अद्वैतशारदा

वेदान्तकल्पतरुः

१ परिच्छेदः

व्याख्याः

यदज्ञातं जीवै­र्ब­हु­वि­ध­ज­ग­द्वि­भ्र­म­धरं वियद्यवद्बालै स्तलमलिनतायोगि कलितम्।
तदु­न्मु­द्र­ज्ञा­न­प्र­त­त­सु­ख­स­द्ब्रह्म परमं नमस्यामः प्रत्य­क्–श्रु­ति­श­त­शि­रोभिः प्रकटितम् ॥ १॥
बोधा­भी­षु­श­तै­र­बो­ध­ति­मिरं हृद्व्योमगं दारयन् प्रज्ञा­वा­रि­धि­मु­न्नतिं च गमयन् सोमः सदोदेति यः।
तं संसा­र­स­ह­स्र­र­श्मि­ज­नि­त­क्ले­शा­पहं दक्षिणामूर्तिं निर्म­ल­यो­गि­चि­न्त्य­च­र­णा­म्भोजं भजे शङ्करम् ॥२॥
माद्य­न्मो­ह­म­हे­भ­कु­म्भ­द­ल­न­प्रो­द्भू­त­स­न्मौ­क्ति­क­द्यो­ता­ल­ङ्कृ­त­स­त्सु­खा­द्व­य­वपुः श्रीमा­न्नृ­क­ण्ठी­रवः।
प्रह्ला­दो­क्त­गिरः प्रमाणनविधौ दिव्याकृतिः स्तम्भतो निर्यातः प्रकटीभवेत्स हृदयाम्भोजे ममाखण्डितम् ॥ ३॥
ललितैः पदविन्यासैर्या नृत्यति विबु­ध­व­द­न­र­ङ्गेषु।
सच्छा­स्त्र­वे­द­वाद्यैः सरस्वतीं तां नमस्यामः ॥ ४ ॥
भज­मा­न­वि­घ्न­भि­त्ति­प्र­भि­त्ति­कु­द्दा­ल­मिव करेण रदम्।
दधतं महागणेशं प्रणौमि सकलेष्टसंपदं ददतम् ॥ ५॥
यन्न्या­य­सू­त्र­प्र­थि­ता­त्म­बो­ध­सौ­र­भ्य­ग­र्भ­श्रु­ति­प­द्म­माला।
प्रसा­ध­य­त्य­द्व­य­मा­त्म­तत्त्वं तं व्यासमाद्यं गुरु­मा­नतो(अ)स्मि ॥६॥
वेदा­न्ता­र्थ­त­दा­भा­स­क्षी­र­नी­र­वि­वे­कि­नम्।
नमामि भगवत्पादं परमहंसधुरन्धरम् ॥ ७॥
स्वयंप्रभसुखं ब्रह्म दया­र­चि­त­वि­ग्र­हम्।
यथा­र्था­नु­भ­वा­न­न्द­प­द­गीतं गुरुं नुमः ॥ ८ ॥
विद्या­प्र­श्र­य­सं­यमाः शुभफला यत्स­न्नि­धि­स्था­नतः पुंसां हस्तगता भवन्ति सहसा कारु­ण्य­वी­क्षा­व­शात्।
आन­न्दा­त्म­य­ती­श्वरं तमनिशं वन्दे गुरूणां गुरुं लब्धं यत्प­द­प­द्म­यु­ग्म­म­नघं पुण्यै­र­न­न्तै­र्मया ॥९॥
ग्रन्थ­ग्र­न्थ्य­भिधाः स्फुटन्ति मुकुला यस्योदये कौमुदा व्याकुर्वत्यपि यत्र मोहतिमिरं लोकस्य संशाम्यति।
प्रोद्य­त्ता­र­क­दि­व्य­दीप्ति परमं व्योमापि नीराज्यते गोभिर्यस्य सुस्व­प्र­का­श­श­शिनं तं नौमि विद्यागुरुम् ॥ १० ॥
वैदिकमार्गं वाचस्पतिरपि सम्यक् सुरक्षितं चक्रे।
नय­वि­जि­त­वा­दि­दैत्यः स जयति विबु­धे­श्व­रा­चार्यः ॥ ११॥
रूढोऽयं वेद­का­ण्डा­न्न­य­म­य­वि­टपो भूरिशाखाविचारः सद्व­र्णा­न­न्त­पर्णः समु­दि­त­प­र­म­ब्र­ह्म­बो­ध­प्र­सूनः।
साक्षा­द्ध­स्ता­व­चेयं दददमृतफलं जीव­वि­श्वे­श­वीन्द्रः संसा­रा­र्को­त्थ­ता­प­प्र­म­थ­न­नि­पु­ण­स्त­न्यते कल्पवृक्षः ॥ १२ ॥
कीर्त्या याद­व­वं­श­मु­न्न­म­यति श्रीजै­त्र­दे­वा­त्मजे कृष्णे क्ष्माभृृति भूतत्वं सह महादेवेन संबिभ्रति।
भोगीन्द्रे परिमुञ्चति क्षिति­भ­र­प्रो­द्भू­त­दी­र्घ­श्रमं वेदान्तोपवनस्य मण्डनकरं प्रस्तौमि कल्पद्रुमम् ॥ १३ ॥

श्रीम­च्छा­री­र­क­व्या­ख्यायाः प्रारिप्सिताया अवि­घ्न­स­मा­प्त्या­दि­सि­द्धये शास्त्र­प्र­ति­पाद्यां परां देवतां प्रणमन् शास्त्री­य­वि­ष­यादि दर्शयति —
अनिर्वाच्येति ।
एका ह्यविद्या अनादिः भावरूपा देवताधिकरणे (ब्र. अ.१ पा.३ सू, २६ — ३३) वक्ष्यते, अन्या पूर्व­पू­र्व­वि­भ्र­म­सं­स्कारः, तदविद्याद्वितयं सत्त्वा­स­त्त्वा­भ्या­म­नि­र्वाच्यं सचिवं सहकारि यस्य तत्तथा । तत्सचिवता ब्रह्मणः तद्विषयता, तदाश्रयास्तु जीवा एव इति वक्ष्यते ।
न चावि­द्या­सा­चिव्ये ब्रह्म­णोऽ­नी­श्व­र­त्वम्, उपकरणस्य स्वात­न्त्र्या­वि­घा­त­क­त्वात् इत्याह —
प्रभवत इति ।
अत­त्त्व­तोऽ­न्य­था­भावो विवर्तः ।
न केवलं भूतानां ब्रह्म­वि­व­र्तत्वं, अपि तु जीवानामपि चरा­च­र­श­री­रो­पा­धि­कानां तत्प्र­ति­बि­म्ब­त्वेन तद्विवर्तता इत्याह —
यतश्चेति ।
अथवा भूत­सृ­ष्टि­व­द्भौ­ति­क­सृ­ष्टे­रपि हिर­ण्य­ग­र्भ­द्वारा ब्रह्मैव कर्तृ इति अनेनोक्तम् ।
एव­म­ज्ञा­न­वि­प­र्य­स्त­त्वाभ्यां विषयत्वमुक्त्वा प्रयोजनतामाह —
अपरिमितेति ॥१॥

जग­द्वि­व­र्ता­धि­ष्ठा­न­त्वेन ब्रह्मणः सर्व­क­र्तृ­त्व­मुक्त्वा सर्वज्ञत्वं ज्ञानपदसूचितं वेद­क­र्तृ­त्वा­दिना साधयति —
निःश्वसितमिति ।
वीक्षणमात्रेण सृष्टत्वात्, भूतानि वीक्षितम् । हिर­ण्य­ग­र्भ­द्वारा साध्यं चराचरं, वीक्ष­णा­धि­क­प्र­य­त्न­सा­ध्य­स्मि­त­सा­म्यात् स्मितम् ।
सर्व­ज्ञ­त्व­सि­द्ध्यर्थं चेत­न­ध­र्म­सु­प्ति­म­त्त्वेन चेतनतां संभावयति —
अस्य चेति ।
यद्वा विनायासेन नाम­रू­प­सृ­ष्टि­प्र­ल­य­क­र्तृ­त्वाद् ब्रह्म अनेन स्तुतम् ॥२॥

षड्भिरिति ।
ईश्वरस्य षडङ्गानि पुराणोक्तानि 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्य­म­लु­प्त­शक्तिः । अचि­न्त्य­श­क्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥' इति । अव्ययानि वायुपुराणे पठ्यन्ते – 'ज्ञानं विरागतैश्वर्यं तपः सत्यं क्षमा धृतिः । स्रष्टृ­त्व­मा­त्म­सं­बोधो ह्यधि­ष्ठा­तृ­त्व­मेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥' इति । वेदस्य षडङ्गानि निरुक्तादीनि । अव्ययानि च चादयः॥३॥

तिलकप्रियः स्वामी तिलकस्वामी । सर्व­सि­द्धि­वि­धा­यित्वं स्मृतिसिद्धम् । आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धि­म­वा­प्नु­यात् ॥' (याज्ञ. अ. १ श्लो. २९४) इति ॥४॥

वेधसे विधात्रे ईश्वराय । हरेः ज्ञान­श­क्ते­र­व­तारः प्राप्ति­र्य­स्मिन् स तथा । तथा चाह श्रीपराशरः – 'द्वापरे द्वापरे विष्णु­र्व्या­स­रूपी महामुने । वेदमेकं सुबहुधा कुरुते जगतो हितम् ॥' इति ॥५॥

इह भगवता सूत्रकारेण साधन चतु­ष्ट­य­सं­प­त्त्य­न­न्तरं ब्रह्म­जि­ज्ञा­सा­मु­प­दि­शता जिज्ञास्यस्य ब्रह्मणः संदि­ग्ध­त्व­स­प्र­यो­ज­नत्वे समसूचिषाताम् ।
तदा­क्षे­प­स­मा­धा­न­प­र­ताम् 'आह कोय'मि­त्यतः प्राक्तनस्य भाष्यस्य दर्शयति —
अथे­त्या­दि­प­रि­ह­र­ती­त्य­न्तेन ।
अथशब्दः प्रतिग्रन्थं व्याख्या­न­प्रा­र­म्भार्थः ।

इह अहं­प्र­त्य­य­ग­म्य­मा­त्मा­न­मु­प­नि­ष­त­त्प्र­ति­पा­द्य­मा­पाद्य जिज्ञा­स्य­त्वा­क्षेपः, तत्पु­न­र्ब्र­ह्मे­त्यादौ तु तदतिरिक्तं ब्रह्म उररीकृत्य तस्य वेदान्तेभ्य एव सिद्धेः विचा­र­वि­ष­य­त्वा­क्षेप इति भेदः । जिज्ञा­स्य­त्व­व्या­पके संदिग्धत्व — सप्रयोजनत्वे, तद्विरुद्धे च असंदिग्धत्व —निष्प्र­यो­ज­नत्वे, तयोरुपलब्धिः, ततश्च व्यापकाभावे व्याप्य­जि­ज्ञा­स्य­त्वा­भाव इत्यर्थः । अत्र प्रयोगौ — मुमुक्षुणा ब्रह्म न विचार्यं, तं प्रत्य­सं­दि­ग्ध­त्वात्, तथाविधकुम्भवत् । तथा अप्रयोजनत्वात्, काकदन्तवदिति । आद्यं हेतुं विवृणोति —
तथा हि इत्यादिना ।
बृंहणत्वात् देहादीनां परिणमयितृत्वात् ।
ननु अहंप्रत्ययस्य देहा­दि­मि­श्र­वि­ष­य­त्वात् कथं विवि­क्त­वि­ष­य­त्वम्, अत आह —
न चाहमिति ।
देहालम्बन इति ।
आत्मै­क्या­ध्य­स्त­दे­हा­ल­म्बन इत्यर्थः ।
देहा­दा­त्म­नोऽ­हं­प्र­त्य­य­ग­म्यस्य भेदग्रहात् नाध्यास इत्याह —
तदालम्बनत्वे हीति ।
बाल्य­स्थ­वि­र­दे­हयोः परिमाणभेदात् न प्रत्य­भि­ज्ञे­त्यु­क्तम् ।
परिमाणभेदेऽपि देहैक्यं मन्वानं प्रत्याह —
स्वप्नान्त इति ।
जाग्रत्यप्याह —
योगेति ।
मनुष्यः सन् कृत्रिमं व्याघ्र­श­री­र­म­भि­म­न्य­मानो योगव्याघ्रः ।
नाहंकारालम्बनं देह इति ।
अत्रापि देहशब्द आत्मै­क्या­ध्य­स्त­दे­ह­परः, अन्यथा हि जिज्ञा­स्य­त्व­वा­दि­नापि तन्मा­त्रा­ल­म्ब­न­त्वा­न­ङ्गी­का­रात् अनु­क्त्तो­पा­लम्भः स्यादिति । अथवा लोकायतमतं प्रस­ङ्गा­दा­शङ्क्य निरस्यते । प्रख्यानं शब्दः । असत्यप्यारोपिते अभेदे इत्यर्थः, वास्त­वा­भे­द­स्या­ध्या­स­वा­दि­नोऽ­प्य­निष्टेः । लोकायतनिरासे तु यथाश्रुतोऽर्थः ।
द्वितीयं हेतुं विभजते —
अप्र­यो­ज­न­त्वा­च्चे­त्या­दिना ।
ननु किमिति नास्त्य­न्य­दा­त्म­या­था­त्म्य­ज्ञानं ब्रह्मा­त्म­भा­वस्य उपनिषद्भिः अवबोधनात्, अत आह —
न चाहमितीति ।
युक्तमिति निर्दे­शा­त्पू­र्व­स्यैव सिद्धान्तत्वं व्यावर्तयति —
अत्र चेति ।
ननु पुरुषान्तरवचनो युष्मच्छब्दः कथमचेतने देहादौ प्रयुक्तः, अत आह —
इदमस्मदिति ।
नन्वि­दं­का­र­प्र­यो­गेऽपि प्रत्य­क्प­रा­ग्भा­वेन भवति भेदप्रतीतिः, एते वयमिति तु सामानाधिकरण्यं गौणं, तथा त्वङ्का­र­प्र­यो­गेऽ­पीति न विशेषः कश्चित्, अत आह —
इति बहुत्वं प्रयो­ग­द­र्श­ना­दिति ।
यद्यप्युभयत्र गौण­त्व­म­वि­शिष्टं, तथापि विर­ल­प्र­यो­ग­त्वात् स्फुटं त्वमहमिति सामानाधिकरण्ये गौणत्वं, ततस्तन्न भेदं तिरोदधीत इत्य­त्य­न्त­भे­द­सिद्धिः । इमे वयमिति तु बहुलप्रयोगत्वेन निरूढमिति तिरोदधीत भेदम्, अतो नात्य­न्त­भे­द­सिद्धिः । दृश्येते च लाक्ष­णि­क­त्वा­वि­शे­षेऽपि प्रयो­ग­बा­हु­ल्या­बा­हु­ल्याभ्यां निरू­ढ­सां­प्र­ति­कते — यथा पटः शुक्लो रथाङ्गनामा चक्रवाक इति । प्रयुञ्जते बहुत्वं वेदाश्च कवयश्च, 'अय­म­म­स्मीति' 'एते वयमिमे दाराः कन्येयं कुल­जी­वि­त'मि­त्यादि ।
न सहानवस्थानं दृष्टान्ते विवक्षितं दार्ष्टान्तिके तदभावात्, किंत्व­न्यो­न्या­त्म­नाऽ­स्फु­र­ण­मि­त्य­भि­प्रे­त्याह —
परस्परेति ।

ननु उलूकादेः प्रकाशेऽप्यस्ति तम­स्त्वा­रो­प­स्त­त्राह —
नहीति ।
समुदाचरन्त्यौ भेदेन भासमाने वृत्ती वर्तने ययोस्ते तथा । उलू­का­दे­र­वि­वे­का­दा­रोप इत्यर्थः ।
इत­रे­त­र­भा­वा­नु­प­पत्तिः नाम इत­रे­त­र­भा­व­प्र­ती­त्य­नु­प­पत्तिः विवक्षिता, तन्मा­त्रा­नु­प­प­त्ति­सा­ध­नेऽ­ध्या­स­वा­दिनं प्रति सिद्ध­सा­ध­न­त्वात्, इत्यभिप्रेत्य दृष्टान्ते स्थित्वा वक्ति —
परस्परात्मतया प्रतिपत्तुमिति ।
इतरस्येतरत्र भावः इति योजने धर्मिणोरपि संस­र्गा­ध्या­स­नि­षेधः स्यात्, तथा च सिद्धसाधनम्, तादा­त्म्या­ध्या­सा­भ्यु­प­ग­मात्, तनि­वृ­त्त्य­र्थ­माह —
इतरेतरत्वमिति ।
विनिमयो व्यत्यासः ।
रूपवत इति ।
गगनस्य तु स्वग­त­स­वि­तृ­क­रा­दि­प्र­ति­बि­म्ब­न­द्वारा सलिले प्रति­बि­म्बि­त­त्व­वि­भ्रमः ।
ततश्च रूपवत एवं प्रतिबिम्बभाव इति व्याप्तेः न व्यभिचारः, आत्मनस्तु नास्ति प्रति­बि­म्बि­त­त्व­भ्र­म­करं किंचिदित्यर्थः । धर्माध्यासो हि धर्मिणोः ऐक्यारोपेण प्रतिबिम्बभावेन वा दृष्टः, इह प्रतिबिम्बभावे निरस्ते आरोपः शिष्यत इत्याह —
पारिशेष्यादिति ।
अध्या­सा­नु­प­प­त्ति­मुक्त्वा तद­भा­वो­प­सं­हा­रा­र्थम्, अतोऽ­स्म­त्प्र­त्य­ये­त्यादि भाष्यम् । अथवा अहं मनुष्य इत्यादिप्रतीतौ अत­स्मिं­स्त­त्प्र­ती­ति­त्वस्य अध्या­स­ल­क्ष­ण­स्या­भावे उक्ते लक्ष्या­ध्या­स­रू­प­त्वस्य अभा­व­प्र­द­र्श­नार्थं विष­य­वि­प­र्य­ये­णेति । विषयोऽचेतनः तस्य विपर्ययः चैतन्यम् । इत्थंभावे तृतीया, चिदात्मन ऐक्यारोपे हि विषयस्य चेतनत्वमिव भवतीति ।
तथापीति भाष्यसूचिताम् अध्यासाभावहेतोः विवेकग्रहस्य असिद्धिमाह —
इद­म­त्रा­कृ­त­मि­त्या­दिना ।
यथा श्रुत्या­दि­ष्वा­त्म­तत्त्वं गीयते तथाहमित्यनुभवे यदि प्रकाशेत, नत्वेतदस्तीति योजना । परामर्शो मध्ये निर्देशः । क्रियासमभिहारः पौनःपुन्यम् । दर्शनीया सुन्दरी ।
नत्वेतदस्तीति यदुक्तं तत्प्रपञ्चयति —
अहमनुभवस्त्विति ।
उपप्लवो विपर्यासः अस्य नास्ती­त्य­नु­प­प्लवः, अहमनुभवः कथं विपर्यासशून्य इत्यर्थः । कथ­मा­त्म­त­त्त्व­गो­चर इत्यज्ञानं सूचितम् ।

प्रक्रमादिना तात्प­र्य­सि­द्धा­वपि उप­जी­व्य­वि­रो­धा­द­प्रा­मा­ण्य­मा­शङ्क्य आह —
न चेत्यादिना ।
ज्येष्ठस्यापि पौर्वा­प­र्य­न्या­येन (जै० अ. ६ पा. ५ सू. ५४) बाधमाशङ्क्य आह —
तदपेक्षस्येति ।
आगमस्य किं स्वज­न्य­ज्ञा­न­ग­त­प्र­मि­तित्वे प्रत्य­क्षा­पेक्षा, उत तदुत्पत्तौ । आद्ये, किं विप­र्या­स­श­ङ्का­नि­रा­साय, संवादाय वा ।

एतद्वयं निरस्य, द्वितीयं शङ्कते —
प्रमिताविति ।
आगमस्य किं प्रत्य­क्ष­ग­त­व्या­व­हा­रि­क­प्रा­मा­ण्येन विरोधः, उत तत्त्वा­वे­द­क­त्वेन ।
नाद्य इत्याह —
नहीति ।
द्वितीयं प्रत्याह —
न च तदिति ।
एवमप्रामाण्यं निराकृत्य उपचरितार्थत्वं निरस्यति —
न चानन्यपरमिति ।
पूर्वं भेदा­ग्र­ह­सि­द्ध्य­र्थ­मि­द­मु­क्तम्, इदा­नी­मु­प­जी­व्य­वि­रो­धा­भा­वाय । विधायके शब्दे परो लक्ष्यः शब्दार्थो न भवतीति शबरस्वामिनोक्तं तत्तुल्यं वेदान्तेष्वपि, अन­धि­ग­ता­र्थ­बो­धि­त्वेन तत्प­र­त्व­सा­म्या­दिति ।
एवं तावदुपजीव्यत्वं प्रत्यक्षस्य निराकृत्य मुख्य­त्व­मा­त्रस्य प्राबल्यहेतुतां निराकरोति —
ज्येष्ठत्वं चेति ।
पौर्वापर्य इति ।
षष्ठे स्थितम् (जै. अ.६ पा. ५ सू. ५४) ज्योति­ष्टो­मेऽ­न्योन्यं संबध्य यज्ञशालातो निर्ग­च्छ­ता­मृ­त्विजां विच्छेदनिमित्तं प्रायश्चित्तं श्रूयते — यद्युद्गाता विच्छि­न्द्या­द­द­क्षि­णेन यजेत, यदि प्रतिहर्ता सर्व­स्व­द­क्षि­णे­नेति । तत्रो­द्गा­तृ­प्र­ति­हर्त्रोः क्रमेण विच्छेदे विरु­द्ध­प्रा­य­श्चि­त्तयोः समु­च्च­या­सं­भ­वात्, किं पूर्वं कार्यमुत परमिति ˳ प्रकृतिवत्, यथा हि प्रकृतौ क्लृप्तोपकाराः कुशाः प्रथममतिदेशेन विकृ­ता­वु­प­का­रा­का­ङ्क्षिण्यां प्राप्ताः, कल्प्योपकारतया चरमभाविभिरपि शनैः निरपेक्षैः बाध्यन्ते, तद्वदिदमिति । नुप­जा­त­वि­रो­धि­त्वात् पूर्वमिति पूर्वपक्षे, राद्धान्तः — पौर्वापर्ये सति निमित्तयोः, पूर्वस्य नैमित्तिकस्य, दौर्बल्यंम्, उत्तरस्य निरपेक्षस्य तद्बा­ध­क­त­यो­दि­त­त्वात्, पूर्वोदयकाले उत्त­र­स्या­प्रा­प्त­त्वेन पूर्वेण बाध्यत्वायोगात् । उक्तं हि – 'पूर्वं परमजातत्वात् अबाधित्वैव जायते । पर­स्या­न­न्य­थो­त्पा­दात् न त्वबाधेन संभवः॥ इति । प्रकृतिवत्, यथा हि प्रकृतौ क्लृप्तोपकाराः कुशाः प्रथममतिदेशेन विकृ­ता­वु­प­का­रा­का­ङ्क्षिण्यां प्राप्ताः, कल्प्योपकारतया चरमभाविभिरपि शनैः निरपेक्षैः बाध्यन्ते, तद्वदिदमिति । एवं ताव­च्छ्रु­त्या­दि­ग­म्या­त्म­त­त्त्वस्य अहं­प्र­त्य­येऽ­न­व­भा­सात् अवि­वि­क्त­वि­ष­य­त्व­मु­क्तम् ।
संप्रति वादिनिरूपितस्य आत्म­नोऽ­न­व­भा­सा­दपि तदाह —
अपि चेति ।
सर्व­ग­ता­त्म­वा­दिनं प्रत्याह —
अहमिहेति ।
न हि तदैवमिति ।
तव मते अहंप्रत्ययस्य विवि­क्ता­त्म­वि­ष­य­ला­दि­त्यर्थः ।
ननु तत्र आत्म­व­च­नोऽ­हं­शब्दो देहे उपचर्यते, अत आह —
गौणत्वे वेति ।
भवतीत्यनुषङ्गः । उप­च­रि­ता­त्म­भा­वस्य देहस्य ज्ञातृ­त्वा­नु­प­पत्तेः जानान इति प्रतीतिः न हि भवतीत्यर्थः । न च ज्ञातृत्वमपि देहे उपचर्यत इति वाच्यम् । वक्तुः स्वज्ञा­न­प्र­का­श­न­परे वाक्ये तद्विरोधात् ।
अथ अहमालम्बने आत्मनि देह­ग­त­प्रा­दे­शि­क­त्व­मेव उपचर्यते, तर्हि देहात्मनोर्भेदो ग्रहीतव्यः, न च गृह्यते इत्याह —
अपि चेत्यादिना ।

अत्र गौणवादी प्रष्टव्यः, किं सिंहशब्दस्येव माणवके सांप्रतिकं देहा­दा­व­हं­श­ब्दस्य गौणत्वम्, उत सार्षपरसादौ तैलशब्दस्येव निरूढम् ।नाद्यः इत्याह —
परेति ।
प्रमाणलक्षणे स्थितम् – 'तत्प्रख्यं चान्य­शा­स्त्रम्' (जै. अ. १ पा. ४ सू. ४) । अग्निहोत्रं जुहोतीति श्रूयते, तत्र संशयः, किम­ग्नि­हो­त्र­शब्दः अग्नि­दे­व­ता­गु­ण­विधिः, उत कर्मनामेति । तत्राग्नये होत्रं हविरस्मिन्निति समा­सा­न्त­व­र्तिन्या चतुर्थ्या अग्नेः होम­दे­व­ता­स्व­प्र­ती­ते­र्गु­ण­वि­धि­रिति प्राप्ते, राद्धान्तः – 'यदग्नये च प्रजापतये च सायं जुहो­ती'त्यग्नेः होमे देव­ता­त्व­प्र­ख्या­प­नात् प्राप्ते च विधि­वै­या­र्थ्यात् नामधेयम् । न चात्र चतु­र्थी­स­मा­स­सं­भवः, ताद­र्थ्य­प्र­कृ­ति­वि­का­र­यो­र­भा­वात् — इति ।
एवं नित्या­ग्नि­हो­त्र­वा­चिनः अग्नि­हो­त्र­श­ब्दस्य गुणादन्यत्र वृत्तिं वक्तुं मुख्यार्थात् गृहीतभेदं कर्मोदाहरति —
प्रकरणान्तरेति ।
भेदलक्षणे स्थितम् – 'प्रक­र­णा­न्तरे प्रयो­ज­ना­न्य­त्वम्' (जै. अ.२ पा. ३ सू. २४) । कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीति श्रूयते । अत्र किं नित्या­ग्नि­होत्रे मासगुणो विधीयते, उत कर्मान्तरमिति । तत्र सत्यपि प्रदेशभेदे नाम्ना नित्या­ग्नि­हो­त्रस्य बुद्धौ संनिधापनात् तत्स­म­भि­व्या­हृ­तस्य जुहो­ती­त्या­ख्या­तस्य तत्सं­नि­धा­पि­ता­र्थ­प­र­त्वात् नित्या­ग्नि­हो­त्रा­नु­वा­देन मासो विधीयते इति प्राप्ते, राद्धान्तः — न तावदत्र आख्यातेन होमानुवादेन मासः शक्यो विधातुम्, कात्वस्य पुरु­षा­नि­ष्पा­द्य­त्वेन अनुपादेयत्वात् । नापि मासोद्देशेन नित्या­ग्नि­हो­त्र­विधिः, तस्यासन्निधेः । न च नाम तत्संनिधापयति, अन्यत्र जुहो­ती­त्या­ख्या­तेन पूर्वा­प­री­भू­त­त­यो­क्तस्य सिद्धार्थबोधिना नाम्नाऽ­नु­प­स्था­प­नात् । तस्मा­त्प्र­यो­ज­ना­न्यत्वं विधे­य­भा­व­ना­न्य­त्व­मिति ।
ननु अग्नि­हो­त्र­श­ब्दस्य कौण्डपायिने कर्मणि प्रयोगे किं प्रयोजनम्, न तावत् नित्या­ग्नि­हो­त्रेण सह क्रिया­त्वा­दि­सा­दृ­श्य­बोधः, तस्य वैयर्थ्यात्, अत आह —
साध्येति ।
सप्तमे स्थितम् – 'उक्तं क्रियाभिधानं तच्छुतावन्यत्र विधिप्रदेशः स्यात् (जै. अ. ७ पा. ३ सू. १) । मास­म­ग्नि­हो­त्र­मि­त्य­त्रान्या चिन्ता, किम­ग्नि­हो­त्र­शब्दः नित्या­ग्नि­हो­त्र­ध­र्मा­निह अतिदिशेत्, न वेति । तत्र यद्ययं गौणः स्यात्, तदा अग्नि­हो­त्र­व­ज्जु­हो­ती­त्य­ति­दि­शेत् तद्धर्मान्, न त्वयं गौणः, जुहो­ति­सा­मा­ना­धि­क­र­ण्यस्य अत्रापि तुल्यत्वेन नामधेयत्वात्, अग्नि­दे­व­ता­वि­धा­ना­र्थ­त्वाद्वा, अतो नातिदिशेदिति प्राप्ते, सिद्धान्तः — न तावदत्र अग्निदेवता विधातुं शक्या, चतु­र्थी­स­मा­सा­सं­भ­व­स्यो­क्त­त्वात् । तत्र सिद्धे कर्मभेदे अनेकार्थस्य अन्याय्यत्वात्, एकत्र अग्निहोत्रशब्दः मुख्यः अपरत्र गौणः, नित्या­ग्नि­होत्रे च नाम­प्र­वृ­त्ति­नि­मि­त्तस्य अग्नि­दे­व­ता­सं­ब­न्धस्य भावात् तत्रैव मुख्यता, अतः परशब्दः परत्र सादृश्यमुपादाय प्रवर्तते, तच्च सादृश्यं कर्त­व्या­र्थ­बो­ध­का­ख्या­त­स­म­भि­व्या­हृ­त­नाम्ना अग्नि­हो­त्र­व­ज्जु­हो­तीति साध्यत्वेन विधेयमिति तत्सिद्ध्यर्थं नित्य­ध­र्मा­न­ति­दि­शे­दिति । अतश्च नित्या­ग्नि­हो­त्र­ध­र्माणां द्रव्य­दे­व­ता­दी­ना­म­ति­देशः गौण­प्र­यो­ग­फ­ल­मि­त्यर्थः । क्रियाया नित्या­ग्नि­हो­त्रस्य, अभिधानं नाम­धे­य­म­ग्नि­हो­त्र­प­द­मुक्तं तत्प्र­ख्या­धि­क­रणे (जै. अ. १ पा. ४ सू. ४), तस्य अन्यत्र श्रवणे, विधिप्रदेशः विधे­य­ध­र्मा­ति­देशः स्यादिति सूत्रार्थः ।
लोक­सि­द्ध­सा­दृश्यां गौणीं वृत्तिमाह —
माणवके इति ।
प्रकृते भेदग्रहाभावमाह —
न त्विति ।
निष्कृष्य लुठितः प्रतिभासितो गर्भोऽ­सा­धा­र­णा­कारो यस्य स तथा, तत्तया नानुभूयते, अनुभवे वा वादिविवादो न स्यादित्यर्थः ।
एवं सांप्रतिकीं गौणतां निरस्य निरूढां निराचष्टे —
न चात्यन्तेति ।
निरूढत्वं नाम प्रयो­ग­प्रा­चु­र्यात् मुख्यवद्भानम् । निरूढेऽपि गौणप्रयोगे नार्थ­यो­स्ता­दात्म्यं प्रतीयते, प्रतीयते तु प्रकृते इति वैषम्यमित्यर्थः । तत् तस्मा­द्गौ­ण­त्व­व्या­पकं विवेकज्ञानमिह व्यावर्तमानं गौणतामपि व्यावर्तयति इत्ये­त­त्सि­द्ध­मि­त्य­न्वयः ।
अभि­ज्ञा­रू­पा­हं­प्र­त्य­या­द्वि­वे­का­सि­द्धा­वपि प्रत्य­भि­ज्ञा­रू­पात् तत्सि­द्धि­मा­श­ङ्क्याह —
न च बालस्थविरेति ।
आत्मैक्यं प्रत्य­भि­ज्ञार्थः । भिन्ना­भ्या­मे­कस्य भेदस्तु अनुमानात्, तच्च शास्त्रादृते न ज्ञेयमित्यर्थः ।
तर्हि परीक्षकाणां देहादौ अहंशब्दो गौणः, नेत्याह —
परीक्षका अपीति ।
अपरोक्षभ्रमो न यौक्ति­क­बा­धा­दु­च्छि­द्यत इत्यर्थः । देह­प­रि­मा­णा­त्म­पक्षे किमारब्ध आत्मा, उत अवयवसमुदायः ।
नाद्यः इत्याह —
अनित्यत्वेति ।
द्वितीये आत्मावयवानां चैतन्यं, समुदायस्य वा ।
नाद्यः इत्याह —
प्रत्येकमिति ।
द्वितीयेऽपि समुदायापत्तिः शरीरौपाधिकी वा, स्वत एव वा, काकतालीया वा ।
आद्यं निरस्य, द्वितीयं निरस्यति —
न च बहूनामिति ।
न तृतीय इत्याह —
य एवेति ।
यादृ­च्छि­क­सं­श्लेष इव यादृ­च्छि­क­वि­श्ले­षोऽपि स्यादिति स्वस्थानामेव अक­स्मा­द­चै­त­न्या­प­त्ति­रि­त्यर्थः ।
यत् — गौणवादिना विवे­क­ग्र­ह­मु­प­पाद्य, कृशोऽ­ह­मि­त्या­दि­प्र­त्य­यानां गौणत्वमुक्तं, तदविवेकसिद्धौ निरस्तमित्याह —
एतेनेति ।
अहंप्रत्ययस्य अवि­वि­क्त­वि­ष­यत्वे शास्त्री­य­वि­ष­य­सि­द्धि­म­भि­धाय प्रयो­ज­न­सि­द्धि­म­प्याह —
तदेवमुक्तेति ।
पूति दुर्गन्धि कूष्माण्डफलमिव कृतस्तथोक्तः ।
तात्प­र्य­मु­प­वर्ण्य भाष्यं योजयति —
तदेवं सर्व­प्र­वा­दी­त्या­दिना ।
स्वरूपं अन्यो­न्या­त्म­क­ता­न्यो­न्य­ध­र्मा­ध्यासौ । निमित्तं इतरेतराविवेकः । फलं व्यवहारः ।
अहमिदं शरीरमिति प्रतीत्यभावाद् भाष्या­यो­ग­मा­श­ङ्क्याह —
वस्तुत इति ।
अहमिति प्रतीतेऽपि वास्त­व­म­ना­त्म­त्व­म­स्तीति इदंशब्दप्रयोग इत्यर्थः ।
धर्म्य­ध्या­सा­भा­वा­दुक्तं धर्माध्यासाभावं परिहरति —
अध्य­स्त­दे­हा­दि­भावे इति ।
धर्मिणोः तादा­त्म्या­ध्या­स­का­र्यम् अहमिदमिति व्यवहारं प्रदर्श्य, धर्मा­ध्या­स­कार्यं प्रदर्शयति —
ममेदमिति ।
ननु अध्यस्य व्यवहार इत्यनुपपन्नम्, भुक्त्वा व्रजतीतिवत् एकस्य क्रियाद्वये कर्तृ­त्वा­न­भि­धा­नात्, अत आह —
अत्र चेति ।
व्यव­हा­र­क्रि­या­क्षि­प्तस्य कर्तुरध्यासेऽपि कर्तृत्वात् क्त्वाप्रत्ययः स्यादित्यर्थः॥

ननु — उपसंहारभाष्ये नैसर्गिकोऽध्यास इत्य­भि­धा­ना­ध्य­व­हा­रोऽपि नैस­र्गि­क­त्व­वि­शि­ष्टोऽ­ध्यास एव तत्कथं क्रियाभेदः — उच्यते, इह कार्य­भू­त­व्य­व­हा­र­नै­स­र्गि­क­त्वेन साम­र्थ्य­सि­द्धा­ध्या­स­नै­स­र्गि­क­त्वो­प­सं­हा­रा­द­वि­रोधः॥

अध्या­सा­भि­धा­न­क्रि­ययोः पूर्वापरीभावो न युक्तः, चितो बुद्ध्या­दि­ता­दात्म्यं विना क्रिया­न्व­या­यो­गात्, अध्यस्य व्यवहार इत्यनेन अध्यासस्य व्यव­हा­र­हे­तु­तोक्तौ मिथ्या­ज्ञा­न­नि­मित्त इत्यनेन पौनरुक्त्यं चेति — केचित् । तन्न, पूर्व­पू­र्व­भ्र­म­सं­स्कृ­ताऽ­वि­द्यया चितः संप्र­ति­त­ना­ध्या­स­क्रि­या­श्र­य­त्वात् पुनरुक्तिं परिहरति —
पूर्वकालत्वेति ।

सुप्त्वो­त्ति­ष्ठ­ती­ति­वद् अहेतुत्वभ्रमं व्यावर्त्य स्फुटयतीत्यर्थः । जाति­व्य­क्त्यो­रि­वा­र्थ­गतं तादात्म्यमविवेक इति भ्रमं व्यावर्तयति —
विवेकाग्रहेणेति ।
भाष्ये — मिथुनीकरणस्य व्यव­हा­र­हे­तु­त्व­मा­न­न्त­र्या­द्भाति, न तु मिथ्या­भू­त­प्र­ति­यो­गि­सं­पा­द­नेन विवे­का­ग्र­ह­हे­तु­तेति शङ्कां व्युदस्यन् योजयति —
सत्यानृते इति ।
मिथुनीकरणात् विवेकाग्रहः, ततोऽध्यास इत्यर्थः । युगलीकरणं नाम अधि­ष्ठा­ना­रो­प्ययोः स्वरूपेण बुद्धौ भानम् ।
ननु मिथुनं कृत्वेति किमिति नोक्तम्, अत आह —
न च संवृतीति ।
'अभू­त­त­द्धावे कृभ्वस्तियोगे संपद्यमानकर्तरि च्विः' । यस्य यो भावो न भूतः स तद्भावं चेत्संपद्यते तस्मि­न्न­भू­त­त­द्भावे वर्तमानात्, प्रातिपदिकात्, कृभ्वस्तीनां धातूनां योगे च्विप्रत्ययो भवति । 'अस्य च्वौ' (पा ० ७ ।४ ।३२) इतीकारः । ततश्च मिथुनभावोऽपि अवास्तव इत्यर्थः ।
समा­रो­प­प्र­तीत्योः इतरेतराश्रयत्वे शङ्किते व्यव­हा­रा­ना­दि­त्वम् असां­प्र­त­मि­त्या­श­ङ्क्याह —
व्यव­हा­रा­ना­दि­त­येति ।
अना­दि­त­ये­त्य­त्रैके पर्यनुयुञ्जते — न मिथ्या­ज्ञा­न­त­त्सं­स्का­र­व्यक्त्योः अनादित्वम्, तज्जात्योस्तु न निमि­त्त­नै­मि­त्ति­क­भावः, न च प्रवाहो वस्वस्ति — इति । तत्र ब्रूमः — तदा­कृ­त्यु­प­र­क्तानां व्यक्तीनामेकया विना । अनादिकाला वृत्तिः या सा कार्याऽनादिता मता॥' मिथ्याज्ञानत्व — तत्सं­स्का­र­त्व­जा­त्या­लि­ङ्गि­त­व्य­क्तीनां मध्ये अन्यतमव्यक्त्या विना यदनादिकात्वस्य अव­र्त­न­म­न्य­त­म­यो­ग­नि­यम इति यावत् । तासामनादित्वम् । अत्र च निमि­त्त­नै­मि­त्त­कयोः अनादित्वमुक्तम् । भ्रमोपादानं तु वक्ष्यति देवताधिकरणे (ब्रह्म. अ.१ पा.३ सू. २४ — ३३) ।
सत्यानृते मिथु­नी­कृ­त्ये­त्यत्र वस्तु­स­त्ता­व­र्ज­मा­रो­प्यस्य प्रती­ति­मा­त्र­मु­प­यो­गी­त्यु­क्तम्, इदानीं प्रती­ति­रे­वा­नृ­तस्य अयुक्ता इत्या­क्षे­पा­भि­प्रा­य­मु­त्त­र­भा­ष्यस्य आह —
स्यादे­त­दि­त्या­दिना ।
युष्म­द­स्म­दि­त्या­दिस्तु विवे­का­ग्र­हा­दा­क्षेप इति भेदः ।
प्रतीतिरेव त्विति ।
अपरोक्षेत्यर्थः । प्रती­ति­मा­त्र­नि­षेधे त्वसत्पदस्य अबोधकत्वापत्तेः अनुवादायोगः स्यादिति॥
ननु नात्यन्तासन् देहादिः, किन्त्व­नि­र्वाच्यः, ततः प्रतीतिः किं न स्यात्, अत आह —
प्रका­श­मा­न­त्व­मिति ।
अति­रि­क्त­स­त्ता­म­भ्यु­प­ग­च्छन्तं प्रत्याह —
द्वैतेति ।
द्वैता­भ्यु­प­ग­मेऽ­प्याह —
सत्तायाश्चेति ।
आत्मन्यध्यासे आक्षिप्तेऽध्यास — सामान्यलक्षणकथा वृथे­त्या­श­ङ्क्याह —
लोकसिद्धमिति ।

पूर्व­दृ­ष्ट­ग्र­ह­णे­ना­क्षे­प­प्र­ति­क्षेपो भविष्यतीति भावः ।

अवभासपदस्य अवयवार्थमादाय संक्षि­प्त­म­ध्या­स­ल­क्ष­ण­माह —
अवसन्न इति ।
अवसाद उच्छेदः । अवमानो यौक्ति­क­ति­र­स्कारः ।
अवभासपदस्य रूढमर्थमादाय विस्तृतं लक्षणं भाष्य­वा­क्या­र्थ­त्वे­नाह —
तस्येति ।
पर­त्रे­त्या­दि­प­दै­र­स­त्ख्या­ति­नि­रा­सेन प्रप­ञ्च­न­मि­त्यर्थः ।
स्वरूपेण सदपीति ।
अपिशब्देन स्वरू­पे­णा­स­त्त्व­मपि मरु­म­री­चि­को­द­क­ग्रन्थे वक्ष्याम इति सूचितम् ।
स्मृति­रू­प­वि­शे­ष­ण­व्या­व­र्त्य­माह —
स्यादे­त­दि­त्या­दिना ।
पूर्वदृष्टस्य परत्र तादात्म्यावभास इति धर्म्य­ध्या­स­म­भि­प्रेय लक्ष­ण­वा­क्या­र्थेऽ­ति­व्या­प्ति­माह —
खस्तिमत्यामिति ।
परत्र आश्रये परधर्मावभास इति धर्माध्यासं विवक्षिलाऽऽह —
पाटलिपुत्रे इति ।
अवभासपदस्य रूढा­र्थ­ग्र­ह­णा­द­ति­व्या­प्ति­रु­प­प­न्ने­त्याह —
अवभासपदं चेति ।
'सकृ­च्छ्रु­त­प­द­स्यार्थ दूयक्लप्तिन दुष्यति । संक्षि­प्त­वि­स्तृ­ता­ध्या­स­ल­क्ष­ण­द्व­य­ला­भतः ॥ एवं च मिथ्या­ज्ञा­न­म­ध्यास इत्यवभासपदेन व्युत्पाद्य प्रत्य भिज्ञा­या­म­ति­व्या­प्त्य­भि­धानं शोभ­ते­त­रा­मि­त्यु­प­हा­सा­न­व­सरः ॥

ननु पूर्व­दृ­ष्ट­मा­रो­प­णी­य­म­नृ­त­मि­त्युक्तं, कथं तत्प­दा­ङ्कि­त­ल­क्ष­णस्य प्रत्य­भि­ज्ञा­या­म­ति­व्याप्तिः, उच्यते, स्मृति­रू­प­प­दा­भि­धा­स्य­मा­नाऽ­सं­नि­धा­न­सि­द्ध­व­त्का­रेण तदभिधानं, न तु पूर्व­दृ­ष्ट­प­द­सा­म­र्थ्ये­ने­त्य­दोषः । प्रत्यभिज्ञाया अपि संस्का­र­ज­न्य­त्वे­ना­व्या­वृ­त्ति­मा­श­ङ्क्याह —
असंनिहितेति ।

स्मृतिरूपपदेन चासं­नि­हि­त­वि­ष­यत्वे विवक्षिते, तावति चोक्ते स्मृता­व­ति­व्या­प्ति­स्त­न्नि­वृ­त्तये पर­त्रे­त्यु­क्त­मि­त्यपि द्रष्टव्यम् । अनेनासंनिहितस्य परत्र प्रतीतिरध्यास इति लक्षणमुक्तम् ।

असंनिधानं चारो­प्य­स्या­धि­ष्ठाने पर­मा­र्थ­तोऽ­सत्त्वं, न देशा­न्त­र­स­त्त्व­मिति नापराद्धान्तः । 'अथ­वाऽ­सं­नि­धा­नेन सत्ख्यातिरिह वारिता । अव­भा­सा­द­स­त्ख्यातिः नृशृङ्गे तददर्शनात् । ।' इति । असंनिहितस्य परत्र प्रतीयमानस्य पूर्व­दृ­ष्ट­त्वेऽ­र्थ­सि­द्धेऽपि पुनर्ग्रहणं पूर्व­प्र­मि­त­व­व्या­व­र्त­न­फ­ल­मि­त्यु­क्त­मेव । स्वप्नज्ञाने प्रमा­ण­यो­ग्य­शु­क्त्या­द्य­धि­ष्ठा­ना­भा­वा­त्प­र­त्रेति विशे­ष­णा­व्या­प्ति­मा­श­ङ्क्याह —
नापीति ।
स्मृतौ विभ्रमः स्मृतिविभ्रमः, स्मर्यमाणे स्मर्य­मा­ण­रू­पा­न्त­रा­रोप इति यावत् । अनुभूयमाने पित्रादौ यत्संनिहितत्वं पूर्वदृष्टं तदिहारोप्यम् ।
अन्या­र्थ­ल­क्ष­ण­वि­शे­ष­ण­तया उक्त­पू­र्व­दृ­ष्ट­त्वस्य गृह्य­मा­ण­वि­ष­य­त्वेन प्रसिद्धभ्रमेषु अव्या­प्ति­मा­श­ङ्क्याह —
एवमिति ।
अत्र पीतिमशङ्खयोः एकैकशोऽनुभवकाले दृष्टपीतिम्नः पश्चाच्छङ्खे समारोप इति वक्तव्ये, न रूपमारोप्यं, किन्तु सामा­ना­धि­क­र­ण्य­मि­त्या­शङ्क्य तस्यापि पूर्व­दृ­ष्ट­त्व­माह —
तथाहीति ।
पीतिमतपनीययोः संस­र्ग­ग्र­हे­णा­सं­सर्गो न गृह्यते, तथा पीत­त्व­श­ङ्ख­यो­र­पीति सारूप्यम् ।
आद­र्शा­दि­ष्वा­रो­प्य­मु­खस्य स्वचक्षुषा पूर्व­दृ­ष्ट­त्वा­भा­वा­द­व्या­प्ति­मा­श­ङ्क्याह —
एवमिति ।
पूर्व­दृ­ष्ट­यो­र­भि­मु­ख­यो­रा­द­र्शो­द­क­यो­र्देश एव देशो यस्य तस्य भावः तत्ता । तयोरेवाभिमुख्यं चेत्यर्थः । शीघ्र­भ्र­मि­ता­ला­त­ज्वा­लासु पूर्व­दृ­ष्ट­च­क्रा­का­र­ताया आरोपः । अभ्रेषु ग्रहादेः । मण्डू­क­व­सा­क्ता­क्ष­ग्रा­ह्य­वं­शेषु वसावर्णेषु च पूर्व­दृ­ष्टो­र­ग­त­द्व­र्ण­सा­मा­ना­धि­क­र­ण्या­रोप इत्यर्थः ।
तथा सतीति ।
रज्वादीनां सर्पात्मत्वादेः सत्त्वे सतीत्यर्थः । उच्चलन्ती तुङ्ग­त­र­ङ्ग­भ­ङ्गानां तर­ङ्गा­व­च्छे­दानां माला यस्याः सा मन्दाकिनी तथा । अभ्यर्णं निकटम् ।
मरीचीनां तोयात्मत्वं न सदित्युक्ते यन्मरीचीनां तोय­रू­पे­णा­सत्त्वं तन्मरीचय एवातो नाऽस­त्ख्या­ति­रिति शङ्कते —
याच्येतेति ।
निर­स्त­स­म­स्त­सा­म­र्थ्य­स्येति अर्थ­क्रि­या­का­रि­त्व­स­त्त्वा­योग उक्तः । निस्त­त्त्व­स्येति स्वरूपसत्ताभावः । तद्द्वयम् अत्यन्तासत्त्वे हेतुः ।
अनिर्वचनीयमतं निरस्य शून्यमतं निरस्यति सद्वादी —
न च विषयस्येति ।
स्वप्रत्ययः — स्वसमानाकारः पूर्वप्रत्ययः । अदृ­ष्टा­न्त­सिद्धः — असाधारणः । ज्ञानस्यापि पूर्वज्ञानाधीनं सत्त्वमतो न क्वापि स्वरू­प­स­त्व­मि­त्यर्थः ॥
ननु अविद्यया असत्प्रकाशनमिति बौद्धाः, तत्कथं विज्ञा­न­म­स­त्प्र­का­श­नम् अत आह —
तस्मादिति ।
ज्ञाना­न्त­रा­नु­प­ल­ब्धे­रिति ।
शक्त्या­श्र­य­त्वे­ना­भि­म­तात् ज्ञानात् ज्ञाना­न्त­रा­नु­प­ल­ब्धे­रि­त्यर्थः । उपलब्धौ वा तस्यापि ज्ञापकत्वेन ज्ञाना­न्त­रा­पे­क्षा­या­म­न­व­स्था­पा­ताच्च इत्यर्थः । सति हि कस्मिंश्चित् कस्यचिदुपकारो भवति, प्रत्ययस्य निरूपणं तु असत्यप्यायतते । न च स्वोपकारिण्यसति प्रत्युपकारं कञ्चित्करोति इत्यतोऽतिसुस्वी प्रत्यय इत्युपहासः ।
अनाधाने हेतुमाह —
असत इति ।
असतः प्रत्ययप्रथनस्य चाविनाभावं संबन्धमाशङ्क्य निराचष्टे —
असदन्तरेणेति ।
अहो बतेति ।
कार्यकारणभावः स्वभावश्च बौद्धा­भि­म­त­म­वि­ना­भा­व­मू­ल­मिह नास्तीत्यर्थः ।
एवं सदेव भातीति पूर्ववादिनोक्ते सिद्धान्त्याह —
अत्र ब्रूम इति ।
पूर्वपक्ष्याह —
न सतत्वा इति ।
तोया­त्म­ने­त्य­नु­षङ्गः ।
अत्र हेतुमाह —
तदात्मनेति ।
तदा­त्म­नाऽ­स­त्त्वस्य मयाऽ­पी­ष्ट­त्वा­दि­त्यर्थः ।
तर्हि असत्ख्यातिः स्वीकृता, नेत्याह —
द्विविधं चेति ।
तोयमपेक्ष्य ज्ञातं मरीचिरूपमेव तोयरूपेणासत्, तच्च भावरूपमिति नास­त्ख्या­ति­रि­त्यर्थः ।
तोय­रू­पे­णा­सत्त्वं मरीचिरूपमेव, तच्चाबाध्यम्, तच्चेद् भ्रमगोचरः, तर्हि न भ्रम­बा­ध­प्र­सिद्धिः स्यादित्युक्ते पूर्ववाद्याह —
अद्धेति ।
बाढम् । मरी­ची­ना­म­तो­या­त्मत्वं स्वरूपं तत्तथा भ्रमो न गृह्णाति, किन्तु भावा­न्त­र­तो­या­त्मना मरीचीन् तोयाभावरूपान् गृह्णातीति भ्रम­त्व­मि­त्यर्थः ।
तोया­भा­वा­त्म­क­म­री­चि­रूपे यदारोपितं तोयत्वं तत्तत्र सदसद्वेति विकल्प्य आद्यं निरस्यति —
हन्तेति ।
द्वितीये तु किं तुच्छमसत् सदन्तरं वा । नाद्योऽ­प­रा­द्धा­न्तात् ।
न द्वितीयः इत्याह —
वस्त्वन्तरमेव हीति ।
अस्मिन् हि भ्रमे मरीचयस्तोयं चेति द्वे वस्तुनी भासेते । तत्र मरी­चि­तो­य­ता­दात्म्यं यदि वस्तु, तर्हि तोयाद्वस्तुनो वस्त्वन्तरभूता मरीचयो वा स्युः मरीचिभ्यो वस्त्वन्तरं तोयं वा स्यात्, नान्यत् ।
अन्यस्य अस्मिन् भ्रमेऽनवभासनात् उभयत्र दूषणमाह —
पूर्व­स्मि­न्नि­त्या­दिना ।
एवं सत्ख्यातिं निरस्य अस­त्ख्या­ति­नि­रा­स­म­प्युक्तं स्मारयति —
न चेदमिति ।
फलितमाह —
तस्मादिति ।
एवं मरी­चि­तो­य­ता­दा­त्म्य­म­नि­र्वाच्यं प्रसाध्य सदेव भातीति नियममभाङ्क्षीत् ।

तथा च स्वरू­पे­णा­नि­र्वा­च्य­मपि तोयं भ्रमेऽ­व­भा­सि­तु­म­र्ह­तीति मुधाऽमुष्य देशान्तरादौ सत्त्व­क­ल्प­ने­त्याह —
तदनेनेति ।
ननु अभिनव — तोया­व­भा­सा­भ्यु­प­गमे पूर्वदृष्टत्वं भाष्योक्तं विरुध्येत, तत्राह —
अत एवेति ।
अभि­न­व­त्वेऽ­प्या­रो­प्यस्य पूर्व­दृ­ष्ट­ग्र­ह­ण­मु­प­यु­ज्यते, आरो­प­णी­य­स­मा­न­मि­थ्या­व­स्त्व­न्त­रो­प­द­र्श­कस्य पूर्व­द­र्श­न­सं­स्का­र­द्वा­रेण उपयोगादिति । 'स्वरूपेण मरीच्यम्भो मृषा वाचस्पतेः मतम् । अन्य­था­ख्या­ति­रि­ष्टाऽ­स्ये­त्य­न्यथा जगृहुर्जनाः ॥
एवं तावद्देहादिः, सन्, भासमानत्वात् आत्मवत् इत्यनुमानस्य मरीचिकोदकादौ अने­का­न्त­तो­प­पा­द­नेन देहा­दे­र­नि­र्वा­च्य­त्व­मुक्तः संप्र­त्य­बा­धि­त­त्वेन सोपाधिकतामाह —
देहे­न्द्रि­या­दीति ।
अबा­ध्य­त्व­मा­त्मनः सत्त्वे उपाधिः न प्रति­भा­स­मा­न­त्वम् । न च साधनव्याप्तिः, देहादिबाधस्य तत्र तत्र वक्ष्य­मा­ण­त्वा­दि­त्यर्थः । विपक्षस्य मरीचितोयादेः सत्त्वान्न पक्षेतरता ।
ननु प्रत्य­क्षा­दि­प्र­मा­णा­र्पि­त­दे­हादिः यदि मिथ्या, तर्हि आत्मनि को विस्र­म्भ­स्त­त्राह —
चिदात्मा त्विति ।
तत्त्वा­वे­द­क­प्र­मा­ण­प्र­मि­त­त्वा­दा­त्मनः सत्त्वं न व्याव­हा­रि­क­प्र­मा­ण­सि­द्ध­दे­हा­दे­रिति वक्ष्याम इति भावः ।
यदु­क्त­मा­क्षे­प­वा­दिना प्रकाशमानत्वमेव चिदात्मनोऽपि सत्त्वमिति, तदपि विशेषाभ्युपगमेन परिहरति —
अबाधितेति ।
स्वयं­प्र­का­श­त्वा­द­बा­धि­त­मा­त्मनः सत्त्वं, न दृश्यस्य देहा­देः,दृ­ग्दृ­श्य­सं­ब­न्धा­नि­रू­प­णा­दि­त्यर्थः ।
न च सत्ता­त­द्व­द्भे­दा­द­द्वै­त­हा­नि­रि­त्याह —
सा चेति ।
यत्तु — सत्तासमवायादेः सत्ता­ल­क्ष­ण­त्व­म­खण्डि, तदनुमोदते —
न त्विति ।

यत्तु — कश्चित्प्रललाप — संसा­र­स्या­नृ­त­त्व­व­चनं न ताव­द्ब्र­ह्म­ज्ञा­न­नि­व­र्ह­णी­य­त्वाय, शास्त्र­प्रा­मा­ण्यात् सत्यस्यापि ज्ञाना­न्नि­वृत्तेः, न च संसा­रि­णोऽ­सं­सा­रि­ब्र­ह्मै­क­त्वा­र्थम्, औपाधिकस्य संसारस्य सत्यस्यापि उपाधिनिवृत्त्या निवृत्तौ जीवस्य ब्रह्मै­क्य­सं­भ­वात् इति । तन्न, सत्य­स्या­त्म­व­द­नि­वृत्तेः । यत्तु — सामान्यतो दृष्टमनुमानं — ज्योतिष्टोमो, न स्वर्गफलः, क्रियात्वात्, मदनवत् इति । तन्न, तत्र स्वर्गोद्देशेन यागविधिना विरोधेन कालात्ययात्, अत्र तु सत्यः प्रपञ्चो ज्ञाननिवर्त्य इत्यागमाभावेन तदभावात्, प्रत्युत मिथ्यात्वस्य बन्धस्य ज्ञान­नि­व­र्त्य­त्व­श्रु­त्य­र्था­प­त्ति­सिद्धेः । यदपि — तार्क्ष्य­ध्या­ना­दिना सत्यं विषादि नश्यति — इति । तदपि न विषादेः सत्य­त्वा­सिद्धेः, ध्यानस्य चाप्र­मा­त्वे­ना­दृ­ष्टा­न्त­त्वात् । सेतुदर्शनं च चोदि­त­क्रि­या­त्म­नै­वै­नो­नि­व­र्हकं, न प्रमित्यात्मना, पश्यतामपि सेतुं म्लेच्छानां श्रद्धाविरहिणां वा अघानुपघातात्, आत्मप्रमा तु दृष्टद्वारेण बन्धनिवर्तनी, न विधिद्वारा, तद्विधेः समन्वयसूत्रे (ब्रह्म. अ.१पा. १ सू. ४) परा­क­रि­ष्य­मा­ण­त्वात् । यत्तु — उपाधिध्वंसात् संसारध्वंस — इति । तन्न, सत्यो­पा­धे­रा­र­म्भ­णा­द्य­धि­क­रणे (ब्रह्म. अ.२ पा. १ सू. १४) वक्ष्य­मा­ण­न­ये­ना­सं­भ­वात्, मिथ्यो­पा­धि­स्वी­कारे चाविवादादिति । ननु अध्यासलक्षणे मतान्तरोपन्यासो मतिसंवादाय, दूषणाय वा । नाद्यः, विप्रतिपत्तेः । न द्वितीयः, दूषणानभिधानात्, अत आह —
स चायमिति ।
परत्र परावभास इत्युक्तलक्षणे सति संवाद एवं क्रियते । एवं लक्षणकत्वं चाध्या­स­स्या­नि­र्वा­च्य­त­यै­वेति मरु­म­री­चि­को­द­क­नि­रू­पणे दर्शितम् । विप्र­ति­प­त्तिस्तु अधि­ष्ठा­ना­रो­प्य­वि­शे­ष­वि­ष­ये­त्यर्थः । अन्य­त्रा­न्य­ध­र्मा­ध्यास इति भाष्यं धर्मग्रहणेन बुद्ध्या­का­र­त्व­सू­च­नात् आत्म­ख्या­त्य­नु­वा­दा­र्थम् ।
तत्र बौद्धानां मतभेदेन भ्रमा­धि­ष्ठा­न­वि­शे­ष­माह —
सौत्रान्तिकनये इति ।
यद्यपि सौत्रान्तिकस्य वैभाषिकवदर्थो न प्रत्यक्षः । तथापि ज्ञान­ग­ता­र्थ­सा­रू­प्ये­णा­नु­नी­य­मा­न­त्वा­दस्ति तावदधिष्ठानम्, आरोप्यं तु ज्ञानाकार एव, भ्रान्ति­ज्ञा­ना­का­र­स­दृ­शस्य बाह्या­र्थ­स्या­भा­वा­दि­त्यर्थः । सहोपलम्भनियमात् इत्या­द्य­नु­मा­न­मु­प­रि­ष्टा­द्वौ­द्धा­धि­क­रणे (ब्रह्म. अ. पा. २ सू. २८) निराकरिष्यत इत्यर्थः ।
प्रतिपत्तुः प्रत्ययादिति ।
समानाधिकरणे पञ्चम्यौ । ज्ञाना­त्म­का­त्प्र­ति­प­त्तु­रि­त्यर्थः ।
वस्तुतस्तु अह­मु­ल्ले­ख­यो­ग्य­र­ज­तस्य भ्रमादिदन्तया प्रतीतिरिति शङ्कते —
नान्तमिति ।
भ्रान्ति­रू­प­वि­क­ल्पस्य हि स्वरूपमविकल्पकं ग्राह्यम्, तदेव बाह्यत्वेन सविकल्पकत्वेन अध्य­व­से­य­मि­त्यर्थः ।
सिद्धे ज्ञानाकारत्वे एवं कल्पेत, तदेव कुतः, तत्राह —
ज्ञानाकारतेति ।
प्रागु­क्त­न्या­या­त्प्र­वे­द­नी­ये­त्यर्थः ।
बाधकप्रत्ययः किं साक्षात् ज्ञानाकारतां दर्शयति, अर्थाद्वेति विकल्प्य, आद्यम् अनुभवविरोधेन निरस्य, द्वितीयं शङ्कते —
पुरोवर्तित्वेति ।
इद­न्ता­प्र­ति­षे­धोऽ­नि­दन्तां गमयेत्स च देशा­न्त­रा­दि­स­त्त्वेऽपि स्यात् इत्य­न्य­थो­प­प­त्ति­माह —
असंनिधानेति ।
अख्यातिमते हि रज­त­स्या­सं­नि­धा­ना­ग्रहः संनिहितत्वेन व्यव­हा­र­हे­तु­त्वाद् भ्रमः । तन्नि­षे­धोऽ­स­न्नि­धा­न­ग्र­ह­रूपो बाधः, प्राग­भा­व­नि­वृ­त्ति­रू­प­त्वा­द्भा­वस्य । तस्मा­दा­रो­प्योऽर्थः प्रति­प­त्तु­र­सं­नि­हितो भवतीत्यर्थः ।
यदुक्तं कल्पनागौरवमिति तत्राह —
न चैष इति ।
सर्वसंमतस्य व्यव­हा­र­मा­त्र­बा­धस्य स्वीका­रा­त्क­स्य­चि­द­प्य­र्थस्य अबा­धा­द­ति­ला­घ­व­मि­त्यर्थः ।
ननु न व्यवहार एव निषेध्यः, किं तु शुक्तौ प्रतीतं रज­त­मि­त्य­न्य­था­ख्या­ति­मा­शङ्क्य —
न च रजतमेवेत्यादिना ।
ननु मा भातु रजतज्ञाने शुक्तिः, पुरो­दे­श­स­त्ता­मा­त्रेण तु आलम्बनं किं न स्यादत आह —
न खल्विति ।
सर्वेषां पुरोवर्तिनां लोष्टा­दी­ना­मि­त्यर्थः ।
अथ रजतसदृशशुक्ते रज­त­ज्ञा­न­हे­तु­सं­स्का­रो­द्बो­ध­क­त्वे­ना­ल­म्ब­नत्वं, तत्राह —
नापीति ।
एवमर्थमारोपितं प्रतिषिध्य, मिथ्याज्ञानमपि निह्नुते —
अपि चेति ।
ननु मिथ्या­त्व­व्य­व­हा­र­सि­द्ध्यर्थं विपर्ययो वाच्यस्तत्राह —
तथा चेत्यादिना ।
शुक्तिस्वरूपस्य इद­मा­त्म­क­सा­मान्यं प्रति विशे­ष­स्या­ग्र­हा­दि­द­मिति द्रव्य­मा­त्र­ग्र­हणं भवतीत्यर्थः ।
गृही­त­ग्र­ह­ण­स्व­भा­वेति ।
गृहीतमिदमिति प्रका­श­न­स्व­भा­वे­त्यर्थः ।
संनिहितरजतेति ।
संनिहितरजतगोचरं हि ज्ञानमिदमिति रज­त­मि­त्या­का­र­यो­र­सं­सर्ग न गृह्णाति, तयोः संसृ­ष्ट­त्वे­ना­सं­स­र्गा­भा­वात् । न च स्वगतं विवेकः, एकज्ञानत्वात्, एवमेते अपि ग्रहणस्मरणे परस्परं भिन्ने अपि स्वगतभेदं न गृहीतः, नाप्यसंसृष्टौ स्वगोचरौ तथैव निवेदयत इति सारूप्यम् । काचो हरि­त­द्र­व्य­वि­शेषः ।
निषे­ध्य­भ्र­मा­भावे निषे­धा­नु­प­प­त्ति­मा­श­ङ्क्याह —
भेदाग्रहेति ।
इत­रे­त­रा­भा­व­बो­धात् इत­रे­त­रा­भा­वा­ग्र­ह­नि­वृत्तौ तद्धे­तु­क­व्य­व­हा­र­नि­वृत्तिः बाधफलमित्यर्थः ।
तस्माद्यथार्था इति ।
सर्वे विप्रतिपन्ना इत्येको धर्मिनिर्देशः । संदेहविभ्रमा इत्यपरः । अय­था­र्थ­व्य­व­हा­र­हे­तु­त्वेन मतद्वयसंमताः प्रत्यया धर्मिण इति नाश्रयासिद्धिः ।
अन्ये विति ।
पुरोवर्तिनि रजतमिदमिति सामा­ना­धि­क­र­ण्य­व्य­प­दे­श­स्त­था­वि­ध­प्र­वृ­त्ति­श्चा­स्तीति तावत् सर्वजनीनम् । तत् सामा­ना­धि­क­र­ण्य­प्र­त्य­यात् रज­त­मि­द­मि­त्ये­वं­रू­पा­द्भ­वति नान्यथेत्यर्थः ।
अन्य­था­सि­द्धि­मा­श­ङ्क्याह —
तदेतदिति ।
अगृहीतविवेकं स्मर­ण­ग्र­ह­ण­द्व­य­म­य­था­र्थ­त्व­व्य­व­हा­र­हेतुः, एकैकं वा । नाद्यः, ज्ञान­यो­र­यौ­ग­प­द्यात् ।
न द्वितीयः, इत्याह —
न हि रज­त­प्रा­ति­प­दि­का­र्थेति ।
ग्रहणेऽपि तुल्यमिदम् । यदि तदिच्छेत् तर्ह्येव प्रव­र्त­ते­त्यर्थः । ज्ञातसंबन्धस्य पुंसो लिङ्ग­वि­शि­ष्ट­ध­र्म्यै­क­दे­श­द­र्श­ना­ल्लिङ्गे विशि­ष्ट­ध­र्म्ये­क­देशे बुद्धि­र­नु­मा­न­मिति शबरस्वामिन आहुः । समारोपे तु प्रमि­त्य­भा­वेऽ­प्ये­क­दे­श­द­र्श­न­म­स्ती­त्यर्थः ।

पुरोवर्तिनि साधने प्रवर्तके फल­ज्ञा­नेऽ­नै­का­न्ति­क­ता­नि­वृ­त्त्य­र्थ­माह —
नियमेनेति ।
फलस्य हि नानो­पा­य­सा­ध्य­त्वान्न तज्ज्ञानमुपाये नियमेन प्रवर्तकम् ।
स्मरणे व्यभि­चा­र­नि­वृ­त्त्य­र्थ­माह —
तत्रेति ।
वाय्वादौ व्यभि­चा­र­मा­श­ङ्क्याह —
अर्थिन इति ।
वाय्वादिः हि प्रसह्य प्रवर्तयति न त्वर्थि­ता­म­नु­रुन्धे ।
यच्चोक्तं समी­ची­न­ज्ञा­न­हे­तुभ्यो न मिथ्या­ज्ञा­न­ज­न्मेति तत्राह —
दृष्टं चेति ।
परिहृतं न्याय­क­णि­का­या­मिति ।
एवं हि तत्र व्युत्पादितम् — किमव्यभिचारितैव प्रामाण्यम्, उत तद्धेतुः, अथ तद्य्वापिका । येन क्वचि­द्व्य­भि­चा­र­द­श­नात् ज्ञाना­ना­म­प्रा­मा­ण्य­मा­प­तेत् । सर्वथाप्यसंभवः, व्यभिचारिणामपि सितनीलादिषु चक्षुरादीनां बोधकत्वेन प्रामा­ण्या­द­व्य­भि­चा­रि­णा­मपि दहनादौ धूमादीनां कुत­श्चि­न्नि­मि­त्ता­द­नु­प­ज­नि­त­द­ह­ना­दि­ज्ञा­ना­नाम् अप्रामाण्यात् । भवतु ज्ञानकारणं व्यभिचारेऽपि बोधकम्, ज्ञानेन त्वव्य­भि­चा­रोऽ­पेक्ष्यः खकार्ये इति चेत्, किं ज्ञेया­व­भा­सेऽ­पेक्ष्यः, उत प्रवृ­त्त्या­दि­कार्ये । न प्रथमः, जन्मनैव ज्ञानस्य ज्ञेया­व­भा­सा­त्म­क­त्वात् । न चरमः, अव्य­भि­चा­र­ग्रा­हिणः अर्थ­क्रि­या­सं­वा­दा­दि­ज्ञा­नस्य ज्ञानान्तरात् अव्य­भि­चा­र­नि­श्च­येऽ­न­व­स्था­पा­तात्, अनिश्चये चाऽन­व­धृ­त­प्रा­मा­ण्या­द­स्मात् प्रथ­म­ज्ञा­न­प्रा­मा­ण्या­सिद्धेः, स्वतःप्रामाण्ये च प्रथमेऽपि तथात्वापातादिति । ननु — किं प्रामाण्यस्य स्वतस्त्वम्, ज्ञान­सा­म­ग्री­मा­त्र­जत्वं चेद्, न, प्रामाण्यस्य जातित्वे स्मृति­त्वा­न­धि­क­र­ण­ज्ञा­न­ग­त­बा­धा­त्य­न्ता­भा­व­रू­पो­पा­धित्वे वा द्वयोरपि नित्यत्वेन जन्माभावादिति — तदुच्यते, इयं रूपप्रमा, अर्थ­सं­प्र­यो­ग­त्वा­न­धि­क­र­णै­त­च्च­क्षु­र्ग­त­गु­ण­जन्या न भवति, प्रमात्वात्, प्रमावत् । तथा एषा प्रमा, उक्त­वि­ध­गु­ण­ज्ञा­ना­धी­न­ज्ञाना न भवति, तथा­वि­ध­गु­ण­ज्ञा­ना­धी­न­प्र­वृ­त्ति­करी च न भवति, तत एव, तद्वदेवेति ज्ञप्ति­व्य­व­हा­र­यो­रपि स्वत­स्त्व­सि­द्धि­रिति ।
भाष्येऽ­न्य­था­ख्यातिः स्वीकृतेति भ्रमं व्यावर्तयन् व्याचष्टे —
अन्य­स्या­न्य­ध­र्म­क­ल्प­नेति ।
अव­भा­स­प­द­व्या­ख्यानं कल्पनेति । सर्व­त­न्त्रा­वि­रु­द्धोऽर्थः सर्व­त­न्त्र­सि­द्धार्थः, यथा प्रमाणं प्रमेयमिति ।
रजतवदिति न सादृश्यविवक्षा, अपि तु भासते परं रजतवत्, न हि वस्तुतो रजतमिति, मिथ्यात्वं विवक्षितमित्याह —
न पुनरिति ।
एव­मा­रो­प्य­सि­द्ध्य­सं­भ­व­प्र­युक्ते आक्षेपे परिहृते पुन­रा­त्म­नोऽ­धि­ष्ठा­न­त्वा­नु­प­प­त्त्याऽ­ध्यास आक्षिप्यत इत्याह —
पुनरपीति ।
आत्मनो ग्राह्यत्वे स्वग्राह्यत्वं, परग्राह्यत्वं वा ।
नाद्य इत्याह —
न खल्विति ।
न द्वितीयः, इत्याह —
आत्मान्तरेति ।
संविदाश्रयत्वेन सिद्धिमाशङ्कते —
स्यादेतदिति ।
स्वप्रकाशफलस्य जन्मा­दि­नि­षे­धे­ना­त्म­त्व­मु­प­पा­द­यति —
तथा हीत्यादिना ।

ननु अभ्युपेयते संवि­द­प­रा­धी­न­प्र­का­शेति, आत्मा तु जडः किं न स्यादिति मन्वानं संवि­दा­श्र­य­त्व­वा­दिनं प्रति आत्म­स्व­प्र­का­श­त्व­वा­द्याह —
तथापीति ।
अर्था­त्म­सं­ब­न्धिन्यां संविद्यजडायामपि नार्थात्मनोः प्रका­श­मा­न­ता­सिद्धिः, पण्डितेऽपि पुत्रे पितु­र­पा­ण्डि­ल्य­व­दि­त्युक्ते वैषम्यं शङ्कते —
स्वभावेति ।
आश्रयविषययोः पार­त­न्त्र्य­नि­य­मात् स्वभावसंबद्धा संवित्, न पुत्रः, पित्रभावेऽपि भावादित्यर्थः ।
पुत्र­ग­त­ज­न्य­त्व­मपि नित्यं पितृ­ग­त­ज­न­क­त्व­सा­पे­क्ष­मिति साम्यमाह —
हन्तेति ।
अर्थात्मनोः प्रकाशेन सह संवित्प्रकाश इत्युक्ते यः संविदः प्रकाशो यश्चा­र्था­त्म­नोस्तौ संविदः सकाशाद्भिन्नौ, अभिन्नौ वा ।
नाद्य इत्याह —
तत्किमिति ।
संविदः प्रकाशव्यतिरेके संविदप्रकाशरूपा सती घटवदस्वप्रकाशा स्यात् । आत्मा­र्थी­प्र­का­शयोः संविधतिरेके संवि­द­र्था­त्म­प्र­का­श­रूपा न भवेत् किन्तु ज्ञापिका स्यात् तथा चानवस्थेत्याशयः ।
अभेदमाशङ्कते —
अथेति ।
संवि­द­श्वा­र्था­त्म­नोश्च प्रका­शा­वि­त्यर्थः ।
कथंभूतौ तावि­त्य­पे­क्षायां स एवाह —
संविदेवेति ।
दूषयति —
एवमिति ।
संवि­द­ति­रि­क्त­प्र­का­शा­न­नी­कारे संविदात्मनां साहित्यमुक्तं स्यात् । तथा च पुत्र­पा­ण्डि­त्य­तु­ल्य­ते­त्यर्थः ।
अर्थसंविदोः सह­भा­व­म­ङ्गी­कृ­त्याऽ­नु­प­योग उक्तः, स एव क्वचिदसिद्ध इत्याह —
न चेति ।
अतीतादिबुद्धिः तत्सहिता, तद्वि­ष­य­हा­ना­दि­बु­द्धि­ज­न­क­त्वात् वर्त­मा­न­बु­द्धि­वत्, इति शङ्कते —
तद्विषयेति ।
तद्विषयाश्च ता हानादिबुद्धयश्च इति विग्रहः ।
तद्वि­ष­य­हा­ना­दि­बु­द्धि­ज­न­क­त्वा­दिति हेतौ तद्वि­ष­य­त्व­वि­शे­ष­ण­स्या­सि­द्धि­माह —
नेति ।
तां परिहरति —
हानादिजननादिति ।
सिद्धे च हेतौ अती­ता­दि­सं­वि­दा­म­र्थ­स­ह­भा­व­सिद्धेः तद्विषयवसिद्धिः इत्याह —
अर्थविषयेति ।
अर्थ­वि­ष­य­हा­ना­दि­प्र­वृ­त्ति­ज­न­ना­द्धा­ना­दि­बुद्धेः अर्थ­वि­ष­य­प्र­का­श­त्वेऽ­ति­प्र­सङ्गं दर्शयन् विशेषणासिद्धिं द्रढयति —
तत्किमिति ।
अर्थ इति सप्तमी ।
प्रय­त्न­व­दा­त्म­दे­ह­सं­यो­गोऽ­र्थ­वि­ष­य­प्र­वृ­त्ति­हे­तु­रपि जडत्वात् न अर्थ­वि­ष­य­प्र­का­श­श्चेत् संवि­त्प्र­का­शोऽपि स्वप्रकाशत्वात् स्वमात्रे साक्षी, अर्थे तु अप्रकाशनात् जड एव, अर्थस्यापि स्वप्र­का­श­रू­पा­न्त­र्भा­वेन सिद्धिश्चेत् अर्थसंविद्भेदो न स्यादि­त्य­भि­प्रे­त्याह —
नन्वयमिति ।
मा भूद्धेद इति वदन्तं बौद्ध­ग­न्धि­न­मे­क­दे­शिनं निरा­क­रो­त्या­क्षेप्ता —
न च प्रकाशस्येति ।
सिद्धा­न्त्य­भि­मतां संविद्विवर्ततया तद­भे­दे­ना­र्थ­सि­द्धि­म­ध्या­सा­सं­भवं वक्ष्यामीति मन्वानोऽनुवदति —
तस्मादिति ।
एवं संविदः स्वप्रकाशतां विषयस्य च तद्ध्य­स्त­ता­मुक्त्वा तस्या आत्म­त्व­सि­द्ध्य­र्थ­म­द्वि­ती­य­ता­माह —
न चास्येति ।
आजानतः स्वभावतः ।

इत्थं तर्किते आत्म­स्व­प्र­का­शत्वे प्रयुज्यते — देव­द­त्त­सु­प्ति­कालः, देव­द­त्ता­त्मा­स्तीति व्यव­हा­र­हे­तु­सा­क्षा­त्का­र­वान्, कालत्वात्, इतरकालवदिति । न च सुप्ता­व­हं­वृ­त्ति­रस्ति, न च पुरुषान्तरं साक्षा­त्क­र्तु­म­र्हति, ईश्वरमते योगिमते वाऽनै­श्व­रे­त्य­यो­ग­जेति च विशेषणीयमिति स्वप्र­का­श­त्व­सि­द्धि­रिति । तदेवं पक्षा­न्त­र­नि­रा­सेन स्वप्रकाश आत्मेति स्थापितम् । अस्मिन् पक्षेऽ­ध्या­सा­क्षे­प­क­तया भाष्यं योजयति —
तदयमिति ।
प्रत्य­क्छ­ब्दा­र्थ­माह —
अशक्येति ।
प्रतीपं प्रातिलोम्येन ।
तदेव दर्शयति —
निर्वचनीयमिति ।
कथमिति थमु­प्र­त्य­या­न्तस्य किंशब्दस्य रूपम् । तत्र किंशब्द आक्षेपार्थ इत्यर्थः ।
अप्र­थ­मा­न­त्व­पक्षे दूषणं —
सर्वो हीति ।
भाष्योक्तमाह —
सदातनेऽपीति ।
भाष्यकारेण आत्म­नोऽ­स्म­त्प्र­त्य­य­वि­ष­य­त्वो­प­व­र्ण­नेन अवि­ष­य­त्व­स्या­सि­द्धि­रुक्ता, सा न युक्ता, स्वप्रकाशस्य विषयत्वायोगात् इत्याशङ्क्य औपाधिकरूपेण विषयतामाह —
सत्यमित्यादिना ।
बुद्धि­म­नः­प्रा­णे­न्द्रि­याणां परलोकगतो आश्रयभूतानि भूतसूक्ष्माणि सूक्ष्मशरीरम् । इन्द्रियाणि बाह्यानि ।
ननु स्वतोऽ­वि­ष­य­त्व­मौ­पा­धि­क­रू­पेण विषयत्वमिति किमिति व्यवस्थाप्यते, स्वत एव शुक्ति­व­द्ग्र­ह­णा­ग्र­हणे किं न स्याता­मि­त्या­शङ्क्य निरं­श­त्वा­न्न­त्याह —
न हि चिदेकरसस्येति ।
ननु चिद्रूपे भात्य­प्या­न­न्दादि न भातीति दृष्टम्, नेत्याह —
न खल्विति ।
तर्हि साक्षिप्रतिभासे आन­न्दा­द्यु­ल्लेखो(अ)पि स्यादि­त्या­श­ङ्क­याह —
गृहीता एवेति ।
यथा खल्वभिज्ञायां भासमानमपि देवदत्तैक्यं तत्त­द­न्तो­पा­धि­द्वा­र­क­सा­मा­ना­धि­क­र­ण्या­प­रा­म­र्शात् विविक्तं नोल्लिख्यते, एवं चिद्रूपभानेऽपि दुःस्व­प्र­त्य­नी­क­त्वा­दि­रू­पेण अपरामृष्टा आन­न्दा­द­योऽ­प्य­गृ­हीता इव भान्तीत्यर्थः ।
ननु चित्प्रतिभासे तदा­त्म­त्वा­दा­न­न्दा­दयो भान्ति चेत्, तर्हि बुद्ध्या­दि­भ्य­श्चै­त­न्यस्य भेदोऽपि प्रतीयेत, तत्र विद्यमानत्वात्, तथा च बुद्ध्या­द्य­ध्या­सा­योग इत्याशङ्कयाह —
न चात्मन इति ।
आनन्दादीनां वास्तवत्त्वात् चैतन्यैकरसता न भेद­स्या­पी­त्य­भा­न­मि­त्यर्थः ।
यदुक्तं — विषयत्वे युष्म­त्प्र­त्य­य­वि­ष­य­त्वा­पत्तिः तत­श्चा­ना­त्म­त्व­मिति, तत्राह —
तस्य चेति ।
इदमात्मकत्वेन विष­य­त्व­म­नि­द­मा­त्म­क­त्वेन अस्म­दु­ल्ले­ख­श्चो­प­प­द्यते इत्यर्थः ।
इद­म­नि­द­मा­त्म­कत्वं जीवस्य तद्ध­र्मा­न्व­य­प्र­द­र्श­ने­नो­प­पा­द­यति —
तथा हीति ।
विच्छुरणात् मिश्रणात् ।
ननु उपा­धि­प­रि­च्छे­द­म­न्त­रे­णान्य एव परमात्मनो जीवोऽहं प्रत्य­य­वि­ष­य­योस्तु तत्राह —
न खल्विति ।
अस्म­त्प्र­त्य­य­वि­ष­य­त्व­मपि जीव­स्या­हं­प्र­त्य­य­वि­शि­ष्टेऽ­न्तः­क­रणे व्यव­हा­र­यो­ग्य­त्वा­प­त्तिर्न कर्मत्वमतो न कर्म­क­र्तृ­त्व­वि­रोध इत्यु­प­सं­हा­र­व्या­जे­नाह —
तस्मादिति ।
स्वप्रकाशे यावत्सत्त्वं प्रकाशनात् न आरोप इति पक्षः पूर्व­पू­र्वा­ध्या­स­व­शा­द­प्र­का­श­स­म­र्थ­नेन निरस्तः ।
इदानीमप्रथमाने नास्त्यारोप इति पक्षमुपन्यस्यति —
स्यादे­त­दि­त्या­दिना ।
अप­रो­क्ष­वा­भा­व­श्चा­प्र­थ­मा­नता । अप­रो­क्ष­भ्र­मा­धि­ष्ठा­नत्वे ह्यप­रो­क्षे­णा­त्मना भवितव्यम्, स चेत् न अपरोक्षः, तस्मि­न्न­ध्या­सो­प­यो­गि­प्र­थ­ना­भा­वात् नाध्यास इत्यर्थः ।
रूप­र­हि­त­द्र­व्य­त्वात् स्पर्श­र­हि­त­द्र­व्य­त्वा­दिति द्वौ हेतू वक्ति —
नभो हीति ।
वायुः स्पार्श­न­प्र­त्यक्ष इति पक्षे द्वितीय एव हेतुः । दुःखाकरोति वस्तु­वृ­त्ते­ना­दुः­खिनं दुःखिनं करोतीत्यर्थः ।
वस्तुस्वरूपं च तदवधारणं चेति कर्म­धा­र­य­म­भि­प्रत्य अभिव्यक्त स्वरूपज्ञानमाह —
चिदात्मरूपमिति ।
निरु­प­द्र­व­भू­ता­र्थेति ।
भाव­ना­प्र­क­र्षा­द्वि­श­दाभं सर्वविषयं ज्ञानमुत्पद्यते । तेन विषयीकृतस्य निरु­प­द्र­व­प­र­मा­र्थ­स्व­भा­वस्य संस्का­र­ब­ला­द­नु­व­र्त­मा­न­वि­प­र्ययैः न बाधः, कृतः? बुद्धेः पर­मा­र्थ­भा­व­ना­ज­न्याया वस्तु­प­क्ष­पा­ति­त्वेन प्राबल्यात् । ननु — लङ्घनाभ्यासवत् नैरा­त्म्या­दि­भा­व­नापि सातिशयमेव कार्यं जनयति, कथं सर्व­वि­ष­य­ज्ञा­न­लाभः? इति शङ्का­म­पा­क­र्तु­म­य­त्न­व­त्त्वेऽ­पी­त्यु­क्तम् । लङ्घनाभ्यासे हि यो युग­मा­त्र­दे­श­ल­ङ्घने प्रय­त्न­स्त­तोऽ­धिको द्वियु­ग­दे­श­ल­ङ्घ­नेऽ­पे­क्ष्यते । नैरा­त्म्या­दि­त­त्त्व­वि­ष­य­प्र­त्य­या­भ्यासे तु यादृशः प्रथ­म­प्र­त्य­यो­त्पादे प्रयत्नः तादृश एव द्वितीयादावपि वैशद्याधिक्यं च दृश्यते । तच्च निरतिशयं भवितुमर्हति । यत्र हि योऽभ्यासः कार्योत्कर्षकरः प्राचः प्रय­त्ना­द­धि­क­प्र­य­त्ना­न­पे­क्षश्च, स तत्र निर­ति­श­य­का­र्यो­त्कर्षं करोति, पुटपाकाभ्यास इव सुवर्णस्य रक्तसारतामिति । अयत्नवत्वेऽपि अधि­क­प्र­य­त्ना­न­पे­क्ष­त्वेऽपि बुद्धे­स्त­त्प­क्ष­पा­ति­त्वेन उदयात् निर­ति­श­यो­त्क­र्ष­सि­द्धिश्च इत्यर्थः ।
'तमे­त­मि­त्या­दि­भा­ष्य­स्या­ध्यस्य लोक­व्य­व­हार' इति भाष्येण पौन­रु­क्त्य­मा­श­ङ्क्याह —
यदुक्तमिति ।
प्रमाकरणानि प्रमाणानि नाविद्यावन्तं प्रेरकत्वेन आश्रयन्ति अनु­प­यो­गा­दि­त्या­क्षे­पा­भि­प्रा­य­माह —
तत्त्वपरिच्छेदो हीति ।
विरो­धा­भि­प्रा­य­माह —
नावि­द्या­व­न्त­मिति ।
अह­म­भि­मा­न­ही­न­स्येति भाष्यपदं व्याचष्टे —
तादात्म्येति ।
तादा­त्म्या­ध्यासो देहा­दि­ध­र्म्यै­क्या­ध्यासः ।
ममाभिमानहीनस्य इत्ये­त­द्व्या­क­रोति —
तद्धर्मेति ।
अध्यासहीनस्य प्रमा­तृ­त्वा­नु­प­प­त्ति­मु­प­पा­द­यति —
प्रमातृत्वं हीति ।
निर्व्यापारे हि चिदात्मनि प्रमाणप्रेरणं व्यापारः परोपाधिरध्यस्त इति प्रमाणानाम् अवि­द्या­व­त्प्रे­र्य­त्व­मि­त्यर्थः ।
दण्डिन इति ।
यथा दण्ड्य­द­ण्डि­स­मु­दा­य­ल­क्ष­ण­द्वा­रेण समूहिपरो दण्डिशब्दः, एव­मि­न्द्रि­य­श­ब्दोऽपि इन्द्रि­याऽ­नि­न्द्रि­य­प्र­मा­ण­पर इति व्यवहार इति ।
क्रिया­मा­त्रो­पा­दा­नात् समा­न­क­र्तृ­क­क्रि­या­व­या­पे­क्ष­क्त्वा­प्र­त्य­या­यो­ग­मा­शङ्क्य आक्षि­प्त­क­र्तु­रु­पा­दा­नेन परिहरति —
व्यव­हा­र­क्रि­य­येति ।
व्यव­हा­र्या­क्षे­पा­दिति ।
व्यवहारिण आक्षे­पा­दि­त्यर्थः ।
अनुपादाय व्यवहारो न संभ­व­ती­त्य­नु­प­प­न्नम्, अनुपादानस्य प्रमा­तृ­क­र्तृ­क­त्वन असंभवनस्य व्यव­हा­र­क­र्तृ­क­त्वेन कर्तृ­भे­दा­दि­त्या­श­ङ्क्याह —
अनुपादायेति ।
नैवमिह संबन्धोऽनुपादाय न संभवतीति, किं तर्हि ? अनुपादाय यो व्यवहारः स न संभवतीति । किमिति पुनरिति साङ्ख्यस्य शङ्का । अथ स्वयमेवेति स्वभाववादिनः । अथ देह एवेति लौकायतिकस्य ।
एवं प्रमा­ण­प्रे­र­क­त्वे­ना­ध्यास समर्थ्य प्रमा­श्र­य­त्वे­नापि समर्थयति —
आतश्चेति ।
अवश्यं चेत्यर्थः । मा भूत् प्रमा­तृ­त्व­म­न्त­रेण प्रमा­ण­प्र­वृत्तिः, एतावता कथं प्रमा­णा­ना­म­ध्या­सा­श्रि­त­त्व­मि­त्या­शङ्क्य चिद­चि­द्रू­प­सं­व­लि­त­प्र­माया आश्रयः प्रमातापि ।
तत्स्वभावो भवितुमर्हति, न च चिद­चि­त्सं­व­ल­न­म­ध्या­स­म­न्त­रे­णेति संभवन्ति प्रमा­णा­न्या­ध्या­सा­श्र­या­णी­याह —
प्रमायां खल्विति ।
परिणामविशेष उद्भूतसत्त्वः प्रमेयप्रवण इति सुखा­दे­र्व्य­व­च्छि­नत्ति । परिणामतया च जाड्यमुक्तम् । । यदि चिदात्मा तत्रा­न्तः­क­र­णेऽ­ध्य­स्येत, तर्ह्येव तत्प­रि­णा­म­श्चि­द्रूपो भवेदित्यर्थः ।
तत्सिद्धौ चेति ।
प्रमाश्रयत्वं हि प्रमा­तृ­त्व­मि­त्यर्थः । अनेन नाऽविद्यावन्त इति ग्रन्थ­स्या­क्षेपः परिहृतः ।
तत्त्वपरिच्छेदो हीति ग्रन्थस्थं परिहरति —
तामेव चेति ।
प्रमातृत्वेन चेति ।
अनुपलक्षणे हि प्रेमा­तृ­त्व­शक्तिः स्वयमेव कल्प्या नाध्या­सो­प­पा­दिका, प्रमा तु चिद­चि­द्रू­प­ग­र्भिणी कल्प­य­त्य­ध्या­स­मिति॥
तथा च पारमर्षमिति ।
शेष­ल­क्ष­णेऽ­भि­हि­तम् — 'शास्त्र­फलं प्रयोक्तरि तल्ल­क्ष­ण­त्वा­त्त­स्मा­त्त­त्स्वयं प्रयोगे स्यात् (जै. अ.३ पा.७ सू. १८) । दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत इत्यत्र संशयः, किं साङ्गे प्रधाने यजमान एव कर्ता, उत उद्दे­श­त्या­गा­त्म­क­प्र­धाने एव यजमानस्य कर्तृत्वम्, अङ्गेषु यथायथमृविजामिति । तत्रेदं पूर्व­प­क्ष­सू­त्रम् । साङ्गप्रधानस्य प्रयो­गेऽ­नु­ष्ठाने स्वयं यजमानः कर्ता स्यात्, यतः शास्त्रगम्यं फलं प्रयोक्तरि प्रतीयते, कुतः, तल्लक्षणत्वात् शब्द­प्र­मा­ण­क­त्वा­द­र्थस्य । स्वर्गकामो यजेतेति स्वर्गोद्देशेन भावनां विदधदाख्यातं भाव­ना­क्षि­प्त­क­र्तृ­सं­बद्धं फलमवगमयति । आत्मनेपदेन च फलस्य कर्तृगामिता गीयते । साङ्गं प्रधानं फलसाधनमिति सर्वत्र याजमानत्वे प्राप्ते, सिद्धान्तः — अन्यो वा स्यात्प­रि­क्र­या­म्ना­नात् विप्रतिषेधात् प्रत्यगात्मनि (जै. अ. ३ पा. ७ सू. २०) । यदि यजमान एव सर्वत्र कर्ता स्यात् तर्हि दक्षिणाभिः परि­क्र­य­ण­मृ­त्वि­जा­म­न­र्थकं स्यात् । स्वस्मिंश्च परिक्रयो विप्रतिषिद्धः । तत आध्व­र्य­वा­दि­क­मृ­त्वि­ग्भि­रेव कार्यं, तस्मिंश्च परिक्रयद्वारा प्रयो­ज­क­क­र्तृ­त्वा­द्य­ज­मान एव साङ्गफलभागिति । अत्र च पूर्व­प­क्ष­सि­द्धा­न्तयोः कर्तृगामिनि फले न विगानमिति पूर्व­प­क्ष­सू­त्र­मपि तावत्यंशे प्रमा­ण­मि­त्यु­दा­हृ­तम् ।
अश­ना­या­द्य­ती­त­प­द­सू­चि­ता­क­र्तृ­त्व­वै­प­रि­त्य­माह —
प्रयोक्ता हीति ।
असं­सा­र्या­त्म­प­द­सू­चि­ता­भो­क्तृ­त्व­वै­प­री­त्य­माह —
कर्मजनितेति ।
अपे­त­ब्र­ह्मे­त्या­द्यु­क्ताऽ­न­धि­का­र­रू­प­वै­प­री­त्य­माह —
अधिकारीति ।
अधिकारित्वस्य व्याख्यानं स्वामीति । अकर्ता कर्तृ­व­श­क्ति­र­हितः ।
ननु ब्रह्मज्ञानेन कर्म विधयो यदि यदा कदापि बाधिष्यन्ते, तर्ह्यप्रमाणं स्युस्तत्राह —
न च परस्परेति ।
महापातकेति ।
महापातकं ब्रह्मवधादि । उपपातकं गोवधादि । संकरीकरणादीनि च मनुनोक्तानि । 'खरा­श्वो­ष्ट्र­व­रा­हा­णा­म­जा­वि­क­व­ध­स्तथा । संकरीकरणं ज्ञेयं मीनाऽहिमहिषस्य च॥ निन्दितेभ्यो धनाऽऽदानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेय­म­स­त्य­स्या­भि­भा­ष­णम् । । मनुस्मृतिः (अ. ११ श्लो. ६८ — ६९) 'कृमि­की­ट­व­यो­हत्या मद्यानुगतभोजनम् । फलै­धः­कु­सु­म­स्ते­य­म­धैर्यं च मलावहम् ॥ (मनु. अ. ११ श्लो. ७० ) इति ।
आदि­श­ब्दा­त्त­दुक्तं जातिभ्रंशकरादि गृह्यते । 'ब्राह्म­णस्य रुजः कृत्यं घ्राति­र­घ्रे­य­म­द्ययोः । जैह्म्यं पुंसि च मैथुन्यं जातिभ्रंशकरं हि तत् ॥' (मनु. अ. ११ श्लो. ६९) इति ।
अभ्यर्हितत्वात् धर्म्यध्यासः प्रथमं वक्तव्यम् इत्याशङ्क्याह —
तत्राहमिति ।
गृही­त­वि­वे­क­त्वात् पुत्रा­दी­ना­मा­त्मनि तद्ध­र्मा­ध्या­सा­सं­भ­व­मा­शङ्क्य आह —
देह­ता­दा­त्म्य­मिति ।
देह­ग­त­स्वा­मि­त्व­स्या­रोपे कथं साक­ल्य­वै­क­ल्या­रो­प­सि­द्धि­स्त­त्राह —
स्वस्य खल्विति ।
देह­ग­त­स्वा­मि­त्वस्य ये सकलत्वविकलत्वे ते चेदा­त्म­न्य­ध्यस्ते, कथं बाह्यग्रहणं भाष्ये? तत्राह —
बाह्येति ।
साक्षि­श­ब्दा­र्थ­माह —
चैत­न्यो­दा­सी­न­ता­भ्या­मिति ।
सक्रियोपाधेः आत्म­न्या­रो­पा­दा­त्मनि कर्तृ­त्व­भो­क्तृत्वे उपपादिते इत्यर्थः ।
चैतन्यमिति ।
अन्तः­क­र­णा­दि­ग­त­मि­त्यर्थः ।
साक्षिणि इति निर्देशात् शुद्धेऽध्यास इति भ्रममपनयति —
तदनेनेति ।
प्रकृतमिति ।
उपो­द्धा­त­रू­पे­णा­ध्यासं वर्णयतो भाष्यकारस्य प्रथमं बुद्धिस्थत्वेन प्रकृतं विष­य­प्र­यो­ज­न­मि­त्यर्थः ।
एवमध्यासे समर्थिते सति प्रसिद्धत्वात् अजि­ज्ञा­स्य­त्व­स­मा­क्षे­पा­व­स­रोक्तं निरस्तमित्याह —
एतदुक्तमिति ।
पठ्येरन्निति ।
भाष्यगतारभ्यन्त इतिपदस्य व्याख्या ।
अत­त्प­र­वे­दा­न्त­प्र­त्ययो यद्यप्यप्रमा, तथाप्यभ्यस्तो वास्त­व­क­र्तृ­त्वा­दि­नि­व­र्तक इत्याशङ्क्य आह —
न चासाविति ।
अधिकरणमारचयति —
एतावानिति ।
वेदा­न्त­शा­स्त्र­म­ना­र­भ्य­मा­रभ्यं वेति विष­य­प्र­यो­ज­ना­सं­भ­व­सं­भ­वाभ्यां संशयः । वेदान्तैः अध्ययनविधिना सामान्यतः प्रयो­ज­न­व­द­र्था­व­बो­ध­प­रतां नीतैर्विशेषतश्च संदि­ह्य­मा­ना­र्थ­तया विचा­रा­का­राङ्क्षैः आक्षेपादस्य अधिकरणस्य श्रुतिसङ्गतिः । सम­न्व­या­द्य­शे­ष­वि­चा­र­हे­तु­त्वात् शास्त्र­प्र­थ­मा­ध्या­य­प्र­थ­म­पा­द­स­ङ्ग­तयः ।
आश­ङ्का­प­न­य­न­पू­र्वकं पूर्वपक्षमाह —
यद्यपीत्यादिना ।
अवि­व­क्षि­ता­र्थत्वं वेदान्तानां शङ्कितुमशक्यम् । अध्ययनविधेः दृष्टार्थत्वस्य तुल्यत्वात् । न च कार्यपरत्वात् सर्ववेदस्य सिद्धरूपे ब्रह्मणि वेदान्तानाम् अप्रा­मा­ण्य­शङ्का, लोकवेदयोः वाक्यार्थस्य अविशेषेण सिद्धरूपे ब्रह्मणि वेदान्तानां मन्त्राणामिव देवतादौ प्रामा­ण्य­सं­भ­वात् । नाप्य­नु­त्प­त्ति­ल­क्ष­णा­प्रा­माण्यं शङ्क्यम्, ब्रह्मा­त्मै­क्य­बो­धि­त्वा­द्वे­दा­न्ता­नाम् । अतो नानारभ्यं शास्त्र­मि­त्यर्थः ।
परिहरति —
तथापीति ।
प्रमा­ण­स्व­रू­प­प­र्या­लो­च­नेन मीमां­साऽ­ना­र­म्भ­मुक्त्वा प्रमे­य­स्व­रू­पा­लो­च­न­यापि तमाह —
न चेति ।
वक्ष्यमाणेनेति ।
तत्पु­न­र्ब्र­ह्म­त्या­दा­वि­त्यर्थः॥

