हि­त­त्वा­दा­भा­स­मा­त्र­म­प्या­त्मनो नैव देवानां विषयीभवति ; यस्मा­ज्ज­व­ना­न्म­न­सोऽपि पूर्वमर्षत् पूर्वमेव गतम् , व्योम­व­द्व्या­पि­त्वात् । सर्वव्यापि तदात्मतत्त्वं सर्व­सं­सा­र­ध­र्म­व­र्जितं स्वेन निरुपाधिकेन स्वरू­पे­णा­वि­क्रि­य­मेव सत् , उपाधिकृताः सर्वाः संसारविक्रिया अनु­भ­व­ती­वा­वि­वे­किनां मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इत्येतदाह — तत् धावतः द्रुतं गच्छतः अन्यान् आत्म­वि­ल­क्ष­णा­न्म­नो­वा­गि­न्द्रि­य­प्र­भृ­तीन् अत्येति अतीत्य गच्छतीव । इवार्थं स्वयमेव दर्शयति — तिष्ठदिति, स्वयमविक्रियमेव सदित्यर्थः । तस्मिन् आत्मतत्त्वे सति नित्य­चै­त­न्य­स्व­भावे, मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्व­प्रा­ण­भृ­त्क्रि­या­त्मकः, यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च, यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ, स मातरिश्वा, अपः कर्माणि प्राणिनां चेष्टालक्षणानि अग्न्या­दि­त्य­प­र्ज­न्या­दीनां ज्वल­न­द­ह­न­प्र­का­शा­भि­व­र्ष­णा­दि­ल­क्ष­णानि, दधाति विभजतीत्यर्थः, धारयतीति वा ; ‘भीषास्माद्वातः पवते’ इत्या­दि­श्रु­तिभ्यः । सर्वा हि कार्य­क­र­ण­वि­क्रिया नित्य­चै­त­न्या­त्म­स्व­रूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥

न मन्त्राणां जामितास्तीति पूर्व­म­न्त्रो­क्त­म­प्यर्थं पुनराह —

तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥

तत् आत्मतत्त्वं यत्प्रकृतम् एजति चलति तदेव च नैजति स्वतो नैव चलति, स्वतः अचलमेव सत् चलतीवेत्यर्थः । किञ्च, तद्दूरे वर्ष­को­टि­श­तै­र­प्य­वि­दु­षा­म­प्रा­प्य­त्वा­द्दूर इव । तदु अन्तिके समीपे अत्यन्तमेव विदुषाम् , आत्मत्वात् न केवलं दूरे, अन्तिके च । तत् अन्तः अभ्यन्तरे अस्य सर्वस्य, ‘य आत्मा सर्वान्तरः’ इति श्रुतेः, अस्य सर्वस्य जगतो नाम­रू­प­क्रि­या­त्म­कस्य । तत्तु सर्वस्य अस्य बाह्यतः ; व्याप­क­त्वा­दा­का­श­व­न्नि­र­ति­श­य­सू­क्ष्म­त्वा­दन्तः ; ‘प्रज्ञानघन एव’(बृ. उ. ४ । ५ । १३) इति शासनान्निरन्तरं च ॥

यस्तु सर्वाणि भूतानि आत्म­न्ये­वा­नु­प­श्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥

यस्तु परिव्राट् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति, आत्म­व्य­ति­रि­क्तानि न पश्यतीत्यर्थः । सर्वभूतेषु तेष्वेव च आत्मानं तेषामपि भूतानां स्वमा­त्मा­न­मा­त्म­त्वेन — यथास्य देहस्य कार्य­क­र­ण­स­ङ्घा­त­स्यात्मा अहं सर्व­प्र­त्य­य­सा­क्षि­भू­त­श्चे­त­यिता केवलो निर्गुणोऽनेनैव स्वरू­पे­णा­व्य­क्ता­दीनां स्थाव­रा­न्ता­ना­म­ह­मे­वा­त्मेति सर्वभूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति, सः ततः तस्मादेव दर्शनात् न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्त­स्यै­वा­नु­वा­दोऽ­यम् । सर्वा हि घृणा आत्म­नोऽ­न्य­द्दुष्टं पश्यतो भवति ; आत्मा­न­मे­वा­त्य­न्त­वि­शुद्धं निरन्तरं पश्यतो न घृणा­नि­मि­त्त­म­र्था­न्त­र­म­स्तीति प्राप्तमेव — ततो न विजुगुप्सत इति ॥