अथातो ब्रह्मजिज्ञासा ॥१॥ वृत्ति­व्य­क्त­स्व­रू­प­ज्ञा­न­म­भि­प्रे­त्याह —
तत्र साक्षादिति ।
इष्यमाणत्वेन ज्ञानस्य प्रयो­ज­न­सू­च­न­मु­प­पाद्य संश­य­सू­च­न­मु­प­पा­द­यति —
जिज्ञासात्विति ।
सा हीति ।
सा न्यायात्मिका मीमांसा अनेन ग्रन्थेन शिष्यत इत्यर्थः । विष­य­प्र­यो­ज­न­ब्र­ह्म­स्व­रू­प­प्र­मा­ण­यु­क्ति­सा­ध­न­फ­ल­वि­चा­राणां च प्रतिज्ञानात् बह्वर्थसूचनता । लघूनि असंदिग्धार्थानि । सांशयिकं हि नाना­र्थ­स्फो­र­क­त्वेन गुरु । सूचितार्थत्वे हि मुख्यार्थस्यापि अव­श्यं­भा­वि­त्वात् बह्वर्थसिद्धिः ।
बहू­ना­म­प्र­कृ­त­त्वा­त्त­त्रेति निर्धा­र­णा­यो­ग­मा­श­ङ्क्याह —
तेष्विति ।
अथैष ज्योति­रि­त्य­त्रा­पू­र्व­सं­ज्ञा­यो­गि­वि­धा­स्य­मा­न­क­र्म­प्रा­रं­भा­र्थोऽ­थ­शब्दः । अधिकरणं तु (जै. अ.२ पा.२ सू. २२) गुणो­प­सं­हा­रेऽ­नु­क्र­मि­ष्यते ।
प्रधानस्य जिज्ञासायाः शास्त्रे­णा­प्र­ति­पा­द्य­मा­न­त्वात् तत्प्र­ति­पा­द­न­प्रा­रं­भार्थो मा भूत्, ब्रह्म­त­ज्ज्ञा­न­प्रा­रं­भार्थो भव­त्वि­त्या­श­ङ्क्याह —
न चेति ।
'दण्डी प्रैषा­नि"त्यत्र हि 'मैत्रा­व­रुणः प्रेष्यति चान्वा­हेति' मैत्रावरुणस्य प्रैषानुवचने प्राप्त­त्वा­द­वि­वक्षा, इह तु जिज्ञासाया नाविवक्षा कारणम्, प्रत्युत तदविवक्षायां विष­य­प्र­यो­ज­न­सू­चनं न स्यादित्यर्थः । ।
ननु किं संशयसूचनेन? निर्दिष्टे ब्रह्मतज्ज्ञाने एव विषयप्रयोजने सिद्ध्य­त­स्त­त्राह —
न हीति ।
अप्र­स्तू­य­मा­न­त्वात् प्रत्य­धि­क­र­ण­म­प्र­ति­पा­द्य­मा­न­त्वात् । 'मान्ब­ध­दा­न्शान्भ्यो दीर्घ­श्चा­भ्या­सस्ये'ति सूत्रे 'माङ्माने' इत्यस्य ङानुबन्धस्य धातोर्नान्तत्वं निपातितम् । अस्य च पूजि­त­वि­चा­रा­र्थत्वं प्रसि­द्धि­ब­ला­त्वात् स्वतो, नान्तस्य तु तदर्थत्वम् स्मृतिसिद्धमिति । मानि­त्या­दि­धा­तुभ्यः सन् भवत्यभ्यासस्य च दीर्घ इत्यर्थः । धातोः कर्मण इत्युत्तरसूत्रे इच्छार्थे सवि­धा­ना­द­य­म­नि­च्छार्थ इति गम्यते ।
लक्षि­त­वि­चा­र­ना­रं­भा­र्थोऽ­थ­श­ब्दोऽस्तु नेत्याह —
न च स्वार्थपरस्येति ।
वाच्याया जिज्ञासायाः संशयसूचनेन वाक्या­र्था­न्व­यो­प­पत्तौ न लक्षणा, अधि­ग­त­वि­ष­य­प्र­यो­ज­नस्तु स्वत एव विचारे प्रव­र्त्य­ती­त्यर्थः ।
अथाधिकारार्थ इत्यत्र अथ­श­ब्द­स्या­न­न्त­र्या­र्थत्वं वदन् प्रष्टव्यः, किं पूर्व­प्र­कृ­ता­द­थ­श­ब्दात् आनन्तर्यम् उत निर­न्त­रा­दा­न­न्त­र्य­प­क्षात्, नाद्य इत्याह —
पूर्व­प्र­कृ­त­स्येति ।
द्वितीये, पूर्व­प्र­कृ­त­म­थ­श­ब्द­म­पेक्ष्य किं निर­न्त­रा­न­न्त­र्या­र्थ­त्व­प­क्षात् आनन्तर्यं ब्रूयाद्, द्विती­योऽ­थ­श­ब्दोऽ­धि­का­रा­र्थ­त्व­प­क्षस्य, उत अनपेक्ष्यैव । नाद्यः, अव­श्या­पे­क्ष­णी­य­त्वात् पूर्व­प्र­कृ­ता­पे­क्षाया अथशब्दस्य तादर्थे सति अर्था­न्त­र­क­ल्प­ना­न­व­का­शात् ।
न द्वितीयः इत्याह —
न च प्रकृ­ता­न­पे­क्षेति ।
एकधर्म्यपेक्षणे हि तन्निरूपकयोः पक्षयोः तुल्यार्थत्वेन विकल्पः कल्प्यत इत्यर्थः ।
नानेन भाष्येण पूर्व­प्र­कृ­ता­पे­क्षाया आन­न्त­र्य­रू­प­त्व­मु­च्यते, आन­न्त­र्य­रू­प­त्व­पक्षे विक­ल्पा­प्र­ति­भा­नात्, किंतूभयत्रापि ब्रह्म­जि­ज्ञा­सा­हे­तु­भू­त­प्र­कृ­त­सि­द्धि­रस्ति प्रयोजनम् अतः फल­द्वा­रे­णा­व्य­ति­रेक इत्युच्यते, इत्याह —
अस्यायमर्थ इति ।
ननु उभयथा फलाभेदे किमि­त्या­न­न्त­र्या­ग्रहः, तत्राह —
पर­मा­र्थ­त­स्त्विति ।
अन्य­द­प्य­दृ­ष्टा­दि­क­म­पेक्ष्य भवन्ती जिज्ञासा यस्मिन् सति भवत्येव इत्यर्थः ।
ब्रह्मेति ।
स्वाध्या­या­ध्य­य­ना­न­न्तरं ब्रह्म­जि­ज्ञा­साया भवितुं योग्यत्वात् तदा­न­न्त­र्य­म­थ­श­ब्देन वक्तुं युक्तमित्यर्थः ।
योग्यत्वे कारणमाह —
ब्रह्मणोऽपीति ।
अत्र चेति ।
स्वाध्यायस्य नित्यत्वात् तदा­न­न्त­र्य­म­यु­क्त­मिति तद्विषयमध्ययनं लक्षयतीत्यर्थः ।
ननु धर्म­जि­ज्ञा­सा­सूत्रे ब्रह्मा­नु­पा­दा­नात् कथं तेन गतार्थता, तत्राह —
धर्मशब्दस्येति ।
ननु इच्छायां विनियोगो न ज्ञाने इति, तत्राह —
ज्ञानस्यैवेति ।
अर्थतः प्राधान्याद् ज्ञानस्य तत्रैव विनियोग इत्यर्थः ।
साक्षा­त्का­रो­प­योग यज्ञादीनामाह —
तत्रापीत्यादिना ।
विशे­ष­हे­त्व­भा­वोऽ­सिद्ध इत्याह —
तत्त्वमसीति ।
योग्यतावधारणे कर्म किम­प्र­मा­ण­त­यो­प­यु­ज्यते, उत प्रमाणतया ।
नाद्यः, अप्रमाणात् प्रमा­ण­का­र्यो­त्पा­द­व्या­घा­ता­दि­त्याह —
तत्किमिति ।
प्रमाणं कारणं यस्य तत्तथा ।
न द्वितीयः, कर्मणः प्रमा­ण­त्व­प्र­सि­द्ध्य­भा­वा­दि­त्याह —
प्रत्यक्षादीति ।
पातजलसूत्रे स इति चित्त­वृ­त्ति­नि­रोध उक्तः । दृढभूमिः तत्त्व­प्र­ति­पत्तौ दृढ उपायः इत्यर्थः ।
नित्यानामेव संस्कारद्वारा भाव­ना­ङ्ग­त्व­मुक्त्वा सर्व­क­र्म­णा­मु­त्प­त्ति­वि­धि­वि­हि­त­रू­प­मु­पा­दाय भावनाङ्गतां विनियोगवचन — वशेनाह —
अन्ये त्विति ।
संयोगः शेषत्वबोधनं चतुर्थे चिन्तितम् ।
एकस्य त्विति ।
'खादिरे पशुं बध्नाति', 'खादिरं वीर्यकामस्य यूपं कुर्वीतेति च श्रूयते । तत्र संशयः, किं काम्ये इव खादिरता नित्येपि स्यादुत नेति, तत्र फलार्थत्वेन अनित्यायाः नित्य­प्र­यो­गा­ङ्गता न युक्ता । यत्तु नित्येऽपि खादिरत्वश्रवणं, तत्काम्यस्यैव पशु­ब­न्ध­न­यु­क्त­यू­प­रू­पा­श्र­य­दा­नार्थं, ततो न नित्ये खादिरतेति प्राप्ते — राद्धान्तः, एकस्य खादिरत्वस्य उभयत्वे क्रत्वर्थ — पुरु­षा­र्थ­ल­रू­पो­भ­या­त्म­कत्वे वचनद्वयेन क्रतु­शे­ष­त्व­फ­ल­शे­ष­व­त्व­क्ष­ण­सं­यो­ग­भे­दा­व­ग­मात् न नित्या­नि­त्य­सं­यो­ग­वि­धि­वि­रोधः । न चाश्रयदानाय नित्यवाक्यम्, सन्नि­धा­ना­दे­वा­श्र­य­ला­भात् । तत उभयार्था खादिरतेति (जै. अ. ४ पा. ३ सू. ५)
विशेषणत्रयवतीति ।
आद­र­नै­र­न्त­र्य­दी­र्घ­का­ल­त्व­व­ती­त्यर्थः ।
कर्मापेक्षत्वेन ब्रह्मभावनायाः तदवबोधापेक्षाम् उपपादयन् कर्मा­व­बो­धा­न­न्त­र्य­मिति भाष्यं घटयति —
न चेति ।
दृष्ट उपकारः तुषविमोकादिः, अदृष्टः प्रोक्षणादिजः प्रयाजादिजश्च । स चासौ यथायोगं सामवायिकः क्रतु­स्व­रू­प­स­म­वायी, आराद् दूरे फलापूर्वसिद्धौ उपकारश्च, तस्य हेतुभूतानि औपदेशिकानि प्रत्य­क्ष­वि­हि­तानि आतिदेशिकानि प्रकृतेः विकृ­ता­व­ति­दे­श­प्रा­प्तानि क्रमपर्यन्तानि क्रमेणापि अव­च्छि­न्ना­न्य­ङ्गानि तेषां ग्रामः समूहः, तत्सहितं परस्परविभिन्नं कर्मस्वरूपं, तद­पे­क्षि­ता­धि­का­रि­वि­शे­षश्च, तयोः परिज्ञानं विना कर्माणि न शक्यानि अनु­ष्ठा­तु­मि­त्य­न्वयः । औप­दे­शि­का­ति­दे­शि­केति शेषलक्षणादारभ्य उपरितनतन्त्रस्य अपेक्षोक्ता । क्रमपर्यन्तेति पञ्चमनयस्य । अङ्गग्रामेति तार्तीयस्य । सहितेति चातुर्थिकस्य प्रयो­ज्य­प्र­यो­ज­क­वि­चा­रस्य । पर­स्प­र­वि­भि­न्न­स्येति द्विती­य­ल­क्ष­णा­र्थस्य । तदधिकारीति षष्ठा­ध्या­या­र्थस्य । दृष्टादृष्टेति संस्का­र­क­र्म­व­गु­ण­कर्म स्वप्न­धा­न­क­र्म­त्वा­दि­चि­न्ता­याश्च द्विती­या­ध्या­य­ग­ताया अपे­क्षे­त्यु­क्तम् ।
द्विरवत्तेति ।
दआग्नेययागः स्वोत्पत्तये 'द्व्यव­दानं जुहोतीति वचनाद् द्विर्ह­वि­षोऽ­व­द्य­तीति विहितं द्विर­व­त्त­पु­रो­डा­श­म­पे­क्षत इति । भावनासाध्ये साक्षात्कारे यदि कमापेक्षा, तर्हि स ब्रह्मस्वरूपम्, अन्यो वा ।
स्वरूपत्वे न कर्मा­पे­क्षे­त्याह —
स चेत्यादिना ।
पिष्टं संयौतीति विहितमिश्रणस्य पिण्ड उत्पाद्यः, गां दोग्धीति विहितदोहनेन प्राप्यं पयः ।
साक्षात्कारस्य ब्रह्म­स्व­रू­पा­द्भेदे ब्रह्म जडं स्यात्, तच्चे­न्द्रि­या­द्य­गो­चरः शब्दश्च परो­क्ष­प्र­मा­हे­तु­रिति केवलभावनाभूः साक्षात्कारः अप्रमा स्यादित्याह —
ततो भिन्नस्य चेति ।
मन्थरः स्तिमितः । स्फुरन्त्यो ज्वाला जटाकारा अस्य सन्तीति जटिलः ।
न च कूटस्थेति ।
कूटस्थनित्यतया पूर्व­रू­पा­पा­य­ल­क्षणो विकारः अभि­न­व­गु­णो­द­य­रू­प­सं­स्का­रश्च न स्तः, सर्वव्यापितया न प्राप्तिः ।
कूट­स्थ­नि­त्य­त्वा­वि­रुद्धं दोष­वि­घा­त­सं­स्का­र­माह —
अनिर्वचनीयेति ।
प्रतिसीरा तिरस्करिणी । रङ्गव्यावृतो नटः । आरोह उच्छ्रयः । विस्तारपरिमाणं परिणाहः । उपासना किमा­पा­त­ज्ञा­ना­भ्यासः, निश्चयाभ्यासो वा ।
आद्यं भङ्क्त्वा द्वितीयं शङ्कते —
नन्विति ।
ननु उपासनैव अविद्यां निवर्तयतु, किं साक्षात्कारेण, यत्र कर्मो­प­यो­ग­स्त­त्राह —
न चेति ।
ननु रज्जु­स­र्पा­दि­भ्रमा अपरोक्षा अपि आप्त­व­च­ना­दि­ज­नि­त­प­रो­क्ष­ज्ञानैः निवर्तन्ते — सत्यं, ते निरुपाधिकाः, कर्तृवादिस्तु सोपाधिक इत्यभिप्रेत्य तथाविधमुदाहरति —
दिङ्मोहेति ।
नौस्थस्य तटगततरुषु चलद्वृक्षभ्रमः ।
अपरोक्षे ब्रह्मणि शब्द एव अप­रो­क्ष­ज्ञा­न­हेतुः, अन्यथा तु तत्र परोक्षज्ञानस्य भ्रम­त्वा­पा­ता­दिति, तत्राह —
न चैष इति ।
अयमभिसन्धिः — स्वतोऽ­प­रो­क्ष­स्यापि ब्रह्मणः पारोक्ष्यं भ्रमगृहीतम् । तत्रा­प­रो­क्ष­प्र­मा­क­र­णा­देव तत्साक्षात्कारः । अन्तःकरणं च सोपाधिके आत्मनि जन­य­त्य­हं­वृ­त्तिम् इति सिद्धम् अस्य आत्मनि अप­रो­क्ष­धी­हे­तु­त्वम् । तत्तु शब्द­ज­नि­त­ब्र­ह्मा­त्मै­क्य­धी­स­न्त­ति­वा­सितं तत्प­द­ल­क्ष्य­ब्र­ह्मा­त्मतां जीवस्य साक्षात्कारयति, अक्षमिव पूर्वा­नु­भ­व­सं­स्का­र­वा­सितं तत्ते­द­न्तो­प­ल­क्षि­तै­क्य­वि­ष­य­प्र­त्य­भि­ज्ञा­हेतुः, शब्दस्तु नाप­रो­क्ष­प्र­मा­हेतुः क्लृप्तः, प्रमे­या­प­रो­क्ष्य­यो­ग्य­त्वेन प्रमायाः साक्षात्कारत्वे देहा­त्म­भे­द­वि­ष­या­नु­मि­ते­रपि तदापत्तिः, दश­म­स्व­म­सी­त्य­त्रापि तत्स­चि­वा­द­क्षा­देव साक्षात्कारः, अन्धादेस्तु परोक्षधीरेव । अपिच — वेदा­न्त­वा­क्य­ज­ज्ञा­न­भा­व­ना­जाऽ­प­रो­क्षधीः । मूलप्र माणदायन न भ्रमत्वं प्रपद्यते । 'न च प्रामा­ण्य­प­र­त­स्वा­पातः अपवादनिरासाय मूल­शु­द्ध्य­नु­रो­धात् । दृश्यते त्वग्रया बुद्ध्य­त्या­दे­र्न­य­बृं­हि­त­व­च­ना­दि­त्थ­मु­र­री­कारः ।
साक्षा­द­प­रो­क्षा­दि­त्ये­व­मा­का­रैव धीः शब्दादुदेति, नतु परोक्षं ब्रह्मति, सा तु करण स्वभा­वा­त्प­रो­क्षाऽ­व­ति­ष्ठते न भ्रम इति सर्वमवदातम् ॥स्व­रू­प­प्र­का­श­स्या­भि­व्य­क्ति­सं­स्का­र­मु­प­पाद्य व्यञ्ज­का­न्तः­क­र­ण­वृ­त्ते­रु­त्पाद्य तामाह —
नचेति ।
वृत्तिविषयत्वे ब्रह्म­णोऽ­स्व­प्र­का­श­त्व­मा­श­ङ्क्या­स­मु­च्च­य­म­तेन कर्मोपयोगाय साम्यमाह —
न चैतावतेति ।
स्वप्रकाशस्यैव शाब्द­ज्ञा­न­वि­ष­यत्वं त्वयाऽ­पी­ष्ट­मि­त्यर्थः ।
परिहारसाम्यमाह —
सर्वेति ।
ननु निरु­पा­धि­ब्र­ह्म­सा­क्षा­त्का­र­गो­चरे कथमुपहिततेति, तत्राह —
नचान्तःकरणेति ।
निरुपाधि ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वे­त­रो­पा­धि­नि­वृ­त्ति­हे­तु­रु­द­यते; स्वस्या अप्यु­पा­धे­र्नि­व­र्त­का­न्त­रा­पे­क्षेति भावः । ननु — वृत्ति­वि­शि­ष्टस्य शबलतया न तत्त्व­सा­क्षा­त्का­र­गो­च­रता; वृत्त्य­व­च्छि­न्ना­त्म­वि­ष­यत्वे च वृत्तेः स्ववि­ष­य­त्वा­पातः, विशेषणाग्रहे विशि­ष्टा­ग्र­हात्, उपलक्षितस्य तु न वृत्त्युपाधिकता — इति । उच्यते; वृत्त्यु­प­रा­गोऽत्र सत्तयोपयुज्यते न प्रति­भा­स्य­त­याऽतो वृत्तिसंसर्गे सत्यात्मा विषयो भवति, न तु स्वत इति न दोषः ।
ननू­पा­धि­सं­ब­न्धा­द्वि­ष­यत्वं, विषयत्वे चोपाधिसंबन्धो विष­य­वि­ष­यि­त्व­ल­क्षण इतीतरेतराश्रयमत आह —
अन्यथेति ।
न ब्रह्म­सा­क्षा­त्का­रस्य ब्रह्म­वि­ष­य­त्व­प्र­युक्तं चैत­न्य­प्र­ति­बि­म्बि­तत्वं, किं तु स्वतः, घटा­दि­वृ­त्ति­ष्वपि साम्यात् । चैतन्यं च ब्रह्मेति स्वभाविको वृत्ते­स्त­त्सं­बन्ध इत्यर्थः ।
यच्च स्वरू­प­व्य­ति­रि­क्त­सा­क्षा­त्का­रस्य भ्रमत्वमिति तत्राह —
नचेति ।
विष­य­वि­सं­वा­दा­भा­वात् प्रमा­त्व­मि­त्यर्थः ।
जीव­चै­त­न्य­मा­त्रा­प­रो­क्षेपि शुद्धा­न­न्दा­त्म­त्वादेः पारोक्ष्यान्न तदा­का­र­सा­क्षा­त्कारो यथार्थ इत्याशङ्क्याह —
न हीति ।
शुद्धादीनां स्वभा­व­त्वेऽ­प्यु­पा­धि­ति­रो­धा­ना­द­वि­भा­व­नम् ।
वेदान्तजज्ञानेन तत्तदुपाध्यपगमे यथावदभिव्यक्तो जीवो ब्रह्मेति गीयते, स चेदु­पा­ध्य­भा­व­स्तर्हि तदतिरिक्तः परोक्षः कथं साक्षात्कारे भायादत आह —
नचेति ।
यथा परै­र­न्यो­न्या­भावो न भवति घट इति व्यपदिश्यमानोपि घट­त­द­न्यो­न्या­भा­व­व्य­ति­रिक्तो नाभाव उपेयते, न च घट­त­द­न्यो­न्या­भा­व­यो­रे­कता, एवमस्माकं निरुपाधिकं ब्रह्म, न चोप­ध्य­भा­व­स्त­तोऽन्य इत्यर्थः ।
ननु चैत­न्या­भि­न्ना­श्चे­दा­न­न्दा­द­य­स्त­द्व­द­वि­द्या­द­शायां विभाव्येरन्, उपा­धि­रु­द्धा­श्चे­च्चै­त­न्येऽपि निरो­ध­स्तु­ल्य­स्त­द­भे­दा­दिति शङ्का­मु­प­सं­हा­र­व्या­जेन परिहरति —
तस्मादिति ।
यथा षडजादयो गन्ध­र्व­शा­स्त्रा­भ्या­सात् प्रागपि स्फुर­न्त­स्त­द्रू­पे­णा­नु­ल्लि­खिता न श्रोत्रेण व्यज्यन्ते, व्यज्यन्ते तु शास्त्रवासितेन तेन; एवं वेदा­न्त­वा­क्य­ज­न्य­ब्र­ह्मा­त्मै­क­ता­का­र­ज्ञा­न­वा­सि­ता­न्तः­क­र­णेन तद्भा­वा­भि­व्य­क्तिर्न प्रागिति । निषा­द­र्ष­भ­गा­न्धा­र­ष­ड्ज­म­ध्य­म­धै­व­त­प­ञ्चमाः स्वराः । एषां समुदायो ग्रामः । मूर्च्छना तु तेषामारोहावरोहौ ।˳
समु­च्च­य­प­क्ष­मि­दानीं निराकरोति —
नेति ।
तत्र किमिह वा जन्मान्तरे वाऽनुष्ठितं कर्म संस्कारद्वारा ज्ञानो­त्प­त्ता­वु­प­यु­ज्यते, उतेहैवावगते ब्रह्मणि कृतकर्मणां भावनया समुच्चय इति । द्वितीये किं भाव­ना­फ­ल­सा­क्षा­त्कारे कर्मोपयोगः, उत भावनास्वरूपे इति ।
न तावत्कार्य इत्याह —
तस्या इत्यादिना ।
तदुच्छेदकस्य कर्मण इति समानाधिकरणे षष्ठ्यौ ।
सजातीयेति ।
सजातीयाश्च ते स्वयं च परे च तेषां विरो­धि­न­स्त­थोक्ताः ।
अवगते तत्त्वे विपर्यासदर्शनेन कर्मा­नु­ष्ठा­न­सं­भ­वात् समुच्चय इति प्रत्यवस्थानं दूषयति —
अत्रोच्यत इति ।
विदुष इति ।
क्रिया­क­र्त्रा­दि­र्वा­स्तव इति निश्चयवत इत्यर्थः ।
ननु विदु­ष­श्चे­द­धि­का­र­स्तर्हि क्रिया­क­र्त्रा­दे­र्वा­स्त­व­त्व­मि­त्या­श­ङ्क्याह —
क्रिया­क­र्त्रा­दीति ।
विद्वस्यमानः अविद्वानेव विद्वा­न्भ­व­न्वि­द्व­दा­भास इत्यर्थः । लोहि­ता­दि­डाज्भ्यः क्यषिति क्यषन्तस्य रूपम् । अत­ए­वा­वि­द्वा­न्क­र्म­का­ण्डेऽ­धि­का­र्य­भि­मत इति । अवि­द्व­द्वि­ष­यत्वं शास्त्रस्य वर्णयांबभूवेति । प्राक् चेत्या­दि­भा­ष्ये­णे­त्यर्थः ।
यदि प्रती­य­मा­ना­धि­का­र­नि­मि­त्तस्य ब्राह्मण्यादेः शास्त्र­नि­मि­त्त­मि­थ्या­त्व­प्र­त्य­या­द­श्र­द्द­धानो विध्यनधिकारी, तर्ह्यतिप्रसङ्ग इति शङ्कते —
स्यादेतदिति ।
भिन्न­मु­ल्ल­ङ्गितं शास्त्रनिषिद्धं कर्म येन स तथा तस्य भावस्तता अति­क्रा­न्त­नि­षे­ध­ते­त्यर्थः । अव­ग­त­मि­थ्या­भा­व­स्या­प्य­धि­का­र­नि­मि­त्तस्य प्रती­य­मा­न­त्वा­न्नि­षे­धा­धि­का­र­हे­तुता । न च श्रद्धधानता; इहा­धि­का­र­हे­तु­र­त­त्त्व­वि­दोऽपि नास्ति­क­त्वे­ना­श्र­द्ध­धतो निषेधाधिकारात्, इतरथा निषे­ध­ल­ङ्गि­न­स्तस्य प्रत्य­वा­या­भा­वा­पा­ता­द्वि­धिषु तु श्रद्धा­प्य­धि­का­र­हे­तु­रिति ।
ब्रह्मविदो नाधिकार इत्याह —
मैवमित्यादिना ।
यद्यपि यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति श्रद्धारहितमपि कर्म वीर्यवदिति स्थास्यति; तथापि सा श्रद्धा भक्तिरूपा, इयं तु प्रमाणद्वारा विश्वासात्मिकैव तदभावेऽनधिकार एवेति । न श्रद्धधान इति । नकारोऽयं प्रतिषेधवाची । यत एवा­व­ग­त­ब्र­ह्म­भावो विधिषु नाधिकार्यत एव ।
ज्ञानानन्तरं कर्मा­नु­ष्ठा­ना­सं­भ­वा­न्नो­पा­स­नो­त्पत्तौ कर्मापेक्षेति द्विती­य­क­ल्पा­न­व­काश इत्याह —
अतएवेति ।
एतद्विभजते —
निर्वि­चि­कि­त्सेति ।
पितृ­म­नु­ष्य­दे­व­लो­का­प्ति­हे­तुभिः कर्म­प्र­जा­ध­न­श­ब्द­वा­च्या­प­र­वि­द्या­भि­र्ना­मृ­त­त्व­मा­प्त­वन्तः, किंतु त्याग­सा­ध्य­ज्ञा­ने­ने­त्यर्थः । तथा हि श्रुत्यन्तरम् – ‘पुत्रेणैवायं लोको जय्यो विद्यया देवलोकः कर्मणा पितृलोक’ इति ।
इह भवान्तरे वाऽनुष्ठितं कर्म सत्त्व­शु­द्धि­द्वा­रेण ज्ञानो­त्प­त्ति­हे­तु­रिति पक्षमङ्गीकर्तुं शङ्कते —
तत्किमिति ।
आरात् दूरे ।
इमं पक्षमुपपादयति —
तथा हीति । प्रधानेन प्रत्य­या­र्थे­ने­च्छ­याऽऽ­ख्या­तो­पा­त्त­भा­व­नायाः कार्यस्य संप्र­त्य­या­त्स­म­न्व­या­दिति ।
अनेन कर्मणा इदं ममाङ्गमन्तःकरणं संस्क्रियते पुण्येन चोपधीयत उपचीयत इति यो विदित्वा चरति कर्म, स आत्मशुद्ध्यर्थं यजन्नात्मयाजी, स च देवयाजिनः काम्यकर्तुः श्रेयानिति शात­प­थ­श्रु­त्यर्थः । स यदेव यजेतेत्यत्र प्रकृतं यज्ञादि ।
श्रुत्यन्तरमाह —
नित्येति ।
नित्यानां संस्कारद्वारा ज्ञानो­त्पा­द­क­तोक्ता, इदानीं यदुक्तं समुच्चयवादिना सर्वेषां कर्मणां ज्ञानकार्ये मोक्षे समुच्चय इति तत्राह —
क्लृप्तेनैवेति ।
नित्यानां फलं पापक्षयं ज्ञान­मा­का­ङ्क्षते, न स्वर्गादि । तत्र यथा प्रकृतौ क्लृप्तो­प­का­रा­णाम् अङ्गानामतिदेशेन न प्राकृ­तो­प­का­रा­ति­रि­क्तो­प­का­र­क­ल्प­न­मेवं ज्ञाने विनि­यु­क्त­य­ज्ञा­दीनां क्लृप्त­नि­त्य­फ­ल­पा­प­क्ष­या­ति­रे­केण न नित्य­का­म्य­क­र्म­सा­धा­र­ण­मो­क्षो­प­यो­ग्यु­प­कारः कल्प्यः । पापक्षयस्य च ज्ञानो­त्प­त्ति­द्वा­रत्वं ततस्तु तमि­त्या­दि­शा­स्त्र­सि­द्धम् । न च वाच्यं — नित्येभ्यः पापक्षयस्य तस्माच्च ज्ञानो­त्प­त्ते­र­न्यतः सिद्धौ किं यज्ञेनेत्यादिना — इति; नित्यानां ज्ञानो­त्प­त्ति­प्र­ति­ब­न्ध­क­दु­रि­त­नि­ब­र्ह­क­त्वस्य विशेषतः शास्त्रा­न्त­रा­द­सिद्धेः । अस्मिंश्च विनियोगे सति ज्ञानोद्देशेन नित्या­न्य­नु­ति­ष्ठ­तोऽ­वश्यं ज्ञानं भवति, इतरथा शुद्धि­मा­त्र­म­नि­यता च ज्ञानो­त्प­त्ति­रिति विनियोगोपयोगः । ‘ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मण’ इत्या­दि­स्मृ­ते­रियं श्रुतिर्मूलम् । श्रुति­स्त्वे­ता­दृशी तुल्यत्वे नैतामनुवादयति । न संयोगपृथक्त्वेन साक्षादङ्गभाव इत्यनेन साक्षादङ्गभावो निषिध्यते, न संयो­ग­पृ­थ­क्त्वम्; सर्वा­पे­क्षा­धि­क­रणे (ब्र.अ.३.पा.४.सू.२६.) संयो­ग­भे­द­स्या­श्र­यि­ष्य­मा­ण­त्वात् । तस्मादयमर्थः — संयो­ग­पृ­थ­क्त्व­म­स्ती­त्ये­ता­वता न साक्षा­द­ङ्ग­भा­व­सि­द्धि­रा­रा­द­ङ्ग­भा­वेऽपि तदुपपत्तेरिति । नित्यानां दुरितक्षयफलत्वे नित्य­का­म्य­वै­ष­म्या­यो­ग­मा­शङ्क्य — नित्ये­हि­ते­ने­यु­क्तम् । चित्तसत्त्वं चित्तगतः सत्त्वगुणः ।
प्रत्य­क्षो­प­प­त्तीति ।
संसा­र­स्या­सा­रत्वं दृष्टिविषये प्रत्य­क्ष­ग्रा­ह्य­म­दृष्टे तूपपत्त्या । प्रत्य­क्षो­प­प­त्त्योश्च प्रवृत्तिद्वारं चित्तगतसत्त्वं, तस्य पाप­क­पा­ट­नि­वृ­त्त्य­पा­व­रणे उद्धाटने सतीत्यर्थः ।
धर्म­ब्र­ह्मा­व­बो­ध­यो­र्हे­तु­म­द्भा­वा­भा­वेऽपि क्त्वाश्रुत्या पौर्वा­प­र्य­मा­श­ङ्कते —
स्यादेतदिति ।
अग्नि­हो­त्र­य­वा­गू­पा­क­व­दिति ।
पञ्चमे स्थितम् – ‘अर्थाच्च’ (जै.अ.५.पा.१. सू.२) अग्निहोत्रं जुहोति यवागूं पचतीत्यत्र किं होम­पा­क­यो­र्य­था­पाठं क्रमः, उत पाक एव प्रथम इति संशये, निया­म­क­श्रु­त्य­भा­वा­द्धो­म­नि­र्वृ­तेश्च द्रव्यान्तरेण संभ­वा­द्य­वा­गू­पा­कस्य चारा­दु­प­का­र­क­त्वा­द्धो­म­प्रा­थम्ये प्राप्ते — राद्धान्तः; पदार्थः प्रयो­ज­ना­पे­क्षोऽ­नु­ष्ठा­न­वि­धि­रेव प्रयोजनोपयोगिनं क्रमविशेषं नियच्छतीति पक्त्वैव होतव्यम् । न च द्रव्या­न्त­रा­न­यनं; श्रुत­द्र­व्य­वै­य­र्थ्य­प्र­स­ङ्गात् । न च दृष्टार्थत्वे सत्या­रा­दु­प­का­र­कत्वं पाकस्येति ।
पाठस्थानेति ।
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् (जै.अ.५.पा.१.सू.४) समिधो यजतीत्यादिषु क्रम­प­ठि­त­प्र­या­जेषु चिन्ता — किं यथा­पा­ठ­म­नु­ष्ठा­न­क्रमः, उत न । तत्र वाक्यानां स्वार्थ­मा­त्रा­व­सि­त­त्वान्न क्रम­प­र­ते­त्य­नि­य­म­प्राप्तौ सिद्धान्तः; यथैतानि वाक्यानि स्वार्थ­वि­धा­यीनि, तथा­नु­ष्ठा­ना­पे­क्षि­त­स्मृ­त्यु­प­यो­गी­न्यपि । तानि च क्रमवन्ति स्वाध्या­य­वि­ध्य­ध्या­पि­तानि क्रमवन्त्येव स्मरणानि जनयन्ति, स्मृतस्य चानुष्ठानमिति स्मर­ण­क्र­मे­णा­नु­ष्ठानं नियम्यते, एवं क्रमपाठोऽपि दृष्टार्थो भविष्यति । तस्मात् पाठक्रमेण नियम इति । सूत्रार्थस्तु एकस्मिन् क्रतौ श्रूयमाणानां प्रयाजादीनां पाठक्रमेण प्रयोगक्रमो नियम्येत; तस्य पाठ­क्र­म­स्या­नु­ष्ठाने लोके गुणत्वावगमात्, तद्यथा स्नाया­द­नु­लि­म्पेत भुञ्जीतेति॥
‘स्थाना­च्चो­त्प­त्ति­सं­यो­गात्’ (जै.अ.५.पा१.सू.१३) । ज्योति­ष्टो­म­वि­कारे साद्य­स्क­सं­ज्ञेऽ­ति­दे­श­प्रा­प्ते­ष्व­ग्नि­षो­मी­या­दि­प­शुषु सह­त्व­गु­ण­वि­धा­नार्थं वचनं श्रूयते ‘सह पशूनालभत’ इति । तद्विधानाच्च प्राकृतः प्रथ­म­म­ग्नी­षो­मी­य­स्ततः सवनीयः ततोऽनुबन्ध्य इत्येवंरूपः क्रमो निवर्तते । सहत्वं चेदं सवनीयस्थाने; तथा सति हीत­र­यो­स्तु­ल्य­वत् स्थान चलनं भवति । सव­नी­य­श्चा­श्वि­न­ग्र­ह­ग्र­ह­णा­न­न्त­र­कालः प्रकृ­ता­वा­म्ना­यते; आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोतीति । तत्रैक काल­त्व­ल­क्ष­ण­स­ह­त्वा­सं­भ­वा­द­व­श्यं­भा­विनि क्रमे कः प्रथमं प्रयु­ज्य­ता­मि­त्य­पे­क्षाया किमनियमेनैषां प्राथम्यमुत सवनीयस्येति संशयः । तत्र निया­म­क­श्रु­त्या­द्य­भा­वा­द­नि­यमे प्राप्ते — राद्धान्तः; स्थाना­त्स­व­नी­य­प्रा­थम्यं नियम्येत, कुतः? उत्प­त्ति­सं­यो­गात्, प्रकृतौ सव­नी­य­स्या­श्वि­न­ग्र­ह­णा­न­न्त­र्य­मु­त्प­त्ता­व­व­गतं विकृतौ च तेनैव कालेन स उपस्थापितः, अग्नीषोमीयस्तु सहत्ववचनेन स्वस्था­ना­च्चा­लि­त­स्ततः प्रथमं सव­नी­य­स्यै­वो­पा­क­र­णा­दि­प्र­योगः । इतरयोस्तु तत्सा­हि­त्य­व­च­नात् तदानन्तर्यं, मिथस्त्वनियमः । अथवा प्रकृ­ति­दृ­ष्ट­पौ­र्वा­प­र्य­स्या­सति बाधके त्यागायोगात् प्रथ­म­म­ग्नी­षो­मी­य­मु­पा­कृ­त्या­नु­बन्ध्य उपाकर्तव्य इति॥ मुख्यक्रमेण चाङ्गानां तदर्थत्वात्’ (जै.अ.५.पा.१.सू.१४) ‘सारस्वतौ भवत एतद्वै दैव्यं मिथुनं यत्सरस्वती सरस्वांश्चेति’ सरस्वतीदैवतं सरस्वद्दैवतं च युगपत्कर्मद्वयं श्रूयते । तत्र च सरस्वतीदैवतस्य याज्या­नु­वा­क्या­यु­गलं प्रथममाम्नायते, तदनन्तरं पुंदैवतस्य । तत्र मन्त्राणां प्रयो­ग­शे­ष­त्वा­द्या­ज्या­नु­वा­क्या­पा­ठ­क्र­मेण प्रधा­न­क्र­मोऽ­व­गतः । अङ्गविशेषे निर्वापादौ संशयः, किमनियतोऽस्य क्रम; उत प्रधानक्रमेण नियत इति । तत्र याज्या­नु­वा­क्या­पा­ठ­क्र­मस्य प्रधा­न­मा­त्र­गो­च­र­त्वा­द­ङ्गा­ना­म­नु­ष्ठा­न­क्रमे श्रुत्या­द्य­भा­वा­न्मु­ख्य­क्र­मस्य च प्रमेयत्वेन प्रमा­ण­त्वा­नु­प­प­त्ते­र­नि­यमे प्राप्ते — सिद्धान्तः; मुख्य­क्र­मे­णा­ङ्गानां क्रमो नियम्येत, तदर्थत्वात्, प्रधा­ना­र्थ­त्वा­द­ङ्गा­नाम् । यद्यपि मुख्यक्रमस्य याज्या­नु­वा­क्या­पा­ठ­क्र­मा­पे­क्षया प्रमेयत्वं; तथापि प्रमितस्यास्य धूमा­दे­रि­वा­न्यत्र प्रमा­ण­त्व­म­वि­रु­द्धम् । प्रधानस्य हि प्रयोगविधिना साङ्गस्यैव प्रयोगश्चोदितः, स चाव­र्ज­नी­या­द्व्य­व­धा­ना­द­धि­क­व्य­व­धि­म­ङ्गानां न सहते । यदि तु प्रधा­ना­न्त­र­स­न्निधा वन्या­ङ्गा­नु­ष्ठानं, तदा तेनैव स्वप्र­धा­ना­द­ङ्गानि विप्रकृष्येरन् ; अतो मुख्य­क्र­मा­द­ङ्ग­क्र­म­नि­यम इति॥
‘प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात्’ (जै.अ.५.पा.१.सू.८) वाजपेये – ‘सप्तदश प्राजा­प­त्या­न्प­शू­ना­ल­भत’ इति सप्तदश यागा अङ्गत्वेन श्रूयन्ते ; तेषां च वैश्वदेवीं कृत्वा सह प्रचरन्तीति प्रयो­ग­सा­हि­त्य­श्र­व­णा­दे­को­प­क्र­मो­प­सं­हार एक एवा­वा­न्त­र­प्र­योगः । तेनै­षा­म­ति­दे­श­प्राप्ताः प्रोक्ष­णा­दि­धर्मा न एकैकत्र समापनीयाः , किं तर्हि , पशुष्वेक एव पदार्थः परि­स­मा­प­नी­य­स्त­तोऽ­न्य­स्त­तोऽन्यः; इतरथा ह्येकस्मिन्पशौ सर्वा­ङ्गा­नु­ष्ठाने प्रधा­न­स्या­ङ्गै­र्वि­प्र­कर्षः स्यात् । तत्र प्रथ­म­मे­क­प­दा­र्था­नु­ष्ठाने विशेषतो वेदा­भ्य­नु­ज्ञा­भा­वा­दि­च्छैव नियामिका । तदेवं स्थिते द्विती­या­दि­प­दा­र्थ­प्र­योगे संशयः; किं प्रथम एव द्विती­या­दा­व­पी­च्छैव कारणमुत प्रथ­म­प्र­वृ­त्त्यैव नियम इति । तत्र पूर्वपक्षः — न तावत् श्रुत्याद्यस्ति नियामकम्; प्रथ­मा­ङ्ग­प्र­वृ­त्तिश्च पौरुषेयी वेदेन नाभ्यनुज्ञायत इति न तद्व­शा­दु­क्त­र­नि­यमः । तेन प्रथ­म­त­रा­ङ्गा­श्रि­त­पु­रु­षे­च्छैव चर­म­त­रा­ङ्ग­नि­या­मिका । प्रयोगसौकर्यं चैवं लभ्यते; इतरथा हि प्रथमं प्रयो­गा­नु­सं­धा­न­व्य­ग्र­म­नस उपरितनं च प्रयोगं तद्वशेन तन्वानस्य मतिक्लेशः स्यात् ।
तस्मादनियम इति प्राप्ते — राद्धान्तः; एकप्रयोगतया तुल्यकालानां प्रोक्ष­णा­द्य­ङ्गानां प्रवृत्त्या क्रमनियमः ; कुतः? तदुपक्रमात् तेन प्रधा­ने­ना­ङ्गा­ना­मु­प­क्र­मात्, तदे­क­प्र­यो­ग­त्वा­दि­त्यर्थः । सप्तदश यागाङ्गानि सह प्रयोज्यानि प्रथ­मा­ङ्गा­नु­ष्ठाने सति द्वितीयादौ षोड­श­भि­र्व्य­व­धा­न­म­भ्य­नु­जा­नन्ति न ततोऽधिकम्; प्रावृ­त्ति­क­क्र­मा­श्र­यणे च सप्तदशसु प्रथ­मा­ङ्गा­नु­ष्ठाने द्वितीयो धर्मः प्रथमादिपशुषु क्रियमाणः षोडशभिरेव व्यवधीयते, क्रमा­न­न्त­रा­श्र­य­णेऽ­धि­कै­रपि व्यवधानं स्यात्; अतः प्रयो­ग­व­च­न­को­प­प­रि­हा­राय प्रवृत्त्या नियम इति । शेषाणां शेषिणां च क्रमापेक्षायां हेतुमाह —
युगपदिति ।
युग­प­द­नु­ष्ठा­न­प्राप्तौ क्रमः स्यात्तदेव कुतस्तत्राह —
एकपौर्णमासीति ।
षण्णां मध्ये त्रयः पूर्णमास्या संब­द्धा­स्त्र­योऽ­मा­वा­स्यया ।
कालैक्येऽपि यदि कर्तृभेदः स्यात्, तदा न क्रमोऽपेक्ष्येत तन्माभूदित्याह —
एकाधिकारीति ।
स्वामि­त्वे­ना­धि­का­रित्वं तस्यै­वा­नु­ष्ठा­तृ­त्वेन कर्तृत्वम् ।
एका­धि­का­रि­क­र्तृ­कत्वे हेतुमाह —
एकप्रयोगवचनेति ।
यजेतेत्याख्याते कर्त्रैक्यस्य विव­क्षि­त­त्वा­त्प्र­यो­ग­व­चने कर्त्रैक्यं सिद्धम् ।
एक­प्र­यो­ग­व­च­न­प­रि­ग्रहे हेतुमाह —
एकफलवदिति ।
एकश्चासौ फलवतः प्रधानस्य उपकारश्च तस्मिन् समुच्चित्य साधनत्वेन उपनिबद्धाः शेषाः; एकेन फलेनावच्छिन्नाः शेषिणोऽत एक­प्र­यो­ग­व­च­नो­प­गृ­हीता इति ।
सौर्यार्यमणेति ।
एकादशे स्थितम् – ‘अङ्ग­व­त्क्र­तू­ना­मा­नु­पू­र्व्यम्’ (जै.अ.५.पा.३.सू.३२) सौर्यं चरुं निर्वपेद् ब्रह्म­व­र्च­स­कामः’ ‘आर्यमणं चरुं निर्व­पे­त्स्व­र्ग­कामः’ ‘प्राजापत्यं चरुं निर्व­पे­च्छ­त­कृ­ष्णा­ल­मा­यु­ष्कामः’ इत्यादिषु क्रमपठितक्रतुषु चिन्ता । किं पाठक्रमेण प्रयोज्या, उतानियमेनेति । तत्र यथाङ्गानां समिदादीनामेकेन युग­प­त्क­र­णा­शक्तेः क्रमा­का­ङ्क्षायां पाठात् क्रमनियमः, एवं क्रतूनामपीति प्राप्ते — राद्धान्तः; ‘न वाऽसं­ब­न्धात्’(जै.अ.५.पा.३ सू.३३) अङ्गे­ष्वे­क­प्र­यो­ग­व­च­न­प­रि­ग्र­हा­दस्ति क्रमाकाङ्क्षा, क्रतुषु नानाफलेषु नैकः प्रयो­ग­व­च­नोऽस्ति, न च सर्वे मिलित्वा प्रयोजयन्ति, तेनै­षा­मे­क­प्र­यो­ग­व­च­न­सं­ब­न्धा­भा­वा­न्नास्ति क्रमाकाङ्क्षा, कितु पुरुषस्य । न च तदाकाङ्क्षितं विधि­प्र­ति­पा­द्य­मिति तदिच्छयैव क्रमः, पाठ­क्र­म­स्त्व­ध्य­य­नार्थ इति । युग­प­त्पा­ठा­सं­भ­वे­ना­व­र्ज­नी­य­तया पाठ­क्र­म­स्या­ग­त­त्वा­त्त­न्नि­य­मस्य चाध्य­य­ना­र्थ­त्वा­दि­त्यर्थः । गोदोहनस्य पुरुषार्थत्वं चतुर्थे चिन्तितम् — यस्मिन्प्रीतिः पुरुषस्य तस्य लिप्साऽ­र्थ­ल­क्ष­णाऽ­वि­भ­क्त­त्वात् (जै.अ.४.पा.१.सू.२) दर्श­पू­र्ण­मा­स­यो­र्गो­दो­ह­नेन पशुकामस्य प्रणयेदिति श्रूयते । तत्र गोदोहने क्रत्व­र्थ­त्व­पु­रु­षा­र्थ­त्व­सं­देहे पशुकामस्येति सम­भि­व्या­हा­रा­द्वा­क्येन क्रतूपकारकत्वेन चोभयार्थमिति प्राप्ते — सिद्धान्तः; नोपकारकत्वं शेषत्वं, किंतु तादर्थ्यम्; तथाच गोदोहनस्य पशुशेषत्वान्न क्रत्वङ्गत्वम्, अङ्गापेक्षा च क्रतोरुपकाराय; अन्यार्थस्यापि क्रतू­प­का­र­क­त्व­म­वि­रु­द्धम्, तेन वाक्या­त्पु­रु­षा­र्थ­मे­वेति । यस्मि­न्नि­र्वृत्ते पुंसः प्रीतिः फलं भवति, तस्य लिप्सा फलप्रयुक्ता, न विधितः; कुतः? तस्य फलसाधनस्य प्रीत्या विभागाभावादिति सूत्रार्थः ।
अस्य चाप्प्र­ण­य­ना­श्रि­त­त्वा­त्त­त्क्रम एव क्रम इति गोदोहनस्य प्रण­य­ना­श्रि­त­त्व­मु­प­पा­द­यति —
नो खल्विति ।
कल्प्यतां तर्हि व्यापा­रा­न्त­रा­वे­श­स्त­त्राह —
अप्प्र­ण­य­ना­श्रि­त­मिति ।
प्रण­य­ना­न्त­र­वि­शि­ष्ट­वि­धि­मा­शङ्क्य प्रतीयत इत्युक्तम् । सन्निहितलाभेन विशि­ष्ट­वि­धि­रि­त्यर्थः ।
सामर्थ्यरूपाद् लिङ्गा­च्चा­प्प्र­ण­य­ना­श्रि­त­त्व­माह —
योग्यत्वाच्चेति ।
यथा वा दर्श­पू­र्ण­मा­सा­भ्या­मिति ।
चतुर्थे चिन्तितम् — उत्प­त्ति­का­ला­ङ्ग­वि­शये कालः स्याद्वाक्यस्य तत्प्रधानत्वात् (जै.अ.४.पा.३.सू.३७) दर्श­पू­र्ण­मा­सा­भ्या­मिष्ट्वा सोमेन यजेतेति श्रूयते । तत्र संदेह, किमिदमङ्गस्य विधायकमुत कालस्येति । तत्र क्त्वाश्रु­ते­र­ङ्गस्य, तच्चाङ्गत्वं यजेतेति विधि­प्र­त्या­सत्तेः सोमस्यैव । ननु द्रव्य­द्वा­रे­णा­न्यत्र विहितसोमयागस्य प्रत्या­भि­ज्ञा­ना­त्कथं तद्विधिः । उच्यते; तत्का­र्य­स्ये­हा­प्र­त्य­भि­ज्ञा­ना­द्वा­ज­पे­ये­नेष्ट्वा बृहस्पतिसवेन यजेतेतिवत् । नह्यत्र ब्रह्मवर्चसं बृहस्पतिसवकार्य प्रतीतम्, अतोऽङ्गं बृहस्पतिसवो वाजपेयस्य । एवंच सोमयागोऽपि दर्श­पू­र्ण­मा­सेष्टिं प्रत्यङ्गत्वेन विधीयत इति प्राप्ते — उच्यते ; अस्मि­न्का­ला­ङ्ग­वि­धि­सं­शये कालो विधेयः स्यात् । कुतः , अस्य वाक्यस्य कालप्रधानत्वात् । यदि कर्मविधिरेव स्यात् , तर्हि रूपेण द्रव्यदेवतेन भाव्यम् ; नचेह देवतारूपमस्ति । अथा­व्य­क्त­त्वे­नो­द्भि­दा­दि­ष्विव सौमिकी देवताऽतिदेशेन प्राप्येत, तर्हि सोमोऽपि प्राप्येतेति सोमेनेति व्यर्थं स्यादतः सोम­या­ग­प्र­त्य­भि­ज्ञा­र्थ­मेव तत् । प्रत्यभिज्ञाने च न विधिसम्भवः ; बृहस्पतिसवस्तु वाजपेयप्रकरणे श्रुतस्तत्र प्रक­र­णा­न्त­र­न्या­या­त्क­र्मा­न्त­र­मेव विधीयते । नामधेयमपि यजिपरतन्त्रतया न प्रत्य­भि­ज्ञा­पकं, किंतु तत्रैव धर्मलक्षणया वर्तते । अतो नाम्नैव प्रसि­द्ध­बृ­ह­स्प­ति­स­व­ध­र्माणां प्रापि­त­त्वा­द्युक्तं कर्मविधानमिति ।
यथा­ग्ने­या­दी­ना­मिति ।
एकादशे चिन्तितम् — प्रयो­ज­ना­भि­सं­ब­न्धात् पृथक्त्वं ततः स्यादै­क­क­र्म्य­मे­क­श­ब्दा­भि­सं­यो­गात् (जै.अ.११,पा.१,सू.१) । आग्नेयादिषु संशयः किं तन्त्रमेषां फलमुत भेदेनेति । तत्र पर­स्प­र­नि­र­पे­क्षै­रु­त्प­त्ति­वि­धि­भि­र्वि­हि­तानां प्रधानानां पृथ­क्फ­ला­का­ङ्क्ष­त्वा­त्त­त्सं­निधौ श्रूयमाणं फलं भेदे­ना­भि­सं­ब­ध्यते; ततः प्रतिप्रधानं फलभेदे इति प्राप्ते राद्धान्तः । यद्यप्येषां पृथक्त्वं पृथ­गु­त्प­त्ति­वि­हि­तता; तथा­प्यै­क­क­र्म्यम्, क्रियत इति व्युत्पत्त्या फलं कर्म, एक­क­र्म्य­मे­क­फ­ल­त्व­मि­त्यर्थः । कुतः , प्रयोजनेन समुच्चितानां सबन्धाद्धेतोः । स एव कुतः, एक­श­ब्दा­भि­सं­यो­गात् । दर्श­पू­र्ण­मा­स­श­ब्देन हि समुदायवाचिना निर्देश्य फले विधीयन्ते आग्नेयादय, यथा ग्रामेणोदपान खेय इति समु­दा­य­श­ब्द­नि­र्दे­शा­त्स­मु­दितैः पुंभिरुदपानः खन्यते, न प्रतिपुरुषं कूपभेदः एवमिहापि । ननु गणा­या­नु­ले­प­न­मि­त्यादौ समु­दा­य­श­ब्द­नि­र्दि­ष्ट­म­प्य­नु­ले­प­नादि प्रति­पु­रु­ष­मा­व­र्तते तद्वत् किं न स्यात् । नेति वदामः; युक्त­म­नु­ले­प­नादेः संस्का­र­त्वा­द्दृ­ष्टा­र्थ­त्वाच्च प्रति­सं­स्का­र्य­मा­वृ­त्ति­रिह फलमुद्दिश्य विधी­य­मा­ना­ना­मु­पा­दी­य­मा­ना­ना­मे­वा­ग्ने­या­दीनां विवक्षितं साहित्यमिति फलतन्त्रतेति ।
संग्रहे जिज्ञासयोः फलादिभेदं निर्दिश्य विभजने ज्ञान­यो­स्त­त्क­थ­न­म­यु­क्त­मि­त्या­श­ङ्क्याह —
जिज्ञासाया इति ।
इच्छाया ज्ञानपराधीनतया ज्ञानफलमेव तत्फलमित्यर्थः ।
फलभेदे वक्तव्ये कारणभेदकथनं भाष्ये अनु­प­यो­गी­त्या­श­ङ्क्याह —
न केवलमिति ।
विधे­या­वि­धे­य­क्रि­या­ज्ञा­न­फ­ल­यो­रु­त्पा­द्यता । व्यङ्ग्यता च भेद इत्यर्थः ।
अनु­ष्ठा­ना­न्त­रे­त्य­त्रा­न्त­र­श­ब्दा­र्थ­माह —
शाब्दज्ञानेति ।
क्वचित् ‘ब्रह्म­वि­दा­प्नोति पर’मित्यादौ ज्ञानफलं साध्यत्वेन प्रतीतमपि न्याय­ब­ला­द्व­च­ना­न्त­र­व­शा­च्चा­भि­व्य­क्ति­प­र­त्वेन व्याख्याय फलभेद उक्तः, जिज्ञा­स्य­भे­दस्तु प्रतीतिसमय एव स्फुट इत्याह —
जिज्ञा­स्य­भे­द­मिति ।
ननु भव­ते­र­क­र्म­क­त्वा­द्भा­वा­र्थत्वे च नंपु­स­क­त्व­प्र­स­ङ्गा­द्भ­व्य­श­ब्देन कथं जिज्ञा­स्य­भे­द­सि­द्धि­रत आह —
भवितेति ।
ननु ‘तयोरेव कृत्य­क्त­ख­लार्थाः’ इति कृत्यानां भावकर्मणोः स्मरणात् ‘अचो यदि’ ति सूत्र­वि­हि­त­य­त्प्र­त्य­या­न्तस्य भव्यशब्दस्य कर्तृ­वा­चि­त्व­म­यु­क्त­मि­त्या­श­ङ्क्याह —
कर्तरि कृत्य इति ।
‘भव्य­गे­ये’त्या­दिना हि सूत्रेण भाव­क­र्म­वा­चि­ता­नि­य­म­म­पोद्य कृत्य­प्र­त्य­यान्ता एव भव्यादिशब्दा विकल्पेन कर्तरि निपात्यन्ते । अतो भवतीति व्युत्पत्त्या भव्यशब्दः कर्तृवाची । पक्षे च ‘भावकर्मणोः’ । अस्य च भव­ते­र­नु­प­स­र्ग­त्वा­त्प्रा­प्ति­वा­चि­त्वा­भा­वाच्च कर्माप्राप्तिः । भावे तु भव्यमनेनेति स्याद् नेह स; पुंल्लि­ङ्ग­नि­र्दे­शात्, उत्पा­द्य­ध­र्मा­पे­क्ष­णाच्च । अतः कर्तरि कृत्य इति ।
ननु भवितुः कथं ज्ञानकाले सत्त्वाभाव इत्याशङ्क्य ज्ञानो­त्त­र­भा­वि­प्र­यो­ज­क­व्या­पा­रा­पे­क्ष­णा­दि­त्याह —
भविता चेति ।
भव­ति­र्ह्य­सि­द्ध­क­र्तृ­क­क्रि­या­वाची न पच्या­दि­व­त्सि­द्ध­क­र्तृ­क­क्रि­य­स्ततो भविता स्वतोऽसिद्धः सन्भा­व­क­व्या­पा­रा­प­क्ष­नि­ष्प­त्ति­र­र्था­त्साध्यो भातीति । अत एवाहुः – ‘करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते॥‘ इति ।
भाष्ये भूत­श­ब्द­स्या­ती­त­वा­चि­त्व­भ्रमं निरस्यति —
भूतमिति ।
नन्वा­ज्ञा­भ्य­र्थ­ना­नु­ज्ञानां लोके चोदनात्वात्कथं वेदे चोदना? अत आह —
आज्ञादीनामिति ।
उत्कृष्टपुंस स्वाभि­ल­षि­तो­पा­य­का­र्य­त्वा­भि­धा­न­माज्ञा, यथा गामानयेति । एतदेव हीन­स्या­भ्य­र्थना, यथा माण­व­क्र­म­ध्या­प­येति । प्रवृत्तस्य प्रयोज्यस्य तद्धि­तो­पा­यो­क्ति­र­नुज्ञा, तथा कुरु यथा हितमिति । नैतासां संभवो वेदे इत्यु­प­दे­श­श्चो­दना । उपदेशो ह्यप्र­वृ­त्त­नि­यो­ज्यस्य प्रयो­ज­नो­पा­य­बो­धको लोकेऽवगतो, यथा गोपालवचसि सुपथकथनपरेऽनेन पथा याहीति । नहीहाज्ञा; प्रयो­क्तु­र्नि­क­र्षात् । नाभ्यर्थना; स्वप्र­यो­ज­ना­भा­वात् । नाप्यनुज्ञा; प्रयो­ज्य­स्या­प्र­वृ­त्त­त्वा­त्त­दिह नियो­ज्य­स्या­प्र­वृ­त्तस्य हितो­पा­य­क­र्त­व्य­तो­क्ति­र­पौ­रु­षे­येऽपि वेदे भवत्येवेति । तस्य धर्मस्य, ज्ञायतेऽनेनेति ज्ञानं, प्रमाणमुपदेशो विधिरिति जैमि­नी­य­सू­त्रा­व­य­वार्थः ।
स्वविषय इति भाष्ये स्वशब्देन चोदनाभिधीयत इति मत्वाह —
स्वसाध्ये इति ।
स्वस्याः प्रतिपाद्ये विषये भाव­ना­या­मि­त्यर्थः ।
धर्म­स्ये­त्युक्त्या भाव­नो­प­स­र्ज­न­भू­ताऽपि शब्दतोऽर्थतः प्राधान्यात् स्वशब्दार्थ इति गृहीत्वाऽऽह —
तद्विषये इति ।
ननु भाव­ना­धा­त्व­र्थ­यो­र्वि­धि­श­ब्देन पुरु­ष­प्र­व­र्त­न­म­शक्यं; प्रमाणस्य वाय्वा­दि­व­त्प्रे­र­क­त्वा­यो­गा­दि­त्या­श­ङ्क्याह —
भावनाया इति ।
साक्षा­द्भा­व­ना­या­स्त­द­व­च्छे­द­क­त्व­द्वा­रेण चार्था­द्धा­त्व­र्थ­स्ये­ष्टो­पा­यतां बोधयति, विधिर्बोधयित्वा च तत्रे­च्छा­मु­पा­ह­रति, इच्छंश्च पुरुषः प्रवर्तते, तदनेन क्रमेण नियुञ्जाना चोदना धर्म­म­व­बो­ध­य­ती­त्यर्थः । ब्रह्मचोदना ब्रह्मवाक्यम् ।
यथा धर्मचोदना प्रवृत्तिहेतुं बोधं जनयति, नैवं ब्रह्म­चो­द­ने­त्याह —
अवबोधस्येति ।
ब्रह्मचोदनया सिद्ध­व­स्तु­वि­ष­यस्य प्रवृ­त्त्य­हे­त्व­र्थ­मा­त्रा­व­बो­धस्य जन्यत्वादिति भाष्यार्थः ।
ननु — मा नाम जनि­ध­र्म­बो­ध­व­द्ब्र­ह्म­बो­धा­द्वि­षये प्रवृत्तिः, स एव तु विधितः किं न स्यादिति शङ्कते —
नन्विति ।
विध्ये­क­वा­क्य­त्वेन वस्तु­बो­ध­ना­द्वे­दा­न्तानां न सिद्ध­बो­ध­मा­त्र­प­र्य­व­सा­न­मि­त्यर्थः॥
भाष्येऽ­व­बो­ध­नि­र्देश एव विध्यविषयत्वे हेतुगर्भ इति व्याचष्टे —
अयमभिसंधिरिति ।
यथा विशिष्टविधौ विशे­ष­ण­वि­धि­र­र्थात्, न विशेषणे तात्पर्यं , वाक्यभेदादेवं विष­य­वि­शि­ष्ट­प्र­ति­प­त्ति­वि­धि­सा­म­र्थ्या­द्ब्र­ह्म­नि­श्चय इत्याशङ्क्याह —
न च बोधस्येति ।
विशि­ष्ट­क्रि­या­वि­धा­ना­द्युक्ता विशेषणस्य प्रमा; वैशिष्ठ्यस्य वास्तवत्वात्, प्रति­प­त्ति­वि­धिस्तु न विशे­ष­ण­स­त्ता­मा­क्षि­पति; वाचं धेनु­मु­पा­सी­ते­त्या­दा­वा­रो­प्य­स्यापि विधे­य­धी­वि­ष­य­त्वा­दि­त्यर्थः । एवं क्रम­प्र­मा­णा­भा­व­सिद्धौ – ‘ब्रह्मधीर्न नियोगेन धर्म­बु­द्धे­र­न­न्तरा ।
तत्क्रमे मान­ही­न­त्वा­त्स्ना­न­भु­ज्या­दि­धी­रिव॥‘ नित्या­नि­त्य­व­स्तु­वि­वेक इति भाष्यमाक्षिपति —
तद्विषयश्चेदिति ।
अनि­त्या­द­ब्र­ह्मणो विवेकः किं निश्चयः, उत ज्ञानमात्रम् ।
आद्यं दूषयति —
कृतमिति ।
द्वितीये विपर्ययः, संशयो वा । नाद्यः; ततः शास्त्रश्रवणे प्रवृ­त्त्य­यो­गात् ।
न द्वितीयः; प्रप­ञ्चा­नि­त्य­त्वा­नि­श्चये तद्वै­रा­ग्या­यो­गा­दि­त्याह —
तथाचेति ।
समाधत्ते —
तस्मादिति ।
निश्चय एव विवेकः । न च शास्त्रा­ना­रम्भः; इदं नित्य­मि­द­म­नि­त्य­मि­त्य­नि­श्च­यात् । आत्मा­ना­त्म­स­मु­दाये नित्य­त्व­म­नि­त्यत्वं च स्तो धर्मा तयोश्च धर्मिभ्यां भवि­त­व्य­मि­त्ये­ता­व­न्मात्रं निश्चितम् । यद्यपि घटा­दे­र­नि­त्य­ता­व­धा­रिता; तथापि सकलानात्मसु नावधारितेति ।
नित्यत्वस्य व्याख्या —
ऋतमिति ।
उक्तविवेकस्य प्रयोजनमाह —
तथाचेति ।
सत्या­स­त्य­यो­रु­पा­दे­या­नु­पा­दे­यत्वे हेतुमाह —
तदेतेष्विति ।
सुख­त्वा­न्नि­त्य­मु­पा­देयं दुःखत्वादनित्यं त्याज्य­मि­त्यर्थः । दृष्टेऽनुभवः, उप­प­त्ति­स्त्व­दृष्टे ।
विगीतं, सदधिष्ठानम्, अस­त्य­त्वा­द्ग­न्ध­र्व­पु­री­व­दि­त्या­दि­व्या­प्त्य­सि­द्धि­मा­श­ङ्क्याह —
न खल्विति ।
न चेयतो विवेकस्य स्वरसत उदये शास्त्रविफलत; सगु­ण­नि­र्गु­ण­वि­वे­का­ख­ण्ड­स­म­न्व­या­दे­र­सि­द्धे­रिति ।
न नित्या­दि­वि­वे­क­मात्रं वैराग्यहेतुः, किंतु तदभ्यास इत्याह —
अथास्येति ।
अस्य पुरुषश्रेष्ठस्य संसारसमूहेऽ नित्य­त्वा­दि­वि­षयं प्रसंख्यानं धीस­न्त­ति­रु­पा­व­र्तते इत्यन्वयः । अवीचिः नरकविशेषः ।
जायस्व म्नियस्वेति ।
पुनः पुनर्जायते म्रियते चेत्यर्थः । क्रियासमभिहारे लोडिति पौनःपुन्ये सर्वलकारापवादेन लोटः स्वादेशस्य च विधानात् । आरभ्य ब्रह्म­लो­क­म­वी­चि­प­र्यन्तं जन­न­म­र­णा­भ्या­मा­व­र्त­मानं क्षणा­द्य­वा­न्त­र­स­र्ग­प­र्यन्तैः कालैः संसा­र­सा­ग­र­स्यो­र्मि­भू­तै­र­नि­श­मु­ह्य­मा­न­मि­त­स्ततो नीय­मा­न­मा­त्मा­न­मन्यं च जीव­स­मू­ह­म­व­लो­क्येति योजना ।
उक्तपरिभावनाया इहा­मु­त्रा­र्थ­भो­ग­वि­रा­ग­हे­तु­ता­माह —
ततोऽस्येति ।
अनित्यसंसारस्य किंचि­द­धि­ष्ठा­न­म­स्तीति इयान् विवेको न तु ब्रह्मेति ।
तदुक्तम् —
ईदृशादिति ।
आभोगो मनस्कारः । आदर इति यावत् । अतदात्मिका ।
वैराग्यस्य शमादिहेतुतामाह —
तत इति ।
ज्वाला जटाकारा अस्य सन्तीति तथोक्तः । श्रद्धैव तत्त्वविषया वित्तमस्य न गवादीति तथाऽभिहितः ।
मोक्षेच्छा भवतु, कुतस्तावता ब्रह्मजिज्ञासा? अत आह —
तस्य चेति ।
नित्याऽ नित्य­वि­वे­का­दि­हे­तु­त्व­स्या­थ­श­ब्दा­द­व­गतेः किम­तः­श­ब्दे­ने­त्या­शङ्क्य नानेन जिज्ञासां प्रति साधनकलापस्य हेतुतोच्यते, किंतु तत्स्व­रू­पाऽ­सि­द्धि­प­रि­हा­र­हे­तु­र­भि­धी­यते इत्याह —
अत्रै­व­मि­त्या­दिना ।
शल्कं शकलम् । शुचि नरशिरःकपालं प्राण्य­ङ्ग­त्वा­च्छ­ङ्क्ष­व­दि­त्यस्य ‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जल­मा­वि­शे’दि­त्या­ग­म­वि­रोधः ।
कृत­क­त्वा­नु­मा­ना­नु­गृ­ही­ता­त्त­द्य­थेति वाक्याद् न्यायहीनम् अपा­मे­त्या­दि­वा­क्य­मा­पे­क्षि­का­मृ­त­त्वा­दि­परं व्याख्ये­य­मि­त्याह —
क्षयितेति ।
यत्त्वभिहितं भास्करेण नित्या­नि­त्य­वि­वे­का­दे­र­प्र­कृ­त­त्वान्न तदा­न­न्त­र्य­म­थ­श­ब्दा­र्थोऽत एव कर्मणां क्षयिष्णुफलत्वं ब्रह्मज्ञानस्य च मोक्ष­हे­तु­त्व­म­तः­श­ब्देन न पराम्रष्टुं युक्तमिति तं भाष्य­भा­व­व्या­ख्य­याऽ­नु­क­म्पते ।
अत्र चेति ।
तर्हि सकला वेदान्ताः परामृश्येरन् नेत्याह —
योग्यत्वादिति ।
अथ­श­ब्दो­क्त­हे­तु­त्व­स­म­र्थ­न­यो­ग्य­त्वा­दि­त्यर्थः । हेतु­म­द्ब्र­ह्म­जि­ज्ञा­साया हेतूनां नित्या­नि­त्य­वि­वे­का­दीनां सूत्रकारस्य बुद्धि­स्थ­त्वा­त्त­दा­न­न्त­र्या­र्थ­त्व­म­थ­श­ब्दस्य युक्तमेव ।
चतु­र्थी­स­मा­सा­भावे हेतुमाह —
तादर्थ्येति ।
पाणिनिः किल ‘चतुर्थी तद­र्था­र्थ­ब­लि­हि­त­सु­ख­र­क्षि­तै’रिति तादर्थ्यसमासं सस्मार । चतुर्थ्यन्तः शब्द­स्त­द­र्थ­व­च­ना­दिभिः शब्दैः समस्यते । चतु­र्थ्य­न्त­श­ब्दा­र्थ­स्त­च्छ­ब्देन परामृश्यते । तस्मै इदं तदर्थम् । यथा कुण्डलाय हिरण्यमित्यत्र कुण्डलं चतु­र्थ्य­न्त­श­ब्दा­र्थ­स्त­च्छेषो हिरण्यं, तत्र कुण्ड­ल­श­ब्द­श्च­तु­र्थ्यन्तः, कुण्डलशेषवाचिना हिरण्यशब्देन समस्यते, कुण्ड­ल­हि­र­ण्य­मिति । तथाऽ­र्थ­श­ब्दा­दि­नापि, ब्राह्मणार्थं पयः इत्यादि द्रष्टव्यम् । कात्यायनेन त्वयं समासः प्रकृ­ति­वि­कृ­त्यो­र्नि­य­मितः – ‘चतुर्थी तदर्थमात्रेणेति चेत्तर्हि सर्वत्र प्रस­ङ्गोऽ­वि­शे­षात्, ‘प्रकृ­ति­वि­कृ­त्यो­रिति चेद­श्व­घा­सा­दी­ना­मु­प­सं­ख्या­नम्’ इति ।
एवं चार्था­त्प्र­स्तुते तन्नि­षे­ध­सि­द्धि­रि­त्याह —
प्रकृतीति ।
इत्येवमादौ ब्रह्म­जि­ज्ञा­से­त्ये­व­मा­दा­वि­त्यर्थः ।
नन्वश्वार्थो घासोऽ श्वघास इत्या­दा­व­प्र­कृ­ति­वि­का­रेऽपि तादर्थ्यसमासो दृष्ट इत्याशङ्क्य कात्यायनेनैव समा­सा­न्त­र­मु­प­सं­ख्या­त­मि­त्याह —
अश्वघासादय इति ।
ननु षष्ठी­स­मा­सा­भ्यु­प­गमे ब्रह्मणो जिज्ञा­साऽ­व्या­व­र्त­क­त्वेन गुण­त्वा­त्प्र­धा­न­प­रि­ग्रह इति भाष्य­स्थ­प्रा­धा­न्य­भ­ङ्ग­स्त­त्राह —
षष्ठीसमासेऽपीति ।
ब्रह्मोज्झं वेदत्यागः । प्रतिपत्तौ विशे­ष­ण­त्वे­ना­नु­ब­ध्यत इत्यनुबन्धः । स्वरूपेण निरूपितायां जिज्ञासायां पश्चा­त्सं­ब­न्धि­न्य­पेक्षा, ब्रह्म च ज्ञानद्वारा जिज्ञा­सा­रू­प­नि­रू­प­क­मिति प्रथ­मो­दि­ता­का­ङ्क्षा­व­शेन ब्रह्म जिज्ञासायाः कर्मत्वेन संबध्यते, ननु संब­न्धि­मा­त्र­त­ये­त्यर्थः ।
जिज्ञा­सा­ज्ञा­न­यो­र्वि­ष­या­धी­न­नि­रू­पणं वैध­र्म्य­दृ­ष्टा­न्तेन प्रपञ्चयति —
न हीति ।
ननु — प्रमा­ण­यु­क्त्यादि जिज्ञासायाः कर्म भविष्यति, ब्रह्म तु संबन्धित्वेन निर्दिश्यताम् ।
न; निर्दि­ष्ट­क­र्म­लाभे कल्प­ना­नु­प­प­त्ते­रि­त्याह —
नन्वित्यादिना ।
संभन्त्स्यते संबद्धं भविष्यति ।
ननु श्रुत­क­र्म­त्या­गा­योगे स्थिते कथं शेषषष्ठी शङ्क्यत इत्यत आह —
निगूढाभिप्राय इति ।
प्रमा­णा­दि­ब­हु­प्र­ति­ज्ञानां श्रौत­त्व­सि­द्धि­रि­त्य­भि­प्रा­यस्य निगूढता ।
ननु ब्रह्मसंबन्धिनी जिज्ञा­से­त्युक्ते कर्मा­नि­र्दे­शा­द­नि­रू­पि­त­रूपा जिज्ञासा स्याद्, नेत्याह —
सामान्येति ।
बहुप्रतिज्ञानां श्रौत­त्व­ला­भा­त्कथं प्रया­स­वै­य­र्थ्येन परिहारस्तत्राह —
निगूढेति ।
एकस्यापि प्रधानस्य श्रौतत्वं वरं, नतु गुणानां बहुनामपीति ।
वाच्यस्येति ।
शब्दोपात्तत्वेन साक्षात्संनिधिः । प्रथ­मा­पे­क्षि­त­स्ये­त्या­काङ्क्षा । प्रथ­म­सं­ब­न्धा­र्ह­स्येति योग्यता । एतैर्युक्तस्य कर्मत्वस्य संबन्धः प्रथमः सन्नपि जघन्यः । एतैः रहितस्य संबन्धिमात्रस्य संबन्धो जघन्यः सन् प्रथम इति कल्पनं व्याहतमित्यर्थः । ‘कर्तृकर्मणोः कृती’ति कृद्योगे कर्मणि षष्ठी­स्म­र­णा­द्वाच्यं कर्मत्वम् । जिज्ञासापदस्य चाका­र­प्र­त्य­या­न्त­त्वात् कृद्योगः । यस्तु ‘कर्मणिचे’ति कर्मणि षष्ठ्या समासप्रतिषेधः, स च ‘उभयप्राप्तौ कर्मणी’ति या कर्तृ­क­र्म­णो­रु­भ­यो­रपि साम­र्थ्या­दु­पा­दा­न­प्राप्तौ कर्मण्येवेति नियमिता षष्ठी तद्विषयः । यथाऽऽश्चर्यो गवां दोहोऽ­गो­पा­ल­के­नेति । एवं ह्यत्राश्चर्यं व्यज्येत यदि दुर्दोहानां गवां दोहे कर्मत्वमकुशलस्य चोगोपालस्य कर्तृत्वम्, प्रस्तुते तु ब्रह्म­क­र्म­त्व­मे­वो­पा­दी­यते, न कर्तृगतोऽ तिशय इत्यु­भ­य­प्रा­प्त्य­भा­वात् ‘कर्तृकर्मणोः कृती’त्येव षष्ठी; तेन ब्रह्म­जि­ज्ञा­से­त्यु­प­पन्नः समासः इति ।
भाष्ये प्रत्य­क्ष­नि­र्देशो न युक्त शाब्द­त्वा­त्क­र्म­त्वस्य, तत्राह —
प्रत्यक्षेति ।
अविरुद्धमपि परोक्षत्वं व्याख्ये­य­प्र­त्य­क्ष­त्वस्य प्रति­यो­गि­त्वा­द्व्या­ख्या­तम् । परमते कर्मत्वस्य लाक्षणिकत्वं चर­मा­न्व­य­प्र­स­ञ्ज­ना­र्थम् ।
नन्वयुक्तमपि ज्ञान­स्ये­च्छा­वि­ष­यत्वं सौत्र­जि­ज्ञा­सा­प­दा­त्प्र­मी­य­ताम्? न; न्यायसूत्रे उप­दे­श­मा­त्रे­णाऽ­वि­श्वा­सा­दि­त्याह —
नेति ।
साक्षा­त्का­र­सा­धनं ज्ञानमिच्छाविषय इति प्रतिज्ञाय फल­वि­ष­य­त्वा­दि­च्छाया इति हेतुरयुक्तो व्यधि­क­र­ण­त्वा­त्त­त्राह —
तदुपायमिति ।
फलेच्छाया एवोपायपर्यन्तं प्रसारादविरोध इत्यर्थः ।
भवतु ब्रह्म­वि­ष­या­व­ग­ति­रिति ।
स्वरूपावगतिः स्ववि­ष­य­व्य­व­हा­र­हे­तु­त्वेन तद्विषयोक्ता ।
ब्रह्मणोऽपि धर्म­व­द­सु­ख­त्वान्न तदवगतिः पुमर्थ इत्याह —
एवमपीति ।
श्रुति­स्वा­नु­भ­वा­व­ग­त­नि­र्दुः­खा­न­न्द­म­भि­प्रेत्य परिहारः —
ब्रह्मा­व­ग­ति­र्हीति ।
प्रतिभान् प्रतिभासमानः । अर्थ्यमानत्वात् प्रार्थ्य­मा­न­त्वात् ।
अवि­द्या­नि­वृ­त्तिर्न स्वरूपावगत्या; नित्य­नि­वृ­त्त्या­पा­तात्, अपि तु वृत्तित इत्याह —
अविद्येति ।
विगलित(निखिल?) दुःखेति वृत्ति­व्य­क्त­स्व­रू­पा­भि­प्रा­यम् ।प­दा­र्था­न्व्या­ख्याय सूत्र­ता­त्प­र्य­माह —
तस्मादित्यादिना ।
सूत्र­स्या­नु­वा­द­त्व­व्या­वृ­त्तये तव्य­प्र­त्य­य­म­ध्या­ह­रति —
एषितव्यमिति ।
किमिति ज्ञानमेषितव्यं वेदान्तेभ्य एव तत्सिद्धेरिति ।
न; संदेहादिना प्रति­ब­न्धा­दि­त्याह —
तच्चेति ।
नन्विच्छाया विष­य­सौ­न्द­र्य­ल­भ्य­त्वात्किं तत्क­र्त­व्य­तो­प­दे­शेन? तत्राह —
इच्छामुखेनेति ।
ज्ञातुमिच्छा हि संदिग्धे विषये निर्णयाय भवति, निर्णयश्च विचारसाध्य इति तत्क­र्त­व्य­ताऽ­र्था­द्ग­म्यत इत्यर्थः । आर्थिके चास्मिन्नर्थे कर्त­व्य­प­दा­ध्या­हारः । श्रौतस्तु मुमुक्षानन्तरं ब्रह्म­ज्ञा­नेच्छा भवितुं युक्ता इत्येष एव । तथा चाधि­का­रा­र्थ­त्व­म­थ­श­ब्दस्य निषेद्धुं ज्ञानेच्छा जिज्ञा­सा­श­ब्दार्थ इत्युपपादनेन न विरोध इति ।
ननु धर्म­ग्र­ह­णा­द्वि­धी­ना­म­र्थ­वि­वक्षा तत्र कृता, न वेदान्तानाम्, नेत्याह —
धर्मग्रहणस्येति ।
उपलक्षणतया वेदा­न्ता­ना­म­र्थ­वि­व­क्षा­प्र­ति­ज्ञा­व­द्वि­चा­र­प्र­ति­ज्ञापि तत्रै­वा­स्त्वि­त्या­श­ङ्क्यो­परि प्रति­पा­द­ना­द­र्श­ना­न्ने­त्याह —
यद्यपीति ।
ब्रह्म­वि­चा­र­प्र­ति­ज्ञा­या­स्तत्र संभवमङ्गीकृत्य परिहार उक्तः, इदानीं संभव एव नास्तीत्याह —
नापीति ।
अविरक्तस्य ब्रह्मविचारे प्रवृ­त्त्य­यो­गा­दि­त्यर्थः । ब्रह्म­मी­मां­सा­र­म्भा­येति प्राचा तन्त्रे­णा­ग­त­तोक्ता ।
नित्या­दि­वि­वे­का­न­न्त­र्या­येति ।
तत्र­त्य­प्र­थ­म­सू­त्रे­णे­ह­त्य­प्र­थ­म­सू­त्रस्य । युष्म­द­स्म­दि­त्या­दिना ह्यहंप्रत्यये जीवस्य प्रसि­द्धे­र­सं­सा­रि­ब्र­ह्मा­त्म­त्वस्य चाभावाद् विषयमाचिक्षिपे ।
अत्र तूपेत्य ब्रह्मात्मभावं वेदा­न्ते­भ्य­स्त­त्सि­ध्य­सि­द्धि­भ्या­मा­क्षेप इति विभागमाह —
वेदान्तेभ्य इति ।
संदि­ग्ध­प्र­सि­द्धस्य जिज्ञा­स्य­त्व­सं­भ­वा­दा­क्षे­पा­यो­ग­मा­श­ङ्क्याह —
निश्च­य­ज्ञा­ने­नेति ।
अनिश्चायकत्वं तु वेदा­न्ता­ना­म­युक्तं निर्दो­ष­त्वा­दि­त्याह —
अपौरुषेयतेति ।
निष्पादिता प्रमितिलक्षणा क्रिया यस्य कर्मणो विषयस्य स इह तथोक्तः ।
यद्यपि निर्दोषो वेदः ; तथापि सामान्यतो दृष्ट­नि­ब­न्ध­न­व­च­न­व्य­क्त्या­भा­स­प्र­ति­बद्धः संदिग्धार्थः स्यादतो विचा­रा­त्प्रा­गा­पा­त­प्र­सिद्धिं दर्श­य­न्न­प्र­सि­द्ध­त्व­प­क्षोक्तं दोषमुद्धरति —
प्रागपि ब्रह्ममीमांसाया इति ।
भाष्ये ब्रह्मा­स्ति­त्व­प्र­तिज्ञा भाति, कथं प्रती­ति­प­र­त्व­व्या­ख्ये­त्या­शङ्क्य प्रत्याय्येन प्रत्य­य­ल­क्ष­णा­माह —
अत्रचेति ।
मुख्या­र्थ­प­रि­ग्रहे बाधमाह —
तदस्तित्वस्येति ।
विमर्शे संशये । देहाद्यभेदेनेति भेदाभेदमतेन शङ्का ।
तत्त्व­म­सि­वा­क्य­नि­र्दि­ष्ट­त­त्प­द­ल­क्ष्य­प्र­सि­द्धि­मुक्त्वा वाच्य­प्र­सि­द्धि­माह —
अवि­द्यो­पा­धि­क­मिति ।
अवि­द्या­वि­ष­यी­कृ­त­मि­त्यर्थः ।
शक्तीति ।
शक्ति­ज्ञा­नाभ्यां कारणं लक्ष्यते । यो हि जानाति शक्नोति च स करोति, नेतर इत्य­नु­वि­धा­ना­दि­त्यर्थः ।
सदे­वे­त्या­दि­वा­क्या­त्प्र­सि­द्धि­मुक्त्वा पदादपि सोच्यत इति वक्तुं पृच्छति —
कुतः पुनरिति ।
वाक्या­त्प्र­सि­द्ध­स्यैव पुनरपि कुतो हेत्व­न्त­रा­त्प्र­सि­द्धि­रि­त्यर्थः ।
ननु बृह­ति­धा­तु­र­ति­शा­यने वर्त­ता­मा­पे­क्षिकं तु तद्, बृहत् कुम्भ इतिवद् , नेत्याह —
अनवच्छिन्नमिति ।
प्रक­र­णा­दि­प्र­स­ङ्को­च­का­भा­वा­दि­त्यर्थः । पदान्तरं साक्षा­न्नि­त्य­त्वा­दि­बो­धकं नित्यादिपदम् । उक्त­वि­शे­ष­णा­ना­म­न्य­त­मे­नापि रहितस्य न मह­त्त्व­सि­द्धि­रतो ब्रह्म­प­दा­दु­क्त­व­स्तु­सि­द्धि­रिति । तत्पदार्थस्य शुद्धत्वादेरिति सामानाधिकरणे षष्ठ्यौ । जीवस्य हि विशु­द्ध­त्वा­द्येव तत्पदेन समर्प्यते, न पदार्थान्तरमिति । प्रसिद्धिर्हि ज्ञानं ज्ञाता­र­मा­का­ङ्क्षति, तेन व्यवहितमपि सर्व­स्ये­त्ये­त­द­स्ति­त्व­प्र­सि­द्धि­रि­त्य­नेन संबन्धनीयम् ।
तथा सति प्रति­ज्ञा­वि­शे­षणं सत्कै­मु­ति­क­न्यायं द्योतयिष्यति, नतु सर्व­स्या­त्म­त्वा­दिति हेतुविशेषणं, वैय­र्थ्या­दि­त्य­भि­प्रे­त्याह —
सर्वस्येति ।
पांसुमन्तौ पादौ यस्य स तथा । हलं वहतीति हालिकः ।
सर्वस्य ब्रह्मा­स्ति­त्व­प्र­सिद्धिः, सर्वो हि तत्प्रत्येतीति साध्य­हे­त्वो­र­वि­शे­ष­मा­श­ङ्क्याह —
प्रतीतिमेवेति ।
अहं न नास्मीति प्रत्येतीति योजनायाम् अस्तीत्वं न सिध्द्येत्; अस­त्त्व­नि­षे­धेऽ­प्य­नि­र्वा­च्य­त्व­स्या­नि­वा­र­णात्, अतोऽहमस्मीति न प्रत्येतीति योजनैव साध्वीति ।
अहमिति प्रती­ते­र­हं­का­र­मा­त्र­वि­ष­य­त्वा­न्ना­त्म­प्र­सिद्धिः सिध्येदिति शङ्कते —
नन्वहमिति ।
ऋजुयोजनायां ह्यव्या­प्या­द­व्या­प­क­प्र­स­ञ्जनं स्यात्, नहि प्रसिद्ध्यभावो नास्ति­त्व­प्र­तीत्या व्याप्तः; सुषुप्तौ विश्वा­भा­व­प्र­ती­ति­प्र­स­ङ्गात्, तन्मा भूदिति व्यवहितेन संबन्धयति —
अहमस्मीति न प्रतीयादिति ।
शङ्कि­तु­र­नु­श­य­म­पा­क­रोति —
अहंकारास्पदमिति ।
अहमिति प्रतिभासस्य चिद­चि­त्सं­व­लि­त­वि­ष­य­त्व­म­ध्या­स­भाष्ये समर्थितम् । तथाचाहमिति प्रती­ति­रा­त्म­वि­ष­यापि, अत आत्म­प्र­सि­द्ध्य­भा­वेऽ­ह­मिति प्रतीतिर्न स्यादित्यर्थः ।
तदस्त्वमेति ।
‘तत्त्वमसि’ वाक्ये तत्पदस्य प्रकृ­त­स­च्छ­ब्द­वा­च्य­ब्र­ह्म­प­रा­म­र्शि­न­स्त्वं­प­देन समा­ना­धि­क­र­ण्या­दि­त्यर्थः ।
ननु ब्रह्मा­त्मै­क­त्वस्य वाक्या­र्थ­स्या­प्र­सि­द्ध­त्वे­ना­प्र­ति­पा­द्य­त्वा­क्षेपे पदा­र्थ­प्र­सि­द्धि­प्र­द­र्श­न­म­नु­प­यो­गी­त्या­श­ङ्क्याह —
तस्मादिति ।
पदा­र्थ­यो­र­व­धृ­त­यो­स्ताभ्यां गृही­त­सं­ब­न्ध­प­द­द्व­य­स­म­भि­व्या­हा­रा­द­पूर्वो वाक्यार्थः सुज्ञान इत्यर्थः ।
एवं तावदापाततो वाक्यात्पदतश्च प्रसि­द्धे­र्ब्र­ह्मणः शास्त्रेण शक्य­प्र­ति­पा­द­न­त्व­सं­बन्धं साम­र्थ्या­सा­धा­र­ण­रू­प­वि­ष­यत्वं समा­धा­तु­मा­क्षि­प­ती­त्याह —
आक्षेप्तेति ।
ब्रह्मण आत्मत्वेन लोक­प्र­सि­द्ध्य­भा­वा­द्वा­क्यी­य­प्र­सि­द्धि­र­नू­द्यत इत्याह —
तत्त्वमसीति ।
ननु तृतीयाया इत्थं­भा­वा­र्थत्वं विहायात्मत्वेन हेतुना ब्रह्म यदि लोके प्रसिद्धमात्मा च ब्रह्मेति त्वयै­वो­क्त­त्वा­दिति व्याख्यायतां, तदा हि लोकशब्दो रूढार्थः स्यात्, उच्यते; तत्प­दा­र्थ­मा­त्रस्य प्रसि­द्धि­स्त­दा­नू­दिता स्यात्, तस्या­श्चा­जि­ज्ञा­स्यत्वं प्रति न हेतुत्वम्; ज्ञातेऽपि पदार्थे वाक्यार्थस्य जिज्ञा­सो­प­प­त्ते­रिति ।
स्यादेतद्यदि ब्रह्मात्मत्वेन प्रसिद्धमिति भाष्य­म­नु­प­प­न्नम्; नहि महावाक्ये ब्रह्मा­नु­वा­दे­ना­त्मत्वं विधीयते, किंतु लोक­सि­द्ध­जी­वा­नु­वा­दे­ना­ग­म­मा­त्र­सि­द्ध­ब्र­ह्म­त्वम्, अत आह —
अभेदविवक्षयेति ।
अन्यत्र हि वाक्या­र्थ­बो­धो­त्त­र­कालं पदा­र्था­ना­मु­द्दे­श्यो­पा­दे­य­भावो न व्यावर्तते, अत्र त्वख­ण्ड­वा­क्या­र्थ­सा­क्षा­त्कारे स बाध्यत इति द्योत­यि­तु­मा­त्म­पदे प्रयोज्ये ब्रह्मपदं ब्रह्मपदे चात्मपदं प्रयु­क्त­मि­त्यर्थः ।
ननु विरुद्धा प्रति­प­त्ति­र्वि­प्र­ति­पत्तिः, सा च वस्त्व­भा­व­सा­धि­केति कथं विषयलाभः, तत्राह —
तदनेनेति ।
न विरु­द्ध­प्र­ति­प­त्ति­मा­त्रे­णा­भा­वा­व­गमः, किंतु प्रमाणमूलतया; अतः साध­क­बा­ध­क­प्र­मा­ण­भावे विप्रतिपत्तिः संश­य­बी­ज­मि­त्यर्थः ।
ननु साधा­र­णा­का­र­दृष्टौ संशयो, नत्विह क्षणि­क­वि­ज्ञा­न­स्थि­र­भो­क्त्रा­दा­वस्ति साधारणो धर्मी इत्याशङ्क्य विप्र­ति­प­त्त्य­न्य­था­नु­प­पत्त्या तं साधयति —
विवादाधिकरणमिति ।
देह आत्मा इत्या­दि­वि­वा­दा­श्रयो धर्मी परा­ग्व्या­वृ­त्तोऽ­ह­मा­स्पदं सर्व­त­न्त्रे­ष्व­भ्यु­प­गत इति मन्तव्यम् ।
तत्र हेतुमाह —
अन्यथेति ।
आश्रयशब्दो विषयवाची । भिन्नविषया विप्रतिपत्तयो न स्युरतो विव­द­मा­ना­ना­म­प्ये­क­मा­ल­म्ब­न­म­वि­गी­तम् ।
अत्रोपपत्तिमाह —
विरुद्धा हीति ।
विप्र­ति­प­त्ति­श­ब्दा­व­य­व­प्र­ति­प­त्ति­श­ब्दा­र्थस्य ज्ञानस्य सालम्बनत्वात् यत्किं­चि­दा­ल­म्बनं सिद्धम्; वीत्यु­प­स­र्ग­प्र­ती­त­वि­रो­ध­व­शाच्च तदेकमिति सिद्ध्यति ।
एकार्थोपनिपाते हि धियां विरोधः; अत्र वैध­र्म्यो­दा­ह­र­ण­माह —
न हीति ।
साधा­र­ण­ध­र्मि­स्फु­र­णेऽपि न शास्त्रार्थस्य बुद्धि समारोहः, नहि साधारणः शास्त्रा­र्थ­स्त­त्राह —
तस्मादिति ।
यस्मा­द्वि­प्र­ति­प­त्ति­रे­का­ल­म्बना, यत्त­श्चै­क­स्मि­न्ना­ल­म्बने पूर्व­धी­वि­ष­य­नि­षे­धेन विरु­द्ध­धी­रु­देति; तस्मा­त्प्र­ति­यो­गि­तया विप्र­ति­प­त्त्ये­क­स्क­न्ध­त्वेन तत्त्वं­प­दा­र्थ­त­दे­क­त्व­प्र­ती­ति­र्लो­क­शा­स्त्राभ्यां सर्वै­रे­ष्ट­व्येति ।
तर्हि क्व विगानमत आह —
तदाभासत्वेति ।
लौकायतिकादीनां सा प्रतीतिराभासः । आस्तिकानां तत्प­दा­र्थ­प्र­ती­ते­स्त­त्त्व­म­र्थै­क­त्व­प्र­ती­तेश्च गौणतायां तथा त्वंपदार्थधियोऽ सङ्ग­सा­क्ष्या­ल­म्ब­नत्वे च विगानमिति ।
त्वंप­दा­र्थ­वि­प्र­ति­प­त्ति­प्र­द­र्श­नस्य वाक्या­र्थ­वि­प्र­ति­पत्तौ पर्यवसानमाह —
अत्रेति ।
देहा­दि­क्ष­णि­क­वि­ज्ञा­न­प­र्य­न्ता­नाम् चैतन्यं चेत­न­त्व­मा­त्म­त्व­मि­त्यर्थः । भोक्तैवात्मेति — पक्षे भोक्तृत्वं किं विक्रिया, उत चिदात्मत्वम् । नाद्यः ।
कर्तृ­त्व­प­क्षा­द­वि­शे­षा­दि­त्याह —
कर्तृत्वेऽपीति ।
द्वितीयं प्रत्याह —
अभो­क्तृ­त्वेऽ­पीति ।
सक्रि­य­त्व­रू­प­भो­क्तृ­त्वा­भा­वेऽ­पी­त्यर्थः । संख्या हि जन­न­म­र­णा­दि­नि­य­मा­न्नि­र्वि­शेषा अपि चेतनाः प्रतिदेहं भिन्ना इति मेनिरे । भिन्नानां च कुम्भ­व­द्वि­ना­श­जा­ड्या­प­त्ति­रतो न नित्य­त­त्प­दा­र्थै­क­तेति ।
अथवा मैवानुमायि भेदादनित्यता, आत्मभेदाभ्युपगम एव ब्रह्मा­त्मै­क­त्व­वि­रो­धी­त्याह —
अद्वैतेति ।
लौका­य­ति­का­दि­नि­री­श्व­र­म­ता­नु­भा­ष­णे­नैव तत्पदार्थं ईश्वरेऽपि विप्रतिपत्तिः सूचिता, अत­स्ता­दृ­श­ब्र­ह्मा­त्मै­क्य­वा­क्या­र्थेऽपि विप्र­ति­प­त्ति­र­र्था­द्यु­क्ते­त्याह —
त्वंपदार्थेति ।
वेद­प्रा­मा­ण्य­वा­दिनो मीमांसकादयः । शरीरादिभ्य इति=श­री­रा­दि­शू­न्य­प­र्य­न्तेभ्य इति । जीवात्मभ्य इति= कर्तृभोक्तृभ्यः ।
केवलभोक्तृभ्य इति ।
स्वाभा­वि­क­म­स्येति = नैया­यि­का­दि­म­ते­ने­त्यर्थः ।
युक्तिवाक्येति भाष्य­स्थ­त­च्छ­ब्दस्य प्रत्येकं युक्ति­वा­क्याभ्यां संबन्धं करोति —
युक्तीति ।
आत्मा स भोक्तुरिति पक्षे मूलं युक्तिवाक्ये, अन्यत्र तदाभासाविति ।
अनर्थं चेयादिति भाष्यार्थमाह —
अपिचेति ।
भाष्ये तर्कस्य पृथ­गु­क्ते­र्वे­दा­न्त­मी­मांसा किं न तर्कः, नेत्याह —
वेदा­न्त­मी­मां­सेति ।
अर्था­प­त्ति­र­नु­मानं चात्र तर्कोभिमतः, तद्रूपा वेदान्तमीमांसा, तस्या अविरोधिनः श्रुति­लि­ङ्गा­द­य­स्ता­र्तीयाः पाञ्चमिकाश्च श्रुत्यर्थादयो वेद­प्रा­मा­ण्य­प­रि­शो­धकाः कर्ममीमांसायां विचारिताः । वेदस्य प्रत्यक्षादीनां तदर्थादीनां च लक्षणादीनि न्याय­शा­स्त्रै­र्वि­चा­रि­तानि । स्मृत्यादिभिश्च वेदा­नु­मा­नेऽ­नु­मा­न­चि­न्तो­प­योगः । तेन विहि­त­जा­ति­व्य­क्ति­प­दा­र्थ­वि­वेके वेदस्वरूपग्रहणे च न्याय­शा­स्त्र­स्यो­प­योगः । सर्वे चैते प्रमा­णा­नु­ग्रा­ह­क­त्वेन तर्का उच्यन्त इति॥ इति जिज्ञा­सा­धि­क­र­णम्॥१॥

जन्माद्यस्य यतः ॥२॥ अनन्तराधिकरणेन प्रारि­प्सि­त­स­मस्त विचारस्य संबन्धमाह —
तदेवमिति ।
सकलशास्त्रं प्रतीकेन संगृहीतम् । विष­या­दि­स­द्भा­वात् समर्थिते विचारारम्मे तमु­प­जी­व्यो­त्त­र­वि­चा­र­प्र­वृ­त्ते­र्हे­तु­हे­तु­म­ल्ल­क्षणः संबन्ध इत्यर्थः ।
प्रथमसूत्रेण द्विती­य­सू­त्र­स्या­क्षे­प­ल­क्षणां सङ्गतिमाह —
एतस्येति ।
मुमुक्षुणा ब्रह्मज्ञानाय वेदा­न्त­वा­क्य­वि­चारः कर्तव्य इति प्रतिज्ञायां ब्रह्म­ख­रू­प­वि­चा­र­व­त्प्र­मा­ण­यु­क्ति­सा­ध­न­फ­ल­वि­चा­रा­णा­म­र्थात् प्रतिभाने कथं प्रथमं ब्रह्मैव विचार्यतेऽत आह—
अत्रेति ।
अत्र यतो वेत्यादिवाक्यं ब्रह्म लक्षयति, उत नेति लक्षणस्य लोक­प्र­सि­द्ध्य­प्र­सि­द्धिभ्यां विशये पूर्वपक्षमाह —
तत्र यद्यावदिति ।
पूर्वा­धि­क­र­णा­क्षे­प­प­रि­हा­र­त्वा­दस्य तत्र­त्य­ब्र­ह्म­ल­क्ष­ण­नि­रू­प­क­त्वाच्च तदीयमेव मुमु­क्ष्व­भि­ल­षि­त­मो­क्ष­लाभः प्रयोजनमिति न पृथग्वक्तव्यम् । यदाहाचार्यः शबरस्वामी आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते॥‘ इति । यत्र पूर्वा­धि­क­र­ण­सि­द्धा­न्ता­क्षे­पेण पूर्वःपक्षः तत्राक्षेपिकी, यत्र तु पूर्वा­धि­क­र­ण­सि­द्धा­न्तेन पूर्वपक्षः तत्रापवादिकी सङ्गतिः । प्राप्तिः तदर्थचिन्ता, कृत्वा प्रवर्तनं कृत्वाचिन्ता, सा चाभ्युपगमवाद इति । सजा­ती­य­वि­जा­ती­य­व्या­वृ­त्ति­प्र­यो­जनो धर्मो लक्षणं नाम ।
तदिह परिदृश्यमानं जगदेव लक्षणं ब्रह्मणः, उत नित्य­शु­द्ध­त्वा­दि­स्व­रू­प­मिति विकल्प्य नाद्य इत्युक्ते द्विती­य­मा­श­ङ्क्याह —
नचेति ।
ननु लोकासिद्धमपि वेदेन ज्ञाप्यतामत आह —
ऐवं चेति ।
न जगद् ब्रह्मलक्षणं, किंतु तत्प्रति कारणत्वं , तच्च जीवा­वि­द्या­वि­ष­यी­कृ­तस्य धर्म इत्यु­प­ल­क्ष­ण­मु­प­पा­द­यति —
माभूदिति ।
तादात्म्येनेति ।
ऐक्येन ।
ततो भेदेन तद्धर्मतयेति ।
तदुत्पत्त्या त्विति ।
तदुत्पन्नत्वेन जगत् स्वकारणं लक्षयति ज्ञापयति, कारणत्वं तु ब्रह्म­ल­क्ष­ण­मि­त्यर्थः । व्रज्याया गतेः । जन्म आदिर्ययोः स्थिति­भ­ङ्ग­योस्तौ जन्मादी इत्यन्यपदार्थो यदि विशेषरूपेण विवक्ष्यते, तर्हि जन्मादी अस्येति निर्देशे गौरवं स्यात्तन्मा भूदिति सामान्यविवक्षया नपुंसकप्रयोगः सूत्रे कृतः ।
तत्र नपुं­स­कै­क­व­च­न­प्र­यो­गार्हं समाहारमाहेत्याह —
लाघवायेति ।
‘श्रुतीरविशदाः काश्चि­द्भा­ष्याणि विषमाणि च । वाच­स्प­त्यु­क्त­भा­वानि पदशो विभजामहे’॥
तद्गुणसंविज्ञान इति ।
तच्छब्देन बहु­व्री­ह्य­र्थो­न्य­प­दार्थ उच्यते । तस्य गुणत्वेन संविज्ञानं यस्मिन्समासे सः तथोक्तः । सर्वस्य विशेषणत्वे समासाऽसंभवात् समासार्थैकदेशो विशेषणमिति लभ्यते ।
अनादौ संसारे कथं जन्मादिस्तत्राह —
जन्मन इति ।
श्रुत्या वा कथमयुक्तं निर्दिष्टमत आह —
वस्त्विति ।
नानादेः संसा­र­स्या­दि­र्ज­न्मो­च्यते, किं तर्हि प्रतिवस्तु ।
घटस्य हि जन्मैवादिरति ।
इदमः सन्नि­हि­त­व­च­न­त्वा­त्प्र­त्य­क्ष­मा­त्र­प­रा­म­र्शि­त्व­मा­शङ्क्य प्रतीतिमात्रं सन्निधिरित्याह —
अस्येतीति ।
सर्वस्य जगतो न जन्म; आका­शा­दे­र­ना­दि­त्वात्, तत्राह —
षष्ठीति ।
वियदधिकरण (ब्र.अ.२.पा.३.सू.१) न्याया­त्त­स्या­प्यस्ति जन्मादिसंबन्ध इत्यर्थः ।
जगतो जन्मादेर्वा ब्रह्मा­सं­ब­न्धान्न लक्ष­ण­त्व­मि­त्या­श­ङ्क्याह —
यत इति ।
व्याख्या­त­मे­त­द­ध­स्तात् । एवं सूत्रपदानि व्याख्याय प्रथमसूत्राद् ब्रह्म­प­दा­नु­ष­ङ्गेण तच्छ­ब्दा­ध्या­हा­रेण च वाक्यार्थमाह — अस्य जगत इत्यादिना भाष्येण ।
तद्ग­तै­र्वि­शे­ष­णै­र्ल­क्ष­णेऽ­ति­व्याप्तिः परिह्रियत इत्याह —
स्यादे­त­दि­त्या­दिना ।
स्वभाव एव नियन्तेति स्वभावपक्षः, यदृच्छापक्षस्तु न किंचि­न्नि­या­म­क­म­स्तीति । व्यासे­ध­ति=प्र­ति­षे­धति ।
उत्पत्तेः प्रगसतः कथं बुद्धावालेखनमत आह —
अत एवेति ।
यदसदिति प्रसिद्धं तद्, बुध्द्या­रू­ढ­रू­पेण सदेव; अन्यथा तुर­ङ्ग­शृ­ङ्ग­व­त्क­र्म­त्व­नि­र्दे­शा­यो­गा­दिति सत्कार्यवादिन आहुः ।
वैश्वा­न­री­ये­ष्ट्या­दि­ष्विति ।
चतुर्थे स्थितम् — फल­सं­यो­ग­स्त्व­चो­दि­तेन स्याद­शे­ष­भू­त­त्वात्(जै.अ.४.पा.३.सू.३८) “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’’ इत्युपक्रम्य ‘‘यस्मिन् जात एताभिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवती’’ति श्रूयते । तत्र किं पूतत्वादि पितुः फलं, उत पुत्रस्येति संदेहे, फलस्य कर्तृ­गा­मि­त्व­नि­य­मा­दि­त­रथा प्रेर­णा­नु­प­पत्तेः पितुरिति प्राप्ते — राद्धान्तः; यस्मिन् जाते एतामिष्टिं निर्वपति स पूत इति जातगामित्वेन फलाम्नानात् फल­भो­क्तृ­त्वे­ना­चो­दिते पितरि फलसंयोगो न स्याद्वचनस्य तं प्रत्य­शे­ष­भू­त­त्वात् ।
यत्त्वफलभागिनो न प्रेरणेति ।
तन्न; पूत­त्वा­दि­गु­ण­व­त्पु­त्र­व­त्त­यैव पितुः प्रीत्यु­त्पत्तेः प्रेर­णा­व­क­ल्प­नात् ।
अतः पुत्रगामि फलमिति ।
अत्रा­ने­क­क­र्तृ­भो­क्तृ­जी­वानां सृज्यत्वेन निर्दे­शा­ज्ज­ग­त्क­र्तृ­त्वा­यो­ग्य­तोक्ता ।
मनसापीति ।
जगतस्तान्प्रति कार्य­त्वा­यो­ग्य­तेति विशेषणद्वयेन जीव­क­र्तृ­क­त्व­नि­षेधः । व्याकृतस्य इत्य­ने­ना­न­भि­व्य­क्त­बी­जा­व­स्थ­ज­ग­तो­भि­व्य­क्त्य­भि­धा­ना­द­णवः प्रागसद् द्व्यणु­का­द्या­र­भन्त इति मतव्युदासः । शेषं विशदं टीकायाम् । तदेव लिल­क्ष­यि­षि­त­ज­ग­द्यो­नि­ब्र­ह्म­स­जा­ती­यया पर­भ्र­म­प­रि­क­ल्पि­त­प्र­धा­ना­दे­रु­क्त­वि­ध­ज­ग­त्प्र­कृ­तित्वं ब्रह्म व्यवच्छिनत्ति । विजातीयात्पुनः कार्या­त्का­र­ण­त्वा­देव । तथा च सजा­ती­य­वि­जा­ती­य­व्य­व­च्छे­द­क­त्वेन जग­त्प्र­कृ­ति­त्वस्य सिद्धं लक्षणत्वम् ।
धर्मलक्षणेति ।
धर्म इति लक्षणमिति अवस्थेति त्रीणि लक्षणानि यस्य परिणामस्य स तथोक्तः ।
स चोत्प­त्ता­व­न्त­र्भ­व­तीति ।
धर्मपरिणामं विवृणोति —
धर्मिणो हीति ।
कनकादेर्धर्मिणो धर्मरूपपरिमाणो नाम मुकुटकटकादिरिति सांख्यप्रक्रिया । तत्र निरूप्यमाणे परि­णा­म­श­ब्दा­ल­म्बने तस्य कटकादेर्हेमादित उत्प­त्ति­रि­त्यर्थः ।
लक्ष­ण­प­रि­णा­म­मु­दा­ह­रति —
एवमिति ।
प्रत्यु­त्प­न्नत्वं वर्तमानत्वं कटकादिकार्यस्य वर्त­मा­न­त्वा­ती­त­त्व­भ­वि­ष्य­त्व­रूपो लक्षणपरिणामः सोऽप्यु­त्प­त्ति­रि­त्यर्थः ।
अव­स्था­प­रि­णा­म­मु­दा­ह­रति —
एवमवस्थेति ।
अती­ता­दे­रे­वा­ती­त­त्वा­ती­त­त­र­त्वा­ती­त­त­म­त्वा­दि­रूपो नव­पु­रा­ण­त्वा­द्या­प­त्ति­र­व­स्था­प­रि­णामो नाम, स चोत्प­त्ति­रे­वे­त्यर्थः ।
अपक्षयस्य विना­शा­न्त­र्भा­व­माह —
अपक्षयस्त्विति ।
तच्च न मूलकारणेति ।
पुरुषाणां श्रुति­म­न्त­रे­णा­ती­न्द्रि­यार्थे दर्श­न­सा­म­र्थ्या­भा­वा­दि­त्यर्थः ।
न च वृध्द्या­दि­वि­का­र­क­थ­ना­देव मूलकारणे द्रष्टृ­त्व­म­नु­मेयं अन्य­था­प्यु­प­प­त्ते­रि­त्याह —
महासर्गादिति ।
पर­म­का­र­णा­दु­त्प­त्त्या­दयो न गृहीता इति शङ्कापनुत्तये योत्प­त्ति­र्ब्र­ह्मणो ‘यतो वेति’ वाक्ये जायन्त इत्यु­त्प­त्ति­र­भि­हिता या च तत्रैव स्थिति­जी­व­न्ती­त्युक्ता, यश्च तत्रैव प्रल­योऽ­भि­सं­वि­श­न्ती­त्यु­क्तस्त उत्पत्त्यादयः सूत्रे गृह्यन्त इति भाष्यार्थः ।
तत्रो­त्प­त्ति­मा­त्रा­देव लक्ष­ण­स्या­ल­क्ष्य­व्या­वृ­त्ति­सिद्धौ स्थिति­ल­यो­पा­दा­न­मा­श­ङ्का­नि­वृ­त्त्य­र्थ­मि­त्याह —
उत्प­त्ति­मा­त्र­मिति ।
उत्पादकत्वं निमित्तेऽपि दृष्ट­मि­त्यु­पा­दा­न­त्व­सि­द्ध्यर्थं लया­श्र­य­त्व­मु­क्त­मि­त्यर्थः । नन्वेवमपि लया­धा­र­त्वा­दे­वो­पा­दा­नत्वं लभ्यते, नहि दण्डादिषु कुम्भादयो लीयन्तेऽत इतरवैयर्थ्यम् — इतिचेत्, मैवम्; उपादानत्वमेव न कुलधर्मतयोक्तं, किंतु प्रकृ­ति­वि­का­रा­भे­द­न्या­ये­ना­द्वै­त­सि­द्धये । एवं च भवतु ब्रह्म जगत उपादानम्, अधिष्ठाता तु उत्प­त्ति­स्थि­त्यो­रन्यः स्यात् कुम्भकार इव कुम्भ­स्यो­त्पत्तौ राजेव च राजस्थेम्नीति मा शङ्की­त्यु­त्प­त्ति­स्थि­ति­ग्र­ह­ण­मिति ।
लक्ष­णा­ख्य­के­व­ल­व्य­ति­रे­क्य­नु­मा­ना­देव प्रति­ज्ञा­त­ब्र­ह्म­प्र­मितेः शास्त्रयोनित्व (ब्र.अ.१.पा.१.सू.३) समन्वयाधिकरण (ब्र.अ.१.पा.१.सू.४) योर्वै­य­र्थ्ये­त्या­श­ङ्क्याह —
तदनेनेति ।
ब्रह्मज्ञानाय वेदान्तविचार आरभ्य इति प्रतिज्ञायां विशेषणत्वेन ब्रह्मविषय इति प्रति­ज्ञा­वि­ष­य­स्ये­त्यु­क्तम् । लक्षणं हि सिद्धस्य वस्तुतो भेदमवगमयति, ईदृशं तदिति तत्स्वरूपं वा, न सत्ताम् । कार्येण च कारणं किंचिदस्तीति मितम् । तत्त्वेकमनेकं वेति संदिग्धम् । तस्य यदैकत्वं सेत्स्यति, तदा भवति तत्सर्वज्ञं सर्वशक्ति च, नेतरथा । अयमेव संशयः कल्प­ना­ला­घ­व­सं­ज्ञ­क­त­र्के­णो­त्क­टै­क­को­टि­कतां नीतः संभावना समभवन्न निर्णयः ।
विचि­त्र­प्रा­सा­दा­दीनां बहुकर्तृकत्वस्य प्रायेण दृष्ट­त्वा­त्त­दि­द­मुक्तं —
संभावनोक्तेति ।
एवंच वक्ष्य­मा­णा­धि­क­र­ण­द्व­येन प्रमाणं वाच्यमित्यर्थः ।
एतदेवेति भाष्येण युक्तीनामासां संभावनाहेतुत्वं दृढीक्रियत इत्याह —
इत्थं नामेति ।
नैय्यायिकैरपि प्रमाणादमूषां भेदो नाज्ञायि युक्तीनाम् । ततः स्तोकैवासां प्रमाणादूनतैवं च संभा­व­य­न्ति­त­रा­मि­त्यर्थः ।
सुहृद्भावेनेति ।
उत्त­रा­धि­क­र­णा­रं­भा­त्प्राक् क्षणमपि शिष्या­णा­म­नु­प­प­त्ति­शङ्का मा भूदिति कृपयेत्यर्थः ।
अत्र ‘‘नावे­द­वि­न्म­नुते तं बृहन्तं’’ ‘‘नैषा तर्केण मतिरापनेये’’ त्यादि­शा­स्त्रा­त्प्रा­गु­क्त­युक्त्या च वेदैकगम्यं ब्रह्मेति समाधत्त इत्याह —
परिहरतीति ।
वाक्या­र्थ­वि­चा­र­णा­श­ब्देन शाब्दबोध उपासनासहित उक्तः, पर­स्ता­द­व­ग­ति­रे­वेति मध्येऽ­ध्य­व­सा­न­शब्दो न युक्त इत्याशङ्क्य नायं ज्ञानवचनः कितु संस्का­र­स­हि­त­ल­य­वि­क्षे­पा­वि­द्या­स­मा­प्ति­व­चन इत्याह —
सवासनेति ।
वृत्ति­रू­प­सा­क्षा­त्का­र­स्या­वि­द्या­ध्वं­सिनो मध्ये विद्या­मा­न­त्वेऽपि न सोऽध्य­व­सा­न­श­ब्देन गृहीत अवि­द्या­नि­वृत्त्या स्वरू­पा­भि­व्यक्तिं प्रति व्यवधानादिति ।
विमतं, चेतनपूर्वकं, कार्य­त्वा­दि­त्या­दि­युक्तिः शब्दाविरोधिनी वस्तु­वि­शे­ष­नि­र्धा­रणे तदुपजीविनीति वक्तव्यम्, ब्रह्मा­त्म­त्वस्य केव­ल­यु­क्त्य­गो­च­र­त्व­स्वा­भा­व्या­दि­त्याह —
तदुपजीवि चेत्यपीति ।
यथाहि किल गन्धारदेशेभ्य आनीय चौरैररण्ये कश्चि­द्ब­द्ध­च­क्षु­र्नि­हित आप्तो­प­दे­श­त­स्त­दु­प­दि­ष्टस्य साकल्येन न गृही­त­त्वा­त्प­ण्डितः स्वय­मू­हा­पो­ह­क्ष­म­तया च मेधावी गन्धा­रा­न्प्रा­प्नोति, एवं परब्रह्मण आच्छिद्य विवेकदृष्टिं निरु­ध्या­वि­द्या­दिभिः संसारारण्ये निहितो जन्तुः पर­म­का­रु­णि­क­गु­रू­प­दे­शतः स्वस्वभावं प्रतिपद्यत इति भाष्य­स्थ­श्रु­त्यर्थः ।
यदुक्तं ब्रह्मणो माना­न्त­रा­वि­ष­यत्वे कुतो मननमिति, तत्राह —
शब्दा­वि­रो­धि­न्येति ।
कारणस्य सर्व­ज्ञ­त्वा­दि­सिद्धौ युक्तिः शब्दमुपजीवति, न स्वतन्त्रा; कारणमात्रं तु संभा­व­य­न्ती­ति­क­र्त­व्यता न माना­न्त­र­मि­त्यर्थः ।
भाष्य­स्था­नु­भ­व­श­ब्दा­र्थ­माह —
अन्तःकरणेति ।
ननु कथं वृत्तिः प्रमाणमिति भाष्ये उक्तं? निष्फ­ल­त्वा­दि­त्या­शङ्क्य तत्कृ­ता­वि­द्या­नि­वृ­त्ति­द्वारा स्वरू­पा­भि­व्यक्तिः, उप­चा­रा­त्फ­ल­म­स्ती­त्याह —
तस्येति ।
धर्मजिज्ञासायां श्रुत्यादय एव प्रमा­ण­मि­त्य­युक्तं, वेद­वि­ष­य­श्रो­त्र­प्र­त्य­क्षा­द्य­पे­क्ष­णा­दि­त्या­शङ्क्य ज्ञातव्ये धर्मे न साक्षा­त्का­र­त­दु­प­यो­गि­यु­क्त्या­दीनां संभवो, ब्रह्मजिज्ञासा तु साक्षा­त्का­र­प­र्य­न्ते­त्याह —
यद्यपीत्यादिना ।
न केवलं ब्रह्म­जि­ज्ञा­सा­या­म­नु­भ­वा­दीनां संभवः, किंतु तत्त्व­सा­क्षा­त्का­र­म­न्त­रे­णा­प­रो­क्ष­सं­सा­र­भ्र­म­नि­वृ­त्त्य­यो­गा­त्तेन विना न पर्यवसानं चेत्याह —
अनुभवार्थेति ।
ब्रह्म­जि­ज्ञा­सा­या­मिति सप्तम्यन्तं पदं षष्ठ्यन्तत्वेन विप­रि­ण­म­य्या­नु­भ­वा­व­सा­न­त्वा­द्ब्र­ह्म­जि­ज्ञा­साया इति भाष्यं योज्यम् । अनुभवोऽवसाने समाप्तौ फलत्वेन यस्याः सा तथोक्ता । धर्मजिज्ञासायां त्वनुभवः कार­ण­त्वे­नो­प­क्रमे उपयुक्त इत्यर्थः ।
इहानुभवः स्वरू­पा­भि­व्य­क्तिर्न वृत्तिः, तत्र हेतुमाह —
परेति ।
न वृत्ति­र­नि­त्य­त्वा­द्वि­चा­रस्य पुष्कलं फलमित्यर्थः । तदनुभव एव त्वित्यत्र वृत्तिरुक्ता, एवकारेण तु तत्कृ­ता­वि­द्या­नि­वृ­त्ति­द्वा­रेण स्वरू­पा­भि­व्य­क्ति­र­श­क्य­त­रेति सूचितम् । भाष्ये — भूतशब्दः परमार्थवचनः, चशब्दः शङ्का­नि­वृ­त्त्यर्थः, व्यतिरेकः प्रप­ञ्चा­भा­वो­प­ल­क्षि­त­स्व­रूपं, तद्वि­ष­य­सा­क्षा­त्का­रस्य विकल्परूपो ब्रह्मणा सह विष­य­वि­ष­यि­भा­व­रूपः संबन्धोऽस्ति, नतु तत्त्वतः । उक्तं हीदं प्रथमसूत्रे — वृत्ति­वि­ष­य­त्व­मपि तयैवोपहितस्य न निरुपाधेरिति, तत्र प्रस्म­र्त­व्य­मि­त्यर्थः । अन्य­था­क­र्तु­मि­त्यत्र कर्तु­मि­त्य­स्या­नु­षङ्गो भाष्ये कार्यः; कर­णा­पे­क्ष­त्वा­द­न्य­था­क­र­णस्य ।
उदितहोमः कर्तुं शक्योऽनुदिते त्वन्यथेति तदाह —
कर्तुमिति ।
भाष्य­स्थ­वि­ध्या­दि­श­ब्दा­नु­दा­हृ­त­वा­क्येषु योजयति —
गृह्णा­ती­त्या­दिना ।
‘‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशेदि’’ति नारा­स्थि­स्प­र्श­नि­षेधः । ‘‘शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धि­मा­प्नु­यात्’’ (याज्ञ० अ.३ श्लो.२४३) इति ब्रह्मघ्नः शवशिरसो नारास्थो ध्वजत्वेन धारणविधिः॥
भाष्ये प्रतिज्ञैव भाति, न हेतुरत आह —
एतदुक्तमिति ।
स्वातन्त्र्येण कर्तुं समर्थोऽपि हिता­हि­तो­पा­य­त्व­म­जा­नन्, तद्बो­ध­क­वि­धि­नि­षे­धा­पेक्ष इत्यर्थः ।
अन्तः­क­र­ण­ज­क­ल्प­ना­द्वै­वि­ध्य­माह —
सवासनेति ।
जाग्र­द्वा­स­ना­वा­सितं मन एव स्वप्नकारणं, जाग्र­त्सं­श­य­वि­प­र्ययाः संस्का­र­स­हि­ता­न्त­र्ब­हिः­क­र­णजा इत्यर्थः । यथावस्तुत्वं वस्त्व­नु­सा­रित्वं यासां नास्ति तास्तथोक्ताः ।
न वस्त्विति ।
संशया न विकल्पयन्ति, विपर्यया नान्य­थ­य­न्ती­त्यर्थः ।
खानि=इ­न्द्रि­याणि, व्यतृ­ण­त्=हिं­सि­त­वान्, पराङ् पश्यति लोकः प्रत्य­गा­त्म­न­स्त्व­वि­ष­य­त्व­मिति —
अपरोक्षत्वात् प्रत्य­गा­त्म­प्र­सि­द्धे­रि­त्य­त्रेति ।
उपरिष्टात् तर्कपादे (अ.२.पा.२) उपपादितं चेति । विमतं, धीमत्कृतं, कार्य­त्वा­दि­त्य­नु­मा­ना­न्ने­श्व­र­सिद्धिः; जीवजत्वेन सिद्ध­सा­ध­न­त्वात्, उप­क­र­णा­द्य­भि­ज्ञ­क­र्तृ­क­त्व­सा­धने कति­प­य­त­द­भि­ज्ञ­तायां सर्व­ज्ञा­सिद्धेः, सर्व­त­द­भि­ज्ञ­क­र्तृ­कत्वे सपक्षस्य साध्यहीनत्वात्, कुम्भं निर्मितवतः कुम्भकारस्य चैत्र­क्र­य्योऽ­य­मि­त्य­न­व­बो­धात्, साधारणेऽपि सिद्ध­सा­ध­न­त्वात्, मनःसंयोगहीनस्य चोप­ल­ब्धे­र­भा­वा­द­म­न­स्क­स्या­प्यै­श्व­र्या­दु­प­ल­ब्धि­सं­भवे तत एव विनैवोपलब्ध्या जग­न्नि­र्मा­ण­सं­भ­वे­नो­प­ल­ब्धि­म­त्क­र्तृ­क­त्व­स्यैव विलोपेन वृद्धिगृह्णतो मूल­च्छे­दा­दि­त्यादि न्यायकणिकायां व्युदपादिति । उपरिष्टात् समन्वयसूत्रे ।
जन्मादिसूत्रेण यतो वेत्यादिवाक्यं लक्ष्यमिति भाष्ये उक्तं, तदर्थं श्रुति­सू­त्र­यो­र­र्थ­प्र­त्य­भिज्ञां दर्शयति —
श्रुतिरिति ।
अत्र स्वरू­प­ल­क्ष­ण­प­रत्वं सूत्रस्य दर्शयितुं तस्य चेति भाष्यं ।
तद्व्याचष्टे —
अत्र चेति ।
जगद्विशेषणैः पूर्वनिर्णयेऽपि श्रुतित इह निर्णीयते । कारणं ब्रह्माऽनूद्य वाक्ये­ना­न­न्द­त्व­वि­धा­ना­त्स्व­रू­प­ल­क्ष­ण­सिद्धिः । आनन्दः सत्या­दे­रु­प­ल­क्ष­णम् ननु — आनन्दादेर्भेदे न ब्रह्म­ल­क्ष­ण­त्वम्, अभेदे वाक्या­र्था­सिद्धिः, गुण­भू­त­प­दा­र्थ­वि­शिष्टः प्रधानपदार्थो हि वाक्यार्थः — अत्रोच्यते; यत्र पदार्थः प्रमितः तत्र स एवे­त­र­प­दा­र्थ­वि­शिष्टः प्रतिपाद्यः । यस्त्वज्ञातः स नान्यैः शक्यो विशेष्टुमिति स एव वाक्येन प्रमेयः । प्रमिते चैतस्मिन् वाक्यस्य समाप्तेर्न विशिष्टपरत्वम् । यथा प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इति प्रक­र्ष­प्र­का­श­द्वारा चन्द्रलक्षणान्न तद्वैशिष्ट्यं ; मानान्तरादेव तत्सिद्धेः, उपायस्तु वैशिष्ट्यम् अख­ण्ड­च­न्द्र­सिद्धौ । तच्चा­वि­रो­धा­च्च­न्द्रेऽ­नु­ज्ञा­यते, सत्यादिवाक्ये त्वन­न्ता­दि­प­दै­र्बा­ध्यते वैशिष्ट्यम् । एवंच अवि­शि­ष्ट­म­प­र्या­या­ने­क­श­ब्द­प्र­का­शि­तम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे॥ ननु — चन्द्र­ल­क्ष­ण­मिदं; ततश्चन्द्रः, इत­र­स्मा­द्भि­द्यते, चन्द्रशब्देन व्यवहर्तव्यो वा, प्रकृ­ष्ट­प्र­का­श­त्वात्, व्यतिरेकेण तमोवदिति व्यावृ­त्ति­वि­शि­ष्टस्य वाच्य­त्व­वि­शि­ष्टस्य च वाक्येन प्रतिपाद्यत्वं — इति । तन्न; अप्रमिते चन्द्रे व्यावृ­त्ते­र­न­व­बो­धात्, प्रमितेऽपि प्रमाणान्तरात् प्रमि­ति­र्ल­क्ष­ण­वा­क्याद्वा । प्रथमे सामान्यत; प्रमि­ति­र्वि­शे­षतो वा । नाग्रिमः; सामान्यस्यैव व्यावृ­त्ति­सिद्धौ चन्द्रस्य तद­सि­द्धि­प्र­स­ङ्गात्, न चरमः; विशे­ष­ग्रा­हि­प्र­मा­णा­देव व्यावृ­त्ति­सिद्धौ लक्षणवैफल्यात् । न द्वितीयः; लक्ष­ण­वा­क्या­च्च­न्द्र­प्र­मितौ तस्य तत्रैव पर्यवसाने व्यावृ­त्ति­प­र­त्वा­नु­प­पत्तेः । न च चन्द्र­श­ब्द­वा­च्यत्वं साध्यते; अचन्द्रे चन्द्र­श­ब्द­वा­च्य­त्व­सा­धने व्याघातात् । अथ चन्द्र­त्व­म­प्य­भि­प्रेत्य चन्द्र­श­ब्द­वा­च्यत्वं साध्यते, तर्हि चन्द्रत्वमेव साध्य­ता­म­व­श्या­पे­क्षि­त­त्वा­त्कृ­त­म­श्रु­त­वा­च्य­त्व­क­ल्प­नया । तस्मा­त्प्र­कृ­ष्टत्वे सति प्रका­श­त्व­म­ज्ञा­त­च­न्द्र­ज्ञा­प­कम्; अर्था­द्व्या­वृ­त्त्या­दि­सिद्धिः । एवंचैतदपास्तत् — एकेन पदेन यावदुक्तं ताव­तोऽ­प­रे­णा­भि­धाने पर्यायत्वम्, अधिकाभिधाने विशि­ष्ट­वा­क्या­र्थ­त्वा­पत्तिः — इति; वाच्या­र्थ­ना­ना­त्व­स्ये­ष्ट­त्वा­ल्ल­क्ष्यस्य चैकत्वात् । नहि चन्द्र­द्व­य­मस्ति, न च लक्षणस्य विशि­ष्ट­त्वा­ल्लक्ष्यं विशिष्टं स्यात् । मा भूत् सामान्यवत्त्वे सत्य­स्म­द्बा­ह्ये­न्द्रि­य­ग्रा­ह्यत्वं विशि­ष्ट­मि­त्य­नि­त्य­त्व­मपि विशिष्टं, तर्हि अनित्यत्वस्येव लक्ष­णा­ना­त्म­क­त्वा­ल्ल­क्ष्यस्य ब्रह्मणः सत्या­द्या­त्म­कत्वं न स्यादिति चेत्, नैतदस्ति; यतः; ‘सत्तादीनां हि जातीनां व्यक्ति­ता­दा­त्म्य­द­र्श­नात् । लक्ष्य­व्य­क्ति­रपि ब्रह्म सत्त्वादि न जहाति नः॥’‘ इह हि कल्पि­त­भे­द­व्य­क्त्या­श्रितैः सामान्यैर्या व्यक्तयो लक्ष्यन्ते, तास्तद्रूपत्वं न जहति; तर­ङ्ग­च­न्द्रा­नु­ग­त­च­न्द्र­त्वेन लक्ष्य­च­न्द्र­व्य­क्ति­रिव चन्द्रा­त्म­त्वम्, एवं ब्रह्मापि माया­का­र्य­कु­म्भा­दि­क­ल्पि­त­व्य­क्त­य­नु­गतं सत्तया लक्ष्यमाणं सत्त्वं न हास्यति । तथा ज्ञान­त्वा­न­न्द­त्वा­भ्या­म­प्य­न्तः­क­र­ण­वृ­त्त्यु­प­धा­न­ल­ब्ध­भे­द­चि­दा­न­न्द­वि­शे­षा­नु­ग­ताभ्यां लक्ष्य­मा­ण­चि­दा­न­न्द­व्य­क्त­यो­रपि योज्यम् । यथा च सद्भेद औपाधिकः, एवं सज्ज्ञा­ना­न­न्द­भे­दोऽपि, सत्त्व­र­हि­त­ज्ञा­ना­न­न्दयोः शून्य­त्व­प्र­स­ङ्गात्, बोधा­त्म­त्व­र­हि­त­स­तश्च भाना­भा­व­प्र­स­ङ्गाद्, दृश्यत्वे कल्पितत्वेन सत्त्वा­यो­गा­त्स­द्बो­धा­त्म­क­सा­क्षि­णश्च पर­प्रे­मा­स्प­द­त्वे­ना­न­न्द­स्वा­भा­व्या­व­ग­मा­दिति । तथाच कल्पि­त­भे­द­सा­मा­न्य­त­द­पे­क्ष­व्य­क्त्या­का­र­बा­धेन सत्य­ज्ञा­ना­न­न्दा­त्मकं ब्रह्म निश्चीयते । प्रयोगोऽपि सत्यादिवाक्यं, विशि­ष्टा­र्थ­प­र­त्व­र­हितं, लक्ष­ण­वा­क्य­त्वा­त्प्र­कृ­ष्ट­प्र­का­शा­दि­वा­क्य­व­दिति । तथा — उपा­धि­भे­द­भि­न्नोऽर्थो येनैकः प्रतिपाद्यते । तदपि स्यादखण्डार्थे महत्खं कुम्भकं यथा॥ निरंशस्य हि जीव­स्या­णु­त्व­म­न­न्तत्वं वा स्यात् । तत्र नाणुत्वं; सकलदेहव्यापि ह्लादा­नु­प­ल­म्भ­प्र­स­ङ्गाद्, विभोश्च नभोवद् द्रव्य­त्वा­वा­न्त­र­जा­त्य­ना­धा­र­स्ये­श्व­रा­द्भे­दा­यो­गात् । तस्मा­द­न­न्त­ब्र­ह्मा­त्म­नोऽस्य परिच्छेद औपाधिकः । श्रूयते च जीवस्य परस्मादौपाधिको भेदः — यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहु­धै­कोऽ­नु­ग­च्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रे­ष्वे­व­म­जोऽ­य­मा­त्मा॥­इति ।
नन्वेवं भूतब्रह्मणः कथं जगद्योनित्वमत आह —
एतदिति॥
इति द्वितीयं जन्मा­द्य­धि­क­र­णम्॥

शास्त्र­यो­नि­त्वात् ॥३॥ अत्र हेतुमात्रं प्रतिभाति, नैत­ज्ज­ग­द्यो­नित्वे, साध्या­वि­शे­षा­दि­त्य­स­ङ्ग­ति­मा­श­ङ्क्या­र्थि­क­प्र­ति­ज्ञया सङ्गतिमाह—
सूत्रान्तरमिति ।
अथ वा वेदनित्यत्वाद् ब्रह्मणो विश्वयोनिता । नेति शङ्कामपाकर्तुं शास्त्र­यो­नि­त्व­मु­च्यते ॥ अस्मिन्पक्षे श्रौत­प्र­ति­ज्ञ­यैव सङ्गतिः ।
अभ्यु­च्च­या­र्थ­त्वेन हेतुपौनरुक्त्यं परिहरति —
न केवलमिति ।
हेत्व­न्त­र­स­म­र्थ­ना­च्चा­धि­क­र­णा­न्त­र­त्वम् । ‘अस्य महत’ इत्यादिवाक्यं ब्रह्मणो वेदकर्तृत्वेन सर्वज्ञत्वं न साधयत्युत साधयतीति वेदस्य सापे­क्ष­त्व­प्र­स­ङ्गा­प्र­स­ङ्गाभ्यां संशये पूर्व­प­क्षा­मा­शङ्क्य निराकरिष्यते ।
सिद्धा­न्तो­प­क्र­म­भाष्यं व्याचष्टे —
चातु­र्व­र्ण्ये­त्या­दिना ।
पुरा­ण­न्या­य­मी­मांसा धर्मशास्त्रं षडङ्गानि दश विद्यास्थानानि ।
तया तया द्वारेति ।
सृष्टि­वा­क्या­पे­क्षि­त­स­र्गा­दि­प्र­प­ञ्च­न­द्वारा पुराणमद्वैतपरं, जाति­व्य­क्ति­ल­क्ष­ण­नि­रू­प­णेन न्यायो वैदि­क­प­दा­र्थ­शु­द्ध्यर्थः; शेषोपयोगस्तु व्यक्तः ।
उक्तमर्थं प्रमाणयतीति ।
अत्रायं भाष्यविभागः — महत इत्यारभ्य ब्रह्मेत्यन्तेन निःश्व­सि­त­श्रुत्या विभ­क्त­त्व­हे­तू­प­कृ­तया ब्रह्मकार्यं वेद इत्युक्तम् । नही­दृ­श­स्ये­त्या­र­भ्या­स्ती­त्य­न्तेन व्यतिरेकमुखेन सर्व­ज्ञ­त्व­प्र­तिज्ञा । यदित्यादिना लोके इत्यन्तेन व्याप्ति­रु­क्तेति ।
विस्तरत्वं शास्त्रविशेषणं व्याप्त्य­नु­प­यो­गाद् व्यर्थ­मि­त्या­शङ्क्य महा­वि­ष­य­त्वा­द्वे­दस्य ब्रह्मज्ञानेन तुल्य­वि­ष­य­त्व­भ्र­म­नि­वृत्तिः प्रयोजनमित्याह —
विस्तरार्थमिति ।
यस्मादित्यस्य तस्येत्यनेन व्यवहितेन संबन्धमाह —
वेदस्येति ।
इदमिहानुमानम् —
ब्रह्म वेद­वि­ष­या­द­धि­क­वि­ष­यज्ञं तत्कर्तृत्वात्, यो यद्वा­क्य­प्र­मा­ण­कर्ता स तद्वि­ष­या­द­धि­क­वि­ष­यज्ञः, यथा पाणिनिरिति । सर्वा­व­भा­स­क­वे­द­क­र्तृ­त्वेन पक्ष­ध­र्म­ता­ब­ला­त्स­र्व­ज्ञ­त्व­सि­द्धि­रिति ।
यद्वा —
अयं घटः, एत­द­न्या­स­र्व­वि­त्क­र्तृ­क­त्वा­न­धि­क­र­णै­त­द­न्या­वे­द­त्वा­न­धि­क­र­ण­स­क­र्तृ­कान्यः, घटत्वाद्, घटान्तरवदिति ।
ईक्ष­णा­दि­प्र­य­त्ना­पे­क्ष­णा­द­प्र­य­त्न­शब्दः सौकर्यापेक्ष इत्याह —
ईषदिति ।
अधुना पूर्व­प­क्ष­मा­शङ्क्य निराक्रियते । कर्तृमत्त्वेन वेदस्य सापेक्षत्वं वदन् प्रष्टव्यः — सापेक्षता किं पुरु­ष­नि­र्व­र्त्य­त्व­मा­त्रात्, अभि­न­वा­नु­पू­र्वी­वि­र­च­नाद्वा, माना­न्त­रो­प­ल­ब्धा­र्थ­वि­ष­य­व­च­न­र­च­नाद्वा, कति­प­य­का­ल­वि­र­चि­त­स­र्व­सं­प्र­दा­यस्य वेद­स्यै­क­पु­रु­षा­न्निः­स­र­णाद्वा ।
नाद्यः, तत्रापि संमतत्वादित्याह —
येऽपि तावदिति ।
व्यक्ति­र­भि­व्यक्तिः । द्वितीये क्रमा­न्य­त्व­मा­त्र­म­भि­न­वत्वं, विसदृशक्रमत्वं वा । आद्यो भव­द्भि­र­प्य­ङ्गी­कृतः ।
चरमस्तु नास्माभिरपि स्वीकृत इत्याह —
तस्मान्नित्येति ।
तृती­य­स्त्व­न­भ्यु­प­ग­म­नि­रस्त इत्याह —
वैयासिकं त्विति ।
अनुवर्तमाना आचक्षत इत्यनुषङ्गः ।
ननु विवर्तत्वे वेदान्तानां यादृ­च्छि­क­त्वा­पा­तान्न क्रमनियम स्यात्तत्राह —
यथाहीति ।
सर्वज्ञस्य सर्व­श­क्ते­र्ब्र­ह्मणो नोपा­ध्या­य­व­त्क्र­मा­नु­रोधो युक्त इति, तत्राह —
यथात्रेति ।
‘‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् (पाणि ० शिक्षा ०)॥‘ इति श्रूयते ।
चतुर्थं निराकरोति —
नचैकस्येति ।
सर्व­दा­सं­प्र­दा­या­वि­च्छे­द­मि­च्छ­द्भि­रपि संप्र­दा­य­प्र­व­र्त­के­ष्वा­ष्वास आस्थेयः, स वरमेकस्मिन्नेव ब्रह्म­ण्य­व­ग­त­सा­र्वज्ञ्ये कृत इति भावः ।
ननु न वयमीश्वरं पश्यामः , कथं तत्कर्तृके वेदे विश्वासस्तत्राह —
सर्गादिभुवामिति ।
इति तृतीयं शास्त्र­यो­नि­त्वा­धि­क­र­णम् ॥

तत्तु समन्वयात्॥४॥ वेदान्ता ब्रह्मणि प्रमाणं न वेति सिद्ध­व­स्तु­बो­धा­त्फ­ल­भा­वा­भा­वाभ्यां सिद्धं रूपादिहीनं वस्तु बोधयतो वाक्यस्य माना­न्त­र­सा­पे­क्ष­त्वा­न­पे­क्ष­त्वाभ्यां वा संशये पूर्वा­धि­क­र­ण­द्वि­ती­य­व­र्ण­के­ना­क्षे­पिकीं सङ्गतिमुक्त्वा पूर्वपक्षभाष्यं व्याचष्टे —
किमाक्षेप इत्यादिना ।
कथमिति थमुप्रत्ययान्तः किंशब्द आक्षेपे ।
जैमि­नि­सू­त्रो­प­न्यासो न व्युत्थि­त­सि­द्धा­न्ति­वि­श्र­म्भा­यापि तु दृढ­पू­र्व­प­क्ष­नि­रा­सार्थं सिद्धा­न्ता­व­श्या­र­म्भा­ये­त्याह —
पारामर्षेति ।
अभि­धे­या­भा­वोऽ­नु­भ­व­वि­रो­धान्न युक्तो वक्तुमित्याह —
आनर्थक्यं चेति ।
भाष्ये पौन­रु­क्त्य­मा­शङ्क्य संग्र­ह­वि­व­र­ण­त्व­माह —
अत इत्यादीति ।
वाऽन्तमिति ।
उपा­स­ना­दि­क्रि­या­न्त­र­वि­धा­ना­र्थत्वं वेत्ये­त­द­न्त­मि­त्यर्थः ।
ननु किमिति वेदा­न्ता­ना­म­र्थ­वा­द­व­द्वि­धि­प­दै­क­वा­क्यता? मन्त्र­व­त्पा­र्थ­ग­र्थ्य­म­स्त्वि­त्या­शङ्क्य तर्हि तद्व­द्वि­धि­भि­र्वा­क्यै­क­वा­क्यता स्यादित्याह भाष्यकारः —
मन्त्राणां चेति ।
इषे त्वेत्यत्र छिन­द्मी­त्य­ध्या­हा­रा­च्छा­खा­च्छेदः क्रिया भाति, क्वचि­च्चा­ग्नि­र्मू­र्धे­त्यादौ तत्साधनं देवतादीति । मन्त्राश्च श्रुत्यादिभिः क्रतौ विनियुक्ताः । ते किम् — उच्चा­र­ण­मा­त्रे­णा­दृष्टं कुर्वन्तः क्रता­वु­प­कु­र्व­न्त्युत दृष्टे­नै­वा­र्थ­प्र­का­श­ने­नेति संदेहः । तत्र न तावद् दृष्टार्थत्वमेव मन्त्राणां शक्यं वक्तुम्; उपायान्तरेणापि मन्त्रार्थस्य स्वाध्या­य­का­ला­व­ग­तस्य चिन्तादिना प्रयोगसमये स्मृति­सं­भ­वा­त्ता­व­न्मा­त्रा­र्थत्वे मन्त्राणां नित्य­व­दा­म्ना­न­वै­य­र्थ्यात् । अथ तु मन्त्रै­रे­वा­र्थ­प्र­त्या­य­न­नि­य­मा­द­दृष्टं कल्प्येत, तदुच्चारणादेव कल्प्यतां; तस्य पुंव्या­पा­र­गो­च­र­त्वा­त्स्व­व्या­पारे च पुरुषस्य नियोगात्तत्र च फला­का­ङ्क्ष­णा­दिति प्रापय्य प्रमाणलक्षणे राद्धान्तितम् – ‘यस्य दृष्टं न लभ्येत तस्या­दृ­ष्ट­प्र­क­ल्पना । लभ्य­तेऽ­र्थ­स्मृ­ति­र्दृष्टा मन्त्रो­च्चा­र­ण­त­स्त्विह॥ अर्थस्मृतिः प्रयोगार्था प्रयोगाच्च फलोदयः । इति दृष्टा­र्थ­सं­पत्तौ नादृष्टमिह कल्प्यते॥‘ यस्तु मन्त्रैरेव स्मर्तव्यमिति नियमस्तस्य न किंचि­द्दृ­ष्ट­म­स्ती­त्य­दृष्टं कल्प्यते ।
तस्मा­द्दृ­ष्टा­दृ­ष्टार्था मन्त्र इति ।
उत्प­त्ति­वि­धे­रिति ।
अधिकारविधितः प्रवृ­त्ति­ला­भा­दु­त्प­त्ति­वि­धि­र­ज्ञा­त­क­र्म­स्व­रू­प­बो­ध­पर इत्यर्थः ।
अनागतेति ।
भावो भावना, तद्विषयः सर्वो विधिः । यतः स उत्पाद्यः, उत्पाद्यत्वे हेतुरनागतत्वम् । अधिकारः फलसंबन्धबोधनम् । विनियोगोऽत्र क्रियायाः फल­शे­ष­त्व­ज्ञा­प­नम् । प्रयोगः अनुष्ठापनम् । कर्म­स्व­रू­प­ज्ञा­न­मु­त्पत्तिः । फलसंबन्धः क्रियाया न शेषत्वमन्तरेण, तच्च नानुष्ठानं विना, अनुष्ठानं च नाज्ञाते इत्यविनाभावः । सिद्धं चेत्पुं­व्या­पा­रा­न­पेक्षं फलमारभेत, सदाऽऽरभेतेति नाधिकारादिसंभव इत्यर्थः ।
सर्वे­षा­म­वि­ना­भावे सर्वत्र चातू­रू­प्य­म­स्तीति कथ­म­वा­न्त­र­भे­द­स्त­त्राह —
तद्वाक्यानां त्विति ।
उदाहरति —
यथेति ।
सर्व­वि­धि­षू­त्प­त्त्या­दयः प्रतीयन्ते, अग्निहोत्रं जुहु­या­दि­त्य­त्रा­प्य­ग्नि­हो­त्रे­णेष्टं भावयेदित्यर्थः, नत्व­ग्नि­हो­त्रस्य भाव्यत्वम् । अफलत्वात् । न चाग्नि­हो­त्र­स्व­रू­प­सत्ता बोध्या; अभूद्भवति भवि­ष्य­ती­त्या­पत्तौ विध्यु­त्खा­ता­पा­तात् ।
तस्मा­द­धि­का­र­वि­धितः प्राप्त­वि­नि­यो­गा­द्य­नु­वा­दे­नो­त्प­त्ति­र्विधिः स्वरूपपरो भवति, ब्रह्मणि तु भाव­ना­भा­वा­द­नु­वा­द्य­स्यापि विनि­यो­गा­दे­र­भा­वा­न्नो­त्प­त्ति­वि­धि­रि­त्याह —
तस्मादिति ।
विधिपरत्वे वेदान्तानां न केव­ल­म­नु­वा­द­त्वा­भावः, अपि तु विपरीतार्थत्वं च न स्यात्, पक्षान्तरे तु स्यादित्याह —
एवंचेति ।
यादृशमिति ।
जीवा­द्भि­न्न­मि­त्यर्थः । जीवे ब्रह्म­दृ­ष्ट्या­रो­पान्न भेद­ग्रा­हि­प्र­मा­ण­वि­रोध इत्यर्थः ।
तदिति ।
सूत्रपदोक्तां सिद्धा­न्त­प­क्ष­प्र­ति­ज्ञा­मि­त्यर्थः ।
सम्यगन्वय इति ।
तात्पर्यं सम्यक्त्वम् ।
ननु शास्त्र­यो­नि­त्व­द्वि­ती­य­व­र्ण­का­क्षे­प­स­मा­धा­न­रू­प­मि­द­म­धि­क­रणं , तत्र च ‘यतो वेति’ वाक्यमुदाहृतमिह किमिति तदुपेक्षितमत आह —
यतो वेति ।
तद्ब्रह्म सर्व­ज्ञ­मि­त्या­दि­भाष्ये यत इत्या­दि­वा­क्य­प्र­मे­य­की­र्त­ना­त्त­त्प्र­माणं बुद्धिस्थं भवतीति नोदा­हृ­त­मि­त्यर्थः ।
वेदान्तानां ब्रह्मा­त्मै­कत्वे उप­क्र­मो­प­सं­हा­रैक्यं तात्पर्यलिङ्गं सदृष्टान्तमाह —
येनेति ।
भेदलक्षणे चिन्तितम् – ‘‘पौर्ण­मा­सी­व­दु­पां­शु­याजः स्यात्’’ । ‘‘जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशुयाजमन्तरा यजति, विष्णुरुपांशु यष्ट­व्योऽ­जा­मि­त्वाय प्रजापतिरुपांशु यष्ट­व्योऽ­जा­मि­त्वा­या­ग्नि­षो­मा­वु­पांशु यष्ट­व्या­व­जा­मि­त्वा­येति’’ श्रूयते । तत्रो­पां­शु­या­ज­म­न्तरा यजतीति किं समुदायानुवादः, उता­पू­र्व­या­ग­वि­धि­रिति विशये यथा­ग्ने­या­दि­या­गानां ‘य एवं विद्वा­न्पौ­र्ण­मासी यजते’ ‘य एवं विद्वा­न­मा­वास्यां यजत’ इति समुदायानुवादौ । एवमिदमपि विष्ण्वा­दि­वा­क्य­वि­हि­त­या­गानां समुदायानुवादः । तत्र हि विष्ण्वाद्या देवताः श्रूयन्ते । ‘‘सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रु­वा­या­माज्य’’ मिति ध्रौवा­ज्य­द्र­व्य­सिद्धिः । तव्यप्रत्ययाश्च विधायकाः श्रूयन्ते । नत्व­न्त­रा­वा­क्येऽस्ति द्रव्यदैवतं रूपम् । यजतीति च वर्तमानापदेशः । तदुक्तम् – ‘यागा­न्वि­ष्ण्वा­दि­सं­यु­क्ता­न्वि­हि­ता­न्रू­प­व­त्तया । अरू­प­म­न्त­रा­वा­क्य­म­ग­त्यै­वा­व­ल­म्बते॥‘ इति पूर्वपक्षः ।
एत­द­धि­क­र­ण­सि­द्धा­न्त­माह —
अनूचोरिति ।
निर­न्त­र­यो­रा­ग्ने­या­ग्नी­षो­मी­ययोः पुरोडाशयोः करणे आलस्यं स्यादिति दोषं संकीर्त्य तद­प­न­या­र्थ­मु­पां­शु­या­ज­मा­ज्य­द्र­व्यकं विधा­या­न­न्त­र­म­जा­मि­त्वा­येति तद्विधानलब्धं जामिता दोष­स­मा­धा­न­मु­प­सं­ह­रति । अतः सार्थ­वा­दो­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­दे­क­मिदं वाक्यम् । एकवाक्यता चोपांशुयाजविधौ लभ्यते नेत­र­त्रा­ने­क­या­ग­वि­धा­विति ।
ननु तव्य­वि­हि­त­या­गानां समु­दा­या­नु­वा­दोऽ­य­मिति, तत्राह —
अपूर्वेति ।
तथाहि — यष्टव्य इति कर्मप्राधान्यं विष्ण्वा­दि­वाक्ये प्रतीयते, यागस्तूपसर्जनम् । तत्र कर्म­त्व­म­प्र­धा­नी­कृत्य यागप्राधान्यं लक्षणीयं, कर्मतया च देवतात्वं ततो गुरुतरा कल्पना । अन्तरावाक्ये तु श्रुतं यागप्राधान्यं विधिश्च पञ्चमलकाररूपः । यत्तु रूपाभाव इति तन्न; ध्रौवाज्यलाभात् । आग्ने­या­दी­न्या­गा­न्क्र­मे­णा­म्नाय मन्त्रकाण्डे तत्क्रमेणैव याज्यानुवाक्या आम्नाताः, तत्रो­पां­शु­या­ज­स्थाने वैष्ण­व­प्रा­जा­प­त्या­ग्नी­षो­मी­या­स्तिस्र ऋचः पठ्यन्ते; ताभि­स्तु­ल्या­र्थ­त्वेन विक­ल्प्य­मा­ना­भि­र्वि­ष्ण्वा­दि­दै­व­तानां समर्पितत्वात् । तस्मादपूर्व उपांशुयाजो विधेयः । विष्ण्वा­दि­वा­क्यानि त्वर्थवादा । इत्थं मही­या­नु­पां­शु­याजो यद­स्मि­न्वि­ष्ण्वा­दयो यष्टव्या इति ।
एवं वाक्या­न्त­रा­णा­मिति ।
ऎतरेयके – ‘‘आत्मा वा इदमेक एवे’’ त्युपक्रम्य ‘‘स एतमेव पुरुषं ब्रह्म ततमपश्य’’दिति ‘‘तमेव ब्रह्मा­त्मा­न’’म­भि­धाय समाप्तौ ‘‘प्रज्ञानं ब्रह्मे’’ त्युपसंहृतम् । वाजसनेयकेऽपि – ‘‘अहं ब्रह्मा­स्मी­त्यु­प­क्रम्य ‘‘ , ‘‘ अयमात्मा ब्रह्मे’’त्यु­प­सं­हृ­तम् । आथर्वणे – ‘‘ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति’’ सर्वात्मकं ब्रह्मोपक्रम्य ‘‘ब्रह्मै­वे­द­म­मृतं पुरस्तादिति’’ तदेव निगमितम्॥
वेदान्ता यदि सिद्ध­व­स्तु­प­रा­स्तर्हि मानान्तर सापेक्षाः स्युः पुंवाक्यवदिति पूर्व­वा­द्य­भि­म­तस्य प्रसङ्गे हेतोः पौरुषेयत्वेन सोपाधिकत्वं भाष्य­ग­ता­पि­श­ब्देन द्योत्यत इत्याह —
अयमभिसंधिरिति ।
तस्यै­वा­नै­का­न्ति­क­त्व­माह —
प्रत्य­क्षा­दी­ना­म­पीति ।
वाक्यस्य सतः सिद्ध­व­स्तु­प­रत्वे पौरु­षे­य­त्वा­प­त्ति­रिति साध­न­व्या­प्ति­मु­पाधेः शङ्कते —
यद्युच्येतेति ।
वाक्यत्वादि लिङ्गं यस्य तत्तथा ।
कार्यपरतायां हि वेदान्तानां न वाक्यत्वादिना सापे­क्ष­त्व­म­नु­मेयं, पौरु­षे­य­त्व­स्यो­पा­धि­त्वात् एवं न च साध­न­व्या­प्ति­रि­त्याह —
कार्यार्थत्व इति ।
तत्त्वेन= याथात्म्येन ।
कार्ये माना­न्त­रा­यो­ग्य­त्व­स्या­सि­द्ध­त्वा­त्त­त्प­र­त्वेऽपि वेदान्तानां पौरुषेयत्वं संभवतीति समा साधनव्याप्तिः, तश्च दुरपवादं वाक्य­त्वा­दि­लि­ङ्गकं पौरु­षे­य­त्व­मि­त्या­श­ये­नाह —
अत्र ब्रूम इत्यादिना ।
किं पुनरिति ।
कृतियोग्यस्य कार्यत्वे भावार्थस्यापि तत्त्वेन माना­न्त­र­यो­ग्य­त्व­मि­त्यर्थः ।
तर्ह्यलौकिकं कार्यमिति शङ्कते —
अपूर्वमिति ।
तर्हि मानान्तरानवगते संग­ति­ग्र­हा­यो­गा­ल्लि­ङ्गा­दी­ना­म­बो­ध­क­त्वा­पात इत्याह —
हन्तेति ।
ननु यजेतेति श्रुतेः कार्यता भात्य­तोऽ­पू­र्व­सि­द्धि­रिति, तत्राह —
लोकानुसारत इति ।
स्वर्ग­का­म­प­द­स­म­भि­व्या­हा­र­सं­ज्ञ­क­त­र्का­नु­गृ­ही­त­वे­दा­देव क्रिया­वि­ल­क्ष­णा­पूर्वे लिङ्गादीनां संबन्धग्रह इति शङ्कते —
स्वर्गकाम इति ।
अयं तर्कोऽ­ति­प्र­स­ङ्गी­त्याह —
चैत्येति ।
कर्तृ­स्म­र­णा­त्स्पृ­ष्ट­दृ­ष्ट­पौ­रु­षे­य­त्वेन बुद्धा­दे­व­चै­षा­म­का­र्या­र्थत्वे वेदानामपि पौरुषेयत्वस्य वाक्य­त्वा­दि­नाऽ­नु­मि­त­त्वा­द­का­र्या­र्थत्वं समानमित्यर्थः ।
स्मर्य­मा­ण­क­र्तृ­क­त्वेन वाक्यत्वादि सोपा­धि­क­मि­त्या­शङ्क्य सिद्धा­र्थ­वे­दा­न्ते­ष्वपि तत्सममतः कार्या­र्थ­त्व­म­न­पे­क्ष­ता­या­म­प्र­यो­ज­क­मि­त्याह —
अन्यतस्त्विति ।
वर्त­मा­न­सं­प्र­यो­ग­ज­प्र­त्य­क्षस्य कार्य­रू­प­ध­र्म­गो­च­र­त्वा­नु­प­प­त्ते­र्यो­ग­सा­म­र्थ्य­स्या­पी­न्द्रि­य­वि­ष­ये­ष्वे­वा­ति­श­य­का­रि­त्वान्न धर्मस्य प्रत्यक्षता, लिङ्गा­द्य­भा­वाच्च नानुमेयत्वादि, नचाज्ञाते पुंसां वचनरचना संभविनीति वैदिकी रचना न पौरुषेयीति न्यायकणिकायां व्युत्पादितम् ।
नन्व­पौ­रु­षे­य­त­याऽ­न­पे­क्ष­त्वे­प्य­ग्नि­र्हि­मस्य भेष­ज­मि­ति­व­न्मा­ना­न्त­र­गृ­ही­त­ग्रा­हि­त्व­मि­त्या­शङ्क्य तत्त्वमसीति, ब्रह्मा­त्म­भा­व­स्येति भाष्यशेषेण परिहृतमित्याह —
न चानधिगतेति ।
सर्व­स्मि­न्नु­प­पा­दि­तेऽर्थे भाष्यं संवादयति —
तदिदमिति ।
सिद्धार्थत्वे सत्य­पु­रु­षा­र्थ­नि­ष्ठत्वं स्यादिति द्विती­य­पू­र्व­प­क्ष­बी­जम् ।
सर्व­क्ले­श­प्र­हा­णा­दिति भाष्य­स्थ­प्र­श­ब्दा­र्थ­माह —
सोऽ यमस्येति ।
बाह्या­नु­ष्ठा­ना­न­पे­क्ष­म­ज्ञा­न­नि­वृ­त्त्या­न­न्दा­वि­र्भा­व­फ­ल­म­न्व­य­व्य­ति­रे­कि­नि­द­र्श­न­यु­ग­ल­द्व­य­प्र­द­र्श­न­पु­रः­सरं ब्रह्मज्ञानस्य दर्शयति —
एत­दु­क्त­मि­त्या­दिना ।
ग्रैवेयकं ग्रीवालङ्कारः ।
समूलघातमिति ।
कषा­दि­त्वा­द­नु­प्र­योगः । सह मूले­नो­प­ह­न्ती­त्यर्थः ।
समारोपितनिबन्धन इति ।
समा­रो­पि­ताऽ­विद्या निबन्धनं यस्य जीवभावस्य स तथोक्तः । आत्मानमेव लोकं=चैतन्यम् । देवता=सगुणं ब्रह्म । आदिशब्दात् प्राण­वि­शु­ध्द्यादि गृह्यते ।
उपा­स­ना­वा­क्यै­क­दे­श­मु­पा­स्य­स­म­र्थकं विविनक्ति —
आत्मेतीति ।
यदवादि पूर्वपक्षिणा न क्वचिदपि वेदवाक्यानां विधि­म­न्त­रे­णा­र्थ­व­त्तेति, तत्र किं यदि वेदान्ता विधिमन्तरेण प्रमाणं, तर्ह्यर्थवादाः किं न स्युरिति प्रतिबन्दी मता, अथवा वेदवाक्यस्य सिद्ध­प­र­स्या­न्य­त्रा­द­र्श­ना­द्व्या­प्त्य­भा­वेन न वेदान्तानां सिद्ध­व­स्तु­प­र­त्व­मिति ।
आद्य­म­र्थ­वा­दा­धि­क­र­ण­पू­र्व­पक्षं संगृ­ह्ण­न्ना­श­ङ्कते —
स्यादे­त­दि­त्या­दिना ।
रुदतो यदश्रु अशीर्यत तद्र­ज­त­म­भ­व­त्त­स्मा­द्र­ज­त­म­द­क्षि­ण्य­मिति निन्दा ।
बर्हिषि बर्हिःसाध्ये यागे, रजतं न देयमिति निषेधशेष इति सिद्धान्तं दर्श­य­न्न­र्थ­वा­दानां नोपे­क्षा­फ­ल­त्व­मिति तावदाह —
स्वाध्यायेति ।
प्रयो­ज­न­प­र्य­व­सा­यि­बो­ध­ज­न­क­त्व­त­द­भा­वाभ्यां विशेषं दर्श­य­न्प्र­ति­बन्दीं परिहरति —
न च वेदान्तेभ्य इति ।
ननु निषेध एव स्वनि­षे­ध­स्या­न­र्थ­हे­तु­त्वा­न्य­था­नु­प­पत्त्या निन्दां कल्पयिष्यति, नेत्याह —
तद्यदीति ।
अर्थवादादेव निन्दालाभे निषेधकस्य निषेधे निन्दायां च तात्पर्तं न कल्प्यमित्यर्थः ।
ननु ‘सोऽरोदीदिति’ वाक्ये निन्दा न भाति, कितु भूतानुवाद इत्याशङ्क्य मुख्यार्थे प्रयो­ज­ना­भा­वा­न्निन्दा लक्ष्यत इत्याह —
लक्ष्यमाणेति ।
द्विती­य­मु­द्भाव्य निषेधति —
ननु विध्यसंस्पर्शिन इत्यादिना ।
तच्च स्वत इत्युपपादितं न्याय­क­णि­का­या­मि­त्यर्थः ।
ननु प्रमायाः कार्येण प्रमाणानां तज्ज­न­क­त्व­म­नु­मेयं, कथं नानुमानगम्यमिति भाष्य­मि­त्या­श­ङ्क्याह —
यद्यपीति ।
कार्या­र्था­प­त्त्य­प­र­प­र्या­या­नु­मा­नेन मानान्तरेण वा प्रमा नोत्पद्यते, किंतूदितायां तस्यामनुमानं प्रवर्तत इत्यर्थः । प्रमाणान्तरं तावदपेक्ष्यमाणं न दृश्यते ।
एत­द­र्था­प­त्त्य­पे­क्षणे दूषणमाह —
नापीति ।
अपेक्षत इत्यनुषङ्गः । उत्पन्नायां प्रमायां प्रमाणानां प्रमा­ज­न­क­त्व­स्या­नु­मानं, ततश्च प्रमो­त्प­त्ति­रिति पर­स्प­रा­श्र­य­प्र­सङ्गः । शास्त्र­प्रा­मा­ण्य­म­नु­मा­न­ग­म्य­त्वेन न भवतीति च भाष्यार्थो न पुनरनुमानेन ज्ञेयमिति ।
कार्य­वि­र­हि­वे­दा­न्तेभ्यः प्रमा यद्युत्पद्यते, तदा स्वतः परतो वेति चिन्ता, ननूत्पद्यत इत्यत आह —
ईदृगिति ।
सिद्धे ब्रह्मणि वेदान्तेभ्यः प्रमो­त्प­त्ति­र­नु­भ­व­सि­द्धे­त्यर्थः ।
यद्य­नु­भ­व­सि­द्धा­प्य­न्यत्र सिद्धा­र्था­र्थ­वा­दा­दा­व­द­र्श­ना­द­प­हू­यत, तदाऽतिप्रसङ्ग इत्याह —
अन्यथेति ।
एवं ताव­त्सि­द्धे­र्थेऽपि प्रमा­णा­न्त­र­प­र­त­न्त्राणां पौरु­षे­य­वा­क्या­ना­म­ङ्गी­कृत्य प्रामाण्यं वेदान्तेषु क्रिया­वि­ष­य­ता­म­न्त­रेण नैर­पे­क्ष्य­पु­रु­षा­र्थ­प­र्य­व­साने न लभ्येते इति मतं, ब्रह्मा­त्मै­क्यस्य प्रमा­णा­न्त­रा­ग­म्य­त्वेन तद­व­ग­म­मा­त्रा­य­त्त­प्र­यो­ज­न­ला­भेन च पराणुदत् ।
इदानीं कार्या­न्वि­त­प­दार्थे पदसङ्गतिग्रहेण सिद्धं वस्तु न शब्दप्रमेयमिति वेदा­न्ता­नु­पा­स­न­नि­यो­ग­प­रान् ये मन्यन्ते, तन्मतेन पूर्वपक्षमाह —
अज्ञातेति ।
अथवा आरो­पि­त­ब्र­ह्म­भा­वस्य जीव­स्यो­पा­स्ति­परा वेदान्ता न ब्रह्मात्मत्वे प्रमाणमिति पूर्वः पक्षः ॥
‘अयं तु — सन्तु वेदान्ता मानं ब्रह्मा­त्म­व­स्तुनि । किंतु ज्ञान­वि­धि­द्वा­रे­त्येष भेदः प्रतीयताम्॥‘ अतएव भाष्यं यद्यपि शास्त्रप्रमाणकं ब्रह्मेति । तत्र कार्य­वि­ष­या­द्वा­क्याद् ब्रह्मनिश्चय इति प्रति­ज्ञा­सा­म­र्थ्या­देव, न सिद्धार्थादिति लभ्यते ।
तत्र हेतुः —
सिद्धे वस्तु­न्य­ज्ञा­त­स­ङ्ग­ति­त्वे­नेति ।
यत्र वृद्ध­प्र­यु­क्त­श­ब्द­वि­ष­यत्वं तत्र सङ्गतिः शब्दस्य गृह्यते, सिद्धेतु तद्व्यावर्तमानं स्वव्याप्यं सङ्गतिग्रहं व्याव­र्त­य­ती­त्य­भि­प्रे­त्याह —
यत्र हीति ।
लोकेनेति ।
वृद्धेः प्रयो­ग­व्या­प­क­व­क्तृ­वि­व­क्षा­श्रो­तृ­प्र­ति­प­त्ती­च्छ­यो­र­भा­वा­त्सिद्धे प्रयोगाभावमाह —
नचेति ।
रूपमात्रं= वस्तुमात्रम् ।
सर्वपदानां कार्यार्थत्वे सति पर्या­य­त्व­मा­शङ्क्य —
तत्र किंचिदिति ।
कार्यार्थः= कार्यशेषः । अत्र प्रयोगः — गोपदं न कार्यानन्विते गोत्वे गृहीतसंबन्धं, तत्र वृद्धै­र­प्र­यु­क्त­त्वात्, तुरगपदवत् ।
एवं सर्वत्र सिद्धे वस्तु­न्यु­त्त­म­वृ­द्धस्य शब्द­प्र­यो­गा­भा­व­मुक्त्वा मध्य­म­वृ­द्ध­प्र­वृ­त्ते­र्व्यु­त्प­त्ति­लि­ङ्ग­भू­ता­या­स्त­त्रा­भा­वाच्च तत्र न व्युत्प­त्ति­रि­त्याह —
अपिचेति ।
शास्त्र­त्वे­ने­त्या­दि­हे­तू­न्व्या­चष्टे —
अपिचेत्यादिना ।
न च रज्जुरिति ।
नकारोऽयं ‘सांसा­रि­क­ध­र्माणां न च निवृत्तिः’ इति उपरि सबन्धनीयः ।
यथाकथंचिदिति ।
सिद्ध­प­दा­र्थ­सं­स­र्गस्य नियो­गा­वि­ना­भा­वा­दि­हापि मा भैषीरिति नियोगं कल्प­यि­त्वाऽ­न्य­प­रा­देव वाक्या­त्सि­द्ध­रू­पा­र्थ­नि­श्चय इत्यर्थः ।
किंत्विति ।
आत्म­प्र­ति­प­त्ति­र्वि­ष­योऽ­व­च्छे­दको यस्य तत्तथा ।
ननु नियो­गोऽ­पू­र्व­मिति प्राभा­क­रै­र्वा­क्यार्थो वर्ण्यते, स किमन्य एव कार्यो नेत्याह —
तच्चेति ।
कार्यपरेभ्यो वेदान्तेभ्यः कथं वस्तु­सि­द्धि­रि­त्या­शङ्क्य विध्या­क्षे­प­ल­क्ष­णो­पा­दा­न­प्र­मा­णा­दि­त्याह —
नचेति ।
स्वप्र­ती­त्यु­पा­धि­त्वेन विषयस्य, स्वनि­र्व­र्त­क­त्वेन करणस्य, कार्यं स्वाव­च्छे­द­क­ज्ञा­न­नि­रू­प­णाय ज्ञाय­मा­न­मा­त्मा­न­म­पे­क्षते चेत्तर्हि न श्रौतत्वमात्मन इत्याशङ्क्य विध्या­क्षि­प्तस्य श्रौतत्वे गुरुसंमतिमाह —
यथाहुरिति ।
तत्सिद्ध्यर्थं= विधे­य­सि­द्ध्य­र्थम् ।
उपादीयते इत्यस्य व्याख्यानम् —
आक्षिप्यते इति ।
ज्ञानस्य प्रमा­त्वा­त्प्र­त्य­क्ष­वन्न विधेयता, आत्मनश्च नित्य­त्वा­त्त­द­योग इत्याशङ्क्याह —
विधेयता चेति ।
ज्ञानमिहोपासनं तच्च क्रिये­त्य­नु­ष्ठे­यम् । आत्मनस्तु स्वरू­प­स­त्ता­वि­नि­श्चि­ति­र­ज्ञा­त­ज्ञा­प्ति­र्वि­धे­य­तेति न विरोध इत्यर्थः ।
ननु वाग्धे­नू­पा­स्त्या­दा­वि­चा­रो­प्यस्य विधेयधीविषयत्वं किं न स्यादत आह —
आरोपितेति ।
ब्रह्मास्मीति ज्ञाने यादृगर्थो भाति तद्भाव आरोपितो यस्य स तथा । तस्यान्यस्य ज्ञाननिरूपकत्वे तेन प्रति­भा­स­मा­ना­र्थेन तज्ज्ञानं निरूपितं न स्यात् । न च सत्यां गतौ युक्त आरोप इति । इयचं प्रति­प­त्ति­वि­धि­वि­ष­य­त­येति भाष्यस्य व्याख्या । प्रति­प­त्ति­वि­धे­र्नि­यो­गस्य विष­य­भू­त­प्र­ति­पत्तिं प्रत्य­व­च्छे­द­क­त्वेन विषयतयेति भाष्यार्थः ।
एवमाहवनीयादयोऽ पीति ।
‘यदाहवनीये जुह्वती’ति विहिते क आहवनीय इति वीक्षायां ‘वसन्ते ब्राह्म­णोऽ­ग्नी­ना­द­धी­ते’त्या­दि­वि­धिभिः संस्का­र­वि­शि­ष्टोऽ­ग्नि­रा­ह­व­नीयो गम्यते, तथाऽ­पू­र्व­दे­व­ता­स्व­र्गा­दिकं विधिपरेणैव शास्त्रेण समर्थ्यते ।
श्लोको­क्त­हे­तु­द्वयं भाष्येण सङ्गमयति —
प्रवृ­त्ति­नि­वृ­त्ति­प­र­स्येति ।
‘तद्भूतानाम्’ (जै.अ.१.पा.१.सू,२५) इति सूत्रोदाहरणेन कार्या­न्वि­तेऽर्थे शब्दसङ्गतिर्न सिद्ध इत्युक्तम् । ‘आम्नायस्य’ (जै.अ.१.पा.२.सू.१५) इत्ये­त­द्वि­हा­ये­त­र­वाक्यैः प्रवृ­त्त्या­दि­प­रस्य शास्त्र­त्व­मु­क्तम् ।तेन तु सिद्धरूपपरस्य न शास्त्र­त्व­मु­क्तम् । तस्य वेदस्य, कर्मावबोधो नियोगज्ञानं दृष्टं प्रयोजनं । चोदनासूत्रे (जै.अ.१.पा.१.सू.२) चोदनेति शब्देन क्रियाया नियो­ग­स्या­नु­ष्ठा­पकं वचनमाहुरिति । तत्तेश्च पदार्थेषु भूतानां वर्तमानानां क्रिया कार्यं, तदर्थत्वेन समाम्नायः समु­च्चा­र­ण­मि­त्यर्थः ।
नचेति ।
नियोगस्य स्वकीयत्वेन बोद्धारं नियोज्यम् अधिकारणं कर्मणि स्वामिनं, तत्रैव कर्तारम् अनुष्ठातारम् इति । नियोज्यभेदो नियोज्यविशेषः ।
अमृतत्वकाम इति अश्र­व­णा­न्नि­यो­ज्य­सि­द्धि­मा­श­ङ्क्याह —
ब्रह्मवेदेति ।
भवतीति सिद्ध­रू­पे­णा­व­ग­तस्य फलस्य साध्य­त्वा­भि­व्य­क्त्य­र्थम्, एवं­का­म­श­ब्द­वा­च्य­नि­यो­ज्य­वि­शे­षा­का­ङ्क्षायां विपरिणामेन ब्रह्म बुभू­षु­र्वि­द्या­दिति वाक्यार्थः स्यादित्यर्थः॥
रात्रिसत्रेति ।
चतुर्थे चिन्तितम् – ‘क्रतौ फला­र्थ­वा­द­म­ङ्ग­व­त्का­र्ष्णा­जिनिः’ (जै.अ.४.पा.३.सू.१७) । प्रतितिष्ठन्ति ह वा ए एता रात्री­रु­प­यन्ती’ति श्रूयते । तत्र रात्र­श­ब्दे­ना­यु­र्ज्यो­ति­रि­त्या­दि­वा­व्य­वि­हिताः सोमयागविशेषा उच्यन्ते । किमत्र स्वर्ग एवा­धि­का­रि­वि­शे­ष­ण­मुत प्रतिष्ठेति संशयः । तत्रैवंकाम इत्य­श्र­व­णा­द्वि­धि­श­क्ति­लभ्यः स्वर्ग एव विशेषणं, संदेहे हि वाक्य­शे­ष­स्वी­कारः, न निश्चये । निश्चितश्चेह सर्वाभिलषितः स्वर्गो विधि­सा­म­र्थ्या­न्नि­यो­ज्य­वि­शे­ष­णम् । या तु प्रतिष्ठाविषया श्रुतिः साऽपि लक्षणया स्वर्गपरैव कल्प्यत इति प्राप्तं । क्रतौ रात्रिसत्रादौ न प्रतिष्ठादि विव­क्षि­त­मि­त्ये­ता­व­न्मा­त्रे­णा­ङ्ग­व­दिति सूत्रे प्राया­जा­द्य­ङ्ग­फ­ला­र्थ­वा­दो­दा­ह­रणं, ननु तद्व­त्प­दा­र्थ­त्व­मस्ति रात्रिसत्राणाम् । एवं प्राप्ते — उच्यते; ‘फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्’ (जै.अ.४.पा.३.सू.१८) प्रतिष्ठाफलस्य निर्दे­शा­त्त­दे­वा­धि­का­रि­वि­शे­ष­णम् । यत्तु विधिशक्त्या स्वर्ग इति । तन्न; मुख्या­र्थ­श्रु­ति­प­दा­नु­गु­ण्येन विधिशक्तौ पर्य­व­सि­ता­या­मा­नु­मा­नि­क­स्व­र्ग­क­ल्प­नाऽ­न­व­का­शात् ।
तस्मा­द्वा­क्य­शे­ष­स्थ­मेव फलमिति ।
विश्व­जि­न्न्या­ये­नेति वक्तव्ये विश्वजिति नैमि­त्ति­का­धि­कारे फलकल्पना कृत्वाचिन्तयेति पिण्डपितृयज्ञः स्थिरो­दा­ह­र­ण­त्वे­नो­दा­हृतः ।
असमवेतार्थतयेति ।
अश्रूयमाणत्वेन ब्रह्म­भ­व­न­श­ब्दे­ना­स­म­वेतः स्वर्गोऽ र्थस्त­त्प­र­त­ये­त्यर्थः । यद्यपि ब्रह्मभवनस्य फल­त्वेऽ­प्ये­वं­काम इति लक्षणाऽस्तीति परोक्षवृत्तिता तुल्या; तथापि श्रुतं ब्रह्मभवनं न हीयते, हीयते तु पूर्वपक्षे ।
तदिदमुक्तम् —
अत्यन्तेति ।
पिण्ड­पि­तृ­य­ज्ञ­न्यायो ऽनुक्रम्यते । चतुर्थे एवं निरणायि – “पितृयज्ञः स्वका­ल­त्वा­द­नङ्गं स्यात्’ । (जै.अ.४.पा.४.सू.१९) ‘अमा­वा­स्या­या­म­प­राह्णे पिण्डपितृयज्ञेन चर­न्ती’त्य­त्रा­ना­र­भ्या­धी­त­वाक्ये श्रुतः पिण्डपितृयज्ञः क्रत्वर्थः पुरुषार्था वेति संशये कर्म­वा­च्य­मा­वा­स्या­श­ब्द­स­म­भि­व्या­हा­रा­त्त­द­ङ्ग­त्वम् । यद्यपि कालस्यापि साधारणोऽयं शब्दः; तथापि फल­क­ल्प­ना­प­रि­हा­राय कर्मवाच्येव अतः क्रत्वर्थ इति प्राप्ते — सिद्धान्तः; काल­क­र्म­सा­धा­र­णोऽ­प्य­मा­वा­स्या­श­ब्दोऽ­प­रा­ह्ण­श­ब्द­स­मा­ना­धि­कृत इह कालपर एव । न च साधारण्यम्; काले रूढत्वात्कर्मणि च तत्संबन्धेन लाक्षणिकत्वात् । तस्मा­त्क­र्म­स­म­भि­व्या­हा­रा­भा­वा­द्वि­श्व­जि­न्न्या­येन (जै.अ.४.पा.३ सू.१५) स्वर्ग­का­म­नि­यो­ज्य­क­ल्प­नया स्वर्गफलः पिण्डपितृयज्ञ इति ।
ननु ज्ञानविधिर्यदि ब्रह्मभावफलः, कथं तर्हि भाष्येऽ­मृ­त­त्व­का­म­स्ये­त्युक्तं? तत्राह —
ब्रह्मभावश्चेति ।
अमृतत्वशब्देन ब्रह्म­भा­व­नि­र्दे­शस्य प्रयोजनमाह —
अमृतत्वं चेति ।
अत्र भाष्यकारेण ब्रह्मज्ञानं विधेयमिति निर्देशाद्, द्रष्टव्य इति विध्युदाहृतेश्च प्रमा­ण­ज्ञा­न­वि­ध्य­ङ्गी­का­रेण पूर्वपक्ष इति भ्रमः स्यात्, तन्निवर्तयति —
अत्रचेत्यादिना ।
दृशेरिति ।
द्रष्टव्य इति वाक्यो­पा­त्त­दृ­शि­धा­तो­रु­प­ल­ब्धि­व­च­न­त्वे­नो­पा­सनाऽ नभि­धा­य­क­त्वा­दि­त्यर्थः । स्वाध्या­य­वि­धे­र­र्था­व­बो­ध­प­र्य­न्त­त्वा­त्ते­नैव श्रव­ण­ज­न्य­ज्ञा­नस्य प्रापि­त­त्वा­दि­त्यर्थः । भावनया विधेयं जन्यं वैशद्यं यस्य तत्प्रत्यक्षं तथा ।
वाजिनवदिति ।
यथाऽ­मि­क्षा­र्थ­वि­हि­त­द­ध्या­न­य­ना­द्वा­जि­न­म­प्र­यो­ज­क­मा­नु­ष­ङ्गी­क­तया जायते, एव­म­दृ­ष्ट­रू­पा­मृ­त­त्वाय विहि­ता­दु­पा­स­ना­त्सा­क्षा­त्कारो नान्तरीयकतया जायत इति तदुत्पादनं न विधेयमित्यर्थः । चतुर्थे स्थितम् – ‘एकनिष्पत्तेः सर्वं समं स्यात्’ (जै.अ.४.पा.१.सू.२२) ‘‘तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मिक्षा वाजिभ्यो वाजिनमिति’’ श्रूयते । तत्र संशयः । किमामिक्षैव दध्यानयनं प्रयुञ्जीतेति वाजिनमपीति । तत्रै­क­स्मा­द्द­ध्या­न­य­ना­त्प­यसः सका­शा­दा­मि­क्षा­वा­जि­न­यो­र्नि­ष्पत्तेः सर्वमामिक्षादि प्रयोजकं स्यादिति प्राप्ते — सिद्धान्तः, ‘संस­र्ग­र­स­नि­ष्प­त्ते­रा­मिक्षा वा प्रधानं स्यात्’(जै.अ.४.पा.१.सू.२३) । अत्र हि दधिसंसृष्टं पय एव प्रकृतं देवतासबन्धि निर्दिश्यते सा वैश्वदेवीति, न पुनस्ततो निष्पन्नं किंचित्, तत्र नय­ते­र्द्वि­क­र्म­क­त्वा­द्य­त्प्रति दध्यानीयते तत्पयआनयनस्य संस्कार्यम् । संस्कार्यमेव प्रयोजकम् । संस्कृतस्य च पयस आमिक्षात्वात् तस्याश्च स्त्रीत्वा­स्त्री­लि­ङ्ग­म­वि­रु­द्धम् । ननु यदि दधिसंस्कृतं पय एव रूप­भे­देऽ­प्या­मिक्षा भूत्वा दध्यानयनं प्रयुञ्जीत, तर्हि वाजिनमपि दधिसंयुक्तं पय एवेति किं न प्रयुञ्जीत । नेत्युच्यते, संस­र्ग­र­स­नि­ष्पत्तेः; दधिसंसृष्टस्य पयसो यो रसः तस्या­मि­क्षा­या­मु­प­ल­म्भात्, रूपभेदेऽपि तस्यामस्ति संसृष्टं पय इत्यनुमीयते; रूपाभेदेऽपि तक्रपयसोरिव रसभेदोपलम्भात् न वाजिनेन ; तस्य कटु­ति­क्त­र­स­त्वा­दिति ।
हेतुद्वयविवरणेन पूर्व­कृ­ते­नो­त्त­र­ग्र­न्थस्य व्याख्यातत्वमाह —
अर्थवत्तयेति ।
‘वेदान्ता यद्युपासां विदधति, विधि­सं­शो­धि­मी­मां­स­यैव प्राच्या तर्हीरितार्था इति विफलमिदं ब्रह्मजिज्ञासनं स्यात् ।
अप्य­त्यु­च्चा­ति­नीचो जनि­मृ­ति­भ­य­भा­ग्वै­ध­धी­सा­ध्य­मोक्षः कर्मोत्थैः स्वर्ग­प­श्वा­द्य­ति­म­धु­र­फलैः कोऽपराधः कृतो नः॥‘ वेदान्ता यद्यु­पा­स­ना­वि­धि­पराः, तर्हि विहितोपासनायाः पक्ष­मा­सा­दि­का­ल­मि­त­तया तत्साध्यफलमपि सातिशयमनित्यं च स्यादतो न विधिपरत्वं वेदान्तानामिति तात्पर्यम् अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्यन्तस्य भाष्यस्य दर्शयति —
पुण्या­पु­ण्ये­त्या­दिना ।
भाष्ये यद्विषया जिज्ञासेति धर्मस्य प्राचि तन्त्रे विचा­रि­त­त्वो­क्ति­रु­पा­स्ते­रपि विहिताया धर्मत्वेन पुन­र­वि­चा­र्य­त्वाय । अध­र्मोऽ­पी­त्य­द­र्मोक्तिः पुण्यफलभोगावसान इवो­पा­स्ति­फ­ल­भो­ग­स­मा­प्ता­व­ध­र्म­फलं भोक्तव्यमिति दर्शनाय । चोद­ना­ल­क्ष­ण­त्वो­क्ति­र्या­ग­व­द्वि­हि­तो­पा­स्ते­र्ध­र्म­त्वा­र्थम् । एवं शरी­र­वा­गि­त्या­दि­वि­शे­ष­णानि कर्म­फ­ल­व­दु­पा­स्ति­फ­लस्य शरी­रो­प­भो­ग्य­त्वादि प्रसञ्जयितुम् । संप­त्त्य­ने­ना­स्मा­ल्लो­का­दमुं लोकमिति संपातः कर्म । इष्टं श्रौतम् । पूर्तं स्मार्तं वाप्यादि ।
दत्तं दानमिति ।
आत्यन्तिकमिति ।
देव­द­त्त­स्या­त्य­न्ति­क­म­श­री­रत्वं देव­द­त्त­श­री­र­प्रा­ग­भा­वा­स­मा­न­का­लीनो देव­द­त्त­श­री­र­ध्वंसः, सर्वो­पा­धि­प्र­त्य­स्त­म­यो­प­ल­क्षितं स्वरूपमिति यावत् ।
विधे­यो­पा­स्ति­वा­दिनं प्रति तत्फलस्य मोक्ष­स्या­नि­त्य­त्वा­दि­प्र­स­ञ्ज­न­मि­ष्ट­प्र­सङ्ग इत्याशङ्क्याह —
एतदुक्तमिति ।
उपास्तिविधेः फलं ब्रह्मा­त्म­त्व­मु­ता­वि­द्या­नि­वृ­त्ति­र्वि­द्यो­दयो वेति विकल्प्य क्रमेण निराकरोति —
त्वयापीत्यादिना ।
उपासनाऽपूर्वमपि चेतःसहकार्यतश्च विध्यवकाश इत्यर्थः ।
ऎहिकस्य मर्दनसुखवन्न विधि­फ­ल­त्व­मि­त्या­श­ङ्क्याह —
दृष्टं चेति ।
कारी­र्या­दि­नि­योगा इह जन्मनि निय­त­स­स्य­र्ध्द्या­दि­फलाः, चित्रा­दि­नि­यो­ग­फलं पश्वादि भुवि भोग्यमपीह वा जन्मान्तरे वा भवति ।
तत्कार्यमिति ।
तद­पू­र्व­क­र्त­व्य­त्वे­ना­व­बोद्धं नार्हतीत्यर्थः ।
अपूर्वं चेन्न साक्षा­त्का­रो­प­योगि, तर्ह्यु­पा­स­न­क्रि­यैव तदर्थं विधीयतां, नेत्याह —
न च तत्काम इति ।
नन्व­व­घा­त­व­दु­पा­स्ता­व­प्यस्तु नियमापूर्वं, नेत्याह —
न च ब्रह्मभूयादिति ।
नेह पर­मा­पू­र्व­व­न्नि­य­मा­पू­र्व­सा­ध्य­मस्ति; ब्रह्मभावस्य नित्य­त्वा­दि­त्यर्थः ।
विश्व­जि­न्न्या­ये­नेति ।
‘विश्वजिता यजे­ते’त्या­द्य­श्रु­ता­धि­कारं लिङ्ग­प्र­क­र­णा­ल­ब्धा­धि­कारं चोदाहरणम् । निषेधे हि साम­र्थ्या­त्प्र­वृ­त्ति­क्रि­योऽ­धि­कारी लभ्यते, अङ्गविधिषु तु प्रकरणादिति न चिन्त्योऽधिकारः । एवं सतीह संदेहः किं नियो­ज्योऽ­ध्या­ह्रि­यतां न वेति । तत्र लोके द्वारं द्वारमित्यादौ क्रियया विना कार­का­भि­धा­ना­प­र्य­व­सा­ना­द्यु­क्तोऽ­ध्या­हारः । इह तु विषयेण कार्य­स्या­न्वि­ता­भि­धा­न­प­र्य­व­सा­ना­द­न­ध्या­हारे प्राप्ते, उच्यते; अत्रा­प्य­भि­धे­या­प­र्य­व­सा­न­द्वा­रा­भि­धा­ना­प­र्य­व­सा­न­मेव । कार्यं हि साध्यत्वेन कृतिनिरूप्यम् । नरव्यापाररूपा च कृतिः, सा च यथा स्वसा­ध्य­धा­त्व­र्थ­नि­रू­प्यैवं स्वाश्र­य­न­र­नि­रूप्या । तदेवं कृतेः कर्तापि कार्ये कृतिद्वारा संबन्धित्वेन निरूपक इति तमन्तर्भाव्यैव नियोगधीः । नचा­सा­व­बु­द्ध्वाऽऽ­त्मनः कार्येण संबन्धं स्वतस्तेन संबध्यते । स्वसं­ब­न्धि­का­र्य­बोद्धा च नियोज्य इति सोऽध्याहार्य इति स्थिते चिन्ता — किं सर्वे­षा­म­ध्या­हारः, उत एकस्येति । तत्रा­वि­शे­षा­त्स­र्वे­षा­मिति प्राप्ते — उच्यते; एके­ना­का­ङ्क्षा­शा­न्ते­रे­क­स्येति । एवं स्थिते विचारः किं यस्य कस्य­चि­न्नि­यो­ज्य­स्या­ध्या­हारः, उत स्वर्गकामस्येति । तत्रा­वि­शे­षा­द­नि­यम इति प्राप्ते — उच्यते; ‘स स्वर्गः स्यात्स­र्वा­त्प्र­त्य­वि­शि­ष्ट­त्वात्’ । (जै.अ.४.पा.३. सू.१५) स्वर्गकाम एवाध्याहार्यः । विशेषो हि गम्यते, पुरुषाणां सुखा­भि­ला­षि­त्वात् ।दुः­ख­नि­वृ­त्ते­रपि तत्रै­वा­न्त­र्भा­वात् । दुःख­नि­वृ­त्तिस्तु न सुखाविनाभूता । सुषुप्ते सत्यामपि तस्यां सुख­ज­न्मा­द­र्श­नात्, अनवच्छिन्नस्य सुखस्य स्वर्ग­त्वा­त्तस्य च सर्वसुखविशेषात् प्रत्य­वि­शि­ष्ट­त्वा­द्वि­शेषे च माना­भा­वा­त्स्वर्ग एव नियोज्यविशेषणं स्यादिति । कृत्वाचिन्तेयम् । यः सत्रायावगुरेत्स विश्वजिता यजेतेति सत्र­प्र­वृ­त्त­स्या­व­गु­र­णो­प­रमे निमित्ते प्रायश्चित्ततया विहितत्वेन साधिकारत्वादिति ।
यत्किलेति ।
स्वाभा­वि­क­नि­त्य­चै­त­न्या­त्म­कस्य ब्रह्मा­त्म­त्वस्य साध्यत्वं व्याहतमित्यर्थः ।
भाष्ये कूटस्थनित्यमिति विशेषणं न परि­णा­मि­व्य­व­च्छे­दाय, सिद्धान्ते तन्नि­त्य­त्वा­सं­मते; अतो वैय­र्थ्य­मि­त्या­श­ङ्क्याह —
परे हीति ।
पर­भ्रा­न्ति­र्व्य­व­च्छे­द्ये­त्यर्थः ।
इदं तु पारमार्थिकमिति भाष्ये कूटस्थनित्यत्वे पारमार्थिकत्वं हेतूकृतं, तत्तदा घटेत, यदि यत्पारमार्थिकं तदविकृतमिति व्याप्तिः स्यात्, तदर्थं परिणामिनित्यस्य भ्रमसिद्धत्वमाह —
परिणामीति ।
परिणामो हि पूर्वरूपत्यागेन रूपान्तरापत्तिः ।
तत्र पूर्वरूपस्य सर्वात्मना त्यागेन रूपा­न्त­रो­त्पत्तौ जातस्य प्राक्तनरूपत्वं व्याहृ­त­म­तोऽ­नि­त्य­त्व­मि­त्युक्ते शङ्कते —
एकदेशेति ।
य एकदेशो नश्यति स धर्मिणः सकाशाद्भिन्न इति पक्षे न धर्मिणः परिणामः, किंत्वेकदेशस्य स चानित्य इति न परि­णा­मि­नि­त्य­त्व­सि­द्दि­रि­त्याह —
भिन्नश्चेदिति ।
नश्य­त­श्चै­क­दे­शस्य धर्म्यभेदे सर्वात्मना वस्त्वपगमान्न नित्यत्वमित्याह —
अभेदे इति ।
पक्ष­द्व­यो­क्त­दो­ष­प­रि­हा­रा­यै­क­मेव कार्यकारणात्मकं वस्तु तस्य कार्याकारेण परिणामित्वं, तानि च कार्याणि भिन्नानि, कारणाकारेण च नित्यत्वं तच्चाभिन्नमिति शङ्कते —
भिन्नाभिन्नमिति ।
यत्प्रा­मा­ण­वि­प­र्य­येण विरोधेन वर्तते तत्र विरुद्धमिति संप्रत्यय इत्यनुषङ्गः ।
एकस्य कार्यकारणरूपेण द्व्यात्मकत्वे प्रमाणमाह —
कुण्डलमिति ।
द्विरवभासेति ।
हेम हेमेति वा कुण्डलं कुण्डलमिति वेत्यर्थः ।
अपा­र्या­या­ने­क­श­ब्द­वा­च्य­त्वेन हेम­कु­ण्ड­ल­यो­र्भेदः सामा­ना­धि­क­र­ण्या­च्चा­भेद इत्युक्ते हेमत्वस्य कुण्ड­ल­व्य­क्त्या­या­श्रि­त­त्वाद्वा कुण्ड­ला­का­र­सं­स्था­नस्य कनकत्वस्य चैक­द्र­व्या­श्रि­त­त्वेन वा सामानाधिकरण्यं नाभे­दा­दि­त्या­शङ्क्य व्यभिचारयति —
आधारेति ।
आधारेति दृष्टान्ते सिद्धौ भेदाभेदौ दार्ष्टान्तिके योजयति —
तथाचेति ।
लोके कार्यस्य कुण्डलादेः कार­णा­त्म­क­त्वा­त्प­र­म­का­र­णस्य च सतः सर्वत्र हेमवदनुगमात् सन् घट इत्या­दि­सा­मा­ना­धि­क­र­ण्य­व­शेन जगतः कार्यस्य सत्ता कारणरूपेणाभेदो व्यावृ­त्त­का­र्य­रू­पेण च भेद इत्यर्थः ।
भेद इति ।
किं रूपा­दि­व­द्भा­व­रूपो धर्मः , उतैक्याभावः । नाद्यः; ऎका­न्ति­का­भे­दा­नि­षे­धात् ।
द्विती­य­मा­श­ङ्क्याह —
किमयं कार्येति ।
तत्त्वेनेति ।
कट­क­त्व­व­र्ध­मा­न­क­त्व­रू­पेण तयो­रि­त­रे­त­रा­भे­द­प्र­सङ्ग इत्यर्थः ।
कार्यस्य कारणाभेदे च सर्व­का­र्या­णा­मे­क­का­र्या­त्म­क­त्व­प्र­सङ्गः ; एककार्यस्य सर्व­का­र्या­भि­न्नेन कार­णे­ना­भे­दा­दि­त्याह —
अपिचेति ।
एव­मे­क­का­र्या­त्म­क­त्वा­दि­त­र­का­र्याणां तस्य च कार­णा­द­भे­दा­द्भे­दा­सि­द्दा­वै­का­न्ति­का­द्वै­ता­पात इत्याह —
तथाच हाटकत्वमेवेति ।
कटकस्य हि द्वे रूपे स्तो हाटकत्वं कटकत्वं च ।
तत्र हाटकरूपेणास्य कुण्डलादिभिरभेद इष्ट एव, न कटकरूपेण; व्यावृ­त्त­त्वा­त्त­स्येति प्रस्मृ­त­प­रा­भि­संधिः स्वप्रक्रियया शङ्कते —
अथेति ।
सिद्धान्ती तु कट­क­हा­ट­क­यो­र­भे­दा­द्धा­ट­कस्य कुण्ड­ला­दि­ष्व­नु­वृ­त्ते­र­भेदे कटकस्यापि तैरभेदः स्यादिति पूर्वोक्तमेव परिहारं स्मारयति —
यदि हाटकादिति ।
कटकस्य कुण्ड­ला­दि­ष्व­नु­वृ­त्त्य­न­भ्यु­प­गमे तेष्व­नु­वृ­त्त­हा­ट­का­द­भे­द­भावः स्यादिति प्रतिजानीते नानुवर्तते चेदिति ।
अनु­वृ­त्ता­द्व्या­वृ­त्तस्य भेदे व्याप्तिमाह —
येहीति ।
उपनयमाह —
नानुवर्तन्ते इति ।
अर्था­द्धे­तु­सि­द्धि­र्द्र­ष्टव्या ।
निगमयति —
तस्मादिति ।
कुण्डलादिषु हेमानुवृत्त्या यदि तद­भे­दा­त्क­ट­का­दी­ना­म­नु­गमः; तदा सत्तानुवृत्त्या सर्व­व­स्तू­ना­मि­त­रे­त­रा­भे­दा­प­त्ते­र्व्य­व­हा­र­प­रि­प्लव इत्याह —
सत्तेति ।
इति विभागो न स्याद् इत्यस्य प्रत्येकं संबन्धः । इह क्षीरे इदं दधि नेदं तैलमिति संस­र्ग­त­द­भा­व­व्य­वस्था न स्यात् । इदं पटा­दि­क­म­स्मा­त्कु­ड्या­द्भि­द्यते इदं कुड्य­म­स्मा­त्कु­ड्यान्न भिद्यते इत्यसंकरो न स्यात् । इदानीं वसन्ते काले इदं कोकिलरुतमस्ति इदमम्बुदध्वानं नेति व्यवस्था न स्यात् । इदं कुम्भादि एवं कम्बु­ग्री­व­त्वा­दि­प्र­का­र­मिदं पटादि नैवमिति प्रकारासङ्करो न स्यादित्यर्थः ।
उक्तास्ववस्थासु हेतुमाह —
कस्यचिदिति ।
कुतश्चिदित्यपि द्रष्टव्यम् ।
इतश्च कार्यस्य कारणेन न वास्त­व­मै­क्य­मि­त्याह —
अपिचेति ।
निश्चि­त­क­न­का­द­भे­दान्न कुण्डलादिषु संशय इत्युक्ते संशयसंभवं भेदप्रयुक्त्या शङ्कते —
अथेति ।
सिद्धा­न्त्य­वि­नि­ग­म­माह —
नन्विति ।
हेमनिर्णयेन कटकादीनां निर्णये तदभेदः कारणं, तद­भा­वा­द्भे­द­रू­पा­न्नि­र्ण­य­का­र्या­भाव औत्सर्गिकः प्राप्तः, स कारणस्याभेदस्य भावादपोद्यते, घटसामग्रीत इव तत्प्रा­ग­भा­व­स्ततः कनकनिश्चये कट­का­दि­नि­श्च­या­द­वि­नि­गम एव न, किंतु वैपरीत्यनिश्चय इत्याह —
प्रत्युतेति ।
तेषां कुण्डलादीनां जिज्ञासा तद्विषयज्ञानानि चेत्यर्थः । वस्तुतः कार्य­का­र­ण­यो­र­भे­दा­भावं सप्र­मा­ण­क­मु­प­सं­ह­रति ।
तेनेति ।
यदि हेमकुण्डलयोर्न भेदाभेदौ, तर्हि सामानाधिकरण्यं न स्यात्, नह्यत्यन्तभेदे तद्भवति; कुण्ड­ल­क­ट­क­यो­र­द­र्श­नात् ।
नाप्य­त्य­न्ता­भेदे; हेम हेमे­त्य­नु­प­लं­भा­दिति पूर्व­वा­द्यु­क्त­म­नु­व­दति —
कथं तर्हीति ।
यदि हेम्नः सकाशात् कुण्डलादीनां भेदाभेदौ, तर्हि तेषा­म­नु­वृ­त्त­हेम्नः सकाशाद् अभे­दा­दि­त­रे­त­र­व्या­वृ­त्तिर्न स्यान्न हेम्नि निर्णीते संशय इति प्रतितर्केण मिथो विरोधाख्येन सामा­ना­धि­क­र­ण्या­नु­प­प­त्ति­तर्कं दूषयति —
अथेति ।
अत्यन्ताभेदे मा नामोपपादि हेमा­दे­र­नु­वृ­त्ति­व्या­वृ­त्ति­व्य­वस्था, माच घटिष्ट हेम्नि ज्ञाते कुण्ड­ला­दि­जि­ज्ञासा, भेदाभेदमते ते किं न स्याताम् , इत्याशङ्क्य पूर्वो­क्त­म­वि­नि­ग­म­मु­त्स­र्गा­प­वादं च स्मारयति —
अनैकान्तिके चेति ।
एवं निरुद्धे ऽनेकान्तवादिनि स्वमतेन सामा­ना­धि­क­र­ण्य­मु­प­पा­द­यति —
तस्मादिति ।
विरो­धा­द­न्य­त­र­बा­धेऽ­प्य­भेदो बाध्य इति सौग­त­म­त­मा­श­ङ्क्याह —
अभेदोपादानेति ।
भेदः किं धर्मि­प्र­त्ति­यो­गि­नो­र्व्या­सज्य वर्तते, उत प्रति­यो­गि­न­म­पेक्ष्य धर्मिण्येव ।
आद्ये धर्मि­प्र­ति­यो­गिनोः प्रत्ये­क­व­र्त्ये­क­त्वा­पे­क्षे­त्युक्त्वा द्वितीये धर्म्यै­क्या­पे­क्षे­त्याह —
एकाभावे चेति ।
ततः स्वस­त्ता­या­म­भे­दा­पे­क्ष­त्वा­द्भे­दस्य स एवाभेदेऽध्यस्त इत्यर्थः ।
प्रतीतावपि भेद­स्यै­वा­भे­दा­पे­क्षे­त्याह —
नायमिति ।
‘मृत्तिकेति’ श्रुतिः, कारणमेव सत्यमित्याह अतः —
अत्यन्ता भेदपरेति ।
अनं­श­त्व­मा­का­र­भे­द­रा­हि­त्यम् । नित्य­तृ­प्त­त्वा­दीनि श्रुत्यु­क्ता­न्येन भाष्येऽ­नू­दि­ता­नीति नासिद्धानि; कार्य­वि­ल­क्ष­णा­न­धि­ग­त­वि­ष­य­ला­भात् स्वमते शास्त्र­पृ­थ­क्त्व­सिद्धिः अत­स्त­द्ब्र­ह्मेति भाष्ये उक्ता ।
प्राग्वि­मो­क्ष­नि­त्य­त्वा­न्नि­यो­गा­योग उक्तः, इदानीं तत्साधनज्ञानस्य केव­ल­दृ­ष्टा­र्थ­त्वाच्च स उच्यत इत्याह —
तदेवमित्यादिना ।
उपपाद्य इत्यस्य निवारिका इत्याह इत्यनेन संबन्धः ।
एवं फलस्वभावेन नियो­गा­भा­व­मुक्त्वा फलि­ज्ञा­न­स्व­भा­वे­ना­प्यु­च्यत इत्याह —
अविद्याद्वयेति ।
स्वत इति ।
विहि­त­क्रि­या­रू­पे­णे­त्यर्थः । न्यायसूत्रे — दोषो रागादिः । प्रवृत्तिः कर्म ।
आरो­प्य­त्व­सा­म्येऽ­प्य­ध्या­सा­त्स­म्पदो भेदमाह —
मन इति ।
आरोप्यप्रधाना संपत्, अधि­ष्ठा­न­प्र­धा­नोऽ­ध्यासः । अरोपितस्तद्भावो ब्रह्मादिभावो यस्य तन्मनआदि तथा । वह्नादीनि । इत्या­दि­श­ब्दा­त्सू­र्य­च­न्द्रा­दयो गृह्यन्ते ।
वागादीनिति ।
चक्षुः­श्रो­त्र­म­नांसि संवृज्य उद्यम्य लयं गमयितुं चाल­यि­त्वे­त्यर्थः ।
संवरणादिति ।
उद्य­म­ना­दि­त्यर्थः । यो हि यदुद्यच्छति तत्स्ववशतया संवृणोतीति ।
सात्मीभावादिति ।
साम्येन कार­णा­त्म­त्वो­प­ग­म­ना­दि­त्यर्थः । यद्यपि श्रुतौ स्वापे प्राणः संवर्ग उक्तः; तथापि न्याय­सा­म्या­ल्ल­यस्य चात्र प्रक­ट­त्वा­त्प्रा­य­ण­मु­दा­हृ­तम् ।
अग्न्या­दे­रु­प­ल­क्ष­ण­त्वा­त्स­र्वा­श्र­यत्वं वायु­प्रा­ण­यो­रु­पा­स्य­मि­त्याह —
सेयमिति ।
दशाशागतं दशदिग्गतम् ।
संव­र्ग­दृ­ष्टान्तं निगमयति —
यथेति ।
दार्ष्टा­न्ति­क­माह —
एवमिति ।
बृंहणक्रियया देहा­दि­प­रि­ण­म­न­क्रि­यया ।
आत्म­द­र्श­नो­पा­स­ना­दय इति ।
दर्शनं प्रमितिः । एतच्च प्रमाणज्ञानं विधेयमिति मत­म­व­ल­म्ब्यो­क्तम् आदिशब्दो दृष्टान्तभूतमन आद्यु­पा­स्त्यर्थः ।
स्तुत­श­स्त्र­व­दिति ।
भेदलक्षणेऽभिदधे — स्तुत­श­स्त्र­योस्तु संस्कारो वाज्या­व­द्दे­व­ता­भि­धा­न­त्वात् (जै.अ.२.पा.१.सू.१३) ‘आज्यैः स्तुवते’ ‘प्रउगं शंसतीति’ स्तुतशस्त्रे समाम्नाते । आज्यप्रउगशब्दौ स्तोत्र­श­स्त्र­वि­शे­ष­ना­मनी । प्रगी­त­म­न्त्र­साध्यं देव­ता­दि­गु­ण­सं­ब­न्धा­भि­धानं स्तोत्रम् । शस्त्र­म­प्र­गी­त­म­न्त्र­सा­ध्यम् । ते किं देव­ता­प्र­का­श­ना­ख्य­सं­स्का­रा­र्थ­त्वेन गुणकर्मणी, उता­पू­र्वा­र्थ­त्वेन प्रधानकर्मणी इति संदेहे, गुण­सं­ब­न्धा­भि­धा­ना­द्गु­णिन्या देवताया अभिधानेन याज्या­व­त्क्र­तू­प­यो­गि­दे­व­ता­स्म­र­णस्य दृष्ट­त्वा­द्गु­ण­क­र्मत्वे प्राप्ते — सिद्धान्तः; ‘अपि वा स्तुति­सं­यो­गा­त्प्र­क­रणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम्‘ (जै.अ.२.पा.१.सू.२४) स्तुतिरिह विहिता श्रूयते ‘स्तौति’ ‘संसतीति’ । स्तुतिश्च गुणाभिधानेन स्वरूपप्रकाशनम् । यथा विशालवक्षाः क्षत्रिययुवेति । यत्रा­भि­धा­न­वि­वक्षा न तत्र स्तुतिं प्रतीमो, यथा यो विशा­ल­व­क्षा­स्त­मा­न­येति । तस्मात् स्तौतिशंसती श्रौतार्थलाभाय प्रकरणे अपूर्वोत्पत्तिं प्रति स्तोत्रशस्त्रे विदध्यातामिति । एवमिहात्मोपासनं प्रधानकर्म आत्मा भूतो भव्यशेष इति । अवेक्षितमिति निष्ठया आज्ये कर्मण्यवेक्षणं गुणीकृतम् ।
भाव्यु­प­यो­ग­मा­ज्य­स्याह —
दर्शपूर्णमासेति ।
पूषा­नु­म­न्त्र­ण­म­न्त्र­व­दु­त्कर्षं वारयति —
प्रकरणिना चेति ।
ग्रहणे हेतुमाह —
उपांश्विति ।
‘सर्वस्मै वेति’ वाक्या­त्स­र्वा­र्थ­म­प्या­ज्य­मु­त्प­त्ता­व­वि­हि­त­द्र­व्य­को­पां­शु­या­गा­ङ्गम्; आग्ने­या­दी­ना­मु­त्प­त्ति­शि­ष्ट­पु­रो­डा­शा­द्य­व­रो­धात् । सत्य­प्य­त्रा­ज्य­भा­गा­द्य­ङ्गे­ष्वा­ज्य­नि­वेशे न प्रधा­न­ह­वि­ष्ट्व­मिति ।
द्रव्य­सं­स्का­र­कस्य गुणकर्मत्वे जैमि­नी­य­सू­त्र­मु­दा­ह­रति —
यैस्त्विति ।
(जै.अ.२. पा.१ सू.८) यैर­व­घा­ता­दि­भि­र्द्रव्यं चिकीर्ष्यते, संस्का­र्तु­मि­ष्यते गुणस्तत्र प्रतीयेत, द्रव्ये गुणभूतं कर्म प्रती­ये­ते­त्यर्थः ।
आत्मो­पा­स्त्यादेः संस्कारकर्मत्वं प्रक­र­णा­द्वा­क्याद्वा भवद्भवेत्, नाद्य इत्याह दृष्टा­न्त­वै­ष­म्य­पू­र्वकं —
दर्शपूर्णमासेति ।
न द्वितीय इत्याह —
न चानारभ्येति ।
यद्ययमिति ।
विधित्वाभावो हि पूर्व­प­क्षो­प­न्यासे वर्णित इति ।
सुवर्णं भार्यमितिवदिति ।
शेष­ल­क्ष­णेऽ­भि­हि­तम् – ‘अद्र­व्य­त्वात्तु शेषः स्यात्’ (जै.अ.३.पा.४.सू.२७) ‘तस्मात्सुवर्णं हिरण्यं भार्यं दुर्वर्णोऽस्य भ्रातृव्यो भव­ती’त्य­ना­र­भ्या­धीते संशयः —
किं शोभ­न­व­र्ण­हि­र­ण्य­धा­रणं क्रत्वङ्गमुत पुरुषधर्मः इति । तत्र फल­क­ल्प­ना­भ­या­त्क्र­तु­नि­वेशः, दुर्वर्ण इत्यादि त्वेवं­का­म­श­ब्द­वि­र­हान्न फलपरम् । न च सत्र­व­द्वि­प­रि­णामः; क्रत्वङ्गत्वेन गतिसंभवात्॥ तथाच वैदि­क­क­र्म­त्व­सा­म्या­द­ग्नि­हो­त्रा­दि­प्र­क­र­ण­नि­वेश इति प्राप्ते — अद्रव्यत्वाद् द्रव्य­दे­व­ता­सं­ब­न्ध­रा­हि­त्यान्न स्वतन्त्रं कर्म, किंतु क्रतुशेष इति सूत्रार्थः । सिद्धान्तस्तु – ‘अप्रकरणे तु तद्धर्मस्ततो विशेषात्’ (जै.अ.३.पा.४.सू.२६) । तद्धर्मः पुरुषधर्म एवं जातीयकः । यतोऽ­प्र­क­र­णेऽ­य­मा­म्नातः प्रक­र­णा­धी­ता­द्ध­र्मा­द्वि­शि­ष्यते । नचाहवनीये जुह्वतीति होमा­नु­वा­दे­ना­ह­व­नी­य­वि­धा­न­व­त्क्र­त्व­नु­वा­देन धारणं विहितं, येन साक्षाद्वाक्येन क्रतुसंबन्धि भवेत् । नाप्य­व्य­भि­चा­रि­क्र­तु­सं­ब­न्धा­श्र­य­द्वारा वाक्यात्पर्णमयी ताव­त्क्र­तु­मु­प­नि­प­तेत्; सुवर्णधारणस्य लोकेऽपि विद्यमानत्वेन क्रत्व­व्य­भि­चा­रा­भा­वात् । तस्मा­द्वि­नि­यो­ग­भ­ङ्गेन हिरण्यसाधनकं धारणं वाक्यशेषगतफलाय विधीयते इति पुरुषधर्म इति । एव­मि­हा­प्या­त्म­सा­ध­न­क­द­र्श­ने­ना­मृ­तत्वं भावयेदिति विधानात् प्रधा­न­क­र्म­तै­वेति । अपूर्वं विषयो जन्य­म­स्ये­त्य­पू­र्व­वि­ष­यम् । न केवलम् इक्षु­क्षी­रा­दि­र­स­वि­शेष एवानभिधेयः प्रतीयते, अपि तु सर्व­वा­क्या­र्थोपि ।
तथा सति ब्रह्मा­प्य­न­भि­धे­य­मेव वेदा­न्त­ता­त्प­र्य­ग­म्य­मि­त्याह —
एवमन्यत्रापीति ।
गामानयेति हि वाक्ये गवा­न­य­न­क­र्त­व्य­तार्थः, सोऽपि साधारण इति न विवक्षितगवानयनं वक्ति वाक्यं, प्रकरणादिवशेन त्वर्था­त्त­त्सि­द्धि­रिति ।
अदू­र­वि­प्र­क­र्षे­णेति ।
साक्षा­द­न­भि­धा­ना­दस्ति विप्रकर्षः । स चादूरे वस्तु­ग­त­ध­र्म­प­रा­म­र्श­द्वारा वस्तुविशेषस्य लक्षणया प्रतिपादनादिति प्रत्य­गा­त्म­त्वे­ना­वि­ष­य­तया प्रतिपादयति ।
भाष्यं व्याचक्षाणो वेदा­न्ता­ना­म­दू­र­वि­प्र­क­र्षेण वस्तु­बो­ध­क­त्व­मु­प­पा­द­यति —
त्वंपदार्थोहीति ।
व्याप्नोतीति ।
यत्त­द­वि­द्या­वि­ल­सि­त­मि­त्यर्थः । तत् तत्र सतीत्यर्थः । अवि­ष­यी­भू­तो­दा­सी­न­त­त्प­दा­र्थस्य प्रत्यगात्मनश्च तत्त्वमसीति सामा­ना­धि­क­र­ण्ये­नास्य संसारिणः प्रमा­तृ­त्वा­भा­वा­त्त­न्नि­वृत्तो प्रमित्या प्रमेयं व्याप्नो­ती­त्ये­वं­भा­वस्य निवृत्तौ त्रयः प्रकारा निवर्तन्त इत्यर्थः ।
विगलितेति ।
विगलिता पराक्त्वेन वृत्तिर्वर्तनं यस्य स विग­लि­त­प­रा­ग्वृ­त्ति­स्ता­दृशः प्रत्य­क्त्व­मा­पन्नो ऽर्थो यस्य तद्वि­ग­लि­त­प­रा­ग्वृ­त्त्यर्थं तस्य भाव­स्त­त्त्व­मे­तत् । तदः =तत्पदस्य ।
तदा काले भवति । कदेत्यत आह —
त्वमिति हीति ।
तदा तत्पदेन । एकार्थस्यैव व्याख्या विशुद्धेति । आन्तरश्लोकः— मध्यश्लोकः ।
परपक्षे इति ।
साध्य­श्चे­न्मोक्षोऽ भ्युप­ग­म्ये­ता­नित्य एव स्यादिति भाष्ये­णा­पा­दि­तै­वा­नि­त्य­ताऽ­नू­द्यते, नित्येऽपि मोक्षेऽ­वि­द्या­नि­वृ­त्ति­सं­स्कारः कर्मसाध्य इति पक्ष­प्र­ति­क्षे­पे­णा­नि­त्यत्वं स्थाप­यि­तु­मि­त्यर्थः । उपवेलं वेलायाः समीपे, विकृतः ।
तत्र हेतुः —
अतिबहुलेति ।
समुल्लसन्तः फेनपुञ्जस्तबका यस्य तस्य भावस्तत्ता । पोतेन दीव्यति व्यवहरतीति पौतिकः । अशु­द्धि­र्ब्र­ह्मणि सती, उतासती । प्रथमस्तु भिन्ना­भि­न्न­वि­क­ल्प­नाभ्यां निरसनीयः ।
चरमं निरस्यति —
न त्विति ।
अना­द्य­वि­द्या­म­लेति ।
शङ्कि­तु­र्वा­स्त­व्य­वि­द्याऽ­भि­म­तेति ।
ननु नित्य­शु­द्ध­त्वा­दा­त्मनि न हेयत्वसंभव इत्युक्ते कथं शङ्काऽत आह —
एतदुक्तमिति ।
ब्रह्मणि नाविद्या, किंतु जीवे; सा चानि­र्वा­च्ये­त्यु­क्त­म­ध्या­स­भाष्ये । तथाविधा च ज्ञान­नि­र­स्ये­त्यु­पा­स्ति­र्वि­फ­ले­त्यर्थः ।
निघ­र्ष­ण­व्या­ख्या­नम् —
इष्टकेति ।
एतच्च धात्वर्थः संयो­ग­वि­भा­गा­वे­वेति मतमाश्रित्य ।
अन्याश्रया त्विति ।
यद्यपि स्पन्दरूपा भावना चैत्राश्रिता दर्प­ण­स्यो­प­क­रोति; तथापि संयो­ग­वि­भा­गा­ख्य­धा­त्व­र्थ­द्वारा तौ च नात्मनीत्यर्थः । संयो­ग­वि­भा­गा­ति­रि­क्त­धा­त्व­र्त­प­क्षेऽपि समानं, धात्वर्थस्य संयो­ग­वि­भा­ग­द्वा­रा­ति­श­य­ज­न­क­त्वात् । नचात्मनि क्रिया­ज­न्या­ति­श­य­सं­भव इति । तदा तच्छब्देन, बाध्ये­र­न्नि­त्युक्तं बाधनं परामृशति, तद् अव्यवहितम् । अनि­त्य­त्व­मा­त्मनः प्रस­ज्ये­ते­त्युक्तं त्वनित्यत्वं व्यवहितमिति ।
ननु देहा­दा­व­हं­वि­भ्र­म­वत एव संस्का­र्य­त्व­मिति कथम्, स्वत एव किं न स्यात्? अत आह —
अना­द्य­नि­र्वा­च्येति ।
ननु नावि­द्या­मा­त्रो­प­हिते सुषु­प्त­व­द्व्य­व­हा­र­सि­द्धि­रत आह —
स्थूलेति ।
स्थूलसूक्ष्माणि च तानि यथाक्रमं शरीरेन्द्रियाणि । आदि­श­ब्दा­त्प्रा­णा­दयः ।
संहतत्वमपि न तटस्थत्वेन तत्संयोगित्वं, किंतु तत्र प्रवि­ष्ट­त्व­मि­त्याह —
तत्संघातेति ।
प्रवेशोऽपि न भेदेन प्रति­भा­स­मा­न­त्वेन, किंतु ऎक्या­ध्या­से­ने­त्याह —
तदभेदेनिति ।
अङ्ग­रा­ग­श्च­न्द­नादिः ।
फलितमाह —
तेनेति ।
देहा­दा­वै­क्ये­ना­ध्यस्ते आत्मनि क्रियाऽरोप्यते, तज्ज­न्य­सं­स्का­रश्च अतो नान्या­श्रि­त­क्रि­या­फ­ल­भा­क्त्व­म­न्य­स्येति न व्यभिचार इत्यर्थः ।
आरो­पि­त­सं­स्का­रान्न फलभाक्त्वमिति शङ्का­म­ह­म्प्र­त्य­यस्य रूप्या­द्य­ध्या­स­वै­ल­क्ष­ण्येन परिहरति —
सांव्यवहारिकेति ।
स्रु प्रस्रवणे इति धातु­म­भि­प्रे­त्याह —
अविगलितमिति ।
क्रिया­नु­प्र­वे­श­द्वा­रा­न्तरं मोक्षे भवत्विति शङ्कायां भाष्ये तदभावप्रतिज्ञैव भाति, न हेतु­रि­त्या­श­ङ्क्याह —
एतदुक्तमिति ।
न च विदि­क्रि­या­वि­ष­य­त्वे­नेति भाष्ये ज्ञाना­वि­ष­य­त्व­स्यो­क्त­त्वा­त्पुनः शङ्कोत्तरे व्यर्थे इत्याशङ्क्य परि­हा­रा­न्त­रा­भि­प्रा­य­ता­माह —
अयमर्थ इत्यादिना ।
यदवादि पूर्वपक्षे ज्ञानस्य भावार्थत्वाद् विधेयत्वमिति तत्र क्रिया­त्व­म­भ्यु­पेत्य विधेयत्वं निराक्रियत इत्याह —
सत्यमिति ।
वस्तुतो विदिक्रियायाः कर्म­भा­वा­नु­प­प­त्ते­रि­त्यर्थः । औपाधिकं तु कर्मत्वमनिष्टं नियोगवादिनाम् । यदा तु ज्ञानं क्रियैव न भवतीत्येवंपरतया भाष्यं व्याख्यायते, तदा पच­ती­ति­व­ज्जा­ना­तीति पूर्वा­प­री­भा­व­प्र­सि­द्धि­र्दु­श्चि­कित्सा स्यादिति ।
वैल­क्ष­ण्या­न्त­र­मिति ।
ज्ञेयवैलक्षण्यं प्रागु­क्त­मि­दानीं ज्ञान­स्या­वि­धे­यत्वं वैलक्षण्यमुच्यत इति ।
यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रियेति तच्छ­ब्दा­ध्या­हा­रेण योजयितुं यत्रशब्दार्थमाह —
यत्र विषये इति ।
ध्यानयस्य वस्त्व­न­पे­क्षा­मुक्त्वा पुरु­षे­च्छा­धी­न­त्व­मु­प­पा­द­यति —
नहि यस्यै इति ।
वषट् करिष्यन् — होता । विध्य­र्था­नु­ष्ठा­ना­त्प्राक् प्रमा­ण­व­शा­ध्द्याने न सिद्ध्यति, ततः पुरु­षे­च्छा­व­श­व­र्तीति ।
शब्द­ज्ञा­ना­भ्यासो वा तस्यैव साक्षा­त्का­र­प­र्य­न्तता पुरु­षे­च्छा­धी­ने­त्या­श­ङ्क्याह —
नचेति ।
उपासनायाः साक्षात्कारेऽ नुभ­व­प­र्य­न्त­ता­श­ब्दो­क्त­सा­क्षा­त्का­र­स्या­वि­द्या­प­नये प्राप्त­त्वा­दि­त्यर्थः ।
क्रियायाः क्वचि­द्व­स्तु­स्व­रू­प­वि­रो­धित्वं प्रमा­ण­ज्ञा­ना­द्वै­ल­क्ष­ण्य­माह—
क्वचि­द्व­स्तु­स्व­रू­प­वि­रो­धि­नीति ।
वस्तु­त­न्त्र­त्व­म­पा­क­रो­तीति ।
अनेन ‘ज्ञानमेव तन्न क्रिया’ इति भाष्ये क्रियाशब्देन क्रिया­ग­त­म­व­स्तु­त­न्त्रत्वं लक्षयित्वा प्रतिषिध्यत इति व्याख्यातम् । अतएव हि भाष्यकारो ब्रह्मज्ञानं न चोदनातन्त्रमिति दार्ष्टान्तिके चोदनातन्त्रत्वं प्रतिषेधति, न ब्रवीति न क्रियेति । अतः क्रिया­त्व­म­भ्यु­पेत्य ज्ञाने विधेयत्वं न मृष्यत इति गम्यते । सांप्रदायिकं = गुरु­मु­खा­द्ध्य­य­नादि । विधिः— कार्यं विषयो येषां ते विधिविषयाः । यः समर्थः शक्तः स कर्ता, यः कर्ता स कर्मण्यधिकृतः स्वामी, योऽ धिकृतः स नियोगं स्वकीयतया बुद्ध्यमानो नियोज्यः, स च तत्रैव वर्णितरूपे विषये भवति, तस्मिन्नसति न भवतीत्यर्थः ।
उक्तविषयत्वस्य श्रवणादावभावमाह —
नचैवमिति ।
श्रवणं हि ब्रह्मात्मनि तत्त्व­म­सि­वा­क्यस्य तच्छ­ब्द­श्रु­त्या­दि­प­र्या­लो­च­नया तात्पर्यावगमः; अस्य च विष­य­वि­शे­षा­व­च्छि­न्न­प्र­त्य­य­स्या­न­व­गमे तत्क­र्त­व्य­त्व­बो­धा­यो­गात्, अवगमे च श्रवणस्यैव जातत्वात्पुनः कर्तु­म­क­र्तु­म­न्यथा वा कर्तु­म­श­क्य­त्वात् । एवं मननस्यापि विष­य­वि­शे­ष­नि­य­त­यु­क्त्या­लो­च­न­स्या­न­व­ग­तस्य कर्तु­म­श­क्य­त्वा­दिति । उपासनस्यापि यथाश्रवणमननं प्रत्य­या­वृ­त्ते­र­व­गमे द्वित्रि­वा­रा­वृ­त्ते­र­व­श्यं­भा­वा­द्वि­धि­त्सि­ता­र्थस्य ज्ञातस्य न पुनः कर्तव्यत्वं, दर्शनस्य त्वशक्यत्वं स्फुटमिति ।
अन्यतः प्राप्ता इति ।
दर्शनार्थं कर्त­व्य­त्वे­ना­न्व­य­व्य­ति­रे­का­व­ग­तान् श्रव­णा­दी­न­नु­व­दन्ति वचांसि तद्ग­त­प्रा­श­स्त्य­ल­क्ष­णया तेषु रुचि­मु­त्पा­द्या­ना­त्म­चि­न्ता­या­म­रुचिं कुर्वन्ति, प्रवृत्त्यतिशयं जनयन्तीत्यर्थः । प्रकृ­त­सि­द्ध्य­र्थं=सिद्धे वस्तुनि वेदा­न्त­प्रा­मा­ण्य­सि­द्ध्यर्थं । सिद्धे वस्तुनि सङ्ग­ति­ग्र­ह­वि­र­हादि दूष­यि­तु­मि­त्यर्थः ।
उपनिषदां सिद्धबोधकत्वे आक्षिप्ते पुरु­ष­स्यो­प­नि­ष­द्ग­म्य­त्व­सि­द्ध­व­त्कारो भाष्येऽनुपपन्न इत्याशङ्क्य तदुपयोगिन्यायः साम­र्थ्या­द्द­पो­तित इत्याह —
इदमत्रेति ।
पर­न­र­व­र्ति­श­ब्दा­र्था­व­बो­ध­लि­ङ्गस्य प्रवृत्तेः सिद्ध­व­स्तु­न्य­सं­भ­वान्न व्युत्प­त्ति­रि­त्यु­क्तम् —
अज्ञा­त­स­ङ्ग­ति­त्वे­नेति ।
तत्राह —
कार्यबोधे इति ।
यदु­क्त­म­र्थ­व­त्त­येति तत्सि­द्ध­पु­त्र­ज­न्मा­दि­बो­धेऽपि हर्षा­दि­प्र­यो­ज­न­ला­भान्न शब्दानां कार्यपरत्वं नियच्छतीत्याह —
अर्थवत्तैवमिति ।
आखण्डलादीनाम् इन्द्रादीनाम् । चक्रवालं समूहः । धौतानि शोधितानि । कलधौतमयानि सौवर्णानि शिलातलानि यस्य स तथा । प्रमदवनानि प्रमदाभिः सह नृपाणां क्रीडावनानि, तेषु विहारिणां संचरणशीलानां । मणिमयशकुन्तानां रत्नमयपक्षिणां । निनदः शब्दः । अभ्यर्णं निकटम् । प्रतिपन्नं जनकस्य पितु­रा­न­न्द­नि­ब­न्धनं पुत्रजन्म येन स ततोक्तः । सिन्दू­र­र­ञ्जि­त­पु­त्र­प­दा­ङ्कितः पटः पटवासः स एवोपायनमुपहारो लाटानां प्रसिद्धः । महोत्पलं पद्मम् ।
अर्थवेत्तैवमिति श्लोकभागं व्याचष्टे —
तथाचेति ।
अनेन सिद्ध­स्या­प्य­प्र­ति­पि­त्सि­त­त्वा­प्र­ति­पि­पा­द­यि­षि­तत्वे प्रयुक्ते ।
शास्त्रत्वं हितशासनाद् इत्ये­त­व्द्या­चष्टे —
एवंचेति ।
प्रवृ­त्ति­नि­वृ­त्त्या­श्र­वणं हि शास्त्रे पुरुषार्थाय, तं तु वेदा­न्ता­न्त­रे­णा­प्या­यासं ज्ञाना­दे­वा­न­य­न्तीति भवन्तितरां शास्त्रा­णी­त्यर्थः ।
तत्सिद्धमिति ।
तच्छब्देन तस्मादर्थेन सिद्ध­श­ब्द­व्यु­त्प­त्त्यादि परामृशता वक्ष्य­मा­ण­हे­तो­र­सि­द्धि­रु­द्धृता ।
ज्योति­ष्टो­मा­दि­वाक्ये बाधं परिहरति —
विवादेति ।
भूता­र्थ­वि­ष­या­णीति ।
न कार्य­वि­ष­या­णी­त्यर्थः; इतरथा भूता­र्थ­प्र­ती­ति­मा­त्र­ज­न­क­त्व­सा­धने सिद्धसाधनात्, प्रमि­ति­ज­न­क­त्वस्य साधने हेतोः साध्यसमतापातात् । यत्तच्छब्दावपि प्रस्तु­त­भू­तार्थं परामृशतः । उपोपसर्गः सामीप्यार्थमाह । नीत्ययं निश्चयार्थः ।
सदेरर्थमाह —
सवासनामिति ।
वस्त्व­क्रि­या­शेषं वेदान्तविषयं दर्शयितुं भाष्ये विशेषणानि प्रयुक्तानि व्याचष्टे —
अहं­प्र­त्य­ये­त्या­दिना ।
भाष्ये ‘असंसारि’ इति त्वंप­द­ल­क्ष्य­नि­र्देशः, ब्रह्मेति तस्य ब्रह्म­त्व­मु­क्तम् । क्रिया­र­हि­त­त्व­सं­सा­रित्वं ।
व्यव­हि­त­म­प्य­न­न्य­शे­ष­त्व­मु­त्पा­द्या­द्य­भावे हेतुत्वेन संबन्धयति —
अतश्चेति ।
उत्प­त्त्या­दि­भि­राप्यं साध्यम् । सक्तवो हि प्राड् न विनियुक्ताः । न च होमेन भस्मशेषा उपयोक्ष्यन्ते, अतो न संस्कार्या इति विनियोगभङ्गेन होम­प्रा­धा­न्य­मिति ।
अनन्यशेषत्वे स्वप्र­क­र­ण­स्थत्वं हेतुत्वेन योजयति —
कस्मादिति ।
एवं सिद्धा­र्थ­व्यु­त्प­त्ति­स­म­र्थ­ने­नो­प­नि­षदां ब्रह्मात्मैक्ये प्रामा­ण्य­मु­क्तम्, इदानीं भवत्वन्यत्र सिद्धे पुत्रजन्मादौ सङ्गतिग्रहः, न ब्रह्माणि; अविषयत्वात्; अतो न तत्रो­प­नि­ष­त्प्रा­मा­ण्य­मि­त्या­शङ्क्य तत्प­रि­हा­र­प­र­त्वेन भाष्यमवतारयति —
स्यादे­त­दि­त्या­दिना ।
स्वयं­प्र­का­श­त्वेन स्फुरत्यात्मनि समा­रो­पि­त­दृ­श्य­नि­षे­धेन लक्षणया शक्यं शास्त्रेण निरूपणमिति भाष्या­भि­प्रा­य­माह —
यद्यपीत्यादिना ।
ननु प्रमाणान्तरमिति तथाविधस्य निषे­धा­त्क­थ­मा­त्म­न्यु­पा­धि­नि­षे­ध­द्वारा लक्षणाऽत आह —
नहि प्रकाश इति ।
भासमाने भासमानं निषे­ध्य­मि­त्ये­ता­वत्, नतु मानेन भासमाने इति, वैयर्थ्यात्, तदिह स्वतो भात्यात्मनि तत्साक्षिक उपाधिः शक्यनिषेध इति तदवच्छेदकोऽपि न न भासत इत्यन्वयः ।
न केवलं निषे­ध­मु­खे­नै­वा­वि­ष­य­नि­रू­प­णम्, अपि त्वात्मा­दि­प­दै­रपि व्याप्त्या­द्य­भि­धा­न­मु­खेन परि­च्छे­दा­भा­वो­प­ल­क्षि­त­स्व­प्रभ अत्मा लक्षणीयः, स चात्मपदयुक्तात् ‘‘नेति’’ वाक्यादात्मेति निरूप्यते, ब्रह्म­प­द­यु­क्ता­च्चा­य­मात्मा ब्रह्मे­त्या­दे­र्ब्र­ह्मेति निरूप्यत इत्याह —
तेनेति ।
इतिरिदमर्थे, य आत्मा इदं न इदं नेति चतुर्थे व्याख्यातः । स एष पञ्चमाध्याये निरूप्यत इत्यर्थः ।
न केव­ल­म­धि­ष्ठा­न­त्वेन प्रप­ञ्च­स­त्ता­प्र­द­त्वा­दा­त्म­स­त्यता, अपि तु तत्स्फु­र­ण­प्र­द­त्वा­च्चे­त्याह —
अपिचेति ।
संस्का­र्य­त्व­नि­रा­स­प्र­स्तावे ‘साक्षी चेता’ इति मन्त्रोदाहरणेन प्रत्यु­क्त­त्वा­दिति भाष्यार्थः ।
नह्य­हं­प्र­त्य­य­वि­ष­ये­त्या­दि­भा­ष्य­मा­त्म­नोऽ­न­धि­ग­त­त्वे­नौ­प­नि­ष­द­त्वो­प­पा­द­नार्थं, तदवतारयति —
एतदेवेति ।
भाष्ये तत्साक्षीति विधि­का­ण्डा­न­धि­ग­त­त्व­मु­क्तम् । सर्वभूतस्थत्वेन बौद्ध­स­म­या­न­धि­गतिः । विनश्यत्सु सर्वेषु भूतेषु स्थितो न विनश्यतीत्यर्थः । सावयव आत्मेति विव­स­न­स­म­या­न­धि­गतिः । समत्वेन जीवो­त्प­त्ति­वा­दि­प­ञ्च­रा­त्र­त­न्त्रा­न­धि­गतिः । कूट­स्थ­नि­त्य­त्वेन काणा­दा­दि­त­र्का­न­धि­गतिः । एकः सर्वस्यात्मेति वर्णितः, अन्य­तोऽ­न­धि­ग­ति­मुक्त्वा बाधाभाव उक्तः ।
अत इति ।
अधिगते हि बाधो नानधिगत इत्यर्थः । अथवा सर्व­स्या­त्म­त्वेन प्रत्याख्यातुं न शक्यं , औपनिषदस्य पुरु­ष­स्या­न­न्य­शे­ष­त्वा­दिति भाष्यं ‘तद्यो­सा­वु­प­नि­ष­त्स्वि­त्या­दिना विवृतं । पुन­र­भि­हि­त­वि­शे­ष­ण­स्या­त्म­नोऽ­हं­प्र­त्य­य­वि­रो­ध­मा­शङ्क्य तन्मि­थ्या­त्वे­नौ­प­नि­ष­दत्वं विवृतम् ।
अन­न्य­शे­ष­त्व­वि­व­र­णाय विधिशेषत्वं वेति भाष्यं तदनुषङ्गेण व्याचष्टे —
न शक्य इति ।
विध्यशेषत्वे आत्मत्वादिति हेतुं व्याचष्टे —
कुत इत्यादिना ।
मा भूद्वि­धे­य­क­र्म­शे­ष­त्वेन विधि­वि­ष­य­त्व­मा­त्मनः, स्वत एव विधीयतां निषिध्यतां चेत्या­श­ङ्का­म­प­नेतुं न हेय इति भाष्यम्, तत्रापि हेतु­त्वे­ना­त्म­त्वा­दि­त्ये­त­द्यो­ज­यति —
अपिचेति ।
अनन्यशेषत्वे स्वतो विधेयत्वाभावे चात्मत्वं हेतुरिति ‘अपिच’ शब्दार्थः ।
अत इति ।
भाष्योक्तादेव हेतोरित्यर्थः ।
तमेवाह —
सर्वेषामिति ।
ननु घटादिविनाशस्य मृदादौ दर्शनात्कथं पुरुषावधिः सर्वस्य लयोऽत आह —
पुरुषो हीति ।
कल्पि­त­स्या­धि­ष्ठा­न­त्वा­यो­गा­दा­त्म­त­त्त्व­मेव तत्त­द­व­च्छि­न्न­म­नि­र्वा­च्य­वि­श्वो­द­या­प्य­य­हे­तु­रि­त्यर्थः ।
ननु पुरु­षोऽ­प्य­नि­र्वाच्य इति नेत्याह —
पुरुषस्त्विति ।
अनन्तोऽनवधिः । विकारो नास्तीत्युक्तं भेदाभेदविचारे ।
धर्मा­न्य­था­त्व­वि­क्रि­याया अभावमुक्त्वा तद्धे­त्व­भा­व­म­प्याह —
अपिचेति ।
भाष्ये — यत एव धर्मा­न्य­था­त्वा­भा­वोऽ­त­एव नित्य­शु­द्धा­दि­स्व­भावः ।
पुरुषावधिः सर्वस्य लय इत्यत्र श्रुतिमाह —
तस्मा­त्पु­रु­षा­दिति ।
कल्पि­त­स्या­क­ल्पि­त­म­धि­ष्ठा­न­मि­त्यु­क्त­यु­क्ति­प­रा­मर्शी तस्माच्छब्दः ।i
निर­ति­श­य­स्व­त­न्त्र­तया विधिशेषत्वाभावे श्रुतिमुदाहृत्य माना­न्त­रा­ग­म्य­तया वेदा­न्तै­क­वे­द्यत्वे श्रुतिमुदाहरति —
तं त्वेति ।
तस्य वेदस्येत्यर्थः ।
ननु तर्हि धर्मावबोधनमिति वक्तव्यं, तत्राह —
धर्मस्य चेति ।
ननु प्रति­षे­धा­ना­म­नु­ष्ठे­या­बो­ध­क­त्वा­त्कथं कर्मा­व­बो­ध­प्र­यो­ज­न­ताऽत आह —
प्रति­षि­ध्य­मा­नेति ।
शाब­र­व­च­न­व­दा­म्ना­य­स्येति( जै.अ.१.पा.२.सू.१) सूत्रे आम्नायशब्दो विधिनिषेधपर इति सिध्यति ।
विकल्पमुखेन परिहारान्तरं चाह —
अपिचेति ।
द्रव्य­गु­ण­क­र्मणां तच्छ­ब्दा­ना­मि­त्यर्थः ।
क्रिया­र्थ­त्वा­दि­त्य­त्रा­न­र्थ­क्य­मि­त्यत्र चार्थ­श­ब्दोऽ­भि­धे­य­परः, प्रयोजनपरो वेति विकल्प्याद्यं निरस्य द्वितीयं निरस्यति —
यद्यु­च्ये­ते­त्या­दिना ।
ननु चोदना हि भूतं भवन्तं भवि­ष्य­न्त­मि­त्ये­वं­जा­ती­यकं शक्नो­त्य­व­ग­म­यि­तु­मिति शाबरवचसि विधिवाक्यस्य भूतादिबोधिता भाति, न द्रव्या­दि­श­ब्दानां क्रिया­प्र­यो­ज­नताऽ त आह —
कार्यमर्थमिति ।
कार्या­न्वि­त­भू­त­बो­धित्वे विधिवाक्यस्य कथं तन्न्यायेन ब्रह्म­वा­क्ये­ष्व­क्रि­या­शे­ष­भू­त­व­स्तु­बो­धि­त्व­सि­द्धि­रत आह —
अयमभिसंधिरिति ।
कार्या­न्वि­त­बो­धि­त्व­नि­यमः शब्दानां किं व्युत्प­त्ति­ब­ला­दुत प्रयोजनार्थम् । तत्र केव­ल­भू­त­व­स्त्व­व­ग­मा­दपि प्रयो­ज­न­सि­द्धि­मु­त्त­रत्र वक्ष्यति ।
न ताव­द्व्यु­त्प­त्ति­ब­ला­दि­त्याह —
न तावदिति ।
कार्यार्थे कार्यशेषे ।
ननु कार्या­न्वि­त­प­र­त्व­नि­य­मा­भावे पदा­ना­म­ति­ला­घ­वा­या­न्वि­त­प­र­त्व­मपि त्यज्यतामत आह —
नापीति ।
तत्किमिदानीं विशिष्टे पद­श­क्ति­र्ने­त्याह —
स्वार्थमिति ।
अयमभिसंधिः — पदैः पदार्था एवाभिधीयन्ते अर्था­न्त­रा­न्वि­त­तया उपलक्ष्यन्ते; अन्यथा स्वरू­प­मा­त्रा­ति­रे­कि­वि­शि­ष्टा­भि­धाने गौरवं स्यात् । ननु — अभि­हि­ता­र्थ­स्व­रू­पाणां विशि­ष्टै­र­न­वि­ना­भा­वा­त्कथं लक्षणा? नहि गवा­र्थ­स्या­न­य­त्य­न्व­या­वि­ना­भावः, चार­य­ति­ना­प्य­न्व­यात्, नचा­र्था­न्त­र­मा­त्रा­न्वयो लक्ष्यः; तस्य व्यव­हा­रा­नु­प­यो­गात् इति — चेन्न; अनविनाभाविभिरपि मञ्चैः पुरुषलक्षणात् । ननु — मा भूद­न­वि­ना­भा­व­नि­यमः, तथापि वाच्यस्य लक्ष्येण संबन्धो वाक्यार्थे चानन्वयो वाच्यः, मञ्चा हि संबद्धाः पुंभिर्न च वाक्या­र्थेऽ­न्वी­यन्ते, यथाह शालिकनाथः – ‘वाच्यार्थस्य च वाक्यार्थे संस­र्गा­नु­प­प­त्तितः । तत्सं­ब­न्ध­व­श­प्रा­प्त­स्या­न्व­या­ल्ल­क्ष­णो­च्यते॥‘ इति । तदिह गामानयेत्यादौ न श्रौतार्थस्य वाक्या­र्थे­ना­न­न्वयः , नाप्यन्वितस्य लक्ष्य­स्या­स्त्य­भि­धे­येन संबन्धः अन्वि­त­स्या­न्व­या­न्त­रा­भा­वात्, तत इह न लक्षणा इति । अत्रोच्यते; मुख्या­र्थ­प­रि­ग्र­हेऽ­नु­प­प­त्ति­स्ता­व­ल्ल­क्ष­णाया निदानं, तत्र यथा पदेन पदार्थलक्षणायां वाच्यार्थस्य वाक्यार्थे संब­न्धा­नु­प­पत्तिः, एवं वाक्या­र्थ­प्र­त्य­यो­द्दे­शेन प्रत्युक्तस्य पदवृन्दस्य येऽभिधेया अन­न्वि­त­प­दा­र्था­स्तेषां वाक्या­र्थी­भा­वा­नु­प­प­त्ति­रे­वा­न्वि­ल­क्ष­णाया निदानम् । नचा­न्वि­त­रू­प­स्या­भि­धे­य­स्व­रू­पेण संब­न्धा­नु­प­पत्तिः; विशि­ष्ट­स्व­रू­प­यो­स्ता­दा­त्म्यस्य कस्यापि स्वीकारात् । नन्वेवमपि — अभि­हि­ता­र्थै­र­र्था­न्त­रा­न्वि­त­ल­क्ष­णायां कथं नियमः? अर्था­न्त­रा­णा­मा­न­न्त्यात्, तदुच्यते – ‘आका­ङ्क्षा­स­त्ति­यो­ग्य­त्व­स­हि­ता­र्था­न्त­रा­न्वि­तान् । पदानि लक्ष­य­न्त्य­र्था­निति नाति­प्र­स­ङ्गिता॥‘ प्रयोगस्तु गोपदं, गामानयेति वाक्ये­ना­न­य­त्य­न्वि­त­गो­त्व­वा­च­कम्, पदत्वात्, तुरगपदवदिति ।
एतत्सर्वमाह —
एकेति ।
एक­प्र­यो­ज­न­सि­ध्द्यु­प­यो­गित्वं हि पदा­र्था­ना­मि­त­रे­त­र­वै­शि­ष्ट्य­म­न्त­रेण न घटतेऽतः प्रयो­ज­न­व­त्त्वा­यै­क­वा­क्य­त्वाय च लक्ष­ण­याऽ­न्वि­त­प­रत्वं पदानां वाच्यमित्यर्थः ।
ननु विशि­ष्टा­ना­म­प्य­र्थानां भेदा­त्क­थ­मे­क­वा­क्यता? अत आह —
तथाचेति ।
गुण­भू­त­ना­ना­प­दा­र्थ­वि­शि­ष्ट­प्र­धा­ना­र्थ­स्यै­क्या­दे­क­वा­क्य­त्व­मि­त्यर्थः ।
पदा­ना­म­न­न्वि­ता­र्थ­प­र्य­व­सानेऽ न्वितपर्यवसाने च भट्टसंमतिमाह —
यथाहुरिति ।
यदा लक्षणया योग्ये­त­रा­न्वि­त­प­रत्वं पदानां, पदार्थानां च लक्षणायां द्वारत्वेन तत्परत्वं, तदा वेदान्तानां कार्या­न­न्वि­त­ब्र­ह्म­प­र­त्वो­प­प­त्ति­रि­त्याह —
एवचं सतीति ।
भाव्या­र्थ­त्वे­ने­ति­भाष्ये भव्यशब्दो भव­न­क­र्तृ­व­च­न­त्वा­दु­त्पा­द्य­मा­त्र­परो मा भूदित्याह —
भव्यमिति ।
भाष्ये भूतस्य क्रिया­त्व­प्र­ति­षे­धस्य प्रसक्तिमाह —
नन्विति ।
भव्यसंसर्गिणा रूपेण भूतमपि भव्यमित्यत्र किं कार्यं भव्यं? उत क्रिया? उभाभ्यामपि भूतार्थस्य नैक्यमित्याह —
न तादात्म्येति ।
कार्यं हि साध्यतया प्रयोजनं, भूतं साधकतया प्रयोजनीति ।
प्रवृ­त्ति­नि­वृ­त्ति­व्य­ति­रे­के­णे­त्या­दि­भा­ष्येण कार्या­न्व­य­नि­य­म­भ­ङ्गेन कूट­स्थ­नि­त्य­व­स्तू­प­दे­शस्य समर्थितत्वेऽपि कार्यान्विते व्युत्प­त्ति­नि­य­म­म­भ्यु­पे­त्यापि परिहारान्तरं वक्तु­मु­क्त­श­ङ्का­म­नु­व­द­ती­त्याह —
शङ्कत इति ।
अङ्गीकृते कार्या­न्वि­त­व्यु­त्प­त्ति­नि­यमे कूट­स्थ­नि­त्यो­प­दे­शा­नु­प­प­त्ति­रि­त्याह —
एवंचेति ।
भवतु कार्यान्विते भूते सङ्गतिग्रहः, तथापि स्वरूपं तत्र प्रतीयत एव; विशिष्टेऽपि स्वरू­प­स­द्भा­वात्, ततः किमत आह —
तथाचेति ।
स्वनि­ष्ठ­भू­त­वि­षया इति ।
कार्या­न­न्वि­त­भू­त­वि­षया इत्यर्थः, नत्व­न­न्वि­त­वि­ष­य­त्व­मेव; अन्विते पदातात्पर्यस्य समर्थितत्वात् । ते च वक्ष्य­मा­णो­दा­ह­र­णेषु दृश्यमाना नाध्याहारादिभिः क्लेशे­ना­न्य­थ­यि­तव्या इत्यर्थः ।
स्यादेतत् — कार्यान्विते गृहीतसङ्गतेः पदस्य कथं शुद्ध­सि­द्धा­भि­धा­यिता? नहि गोत्वे गृहीतशक्ति गोपदमभिदधाति तुरगत्वमत आह —
न हीति ।
एवं मन्मते कार्यान्वयो न शब्दार्थः, किंतूपाधिः । तथाहि — कर्त­व्य­ता­त­द­भा­वा­व­ग­मा­धी­न­त्वात् प्रवृ­त्ति­नि­वृत्त्योः, प्रवृ­त्ति­नि­वृ­त्ति­सा­ध्य­त्वा­त्प्र­यो­ज­नस्य, तदधीनत्वाच्च विव­क्षा­प्र­यो­गयोः, प्रयो­गा­धी­न­त्वाच्च वाक्या­र्थ­प्र­ति­प­त्ति­व्यु­त्पत्त्योः, विव­क्षा­दि­व­त्का­र्या­न्व­य­स्यापि शब्दा­र्था­व­ग­त्यु­पा­य­ता­व­ग­म्यते, अतो विरहय्यापि कार्यान्वयं प्रयोगभेदे भवति भूतं वस्तु पदवाच्यम्; कथमपरथा भवतां प्रमा­णा­न्त­र­गृ­ही­त­का­र्या­न्वि­त­गृ­ही­त­स­ङ्ग­ति­क­प­द­वृ­न्दस्य वेदेऽ­पू­र्वा­न्वि­ता­भि­धा­यिता? तदिदमुक्तम् – ‘‘उपहितं शतशो दृष्टमपि तदेव क्वचिदनुपहितं यदि दृष्टं भवति, तदा तददृष्टं नहि भवति, किंतु दृष्टमेव भवतीति’’ ।
अटवीवर्णकादय इति ।
तद्यथा — अस्ति किल ब्रह्मगिरिनामा गिरिवरः । ‘त्रैय­म्ब­क­ज­टा­जू­ट­क­ल­नाय विनिर्मिता । पाण्डुरेव पटी भाति यत्र गोदावरी नदी॥‘ यस्य च – ‘सकु­सु­म­फ­ल­चू­त­रु­द्ध­घ­र्म­द्यु­ति­क­र­पा­त­व­ना­लि­षू­प­जाते । तमसि हर­कि­री­ट­च­न्द्र­नुन्ने धवमनिशा इव भान्ति वासराणि॥‘ इत्यादय इति ।
क्रियानिष्ठा इति ।
अकारप्रश्लेषः ।
अभ्युपेत्य कार्यान्वयनियमं पर्यहार्षीत्, इदानीमभ्युपगमं त्यजति —
उपपादिता चेति ।
एवं ताव­द्व्यु­त्प­त्ति­वि­रोधं परिहृत्य निष्प्र­यो­ज­न­त्व­चो­द्य­मु­द्भाव्य परिहरति —
यदि नामेत्यादिना ।
समु­च्च­या­सं­भ­वा­द­प्य­र्थ­श्च­कारः शङ्काद्योती, तामेवाह —
यद्यपीति ।
एवं ताव­द्द्र­व्य­गु­णा­दि­श­ब्दानां विधिवाक्यगतानां केव­ल­भू­ता­र्थ­ता­मा­पाद्य तद्वद्ब्रह्मापि शब्दगोचर इत्युक्तम्, इदानीं तु निषे­ध­वा­क्य­व­द्वे­दान्ताः सिद्धपरा इत्याह —
अपिचेत्यादिना ।
यत्र कृतिस्तत्रैव कार्यम्, निषेधेषु कृतिनिवृत्तौ तद्व्याप्तं कार्यं निवर्तत इत्युक्त्वा कृतेरपि तद्व्या­प­क­धा­त्व­र्थ­नि­वृत्त्या निवृत्तिमाह —
कृति­र्ही­त्या­दिना ।
न घटवत्प्रतिक्षणं समाप्तः, किंतु पच­ती­ति­व­त्पू­र्वा­प­री­भूतः । सच भवत्यादाविव नात्मलाभः, किंतु कर्तु­र­न्य­स्यो­त्पा­द्य­स्यौ­द­ना­दे­रु­त्पा­द­ना­या­म­नु­कूलः प्रयत्नविषयः ।
तत्र हेतुमाह —
साध्येति ।
न द्रव्यगुणौ कृति­वि­ष­या­वि­त्यत्र हेतुः —
साक्षादिति ।
तत्रापि तदु­त्पा­द­ना­नु­कूलो व्यापारः कृतिविषय इत्यर्थः । भावार्थाः कर्म­श­ब्दा­स्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते (जै.अ.२.पा.१.सू.१) इति द्विती­य­ग­त­म­धि­क­र­णम् ।
अत्र गुरुमतेनार्थं संकलयति —
द्रव्येति ।
अत्रा­व­म­र्शेऽ­पी­त्यन्तः पूर्वः पक्षः । अयमर्थः — पद­स्मा­रि­ता­न­न्वि­ता­र्थेषु निमित्तेषु भावान्वितावस्था नैमित्तिकी, तस्यामस्ति सिद्धयोरपि द्रव्यगुणयोः क्रियान्वयेन साध्यता, अतो द्रव्य­गु­ण­भा­वा­र्थ­वा­च­क­श­ब्दा­ना­म­वि­शे­षेण साध्या­र्थ­वा­च­क­त्वा­त्सा­ध्या­र्थ­वि­ष­य­त्वाच्च नियो­ग­स्या­वि­शे­षेण नियो­ग­वि­ष­य­स­म­र्प­क­त्व­मिति॥
राद्धान्तमाह —
भावस्येति ।
भाव­श­ब्द­स्ये­त्यर्थः । कार्यावमर्श इत्यनुषङ्गः । भावशब्दो हि स्वत एव साध्यरूपां क्रियामवमृशति, द्रव्या­दि­श­ब्दास्तु क्रियायोगद्वारा द्रव्या­दी­न्सा­ध्य­त­याऽ­व­मृ­शन्ति ।
किमित्यत आह —
भावार्थेभ्य इति ।
नियोगो हि साक्षा­त्कृ­ते­र­वि­षयः संस्ता­द्वि­ष­य­त्वाय स्वाव­च्छे­द­क­त्वेन साक्षा­त्सा­ध्य­स्व­भावं भावा­र्थ­मा­का­ङ्क्षति । तल्लाभे च न क्रियायोगद्वारा साध्यस्य द्रव्या­दे­स्त­द्वि­ष­यता युक्ता । अतो भावार्थशब्देभ्य एव यजतीत्यादिभ्यो विष­य­वि­शि­ष्टाऽ­पू­र्वा­धि­ग­ति­रिति भावनावाचिभ्योऽ पि भावो भावनेत्यादिभ्यो नापू­र्वा­धि­ग­ति­रिति कर्मशब्दा इत्युक्तम् । क्रत्व­र्थ­वा­चिभ्यः कर्म­श­ब्दे­भ्योऽपि याग इत्यादिभ्यो नैवा­पू­र्वा­धि­ग­ति­रिति भावार्था इत्युक्तम् । अतो धात्व­र्थो­प­र­क्ता­भा­वना येषु भाति यजेतेत्यादिषु तेभ्योऽपूर्वं प्रतीयेतैष हि भाव­ना­सा­ध्योऽ­पू­र्व­ल­क्षणोऽ र्थो विधीयत इति सूत्रार्थः ।
ननु द्रव्यगुणौ विधीयेते दधिसान्तत्ये, तत्र तयोरेव कार्या­व­च्छे­द­कता, अत आह —
न चदध्नेति ।
आघारः क्षारणम् । सान्त­त्य­म­वि­च्छि­न्न­त्वम् ।
यदि दध्यादावपि भावार्थो विधेयः, तर्हि न्यायविरोध इत्याशङ्क्याह —
नचैतावतेति ।
ज्योतिष्टोमे श्रूयते – ‘सोमेन यजेते’ति । तथा ‘ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णाती’ति । तत्र संशयः — किमै­न्द्र­वा­य­वा­दि­वाक्ये विहितानां सोमरसानां यागानां च यथाक्रमं सोमेन यजेतेति सोम­या­ग­श­ब्दा­व­नु­व­दि­तारौ, उत द्रव्ययुक्तस्य कर्मणो विधाताराविति॥ तत्रै­न्द्र­वा­य­वा­दि­वा­क्येषु द्रव्य­दे­व­ता­ख्य­रू­प­प्र­ती­ते­र्या­गा­नु­मा­ना­दि­त­रत्र रूपाप्रतीतेः समुदायानुवाद इति प्राप्ते — द्वितीये (जै.अ.२.पा.२.सू.१७ — २०) राद्धान्तितम्, नानुवादत्वं अप्र­त्य­भि­ज्ञा­नात् । लतावचनो हि सोमशब्दो न रसवचनः, ऐन्द्र­वा­य­वा­दि­श­ब्दास्तु रसानभिदधतीति न तदनुवादी सोमशब्दः । न च यजेतेति प्रत्यक्षे यागे तदनुमा, अतः प्राप्त्य­भा­वान्न यजिरप्यनुवादी । तस्मा­त्सो­म­वाक्ये यागविधिरितरत्र रसा­न­मि­न्द्रा­दि­दे­व­ताभ्यो ग्रह­णा­न्यु­प­क­ल्प­नानि विधीयन्त इति । । एवं यथा सोमेनेति वाक्ये विशिष्टविधिः, एवं दधि­सा­न्त­त्या­दि­वा­क्यानि यदि द्रव्य­गु­ण­वि­शि­ष्ट­हो­मा­घा­र­वि­धा­यीनि, तर्हि अग्नि­हो­त्रा­घा­र­वाक्ये तद्वि­हि­त­हो­मा­ना­मा­घा­राणां च समु­दा­या­व­नु­व­देतां, तथा­चा­धि­क­र­णा­न्त­र­वि­रोध इति शङ्का॥ तथाहि द्वितीये स्थितम् — आघा­रा­ग्नि­हो­त्र­म­रू­प­त्वात्(जै.अ.२.पा.२.सू.१३) । ‘आघा­र­मा­घा­र­य­त्यू­र्ध्व­मा­घा­र­यति’ ‘सन्ततमाघारयति’ । तथा ‘अग्निहोत्रं जुहोति’ ‘दध्ना जुहोति’ ‘पयसा जुहोतीति’ श्रूयते । तत्र संशयः — किं सन्त­त­द­ध्या­दि­वा­क्य­वि­हि­ता­ना­मा­घा­र­हो­मा­ना­मा­घा­रा­ग्नि­हो­त्र­वाक्ये सुमु­दा­या­नु­वा­दिनी, उता­पू­र्व­यो­रा­घा­र­हो­म­यो­र्वि­धा­तृणी इति॥ तत्रानुवादिनी; अरूपत्वात्, नह्यत्र दधि­सा­न्त­त्या­दि­वा­क्य­वि­हि­त­हो­मा­घा­रेभ्यो विशिष्टं रूपमस्ति, होमाघारमात्रं तु प्रकृ­त­मु­प­ल­भ्यते, अतोऽनुवादत्वे प्राप्ते राद्धान्तः; विधी इमौ स्याताम् ; आधा­र­य­ति­जु­हो­ति­श­ब्दा­भ्या­म­नु­ष्ठे­या­र्थ­प्र­तीतेः, तत्संनिधौ श्रुतस्य सान्त­त्य­वा­क्यस्य दध्यादिवाक्यस्य च विशिष्टविधित्वे गौरवप्रसङ्गेन तद्वि­हि­त­भा­वा­र्था­नु­वा­देन गुण­वि­धा­ना­र्थ­त्वा­दिति॥ हन्त नैतेन विरुध्यते सान्त­त्य­द­ध्या­दि­वाक्ये भावार्थविषयं कार्य­मि­त्य­भ्यु­प­गमः ।
अत्र हेतुमाह —
यद्यपीति ।
यद्यपि सन्ततादिवाक्ये साक्षा­त्कृ­ति­वि­ष­य­त्वा­द्भा­वा­र्थस्य तदवच्छिन्नमेव कार्यं; यद्यपि च कार्यं प्रति साक्षा­द­वि­ष­या­व­न­व­च्छे­दकौ द्रव्यगुणौ; तथापि भावार्थं प्रत्य­नु­ब­न्ध­त­या­व­च्छे­द­क­तया विधीयेते ।
तत्र हेतुमाह —
भावार्थो हीति ।
तत्किं भावार्थो द्रव्यादिश्च विधेयः, तर्हि वाक्यभेदः, नेत्याह —
तथाचेति ।
तर्हि सन्त­ता­दि­वा­क्यानि विशिष्टविधयः स्युः, स्याच्चा­ग्नि­हो­त्रा­दि­वा­क्य­म­नु­वादः, तत्राह —
एवंचेति ।
यद्यप्यत्र विशिष्टविषयो विधिः प्रतीयते; तथापि भावार्थद्वारा द्रव्यादिकमपि विषयीकरोति । तत्र संक्रान्तो यदि भावार्थमन्यतो विहितं न लभेत, तर्हि गौर­व­म­प्यु­र­री­कृत्य विशिष्टं विदधीत; अथ लभेत, तत उप­प­दा­कृ­ष्ट­श­क्ति­र्द्र­व्या­दि­परो भवत्यनुवदति तु भावार्थम् । तदाहुः – ‘सर्व­त्रा­ख्या­त­सं­बद्धे श्रूयमाणे पदान्तरे । विधि­श­क्ति­यु­प­सं­स्क्रान्तेः स्याद्धा­तो­र­नु­वा­दता॥‘ इति । तदि­हा­ग्नि­हो­त्रा­दि­वा­क्यत एव भावा­र्थ­ला­भा­द्द्र­व्या­दि­प­रता । मीमांसकैकदेशिनः आग्नेय इत्यादौ द्रव्य­दे­व­ता­सं­बन्धो विधेय इत्याहुः ।
तत्रापि सिद्धस्य न विधे­य­त्व­मि­त्यु­क्त­म­ति­दि­शति —
एतेनेति ।
एकदेशी संबन्धस्य भाव­नाऽ­व­च्छे­द­क­त्वेन विधेयत्वं शङ्कते —
नन्वित्यादिना ।
ननु यथा­श्रु­त­भ­व­त्यर्थ एव विधीयतां, किं संब­न्ध­वि­धि­ने­त्या­शङ्क्य भवत्यर्थस्य कर्ता सिद्धोऽसिद्धो वा ।
प्रथमे विधिवैयर्थ्यं, चरमे नियो­ज्या­भा­वा­द्वि­ध्य­भाव इत्युक्त्वा किं तर्हि विधेयमिति वीक्षायामाह —
तस्मादिति ।
प्रयोज्यः उत्पाद्यः । तद्व्यापारो हि भवनम् ।
तस्य हि व्यापारं भव­ति­धा­तु­र्वि­शि­नष्टि —
भवतीति ।
भवनं च नोत्पा­द­क­व्या­पा­र­म­न्त­रे­णेति भवनाविनाभूतो भावकव्यापारो विधेय इत्यर्थः । नन्वित्यादिना चोद्यच्छलेन सिद्धान्ती मीमांसकैकदेशिनं दूषयति । भवतु लक्षितभावनाया विधानं, तस्यास्तु न संबन्धो विषयः, तस्य दध्या­दि­व­त्सा­क्षा­त्कृ­ति­वि­ष­य­त्वा­यो­गा­दि­त्यर्थः ।
नन्वव्यापारोऽपि घटादिः करो­त्य­र्थ­रू­प­भा­व­ना­वि­षयो दृश्यते, अत आह —
न हीति ।
यदि दण्डादिविषयो हस्तादिव्यापारः कृतिविषयः, तर्हि कथं घटं कुर्विति घटस्य कृतिकर्मता भात्यत आह —
घटार्थामिति ।
घटविषयव्यापार एव कृतिसाध्यो घट­स्तू­द्दे­श्य­तया प्रयोजनमिति कर्मत्वनिर्देश इत्यर्थः ।
यदि संबन्धो न विधे­य­स्त­र्ह्या­ग्ने­य­वाक्ये किं विधेयमत आह सिद्धान्त्येव —
अतएवेति ।
अत्यक्तस्य हविषो देव­ता­सं­ब­न्धा­सं­भ­वा­द्यागः संबन्धाक्षिप्तः ।
ननु यजे­र­प्य­पु­म­र्थ­त्वा­त्कथं विधेयता? अत आह —
आग्नेयेनेति ।
यागे­ने­त्या­ग्ने­य­प­दस्य लक्ष्यनिर्देशः, भावयेदिति भवतिपदस्य । यत एवाग्नेयवाक्ये यागविधिरत एवानुवादे यजेतेति श्रुतम्; अन्यथा संबन्ध एव श्रूयेतेत्यर्थः । उक्तं द्वितीये — प्रकरणं तु पौर्णमास्यां रूपावचनात् (जै.अ.२.पा.२.सू.३) । एवं समामनन्ति ‘‘यदा­ग्ने­योऽ­ष्टा­क­पा­लोऽ­मा­वा­स्यायां पौर्णमास्यां चाच्युतो भवति’’ ‘‘उपां­शु­या­ज­म­न्तरा भवति’’ ‘‘ताभ्या­मे­त­म­ग्नी­षो­मी­य­मे­का­द­श­क­पालं पौर्णमासे प्रायच्छत्’’ ‘‘ऐन्द्रं दध्य­मा­वा­स्या­याम्’’ ‘‘ऎन्द्र पयोऽ­मा­वा­स्या­यामि’’ति । तथा ‘‘य एवं विद्वान् पौर्णमासीं यजते’’ ‘‘य एवं विद्वा­न­मा­वास्यां यजते’’ इति । तत्र संदेहः — किमिमौ यजती कर्म­णो­र­पू­र्व­यो­र्वि­धा­ता­रा­वुत प्रकृ­ता­ग्ने­या­दि­या­गानां समु­दा­य­स्या­नु­व­दि­ता­रा­विति॥ तत्रा­भ्या­सा­त्क­र्मा­न्त­र­विधी । न च द्रव्यदेवते न स्तः; ध्रौवाज्यस्य साधा­र­ण्या­न्मा­न्त्र­व­र्णि­क­दे­व­ता­ला­भाच्च । आज्यभागक्रमे हि चत­स्त्रोऽ­नु­वाक्याः सन्ति । द्वे आग्नेय्यौ, द्वे सौम्ये । ते च क्रमाद्बलीयसा वाक्ये­ना­ज्य­भा­गा­भ्या­म­प­च्छि­द्या­नयोः कर्म­णो­र्वि­धा­स्येते । एवंहि समामनन्ति । ‘‘वार्त्रघ्नी पौर्ण­मा­स्या­म­नू­च्येते’’ “वृधन्वती अमा­वा­स्या­या­मिति’’ । वृत्र­घ्नी­प­द­वत्यौ वार्त्रघ्नी । वृधन्वत्पदवत्यौ वृधन्वती । तस्मा­त्क­र्मा­न्त­र­विधिः; इत्येवं प्राप्ते — अभिधीयते । प्रक्रियत इति प्रकरणं प्रकृतानि कर्माणि पौर्ण­मा­स्य­मा­वा­स्या­सं­यु­क्त­वा­क्य­यो­रा­ल­म्ब­नम् । कुतः? रूपावचनात् । ध्रौवा­ज्य­ला­भेऽपि देवता न लभ्यते । न च मन्त्र­व­र्णे­भ्य­स्त­ल्लाभः; तेषां क्रमा­दा­ज्य­भा­ग­शे­ष­त्वात् । यत्तु वाक्यं बलीय इति, सत्यं; बलवदपि न क्रमस्य बाधकमविरोधात् । क्रमा­व­ग­ता­ज्य­भा­गा­ङ्ग­भा­व­स्या­नु­वा­क्या­यु­ग­ल­द्व­यस्य पौर्ण­मा­स्य­मा­वा­स्या­का­ल­यो­र्वि­भा­गेन प्रयो­ग­व्य­व­स्था­प­क­त्वात् । काले हीमौ शब्दौ रूढौ, न कर्मणि । काल­द्व­यो­प­हि­त­क­र्म­स­मु­दा­य­द्वा­या­नु­वा­दस्य च प्रयोजनं दर्श­पू­र्ण­मा­सा­भ्या­मि­त्य­धि­का­र­वा­क्य­ग­त­द्वि­त्वो­प­पा­द­नम् । तस्मा­त्स­मु­दा­या­नु­वा­दा­विति ।
उत्प­त्त्य­धि­का­र­यो­र­वि­सं­वा­दा­र्थ­म­प्या­ग्ने­या­दि­वाक्ये यागविधिरभ्युपेय इत्याह —
अतएवेति ।
अत्रा­प्य­धि­का­र­विधौ यजेत इति दर्शनात्प्रागपि याग­वि­धि­रि­त्यर्थः ।
कृति­नि­र्व­र्त्यस्य धात्वर्थस्यैव नियो­गा­व­च्छे­द­क­ते­त्यु­प­सं­ह­रति —
तस्मादिति ।
विधिर्नियोगः ।
एवं नियो­ग­कृ­ति­भा­वा­र्थानां व्याप्य­व्या­प­क­ता­मुक्त्वा व्याप­क­नि­वृत्त्या व्याप्य­नि­वृ­त्ति­नि­षे­धे­ष्वाह —
तथाचेत्यादिना ।
निषेधेषु भावा­र्था­पा­द­न­मि­ष्ट­प्र­सङ्ग इत्या­श­ङ्क्या­भ्यु­प­गमे बाधकमाह —
एवंचेति ।
नामधात्वर्थयोगे हि नञः पर्युदासकता, न हन्यादित्यादौ त्वाख्या­त­यो­गा­त्प्र­ति­षेधो भाति । तत्रा­नी­क्ष­ण­व­ल्लक्ष्यः पर्युदास इत्येको दोषोऽपरश्च विधि­नि­षे­ध­वि­भा­ग­लोप इत्यर्थः ।
प्रजा­प­ति­व्र­त­न्यायं (जै.अ.४.पा.१.सू.३ — ९) विभजते निषेधेषु तदभावाय —
नेक्षेतेति ।
तत्र हि तस्य ब्रह्मचारिणो व्रत­मि­त्य­नु­ष्ठे­य­वा­चि­व्र­त­श­ब्दो­प­क्र­मा­दे­क­स्मिंश्च वाक्ये प्रक्र­मा­धी­न­त्वा­दु­प­सं­हा­र­स्या­ख्या­त­यो­गिना नञ प्रतीतोऽपि प्रति­षे­धोऽ­न­नु­ष्ठे­य­त्वा­दु­पे­क्ष्यते । धात्वर्थयोगेन च पर्युदासो लक्षणीयः । तथा चेक्षणविरोधिनी क्रिया सामान्येन प्राप्ता तद्वि­शे­ष­बु­भु­त्सायां च सर्व­क्रि­या­प्र­त्या­सन्नः संकल्प इत्यवगतम् । ईक्ष इति तु संकल्पः ईक्ष­णा­प­र्यु­दा­सेन नाद्रियते; ततोऽ­नी­क्ष­ण­स­ङ्क­ल्प­ल­क्षणा युक्ता, नैवं निषेधेषु संको­च­क­म­स्ती­त्यर्थः ।
एवं निषेधेषु भवा­र्था­भा­व­म­भि­धाय तद्व्या­प्त­कृ­ति­नि­यो­ग­यो­र­भा­व­माह —
तस्मादिति ।
तदयं प्रयोगः —
विमतं न नियोगावच्छेदकं, अभा­व­त्वा­त्सं­म­त­व­दिति ।
क्रियाशब्द इति ।
विभा­ग­भा­ष्येऽ­क्रि­या­र्था­ना­मा­न­र्थ­क्या­भि­धा­ना­दिह क्रियाशब्दः कार्यवचनः । अकार्यार्थानां ह्यानर्थक्यं नियोगवादिनो मतं, न भावा­र्था­वि­ष­या­णाम्; नियो­ग­स्या­प्य­भा­वा­र्थ­त्वा­दिति ।
निषेधेषु भावार्थाभावान्न कार्य­मि­त्युक्तं, तत्र हेत्वसिद्धिं शङ्कते —
स्यादेतदिति ।
विधि­श्रु­ति­सिद्धो नियोगो विषयं भावा­र्थ­मा­क्षि­पतु, स एव कः? न तावद्धननादिः; तस्य रागप्राप्तेः, अनु­पा­त्त­क्रि­या­विधौ च लक्ष­णा­प्र­स­ङ्गात्, अत आह —
न च रागत इति ।
लक्षणया हननविरोधी यत्नो विधेयः, प्रयोजनलाभे च लक्षणा न दोषायेत्यर्थः ।
इत्याहेति ।
अस्यां शङ्का­या­मा­हे­त्यर्थः ।
व्यवहितान्वयेन व्याकुर्वन् भाष्यमुदाहरति —
नचेति ।
भाष्ये नञ इति पदम् अनु­रा­गे­णे­त्य­ध­स्त­ने­ना­प्रा­प्त­क्रि­या­र्थ­त्व­मि­त्यु­प­रि­त­नेन च संबध्यते ।
स्वभा­व­प्रा­प्त­ह­न्त्य­र्था­नु­रा­गे­णेति ।
नेदमनुवादस्थं; तथा सति हि सर्वमेव भाष्यं प्रतिज्ञापरं स्यात् – ‘स्वभा­व­प्रा­प्त­ह­न्त्य­र्था­नु­रा­गेण यन्न­ञोऽ­प्रा­प्त­क्रि­या­र्थत्वं तन्नेति’ ।
तच्च न युक्तम्; नञ­श्चे­त्यु­त्त­र­भा­ष्यस्य चशब्दयोगेन शङ्का­नि­रा­सि­त्वा­द्धे­त्व­द­र्श­नात्, तन्मा भूदिति पृथक्कृत्य हेतु­भा­ग­मा­का­ङ्क्षा­पू­र्वकं योजयति —
केनेति ।
किमिह विधेयं हननादि वा नञर्थो वा विधारकप्रयत्नो वेति विकल्प्य क्रमेण दूषयति —
हननेत्यादिना ।
अत्र विधा­र­प्र­य­त्न­वि­धि­रा­श­ङ्कितः, स एव च निराकर्तव्यः, इतरत्तु पक्षद्वयं परस्य शाखा­चं­द्र­म­नि­रा­सार्थं दूषितम् ।
ननु नञर्थश्चेन्न विधीयते, तर्हि हननं नास्तीत्यादाविव सिद्धतया प्रती­ये­ते­त्या­श­ङ्क्याह —
अभावश्चेति ।
राग­प्रा­प्त­क­र्त­व्य­ता­क­ह­न­न­ल­क्ष­ण­प्र­ति­यो­गि­गतं साध्यत्वमभावे समारोप्यत इत्यर्थः ।
कर्त­व्य­त्वा­भा­व­बो­धस्य निव­र्त­क­त्व­म­युक्तं; सत्यपि तस्मि­न्ह­न­न­ग­त­दृ­ष्टे­ष्ट­सा­ध­न­त्व­प्र­यु­क्त­क­र्त­व्य­ताया अन­पा­या­दि­त्यु­त्त­र­भा­ष्यस्य शङ्कामाह —
ननु बोधयन्विति ।
औदासीन्यस्य प्रागभावतया कार­णा­न­पे­क्ष­त्वा­द­ध्या­ह­रति —
पालनेति ।
निषेधेषु नञ् सम­भि­व्या­हृ­त­वि­धि­प्र­य­त्नेन प्रकृ­त्य­र्थ­भू­त­ह­न­ना­दि­ग­त­क्षु­द्रे­ष्टो­पा­य­ता­म­न­प­बाध्य तद्ग­त­गु­रु­त­रा­दृ­ष्टा­नि­ष्टो­पा­यता ज्ञाप्यतेऽतो निवृ­त्त्यु­प­प­त्ति­रिति वक्तुं लोके विधि­नि­षे­ध­यो­रि­ष्टा­नि­ष्टो­पा­य­त्व­बो­ध­कत्वं व्युत्पत्तिबलेन दर्शयति —
अयमभिप्राय इत्यादिना ।
प्रवर्तकेषु वाक्येषु इत्यतः प्राक्तनेन ग्रन्थेन ।
इन्दू­द­य­ग­त­हि­त­सा­ध­न­तायां न प्रवृ­त्ति­हे­तुता, प्राक्कृ­त­भु­ज­ङ्गा­ङ्गु­लि­दाने च नाधुना निवृ­त्ति­हे­तुत्वं, ततो विशिनष्टि —
कर्तव्यतेति ।
कर्तव्यतया सहैकस्मिन् धात्वर्थे सम­वे­ता­वि­ष्टा­नि­ष्ट­सा­ध­न­भावौ तौ तथोक्तौ ।
फले­च्छा­द्वे­ष­यो­रु­क्त­वि­ध­सा­ध­न­भा­वा­व­ग­म­पू­र्व­क­त्वा­भा­वा­द­नै­का­न्ति­क­त्व­मा­श­ङ्क्याह —
प्रवृ­त्ति­नि­वृ­त्ति­हे­तु­भू­तेति ।
दृष्टान्ते साध्य­वि­क­ल­ता­मा­श­ङ्क्याह —
न जात्विति ।
शब्दा­दी­ना­म­पू­र्व­प­र्य­न्तानां ये प्रत्य­या­स्त­त्पू­र्वा­वि­च्छा­द्वेषौ बालस्य मा भूतां, प्रत्य­क्ष­व्य­व­हारे सर्वे­षा­म­भा­वा­दि­त्यर्थः । पचतीत्यादौ प्रतीतापि भावना न प्रवर्तिकेति त्रैका­ल्या­न­व­च्छि­न्ने­त्यु­क्तम् । इत्यानुपूर्व्या सिद्धः कार्यकारणभाव इत्य­न्व­य­व्य­ति­रे­क­प्र­द­र्श­न­प­रम् । इष्टेत्यादि सिद्ध­मि­त्य­न्त­मि­ष्टा­नि­ष्टो­पा­य­ता­व­ग­मस्य प्रवृ­त्ति­नि­वृत्ती प्रति हेतु­त्व­प्र­द­र्श­न­प­रम् इति विवेक्तव्यम् ।
ननु कर्त­व्य­ते­ष्टा­सा­ध­न­त्व­वि­शि­ष्ट­व्या­पा­र­परः शब्दोऽस्तु, किं धर्म­मा­त्र­प­र­त्वे­नात आह —
अन­न्य­ल­भ्य­त्वा­दिति ।
व्यापारो लोकसिद्ध इति न शब्दार्थ इत्यर्थः ।
ननु हननादिषु प्रत्य­क्ष­दृ­ष्टे­ष्ट­सा­ध­न­त्व­क­र्त­व्य­त्व­यो­र्नि­षे­द्धु­म­श­क्य­त्वा­त्क­थ­म­भा­व­बु­द्धि­रिति भाष्यमत आह —
निषेध्यानां चेति ।
दृश्यमानमपीष्टं बह्व­दृ­ष्टा­नि­ष्टो­द­या­व­ह­त्वा­द­नि­ष्ट­मि­त्य­न­र्थ­हे­तु­त्व­ज्ञा­प­न­परं वाक्यम् । एवंच पर्यु­दा­स­प­क्षा­दस्य पक्षस्य न विशेष इति न शङ्क्यं; श्रुते­ष्ट­सा­ध­न­त्वा­भा­वो­प­प­त्त­येऽ­नि­ष्ट­सा­ध­न­त्व­क­ल्प­नात्, त्वन्मते श्रुतं परि­त्य­ज्या­श्रु­त­वि­धा­र­क­प्र­य­त्न­वि­धि­क­ल्प­ना­दिति । आयतिर्भाविफलम् ।
प्रवृ­त्त्य­भा­व­मि­त्यस्य व्याख्या —
निवृत्तिमिति ।
उद्यमक्रियाया मयोपरन्तव्यमिति बुद्ध्या निवर्तते, नतु प्रवृ­त्ति­प्रा­ग­भा­व­मा­त्र­मि­त्यर्थः ।
यथो­क्ता­भा­व­बु­द्धे­रौ­दा­सी­न्य­स्था­प­क­त्वेऽपि क्षणि­क­त्वा­त्त­द्द्वंसे हननोद्यमः स्याच्छ­श्व­त्त­त्सं­ततौ च विष­या­न्त­र­ज्ञा­ना­नु­द­य­प्र­सङ्ग इति शङ्कते —
स्यादेतदिति ।
यथाग्निः पुन­र्ज्वा­लो­प­ज­न­न­नि­दा­न­मि­न्धनं दहन्नुशान्तोऽपि भवति भाविनीनां ज्वाला­ना­मु­द­य­वि­रोधी, एवमभावबुद्धिः क्षणिकतया स्वयमेव शाम्यत्यपि हन­ना­द्य­हि­तो­पा­य­ता­न­व­बोधं दग्ध्वा तन्निदाना उपरितनीः प्रवृत्ती रुणद्धीति ।
भाष्यार्थमाह —
तावदेवेति ।
नह्य­भा­व­बु­द्धि­रौ­दा­सी­न्य­स्या­ना­दिनः स्थापनकारणं, येन तदभावे कारणाभावादिदं न भवेत्, अपि­त्व­प­वा­द­नि­रा­सि­के­त्याह —
एतदुक्तमिति ।
अना­दि­त्वा­दौ­त्स­र्गि­क­मौ­दा­सीन्यं, तत्रा­प­वा­द­नि­व­र्त­का­रा­न्नि­धा­व­प्यौ­त्स­र्गि­क­स्थेम्नि दृष्टान्तमाह —
यथेति ।
कमठः कूर्मः ।
यदौदासीन्यं तत्प्रा­ग­भा­व­रू­प­त्वा­दु­क्त­मपि न निवृत्तिहेतुः; ततः कर्तव्यत्वेन प्रस­क्त­क्रि­या­प्र­ति­यो­गि­क­नि­वृ­त्ति­रू­पेण विशिष्टं निवृ­त्त्यु­प­योगि, यद्ध­न्या­त्त­न्नेति प्रस­क्त­क्रि­या­नि­वृ­त्ति­रू­पता चौदासीन्यस्य न; सर्वदा क्रिया­प्र­स­ङ्गा­भा­वात्, अतः काकवदुपलक्षणम्, तादृश्या निवृ­त्त्यो­प­ल­क्ष्यौ­दा­सीन्यं विशिनष्टि भाष्यकार इत्याह —
औदासीन्यमिति ।
ननु केयं प्रस­क्त­क्रि­या­नि­वृत्तिः? न ताव­द्ध­न­ना­दि­प्रा­ग­भावः, अनादित्वादेव तद्बो­ध­न­स्या­नु­प­यो­गात् । नापि तद्ध्वंसः; प्रसक्तक्रियाया अनुदयेन ध्वंसायोगात्, उच्यते, ‘हन­नो­द्य­त­ख­ङ्गादेः परावर्तनमुच्यते । निवृत्तिरिति तस्मिन्हि हननं न भविष्यति’॥ एषा च निवृत्तिः नञर्थबोधफला, नञर्थस्तु हन­न­ग­ते­ष्ट­सा­ध­न­त्वा­भाव एवेति ।
भाष्ये जैमि­नी­य­मा­न­र्थ­क्या­भि­धानं क्रिया­स­न्नि­धि­स्या­र्थ­वा­दा­दि­वि­ष­य­मि­त्यु­क्तम्, तदाम्नायस्य क्रिया­र्थ­त्वा­दिति हेतो­स्त­द्ब­ले­ना­क्रि­या­र्था­ना­म­प्रा­मा­ण्य­मिति पूर्वपक्षस्य विध्ये­क­वा­क्य­त्वेन प्रामाण्यमिति सिद्धान्तस्य च तद्वि­ष­य­त्वो­प­ल­क्ष­णा­र्थ­मि­त्याह —
पुरु­षा­र्था­नु­प­यो­गीति ।
स्वयं पुम­र्थ­ब्र­ह्मा­व­ग­म­प­र­त्व­मु­प­नि­ष­दा­म­सि­द्ध­मि­त्या­शङ्क्य भाष्यव्याख्याया परिहरति —
यदपीत्यादिना ।
अव­ग­त­ब्र­ह्मा­त्म­भा­व­स्येति भाष्येऽ­व­ग­ति­श­ब्दा­भि­प्रा­य­माह —
सत्यमिति ।
साक्षात्कारस्य स्वरूपत्वान्न निवर्तकतेति, तत्राह —
ब्रह्म­सा­क्षा­त्का­र­श्चेति ।
आत्मानमपि स्वं साक्षात्कारमिति ।
श्रव­णा­दि­सं­स्कृ­त­म­नो­ज­न्य­श्चे­त्सा­क्षा­त्कारः कथं तर्हि वेद­प्र­मा­ण­ज­नि­तेनि भाष्यमत आह —
अत्रचेति ।
अशरीरत्वं देह­पा­तो­त्त­र­का­ल­मिति शङ्कायां सशरीरत्वस्य निमि­त्त­व­र्ण­न­म­यु­क्त­मि­त्या­श­ङ्क्याह —
यदीति ।
सशरीरत्वं मिथ्या­त्वा­ज्जी­वत एव ज्ञानेन निवर्त्यं, तर्ह्य­श­री­र­त्व­म­प्य­भा­व­त्वा­त्त­थे­त्या­शङ्क्य न तत्त्वतः शरी­र­सं­ब­न्धा­भा­वो­प­ल­क्षि­त­स्या­त­था­त्त्वा­दि­त्याह —
यत्पुनरिति ।
भाष्ये तच्छब्देन नह्यात्मन इति प्रस्तु­ता­त्म­प­रा­मर्श इत्याह —
तदितीति ।
शरी­र­सं­ब­न्ध­स्ये­त्या­द्य­सि­द्धे­रि­त्यन्तं भाष्यं व्याचष्टे —
न तावदिति ।
‘शरीरसंबन्धस्य धर्मा­ध­र्म­यो­रि’त्यादि ‘प्रस­ङ्गा’दि­त्यन्तं भाष्यं विवृणोति —
ताभ्यां त्विति ।
आत्मनि स्वतोऽ सिद्धाभ्यां धर्माधर्माभ्यां जन्यशरीरसंबन्धं प्रति प्रीयमाणे वादिनी सिद्धे शरीरसंबन्धे धर्मादिसंबन्धः तत्सिद्धौ शरीरादिसंबन्ध इति परस्पराश्रयं स्वपक्षे प्रापयतीत्यर्थः ।
धर्मा­ध­र्म­व्यक्त्योः शरी­र­सं­ब­न्ध­व्य­क्ते­श्चे­त­रे­त­र­हे­तुत्वे यद्य­पी­त­रे­त­रा­श्रयः, तथापि न दोषोऽ­ना­दि­त्वा­दिति सत्कार्यवादी शङ्कते —
यद्युच्येतेति ।
तत्र नित्य­स­त्यो­र्व्य­क्त्योर्न हेतुहेतुमत्ता, अभि­व्य­क्त्योस्तु कादा­चि­त्क्यो­रि­त­रे­त­रा­धी­नत्वे एकस्या अप्य­सि­द्धे­र­न्ध­प­र­म्प­रा­तु­ल्या­ना­दि­त्व­क­ल्पना स्यादित्याह —
अन्धपरम्परेति ।
असत्कार्यवादी व्यक्ति­भे­दे­ने­त­रे­त­रा­श्रयं परिहरतीत्याह —
यस्त्विति ।
किं त्वेष इति ।
इदा­नी­न्त­न­श­री­र­सं­ब­न्ध­हे­तु­रि­त्यर्थः ।
पूर्व एवा­त्म­श­री­र­सं­बन्धो विशेष्यते —
पूर्व­ध­र्मा­ध­र्म­भे­द­ज­न्मन इति ।
पूर्वाभ्यां धर्मा­ध­र्म­वि­शे­षाभ्यां जन्म यस्य स तथोक्तः ।
एष त्विति ।
वर्तमान इत्यर्थः ।
आत्म­न्य­ध्या­स­प्र­स्ता­वो­क्त­यु­क्ति­भि­र्नै­कोपि क्रियासंबन्धः, कथ­म­न­न्त­व्य­क्ति­सं­भव इति परिहरतीत्याह —
तं प्रत्याहेति ।
देहा­त्म­सं­ब­न्ध­हे­तु­र्मि­थ्या­भि­मानः प्रत्यक्ष इत्युक्तम्, तदाक्षिप्य समाधत्ते —
ये त्विति ।
अप्र­सि­द्ध­व­स्तु­भे­द­स्या­न्य­त्रा­न्य­श­ब्द­प्र­त्ययौ भ्रान्ति­नि­मि­त्ता­विति प्रतिज्ञाय संश­य­नि­मि­त्त­श­ब्द­प्र­त्य­यो­दा­ह­रणं भाष्येऽ­नु­प­प­न्न­मि­त्या­शङ्क्य भ्रान्तिशब्देन समारोप उक्तः ।
अस्ति च संशयस्यापि समा­रो­प­त्व­मि­त्याह —
तत्र हि पुरुषत्वमिति ।
भ्रान्ते­र­प्यु­चि­त­नि­मि­त्ता­पे­क्ष­णा­द­क­स्मा­दि­त्य­यु­क्त­मि­त्या­श­ङ्क्याह —
शुक्ल­भा­स्व­र­स्येति ।
साधारणधर्मिणी दृष्टे किं तन्मात्रं विपर्ययकारणमुत सादृ­श्या­दि­दो­ष­मि­लि­तम् ।
नाद्यः; धवलभास्वररूपस्य शुक्ति­र­ज­त­सा­धा­रण्ये सति व्यव­हि­त­र­ज­त­नि­श्च­यात् प्रागेव सन्नि­हि­त­शु­क्ति­नि­श्च­य­प्र­स­ङ्गा­दि­त्य­भि­धाय द्वितीयं दूषयति —
संशयो वेति ।
समानो धर्मो यस्य स तथोक्तः ।
दृष्टेऽपि साधारणे धर्मिणि निश्चयः स्याद्य­द्य­न्य­त­र­को­टि­नि­र्णा­यकं प्रमाणं स्यात्, स्थाणुत्व इव शाखादिदर्शनं, बाधकं वा प्रमाणं कोठ्य­न्त­र­मु­प­ल­भ्येत, यथा तत्रैव पुरुषत्वविपरीते निश्चे­ष्ट­त्वादि, नैवमिहेत्याह —
उपलब्धीति ।
उपलब्धिः साधकं प्रमाणम्, अनु­प­ल­ब्धि­र्बा­धकं, तयो­र­भा­वोऽ­त्रा­व्य­वस्था । ततः संशयो वा युक्त इत्य­ध­स्त­ने­ना­न्वयः ।
ननु विशेषद्वयस्मृतौ संशयः, इह तु रजतमेव स्मृतमिति विपर्यय एवेति, तत्राह —
विशेषद्वयेति ।
अत्र हेतुमाह —
संस्कारेति ।
इतिशब्दो हेतौ । उद्बुद्धः संस्कारो हि स्मृतिहेतुः तदुद्बोधहेतुश्च सादृश्यम्, तस्य द्विष्टत्वेन शुक्ति­र­ज­तो­भ­य­नि­ष्ठ­त्वेन हेतु­नो­भ­य­त्रै­त­त्सा­दृश्यं तुल्यमिति यतोऽतः संशय एव युक्तः । न च रागाद्विपर्ययः; विरक्तस्यापि शुक्तौ रजतभ्रमादिति । एषात्र संश­य­सा­म­ग्र्य­क्ष­पा­देन वर्णिता – ‘‘समा­ना­ने­क­ध­र्मो­प­प­त्ते­र्वि­प्र­ति­प­त्ते­रु­प­ल­ब्ध्य­नु­प­ल­ब्ध्य­व्य­व­स्था­तश्च विशेषापेक्षो विमर्शः संशय’’ इति । समानधर्मः साधारणधर्मः । अने­क­स्मा­द्व्या­वृत्तो साधा­र­णोऽ­ने­क­धर्मः ।
एवमिह विपर्ययनियामकं दृष्टं नास्ती­त्यु­प­पा­द्या­क­स्मा­च्छब्द एवमभिप्राय इत्याह —
अत इति ।
कथं तर्हि दृश्य­मा­न­वि­प­र्य­य­नि­यमः ? तत्राह —
अनेनेति ।
दृष्टं हेतुं प्रतिषिध्य कार्यनियमं प्रतिजानता भाष्य­का­रे­णा­दृष्टं कर्म हेतु­त्वे­ना­र्था­दु­क्त­मिति ।
ननु तदपि समं किं न स्यात्? तत्राह —
तच्चेति ।
श्रुति­स्मृ­ती­रिति ।
श्रुतिं स्मृतिं चेत्यर्थः ।
साक्षात्कारो हि दृष्टं फलं, तादर्थ्यं मन­ना­दे­र्व­द­न्भा­ष्य­कारो विधिं न मृष्यत इत्याह —
तदिदमिति ।
अत्रैके वदन्ति — न दृष्टा श्रव­णा­दे­र­व­ग­त्यु­पा­यता; कृत­श्र­व­णा­दी­ना­मपि केषांचिदिह साक्षा­त्का­रा­स­मु­न्मे­षात्, तात्का­लि­क­श्र­व­णा­दि­वि­धु­र­वा­म­दे­वा­दे­र­प्य­प­रो­क्ष­ज्ञा­न­स­मु­द­याच्च, जन्मान्तरकृतस्य च विधिमन्तरेण साध­न­भा­वा­न­व­क­ल्प­नात्, श्रव­णा­दि­वि­ध्य­न­भ्यु­प­गमे च तद्वि­ध्यु­र­री­का­र­प्र­वृ­त्त­प्र­थ­म­सू­त्र­त­द्भा­ष्य­क­द­र्थ­ना­द­यु­क्त­स्त­द­न­भ्यु­प­गमः — इति । तत्र न ताव­द­नु­ष्ठि­त­सा­ध­न­स्येह फलादर्शनं तद्वि­धि­व्या­प्तम्; अनवरतं वैशे­षि­का­द्य­स­च्छा­स्त्र­श्रा­वि­णा­म­प्य­प­टु­म­तीनां केषां­चि­त्त­च्छा­स्त्रा­र्था­न­व­बो­ध­द­र्श­नेऽपि तच्छ्र­व­ण­वि­ध्य­भा­वात् । नापि भवान्तरकृतकर्मण इह फलजनकता तद्वि­धि­व्याप्ता; जातिस्मरस्य प्राचि भवे धनमुपार्ज्य भुवि निखन्य प्रमीतस्येह जन्मनि तदादाय भोगा­न्भु­ञ्जा­न­स्यापि प्राग्भ­वी­य­ध­नो­पा­र्ज­नायाः संप्र­ति­त­न­फ­ला­र्थ­म­वि­हि­ताया अपि हेतु­भा­वो­प­ल­म्भात् । प्रथमसूत्रं तु शास्त्री­य­वि­ष­य­फ­ल­नि­रू­पकं न विधिविचारपरमिति । किंच — प्राधान्यं श्रवणादेर्न भवतामपि संमतम् । गुण­क­र्म­त्व­म­त्रैव भाष्य­कृ­द्भि­र्नि­जु­ह्वुवे॥
‘यदि ह्यवगतं ब्रह्मान्यत्र विनि­यु­ज्ये­ते­त्या­दि­नेति’
इत्यु­क्त­म­ध­स्ता­दिति ।
गान्ध­र्व­शा­स्त्रा­भ्या­स­व­द­पू­र्वा­न­पे­क्षया साक्षा­त्का­र­हे­तु­तो­क्ते­त्यर्थः । गुणकर्म ह्युप­यो­क्ष्य­मा­ण­शेषः; यथाऽवघातादि, उपयुक्तशेषो वा; यथा कृत­प्र­यो­ज­न­प्र­या­ज­शे­षा­ज्यस्य हविष्षु क्षारणं ‘प्रयाजशेषेण हवीं­ष्य­भि­घा­र­ये­दिति’ विहितम् ।
तदिहात्मन उप­यु­क्तो­प­यो­क्ष्य­मा­ण­त्वा­भा­वान्न तद्विषयं मननादि गुणकर्मेत्याह —
तदपीति ।
न च श्रव­णा­दि­सं­स्कृ­त­स्या­त्मनः साक्षा­त्का­र­ज­न्म­न्य­स्तू­प­योग इति श्रव­णा­दि­गु­ण­क­र्म­त्व­सिद्धिः; अपूर्वोपयोगिन एव गुणकर्मत्वाद्, दृष्टे तु साक्षा­त्का­रेऽ­पू­र्वा­भा­वेन तदयोगादिति । ननु बाह्य­क्रि­या­विधिः प्रथमकाण्डे गतो मान­स­ज्ञा­न­वि­धि­वि­चा­राय पृथगारंभ इति शङ्का­पो­हा­र्थ­मा­र­भ्य­माणं चेति भाष्यम्॥
अहं ब्रह्मास्मीति वाक्यस्य तदर्थस्य चेत­र­प्र­मा­णा­व­सा­न­त्व­म­युक्तं, नित्य­नि­वृ­त्ति­प्र­स­ङ्गा­दि­त्या­शङ्क्य ज्ञानपर इतिशब्द इत्याह —
इतिकरणेनेति ।
विधी­ना­म­द्वै­त­ज्ञा­न­वि­रोधं दर्शयति —
विधयो हीति ।
त्र्यंशा भावना हि धर्मः । तद्विषया विधयः साध्या­दि­भे­दा­धि­ष्ठा­ना­स्त­द्वि­षयाः ।
अपि चैतेऽनुष्ठेयं धर्म­मु­प­दि­श­न्त­स्त­दु­त्पा­दिनः पुरुषेण तम­नु­ष्ठा­प­य­न्तीति साध्य­ध­र्मा­धि­ष्ठा­ना­स्त­त्प्र­मा­णा­नीति यावत्, अतो नित्य­सि­द्धा­द्वै­त­ब्र­ह्मा­व­गमे तेषां विरोध इत्याह —
धर्मोत्पादिन इति ।
नहीति ।
हेतुभाष्यस्य प्रतीकोपादानम् ।
नही­त्या­दि­नि­र्वि­ष­या­णी­त्यन्तं भाष्यं व्याख्याति —
अद्वैते हीति ।
विषयनिषेधो वाक्यार्थभेदः साध्य­सा­ध­ना­दि­प­दा­र्थ­भे­द­स्त­म्भा­द्य­र्थ­भे­द­श्चा­द्वै­ता­व­गतौ न भवतीति भाष्यार्थः ।
अप्र­मा­तृ­का­णी­त्ये­त­द्व्या­चष्टे —
न च कर्तृत्वमिति ।
ज्ञान­क­र्तृ­त्व­मि­त्यर्थः । निर्वि­ष­या­ण्य­प्र­मा­तृ­का­णीति बहुव्रीही विशेषणपरौ । तथा सति हि विष­य­प्र­मा­तृ­नि­षे­ध­यो­र्हे­तु­त्व­सिद्धिः ।
भाष्ये चकारः करणनिषेधार्थ इत्याह —
तदिदमिति ।
भाष्य­स्थ­प्र­मा­ण­शब्दो भावसाधनत्वेन ज्ञानवाची ततश्चकारेण करणनिषेधः ।
पुत्रा­दा­व­ह­मि­त्य­भि­मानो गौणात्मा चेत्तर्हि मुख्यात्मना किं गुणसाम्यमत आह —
यथेति ।
वाहीको नाम देश­वि­शे­ष­स्त­न्नि­वासी तच्छब्दोक्तः ।
पुत्रा­दे­रु­प­का­र­क­त्वा­रो­पाद्य आत्मा­भि­मा­न­स्त­स्मि­न्नि­वृत्ते ममत्वबाधनेत्याह —
गौणात्मन इति ।
श्रव­णा­दि­प्र­मा­ण­बा­ध­मुक्त्वा प्रमित्यभावमाह —
न केवलमिति ।
बोधीतीनन्तपाठो व्याख्यातः । सप्तम्यन्तस्तु निगदव्याख्यातः ।
निय­त­प्रा­क्सत्त्वं हि कारणत्वं, प्रमात्रादिश्च ज्ञानकारणं, तस्मिन् सकृ­दु­दि­त­त­त्त्व­सा­क्षा­त्का­रा­न्नि­वृत्ते नोर्ध्वं ज्ञाना­नु­वृ­त्ति­रि­त्य­र्थ­प­र­त्वेन प्रथमार्धं व्याख्याय प्रमातृलये फलिनोऽभावाद् मोक्ष­स्या­पु­म­र्थ­तेति शङ्कां द्विती­या­र्ध­व्या­ख्यया निरस्यति —
न च प्रमातुरिति ।
अन्वेष्टव्यः पर­मा­त्माऽ­न्वेष्टुः प्रमा­तृ­त्वो­प­ल­क्षि­ता­च्चि­दे­क­र­सान्न भिन्न­स्त­तोऽ­ध्य­स्त­प्र­मा­तृ­त्व­बा­धेऽ­प्यु­प­ल­क्षित आत्मैव पाप­दो­षा­दि­र­हि­तोऽ­न्विष्टो विदितः स्यादतो नोक्तदोष इत्यर्थः ।
ननु यद्य­न्वे­ष्टु­रा­त्म­भूतं ब्रह्म, किमिति तर्हि संसारे न चकास्ति? तत्राह —
उक्तमिति ।
प्रमा­त्रा­दे­स्त­त्त्व­ज्ञा­न­हे­तुतां सिद्धवत्कृत्य ज्ञाना­त्त­न्नि­वृत्तौ हेत्व­भा­वा­त्फ­ला­भाव उक्तः ।
स न, बाध्यस्य प्रमात्रादेः प्रमा­नु­त्पा­द­क­त्वा­पा­ताद् इति शङ्कोत्तरत्वेन तृतीयश्लोकं व्याख्याति —
स्यादेतदिति ।
यदलीकं तन्न प्रमाहेतुरिति व्याप्तिं प्रशिथिलयति —
एतदुक्तमिति ।
य उत्पद्यतेऽनुभवो न स पारमार्थिको यः पारमार्थिको न स उत्प­द्य­तेऽ­त­श्चा­प्र­मा­णा­त्कथं पार­मा­र्थि­का­नु­भ­वो­त्प­त्ति­रि­त्य­य­मि­ष्ट­प्र­सङ्ग इत्याह —
नचायमिति ।
वृत्तावपि प्रति­बि­म्बि­त­चि­दंशः सत्यो ऽस्ति, तत उक्तम् —
एकान्तत इति ।
ननु वृत्ति­रू­प­सा­क्षा­त्का­रोऽ­ली­क­त्वा­द­वि­द्या­त्मकः कथ­म­वि­द्या­मु­च्छि­न्द्या­द­विद्या वा कथं स्वविरोधिनं तं जनयेदत आह —
अविद्या त्विति ।
अलीकस्यापि सत्य­वि­ष­य­त्वा­द­वि­द्या­नि­व­र्त­क­त्वो­प­पत्तिः, दृष्टं च स्वप्नो­प­ल­ब्ध­व्या­घ्ना­दीनां स्वोपा­दा­ना­वि­द्या­नि­व­र्त­क­त्व­मिति भावः । अविद्यामयी वृत्ति­र्य­द्य­वि­द्या­मु­च्छि­न्द्या­त्ता­मेव स्वनि­व­र्ति­का­म­विद्यां जन­ये­द्वो­भ­य­था­प्यु­क्त­मा­र्गेण न काचि­द­नु­प­प­त्ति­रि­त्यर्थः । विद्यां वृत्तिमविद्यां च कार्यकारणभावेन सहिते यो वेद सोऽवि­द्यो­पा­दा­न­त्वेन तन्मय्या वृत्त्या तदुपादानं मृत्युमविद्यां तीर्त्वा स्वरू­प­भू­त­वि­द्यो­प­ल­क्षि­त­म­मृ­त­म­नुत इति श्रुतेरर्थः॥ भाष्यो­दा­हृ­त­श्रु­तयो व्याख्यायन्ते । उत्तरत्रापि तत्त­द­धि­क­र­ण­स­माप्तौ श्रुतयो व्याख्यास्यन्ते ।
सदेवेति ।
सदि­त्य­स्ति­ता­मा­त्र­मु­क्तम् । एव­श­ब्दोऽ­व­धा­र­णार्थः ।
किं तदवध्रियत इत्यत आह —
इदमिति ।
यदिदं व्याकृतं जगदुपलभ्यते तत्, अग्रे प्रागुत्पत्तेः विकृ­त­रू­प­प­रि­त्या­गेन सदेवासीत्, हे सौम्य प्रियदर्शनेति श्वेतकेतुः पित्रा संबोध्यते ।
मा भूत्स्थूलं पृथि­वी­गो­ल­का­दी­द­म्बु­द्धि­ग्राह्यं प्रागुत्पत्तेः, अन्यत्तु महदादिकं किमासीत्? नेत्याह —
एकमेवेति ।
स्वका­र्य­प­ति­त­म­न्य­न्ना­सी­दि­त्यर्थः ।
मृदो घटाकारेण परि­ण­म­यि­तृ­कु­म्भ­का­र­वत् किं सतोऽ­न्य­न्नि­मि­त्त­का­र­ण­मा­सीत्? नेत्याह —
अद्वितीयमिति ।
आप्नोतीत्यात्मा परमकारणं, वै इति जगतः प्रागवस्थां स्मारयति । इद­मि­त्या­दि­प­द­व्याख्या पूर्ववत् । तदिति प्रकृत आत्मा परामृश्यते, य इन्द्रो मायाभिः पुरुरूप ईयत इत्युक्तः । नपुं­स­क­प्र­यो­गस्तु विधे­य­ब्र­ह्मा­पेक्षः ।
तदेतदेव यद्ब्रह्म तद्वा किंलक्षणमित्यत आह —
अपूर्वमिति ।
नास्य पूर्वं कारणं विद्यत इत्यपूर्वम्, अकार्यमित्यर्थः । तथा नास्यापरं कार्यं वास्तवं विद्यत इत्यनपरम्, अकारणमिति यावत् । नास्यान्तरं जात्यन्तरम् अन्तराले विद्यत इत्यनन्तरम्, दाडि­मा­दि­व­त्स्व­ग­त­र­सा­न्त­र­वि­धु­र­मि­त्यर्थः । एवंविधमन्यदपि कूट­स्थ­मे­त­द­ना­त्म­क­तया बाह्यमस्य न विद्यत इत्यबाह्यमिति । यत्पुरस्ताद् दृश्य­म­वि­द्या­दृ­ष्टी­ना­म­ब्र­ह्मेव प्रतिभासते, तत्सर्वमिदममृतं ब्रह्मैव वस्तुत इत्यर्थः । तथा पश्चाद्दक्षिणतः इत्या­दि­म­न्त्र­शे­षेण सर्वा­त्म­त्व­म­व­ग­न्त­व्यम्॥ संपतत्यस्मादमुं लोकं फलभोगायेति संपातः कर्म, तद्या­व­त्ता­व­दु­षित्वा आवर्तत इति । इष्टं श्रौतम् । पूर्तं स्मार्तम् । दत्तं दानम्॥ परमार्थतः शरीरसंबन्धरहितं वाव एव सन्तं भवन्तम् तमात्मानं वैषयिके प्रियाप्रिये न स्पृशतः । । एवं परमार्थतोऽशरीरं शरी­रे­ष्व­न­व­स्थे­ष्व­नि­त्ये­ष्व­व­स्थितं नित्यं, महान्तम् ।
??मह­त्त्व­मा­पे­क्षि­क­मि­त्या­श­ङ्क्याह —
विभुम् ॥
मन्तृ­म­न्त­व्य­भे­द­नि­षे­धा­र्थ­माह —
आत्मानमिति ।
ईदृशमात्मानं मत्वा धीरो धीमान्न शोचति॥ प्राणः क्रियाशक्तिः परमार्थतो न विद्यते यस्य सोऽप्राणः । तथा ज्ञान­श­क्ति­म­न्मनो यस्य नास्ति सोऽमनाः । क्रिया­श­क्ति­म­त्प्रा­ण­नि­षे­धेन तत्प्रधानानि कर्मे­न्द्रि­याणि, ज्ञान­श­क्ति­म­न्म­नो­नि­षे­धेन तत्प्रधानानि ज्ञाने­न्द्रि­याणि च सविषयाणि निषिद्धानि । यस्मादेवं तस्माच्छुभ्रः शुद्ध इति । स्वप्ना­द्य­व­स्था­कृ­त­क­र्म­स्व­क­र्ता­त्मे­त्युक्तं स यत्तत्र किंचि­त्प­श्य­त्य­न­न्वा­ग­त­स्तेन भवतीति पूर्ववाक्ये ।
तत्र हेतुरुच्यते —
असङ्गो हीति ।
मूर्तं हि मूर्तान्तरेण संसृज्यमानं सृज्यते । आत्मा स्वयं पुरुषो न मूर्तः । अतो न केनचित्सृज्यत इत्यसङ्गः । अतो न कर्तेति॥ धर्मा­द­ध­र्मा­त्त­त्फ­ल­सु­ख­दुः­खाच्च कृतात् कार्यप्रपञ्चाद् अकृतात्कारणाद् अन्यत्र पृथक् भूतं भूतादेः कालादन्यत्र तेनानवच्छेद्यं, चेत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसः प्रश्नः॥ अस्य विदु­षोऽ­प्र­वृ­त्त­फ­लानि कर्माणि, तस्मिन् परावरे ब्रह्मणि आत्मत्वेन दृष्टे क्षीयन्ते । परं कारणम् । अवरं कार्यम् । तद्रूपे तदधिष्ठाने ॥ ब्रह्मणः स्वभावमानन्दं विद्वान् । यदस्मिन्देहे जलसूर्यवत् प्रविष्टं ब्रह्म जीवाभिधं तदाचार्येण बोध्य­मा­न­मा­त्मा­न­मेव विधूतकल्पनमवेद् विदितवत् । किं साङ्ख्यमत इव द्वैतमध्ये? न, अपि तु अहं ब्रह्मा­द्वि­ती­य­म­स्मीति । तस्मादेव विज्ञा­ना­द­वि­द्या­कृ­ता­स­र्व­त्व­नि­वृत्त्या तद् ब्रह्म सर्वमभवत्॥ यस्मिन् सर्वाणि भूतानि आत्मै­वा­भू­द्वि­जा­नत इति यः सर्वात्मभावो विद्याभिव्यक्त उक्तः, तत्रात्मनि तत्र चाज्ञानकाले आत्मैकत्वं पश्यतः को मोहः । तत्पदलक्ष्यं ब्रह्म एत­दा­त्म­भा­वे­ना­व­स्थि­त­म­ह­म­स्मीति पश्य­न्ने­त­स्मा­देव दर्शनादृष्टिः वामदेवाख्यः परं ब्रह्म अवि­द्या­नि­वृ­त्ति­द्वारा प्रतिपन्नवान् किलेति । हशब्दो व्यवधानेन संबन्धनीयः । स एतस्मिन्दर्शने स्थितः सर्वा­त्म­भा­व­प्र­का­श­का­नहं मनु­रि­त्या­दी­न्म­न्त्रांश्च ददर्श॥ भारद्वाजादयः षडृषयः परं विद्याप्रदं पिप्पलादं गुरुं विद्या­नि­ष्क्र­या­र्थ­म­नु­रू­प­म­न्य­द­प­श्यन्तः पादयोः प्रणम्य प्रोचुः । त्वं ह्यास्माकं पिता ब्रह्म­श­री­र­स्या­ज­रा­म­रस्य विद्याया जनयितृत्वाद्, इतरौ तु शरीरमेव जनयतः । जनयितृत्वमपि सिद्ध­स्यै­वा­वि­द्या­नि­वृ­त्ति­मु­खे­ने­त्याह — यस्त्वं नः । अस्मा­न­वि­द्या­म­हो­दधेः पर­म­पु­न­रा­वृ­त्ति­ल­क्षणं पारं तारयसि विद्याबलेनेति प्रश्नोपनिषत्॥ श्रुतं ह्येव मे इत्या­दि­च्छ­न्दो­ग­श्रुतिः सन­त्कु­मा­र­ना­र­द­सं­वा­द­रूपा । तत्रापि तार­य­त्वि­त्य­न्त­मु­प­क्र­मस्थं वाक्यं शेष­मा­ख्या­यि­को­प­सं­हा­रस्थं वाक्यान्तरम् । मे मम भगवद्दृशेभ्यो भगवत्सदृशेभ्यः । इदं श्रुतम् । यत्तरति शोकं मन­स्ता­प­म­कृ­ता­र्थ­बु­द्धि­मा­त्म­वि­दिति । सोऽह­म­ना­त्म­वि­त्त्वा­च्छो­चामि अतस्तं मां शोकसागरस्य पारमन्तं भगवांस्तारयतु आत्म­ज्ञा­नो­डु­पे­नेति । वल्क­ला­दि­व­च्चि­त्त­र­ञ्जको रागादिकषायो मृदितः क्षालितो विनाशितो यस्य ज्ञान­वै­रा­ग्या­भ्या­स­क्षा­र­ज­लेन तस्मै नारदाय तम­सोऽ­वि­द्या­ल­क्ष­णस्य पारं परमार्थतत्त्वं दर्शितवान्॥ संवर्गविद्यायां श्रूयते । वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति उपशाम्यति वायुमेवाप्येति प्रलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्येति । यदाऽप उच्छुष्यन्ति वायुमेवापियन्ति वायु­र्ह्ये­वै­ता­न्स­र्वा­न्सं­वृङ्क्ते इत्याधिदैवतम् । अथाध्यात्मम् — प्राणोवाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मन इति । तद् ब्रह्मविदि तत्का­र्या­द­न्य­देव । अथो अपि अवि­दि­ता­त्का­र­णात् अधि उपरि अन्यदित्यर्थः । येन प्रमात्रा इदं सर्वं वस्तु विजानाति लोकः, तं केन करणेन विजानीयात्? करणस्य ज्ञेय­वि­ष­य­त्वा­त्प्र­मा­तरि वृत्त्य­नु­प­पत्तेः । तस्मा­त्प्र­मा­तापि न ज्ञेयः किन्तु तत्सा­क्षी­त्यर्थः । यद्वाचा शब्दे­ना­न­भ्यु­दि­तम् अप्रकाशितम् ।
येन ब्रह्मणा सा वागभ्युद्यते प्रकाश्यते इत्यविषयत्वम् उपन्यस्याह —
??।
तदेवात्मभूतम् प्रमा­तृ­त्वा­दि­क­ल्पना अपो­ह्ये­त्ये­व­का­रार्थः । ब्रह्म महत्तममिति त्वं विद्धि, हे शिष्य यदुपाधिविशिष्टं देव­ता­दी­द­मि­त्यु­पा­सते जनाः इदं त्वं ब्रह्म न विद्धीति । यस्य ब्रह्मामतमविषय इति निश्चयः, तस्य तद् ब्रह्म मतं सम्यग् ज्ञातं यस्य पुनर्मतं विषयतया मतं ब्रह्मेति मतिर्न, स वेद ब्रह्म­भे­द­बु­द्धि­त्वात् । एतौ विद्व­द­वि­द्व­त्प­क्षा­व­नु­व­दति — अनियमार्थम् । अविज्ञातमिति विष­य­त्वे­ना­वि­ज्ञा­त­मेव ब्रह्म सम्यग्विजानतां विज्ञातमेव विषयतया भवति यथावदविजानताम् । दृष्टे­श्च­क्षु­र्ज­न्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्ययाऽनया न पश्येः । विज्ञा­ते­र्बु­द्धि­ध­र्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत् । तयो­र्जी­व­प­र­यो­र्मध्ये एको जीवः पिप्पलं कर्मफलम् अन्यः पर­मा­त्माऽ­भि­चा­क­शीति पश्यत्येव नात्ति । आत्मीयं शरीरम् आत्मा शरी­रा­दि­सं­यु­क्त­मा­त्मा­न­मि­त्यर्थः । एको देवो गूढः । छन्नः । सर्वव्यापित्वं न गगनवत्, किंतु सर्व­भू­ता­न्त­रात्मा, कर्माध्यक्षः कर्मफलप्रदाता, सर्व­भू­ता­ना­म­धि­वा­सोऽ­धि­ष्ठा­नम् ।
साक्षित्वे हेतुश्चेतेति ।
चैतन्यस्वभाव इत्यर्थः । केवलो दृश्यवर्जितः निर्गुणो ज्ञानादिगुणवान् न भवति॥ स आत्मा, परितः समन्तात् अगात्सर्वगतः शुक्रमित्यादयः शब्दाः पुल्लिङ्गत्वेन परिणेयाः; स इत्युपक्रमात् । अकायो लिङ्ग­श­री­र­व­र्जितः । अव्रणोऽक्षतः । अस्नाविरः शिररहितः । अव्र­णा­स्ना­वि­र­त्वाभ्यां स्थूल­दे­ह­रा­हि­त्य­मु­क्तम् ।
शुक्र इति ।
बाह्य­शु­द्धि­वि­र­ह­उक्तः । शुद्ध इत्या­न्त­र­रा­गा­द्य­भावः । अपापविद्धो धर्माऽधर्मरहितः । भाष्येऽ­ना­धे­या­ति­श­य­त्व­नि­त्य­शु­द्ध­त्वयोः पूर्व­सि­द्ध­व­दु­क्त­हेत्वोः सिद्धिमेतौ मन्त्रौ दर्शयत इति बोद्धव्यम् । आत्मानं साक्षिणमयं पर­मा­त्माऽ­स्मी­त्य­प­रो­क्ष­तया जानीयाच्चेत्, कश्चित्पुरुषः चेच्छब्दः आत्म­सा­क्षा­त्का­रस्य दुर्ल­भ­त्व­प्र­द­र्श­नार्थः । स स्वव्य­ति­रि­क्त­मा­त्मनः किं फलमिच्छुः कस्य वा पुत्रादेः कामाय प्रयोजनाय, तदलाभनिमित्ततया शरीरं संतप्यमानमनु तदुपाधिः सन् संज्वरेत् संतप्येत । निरु­पा­ध्या­त्म­द­र्शिनो नान्यदस्ति प्रयोजनं नाप्यन्यः पुत्रा­दि­रि­त्या­क्षेपः । य आत्मा चतुर्थेऽथात आदेशो नेति नेतीति वाक्येन विश्व­दृ­श्य­नि­षे­धेन व्याख्यातः स एष पञ्चमेऽध्याये निरुप्यत इत्यर्थः । यथे­न्द्रि­या­दिभ्यः परं परमासीन्नैवं पुरुषादस्ति किंचित्परं सा पुरुषलक्षणा काष्ठावधिः सूक्ष्म­त्व­म­ह­त्वादेः सैव गतिः परः पुरुषार्थः । यस्यो­दा­हृ­त­स­वि­शे­ष­ब्र­ह्मणा । पृथिव्येव यस्या­य­त­न­मि­त्यु­प­क्र­म्यो­प­न्य­स्ता­ना­म­धि­ष्ठानं तमौ­प­नि­ष­द­मु­प­नि­ष­द्भि­रेव विज्ञेयम् । विशेषणस्य व्याव­र्त­क­त्वा­द­य­मर्थो लभ्यते । पुरुषं त्वा त्वां पृच्छामि हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः । ‘अत्र ब्रह्म समश्नुत’ इति पूर्ववाक्ये जीव­न्मु­क्ति­रुक्ता । तत्र देहे वर्तमानोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तः । तत्तत्र यथाऽ­हि­नि­र्ल्व­यिनी अहित्वग् वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता प्राग्व­द­हि­ना­त्म­त्वे­ना­न­भि­मता शयीत वर्तेत एवमेवेदं विद्वच्छरीरं मुक्तेन पूर्व­व­दा­त्म­त्वे­ना­न­भि­मतं शेते । अथायं सर्पस्थानीयो जीवन्मुक्तः शरीरे वर्त­मा­नोऽ­प्य­श­रीरः । अहिरपि हि त्यक्तत्वचा संयुक्तोऽपि तामहमिति नाभिमन्यते । अश­री­र­त्वा­दे­वा­मृतः प्राणिति जीवतीति प्राणः निरुपाधिः सन्नित्यर्थः । एवंच ब्रह्मैव तच्च ब्रह्मतेज एव विज्ञानज्योतिः पर­मा­र्थ­वि­वे­क­तोऽ­च­क्षु­रपि बाधि­ता­नु­वृत्त्या सच­क्षु­रि­वे­त्या­दि­श्रु­त्य­न्त­र­यो­जना॥ इति वेदान्तकल्पतरौ चतुस्सूत्री समाप्ता॥