इम­मे­वा­र्थ­म­न्योऽपि मन्त्र आह —

यस्मिन्सर्वाणि भूतानि आत्मै­वा­भू­द्वि­जा­नतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥

यस्मिन्सर्वाणि भूतानि यस्मिन् काले यथोक्तात्मनि वा, तान्येव भूतानि सर्वाणि पर­मा­र्था­त्म­द­र्श­नात् आत्मैवाभूत् आत्मैव संवृत्तः परमार्थवस्तु विजानतः, तत्र तस्मिन्काले तत्रात्मनि वा, को मोहः कः शोकः । शोकश्च मोहश्च काम­क­र्म­बी­ज­म­जा­नतो भवति, न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति शोक­मो­ह­यो­र­वि­द्या­का­र्य­यो­रा­क्षे­पे­णा­स­म्भ­व­प्र­का­श­नात् सकारणस्य संसा­र­स्या­त्य­न्त­मे­वो­च्छेदः प्रदर्शितो भवति ॥

योऽय­म­ती­तै­र्म­न्त्रै­रुक्त आत्मा, स स्वेन रूपेण किंलक्षण इत्याह अयं मन्त्रः —

स पर्य­गा­च्छु­क्र­म­का­य­म­व्र­ण­म­स्ना­विरं शुद्ध­म­पा­प­वि­द्धम् ।
कविर्मनीषी परिभूः स्वय­म्भू­र्या­था­त­थ्य­तोऽ­र्था­न्व्य­द­धा­च्छा­श्व­तीभ्यः समाभ्यः ॥ ८ ॥

स पर्यगात् , सः यथोक्त आत्मा पर्यगात् परि समन्तात् अगात् गतवान् , आका­श­व­द्व्या­पी­त्यर्थः । शुक्रं शुभ्रं ज्योतिष्मत् दीप्ति­मा­नि­त्यर्थः । अकायम् अशरीरं लिङ्गशरीरवर्जित इत्यर्थः । अव्रणम् अक्षतम् । अस्नाविरम् स्नावाः सिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्र­ण­म­स्ना­वि­र­मि­त्ये­ताभ्यां स्थूल­श­री­र­प्र­ति­षेधः । शुद्धं निर्म­ल­म­वि­द्या­म­ल­र­हि­त­मिति कार­ण­श­री­र­प्र­ति­षेधः । अपापविद्धं धर्मा­ध­र्मा­दि­पा­प­व­र्जि­तम् । शुक्रमित्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि, स पर्यगात् इत्युपक्रम्य कविर्मनीषी इत्यादिना पुंलि­ङ्ग­त्वे­नो­प­सं­हा­रात् । कविः क्रान्तदर्शी सर्वदृक् , ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । मनीषी मनस ईषिता, सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां परि उपरि भवतीति परिभूः । स्वयम्भूः स्वयमेव भवतीति, येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः । स नित्यमुक्त ईश्वरः याथातथ्यतः सर्वज्ञत्वात् यथातथाभावो याथातथ्यं तस्मात् यथा­भू­त­क­र्म­फ­ल­सा­ध­नतः अर्थान् कर्त­व्य­प­दा­र्थान् व्यदधात् विहितवान् , यथानुरूपं व्यभजदित्यर्थः । शाश्वतीभ्यः नित्याभ्यः समाभ्यः संव­त्स­रा­ख्येभ्यः प्रजापतिभ्य इत्यर्थः ॥