परमा पर­मा­न­न्द­बो­ध­स­ल्ल­क्ष­णा­ञ्चि­तम् । यमाश्लिष्यति सर्वज्ञं तं वन्दे पुरुषोत्तमम्॥
कार्यान्वयमिति ।
श्लोकपूरणार्थ एवंकारः । स्वयं पुरुषार्थे इति संबन्धः ।
यदि सर्वज्ञे वेदा­न्त­प्रा­माण्यं सिद्धं, किम­धि­क­र­णा­न्त­रेण? अत आह —
तच्चेति ।
सर्वज्ञे जगत्कारणे सम­न्व­य­प्र­द­र्श­नेन चेतनं तदि­त्यु­प­क्षि­प्तम् । तदाक्षिप्य समर्थ्यत इति सङ्गतिः । प्रयोजनं तु ‘तत्त्वमसीति’ तच्छ­ब्द­वा­च्य­प्र­धा­नै­क्य­सं­पत्तिः पूर्वपक्षे । सिद्धान्ते तु चेतनस्य ब्रह्मैक्यमिति । जीवा­णु­व्य­ति­रि­क्तेति कारणस्य जीवव्यतिरेकेण जीवा एव स्वकर्मद्वारा कर्तार इति मतं निरस्तम् । अणु­व्य­ति­रे­के­णा­णु­स­ङ्घा­त­वादः । चेतनग्रहणेन प्रधानवादः । परमाणव इति सिद्धान्ताद्भेद इति॥ आदिग्रहणेनेति । सांख्यादय इति भाष्ये इति । अनुमानवाक्येति । सिद्धान्ते अनुमानानि वाक्यानि च बीजम्, अन्यत्र तु तदाभासा इति ।
ज्ञान­क्रि­या­श­क्त्य­भा­वा­द्ब्र­ह्म­णोऽ­प­रि­णा­मिनः ।
सर्व­ज­न­न­श­क्ति­स­र्व­वि­ष­य­ज्ञाने ब्रह्मणो न स्तः कुतः? तस्य ज्ञान­क्रि­या­श­क्त्य­भा­वात्, ज्ञानक्रिययोः शक्ती ज्ञान­क्रि­या­शक्ती तयो­र­भा­वा­दि­त्यर्थः ।
यस्य हि किंचि­न्मा­त्र­ज­न­न­शक्तिः किंचि­न्मा­त्र­ज्ञा­न­श­क्तिर्वा न संभवति, कुतस्तस्य सर्व­वि­ष­य­ज­न­न­शक्तिः सर्वविषयज्ञानं च भवेताम्? शक्तिद्वयाभावे हेतुमाह —
ज्ञान­क्रि­या­श­क्त्य­भा­वा­द्ब्र­ह्म­णोऽ­प­रि­णा­मि­नः­अ­प­रि­णा­मिन इति ।
कार्योन्नेये हि शक्ती, कार्ये च ज्ञानक्रिये नास्य स्तोऽप­रि­णा­मि­त्वा­दि­त्यर्थः । प्रधाने तु परि­णा­मि­त्वा­दस्ति संभव इत्यर्थः ।
नन्व­प­रि­णा­मि­न्यपि ज्ञानगुणः प्रयत्नगुणश्च किं न स्यातामत आह —
तस्या­प­रि­णा­मि­त्वा­दे­क­त्वा­च्च­ए­क­त्वा­च्चेति ।
एक­रू­प­त्वा­न्नि­र्गु­ण­त्वा­दि­त्यर्थः । अथ­वाऽ­प­रि­णा­मित्वं साधयति निरवयवत्वादिति यावत् ।
ननु चेत­न­त्वा­द­प­रि­णा­म्यपि सर्वज्ञमत आह —
स्वरूपेति ।
अवृत्तिकं सर्व­वि­ष­य­प­रि­णा­म­र­हि­तम् ।
नन्वावृतज्ञाना जीवाः, ब्रह्म तु अनावृतं किं न सर्वज्ञमत आह —
न च स्वरूपेति ।
ज्ञानकर्तृत्वं हि ज्ञातृ­त्व­मि­त्यर्थः ।
अङ्गीकृत्यापि स्वरूपस्य कार्यतामाह —
कार्यत्वे चेति ।
स्यादेतत् — कथमचेतनं चेतनानधिष्ठितं प्रवर्तेतात आह —
भोगेति ।
पुरुषार्थेन प्रयुक्त आक्षि­प्त­श्चा­सा­व­नादिः प्रधा­न­पु­रु­ष­सं­योगः प्रधानस्य पुरुषं प्रति पारार्थ्यलक्षणः संब­न्ध­स्त­न्नि­मित्तः सर्ग इति॥
गौणश्चेत् (ब्र.अ.१.पा.१.सू.६) इत्या­दि­सू­त्र­नि­रस्याः शङ्काः सौक­र्या­र्थ­मे­क­त्र­लि­खति —
तदै­क्ष­ते­त्या­दिना ।
वृद्धाः शबरस्वामिनः ।
यज्ञपुरुषस्य ‘‘शिरो ह वा आग्नेयो हृद­य­मु­पां­शु­याज’’ इति प्रधा­ना­ग्ने­य­प्रा­य­व­च­नात् प्रधा­न­क­र्मो­पां­शु­याज इत्युक्त्वा लोकेऽप्युदाहरति —
यथाग्नेत्यादि ।
अग्नयः श्रेष्ठः ।
कथं नित्यस्य जीवस्य प्रधाने लयोऽत आह —
प्रधानांशेति ।
प्रधा­न­स्यां­श­स्त­मो­गु­ण­स्त­स्यो­द्रेके जीवो निद्रां कुर्वंस्तत्र मग्न इव भवत्यतश्च विवे­का­भा­वा­ल्ल­यो­प­चारः । प्रमा­ण­वि­प­र्य­य­वि­क­ल्प­नि­द्रा­स्मृ­तयः (पातं.यो.अ.१.पा.१.सू.६) इति सूत्रोक्ता निद्रातोऽन्या वृत्तयोऽभावं प्रत्ययन्ते प्रति­ग­च्छ­न्त्य­स्मि­न्नि­त्य­भा­व­प्र­त्य­य­स्त­दा­ल­म्बना जीवस्य या वृत्तिः सा निद्रेति पात­ञ्ज­ल­सू­त्रार्थः ।
सर्वज्ञं प्रस्तुत्येति ।
‘ज्ञः कालकालो गुणी सर्वविद्य ‘ इति प्रधा­न­का­र­ण­प­क्षेऽपि योजयितुं शक्यत इति ।
सर्वशक्तित्वं ताव­त्प्र­धा­न­स्या­प्यु­प­प­द्यते इति च भाष्येऽ­पि­का­र­द­र्श­ना­द­न­व­धा­र­णे­नात्र पूर्वपक्ष इति केचि­द्व्या­च­क्षते, तद्व्यावर्तयति —
अपिकाराविति ।
इह हि ‘गौण­श्चे’दि­ती­क्षणे गौणत्वशङ्का मुख्येक्षणवतो ब्रह्मणः कार­ण­त्वा­सं­भ­व­नि­श्च­य­वत एव । तथाच नानवधारणम् । तत्परतयैव वेदान्तवाक्यानि योजयतीति च भाष्यं विपर्ययेण पूर्वपक्षं द्योतयति । यदा योगैश्वर्यात् सत्त्वं निरतिशयोत्कर्षं भवति, तदा तत्सर्वज्ञत्वे बीजं भवतीति सूत्रार्थः ।
निरतिशयतां सत्त्वस्य तत्का­र्य­ज्ञा­नस्य निर­ति­श­य­त्व­सा­ध­ने­नो­प­पा­द­यति —
यत्खल्विति ।
कुवलं बदरम् । ज्ञानत्वं, निर­ति­श­य­किं­चि­दा­श्रितं, साति­श­य­वृ­त्ति­जा­ति­त्वात्, परिमाणत्ववदिति समुदायार्थः ।
निरतिशयत्वे कथं सर्वविषयता? न हि नभः परिमाणं सर्वविषयमत आह —
इदमेवेति ।
ज्ञेयभूम्ना हि ज्ञानभूमा, ततो निरतिशयत्वं , सर्व­वि­ष­य­त्व­मा­न­य­ती­त्यर्थः । अपिभ्याम् एवकारार्थत्वेन व्याख्या­ता­भ्याम् । सिंहा­व­लो­कि­ते­नेति पुन­रु­क्ति­प­रि­हारः । चकारो विशेषवाची तुश­ब्द­स­मा­नार्थः॥
नन्व­नु­मा­न­सि­द्धा­नु­वा­दिषु वेदान्तेषु कथ­मी­क्ष­ति­श्र­व­णाद् ब्रह्म­नि­र्ण­य­स्त­त्राह —
नामरूपेति ।
प्रवेदयिष्यते तर्कपादे (ब्र.अ.२.पा.२) ।
पौर्वापर्येति ।
पौर्वा­प­र्य­मु­प­क्र­मो­प­सं­हारौ । परामर्शो मध्ये निर्देशः । एभिर्यदाम्नायो मुख्यवृत्त्या वदेत्तदेव जगद्बीजं, स चाम्नायश्चेतने मुख्यो न प्रधान इति ।
भवतु ब्रह्मणि प्रकृ­ति­र्मुख्या, प्रत्ययः कथं मुख्य इति शङ्कते —
नन्विति ।
अत एव नित्य­ज्ञा­न­त्वा­देव ।
यद­वा­द्य­प­रि­णा­मि­त्वान्न ज्ञानं ब्रह्मण इति , तत्राह —
यद्यपि चेति ।
उपाध्यपेक्षं ज्ञातृत्वं गौणमित्याशङ्क्य पार­मा­र्थि­के­क्षि­तृ­त्वा­सं­भ­वा­दि­द­मेव मुख्यमित्याह —
परैरपीति ।
चैत­न्य­सा­मा­ना­धि­क­र­ण्ये­नेति ।
यत्रात्मनि स्वरूपभूतं चैतन्यं तत्रैव ज्ञातृ­त्वो­प­ल­ब्धे­स्तस्य च परि­णा­मा­न­भ्यु­प­ग­मा­त्प­रै­रि­त्यर्थः ।
ननु किं चिति­श­क्ते­र्ज्ञा­तृ­त्वेन, प्रधानविकारा एव ज्ञास्यन्ति? नेत्याह —
न हीति ।
भवतु कापिले मतेऽलीकं ज्ञातृत्वं, भाट्टे तु तात्त्विकं तद­न­भ्यु­प­ग­च्छ­त­स्तव गौणं स्यादत आह —
नित्यस्येति ।
अस्तु तर्हि न्यायमते वास्तवमत आह —
कूटस्थेति ।
अव्यापारवत इति च्छेदः । धर्मो गुणः । उपरिष्टात् ‘ज्ञोऽत एव’(ब्र.अ.२.पा.३.सू.१८) इत्यादौ ।
औपा­धि­क­मी­क्ष­ण­क­र्तृ­त्व­मि­त्यत्र श्रुती दर्शयति —
तथा चेति ।
ज्ञानं साधनेनोपलक्षितं तद्वि­ष­य­ना­म­रू­प­व्या­चि­की­र्षा­व­द्भ­वति । अयं धर्मद्वययोग उपचयः ।
ततोऽन्नमभिजायत इत्ये­त­द्व्या­चष्टे —
व्याचिकीर्षायां चेति ।
उत्प­न्न­व्या­चि­की­र्षया नाम­रू­प­प्र­प­ञ्चस्य व्याप्तिरभिजायत इत्यु­क्त्वाऽ­न्न­श­ब्देन नामरूपमुच्यते, तत्र निमित्तं प्रसि­द्धा­न्न­गु­ण­यो­ग­माह —
साधारणमिति ।
अन्नादिति क्रमार्था पञ्चमी । व्याचि­की­र्षि­त­त्वा­न­न्त­र­मि­त्यर्थः । हिर­ण्य­ग­र्भ­सृष्टिः सूक्ष्म­भू­त­सृ­ष्ठ्य­न­न्त­र­मिति द्रष्टव्यम् । मणीनामिव सूत्रं जगतो सूत्रं विधारकः सूत्रात्मा ।
समुदाये सिसृक्षिते प्रथ­म­मे­क­दे­शो­त्पत्तौ निदर्शनमाह —
यथेति ।
मन इत्यादावपि पूर्व­पू­र्व­स­र्गा­न­न्त­र­मिति द्रष्ट­व्य­मि­त्याह —
तस्माच्चेति ।
मनआख्यमिति ।
व्यष्टि मन इत्यर्थः । सङ्क­ल्पा­दि­वृ­त्ति­व्य­क्ती­क­र­णा­त्मकं तत्कारणमिति यावत् ।
सत्य­मि­त्य­स्या­र्थ­माह —
आकाशादीनीति ।
स्थूलानीत्यर्थः । तेषु हि पृथि­व्या­दि­भू­त­त्र­यम् अप­रो­क्ष­त्वा­त्सत् वाय्वाकाशौ परो­क्ष­त्वा­त्स­त्य­मिति तत्त्व­श­ब्द­प्र­योगः ।
कर्मसृष्टिं सिद्धवत्कृत्य श्रुत्या कर्मसु चेत्युक्तं, तामाह —
तेष्विति ।
सप्तमी निमित्तार्था । ज्ञानमयम् इत्यौ­पा­धि­क­मी­क्ष­ण­मु­क्तम् ।
अन्नात्प्राण इत्यत्र पञ्चम्याः क्रमा­र्थ­त्व­स्वी­का­रा­दि­हापि तत्प्र­स­ङ्ग­मा­श­ङ्क्याह —
पूर्वस्मादिति ।
निय­त­पू­र्व­का­ल­व­र्तित्वं कारणत्वं तच्छब्दार्थ इत्यर्थः ।
नियतपूर्वसतः सर्व­ज्ञा­ज्जा­य­मा­नस्य हिर­ण्य­ग­र्भ­ब्र­ह्मणः परकालवर्तित्वेन कार्य­त्व­मे­त­च्छ­ब्दार्थ इत्याह —
एतदिति ।
नाम देवदत्त इत्यादि । रूपं शुक्लादि ।
मुमुक्षोश्चेति ।
‘तन्निष्ठस्य’ (ब्र.अ.१.पा.१.सू.७) इति सूत्रा­र्था­नु­कर्षः । अय­था­भू­त­प्र­धा­ना­त्म­त्वो­प­दे­शश्च मुक्तिविरोधी ।
यदवादि “यत्प्राये श्रूयत’’ इति, तत्राह —
संशये चेति ।
द्वितीये स्थितम् – ‘विशये प्रायदर्शनात्’ (जै.अ.१.पा.३.सू.१६) । ‘‘वत्समालभेत वत्सनिकान्ता हि पशव’’ इत्यत्र किमा­ल­भ­ति­र्य­जि­म­त्क­र्मा­भि­धानः, उत स्पर्शमात्रवचन इति सशये ‘वायव्यं श्वेत­मा­ल­भे­ते’त्या­दा­वा­ल­भतिः प्राणि­द्र­व्य­सं­युक्तो यजि­म­त्क­र्मा­भि­धानो दृष्ट इतीहापि तथात्वे प्राप्ते — राद्धान्तः, वायव्यादौ द्रव्य­दे­व­ता­सं­ब­न्धा­द्या­ग­प्र­ती­ते­र्य­जि­म­त्सं­ज्ञ­प­ना­भि­धा­य्या­ल­भतिः, इह तु न, द्रव्य­दे­व­ता­सं­ब­न्धा­भा­वात्, किंतु गोदो­ह­ना­दि­सं­स्का­र­क­र्म­स­न्निधौ श्रवणात् स्पर्श­मा­त्र­सं­स्का­र­क­र्म­व­चन इति॥
प्रकृते वैषम्यामाह —
इहत्विति ।
ब्राह्मण अयनमाश्रयो यस्य स्वयं त्वाभास इति । आरोपे सादृ­श्य­नि­य­म­भ­ङ्गाय मरीच्युदाहरणम् । चेतनभेदारोपे चन्द्रभेदः ।
पात­ञ्ज­ला­दि­म­तेऽ­प्याह —
नचेति ।
तन्मते कार्या­णा­म­धि­ष्ठा­तु­रु­पा­दा­नाच्च भेदात् श्रुतौ च तदभावादित्यर्थः ।
चेतनं कारणमिति प्रतिपाद्ये तत्स­त्त्वो­क्ति­र­न­र्थि­के­त्या­श­ङ्क्याह —
सदिति ।
अधिकरणानुक्रमणे उक्तोऽर्थो भाष्यारूढः क्रियते —
तथापीक्षितेति ।
सिद्धा­न्तेऽ­प्य­नि­र्वाच्या त्रिगुणास्ति माया, तत उक्तं —
पारमार्थिकेति ।
तेनापीति ।
चेतनकारणेनात्मन एव बहु­भ­व­न­क­थ­ने­ने­त्यर्थः ।
आका­शो­प­क्र­म­सृ­ष्टि­श्रुत्या तेजः प्राथ­म्य­श्रु­ते­र्वि­य­द­धि­क­रण (ब्र.अ.२.पा.३.सू.१) सिद्धान्तो नास्तीति कृत्वाचिन्तयैव विरोधमाह —
यद्यपीति ।
छन्दोग्ये हि – ‘‘तासां त्रिवृतं त्रिवृ­त­मे­कै­का­म­क­रोदि’’ति तिसृणां देवतानां तेजोबन्नानामेव त्रिवृ­त्क­र­ण­म­न­न्तरं वक्ष्यति, न गगनपवनयोः, तत्र च तेजः प्रथममिति स्वरू­पो­त्प­त्ता­वपि तदुपचार इति॥ संप्रदायाध्वना पञ्चोकरणं यद्यपि स्थितम् । तथापि युक्ति­यु­क्त­त्वा­द्वा­च­स्प­ति­मतं शुभम्॥ पृथि­व्य­ब­न­ला­त्मत्वं गगने पवने च चेत् । रूप­व­त्त्व­म­ह­त्वाभ्यां चाक्षुषत्वं प्रसज्यते॥ अर्धभूयस्त्वतः क्षित्या­द्य­वि­भा­व­न­क­ल्पने । व्यवहारपथा प्राप्ता मुधा पञ्ची­कृ­ति­र्भ­वेत्॥ अनपेक्ष्य फलं वेद­सि­द्धे­त्ये­षे­ष्यते यदि । त्रिवृत्कृतिः श्रुता पञ्चीकृतिर्न क्वचन श्रुता॥ तस्मा­त्सु­ष्ठू­च्यते तेजोऽबन्नानामेव त्रिवृत्करणस्य विव­क्षि­त­त्वा­दिति । पञ्चीकरणमेवम् — पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते तत एकैकमर्धं चतुर्धा क्रियते । ते च चत्वारो भागा इतरभूतेषु चतुर्षु निक्षिप्यन्ते । तत्राकाशस्य स्वार्धेन भूता­न्त­रा­ग­त­पा­द­च­तु­ष्केण च पञ्चीकरणम् । एवं भूतान्तरेषु योजना । त्रिवृत्करणे तु त्रीणि भूतानि द्विधा विदार्य प्रति­भू­त­मे­कै­क­मर्धं द्विधा प्रस्फो­ष्ठ्ये­त­र­भू­त­द्वये योजनमिति ।
अभ्युच्चयाय श्रुत्या­न्त­रो­दा­ह­र­ण­मि­त्याह —
एकमिति ।
ब्रह्म चतुष्पादिति ।
क्वचिच्च षोडशकलं पुरुषं प्रस्तु­त्ये­त्यस्य भाष्यस्य व्याख्यानम् । पशोः पादेषु हि पुरतः खुरौ पृष्ठतश्च द्वौ पार्ष्णि­स्था­नी­या­व­व­यवौ दृश्येते । तद्व­त्प­र­मा­त्म­न्यपि चतुष्पात्त्वेन षोडशकलत्वेन च पशु­रू­प­क­ल्प­न­यो­पा­स­नम्॥ इदमुदाहरणमत्र न संगच्छते; प्रश्नोपनिषदि हि – ‘‘इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति’’ प्रस्तुत्य ‘‘स ईक्षांचके कस्मि­न्न्व­ह­मु­त्कान्ते उत्कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति­ष्ठा­स्या­मिति स प्राण­म­सृ­ज­त्प्रा­णा­च्छ्रद्धां स्वं वायु­र्ज्यो­ति­रापः पृथि­वी­मि­न्द्रियं मनोऽ­न्न­म­न्ना­द्धीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम चेति’’ पठ्यते ।
छान्दोग्ये तु —
दिगाद्यवयवः षोडशकल उपास्यो, न च तत्र स ईक्षांचके इति श्रवणमस्ति । तस्माद् न्यायनिष्ठं शास्त्रमिति द्योत­यि­तु­म­नु­दा­ह­र­ण­म­प्यु­दा­हृ­तम् । अथवा — एवं कथं चित्समर्थनीयम् । पर­ब्र­ह्म­प्र­मि­त्यर्थां सृष्टिमाश्रित्य शासति । उपासनानि वेदान्तास्तत एतदुदाहृतम्॥ या हि कलाः प्रश्ने पर­मा­त्म­प्र­मि­ति­प्र­यो­ज­ना­स्तत उत्पान्ना इत्यु­क्ता­स्त­भि­र्वि­शिष्टः छान्दोग्ये स एवोपास्य उक्तः । तत्र यद्यपि श्रद्धा­द­य­श्छा­न्दोग्ये न पठिताः नापि दिगादयः प्रश्ने, न च गुणॊपसंहारः, सगु­ण­नि­र्गु­ण­त्वेन विद्या­भे­दा­दु­प­सं­हारे चाधि­क­सं­ख्या­पत्तौ षोड­श­क­ल­त्व­भ­ङ्गात्; तथापि पृथि­वी­न्द्रि­य­मनः प्राणादयः कियन्तः समा उभयत्रापि, दिगादयस्तु लोके­ष्व­न्त­र्भ­वन्ति, न च याव­त्सृ­ष्टा­वुक्तं ताव­त्स­र्व­मु­पा­स्ता­वु­प­सं­ह्रि­यते; येन संख्या­ति­रि­च्यते, उपयोगि तु । तस्मा­त्प्र­श्न­च्छा­न्दो­ग्य­यो­रे­क­त्वात् षोडशकलस्य शक्यते वक्तुं दिगाद्यवयवं षोडशकलं प्रस्तुत्य स ईक्षांचक्रे इति श्रूयत इति । एवंच निर्गुणप्रकरणे कला­श­ब्द­प्र­यो­गोऽ­न्य­त्रो­पा­स्य­त्वा­भि­प्रायः सन् सोपयोग इति । कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च । श्रद्धा लोकास्तपो मनो वीर्यं शरीरकम्॥
प्रसिद्धेति ।
लक्षणाया एव निरुढत्वार्थं प्रयोगानुगमो न वाच­क­त्वा­ये­त्यर्थः । सप्तमे स्थितम् — इति­क­र्त­व्य­ता­वि­धे­र्य­जतेः पूर्ववत्त्वम् (जै.अ.७.पा.४.सू.१) सौर्या­दि­ष्व­ना­म्ना­ना­द­नि­ति­क­र्त­व्य­ता­कत्वे प्राप्ते — उच्यते; तथा लोके शाकादिषु सिद्धेषु वदत्योदनं पचेति, तथेह सिद्धवत्कृत्य सामा­न्ये­ने­ति­क­र्त­व्यतां करणं विहितम् । तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शा­दि­प्र­कृ­ति­वि­हि­त­पू­र्वे­ति­क­र्त­व्य­ता­व­त्त्व­मिति । । समुदाचरणं व्यक्तिः । तेषामपि हैरण्यगर्भाणां मते क्लेशै­र­वि­द्याऽ­स्मि­ता­रा­ग­द्वे­षा­भि­नि­वे­श­ध­र्मा­ध­र्म­क­र्मणां विपाकेन तत्फलेन आशयेन फलभोगवासनया अस्पृष्टस्य पुरुषस्यैव प्रकृ­ष्ट­स­त्त्वो­पा­दानं सर्वज्ञत्वं, नाचे­त­न­स्ये­त्यर्थः ।
नचैतदपिभेदमतं श्रद्धेयमित्याह —
तदपि चेति ।
इदं ताव­दि­त्या­दि­दो­षोऽ­स्ती­त्यन्तं भाष्यं ब्रह्मणि प्रकृ­त्य­र्थ­स्ये­क्ष­ण­स्या­ञ्ज­स्य­प्र­द­र्श­न­प­रम् ।
ज्ञाननित्यत्व इत्यादिना प्रत्य­या­र्था­नु­प­प­त्ति­मा­शङ्क्य परिह्रियते, तदभिप्रायमाह —
एतदपीति ।
अनु­प­हि­त­नि­त्य­चै­तन्ये कर्तृ­त्वा­भा­वा­दि­त्यर्थः । सवि­तृ­प्र­का­श्यस्य रूपा­दे­र्भा­वा­द­स­त्य­पीति भाष्या­यो­ग­मा­शङ्क्य विक­ल्प­मु­खे­ना­व­ता­र­यति किमिति । सवितरि कर्मास्ति, इह तु नेति वस्तुत एव कर्माभाव उदा­ह­र­णा­द्वै­ष­म्य­म­भि­म­तम्, उत दृष्टान्ते कर्म विद्यते विवक्षितं च, दार्ष्टान्तिके तु यद्यपि विद्यते, तथा­प्य­वि­व­क्षितं; तव मतेऽ­ध्य­स्त­त्वा­दृ­श्य­स्येति मतम् । तत्र द्वितीये विकल्पे किं सविता प्रका­श­य­ती­त्य­स्मा­दै­क्ष­ते­त्यस्य दार्ष्टा­न्ति­कस्य वैषम्यमुत प्रकाशत इत्यस्मात् ।
आद्यमभ्युपगमेन परिहरति —
तदा प्रका­श­य­ती­त्य­ने­नेति ।
न द्वितीय इत्याह —
प्रकाशते इत्यनेनेति ।
नह्यत्रेति ।
अक­र्म­क­त्वा­त्प्र­का­श­ते­रि­त्यर्थः । एवंच सत्यै­क्ष­ते­त्ये­त­द­पी­क्षणं करोतीत्येवंपरं, नत्वा­लो­च­य­ती­त्ये­व­म­र्थ­मिति । प्रकाशत इति कर्तृ­त्व­व्य­प­दे­श­द­र्श­ना­दि­त्य­य­मेव भाष्यपाठः साधुर्न णिजन्तः ।
आद्य­वि­क­ल्प­यो­र्मध्ये प्रथमं प्रत्याह —
अथेति ।
ऐक्षतेत्यत्र कर्मा­वि­व­क्षा­मु­पेत्य प्रकाशत इति­व­त्क­र्तृ­त्व­नि­र्देश उपपादितः, इदा­नी­म­वि­व­क्षा­प्य­सि­द्धे­त्याह —
विव­क्षि­त­त्वा­च्चेति ।
न खल्वस्माकं क्वचिद्वास्तवं दृश्य­म­स्त्य­तोऽ­प्य­स्त­त­यैव कर्मत्वस्य विवक्षेत्यर्थः ।
या तु प्रधानस्य सर्वज्ञत्वे साक्षिणी सत्त्वोत्कर्षे योगि­सा­र्व­ज्ञ­प्र­सि­द्धि­रुक्ता, सा समा ब्रह्मण्यपि; चेत­ने­श्व­र­प्र­सा­दा­य­त्त­यो­गि­स­र्व­ज्ञ­त्वस्य पातञ्जलतन्त्रे प्रसिद्धत्वाद्, इत्येवमर्थ यत्प्र­सा­दा­दि­त्या­दि­भाष्यं, तद्व्याचष्टे —
यस्येति ।
तत ईश्व­र­प्र­णि­धा­ना­त्प्र­त्य­गा­त्मा­धि­ग­मोऽ­न्त­रा­यस्य रागादेरप्यभाव इति सूत्रार्थः ।
वस्तुतो नित्यस्येति ।
औपा­धि­क­त्वे­ना­नि­त्य­त्व­स्यो­क्त­त्वा­दिति ।
कार­णा­न­पे­क्षा­मिति ।
कर्म­मा­त्र­मु­पा­धि­मी­क्ष­ण­म­पे­क्षते, न शरीरादीतिभावः ।
स्वरूपेणेति ।
अन्वयेनेत्यर्थः ।
ज्ञाना­भि­व्य­क्तये कर्तव्यं नास्तीत्याह —
आवरणादीति ।
ज्ञानमेव बलं साम­र्थ्य­मु­पा­ध्य­व­च्छि­न्न­फ­लो­त्पत्तौ, तेन बलेन फलभूतानुभवस्य करणं क्रिया, सा च न प्रधानस्येत्याह —
प्रधानस्य त्विति ।
अभिनिवेशस्यैव मिथ्या­बु­द्धि­त्वा­त्कथं तस्यैव तं प्रति हेतुत्वमत आह —
पूर्वेणेति ।
ननु लय­ल­क्ष­णाऽ­वि­द्यो­पा­दा­न­मस्ति कथं मात्रशब्दोऽत आह —
मात्रेति ।५ ।६ ।
गौणश्चेदिति ।
(ब्र.अ.१.पा.१सू.६) सूत्र­सं­ब­न्धि­भा­ष्य­म­नु­क्र­म­णि­कायां व्याख्या­त­मि­त्यु­प­रि­त­न­भाष्यं व्याचष्टे —
शङ्को­त्त­र­त्वे­ने­त्या­दिना॥
यः सदाख्यः । एषोऽ­णि­माऽ­णो­र्भावः । भाव­भ­वि­त्रो­र­भे­दा­दणुः॥ एतस्यात्मनो भाव ऐतदात्म्यम् । अयमपि प्रयोगो भवितृपरः । एतदात्मकं जगत्॥ सत्येन तप्तपरशुं गृह्वतो मोक्ष­व­त्स­त्य­ब्र­ह्म­ज्ञस्य मोक्ष उक्तः ‘तप्तं परशुं गृह्णा­ती’त्यत्र॥ उक्थं प्राणः ।
अर्थ­वा­द­प्र­क­ल्पि­ते­नेति ।
‘‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा’’ इति प्रकाशकत्वाज् ज्योतिष्ट्वेन रूपि­त­त्रि­वृ­दा­दि­स्तु­ति­स­मु­दा­य­व­त्त्वा­त्क्रतौ ज्योतिः शब्दः॥७॥ हे श्वेतकेतो पुत्र तमप्यादेशम् आदिश्यते इति शास्त्रा­चा­र्यो­प­दे­श­गम्यं वस्त्वप्राक्षीः पृष्ट­वा­न­सि­त्व­मा­चा­र्यम् । येन श्रुतेन शास्त्र­तोऽ­श्रु­त­म­प्य­न्य­च्छ्रुतं भवति, अमतमन्यन्मतं तर्कतो एन मतेन , अवि­ज्ञा­त­म­नि­दि­ध्या­सितं विज्ञातं भवति येन विज्ञातेनेति ।
अन्य­ज्ञा­ना­द­न्यन्न ज्ञेयमिति पुत्रप्रश्नः —
कथं न्विति ।
नान्यत्वं कार्यस्य कारणादित्याह —
यथा सोम्येति ।
यो विकारः स वाचारम्भणं वागालम्बनम्, उच्यते परम् । नामधेयं नाममात्रं, नार्थ इति॥८॥ मनःशब्दवाच्यो भवतीति । लक्ष्यो भवति । ‘‘एवमेव खलु सोम्य तन्मन‘‘ इति स्वप्नो­प­न्या­स­वाक्ये अर्थवादस्यापि स्वपि­ति­ना­म­नि­र्व­च­नस्य यथार्थत्वाय हृद­या­दि­नि­रु­क्त्यु­दा­ह­र­णम् । तस्य हृदयशब्दस्य । एतन्निरुक्तं निर्वचनम् । ‘‘अशनायापिपासे सोम्य विजानीहि’’ इत्यु­प­क्र­म्या­षि­त­स्या­न्नस्य द्रवीकरणेन नय­ना­ज्ज­र­णा­दा­पोऽ­श­नाया । एकवचनं छान्दसम् । द्राव­को­द­का­प­न­य­ता­च्छो­ष­णा­दु­दन्यं तेजः । आका­र­श्छा­न्दसः॥१॥ प्राणाः चक्षुरादयः । यथायतनं यथागोलकम् । प्राणे­भ्योऽ­न­न्त­र­मा­दि­त्याद्या अनुग्राहका देवाः । लोक्यन्त इति लोकाः विषयाः॥१०॥ करणाधिपानां जीवनामधिपः॥११॥