अत्राद्येन मन्त्रेण सर्वै­ष­णा­प­रि­त्या­गेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः ‘ईशावास्यमिदं सर्वम्. . . मा गृधः कस्य स्विद्धनम्’(ई. उ. १) इति । अज्ञानां जिजीविषूणां ज्ञान­नि­ष्ठा­स­म्भवे ‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’(ई. उ. २) इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः । अनयोश्च निष्ठयोर्विभागो मन्त्र­द्व­य­प्र­द­र्शि­त­यो­र्बृ­ह­दा­र­ण्य­केऽपि दर्शितः — ‘सोऽकामयत जाया मे स्यात्’(बृ. उ. १ । ४ । १७) इत्यादिना अज्ञस्य कामिनः कर्माणीति । ‘मन एवास्यात्मा वाग्जाया’(बृ. उ. १ । ४ । १७) , इत्यादिवचनात् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते । तथा च तत्फलं सप्ता­न्न­स­र्ग­स्ते­ष्वा­त्म­भा­वे­ना­त्म­स्व­रू­पा­व­स्था­नम् । जाया­द्ये­ष­णा­त्र­य­सं­न्या­सेन चात्मविदां कर्म­नि­ष्ठा­प्रा­ति­कू­ल्येन आत्म­स्व­रू­प­नि­ष्ठैव दर्शिता — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’(बृ. उ. ४ । ४ । २२) इत्यादिना । ये तु ज्ञाननिष्ठाः संन्या­सि­न­स्तेभ्यः ‘असुर्या नाम ते’(ई. उ. ३) इत्यादिना अवि­द्व­न्नि­न्दा­द्वा­रे­णा­त्मनो याथात्म्यम् ‘स पर्यगात्’(ई. उ. ८) इत्ये­त­द­न्तै­र्म­न्त्रै­रु­प­दि­ष्टम् । ते ह्यत्राधिकृता न कामिन इति । तथा च श्वेताश्वतराणां मन्त्रोपनिषदि — ‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्य­गृ­षि­स­ङ्घ­जु­ष्टम्’(श्वे. उ. ६ । २१) इत्यादि विभज्योक्तम् । ये तु कामिनः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवः, तेभ्य इदमुच्यते — ‘ अन्धं तमः’(ई. उ. ९) इत्यादि । कथं पुनरेवमवगम्यते, न तु सर्वेषाम् इति ? उच्यते — अकामिनः साध्य­सा­ध­न­भे­दो­प­म­र्देन ‘यस्मिन्सर्वाणि भूतानि आत्मै­वा­भू­द्वि­जा­नतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इति यत् आत्मै­क­त्व­वि­ज्ञा­नम् , तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीषति । इह तु समुच्चिचीषया अवि­द्व­दा­दि­निन्दा क्रियते । तत्र च यस्य येन समुच्चयः सम्भवति न्यायतः शास्त्रतो वा तदिहोच्यते । तद्दैवं वित्तं देवताविषयं ज्ञानं कर्म­स­म्ब­न्धि­त्वे­नो­प­न्यस्तं न परमात्मज्ञानम् , ‘विद्यया देवलोकः’(बृ. उ. १ । ५ । १६)‘विद्यया देवलोकः’(बृ. उ. १ । ५ । १६) इति पृथक्फलश्रवणात् । तयो­र्ज्ञा­न­क­र्म­णो­रि­है­कै­का­नु­ष्ठा­न­निन्दा समुच्चिचीषया, न निन्दापरैव एकैकस्य, पृथक्फलश्रवणात् — ‘विद्यया तदारोहन्ति’ ‘विद्यया देवलोकः’ ‘न तत्र दक्षिणा यान्ति’ ‘कर्मणा पितृलोकः’(बृ. उ. १ । ५ । १६) इति । न हि शास्त्रविहितं किञ्चि­द­क­र्त­व्य­ता­मि­यात् । तत्र —

अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥

अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति । के ? ये अविद्याम् , विद्याया अन्या अविद्या कर्मेत्यर्थः, कर्मणो विद्या­वि­रो­धि­त्वात् , ताम­वि­द्या­म­ग्नि­हो­त्रा­दि­ल­क्ष­णा­मेव केवलाम् उपासते तत्पराः सन्तोऽ­नु­ति­ष्ठ­न्ती­त्य­भि­प्रायः । ततः तस्मा­द­न्धा­त्म­का­त्त­मसः भूय इव बहुतरमेव ते तमः प्रविशन्ति । के ? कर्म हित्वा ये उ ये तु विद्यायामेव देवताज्ञाने एव रताः अभिरताः ॥

तत्रा­वा­न्त­र­फ­ल­भेदं विद्याकर्मणोः समुच्चयकारणमाह । अन्यथा फलवदफलवतोः संनि­हि­त­यो­र­ङ्गा­ङ्गि­तया जामितैव स्यादिति —

अन्य­दे­वा­हु­र्वि­द्यया अन्य­दा­हु­र­वि­द्यया ।
इति शुश्रुम धीराणां ये नस्त­द्वि­च­च­क्षिरे ॥ १० ॥

१०

अन्यत् पृथगेव विद्यया क्रियते फलमिति आहुः वदन्ति ‘विद्यया देवलोकः’ ‘विद्यया तदारोहन्ति’ इति श्रुतेः, अन्य­दा­हु­र­वि­द्यया कर्मणा क्रियते फलमिति । तथोक्तम् — ‘कर्मणा पितृलोकः, विद्यया देवलोकः’(बृ. उ. १ । ५ । १६) इति । इति एवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । ये आचार्या नः अस्मभ्यं तत् कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तः, तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥

यत एवमतः —

विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते ॥ ११ ॥

११

विद्यां च अविद्यां च देवताज्ञानं कर्म चेत्यर्थः । यस्तत् एतदुभयं सह एकेन पुरुषेण अनुष्ठेयं वेद तस्यैवं समुच्चयकारिण एवै­क­पु­रु­षा­र्थ­स­म्बन्धः क्रमेण स्यादित्युच्यते — अविद्यया कर्मणा अग्निहोत्रादिना मृत्युम् , स्वाभाविकं कर्म ज्ञानं च मृत्यु­श­ब्द­वा­च्यम् , तदुभयं तीर्त्वा अतिक्रम्य विद्यया देवताज्ञानेन अमृतं देवतात्मभावम् अश्नुते प्राप्नोति । तद्ध्य­मृ­त­मु­च्यते, यद्दे­व­ता­त्म­ग­म­नम् ॥

अधुना व्याकृ­ता­व्या­कृ­तो­पा­स­नयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते —

अन्धं तमः प्रविशन्ति येऽस­म्भू­ति­मु­पा­सते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥

१२

अन्धं तमः प्रविशन्ति ये असम्भूतिम् , सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिः तस्या अन्या असम्भूतिः प्रकृतिः कारणम् अव्याकृताख्यम् , ताम­स­म्भू­ति­म­व्या­कृ­ताख्यां प्रकृतिं कारणमविद्यां काम­क­र्म­बी­ज­भू­ता­म­द­र्श­ना­त्मि­काम् उपासते ये ते तदनुरूपमेवान्धं तमः अदर्शनात्मकं प्रविशन्ति । ततः तस्मादपि भूयो बहुतरमिव तमः ते प्रविशन्ति ये उ सम्भूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः ॥

अधुना उभयोरुपासनयोः समु­च्च­य­का­र­ण­म­व­य­व­फ­ल­भे­द­माह —

अन्यदेवाहुः सम्भ­वा­द­न्य­दा­हु­र­स­म्भ­वात् ।
इति शुश्रुम धीराणां ये नस्त­द्वि­च­च­क्षिरे ॥ १३ ॥

१३

अन्यदेव पृथगेव आहुः फलं सम्भवात् सम्भूतेः कार्य­ब्र­ह्मो­पा­स­नात् अणि­मा­द्यै­श्व­र्य­ल­क्ष­णम् आख्यातवन्त इत्यर्थः । तथा च अन्य­दा­हु­र­स­म्भ­वात् असम्भूतेः अव्याकृतात् अव्या­कृ­तो­पा­स­नात् यदुक्तम् ‘अन्धं तमः प्रविशन्ति’(ई. उ. ९) इति, प्रकृतिलय इति च पौराणिकैरुच्यते । इति एवं शुश्रुम धीराणां वचनं ये नस्त­द्वि­च­च­क्षिरे व्याकृ­ता­व्या­कृ­तो­पा­स­न­फलं व्याख्यातवन्त इत्यर्थः ॥

यत एवम् , अतः समुच्चयः सम्भू­त्य­स­म्भू­त्यु­पा­स­न­यो­र्युक्तः एकै­क­पु­रु­षा­र्थ­त्वा­च्चे­त्याह —

सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भू­त्या­मृ­त­म­श्नुते ॥ १४ ॥