भाष्ये जन्मा­दि­सू­त्र­मा­रभ्य वृत्तानुवादः प्रति­ज्ञा­सू­त्र­सि­द्ध­व­त्का­रे­णे­त्याह —
ब्रह्म जिज्ञा­सि­त­व्य­मिति हीति ।
इति पञ्च­म­मी­क्ष­त्य­धि­क­र­णम्॥
वेदान्तानां ब्रह्मपरत्वे सिद्धेऽपि प्रमा­णा­न्त­रै­र­वि­रो­धा­र्थ­मु­त्त­र­सू­त्रा­र­म्भ­मा­शङ्क्य तेषां ब्रह्म­ण्य­प्र­वे­श­माह —
तच्चेति ।
अत्र भाष्यं –‘द्विरूपं ही’ति, तदयुक्तं; निरुपाधिन एव जिज्ञा­स्य­त्वा­दि­त्या­श­ङ्क्याह —
यद्यपीति ।
यदि सोपाधिकरूपस्य निरु­पा­धि­को­प­दे­श­शे­षता, कथं तर्हि उपास्तिरिति? तत्राह —
क्वचिदिति ।
अवा­न्त­र­वा­क्य­भे­दे­नो­पा­धि­वि­व­क्ष­यो­पा­स­न­वि­धि­रि­त्यर्थः ।
उपास्तीनामपि मोक्ष­सा­ध­न­त्व­व्या­वृ­त्तये फलान्तराण्याह —
तदुपासनानीति ।
अभ्युदयार्थानि प्रतीकोपासनानि । क्रम­मु­क्त्य­र्थानि दहरादीनि । कर्म­स­मृ­द्ध्य­र्था­न्यु­द्गी­था­दीनि । एतानि विधे­य­त्वा­द्य­द्यपि कर्मकाण्डे वक्तव्यानि; तथापि मानसत्वेन विद्या­सा­म्या­दि­हा­धी­ता­नी­त्यर्थः ।
गुणभेदेऽपि गुणिन एव­क­त्वा­दु­पा­स­ना­त­त्फ­ल­भे­दा­भाव इति शङ्कते —
स्यादेतदिति ।
न विशे­ष­ण­मा­त्र­मु­पा­धयः, किंत्व­प्पा­त्र­मिव सवितुरवच्छेदकाः । तत उपहितभेद इति भाष्या­भि­प्रा­य­माह — रूपाभेदे नोपा­स­न­वि­धि­र­र्थ­वा­न्नि­र­ति­श­ये­श्व­रस्य प्रत्यु­पा­ध्य­व­स्था­ने­नो­पा­स­क­स्यापि स्वत एवैश्वर्यादत औपाधिकानां मध्ये एक उपा­स­कोऽ­प­कृ­ष्टोऽ­प­र­मु­पा­स्य­मु­त्कृ­ष्ट­मिति तारतम्यं सूचयन्त्य उपा­स­न­वि­धि­श्रु­तयः कथमित्यर्थः ।
वस्तुतः स्वतः­सि­द्धै­श्व­र्योऽ­प्यु­पा­सक उपा­धि­नि­क­र्षा­द­न­भि­व्य­क्तै­श्व­र्यस्तं प्रत्या­वि­र्भू­तै­श्वर्यं विशु­द्धो­पा­धि­म­द्ब्र­ह्मो­पा­स्य­मिति परि­हा­रा­भि­प्रा­य­माह —
यद्यपीति ।
स्थाव­रा­दि­ष्व­स­दिव ज्ञानादि तिर्यगादिषु सत्त­त्रै­वा­त्य­न्ता­प­कृष्टं मनु­ष्ये­ष्व­प­कृ­ष्ट­मा­त्रम्, गन्धर्वादिषु प्रक­र्ष­व­द्दे­वा­दि­ष्व­त्य­न्त­प्र­क­र्ष­व­दिति । अविशेषेण वेदान्तानां निर्विशेषे ब्रह्मणि समन्वयः साधितः, तस्य क्वचि­द्धि­र­ण्म­य­वा­क्या­दा­व­प­वादः, क्वचि­दा­न­न्द­म­य­वा­क्या­दा­व­प­वा­दा­भा­स­प्राप्तौ तदपवादश्च पतिपाद्य इत्यध्यायशेष आरभ्यते॥ आन­न्द­म­योऽ­भ्या­साइ ॥१२॥
ननु ‘‘ता आप ऐक्षन्त’’ इत्या­द्य­ब्र­ह्म­स­न्नि­धि­म­प­बाध्य मुख्येक्षितृ ब्रह्म निर्णीतम्, इह कथ­म­न्न­म­या­द्य­ब्र­ह्म­स­न्नि­धि­पा­ठा­दा­न­न्द­म­य­स्या­ब्र­ह्म­त्व­शङ्का? अत आह —
गौणेति ।
अना­दि­गौ­णे­क्ष­ण­प्र­वा­ह­पा­तेऽपि जगत्कारणे मुख्यमीक्षणमिति युज्यते; मुख्यसंभवे गौण­स्या­न­व­का­श­त्वात् । अतस्तत्र विशयानुदये प्राय­पा­ठोऽ­किं­चि­त्करः । अत्र तु मयटो विका­र­प्रा­चु­र्य­यो­र्मु­ख्यत्वे सति विकारार्थग्रहणे प्राय­दृ­ष्टि­र्वि­शे­षिका प्राचु­र्या­र्थ­त्वा­द्व्या­व­र्ति­के­त्यर्थः । एवचं पूर्वा­धि­क­र­ण­सि­द्धा­न्ता­भा­वेन पूर्व­प­क्षो­त्था­नात् प्रत्यु­दा­ह­र­ण­ल­क्ष­ण­सं­ग­ति­रपि सूचिता । संशयबीजं च मयटो विका­र­प्रा­चु­र्य­सा­धा­र­ण्य­मु­क्तम् । प्रयोजने च तत्तदुपास्तिः प्रमितिर्वेति सर्वत्र द्रष्टव्यम् । ।
भास्क­रो­क्त­मा­श­ङ्क्याह —
नचेति ।
विकारो हि द्विप्रकारः कश्चि­च्छु­क्ति­रू­प्यादिः स्वरू­पे­णा­ध्यस्तः, कश्चित्तु प्रति­बि­म्ब­घ­टा­का­शा­दि­रू­पा­धितो विभक्तः, तत्र प्राणा­द्यु­पा­धि­वि­भक्त आत्मा तद्विकारः ।
अथवा —
भृगु­व­ल्ल्यु­क्ता­धि­दै­वि­का­न्ना­दी­न्प्र­त्या­ध्या­त्मिका अन्नमयादयः कोशा विकारा इति ।
विकारसन्निधेः सर्वा­न्त­र­त्व­लि­ङ्गेन बाधमाशङ्क्याह —
चतुष्कोशेति ।
आनन्दमयस्य सर्वा­न्त­र­त्व­म­न्न­म­या­द्या­न्त­र­त्व­म­न्न­म­या­द्या­न्त­र­त्वे­नोक्तं तस्मा­द­न्य­स्या­न्त­र­स्या­श्र­व­णात् ।
प्रथमं निरस्य द्वितीयं निराचष्टे —
नचास्मादिति ।
यथा ‘बलवान्देवदत्त’ इत्युक्ते यज्ञ­द­त्ता­द्य­पे­क्ष­मेव बलवत्त्वं, सिंहादीनां ततोऽपि बल­व­त्त्व­म­नु­क्त­मपि गम्यते; तथा­न­न्द­म­य­स्ये­त­र­को­शा­पे­क्ष­मा­न्त­रत्वं, ब्रह्म तु ततोऽऽ­प्या­न्त­र­म­नु­क्त­मपि गम्यत इत्यर्थः ।
ब्रह्मत्वे लिङ्गाभासं निरस्य जीवत्वे लिङ्गमाह —
न च निष्कलस्येति ।
श्रुतिमप्याह —
नापीति ।
सशरीरस्य प्रियादि दुर्वा­र­मि­त्ये­ता­वता कथं मयटः प्राचु­र्या­र्थत्वे ब्रह्म­त्वा­नु­प­प­त्ति­रुक्ता? तत्राह —
अशरीरस्येति ।
एवमुक्ते ह्यशरीरे ब्रह्मणि नाप्रि­य­मि­त्युक्तं भवति । तथाच दुःखगन्धाद्योती प्राचुर्यार्थो मयङ् न संभवतीत्युक्तं स्यादित्यर्थः ।
आन­न्द­प्रा­ति­प­दि­का­भ्या­स­लि­ङ्गा­त्क­थ­मा­न­न्द­म­यस्य ब्रह्मत्वं? वैयधिकरण्यादिति शङ्का­नि­रा­क­र­णार्थं भाष्यं —
आनन्दमयं प्रस्तुत्येति ।
तदिदमनुपपन्नं पुच्छब्रह्मणः प्राकरणिकत्वादत आह —
आन­न्द­म­या­व­य­व­स्येति ।
ननु ज्योतिषेति कर्मा­न्त­र­वि­धि­र्ना­भ्या­सोऽत आह —
कालेति ।
वस­न्त­का­ल­गु­ण­सं­क्रा­न्त­त्वान्न कर्मा­न्त­र­वि­धि­रि­त्यर्थः । देवदत्तादपि बलवत्त्वं सिंहा­दे­र्मा­ना­न्त­र­सि­द्धम् ।
आनन्दमयादान्तरे वस्तुनि न मानान्तरं, नापि श्रुति­रि­त्य­भि­प्रे­त्याह —
न हीति ।
दृष्टा­न्त­वै­षम्यं शङ्कते —
तादर्थ्यादिति ।
मुख्या­रु­न्ध­ती­द­र्श­ना­वि­रो­धे­ना­नु­गुण्यं चेदत्रापि तुल्यमित्यर्थः ।
योऽपि पूर्वपक्षे प्राचु­र्या­र्थ­त्व­मु­पेत्य दुःखलवयोग आपादितः सोऽप्यु­पा­धि­व­शा­दि­त्य­र्था­त्प­रि­हृत इत्याह —
प्रियादीति॥१२॥
एवंच विकारशब्दात् (ब्र.अ.१.पा.१.सू.१३) इति सूत्रं व्याख्यातम् । ‘तत्प्रकृतवचने मयट्’ तदिति प्रथ­मा­स­म­र्था­त्प्रा­चु­र्य­वि­शि­ष्ट­प्र­स्तु­त­व­च­ना­भि­धाने गम्यमाने मयडिति सूत्रार्थः । वच­न­ग्र­ह­णा­त्प्रा­चु­र्य­वै­शि­ष्ट्य­सिद्धिः । तादृशस्यैव लोके मय­टा­भि­धा­ना­दिति॥१४॥ मान्त्रवर्णिकम् (ब्र.अ.१.पा.१.सू.१६) इति सूत्रं — भाष्यकृद्भिः सत्यं ज्ञानमनन्तमिति मन्त्रप्रस्तुतं ब्रह्म, आनन्दमयवाक्ये निर्दिश्यते, प्रकृ­त­त्वा­द­सं­ब­द्ध­प­द­व्य­वा­या­भा­वा­च्चेति विवृतं ।
तत्रे­त­रे­त­र­त्रा­र्थ­प्र­त्य­भि­ज्ञा­ना­भा­वाद् मन्त्र­ब्रा­ह्म­ण­यो­र्व्या­ख्या­न­व्या­ख्ये­य­भा­व­स्या­वि­श­द­त्वा­त्प्र­का­रा­न्त­रेण सूत्रं व्याचष्टे —
अपिच मन्त्रेति ।
यथा मन्त्रः प्रयोगोपायः, एवं कोश­च­तु­ष्क­वा­क्य­मा­न­न्द­म­य­ब्र­ह्म­प्र­ति­प­त्त्यु­पा­यस्य देहा­दि­व्य­ति­रे­कस्य सम­र्प­क­त्वा­द्गौण्या वृत्त्या मन्त्र उच्यते । आन­न्द­म­य­वा­क्य­मु­पे­य­प्र­यो­ग­वि­धा­यि­ब्रा­ह्म­ण­व­दु­पे­य­ब्र­ह्म­प्र­त्या­य­क­त्वा­द्ब्रा­ह्मणं विवक्षितम् ।
तयो­श्चे­त­रे­त­र­त्रा­र्थ­प्र­त्य­भि­ज्ञा­न­माह —
मन्त्रे हीति ।
परब्रह्मणीति ।
विज्ञा­न­म­या­दि­श­ब्दै­रपि ब्रह्मैव तत्तदुपाधिभ्यः प्रविविच्य निर्दि­ष्ट­मि­त्यर्थः । नचैवं प्राण­म­या­दा­न्त­रा­त्मनो विज्ञा­न­म­य­स्या­त्म­त्वा­पत्तिः; तस्मा­दा­न्त­रो­प­दे­शा­दिति भावः । सूत्रकारग्रहणं व्याख्ये­य­भा­ष्या­न­पे­क्ष­त्व­सू­च­ना­र्थम् । भाष्येऽपि महा­प्र­क­र­णो­प­न्यासः सूत्रार्थो, न मन्त्र­ब्रा­ह्म­ण­तया व्याख्या­न­व्या­ख्ये­य­भाव ।
अतएवाह —
अन्यथा हि प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रिये स्यातामिति । मन्त्र­ब्रा­ह्म­ण­यो­श्चे­त्यपि भाष्यं प्रक­र­ण­प्र­द­र्श­न­प­र­मे­वे­त्य­वि­रु­द्धम् । सौत्रं तु मान्त्र­व­र्णि­क­पदं विवक्षितं कृतं टीकाकृता ।
ननु सर्व­स्र­ष्टृ­त्वा­द्य­ने­क­हे­तू­प­देशे वाक्यभेदः स्यादत आह —
सूत्रमिति ।
सूत्रस्य विश्व­तो­मु­ख­त्व­म­ल­ङ्कार इत्यर्थः॥
ननु जीवा­द­न्य­त्वा­न्ना­न­न्द­म­यस्य ब्रह्मत्वं; घटा­दि­ष्व­द­र्श­नात्, अत आह —
तस्मादिति ।
आनन्दमयो ह्यात्म­श­ब्दा­च्चे­त­न­स्तस्य च जीवत्वराहित्ये ब्रह्मत्वं सिद्धमित्यर्थः ।
एकत्वेऽपि पर­जी­व­यो­रौ­पा­धि­क­भे­दा­ल्ल­ब्धृ­ल­ब्ध­व्य­भावे जीवस्यापि स्वं प्रति स्यात्; तस्यापि स्थूल­सू­क्ष्मा­द्यु­पा­धि­भे­दात्, अत आह —
न त्विति ।
स्वत­न्त्रो­पा­धि­भेदे चेतनभेदः, परब्रह्मणस्तु जीवोऽविद्यायां विभक्तः सत्व­वि­द्या­व­च्छिन्न एव स्थूल­सू­क्ष्मो­पा­धि­भ्या­म­व­च्छि­द्यत इति न स्वस्मा­दौ­पा­धि­कोऽपि भेद इत्यर्थः ।
सूत्रारूढो हि स्वरूपेणापि मिथ्या, जीवे तु भेदमात्रं कल्पितं, न स्वरूपमतः कल्पितत्वमात्रे दृष्टान्त इत्याह —
अत्रैवेति॥
ब्रह्मानन्दमयं प्रत्यवयवः, उत प्रधानमिति पुच्छ­ब्र­ह्म­श­ब्दाभ्यां संशये मुख्येक्षणाद् ब्रह्मनिर्णयेन गौणप्रायपाठो बाधितः, इह तु पुच्छ­श­ब्द­स्या­व­य­व­मा­त्रत्वे आधारमात्रत्वे च लाक्ष­णि­क­त्व­साम्ये सत्य­व­य­व­प्रा­य­द­र्श­ना­द­व­यव इति सङ्गतिः ।
यदुक्तं — आनन्दमयस्याङ्गं ब्रह्म — इति, तन्न, श्रुति­बा­ध­प्र­स­ङ्गा­दिति वदन् सिद्धान्तस्य बीजमावपति ब्रह्म पुच्छमिति । बल विवेकाय पूर्वो­त्त­र­प­क्ष­यु­क्ती­र्वि­भ­जते —
तत्र किमिति ।
उपेक्ष्यापि प्रायपाठं कथं­चि­त्प्र­चु­रा­न­न्द­वाचि चानन्दमयपदं कल्पितमपि ब्रह्म­ण्य­प्र­सिद्धं; स्तोक­दुः­ख­नु­वृ­त्त्या­प­त्ते­रि­त्यर्थः ।
कया­चि­द्वृ­त्त्येति ।
अल्प­त्व­नि­वृ­त्ति­ल­क्ष­ण­ये­त्यर्थः । ननु प्रचुरप्रकाशः सवि­ते­ति­व­द­ल्प­त्व­नि­वृ­त्ति­परः कि न स्याद्, उच्यते; यत्र प्राचु­र्य­वि­शि­ष्ट­प­दा­र्थ­प्र­ती­ति­स्त­त्रैवं भवति । यत्र पुनः प्राचुर्यमेव पदार्थेन विशेष्यते तत्र विरोधिन ईषदनुवृत्तिः प्रतीयते, ब्राह्म­ण­प्र­चु­रोऽयं ग्राम इत्यादौ । तथाच आनन्दमयपदेऽपि प्रधानं प्रत्ययार्थ प्राचुर्यं प्रति आनन्दस्य विशेषणत्वाद् दुर्निवारा दुःखा­नु­वृ­त्ति­रिति॥ ‘तत्रा­पि­श­ब्द­ब­ला­द्वि­रो­ध्य­नु­वृत्तिः प्रतीयते, मानान्तरेण तु तदभावावगमे प्राचु­र्य­म­ल्प­त्व­नि­वृ­त्ति­परं कल्प्यते । तस्मा­न्म­य­ड­र्थस्य मुख्यस्य त्यागः’ । कृतबुद्धयः शिक्षितबुद्धयः । विदाङ्कुर्वन्तु विवेचयन्तु । विभागमात्रेणैव सिद्धा­न्त­प्रा­ब­ल्य­मु­न्मी­ल­य­न्वि­त्यर्थः ।
उक्तविवेकं स्फोरयति —
प्रायेति ।
मयड्विकारे मुख्यः ब्रह्मशब्दः परब्रह्मणि मुख्यः अभ्य­स्य­मा­ना­न­न्द­श­ब्दश्च प्रकृत्यर्थएव मुख्यो न मयडर्थे । पूर्वपक्षे एत­त्त्रि­त­य­ल­ङ्घ­नम्, आन­न्द­म­य­प­द­स्या­न्न­म­या­दि­वि­का­र­प्रा­य­पा­ठ­प­रि­त्या­गश्च स्यात् । उत्तरे तु पक्षे पुच्छ­श­ब्द­स्या­व­य­व­प्रा­य­पा­ठ­स्यैव बाधनम्, अनुगुणं तु मुख्य­त्रि­त­य­मि­त्यर्थः । ननु यथा पूर्वपक्षे मयट् च्छ्रुतिबाधः ।
एवं सिद्धान्ते पुच्छ­श्रु­ति­बा­ध­स्त­त्राह —
पुच्छपदं हीति ।
लाङ्गूले मुख्यं पुच्छपदं , न कर­च­र­णा­द्य­व­य­व­मात्रे; आनन्दमयस्य चात्मनो न मुख्य­ला­ङ्गू­ल­सं­भव इति ।
अपिच पुच्छ­श­ब्दे­ना­धा­र­ल­क्षणा प्रति­ष्ठे­त्यु­प­प­द­सा­म­र्थ्या­च्छ्रु­त्य­नु­मथा, नाव­य­व­ल­क्ष­णे­त्याह —
आधारपरत्वे चेति ।
आन­न्द­म­य­स्य­को­श­स्यै­वे­त­र­को­शा­पे­क्ष­याऽ­न्त­रत्वं चेत्, तर्हि ततोऽभ्यन्तरं ब्रह्म किमिति नो़क्तमत आह —
ब्रह्मणस्त्विति ।
अर्था­त्प्र­ति­ष्ठा­त्व­सा­म­र्थ्या­दि­त्यर्थः ।
यदु­क्त­मु­पा­धि­व­शा­त्प्रि­या­दि­योगः प्राचु­र्य­प्र­यु­क्त­दुः­ख­ले­शा­न्व­य­श्चेति, तत्राह —
वाङ्मानसेति॥
गुणे त्विति ।
यथा ह्यग्नीषोमीये पशावेकपाशके ‘‘अदितिः पाशान् प्रमु­मो­क्त्वे­तान्‘‘ इति, ‘‘अदितिः पाशं प्रमु­मो­क्त्वे­त’’मिति च मन्त्रौ श्रुतौ ।
तत्र बहु­व­च­न­वा­न्मन्त्रः किं प्रक­र­णा­दु­त्क्र­ष्ठव्यो न वेति विशये बहु­व­च­न­स्या­स­म­वे­ता­र्थ­त्वा­दु­त्कर्षे प्राप्ते विशे­ष­प्र­धा­न­भू­त­पा­श­वा­चि­प्रा­ति­प­दि­क­स्या­ग्नी­षो­मीये समवेतार्थत्वात् तदनुरोधेन बहुवचनं पाशगुणत्वेन तद्वि­शे­ष­ण­भू­त­ब­हु­त्व­वा­च­क­म­न्या­य्यया लक्षणया पाशा­व­य­वा­ल्ल­क्ष­य­तीति नवमे निर्धारितम् —
विप्रतिपत्तौ विकल्पः स्यात्समत्वाद् गुणे त्वन्या­य्य­क­ल्प­नै­क­दे­श­त्वात् (जै.अ.९.पा.३.सू.१५) इति । उत्क­र्षोऽ­नु­त्कर्षो वेत्यस्यां विप्रतिपत्तौ पाशं पाशानिति च मन्त्र­यो­र्वि­कल्पः स्यात्; पाश­प्रा­ति­प­दि­क­स्यो­भ­यत्र समत्वात् गुणे प्रत्ययार्थे त्वन्या­य्य­क­ल्पना न तद्ब­ला­न्म­न्त्रो­त्कर्षः; प्रत्ययस्य पदै­क­दे­श­त्वा­त्प्रा­ति­प­दि­क­पा­र­त­न्त्र्ये­णो­त्क­र्ष­क­त्वा­यो­गा­दिति सूत्रार्थः । एवमिहापि प्रधा­न­श्रु­ति­वि­रोधे गुण­भू­त­सू­त्रा­ण्य­ध्या­हा­रा­दि­भि­र्ने­या­नीति ।
तथा­चा­चा­र्य­श­ब­र­स्वामी वर्णयांबभूव — लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति वेदाविरोधसंभवे तदर्थान्येव सूत्रे­ष्वि­त्य­व­ग­न्त­व्य­मि­ति॥­अ­प­रा­ण्य­पीति भाष्ये येषु सूत्रेषु व्याख्याऽ­ति­दिष्टा तान्य­ल्प­व­क्त­व्य­त्वा­त्प्र­थमं योजयति —
यत्सत्यमिति ।
तद्धे­तु­व्य­प­दे­शा­च्चेति (ब्र.अ.१.पा.१.सू.१४) सूत्र­व्या­ख्या­न­प­र­म­धि­क­र­ण­स­मा­प्ति­भाष्यं व्याख्याति —
विकारजातस्येति ।
अवयवो यदीति शेषः ।
अवयवश्चेत् कथं कारणमुच्येत, तत्र हेतुमाह —
न हीति ।
आन­न्द­म­य­स्ता­व­द्वि­कारः, तदवयवो ब्रह्मापि विकारः स्यात्प­रि­च्छि­न्न­त्वात् तथाभूतं सन्न विश्व­हे­तु­रि­त्यर्थः ।
चिन्ता­प्र­यो­ज­न­माह —
तस्मादिति ।
आन­न्द­म­य­वि­का­र­स्या­व­यवो ब्रह्मेति कृत्वेत्यर्थः । तेन ब्रह्मणाऽवयवेन योगो यस्य स तथोक्तः॥ इति षष्ठं आन­न्द­म­या­धि­क­र­णम्॥

अन्त­स्त­द्धा­र्मो­प­दे­शात्॥२०॥ निर्विशेषं परं ब्रह्म साक्षा­त्क­र्तु­म­नी­श्वराः । ये मन्दा­स्तेऽ­नु­क­म्प्यन्ते सवि­शे­ष­नि­रू­पणैः॥१॥ वशीकृते मनस्येषां सगु­ण­ब्र­ह्म­शी­ल­नात् । तदे­वा­वि­र्भ­वे­त्सा­क्षा­द­पे­तो­पा­धि­क­ल्प­नम्॥२॥ समन्वयस्य सवि­शे­ष­प­र­त्व­म­पो­द्या­न­न्द­म­या­धि­क­रण उत्सर्गः स्थापितः । इदा­नी­म­प­वा­द­चि­न्ता­र्थ­त्वे­ना­धि­क­र­ण­म­व­ता­र­यन् प्रघ­ट्ट­क­स­ङ्गा­ति­माह —
पूर्वस्मिन्निति ।
यद्य­प्य­प­वा­दा­प­वा­द­त्वात् पुच्छ­ब्र­ह्म­चिन्ता प्रात­र्द­न­वि­चा­र­स­न्निधौ कर्तुं युक्ता; तथा­प्य­वा­न्त­र­स­ङ्ग­ति­मा­लोच्य कामाच्च नानुमानापेक्षे (ब्र.अ.१.पा.१.सू.१८) ति प्रधा­न­नि­रा­स­स्ये­क्ष­त्य­धि­क­रणा(ब्र.अ.१.पा१.सू.५) नन्तरं बुद्धिस्थतां चापेक्ष्य प्रथमं कृता । उता­दि­त्य­प­द­वे­द­नीयो जीव उपास्यत्वेन न तूपक्षिप्यत इत्यनुषङ्गः ।
इह रूप­व­त्व­स­र्व­पा­प्म­वि­र­हाभ्यां संशये पूर्वत्र मुख्य­त्रि­त­या­ख्य­ब­हु­प्र­मा­णा­नु­सा­रा­न्नि­र्वि­शे­ष­नि­र्ण­य­वद् रूप­व­त्त्वा­दि­ब­हु­प्र­मा­ण­व­शा­त्सं­सारी हिरण्मयः पुरुषः इत्य­वा­न्त­र­स­ङ्ग­ति­म­भि­प्रेत्य पूर्वपक्षं सङ्कलयति —
मर्यादेति ।
सर्व­पा­प्म­वि­र­ह­स्या­न्य­था­सि­द्धि­माह —
कर्मेति ।
इन्द्रस्य वृत्रवधेन ब्रह्म­ह­त्या­श्र­व­णा­दस्ति देवानां कर्माधिकार इति भारतिविलासः । तन्न ; गवां सत्रासनश्रवणात् (तासां) तेषा­म­प्य­धि­का­र­प्र­स­ङ्गात् । असंभवस्तूभयत्र तुल्यः । नह्यैन्द्रे दधनि इन्द्र­स्या­धि­का­र­सं­भवः । न च निषेधाधिकारः; ‘‘न ह वै देवान् पापं गच्छती’’ ति श्रुतेः । अथ प्राकृतस्यैव । पापस्य फला­ना­र­म्भ­क­त्व­मे­त­च्छ्रु­त्यर्थः, तर्हि तदेव पाप्मो­द­य­स्या­ल­म्ब­न­मस्तु, कर्मा­न­धि­कृ­त­त्वोक्तेः तत्प्र­द­र्श­ना­र्थ­त्वा­दिति अमु­ष्मा­दा­दि­त्या­त्प­राञ्चः ।
नह्यनाधारस्येति भाष्यं व्याचष्टे —
अनाधारत्वे चेति ।
नित्यत्वमिति स्वम­हि­म­प्र­ति­ष्ठि­त­त्वस्य व्याख्या ।
कथं नित्य­त्वे­नाऽ­ना­धा­र­त्व­सि­द्धि­स्त­त्राह —
अनित्यं हीति ।
तर्हि तत एवा­ना­धा­र­त्व­सिद्धौ किं सर्वगतत्वेनात आह —
नित्यमपीति ।
नित्यमपि असर्वगतं चेत्तन्न भवत्याधाररहितं, यतो यद्वस्तु तस्मा­न्नि­त्या­द­ध­र­भा­वे­ना­व­स्थितं, तदेव तस्य नित्य­स्यो­प­रि­स्थि­त­स्या­धारो भवति । तस्मा­त्स­र्व­ग­त­त्व­मपि नित्य­त्व­वि­शे­ष­ण­त्वे­ना­ना­धा­रत्वे हेतुर्वक्तव्य इत्यर्थः ।
सर्वा­त्म­त्व­स­र्व­दु­रि­त­वि­र­हयोः रूप­व­त्त्वा­दिभ्यः किं बलमत आह —
अव्य­भि­चा­रि­भ्या­मिति ।
न ब्रह्मणोऽन्यत्र तयोः संभव इत्यर्थः ।
ब्रह्मणि सर्वा­त्म­त्व­सं­भ­व­माह —
सर्वेति ।
रूप­व­त्त्वा­दे­र्ब्र­ह्म­ण्यपि सम्भ­व­द्व्य­भि­चा­र­माह —
विकारवदिति ।
कार्यो­प­हि­त­मि­त्यर्थः ।
सर्व­दु­रि­त­वि­र­ह­मु­दा­हृ­त­वा­क्ये­नापि प्रमिमीते —
नामेति ।
पाप्मभ्य इति अपादाने पञ्चमी । ततः सर्वे पाप्मनोऽपादानां यस्योदयस्य तस्य भावस्तत्ता तद्रूपेणोदय उद्गम उच्यत इति । रूपवत्त्वं तादृशेन रूप­वि­शे­षे­णो­प­दि­श्यत इत्यन्वयः ।
ननु हिरण्मयत्वं कथं? तद्धि शरीरस्यात आह —
विकारस्य चेति ।
नन्व­वि­का­रि­ब्र­ह्मणो मायामयं रूपं वक्तव्यं, तश्च मिथ्या­र्थ­प्र­का­श­क­तया शास्त्रा­प्रा­मा­ण्य­मत आह —
नचेति ।
यथा लोके माया­वि­द­र्शि­त­मा­या­नु­वा­दि­वाक्यं प्रमाणमेवं शास्त्रमपि ।
अप्रामाण्यं तर्हि कदा स्यादत आह —
अपित्विति ।
मायां मिथ्याबुद्धिं कुर्वदशास्त्रं स्याद्, नतु तां करोति; तस्याः प्रागेव सिद्ध­त्वा­दि­त्यर्थः ।
विभू­ति­म­त्स्वे­वे­श्व­रा­व­स्थाने सार्वा­त्म्य­वि­रो­ध­मा­श­ङ्क्या­भि­व्य­क्ति­मात्रं तत्र, सत्ता तु सर्वत्रेत्याह —
सर्वेति ।
लोक­का­मे­शि­तृ­त्व­श्र­व­णा­द्दे­व­म­नु­ष्यै­री­श्व­राज्ञा विनाऽशितुमपि न शक्यमित्यन्तः पारार्थ्यन्यायः । सैवर्क् तत् सामेति तच्छ­ब्दै­श्चा­क्षु­ष­पु­रु­ष­प­रा­मर्शः । ऋगा­दि­वि­धे­या­पे­क्षया स्त्रीलि­ङ्ग­नि­र्देशः । उक्थं शस्त्रविशेषः । तत्सा­ह­च­र्या­त्सा­म­स्तोत्रं ऋगु­क्था­द­न्य­च्छस्त्रं ब्रह्म त्रयो वेदाः पृथि­व्य­ग्न्या­द्या­त्मके चेत्यादिभाष्यम् । तत्र ऋगाधिदैवं पृथि­व्य­न्त­रि­क्ष­द्यु­न­क्ष­त्रा­दि­त्य­ग­त­शु­क्ल­भा­रूपा साम चाग्नि­वा­य्वा­दि­त्य­च­न्द्रम आदि­त्य­ग­त­प­र­कृ­ष्णा­ख्या­ति­कृ­ष्ण­रू­पा­दि­क­मा­म्ना­त­मि­य­मे­व­र्गग्निः सामेत्यादिना । अध्यात्मं च ऋग्वाक्चक्षुः श्रोत्रा­दि­ग­त­शु­क्ल­भा­ल­क्षणा तावदुक्ता । साम च प्राण­च्छा­या­त्म­म­नो­क्षि­स्थ­कृ­ष्ण­भा­रू­प­मा­म्ना­तम् — वागेवर्क् प्राणः सामेत्यादिना । एवमात्मके ऋक्सामे तस्य गेष्ण्यौ पर्वणी॥ इति सप्त­म­म­न्त­र­धि­क­र­णम्॥

आका­श­स्त­ल्लि­ङ्गात्॥२२॥ लिङ्गाद् ब्रह्मनिर्णयस्य तुल्य­त्वा­त्पु­न­रु­क्ति­मा­श­ङ्क्याह —
पूर्वस्मिन्निति ।
श्रुति­प्रा­प्त­न­भसो लिङ्गेन बाधार्थो न्यायोऽधिक इत्यर्थः । इदमुक्तं — न भूताकाश उपास्यत्वेनेति । यद्य­प्य­स्मि­न्ग्रन्थे पूर्वत्र सोपाधिब्रह्मण उपास्तिचिन्ता, अत्र तु तस्योद्गीथे संपत्तिचिन्तेति विशे­ष­प्र­द­र्श­न­परं भाति, तथापि न तथार्थो ग्राह्यः, हिर­ण्म­य­वा­क्येऽपि तस्मादुद्गीथ इत्यु­द्गी­थ­सं­प­त्ते­स्तु­ल्य­त्वात् । तस्मादेतदपि असा­धा­र­ण­ध­र्म­तु­ल्य­मे­वा­नू­दि­तम् । आकाशशब्दो नभ पर, उत ब्रह्मपर इति रूढि­नि­रू­ढ­प्र­यो­गाभ्यां विशये पूर्व­त्रा­व्य­भि­चा­रि­लि­ङ्गा­द­न्य­था­सि­द्ध­रू­प­व­त्त्वादि नीतम्, इयं तु श्रुति­र्लि­ङ्गा­न्ना­न्य­थ­यि­त­व्येति प्रत्यु­दा­ह­र­ण­ल­क्ष­ण­सं­गतिः ।
प्रधानत्वहेतुं व्याचष्टे —
अस्येति ।
तदा­नु­गु­ण्ये­ने­त्ये­त­द्वि­वृ­णोति —
सर्वाणीति ।
प्रथमत्वे हेतुं व्याख्याति —
अपिचेति ।
ननु पर­ब­ली­य­स्त्व­न्या­येन प्रथममाकाशं बाध्यताम्, अत आह —
एकवाक्यगतमिति ।
निरपेक्षं परं पूर्वं बाधते, एक­वा­क्य­नि­वि­ष्ट­श­ब्दानां तु पूर्वा­नु­रो­धे­नो­त्त­रा­र्थ­प्र­तीतिः, तद्वि­रु­द्धा­र्थ­स­म­र्पणे वाक्य­भे­दा­प­त्ते­रि­त्यर्थः ।
‘‘यदेष आकाश आनन्द’’ इत्यादौ ब्रह्म­ण्या­का­श­शब्दो गौणो दृष्टः, तद्वदिहापि स्यादि­त्या­श­ङ्क्याह —
न च क्वचिदिति ।
यादांसि जलचराः ।
यादांसीति प्रयोगे गङ्गा­प­दा­भि­धे­यस्य वाक्या­र्था­न्व­य­सं­भ­वा­न्मु­ख्यत्वं, न त्विह नभसो वाक्या­र्था­न्वयः, आन­न्त्या­द्य­यो­गा­दत आह —
संभवश्चेति ।
मुख्यानुगुण्येन गुणानां नय­न­स्यो­क्त­त्वा­दि­त्यर्थः । अस्तु तर्हि ब्रह्मणि मुख्यः, तत्र वक्तव्यं किं ब्रह्म­न­भ­सो­र्मुख्यः, उत ब्रह्मण्येवेति ।
नाद्य इत्याह —
अने­का­र्थ­त्व­स्येति ।
नहि द्वितीय इत्याह —
भक्त्या चेति ।
ननु नभसि गौणः, ब्रह्मणि रूढ किं न स्यात्तत्राह —
तत्पू­र्व­क­त्वा­च्चेति ।
प्रश्नो­त्त­र­यो­रे­का­र्थ­प­र्य­व­सा­न­सा­म­र्थ्य­ल­क्षणं सूत्र­ग­त­लि­ङ्ग­श­ब्दा­र्थ­म­भि­प्रेत्य सिद्धन्तयति —
सामा­ना­धि­क­र­ण्ये­नेति ।
नन्वैकार्थेऽपि प्रश्नोत्तरयोः प्रति­व­च­न­स्था­का­श­श­ब्दा­नु­रो­धा­त्प्र­श्नोऽपि मुख्या­का­श­प­रोऽस्तु, तत्राह —
पौर्वापर्येति ।
प्रश्नो­त्त­र­यो­र­र्थतः शब्दतश्च पूर्वा­प­र­त्वे­ना­नु­सं­धा­ना­द­सं­जा­त­वि­रो­ध­प्र­श्ना­नु­सा­रेण चरममुत्तरं नेयमित्यर्थः । अनेन प्रथ­म­त्व­हे­तो­र­सि­द्धि­रुक्ता, प्राधान्यं तूपक्रमविरोधे सत्य­किं­चि­त्क­र­मि­त्यु­क्तम् ।
प्रधानत्वेऽपीति ।
आकाशपदस्य प्रधा­ना­र्थ­त्वेऽपि गौणता, अपिशब्दान्न नभसः प्रधानत्वमपि तु पृष्टस्य सर्व­का­र­ण­स्यै­वे­त्यर्थः ।
प्रधा­न­त्वेऽ­पी­त्ये­त­द्व्या­चष्टे —
यद्यपीति ।
सामा­ना­धि­क­र­ण्ये­ने­त्ये­त­द्वि­भ­जते —
यत्पृष्टमिति ।
अस्तु प्रश्नो­त्त­र­यो­रे­क­वि­ष­यत्वं प्रश्नविषयस्तु नभ इति नेत्याह —
तदिहेति॥
यत्तु कश्चिदाह — दाल्भ्येन स्वर्गलोकः साम­प्र­ति­ष्ठे­त्युक्ते शाल­व­त्योऽ­प्र­ति­ष्ठ­त्वेन तद्दूषयित्वा पृथिवीलोकः सामाश्रय इत्यूचे । प्रवाहणस्तु तम­न्त­व­त्त्वे­ना­दू­दु­षत् । तर्ह्यस्य लोकस्य का गतिरिति शाला­व­त्योऽ­पृ­च्छत् । तत्र पृथि­वी­का­र­ण­मात्रं पृष्टं, न सर्वलोकगतिः; तस्मात् — पूर्वा­प­र­प­रा­म­र्श­र­हितैः प्राज्ञमानिभिः । कल्पितेयं गतिर्नैषा विदु­षा­म­नु­र­ञ्जिका॥ इति ॥ तच्छ्रु­ति­भा­वा­न­व­बो­ध­वि­जृ­म्भि­तम् । तथा हि — पृथि­वी­मा­त्र­का­र­ण­स्यापां प्रसिद्धत्वेन प्रश्न­वै­य­र्थ्यात्, अस्येति च सर्वनामश्रुतेः प्रक­र­ण­द्ब­ली­यस्याः सर्व­का­र्य­वि­ष­य­त्वो­प­पत्तेः । यस्तु प्रथमप्रश्ने दाल्भ्य­कृ­तेऽ­स्य­शब्दः, स पृथिवीपरोस्तु; न प्रतिष्ठा लोकमतिनयेदिति पृथिव्या एव तदु­त्त­रेऽ­भि­धा­नात् । द्वितीये तु शालावत्यकृते न तथा किंचिदस्ति संकोचकम् । किंचा­भि­ध­त्ता­म­य­म­प्य­स्य­शब्दः पृथिवीमेव; तथा­प्य­न्त­व­त्त्व­दो­षा­प­नि­नी­षया प्रश्न­प्र­वृत्तेः पृथि­वी­मा­त्र­का­र­ण­नि­रू­पणे तदसिद्धे काकेभ्यो रक्ष­ता­म­न्न­मि­ति­व­द­य­म­स्य­शब्दः सर्वकार्यपरः । तथाच पूर्वा­प­रे­त्या­दि­रु­पा­लम्भ उष्ट्र­ल­कु­ट­न्या­य­म­नु­स­र­तीति॥
पौर्वा­प­र्ये­त्ये­त­च्छ­ङ्को­त्त­र­त्वेन विवृणोति —
न चोत्तरे इति ।
यद्यपि कारणविषयप्रश्नः ; तथापि तत्र विशेषणतया कार्य­म­प्यु­पा­त्त­मिति कार्यमेव पृष्ट­मि­त्यु­क्तम् ।
कथं न युक्तमत आह —
प्रश्नस्येति ।
यथा हि ‘‘उच्चैॠचा क्रियत‘‘ इत्यत्र विध्युद्धेशगता अप्यृगादिशब्दाः ‘‘त्रयो वेदा अजायन्ते’’ — त्युप­क्र­म­ग­त­म­र्थ­वा­द­स्थ­मपि वेद­श­ब्द­मे­क­वा­क्य­त्व­सि­द्ध्य­र्थ­म­नु­रु­न्धाना ऋगादिजातिवचनतां मुञ्चन्तो वेदलक्षणार्था इति निर्णीतं वेदो वा प्राय­द­र्शना(जै.अ.३.पा.३.सू.२) दित्यत्र, एव­म­त्रा­प्ये­क­स्मि­न्वाक्ये ‘‘अस्य लोकस्य का गतिरिति’’ सर्वा­का­र­ण­त्वा­व­रु­द्धायां बुद्धौ तद्वि­रु­द्धा­र्थस्य वाक्यै­क्य­वि­ना­शिनो निवे­शा­यो­गा­दा­का­श­पदं परमकारणे गौणमित्यर्थः ।
ननु निर्णीतार्थ उपक्रम उप­सं­हा­र­म­न्य­थ­येत्, न प्रश्नोपक्रमः; संदि­ग्धा­र्थ­त्वा­दिति, तत्राह —
नचेति ।
प्रश्नः स्वविषये व्यवस्थित एव न चेत् तत्र वक्तव्यं स निर्विषयः, पृष्टादन्यविषयो वा ।
नाद्य इत्याह —
अनालम्बनत्वेति ।
न द्वितीय इत्याह —
वैयधिकरण्येति ।
एवं ताव­त्प्र­श्न­प्र­ति­व­च­न­वा­क्य­सा­मर्थ्यं तल्लिङ्गादिति सौत्र­हे­तु­व­च­नार्थ इति व्याख्याय वाक्य­शे­ष­स्थ­लि­ङ्ग­प­र­तया व्याख्यान्तरमाह —
अपिचेत्यादिना॥
सर्वेषां लोकानामिति प्रश्नो­प­क्र­मा­दिति ।
उत्तरे —
सर्वाणीति दर्शनात् प्रश्नस्थः षष्ठ्य­न्त­लो­क­श­ब्दोऽ­स्येति सर्वनामसहपठितो व्याख्याय निर्दिष्ट इति । इदंच प्रश्नस्य सर्व­का­र­ण­वि­ष­यत्वे लिङ्गम्, इतरथा ह्युत्तरे पृथिव्याकाशात् समुत्पद्यत इति स्यात्त­न्मा­त्र­का­र­णस्य पृष्टत्वादिति । ननु साम्ये विरोधिनां भूयसामनुग्रहो न्याय्यः, इह तु प्रधा­न­मा­का­श­श­ब्दार्थो नाप्र­धा­नै­र्भू­यो­भि­रपि बाध्येत । यदाह कश्चित् — त्यजेदेकं कुलस्यार्थे इति राद्धान्तयन्ति ये । शेषिवाधे न तैर्दृ­ष्ट­मा­त्मार्थे पृथिवीमिति॥
इति, तत्राह —
नचाकाशस्य प्रधान्यमिति ।
ननु शेष्य­र्थ­त्वा­दा­का­श­पदं प्रधानार्थमत आह —
तथाचेति ।
उपक्रान्तं प्रधानं ब्रह्म विशि­ष­म्ना­का­श­शब्दः प्रधानार्थो नतु गग­न­म­भि­द­ध­दि­त्यर्थः ।
अपि चेति भाष्यो­क्ता­न्त­व­त्त्व­प्र­ति­पा­दिकं श्रुतिमाह —
अन्तवदिति ।
आस्तां प्रश्नो­प­क्र­मा­नु­रोधः, प्रतिवचनेऽपि वाक्य­शे­ष­ग­ताऽ­न­न्य­था­सि­द्ध­ब्र­ह्म­लि­ङ्गा­दा­का­श­पदं गौणार्थमिति भाष्यार्थमाह —
तत्रैव चेति ।
‘‘उद्गीथे कुशलास्त्रयः शाला­व­त्य­दा­ल्भ्य­जै­व­लयः कथमारेभिरे । शालावत्या दाल्भ्यं पप्रच्छ का साम्नो गतिः; कारणमिति, इतर आह स्वर इति । स्वरस्य प्राणः, प्राणस्यान्नम्, अन्नस्याप, अपां स्वर्गः वृष्टेस्तत आगतेरिति’’ दाल्भ्ये प्रत्युक्तवति स्वर्गस्यापि मनु­ष्य­कृ­त­ज्ञा­द्य­धी­न­स्थि­ति­क­त्वा­द­प्र­ति­ष्ठितं व किल ते दाल्भ्य सामेत्युक्त्वा अयं लोकः स्वर्गस्य गतिरिति शालावत्य प्रतिजज्ञे । तं राजा जैवलिराह ‘अन्तवद्धै किल ते शालावत्य साम कारणमिति’ ‘तर्ह्यस्य लोकस्य का गतिरिति’ पृष्टो राजा ‘आकाश’ इति होवाच । ज्यायान्महत्तर , परमयनमाश्रयः परायणं परोवरेभ्यः स्वरा­दि­भ्योऽ­ति­श­येन वरः परोवरीयान् । स चाकाश उद्गीथे संपा­द्यो­पा­स्य­त्वा­दु­द्गीथः॥ इति अष्ट­म­मा­का­शा­धि­क­र­णम्॥

अत एव प्राणः॥२३॥ अतिदेशत्वात्सैव सङ्गतिः । अथ वा अन­न्त­व­स्तु­प­र­त्वा­दु­प­क्र­मो­प­सं­हा­र­यो­र­स्त्वा­का­श­वाक्यं ब्रह्मपरम्, अत्र तु ब्रह्मा­सा­धा­र­ण­ध­र्म­प­रो­प­क्र­मो­प­सं­हा­रा­द­र्श­नान्न ब्रह्मपरतेति सङ्गतिः । अथवा आका­श­वा­क्या­न­न्त­र्या­त्प्रा­ण­वा­क्य­स्येति सङ्गतयः । विष­य­प्र­द­र्श­क­भाष्य उद्गीथ इत्युक्तं तदुद्गीथप्रकरणे प्रासङ्गिकं प्रस्ता­वो­पा­स­न­मिति कथयितुमित्याह —
उद्गीथेति ।
पुरस्ताद्धि “परो­व­री­या­स­मु­द्गी­थ­मु­पास्त’’ इत्युक्तं, ‘‘पर­स्ता­च्चा­थातः शौल्क उद्गीथ’’ इति , अतः प्रस्ताववाक्यं यद्यपि विषयः, तथापि प्रक­र­ण­शु­द्ध्य­र्थ­मु­द्गी­थ­ग्र­ह­ण­मि­त्यर्थः ।
श्लोकस्य पूर्वार्धं व्याचष्टे —
ब्रह्मणो वेति ।
नह्या­का­शा­द्वा­यू­दयः प्रत्य­क्षा­दि­योग्यः, अतो वाक्य­शे­षा­द्व्यक्तो ब्रह्मनिर्णयः ।
उत्तरार्धं विवृणॊति —
इह त्वित्यादिना ।
इह सर्वाणि ह वेति वाक्ये इत्यर्थः । भोग­प्र­त्या­स­त्ते­रि­न्द्रि­याणां भूतसारत्वं ततः पधानेन सर्वभूतलक्षणया भूतोत्पत्तिलयौ वायाविति प्रत्य­क्षा­नु­गृ­ही­तया श्रुत्योक्तं तस्याः संवादलब्धबलाया बलात्सर्वाणीति वाक्यं वायुविकारपरं व्याख्येयमिति । ‘‘कतमा देव­तो­द्गी­थ­म­न्वा­य­त्ते­त्या­दित्य इति होवाच कतमा प्रति­हा­र­मि­त्य­न्न­मिति‘‘ देवते अभिहिते ।
कार्य­का­र­ण­सं­घा­त­रूपे इति ।
शरी­रि­ण्या­वि­त्यर्थः । अन्नमपि तदभिमानिदेवता । स्वत एव निश्चा­य­क­त्वा­त्स्व­वि­ष­य­ज्ञा­नो­त्पादे मानान्तरं नापेक्षते, निश्च­य­पू­र्व­क­त्वा­द्व्य­व­हा­रस्य स्वविषयव्यवहारे नापेक्षते, असंवादिनो वाक्यस्य स्वविषये नादार्ढ्यं रूप इव चक्षुषः त्वगिन्द्रिय संवादिनो न दार्ढ्यं चक्षुष इव द्रव्ये इति । येन प्रमाणानां संवा­द­वि­सं­वा­दा­व­प्र­यो­जकौ तेन । यदा वै पुरुष इति वाक्या­दि­न्द्रि­य­मा­त्रस्य सुप्तिसमये वायुविकारे संवेशनोद्गमने भवेताम्, नत्वेतावता सर्व­भू­तो­त्प­त्ति­लयौ तदाश्रयौ योजयितुं शक्यौ; तयोस्तत्र वाक्ये प्रतीत्यभावात् ।
अथ पुन­रि­न्द्रि­य­सा­र­त्वा­त्स­र्व­भू­त­ल­क्षणा, तत्राह —
प्रतीतौ वेति ।
ननु कथं ब्रह्मैव भवेद्यावता सुप्तौ वायुविकारे लयः प्रमा­णा­न्त­र­सिद्ध, तत्राह —
नचेति ।
इन्द्रि­य­मा­त्र­लयः प्रमा­णा­न्त­र­दृष्टो, न भूत­ल­य­स्ते­ना­का­श­वा­क्य­वद् ‘यदा वै’ इति वाक्येऽपि यदि सर्वभूतलयः प्रतीयेत, तर्हि वाक्यशेषाद् ब्रह्मनिर्णय इत्यर्थः । एवं ताव­त्स्वा­प­वा­क्यस्य भूत­ल­य­प­र­त्व­मा­श्रित्य तदनुसारेण सर्वाणि ह वेति वाक्यं वायुविकारे सर्वभूतलयं वक्तीति शङ्का निरस्ता ।
इदानीं तस्य यथा­श्रु­ते­न्द्रि­य­ल­य­मा­त्र­प­र­त्व­मा­श्रित्य तद­नु­रो­धे­ने­द­म­पी­न्द्रि­य­ल­य­परं व्याख्यायते , तथाच न ब्रह्म­लि­ङ्ग­सि­द्धि­रि­त्या­श­ङ्क्याह —
न च मानान्तरेति ।
सर्व­भू­त­सं­वे­श­नस्य वाय्वा­श्र­य­त्व­यो­ज­ना­या­मुक्तं दूष­ण­मि­न्द्रि­य­मा­त्र­ल­य­प­र­त्व­यो­ज­ना­या­मपि संचारयति —
स्वतःसिद्धेति ।
ननु वाक्य­भे­द­म­भ्यु­पेत्य संवा­दि­वा­क्य­ब­ला­दि­त­र­स­ङ्कोचं न वदामोऽपि त्वेकवाक्यतामत आह —
नचास्येति ।
‘यदा वै पुरुष’ इत्यस्य संव­र्ग­वि­द्या­ग­त­त्वात् सर्वाणि ह वेत्य­स्यो­द्गी­थ­वि­द्या­ग­त­त्वा­दि­त्यर्थः ।
अभ्युपेत्याह —
एकवाक्यतायां वेति ।
नन्वेकवाक्यत्वे कुतो विनिगमना यतस्तद् ब्रह्मपरं, न पुन­रि­द­मि­न्द्रि­य­मा­त्र­ल­य­प­र­मि­त्यत आह —
इन्द्रियेति ।
अवयुत्यवादः — एकदेशस्य विभज्य कथनम् । सर्वोत्पत्तिलयौ हि सर्वाणि ह वेत्यत्र प्रतीतौ । तत्र­त्य­स­र्व­श­ब्दा­नु­रो­धेन इन्द्रि­य­मा­त्रो­त्प­त्ति­ल­य­क­थ­न­मे­क­दे­शा­नु­वा­द­त्वेन घटिष्यते॥ एकं वृणीत इत्या­दा­व­र्षे­य­व­रणे सर्व­त्रा­पू­र्व­त्वा­द्वि­धि­मा­शङ्क्य वर्त­मा­ना­प­दे­श­त्वा­द्विधिः कल्प्यः । सर्वत्र च तत्कल्पने सकृच्छ्रुतस्य ‘ न चतुरो वृणीत’ इत्या­द्य­र्थ­वा­दस्य प्रति­वि­ध्या­वृत्तिः स्यात्, सा मा भूदित्येकत्र विधिकल्पना तत्रापि त्रीन् वृणीत इत्यत्रेव । तथा सति हि शते पञ्चाशदितिवद् द्वौ वृणीत इत्या­द्य­न्त­र्भा­वा­द­नु­वादः स्यादिति षष्ठे (जै.सू.अ.६.पा.१.सू.४३) राद्धा­न्ति­त­मे­व­म­त्रा­पी­त्यर्थः ।
चिन्ता­प्र­यो­ज­न­माह —
तस्मादिति ।
भाष्ये — वाक्यशेषशब्दः एकवाक्यत्वपरः ।
इहहि स्ववाक्ये ब्रह्मलिङ्गं दृश्यते, अन्ना­दि­त्य­स­न्नि­धानं वाक्या­न्त­र­सा­पे­क्ष­मतः स्ववा­क्य­स्थ­लिङ्गं प्रबलमिति भाष्यार्थमाह —
वाक्यादिति ।
वाक्यस्य सन्निधानादत्र प्राबल्यं निरूप्यत इति न भ्रमितव्यम्; अत्र ब्रह्म­वा­चि­प­दा­भा­वेन वाक्यत्वाभावात् । ‘कतमा सा देवतेति’ चेत­न­वा­चि­दे­व­ता­श­ब्दो­प­क्र­मात् सैषा देव­ते­त्यु­प­सं­हा­राच्च चेतनपरं वाक्यं न वायुविकारपरम् । अथ प्राणाभिमानिनी देवता लक्ष्येत, तर्हि तवापि समः श्रुतित्यागः, मम तु वाक्यशेषः साक्षी­त्य­भ्यु­च्चयः॥ चाक्रायणः किल ऋषिर्धनाय राज्ञो यज्ञमभिगम्य ज्ञान­वै­भ­व­मा­त्मनः प्रकटयितुकामः प्रस्तोतारमुवाच हे प्रस्तोत, या देवता प्रस्ता­व­म­न्वा­यत्ता तां चेदविद्वान् मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति । स भीतः पप्रच्छ कतमा सेति, प्रत्युक्तिः प्राण इति । प्राणमभिलक्ष्य संविशान्ति लयकाले , उत्पत्तिकाले उज्जिहते उद्गच्छन्ति । इति नवमं प्राणाधिकरणम्॥

ज्योति­श्च­र­णा­भि­धा­नात्॥२४॥ यदि­द­मि­त्य­नु­भू­य­मा­न­त्व­मुक्तं तद्व्याचष्टे —
त्वग्ग्रा­ह्ये­णेति ।
तस्यैषा दृष्टि­र्य­त्रै­त­दस्मि शरीरे स्पर्शे­नो­ष्णि­मानं विजानाति, तस्यैषा श्रुति­र्य­त्रै­त­त्क­र्णा­व­पि­धाय निनदमिव शृणोतीति वाक्यं व्याचष्टे —
तत्र शारीरस्येति ।
नन्वौ­ष्ण्य­घो­षो­प­लब्ध्योः कथं तस्येति ज्योतिः संब­न्ध­नि­र्दे­शोऽत आह —
तल्लिङ्गेनेति ।
औष्ण्य­घो­ष­लि­ङ्गे­ने­त्यर्थः । गम­क­सं­ब­न्धि­नो­र्ग­म्य­सं­ब­न्दो­प­चार इत्यर्थः ।
श्लोकं पूरयति —
गौणेति ।
नन्वौ­त्स­र्गि­कोऽपि मुख्यसंप्रत्यय आका­श­प्रा­ण­श­ब्द­व­द­पो­द्य­ता­मत आह —
वाक्यस्थेति ।
तत्राहि वाक्यशेषस्य ब्रह्म­लि­ङ्गा­द्गौ­णता, अत्र तु वाक्ये ब्रह्मलिङ्गं नोपलभ्यते, प्रत्युत तेजो­लि­ङ्ग­मे­वो­प­ल­भ्यते, अत उत्सर्गोऽनपोदित इत्यर्थः । अनेन सङ्गतिरुक्ता ।
ननु पूर्वत्र गायत्रीवाक्ये तावानस्येति ब्रह्म­लि­ङ्ग­म­स्त्यत आह —
वाक्यान्तरेणेति ।
नहि वाक्या­न्त­र­स्था­लि­ङ्गा­त्स्व­वा­क्यस्था श्रुति­र्मु­ख्या­र्था­त्प्र­च्या­व­यितुं शक्येत्यर्थः ।
अभ्युपेत्य वाक्यान्तरेण नियममाह —
तदर्थेति ।
दिवि दिव इति च सप्त­मी­प­ञ्च­मीभ्यां प्रत्य­भि­ज्ञा­न­वि­च्छे­दान्न वाक्यान्तरार्थ इह ग्राह्य इत्यर्थः ।
वाक्य­स्थे­त्ये­त­द्व्या­चष्टे —
बलवदिति ।
तेजोलिङ्गमेव दर्शयति —
दीप्यत इत्यादिना ।
किमुपोद्बलनाय इह तन्निरासेति । निरासकारणं हि प्राप्तिः । नचा­न्त­स्त­द्ध­र्मो­प­दे­शात् (ब्र.अ.१.पा.१.सू.२०) इति निरस्तस्यात्र प्राप्ति­रि­त्यर्थः ।
भवत्वेकदेशस्य मर्यादा न सम­स्त­स्ये­त्या­श­ङ्क्याह —
तस्य चेति ।
न समस्तं तेज उपास्यं, किं त्ववयव इत्यर्थः ।
वाक्या­न्त­रे­णे­त्ये­त­द्व्या­ख्याति —
न च पादोऽस्येति ।
तद­र्था­प्र­ति­स­न्धित इत्ये­त­द्व्या­चष्टे —
न च वाक्यान्तरे इति ।
अस्यैव व्याख्या­ना­न्त­र­माह —
अपिचेति ।
गाय­त्र्या­श्छ­न्दो­व­च­न­त्वेन सन्दे­हा­द्वा­क्या­न्त­रस्य ब्रह्मार्थत्वं साध्यं न सिद्धम् । अप्रतिसन्धित इत्य­स्या­प्य­नि­श्च­या­दि­त्यर्थः । तेन वाक्यान्तरेण यदतः पर इति वाक्यं ब्रह्मपरतया नियन्तुं कथं शक्यमिति योजना ।
तमो ज्योतिरिति भाष्ये तमो­ग्र­ह­ण­प्र­यो­ज­न­माह —
तेज इति ।
अर्था­व­क­र­त्वे­नेति ।
अनु­द्भू­त­स्प­र्श­त्वेन तमसो नय­न­र­श्मि­नि­र्ग­म­न­प्र­ति­ब­न्ध­क­त्वा­यो­गा­द­र्थ­प्र­का­श­न­प्र­ति­ब­न्ध­क­त्वेन निरोधकत्वं तमस इत्यर्थः । सिद्धान्त्येव पूर्व­प­क्षा­क्षे­पक आक्षेप्ता । एकदेशी पूर्व­प­क्ष्ये­क­देशी । न प्रयोजनान्तरेति भाष्यस्यायमर्थः । प्राणि­क­र्म­नि­मित्ता सृष्टिः सप्रयोजना तत्रा­त्रि­वृ­त्कृतं तेज उपास्त्यर्थं सृष्टमिति न शक्यं वक्तुं; प्रयो­ज­ना­न्त­र­प्र­यु­क्त­स्यै­वा­दि­त्या­दि­व­दु­पा­स्य­त्व­स­म्भवे तस्य सृष्टिं प्रत्य­प्र­यो­ज­क­त्वा­द्वा­जि­न­स्येव दध्यानयनं प्रतीति ।
तासां त्रिवृतं त्रिवृतमिति भाष्यं व्याचष्टे —
एकैकामिति ।
तेजआदिभूतं प्राति सामा­न्य­प्र­वृत्ता त्रिवृ­त्क­र­ण­श्रु­ति­रु­पा­स्य­मा­न­ते­जो­वि­ष­य­त्वेन संकोचयितुं न युक्ता; ततोऽन्यत्र नेतु­म­यु­क्ते­त्यर्थः । तेजआदीनि परो­क्ष­त्व­सा­म्या­द्दे­वताः । त्रिवृतं त्रिवलितम् ।
न वयं वाक्या­न्त­र­स्थ­लि­ङ्गा­त्तेजः श्रुतिं बाधामहे, अपि तु तदु­प­बृं­हि­त­श्रु­त्ये­त्याह —
सर्वनामेति ।
प्रसिद्धं प्रज्ञातम् । प्रसाध्यं नाद्यापि ज्ञातम् ।
यदा यच्छब्दः प्रज्ञा­त­व­च­न­स्तदा गाय­त्री­वा­क्य­नि­र्दिष्टं ब्रह्म परामृशतीत्याह —
प्रसिद्धीति ।
तद्बलादिति ।
यच्छ­ब्द­श्रु­ति­ब­ला­दि­त्यर्थः ।
तेनेति ।
येन पूर्व­वा­क्य­स्थ­म­प­क­र्षति तेनेत्यर्थः ।
ननु दिवि दिव इति रूपभेदान्न पूर्व­वा­क्य­स्थ­ब्र­ह्मण इह प्रत्यभिज्ञा, अतः सर्वनाम तं न परामृशेदत आह —
प्रधानं हीति ।
प्रातिपदिकार्थं इत्यध्याहार्यम् । प्रातिपदिकार्थो द्यौस्ता­व­दु­भ­यत्र समा, सा हि प्रधानं, गुणस्तु विभक्त्यर्थः । तस्माद्गुणे त्वन्या­य्य­क­ल्प­नेति विभक्तिवैरूप्यं नेयमित्यर्थः ।
यदवादि छन्दो­भि­धा­ना­त्स­न्दिग्धं प्राचि वाक्ये ब्रह्मेति तत्राह —
ब्रह्मेति ।
तत्र गायत्रीवाक्ये त्रिपाद् ब्रह्म नतु च्छन्द इत्यर्थः । ‘‘यस्या­हि­ता­ग्ने­र­ग्नि­र्गृ­हान् दहेदग्नये क्षामवते पुरो­डा­श­म­ष्टा­क­पालं निर्व­पे­दि’’त्यत्र दहेदिति विधिविभक्तिः प्रसि­द्धा­र्थ­य­च्छ­ब्दो­प­हता गृह­दा­ह­ल­क्ष­ण­नि­मि­त्त­परा । आर्च्छेदिति च विधिविभक्तिः स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदिति विधा­स्य­मा­न­नि­र्वा­प­नि­मित्तं हवि­रा­र्ति­म­नु­व­दति । उभयं दधिपयसी ।
वचनानि त्विति ।
ज्योति­ष्टो­म­ग­त­सो­मेषु शेषभक्षो विध्यभावान्न विद्यत इति प्राप्ते सर्वतः परिहारमाश्विनं भक्षयति तस्मात्सर्वा दिशः शृणो­ती­त्या­द्य­र्थ­वादा अप्रा­प्त­त्वा­द्भ­क्षा­नु­वा­दा­यो­गा­द्वि­धा­य­कानि वचनानीत्युक्तं तृतीये । एवं प्राप्त्यभावे प्रसि­द्धा­र्थत्वं सर्व­ना­म्नोऽ­प­नी­यत इति यदाग्नेय इति तुल्य­न्या­य­त्वा­दु­दा­हृ­तम् ।
कार्य­ज्यो­ति­रु­प­ल­क्षित इति भाष्यो­क्त­ल­क्ष­णायां सम्बन्धमाह —
ब्रह्मविकार इति ।
ननु वाक्य­स्थ­ज्यो­ति­र्लाभे प्रकृतहानं न दोषोत आह —
प्रसि­द्ध्य­पे­क्षा­या­मिति ।
यच्छृ­ते­र्वि­ष­य­ग­वे­ष­णायां प्रक­र­ण­प्रा­प्त­मपि प्रसिद्धं ग्राह्यं, न स्ववाक्यगतमपि प्रस्तो­ष्या­मा­ण­म­पू­र्वम्, अप्र­सि­द्धे­रि­त्यर्थः । शास्त्र­व­शा­द­न्य­दृ­ष्ठ्या­ल­म्बनं प्रतीकम् ।
कौक्षेयज्योतिषो ब्रह्म­प्र­ती­कत्वे ब्रह्मसंबन्धमाह —
कौक्षेयं हीति॥२४॥
न च भूतपृथिवीति ।
एवं हि श्रूयते । ‘‘गायत्री वा इदं सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च या वै सा गायत्री, इयं वाव सा येयं पृथिवी, या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिताः, यद्वै शरीरम् इदं तद्धृदयमस्मिन् हि प्राणाः प्रतिष्ठिता’’ इति । पृथिव्या भूता­धा­र­त्वा­त्स­र्व­भू­त­भ­य­गा­य­त्रीत्वं शरी­र­हृ­द­य­यो­र्भू­ता­त्म­क­प्रा­णा­श्र­य­त्वा­द्गा­य­त्री­त्वम्, एव­म­न्य­र्थो­क्त­वा­क्प्रा­ण­स­हि­तै­र्भू­ता­दिभिः षड्विधा गायत्रीति॥
गायत्र्याः सर्वच्छन्द इति ।
एवं हि श्रूयते — चतुरक्षराणि छन्दांस्यग्रे समभवन् तेषु जगती सोमाहरणाय गता त्रीण्यक्षराणि हित्वा आगच्छत् । एकं हित्वा त्रिष्टुबागता । गायत्री तु गत्वा तानि गलितानि चत्वार्यक्षराणि सोमं चाहृतवती । ततः साऽष्टा­क्ष­राऽ­भ­व­त्त­यैव सवनत्रयमतन्वत याज्ञिकाः । माध्यन्दिने सवने त्रिष्टुभा प्रार्थिता गायत्री तामुपाह्वयत् । सा च गाय­त्र्य­क्ष­रै­र­ष्टभिः स्वीयैरेव शिष्टै­स्त्रि­भि­र­क्ष­रै­रे­का­द­शा­क्ष­रा­भ­वत् । ततो जगत्या प्रार्थिता गायत्री तां तृतीयसवने उपाह्वयत् । सा च स्वीयेनैकेन प्राची­नै­श्चै­का­द­श­भि­र­क्ष­रै­र्द्वा­द­शा­क्ष­राऽ­भ­व­दि­त्यु­क्त्वो­प­सं­हृतं । तस्मा­दा­हु­र्गा­य­त्राणि वै सर्वाणि सवनानीति । द्विजातीनां द्विती­य­ज­न्म­ज­न­नीत्वं श्रुतं गायत्र्या ब्राह्मणमसृजत्, त्रिष्टुभा राजन्यं, जगत्या वैश्यम् इति॥ केनचिदत्र प्रसिद्धा त्रिपादा गायत्री न प्रत्य­भि­ज्ञा­यते; अस्या­श्चा­तु­ष्पा­त्त्वा­दि­त्यु­क्तम् । तन्न; षड­क्ष­रै­श्च­तु­ष्प­दो­प्य­ष्टा­क्ष­रै­स्त्रि­पा­त्त्वो­प­प­त्ते­रिति ।
स्वात्मनीति ।
यावत् ।
त्रयः पादा इति ।
अल्पं प्रपञ्चं पादमपेक्ष्य स्वरू­प­म­प­रि­च्छि­न्न­त्वात् त्रयः पादा इति॥
दिवीति वाक्यशेषवशात् त्रिपादिति मन्त्रपदस्य व्याख्यान्तरमाह —
अथ वेति ।
पद्यते ज्ञायते एभिस्तुरीयमिति विश्व­तै­ज­स­प्रा­ज्ञा­स्त्रयः पादाः एते यस्य तस्त्रि­पा­त्तु­रीयं स्वपादद्वारा गगनेऽवस्थितमिति मन्त्रार्थः ।
ननु त्रिपाद् ब्रह्मणः ‘‘अयं वाव स’’ इति कथं भूता­का­शै­क्यो­प­दे­शोऽत आह —
तद्धीति ।
उप­ल­ब्धि­स्था­न­स्तु­त्यर्थं ब्रह्म­त्वो­क्ति­रि­त्यर्थः ।
बाह्यानिति ।
शरी­रा­द्ब­हि­ष्ठा­निति ।
ननु चतु­ष्पा­त्त्व­गु­ण­यो­गा­द्गा­य­त्री­शब्दो ब्रह्म गमयति, कथमभिहितमिति भाष्यनिर्देशोऽत आह —
ब्रह्म­प­र­त्वा­दिति ।
ननु पूर्वत्रापि विकारानुगतं ब्रह्म गायत्रीपदेन लक्षणया तात्पर्येण गमितमतः को विशेषः । उच्यते; गौणे प्रयो­गेऽ­भि­धे­य­गतो गुण­स्ता­त्प­र्या­ल्ल­भ्यते, लक्षणायां तु संबन्धं निमि­त्ती­कृ­त्या­र्था­न्तरे तात्पर्यमिति ।
गायत्र्याख्यस्य ब्रह्मणो हृदि स्थित­स्यो­पा­स­ना­ङ्ग­त्वेन द्वार­पा­ला­ना­दि­गु­ण­वि­ध्यर्थं तस्य हेत्यादि वाक्यं, तद­र्थ­तोऽ­नु­क्रा­मति —
हृद­य­स्ये­त्या­दिना ।
प्रागादिदिग्गता हृदयकमलसुषयो द्वाराणि तत्स्थाः प्राणादिवायवो द्वारपालास्ते च चक्षु­रा­दि­क­र­ण­युक्ता आदि­त्या­दि­दे­वै­र­धि­ष्ठिता इति समुदायार्थः ।
प्राणशब्दं निर्वक्ति —
प्रायणकाले इति ।
स आदित्य इत्य­न­न्त­र­नि­र्दि­ष्ट­च­क्षुष आदित्यत्वं नोच्यते किंतु प्राणस्येत्याह —
स एवेति ।
कारणमाह —
आदित्य इति ।
अधि­ष्ठा­त्र­धि­ष्ठे­य­यो­रै­क्यो­प­चारः । श्रोत्रद्वारा चन्द्रमा व्यान­स्या­धि­ष्ठाता । एवमुत्तरत्रापि करणद्वारा वाय्व­धि­ष्ठा­तृत्वं देवतानां द्रष्ठव्यम् । अधः­श्वा­स­स्याऽ­पा­नस्य मुखे वाक्सं­ब­न्धा­द्वा­क्त्व­मि­त्यर्थः ।
सोऽग्निरिति श्रुतौ वाचो­ग्नि­त्व­मुक्तं , तत्र हेतुमाह —
वाग्वा इति ।
तत्पर्जन्य इति ।
पर्जन्यो वृष्ट्यात्मको देव­स्त­न्नि­मित्ता आपः , तथा मनोनिमित्ताश्च ; “मनसा सृष्टा आपश्च वरुणश्चे’ति श्रुतेः , अतो मनसः पर्ज­न्योऽ­धि­ष्ठाता । उदानवायुः ; सामान्यात्मकः सहायकत्वे वर्तते , तस्य च वाय्वाधार आकाशः परमेश्वरो देवतेत्यर्थः । हार्दस्य ब्रह्मणः पुरुषाः प्राणादयः ।
यदादावुक्तं प्रधा­न­प्र­कृ­त्य­र्थ­प्र­त्य­भि­ज्ञा­नु­रो­धेन प्रत्य­या­र्थ­वै­षम्यं नेयमिति, तदुपदर्शकं भाष्यं व्याचष्टे —
यदाधारत्वमिति ।
अर्वाग्भागेति ।
यदा मुख्यमाधारत्वं वृक्षाग्रस्य विवक्षितं, तदा वृक्षा­ग्रा­त्प­रतः श्येन इति प्रयोगे श्येनशब्दो वृक्षा­ग्र­ल­ग्र­श्ये­ना­व­य­वा­व­च्छि­न्ना­व­य­वि­ल­क्षक इत्यर्थः ।
अस्मिन्पक्षे दार्ष्टान्तिके ब्रह्मणः श्येन­व­द­व­य­वा­भा­वा­द्दिव इति श्रुतिं लक्षणया व्याचष्टे —
एवमिति ।
शक्यते च दृष्टान्तेऽपि वृक्षा­ग्रा­दि­त्य­व­धि­श्रु­ति­र्ल­क्ष­णया नेतुम्, अग्र­भा­गा­दी­ष­द­र्वा­ग्भा­ग­प­र­त्वेन, तदा दार्ष्टान्तिकेन साम्यमिति । यदा त्वनौपाधिकं ब्रह्मा­का­शा­स्पृष्टं विवक्षित्वा पञ्चम्येव मुख्या, तदा सप्तमी सामीप्यसंबन्धं लक्षयतीत्याह —
यदा त्विति ।
अतएवेति ।
यतः सर्वमर्यादा मुख्या, अत एवेत्यर्थः । या तु दिवि द्योतनवतीति व्याख्या, तस्यां नामी व्याख्या विकल्पाः । अतएव तद­प­रि­तो­षा­द­थ­वे­त्यु­क्त­मिति॥
तावानस्य महिमेति ।
गायत्री वा इदं सर्वं भूतमित्यादिना भूत­पृ­थि­वी­श­री­र­हृ­द­य­वाक् प्राणमयी षड्विधा चतुष्पदा गाय­त्री­त्यु­क्तम् । अस्य गायत्र्यनुगतस्य ब्रह्म­ण­स्ता­वा­न्म­हिमा विभूतिः । परमार्थतस्त्वयं पुरुषस्ततो ज्याया­न्म­ह­त्तरः, तदेवाह — सर्वाणि भूतान्यस्य पादः । अस्य त्रिपादमृतं दिवि द्योतनवति स्वात्मन्येव स्थितम् । यथा कार्षा­प­ण­श्च­तुर्धा विभक्त एकस्मात् पादा­त्पा­द­त्र­यी­कृतो महान्, एवं पुरुषः पुरुषार्थरूपः प्रप­ञ्चा­न्म­हा­नि­त्यर्थः॥
ते वा एते इति ।
संव­र्ग­वि­द्या­या­म­धि­दै­व­म­ग्नि­सू­र्य­च­न्द्रां­भांसि वायौ लीयन्ते । अध्यात्मं च वाक्य­च­क्षुः­श्रो­त्र­म­नांसि प्राणे सन्नियन्त इत्युक्तम् । ते वायुना सह पञ्च आध्या­त्मि­के­भ्योऽन्ये । प्राणेन च सहा­धि­दै­वि­केऽ­भ्योऽन्ये पञ्च । एवं दश­स­न्त­स्त­त्कृ­तम् । अत्रापि चतु­र­य­क­द्यू­त­ग­त­च­तु­र­ङ्कव त्सन्ति चत्वारः पदार्थाः त्र्यङ्कायवत् त्रयः द्व्यङ्का­य­वद्द्वौ एकायवदेकः । द्यूते च चतुरङ्कः कृतसंज्ञः स च दशात्मकः । चतुर्ष्वङ्केषु त्रयोऽ­न्त­र्भ­वन्ति; एवं सप्त त्रिषु द्वौ , तथा सति नव, द्वयोरेकः इति दश । वाय्वादयोपि दशसंख्यत्वादेवं कृतम् । सैषेति विधेयाभिप्रायः स्त्रीलि­ङ्ग­नि­र्देशः । दश­सं­ख्य­त्वा­द्वि­राट् अन्नम् । ‘दशाक्षरा विराडन्न’मिति हि श्रुतिः । कृत­त्वा­द­न्ना­दीनि, कृते ह्यन्नभूता दश­सं­ख्या­न्त­र्भूता । अतस्तामत्तीव, अतोऽ­न्ना­द­त्वे­नापि गुणेन वाय्वादय उपास्या इत्यर्थः । इति दशमं ज्योति­र­धि­क­रा­णम्॥

प्राण­स्त­थाऽ­नु­ग­मात्॥२८॥
अनेकेति ।
अनेकेषां लिङ्गान्यनेकानि च तानि लिङ्गनि वा प्रति­प­दा­र्थ­म­ने­का­नी­त्यर्थः । तेषामेकत्वेन प्रति­भा­स­मा­न­वाक्ये समावेशे किं बलवत्, किममूनि सर्वाणि समबलानि, उतैकमेव बलवत् यदा चैलमेव बलवत्तदा कस्य लिङ्गनो लिङ्गं बलवत्, किं ब्रह्मणः, उत प्राणा­दे­रि­त्ये­त­दत्र चिन्त्यते । एतच्च प्राक् अतएव प्राणः(ब्र.अ.१.पा.१.सू.८) इत्यत्र न चिन्तितम् । तत्र हि ब्रह्मलिङ्गात् प्राण­श्रु­ति­र्नीता, नतु ब्रह्मा­ब्र­ह्म­लि­ङ्गानां बलाबलमित्यर्थः । ज्योति­र्वा­क्येऽपि यच्छब्देन समाकृष्टे ब्रह्मणि तल्लिङ्गं तेजो­लि­ङ्गा­द्ब­ल­व­दि­त्यु­क्तम् । न तथेह किंचि­न्नि­र्ण­य­का­र­ण­मिति तेनाप्यगता चिन्ता, अतएव सङ्गतिः । अथवा — दिवि दिव इत्यत्र प्रधा­न­प्र­कृ­त्य­र्थ­म­नु­रुध्य प्रत्ययार्थो नीतः, एवमिहापि स्वत­न्त्र­प्रा­णा­दि­प­दा­र्थ­भे­द­प्र­तीतौ तत्सापेक्षत्वेन गुण­भू­त­वा­क्या­र्थ­प्र­ती­ते­र्यु­क्त­म­न्य­थाऽऽ­न­य­न­मिति भिन्नो­पा­स­न­वि­ध्यु­प­ग­मेन पूर्व­प­क्षो­त्था­नस्य वक्ष्य­मा­ण­त्वा­त्स­ङ्गतिः ।
बहूनीति ।
बहुग्रहणमनेकानि च तानि लिङ्गानीति संग्रहे समा­स­प्र­द­र्श­ना­र्थम् । एवंच प्राणादिषु प्रत्येकमपि बहु­लि­ङ्ग­द­र्श­नाद् भूयसां न्याये­ना­प्य­नि­र्ण­यात्, आका­श­स्त­ल्लि­ङ्गात् – (ब्र.अ.१.पा.१.सू.२२) इत्य­ने­ना­प्य­ग­ता­र्थ­त्व­मु­क्तम् ।
अन­न्य­था­सि­द्ध­ब्र­ह्म­लि­ङ्गा­नु­सा­रे­णे­त­रे­षा­म­न्य­था­सिद्धिं वद­न्न­न्त­स्त­द्धा­र्मो­प­दे­शात्(ब्र.अ.१.पा.१.सू.२०) इत्यनेन पुनरुक्तिं शङ्कते —
स्यादे­त­दि­त्या­दिना ।
देव­ता­लि­ङ्ग­स्या­न्य­था­सि­द्धि­माह —
तथापीति ।
शास्त्रदृष्ट्या तूप­देशः(ब्र.अ.१.पा.१.सू.३०) इति सूत्रार्थं मनसि निधायाह —
इन्द्रस्य देवताया इति ।
ध्यान­ज­सा­क्षा­त्का­रा­भ्यु­प­गमो वाच­स्प­ते­रे­त­त्सू­त्रा­र्था­बो­धा­दिति कैश्चि­द­यु­क्त­मु­क्तम् । यतः — अपि संराधने सूत्रा­च्छा­स्त्रा­र्थ­ध्या­नजा प्रमा । शास्त्र­दृ­ष्टि­र्मता तां तु वेत्ति वाचस्पतिः परं॥
वसतः इति द्विवचनश्रुत्या सहो­त्क्र­म­णा­दि­लि­ङ्गा­नु­गृ­ही­त­यो­पा­स्य­भे­द­प्र­ती­तेर्न वाक्यस्य ब्रह्म­मा­त्र­प­र­त्व­नि­र्णय इति वदन् पूर्व­प­क्ष­सं­भ­व­माह —
अत्रोच्यत इति ।
तस्य प्राणस्य प्रज्ञात्मना जीवेन सहो­पा­स्य­त्व­मु­क्त­मि­त्यर्थः ।
ब्रह्मणि प्राण इति ।
स एष प्राण आनन्दोऽजर इत्यत्र प्राणशब्दो ब्रह्म­वा­ची­त्यर्थः ।
भवतु पदा­र्था­व­ग­म­पू­र्वको वाक्यार्थावगमः, तथापि गामा­न­ये­त्या­दा­वि­वै­क­वा­क्यता किं न स्यादत आह —
पदार्थानां चेति ।
गुण­प्र­धा­न­यो­ग्य­प­दा­र्था­व­गमे भवत्वेकवाक्यता, इहतु सहोत्कामत इत्यादिभिः स्वात­न्त्र्या­व­ग­ते­र्वा­क्य­भेद इत्यर्थः । हेतुः पदार्थावबोधो हि वाक्यार्थबोधे, अतएव स गुणः ।
उद्देश्यस्तु वाक्या­र्थ­प्र­त्ययः प्रधानम्, अतो न प्रती­तै­क­वा­क्य­त्व­भङ्ग इति सिद्धान्तयति —
सत्यमित्यादिना ।
ज्ञानशक्तिमती बुद्धिः, क्रिया­श­क्ति­मांश्च प्राणः ।
यदि प्रत्य­गा­त्मो­पाधी भेदेन निर्दिष्टौ, नतु जीवप्राणौ स्वातन्त्र्येण, कथं तर्हि प्राण एव प्रज्ञा­त्मे­त्यु­प­क्र­म्यो­पा­स्वेति तयो­रु­पा­स्य­त्व­नि­र्देशः, भेदेनोक्तयोर्वा कथमभेदेन निर्देशः, अत आह —
अतएवेति ।
ननु जीव­प्रा­ण­ब्र­ह्म­णा­मु­पा­स्य­त्वेन यदि पूर्वः पक्षः, कथं तर्हि जीव­मु­ख्य­प्रा­ण­लि­ङ्ग­सू­त्रा­व­ता­र­क­पू­र्व­प­क्ष­भाष्ये ब्रह्म­प­र­त्व­नि­षे­धोऽत आह —
ब्रह्म­वा­क्य­मे­वेति ।
ब्रह्म­प­र­त्व­नि­यमो निषिध्यत इत्यर्थः । एत­त्सू­त्र­पू­र्व­प­क्ष­भाष्य एव प्राणस्य प्रज्ञा­त्व­मु­प­पा­द­यितुं प्रज्ञे­त्या­दि­भा­ष्यम् ।
तत्र प्राणा­न्त­र­श­ब्दा­र्थ­माह —
प्राणान्तराणीति ।
मुख्य­प्रा­ण­स्थितौ स्थिते­स्त­दु­त्क्रा­न्ता­वु­त्क्रा­न्ते­स्त­त्प्र­ति­ष्ठा­नी­न्द्रि­याणि ।
एत­त्सू­त्र­पू­र्व­प­क्षो­प­सं­हा­र­भाष्यं — तस्मादिह जीव­मु­ख्य­प्रा­ण­यो­र­न्य­तर उभौ वा प्रतीयेयातां न ब्रह्मेति, तद­प्यु­पा­स­ना­त्र­य­प­र­तया नयति —
जीवेति ।
अन्यतरत्वं उपक्रममात्रम् — अस्थिरमित्यर्थः ।
ननु त्रयाणामुपासने कथमुभाविति निर्देशोऽत आह —
ब्रह्म त्विति ।
उभयोः प्राप्त्य­र्थोऽयं निर्देशो न ब्रह्म­व्या­वृ­त्त्यर्थः ।
तर्हि न ब्रह्मेति कथमत आह —
न ब्रह्मैवेति ।
एवमेता भूतमात्रा इति वाक्यस्यार्थत उपादानेन ब्रह्म­लि­ङ्ग­स्या­न­न्य­था­सि­द्धि­प्र­द­र्शकं जीव­मु­ख्य­प्रा­ण­लि­ङ्ग­सूत्र(ब्र.अ.१.पा.४.सू.१७) सिद्धान्तभाष्यं दशानामित्यादि, तद्व्याचष्टे पञ्चेति । श्रुतौ भूतमात्राशब्दे द्वन्द्वसमासः, भूतानि च मात्राश्चेति । भूतानि पृथिव्यादीनि पञ्च, मात्राः शब्दादयः सूक्ष्मभूतानि च पञ्चेति दशेत्यर्थः ।
प्रज्ञा­मा­त्राणां चेति भाष्ये दशा­ना­मि­त्य­नु­ष­ञ्ज­नीयं, चश­ब्दा­दि­त्य­भि­प्रेत्य व्याचष्टे —
पञ्च बुद्धी­न्द्रि­या­णीति ।
पञ्चबुद्धय इति ।
पञ्चे­न्द्रि­य­ज­निता बुद्धय इत्यर्थः । अत्रापि द्वन्द्व एव । प्रज्ञाः बुद्धयः । मीयन्ते शब्दादय आभिरिति मात्रा इन्द्रियाणि ।
पूर्वो­त्त­र­व्या­ख्ययोः सूत्रार्थं विभजते —
पूर्वमिति ।
उपा­स­ना­त्रै­वि­ध्य­प्र­स­ङ्गा­दिति पूर्वत्र व्याख्या, अत्र त्वेकस्या उपा­स­ना­या­स्त्रि­वि­ध­त्वाद् न वाक्यभेदे इति व्याख्येत्यर्थः । किमु­पा­स­ना­त्र­य­वि­शिष्टं ब्रह्म विधीयते, उत ब्रह्म­वि­शि­ष्ट­मु­पा­स­ना­त्रयं, किं वा तदनुवादेन तदा­श्रि­तो­पा­स­ना­त्र­य­मिति ।
नाद्य इत्याह —
युक्तमिति ।
न द्वितीय इत्याह —
वाक्या­न्त­रे­भ्य­श्चेति ।
विशेषणब्रह्मणः सन्निधौ प्राप्तत्वाद् न तद्वि­शि­ष्टो­पा­स्ति­वि­धि­रि­त्यर्थः ।
ततस्तृतीयपक्षः परिशिष्यत इत्याह —
तदनूद्येति ।
तं दूषयति —
तस्य चेति ।
ब्रह्मा­नु­वा­दे­नो­पा­स­न­वि­धा­वे­क­वि­शे­ष्या­व­शी­का­रा­दु­पा­स­नानां च पर­स्प­र­म­स­ङ्गा­त्प्र­त्यु­पा­स्ति­वि­ध्या­वृ­त्त्या­पात इत्यर्थः । — अत्र केचित् — प्रकरणित्वेऽपि ब्रह्म­णोऽ­वा­न्त­र­वा­क्य­भे­देन श्रव­णा­दि­व­द्य­ज्ञा­दि­व­च्चो­पा­स­ना­त्रयं विधेयम्, अत एकवाक्यत्वेऽपि नाना­वा­क्य­त्व­म­वि­रु­द्धम् । अपिच नैव वाक्यभेदः; प्राणा­दि­त्रि­त­य­ध­र्म­वि­शि­ष्टै­को­पा­स­न­विधेः — इत्याहुः । तन्न ; । यतः अग­त्या­क­ल्प्योऽ­पू­र्व­त्वा­द्वा­क्य­भेदो हि धारणे । इह ब्रह्मातिरेकेण नापू­र्वा­र्था­व­धा­रणा॥ उप­क्र­मो­प­सं­हा­रै­क्या­द­व­गते एकवाक्यत्वे सर्वा­त्म­त्व­वि­व­क्षया प्राणजीवधर्मा ब्रह्मणि स्तुत्यर्थं निर्दिष्टा इति शक्यते योजयितुम् । सर्वात्मत्वं च सृष्टि­वा­क्य­सिद्धं शक्यमनुवदितुं नत्वे­व­मु­प­रि­धा­र­ण­म­न्यतः प्राप्त­मि­त्य­शं­क्या­नु­वा­द­त्वा­द्वा­क्य­भे­द­स्तत्र कल्पितः । श्रव­णा­दि­वि­धि­स्त्व­निष्ठः, यज्ञा­दि­वि­धि­र­पू­र्व­त्वा­द्वि­षमः॥ यच्च त्रित­य­ध­र्म­वि­शि­ष्ट­मे­क­मु­पा­स­न­मिति, तदपि न; इह हि किं जीवप्राणौ स्वध­र्मै­र्वि­शिष्य पुनस्ताभ्यां विशिष्टं ब्रह्मो­पा­स्य­मि­ष्यते, उता­रु­णै­क­हा­य­नी­व­त्स­र्व­वि­शे­ष­ण­वि­शि­ष्ट­ब्र­ह्मो­पा­सनां विधाय पार्ष्ठिको जीव­प्रा­ण­यो­स्त­द्ध­र्माणां च विशे­ष­ण­वि­शे­ष्य­भावो विशि­ष्ट­वि­धि­सा­म­र्थ्या­त्प्र­मी­यते इति । नाद्यः; जीवप्राणयोः स्वधर्मान् प्रति विशेष्यत्वं ब्रह्म प्रति विशेषणत्वम् इति वैरूप्यात् । न चरमः; प्राणादीनां विप्र­की­र्ण­त्वा­दे­क­वि­शि­ष्ट­प्र­ती­त्य­यो­गा­दिति॥ दिवो­दा­स­स्या­पत्यं दैवोदासिः । धाम गृहम् ।
अरुन्मुखानिति ।
रौति यथार्थं शब्दयति इति रुद् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मुखाः तेभ्योऽन्ये अरुन्मुखाः । शालावृकेभ्यः आरण्यश्वभ्यः ।
अस्तित्वे चेति ।
प्राण­श­ब्द­वा­च्यस्य पर­मा­त्म­नोऽ­स्तित्वे, प्राणानां इन्द्रियाणां । निःश्रेयसं जीव­ना­दि­पु­रु­षा­र्थ­सिद्धिः ।
एवमेवैता इति ।
पृथिव्यादीनि शब्दा­द­य­श्चे­न्द्रि­येषु तज्जन्यज्ञानेषु च विष­य­त्वे­ना­र्पिताः । प्रज्ञाः बुद्धयः । मात्राः इन्द्रियाणि । प्राणे परमात्मनि अर्पितानि । नेमिवद्विषयाः । अर­व­दि­न्द्रि­य­बु­द्धयः । नाभिवदात्मा ।
तान्वरिष्ठ इति ।
प्राणाः किलास्मासु कः श्रेष्ठ इति निर्दिधारयिषव प्रजापतिं जग्मुः, स आह यस्मिन् उत्क्रान्ते इदं शरीरं पापिष्ठमिव भवति स श्रेष्ठ इति । तथेति वागादय उच्चक्रमुः । तथापि शरी­र­म­व्य­ग्र­म­व­र्तत प्राणो­च्चि­क्र­मि­षायां शरी­र­क­र­णे­ष्व­न­व­स्था­मा­प्नु­वत्सु तान् श्रेष्ठंमन्यान् चक्षुरादीन् श्रेष्ठः प्राण उवाच । प्राणापानादिभिः पञ्चधात्मानं स्वं विभज्यैतदिति क्रिया­वि­शे­ष­ण­मि­त्थ­त्यर्थः । वाति गच्छतीति वानं वानमेव वाणम् । वा गतिगन्धनयोः । अस्थिरं शरीरमित्यर्थः ।
तस्मादेतदेवेति ।
उत्थापयति शरी­रा­दि­क­मि­त्यु­क्थम् ।
अथ यथेति ।
अस्या जीवलक्षणायाः प्रज्ञायाः संबन्धीनि भूत्वा सर्वा सर्वाणि भूतानि तादृशत्वेन कल्पितानि, वस्तुत एकं भवन्ति । अस्या एकमङ्गं फलरूपं चैतन्यं स्ववि­ष­यो­पा­धि­नाऽ­दू­दु­ह­द्रे­चि­त­वती । तस्या दुग्धायाः प्रज्ञाया उपरि विषयत्वेन नामलक्षणं भूतमात्रा भूतसूक्ष्मं प्रतिविहितम् ।
उप­हि­त­चै­त­न्य­द्वारा स्वरूपे द्रष्टृ­त्वा­ध्या­स­माह —
प्रज्ञया द्वारा वाचं समारुह्य वाचं करणं प्रति कर्ते­त्य­ध्या­स­म­नु­भूय तया करणेन सर्वाणि नामा­न्या­प्नो­तीति । वक्तृत्वेन कर्मे­न्द्रि­य­प्र­वृ­त्ति­रपि चैतन्याधीनेति प्रज्ञादोह उक्तः ।
ता वा इति ।
भूतानि शब्दा­द­य­श्चा­धि­प्र­ज्ञम् । प्रज्ञाशब्द इन्द्रि­या­ण्य­प्यु­प­ल­क्ष­यति॥ इन्द्रियेषु तज्जज्ञानेषु च दश प्रज्ञामात्राः, इन्द्रि­य­त­ज्ज­प्रज्ञाः अधिभूतम्, भूतेषु ग्राह्य­ग्रा­ह­क­यो­र­न्यो­न्या­पे­क्ष­त्वात् कल्पि­त­त्व­म­तोऽ­द्वैतं तत्त्व­मि­त्यर्थः॥ इति एकादशं प्रत­र्द­ना­धि­क­र­णम् । इति श्रीम­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ प्रथमाध्यायस्य प्रथमः पादः॥

सर्वत्र प्रसि­द्धो­प­दे­शात्॥१॥ प्रथमपादे स्पष्ट­ब्र­ह्म­लि­ङ्ग­वा­क्या­न्यु­दा­ह­र­णम् । द्विती­य­तृ­ती­य­यो­स्त्व­स्प­ष्ट­ब्र­ह्म­लि­ङ्गानि । तयोस्तु प्रायशः सवि­शे­ष­नि­र्वि­शे­ष­ब्र­ह्म­लि­ङ्ग­वा­क्य­वि­ष­य­तया वा योगरूढिविषयतया वाऽवान्तरभेदः ।
अधि­क­र­ण­सि­द्धा­न्तेति ।
यत्सि­द्धा­व­र्था­द­न्य­सिद्धिः सोऽधि­क­र­ण­सि­द्धान्तः । यद्य­र्था­न्त­र­रूढा अपि शब्दा ब्रह्म­लि­ङ्गा­द्ब्र­ह्म­प­र­तया व्याख्याताः, तर्हि कैव कथा मनो­म­य­त्वा­दि­लि­ङ्गेषु ।
अपिचेह ब्रह्मशब्द एवास्ति, सर्वं खल्विदं ब्रह्मेति, अस्ति च वाक्यशेषे सर्वकर्मत्वादि ब्रह्मलिङ्गं, तत्कथं जीवपरत्वशङ्का वाक्यस्यात आह —
पूर्व­प­क्षा­भि­प्रायं त्विति ।
क्रतु­मि­त्या­दि­वा­क्ये­ने­त्या­र­भ्ये­त्यर्थः ।
तल्लमिति ।
तल्लयमित्यर्थः । तस्मिन्ननितीति तदन् । क्रतुर्ध्यानं तत्प्र­धा­न­स्त­न्मयः ।
मनोमयत्वादीनां प्रकृ­त­ब्र­ह्म­नै­र­पे­क्ष्य­सा­पे­क्ष­त्वाभ्यां संशयमाह —
तत्रेति ।
पादान्तरत्वादेव नावान्तरसङ्गतिः ।
स्ववा­क्यो­पा­त्त­ध­र्म­वि­शि­ष्ट­जी­वो­पा­स­ना­नु­वा­देन शमविधिपरत्वान्न सर्वं खल्विति वाक्य­मु­पा­स्य­स­म­र्प­क­मि­त्याह —
क्रतुमिति ।
प्रागप्रतीतायाः क्रतुप्रवृत्तेः कथ­मु­पा­सी­ते­त्य­नु­वा­द­स्त­त्राह —
तथा चेति ।
ननु सङ्क­ल्प­वि­धे­रु­पा­स्य­सा­पे­क्ष­त्वा­द्ब्र­ह्मण उपास्यत्वम्, अत आह —
एवंचेति ।
सापेक्षस्य गुण­वि­ध्य­र्थ­मा­श्र­य­दा­ना­यो­गा­न्म­नो­म­य­त्वा­दि­भि­रे­वा­पे­क्षा­पू­र­ण­मि­त्यर्थः ।
स्यादेतत् — मनो­म­य­त्वा­दि­म­द्ब्र­ह्मै­वा­स्त्वि­त्यत आह —
मनोमयत्वादि चेति ।
उत्प­त्ति­शि­ष्टत्वं कर्म­स्व­रू­प­प्र­ती­ति­स­म­या­व­ग­त­त्वम् ।
यदि न ब्रह्मोपास्यं, किमर्थं तर्हि ब्रह्मा­भि­धा­न­मि­त्यत आह —
नचेति ।
हेतुवन्निगद्यत इति तथोक्तः॥ शूर्पेण जुहोतीत्याम्नाय तेन हीति श्रुतम् । तत्र हिशब्दश्रुतेः स्तुतौ च लक्ष­णा­प्र­स­ङ्गा­द­न्न­क­र­णत्वं शूर्पहोमे हेतुरुपदिष्टः । तथाच यद्यदन्नकरणं दर्व्यादि तेन तेन होतव्यमिति प्रापय्य राद्धान्तितं प्रमाणलक्षणे । शूर्पं हि होमकरणं तृतीयाश्रुत्या गम्यते, विध्यर्थस्य च न हेत्वपेक्षा । तस्मात् शूर्पस्तुतिः ।
यत्तु हेतौ हिश­ब्द­श्रु­ति­रिति ।
तन्न; नहि साक्षा­द्द­र्व्या­दिना शक्यमन्नं कर्तुम् । अथ शक्यं प्रणाड्या, कथं तर्हि श्रुतिवृत्तिता हेतुवचनस्य । ननु शूर्पस्तुतावपि लक्षणा स्यात्, नहि तेनापि साक्षादन्नं क्रियते । अद्धा; स्तुति­र्ह्य­नु­वा­द­त्वा­द्य­था­प्राप्ति लक्षणां सहेत न विधि­र­पू­र्वा­र्थ­त्वा­दिति (जै.अ.१.पा.२.सू.२६ — ३०)अत्रायं विशेषो द्रष्टव्यः ।
समास इति ।
प्राणः शरीरमस्येति बहु­व्री­हि­र्वि­ग्र­ह­व­शा­द­न्त­र्ग­र्भि­त­स­र्व­ना­मा­र्थ­वान्, सर्वनाम च सन्नि­हि­ता­व­ल­म्बीति समासः सन्नि­कृ­ष्ट­म­पे­क्षते, तेन सर्व­ना­म­श्रु­ति­र्ब्र­ह्मो­पा­स्यत्वे मानमुक्ता ।
ननु न ज्योति­र्वा­क्य­व­दिह वाक्या­न्त­रो­क्त­ब्र­ह्म­णोऽस्ति सन्निधापिका प्रत्यभिज्ञा, यतः सर्वनाम परामृश्येत, अतः स्ववाक्यस्थेन मनोमय इति मय­ड­र्थे­ना­का­ङ्क्षा­शा­न्ति­रत आह —
तद्धि­ता­र्थोऽ­पीति ।
सोऽपि विका­र­प्रा­चु­र्य­सा­धा­र­ण­त्वेन सामान्यम्, अतो नाकाङ्क्षाशमकः; संदिग्धत्वात् ।
फलितमाह —
तस्मादिति ।
अन्यपरादपि शम­वि­धि­स्तु­ति­प­रा­दपि इति ।
ब्रह्मोपादाने वाक्य­शे­ष­स्थ­लि­ङ्ग­सा­म­ञ्ज­स्य­माह —
तथाचेति ।
तदभिधानं समासाभिधानम् । तद्धितार्थः ।
इत्ये­त­द्व्या­चष्टे —
तत्र मनोमयपदमिति ।
एष मनोमयशब्दो जीव एव निवि­ष्टा­व­य­वार्थः, नतु ब्रह्मणि; तस्य मन आदि­वि­र­ह­प्र­ति­पा­द­ना­दि­त्ये­तच्च न युक्तम् ; कुतो न युक्तमत आह —
तस्यापीति ।
विकाराणां चेति ।
विकारविशेषाणां जीवानामित्यर्थः । विकारत्वं जीवा­ना­म­व­च्छे­दा­पेक्षं ।
यदि जीवद्वारा ब्रह्मणो मनोमयत्वं, तर्हि जीवे एव मनोमयपदं मुख्यमिति तदेव समा­सा­का­ङ्क्षायाः परिपूरकमिति शङ्कते —
स्यादेतदिति ।
बलाबलविवेकाय पक्षविभागं करोति —
तदेतदिति ।
अधिष्ठानलिङ्गैः सर्व­क­र्म­त्वा­दि­भि­स्त­द­भि­न्न­जी­वानां तद्वत्त्वपक्षे फलितमाह —
तथा च जीवस्येति ।
वस्तुतो ब्रह्माऽ­भि­न्न­स्यापि जीव­स्या­व­च्छि­न्न­तया न ब्रह्म­ध­र्म­वत्ता, ब्रह्म तु सर्वा­त्म­त्वा­ज्जी­व­लि­ङ्गै­स्त­द्वद् जीवलिङ्गवदिति ।
पक्षे लाभमाह —
तथा च ब्रह्म­लि­ङ्गा­ना­मिति ।
ज्ञायमानेन समा­रो­प्य­रू­पे­णा­धि­ष्ठानं विषयो रूपवान् भवेत्, तस्या­ज्ञा­य­मा­न­त्वेन समारोपकालेऽपि सत्त्वात्, विषयस्य तु रूपेणासाधारणेन ज्ञायमानेन समारोप्यं न रूप­व­द­धि­ष्ठा­ना­सा­धा­र­ण­रू­प­ज्ञाने सति समा­रो­प्या­भा­वा­दि­त्यर्थः ।
प्रस्तु­तेऽ­धि­ष्ठा­ना­सा­धा­र­ण­रू­प­ज्ञा­न­म­स्ती­त्याह —
तस्मादिति ।
ननु यद्युक्तरीत्या मनोमयवाक्येऽपि ब्रह्म­लि­ङ्गा­त्त­त्प्र­तीतिः, तर्हि कथं भाष्यकारः सूत्रविवरणावसरे ‘‘इह च सर्वं खल्विदं ब्रह्मे’’ति वाक्योपक्रमे श्रुतमित्येवाह, न पुन­र्वा­क्य­शे­षेऽपि सर्वकाम इत्या­दि­ध­र्म­व­त्तया श्रुतमिति, अतआह —
एत­दु­प­ल­क्ष­णा­येति॥१॥
भाष्ये त्वपौ­रु­षे­य­श­ब्देन न कर्मभाव उक्तः, किं तु पुंस्वा­त­न्त्र्या­भावः ।
विव­क्षा­भा­वा­भि­धा­न­मपि स्वात­न्त्र्य­नि­षे­धा­र्थ­मि­त्याह —
तथाचेति ।
उपादानेन फलेनेति भाष्ये उपादानं नाम परिग्रहो नतू­पा­दे­य­त्व­मु­द्दे­श्य­त्व­प्र­ति­योगि ।
विपक्षे दण्डमाह —
अन्यथेति ।
किंचिद्विधातुं सिद्ध­व­न्नि­र्दे­श्य­त्व­मु­द्दे­श्य­त्वम् । अनुष्ठेयत्वेन निर्दे­श्य­त्व­मु­पा­दे­य­त्वम् । उद्दे­श्या­वि­व­क्षायां ग्रहं संमा­र्ष्टी­त्य­त्रो­द्दे­श्य­ग्र­ह­स्या­वि­वक्षा स्यात् । तथा च चमसादेरपि संमार्गप्रसङ्गः स चायुक्तः । चमसाधिकरणे (जै.अ.३.पा.१.सू.१६ — १७) हि प्रकृ­त­या­ग­सं­ब­न्धि­सो­मा­धा­र­त्वा­वि­शे­षेण ग्रहपदस्य चोप­ल­क्ष­णा­र्थ­त्वेन चमसानामपि संमार्गमाशङ्क्य सिद्धान्तितम् । केवलं संमा­र्ग­वि­ध्य­यो­गा­दु­द्दे­श्येन भाव्यं; तच्च ग्रहशब्देन समर्पितम् । न च चमसलक्षणार्थो ग्रहशब्दः ; ग्रह­या­गा­वा­न्त­रा­पू­र्व­सा­ध­न­त्व­स्या­न्त­र­ङ्गस्य तेन लक्ष्यमाणत्वात् । व्रीहि­य­व­यो­स्त्व­वा­न्त­रा­पू­र्व­भे­दा­भा­वा­द्व्री­हीन् प्रोक्षतीत्यत्र व्रीहिशब्दो यवोपलक्षणार्थ इति युक्तम् । ततश्च ग्रहेष्वेव संमार्ग इति॥
ननु परिग्रहो यदि उद्देश्यत्वेन विधि­प­रि­गृ­ही­त­स्तर्हि तदेकत्वमपि पश्वे­क­त्व­व­द्वि­व­क्षितं स्यादत आह —
तद्गतं त्विति ।
ग्रहगतं त्वेकत्वं ग्रहा­न्प्र­त्य­व­च्छे­द­क­त्वेन रूपेण न विवक्षितम् । युक्ता हि पशुना यजे­ते­त्य­त्रो­पा­दे­य­वि­शे­ष­ण­त्वा­दे­क­ल­वि­वक्षा; एकप्रसरतया एक­प­शु­वि­शि­ष्ट­या­ग­वि­धि­सं­वात्, अत्रतु ग्रह­त्वै­क­त्वो­द्दे­शेन संमा­र्ग­वि­धा­बु­द्दि­श्य­मा­नयोः पर­स्प­र­म­सं­ब­न्धा­द्ग्रहे एवोद्देश्यत्वेन पर्यवसानाच्च प्रत्युद्देश्यं वाक्य­प­रि­स­माप्तिः स्याद् , ग्रहं संमार्टि तं चैकमिति, ततश्च बाक्यभेद इत्यर्थः ।
वेदेऽ­प्यु­पा­दे­य­त्वे­ना­भि­मतं विव­क्षि­त­मि­त्या­दि­भाष्ये विव­क्षि­ता­वि­व­क्षि­त­श­ब्द­नि­र्दि­ष्टे­च्छा­निच्छे गौष्या वृत्त्या इत्याह —
इच्छानिच्छे चेति ।
को गुणः ? स भाष्योक्त इत्याह —
तदिदमिति ।
जीवस्य ब्रह्मणो भेदा­भे­दा­भ्या­मु­भ­य­श्रु­त्यु­प­प­त्ते­रा­क्षे­पा­यो­ग­मा­श­ङ्ख्याह —
न तावदिति ।
भेदा­भे­द­यो­र­न्य­त­र­बाधे स्थिते विनिगममाह—
तत्रेति ।
वेदा­न्त­ता­त्प­र्या­द­द्वैतं तत्वमिति कुतः ? प्रत्य­क्षा­दि­वि­रो­धाद् , अत आह—
द्वैत­ग्रा­हि­ण­श्चेति ।
विदिमात्र व्यापा­र­त्वा­त्प्र­त्य­क्षस्य तत्पू­र्व­क­त्वा­च्चा­न्ये­षा­मि­त्यर्थः ॥ तद्बाधनात् तैर्वे­दा­न्तै­र्बा­ध­नात् ।
तस्मा­ज्जी­व­भे­दा­नु­प­पत्तेः सूत्रा­नु­प­प­त्ति­रि­त्याह—
तथाचेति ।
औपा­धि­क­भे­दा­नु­वा­दि­त्वेन भेदश्रुतीनां सूत्रस्य चोपपत्तिमाह —
अनाद्यविद्येति ।
तादृशानां चेति ।
अवि­द्या­व­च्छि­न्ना­ना­मि­त्यर्थः ॥
अनादित्वेनेति ।
जीवा­वि­द्य­यो­र्बी­जा­ङ्कु­र­व­द्धे­तु­मत्त्वे जीवानित्यत्वं स्यात् — तस्मा­दु­त्त­रो­त्त­र­जी­वा­भि­व्य­क्तीनां पूर्व­पू­र्व­भ्र­म­नि­मि­त्त­क­त्व­म­त्रो­क्तम् । अना­दि­स्त्व­विद्या जीवो­पा­धि­र्दे­व­ता­धि­क­रणे वक्ष्यते॥ अना­दि­जी­वा­वि­द्य­यो­श्चे­त­रे­त­र­त­न्त्र­त्व­म­वि­द्या­त­त्सं­ब­न्ध­यो­रि­वा­वि­रु­द्धम् । स्वाश्रि­ता­वि­द्या­श्रि­तत्वे जीव­स्या­त्मा­श्र­य­मिति चेत्, किमतः? उत्प­त्ति­ज्ञ­प्ति­प्र­ति­ब­न्धेन ह्यात्माश्रयस्य दोषता । नचा­न­यो­रु­त्पत्तिः, अनादित्वात्, प्रतीतिस्तु जीवस्य स्वत­स्त­द्ब­ला­द­वि­द्यायाः, तथापि स्वस्क­न्धा­रू­ढा­रो­ह­व­त्स्वा­श्रि­ता­श्रि­तत्वं विरुद्धमिति चेन्न; स्वाश्रि­ता­श्रि­त­त्वस्य क्वचि­त्प्र­मि­ता­व­वि­रो­धा­द­प्र­मि­ता­व­व्या­प्या­द­स्मा­द­व्या­प­कस्य विरोधस्य दुष्प्र­सं­ज­न­त्वात् । अपिच नैव कुण्ड­ब­द­र­व­द­ध­रो­त्त­री­भावः ; जीवा­वि­द्य­यो­र­मू­र्त­त्वात्, अव­च्छे­द्या­व­च्छे­द­कत्वं तु तत्रे­त­रे­त­रा­पेक्षं प्रमा­ण­प्र­मे­या­दिषु सुलभोदाहरणम्॥ अधिष्ठानं विव­र्ता­ना­मा­श्रयो ब्रह्म शुक्तिवत् । जीवा­वि­द्या­दि­कानां स्यादिति सर्वमनाकुलम् ॥
न वैशेष्यादिति ।
सूत्रे प्रकृ­ति­प्र­यो­गा­दे­वे­ष्ट­सिद्धौ प्रत्य­य­प्र­यो­गोऽ­ति­श­य­द्यो­त­नाय ।
तमेवाह —
तथा हीति ।
अतिशयस्य भावः प्रत्ययार्थो, ननु विशेषस्वरूपभाव इत्यर्थः ॥ इति प्रथमं सर्वत्र प्रसि­द्धा­धि­क­र­णम्॥

अत्ता चरा­च­र­ग्र­ह­णात्॥१॥ यस्य मृत्यु­रु­प­से­च­न­मो­द­न­मि­श्र­घृ­त­वद् । तं नाविरतो दुश्चरितादिति पूर्व­म­न्त्र­प्र­का­शि­तो­पा­य­वा­न्यथा वेद इत्थ­म­न्य­स्त­द्र­हितः को वेद । यत्र सोऽत्ता कारणरूपो वर्तते तं निर्वि­शे­ष­मा­त्मनं को वेदेत्यर्थः । पूर्वा­धि­क­र­णान्ते पर­मे­श्व­र­स्या­भो­क्तृ­तो­क्ते­रिह न सोऽत्तेति सङ्गतिः । विषयवाक्ये अत्तु­र­श्र­व­णा­द­त्तेति सूत्रा­यो­ग­मा­श­ङ्क्याह —
अत्रचेति ।
भोक्तृ­त्व­ल­क्ष­ण­म­त्तृत्वं नाग्नि­प­र­मा­त्म­सा­धा­र­णम्, कथं संशय इत्याशङ्क्याह —
अत्तृत्वं चेति ।
यदा भोक्तृ­त्व­म­त्तृ­त्वम्, तदा न पर­मा­त्म­श­ङ्के­त्याह —
न च प्रस्तुतस्येति ।
तयोरन्य इति ।
जीवात्मनो भोक्तृ­त्व­प्र­ति­पा­द­नाच्च न पर­मा­त्म­श­ङ्के­त्यर्थः ।
फलितमाह —
तद्यदीति ।
ब्रह्म­क्ष­त्रा­दि­नि­र्दे­शा­द्भो­क्तृ­त्व­म­त्तु­रिह न निश्चितमपि तु जीव­पू­र्व­प­क्ष­वा­दिना प्रसा­ध्य­मि­त्यर्थो यदिकारः ।
ननु जीवस्य कथं ब्रह्म­क्ष­त्रा­दि­भो­क्तृत्वं पूर्वपक्षिणा साध्यमत आह —
ब्रह्मक्षत्रादि चेति ।
स्वशरीरं भोगायतनम् । छागादि कस्य चिद्भोग्यम् ।
यदि न भोक्तृ­त्वा­त्सं­शयः? कुतस्तर्ह्यत आह —
अथत्विति ।
अतएव पूर्वं मुक्त­सं­श­य­मि­त्यु­क्तम् । अत्र च भवति संशय इति उक्तम् ।
भोक्तृतेति । अत्तृतेत्यर्थः ; वनितादिषु भोक्तृत्वेऽपि संह­र्तृ­त्वा­भा­वात्, अत्तृत्वस्य भोक्तृ­त्वा­त्म­त्व­प्र­सा­ध­नेन पूर्व­प­क्ष­मु­प­पा­द­यति —
अत्रौ­द­न­स्ये­त्या­दिना॥
ओदनस्य भोग्य­त्वा­त्प्र­थमं भोक्तृ­त्व­प्र­ती­ति­रि­त्यत्र संबभ्राम भारतीविलासः — न हि मुख्य ओदनो ब्रह्मक्षत्रे, न चोप­च­रि­तौ­द­ना­द्भो­क्तृ­त्व­प्र­तीतिः । यदाह — उपमैव तिरोभूतभेदा रूपकमिष्यते । अलङ्कारो रूपकाख्यः कठवल्लीकवेरयम्॥ इति॥ अत्रोच्यते — ओद­न­भो­क्त­र्य­नो­द­न­यो­र्ब्र­ह्म­क्ष­त्र­यो­रो­द­न­त्वेन रूपकमवकल्पते । यथा ’’यस्य मृगयाविनोदे मृगाः परनरपतय’’ इत्युक्ते क्षत्रिय एव प्रतीयते, न श्रोत्रियः कश्चिद् ब्राह्मण एवमिहेति ।
ननु प्रलये जीव­ना­शा­त्क­थ­म­ज­त्व­मत आह —
संहारेति ।
संस्कार उप­ल­क्ष­ण­म­वि­द्यायाः ।
अविक्रियस्य परमात्मनः संह­र्तृ­त्वा­यो­गात् अग्निरेव संहृतेत्याह —
यदित्विति ।
तवापि भाक्त ओदनशब्दः, स ममापीत्याह —
न तर्हीति ।
कस्त­र्ह्यो­द­न­स्त­त्राह —
अपित्विति ।
ओदन इत्यनुषङ्गः ।
अपिचौदनशब्दस्य लाक्षणिकस्य सन्नि­हि­त­मृ­त्यू­प­से­च­न­प­दा­नु­सा­रे­णौ­द­न­ग­त­वि­ना­शि­त्व­ध­र्म­ल­क्ष­णा­र्थ­त्वा­द्ब्र­ह्म­क्ष­त्रो­प­ल­क्षि­त­ज­ग­द्वि­ना­श­क­र्ते­श्वरः प्रतीयते, न जीव इत्याह —
न चेत्यादिना ।
यदवाद्योदनपदात् प्रथमं भोक्ता भातीति, अत्राह —
न चौद­न­प­दा­दि­त्या­दिना ।
ओदनपदस्य भक्तवाचिनो भोग्य­मा­त्र­प­र­त्वेन तवापि जघ­न्य­वृ­त्त्याऽऽ­श्र­व­णा­त्त­द्ब­लाद् ब्रह्म­क्ष­त्र­मृ­त्यु­श्रु­तीनां न सङ्कोच इत्यर्थः ।
यदि मृत्यु­प­दा­द्वि­ना­शि­व­स्तु­वि­वक्षा, कथं तर्हि ब्रह्म­क्ष­त्र­ग्र­ह­ण­मत आह —
प्राणिष्विति ।
ननु ब्रह्म­क्ष­त्रा­भ्या­मि­त­र­व्या­वृ­त्त्य­र्थत्वं वाक्यस्य किं न स्यादत आह —
अन्य­नि­वृ­त्ते­रिति ।
पञ्चपञ्चनखादौ हि मनु­ष्या­दि­नि­वृत्तिः परिसंख्याफलम् । तया चानर्थनिवृत्तिः । इहा­न्य­नि­वृ­त्ति­र­न­र्थिका; पुरु­षा­र्थ­वि­शे­षा­न­व­ग­मा­दि­त्यर्थः । मायोपाधेः परस्यास्ति संह­र्तृ­त्व­मि­त्याह – तथाचेति इति द्विती­य­म­त्त्र­धि­क­र­णम्॥

गुहां प्रवि­ष्टा­त्वा­त्मानौ हि तद्दर्शनात्॥११॥ ननु — लक्षणया पिबदपिबतोः पिबन्ताविति निर्देशोपपत्तेः पूर्व­प­क्ष­सि­द्धा­न्त­प­क्षा­क्षेपे च वाक्यस्य निर्वि­ष­य­त्व­प्र­स­ङ्गाद् आक्षे­पा­यो­ग­मा­श­ङ्क्याह —
औत्सर्गिकस्येति ।
अयं हि आक्षेप्ता पिबन्तावित्यस्य मुख्यमर्थम् औत्स­र्गि­क­म­बाध्यं मन्यते, प्राकृ­त­सु­प­र्ण­वि­ष­यत्वं च वाक्यस्य पक्षान्तरं कल्पयिष्यत इति मन्यते, अत आक्षेप इत्यर्थः ।
लक्षणां वक्तुं मुख्या­र्था­यो­ग­माह —
अध्या­त्मे­त्या­दिना ।
अन्यौ पातारौ पक्षिणौ न शक्यौ कल्पयितुं चेत्, तर्हि बुद्धिजीवौ जीवपरौ स्तः, नेत्याह —
बुद्धे­रि­त्या­दिना ।
सृष्टी­रु­प­द­धा­तीति समाम्नाय ‘‘एकयास्तुवत प्रजा अधीयन्त प्रजा­प­ति­र­धि­प­ति­रा­सी­त्ति­सृ­भि­र­स्तु­वत ब्रह्मा­सृ­ज­ते’’त्या­दयः सृष्ट्य­सृ­ष्टि­मन्त्रा आम्नाताः, तत्र सृष्टी­रु­प­द­धा­तीति यदि सृष्टि­म­न्त्र­के­ष्ट­का­ना­मु­प­धाने विधानं, तहीर्ष्टकासु सृष्ट्य­सृ­ष्टि­म­न्त्र­क­त्व­वि­शे­ष­स्या­द्या­प्य­न­व­ग­मा­त्सर्वा एव सृष्टि­म­न्त्रकाः, तत्र सृष्टि­प­द­र­हि­त­म­न्त्रा­णा­मा­न­र्थक्यं स्यात्, तन्मा भूदिति सृष्टिशब्दः सृष्ट्य­सृ­ष्टि­स­मु­दायं लक्षयित्वा तत्समुदायिनः सर्वा­न्म­न्त्रान् लक्षयति । एवमत्रापि पिबच्छब्दः स्वार्थ­स्या­पि­ब­त्सं­सृ­ष्टतां पिब­द­पि­ब­त्स­मु­दा­य­मिति यावन्तं लक्ष­य­न्त्स्वार्थं पिब­न्त­म­ज­ह­दि­त­रे­त­र­यो­ग­ल­क्षणं समुदायं प्रति समु­दा­यी­भू­त­पि­ब­द­पि­ब­त्परो भवति, न पिबत्येव वर्तते, नापि लक्षयन् गङ्गा­श­ब्द­व­त्स्वार्थं त्यजेदित्यर्थः॥
अस्तु वेति ।
प्रत्ययस्य मुख्यत्वं , प्रकृतिस्तु पिबतिः सृष्टिन्यायेन पायनं लक्षयतीत्यर्थः ।
बुद्धि­क्षे­त्र­ज्ञ­पक्षे तु बुद्धौ प्रकृतिर्मुख्या प्रत्ययस्तु बुद्धिजीवगतं कर्तृ­क­र­ण­सा­धा­र­ण­का­र­क­त्व­मात्रं लक्षयतीत्याह —
एवमिति ।
अत्र पूर्वो­त्त­र­प­क्ष­यो­र्ल­क्ष­णा­सा­म्यात् संशयः । पूर्वत्र ब्रह्म­क्ष­त्र­श­ब्दस्य सन्नि­हि­त­मृ­त्यु­प­दा­नु­सा­रे­णा­नि­त्य­व­स्तु­प­र­त्व­व­दि­हापि पिबच्छब्दस्य सन्नि­हि­त­गु­हा­प्र­वि­ष्टा­दि­प­दा­नु­सा­रा­द्बु­द्धि­क्षे­त्र­ज्ञ­प­र­त्व­मि­त्याह – नियतेति ।
अस्य जीवस्य , या द्वितीयता द्वित्वाधारता सा ब्रह्मणैव , तद्धि चेतनत्वात्सरूपं , न तु बुद्व्या; तस्या अचेतनत्वेन विस­दृ­श­त्वा­दि­त्याह —
ऋतपानेनेति ।
ननु सन्नि­हि­त­गु­हा­प्र­वि­ष्ट­प­दा­द्बु­द्धि­र्द्वि­तीया किं न स्यादत आह —
प्रथममिति ।
वचनविरोधे इति ।
अत्तीत्यस्य मुख्य­क­र्तृ­त्व­सं­भवे करणे कर्तृत्वोपचारो न युक्त इति न्यायस्य बुद्धि­जी­व­प­र­त्वेन मन्त्र­व्या­ख्या­य­क­ब्रा­ह्म­ण­वि­रोधे आभा­स­त्व­मि­त्यर्थः॥ आध्वंसते आगच्छति ।
चेतनस्य क्षेत्र­ज्ञ­स्या­भो­क्तृत्वं ब्रह्मस्वभावतां वक्ष्यामीति श्रुतिः प्रवृत्तेति भाष्य­मु­प­पा­द­य­न्म­न्त्रा­र्थ­माह —
अनश्नन्निति ।
बुद्धेरन्यो यो जीवः सोऽन­श्न­न्न­भोक्तृ ब्रह्म सन्न­भि­प­श्य­ती­त्यर्थः ।
अस्मि­न्स्वो­क्तेऽर्थे स्वयमेव श्रुति­र­नु­प­पत्तिं शङ्कते, तामाह —
यदीति ।
चितेः छाया चित्प्रतिबिम्बं तदापत्त्येति॥ सुकृतस्य कर्मणः, ऋतं सत्य­म­व­श्यं­भा­वि­त्वा­त्फलं, पिबन्ताविति संबन्धः । लोके शरीरे । गुहां गुहायां बुद्धौ । परमे बाह्या­का­शा­पे­क्षया प्रकृष्टे हार्दे नभसि परस्य ब्रह्मणोऽर्धे स्थाने, त्रिर्ना­चि­के­तोऽ­ग्नि­श्चितो यैस्ते तथोक्ताः ।
तं दुर्दर्शमिति ।
गूढं छन्नं यथा भवति तथाऽ­नु­प्र­वि­ष्टम् । क्वेत्यत आह — गुहाहितं बुद्धौ स्थितं, गह्वरे अनेकानर्थसंकटे तिष्ठतीति तथोक्तः । पुराणं चिरन्तनं विष­या­द्व्या­व­र्त्या­त्मनि मनसो योज­न­म­ध्या­त्म­योगः, तस्याधिगमेन प्राप्त्या, मत्वा साक्षात्कृत्य ।
मुण्डके —
द्वा सुपर्णेति ।
द्वौ सुप­र्ण­सा­म्या­त्सु­पर्णौ सयुजौ सर्वदा सहयुक्तौ, सखायौ समानाख्यानौ, स्वप्र­का­श­रू­प­त्वात्, समानमेकम्, उच्छेद्यत्वात् वृक्षं शरीरं परिष्वक्तवन्तौ । अन्यः एकः, पिप्पलं कर्मफलं; संसा­र­स्या­श्व­त्थ­त्वेन रूपितत्वात् । समाने वृक्ष इति — न कस्य­चि­त्स­म­र्थोऽहं दीन इति संभावनाऽनीशा, जुष्टम् अने­कै­र्यो­ग­मार्गैः सेवितम् । अन्यं प्रप­ञ्च­वि­ल­क्ष­णम् । ईशं यदा पश्यति प्रपञ्चं च महिमानं विभूतिं मायामयीम्, अस्यैवेति यदा पश्यति तदा वीतशोको भवति॥ इति तृतीयं गुहाधिकरणम्॥

अन्तर उपपत्तेः॥१३॥ अत्र च दर्शनस्य लौकि­क­त्व­शा­स्त्री­य­त्वाभ्यां संशयः । इयं च सुख­वि­शि­ष्ट­ब्र­ह्म­प्र­क­रणं नास्तीति कृत्वाचिन्ता । अतश्च वक्ष्यमाणः सर्वनामार्थः । स च मनो­म­य­त­द्धि­ता­र्थ­वद् न संदिग्धः; दृश्यत इत्यस्य प्रति­बि­म्ब­नि­श्चा­य­क­त्वा­दि­त्याह —
एष इति ।
उप­क्र­म­व­शा­दि­त्य­नेन सङ्गतिश्चोक्ता । एतं श्लोकं विभजते —
ऋतमिति ।
कनीनिका अक्षितारकम् ।
भिन्नवक्तृत्वेन वाक्ययोर्न निय­म्य­नि­या­म­कत्वं चेत्कथं तर्ह्य­ग्नि­भि­र्गतिं वक्ष्यतीति शेषोद्धारः कृतोऽत आह —
आचार्यस्त्विति ।
बाधकान्तरेति ।
अन­व­स्थि­ते­र­सं­भ­वा­च्चेति सूचि­त­बा­ध­का­न्त­र­द­र्श­नाय चेत्यर्थः ।
नन्व­क्ष­णी­त्या­धा­र­नि­र्दे­शाद् जीवदेवते किं न स्तामत आह —
अन्त­स्त­द्ध­र्मेति ।
य एष इत्यादेः प्रथ­म­श्रु­त­स्यापि सापेक्षत्वान्न चाक्षु­ष­त्व­स­म­र्प­क­त्व­मि­त्याह —
अनिष्पन्नेति ।
य एष इति श्लोकः पूरितः । य इत्येष इति च सर्वनामनी विशे­ष्या­पे­क्ष­त्वा­त्स्व­तोऽ­नि­ष्प­न्ना­भि­धाने । अनि­ष्प­न्न­म­प­र्य­व­सि­त­म­भि­धानं ययोस्ते तथा । ततश्च सन्नि­हि­त­पु­रु­षा­दि­प­द­स्यार्थं विशेष्यं प्राप्या­भि­धा­तृणी वाचके भवेताम् ।
किमतोऽत आह —
सन्निहिताश्चेति ।
कुतस्तदर्थस्य अपरोक्षता चाक्षु­ष­ते­त्यर्थः ।
स्वरसत इति ।
अनेन छायात्मनि योजनाक्लेशो वारितः ।
व्याख्यातं चेति ।
अधि­क­र­णा­व­सा­न­भा­ष्ये­णे­त्यर्थः ।
तदुपादत्ते —
सिद्धवदिति ।
तद्व्याख्याति —
विदुष इति ।
विदुषो विषयस्तेन निष्पाद्या शास्त्राद् योपलब्धिः सा परोक्षाऽपि प्रत्यक्षेति स्तूयत इत्यर्थः ।
उपचारे निमित्तमाह —
दृढतयेति ।
एतं संयद्वाम इत्याचक्षते, एतं हि सर्वाणि वामा­न्य­भि­सं­य­न्तीति श्रुतिमीश्वरस्य फल­भो­क्तृ­त्व­भ्र­म­व्या­व­र्त­नेन व्याचष्टे —
वामनीयानीति ।
जीवान्प्रति सङ्गच्छमानानि यानि वामानि तानि येन हेतुना सङ्गच्छन्ते स संयद्वामः । एतं हीत्यस्यैतं निमि­त्ती­कृ­त्ये­त्यर्थः ।
एष उ एव वाम­नी­रि­त्य­स्या­र्थ­माह —
स एवेति ।
संयद्वामत्वं फलो­त्पा­द­क­त्व­मात्रं, वामनीत्वं फलप्रापकत्वमिति भेदः । एकस्थाननियमः स्थाना­न्त­रा­व्या­प­क­त्वम् । कमलस्य गोत्रं काम­ल­स्त­स्या­पत्यं कामलायनः । दूनमानसं परितप्तमानसम् ।
पृथिव्यग्निरिति ।
उपकोसलं गार्ह­प­त्योऽ­नु­श­शास पृथि­व्य­ग्नि­र­न्न­मा­दित्य इति इमा­भि­श्च­त­स्त्र­स्त­नवो य एष आदित्ये पुरुषो दृश्यते सो ऽहमस्मीति । तथाऽ­न्वा­हा­र्य­प­च­नोऽ­नु­श­शास आपो दिशो नक्षत्राणि चन्द्रमा इति मम तनवो य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि, तथाऽऽ­ह­व­नी­योऽ­नु­श­शास प्राण आकाशो द्यौर्वि­द्यु­दिति मम तनवो य एष विद्युति पुरुषो दृश्यते सोऽहमस्मीति ।
नचै­त­त्प्र­ती­क­त्व­मि­ष्ट­मिति ।
एषा सोम्य आत्म­वि­द्ये­त्य­ग्निभिः कं खं ब्रह्मेति विद्याया विद्यात्वेन परा­म­र्शा­दि­त्यर्थः॥
भाष्य­ग­त­सा­म­य­श­ब्दा­र्थ­माह —
लौकिकस्येति ।
विशे­ष­ण­वि­शे­ष्य­भा­वोऽ­र्थयोः शब्दयोस्तु सामानाधिकरण्यम् ।
तथाच भाष्या­यो­ग­मा­श­ङ्क्याह —
तदर्थयोरिति ।
सुखस्य वाचकः शब्दः सुखशब्दः ।
किंचिदधिकमिति ।
अक्षि­स्था­न­सं­य­द्वा­मा­दि­गुणं च पूर­यि­त्वे­त्यर्थः । ह्रीणो लज्जावान् । अपज्ञायाऽपहृत्य ।
आवर्तमिति ।
जन्मा­द्या­वृत्तिं पुंसां करोति इत्यावर्तो मनुष्यलोक उच्यत इत्यर्थः ।
अथोत्तरेणेति ।
आत्मानं जगतः सूर्यं तपआदिना सह, अन्वि­ष्या­ह­म­स्मीति विदित्वा तमभिजायन्ते प्राप्नुवन्ति । एतत्सूर्याख्यं ब्रह्म प्राणानां व्यष्टिभूतानां हिरण्यगर्भभूतं सद् आयतनम् । अग्नि­र­र्चि­र्दे­वता ज्योतिः सूर्यः । अहरादयोऽपि देवताः॥१५॥१६॥१७॥ इति चतुर्थं अन्तराधिकरणम् ।

अन्त­र्या­म्या­धि­दै­वा­दिषु तद्ध­र्म­व्य­प­दे­शात्॥१८॥ अशरीरस्य निय­न्तृ­त्वा­सं­भ­व­स­म्भ­वाभ्यां संशयः । पूर्वत्र स्थान­नि­र्दे­शो­प­पा­द­नाय पृथि­व्या­दि­स्था­न­नि­र्देशो दृष्टः , तस्या­क्षे­पा­त्स­ङ्गतिः । अशरीरः परमात्मा नान्तर्यामी घटवत् । ननु — स्वशरीरनियन्तरि शरीरान्तरहिते तक्षणि अनैकान्तिकताऽत आह —
स्वकर्मेति ।
न निय­म्या­ति­रि­क्त­श­री­र­रा­हित्यं हेतुः किं तु शरीरेण भोक्तृ­त्वे­ना­न­न्वयः । तक्षा तु स्वकर्मज्ञदेहेन तादृक् संबन्धवानेव तं देहं द्वारेणान्यच्च वास्यादि नियच्छतीति न व्यभिचार इत्यर्थः ।
अचे­त­न­त्व­मु­पा­धि­मा­शङ्क्य मुक्ते चेतने साध्य­व­त्य­प्यु­पा­ध्य­भा­वा­त्सा­ध्या­व्या­प्ति­म­भि­प्रे­त्याह —
प्रवृत्तीति ।
नियमनं शरीरिणो, न चेतनमात्रस्य; मुक्ते तदभावादित्यर्थः ।
विपक्षे दण्डमाह —
न हीति ।
ननु जन्मादिसूत्रे उभ­य­का­र­ण­त्व­प्र­ति­पा­द­ना­न्नि­य­न्तृत्वं सिद्धमत आह —
तदनेनेति ।
पारिशेष्याज्जीव एवेति ।
अन्तर्यामीति वक्ष्यमाणेन संबन्धः ।
पूर्व­प­क्ष­मु­प­सं­ह­रति —
तस्मादिति ।
किमिदमशरीरत्वं यतो नियन्तृत्वाभावः । निय­म्या­ति­रि­क्त­दे­ह­र­हि­तत्वं वा, देहसंबन्धाभावो वा, देहे भोक्तृत्वाभावो वा ।
नाद्य इत्याह —
देहेति ।
देहादौ निर्दिष्टे तत्स्वामी तक्षा­दि­र्बु­द्धि­स्थोऽ­स्ये­त्युक्तः । अथवा तस्मा­ज्जी­वा­त्मै­वे­त्यु­प­सं­हा­रस्थो जीवात्मा परामृष्टः । अस्य स्वदेहादिनियमे न देहा­द्य­न्त­र­म­तोऽ­नै­का­न्ति­क­ते­त्यर्थः ।
द्वितीयं शङ्कते —
तदिति ।
परस्यापि देहा­दि­सं­ब­न्धा­भा­वोऽ­सिद्ध इत्याह —
तदविद्येति ।
तद्वि­ष­य­त्वा­द­वि­द्या­या­स्त­द­वि­द्या­त्वम् । तृतीये तु सोपाधिकतैव; मुक्तस्य पराभेदेन पक्षत्वान्न साध्याव्याप्तिः ।
अतीतकालतां चाह —
श्रुतीति ।
यदवादि जीवस्य निय­न्त्र­न्त­रा­भ्यु­प­ग­मेऽ­न­व­स्थेति, तत्राह —
नचेति ।
औपाधिकस्य ह्यनौ­पा­धि­के­श्व­र­नि­य­म्य­त्व­म­भ्यु­पेतं नानु­प­हि­ते­श्व­रस्य निय­न्त्र­न्त­रा­पा­द­क­मि­त्यर्थः ।
जीवपरभेदाभावे कथं लौकि­क­वै­दि­क­व्य­व­हा­रोऽत आह —
अवि­द्या­क­ल्पि­तेति ।
एवंचेति ।
बहु­त्वा­ज्जी­वानां निय­म्या­धि­दै­वा­दिषु प्रत्यभिज्ञा न स्यादित्यर्थः ।
एकत्वेऽ न्तर्यामिण एकवचनश्रुतिमाह —
एकवचनमिति ।
अभेदेपीति ।
औपा­धि­क­भे­दा­भा­वेऽ­पी­त्यर्थः ।
अधिकरणोपक्रमे विष­य­वि­वे­च­क­म­धि­लो­क­मि­त्यादि भाष्यं तद्विभजते —
पृथिव्यादीति ।
यः पृथिव्यां तिष्ठ­न्नि­त्यु­प­क्रम्य माध्यन्दिनपाठे यः स्तनयित्नौ तिष्ठ­न्नि­त्य­न्तम्॥१८॥१९॥ शारी­र­श्चो­भ­येऽ­पीति सूत्रपातनिका । भाष्ये कर्तरीति आत्मनीत्यर्थः ।
लौकिके कर्तरि डित्थे कार्यकरणसंघाते दर्श­ना­दि­वृ­त्त्य­वि­रो­धा­दि­त्याह —
आत्मनीति ।
पृथिव्यां तिष्ठ­न्न­न्त­र्या­मी­त्युक्ते पृथि­व्य­व­य­व­स्था­व­य­वि­नोऽ­न्त­र्या­मित्वं स्यात्त­न्नि­वृ­त्त­येऽ­न्तर इति । पृथि­वी­क्षे­त्र­ज्ञ­वा­र­णाय न वेदेति । स ह्यहमस्मि पृथिवीति न वेद ।
नियम्यदेह एवान्तर्यामिणो देहो नान्य इत्याह —
यस्येति ।
अप्रतर्क्यः तर्काविषयः । अविज्ञेयं प्रमाणाविषयः । सर्वासु दिक्षु प्रसुप्तमिव॥२०॥ इति पञ्च­म­म­न्त­र्या­म्य­धि­क­र­णम् ।

अदृ­श्य­त्वा­दि­गु­णको धर्मोक्तेः॥२१॥ अदृ­श्य­त्वा­दि­सा­धा­र­ण­ध­र्म­द­र्श­ना­त्सं­शयः । पूर्वत्र द्रष्टृ­त्वा­दि­श्र­व­णान्न प्रधा­न­म­न्त­र्या­मी­त्यु­क्त­मिह तदश्रवणादक्षरं प्रधानमिति भाष्योक्तैव सङ्गतिः । पूर्वपक्षमाह —
परिणाम इति ।
योनिशब्दो निमित्तं चेदिति ।
ब्रूया­दि­त्य­ध्या­हारः । न विल­क्ष­ण­त्वा­दि­त्यत्र परिणाममतं कृत्वाचिन्तया परि­णा­म­सा­रू­प्य­यो­र्व्या­प्ति­र्नि­रा­क­रि­ष्यते, अत्र तु विव­र्त­सा­दृ­श्ययोः । परिणामस्तु तत्रत्य इहानूदितः । भूतयोनिर्जडः परि­ण­म­मा­न­त्वा­द्वि­व­र्त­मा­न­त्वाद्वा संमतवदित्यर्थः ।
ननु परिणामिनः कथ­म­क्ष­र­श­ब्द­वा­च्य­त्व­मत आह —
स्वविकारानिति ।
अनु­मा­न­यो­र्बा­ध­मा­श­ङ्क्याह —
य इति ।
अक्षरात्पर इति सामानाधिकरण्यम् ।
नामरूपेति ।
शब्दा­र्थ­यो­र्बी­ज­म­धि­ष्ठा­न­मात्मा तद्विषयतया तस्या­धि­ष्ठा­नत्वे सहकारित्वेन शक्तिभूतं भूतानां सूक्ष्मं कारणं तस्मिन्, संदे­ह­भा­ष्य­स्थ­प्र­धा­न­शब्दं वर्तयति —
प्रधीयत इति ।
क्रियत इत्यर्थः ।
अचेतनानामिति भाष्यं न प्राय­द­र्श­न­मा­त्र­प­र­मि­त्याह —
सारूप्यादिति ।
ननु न च स्मार्तमिति प्राच्यधिकरणे प्रधानं दूषितं, द्रष्टृ­त्वा­द्य­सं­भ­व­न्या­य­सा­म्या­द­चे­त­न­म­व्या­कृतं दूषितप्रायमिति तच्छङ्का न युक्ता; प्रधाने त्वप्रा­मा­णि­क­त्व­म­धि­क­मिति शङ्कते —
स्यादेतदिति ।
बाधकं द्रष्टृत्वादि ।
ईक्ष­त्या­दि­चि­न्त­या­प्य­पु­न­रु­क्ति­माह —
तेनेति ।
उपचर्यतां ब्रह्मणो जग­द्यो­नि­त्व­मि­त्यु­क्तम् ।
उपचारे निमित्तमाह —
अविद्येति ।
अविद्याशक्त्या विषयीकृतत्वेन तदाश्रय इति तथोक्तम् ।
द्वितीयश्लोकस्य द्वितीयार्धं व्याचष्टे —
अथेति ।
सति चेतनपरत्वे वाक्यस्य ब्रह्मपरत्वं दुर्निवारमिति पूर्व­प­क्षा­भा­व­मा­श­ङ्क्याह —
ब्रह्मैवेति ।
यदुक्तम् अक्षरात्परस्य सर्व­ज्ञ­त्व­म­क्षरं तु प्रधानमिति, तन्नेत्याह —
अक्षरस्येति ।
यद्भू­त­यो­नि­मि­त्य­क्ष­रस्य जग­द्यो­नि­भा­व­मुक्त्वा यः सर्वज्ञ इत्युपक्रम्य तस्मा­न्ना­म­रू­पादि जायत इति जगद्योनिभाव उच्यते । उपा­दा­न­प्रा­य­पा­ठाच्च पञ्चम्या न निमित्तार्थत्वं तत्र उपा­दा­न­त्व­प्र­त्य­भि­ज्ञा­लि­ङ्गे­नै­क­वा­क्यत्वे सति वाक्यप्रमाणात् सर्वज्ञ एव भूत­यो­नि­रि­त्यर्थः । विश्व­यो­नि­र्य­द­क्षरं तत्स­र्व­वि­द्भ­वे­दिति विधीयते ।
यद्य­क्ष­र­श­ब्द­वा­च्य­भू­त­योनेः सर्वज्ञत्वं, कथं तर्हि सर्व­ज्ञ­स्या­क्ष­रा­त्प­र­त्व­मुक्तं? तत्राह —
अक्षरादिति ।
यद् यस्मादर्थे । न च — अक्ष­र­श­ब्द­प्र­त्य­भि­ज्ञा­नाद् भूत­यो­नि­रे­वा­क्ष­रा­दिति निर्दिष्टेति — वाच्यम्; प्रथमश्रुते यः सर्वज्ञ इति वाक्ये सर्वज्ञस्य जग­दु­पा­दा­न­त्व­प्र­त्य­भि­ज्ञ­याऽस्य बाध्यत्वात्, येनाक्षरं पुरुषं वेद सत्यमिति पुरु­ष­स्या­क्ष­र­श­ब्देन निर्दे­क्ष्य­मा­ण­त्वाच्च ।
विवर्तस्त्विति श्लोकस्य द्वितीयार्धं व्याचष्टे —
अपि चेति ।
प्रयोजनमाह —
ज्ञेयत्वेनेति ।
भोग्यव्यतिरिक्त इति भाष्यस्य व्याख्या —
भोगा इति ।
ननु ऋतुषु यजन्तीति कर्तरि क्विपि संप्रसारेण ऋत्विक् शब्दः । यज्ञसंयोगे गम्यमाने पति­श­ब्द­प्रा­ति­प­दि­कस्य नकारादेशः, स इका­र­स्या­न्त्यस्य, ततो ङीपि कृते पत्नी ।
उक्ता­भि­प्रा­य­मिति ।
विवर्तत्वेन सारू­प्या­न­पे­क्षे­त्यु­क्तोऽ­भि­प्रायः ॥२१॥
प्रधा­ना­दि­त्य­पीति ।
यद्यपि भाष्ये शारी­र­प्र­धा­न­नि­रा­क­र­ण­तया हेतुद्वयं क्रमेण व्याख्यातं; तथापि पुरुषशब्दस्य प्रधा­न­व्या­व­र्त­क­त्वा­दा­द्य­हे­तु­रपि प्रधानवारणार्थ इति । अक्ष­र­म­व्या­कृ­त­मि­त्या­दि­भा­ष्य­स्या­य­मर्थः । शब्दा­र्थ­यो­र्बी­ज­म­धि­ष्ठानं तस्य शक्तिः सहकारित्वात् । सा चेश्वरमाश्रयते विषयीकरोतीति ईश्वराश्रया । तस्या­धि­ष्ठा­नत्वे उपा­धि­भू­ता­व­च्छे­दिका, शुक्तेरिव तद्विषयमज्ञानम् । अविकार इति च्छेदः, तस्मा­द्वा­च­स्प­ति­मतं भाष्य­वि­रु­द्ध­मिति कैश्चि­द­यु­क्त­मु­क्तम् । किंच — अज्ञ­त्व­भ्रा­न्त­ता­दो­षा­द­र­क्ष­त्प­र­मे­श्व­रम् । एत­द्भा­ष्या­र्थ­त­त्त्वज्ञो वाच­स्प­ति­र­गा­धधीः॥ प्रधा­न­स्या­ग­मि­कत्वे प्रकृतिविकार सारूप्यादि बहु समञ्जसं स्यादित्यर्थः । असमञ्जसमिति पाठे चेतनस्य जगदुपादानत्वादि असमंजसं स्यादि­त्यर्थः॥२२॥ रूपोपन्यासाच्च । नेत­रा­वि­त्य­नु­षङ्गः । भाष्ये — अदृ­श्य­त्वा­दि­ध­र्म­कस्य न विग्रह इत्याक्षेपः । सर्वा­त्म­त्व­वि­व­क्ष­येति समाधानम् ।
जाय­मा­न­स­न्नि­धि­ल­क्ष­ण­स्था­नस्य प्रकरणेन बाधमाशङ्क्य विग्र­ह­व­त्त्व­लि­ङ्गेन प्रकरणबाधमाह —
नेति ।
ईश्वरस्यापि हिर­ण्य­श्म­श्रु­त्वा­दि­वद् मूर्धादिसंभव इति कश्चित् । तन्न ; अपाणिपादमिति निर्विशेषस्य ज्ञेयत्वेन प्रक्र­मा­द्धि­र­ण्म­य­स्यो­पा­स्य­त्वेन विग्र­हा­द्य­वि­रो­धात् । प्राकृ­त­पा­ण्या­दि­नि­षेध एष इति चेन्न; प्रथमस्य चर­मे­णा­सं­को­चा­दिति ।
लिङ्गं सार्वात्म्यपरं न शरी­रा­दि­म­त्व­प­र­मि­त्या­शङ्क्य तथा सति मूर्धा­दि­ब­हु­श्रु­तीनां बाधः स्यात्, तास्तु प्रक­र­णा­द्ब­ली­यस्य इत्याह —
न चैतावतेति ।
प्रक­र­ण­मा­त्रे­णे­त्यर्थः । एवंच हृदयं विश्वमस्य एष सर्व­भू­ता­न्त­रा­त्मेति चात्रत्ये सर्वनामनी सन्निहिततरं विग्रहवन्तं गृह्णीतो न भूतयोनिमिति ।
लिङ्गनिरुद्धे प्रकरणे सन्निधिर्विजयते इत्याह —
सिद्धे चेति ।
पुरुष एवे­द­मि­त्या­दि­स­र्व­रू­प­त्वो­प­न्या­सोऽपि द्युमू­र्धा­दि­क­स्यै­वास्तु तस्य सन्नि­हि­त­त­र­त्वा­दत आह —
प्रकरणादिति ।
सन्निधेः प्रकरणस्य बली­य­स्त्वा­त्पू­र्व­व­द्बा­ध­क­लि­ङ्गा­भा­वा­च्चे­त्यर्थः॥ ऊर्ण­ना­भि­र्लू­ता­की­ट­स्त­न्तून् सृजते संहरति च । सतो जीवतः । येन ज्ञानेन अक्षरं पुरुषं वेद तां ब्रह्म­वि­द्या­मु­प­स­न्नाय प्रोवाच प्रब्रूयात् । सर्व­वि­द्या­वे­द्य­व­स्त्व­धि­ष्ठा­न­वि­ष­य­त्वा­त्स­र्व­वि­द्या­प्र­तिष्ठा । कर्म­नि­र्मि­ता­न्प­रीक्ष्य ब्राह्मणो निर्वे­द­मा­या­त्कु­र्या­दि­त्यर्थः । गच्छेदिति वाक्य­शे­षा­द्वै­रा­ग्य­हे­तु­माह — इह संसारेऽकृतो लोको नास्ति, किं कृतेन कर्म­णे­त्य­ध्या­हारः । अतोऽ­कृ­त­ज्ञा­नार्थं दिवि स्वात्मनि प्रकाशरूपे भवो दिव्यो बाह्या­भ्य­न्त­र­स­हितः सर्वात्मेति यावत् । क्रिया­वि­ज्ञा­न­श­क्ति­म­न्मनः प्राणरहितः । बाह्ये­न्द्रि­य­नि­षे­धोऽ­प्यु­प­ल­क्षितः । अत एव शुभ्र शुद्धः; अग्निद्यौः, असौ वाव लोको गौतमाग्निरिति श्रुतेः, स मूर्धा अस्येति सर्वत्र संबन्धः । यस्येत्यर्थे अस्यशब्दः । विवृता उद्घाटिताः प्रसिद्धाः वेदाः यस्य, वाक् वायुर्यस्य, प्राणः विश्वं यस्य, हृदयं मनस्तन्मनसा सृष्टत्वाद् विश्वस्य, पादरूपेण पृथिवी यस्य जाता, एष सर्व­भू­त­ग­त­प्रा­णानां समष्टितया सर्व­भू­ता­न्त­रात्मा । एतस्माज्जायते इत्यनुषङ्गः । तस्मा­त्प­र­मा­त्म­नोऽ­ग्नि­र्द्यु­लोको जायते यस्य सूर्यः समिधः; असौ वाव लोकोऽ­ग्नि­स्त­स्या­दित्य एव समिदिति श्रुतेः । स दधार दधार । कस्मै ब्रह्मणे॥ इति षष्ठ­म­दृ­श्य­त्वा­धि­क­र­णम्॥

वैश्वानरः साधा­र­ण­श­ब्द­वि­शे­षात्॥२४॥ अत्र वैश्वानरः किमनात्मा, किं वा आत्मा, अनात्मत्वे जाठरोऽन्यो वा, आत्मत्वेऽपि जीवः परो वेति संदेहः । सार्वा­त्म्य­रू­पो­प­न्या­सा­द­क्षरं ब्रह्म वर्णितम् । जाठ­रा­दा­व­नै­का­न्त्य­शङ्का तस्य निरस्यते॥ को न आत्मे­त्यु­दा­ह­र­ण­भाष्यं छान्दो­ग्या­ख्या­यि­का­र्था­नु­स­न्धा­नेन व्याचष्टे —
प्राची­न­शा­ले­त्या­दिना ।
उद्दा­ल­कोऽ­प्यु­प­ल­क्ष्यते । जन इति ऋषिनामैव ।
आत्मेत्युक्ते इति ।
ब्रह्मेत्युक्ते तत्प­रो­क्ष्य­नि­वृ­त्त्य­र्थ­मा­त्म­प­द­मि­त्यपि द्रष्टव्यम् । इक् स्मरण इत्यस्य रूपमध्येषीति ।
द्युसू­र्ये­त्या­दि­भा­ष्य­मा­दाय व्याचष्टे —
वैश्वा­न­र­स्ये­त्या­दिना ।
सुतेजस्त्वगुणा द्यौर्वै­श्वा­न­रस्य मूर्धा विश्वरूपत्वगुणः सूर्यः; एष शुक्ल एष नील इत्यादिश्रुतेः । स वैश्वानरस्य चक्षुः । पृथ­ग्ग­ति­म­त्त्व­गुणो वायुः प्राणः । बहुलत्वगुण आकाशो देहमध्यम् । रयिर्धनम् । तद्गुणा आपो वस्तिस्थम् उदकम् ; तत्र पृथिव्यां वैश्वानरस्य प्रतिष्ठानात् । मूर्धा­पा­ता­दि­दू­ष­णै­रु­पा­स­नानां निन्दयेति । मूर्धा ते व्यप­ति­ष्य­दि­त्या­दि­नै­कै­को­पा­स­न­नि­न्दया तस्य ह वा एतस्येत्यादिना वैश्वानरस्य द्युलोकादयो मूर्धादय इति कथनेनावयविनः सम­स्त­भा­व­मु­प­दि­श्ये­त्यर्थः । उपासक एव वैश्वानरोऽहमिति मन्यत इति — वैश्वानरस्य भोक्तृ­रि­त्यु­क्तम् । हृदयाद्धि मनः प्रणीतमिव ।
इतः प्रण­य­ना­व­धि­त्वाद् हृदयं गार्हपत्यः, अतएव तद­न­न्त­र­त्वा­न्म­नोऽ­न्वा­हा­र्य­प­चन इत्याह —
हृद­या­न­न्त­र­मिति॥२४॥
पूर्व­प­क्ष­मा­क्षि­पति —
नन्वित्यादिना ।
निश्चि­ता­र्थ­च्छा­न्दो­ग्य­वा­क्येन तदेकार्थं वाजसनेयिवाक्यं निर्णीयते, न विपर्यय इत्यत्र न्यायमाह —
निश्चितार्थेन हीति ।
यथा हि तं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरो­डा­श­मा­त्र­च­तु­र्धा­क­र­ण­वा­क्य­मे­का­र्थ­सं­ब­न्धिना शाखा­न्त­री­ये­णा­ग्नेयं चतुर्धा करोतीति विशेषविषयत्वेन निश्चि­ता­र्थे­ना­ग्नेय एव पुरोडाशो व्यवस्थाप्यते, एव­म­त्रा­पी­त्यर्थः ।
अथ दर्श­पू­र्ण­मा­स­क­र्मणः शाखाभेदेऽ प्यभेदात्तत्र तथा, तर्ह्यत्रापि सममित्याह —
कर्मवदिति ।
न केव­ल­मु­प­क्र­मा­द्ब्र­ह्म­नि­र्णयः, उप­सं­हा­रा­द­पी­त्याह —
न च द्युमू­र्ध­त्वा­दि­क­मि­त्या­दिना ।
प्रती­को­प­दे­श­मु­पा­ध्य­व­च्छि­न्न­स्यो­पा­स्त्यु­प­देशं च प्रपञ्चयति —
तथाचेति ।
पञ्चपादीकृतस्तु वाज­स­ने­यि­वा­क्य­स्या­प्या­त्मो­प­क्र­म­त्व­लाभे किं शाखा­न्त­रा­लो­च­न­येति पश्यन्तः पुरुषमनूद्य वैश्वानरत्वं विधेयमिति व्याचक्षते, तद्दूषयति —
अत एवेति ।
यत एवा­न्तः­प्र­ति­ष्ठि­त­त्वेन सह समुच्चयः सूत्र­ग­ता­पि­श­ब्दा­र्थोऽत एवा­न्तः­प्र­ति­ष्ठि­त­त्व­व­त्पु­रु­ष­त्व­मपि वैश्वा­न­र­मु­द्दिश्य विधेयं न विपर्यय इत्यर्थः ।
यदि पुरुषमनूद्य वैश्वानरो विधीयते, तदा पुरुषस्य दृष्ट्या­श्र­यत्वं स्यादित्याह —
तथासतीति ।
किमतस्तत्राह —
एवमिति ।
न केवलं सूत्रविरोधोऽपि तु भाष्य­वि­रो­धोऽ­पी­त्यर्थः । स यो हैतमिति वाक्ये प्रथ­म­नि­र्दि­ष्टा­ग्न्यु­द्दे­शेन पुरुषत्ववेदनं स एषोऽग्निरिति वाक्य­स्या­र्थ­त्वे­ना­नू­द्यते । तथा च तस्यायमेवार्थः स्थित इति श्रुतिविरोध इत्यर्थः ।
पुरुषस्य विधेयत्वे यच्छ­ब्दा­यो­ग­मा­श­ङ्क्याह —
तस्मादिति ।
पञ्चपाद्यां तु जाठरे ईश्व­र­दृ­ष्टि­प­क्ष­मुक्त्वा योगा­द­ग्नि­वै­श्वा­न­र­श­ब्द­यो­री­श्वरे वृत्तिरिति पक्षान्तरं वक्तुमयम् उद्दे­श्य­वि­धे­य­भा­व­व्य­त्यय आश्रित इति चिन्त्यमिदं दूष­ण­मिति॥२४॥२५॥२६॥२७॥
मूर्धा­दि­चि­बु­का­न्ता­व­य­वेषु संपादितस्य कथं पुरुषविधत्वं? तेषां पुरु­षै­क­दे­श­त्वा­दि­त्या­शङ्क्य वैश्वा­न­र­पु­रु­षस्य पादा­दि­मू­र्धा­न्ता­व­य­वा­ना­मेषु संपा­द­ना­त्पु­रु­ष­सा­दृ­श्य­मि­त्याह —
अत्रा­व­य­व­सं­प­त्त्येति ।
मूर्ध­चि­बु­का­न्त­रा­ल­स्थस्य पुरु­षा­व­य­व­स्थ­त्वा­त्कथं पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­त­त्व­मि­त्या­श­ङ्क्याह —
कार्यकरणेति ।
कार्यकरणसमुदाय एव पुरु­ष­स्त­स्या­व­यवा मूर्धा­दि­चि­बु­का­न्ता­स्ते­ष्व­न्तः­प्र­ति­ष्ठा­ना­त्पु­रु­षेऽ­न्तः­प्र­ति­ष्ठि­त­त्वम् ।
अत्र हेतुः —
समुदायेति ।
अव­य­वि­न्य­व­य­व­स्या­न्त­र्भा­वा­द­व­य­व­स्थो­प्य­व­य­व्या­श्रितः, गृहस्थ इव ग्रामस्थ इत्यर्थः ।
ननु — अव­य­वा­श्रि­त­स्या­व­य­व्या­श्रि­त­त्व­व्य­प­देशे दृष्टान्तो वक्तव्यो भाष्य­का­र­स्त्व­व­य­व­स्या­व­य­वि­नि­ष्ठ­ता­व्य­प­दे­श­मु­दा­ह­रति, ततो न निद­र्श­न­ते­त्या­श­ङ्क्याह —
अत्रैवेति ।
शाखादीनां समुदाये प्रतिष्ठिता शाखा समु­दा­य­म­ध्य­पा­तिनी भवेत्, तावदेषां च मूर्धा­दि­चि­बु­का­न्ता­व­य­वानां कार्य­क­र­ण­स­मु­दा­या­न्त­र्भावे निदर्शनम् । अवयवस्थस्य तु वैश्वा­न­र­स्या­व­य­वि­पु­रु­षा­न्तः­स्थ­त्व­म­र्था­देव सिद्ध्य­ती­त्यर्थः । विश्वेषां वाऽयं नरो नेता कार­णम्॥२८॥२९॥३०॥३१॥
भाष्ये —
वरणानासीति ।
निरुप्येति ।
इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाश्यतीति वरणासहिता नाशीति निरुच्येत्यर्थः ।
वरणाशब्दार्थमाह —
भ्रूरिति॥३२॥
अत्रिः किल याज्ञवल्क्यं पप्रच्छ य एषोऽ­न­न्तोऽ­व्यक्त आत्मा तं कथं विजानीयामिति । प्रत्युवाचेतरः सोऽविमुक्ते प्रतिष्ठित इति ।
अविमुक्तस्य स्थानभूता का वै वरणा का च नाशीति प्रश्नस्य प्रत्युक्तिः सर्वा­नि­न्द्रि­य­कृ­ता­न्दो­षा­न्वा­र­यति —
तेन वरणेति ।
सर्वा­नि­न्द्रि­य­कृ­ता­न्पा­प्मनो नाशयति इति नाशीति । नियम्य जीवा­धि­ष्ठा­न­त्व­द्वा­रेण निय­न्तु­री­श्व­र­स्या­धि­ष्ठा­न­त्वा­न्ना­सा­भ्रुवोः पाप्म­वा­क­र­त्वा­द्यु­प­पत्तिः । नासा­भ्रु­वो­र्म­ध्येऽपि स्थान­वि­शे­ष­जि­ज्ञा­सया प्रश्नः कतमच्चेति ।
भ्रूमध्यमाहेतरो भ्रुवोरिति ।
प्राणस्य नासिक्यस्य । स च संधि­र्द्यु­लो­कस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य संधि­त्वे­नो­पास्यः॥ केचित्तु — उपा­स­ना­बु­द्धि­र्वा­र­क­त्वेन नाशकत्वेन च वरणा नाशी । सा हि प्रकृता, न भ्रूः, भ्रुवोरिति द्विवचनेन वक्ष्यमाणाया एकवचनायोगाच्च । अतः श्रुत्यनभिज्ञो वाचस्पतिः — इति वदन्ति । तन्न; अत्र ह्युपासना स्वशब्देन न प्रकृता । तं कथं विजा­ती­या­मि­त्यु­प­स­र्जनं विज्ञानं प्रकृतमपि न स्त्रीलि­ङ्ग­नि­र्दे­शा­र्हम् । ततः शब्दो­पा­त्त­भ्रू­प्रा­ति­प­दि­कर्थं वक्ति वरणाशब्द इति श्रुत्यर्थज्ञो वाचस्पतिरेव । वैश्वानरमह्णां केतुं सूर्यं, वैश्वानरस्य शोभनमतौ विषया भवेम । स च कं सुखम् । अभिमुखा श्रीश्च । यो भानुरूपेण रोदसी द्यावापृथिव्यौ अन्तरिक्षं चाततान व्याप्तवान् ।
रोदसी एव दर्शयति —
इमां पृथिवीं द्यामिति ।
प्रादेशमात्रमिव । देवाः सूर्यादयः । अभिसंपन्नाः प्राप्ता उपासनया यदा ते सुविदिता भवन्ति । अहं कैकेयराजो युष्मभ्यम् औपमन्यवादिभ्यः एतान् देवास्तथा वक्ष्यामि यथा प्रादे­श­मा­त्र­मे­वा­भि­सं­पा­द­यि­ष्यामि । अधोलोकानतीत्य स्थिताऽतिष्ठा द्यौर्मू­र्ध्न्या­ध्या­त्म­मा­रोप्या, एवं सुते­ज­स्त्वा­दि­गु­ण­वन्तो वैश्वानरावयवा आदि­त्या­द­य­श्च­क्षु­रा­दि­ष्वा­रोप्याः॥ इति सप्तमं वैश्वा­न­रा­धि­क­र­णम्॥ इति श्रीम­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­प­र­म­हं­स­प­रि­व्रा­ज­क­भ­ग­व­द­म­ला­न­न्द­कृते वेदान्तकल्पतरौ प्रथमाध्यायस्य द्वितीयः पादः॥

अथ वेदान्तकल्पतरौ प्रथमाध्यायस्य तृतीयः पादः। द्युभ्वा­द्या­य­तनं स्वशब्दात्॥१॥ निर्वि­शे­ष­ब्र­ह्म­लि­ङ्ग­नि­रू­पणं पादार्थमाह –
इहेति ।
आद्या­धि­क­र­ण­म­व­ता­र­यति –
तत्रेति ।
आय­त­न­त्व­सा­धा­र­ण­ध­र्मात् संदेहे पूर्वपक्षं सङ्गृह्णाति –
पारवत्त्वेनेति ।
अमृतं यद्ब्रह्म तद् द्युभ्वा­द्या­य­तनं कर्हिचित् कदाचिदपि न युक्तम्।
आयतनस्य ब्रह्मत्वभावे हेतुमाह –
पारवत्त्वेनेति ।
सेतुत्वस्य पारवत्त्वेन व्याप्तेः ब्रह्म­ण­श्चा­प­र­त्वा­दि­त्यर्थः।
अमृतत्वाभावे हेतुमाह –
भेद इति ।
भेदे हि सति संबन्धार्था षष्ठी प्रयुज्यते, ब्रह्म चामृतमिति नामृतस्येति षष्ठी युक्तेत्यर्थः। पारं परकूलम्। अवारम् अर्वाक्कूलम्।
ननु षिञो बन्धनार्थात् सेतु­श­ब्द­व्यु­त्प­त्ते­र्ज­न्म­र्या­दाया बन्धरि ब्रह्मणि प्रयोगः किं न स्यादत आह –
नत्विति ।
यत्र दारुणि च्छिद्रिते निग्राह्याणां पादप्रोतनं तत् हडिः। निगडः शृङ्खला।
ननु अमृतमपि ब्रह्म अमृ­ता­न्त­र­सं­बन्धि, नेत्याह –
न च ब्रह्मण इति ।
अतोऽ­न्य­दा­र्त­मिति श्रुते­रि­त्यर्थः। पुरुषं प्रति यावत्तादात्म्यं ताव­द­ग­च्छ­द्व­स्तुतः परिच्छिन्नं भवति पारवत्।
अथ त्विति ।
साक्षा­दा­य­त­न­त्वेन श्रुत्युक्तमिति योजना। अव्याकृतं हि कार­ण­ब्र­ह्मो­पा­धि­त्वेन प्रतिपाद्यते न प्राधान्येनेति।
तस्य हि कार्यत्वेनेति ।
देहा­द्य­व­च्छि­न्न­रू­पे­णे­त्यर्थः।
धारणाद्वेति ।
अस्य द्युभ्वा­द्या­य­त­न­स्यास्य वा तज्ज्ञानस्य यथा­क्र­म­म­मृ­त­त्वस्य धारणात् साधनाद्वा सेतुता। यद्यपि ब्रह्मैवामृतम्; तथापि तदज्ञातं न मोक्ष इति ज्ञाय­मा­न­त्व­द­शा­म­भि­प्रेत्य धारयितृत्वम्। अत एव षष्ठी।
नन्वेवं रूढि­र्ग­ते­त्या­शङ्क्य साम्यमाह –
पूर्वपक्षेऽपीति ।
पारवत्तावर्जं पारवत्तां वर्जयित्वा।
योगमात्रादिति ।
षिञ्धा­त्व­र्थ­यो­गा­दि­त्यर्थः॥ विधारकत्वमेव सेतुगुणोऽपि स्यात्, तथा च पारवत्तया गौणी वृत्ती रूढ्यत्यागेन प्रवृत्ता योगात् बलिनीति च न शङ्क्यमिति।
अमृतस्य ब्रह्मणो हेत्वभावात् साधनत्वं ज्ञान­स्या­यु­क्तम् इत्याशङ्क्य अवि­द्या­नि­वृत्तिः अमृतत्वशब्दार्थ इत्याह –
अमृतशब्दश्चेति ।
द्वयोरेकस्य च संख्ये­या­ना­मु­पा­दाने तेषां बहुत्वाद् द्व्येकेष्विति स्यात्। नाना­र्थ­सा­धा­र­ण्येन सकृदुच्चारणमिह तन्त्रम्, एवं चावृ­त्ति­ल­क्ष­ण­वा­क्य­भेदो व्युदस्तः। अस्य ब्रह्मणः स्वीयाः शब्दा एते इत्यर्थः।
तत्र त्वाय­त­न­व­द्भा­व­श्र­व­णा­दिति भाष्यं द्युभ्वा­द्या­य­त­नस्य ब्रह्मत्वे सिद्धे तस्य सवि­शे­ष­त्व­नि­रा­सा­र्थम्; तत्प्र­धा­न­वा­द­नि­रा­सा­नु­प­यो­गि­त्वात् प्रकृतासङ्गतम् इत्याशङ्क्य हिर­ण्य­ग­र्भ­पू­र्व­प­क्ष­नि­रा­सा­र्थ­त्वेन प्रकृतेन सङ्गमयति –
स्यादे­त­दि­त्या­दिना ।
अप्रधानं ज्ञानं न सर्व­ना­म­प­रा­म­र्शा­र्ह­मिति कश्चित्, तं प्रत्याह –
न चेति ।
यत्तु - केनचिदुक्तं, ‘तं जानथेति ज्ञेयं प्रत्युपसर्जनं ज्ञानमेष इति पुंल्लि­ङ्ग­नि­र्दे­शा­नर्हं च’ – इति, तन्न; सत्यपि ज्ञेय­प्रा­धा­न्य­नि­र्देशे ज्ञानस्य फलसाधनत्वेन गुण­क­र्म­त्वा­भा­वात् प्राधान्यात्।
पुंल्लिङ्गं तु विधे­य­सा­पे­क्ष­मिति न किंचिदेतत्। ‘‘तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मिक्षा’’ इत्यादौ शब्द­तोऽ­प्र­धा­न­स्यापि पय-आदेः सर्व­ना­म­नि­र्दे­शात्, अनियतं सर्वनाम्नः प्रधा­न­प­रा­म­र्शि­त्वम् इत्याह –
न चेति॥ १॥
अवि­द्या­रा­ग­द्वे­षा­दीति भाष्ये आदिग्रहणेन प्राङ्नि­र्दि­ष्ट­भ­य­मो­हा­वुक्तौ।
एतेऽविद्यादयः श्रुतौ हृद­य­ग्र­न्थि­श­ब्दार्थ इत्याह –
हृद­य­ग्र­न्थि­श्चेति ।
अज्ञा­न­स्या­वि­द्या­श­ब्देन निर्दि­ष्ट­त्वात्, मोहश्च विषादः, शोक इति च विषादव्याख्या।
परावर इति श्रुतिपदं व्याचष्टे –
परमिति ।
भाष्ये सूत्रोपात्तम् उक्त­प­द­व्या­ख्या­नाय ‘भिद्यते हृदयग्रन्थिः’ इति मन्त्रमुदाहृत्य ज्ञाना­द­ज्ञा­न­नि­वृत्तौ ब्रह्मणः प्राप्यत्वम्, उपसृप्यपदार्थं इति च वक्तुं ‘‘तथा विद्वानिति’’ मन्त्र उदाहृतः ततश्च उत्तरमन्त्रे विद्वानिति अभिधास्यमानं ज्ञानं पूर्वमन्त्रे भिद्यत इत्या­दि­क­र्म­सं­योगे निमित्तार्थया दृष्टे इति सप्तम्या निर्दिष्टम्। निष्ठा च भावे।
दर्श­ना­र्थ­श्चा­वि­द्यादेः परोक्षज्ञानात् शिथिलीभावो भिद्यत इत्यादिनोक्त इत्यभिप्रेत्याह –
तस्मि­न्ब्र­ह्म­णीति ।
उत्त­र­म­न्त्र­स्थ­ना­म­रू­प­श­ब्दा­र्थ­माह –
नामेति॥२॥
यत्तु - कश्चिदाह - सूत्रे­णाऽ­नि­र­स्त­त्वात् न वाय्वा­दि­पू­र्व­पक्ष इति, तत्राह –
नाव्या­कृ­त­मि­त्य­पीति ।
साधा­र­ण­हे­तु­नि­र्दे­शाद् अव्या­कृ­त­वा­दा­द्यपि पूर्वपक्षत्वेन सूचि­त­मि­त्यर्थः॥३॥४॥५॥६॥ न चोपा­धि­प­रि­च्छि­न्न­स्येति भाष्ये चकारप्रयोगात् सौत्र­च­श­ब्द­व्या­ख्या­त्व­भ्र­म­म­पा­क­रोति –
न चेति ।
जीवात्मैव द्युभ्वा­द्या­य­त­न­मिति न वाच्य­मि­त्य­न्वयः।
जीवा­त्मा­धि­ग­मा­येति ।
प्रसिद्धं जीव­स्व­रू­प­म­नू­द्या­ज्ञस्य पार­मा­र्थि­क­स्व­रू­पा­धि­ग­मा­ये­त्यर्थः। प्रकरणे न पठितमिति कृत्वाचिन्ता न युक्ता; प्रकरणादिति सूत्रादिति केन­चि­द­यु­क्त­मु­क्तम्; कृत्वाचिन्ता उद्धा­ट­ना­र्थ­त्वात् सूत्रस्य। इदं विश्वं पुरुष एव यस्मिन् पृथिव्यादि - ओतं समाश्रितं किं तदिति, अत आह - कर्म - अग्निहोत्रादि। तपो ज्ञानम्, अर्थात् तत्फलं च। स च पुरुषः परामृतं ब्रह्म॥७॥
इति प्रथमं द्युभ्वा­द्य­धि­क­र­णम्॥

वाक्प्रे­र­क­त्वात् वाचो मनो भूयः। कुर्यामिति निश्चयस्य मनसः कर्त­व्या­दि­वि­वेकः संकल्पः कारणम्। तस्य चाती­ता­दि­वि­ष­य­सा­ध्य­प्र­यो­ज­न­ज्ञानं चित्तम्। तस्मादपि लोकिकविषयात् शास्त्री­य­दे­व­ता­द्यै­काग्र्यं ध्यानं फलतो भूयः। ध्यानस्य विज्ञानं शास्त्रीयं कारणं तस्य मनोगतं बलं प्रति­भा­न­सा­मर्थ्यं कारणम्। तस्या­द्य­मा­न­म­न्नम्। तस्यापः। एवमाकाशपर्यन्तं ज्ञेयम्। आकाशस्य भोग्यत्वे स्मरः स्मरणम्। तस्याशा तया हीष्टं तात्पर्येण स्मरति। प्राणो नामा­द्या­शा­न्त­स­र्व­हे­तु­तया भूयान् इत्यु­त्त­र­भू­यस्त्वं द्रष्टव्यम्। भवतु प्राणे प्रश्न­प्र­त्यु­क्ति­प­र्य­व­सा­नम्; तथापि न तस्य भूमत्वशङ्का, एष त्विति तुशब्देन ग्रन्थं विच्छिद्य भूमो­प­दे­शा­दि­त्या­शङ्क्य विष­य­प्र­द­र्श­ना­व­सर एव संशयोपयोगितया पूर्व­प­क्ष­स­म्भा­व­न­माह –
प्राणस्येति ।
सर्वा­त्म­त्व­लि­ङ्गात् प्राण एव भूमा, तुशब्दस्तु सत्यप्राणवेदिन एव नामा­द्य­ति­वा­दि­त्वात् विशेषार्थ इति संभवः पूर्व­प­क्ष­स्ये­त्यर्थः॥ प्राणस्य भूमत्वे लिङ्गान्तरमाह –
अपृष्ट एवेति ।
यदि प्राणादन्यो भूमा, तर्हि प्राग्व­त्प्र­श्नेन भाव्यमित्यर्थः।
भूमशब्दस्य निष्कृ­ष्ट­ब­हु­त्व­व­च­न­त्वात् किं प्राणो भूमेति भाष्ये सामा­ना­धि­क­र­ण्या­यो­ग­मा­शङ्क्य आह –
भावभवित्रोरिति ।
भाष्यकारेण प्राण­स­न्नि­धि­रा­त्म­प्र­क­रणं च संश­य­बी­ज­मु­क्त­म­यु­क्तम्, प्रब­ल­दु­र्ब­लाभ्यां संश­या­यो­गा­दि­त्या­श­ङ्क्याह –
संशयस्येति ।
इदं हि विशु­द्ध­वि­ज्ञा­नेन भाष्यकृतोक्तम् अतो यथा­श्रु­ता­लो­चिभिः नावज्ञेयम्। उपपत्तिं त्वनन्तरमेव वक्ष्याम इति भावः।
पूर्वपक्षमाह –
एतस्मिन्निति ।
यो वै भूमेत्युक्तो भूमा, न प्राणादन्यः, अस्ति भगव आशाया भूय इति प्रश्ना­ति­रि­क्त­प्र­श्ना­वि­ष­यत्वे सति एत­द्ग्र­न्थ­स्थ­भू­म­रू­प­त्वात्, आशा­पे­क्ष­प्रा­ण­भू­म­वत् इत्यनुमानं सूचितम्। आर्तिमात्रस्य उद्दे­श्य­त्वाऽ­प­र्य­सा­नात् हविषा विशेषणं सहामहे, पर्यवसितस्य हि उद्देश्यस्य विशेषणं वाक्यभेदौ अहंग्रहस्येव एकत्वमिति शबरस्वामिन आहुः।
संश­य­बी­जो­प­प­त्ति­म­न­न्त­र­मेव वक्ष्याम इत्यवादिष्म, तामिदानीमाह –
न चात्मन इत्यादिना॥
निर्णो­ता­र्थ­प्र­ती­क­वि­ष­यो­त्त­र­व­शात् प्रश्नोऽपि प्रतीकपरः, आत्मशब्दश्च नामादिषु आरो­प्य­मा­ण­ब्र­ह्म­वि­षयः।
प्रश्नस्य आरोप्याविषयत्वे दूषणमाह –
अतदिति ।
प्रश्नो यद्यात्मविषयः स्यात् तद उत्तरस्य प्रतीकविषयस्य अतद्विषयत्वम् अपृष्टविषयत्वं स्यात्, तदा च प्रश्नोत्तरयोः वैय­धि­क­र­ण्य­मि­त्यर्थः। प्रश्नस्येति यदि पाठो लभ्यते तदा सुगममिति॥
तदेतदिति ।
प्रक­र­णा­नु­त्था­नम्। प्रकरणमेव प्राण­स­न्नि­धि­स­म­क­क्ष­त्वेन संशयबीजं दर्शयता भाष्यकारेण प्रकरणत्वमस्य न निश्चितं, सन्नि­धि­मा­त्र­मा­त्म­श­ब्द­स्येति सूचितम्। अत एव पूर्वपक्षावसरे पुन­र्नो­क्त­मि­त्यर्थः। पूर्वपक्षस्तु प्राणस्य आत्मशब्दादपि अतिसन्निधानात् उत्थित इत्युक्तमपि च भूमेति भाव इत्यत्र। अपि तु इत्यस्य नामा­द्य­ति­वा­दि­त्वात् व्यवच्छिनत्तीति वक्ष्य­मा­णे­ना­न्वयः।
फलितमाह –
तदिति ।
वाक्येन प्राणव्रतस्य पुनरुक्तौ प्रयोजनमाह –
न नामेति ।
सत्या­दि­प­र­म्प­र­येति भाष्योक्तं सत्यादि दर्शयति –
अत्र चेति ।
यदवादि प्रतीकविषयो बहोर्भाव इति विग्रहे ‘पृथ्वादिभ्य इमनिज्वा’ इती­म­नि­च्प्र­त्यये बहुशब्दोपरि कृते बहोर्लोपो भू च बहोरिति सूत्रेण बहो­रु­त्त­रे­षा­मि­म­ना­दी­ना­मि­का­रस्य लोपे बहोः स्थाने भू-आदेशे च भूमेति रूपम्। गार्हपत्यो ह वा एषोऽपान इत्यादिना अग्नित्वेन निरूपितत्वात् प्राणाग्नयः। पुरे शरीरे देवो मन-उपाधिको जीवः। अथ तदा यत्सुखं तदस्मिन् शरीरे भवति स वा एव एतस्मिन् संप्रसादे स्वप्रान्ते बुद्धान्ते इति स्वप्न­जा­ग्रद्भ्यां सह सुषुप्ते संप्रसादशब्दः पठितः। उप­क्र­मो­प­सं­हा­रयोः शोकतमसोः अभिधानात् विसंवाद इति शङ्कायाम् उत्तरं भाष्यं - तम इति शोका­दि­का­र­ण­मिति॥९॥
इति द्वितीयं भूमाधिकरणम्॥

अक्ष­र­म­म्ब­रा­न्त­धृतेः॥१०॥ अक्षरशब्दस्य वर्णब्रह्मणोः रूढिनिरूढिभ्यां संशये प्रण­व­स­र्वात्म्यं न गौणं प्राण­स­र्वा­त्म्य­व­दिति प्रत्य­व­स्था­न­निरा सात्सङ्गतिः। पूर्वपक्षमाह –
अक्षरशब्द इत्यादिना ।
रूप्यते निरूप्यते इति रूपमभिधेयं स्वार्थे धेयप्रत्ययः। अर्थे शब्दा­त्म­क­त्वा­नु­भवो न तद्गम्यत्वकृतः। धूमगम्यवह्नेः तादा­त्म्या­न­व­भा­सा­दिति।
शब्दबोधेऽभिधया माना­न्त­र­ग­म्या­र्थ­बोधे यः शब्द­बो­ध­स्त­त्रो­पा­य­त्व­प्र­यु­क्त­श­ङ्काऽपि नेत्याह –
अपि चेति ।
ग्रथिताः संबद्धाः। विद्धाः तदात्म्येन। शङ्कुना पर्णनालेन। पर्णानि पर्णावयवाः संतृण्णानि विद्धानि।
किं तु परमात्मैवैति ।
धार­यि­तु­म­र्ह­ती­त्य­नु­षङ्गः।
स्वरू­प­प्र­मा­णा­र्थ­क्रि­या­भि­र्भे­द­माह –
तथा हीति ।
ननु डित्थोऽयमिति नाम­सं­भे­दोऽ­नु­भू­यते, तत आह –
न च डित्थ इति ।
यद्यर्थो न शब्दात्मा, तर्हि कथमर्थप्रत्यये शब्दः प्रतिभाति, न हि स तदा स्वेन परेण वोच्चार्यतेऽत आह –
संज्ञा त्विति ।
संस्का­रो­द्बो­धस्य संपात उत्पा­द­स्ते­ना­याता प्राप्ता गृहीतसंबन्धैः पुंभिः।
यत्सं­ज्ञा­स्म­र­ण­मिति ।
अन्यहेतुकम् अर्था­त्म­त्व­हे­तु­कम्।
ननु स्मर्य­मा­ण­सं­ज्ञायाः परो­क्ष­त्वा­त्त­द्वि­शि­ष्टोऽर्थः कथं प्रत्यक्षः स्यादत आह –
संज्ञाहीति ।
संज्ञिनः प्रत्यक्षत्वं स्मर्यमाणाऽपि संज्ञा न बाधते।
सा हि तटस्था अर्था­नि­वि­ष्टाऽतो नार्थ­स्व­रू­पा­च्छा­द­न­क्ष­मेति॥ भास्क­र­स्त्व­स्थू­ल­मि­त्यादेः वर्णेषु अप्रा­प्त­नि­षे­ध­त्वा­नु­प­पत्तेः अधि­क­र­ण­म­न्य­थ­या­मास, तदनूद्य दूषयति –
ये त्वित्यादिना ।
अम्बरान्तधृतेः प्रधानं न निराकर्तुं शक्यं; साधा­र­ण­त्वा­दि­त्यर्थः। यत्तु कश्चिदाह - भूत­भ­वि­ष्य­दा­द्या­धा­र­त्वा­द­व्या­कृ­त­मा­काशं, तथा च प्रधा­न­नि­रा­क्रिया - इति। तन्न; तथा सत्यु­त्त­र­सू­त्र­वै­य­र्थ्यात्। अत्र स एवाह आकाशशब्दस्य रूढिभङ्गः फलं, नभ आश्र­य­स्या­व्या­कृ­तस्य प्रशा­सि­तृ­त्वा­यो­गा­द­व्या­कृ­ता­श्र­यस्य तदुपपत्तेरिति। तच्च न; आत्मन आकाश इति भूता­का­शा­श्र­य­स्या­त्म­त्वा­व­ग­मात्। अपि च प्रधानस्यापि नभ आश्र­य­त्व­सा­धा­र­ण्यात् तद्व्युदासाय रूढिभङ्ग इति वाच्यम्। तच्चायुक्तम्; अभग्नायामपि रूढौ वाक्य­शे­ष­स्थ­प्र­शा­स्ते­र्नि­र्ण­य­ला­भा­दिति।
न ह्यवश्यमिति ।
प्रौढ्यैष वादः। संभवति तु प्राप्ति­र­भि­धा­ना­नु­र­क्ता­भि­धे­यस्य, तत्प्रकृतिकत्वे प्रकृ­ति­वि­का­रा­न­न्य­त्वेन प्रल­या­व­स्था­व­र्णेषु स्थौल्या­दि­प्रा­प्ते­रिति॥ प्रप­ञ्चा­धि­ष्ठा­न­त्व­मा­त्रा­भ्यु­प­ग­माद् ब्रह्मणः प्रशा­स­ना­श्र­य­त्वाऽ­यो­गा­द्वा­च­स्प­ति­मते - सा च प्रशासनादिति (व्या.सू.अ.१.पा.३.सू.११) सूत्रमसंगतमिति केचित्। तन्न; रज्ज्वां भुजङ्गवत् प्रशा­स­न­व्या­पा­र­स्या­प्या­रो­पात्। हन्त प्रधानेऽपि तमारोप्य तदपि प्रशासितृ किं न स्यादिति चेत्, नैतत्; चेतने दृष्टस्य नियन्तृत्वस्य जगदैश्वर्यरूपेण चेतन एव समारोपसंभवात्। न हि गजतुरगपत्तिवृते राजामात्ये राज­त्व­मा­रो­पि­त­मिति कुड्या­दा­वा­रो­प्यते। आरोपितमपि नियन्तृत्वं ब्रह्मणि मुख्यमेव प्रप­ञ्च­स्थि­त्य­र्थ­क्रि­या­का­रि­त्वा­द­का­र­ग­त­ह्र­स्वा­दि­वत्। प्रधाने तु गौणम्।
तदिदमाह –
न च मुख्यार्थसंभवे इति॥१२॥
इति तृती­य­म­क्ष­रा­धि­क­र­णम्॥

ईक्ष­ति­क­र्म­व्य­प­दे­शात्सः॥१३॥ अम्ब­रा­व­धि­का­धा­रा­त्प्र­णवः पर्युदासि यः। तद्ध्येयमपरं किं वा परमित्यत्र चिन्त्यते॥ एषां बुद्धि­स­न्नि­धि­सं­गतिः।
कार्येति ।
कार्यब्रह्म हिरण्यगर्भ एव जनो जीवो यस्मिन् स ब्रह्मलोकस्तथा तत्प्राप्तिः फलं यस्य ध्यानस्य तत्तथा तस्य भावस्तत्त्वं ततो हेतोरपरं ब्रह्म ध्येयमिति गम्यते।
ननु परं पुरुषमभिध्यायीत परात् परं पुरुषमीक्षत इतीक्षणध्यानयोः एक­वि­ष­य­त्वा­व­ग­मात् ईक्षणस्य च यथार्थत्वात् परमार्थ ब्रह्मैव ध्येयं, न त्वपरमित्यत आह –
अर्थभेदत इति ।
ध्यानस्य परविषयत्वात् ईक्षणस्य परात्परो यस्त­द्वि­ष­य­त्वात् एक­वि­ष­य­त्व­म­सि­द्ध­मि­त्यर्थः।
प्रथमहेतुं व्याचष्टे –
ब्रह्म वेदेति ।
अर्थभेदत इत्ये­त­च्छ­ङ्को­त्त­र­त्वेन व्याचष्टे –
न चेति ।
अङ्गीकृत्य दर्शनस्य तत्त्व­वि­ष­य­त्व­मी­क्ष­ण­ध्या­न­यो­र्वि­ष­य­भेद उक्त­स्त­दे­वा­सि­द्ध­मि­त्याह –
न चेति ।
ननु युक्त्या पर्या­लो­च­न­मि­हे­क्षणं, तच्च तत्त्व­वि­ष­य­मि­त्या­श­ङ्क्याह –
न च मननमिति ।
किं मननदर्शनयोः ऐक्यं उताऽत्र मननविवक्षा।
नाद्य इत्याह –
मननादिति ।
न द्वितीय इत्याह –
न चेति ।
ईक्ष­ण­ध्या­न­यो­र­र्थ­भेदं निराकरोति –
ईक्षणेति ।
एकोऽर्थ इत्यन्वयः।
यदवादि न सर्वं दर्शनं तत्त्वविषयमिति तत्राह –
औत्सर्गिकमिति ।
ईक्षतेरीक्षणस्य तत्त्व­वि­ष­य­त्व­मौ­त्स­र्गिकं, न चेहापवादः कश्चित्, तथा ध्यानस्यापि तत्कारणस्य स्याद­न्य­थाऽ­न्यद् ध्याय­त्य­न्य­त्प­श्य­तीति हेतु­हे­तु­म­त्त्वा­सि­द्धे­रि­त्यर्थः।
प्रका­रा­न्त­रे­णा­र्थ­भेदं निराकरोति –
अपि चेति ।
सम­भि­व्या­हा­रा­दिति ।
स ईक्षत इति प्रकृ­ता­पे­क्ष­नि­र्दे­शा­दि­त्यर्थः।
तदनुरोधेनेति ।
प्रमा­ण­द्व­या­नु­रो­धे­ने­त्यर्थः॥ हे सत्यकाम परं निर्विशेषम् अपरं हिरण्यगर्भाख्यं च यद् ब्रह्म तदेतदेव। एतच्छब्दार्थमाह - यदोङ्कारः स हि तस्य प्रतीकः, प्रतिमेव विष्णोः, तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेन ओंका­र­ध्या­ने­ना­य­त­नेन प्राप्तिसाधनेन परारयोरेकतरं यथो­पा­स­न­म­नु­ग­च्छ­तीति प्रकृ­त्यै­क­मा­त्र­द्वि­मा­त्रो­पास्ती उक्त्वा वक्ति पिप्पलादः - यः पुन­रो­मि­त्ये­त­द­क्षरं त्रिमात्रमिति। तृतीया द्वितीयात्वेन परिणेया; ब्रह्मों­का­रा­भे­दो­प­क्र­मात्। तथाविधमक्षरं सूर्यप्रतिमं परं पुरुषमभिध्यायीत स सूर्यं प्राप्तः साम­भि­र्ब्र­ह्म­लोकं प्राप्यते॥१३॥
इति चतु­र्थ­मी­क्ष­ति­क­र्मा­धि­क­र­णम्॥

दहर उत्तरेभ्यः॥१४॥ प्रागु­दा­हृ­त­प­र­पु­रु­ष­श­ब्दस्य दह­र­वा­क्य­शे­ष­ग­तो­त्त­म­पु­रु­ष­श­ब्द­वत् अब्र­ह्म­वि­ष­य­त्व­श­ङ्का­याम्, अस्यापि ब्रह्म­वि­ष­य­त्वो­प­पा­द­ना­त्सं­गतिः ॥
पूर्वेभ्य इति ।
श्रव­ण­म­न­न­ध्या­नेभ्य इत्यर्थः।
आधेयत्वादिति ।
ब्रह्म­पु­र­श­ब्दोक्तं देहलक्षणं पुरं जीवस्य युज्यते। तस्य परि­च्छि­न्न­त्वे­ना­धे­य­त्वात्, स्वक­र्मो­पा­र्जि­त­श­री­रेण संबन्धविशेषाच्च ब्रह्मणः पुरमिति षष्ठी­स­मा­स­सं­भ­वात्। ब्रह्मणस्तु न युक्तं पुरम्; उक्त­हे­तु­द्व­या­भा­वा­दि­त्यर्थः।
विशे­षा­दि­त्ये­त­द्व्या­ख्याति –
असा­धा­र­णे­ने­त्या­दिना ।
जीवभेदो जीवविशेषः।
आधेयत्वहेतुं व्याचष्टे –
अपि चेत्यादिना ।
तेनाधिकरणेन सहानेन ब्रह्म­श­ब्दा­र्थे­ना­धे­येन संबद्धव्यम्; समा­सा­भि­हि­त­सं­ब­न्ध­सा­मा­न्यस्य आधाराधेयभाव एव विश्र­मा­दि­त्यर्थः। भक्तिर्गुणस्तेन हि शब्दो मुख्या­र्था­द्भ­ज्यते ।
यदि चेतनत्वं समं जीव­ब्र­ह्म­णो­स्तर्हि को विशेषस्तत्राह –
उपधानेति ।
भक्त्या च तस्य ब्रह्म­श­ब्द­वा­च्य­त्व­मिति भाष्ये वाच्यत्वं तात्प­र्य­ग­म्यत्वं; भाक्तत्वे सत्य­भि­धे­य­त्व­वि­रो­धा­दि­त्यर्थः। अन्यस्य ब्रह्मण इत्यर्थः।
अनि­र्दि­ष्टा­धे­य­मिति ।
वेश्माधेयतया निर्दि­ष्ट­स्या­प्या­का­शस्य संदि­ग्ध­त्वा­द­नि­श्चय इत्यर्थः।
उपमानोक्तेः अन्य­था­सि­द्धि­मा­श­ङ्क्याह –
तेनेति ।
ह्यस्त­ना­द्य­त­न­त्वा­दि­ना­युद्धे भेदारोपः क्रियते – गगनं गगनाकारं सागरः सागरोपमः। राम­रा­व­ण­यो­र्युद्धं रामरावणयोरिव॥ इत्यत्र।
अस्तु वोपा­ध्य­पे­क्ष­याऽऽ­काशे भेदारोपः, तथापि न बाह्या­का­श­तु­ल्यत्वं हार्दा­का­श­स्ये­त्याह –
न चेति ।
यदि ऊन­त्वा­द्धा­र्ध­न­भसो न बाह्येनोपमेयता, हन्ताधिकत्वाद् ब्रह्मणोऽपि न स्यादत आह –
न भूताकाशेति ।
आधे­य­त्वा­दि­त्ये­त­त्प्र­त्याह –
उपलब्धेरिति ।
विशे­षा­च्चे­त्ये­त­न्नि­रा­क­रोति –
तेनेति ।
मुख्या­धे­य­त्व­त्यागे हेतुमाह –
तथा चेति ।
नन्व­नि­र्णी­ता­धेयं वेश्म सन्नि­हि­त­पु­र­स्वा­मिना संबध्यत इत्यु­क्त­त्वा­त्कथं जीवपुरे ब्रह्मसदनलाभोऽत आह –
उत्तरेभ्य इति ।
सन्नि­धि­र्लि­ङ्गै­र्बा­ध्यत इत्यर्थः।
ननु लिङ्गानि ब्रह्मा­भे­द­प­राणि, नेत्याह –
ब्रह्मणो हीति ।
इह ब्रह्मणि बाधकं जीवे च साधकं प्रमाणं नास्ति; ब्रह्मबाधकत्वेन जीवसाधकत्वेन चेष्टस्य सन्निधेः लिङ्गै­र्बा­धा­दि­त्यर्थः।
अपि चासिद्धो जीवसन्निधिः, पुरस्य ब्रह्म­सं­ब­न्धो­प­पा­द­नाद् ब्रह्मशब्देन जीवाऽ­न­भि­धा­ना­दि­त्याह –
ब्रह्म­पु­र­व्य­प­दे­श­श्चेति ।
‘अथ य इहात्मानम्’ इति भाष्य­स्थ­श्रु­ता­व­नु­श­ब्दा­र्थ­माह –
श्रवणेति ।
विदेरर्थमाह –
अनुभूयेति ।
साक्षा­त्कृ­त्ये­त्यर्थः।
काम्यन्त इति
कामाः विषयाः। चारः उपलब्धिः।
आद्य­सं­श­य­स्थ­पू­र्व­प­क्ष­म­नूद्य सिद्धान्तयति –
स्यादे­त­दि­त्या­दिना ।
भाष्ये द्यावा­पृ­थि­व्या­द्य­न्वे­प्य­त्वा­प­त्ति­रि­ष्टा­पा­द­न­मिति शङ्कते –
स्यादेतदिति ।
तर्हि ‘‘अथ य इहात्मानम्’’ इत्यात्मशब्दः कथमत आह –
ताभ्यामिति ।
तथा च भूताकाशस्य दह­र­त्व­सि­द्धि­रि­त्यर्थः।
अस्मिन्कामा इत्य­स्मि­न्-श­ब्देन द्यावा­पृ­थि­व्या­धार आकाश एव परामृश्यते समा­ना­धा­र­त्व­प्र­त्य­भि­ज्ञा­नाद्, न द्यावापृथिव्यौ, तथा चैष इति, आत्मेति तदु­प­रि­त­न­श­ब्दा­भ्या­म­प्या­काश एव निर्दिष्ट इत्याह –
अनेन हीति ।
आकृष्येति भाष्ये व्यवधानं सूचितम्।
व्यवहितस्य ह्याकर्षणं तत्कथयति –
द्यावा­पृ­थि­व्या­दीति ।
‘‘उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते’’ इति पूर्ववाक्ये आका­श­नि­र्दे­शा­न­न्तरं द्यावा­पृ­थि­व्या­दि­नि­र्दे­शाद् व्यवधानम्।
एतांश्च सत्यान् कामान् इत्या­त्म­श­ब्दा­न­न्तरं कामनिर्देशात्, सर्वेषु लोकेषु कामचारो भवतीति फलश्रवणं गुण­वि­ज्ञा­न­स्यै­वेति शङ्कते –
नन्विति ।
चका­रा­द्गु­ण­गु­णि­नो­र्ज्ञे­यत्वे समुच्चयावगमात् समु­च्चि­तो­पा­स्ति­फलं कामचार इति परिहारार्थः।
पूर्वत्र अव्य­व­हि­त­द्या­वा­पृ­थि­व्या­वु­पेक्ष्य अस्मिन्-शब्देन प्रत्य­भि­ज्ञा­ना­दा­का­श­मेव परामृश्यत इत्युक्तं, तत्रैव हेत्वन्तरमाह –
अस्मिन्कामा इति चेति ।
लक्षितात्मन ऐक्येऽपि पूर्वं शब्दतोऽनुपात्ते नैक­व­च­न­प­रा­मृ­श्यता - इत्यर्थः।
यदि दहराकाशस्य विज्ञेयत्वं, कथं तर्हि तदाधेयस्य विज्ञे­य­त्वो­प­दे­शोऽत आह –
तदनेनेति ।
एतमेव दहराकाशं प्रक्रम्य श्रुतिः प्रववृत इत्यन्वयः। धनायद्भिः धनेच्छावद्भिः।
यद्यपि सुषुप्तौ ब्रह्म­प्रा­प्तिर्न लोकसिद्धा; तथापि वेद­सं­स्कृ­त­ज­न­प्र­सिद्ध्या वेदस्य तत्र तात्पर्यं गम्यत इत्याह -
तथापीति ।
कर्मधारयस्य षष्ठीसमासात् बलीयस्त्वात् लिङ्गो­प­न्या­स­वै­य­र्थ्य­मा­शङ्क्य, अभ्यु­च्च­या­र्थ­त्वेन परिहरति –
अत्र तावदित्यादिना ।
षष्ठे स्थितम् – स्थपतिः निषादः, शब्दसामर्थ्यात् (जै.सू.अ.६.पा.१.सू.५१) रौद्रीमिष्टिं विधाय आम्नायते - एतया निषादस्थपतिं याजयेदिति। तत्र निषादस्थपतिः त्रैव­र्णि­का­ना­म­न्य­तमः, उतान्यः इति संदेहे, अग्नि­वि­द्या­व­त्त्वेन समर्थत्वात् अनिषादेऽपि निषादानां स्थपतिः स्वामीति शब्द­प्र­वृ­त्ति­सं­भ­वा­द­न्य­तम इति प्राप्तेऽ­भि­धी­यते। निषाद एव स्थपतिः स्यात्, कर्मधारयश्च समासः, निषादशब्दस्य श्रौतार्थलाभेन शब्द­सा­म­र्थ्यात्। षष्ठीसमासे तु संबन्धो लक्ष्येत षष्ठ्यश्रवणात् समा­स­स्थ­ष­ष्ठी­लो­पोऽपि शब्दा­भा­व­त्व­न्नैव षष्ठ्यर्थबोधी द्वितीयायाश्च प्रत्येकं निषा­द­स्थ­प­ति­श­ब्दाभ्यां संबन्धसंभवे सति नाश्रुतषष्ठी कल्प्या। तस्मान्निषाद एव स्थपतिरिति। तद­प्या­धि­क्य­मुक्तं सूत्रकारेण चकारं प्रयुञ्जा­ने­ने­त्यर्थः।
सूत्रार्थमाह –
तथा हीत्यादिना ।
विप­क्षा­द्व्या­वृत्तौ हेतुमाह –
असंभवादिति॥१५॥
सेतु­र्वि­धृ­ति­रिति श्रुतौ धृतिशब्द आत्म­श­ब्द­सा­मा­ना­धि­क­र­ण्यात् यद्यपि कर्तृवाची क्तिज­न्त­स्त­थाऽपि सूत्र­ग­त­धृ­ति­शब्दो महि­म­श­ब्द­सा­मा­ना­धि­क­र­ण्यात् क्तिन्नन्तत्वेन भाववचन इत्याह –
सौत्र इति॥१६॥
प्रसि­द्धि­श­ब्दस्य रूढि­वा­चि­त्व­भ्र­म­म­प­न­यति –
न चेति ।
रथाङ्गमिति नाम चक्रवाके लक्षणया संप्रत्येव प्रयुज्यते। रथा­ङ्ग­श­ब्द­प­र्या­यस्य चक्र­प्रा­ति­प­दि­कस्य चक्र­वा­क­श­ब्दा­व­य­व­त्वेन निवेशात्।
आकाशशब्दस्य तु ब्रह्म­ण्य­ना­दि­काले बहुकृत्वः प्रयो­गा­न्नि­रू­ढ­ल­क्ष­णे­त्यर्थः॥ पञ्चपाद्यां तु रूढिरुक्ता, तां दूषयति –
येत्विति ।
नभसि ब्रह्मणि च रूढ्य­भ्यु­प­ग­मेऽ­ने­का­र्थत्वं, नाभसगुणयोगाद् ब्रह्मणि वृत्तिसंभवे च शक्तिकल्पनायां गौरवमित्यर्थः। अत्र केचित् - आसमन्तात् काशत इति आकाशशब्दस्य अवयववृत्तिसंभवे सेतुशब्दस्येव तद्ब­हि­र्भू­त­गु­ण­वृ­त्ति­र­युक्ता - इत्याहुः। तन्न; अपहृत्य योगं रूढ्यर्थे प्रत्यायिते रूढिं पुरस्कृत्य क्लृप्तादेव गुणयोगादन्यत्र वृत्ति­ला­भेऽ­न­पेक्ष्य रूढि­म­व­य­व­व्यु­त्प­त्ति­क्ले­श­स्या­यु­क्त­त्वात्। सेतुशब्दोऽपि सेतु­गु­णा­द्वि­ध­र­णादेः ब्रह्मणि वर्तते। भाष्यकृद्भिस्तु सेतु­श­ब्द­व्यु­त्प­त्ति­र­भ्यु­च्च­या­र्थ­मा­श्रिता।
अस्तु तर्ह्य­ने­का­र्थ­त्व­प­रि­हा­राय ब्रह्मण्येव मुख्यत्वमत आह –
न चेति ।
तेनैव विभु­त्वा­दि­गु­ण­यो­गेन। वर्त्स्यति वृतो भवि­ष्य­त्या­का­श­शब्द इति न वाच्यम्। तत्र हेतुः – वैदि­क­प­दा­र्थ­प्र­त्य­यस्य लोक­पू­र्व­क­त्वा­द्वेदे रूढ्य­प्र­ती­ते­रिति।
एत­त्सि­द्ध्य­र्थ­माह –
लोकाधीनेति स्यान्तेन ।
रूढिवादी तु प्रसि­द्ध­गु­ण­वृ­त्ति­वै­षम्यं शङ्कते –
नन्विति ।
व्यतिरेकेण निर्देशादिति ।
अन्तर्हृदयआकाश इति ब्रह्म­ण्या­का­श­श­ब्द­प्र­यो­गा­दे­वा­का­श­गु­ण­यो­गस्य लक्ष्यस्य सिद्धौ लभ्यायामपि तद्व्यतिरेकेण यावान्वा अयमाकाशः तावान् इत्या­का­श­सा­दृ­श्यस्य निर्देशात् लक्षणा न युक्तेत्यर्थः।
यत्र लक्षणया शब्दः प्रयुज्यते तत्र लक्ष्यांशस्य पृथक् न निर्देश इत्यत्र दृष्टान्तमाह -
न हि भवतीति ।
गङ्गापदेन गङ्गायाः कूलमित्यर्थे विवक्षिते गङ्गापदमेव प्रयुज्यते, न तु गङ्गाया इति लक्ष्यसंबन्धं पृथगुक्त्वा गङ्गेति प्रयुज्यत इत्यर्थः।
परिहरति –
तत्किमिति ।
आग्नेयादौ पौर्ण­मा­स्य­मा­वा­स्या­श­ब्द­प्र­यो­गा­देव लक्ष्यस्य कालसंबन्धस्य सिद्धावपि तद्व्यतिरेकेण पौर्ण­मा­स्या­म­मा­वा­स्या­या­मिति च काल­सं­ब­न्ध­नि­र्दे­शात् उक्त­न्या­योऽ­ने­कान्त इत्यर्थः।
दृष्टा­न्ताऽ­सि­द्धि­मा­श­ङ्क्याह –
न चेति ।
मुख्यत्वे ह्यमा­वा­स्या­या­म­प­राह्णे पिण्डपितृयज्ञेन चरन्तीत्यत्रापि अमा­वा­स्या­श­ब्दस्य कर्मणि रूढिः स्यात्, तथा च पितृयज्ञः स्वका­ल­त्वा­द­नङ्गं स्यात् (जै.सू.अ.४.पा.सू.१९) इत्यधिकरणबाध इति।
अपरं रूढि­का­र­ण­मा­श­ङ्कते –
यच्चेति ।
अन्यत्र मुख्यत्वेन निश्चितस्य शब्द­स्या­न्य­त्रार्थे प्रयो­गेऽ­र्थ­श्चे­द­न्य­तोऽ­धि­ग­त­स्तर्हि मुख्यत्वं, न चेदमुख्यत्त्वं; गङ्गायां घोष इत्यत्र हि गङ्गापदादेव गङ्गा­सं­ब­न्धि­ती­र­म­नु­प­पत्त्या श्रोता जानाति ततस्तत्र लक्षणा, आकाशशब्दस्तु यदेष आकाश आनन्दो न स्यादित्यत्र सत्यं ज्ञानमनन्तमिति वाक्यनिश्चिते ब्रह्मणि प्रयुक्त इति वाचकः। तथा च दहरवाक्येऽपि ब्रह्मवाचक इत्यर्थः।
शब्दा­द­न­धि­ग­ता­र्थ­प्र­तीतौ लक्ष­णे­त्ये­त­द्व्य­भि­चा­र­यति –
सोमेनेति ।
सोमशब्दो हि लता­च­न्द्र­म­सो­र्मुख्यः, एत­द्वा­क्या­र्था­न्व­यि­त्वेन सोम­प­दा­द­न्य­तोऽ­न­धि­ग­तायां लतायामत्र वाक्ये प्रयुक्त इत्यर्थः।
अन्यतो निश्चिते शब्दस्य मुख्य­त्व­मि­त्ये­त­द­ने­का­न्त­यति –
न चेति ।
अत्र हि समु­दा­या­नु­वा­दि­वा­क्य­द्वये पौर्ण­मा­स्या­मा­वा­स्या­शब्दौ लाक्षणिकौ न भवतः, यागषट्कश्च प्रकृ­ता­दा­ग्ने­या­दि­वा­क्याद् ज्ञात इति ज्ञाता­र्थ­वि­ष­यत्वं मुख्य­त्वेऽ­ने­का­न्त­मि­त्यर्थः॥१७॥१८॥ वरिवसितुं शुश्रूषितुम्। अपनिनीषुः अप­ने­तु­मि­च्छ­न्प्र­जा­प­ति­रु­वा­चे­त्य­न्वयः। यथा प्राक्प्र­ति­बि­म्बा­त्म­त्वेन दृष्टनखलोम्नां छेद­ना­दू­र्ध्व­म­भा­वा­द­ना­त्म­त्वम्, एवं सर्वस्य प्रतिबिम्बस्य विवक्षितम्। साधु अलं­का­रा­द्यु­प­न्या­सेन।
एष आत्मेति ।
देहा­द्या­ग­मा­पा­य­सा­क्षी­त्यर्थः।
देहा­नु­पा­ति­त्वा­च्छा­याया इति ।
यथा खलु नीला­नी­ल­प­ट­यो­रा­दर्शे दृश्यमानयोः यन्नीलं तन्म­हा­र्ह­मि­त्युक्ते न च्छायाया महार्हत्वमेवं छाया­का­र­दे­ह­स्यै­वा­त्म­त्व­मिति विरोचनो मेने। इन्द्रस्तु अल्पपापत्वात् श्रद्दधानतया न प्रति­बि­म्ब­मे­वा­त्मेति प्रतिपेदे। एवंकारम् एवं कृत्वा। न निर्ववार - निवृत्तिं सुखं नानुबभूव। अक्षिणि अक्ष्युपलक्षिते जाग्रति। अभिप्रतीतः अभिप्रतीतिवान्।
चतुर्थपर्यायं प्रतीकत आदत्ते -
एष संप्रसाद इति ।
वाग्बु­द्धि­श­री­राणां कार्यभूतो य आरम्भः क्रिया ततः संभवो यस्य पाप्मा­दे­र­पू­र्वस्य स तथा। जीववादी प्रष्टव्यः - किमीश्वरमेव मन्यते, उत तस्य जीव­प्र­त्व­गा­त्म­त्वम् अथ­वाऽ­भ्यु­पे­त्ये­श्व­रस्य जीव­प्र­त्य­क्त्वम् अत्र वाक्ये ईश्वरप्रतिपादनं न मन्यत इति।
नाद्य इत्याह –
पौर्वापर्येति ।
न द्वितीय इत्याह –
तदतिरिक्तं चेति ।
रज्ज्वां भुज­ङ्ग­व­ज्ज­ग­त्प­र­मा­त्मनि विकल्पितं जीवोऽपि द्विती­य­च­न्द्र­व­द्भे­दे­ना­ध्यस्त इत्याह –
तथा चेति ।
तृतीयं प्रत्याह –
एवं च ब्रह्मैवेति ।
श्रुत्या प्रजापतिवाक्ये उक्तमित्यर्थः।
भाष्येऽ­न्या­सं­स­र्गिण आत्म­नोऽ­भि­व्य­क्ति­स­म्भवे अन्य­सं­स­र्गि­स्फ­टि­क­दृ­ष्टा­न्त­व­र्ण­न­म­यु­क्त­मि­त्या­श­ङ्क्याह –
यद्यपि स्फटिकादय इति ।
जपाकुसुमादिना संयुक्तं भूतलं तेन निकट एव संयोगो येषां स्फटिकादीनां ते संयुक्तसंयोगाः। तद्रूपत्वम् तदात्मत्वम्। तथा च व्यवधानेन संयुक्ता इत्यर्थः।
प्राग्वि­वे­क­वि­ज्ञा­नो­त्प­त्ते­रिति भाष्ये वेद­ना­श­ब्दा­र्थ­माह –
वेदना इति ।
अना­वृ­त­स्व­रू­प­स्फु­र­ण­मु­प­स­म्प­त्ति­श­ब्दा­र्थ­माह –
तथा चेति ।
ननु स्वरू­पा­भि­नि­ष्प­त्ति­र्वृत्तिः, तयाऽपसारिते आवरणे पश्चा­ज्ज्यो­ति­रु­प­सं­पत्तिः, तत्कथं व्युत्क्रमेण निर्देशोऽत आह –
अत्र चेति ।
यदा च विवे­क­सा­क्षा­त्कार इति ।
पूर्वं परोक्षज्ञानं शरी­रा­त्स­मु­त्था­न­मु­क्तम्। इदानीं तस्य फल­प­र्य­न्त­त्वा­त्त­त्फलं साक्षात्कारोऽपि शरीरात् समु­त्था­न­त्वे­ना­नू­दोत इति न विरोधः।
नापि प्रति­च्छा­या­त्माऽ­यम् इति भाष्यं प्रतिबिम्बस्य अक्षिपुरुषत्वेन निर्दे­श­वा­र­क­म­प्रा­स­ङ्गि­क­मिव प्रतिभाति, तत्पू­र्व­प­क्षि­त­जी­व­दृ­ष्टा­न्त­नि­रा­क­र­ण­प­र­त्वेन प्रकृते सङ्गमयति –
स्यादेतदिति ।
अक्षिपर्याये छायात्मा निर्दिष्टः, स्वप्न­सु­षु­प्ति­प­र्या­य­यो­र्जी­वोऽतः छाया­त्म­दृ­ष्टा­न्तेन जीवशङ्का।
अहेत्यत्र बिन्दु­म­ध्या­हृत्य व्याचष्टे –
अहमात्मानमिति ।
अह­मि­ति­श­ब्द­गो­च­र­मि­त्यर्थः। यथा­श्रु­त­पा­ठेऽ­हे­त्य­व­धा­र­णार्थो निपातः। नैव जानातीत्यर्थः। सुप्ते चैतन्यस्य स्फुर­णा­त्स­र्व­थाऽऽ­त्म­भा­न­नि­षेधो न युक्तोऽत औपा­धि­क­स्फू­र्ति­नि­षे­धाय निपा­त­स्या­व­धा­र­णा­र्थत्वं जानतैव बिन्दु­र­ध्या­हृतः।
अविनाशित्वादिति हेतोः साध्या­वि­शे­ष­मा­श­ङ्क्याह –
अनेनेति ।
असिद्धस्यापि हेतोः सिद्धिनिर्देशेन सिद्धिहेतुभूतं प्रमाणं सूचितमित्यर्थः।
तदेव प्रमाणं दर्शयति –
य एवाहमिति ।
आचार्यदेशीयाः आचार्यकल्पाः। न तु सम्य­गा­चा­र्या­स्त­न्म­त­मि­त्यर्थः।
एक­दे­शि­प्र­त्य­व­स्थानं जीवो दहर इति पूर्व­प­क्षेऽ­न्त­र्भा­व­यति -
यदीति ।
उक्तं हि पूर्वपक्षिणा छायावद्वा आरोपेण स्वत एव वा देहा­दि­वि­यो­ग­म­पेक्ष्य अमृताभयत्वादि जीवस्यैवेति एतं त्वेव त इत्या­क्षि­स्थ­पु­रु­षा­नु­क­र्ष­ण­म­ङ्गी­कृत्य, इदानीं तु परा­म­र्श­स्या­न्य­वि­ष­य­त्वेन स एवैकदेशी भूत्वा प्रत्यवतिष्ठत इत्यर्थः। नन्वेवं परमात्मा चेदिह निर्दिष्टः स एवेह दहरः किं न स्यात्। अस्तु जीवोऽपि किं न भवेत्? अत एव अविनिगमेन पूर्वपक्ष इत्य­ती­ता­न्त­र­सू­त्रो­प­क्रमे वर्णितं तदिहापि सूत्रेऽ­नु­सं­धे­यम्। नन्वेतं व्याख्या­स्या­मीति परमात्मानं प्रतिज्ञाय कथं स्वप्न­सु­षु­प्ति­प­र्या­य­यो­र्जीवो व्याख्यायते। उच्यते – सूक्ष्मे चतुर्थपर्याये वक्ष्यमाणे परात्मनि। धीनिवेशाय जीव­स्या­प्यु­पा­स्ति­रिह वर्ण्यते॥ अत एव व्याख्या­स्या­मीति भविष्यताऽवगमः।
ननु परमात्मपरामर्शे जीवः परामृष्ट एव तदभेदादत आह –
न खल्विति ।
दृष्टे संभवति अदृ­ष्ट­क­ल्प­ना­नु­प­पत्तेः जीवानुवादेन ब्रह्मता बोध्यते नोपास्तिविधिः। इन्द्र­ब्र­ह्म­च­र्या­व­सा­ना­न­न्त­र्यार्था भविष्योक्तिरिति परिहाराशयः। अस्य चौपाधिको जीवः, अवच्छिन्ने च नाप­ह­त­पा­प्म­त्वा­दि­सं­भव इति मतम्।
पार­मा­र्थि­क­जी­व­ब्र­ह्म­वि­भा­ग­म­त­माह –
मतान्तरमिति ।
शारीरकार्थमाह –
तथाहीति ।
सूत्रकोपं परिहरति –
न च वस्तुसत इति ।
औपाधिकभेदेन गुणसंकर इत्यर्थः।
कर्मविध्युपरोधं वारयति –
अवि­द्या­क­ल्पि­त­मिति ।
अविद्याकल्पितं कर्तृ­त्वा­द्या­श्रित्य कर्मविधयः प्रवृत्ता इत्यत्र हेतुमाह –
अविद्यावदिति ।
इत्यु­क्त­म­ध्या­स­भाष्ये॥१९॥ अवि­नि­ग­म­प­रि­हा­रार्थं जीव­प­रा­म­र्श­स्या­न्य­था­सि­द्धि­प्र­ति­पा­दकं सूत्रमवतार्य व्याचष्टे –
नन्वि­त्या­दिना॥२०॥२१॥
स स वा अयमिति ।
स वै ईश्व­र­स्त­त्त्व­तोऽयं जीव एव औपाधिकस्तु भेद इत्याह –
पुरुष इति ।
पुरु­ष­श­ब्दा­र्थ­माह –
पुरिशय इति ।
पूः उपाधिः। किमेकस्यामेव पुरि शेते, न; अपि तु सर्वासु पूर्षु। तमाचार्यं शिष्याश्चेद् ब्रूयुः।
तद्यत्रेति ।
तत्तत्र अव­स्था­द्व­य­प्रा­प­क­क­र्मो­प­रमे सति यत्र यस्मिन्काले। एतदिति क्रियाविशेषणम्। एतत्स्वप्नम्। सुप्तः स्वापस्य द्विप्र­का­र­त्वात्।
स्वप्न­व्या­वृ­त्त्य­र्थ­माह –
समस्त इति ।
उपसंहृतसर्वकरण इत्यर्थः। अत एव विषयासंपर्कात् संप्रसन्नः। स्वप्ने महीयमानः पूज्यमानः चरति पश्यति भोगान्॥ इति पञ्चमं दहराधिकरणम्॥

अनुकृतेस्तस्य च॥२२॥ सप्तम्याः सति वाक्ये च साधा­र­ण्या­त्सं­शयः। पूर्वम् एतं त्वेत त इत्येतच्छब्दस्य प्रकृतार्थताद् दहरस्य जीवता निरासि, तदसाधुः; तत्रेत्यादौ सर्वनाम्नः प्रकृ­ता­र्थ­त्वा­नि­य­मा­दिति शङ्का­नि­रा­सा­त्सं­गतिः। तत्रेति विष­य­स­प्त­मी­स्वी­कारे तद्भासयतीति णिज­ध्या­हा­र­प्र­स­ङ्गा­त्स­ति­स­प्त­मी­मा­दाय पूर्वपक्षमाह –
अभानमिति ।
तस्मा­त्ते­जः­प्र­त्य­भि­भा­व­क­त्व­लि­ङ्गात् अनु­भा­न­ल­क्ष­णा­नु­का­राच्च तत्रशब्देन तेजोरूपं पदार्थान्तरं गम्यत इति द्विती­या­र्ध­स्यार्थः।
प्रथमार्थं व्याचष्टे –
बलीयसेति ।
विमतं, तेजः, तदभिभावकत्वात्, सूर्य­व­दि­त्य­नु­मा­न­म­सूचि।
तस्या­नै­का­न्ति­क­त्व­मा­श­ङ्क्याह –
येऽपीति ।
भासकत्वे सति तेजोऽभिभावकत्वं हेतुरित्यर्थः।
नन्वि­न्द्रि­या­ति­रि­क्तस्य तेजसः कथं तेजःप्रकाशत्वमत आह –
श्रूयते चेति ।
अस्य तेजसोऽयं विशेषः श्रुतित आश्रित इत्यर्थः। अभि­भ­वा­नु­का­र­यो­र­ते­जसि ब्रह्मणि श्रुति­व­शा­दा­श्र­यणे तु गौरवमिति पूर्ववाद्याशयः।
ननु तस्य भासेति सर्वज्ञत्वे ब्रह्मलिङ्गे कथं तेजश्शङ्का, अत आह –
सर्वशब्द इति ।
द्वितीयार्धं व्याख्याति –
न चेति ।
ननु मन्त्र­स्थ­त­च्छब्दैः प्रकृतं ब्रह्म परामृश्यतेऽत आह –
तत्रेति ।
उप­रि­ष्टा­त्प्र­द­र्श­नीयं वक्ष्यमाणमेव अवम्रक्ष्यन्ति तस्य परामर्शं करिष्यन्ति। रागवाचिनः शब्दात्तेनेति तृती­य­स­म­र्था­द्र­क्तम् इत्यर्थेऽण् प्रत्ययो भवति। यथा काषायः पट इति। तस्येति षष्ठी­स­म­र्था­द­प­त्येऽण् प्रत्ययो भवति यथौपगव इति। अनयोः सूत्र­यो­स्त­च्छब्दौ न प्रकृतार्थौ; तददर्शनात्।
ब्रह्मण्येवेति ।
यदनुभानं मन्त्रे तद् ब्रह्मण्येव लिङ्गम्। तस्य भारूप इत्यादिश्रुतौ चैत­न्य­प्र­का­श­त्व­सिद्धेः तद­ध्य­स्त­सू­र्या­दे­स्त­द­नु­भा­न­सं­भ­वात्। न तेजस्येवंभूते तस्या­लौ­कि­क­त्वा­द­नि­श्चि­त­त्वाच्च वेदे।
अपि च तेजःपक्षे उपा­स्ति­क­ल्प­ना­द­दृ­ष्टार्थं वाक्यं स्याद्, ब्रह्मपक्षे तु प्रस्तुतस्य ज्योतिषः समर्पणात् दृष्टा­र्थ­त्व­मि­त्याह –
तस्मादिति ।
विरोधमाहेति ।
अनपेक्षाद्वारकं भास्य­भा­स­क­त्व­वि­रो­ध­मा­हे­त्यर्थः।
किं भानेऽनपेक्षा तेजसः, उत भासकत्वे इति विकल्प्य क्रमेण दूषयित्वा समाधत्ते –
नहीति ।
भासमानतेजसा न तेजो भातीति नियमाद्विरोध इत्यर्थः। आदि­त्या­दे­र्ब्र­ह्मा­नु­का­रा­भावः किं स्वतो विसदृशत्वात्, उत तदीयक्रियया समा­न­क्रि­या­ना­श्र­य­त्वात्।
आद्यमनूद्य प्रत्याह –
यदीति ।
धूलिपवनयोः अयोदहनयोश्च व्यभिचार इत्यर्थः।
द्वितीयमनूद्य दूषयति –
अथेति ।
ब्रह्मणः सूर्यादेश्च क्रिया­सा­म्या­भावो हेतुना साध्यः, तत्र यदि स्वरू­प­सा­म्या­भावो हेतु­त्वे­नो­च्येत, तदा यत्र स्वरू­प­सा­म्या­भा­व­स्तत्र क्रिया­सा­म्या­भा­वोऽ­सिद्ध इत्यर्थः।
नन्वयसि न दहनक्रिया कथं वह्नि­तु­ल्या­क्रि­य­त्व­मत आह –
वह्नीति ।
एकैव दहनक्रिया वह्नौ स्वतः, सैव तत्संश्लेषादयसि समारोपिता अतः क्रिया­सा­म्य­मि­त्यर्थः।
ज्योतिषां ज्योतिरिति भाष्यो­दा­हृ­त­श्रुतिं व्याचष्टे –
ज्योतिषामिति ।
तेजोन्तरेण तु सूर्यादितेजो विभा­ती­त्य­प्र­सि­द्ध­मिति भाष्ये इन्द्रि­य­त्व­म­ना­प­न्ने­नेति विशेषणीयम्, इन्द्रियेण सूर्या­दि­भा­ना­दि­त्याह –
अनि­न्द्रि­य­भा­व­मिति ।
अथवा न सूर्यादीनामिति भाष्यं व्याचष्टे –
सर्वशब्दस्य हीति ।
अलौकिके तेजोधातौ स्वीकृते सति भास्य­वा­चि­स­र्व­श­ब्दस्य वृत्ती रूप­रू­पि­पै­का­र्थ­स­म­वा­यिषु संकु­चे­द­लौ­कि­क­ते­जसो रूपादिषु मध्ये रूप­मा­त्र­प्र­का­श­क­त्वा­दि­त्यर्थः।
तेन रक्तमिति ।
प्रकृतेः परो यः प्रत्ययः तस्मिन् योऽर्थविशेषः तस्मिन् अन्वाख्यायमाने प्रत्य­या­ध­स्त­न­प्र­कृ­त्य­र्थ­स्यास्ति प्रस्तु­त­त्व­मि­त्यर्थः।
एव­म­नु­का­र­लि­ङ्ग­ब्र­ह्मणि साम्य­र्थ्य­मा­न­प्र­ति­षेधं समर्थयते –
न तत्रेति ।
णिज­ध्या­हा­र­प्र­सङ्गं परिहरति –
तेनेति ।
तत्रेति ।
विषये निर्दिष्टे सूर्यादेर्भानं प्रकाशकतयैव प्राप्नोति, ततः प्रकाशकतयेति नाध्या­हा­रा­भि­प्रा­य­मपि तु व्याख्या। अगृह्य इति प्रतिज्ञाय न हि गृह्यत इति हिशब्देन अग्रा­ह्य­त्व­हे­तु­सा­धकं दृग्रपत्वं श्रुत्या सूचितम्।
न तत्रेति ।
न तस्मिन् ब्रह्मणि भास्ये सूर्यादयो भासकत्वेन न भान्ति। कुतोऽ­य­म­स्म­द्गो­च­रोऽ­र्ग्नि­र्भाति, किं बहुना? सर्वं जगत्तमेव परमेश्वरं स्वतो भान्तमनुभाति।
किं ब्रह्म­भा­ना­द­न्य­ज्ज­ड­भानं यथा दीप­प्र­का­शा­द­न्यद् घटज्ञानं नेत्याह -
तस्य भासेति ।
यथा­ग्नि­सं­श्ले­षा­दयो दहतीत्युच्यते, एव­म­धि­ष्ठा­न­ब्र­ह्म­भा­सैव जगद्विभाति, नान्य­ज्ज­ग­द्भा­न­मि­त्यर्थः॥१३॥१४॥
इति षष्ठ­म­नु­कृ­त्य­धि­क­र­णम्॥