१४

सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह, विनाशेन, विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेनोच्यते ‘विनाशः’ इति । तेन तदु­पा­स­ने­ना­नै­श्व­र्य­म­ध­र्म­का­मा­दि­दो­ष­जातं च मृत्युं तीर्त्वा, हिर­ण्य­ग­र्भो­पा­स­नेन ह्यणि­मा­दि­प्राप्तिः फलम् , तेना­नै­श्व­र्या­दि­मृ­त्यु­म­तीत्य, असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृ­ति­ल­य­ल­क्ष­णम् अश्नुते । ‘सम्भूतिं च विनाशं च’ इत्य­त्रा­व­र्ण­लो­पेन निर्देशो द्रष्टव्यः, प्रकृ­ति­ल­य­फ­ल­श्रु­त्य­नु­रो­धात् ॥

मानु­ष­दै­व­वि­त्त­साध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् ; एतावती संसारगतिः । अतः परं पूर्वोक्तम् ‘आत्मै­वा­भू­द्वि­जा­नतः’ इति सर्वात्मभाव एव सर्वै­ष­णा­सं­न्या­स­ज्ञा­न­नि­ष्ठा­फ­लम् । एवं द्विप्रकारः प्रवृ­त्ति­नि­वृ­त्ति­ल­क्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृ­त्ति­ल­क्ष­णस्य वेदार्थस्य विधि­प्र­ति­षे­ध­ल­क्ष­णस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्म­ण­मु­प­यु­क्तम् । निवृ­त्ति­ल­क्ष­णस्य वेदार्थस्य प्रकाशने अत ऊर्ध्वं बृह­दा­र­ण्य­क­मु­प­यु­क्तम् । तत्र निषे­का­दि­श्म­शा­नान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सहा­प­र­ब्र­ह्म­वि­ष­यया, तदुक्तम् — ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते’(ई. उ. १) इति, तत्र सोऽधिकारी केन मार्गे­णा­मृ­त­त्व­म­श्नुते इत्युच्यते — ‘तद्य­त्त­त्स­त्य­मसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षि­णेऽ­क्ष­न्पु­रुषः’(बृ. उ. ५ । ५ । २) एतदुभयं सत्यं ब्रह्मोपासीनः यथोक्तकर्मकृच्च यः, सोऽन्तकाले प्राप्ते सत्या­त्मा­न­मा­त्मनः प्राप्तिद्वारं याचते —

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥

१५

हिरण्मयेन पात्रेण हिरण्मयमिव हिरण्मयम् , ज्योति­र्म­य­मि­त्ये­तत् , तेन पात्रेणेव अपिधानभूतेन सत्यस्य आदि­त्य­म­ण्ड­ल­स्थस्य ब्रह्मणः अपिहितम् आच्छादितं मुखं द्वारम् ; तत् त्वं हे पूषन् अपावृणु अपसारय सत्यधर्माय तव सत्य­स्यो­पा­स­ना­त्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यम् ; अथवा, यथाभूतस्य धर्म­स्या­नु­ष्ठात्रे, दृष्टये तव सत्यात्मन उपलब्धये ॥

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह
रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं
तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥

१६

हे पूषन् जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छ­ती­त्ये­कर्षिः हे एकर्षे । तथा सर्वस्य संयमनाद्यमः हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीक­र­णा­त्सूर्यः हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य । व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहर तेजः तावकं ज्योतिः । यत् ते तव रूपं कल्याणतमम् अत्यन्तशोभनम् , तत् ते तवात्मनः प्रसादात् पश्यामि । किञ्च, अहं न तु त्वां भृत्यवद्याचे योऽसौ आदित्यमण्डलस्थः असौ व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात् , पूर्णं वानेन प्राण­बु­द्ध्या­त्मना जगत्समस्तमिति पुरुषः ; पुरि शयनाद्वा पुरुषः । सोऽहम् अस्मि भवामि ॥

वायु­र­नि­ल­म­मृ­त­म­थेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७ ॥

१७

अथेदानीं मम मरिष्यतो वायुः प्राणः अध्या­त्म­प­रि­च्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकम् अनिलम् अमृतं सूत्रात्मानं प्रतिपद्यतामिति वाक्यशेषः । लिङ्गं चेदं ज्ञान­क­र्म­सं­स्कृ­त­मु­त्क्रा­म­त्विति द्रष्टव्यम् , मार्ग­या­च­न­सा­म­र्थ्यात् । अथ इदं शरीरमग्नौ हुतं भस्मान्तं भस्मावशेषं भूयात् । ओमिति यथोपासनम् ओम्प्र­ती­का­त्म­क­त्वा­त्स­त्या­त्म­क­म­ग्न्याख्यं ब्रह्मा­भे­दे­नो­च्यते । हे क्रतो सङ्कल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितः, अतः स्मर एतावन्तं कालं भावितं कृतम् अग्ने स्मर यन्मया बाल्य­प्र­भृ­त्य­नु­ष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मर इति पुन­र्व­च­न­मा­द­रा­र्थम् ॥