शब्दादेव प्रमितः॥२४॥ अत्र जीवपरयोः समानधर्मादर्शने अपि श्रुत्यो­र्वि­प्र­ति­पत्तिः संशयबीजमित्याह –
नाञ्जसेति ।
परि­मा­ण­वि­शे­ष­व­न्मा­त्र­वा­च्य­ङ्गु­ष्ठ­मा­त्र­शब्दः तद्विशेषे श्रुतिरेव। यद्यत्र परमात्मा प्रतिपाद्यः तर्हि परिमाणविशेषो न मुख्यः स्यात्, जीवपक्षे ईशानश्रुतिर्न मुख्या; अत एकत्र गौणता, सा च क्वेत्य­ज्ञा­ना­त्सं­शय इत्यर्थः। प्राक् सति विषये च साधारणसप्तमी न तद्भासयत इति विष­य­त्व­नि­षे­ध­क­स्मृत्या विषये व्यवस्थापिता, तद्वत्परिमाणमपि जैवमैश्वरं वेति संश­येऽ­ङ्गु­ष्ठ­मात्रं निश्चकर्षेति निर्णी­ता­र्थ­स्मृत्या जैवमिति प्रत्य­व­स्था­ना­त्सं­गतिः।
पूर्वपक्षमाह –
प्रथमेति ।
दह­र­वि­चा­रे­णा­पु­न­रु­क्ति­माह –
अपि चेति ।
शङ्कानिरासः समुच्चयार्थः। पर­मा­त्म­नोऽ­ल्पत्वे हृत्पु­ण्ड­री­क­स्था­नत्वं कारणं युक्तं, स्थानविशेषस्य दहरं पुण्डरीकं वेश्मेति निर्देशादिति योजना। उपाधिं संकीर्त्य, अल्पत्वोक्तेः औपाधिकं तत्स्व­त­स्त्व­नन्तः पर इति सिद्ध्य­त्वि­त्यर्थः। स्वो यो भवति स स्वभविता तद­नि­र्ण­या­त्स्व­भा­वा­नि­र्णयः। जीव­प­र­यो­र्नि­रं­श­त्वा­न्म­ध्या­भावः। पूर्वपक्षे तु मध्ये उदासीने स्वरूप इति मध्यात्मशब्दौ नेयौ। समुष्टिः सकनिष्ठिकः करः, अरत्निः।
एतद्वै तदिति ।
येयं प्रेत इति जीवस्यापि प्रकृ­त­त्वा­त्त­च्छ­ब्दो­प­प­त्ति­रपि द्रष्टव्या। यद­वा­द्य­ङ्गु­ष्ठ­वाक्ये जीवोपक्रमादस्य तत्परत्वमिति।
तन्न; ततोऽपि प्राक् परस्य प्रस्तु­त­त्वा­त्त­त्सा­पे­क्ष­त्वा­च्चास्य वाक्यस्येत्याह –
प्रश्नेति ।
अङ्गु­ष्ठ­वा­क्य­स्या­न्यत्र धर्मादिति प्रस्तु­त­प­र­मा­त्म­प्र­श्नो­त्त­र­त्वा­त्प्रा­थ­म्य­म­सि­द्ध­मि­त्यर्थः।
ब्रह्मणः कथं तर्हि परि­मा­ण­नि­र्दे­शोऽत आह –
जीवस्येति ।
उप­हि­त­प­रि­मि­त­जी­वा­नु­वा­देन विरुद्धांशमपहाय तस्ये­श्व­रै­क्य­परं वाक्य­मि­त्यर्थः॥२४॥ ब्रह्मणः परि­मा­णो­प­पा­द­न­म­फ­ल­मु­पा­धि­प­रि­मि­त­जी­वस्य ब्रह्म­त्व­बो­धि­त्वा­द्वा­क्य­स्ये­त्या­श­ङ्क्याह –
जीवाभिप्रायमिति ।
जीव­भा­वा­प­न्न­ब्र­ह्मा­भि­प्रा­य­मि­त्यर्थः।
जीव­नि­र्दे­श­वा­र­ण­मिह वाक्ये न क्रियते, तथा सत्य­नु­वा­दा­भा­व­प्र­स­ङ्गा­दि­त्याह –
न जीवपरमिति ।
मनुष्यग्रहणं शूद्रादौ मातिप्रसञ्जीति संकोचयति –
त्रैवर्णिकानिति ।
अन्तःसंज्ञानां स्थावराणां मोक्षमिच्छतां चान­र्थि­त्वा­त्क­र्म­ण्य­न­धि­कारः। काम्यग्रहणेन शुद्ध्यर्थं नित्येषु कस्य­चि­न्मु­मु­क्षो­र­स्त्य­धि­कार इति सूचयति। तिरश्चां वेदा­र्थ­ज्ञा­ना­दि­सा­म­ग्र्य­भा­वे­ना­श­क्त­त्वम्। देवानां स्वदेवत्ये कर्मणि आत्मोद्देशेन स्वकीयस्य त्यागा­यो­गा­द­शक्तिः। ऋषीणाम् आर्षेयवरणे ऋष्य­न्त­रा­भा­वा­द­सा­म­र्थ्यम्। षष्ठे हि फलार्थे कर्मणि सुखकामस्य (जै.अ.६.पा.१.सू.४ - ५।२५ - ३८) तिर्य­गा­दे­र­प्य­धि­कारः स्वर्ग­का­म­श्रु­ते­र­वि­शे­षा­च्चा­तु­र्व­र्ण्य­म­धि­क­रोति शास्त्रमिति प्राप्ते सिद्धान्तितम्। त्रया­णा­मे­वा­धि­कारः। वसन्ते ब्राह्मणो ऽग्नीरादधीत ग्रीष्मे राजन्यः शरदि वैश्य इति तेषा­मे­वा­ग्नि­सं­ब­न्ध­श्र­व­णा­दिति।
सिद्धा­न्ति­ना­प्य­ङ्गु­ष्ठ­मा­त्र­सं­सा­र्य­नु­वा­दा­भ्यु­प­ग­मा­त्सं­सा­र्ये­वा­य­म­ङ्गु­ष्ठ­मात्र इति भाष्ये इष्ट­प्र­स­ङ्ग­ता­मा­श­ङ्क्याह –
यद्येतदिति ।
अङ्गष्ठमात्र इति ।
धैर्येण अप्रमादेन। प्रवृहेत् उद्युच्छेत्, पृथक् कुर्यात् मुञ्ज­न्तः­स्थे­षी­का­मिव। तं च विवेचितं शुक्रं शुद्धममृतं ब्रह्म विद्यात्॥२५॥
इति सप्तमं प्रमिताधिकरणम्॥

तदुपर्यपि बादरायणः संभवात्॥२६॥ अधिकारचिन्तेयं यद्यपि न देवा­दि­प्र­वृ­त्यर्था, तथापि क्रम­मु­क्ति­फ­लो­पा­स्तिषु भोगद्वारा मोक्ष­का­म­म­नु­ष्य­प्र­वृ­त्यर्था इन्द्रियार्थेति कामा­दे­रु­प­ल­क्ष­णम्। ननु स्वयं प्रतिभानावसरे गुरु­मु­खा­द्वे­द­ग्र­ह­णा­भा­वा­द­पु­रु­षा­र्थत्वं ज्ञानस्यात आह –
न खल्विति ।
स्मर्यमाणः फल­व­द्ब्र­ह्मा­व­बो­ध­हे­तु­रि­त्य­नु­षङ्गः॥२६॥ चतु­र्थ्य­न्त­श­ब्द­प्र­ती­त­मात्रं शब्दोपहितं तादृगर्थनियमितः शब्दो वा देवता। स्वर्गा­दि­सा­ध­नत्वं यागादीनां लोके अदृ­ष्ट­त्वा­द्वे­देऽ­प्य­दृ­ष्ट­मिति प्रसज्येत तन्मा भूदित्यर्थः।
अद­र्श­ना­द्वा­धा­द्वेति विकल्पयोः आद्यं निरस्य, द्वितीयं शङ्कते -
मनुष्येति ।
देवादयो न शरीरिणः, माता­पि­तृ­र­हि­त­त्वाद् घटवत्।
विपक्षे दण्डमाह –
संभवे चेति ।
यूका­दा­व­ने­का­न्त­त्व­माह –
हन्तेति ।
ननु यूकादेः स्वेदाद्यस्ति देहहेतुः, न तु देवानां; तथा चेच्छामात्रं हेतुर्वाच्यः, स चायुक्त इत्याह –
इच्छामात्रेति ।
भूता­ना­म­धि­ष्ठा­त्र­भा­वा­द­ना­र­म्भ­क­त्व­मा­श­ङ्क्याह –
भूतवशिनां हीति ।
पर्व­ता­दि­व्य­व­हि­तानां दूरस्थत्वेन विप्रकृष्टानां च भूतानामदर्शनात् देवा­दी­ना­म­न­धि­ष्ठा­तृ­त्व­मिति न वाच्यम्; काचाख्यधातुना मेघसमूहेन च च्छन्नस्य दूरस्थस्यापि दर्श­ना­दि­त्यर्थः।
ननु स्वच्छत्वात् काचा­दी­ना­म­स्म­दा­दि­दृ­ग­व्य­व­धा­य­कत्वं, शैलभूम्यादयस्तु देवादीनां व्यवधायका इत्याशङ्क्य प्रभा­व­व­शा­न्ने­त्याह –
असक्ताश्चेति ।
अप्रतिबद्धा इत्यर्थः। प्रभवताम् ईश्वराणाम्। कति देवा याज्ञ­व­ल्क्ये­त्ये­ता­वान् प्रश्नः शाकल्यस्य।
स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शते­त्या­द्यु­त्तरे एवकारदर्शनात् प्रश्नेऽपि निविदि कतीति विवक्षितमित्याह –
वैश्वदेवेति ।
श्रुति­ग­त­वै­श्व­दे­व­प­दस्य व्याख्या –
शस्त्रस्येति ।
त्री त्रीणि सहस्राणि । निवेद्यते ज्ञाप्यते संख्याऽनयेति निवित्।
एतावन्त इति ।
त्र्यधि­क­त्रि­श­तानि त्र्यधि­क­त्रि­स­ह­स्राणि चेत्यर्थः। महिमानो विस्ताराः।
इन्द्रियेषु प्राणशब्दस्य प्रवृत्तौ निमित्तमाह -
तद्वृ­त्ति­त्वा­दिति ।
तस्मा­त्प्रा­णा­द्वृ­त्ति­र्व­र्तनं येषां ते तथा।
श्रुतौ त्रयस्त्रिंशतां पूरणौ इन्द्रप्रजापती उक्तौ, तौ च स्तन­यि­त्नु­य­ज्ञ­त्वेन व्याख्यातौ, पुनः कतमः स्तनयित्नुः कतमो यज्ञ इति पृष्ट्वा यथाक्रममशनिरिति पशव इति च प्रयुक्तं तदुपपादयति –
अशनिरिन्द्र इत्यादिना ।
सा ह्यश­नि­रि­न्द्रस्य परमेशना परमैश्वर्यम्। अरूपं यज्ञं द्रव्यतया रूपयन्तो यज्ञस्य रूपं पशवस्ते प्रजा­प­ति­रि­त्यर्थः।
षडा­द्य­न्त­र्भा­व­क्र­मे­णेति भाष्यं व्याचष्टे –
एत एवेति ।
पवते पुनाति जगत्। अध्यर्धशब्द एकस्मिन्नपि यौगिकः।
स ब्रह्म त्यद् इत्याचक्षत इति वाक्यं व्याचष्टे -
स एवेति ।
प्राप्तिः अङ्गुल्यग्रेण चन्द्रा­दि­स्पर्शः। प्राका­म्य­मि­च्छा­न­भि­घातः, यथा भूमावुदक इवोन्मज्जनादि। ईशित्वं भूत­भौ­ति­का­ना­मु­त्प­त्ति­ल­या­दा­वै­श्व­र्यम्। वशित्वं तेषां नियन्तृत्वम्। यत्र कामावसायिता नाम संकल्पादेव सकलविषयलाभः। अनेकेषां शरीराणां प्राप्तिरिति प्रथमा व्याख्या।
द्वितीयां विविनक्ति –
अनेकत्रेति ॥२७॥
गोत्वादिवदिति ।
प्रत्यभिज्ञा हि पूर्वावमर्शः, स हि न वस्वादावदृष्टे संभवी, एव एवोपाध्यभावः। मन्त्रादिसिद्धे ‘वस्वादावसौ वसुरसावपि वसुरिति परामर्शसंभवः। त्रिदि­व­त्वा­दि­जा­त्य­व­च्छि­न्ने­श्व­र्येषु पाक­त्वा­व­च्छि­न्न­पा­क­यो­गे­ष्विव औपाधिकत्वेऽपि शक्यः सङ्गतिग्रह इत्युत्तरार्थः। आक्षेपसमाधाने निगदव्याख्याते इत्यर्थः।
प्रमा­णा­न्त­रा­पे­क्ष­वा­क्य­त्वा­दिति ।
प्रमा­णा­न्त­रा­पे­क्ष­त्व­मेव हेतुः, शब्दं प्रति संदेहात्प्रश्ने स्फोट इति पूर्वपक्षो वर्णत्वेन सिद्धान्त इति न भ्रमितव्यम्। स्फोटवादिनाऽपि नित्यशब्दात् देवा­द्यु­त्प­त्त्य­भ्यु­प­ग­मेन सूत्र­व्या­ख्या­नात्। तस्मा­द्व­र्णा­त्स्फो­टाच्च देवा­द्यु­त्प­त्त्या­क्षेपः क्रियते; वर्णा­ना­म­नि­त्य­त्वा­त्स्फो­टस्य च अप्रा­मा­णि­क­त्वा­दिति।
स्फोट­प­क्ष­स्त्वे­क­दे­शिन इत्यभिप्रेत्याह –
आक्षिपतीति ।
नन्व­नि­त्य­त्वेऽपि वर्णानां महा­भू­त­व­द्दे­वा­दि­हे­तु­ते­त्या­श­ङ्क्याह –
अयमिति ।
यथाऽऽ­ग्ने­या­दीनां फल­क­र­ण­त्वा­न्य­था­नु­प­प­त्त्य­व­से­य­म­पू­र्वम्, एवं वर्णानाम् अर्थ­धी­हे­तु­त्वा­न्य­था­नु­प­प­त्ति­सिद्धः संस्कारः, स चार्थापत्तेः प्राग­ज्ञा­त­त्वा­द­पू­र्व­मुत वर्णोपलम्भजो वर्णे स्मृतिकर इति विकल्प्य क्रमेण दूषयति –
न तावदित्यादिना ।
अर्थ­धी­प्र­स­वा­व­से­य­सं­स्कारः किमज्ञातः शब्दसहकारी, उत ज्ञातः।
नाद्य इत्याह –
न हीति ।
स्वरू­पे­णा­वि­दि­तस्य अर्थ­धी­हे­तु­त्व­नि­षेधो दृष्टान्तार्थः। यथा स्वरूपेण विदि­त­स्या­र्थ­बुद्ध्या हेतु­त्व­मे­व­म­ङ्ग­तोऽ­पी­त्यर्थः। अवि­दि­त­स­ङ्ग­ति­रिति हेत्वर्थः। शब्दः सहाङ्गेन ज्ञातोऽ­र्थ­धी­हेतुः संब­न्ध­ग्र­ह­ण­म­पेक्ष्य बोधकत्वाद् धूमवदित्यर्थः। इन्द्रियवदिति वैधर्म्योपमा। अबधिरेण गृहीतस्य चेत्यर्थः।
अपूर्वसंस्कारो यदा ज्ञातव्यः, तदाऽर्थधियः प्रागेव ज्ञेयः, कारणस्य तज्ज्ञानस्य कार्या­त्प्रा­ग्भा­व­नि­य­मात्, अथ जाता­या­म­र्थ­बुद्धौ तद­व­ग­म­स्त­दे­त­रे­त­रा­श्र­य­माह –
अर्थ­प्र­त्य­या­दिति ।
आग्नेयादीनां त्वना­र­ब्ध­फ­ला­ना­मेव वेदेन फलकरणभावावगमात् शक्य­म­र्था­पत्त्या अपूर्वावधारणं, वर्णानां तु नार्थधीहेतुत्वे मानमस्तीति भावः। भावनाख्यस्तु यः संस्कारः स आत्मनो वर्णस्य स्वस्यैव विषयस्य स्मृति­प्र­स­व­सा­म­र्थ्यम्। तथा चास्मा­द्व­र्ण­वि­षया स्मृतिरेव स्यात्, यदि पुनस्ततोऽर्थधीः स्यात्। तदा वक्तव्यं किं तदे­वा­र्थ­धी­ज­न­न­श­क्ति­रुत ततोऽ­र्थ­श­क्ति­रु­देति।
न द्वावपीत्याह –
न च तदेवेति ।
उभयत्र क्रमेण निदर्शनमाह –
न हीति ।
अपू­र्व­सं­स्का­र­पक्षे उक्तः परस्पराश्रयः स्फोटेऽ­प्यु­क्त­तु­ल्यम्, स्फोटे ज्ञातेऽ­र्थ­धी­स्त­तश्च स्फोट­धी­रि­त्यर्थः।
सत्ताया हेतु­त्वा­न्ने­त­रे­त­रा­श्रय इत्याशङ्क्याह –
सत्तेति ।
नानेति ।
नाना­व­र्णा­ति­रि­क्तै­क­प­दा­व­गतेः नाना­प­दा­ति­रि­क्तै­क­वा­क्या­व­ग­ते­श्चे­त्यर्थः। साहित्यम् एकत्वम्। नन्वज्ञातेषु वर्णेषु पद­वा­क्या­प्र­ती­तेर्न शब्दा­न्त­र­क­ल्प­ना­व­काशः। नैतत्; स्फोटस्य वर्णा­व्य­ङ्ग्य­तो­प­पत्तेः। स्यादेतत् - स किमे­कै­क­व­र्णा­त्स्फु­टति, किं वा मिलितेभ्यः। नाद्यः; एकवर्णादेव स्फोटव्यक्तौ तत एवा­र्थ­धी­सि­द्धे­रि­त­र­वै­य­र्थ्यात्।
न चरमः; वर्णसाहित्यस्य भवतैव व्यासेधाद् अत आह –
तं चेति ।
समु­दि­त­व्य­ञ्ज­क­त्व­म­न­भ्यु­पेतं प्रत्ये­क­प­क्षेऽपि न परवैयर्थ्यम्। यथा रत्नस्य प्रती­न्द्रि­य­स­न्नि­क­र्ष­म­भि­व्य­क्ता­वपि द्वाभ्यां तिसृभिः चतसृभिः पञ्चभिः षड्भिर्वा अभिव्यक्तिभिः जनि­त­सं­स्का­र­कृ­त­प­रि­पा­क­रू­प­स­ह­का­रि­सं­प­न्ना­न्तः­क­र­णेन जनिते चरमप्रत्यये विशदं चकास्ति रत्नतत्त्वं, न प्राक्षु प्रत्ययेषु, नापि तैर्विरहिते चरमचेतसि, एवं स्फोटः प्रत्येकं ध्वनि­भि­र्व्य­क्तोऽपि ध्वन्य­न्त­र­ज­नि­ता­भि­र­भि­व्य­क्ति­भिर्ये संस्कारा जायन्ते तत्त­त्प­रि­पा­क­व­न्म­नः­प­रि­णामे चरमे चकास्ति तदनन्तरं चार्थधीर्न प्रागित्यर्थः।
यदि प्राची­न­ध्व­नि­ज­न्या­भि­व्य­क्ति­ज­सं­स्का­र­स­हि­त­च­र­म­प्र­त्ययः स्फुट­स्फो­ट­द­र्शको हन्त तर्ह्यर्थोऽपि प्रत्येकं ध्वनि­भि­र्व्य­ज्यतां पूर्वा­र्थ­व्य­क्ति­सं­स्का­र­स­हि­त­मन्त्यं चेत­स्त­त्त्व­म­र्थस्य व्यनक्तु तत्राह –
न च पदप्रत्ययवदिति ।
अभिहितश्चेदर्थो नाव्यक्तः, संदिग्धस्तु नाभिहितः स्यात्, प्रत्यक्षे तु प्रतिसन्निकर्षं विश­दा­वि­श­द­नि­श्च­य­सं­भव इत्यर्थः।
स्फोटे प्रमाणं विकल्पयति –
एवं हीति ।
वर्णेषु वाच­क­त्वाऽ­नु­प­पत्तौ वाच­क­श­ब्द­प्र­सि­द्ध्य­न्य­था­नु­प­पत्तिः स्फोटे प्रमाणमुत प्रत्य­क्ष­मि­त्यर्थः।
वर्णेषु वाच­क­त्वा­नु­प­प­त्ति­मपि विकल्पयति –
द्विधेति ।
व्यस्तानाम् एकैकवर्णानां समस्तानां वा वाचकत्वमिति यत्प्रकारद्वयं तस्या­भा­वा­द्वे­त्यर्थः। प्रत्य­भि­ज्ञा­नस्य प्रमाणान्तरेण बाधा­नु­प­प­त्ते­रिति भाष्यं, तत्र बाध­क­प्र­मा­णा­भा­वा­देव बाधा­नु­प­प­त्ते­रि­त्यर्थः।
तत्र सामान्यतो दृष्ट­स्या­ति­प्र­स­ङ्गा­द­प्रा­मा­ण्य­म­भि­धाय वर्णभेदग्राहकं प्रत्यक्षं बाधकमाशङ्क्याह –
न चेदमिति ।
इदं प्रत्यभिज्ञानं गका­र­त्वा­दि­जा­ति­वि­षयं न गका­रा­दि­व्य­क्ति­वि­ष­य­मि­त्ये­तच्च न युक्त­मि­त्य­न्वयः।
तासां व्यक्तीनां प्रतिनरं भेदोपलम्भादिति शङ्काया एव हेतुस्तस्य च समर्थनम् –
अत एवेति ।
अयुक्तत्वे हेतुमाह –
यत इति ।
बहुषु गका­र­मु­च्चा­र­यत्सु योऽनुभवो जायते स किं व्यक्ति­भे­दा­व­म­र्श­पु­र­स्सरं जातिविषयः, उत औपा­धि­क­भे­द­व­दे­क­व्य­क्ति­वि­षय इति निपुणं निरूप्यताम्। तन्निरूपणे च ध्वन्यु­पा­धि­कृ­त­भे­द­म­न्त­रेण स्वभा­वि­क­व्य­क्ति­भेदो न भासतः इत्यर्थः।
व्यक्तिभेदपक्षे च कल्पनागौरवमाह –
तत्रेति ।
येन वर्णेषु व्यक्तिभेदो न स्फुट­स्ते­ने­त्यर्थः। यत्प्र­त्य­भि­ज्ञानं जातेः प्रार्थ्यत इत्यर्थः। व्यक्तिलभ्यं भेद­ज्ञा­न­मि­त्यर्थः।
व्यक्त्या जाति­बु­द्ध्यु­प­पा­दने गोत्वा­द्यु­च्छे­द­मा­श­ङ्क्याह –
न चेति ।
दश­वा­र­मु­च्चा­रि­त­वान् इत्येकस्यैव गका­र­स्यो­च्चा­र­णे­ष्वा­वृ­त्ति­प्र­तीतेः।
उक्तै­क्य­स्या­न्य­था­सि­द्धि­मा­श­ङ्क्याह –
न चैष इति ।
सोरस्ताडं साविष्कारम्। एवं तावन्त एवेति प्रत्य­भि­ज्ञा­ना­दि­त्या­रभ्य यत्प्र­त्य­भि­ज्ञा­न­मि­त्यन्तं भाष्यं व्याख्यातम्। अनन्तरं कथं हीति भाष्यं तत् हिश­ब्द­सं­यु­क्त­मपि न पूर्व­हे­त्व­र्थम्। प्रत्यभिज्ञाया हि भेद­प्र­त्य­य­बा­ध­कत्वं प्रस्तुतं, तद्धेतुत्वे च भेद एव निषेधः, नैक­स्या­ने­क­रू­प­त्वम्; एकत्वस्य स्फोट­वा­दि­नाऽ­न­ङ्गी­का­रात्। यत्तु केचि­द्व्या­ख्या­तारो वर्णेषु भेदा­भे­द­नि­षे­धोऽ­य­मिति वदन्ति। तत्प्र­कृ­ता­स­ङ्ग­ते­र­यु­क्तम्।
तत इदं भाष्यं प्रकृते सङ्गमयति –
चोदक इति ।
उक्तमपि बाधकं गतिनिरूपणाय पुन­रु­त्था­प­य­ती­त्यर्थः। गलकम्बलः सास्ना। उपक्रमे उक्त­क­ण्ठा­दि­स्था­न­घ­टिता वायवोऽश्रावणा इति तद्धर्मा वर्णेष्वारोपिता न श्रावणाः स्युः।
अत उदात्तादयो वर्णधर्मा इति मतं ग्रन्थाद्बहिरेव दूषयति –
इदं तावदिति ।
भव­न्त्व­श्रा­व­ण­वा­यु­धर्माः श्रावणाः कथं तेषां शब्द­ध­र्म­त्व­प्र­ती­ति­रत आह –
ते चेति ।
ननु किमित्यारोपेण? स्वत उदात्तादयः शब्दस्य सन्तु, नेत्याह –
न चेति ।
अनेन आवृत्त्या कथं हीत्येतदेव भाष्यं परिहारपरतया योज्यते।
व्यञ्जकध्वनीति ।
ध्वनयन्ति व्यञ्जयन्तीति वायव एव ध्वनयः। अशब्दात्मकः श्रावणो ध्वनिः पदार्थान्तरम्; वर्ण­वि­शे­षा­प्र­तीतौ प्रती­ते­रि­त्युक्तं भाष्ये।
सा जाति­वि­ष­य­त्वे­नाऽ­न्य­था­सि­द्धे­त्या­शङ्क्य परिहरति –
न चायमिति ।
तस्य ध्वने­र्भि­न्न­त्वान्न प्रत्य­भि­ज्ञा­न­मस्ति। अतो ध्वन्यु­ल्ले­खि­प्र­त्य­यस्य न जाति­वि­ष­य­त्व­मि­त्यर्थः। अक्षु स्वरेषु। एवं च सतीति दूष­णा­ङ्गी­क­र­ण­वादः; दूष­णा­प्रा­प्ते­रु­क्त­त्वा­दि­त्यर्थः।
पदबुद्धौ वर्णो­ल्ले­ख­स्या­न्य­था­सिद्धिं शङ्कते –
पदतत्त्वमिति ।
एक­म­भा­ग­म­भि­व्य­ञ्ज­यन्तो नानेव भागवदिव भास­य­न्ती­त्य­न्वयः। नाने­वे­त्य­व­य­वि­भे­द­भा­ना­भि­प्रा­यम्। भाग­व­दि­त्य­व­य­व­प्र­ती­त्य­भि­प्रा­यम्।
विभागारोपे हेतुमाह –
सादृश्योपधानेति ।
सादृ­श्य­मे­वो­प­धा­न­मु­पाधिः।
सादृश्ये भेदमुपपादयति –
अन्योन्येति ।
ये हि गका­रौ­का­र­वि­स­र्ज­नीया गङ्गा औष्ण्यं वृक्षः इति च विस­दृ­श­प­द­व्य­ञ्जकाः, तैः सदृशा अपरे गकारादयो ध्वनयो गौरित्येकं पदं व्यञ्जयन्ति।
ध्वनीनां सादृशे हेतुः –
तुल्यस्थानेति ।
भिन्न­प­दा­व्य­ञ्ज­क­ध्व­नि­स­दृ­श­ध्व­नि­व्यक्ते एकस्मिन्नपि पदे सन्ति भिन्न­प­द­सा­दृ­श्या­नीति भेदभ्रम इत्यर्थः।
ननु पदान्तरेषु कियतां ध्वनीनां विसदृशत्वात्कथं व्यञ्ज­क­सा­दृ­श्य­मत उक्त –
प्रत्येकमिति ।
गका­रा­दी­ना­मु­भ­यत्र प्रत्येकं पदव्यञ्जकत्वाद् गौरित्यत्र गकारादीनामस्ति भिन्न­प­द­व्य­ञ्ज­क­ग­का­रा­दि­सा­दृ­श्य­मि­त्यर्थः। एक­वि­ध­प्र­य­त्न­ज­न्य­ध्व­नीनां न पदे भेदारोपहेतुतेति – प्रय­त्न­भे­दे­त्यु­क्तम् ।
विभागारोपेऽपि कथं वर्ण­रू­पि­त­प­द­प्र­ति­भा­न­मत आह –
कल्पिता एवेति ।
व्यञ्ज­क­व­र्णा­त्मत्वं व्यङ्ग्य­भा­गे­ष्वा­रो­प्यत इत्यर्थः।
एतदपाकरोति –
तत्किमिति ।
औपा­धि­क­त्व­स्वा­भा­वि­क­त्वा­भ्या­मे­क­त्वा­ना­नात्वे व्यवस्थापयति –
अथवेति ।
नन्व­त्रो­पा­ध्य­भाव उक्तस्तत्राह –
तस्मादिति ।
एक­प्र­त्य­क्षा­ना­रो­हेऽ­प्ये­क­स्मृ­ति­वि­ष­यत्वं वर्णा­ना­मु­पा­धि­रि­त्यर्थः। उपचारे हि सति निमित्तानुसरणं, न तु निमि­त्ता­नु­सा­रे­णो­प­चार इति न धव­ख­दि­रा­दि­ष्व­ति­प्र­सङ्गः। एतेन समुदितानां वर्णा­ना­म­र्थ­धी­हे­तु­त्व­मु­प­पा­दि­तम्।
बालेन स्वस्यै­क­स्मृ­त्या­रू­ढ­व­र्णानां मध्यमवृद्धं प्रत्ये­का­र्थ­धी­हे­तु­ता­म­नु­माय, एक­प­द­त्वा­ध्य­व­सा­यात् नेत­रे­त­रा­श्र­य­मि­त्याह –
न हीति ।
राजेति क्रमप्रयोगो जारेति विपरीतक्रमः। बहुभ्यो युगपदक्रमः प्रयोगः। यावन्तः यत्संख्याकाः। यादृशाः यत्क्र­मा­दि­मन्तः। ये च यत्स्वरूपाः।
भाष्ये पङ्क्तिबुद्धौ पिपीलिकाक्रमवत् स्मृतौ वर्ण­क्र­म­सि­द्धि­रि­त्युक्तं तदाक्षिप्य समाधत्ते –
नन्वित्यादिना ।
नित्यानां न कालतो विभूनां वा न देशतः क्रमः।
पदावधारणेति ।
राजा जारेत्यत्र, क्रम उपायः। गौर्गो­मा­नि­त्यत्र न्यूना­ति­रि­क्तत्वे। स्वरो भाषिकादिः पञ्चजना इत्यादौ। वाक्यं पदा­न्त­र­स­म­भि­व्या­हारः, यथाऽश्वो गच्छतीति न लुङ­न्त­मा­ख्या­तम्, क्रिया­न्त­रो­पा­दा­नात्। श्रुतिः उद्भिदो यागनामपरत्वं समा­ना­धि­क­र­ण­श्रु­ति­ग­म्यम्। स्मृति­र्यु­ग­प­त्स­र्व­व­र्ण­वि­षया। वृद्ध­व्य­व­हा­रे­त्यादि कल्पना स्यादित्यन्तं भाष्य­म­ति­रो­हि­ता­र्थ­मि­त्यर्थः॥२८॥
 शास्त्र­यो­नि­त्वा­वि­रो­धा­याह –
स्वतन्त्रस्येति ।
नित्यो वेद इति ।
अवा­न्त­र­प्र­ल­य­स्थत्वं नित्यत्वमतो दृष्टेन व्यभिचारो भार­ती­वि­ला­सो­क्तोऽ­न­व­काशः। अत एव न ह्यनित्यादिति वर्णि­ता­नु­कू­ल­त­र्केऽपि अनि­त्या­त्प्र­ल­या­व­स्था­या­म­वि­द्य­मा­नान्न जग­दु­त्प­त्तु­म­र्हति। तदानीमसतो निय­त­प्रा­क्स­त्त्व­रू­प­का­र­ण­त्वा­यो­गात् अन्यत उत्पत्तौ तस्यापि तदै­वो­त्पा­द्य­त्वे­ना­प­र्य­व­सा­ना­दि­त्यर्थः। कर्तु­र­स्म­र­णा­त्सि­द्ध­मेव नित्य­त्व­म­ने­ना­नु­मा­नेन दृढी­कृ­त­मि­त्यर्थः॥२९॥ समाननामेति सूत्रं (ब्र.सू.अ.१.पा.३ सू.३०) महाप्रलये जातेरभावात् शब्दा­र्थ­सं­ब­न्धा­नि­त्य­त्व­मा­शङ्क्य परिहारार्थम्। वेदस्य वाक्य­रू­प­स्ये­त्यर्थः।
ननु जीवानवस्थानेऽपि ब्रह्म अभि­धा­ना­दि­वा­सि­त­म­स्त्यत आह –
न च ब्रह्मण इति ।
निरविद्यस्य अवि­द्या­सि­द्ध­प्र­मा­णा­ना­श्र­य­त्वान्न तज्ज­वा­स­ना­श्र­य­त्व­मि­त्यर्थः।
अथानपेक्ष्य वासनाः ब्रह्म जगत्सृजेत्, तत्राह –
ब्रह्मणश्चेति ।
अध्या­प­का­ध्येत्रोः उच्चा­र­यि­तृ­त्वा­द्भाष्ये अभि­धा­तृ­ग्र­ह­णे­नो­क्ति­रि­त्यर्थः। सूक्ष्मे­णे­त्यस्य व्याख्या
शक्तिरूपेणेति ।
कर्म­वि­क्षे­पि­काऽ­वि­द्या­भ्रा­न्त­य­स्तासां वास­ना­भि­रि­त्यर्थः। भ्रमा­त्सं­स्का­र­त­श्चान्या मण्डू­क­मृ­दु­दा­हृतेः। भावरूपा मताऽविद्या स्फ्टं वाचस्पतेरिह॥ अप्रज्ञातं प्रत्यक्षतः। अलक्षणम् अननुमेयम्। अप्रतर्क्यम् तर्कागोचरः। अविज्ञेयम् आगमतः। साक्षिसिद्धस्य ह्यज्ञा­न­स्या­ग­मा­दि­भि­र­स­त्त्व­नि­वृत्तिः क्रियते। ननु - किं भाव­रू­प­याऽ­वि­द्यया प्रयोजनम्? अज्ञा­त­शु­क्ति­ब्र­ह्म­वि­व­र्त­त्वेन रज­त­ज­ग­द्भ्र­म­सिद्धेः। अज्ञातत्वस्य च ज्ञाना­भा­वा­दु­प­पत्तेः। तन्न; स्वयं­प्र­भ­प्र­त्य­ग्ब्र­ह्मणः स्ववि­ष­य­प्र­मा­णा­नु­द­येऽपि यथा­व­त्प्र­का­शा­पत्तौ जग­द्भ्र­मा­भा­व­प्र­स­ङ्गात्। न हि स्वयंप्रभं सवेदनं स्ववि­ष­य­प्र­मा­णा­नु­द­यान्न भाति। यद्यपि शुक्तिं स्वत एव जडामविद्या नावृणोति; तथापि तत्स्था­नि­र्वा­च्य­भा­व­रू­प­र­ज­तो­पा­दा­न­त्वेन एष्टव्येति भावरूपाविद्या सप्रयोजना। प्रमाणं तु डित्थप्रमा, डित्थगतत्वे सति यः प्रमाभावः तत्त्वा­न­धि­क­र­णा­ना­दि­स्व­प्रा­ग­भा­व­नि­व­र्तिका, प्रमात्वाद्, डपित्थप्रमावत्। ये तु प्रमा स्वप्रा­ग­भा­व­नि­वृ­त्ति­रेव, न तु निवर्तिकेति मन्यन्ते, तान् प्रति निवर्तिकेत्यस्य स्थाने निवृत्तिरिति पठितव्यम्। न चैत­द­स­म­वे­त­त्व­मे­त­द­न्य­स­म­वे­तत्वं चोपाधिः; एतत्सुखादीनाम् एत­न्नि­ष्ठ­प्र­मा­भा­व­त्व­र­हि­ता­ना­दि­स्व­प्रा­ग­भा­व­नि­व­र्त­क­त्वेन साध्ये विद्यमानेऽपि उपाध्यभावेन साध्या­व्या­प्ते­रिति। त्वदुक्तमर्थं न जानामीति व्यव­हा­रा­न्य­था­नु­प­प­त्तिश्च मानम्। न च प्रमाणतो न जानामि किन्तु जाने इति व्यपदेशार्थः, तथा सति को मदुक्तोऽर्थ इत्यु­क्तेऽ­नु­व­देन्न च शक्नोति। न च सामान्येन ज्ञाते विशे­ष­तोऽ­ज्ञा­नम्; सामान्यस्य ज्ञातत्वात्, विशेषस्य चाबु­द्ध­स्या­ज्ञा­न­व्या­व­र्त­क­त्वेन प्रति­भा­सा­यो­गात्, प्रमितत्वे चाज्ञा­त­त्व­व्या­घा­तात्, स्मृतत्वे चानुवादापातात्। मम तु भावरूपाज्ञनस्य सविषयस्य साक्षि­ण्य­ध्या­सा­त्प्र­ति­भासो न मानत इत्यविरोधः। न च - मानाभाव एव तस्मिन्नध्यस्तो भासत इति - वाच्यम्; स्वप्रभे भाव­रू­पा­वि­द्या­ति­रो­धा­न­म­न्त­रेण अध्या­सा­यो­ग­स्यो­क्त­त्वात्।
पराक्रान्तं चात्र सूरिभिरिति ।
ते चावधिमुचितकालं प्राप्य पूर्व­स­मा­न­ना­म­रू­पाणि भूत्वोत्पद्यन्त इत्यन्वयः। परमेश्वरेच्छा ईक्षणम्। ईक्षितुः परमेशस्य वाच­स्प­ति­मु­खो­द्गतेः। निजुहुवे परे­शा­न­म­सा­वि­त्य­ति­सा­ह­सम्॥ ईक्षणं च जीवा­ज्ञा­त­स्ये­श्व­रस्य विवर्त आकाशादिवदिति न प्रमातृत्वेन अवि­द्या­व­त्त्व­प्र­सङ्गः।
कूर्माङ्गानां दर्श­ना­द­र्श­न­मात्रं नोत्प­त्ति­रि­त्यु­दा­ह­र­णा­न्त­र­माह –
यथा वेति ।
घनाः निबिडाः। घनाघनाः मेघाः। तत्कृतासारेण सन्ततधारावर्षेण सुहितानि बृंहितानि इत्यर्थः।
अविद्यायाः पूर्व­वा­स­ना­स्र­य­त्वेन जगत्कारणत्वे ब्रह्मणो जग­त्का­र­ण­त्व­वि­रो­ध­मा­श­ङ्क्यो­प­क­र­णस्य स्वात­न्त्र्या­वि­घा­त­क­त्वेन परिहरति –
एतदुक्तमिति ।
ततश्चानादित्वं संसारस्येत्याह –
न च सर्गेति ।
उपपद्यते चोक्त­न्या­ये­ना­ना­दि­त्व­मि­त्यर्थः।
एवं पदपदार्थसंबन्धे विरोधं परिहृत्य संप्र­दा­य­वि­च्छे­दा­द्वा­क्य­नि­त्य­त्व­वि­रो­ध­मु­क्त­म­नु­व­दति –
स्यादेतदिति ।
भाष्य­स्य­सु­षु­प्ति­दृ­ष्टा­न्तस्य वैष­म्य­मा­श­ङ्क्याह –
यद्यपीति ।
लीयतेऽस्यां सर्वकार्यमिति लय­ल­क्ष­णाऽ­विद्या। श्लोके उक्तो यो विरोधः। यजमानो भाविन्या वृत्त्या यदाऽ­ग्नि­रि­दा­नी­म­ग्नये विर्वपति, तदा भवि­ष्य­द­द्य­त­ना­ग्न्यो­स्तु­ल्य­ना­मता।
ननु किमिति भाविन्या वृत्त्या यज­मा­नोऽ­ग्नि­रु­च्य­तेऽ­ग्नि­दे­व­तै­वा­ग्नये निर्वपतु, नेत्याह –
न हीति ।
सत्त्वे वा स एवा­स्मा­भि­रु­द्देष्टुं शक्यते यागकाले इति प्राचीनो वृथा स्यादित्यर्थः।
देवादीनां स्वमि­श्र­वि­द्या­स्व­न­धि­का­रेऽपि ब्रह्म­वि­द्या­धि­का­र­सं­भ­वात् आक्षे­पा­यो­ग­मा­शङ्क्य विकल्पमुखेन सूत्रमवतारयति –
ब्रह्म­वि­द्या­स्विति ।
मधुविद्यावाक्यं प्रतीकत आदत्ते –
असाविति ।
तद्व्याचष्टे –
देवा­ना­मि­त्या­दिना ।
भ्रम­रै­र्नि­र्वृत्तं भ्रामरम्। द्यौः स्वर्गः, तिर्यग्गतवंशे इवादित्यं मधु हि तत्र लग्नमित्यर्थः।
अन्तरिक्षमपूप इति श्रुतिं व्याचष्टे –
आदित्यस्य अपूपव्याख्या –
पटलमिति ।
प्रसिद्धं मध्वपूपसाम्यमाह –
तत्रेति ।
श्रुति­नि­र्दि­ष्ट­प­ञ्चा­मृ­ता­न्याह –
यानि चेति ।
एवं ह्यामनन्ति ‘‘तस्यादित्यस्य ये प्राञ्चो रश्मयः, ता एवास्य प्राच्यो मधुनाड्यः, ऋच एव मधुकृतः, ऋग्वेद एव पुष्पं, ता अमृता आपः, ता वा एता ऋचः, एत­मृ­ग्वे­द­म­भ्य­तपः, तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत, तद्व्यक्षरत् तदा­दि­त्य­म­भि­तोऽ­श्र­यत्, तद्वा एत­द्य­दे­त­दा­दि­त्यस्य रोहितं रूप’’मित्यादि। मधुनाड्यः मध्वा­धा­र­च्छि­द्रा­णी­त्यर्थः। व्यक्षरत् विशेषेणागमत्, गत्वा चादित्यस्य पूर्व­भा­ग­मा­श्रि­त­व­दि­त्यर्थः।
ता अमृता आप इत्ये­त­द्व्या­चष्टे –
यानि चेति ।
यादृङ् मधु­क­रै­र्नि­र्व­र्त्यते मधु तदापः। ताश्चा­मृ­त­सा­ध­न­त्वा­द­मृता इति श्रुत्य­क्ष­रार्थः।
ऋच एव मधुकृत इत्ये­त­द्व्या­चष्टे –
यथा हि भ्रमरा इति ।
मन्त्रैः प्रयुक्तं कर्मफलात्मकं रसं स्रवतीत्यृचां मधुपसाम्यम्।
अथ येऽस्य दक्षिणा इत्यादि श्रुतिं व्याचष्टे –
अथास्येत्यादिना ।
परः कृष्णमित्यमृतं श्रुतौ निर्दिष्टं तद्र­श्म्यु­पा­धि­क­मि­त्य­भि­प्रे­याह –
अतिकृष्णाभिरिति ।
चतु­र्थ­प­र्या­येऽ­थ­र्वा­ङ्गि­रसो मधुकृत इतिहासपुराणं पुष्प­मि­त्यु­क्तम्। तत्रा­थ­र्वा­ङ्गि­र­स­म­न्त्राणां मधु­क­र­त्वा­भि­धा­नात्तैः प्रयोज्यम्, अथर्ववैदिकं कर्म पुष्पं सूचितम्।
इति­हा­स­पु­रा­ण­मन्त्रा यत्र प्रयुज्यन्ते तस्य कर्मणः पुष्पत्वेन निर्देशात् तन्मन्त्रा मधुकृत इत्य­र्था­दु­क्त­मिति मनसि निधायाह –
अथर्वाङ्गिरसेति ।
कर्मकुसुमेभ्य आहृत्य, अग्नौ हुत­म­मृ­त­म­थ­र्व­मन्त्रा आदित्यमण्डलं नयन्तीत्यन्वयः।
इति­हा­स­पु­रा­ण­म­न्त्र­प्र­यो­ग­योग्यं कर्माह –
तथाश्वमेधेति ।
कर्म­कु­सु­मा­दा­हृ­त्ये­त्य­नु­ष­ङ्गा­ल्ल­भ्यते।
ननु कथ­मि­ति­हा­सा­दि­म­न्त्राणां वाच­स्तो­म­सं­ब­न्धोऽत आह –
अश्वमेधेति ।
पारिप्लवः यदृच्छया बुद्धि­स्थ­म­न्त्र­शं­स­नम्। सर्वा­ण्या­ख्या­नानि पारिप्लवे शंसन्तीति श्रव­णा­दै­ति­हा­सि­का­न्यपि गृह्यन्त इति भावः। विकल्पेनात्र विज्ञेयं पुष्प­भ्र­म­र­चि­न्त­नम्। इति­हा­स­पु­रा­ण­स्थ­मथ वाऽथर्ववेदगम्॥ न च यथाश्रुतं शक्यं घटयितुम्; इति­हा­स­पु­रा­णा­थ­र्व­ण­म­न्त्रयोः असा­धा­र­ण­सं­ब­न्धा­भा­वा­दतः कुसु­स­म­धु­क­र­चि­न्त­नै­क­प्र­यो­ज­नानां कर्म­म­न्त्रा­णा­म­गत्या विकल्प इति। अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पमिति।
पञ्चमपर्यायं व्याचष्टे –
ऊर्ध्वा इति ।
आदिश्यन्त इत्यादेशा उपासनानि तेषां भ्रमराणां गोप्या­ना­मा­श्र­य­त्वा­न्ना­डीनां गोप्य­त्व­मु­क्तम्।
व्याख्यातां मधु­वि­द्या­मु­प­सं­ह­रति –
ता एता इति ।
नाडी­नि­र्दे­शोऽ­मृ­ता­द्यु­प­ल­क्ष­णार्थः।
यश आद्य­मृ­त­स्या­चा­क्षु­ष­त्वा­द्दृ­ष्ट्वेति ज्ञानमात्र विवक्षेत्याह –
उपलभ्येति ।
श्रुता­वि­न्द्रि­य­मिति तत्सा­क­ल्य­वि­वक्षा, इन्द्रि­य­मा­त्र­सं­ब­न्धस्य सिद्धत्वेन फल­त्वा­भा­वा­दि­त्याह –
इन्द्रि­य­सा­क­ल्येति ।
अन्नं च तदाद्यमत्तुं योग्यं वस्वा­द्यु­प­जी­व्या­न्य­मृ­तानि।
विजा­न­ता­मि­त्या­दि­भा­ष्या­र्थ­माह –
न केवलमिति ।
एक­स्मि­न्ना­दित्ये उपास्योपासकभावो विरुद्धः, वस्वादौ तु स च प्राप्य­प्रा­प­क­भा­व­श्चे­त्यर्थः॥३१॥ देवादीनां सर्वेषां सर्वाविद्यासु किमधिकारः, उत यथासंभवमिति विकल्प्य प्रतमं निरस्य द्वितीयं शङ्कते –
यद्युच्येतेति ।
भाष्ये वाक्य­शे­ष­प्र­सिद्धिः। पुरस्तादुदेता पश्चा­द­स्त­मे­ते­त्यादिः। हे इन्द्र, ते दक्षिणं हस्तं जगृभ्म गृहीतवन्तो वयम् इमे रोदसी इन्द्र यदि गृह्णसि, तर्हि ते तव काशिर्मुष्टिः मुष्टौ संमात इत्यर्थः।
मुष्टि­प्र­का­र­म­भि­न­यति –
इदिति ।
इत्थमित्यर्थः। तुविग्रीवः पृथुग्रीवः। वपाच्छिद्रं सावकाशोदर इत्यर्थः। अत एव अन्ध­सोऽ­न्न­स्यो­प­यु­क्तस्य मदे हर्षे सति इन्द्रो वृत्राणि शत्रून् जिघ्नते हतवानिति। प्रस्थि­त­स्यो­प­क­ल्पि­तस्य पक्वस्य हविषो भागमद्धि सोमस्य सुतस्य भागं पिब चेत्यर्थः। ईशनामैश्वर्यं देवताया दर्श­य­ती­त्य­नु­षङ्गः। इन्द्रो दिवः स्वर्गस्येशे ईष्टे इति सर्व­त्रा­नु­षङ्गः। अपां पातालस्य। वृधां वीरुधां स्थावराणाम्। मेधिराणां मेधावतां जङ्गमानामिति यावत्। प्राप्तस्य रक्षणे क्षेमे योगे चाप्रा­प्त­प्रा­पणे इन्द्र ईष्टेऽतो हव्य इन्द्रो यष्टव्य इत्यर्थः। हे इन्द्र, जगतो जङ्गमस्य तस्थुषः स्थावरस्य चेशानं स्वर्दृशं दिव्यज्ञानं त्वां स्तुम इत्यर्थः। वरिवसितारं पूजयितुम्। आहुतिभिः हुतादौ देवान् प्रीणयति। हुतमदन्तीति हुतादः। तस्मै होत्रे प्रीता देवा इषमन्नमूर्जं बलं च प्रयच्छन्तीति। विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता।
फल­प्र­दा­न­मि­त्ये­त­त्प­ञ्चकं विग्रहादिकम्॥ ये सिद्धवादिनो मन्त्रा न ते विधिक्षमा इति तत्स्वरूपमेव श्रुत्यादिभिः ऐन्द्र्या­त्या­दि­भि­स्तत्र तत्र कर्मणि विनियुज्यते, अतो न प्रमाणं चेत्तर्हि किमु­च्चा­र­ण­मा­त्रो­प­योगा अवि­व­क्षि­तार्थाः? नेत्याह –
दृष्टे प्रकारे इति ।
नन्व­न­धि­ग­त­मे­या­भावे कथं दृष्टार्थत्वम्, अत आह –
दृष्टश्चेति ।
प्रयोगसमवेतो द्रव्यदेवतादिः स च विधिभिर्ज्ञात इति स्मार्यः। मन्त्राश्च विधय इव निरपेक्षा देव­ता­द्य­भि­द­ध­तीति नाप्रमाणम्।
ननु स्मृते­र­वि­हि­तायाः कथं द्वारत्वमत आह –
स्मृत्वा चेति ।
सामर्थ्याद् द्वारतेत्यर्थः।
ननु यथा देवतास्मरणे मन्त्राणां तात्पर्यम्, एवं देव­ता­वि­ग्र­हा­दा­व­प्यस्तु, विग्रहादेरपि मन्त्र­प­दै­र­व­ग­मा­दत आह –
औत्सर्गिकी चेति ।
उद्दिश्य त्यागस्य हि देव­ता­स्व­रू­प­मे­वा­पे­क्षितं, न विग्रहादि, तद्बोधकपदानां तु उत्स­र्ग­प्रा­प्त­म­प्य­र्थ­प­रत्वं विध्य­न­पे­क्षि­त­त्वा­द­पो­द्यत इत्यर्थः॥३२॥ श्वित्री त्वगामयत्वान्। निर्णेजनं शोधनम्। श्वेतो वस्त्रं धावति शोधयतीति विवक्षायामितः श्वा धावति गच्छतीति नार्थधीरिति।
वेदेऽपि न तात्पर्याद् विनाऽ­र्थ­धी­रि­त्याह –
न चेति ।
यदि तात्प­र्या­च्छा­ब्दधीः, तर्हि प्रत्य­क्षा­दि­ष्वपि तथा स्यादत आह –
न पुनरिति ।
भाष्यकृद्भिः निषेधेषु पदा­न्व­यै­क्या­द­व­न्त­र­वा­क्यस्य अग्र­ह­ण­मि­त्यु­क्त­म­यु­क्तम्; साध्या­वि­शि­ष्ट­त्वा­दि­त्या­श­ङ्क्या­न्व­य­भेदे दण्डं नञ्प­द­वै­य­र्थ्या­प­त्ति­माह –
अयमभिसन्धिरिति ।
अन्वयमुक्त्वा व्यतिरेकमाह –
न हीति ।
उपसंहरति –
वाक्यार्थे त्विति ।
मा भूत् स्वार्थ­मा­त्रा­भि­धाने पर्यवसानं, किमतः? तत्राह –
न च नञ्वतीति ।
एवं पदैकवाक्यतां सोदाहरणं दर्शयित्वा विध्यर्थवादेषु वाक्यै­क­वा­क्य­ता­माह –
यत्र त्विति ।
ननु - विधिद्वयस्यैषा वाक्यै­क­वा­क्य­ताऽत आह –
लोकानुसारत इति ।
क्रय्या गौर्देवदत्तीया यतो बहुक्षीरेत्यादौ बहुक्षीरत्वादेः आप्तवाक्यावगतेः विध्य­र्थ­वा­द­यो­र­प्यस्ति वाक्यै­क­वा­क्य­ते­त्यर्थः।
ननु कार्यान्वित एव पदा­र्थ­स्त­त्कु­तोऽ­र्थ­वा­द­प­दानां पृथगन्वयोऽत आह –
भूतार्थेति ।
कुत­श्चि­द्धे­तो­रिति ।
यो वाक्यस्य वाक्या­न्त­रै­क­वा­क्यत्वे हेतुः सूचितस्तं विवृणोति –
इह हीति ।
अनेन भिन्न­वा­क्या­र्थ­प­र्य­व­सा­यिनां पदानां का नु खल्वपेक्षिति शङ्का वार्यते। स्वाध्यायविधिः स्वाध्या­य­श­ब्द­वाच्यं वेदराशिं पुरु­षा­र्थ­प्र­का­श­कतां यदि नानेष्याद् न प्रापयेत्, ततो भूता­र्थ­मा­त्र­प­र्य­व­सिताः सन्तोऽर्थवादा विध्यु­द्दे­शे­ने­क­वा­क्यतां नागमिष्यन् न गच्छेयुः। प्रापयति त्वध्य­य­न­वि­धि­र्वे­दस्य पुरुषार्थताम्, तस्मा­दे­क­वा­क्यतां प्राप्नु­यु­रि­त्यर्थः।
ननु यदि लक्ष­णा­या­म­भि­धे­य­वि­वक्षा, कथं तर्हि विरु­द्धा­र्था­र्थ­वा­देषु सा स्यात्? तत्राभिधेयस्य विरुद्धत्वादेव विव­क्षा­नु­प­प­त्ते­स्त­त्राह –
अत एवेति ।
अथवाऽर्थवादेषु स्वार्थ­वि­व­क्षाया इदं गमकमुक्तम्, इतरथा हि गौणालम्बनचिन्ता मुधा स्यादिति। यथा प्रमा­णा­न्त­रा­वि­रोधः तथाऽसूत्रयत् गुणवादस्त्विति सूत्रेण(जै.अ.१.पा.२.सू.१०)। यथा च स्तुत्यर्थता येन गुणयोगेन स्तुत्य­र्थ­ते­त्यर्थः, तथाऽ­सू­त्र­य­त्त­त्सिद्धि(जै.अ.१.पा.४.सू.२२) रित्य­ने­ने­त्यर्थः॥ यजमानः प्रस्तर इति किं विधिरुतार्थवाद इति। विशये विधि­र­पू­र्वा­र्थ­ला­भा­दिति प्राप्ते सिद्धान्तः। यदि प्रस्तरकार्ये यजमानो विधीयेत, तदा ‘‘प्रस्तरं प्रहरती’’ति शास्त्राद् यजमानोऽग्नौ हूयेत, ततः प्रयोगो न समाप्येत। अथ यजमानकार्ये प्रस्तरो विधीयेत, तदा­नी­म­श­क्य­विधिः। न हि प्रथ­म-लू­न­द­र्भ­मुष्टिः प्रस्तरः शक्नोति चेतनयजमानकार्यं कर्तुम्। तस्मात्प्रस्तरं बर्हिष उत्तरं सादयतीत्यस्य विधेरर्थवादः। द्विती­या­दि­मु­ष्टि­र्बर्हिः।
कथं तर्हि सामा­ना­धि­क­र­ण्यम्? अत्र सूत्रं –
गुणवादस्त्विति ।
(जै.अ.१.पा.२.सू.१०) को गुणः? इत्यपेक्षायां च तत्सिद्धिरिति सूत्रम्(जै.अ.१.पा.४.सू.२२)। तस्य यजमानस्य कार्यं क्रतु­नि­र्वृत्तिः तत्प्रस्तरादपि सिद्ध्यति। स हि जुह्वाधारतया क्रतुं निर्वर्तयति इति। आदित्यो यूप इत्यत्र तेजस्वित्वं गुणः; तेजसा घृतेन यूप­स्यो­क्त­त्वा­दिति।
ननु विरु­द्धा­र्था­र्थ­वा­देषु कथ­म­भि­धे­या­वि­ना­भा­व­नि­मित्ता प्राश­स्त्य­ल­क्षणा? विरो­धा­दे­वा­भि­धे­या­भा­वा­दत आह –
तस्माद्यत्रेति ।
यजमानादिशब्दैः तत्सिद्ध्यादि लक्ष्यते, ततश्च प्राश­स्त्य­मि­त्यर्थः। लक्षितेन यल्लक्ष्यं तद­प्य­भि­धे­ये­ना­वि­ना­भू­त­मेव; तदविनाभूतं प्रत्य­वि­ना­भू­त­त्वात्।
नन्व­नु­वा­द­का­र्थ­वा­दा­ना­म­प्र­मा­ण­क­त्वा­त्कथं विधि­भि­र्वा­क्यै­क­वा­क्य­ताऽत आह –
यत्र त्विति ।
न स्मृति­व­त्सा­पे­क्षत्वं; किंतु प्रत्य­क्षा­दि­भि­स्तु­ल्य­वि­ष­य­त्वम्। न चैतावता भवत्यप्रमाणता; प्रत्य­क्षा­नु­मा­न­यो­रपि तुल्य­वि­ष­य­त्वा­दि­त्यर्थः।
तर्हि कथ­म­नु­वा­द­क­त्व­प्र­सि­द्धि­रत आह –
प्रमा­त्र­पे­क्ष­येति ।
प्रमातरि चर­म­प्र­त्य­या­धा­य­क­त्वात् आश्र­य­स्या­नु­वा­द­क­त्व­सि­द्धि­रि­त्यर्थः।
यदि माना­न्त­र­सि­द्धा­र्थ­त्वेऽ­प्य­र्थ­वा­दा­ना­म­न­पे­क्ष­त्वम्, तर्हि विरु­द्धा­र्था­ना­मपि तदस्तु; गौणार्थत्वेन किम्? इति शङ्कते –
नन्वेवमिति ।
तत्परतया निरवकाशा वेदान्ता बाधन्ते विरोधि प्रत्यक्षादि, नार्थवादाः; अतत्परत्वेन सावकाशत्वादिति विशेषेण प्रतिबन्दीं परिहरति –
अत्रोच्यत इत्यादिना ।
इष्ट­प्र­स­ङ्ग­ता­माह –
अद्धेति ।
विध्य­न्वि­तोऽ­र्थ­वादो महावाक्यीभूय प्राशस्त्यं बोधयति, स्वरूपेण त्ववा­न्त­र­वा­क्यी­भूय विग्रहादि वक्तीत्यर्थः। वाक्य­द्वि­त्व­मे­ष्टु­म­श­क्यम्; प्रत्यर्थं तात्पर्यभेदेन वाक्य­वृ­त्ति­प्र­स­ङ्गात्।
आवृत्तिं च पौरुषेयीं वेदो नानुमन्येतेति शङ्कते –
तथा सतीति ।
न वज्र­ह­स्ते­न्द्र­दे­व­ता­त्वात् प्रशस्तमैन्द्रं दधि, वज्रहस्तश्च सोऽस्ती­त्या­वृत्तिं ब्रूमः, किन्तु स्तोतुमेव योऽर्थोऽ­र्थ­वा­दे­ना­श्रि­तस्तं नोपेक्षामह इति परिहरति –
नेति ।
ननु तात्पर्याभावे शब्दात्कथं द्वार­भू­त­वि­ग्र­हा­दि­प्र­मि­ति­रि­त्या­शङ्क्य व्याप्तिं प्रशिथिलयति –
न चेति ।
यद्वाक्यं यत्रार्थे न तत्परं तत्र तदप्रमाणं चेत्, तर्हि विशि­ष्ट­वि­धे­र्वि­शि­ष्ट­प­रत्वं न स्यात्। तस्य हि, विशेषणेष्वपि नागृ­ही­त­वि­शे­ष­ण­न्या­येन प्रामाण्यं वाच्यम्। न च तेषु तात्पर्यम्; प्रति­वि­शे­ष­ण­मा­वृ­त्त्या­पा­तात्। तथा च विशेषणप्रमितौ विशि­ष्टेऽ­प्रा­मा­ण्या­पा­ता­दिति। ननु विशि­ष्ट­वि­धि­र­प­र्य­त­स्यन् विशे­ष­ण­वि­धी­ना­क्षि­प­ती­त्या­र्थिका विशेषणविधयः कल्प्यन्ते, अतो न वाक्यभेदः। यथाऽऽहुः - श्रूयमाणस्य वाक्यस्य न्यूना­धि­क­वि­क­ल्पने। लक्ष­णा­वा­क्य­भे­दा­दि­दोषो नानुमिते ह्यसौ’ इति।
एवं शङ्कित्वा परिहरति –
विशि­ष्ट­वि­ष­य­त्वे­नेति ।
प्रतीतो हि विशि­ष्ट­वि­धि­र्वि­शे­ष­ण­वि­धी­ना­क्षि­पेत्, तत्प्रतीतिरेव न विशे­ष­ण­प्र­ती­ति­म­न्त­रे­णेति इतरेतराश्रय इति भावः। ननु पदैः पदार्था योग्यतादिवशेन विशे­ष­ण­वि­शे­ष्य­भूता लोक­तोऽ­व­ग­म्यन्ते, तदवगतौ च प्रतीतो विशि­ष्ट­वि­धि­रा­क्षेप्ता विशेषणविधीनाम्। सत्यम्; न सर्वत्र विशेषणं लोकसिद्धमिति शक्यं वक्तुम्। क्वचिद्धि वाक्यैकगम्यमपि विशेषणं भवति। ‘यथैतस्यैव रेवतीषु वार­व­न्ती­य­म­ग्नि­ष्टो­म­साम कृत्वा पशुकामो ह्येतेन यजेते’ति।
अत्र हि विशिष्टविधौ रेवतीनामृचां वार­व­न्ती­य­सा­म्नश्च संबन्धो विशेषणं वाक्यैकगम्यम् इति भावेनोपसंहरति –
तस्मादिति ।
नन्वर्थवादा मान­न्ता­रा­पेक्षाः सिद्धार्थत्वात् पुंवाक्यवत्। न च देवताविग्रहादौ माना­न्त­र­म­स्ती­त्य­प्र­मा­ण्यम्।
यद्धि सापेक्षं तन्मू­ल­मा­न­र­हि­त­म­प्र­मा­ण­मि­त्यत आह –
न च भूतार्थमपीति ।
वाक्यस्य सतः सापेक्षत्वे पौरु­षे­य­त्व­मु­पा­धि­रिति समन्वयसूत्रे (ब्र.अ.१.पा.१.सू.४) उक्तमित्यर्थः।
यदि विधेः प्राशस्त्यपरा अप्यर्थवादा भिन्नं वाक्यं, तर्हि न्यायविरोध इत्याह –
स्यादेतदिति ।
द्वितीये स्थितम् - ‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे’ स्यात् (जै.सू.अ.२.पा.१.सू.४६)। देवस्य त्वा सवितुः प्रसवे इति मन्त्र एकं वाक्यं भिन्नं वेति संशये पदा­ना­म­र्थ­भे­दा­त्स­मु­दा­य­स्या­वा­च­क­त्वा­द्भि­न्न­मिति प्राप्तेऽ­भि­धी­यते। एक­प्र­यो­ज­नो­प­यो­गि­वि­शि­ष्टा­र्थ­स्यै­क्यात् तद्बो­ध­क­प­दा­न्येकं वाक्यम्। तच्च तर्ह्येव स्याद्यद्दि पदविभागे सति पदवृन्दं साकाङ्क्षं भवेत्। ‘‘भगो वां विभजत्वर्यमा वां विभ­ज’’त्वि­त्यत्र सत्यपि विभ­ज­त्य­र्थै­कत्वे अनाकाङ्क्षत्वेन वाक्यभेदात्, ‘स्योनं ते सदनं कृणोमि तस्मि­न्सी­दे’त्यत्र सत्यपि साका­ङ्क्षा­त्वेऽ­र्थ­भे­देन वाक्यभेदात्। एकत्र हि सदनकरणं प्रकाश्यमन्यत्र पुरो­डा­श­प्र­ति­ष्ठा­प­न­मिति वाक्यभेदोऽत उभयं सूचितम्। तात्प­र्यै­क्येऽपि वाक्य­भे­दा­भ्यु­प­गम एतदधिकरणविरुद्ध इत्यर्थः।
परिहरति –
नेति ।
यथा हि सत्यपि वाक्यैक्ये प्रया­जा­दि­वा­क्या­नाम् अवान्तरभेद एव­म­र्थ­वा­दा­ना­म­प्यस्तु। त्वयाऽपि हि स्तुतिं लक्षयितुं तत्त­त्प­दा­र्थ­वि­शि­ष्टै­क­प­दा­र्थ­प्र­ती­ति­र­भ्यु­पेया, अन्य­थाऽ­भि­धे­या­वि­ना­भावो न स्याद् इत्युक्तत्वात्। तथा च तस्यां पर्य­व­स्य­न्त्व­र्थ­वा­दा­स्ततो विध्येकवाक्यतां च यान्त्विति भावः।
एवं तर्हि प्रया­जा­दि­वा­क्या­ना­म­र्थ­वा­द­वा­क्यानां च को भेदोऽत आह –
स त्विति ।
स्तुति­प्र­ति­प­त्ति­द्वारं विग्रहादि, प्रयाजादि तु नान्यप्रतीतौ द्वारम्, किन्तु तद् द्वारि। स्वयं तात्पर्यविषय इति यावत्।
यदि विध्ये­क­वा­क्य­त्वेऽ­प्य­र्थ­वा­देषु पृथ­क्प­दा­र्थ­सं­स­र्ग­प्र­तीतेः वाक्यभेदः तर्ह्यतिप्रसङ्ग इति शङ्कित्वा प्रती­ति­प­र्य­व­सा­न­त­द­भा­वाभ्यां वैषम्यमाह –
नन्वेवं सतीत्यादिना ।
यद्यर्थवादेषु द्वार­भू­ता­र्थ­भे­दाद् वाक्य­भे­द­स्त­दाऽ­प्य­ति­प्र­सङ्ग इत्याशङ्क्य परिहरति –
न च द्वाभ्या­मि­त्या­दिना ।
पञ्च षड् वा पदान्यस्येति पञ्चषट्पदवत्। अरुणयेत्यादि वाक्यम्। अत्र नावा­न्त­र­वा­क्य­भे­द­प्र­सङ्गः; विशेषणानां भेदेऽपि विशेष्यकयादेः एकत्वात्तस्य च गुणा­नु­रो­धे­ना­वृ­त्त्य­यो­गात्। गुणा एव तस्मिन् समुच्चेया इत्ये­क­वा­क्य­ते­त्यर्थः।
विशेष्यैक्ये विशेषणभेदेऽपि न वाक्यभेद इत्ये­त­द्व्य­ति­रे­क­प्र­द­र्श­ने­नो­प­पा­द­यति –
प्रधानभेदे त्विति ।
‘‘आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पता’’ मित्यादौ हि प्रधा­न­भे­दा­द्वा­क्य­भेदः तद­भा­वा­द­रु­णा­दा­वे­क­वा­क्य­तो­प­प­त्तेर्न प्रतिबन्धावकाश इति। नन्वतत्परादपि वेदादर्थः प्रमीयेत, स यदि तात्प­र्य­ग­म्या­र्थो­प­योगी विशिष्टविधाविव विशेषणं देवताविग्रहादि तु न तथेति शङ्का­प­नु­त्त्य­र्थ­मपि चेत्यादि भाष्यम्।
तदादाय व्याख्याति –
देव­ता­मु­द्दि­श्ये­त्या­दिना ।
ननु देवता आरो­पि­तो­ल्लि­ख्यतां तत्राह –
रूपान्तरेति ।
अस्यैव प्रपञ्चो ननूद्देश इत्या­दि­चो­द्य­प­रि­हारौ।
दृष्टानुसाराच्च चेतना देवतेत्याह –
तदेवमिति ।
शब्दमात्रत्वे तु नैवमित्याह –
अचेतनस्येति ।
देवतातः फलोत्पत्तौ श्रुत­हा­नि­मा­श­ङ्क्याह –
न चैवमिति ।
यजेत स्वर्गकाम इत्यस्य हि यागेन स्वर्गं भावयेदित्यर्थः। तत्र यागभावनायाः फलवत्त्वं श्रुतम्। अर्थाच्च यागस्य भावनां प्रति तदीयफलांशं वा प्रति करणत्वं श्रुतं यत् तन्न हातव्यम्।
अत्र हेतुमाह –
यागेति ।
नवमे स्थितम् - ‘देवता वा प्रयो­ज­ये­द­ति­थि­व­द्भो­ज­नस्य तदर्थत्वात्’ (जै.सू.स्.६.पा.१.सू.६) देवता धर्मान् प्रयो­ज­ये­द­ति­थि­व­द्भो­ज­नस्य यागस्य तदर्थत्वाद् यथाऽ­ति­थि­प्री­त्यर्था धर्मा इति प्राप्ते - अपि वेति (जै.सू.अ.६.पा.१.सू.६) राद्धान्तः। यज्ञकर्म प्रधा­न­म­ङ्ग­ग्राहि , न देवता; यजेन स्वर्गकाम इति याग­ग­त­फ­ल­सा­ध­न­तायाः शब्द­पू­र्व­त्वात्। देवता तूद्देश्या भूत­त्वा­द्भ­व्यस्य यागस्य गुण इति तद्गुणत्वे देवताशब्दो वर्तत इति। तदस्मन्मते ऽप्यविरुद्धम्; गुन­त्व­स्वी­का­रा­दि­त्यर्थः॥३३॥ एत इतीति सन्निहितवाचि - एतशब्दो देवानां कर­णे­ष्व­नु­ग्रा­ह­क­त्वेन सन्निहिताना स्मारकः। असृग् रुधिरम्। तत्प्र­धा­न­दे­ह­र­म­णा­न्म­नु­ष्या­णा­म­सृ­ग्र­शब्दः। इन्दु­म­ण्ड­ल­स्थ­पि­तॄ­णा­मि­न्दु­शब्दः। पवित्रं सोमं स्वान्त­स्ति­र­स्कु­र्वता ग्रहाणां तिरः­प­वि­त्र­शब्दः। ऋचो ऽस्तुवतां स्तोत्राणां गीतिरूपाणां शवशब्दः। स्तोत्रानन्तरं प्रयोगं विशतां शास्त्राणां विश्वशब्दः। व्यापि­व­स्तु­वा­च्य­भि­श­ब्द­यु­क्तोऽ­भि­सौ­भ­गे­ति­श­ब्दोऽ­न्यासां प्रजानां स्मारक इति॥ स मनसेति। स प्रजापतिर्मनसा सह वाचं मिथुनभावं समभवदभावयत्। त्रयीप्रकाशितां सृष्टिं मन­साऽऽ­लो­चि­त­वा­नि­त्यर्थः। नाम रूपं चेति स्मृतौ निष्प­न्न­क­र्म­णा­म­नु­ष्ठा­प­न­मु­क्तम्। सर्वेषां त्वित्यत्र कर्मणामेव सृष्टिरिति विवेकः॥ यज्ञेनेति पुण्येन वाचो वेदस्य पदवीयम्। भावप्रधानो निर्देशः। पदवीयतां मार्गयोग्यतां वेद­ग्र­ह­ण­यो­ग्य­ता­मि­त्ये­तत्। आयन् आप्तवन्तः। ततः ऋषिषु प्रविष्टां तां वाचमन्वविन्दन् अनुलब्धवन्तः। यदा। सुप्त इत्यत्र प्राणः परमात्मा सर्वे प्राणा­श्च­क्षु­रा­दयः तेभ्योऽनन्तरं तदनुग्राहका आदित्यादिदेवाः। ततो लोका विषयाः। इह वाक्ये कल्पितस्य अज्ञा­त­स­त्त्वा­भा­वात् प्रती­त्य­प्र­ती­ति­भ्या­मु­त्प­त्ति­ल­या­भि­धा­नम्। व्याव­हा­रि­क­सत्त्वे श्रुतेरनास्था॥
यो ब्रह्माणमिति ।
प्रहिणोति ।
ददाति आत्माकारबुद्धौ प्रकाशत इति तथोक्तः। तत्त्व­म­स्या­दि­वा­क्य­ज­बु­द्धि­वि­ष­य­मि­त्ये­तत्। दशतय्यो दशमण्डलात्मकः ऋग्वेदः, तत्र भवा दाशतय्यः।
यो ह वा इति ।
आर्षे­य­मृ­षि­सं­बन्धः। ब्राह्मणं विनियोगः। आर्षे­या­दी­न्य­वि­दि­तानि यस्य मन्त्रस्य स तथाऽध्यापयति अध्ययनं कारयति। स्थाणुं स्थावरम्। गर्तम् नरकम्। शर्वर्यन्ते प्रलयान्ते। पर्यये पर्याये। चक्षु­रा­द्य­भि­मा­निनो देवाः सांप्रतैः तुल्याः॥ तदिति तत्र ब्रह्म­वे­द­ना­त्स­र्व­भाव इति स्थिते यो यो देवानां मध्ये प्रति­बु­द्ध­वा­ना­त्मा­न­महं ब्रह्मास्मीति स प्रतिबोद्धैव तद् ब्रह्माभवत्॥
ते होचुरिति ।
ते देवा असुराश्चोचुः किलान्योन्यं हन्त यद्य­नु­म­ति­र्भ­वतां, तर्हि तमात्मानं विचारयामः, यमात्मानं विचारणापूर्वं ज्ञात्वा सर्वान् लोकान् कामान् फलानि चाप्नोति इत्युक्त्वा विद्या­ग्र­ह­णा­र्थम् इन्द्रविरोचनौ देवासुरराजौ प्रजा­प­ति­स­का­श­मा­ज­ग्मतुः॥ पृथ्व्याप्येति पाद­त­ल­मा­र­भ्या­जानोः, जानो­रा­र­भ्या­नाभि, नाभे­रा­र­भ्या­ग्रीवं, ग्रीवाया आकेशप्ररोहदेशं तत­श्चा­ब्र­ह्म­रन्ध्रं क्रमेण पृथि­व्या­दि­भू­त­धा­र­णया पृथि­व्या­दि­प­ञ्चा­त्मके भूतगणे समुत्थिते जिते सति योगगुणे च अणिमादौ प्रवृत्ते योगा­भि­व्य­क्ता­ग्नि­मयं तेजोमयं ब्रह्म शरीरं प्राप्तस्य योगिनो न जरादीत्यर्थः। तथा चावो­च­न्ना­चार्याः प्रपञ्चसारे - अव­नि­ज­ला­न­ल­मा­रु­त­वि­हा­यसां शक्तिभिश्च तद्बिंबैः। सारू­प्य­मा­त्म­नश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः॥ इति। बिम्बानि भूतमण्डलानि। तच्छक्तयश्च निवृ­त्त्या­द्या­स्त­त्रै­वोक्ताः।
इति अष्टमं देवताधिकरणम्॥

शुगस्य तद­ना­द­र­श्र­व­णा­त्त­दा­द्र­व­णा­त्सू­च्यते हि॥३४॥ ब्रह्मविद्या शूद्राधिकारा न वेत्यध्ययनस्य प्रधा­न­क­र्म­त्व­सं­स्का­र­क­र्म­त्वाभ्यां संशये पूर्वम् अत्रै­व­र्णि­क­दे­वाना तद्यो य इति लिङ्गादधिकार उक्त­स्त­द्व­द्वि­द्या­धि­का­रिणः शूद्रशब्देन परा­म­र्श­लि­ङ्गा­च्छू­द्र­स्या­प्य­धि­कार इति सङ्गतिं भाष्यारूढामाह –
अवान्तरेति ।
पूर्वपक्षमाह –
निर्मृष्टेति ।
आगन्तुकं शास्त्रीयम्।
अधिकारलक्षण एवा­वै­द्य­त्वा­द­भावः कर्मणि स्यात् (जै.सू.अ.६.पा.सू.३७) इत्य­न­धी­या­न­स्या­न­धि­कार इति स्थित­त्वा­द्ग­ता­र्थ­ता­मा­श­ङ्कते –
अध्ययनेति ।
एतद् न हि आहवनीयादिरहितेन विद्या वेदितुं न शक्यत इति भाष्यं व्याचक्षाणः परिहरति –
हन्तेति ।
तत्रा­न­ग्ने­र­ग्नि­साध्ये कर्मण्यनधिकार स्थितोऽ­वै­द्य­त्वम् अभ्यु­च्च­य­मा­त्रम्; अभ्युच्चयत्वं चाध्ययनविधेः पुरु­षा­र्थ­त्व­श­ङ्क्यायाः तत्रानिरासात्, इह संस्का­र­प­रा­म­र्शा­दि­त्या­दि­सू­त्रै­र­ध्य­य­न­विधेः संस्का­र­क­र्म­वि­ष­य­त्व­स­म­र्थ­नाच्च। अतोऽनग्नीनामपि शूद्रा­णा­म­ग्न्य­सा­ध्यायां विद्यायामधिकार इति शङ्काया न गता­र्थ­त्व­मि­त्यर्थः।
ननु कर्म­ण्य­ग्नि­व­द्वि­द्या­म­ध्य­यनं हेतु­रि­त्या­श­ङ्क्याह –
न चेति ।
अग्निः कर्महेतुः, स च न शूद्रस्य, अध्ययनं तु विद्यायामनियतो हेतुः संभवति च शूद्र­स्ये­त्यु­प­पा­द­यति –
यत इत्यादिना ।
आहवनीयादिसाध्ये कर्मणि शूद्रस्य नाधिकार इत्येतद्यतः कारणाद् युक्तं, यतश्च विद्यायां शूद्र­स्या­सं­भ­वि­सा­ध­न­म­लौ­किकं नास्ति, तत­स्त्व­दु­क्त­म­सां­प्र­त­मिति योजना।
अग्नेः कर्मसूपयोगमाह –
यदाहवनीये इति ।
ननु व्रीहि­व­दा­ह­व­नी­योऽस्तु शूद्रस्य नेत्याह –
तद्रूपस्येति ।
संस्कृ­तोऽ­ग्नि­रा­ह­व­नीयः; स चालौकिक इत्य­प्र­क­र­णा­धी­ता­द्वा­क्य­वि­हि­ता­धा­ना­देव लभ्य इत्यर्थः। आधानमपि द्विजातिसंबद्धं यदि क्रतुं कञ्चिदारभ्य विधीयेत, तर्हि क्रत्वन्तरे शूद्रोऽ­धि­क्रि­येत, न त्वेतदस्ति; तस्याग्निद्वारा सर्व­क्र­तु­सा­धा­र­ण्यात् इत्ये­व­म­ना­र­भ्या­धी­त­ग्र­ह­णम्।
आधानमप्यस्तु शूद्रस्य, नेत्याह –
आधानस्य चेति ।
वस­न्ता­दि­वा­क्ये­ने­त्यर्थः।
विद्यायामलौकिकं साधनं नास्ती­त्य­सि­द्ध­म­ध्य­य­न­क्रि­याया लौकिकत्वेऽपि तन्नियमस्य वैधत्वादिति शङ्कां परिहरति –
न विक­ल्पा­स­ह­त्वा­दिति ।
नानो­पा­य­सा­ध्येऽ­क्ष­रा­धि­ग­मेऽ­ध्य­यनं नियम्यमानं पुरुषार्थे तस्मि­न्नि­य­म्ये­तोत क्रत्वर्थे इति विकल्प्य द्वितीयं निरस्यति –
न तावदिति ।
अध्ययनियमस्य क्रत्व­र्था­श्रि­तत्वं प्रक­र­णा­द्वा­क्या­द्वेति विकल्प्याद्यं निरस्य द्वितीयं प्रत्याह –
न चाऽनारभ्येति ।
व्याप्तया हि जुह्वा क्रतौ व्यापके बुद्धिस्थीकृते वाक्यं पर्णतां क्रतुना संबन्धयति, स्वाध्यायस्तु स्वशा­खा­त्म­कोऽ­व­यवी न कर्मविशेषेण व्याप्त इत्यनुपस्थापिते कर्मणि कथं वाक्यमध्ययनस्य कर्मसबन्धं ब्रूया­दि­त्यर्थः।
नन्वज्ञातोपाये कथं पुरुषेच्छातः प्रवृत्तिरत आह –
तदुपायेऽपि हीति ।
फल­म­भि­ल­ष­स्त­दु­पा­य­म­प्य­नु­ष्ठेयं मन्यते, विशेषं तु न वेदेति।
तर्हि कर­णा­र्थे­ति­क­र्त­व्य­ता­या­मपि सामा­न्य­प्र­वृ­त्ति­रि­च्छा­धी­ने­त्या­श­ङ्क्याह –
इति­क­र्त­व्य­ता­स्विति ।
अनधिगतः करणविशेषो विधितो येन पुंसा स इतिकर्तव्यतासु न घटते न चेष्टते। न हि कर­ण­सा­मा­न्य­मि­ति­क­र्त­व्य­तो­प­कार्यं, किं तु विहितः कथंभावाकाङ्क्षः करणविशेषः, तत्र य यदङ्गं सामान्यतो यच्च विशेषतस्तत्र सर्वत्र विध्यधीनैव प्रवृ­त्ति­रि­त्यर्थः।
ननु कथं विध्य­धी­न­प्र­वृ­त्ति­कता क्रत्वर्थता क्रतु­वि­ध्यो­र्भे­दा­दत आह –
क्रतुरिति हीति ।
क्रतुरिति शब्दो विषयेण क्रतुना तदभिधायकं विषयिणं विधिशब्दं परामृशति लक्षणयेत्यर्थः। अर्थ्यते ज्ञायते।
मा भूवन्नध्ययनादयः पुमर्थाः, मा भूच्च तदा­श्रि­तोऽ­दृ­ष्ट­नि­य­मोऽ­र्था­व­बोधे तु दृष्टे एवाध्ययनं नियम्यतामत आह –
यदि चेति ।
यस्मान्न नियमविधिरतोऽ पूर्व­वि­धि­रि­त्याह –
तस्मादिति ।
यदो­प­न­य­ना­ङ्ग­का­ध्य­य­न­विधिः काम्यः, तदा शूद्रस्य लौकि­का­ध्य­य­ना­दिना वेदग्रहणमित्याह –
तथा चेति ।
द्वौ हीह पूर्वपक्षौ – सर्वत्र शूद्र­स्या­धि­कारः, संव­र्ग­वि­द्या­या­मेव वेति।
तत्राद्यं प्रदर्श्य, स्वाध्या­य­वि­धे­र्नि­या­म­क­त्व­मु­पे­त्यैव द्वितीयमाह –
मा भूद्वेति ।
वाक्य­प्र­क­र­ण­यो­र­भा­वेऽपि कल्पनालाघवेन साम­र्थ्य­ल­क्ष­ण­लि­ङ्गेन चानु­गृ­ही­त­स्त­व्य­प्र­त्ययः कर्म­प्रा­धा­न्य­म­व­ग­म­य­न्न­ध्य­य­नस्य संस्का­र­क­र्म­ता­मा­पा­द­य­ती­त्याह –
तथापीत्यादिना ।
विनियोगः पदान्वयः।
परम्परयेति ।
अक्ष­रा­वा­प्ति­प­दा­र्थ­व्यु­त्प­त्ति­वि­चा­र­प­र­ये­त्यर्थः। अन्य­तोऽ­नु­ष्ठा­न­तोऽ­पे­क्षि­त­म­र्थ­बो­ध­मि­त्यर्थः।
अर्थ­बो­धेऽ­ध्य­य­नस्य सामर्थ्यं दर्शयति –
दृष्टश्चेति ।
संस्का­रोऽ­वाप्तिः।
सैव दर्श्यते –
तेन हीति ।
विपरिवृत्त्येति ।
श्रुत­वि­नि­यो­गा­द्व्या­वृ­त्त्ये­त्यर्थः।
विनि­यो­ग­भ­ङ्गे­नेति ।
सुवर्णधारणेनेति कृत्वेत्यर्थः।
यदवादि लिखि­त­प­ठि­त­वे­दा­र्थ­बोध इति, तत्राह –
यदा चेति ।
एवं शूद्रस्य विद्या­या­म­सा­म­र्थ्य­मुक्त्वा शास्त्र­प­र्यु­दा­स­माह –
यज्ञ इति ।
अतत्परः शब्दो नाज्ञा­ता­र्थ­बो­धीति मते मा भूल्लि­ङ्गा­द­धि­का­र­सिद्धिः, सिद्धान्ते तु किं न स्यादत आह –
अस्माकं त्विति ।
असति बाध­केऽ­व­ग­मा­द­र्थ­स­त्ता­सि­द्धि­रुक्ता, विधिना चापेक्ष्यत इति सप्रयोजनता।
शूद्र­श­ब्द­स्या­व­य­वृ­त्ति­प्र­द­र्श­ना­या­ख्या­यिकां श्रौती­म­नु­क्रा­मति –
एवं किलेत्यादिना ।
जन­श्रु­त­स्या­पत्यं जानश्रुतिः। पुत्र­सं­ज्ञ­स्या­पत्यं पौत्रः। तस्यापत्यं पौत्रायणः। श्रद्ध­या­र्थिभ्यो देयं यस्य स तथा। पाक्यमन्नं बहु यस्य गृहे स तथा। शृङ्गाटकानि चतुष्पथाः। शौण्डस्य शूरस्य। तदनुग्रहाय उत्त­म­वि­द्या­जि­ज्ञासां कर्तुम्। दोषेत्यव्ययं रात्रा­वि­त्यर्थः। भल्लाक्ष भल्लाक्ष विरु­द्ध­ल­क्ष­ण­याऽ­न्धे­त्यु­पा­लम्भः। इत आरभ्य द्युलोके मा प्रसाङ्क्षीः प्रसक्तिं मा कार्षीः, यदि करोषि, तर्हि तन्म­ध्य­प्र­विष्टं त्वां तन्मा धाक्षीन्मा दहतु, तद्धक्ष्यति वराको जान­श्रु­ति­रि­त्ये­क­दे­श­द्वा­रो­च्यते। एष तावद्वराकः एनमल्पं । सन्तं किमे­त­द्व­च­न­मा­त्थे­त्ये­त­च्छ­ब्दा­न्वयः। युजेर्धातोः कर्तरि अन्येभ्योऽपि दृश्यन्त इति क्वनिपि कृते युग्वा। स्वारूढं पुरुषं देशान्तरेण युनक्तीत्यर्थः। उद्भेलमपारं। चिन्ताविष्ट्स्य हि रात्रि­र्ब­हु­र्भ­वति। पिशुनः सूचकः। वन्दारवः स्तावकास्तेषां वृन्दं समूहः। एकपदे झटिति। यन्तारं सारथिम्। विपिनमरण्यम्। नगनिकुञ्जं पर्वतगुहा। पुलिनं सैकतम्। ब्राह्मणायनं ब्राह्मणवेषम्। धनाया धनेच्छा श्रुत्यु­क्त­नि­ष्क­व्याख्या हारमिति। अश्वतरीभ्यां युक्तो रथस्तथोक्तः। आटोपः संभ्रमः। अह हारे त्वेति पाठो व्याख्यातः। आहरे त्वेति पाठे त्वा इत्यस्यात्र वाक्ये न केनापि संबन्ध इत्यानर्थक्यम्। शकटोक्तेः प्रा व्याख्यायामस्ति संबन्धीति॥३४॥ एवं तावन्न्यायबलेन शूद्र­श­ब्द­लि­ङ्ग­म­न्यथा नीतम्।
संप्रति शूद्रा­धि­का­र­वा­र­क­ब­हु­लि­ङ्ग­वि­रो­धा­दपि तथेत्याह –
क्षत्रि­य­त्व­ग­ते­श्चे­त्या­रभ्य आ अधिकरणसमाप्तेः।
ननु कापे­य­वा­ज्योऽ­भि­प्र­तारी चित्ररथ एव किं न स्यादत आह –
एष चेति ।
नामभेदादन्वत्वे सति तद्वं­श्य­त्वा­त्त­द्या­ज­केन याज्य­त्व­मि­थर्थः। यद्यपि क्षत्रयसमहि हारो न क्षत्रि­य­त्व­व्याप्तः कापेय एव व्यभि­चा­रा­त्त­थापि द्योतकतया संभावकः।
सर्वं च वैदिकं लिङ्ग­मे­व­भ्दे­त्याह –
संभाव्यते इति ।
एवं ताव­द्वा­क्यो­प­क्रमे संदे­ह­म­भ्यु­पे­त्यैव वाक्य­शे­षा­न्नि­र्णयः कृतः, इदानीं तु नैव संदेहः; शूद्र­श­ब्द­प­रा­म­र्शा­त्प्रा­गेव स ह क्षत्ता­र­मु­वा­चे­त्य­मा­त्य­प्रै­षा­दिना क्षत्रि­य­त्व­नि­श्च­या­दि­त्याह –
इतश्चेति ।
बहुदायी बहुपाक्य इति ह्यर्थ­सं­भ­वोऽ­धि­गतः। अन्ये वदान्या दानशीलाः पृष्ठे यस्य स तथा।
अर्थसंभवे च निमित्ते यदैश्वर्यं तस्य जानश्रुतेरवगतं तत् क्षत्रियस्य दृष्ट­मि­त्यर्थः॥३५॥ आद्यसूत्रे एवाध्ययननियमस्य सूत्रितत्वात् पुन­रु­क्ति­मा­श­ङ्क्याह –
न केवलमिति ।
उपनीतस्य यदध्ययनं तद्विधिपरामर्श आलोचनम्। उप­न­य­न­म­ध्य­य­ना­ङ्ग­मे­कम्, अपरं च विद्याप्राप्तये उप­स­द­ना­प­र­प­र्या­य­मस्ति। हीनवर्णे राजन्याचार्ये औपमन्यवादीनां ब्राह्म­णा­ना­मु­प­न­यनं ‘‘तान्हेति’’ निषिध्यते।
तत एवो­त्त­म­व­र्णा­चा­र्य­लाभे तेषामुपनयनं प्राप्नो­त्य­न्य­थाऽ­स्यैव अप्रा­प्त­नि­षे­ध­ता­पा­ता­दि­त्याह –
येषामिति ॥३६॥३७॥३८॥
ते हैते भारद्वाजादयः षड् ऋषयोऽपरं ब्रह्म परत्वेनावगतवन्त इति ब्रह्मपराः, तद्ध्या­ना­नु­ष्ठा­न­नि­ष्ठाश्च ब्रह्मनिष्ठाः परं च परमार्थं ब्रह्म अन्वेषमाणा एव पिप्प­ला­द­स्त­ज्जि­ज्ञा­सितं सर्वं वक्ष्यतीति प्रतिपेदिरे। ते च तमेव भग­व­न्त­मु­प­प­सन्नाः तानौ­प­म­न्य­वा­दी­न­नु­प­नी­यै­त­द्वै­श्वा­न­र­वि­ज्ञा­न­मु­वाच अश्वपती राजा। त्रपुजतुभ्यां वङ्गलाक्षाभ्यां तप्ताभ्याम्। द्विजातीनां दानं साधारणम्, प्रतिग्रहस्तु ब्राह्म­ण­स्यै­वेति विवक्षितम्, न तु शूद्रस्यैव दानं वार्यते॥
इति नव­म­म­प­शू­द्रा­धि­क­र­णम्॥

कम्पनात्॥३९॥ अस्या­नु­प्र­स­क्ते­ना­प­शू­द्र­वि­चा­रेण न सङ्गतिरिति व्यव­हि­ते­नो­च्यते। शब्दादेव प्रमित इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मै­क्य­बो­धे­त्यु­क्तम्। इह तु प्राणस्य स्वरूपेण कल्पितस्य न ब्रह्मैक्यसंभवो यतोऽनूद्येत, तत­स्त­दु­पा­स्ति­वि­धि­रिति प्रत्यवस्थीयते। प्राण­मे­वा­भि­सं­वि­श­न्ती­त्यत्र निर­वे­क्ष­का­र­ण­त्व­प­रै­व­का­र­श्र­व­णाद् ब्रह्मपरत्वम्, इह तदभावदत एव प्राण इत्य­ने­ना­ग­ता­र्थ­त्व­मो­प­सं­हा­रै­क­रू­प्य­स्या­स्प­ष्ट­त्वाच्च प्रात­र्द­न­वि­चा­रे­ण­पीति। स्यादेतत् - तदेव शुक्रं तद् ब्रह्मेति च भया­द­स्या­ग्नि­स्त­प­तीति च प्राची­न­प­रा­ची­न­व­च­न­सं­द­ष्ट­तया ऽस्य तदे­क­वा­क्य­त्वा­द­न्यत्र धर्मादिति ब्रह्म­प्र­क­र­णाच्च ब्रह्म­प­र­त्वा­व­गतेः कथं पूर्व­प­क्षो­त्था­न­मत आह –
प्राणवज्रेति ।
वायुपरिग्रहे वज्रशब्दः श्रुतिवृत्तः स्यादिति श्रुतिः। प्राण­श्रु­ति­ब­ला­द्वा­यु­रा­ध्या­त्मिकः शारीरो वज्र­श्रु­ति­ब­ला­द्वा­ह्यश्च वायुरत्र प्रतिपाद्यः। न हि प्राणमात्रस्य वज्रो­द्य­म­न­हे­तुना। उभयोश्च चिन्तनमेकं संव­र्ग­वि­द्या­व­दिति न वाक्यभेद इति भावः।
सर्व­श­ब्द­श्रु­ति­वि­रो­ध­मा­श­ङ्क्याह पूर्ववादी –
यद्यपि चेति ।
मण्डू­क­प्लु­त्येति ।
यथा मण्डूको बहून् विहाय स्वप­ङ्क्ति­ग­त­म­ण्डूकं प्रति प्लवते एवं शब्दादिति प्रतिज्ञा व्यवहिताऽपि हेतुनाऽनुषज्यते इत्यर्थः। शब्दोऽत्र सर्वशब्दः।
सवायुकस्य जगतः कम्प­यि­तृ­त्व­मु­प­पा­द­यति –
ब्रह्मणो हीति ।
ननु प्राण­व­ज्र­श्रुत्योः स्वार्थ­त्या­ग­भ­या­त्स­र्व­श­ब्द­सं­कोच उक्तः, कथं सवा­यु­क­ज­ग­त्प्र­ती­ति­रत आह –
एतदुक्तमिति ।
प्रधा­न­स्या­ङ्क्षस्य वचनं प्रकरणमिति प्रकरणलक्षणं प्रस्तुते वर्तयति –
यत्खल्विति ।
पृष्टं जिज्ञा­स्य­त्वा­त्प्र­धानं तस्य नियन्तृत्वादीनि प्रति­प­त्ता­व­ङ्गानि प्रतिवचनेन निरुप्यन्त इति प्रक­र­ण­सि­द्धि­रि­त्यर्थः। यदिदं किं च जगत् तत्सर्वं प्राणे निमित्ते एजति चेष्टते। तच्च तत एव निःसृतम् उत्पन्नम्। तच्च प्राणसंज्ञं जगत्कारणं महत्। विमे­त्य­स्मा­ज्ज­ग­दिति भयम्।
भयहेतुत्वं रूपयति –
वज्रमिति ।
उद्यतं वज्रमित्यर्थः। पूर्वपक्षे तु प्राणे निमित्ते मह­द्भ­य­हे­तु­र्व­ज्र­मु­द्यतं भवतीति व्याख्यातम्। तथा च मुख्यार्थो वज्रशब्दः। यदि तु सिद्धान्तेऽपि ब्रह्मणि निमित्ते वज्रमुद्यतमिति व्याख्यायेत, तदाऽपि वज्रशब्द उपलक्षणार्थः स्याद्; वज्र­ब्र­ह्म­णो­र­सा­धा­र­ण­सं­ब­न्धा­भा­वा­दिति। वायुरेव व्यष्टि­र्वि­शेषः। समष्टिः सामान्यम्। शुक्रं ज्योतिष्मत्। अस्येश्वरस्य भयादग्निसूर्यौ तपतः। इन्द्रादयस्तु धावन्ति स्वस्वकार्येषु। निर्वि­ष्टा­न­पेक्ष्य मृत्युः पञ्चमः। भीषा भयेन॥३९॥
इति दशमं कम्प­ना­धि­क­र­णम्॥३९॥

ज्योतिदर्शनात् ॥४०॥ ज्योतिरादित्यो ब्रह्म वेति ज्योतिश्श्रुतेः परश्रुतेश्च संशयः। ननु ज्योतिषां ज्योतिरिति ब्रह्मापि ज्योतिःशब्दमतः कथमादित्य इति पूर्व­प­क्ष­स्त­त्राह –
अत्रेति ।
प्रक­र­णा­त्प्रा­ण­शब्दं ब्रह्मेति यथोक्तं तथा ज्योतिरप्यस्तु, तत्राह –
पूर्वमिति ।
तत्र हि सर्व­श­ब्द­श्रु­ति­सं­को­चोऽस्ति, न त्विह। परमिति तु श्रुति­र्वि­शे­ष­णा­र्थेति न प्रधा­ना­र्थ­ज्यो­तिः­श्रु­ते­र्बा­धि­के­त्यर्थः। अत एव सङ्गतिः। समु­त्था­न­श्रु­तेश्च पीड­न­प्र­स­ङ्गा­दि­त्य­नु­षङ्गः।
ननु समुत्थानं विवेक इति दहराधिकरणे ( ब्र.अ.१.पा.३.सू.१४) व्याख्यातमत आह –
तथा हीति ।
अप्र­सि­द्धे­रि­त्यर्थः। परमिति विशे­ष­ण­मा­दि­त्य­स्या­र्चिषः पर­त्वा­दि­त्यर्थः। आदित्यस्य समीपे ब्रह्मलोके स्थित्वा तत्रो­त्प­न्न­ज्ञा­ना­न्मु­च्यते इत्यर्थः।
एवमादित्ये वाक्या ऽऽ ञ्जस्यमुक्त्वा ब्रह्मपक्षे क्त्वाश्रु­ति­पी­डा­मुक्तां प्रपञ्चयति –
ब्रह्म­ज्यो­ति­रिति ।
शरी­रा­त्स­मु­त्था­येति वाक्ये ज्योतिः प्राप्या­व­स्थि­तेऽस्य स्वरू­प­नि­ष्प­त्ति­रु­च्यते, सा ब्रह्म­ज्यो­ति­र्वा­दिनो न स्याद्; ब्रह्मण एव स्वरूपत्वात्, स्वरूपं प्राप्य स्वरूपं प्राप्नोतीति सङ्ग­ति­प्र­स­ङ्गा­दि­त्यर्थः।
नन्व­भि­नि­ष्पत्तिः साक्षात्कार इत्यत आह –
न चेति ।
साक्षा­त्का­र­रू­पा­भि­नि­ष्प­त्ति­र्ज्यो­ती­रू­प­सं­पत्तेः प्राप्तेः पूर्वा सती परत्वेन न वक्तव्या। या च मुखं व्यादाय स्वपि­ती­ति­व­द्व्य­त्य­य­यो­जना दहराधिकरणे कृता सा क्लिष्टे­त्यर्थः। न चोपसंपत्तिरेव साक्षात्कारः; उत्क­र्ष­वा­चि­प­र­श­ब्द­यो­गा­दु­प­सं­प­त्ते­रेव प्राप्ति­त्वा­व­ग­मा­दिति। ज्योतिरिति समु­त्था­थे­त्यु­प­सं­प­द्येति तिसृभिः श्रुतिभिर्य आत्मेति प्रकरणबाधः। अनेन विपक्षे श्रुति­सं­को­चा­न्ना­डी­ख­ण्ड­प्र­स्तु­ता­दि­त्य­प्र­र­क­र­णाच्च तेजो ज्योतिरिति पूर्वा­धि­क­र­ण­सि­द्धा­न्तेन प्रत्यवस्थानात् संगतिरपि ध्वनिता।
उप­क्र­म­म­ध्यो­प­सं­हा­रै­क­रू­प्या­न्नि­र्णीते आत्मनि ज्योति­रा­दि­श्रु­त­य­स्त­द­नु­रो­धेन नेतव्या इत्याह –
यत्खल्विति ।
अत्र हि य आत्मेत्यात्मा प्रतिज्ञात एतं त्वेव त इति परामृष्टः स उत्तमः पुरुष इत्युपसंहृतः।
प्रकरणमनुरुध्य श्रुति­भ­ङ्गेऽ­धि­क­र­ण­वि­रोधं शङ्कते –
तदिति ।
ज्योतिष्टोमे श्रूयते –
तिस्र एवेत्यादि ।
उपसद इष्टिविशेषाः, तन्त्रित्वं ज्योति­ष्टो­म­स्यैव, द्वादशत्वं तु साह­स्यो­ताऽ­ही­न­स्येति चिन्ता। साह एकाहत्वाद् ज्योतिष्टोमः, अही­नोऽ­ह­र्ग­ण­सा­ध्य­त्वाद् द्वादशाहादिः; अहः खः क्रतुसमूह इति स्मृतेः, खस्येनादेशात्।
अत्रत्यं पूर्वपक्षं प्रस्तु­तेऽ­ति­प्र­स­ङ्ग­प्र­द­र्श­ना­र्थ­माह –
प्रकरणेति ।
अही­न­श्रु­ति­र­ह­र्गणे रूढा। भगवास्तु पाणिनिः स्वरार्थं प्रत्ययमनुशशास। सा ज्योतिः­श्रु­ति­रिव ब्रह्म­प्र­क­र­ण­रुद्धा साहमभिदधीत, तत्रैव च द्वादशोपसत्तां विदधीत। तत्किं विधत्ताम्। अयुक्तं हि विधा­तु­मु­त्क­र्षस्य सिद्धा­न्ति­त­त्वा­दि­त्यर्थः।
अव­य­व­व्यु­त्प­त्त्ये­त्यु­क्तम्, तामाह –
स हीति ।
सर्व­प्र­कृ­ति­त्वेन हीयते कुतश्रिन्न कृत्स्ना­ङ्ग­वि­धा­नात्, न न्यूनो ज्योतिष्टोम इत्यर्थः। अही­न­श­ब्द­स्या­ग­र्हणे रूढत्वान्न दुर्ब­ला­व­य­व­प्र­सिद्ध्या साह्न­वा­चि­ताऽ­तश्च द्वादशत्वस्य न साह्ने निवेश इति द्वाद­शा­हा­दा­वु­त्कर्ष इति यथाभाष्यं सिद्धान्तः।
अत्र वार्ति­क­का­र­पा­द­सं­मतं सिद्धा­न्त­मा­दर्श्य विरोधं परि­जि­ही­र्षु­र्य­था­स्थि­त­सि­द्धा­न्त­मध्ये एकदेशमनुजानाति –
अवयवेति ।
द्वाद­शो­प­स­त्तायाः प्रकरणे विधानाभावेऽपि द्वाद­शा­ही­न­स्येति वाक्यस्य न प्रकरणादुत्कर्ष इत्याह –
नापीति ।
प्रति­ज्ञा­द्व­य­मि­दम्। इतः प्रकरणादिदं वाक्यं नाप­कृ­ष्ये­ता­प­कृष्टं च सदहर्गणे द्वादशोपसत्तां न विधत्त इति।
तत्राद्यां प्रति­ज्ञा­मु­प­पा­द­यति –
परेति ।
यदि विधिपरं सदिदं वाक्यमकृष्येत, ततोऽहीनधर्मं ज्योति­ष्टो­म­प्र­क­रणे विधत्त इति स्यात्, तच्चान्यायम्; कुतः? इत्यत आह –
असंबद्धेति ।
मध्ये प्रकृ­ता­सं­ग­त­वि­धाने तत्पदैः प्रकरणं विच्छिद्येत। पुन­स्त­दु­द्धा­रे­णा­नु­स­न्धाने सति क्लेशः स्यादिति।
यदि नापकर्षो वाक्यस्य, किं तर्हि प्रयोजनमत आह –
तेनेति ।
द्वाशोपसद इति वाक्येन द्वादशाहप्रकरणे विहिता द्वादशोपसत्ता तद्विकृतिषु अति­दे­श­प्रा­प्ताऽ­नेन वाक्येन ज्योति­ष्टो­मेऽ­नू­द्यते त्रित्व­वि­धि­मौ­चि­त्येन स्तोतुम्। अहीनो हि महाँस्तस्य द्वादश साह्नस्तु शिशुस्तस्य तिस्र इत्यर्थः। अनेन द्वितीयाऽपि प्रतिज्ञा समर्थिता प्राप्तत्वान्न विधिरिति॥
निवीतादिवदिति ।
‘‘निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामि’’ति दर्श­पू­र्ण­मा­स­यो­रा­म्ना­यते। तत्रोपवीतं विधीयते एव। इतरयोस्तु विधिरुतार्थवाद इति संशये सत्य­पू­र्वा­र्थ­ला­भाद् मनुष्यशब्दस्य च मनु­ष्य­प्रा­धा­न्या­भि­धा­यि­त्वा­त्त­त्प्र­धाने आतिथ्ये कर्मणि निव्यातव्यं पित्र्ये च प्राची­न­मा­व्या­त­व्यम् इति पूर्वपक्षे राद्धान्तः। प्राप्तं हि मनुष्याणां क्रियासु सौकर्याय कण्ठा­ल­म्बि­व­स्त्र­धा­रणं देहार्धे बन्धनं वा निवीतम्। प्राप्तं प्राचीनावीतं वचनान्तरेण पितृयज्ञे। तदनुवादेन निवी­त­मि­त्या­दि­र­र्थ­वाद उपवीतं स्तोतुमिति।
ननु यदि द्वाद­शो­प­स­त्ता­वा­क्यस्य प्रक­र­णा­द­नु­त्कर्षः कथं तर्हि जैमि­नि­र­प­कृ­ष्ये­ते­त्यु­त्क­र्ष­मा­हात आह –
तस्मादिति ।
द्वाद­शो­प­स­त्तायाः प्रक­र­णेऽ­ङ्ग­त्वेन निवे­शा­भा­वा­भि­प्रा­योऽ­प­क­र्ष­शब्द इत्यर्थः। ज्योति­ष्टो­म­प्र­क­र­णा­म्ना­त­वा­क्यस्य नापकर्ष इत्य­ध­स्ता­द­न्वयः। तदेवं द्वाद­शो­प­स­त्ता­वा­क्यस्य प्रक­र­ण­नि­वे­श­स­म­र्थ­नेन प्रतिबन्दी निरस्ता।
ननु तर्हि पूष्णोऽहं देवयज्यया प्रजया च पशु­भि­र­भि­ज­नि­षी­ये­त्या­दी­नाम् इष्ट­दे­व­ता­ना­म­स्म­र­णा­ख्या­नु­म­न्त्र­णा­र्थ­म­न्त्राणां दर्श­पू­र्ण­मा­स­प्र­क­र­णात् नोत्कर्षः स्यात्तत्राह –
पूषादीति ।
दर्श­पौ­र्ण­मा­सि­का­ग्न्या­दि­दे­व­ता­नु­म­न्त्र­ण­म­न्त्र­नि­र­न्त­र­पा­ठात् पूषा­दि­म­न्त्राणां नाग्ने­या­दि­वि­धि­भि­र­र्थ­वा­द­त्वेन सम­भि­व्या­हा­रा­व­गतिः।
तदिदमुक्तम् –
अगत्येति ।
यत्र निनीष्यन्ते तत्रान्यतो न प्राप्तिरित्याह –
पौष्णादौ चेति ।
अस्तु तर्हि ज्योति­र्वा­क्ये­ष्वपि श्रुति­व­शा­दा­दि­त्य­वा­दिनो निर्गु­ण­प्र­क­र­णा­नु­प­यो­गा­द­र्चि­रा­दि­मार्गे च सोप­यो­ग­त्वा­दु­त्क­र्ष­स्त­त्राह –
इह त्विति ।
तुशब्दो नेत्यर्थे। इह ज्योतिर्वाक्ये नोत्कर्षः इत्यर्थः।
हेतुमाह –
अपकृष्टस्येति ।
फलस्य ब्राह्म­लौ­कि­क­भो­ग­स्यो­पायो मार्ग­स्त­त्प्र­ति­पा­दकः अर्चि­रा­दि­मा­र्गो­प­देशः तेऽर्चि­ष­म­भि­सं­भ­व­न्ती­त्या­दि­र­ति­वि­शदः। मार्ग­प­र्व­त्वे­ना­दि­त्य­स्तत्र स्वशब्दोपात्तः संव­त्स­रा­दि­त्य­मिति। ज्योतिर्वाक्ये तु ज्योतिः शब्दमात्रं श्रुतं न मार्गोऽ­त­श्चा­वि­श­द­मि­द­मे­क­दे­श­मा­दित्यं वद­द्व­दे­त्त­त­श्चास्य संपू­र्ण­मा­र्गो­प­दे­श­केऽ­र्चि­रा­द्यु­प­दे­शे­नो­त्कर्षः; निष्प्र­यो­ज­न­त्वा­दि­त्यर्थः।
ननु यद्य­र्चि­रा­दि­मार्गे प्राप्त आदित्यस्तर्हि मैवं ज्योतिर्वाक्यं पूषा­दि­म­न्त्र­व­दु­त्कर्षि, एकदेशाभिधानेन त्वर्चि­रा­दि­मार्गं निर्गु­ण­प्र­क­र­णेऽ­नु­व­दद् ब्रह्मध्यानं स्तोतुं साया­सोऽ­र्चि­रा­दि­पथः, इदं तु निरायासमितीत्यत आह –
न च द्वादशेति ।
अस्तु तर्हि द्वाद­श­त्व­वा­क्येऽपि श्रौता­र्थ­सं­स­र्ग­प­र­त्व­लो­भेन विधित्वमिति चेत्तत्र वक्तव्यम्। किमहीनशब्दे रूढिमभङ्क्त्वा वाक्यं श्रौता­र्थ­मा­श्री­ये­तोत भङ्क्त्वा।
नाद्य इत्याह –
द्वादशेति ।
अहीनधर्मस्येह विधौ प्रकरणं विच्छिद्येत विच्छेदस्य चायुक्तत्वं द्वादशाहादौ च प्राप्त­द्वा­द­शो­प­स­त्ता­नु­वा­दस्य च निष्प्र­यो­ज­न­त्वा­दि­त्यर्थः।
न द्वितीय इत्याह –
न चैतदिति ।
उप­स­दोऽ­व­च्छेत्तुं विंश­ते­स्त्रि­त्व­द्वा­द­श­यो­र्वि­क­ल्पा­पत इत्यर्थः। समुच्चये पञ्च­द­शो­प­स­त्ता­पा­त­स्तिस्र एवे­त्ये­व­का­र­वि­रो­ध­श्चेति।
अपि च तिस्र उपसदो द्वाद­शे­त्ये­ता­व­ताऽ­लम्, यद्युभयोः संख्ययोः प्रकरणे निवेशः, वृथा साह्नाहीनशब्दौ, प्रकरणादेव संख्य­यो­र्ज्यो­ति­ष्टो­म­सं­ब­न्ध­सि­द्धे­रि­त्याह –
साह्नेति ।
यदा त्वही­न­श­ब्दोऽ­ह­र्ग­ण­वाची, तदा स तावदवश्यं प्रयो­क्त­व्य­स्त­त­स्तिस्र इत्येवोच्यमाने त्रित्व­म­प्या­न­न्त­र्या­द­हीने स्यात्। तन्निवृत्तये साह्न­श­ब्दोऽ­प्य­र्थ­वा­निति भावः।
ज्योतिर्वाक्ये तु मुख्यार्थेन प्रक­र­ण­वि­च्छे­दा­दि­रि­त्याह –
इह त्विति ।
प्रकरणात् श्रुते­र्ब­ल­व­त्त्वेऽ­प्या­न­र्थ­क्य­प्र­ति­ह­तानां विपरीतं बलाबलमिति न्यायात् ज्योति­श्श्रु­तेश्च मुख्यार्थत्वे आन­र्थ­क्य­स्यो­क्त­त्वात्। प्रक­र­णा­नु­गु­ण्येन ज्योतिः परं ब्रह्मेत्यर्थः।
नन्वा­दि­त्य­स्ये­त्य­प्यस्ति प्रकरणम्; ‘स यावत् क्षिप्ये­न्म­न­स्ता­व­दा­दित्यं गच्छती’ति प्रस्ता­वा­दि­त्यु­क्त­म­नु­व­दिति –
यत्त्विति ।
परिहरति –
नेति ।
दहरविद्याफलं ब्रह्म­लो­का­वा­प्ति­रा­दि­त्य­द्वारा उक्ता। इदं तु य आत्माऽ­प­ह­त­पा­प्मे­त्या­दि­नि­र्गु­ण­प्र­क­र­ण­मि­त्यर्थः। दहरविद्या च नाडी­ख­ण्डा­त्पूर्वं प्रस्तुतेति न प्रक­र­णो­त्क­र्ष­शङ्का। नन्वा­त्य­न्ति­क­मो­क्षोऽपि ब्रह्मलोकद्वारा प्राप्यतामिति, तत्र वक्तव्यम् - किं मोक्षस्य गति­पू­र्व­का­ना­प्य­त­त्व­म­ङ्गी­कृ­त्यै­त­द्वाक्यं क्रम­मु­क्ति­प­र­मि­त्य­भि­म­तम्? उत नियमेन गति­पू­र्व­प्रा­प्य­त्व­मिति।
नाद्य इत्याह –
न चेति ।
तस्मा­द्वि­द्व­च्छ­री­राद् अत्रैव ब्रह्मणि समवनीयन्ते लीयन्ते।
न द्वितीय इत्याह –
न च तद्द्वारेणेति ।
तच्छब्देन ब्रह्मलोकमाह।
यत्तूपसंपद्येति क्त्वाश्रु­त्य­नु­प­प­त्ति­रिति, तत्राह –
तस्मादिति ।
आदि­त्य­मु­प­सं­प­द्येति व्याचक्षाणानां मध्ये ब्रह्म­लो­क­प्रा­प्ति­व्य­वा­या­ङ्गी­का­रेण क्त्वाश्रु­त्य­ना­ञ्जस्यं तु तुल्यमित्यर्थः।
तदेवं प्रकरणात् श्रुति­भ­ङ्ग­म­भि­धाय श्रुतिवशादप्याह –
अपि चेति ।
न च उत्तमः, पुरुषं प्राप्ता न तु प्राप्यं ज्योतिरिति - वाच्यम्; परत्वेन विशेषितस्य ज्योतिष एवोत्तमत्वेन विशेष्टुं योग्यत्वादिति।
भाष्ये करणादिति ।
द्युसं­ब­न्ध­प्र­त्य­भि­ज्ञा­तस्य ब्रह्मणो यच्छब्देन परा­म­र्शा­दि­त्यर्थः। ‘अथ या एता हृदयस्य नाड्य’ इति नाडीखण्डे। अथ विशे­ष­वि­ज्ञा­नो­प­र­मा­न­न्तरं, यत्र काले, एतदिति क्रियाविशेषणम्। एतदुत्क्रमणं करोति। अथ तदैतै रश्मि­भि­रू­र्ध्वम् आक्रमते उपरि गच्छ­ती­त्यु­प­क्रम्य आदित्यं गच्छतीति श्रुतम्।।४०॥
इति एकादशं ज्योतिरधिकरणम्॥