पुनरन्येन मन्त्रेण मार्गं याचते —

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
युयो­ध्य­स्म­ज्जु­हु­रा­ण­मेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥

१८

हे अग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षि­ण­मा­र्ग­नि­वृ­त्त्य­र्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन ; अतो याचे त्वां पुनः पुनः गमनागमनवर्जितेन शोभनेन पथा नय । राये धनाय, कर्म­फ­ल­भो­गा­ये­त्यर्थः । अस्मान् यथो­क्त­ध­र्म­फ­ल­वि­शि­ष्टान् विश्वानि सर्वाणि हे देव वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् । किञ्च, युयोधि वियोजय विनाशय अस्मत् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकम् एनः पापम् । ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः । किन्तु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुम् ; भूयिष्ठां बहुतरां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः ॥

‘अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते’(ई. उ. ११) ‘विनाशेन मृत्युं तीर्त्वा अस­म्भू­त्या­मृ­त­म­श्नुते’(ई. उ. १४) इति श्रुत्वा केचित्संशयं कुर्वन्ति । अत­स्त­न्नि­र्धा­र­णार्थं सङ्क्षेपतो विचारणां करिष्यामः । तत्र ताव­त्किं­नि­मित्तः संशय इति, उच्यते — विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते, अमृतत्वं च ? ननूक्तायाः पर­मा­त्म­वि­द्यायाः कर्मणश्च विरो­धा­त्स­मु­च्च­या­नु­प­पत्तिः । सत्यम् । विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्र­प्र­मा­ण­क­त्वात् ; यथा अविद्यानुष्ठानं विद्योपासनं च शास्त्र­प्र­मा­ण­कम् , तथा तद्वि­रो­धा­वि­रो­धा­वपि । यथा च ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ‘अध्वरे पशुं हिंस्यात्’ इति, एवं विद्या­वि­द्य­यो­रपि स्यात् ; विद्याकर्मणोश्च समुच्चयः । न ; ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’(क. उ. १ । २ । ४) इति श्रुतेः । ‘विद्यां चाविद्यां च’ इति वचनादविरोध इति चेत् , न ; हेतु­स्व­रू­प­फ­ल­वि­रो­धात् । विद्या­वि­द्या­वि­रो­धा­वि­रो­ध­यो­र्वि­क­ल्पा­स­म्भ­वात् समु­च्च­य­वि­धा­ना­द­वि­रोध एवेति चेत् , न ; सह­स­म्भ­वा­नु­प­पत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत् , न ; विद्योत्पत्तौ अविद्याया ह्यसत्वात् तदा­श्र­येऽ­वि­द्या­नु­प­पत्तेः ; न हि अग्निरुष्णः प्रकाशश्च इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नम् , तस्मि­न्ने­वा­श्रये शीतोऽ­ग्नि­र­प्र­काशो वा इत्यविद्याया उत्पत्तिः । नापि संशयः अज्ञानं वा, ‘यस्मिन्सर्वाणि भूतानि आत्मै­वा­भू­द्वि­जा­नतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इति शोक­मो­हा­द्य­स­म्भ­व­श्रुतेः । अवि­द्या­स­म्भ­वा­त्त­दु­पा­दा­नस्य कर्म­णोऽ­प्य­नु­प­प­त्ति­म­वो­चाम । ‘अमृतमश्नुते’ इत्या­पे­क्षि­क­म­मृ­तम् ; विद्याशब्देन पर­मा­त्म­वि­द्या­ग्र­हणे ‘हिरण्मयेन’(ई. उ. १५) इत्यादिना द्वार­मा­र्ग­या­च­न­म­नु­प­पन्नं स्यात् । तस्मात् उपासनया समुच्चयो न पर­मा­त्म­वि­ज्ञा­ने­नेति यथाव्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ ईशा­वा­स्यो­प­नि­ष­द्भा­ष्यम् सम्पूर्णम् ॥