आका­शोऽ­र्था­न्त­र­त्वा­दि­व्य­प­दे­शात्॥४१॥ अत्रा­का­श­ब्र­ह्म­श्रु­तिभ्यां संशयः। ‘‘सर्वाणि भूतान्याकाशादेव समुत्पद्यन्ते’’ इत्यत्र हि सर्व­ज­ग­दु­त्पत्तेः, एव­का­रा­व­ग­ते­र्नि­र­पे­क्ष­का­र­ण­त्वस्य, प्रत्यु­क्ति­सा­मा­ना­धि­क­र­ण्य­सा­म­र्थ्यस्य च दर्शनाद् ब्रह्मपरत्वम्, नैव­मि­हे­त्य­ग­ता­र्थ­त्व­माह –
तथापीति ।
हेतूनां प्रसि­द्धे­र्भू­ता­काशो न तु ब्रह्मेति वक्ष्य­मा­णे­ना­न्वयः।
अन­न्त­रा­धि­क­र­णे­ना­ग­ता­र्थ­त्व­सं­गतिं वक्ति –
अकस्माच्चेति ।
पूर्वत्र हि प्रक­र­णा­दा­न­र्थ­क्य­ह­त­श्रु­ति­र्नीता, इह तु न ब्रह्मप्रकरणम्; नाप्या­का­श­श्रु­ते­रा­न­र्थ­क्यम्, नाम­रू­पा­धि­ष्ठा­न­ब्र­ह्म­प्र­ति­प­त्त्य­र्थ­त्वात् आकाशस्येति भावः।
तर्हि नामरूपान्यत्वं ब्रह्मणो लिङ्गम्, ब्रह्म­श­ब्द­श्रु­तिश्च नेत्याह –
नामरूपे इति ।
नामरूपे अन्तरा ब्रह्मेति श्रुति­र्ना­म­रू­प­यो­र्नि­र्व­हि­तु­रा­का­श­स्या­न्त­रा­लत्वं नाचष्टे, किंतु ब्रह्मणः।
ततः किमत आह –
तेनेति ।
निषेधमुखेनैतदेव विशदयति –
न त्विति ।
निर्वोढा य आकाशः स नैव ब्रह्म। अन्तरालभूतं वा यद् ब्रह्म तदपि नैव निर्वो­ढ्रि­त्यर्थः। एवं च ब्रह्म­श­ब्द­श्रु­ति­रपि ब्रह्मण्येव नाकाश इत्युक्तम्।
अभि­धा­ना­भि­धे­य­ना­म­रू­प­नि­र्वा­ह­कत्वं नियन्तृत्वम्, तन्न नभसि सत्य­प्य­व­का­श­दा­तृत्वे घटत इत्याह –
न चेति ।
नाम­रू­प­क­र्तृ­त्वेन वाक्या­न्त­र­ग­त­ब्र­ह्म­प्र­त्य­भि­ज्ञा­माह –
अनेनेति ।
नन्वनेन जीव­ने­त्य­त्रा­नु­प्र­वे­श­व्या­क­र­णयोः क्त्वाप्र­त्य­ये­नै­क­क­र्तृ­कत्वं प्रतीयते, अनुप्रवेशे च जीवः कर्तेति स एव व्याकरणेऽपि कर्ता स्यात्तथा च न व्याक­र्तृ­त्वा­दिह ब्रह्म­प्र­त्य­भिज्ञा, अत आह –
ब्रह्मरूपतया चेति ।
जीवस्य व्याक­र्तृ­त्व­प्र­ती­ता­वपि न विरोधस्तस्य ब्रह्मा­भे­दा­दि­त्यर्थः॥४१॥
इति द्वादशं अर्था­न्त­र­त्वा­धि­क­र­णम्॥

सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन॥४२॥ अत्र विज्ञा­न­म­य­श­ब्दा­दु­प­सं­हा­र­स्थ­स­र्वे­शा­ना­दि­श­ब्दाच्च विशयः। अङ्गुष्ठमात्र इत्यत्र नोपक्रमोपसंहारौ जीवे, अत्र तु स्त इत्यगतता। पूर्वत्र नामभेदरूपाभ्यां भेदव्यपदेशाकाशं ब्रह्मे­त्युक्तं, तत्र भेद­व्य­प­दे­शोऽ­ने­का­न्तोऽ­स­त्यपि भेदे ‘प्राज्ञे­ना­त्मना संपरिप्वक्त’ इति भेदो­प­चा­र­द­र्श­ना­दि­त्या­श­ङ्क्याह –
(???)
अत्रापि मुख्य­भे­द­प­र­त्व­सा­ध्य­त्वा­त्स­ङ्गतिः ।
पूर्वपक्षमाह –
आदीति ।
आदावन्ते च विज्ञा­न­म­य­श­ब्दाद् मध्ये स्वप्ना­द्युक्तेः संसारिपरे ग्रन्थे सति ‘महानज’ इत्यादि सर्वं संसारिण्येव योज्यत इत्यर्थः। संपिण्डिता विष­य­सं­ब­न्ध­कृ­त­वि­क्षे­पा­भा­वाद् घनीभूता प्रज्ञा यस्य स तथा, संसा­र्ये­वा­नू­द्यत इति। अनुवादप्रयोजनं कर्मा­पे­क्षि­त­क­र्तृ­स्तुतिः।
नन्वसिद्धे ईश्वर धर्मिणि भेद­व्य­प­दे­शोऽ­सिद्ध इत्याशङ्क्याह –
अयमभिसंधिरिति ।
द्वितीयं विकल्पं निराचष्टे –
न चात्रेति ।
नन्वात्मशब्दो जीवस्वभाववचन इत्युक्तं, तत्कथं तद­ति­रि­क्ते­श्व­र­व्य­प­दे­शोऽत आह –
न च प्राज्ञस्येति ।
ननु जीवस्यापि शास्त्रा­दि­वि­ष­य­प्र­ज्ञा­प्र­क­र्षोऽस्ति, अत आह –
असं­कु­च­द्वृ­त्ति­रिति ।
ननु भेदेन जीवपरव्यपदेशे वाक्यं भिद्येतात आह –
लोक­सि­द्ध­म­नू­द्येति ।
नन्व­ति­ला­घ­वा­द­नु­वाद एव भवतु, नेत्याह –
न त्विति ।
नन्व­भ्या­सा­ज्जी­व­प­रत्वं वाक्यस्य, नेत्याह –
अत एवेति ।
यत एवा­नु­वा­द­मा­त्र­म­न­र्थ­क­मत एव प्राणा­दि­वि­वे­का­र्थ­मु­प­क्रमे जीववर्णनं स्वप्ने­दे­र्व्य­भि­चा­रि­त्वा­द­ना­त्म­ध­र्म­त्वार्थं मध्ये निर्देशः। अन्ते च शोधितजीवं परामृश्य तस्य ब्रह्मत्वं बोध्यत इति विवेकः।
उप­रि­त­न­वा­क्य­सं­द­र्भोऽत ऊर्ध्वं विमोक्षायैव ब्रूही­त्यादिः॥४२॥ वशिशब्दं व्याख्याति –
वश इति ।
वशः शक्ति­र­स्या­स्तीति वशी। ततः फलितमाह
सर्वस्य जगत इति ।
अयमीश्वरः सर्वस्य जगतः प्रभवति प्रभुर्भवति प्रभावं प्रकटयति।
व्यूहेति ।
व्यूहेन विभागेन जगतोऽवस्थाने साध्ये समर्थ इत्यर्थः। शक्तस्य तथैव करणं सर्वे­शा­न­प­दार्थः। प्रकृतं जगत्प्रति नियन्तृत्वं सर्वा­धि­प­ति­त्वम्॥ विज्ञा­न­म­न्तः­क­र­णम् तन्मयः तत्प्रायः। प्राणेषु हृदीति व्यतिरेकार्थे सप्तम्यौ, प्राण­बु­द्ध्य­ति­रिक्त इत्यर्थः। अन्तरिति बुद्धि­वृ­त्ते­र्वि­वि­नक्ति, ज्योति­रि­त्य­ज्ञा­ना­द्भि­नत्ति। पुरुषः पूर्णः। योऽयमेवभूतः स आत्मेति याज्ञवल्कीयं प्रतिवचनं कतम आत्मेति जन­क­प्र­श्ना­न­न्त­रम्। अन्वारूढः अधिष्ठितः। उत्सर्जद् वेदनातः शब्दं कुर्वन् बुद्धौ ध्यायन्त्यां ध्यायतीव चलन्त्यां चलतीव। बुद्धान्तो जाग्रत्, अतः कामा­दि­वि­वे­का­न­न्तरं, विमोक्षाय ब्रूहीति जनकः पृच्छति। तेन जाग्र­द्भो­गा­दिना, अनन्वागतो भव­त्य­स­ङ्ग­त्वा­दिति प्रतिवक्ति याज्ञवल्क्यः। तदा सुषुप्तौ, हृदयस्य बुद्धेः संबन्धिनः शोकाँस्तीर्णो भवति॥४३॥
इति त्रयोदशं सुषु­प्त्यु­त्क्रा­न्त्य­धि­क­र­णम्॥ इति श्रीम­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­प­र­म­हं­स-प­रि­व्रा­ज­का­चा­र्य-भ­ग­व­द­म­ला­न­न्द­कृते वेदान्तकल्पतरौ प्रथमाध्यायस्य तृतीयः पादः समाप्तः॥ अस्मिन् पादे आदितः अधिकरणानि १३ ३२ सूत्राणि ४३ १०६

आनु­मा­नि­क­म­प्ये­के­षा­मिति चेन्न शरी­र­रू­प­क­वि­न्य­स्त­गृ­ही­ते­र्द­र्श­यति च॥१॥ अर्वा­ची­न­म­ह­त्त­त्त्वा­पे­क्षया पूर्व­का­ल­त्व­म­वि­प्र­कृ­ष्ट­म­व्य­क्तस्य परशब्द आह –
तथा च कारणत्वसिद्धिः । निय­त­प्र­क्सत्त्वं हि तदित्यर्थः। ननु सिद्धे गतिसामान्ये का शङ्का? महतः पर­मि­त्या­दि­वा­क्या­र्था­नि­र्णये वा कथं गति­सा­मा­न्य­सिद्धिः? उच्यते – असाधि प्रतिवेदान्तं ब्रह्म­का­र­ण­ता­गतिः। प्रतिवाक्यं न तत्सिद्धिः क्व चिद­न्या­र्थ­द­र्श­नात्॥ पूर्वत्र हि प्रधानाद्येव सर्ववेदान्तार्थ इति प्रत्यवस्थिते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मावगतिः साधिता, इह तु तामुपेत्य प्रधानाद्यपि कारणत्वेन समन्वयविषयः। न चाने­क­का­र­ण­वै­य­र्थ्यम्; कल्पभेदेन व्यव­स्थो­प­प­त्ते­रिति प्रत्यवस्थीयते। सूत्र­का­रोऽ­प्य­पि­ध­ब्द­मे­क­शब्दं च प्रयुञ्जानो ब्रह्मा­ङ्गी­का­रेण पूर्वपक्षः क्चाचित्कश्चायं विचार इति सूचयांबभूव। अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्त­क्र­म­श्रौ­त­पा­रि­शे­प्या­भ्याम् उभयोः प्रत्य­भि­ज्ञा­ना­त्सं­शयः। सांख्यानां श्रुति­स्मृ­त्यो­र­नु­मा­न­सि­द्धा­नु­वा­दि­त्वेन तुल्यता।
भाष्ये स्मृतिशब्दः सांख्य­स्मृ­त्य­भि­प्राय इत्याह –
सांख्येति ।
शब्दा­दि­ही­न­त्वा­दिति भाष्ये गुण­वै­ष­म्यो­त्त­र­का­ल­भा­वि­श­ब्दा­दि­ही­न­त्व­मुक्तं प्रधानकालेऽपि सूक्ष्म­श­ब्दा­दि­भा­वा­दि­त्याह –
शान्तेति ।
शान्तः सात्त्विको घोरो राजसो मूढस्तामसः।
श्रुति­स्मृ­ति­न्या­ये­ति­भाष्यं व्याख्याति –
श्रुतिरिति ।
भेदानां महदादिविशेषाणां कार­ण­म­व्य­क्त­म­स्तीति संबन्धः। कुतः?
परिमाणात् ।
महदादि, अव्यक्तकारणकम्, अव्यापित्वाद् घटवत्। सत्कार्यवादे प्राक्का­र्यो­त्प­त्ते­र­व्य­क्त­का­र्य­त्वा­त्का­र­णेऽ­व्य­क्त­श­ब्द­प्र­योगः। तावेव प्रति­ज्ञा­दृ­ष्टान्तौ। सम­न्व­या­त्त­द­नु­रा­ग­वि­ज्ञा­न­वे­द­नी­य­त्वात्। यद्येन समन्वितमिति सामान्येनात्र व्याप्तिः। कारणशक्तितः कार्यस्य प्रवृत्तेः कार­ण­ग­ता­व्य­क्त­कार्यं हि शक्तिरित्यर्थः। इदमस्य कारणमिदमस्य कार्यमिति विभागात्। अव्य­क्त­का­र्य­स­त्त्व­र­हि­तस्य नृशृ­ङ्ग­व­त्का­र­ण­त्वा­यो­गा­दि­त्यर्थः। प्रलयावस्थायां वैश्व­रू­प्य­स्या­वि­भात् लीना­न­भि­व्य­क्त­का­र्या­श्र­योऽ­स्त्य­व्य­क्त­मिति॥ अव्यक्तपदेन किं रूढेः प्रधा­न­प्र­ती­ति­र्यो­गाद्वा स्मार्त­क्र­मा­नु­गृ­ही­त­यो­गाद्वा।
नाद्य इत्याह –
लौकिकी हीति ।
य एव लौकिका इति शाबरं वचः। लोकवेदयोः शब्दार्थभेदः; लौकिका वैदिका इति व्यप­दे­श­भे­दा­दे­तद्वै दैव्यं मधु यद् घृतमिति देवमधुनो घृत­त्वा­भि­धा­ना­च्चेति प्रापय्य राद्धान्तितम्। लोका­व­ग­त­सं­ब­न्ध­श­ब्दानां वेदे बोध­क­त्वो­प­प­त्ते­रै­क्येन च प्रत्य­भि­ज्ञा­नाद् घृते मधुत्वस्य स्तुत्य­र्थ­त्वा­च्चैक्यं शब्दार्थयोरिति।
द्वितीयं प्रत्याह –
योगास्त्विति ।
तृतीयं निराकरोति –
प्रकरणेति ।
अयं भावः, इह विष्णोः पदं पुरुषः प्रधानं तत्प्र­ति­प­त्त्य­ङ्गानि इन्द्रियादीनि ‘‘इन्द्रियेभ्यः परा’’ इत्यादिना निर्दिश्यन्ते। तानि ‘‘चात्मानं रथिन’’मिति वाक्ये रथा­दि­रू­पि­ता­न्येव गृह्यन्ते। एवं स्थिते ‘‘महतः पर­म­व्य­क्त­मि­त्यत्र पौरु­षे­य­वा­क्य­स्थ­प­दा­र्थ­त­त्क्र­मा­पे­क्ष­प्र­धा­न­प्र­त्य­भिज्ञा दुर्बला। प्रक­र­णा­धी­त­प­दा­र्था­श्र­य­त्वा­दि­भि­धे­या­का­ङ्क्षा­श्र­य­त्वाच्च पारि­शे­ष्य­नि­मित्ता शरी­र­प्र­त्य­भिज्ञा प्रबला। तथा हि - रथत्वेन रूपितं शरीरं पुरु­ष­प­र­त्व­प्र­ति­पा­द­क­वा­क्या­न्व­य­म­पे­क्षते; इतरथा निष्प्र­यो­ज­न­त्वात्, न च स्वाभि­धे­या­व­रुद्धा इन्द्रि­या­दि­श­ब्दा­स्त­द­भि­द­ध­तीति अस्ति अव्य­क्त­श­ब्दा­पेक्षा शरीरस्य।
अव्यक्तशब्दोऽपि यौगि­क­त्वा­द­भि­धे­य­वि­शे­षा­काङ्क्षी स्वश­ब्दो­पा­त्ते­न्द्रि­या­द्य­भि­धा­तु­म­क्षमः शरीराकाङ्क्षीति शरी­र­मे­वा­व्य­क्त­श­ब्दार्थ इति।। ‘‘विषयांस्तेषु गोचरा’’ निति श्रुति व्याचष्टे –
तेष्विति ।
विषयानुद्दिश्य मार्गत्वं विधेयम्।
स्वगोचरमालम्ब्य चलन्तीति विप­रि­ण­ता­नु­षङ्गः। ‘‘आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिण’’ इत्ये­त­द्व्या­चष्टे –
आत्मेति ।
युक्तमिति भावे निष्ठा, क्रियाविशेषणं चैतत्तदेव दर्शयति –
योग इति ।
प्रक­र­ण­प­रि­शे­षा­भ्या­मि­त्वु­क्तम्।
ननु प्रकरणं कर्त­व्य­स्ये­ति­क­र्त­व्या­का­ङ्क्षस्य वचनम्, कथमिह तदित्याशङ्क्याह –
प्रधानस्येति ।
प्रधा­न­स्ये­त्यु­क्तेऽ­र्था­दा­का­ङ्क्षाऽ­ङ्ग­वि­ष­येति सिद्ध्यति। काण्डद्वयानुगतं लक्ष­ण­मि­द­मे­वे­त्यर्थः।
किं प्रधानमत आह –
गन्तव्यमिति ।
इन्द्रियादयश्च तस्य पर­त्व­प्र­ति­प­त्ता­व­ङ्गम्। संय­तो­श्चे­त­त्प्रा­प्ता­वपि।
यस्त्व­वि­ज्ञा­न­वा­नि­त्या­दि­श्रुतौ भाष्ये चासं­य­मा­भि­धा­न­म­नु­प­यो­गी­त्या­श­ङ्क्याह –
असंयमेति ।
संयमाभावे मोक्षाभावेन तद्भाव एव दृढीकृत इत्यर्थः।
यदुक्तं पूर्ववादिना महतः परमित्यत्र परशब्दः कारणवचन इति, तत्राह –
परशब्द इति ।
मन आदौ अर्था­दि­का­र­ण­त्वा­सं­भ­वा­द­स्मि­न्प्र­क­रणे परशब्दः श्रैष्ठ्यवचन इत्यर्थः।
इहा­ध्या­त्म­प्र­क­रणे आन्तरत्वात् श्रैष्ठ्यं वक्तव्यम्, तदर्थेषु नास्तीति शङ्कते –
नन्विति ।
नामैव शब्दो वागभिव्यङ्ग्यः। स एव श्रोत्रेण ग्राह्य इति द्विरुपात्तः। कामो मनसो विषयः, कर्म हस्तयोः।
ननु मनस इन्द्रियत्वेन अर्थेभ्योऽपरस्य कथं तेभ्य एव परत्वम्? अत आह –
ग्रहत्वेनेति ।
‘आत्मानं रथिनम्’ इत्यत्र य आत्मशब्दः स एव ‘बुद्धेरात्मा’ इत्यत्र प्रत्यभिज्ञायत इत्य­भि­प्रा­ये­णा­त्म­श­ब्दा­दिति भाष्यम्, अन्य­थाऽऽ­त्म­श­ब्द­मा­त्रस्य प्रकृ­त­र­थि­ग्र­ह­ण­हे­तु­त्वा­भा­वा­दि­त्याह –
तत्प्र­त्य­भि­ज्ञा­ना­दिति ।
इन्द्रियद्वारा बुद्धिस्था भोग्यास्ततः पुरुस्वाम्यं भोग्या­श्र­य­त्वम्। आयनाद् व्याप्तेः। बुद्धि­मा­त्रा­द­स्म­दा­दि­बुद्धेः।
ननु रथिनः संसारिणः कथ­म­सं­सा­र्या­त्म­त्वेन निर्देशोऽत आह –
यथा हीति ।
अञ्चत्यवगच्छति। भाष्योदाहृतायां ‘यच्छेद्वा नसी’ इति श्रुतौ वाक्च्छब्दे द्विती­या­लो­प­श्छा­न्दस इत्यर्थः। शरीरमेव रूपकेण रथेन विन्यस्तं रूपितम् इति सूत्रपदार्थः॥१॥ अनुशयः असंतोषः। भत्सरं सोमम्, श्रीणीत मिश्रयेत्। एवं सतीति। कार्यकारणाभेदे सतीत्यर्थः। सेश्व­रा­णा­मी­श्व­राद्, अनीश्वराणां जीवेभ्य इति संबन्धः। प्रमाणैर्न व्यज्यते न निरूप्यत इत्य­व्य­क्त­त्व­मि­त्यर्थः॥२॥ तदाश्रयत्वात् तद्वि­ष­य­त्वा­दि­त्यर्थः। आधारवाची आश्रयशब्दः।
अवि­द्याऽ­प्ये­केति भ्रमादाशङ्कते –
स्यादेतदिति ।
अविद्या ब्रह्मगता निवर्तते, न वा।
प्रथमे सर्वमुक्तिः, द्वितीये मुक्तानां पुनर्बन्ध इति अवि­द्या­दा­ह­मु­पेत्य सर्व­मु­क्ते­रा­पा­द­ना­द­प­रि­हा­र­त्व­मा­शङ्क्य भाष्यभावमाह –
अयमिति ।
पूर्व­भ्र­म­क्लृ­प्तेन अप्र­धा­ने­ना­त्म­नोऽ­वि­वे­क­सं­भ­वा­द­वि­वे­क­प्र­ति­यो­गि­त्वे­नापि कृतं प्रधा­ने­ने­त्यर्थः।
यद्यविद्या नाना, कथं तर्हि श्रुता­व­व्य­क्त­मि­त्ये­क­व­च­न­मि­त्यत आह –
अविद्यात्वेति ।
निमित्ततयेति ।
प्रेरकतया, अवि­द्या­वि­ष­य­त्वेन च तत्प्रेरकत्वं गन्धस्येव घ्राणं प्रति।
उपादानतयेति ।
जग­द्भ्र­मा­धि­ष्ठा­न­त­ये­त्यर्थः।
विद्यास्वभावे इति ।
निरवद्यमिति श्रुत्य­व­ग­त­नि­र्दो­ष­ज्ञा­ना­त्मत्वं विद्या­स्व­भा­व­त्वम्। एवं चिद्रूपत्वं जीवोऽपि समम्, वाक्यजं प्रमा­रू­प­त्व­म­सि­द्ध­मिति केषां चिदा­क्षे­पोऽ­न­व­काशः। स्वरू­प­म­वि­द्या­श्रयो बिम्बं तु ब्रह्म­नि­र­व­द्य­मिति किं न स्यादिति चेद्, न; बिम्बस्य स्वरूपातिरेके कल्पितत्वात्, अनतिरेके स्वरूपस्यैव निरवधित्वात्। मुखमात्रस्य तूपाधियोगः परि­च्छि­न्न­त्वा­द­वि­रुद्धः। अपि च दर्प­णा­द्यु­पा­धे­र्वि­षय एव मुखं नाश्रयः। न तु निर्वि­शे­ष­ब्र­ह्म­स्व­रू­प­स्या­वि­द्या­सं­ब­न्ध­सं­भवः, इत्यनादिन्यौ जीवाविद्ये परस्पराधीनतया अवि­द्या­त­त्सं­ब­न्ध­व­दु­पेये इति। ये त्वाहुः - ब्रह्मणो जीव­भ्र­म­गो­च­र­स्या­धि­ष्ठा­न­त­यो­पा­दा­नत्वे सोऽकामयत स्वयमकुरुतेति च न स्यात्, प्रतिजीवं च भ्रमा­सा­धा­र­ण्याद् जग­त्सा­धा­र­ण्या­नु­भ­व­वि­रोधः, भ्रमजस्य चाका­शा­दे­र­ज्ञा­त­स­त्त्वा­योगः, तस्मादीश्वरस्य प्रति­बि­म्ब­धा­रिणी साधारणी माया। तद्यष्टश्च जीवो­पा­ध­योऽ­विद्या मन्तव्या इति। तान् प्रति भ्रूमः। अकामयताकुरुतेति च कामकृती जीवा­वि­द्या­वि­वर्तः। न च ब्रह्मविक्रिया; विवर्तश्च विवर्ते हेतुः सर्प इव विसर्पणस्य। प्रति­मा­ण­व­क­व­र्त्य­वि­द्या­भि­र्व­र्णेषु स्वरा­दि­वै­शि­ष्ट्येन क्लृप्तो­पा­ध्या­य­व­क्रो­द्व­त­वे­द­स्येव प्रप­ञ्च­सा­धा­र­ण्य­प्र­सिद्धिः। अधि­ष्ठा­न­व­र्ण­सा­धा­र­ण्य­त्त­त्सा­धा­रण्यं प्रस्तुतेऽपि समं सर्व­प्र­त्य­क्त्वाद् ब्रह्मणः। अज्ञातसत्त्वं प्रपञ्चस्य व्याव­हा­रि­क­स­त्त्वात्। न च जीवाविद्याजत्वे तदयोगः; स्वेन्द्रि­या­दि­व­दु­प­पत्तेः। यत्तु जीवस्य मनोवच्छिन्नत्वं भूत­सू­क्ष्मा­व­च्छि­न्नत्वं च दूषितम्, तदस्मदिष्टमेव चेष्टितम्; अस्मा­भि­र्जी­व­स्या­ना­द्य­वि­द्या­व­च्छे­दा­भ्यु­प­ग­मा­दिति। अपि च – न माया­प्र­ति­बि­म्बस्य विमु­क्तै­रु­प­सृ­प्यता। अवच्छेदान्न तज्ज्ञा­ना­त्स­र्व­वि­ज्ञा­न­सं­भवः।। अधिष्ठाने तु जैवीभिरविद्या भिरपावृते। जग­द्भ्र­म­प्र­सिद्धौ किं साधारण्येह मायया।। ग्रहीतृस्थाया अप्यविद्याया ग्राह्ये स्वस­म­ज­डा­व­भा­स­हे­तु­त्व­म­वि­रु­द्धम्, पित्तस्येव शङ्खे पीति­म­प्र­ति­भा­स­हे­तु­तेति विशदमशेषम्। यत एव ब्रह्मा­वि­द्या­वि­ष­योऽत एव ब्रह्म­वि­ष­य­बो­ध­रा­हित्यं जीवा­ना­मा­हे­त्यर्थः।
उपा­धि­भू­ता­वि­द्यै­वा­प्र­बो­धेऽपि हेतुरित्याह –
सत्यामिति ।
जीवा­व्य­क्त­यो­र­ना­दि­त्वेन नियतं पौर्वापर्यं नास्तीति न पौर्वापर्ये च तन्नियम इति यद्यपि; तथापि जीव­त्व­नि­या­म­केऽ­व्यक्ते पूर्व­त्व­मु­प­च­रि­त­मि­त्यर्थः। यथा बली­व­र्द­मा­न­ये­त्युक्ते गामानयेति प्रयोगे गोप­द­मि­त­र­गो­वि­ष­य­मे­व­म­व्य­क्त­प­द­मि­त्यर्थः।
प्रकृतेति ।
अप्रसङ्गेनेति च्छेदः। अव्यक्तपदस्य स्थूले देहे मुख्य­त्वा­भा­वा­दौ­प­चा­रि­कत्वं स्यान्न च तद्युक्तम्।
सकृच्छ्रुतस्य सूक्ष्म­स्थू­ल­दे­ह­वि­ष­य­तया मुख्य­गौ­ण­त्वे­वै­रु­प्या­पा­ता­दत आह –
न च मुख्ययेति ।
अतत्परमिति च्छेदः। अन्नो­प­घा­ति­नि­रा­क­र­णा­का­ङ्क्षायां वक्तु­स्त­त्प्र­यु­क्त­का­क­पदं काकगतोपघातकत्वं लक्षयद्यथा काक­त­दि­त­र­सा­धा­र­ण­मेवं पुरु­ष­प­र­त्व­प्र­ति­प­त्त्यर्थं तुल्य­व­दा­का­ङ्क्षि­त­प्र­स्तु­त­श­री­र­द्वयं छत्रिन्यायेन लक्ष­य­त्य­व्य­क्त­पदं न सूक्ष्म­मे­वा­भि­धत्त इत्यर्थः। पूर्वं मायाऽ­भि­धा­न­द्वारा शरीरलक्षणोक्ता, इदानीं तु सूक्ष्म­श­री­रा­भि­धा­न­द्वा­रेण, एवमपि हि प्रधानं निरस्तं भवतीति।
त्वङ्मां­स­रु­धि­राणि मातृतः, अस्थि­स्त्रा­यु­म­ज्जानः पितृतः, एतैः घट्कोशैरारब्धं षाट्कौ­शि­कम्॥३॥४॥५॥ व्यवहितं जीवविषयं प्रतिवचनमिति भाष्य­स्थ­व्य­व­हि­त­प­दा­र्थ­माह –
इत्यनेनेति ।
हन्तेत्यादि सनातनमित्यन्तं पर­मा­त्म­प्र­ति­व­च­न­प्र­ति­ज्ञा­वाक्यं तेन व्यवहितं यथेत्यादि जीवप्रश्नस्य प्रति­व­च­न­मि­त्यर्थः।
प्रश्नाभेदे दूषणमाह –
एकत्वे इति ।
अग्न्या­त्म­वि­द्ययोः द्वित्वा­त्सू­त्र­स्थ­त्रि­श­ब्द­वि­रोध इत्यर्थः। पर­मा­त्म­प्र­श्नस्य जीव­प्र­श्ना­द्भेदे पितुः सौ सौम­न­स्या­ग्नि­ज्ञा­ना­त्म­ज्ञा­न­वि­षयं यद्व­र­त्र­य­प्र­दानं तत्रा­न­न्त­र्भा­वोऽ­न्यत्र धर्मादित्यादेः स्याच्च­तु­र्थ­त्वा­दि­त्यर्थः।
अथ प्रश्ना­न्य­था­नु­प­पत्त्या वरान्तरं कल्प्येत, तत्राह –
तुरीयेति ।
सन्तु त्रयो वराः परमात्मप्रश्नः तेष्व­न­न्त­र्भू­तोऽस्तु यथा सृङ्कां च गृहा­णे­त्य­वृ­ता­मपि रत्नमालां प्रीत्या ददौ नेत्याह –
वर­प्र­दा­ना­न्त­र्भावे इति ।
महतः परमव्यक्तमिति प्रधा­ना­ख्या­न­म­स्त्विति योजना। सृङ्कां चेति च शब्द एवाऽवृतैव माला दत्तेति गमयति, नैवं महतः परमित्यत्र। अतो वर­प्र­दा­ना­नु­सा­रे­णै­वा­र्थ­प्र­ति­पा­द­नम्। एक एव सन् देहा­दि­व्य­ति­रे­क­ध­र्मा­द्व्य­त्य­य­प्र­वृ­त्त्य­भे­दाद् द्विःकृतः प्रश्न इत्यर्थः।
अत एवेति ।
जीव­प­र­यो­र­भे­दा­दि­त्यर्थः। शतायुषः पुत्रपौत्रान् वृणी­ष्वे­त्या­दि­स्त­त्त­त्कामः। त्वादृङ्नो भूयान्नचिकेतः प्रष्टेति विशे­ष­ण­प­र­त्वा­त्त­दी­य­प्र­श्न­प्र­शंसा। जीवे पृष्टे तं दुर्दर्शमिति तद्व्य­ति­रि­क्त­प­र­मा­त्मा­त्म­प्र­ति­व­च­नम् आत्मप्रश्ने कोचि­दा­र­प्र­ति­व­च­न­व­द­स­ङ्ग­तम्।
अत एव जीव­प्र­श्न­त­त्क­र्तृ­प्र­शं­साऽपि जीवस्य पर­मा­त्मा­भे­द­प्र­मि­त्य­र्थ­त्वेन दृष्टार्था स्यादित्याह –
यदि पुनरिति ।
एवं प्रति­व­क्तृ­प्र­वृत्त्या जीवपराभेदं साधयित्वा शब्द­प्र­वृ­त्याऽपि साधयति –
अपि चेत्यादिना ।
तदुत्तरे तस्य प्रश्न­स्यो­त्तरे। तमेव विषयं यद्य­व­द­ध्या­ज्जा­नी­या­दि­त्यर्थः। यत्प्रश्नेति भाष्ये यच्छब्दो विषयपरो न प्रश्नपरः।
विषयगौरवाद्धि प्रश्न­प्र­शं­से­त्याह –
यस्मिन्निति ॥६॥
अधि­क­र­णा­दा­व्य­क्त­श­ब्दस्य पौरुषेयी रूढि­र्वो­दा­नु­प­यो­गि­नी­त्यु­क्तम्, इदानीं महच्छब्दस्येव वेद­वि­रो­धा­द्बाध्या च।
अव्यक्तशब्दस्य प्रकरणादिना वेदे शरी­र­प­र­त्वा­व­धा­र­णा­दि­त्यु­च्यत इत्याह –
अनेनेति ।
साङ्ख्यैः सत्तामात्रे महच्छब्दः प्रयुक्त इति भाष्यमयुक्तम्; तैर्बु­द्धे­र्म­ह­त्त्वेन स्वीका­रा­दि­त्या­श­ङ्क्याह –
पुरुषार्थेति ।
अर्थ­क्रि­या­का­रिणि सच्छब्दः प्रयुक्तः, पुरु­षा­पे­क्षि­त­प्र­यो­ज­न­कारि महत्तत्वं सत्त­त्प्र­त्य­योऽपि स्वरूपपरो न सामा­न्य­वा­ची­त्यर्थः। कार्यानुमेयं महन्न प्रत्यक्षमिति मात्रशब्दः॥७॥
गूढ आत्मा, अग्न्या इवाग्न्या, सूक्ष्म­व­स्तु­वि­ष­य­त्वात् सूक्ष्मा॥
अशब्दमिति।
शब्दा­दि­गु­ण­र­हि­तम्। अभू­त­भौ­ति­क­मि­त्ये­तत्। अव्य­य­म­प­क्ष­य­र­हि­तम्। प्राक् प्रध्वं­सा­भा­व­व­र्जि­तम्। अनाद्यनन्तम् अत एव नित्यम्। महतः क्षेत्र­ज्ञा­त्प­रम्। ध्रुवमपरिणामि। निचाय्य ज्ञात्वा। मृत्युरज्ञानं तन्मुखं संसारः। स्वर्गाय हितं स्वर्ग्यम्। अध्येषि जानासि। लोककारणविराड् दृष्ठ्यो­पा­स्य­त्वा­ल्लो­का­दि­श्रि­त्योऽग्निः। याः स्वरूपतः, यावतीः सङ्ख्यातः, यथा वाऽग्निश्चीयते तत्सर्वं तस्मै नचिकेतसे उवाच। हन्त इदानीं गुह्यं गोप्यं, सनातनं चिरन्तनं ब्रह्म हे गौतम ते प्रवक्ष्यामीति ब्रह्मप्रतिवचनं प्रतिज्ञाय जीवं चाह। आत्मा मरणं प्राप्य यथा भवति तथा च प्रवक्ष्यामीति। योनिमन्ये देहिनः प्राप्नुवन्ति मानु­षा­दि­श­री­र­ग्र­ह­णाय अन्ये स्थावरं स्थाणुं संयन्ति कर्म­ज्ञा­ना­नु­सा­रेण। स्वप्न­जा­ग्र­तो­रन्तौ मध्ये उभे येना­त्म­नाऽ­नु­प­श्यति लोकः। इह देहे यच्चैतन्यं तदेवामुत्र परत्र। असंसारि ब्रह्म। यच्चामुत्र तदेवेह देहे अनुप्रविष्टं वर्तते य इह ब्रह्मात्मनि नानेव मिथ्या भेदं पश्यति स मरणान्मरणं प्राप्नोति। पुनः पुनर्म्रियते। त्वां बहवः कामा न लोलुपन्त, लुप्लृ च्छेदने श्रेयसो विच्छेदं न कृतवन्तः, ततो विद्यार्थिनं त्वां मन्ये वेद जानेऽहं पुरुषम्॥
इति प्रथ­म­मा­नु­मा­नि­काऽ­धि­क­र­णम्॥

चम­स­व­द­वि­शे­षात्॥८॥ अजामन्त्रः प्रधानपरः, उत तेजो­ब­न्न­रू­पा­वा­न्त­र­प्र­कृ­ति­मा­या­रू­प­प­र­म­प्र­कृ­त्यो­र­न्य­त­र­पर इति संशयः; अजाशब्दस्य तु छागतोऽपकृष्टस्य प्रधा­न­मा­य­यो­स्ते­जो­बन्ने च गुणाद् वृत्तिसंभवात् पूर्वत्रार्थतः प्रधा­न­प्र­त्य­भि­ज्ञाया अभा­वा­न्ना­व्य­क्त­प­द­वा­च्य­ते­त्यु­क्तम्, इह तु त्रिगुणत्वादिना प्रधा­न­प्र­त्य­भि­ज्ञा­नात् तत्परो मन्त्र इति पूर्वपक्षमाह –
प्रधानमेवेति
एका चेति ।
अनेन मायायाः प्रतिजीवं भेदा­दे­का­मि­त्ये­क­त्वा­नु­प­प­त्ति­रुक्ता।
न च गौणत्वं दोषः, समत्वादित्याह –
परेणापीति ।
उपचारेण कारणे रोहि­त­त्वा­द्य­स्ति­क­ल्पने त्वस्तीति विभागः। दारशब्दो नित्य­ब­हु­व­च­नान्तः।
तामेवाविद्ययेति भाष्ये तच्छब्दार्थो विषयज्ञानाधारः प्रधा­न­का­र्य­म­न्तः­क­र­ण­मि­त्याह –
विषया हीति ।
चितिशक्तिरात्मा स्वयं सुखा­दि­रू­पे­णा­प­रि­णा­मिनी। परिणामिन्यां बुद्धौ वस्तुतः अप्र­वि­ष्ट­त्वा­द­प्र­ति­स­ङ्क्रमा।
अवि­द्य­ये­त्ये­त­द्व्या­चष्टे –
विपर्यासेनेति ।
सांख्या­ना­म­प्यस्ति भ्रमः, स तु बुद्धावेवेति विशेषः।
आत्म­त्वे­नो­प­ग­म्ये­त्ये­त­द्वि­वृ­णोति –
बुद्धिस्थान इति ।
विप­र्या­स­सि­द्ध­बु­द्ध्यै­क्येन बुद्धि­ध­र्मा­ना­त्म­न्य­भि­म­न्य­मा­ने­त्यर्थः।
कृत­त्वो­प­प­त्त­येऽ­प­व­र्ग­श­ब्द­स्त­दु­पा­य­पर इत्याह –
गुणेति ।
न चानु­वा­द­सा­म­र्थ्यात् प्रमाणं कल्प्यं, विरोधादित्याह –
स चेति।।८। ।
व्यवधानात् शाखा­न्त­रे­णा­नि­र्ण­य­मा­श­ङ्क्याह –
सर्वेति ।
गुण­व­च­न­रो­हि­ता­दि­श­ब्दै­र्ल­क्ष­ण­याऽपि निरूढ्या मुख्य­व­त्प्र­त्या­यकैः प्रती­ति­म­भि­प्रेत्य सति मुख्यार्थसंभव इत्युक्तम्।
नन्वजावदजेति गुण­वृ­त्त्य­ङ्गी­का­रात् रूढिस्त्यक्ता, नेत्याह –
अत्र त्विति ।
रूढेरपहृते योगे रूढा­र्थ­गु­ण­यो­गा­त्सिद्धा वृत्तिराश्रिता इति रूढिः स्वीकृता; इतरथा गुण­यो­ग­स्यै­वा­सि­द्धे­रिति। न केवलं शाखा­न्त­रा­न्नि­र्णयः प्रक­र­णा­द­पी­त्य­व्या­कृ­त­पक्षं प्रस्तौति।
अपि चेति ।
यस्य जगदुत्पत्तौ साध्यायां किं सहकारिकारणमिति पृच्छ्यते। तत्किं कारणमिति बहुव्रीहिः। ध्यानमेव योगो जीवस्य ब्रह्मै­क्य­यो­ज­क­त्वात्। आत्म­प्रा­प्ति­स्त्व­ना­त्म­वि­र­हेण स्थितिः। नानेत्युक्तमिति । आनुमानिकाधिकरण इति नाना­वि­द्या­स्व­प्ये­का­मि­त्ये­कत्वं जात्या­भि­प्रा­यम्; प्रक­र­णा­द­वि­द्या­नि­श्च­यात्॥९॥१०॥
देवा­त्म­श­क्ति­मिति ।
देवात्मविषयां मायिनं मायाविषयं महेश्वरम् इत्यर्थः। भाष्ये च - पारमेश्वर्याः शक्तेरिति परमेश्वरविषयाया इत्यर्थः। एवं च जीवस्थाया अविद्याया विषयं ब्रह्म शुक्तिवत्। ऊचे वाच­स्प­ति­र्भा­ष्य­श्रु­त्यो­र्हृ­द­य­वे­दिता॥
इति द्वितीयं चमसाधिकरणम्॥

न संख्यो­प­सं­ग्र­हा­दपि नाना­भा­वा­द­ति­रे­काच्च॥११॥ पञ्च पञ्चजना इति सांख्यी­य­त­त्त्व­प­रम् उत अर्थान्तरपरमिति योग­रू­ढ्य­वि­नि­ग­मा­द्वि­शयः। पूर्व­त्रा­ध्या­त्म­प्र­क­रणे रूढच्छागाया असंबन्धाद् अजा तेज­आ­दि­के­त्यु­क्तम् इहापि रूढे­र्म­नु­ष्य­ग्रहे वाक्यस्य निस्ता­त्प­र्य­प्र­स­ङ्गा­द­व­य­व­वृत्त्या सांख्य­स्मृ­त­त­त्त्व­प­र­ते­त्य­वा­न्त­र­स­ङ्ग­तिम् अधि­क­र­ण­स­ङ्ग­ति­मा­हे­त्यर्थः। ननूपसर्जनस्य संख्यायाः संख्यान्तरेण विशेषणायोगात् कथं पञ्चविशतिलाभोऽत आह –
पञ्चजना इति ।
हीति विशेष्यजनैः संख्यान्तरान्वय इत्यर्थः। न च पञ्च­सं­ख्या­व­च्छे­दाद् जनानां नैरा­का­ङ्क्ष्यम्; संख्या­न्त­र­श्र­वणे सति रक्तपटन्यायेन आका­ङ्क्षो­त्था­प­ना­दिति।
वाक्यस्य निस्तात्पर्ये तात्पर्याभावे हेतुरुक्तः –
सर्वस्यैवेति ।
जायन्त इति व्युत्पत्या जनशब्दव्याख्या।
ननु रूढ्यत्यागेन मनुष्यसंबन्धिनः प्राणादयो लक्ष्यन्ते, तथा च न निस्तात्पर्यमत आह –
तत्रापीति ।
रूढ्य­र्थ­ग्र­हेऽ­पी­त्यर्थः।
वाक्यविरोधं व्यनक्ति –
एकत्र हीति ।
आत्मा­का­श­व्य­ति­रि­क्तानां त्रयो­विं­श­ति­त­त्त्वा­ना­मपि प्रधानस्य त्रिधाकरणात् पञ्चविंशतित्वं श्रुतौ।
स्मृतौ तु तत्त्वे­ष्वा­त्मा­का­शा­व­न्त­र्भाव्य प्रधानं चाभित्वा पञ्च­विं­श­ति­त­त्त्व­ग­ण­ने­त्य­वि­रो­ध­माह –
न चाधा­र­त्वे­ने­त्या­दिना ।
हिरुग्भावेन पृथग्भावेन।
भाष्ये उदाहृतां मायां व्याख्याति–
मूलेति ।
महा­नि­त्य­ध्य­व­सा­या­त्मिका बुद्धिरुच्यते। अह­ङ्का­रोऽ­भि­मा­ना­ल­क्षणः। तन्मात्राणि सूक्ष्मभूतानि, पञ्च भूतानि स्थूलानि। अहङ्कारतत्त्वम् उद्भूततमस्कम्। प्रकृ­ति­स्त­न्मा­त्रा­णाम्। उत्कटसत्त्वं त्विन्द्रि­या­णाम्। रज­स्त्व­ह­ङ्का­रंगं गुण­द्व­य­प्र­वृ­त्ति­हे­तु­र्ना­र­म्भ­क­मि­त्यर्थः।
ननु षोडशको विकार एवेति कथं? पृथिव्यादीनां घटा­दि­प्र­कृ­ति­त्वा­दत आह –
यद्यपीति ।
न ते पृथिव्यादिभ्यः तत्त्वान्तरमिति ।
उभयेषां स्थूल­ते­न्द्रि­य­ग्रा­ह्यता च समेति न तत्त्वा­न्त­र­ते­त्यर्थः।
आकाशात्मनौ विहाय या पञ्च­विं­श­ति­रु­दिता तस्यां नावन्तरत्वेन पञ्चसंख्यानिवेश इत्याह –
न खल्विति ।
उद्रि­क्ता­का­शानां पृथिव्यादीनां ज्ञाने­न्द्रि­येभ्यो घ्राणमादाय पूरणमयुक्तम्, तेषां तस्य च साधा­र­णो­पा­ध्य­भा­वा­दि­त्याह –
नापीति ।
तथा घ्राणा­ति­रि­क्तानां ज्ञाने­न्द्रि­याणां कर्मे­न्द्रि­येभ्यो वाचमाहृत्य न पञ्चसंख्या निवेश्येत्याह –
नापि रसनेति ।
तथोद्रेचितवाचां कर्मे­न्द्रि­याणां न मनसा पञ्चत्वलाभ इत्याह –
नापि पाणीति ।
समा­सा­र्थ­सं­ख्या­न्त­रेण विशिष्यत इति ।
साक्षा­त्पू­र्व­वा­दिनि निरस्ते समासं पञ्च­ज­न­श­ब्देऽ­न­भ्यु­प­ग­च्छ­न्त­मु­त्था­प­य­ती­त्याह –
पूर्व­प­क्षै­क­दे­शि­न­मिति ।
अस्यायमभिप्रायः - यद्यप्यत्र नानाभावान्न सन्ति पञ्च संख्याः, तथापि पञ्च पञ्च पूल्य इत्यादौ पञ्च­विं­श­ति­सं­ख्यायाः पञ्चभिः पञ्च­सं­ख्या­भि­र­वि­ना­भा­वा­दिह ता निर्दिश्यमानाः स्वाव्याप्तां महासंख्यां लक्षयन्तीति।
ननु तत्रापि कथं महासंख्याया अवा­न्त­र­सं­ख्याभिः संबन्धः? अपे­क्षा­बु­द्धि­नाशे तन्ना­शा­दि­त्या­शङ्क्य साहचर्याभावेऽपि हेतु­हे­तु­म­द्भा­वोस्ति संबन्धो लक्ष­णा­बी­ज­मि­त्याह –
यद्यपीत्यादिना ।
अपिशब्देन विद्यत एव अर्थात्मना महा­सं­ख्या­स्व­वा­न्त­र­संख्या, परं त्वप­रि­च्छे­दि­केति सूचितम्।
एव­म­स­मा­स­म­भ्यु­पेत्य लक्षणैव दोष इत्य­भि­धा­या­भ्यु­प­गमं त्यजति –
न च पञ्चशब्द इति ।
भाष्ये भाषिकेण स्वरेणेति । तस्यार्थः; अत्र मन्त्रे प्रथमः पञ्चशब्द आद्युदात्तः। द्वितीयः सर्वानुदात्तः। जन­श­ब्द­श्चा­न्तो­दात्तः। तथा न द्विती­य­प­ञ्च­श­ब्द­ज­न­श­ब्दयोः समासादृते आका­र­स्या­न्त्य­स्यो­दा­त्त­त्व­मि­त­रेषां चानुदात्तत्वं घटते; सामासस्येति सूत्रेण समा­स­स्या­न्तो­दा­त्त­त्व­वि­धा­नात्, अनुदात्तं पदमेकवर्जमिति सूत्रेण यस्मिन् पदे उदात्तः स्वरितो वा विधीयते तमेकं विहाय शिष्ट­स्या­नु­दा­त्त­त्व­स्म­र­णाच्च। एवं मन्त्रा­न्तो­दा­त्त­स्व­र­ब­लात् समासो निरणायि। भाषिकसंज्ञके तु शत­प­थ­ब्रा­ह्म­ण­स्व­र­वि­धा­य­क­ग्रन्थे स्वरि­तोऽ­नु­दात्तो वेति सूत्रेण यो मन्त्र­द­शा­या­म­नु­दात्तः स्वरितो वा स ब्राह्मणे उदात्तो भवतीत्यपवाद आश्रितः। तत आका­रा­दि­त­रे­षा­म­नु­दा­त्तानां ब्राह्मणे उदात्तत्वम्। उदा­त्त­म­नु­दा­त्त­म­न­न्त्य­मिति सूत्रेण च मन्त्र­द­शा­या­मु­दा­त्त­स्या­न­न्त्यस्य परलग्नतया उच्चा­र्या­स्या­नु­दा­त्तत्वं विहितम्। ततश्च नकारोपरितन आकार आकाशश्चेत्यनेन संल­ग्न­त्वे­नो­च्चा­र्य­मा­णोऽ­नु­दात्तो भवति। सति चैव­म­न्ता­नु­दा­त्त­स्वरो भाषि­क­ग्र­न्थ­सिद्धो इति भाष्ये उक्तम्। ये तु – छन्दोगा बह्वृचाश्चैव तथा वाजसनेयिनः। उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते॥ इति वच­न­मु­दा­हृ­त्या­न्तो­दात्तो भाषिक इति व्याचक्षते; तेषा­म­ध्य­य­न­वि­रोधः। अन्तानुदात्तं हि समाम्नातारः पञ्चजनपदमधीयते इति॥ हे आज्य त्वा पञ्चजनानां कृते गृह्णामीति मन्त्रै­क­दे­श­स्यार्थः। अस­मा­स­म­भ्यु­पे­त्यैव द्विः पञ्चशब्दप्रयोगे दशानामेव लाभान्न सांख्य­स्मृ­ति­प्र­त्य­भि­ज्ञा­न­मि­त्या­हेति योजना।
असमासपक्षे एव वीप्सां विहाय विशे­ष­ण­प­क्ष­मा­श­ङ्क्याह –
न चैकेति ।
शुक्लादिशब्दवत् पञ्चशब्दस्य संख्यामुपसर्जनं कृत्वा प्राधान्येन द्रव्यपरत्वात् गुणीभूतसंख्याया न संख्यान्तरेण विशेषणम्। तथा सति विशेष्येण द्रव्येण विशेषणेन च संख्यया युगपदाकृष्यमाणा संख्या नैके­ना­प्य­न्वि­या­दि­त्यर्थः।
तदेवमिति ।
नानाभावेन दूषितमपि परमपूर्वपक्षिणं संख्या­न्त­रा­ना­का­ङ्क्षा­नो­प­स­र्ज­न­न्या­याभ्यां दूषयितुं पुन­रु­त्था­प­य­ती­त्यर्थः।
रूढौ सत्यामिति ।
तद्द्वारा प्राणादिषु लक्षणायां च सत्यामित्यर्थः।
अनाकाङ्क्षां दर्शयति –
पञ्च­पू­लि­त्य­त्रेति ।
पृथक्त्वैन सहैकस्मिन्नर्थे या समवैति सा तथोक्ता। ईब­न्त­द्वि­गु­स­मा­सेन समाहाराभिधानात् पदा­न्त­रो­पा­त्त­सं­ख्यया समा­हा­रोऽ­व­च्छेद्यः, उत्पत्तिशिष्टया तु समानपदस्थया समाहारिणः पूला अवच्छेद्या इति पञ्च­पू­ली­त्य­त्रा­स्त्या­काङ्क्षा, पञ्चजना इत्यत्र त्वीब­न्त­त्वा­श्र­व­णात् समा­हा­रा­प्र­ती­ते­र्ज­नानां च स्वप­द­ग­त­सं­ख्या­याऽ­व­च्छि­न्न­त्वान्न संख्या­न्त­रा­का­ङ्क्षे­त्यर्थः। विजा­ती­य­वि­शे­ष­णा­न्त­र­प्र­योगे च रक्तपटन्यायो न सजातीये प्रयोगे, न हि भवति रक्तपटो रक्त इति।
इहापि पक्षे नोप­स­र्ज­न­न्या­य­म­व­ता­र­यि­ष्य­न्ना­श­ङ्कते –
स्यादेतदिति ।
न हि सापीति ।
आत्मा­श्र­य­प्र­स­ङ्गान्न संख्या तयाऽवच्छिद्यते। अतः संख्या­न्त­रा­का­ङ्क्षे­त्यर्थः।
तत्र चोक्तो दोष इति परि­हा­र­भा­ष्या­र्थ­माह –
उक्त इति ।
पञ्चशब्दस्य संख्यो­प­स­र्ज­न­द्र­व्य­वा­च­क­त्वा­दु­प­स­र्ज­न­सं­ख्याया न शब्दा­न्त­रो­क्त­सं­ख्या­सं­बन्ध इत्यसमासवत् समासेऽपि दोषः। समासे तु पञ्च­श­ब्दो­पा­त्त­सं­ख्याया जनशब्दार्थं प्रति विशेषणतत्वाच्च न विशेषणान्वयः।
ननूपसर्जनस्यापि विशेषणन्वयः किं न स्यादत आह –
विशे­ष­णा­पे­क्षायां त्विति ।
नैरपेक्ष्यं हि सामर्थ्यं, साकाङ्क्षत्वे सति स्ववि­शे­ष­णे­ना­कृ­ष्य­मा­णस्य न विशे­ष्या­न्त­रा­न्वय इत्यसमासः स्यादित्यर्थः।
सापे­क्ष­स्या­स­मासे उदाहरणमाह –
न हि भवतीति ।
ऋद्ध­वि­शे­ष­णा­पे­क्षस्य राज्ञो न पुरुषेण समासः, अपि तु पद­वृ­त्ति­रे­वं­प्र­कारा ऋद्धस्य राज्ञ इतीति।
उदा­हृ­त­भा­ष्य­स्या­य­मर्थः इत्याह –
इत्यर्थ इति ।
प्रधानं त्रिधा भित्त्वा अति­रे­क­स­मा­धा­ना­द­भ्यु­च्च­य­मा­त्र­त्व­मिति चेत् का तर्हि गमनिकाऽत आह –
यदीति ।
प्रधानं भित्त्वा संख्योपपादनेऽपि तव नोपास्तिपरं वचनमिति यथावस्तु वक्तव्यम्। तत्राधारत्वेन भोक्तुरात्मनो भोग्य­प्र­ति­ष्ठा­हे­तु­त्वेन पृथ­क्का­रेऽ­प्या­का­श­पृ­थ­क्कारो निष्प्रयोजन इत्यर्थः।
कथं चेति भाष्यमयुक्तम्; पञ्च­सं­ख्या­द्व­यात् पञ्च­विं­श­ति­सि­द्धे­रि­त्या­श­ङ्क्याह –
दिक्संख्ये इति ।
दिक्सं­ख्या­वा­चि­शब्दौ संज्ञायां गम्यमानायाम् उत्तरपदेन समस्येते यथा दक्षिणाग्निः सप्तऋषयः इति सूत्रार्थः। एवं च एकैव पञ्चसंख्या द्विती­य­प­ञ्च­श­ब्दस्य संज्ञा समासगतस्य न संख्यार्थतेति ग्रन्थार्थः।
यद्य­प्य­व­य­वा­भि­धा­न­सा­पे­क्ष­यो­गात् निर­पे­क्ष­रू­ढि­र्ब­ली­यसी; तथापीह रूढमनुष्यग्रहणं निस्ता­त्प­र्य­मु­क्त­मि­त्यत आह –
तद्यदीति ।
इह मनुष्या वाक्ये न संबन्धार्हा अजामन्त्रे त्वध्या­त्मा­धि­का­रा­च्छागा पूर्वा­प­र­वा­क्य­वि­रो­धि­नीति।
रूढेर्योगे ऽपहृते रूढ्य­र्थ­सं­ब­न्धात् तद्गुणाद्वा अर्था­न्त­र­वृ­त्ति­सिद्धौ शब्दस्य न योगः कल्प्य इत्य­त्रो­दा­ह­र­ण­माह –
यथेति ।
उक्तं ह्यर्थवादेन यथा वै श्येनो निपत्यादत्त एवमयं द्विषन्तं भ्रातृत्वं निपत्यादत्ते यमभिचरति श्येनेनेति।
दार्ष्टा­न्ति­क­माह –
तथेति ।
अव­य­वा­र्थ­भू­त­प­ञ्च­सं­ख्या­सं­ब­न्धा­न­पेक्ष एकस्मिन्नपि मनुष्ये वर्तते। ‘‘स्युः पुमांसः पञ्चजनाः पुरुषाः नरा’’ इत्यमरो हि जगौ। मनुष्ये रूढश्च पञ्च­ज­न­श­ब्द­स्त­त्सं­ब­न्धा­त्प्रा­णा­दिषु लक्षणया वर्त्स्यतीति वक्ष्यतीति।
ननु रूढिरपि तत्त्वेष्वस्तु, किं लक्षणया ऽत आह न चैष इति॥११॥ अस्तु तर्हि तत्त्वेषु लाक्षणिकः पञ्चजनशब्दो नेत्याह –
एवं चेति ।
यच्चोक्तं वाक्य­शे­ष­यो­र्वि­रो­धान्न प्राणादयः पञ्चजना इति तत्राह –
न च काण्वेति ।
यच्च वस्तुनि न विकल्प इति, तत्राप्याह –
न चेयमिति ।
उत्तरे मन्त्रे विधिश्रवणं, तत्रा­न्व­य­व्य­ति­रे­क­सि­द्ध­त­याऽ­नू­दि­ताऽ­प्यु­पास्तिः पुंसा विकल्पेन कर्तुं शक्येत्यर्थः।
जनानां वाचकत्वेन संबन्धी शब्दो जनशब्द इति व्याख्यानाभावे दोषमाह –
अन्यथेति ।
प्रत्य­स्त­मि­तोऽ­व­य­वार्थो यस्मिन् समुदायशब्दार्थे सिद्धा­न्त्य­भि­मते प्राणादौ जनशब्दस्य समु­दा­यै­क­दे­श­स्यार्थो नास्तीति जनशब्दस्य प्राणादौ कथं प्रयोग इति यच्चोद्यं तदचोद्यं स्याद­नु­क्तो­पा­ल­म्भ­त्वा­दि­त्यर्थः। भाष्ये समाने रूढ्यतिक्रमे वाक्यशेषवशात् प्राणादयो ग्रहीतव्या इति प्राणादीनां लक्ष­णा­र्ह­त्व­मु­क्तम्। वाक्यग्रहणं तेषां प्रमि­त­त्वा­र्थम्। शेषग्रहणं सन्नि­हि­त­त्वा­येति लक्षणां दर्शयति।
जनसंबन्धाच्चेति भाष्यम् तस्य भावमाह –
रूढ्य­प­रि­त्या­गे­नेति ।
रूढा­र्थ­सं­ब­न्धा­द­र्था­न्त­र­प्र­ती­ति­सिद्धौ न योगवृत्तिः प्रधानादौ कल्प्येति भाष्यार्थः।
कल्प्या रूढिर्योगाद् दुर्ब­ले­त्या­शङ्क्य सूत्रात् क्लृप्तिमाह –
ननु सत्यामिति ।
नोप­स­र्ज­न­न्या­या­ति­रेकौ करेणापिधाय संभवति चेत्युक्तम्।
प्रयो­गा­नु­सा­रि­त्वाद् व्याकरणस्य तदभावान्न रूढि­रि­त्या­श­ङ्कते –
स्यादेतदिति ।
मनुष्येषु पञ्चजनशब्दस्य लोके एव प्रयो­गा­त्त­त्सं­ब­न्धा­त्प्रा­णा­दिषु वृत्त्युपपत्तिं स्फुटां जनसंबन्धाच्चेति भाष्यासूचितां पृथङ्न वक्ति भगवान् भाष्यकारः, प्रौढ्या तु रूढिं समर्थयते इत्याह –
जनेष्विति ।
स्थवीयस्तया स्फुट­त­ये­त्यर्थः। शक्यो­द्भि­दा­दि­व­दिति भाष्ये - उद्भिदधिकरणं (जै.सू.अ.१ पा ४ सू.२) उदाहृतं, तदेवम् - उद्भिदा यजेत पशुकाम इत्य­त्रो­द्भि­त्पदं कर्मनामोत विधे­य­गु­ण­स­म­र्प­क­मिति संशये उद्भिच्छब्दस्य खनित्रादौ प्रसिद्धेः, नामेव च यजि­स­मा­ना­र्थ­त्वे­ना­न­र्थ­क्याद् ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्धान्तः। अत्र हि यजेतेति यागेन भावयेदित्यर्थः। तथा चोद्भिदेति तृतीयान्तपदं यजि­सा­मा­ना­धि­क­र­ण्यात् यागनाम स्यात्। चेदं वचनं गुणं शक्नोति विधातुम्; द्रव्य­या­ग­यो­र्भे­दा­दु­द्भिदा यागेनेति सामा­ना­धि­क­र­ण्याऽ­यो­गात्, उद्भिद्वतेति कल्पने मत्त्व­र्थ­ल­क्ष­णा­पा­तात्, उद्भिदा यागं भावयेद्यागेन पशुमिति वैयधिकरण्ये च यागस्य फलं प्रति साधनत्वं गुणं प्रति साध्यत्वमिति वैरूप्यापातात्, विध्यावृत्त्या वाक्यभेदाच्च। उद्भिनत्ति साधयति पशुमिति योगेऽपि प्रसिद्धिः स्यात्। न च नामवैयर्थ्यम्; अत्र नाम­त्व­सि­द्धा­व­न्यत्र समे दर्श­पौ­र्ण­मा­साभ्यां यजेत् दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेतेत्यादौ नाम­व­द्या­गा­नु­वा­देन गुण­फ­ल­वि­धि­सं­भ­वात्। न च ज्योतिष्टोमः प्रकृतो, यत्र गुणो विधीयते। तस्मा­न्ना­म­धे­य­मिति।। एवं यथा सन्नि­हि­त­य­ज्य­नु­रो­धे­नो­द्भि­त्पदं यागनामधेयमेवं सन्नि­हि­त­वा­क्य­शे­षात् पञ्चजनशब्दः प्राणादिषु रूढ इति भाष्यार्थः। यद्य­प्यु­द्भि­त्पदं यौगिकम्; तथापि सामा­ना­धि­क­र­ण्या­द­व­गते नाम­त्वेऽ­व­य­वा­नु­गमः क्रियत इति रूढि­तु­ल्य­त्वा­द्भाष्ये रूढि­त्वोक्तिः॥१२॥१३॥ यस्मि­न्न­व्या­कृ­ताख्य आकाशश्च प्रतिष्ठितः, तमेव निष्प्रपञ्चं ब्रह्मा­त्म­क­म­मृ­त­मा­त्मानं मन्ये। त्वं किं विद्वान् मर्त­व्या­द­न्योऽ­मर्त्यः, न; किं तर्ह्य­ह­म­प्य­वि­द्यया मर्त्यः। विद्वांस्तु सन्न­मृ­त­ब्र­ह्मा­त्मक इति मन्त्रदृशो वचनं प्राणादीनां जीवनादिहेतूनां जीवनादिप्रदं त्वंपदलक्ष्यं ये विदुस्ते तस्य स्वरूपं पुराणं चिरन्तनम्। अग्रे कार्य­द­शा­या­म­प्य­लु­प्त­त्वेन भवमग्न्यं ब्रह्म निश्चि­क्यु­र्नि­श्च­येन ज्ञातवन्तः। पाञ्चजन्यया प्रजया विशतीति विशा मनुष्यरूपया। इन्द्रे आह्वातव्ये घोषा असृक्षत सृष्टा। यत्पूर्वार्धे काला­न­व­च्छे­द्य­मुक्तं तज्ज्यो­ति­षा­मा­दि­त्या­दीनां भासकममृतत्वेन आयुष्ट्वेन जीवनगुणवत्तया च देवा उपासते तेन तत्रायुष्मन्तो जाताः। अस्मिन्मन्त्रे षष्ठ्य­न्त­ज्यो­तिषा पञ्चसंख्यापूरणं नात्मज्योतिषा एक­स्या­धा­र­त्वा­धे­य­त्वा­यो­गा­दिति॥
इति तृतीयं न संख्यो­प­सं­ग्र­हा­धि­क­र­णम्॥

कारणत्वेन चाकाशादिषु यथा­व्य­प­दि­ष्टोक्तेः॥१४॥ अकाण्डेऽनवसरे। भविता भविष्यति। माना­न्त­र­वि­रो­ध­प­रि­हारो द्विती­या­ध्या­यार्थः। श्रुतीनाम् इत­रे­त­र­वि­रो­ध­प­रि­हा­रस्तु नाना­शा­खा­ग­त­पू­र्वा­प­र­वा­क्य­प­र्या­लो­च­नया नाना­शा­खा­ना­म­न्यो­न्य­वा­क्यानां चेत­रे­त­र­वि­रो­ध­प­रि­हा­रेण अद्वि­ती­य­ब्र­ह्म­प्र­ति­प­त्ति­सिद्ध्या सम­न्व­य­सि­द्ध्य­र्थ­त्वा­दिह सङ्गत इत्याह –
नानेति ।
नाना भिन्ना एका चेति तथोक्ता।
यदि मनान्तराविरोधो द्विती­या­ध्या­या­र्थ­स्तर्हि वियत्पादादौ (व्या.सू.अ.२.प.३) कथं श्रुती­ना­मि­त­रे­त­रा­वि­रो­ध­चि­न्ताऽत आह –
प्रासङ्गिकं त्विति ।
विप्रतिषेधात् पर­प­क्षा­णा­म­न­पे­क्ष्यत्वे उक्ते स्वपक्षस्यापि तत्प्रसङ्गे तन्निवृत्तिः प्रयोजनं तत्रैव प्रतिपादयिष्यत इत्यर्थः। परैरुद्भावितो दोष उद्धर्तव्यः स्वदर्शने। इति शिक्षा­र्थ­म­त्र­त्य­चिन्तां तत्रा­क­रो­न्मुनिः॥ क्वाचि­त्क­स्या­स­च्छ­ब्दस्य कर्म­क­र्तृ­प्र­यो­गस्य चासद्वादपरत्वं स्वभाववादपरत्वं च व्युदस्य गति­सा­मा­न्य­व्य­व­स्था­प­ना­त्पा­द­स­ङ्गतिः। अथवा एतदारभ्य त्रीण्यधिकरणानि पादा­न्त­र­स­ङ्ग­ता­न्यपि अवा­न्त­र­स­ङ्ग­ति­लो­भा­दिह लिखितानि। प्रकृ­ति­श्चे­त्यस्य त्वध्यायावसाने लेखे निमित्तं वक्ष्यते। एतेनेत्यस्यापि सर्व­न्या­या­ति­दे­श­त्वा­द­ध्या­या­व­सान एव निवेशः। जग­त्का­र­ण­वा­दि­वा­क्यानि ब्रह्मणि प्रमाणं न वेति विप्र­ति­प­त्ते­र्वि­शये पूर्व­त्रा­न्न­ज्यो­ति­षो­र्वि­क­ल्पे­नो­पास्तौ निवेशादविरोध उक्तः।
इह तु सिद्धे कारणे त्रैका­ल्या­यो­गा­द्वि­रोधे सत्य­प्रा­मा­ण्य­मिति पूर्वपक्षमाह –
वाक्यानामिति ।
वाक्यानां कार्ये विरो­धा­त्का­र्य­द्वा­र­गम्ये जगद्योनौ न समन्वयो वेदान्तानां कारणे विगानात् तदुपलक्ष्य परमात्मनि च न सिद्ध्य­ती­त्यर्थः। विभिन्नक्रमा अक्रमा च युगपद्भाविनी या उत्प­त्ति­स्त­त्प्र­ति­पा­द­का­ना­मि­त्यर्थः। आत्मन आका­श­स्त­त्ते­जोऽ­सृ­ज­ते­त्यत्र भिन्नः क्रमः। स इमाल्लोकान सृजतेत्यक्रम इति। तन्नामरूपाभ्यां व्याक्रि­य­ते­त्या­दीनि कर्म­क­त्र­भि­धा­ना­त्स्व­यं­क­र्तृ­क­त्व­शं­सी­नीति।
ननु कार्यविगाने ब्रह्मणि किमायातमत आह –
सृष्ट्या चेति ।
धूमधूलिसंदेहे तद्ग­म्या­ग्नि­सं­दे­ह­वद् गम­क­का­र्य­सं­दे­हाद् गम्य­ब्र­ह्म­स­न्देह इत्यर्थः।
कार्य­वि­गा­न­म­भ्यु­पे­त्याह –
सर्गेति ।
स्वयं­क­र्तृ­क­त्वा­न्य­क­र्तृ­क­त्वाभ्यां सर्गे क्रमा­क्र­म­व्यु­त्क्र­मै­स्त­त्क्रमे च विवादेऽपि स्रष्टरि स विवादो न विद्यते, सर्गस्य च अविवक्षितत्वात् तद्वि­वा­दोऽ­कि­ञ्चि­त्कर इत्यर्थः।
कारणविगानं परिहरति –
सतस्त्विति ।
असद्वा इदमग्र आसीदित्यादौ असद्वचो भक्त्या। अनभिव्यक्तिश्च भक्तिः। तद्धैक आहुरित्यत्र निरा­क­र­णी­य­त्वे­ना­नु­वा­दोऽ­स­द्वच इत्यर्थः। अपिशब्दात्सर्गे क्रमे च न विवाद इति सूचितम्।
तत्प्रकटयति –
न तावदित्यादिना ।
तत्र विभिन्नक्रमत्वं तावत्परिहरति –
अनेकशिल्पेति ।
पर्यवदातः कुशलः। संयवनं मिश्रणं, घृतपूर्णं पक्वान्नविशेषः। क्रमेण नाना कार्याणि कुर्वाणे देवदत्ते प्रथमस्येव चरमस्यापि तेन साक्षा­त्सृ­ष्ट­त्वा­त्ततो निष्प­त्ति­र्वक्तुं शक्या। तथा पूर्व­का­र्य­स्यो­त्त­र­का­र्य­नि­मि­त्त­त्वा­त्का­र्या­त्का­र्या­न्त­र­स­र्गस्य शक्यवचनः।
दृष्टा­न्त­मुक्त्वा एवं ब्रह्मै­क्या­दा­का­शा­दे­र्वा­य्वा­द्यु­पा­दा­न­त्व­मिति दार्ष्टा­न्ति­क­माह –
तथेहापीति ।
अनलाऽनिलेति तेजसः प्राथ­म्य­नि­र्देशः, तत्प्रा­थ­म्य­घ­ट­नस्य प्रस्तुतत्वात्।
तर्हि कदा निर्दे­श­वि­रो­ध­स्त­त्राह –
यदि त्विति ।
आकाशवायुतेजसां क्रमे­णो­त्प­त्ति­मुक्त्वा व्युत्क्र­मा­भि­धाने हि विरोधः स्यान्न तु तेजसः साक्षाद् ब्रह्मणः सृष्टि­मा­त्रा­भि­धाने। न ह्यनेन क्रमो बाध्यत इत्यर्थः।
एवमपिशब्दस्य भावमुक्त्वा न स स्रष्टरीति श्लोकभागं व्याचष्टे –
अभ्युपेत्येति ।
यदवादि धूमसन्देहेन दह­न­स­न्दे­ह­व­त्सृ­ष्टि­स­न्देह इति तदनूद्यापनुदति –
न च सृष्टिविगानमिति ।
सत्यादिलक्षणं ब्रह्मावगमय्य तदा­न­न्त्यो­प­पि­पा­द­यि­षया जगतस्तत्रारोपः श्रुत्या सृष्टिरुच्यते, न तु सृष्टौ तात्पर्यम्, अतो मिथ्याभूतायां सृष्टौ विगानं न दोषोऽपि त्वलंकार इत्यर्थः।
ननु सृष्टेः कुत आत्म­प्र­मि­त्य­र्थता? विपरीतता कस्मान्न स्यादत आह –
तज्ज्ञानं चेति ।
तदनुगुणतयेति ।
व्याख्यातं च घृत­पू­र्ण­टी­का­या­मि­त्यर्थः।
सतस्त्वसद्वचो भत्तयेति श्लोकभागं व्याचष्टे –
यच्च कारणइत्यादिना ।
तदप्येष इत्यादिः परिहारः। अस्ति ब्रह्मेति चेद्वेदेति प्रकृतं ब्रह्म तत्र­श­ब्द­स­मा­ना­र्थ­त­च्छ­ब्देन परामृश्य श्लोके­ना­स­द­भि­धाने श्लोक­वा­क्य­म­सं­बद्धं स्यादित्यर्थः। श्रुत्यन्तरं सदेव सोम्येत्यादि। मानान्तरं विमतं, सज्जन्यं, कार्यत्वात्, कुम्भवदित्यादि।
निराकार्यतया क्वचिदिति श्लोकभागं विभजते –
तद्धैक इति ।
यदा कार्ये विगानमुपेत्य कारणे तदभाव उच्यते, तदा समुच्चयाभावात् चका­र­स्तु­श­ब्द­स­मा­ना­र्थ­तया समन्वयो न सिद्ध्यति परा­त्म­नी­त्ये­वं­रू­प­पू­र्व­प­क्ष­नि­षे­धार्थ इत्यर्थः।
कारणत्व इति सप्तमीमादाय सूत्रैकदेशेन वाक्यानां कारणे परस्परविरोध इति पूर्व­प­क्षो­क्त­हेतोः असि­द्धि­र­वि­गा­न­प्र­ति­ज्ञ­यो­च्यत इत्याह –
आका­शा­दि­ष्वि­त्या­दिना ।
प्रति­ज्ञा­त­वि­गा­न­भावे हेतुपरं सूत्रावयवं व्याचष्टे –
कुत इति ।
पुनरावृत्त्या कारणत्वेनेति तृती­या­न्त­मि­त्थं­भा­वार्थं विवक्षित्वा यथा­व्य­प­दि­ष्ट­प­दा­र्थ­वि­व­र­ण­प­र­त्वेन व्याख्याति –
केनेति ।
एवं कार­ण­वि­गा­न­नि­षे­ध­प­र­त्वेन सूत्रं व्याख्याय संप्रति कार्य­वि­गा­न­प­रि­हा­र­प­र­तया योजयति –
अपर इति ।
कल्पः प्रकारः। अस्यां व्याख्यायां चकारः समुच्चये।
तदुक्तं –
न सृष्टावपीति।
कारणत्वेन विगानं न च कार्यक्रमे इति सूत्रे द्वे प्रतिज्ञे।
आद्या प्रागुपपादिता, द्वितीयायां हेतुं योजयति –
यथा व्यपदिष्ट इति ।
यथा­श­ब्दोऽ­न­ति­क्र­मार्थः। ब्रह्म­ण­स्ते­जः­सृ­ष्टि­मा­त्र­मुक्तं, न क्रमो भग्न इत्यर्थः।
परस्तु कार्या­न्त­र­व्य­व­धा­न­म­न्त­रेण तेजसो ब्रह्म­प्र­भ­व­त्वा­भि­धा­नात् प्रथ­मो­त्प­त्ति­र­भि­प्रे­ताऽतः क्रम­भ­ङ्गा­द्य­था­व्य­प­दि­ष्टो­क्ति­र­सि­द्धेति शङ्कते –
नन्वेकत्रेति ।
सिद्धान्ती तु साक्षाद् ब्रह्म­सृ­ज्य­त्व­म­व्य­व­धा­न­नि­र्दे­शस्य प्रयोजनम् न तु कार्या­न्त­र­स्या­सर्ग इति मन्वानः पूर्व­व­दा­वृत्त्या तृती­या­न्त­ता­मा­दाय साक्षात्पदं चाध्याहृत्य सूत्रा­व­य­व­व्या­ख्यया परिहरति –
अत आहेति ।
पूर्व­त्रे­त्थं­भावे व्याख्या­त­त्वा­त्त­द्भ्र­मा­प­नु­त्त्य­र्थ­माह –
हेताविति ।
अधस्ताद् घृत­पू­र्ण­टी­का­याम्। नामरूपाभ्यां व्याक्रियतेति कर्मकर्तरि कर्मणि वा लकारः।
आद्ये कर्त्र­प्र­ति­क्षे­प­स्तत्र हेतुमाह –
न हीति ।
लूयते केदारः स्वयमेवेति भिन्नकर्तृकमेव सौकर्यापेक्षया कर्मकर्तृ इत्युच्यते इत्यर्थः। द्वितीये स्फुटै­वा­न्य­क­र्त्र­पे­क्षे­त्यर्थः॥१५॥ इद­म­स­दि­वा­व्य­क्त­मा­सीत्, तद्यदात्मना आसीत् तत्का­र­ण­स­द­र्थ­क्रि­यो­न्मु­खम् आसीत्। कार्यरूपेण च समभवत्।
तत्तत्र कारणविषये एक आहुस्तेषां मतं दूषयति –
कुतस्त्विति ।
तदेवाह –
कथमिति ।
व्यति­रे­क­मु­क्त्वाऽ­न्व­य­माह –
सदेवेति ।
इदं जगत्। तर्हि तदानीम्, अव्याकृतं कारणमासीत्। ह किल तत्कारणं शब्दार्थात्मना व्याक्रियत व्यक्तमभवत्। भाष्ये - तद्विषयेण काम­यि­तृ­त्व­व­च­ने­नेति सोऽका­म­य­ते­त्य­ने­ने­त्यर्थः। अप­र­प्रे­ष्य­त्व­मिदं सर्वमसृजतेति स्वातदृयम् तस्माद्वा एतस्मादात्मन इति तद्विषय आत्मशब्दः। संप्रदायविदां वचने अन्यथा अन्यथेति वीप्सा द्रष्टव्या। लोहं सुवर्णम्। अवताराय ब्रह्मा­त्मै­क्य­बु­द्धे­रिति शेषः। प्रतिपाद्ये ब्रह्मणि नास्ति भेदो न विगानमित्यर्थः। मृत्यु­म­त्ये­ती­त्य­न्वयः। असद् ब्रह्मेति वेद चेदसाधुः स्यात्। पश्य­न्ना­त्मा­चष्टे उपलभत इति चक्षुः शृणोति मनुत इति च श्रोत्रा­द्याख्यो भवति॥
इति चतुर्थं कार­ण­त्वा­धि­क­र­णम्॥१५॥

जगद्वाचित्वात्॥१६॥ अत्र क्वचि­त्क­है­र­ण्य­ग­र्भ­म­त­द्यो­त­क­क­र्म­श­ब्दस्य ब्रह्मा­नु­गु­ण्य­व­र्ण­ना­त्पा­द­सं­गतिः। इहो­प­क्र­मा­नु­रो­धात् ब्रह्म भाति, उपसंहारानुरोधेन जीवः। ब्रह्मशब्दस्य स ब्रह्म त्यदित्याचक्षत इति प्राणेऽपि प्रयुक्त इति संशयः। एकवाक्ये त्यच्छ­ब्दा­द­स­च्छब्दो नीयतां वाक्यभेदे तु न ब्रह्म­श­ब्दा­त्क­र्म­शब्दो नेय इति संङ्गतिः। यदा खल्व­त्रा­प्ये­क­वा­क्यत्वं तथा यथो­त्त­र­स­च्छ­ब्दा­नु­सा­रेण प्राची­न्नोऽ­स­च्छब्दो नीत एव­मु­त्त­र­स्मा­त्क­र्म­श­ब्दा­त्प्राचो ब्रह्मशब्दस्य नयनमिति सङ्गतिः। प्रात­र्दन(ब्र.अ.१.पा.१.सू.२८) विचारेण गतत्वं शङ्कते –
नन्विति ।
तत्र ह्युप­क्र­मो­प­सं­हा­रै­क­रू­प्या­दे­क­वा­क्येत्वे सति जीव­प्रा­ण­लि­ङ्ग­यो­र्ब्र­ह्म­प­र­तया नयनं कृतम्, तदिहापि सममित्यर्थः। मध्येऽपि ब्रह्म­प­रा­म­र्श­माह - आदित्येति। पुरु­ष­क­र्तृ­त्वस्य ब्रह्म­णोऽ­न्य­त्रा­सं­भ­वा­दि­त्य­न्वयः। अवच्छेदके प्रकरणादावसति सर्वनाम्ना प्रमा­ण­मा­त्र­सि­द्ध­ज­गतः परामर्शे सति यज्ज­ग­त्क­र्तृ­त्व­म­व­गतं तस्य च ब्रह्म­णोऽ­न्य­त्रा­सं­भ­वा­दि­त्यर्थः। जग­त्क­र्तृ­त्व­म­न्यत्र ब्रह्मणो नेति दुष्यति। वाच­स्प­ता­वु­पा­ल­म्भ­म­ना­लो­च्यो­चिरे परे॥ जीवाज्जज्ञे जगत्सर्वं सकारणमिति ब्रुवन्। क्षिपन् समन्वयं जीवे न लेजे वाक्पतिः कथम्?॥ इति। अधिष्ठानं हि ब्रह्म न जीवाः। अधिष्ठाने च समन्वय इत्यनवद्यम्।
इह वाक्यभेदापादनेन तावदगतार्थतामाह –
उच्यत इत्यादिना ।
अत्र बालाकिवाक्याद् ब्रह्म मन्यते सिद्धान्ती राजवाक्याद्वा।
नाद्य इत्याह –
ब्रह्म ते इति ।
न द्वितीय इत्याह –
यस्य चेति ।
ननु बाला­कि­वा­क्य­ग­त­ब्र­ह्म­प्र­ति­ज्ञया राजवाक्यं ब्रह्म­प­र­म­स्त्व­ग्नि­वा­क्या­दि­वा­चा­र्य­वा­क्य­मि­त्या­श­ङ्क्याह –
न चेति ।
तत्र हि वक्तृ­भे­देऽ­प्ये­क­वा­क्य­ताऽ­ग्निभिः दर्शि­ताऽऽ­चा­र्यस्तु ते गति वक्तेति, इह तु तद­भा­वा­द्वा­क्य­भेद इत्यर्थः।
ननु बालाकिवचने ब्रह्मशब्दस्य का गतिः? अत आह –
तस्मादिति ।
राजवाक्यार्थ एव ग्राह्यः, राद्धा­न्त­त्वात्। भ्रान्त­गा­ग्र्यो­क्तिस्तु पूर्व­प­क्ष­त्वा­द­स­द्वा­द­व­द­ग्रा­ह्ये­त्यर्थः।
ननु राजवाक्येऽपि क्रिय­मा­ण­स­र्व­ज­गत् प्रति कर्तव्यत्वं ब्रह्मलिङ्गं गम्यतेऽत आह –
अत्र चेति ।
ब्रह्मकार्ये जगति योग­सं­भ­व­म­ङ्गी­कृत्य रूढ्याऽ­प­हा­र­मुक्त्वा योगासंभवमाह –
न च ब्रह्मण इति ।
उदा­सी­न­स्ये­त्य­स्प­न्द­तोक्ता। ब्रह्मणि कृत्य­भा­वा­ज्ज­ग­त­स्त­त्कृ­त­त्वा­योग इत्यर्थः। ब्रह्मणो यदि न व्यापारवत्ता, कस्य तर्हि? ननु प्राणस्यास्तु।
ननु सोऽपि कथं वेदि­त­व्य­त­यो­च्यते? प्रसि­द्ध­त्वा­दि­त्या­शङ्क्य तस्य हिरण्यगर्भरूपेण वेद्य­त्वो­प­पत्तेः, वाक्यशेषस्य प्राणश्रुतेः कर्मशब्दस्य रूढार्थलाभाच्च प्राण एव कर्म­सं­ब­न्धी­त्याह –
वाक्यशेषे चेति ।
त्रय­स्त्रिं­श­दा­दि­दे­वानां कारणभूत एको देवः कतम इति पृष्टे प्राण इत्यु­त्त­रा­द्धि­र­ण्य­ग­र्भा­त्म­क­प्रा­ण­का­र्य­त्वा­मा­दि­त्या­दे­रि­त्यर्थः। पाप्मसु भूतेषु चापे­क्षि­क­वृत्तिः सङ्कुचितवृत्तिः सर्वशब्दः।
सङ्कोचमेवाह –
बहूनिति ।
संप्रति विप्र­नृ­प­व­च­न­यो­रे­क­त्व­मु­पे­त्यापि पूर्व­प­क्ष­सं­भ­व­माह –
यदि त्विति ।
यद्यपि गार्ग्यो भ्रान्तः; तथापि न भ्रान्तो ब्रह्मोपक्रमः। सहस्रमेतस्यां वाचि दद्म इति ब्रह्म­प्र­ति­ज्ञायां राज्ञा गोसहस्रस्य दत्तत्वात्। अत उपक्रान्तं ब्रह्मैव गार्ग्यं प्रति विशेषतो निरूप्यमिति यदि मन्ये­ता­ना­र­म्भ­वादी तथापि नैत­त्प­र­ब्र­ह्मा­भि­धा­नम्; उपसंहारे जीव­नि­र्ण­या­दि­त्यर्थः। उपेतं शिष्यभावेन गतम्। प्राणो हि सुषुप्तौ व्याप्रियते, स चेतनश्चेद् बृहत्पाण्डुरवास इत्यादि स्वनाम जानीयाद्, न च जज्ञिवानतः सुषुप्तस्य यष्टि­घा­ते­नो­त्था­प­नात् प्राणा­दि­व्य­ति­रिक्तं बोधयतीत्यर्थः।
उपसंहारोऽपि जीवपर इत्याह –
परस्तादपीति ।
ननु जीवस्यापि सर्वगतस्य निरवयस्य परि­स्प­न्द­प­रि­णा­म­यो­र­सं­भ­वात् कथं यस्य वैतत्कर्मेति निर्देशस्तत्राह –
यस्य वै तदिति ।
जीव­प्रे­र्य­दे­हा­दि­सं­ब­न्धि­क­र्म­षष्ठ्या जीव­स­म्ब­न्धि­त्वेन उपचर्य्यत इत्यर्थः।
साक्षा­ज्जी­व­स­म्ब­न्धि­ध­र्मादौ कर्मशब्दो लाक्षणिक इत्याह –
कर्म­ज­न्य­त्वा­द्वेति ।
ननु योगवृत्त्या जगदभिधीयतां, नेत्याह –
रूढ्यनुसारादिति ।
रूढ्यर्थं गृहीत्वा तद­वि­ना­भू­त­ल­क्ष­णा­दि­त्यर्थः। अग्रहे हि न तत्संबन्धिनि लक्षणा।
यद्यपि ब्रह्म­श­ब्दा­श्र­व­णा­त्स्पष्टं ब्रह्माभिधानं नोपलभ्यते; तथापि प्रश्न­प्र­ति­व­च­नयोः क्वैष इति प्राण एवैकधा भवतीति च सप्त­मी­प्र­थ­माभ्यां जीव­प्रा­ण­यो­र्भेदो गम्यतेऽत आह –
जीव­व्य­ति­रे­क­श्चेति ।
जीवा­ति­रि­क्त­हि­र­ण्य­ग­र्भस्य प्राणत्वान्न ब्रह्म­सि­द्धि­रि­त्य­स्मा­क­मि­ष्ट­सि­द्धि­रि­त्यर्थः।
मृषेति ।
आदि­त्या­दी­न­ब्र­ह्मणो ब्रह्मेति मृषावादिनं बालाकिं मृषा वै खलु मा संवदिष्ठा इत्यपोद्य निरस्य सत्यं ब्रह्मा­भि­धि­त्सन् राजा यदि स्वरूपेण जीवं प्राणं वा ब्रूयात्, ततोऽसंबद्धवादी स्यात्। यदि जीवादि ब्रह्मत्वेन वदेत्, ततो मिथ्या वदेत्, तच्चानुपपन्नम्। तस्माद् ब्रह्मैव वदतीत्यर्थः। काच इन्द्र­नी­ल­स­मा­न­वर्णा मृत्। मिथ्यावद्यम् मिथ्यावदनम्। एवं च भिन्न­व­क्तृ­क­वा­क्य­द्व­य­स्यापि भ्रम­प्र­स­क्ति­स्त­न्नि­रा­स­प­र­त­यै­क­वा­क्य­त्वाद् ब्रह्मोपक्रमः सिद्धः।
सिद्धं चास्योपसंहारेण सङ्गानमिति ब्रह्मपरत्वं सर्वस्य संदर्भस्येत्याह –
तस्माद् ब्रह्म ते इति ।
हेतूनां ब्रह्मपरत्वं निश्चीयत इत्यु­प­रि­त­न­प्र­ति­ज्ञ­यै­वा­न्वयः। सर्व­श्रु­ते­र­स­ङ्कोचे निर­ति­श­य­फ­ले­नो­प­सं­हारो हेतुः।
यदवादि व्यति­रे­क­नि­र्देशो हिरण्यगर्भे स्यादिति, तत्राह –
क्कैष इति ।
हे बालाके एष पुरुषः क्कैतदशयिष्ट। एतदिति क्रियाविशेषणम्। इत्थमिथर्थः। एष जीवा­श्र­य­प्रश्नः। क्व वा एतदभूदिति भवनप्रश्नः। भवनं तादात्म्येन वर्तनम्। शयनमसंबोधः। कुत एत­दा­गा­दि­त्य­पा­दा­न­प्रश्नः। प्राण एवैकधा भवतीति भव­न­प्र­श्नो­त्त­रम्। आदिशब्दात्तदैनं वाक्य­स­र्वै­र्ना­मभिः सहाप्येति इत्यादि शय­न­प्र­श्नो­त्त­रम्। ‘‘यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्च­र­न्त्ये­व­मे­वा­स्मा­त्सर्वे प्राणा यथायतनं विप्र­ति­ष्ठन्ते’’ इत्यादेः क्रम­या­न­प्र­श्नो­त्तरं च द्रष्टव्यम्। एतानि च न हिरण्यगर्भे संभवन्ति, जीवस्य जीवा­न्त­रा­त्म­त्वा­यो­गा­दि­त्यर्थः। प्रश्न­स्यो­त्त­र­स्येति चैकवचनं बहुष्वेव जात्यपेक्षम्।
न केवलमनुपपत्त्या प्रश्नो­त्त­र­यो­र्ब्र­ह्मा­र्थ­त्वम्, अपि त्वात्म­श­ब्दा­द­पीति वक्तुं पृच्छति –
अथ कस्मादिति ।
निर्णी­ता­र्थ­वाक्ये रूढि­र्बा­ध्ये­त्याह –
तदेवमिति ।
व्यापाराभिधाने सतीत्यर्थः।
ननु तवापि सर्वकर्तृत्वे सिद्धे आदि­त्या­दि­क­र्तृत्वं पुनरुक्तमत आह –
एतदुक्तमिति ।
न ताव­द्व्या­प­को­क्ति­रे­क­दे­शो­त्तया पुनरुक्ता भवेद्, नाप्ये­क­दे­शोक्तिः व्याप­को­त्त­याऽऽ­दि­त्या­दे­र­न्य­त्रा­वि­शे­षो­क्ते­रस्तु सङ्कोच इति बाला­कि­भ्र­मा­पो­हा­र्थ­त्वा­दि­त्यर्थः।
कथं तर्हि ब्रह्मपरे वाक्ये जीववाची पुरुषशब्दः प्राणशब्दश्चात आह –
जीवेति।
प्राणयतीति योगा­द्वि­श्व­स­त्ता­स्पदं ब्रह्म प्राणशब्दो वक्ति। जीववाची तु पुरुषशब्दो जीव­सु­प्ति­स्था­न­भू­त­ब्र­ह्म­ल­क्ष­णार्थं इत्यर्थः। ब्रह्म­भा­वा­पे­क्षया ब्रह्मशब्देन जीवोपलक्षणे ब्रह्म­श­ब्दो­प­क्रमो मृषा­वा­दि­बा­ला­क्य­प­वादो विश्वकर्तृत्वं चास­म­ञ्ज­स­मि­त्यर्थः।
प्रत्य­क्ष­त्वा­ज्जी­वस्य न प्रति­पा­द्य­ताऽ­पी­त्याह –
न चानधिगतेति ।
स्वरसः स्वभावः। ब्रह्मणा लोका­न­धि­ग­ते­ना­धि­ग­त­जी­वो­प­ल­क्षणं चानु­प­प­न्न­मि­त्यर्थः।
ननु किं जीवस्य ब्रह्मो­प­ल­क्ष­क­त्वेन प्रसिद्धावपि जीवप्राणावनूद्य नामा­दि­व­दु­पा­स्ति­र्वि­धी­य­ताम्? इति शङ्कां निराकुर्वन् जीवमुख्येति सूत्रं (ब्र.अ.१.पा.१.सू.३१) व्याचष्टे –
न च संभ­व­त्ये­क­वा­क्यत्व इत्यादिना ।
एवं प्रसङ्गागतं जीवमुख्येति सूत्रं व्याख्या­या­धि­क­र­णा­द्य­सू­त्र­व्या­ख्या­मे­वा­नु­स­रति –
स्यादे­त­दि­त्या­दिना ।
पूर्वत्र यस्य चैत­त्क­र्मे­त्ये­त­च्छ­ब्देन नादि­त्या­दि­पु­रु­षाणां परामर्श एतेषां पुरुषाणां कर्तेत्यनेन पुन­रु­क्ति­रि­त्यु­क्तम्।
तत्र पूर्ववादिनः पुन­रु­क्ति­प­रि­हा­र­मा­शङ्क्य भाष्यव्याख्यया परिहरति –
निर्दि­श्य­न्ता­मि­त्या­दिना ।
कृति­र­नि­र्दि­ष्टेति ।
यद्यपि कर्तेति कृतरपि भातिः, तथापि प्राधा­न्ये­ना­र्नि­र्दि­ष्टे­त्यर्थः। कार्योत्पत्तिः कर्तव्यापारस्य साध्यतया फलम्।
भाष्ये उपात्तत्वं नाभिधेयत्वं, किं त्वनु­प­प­त्ति­ग­म्यत्वं, तदेवं दर्शयति –
न हीति ।
शब्दो­क्त­पु­रु­षा­णाम् एत­च्छ­ब्दा­प­रा­म­र्शेन अर्थसन्निधिना जग­न्मा­त्र­प­रा­मर्शे स्वेनैव कृतप्रतिवचनमपि पौन­रु­क्त­य­चो­द्यम्।
भाष्ये क्रमप्राप्तं व्याचष्टे –
ननु यदीति ।
इदानीमन्यार्थं तु जैमिनि (ब्र.अ.१.पा.४.१८) रिति सूत्र­स्थ­भा­ष्याणि व्याचष्टे –
ननु प्राण एवेत्यादिना ।
प्राणशब्दो हिरण्यगर्भं वक्ति, कुतो ब्रह्म­प्र­ती­ति­रिति शङ्कार्थः। आत्म­श­ब्दा­द्ग­म्यत इति परिहारः।
एतस्मादिति वाक्योदाहृतेरेव वेदा­न्ता­र्थ­त्व­सि­द्धे­रु­त­र­भा­ष्य­वै­य­र्थ्य­मा­शङ्क्य सर्व­वे­दा­न्ता­नु­ग­ति­स्तेन दर्श्यत इत्याह –
अपि चेति ।
भ्रमसंस्कारे सत्यपि प्रोद्भू­त­भ्र­मा­भा­वा­न्मु­क्त­यो­प­मानं सुषुप्ते रूपशब्देन भाष्ये कृतमित्यर्थः।
विभजते ।
उपा­धि­ज­नि­त­वि­शे­षे­त्या­दि­भा­ष्ये­णेति शेषः।
तद्व्याचष्टे –
उपाधिभिरिति ।
ननु विज्ञा­न­मि­त्ये­वास्तु किं विशेषेति विशेषणेनात आह –
यदिति ।
एत­द्वि­शे­ष­णाऽ­वि­शिष्टं विज्ञानं यत्तदनवच्छिन्नं सद्रूपं ब्रह्मैव स्यात्तच्च नित्यमिति कृत्वा नोपाधिजनितम्। नापि तेन ब्रह्मरूपेण रहितमात्मनः स्वरूपम्। अतो विशेषपदेन ब्रह्म व्यवच्छेद्यम्।
राहि­त्या­भा­वे­हे­तु­माह –
ब्रह्म­स्व­भा­व­स्या­प्र­हा­णा­दिति ।
यत­स्त­द्भ्रं­श­रू­प­मा­ग­म­न­मिति भाष्यं व्याचक्षाणः सुषुप्तौ ब्रह्मभावं दृढीकर्तुं तद्व्यतिरेके संसारमाह –
यदा त्विति ।
ननु हिताऽहितफलप्रदा नाम नाड्यो द्वास­प्त­ति­स­ह­स्राणि ताभिः प्रत्यवसृप्य पुरीतति शेत इत्यत्र पुरी­त­द्य­थाऽऽ­त्मा­धार उक्तः, एवमाकाशः किं न स्यादत आह –
यदपीति ।
मन्दधियामिति । जीव­नि­रा­स­हे­तु­प्र­श्नो­त्त­राधः स्थित­य­ष्टि­घा­तादेः सूत्रेऽ­र्था­त्सू­च­नाऽ­ज्ञा­नात् धीमान्द्यम्।
भाष्यो­क्त­प्रा­णा­दि­व्य­ति­रि­क्तो­प­देशं दर्शयति –
तौ हेति ।
महत्त्वात् हे बृहत् पाण्डुरा आपो वासस्त्वेनास्य चिन्त्यन्त इति तथोक्तः। प्राणस्यैव चन्द्रा­त्म­त्वा­त्सो­म­रा­ज­त्वम्; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्र इति श्रुतेः॥१८॥ आपिषम् आपिष्यापिष्य। यत्र सुप्त­स्त­त्स्थानं किमिति प्रश्नः। यदा पुरुषः स्वपिति अथ तदा प्राणे एकीभवति प्राणः सर्व­दे­वा­ना­मा­त्म­त्वेन महत्त्वाद् ब्रह्म तच्च ब्रह्म त्यदिति परोक्षेणाचक्षते परो­क्ष­प्रि­य­त्वा­द्दे­वा­नाम्। अस्माद् ब्रह्मशब्दात् पूर्वपक्षे ब्रह्मोपक्रमः प्राणे घटितः। सर्वेषां श्रैष्ठ्यं गुणोत्कर्षम् आधि­प­त्य­मै­श्वर्यं स्वराज्यम् अनन्याधीनत्वम्। मनो मनौपाधिको जीवः। प्राणबन्धनः प्राणाश्रयः।
इति पञ्चमं बालाक्यधिकरणम्॥

वाक्या­न्व­यात्॥१९॥ अत्र जीव­ब्र­ह्मा­लि­ङ्गाभ्यां विशयः। पूर्वत्र ब्रह्मोपक्रमात् तत्परत्वदिहापि जीवो­प­क्र­मा­त्त­त्प­र­तेति सङ्गतिः। क्वचि­त्स­म­न्व­यस्य जीव­मा­त्र­प­र्य­व­सा­न­नि­षे­धा­त्पा­द­स­ङ्गतिः। मैत्रे­यी­ब्रा­ह्मा­णा­र्थ­म­नु­क्रा­मन् प्रातर्दननयेन गता­र्थ­ता­मा­श­ङ्कते –
नन्वित्यादिना।
यियासता गन्तुमिच्छता। कात्यायन्या द्वितीयभार्यया। यत् यदि। भगोः भगवन् तेनामृता किं स्यामिति प्रश्नः। उपकरणवताम् अशनवसनादिमताम्।
सिद्धरूपस्य वित्तस्य अमृ­त­त्व­सा­ध­न­भा­वा­प्राप्तेः प्रति­षे­धा­यो­ग­मा­शङ्क्य तत्सा­ध्य­क­र्म­द्वारा प्राप्ति­मु­प­पा­द­यति –
एवमिति ।
श्रुतौ तच्छब्दार्थमाह –
अमृतत्वेति ।
अमृ­त­त्व­सा­ध­न­ज्ञा­नो­प­न्या­साय वैरा­ग्य­मु­त्पा­द­यितुं वाक्य­स­न्द­र्भ­मु­वा­चे­त्य­न्वयः।
वाक्यसन्दर्भं व्याख्याति –
आत्मेति ।
आत्मा वा अरे इति कृतसन्धिको वैश­ब्दोऽ­नु­का­रा­द्वा­द­शब्द उक्तः। विहितानि विधि­व­न्नि­ग­दै­र्बो­धि­ता­नी­त्यर्थः। कस्मादित्यत्र द्रष्टव्य इत्यनुषङ्गः श्रवणादीनि साधनानि यस्य तत्तथोक्तम्। आत्मनो वेत्यादिवाक्ये विदि­त­मि­त्य­स्या­न­न्तरं भवतीति शेषो द्रष्टव्य इत्यर्थः। मतिर्मननम्। विज्ञानं निदिध्यासनम्। श्रवणादिना यद्दर्शनं तेनेत्यर्थः।
आत्म­द­र्श­न­फ­ल­मु­क्त्वाऽ­ना­त्म­दृष्टौ दोषदर्शकं वाक्यमवतारयति –
कुत इति ।
ब्राह्म­ण्या­द्य­भि­मानो नियो­ज्य­त्वा­वि­र्भा­व­ने­ना­त्म­त­त्त्वाद् भ्रंश­ये­दि­त्यर्थः।
स यथा दुन्दु­भे­र्ह­न्य­मा­नस्य न ब्राह्यान् शब्दान् शक्नु­या­द्ग्र­ह­णाय दुन्दुभेस्तु ग्रहणेन दुन्दु­भ्या­घा­तस्य वा शब्दो गृहीत इत्या­दि­श्रु­ति­सू­चि­त­म­नु­मानं विशदयति –
यत्खल्विति ।
स दृष्टान्तो यथा लोके दुन्दु­भे­र्ह­न्य­मा­नस्य लक्षणया हन्य­मा­न­दु­न्दु­भ्य­भि­व्य­क्त­श­ब्द­त्व­सा­मा­न्यस्य विशेषभूतान् सामा­न्या­द्बा­ह्य­त्वेन ग्रहीतुं न शक्नुयादिति व्यतिरेकः। एवमन्वयोऽपि। दुन्दुभिशब्दस्य ग्रहणेन तद्विशेषशब्दो दुन्दु­भ्या­घा­त­सं­ज्ञको गृहीतः, आघातस्य वा ग्रहणेन तद­वा­न्त­र­वि­शे­ष­शब्दो गृहीत इति श्रुत्यर्थः। आर्द्रै­रे­धो­भि­रिद्ध आर्द्रैधाः। अभ्याहितः उपचितः। पञ्चम्यर्थे षष्ठ्यौ। धूमग्रहणं विस्फु­लि­ङ्गा­द्यु­प­ल­क्ष­णा­र्थम्। किं तन्निः श्वसितं तदाह श्रुतिः - यदृग्वेदो यजुर्वेदः साम­वे­दोऽ­थ­र्वा­ङ्गि­रस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्रा­ण्य­नु­व्या­ख्या­नानि व्याख्यानानीति। अथ­र्वा­ङ्गि­र­सो­न्त­श्च­तु­र्विधो मन्त्रः। इतिहासः - उर्वशी हाप्सराः पुरूरवसमैलं चकमे इत्यादि। पुराणं – सादेव सोम्येदमग्र आसीदित्यादि सर्गादिकथकम्। विद्याः - देव­य­ज­न­वि­द्याद्याः। उपनिषदः - प्रिय­मि­त्ये­त­दु­पा­सी­ते­त्याद्या रहस्योपासनाः। श्लोकाः - ब्राह्मणप्रभवा मन्त्रास्तदेते श्लोका इत्यादौ निर्दिष्टाः। सूत्रा­ण्या­त्मे­त्ये­वो­पा­सी­ते­त्या­दि­व­स्तु­स­ग्र­ह­वा­क्यानि। अनुव्याख्यानानि संग्र­ह­वि­व­रा­णानि। व्याख्यानानि मन्त्र­व्याख्याः। इत्यष्टविधं ब्राह्म­ण­मि­त्यर्थः।
श्रुतौ शब्द­सृ­ष्ठ्य­र्था­द­र्थ­सृ­ष्टि­रु­क्तेति वद­न्ना­म­रू­प­प्र­प­ञ्च­का­र­णतां व्याचक्षण इति भाष्या­भि­प्रा­य­माह –
यदा चेति ।
सिद्धान्त एव प्रकट इति गतार्थत्वं शङ्क्यतेऽतः शङ्कावसरेऽपि युक्ता सिद्धा­न्त­भा­प्य­व्याख्या। स यथा सैन्धवखिल्य इति वाक्येन ज्ञाननिमित्त आत्यन्तिकः प्रलयः प्रप­ञ्च­स्यो­क्त­स्त­माह - यथा सामुद्रमिति। खिल्यो घनः।
आत्यन्तिकप्रलये पराकृतो लयो दृष्टा­न्त­त्वे­नो­च्यत इत्याह –
एतदिति ।
समुद्रेऽपां लयः प्राकृतलये दृष्टान्तो न त्वात्य­न्ति­क­लये। सर्वेषां स्पर्शानां त्वगे­का­य­न­मि­त्या­दि­दृ­ष्टा­न्त­प्र­बन्धः।
तत्र हि महाप्रलयसमये त्वगा­दि­श­ब्द­ल­क्ष्य­स्प­र्श­त्वा­दि­सा­मा­न्येषु तद्विशेषाणां तेषां च सामान्यानां क्रमेण ब्रह्मणि लय उच्यते इति। ‘एवं वा अरे इदं मह’दिति श्रुतिं व्याचक्षाण उदाहरति –
दार्ष्टान्तिके इति ।
अव­च्छे­दोऽ­ल्प­त्वम्। ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्य’तीति वाक्यं विभजते –
स होवाचेति ।
‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन विजानीया’दिति वाक्यं विवृणोति –
आनन्देति ।
विष­या­भा­वेऽ­प्या­त्म­भूतं ब्रह्म जानीयादिति शङ्कापनुत्तये विज्ञातारमरे केन विजानीया’दिति वाक्यं, तद्व्याचष्टे –
ब्रह्म वेति ।
येनाहं नामृता स्यामि­त्य­मृ­त­त्वो­प­क्र­माद् दुन्दु­भ्या­दि­भि­स्त­दु­प­पा­द­नात्। ब्रह्म तं परादादित्यादि द्वैतनिन्दा। इदं ब्रह्मेदं क्षत्र­मि­त्या­र­भ्येदं सर्वं यद­य­मा­त्मे­त्य­न्त­म­द्वै­त­गु­ण­की­र्त­नम्। अस्ती­त्या­ख्या­त­प्र­ति­रू­प­क­म­व्य­यम्। विद्या­मा­न­पू­र्व­प­क्ष­मि­त्यर्थः। यद्यपीह जीव­ब्र­ह्म­लि­ङ्ग­सं­देहे सर्वा­त्म­ब्र­ह्म­ण्य­न्त­र्भ­वन्तो जीवधर्मा न ब्रह्मपरतया योज्यन्ते।
प्रात­र्द­ना­धि­क­रणे (ब्र.अ.१.पा.१.सू.२६) एव तत्सिद्धेः नापि प्रसि­द्ध­जी­वा­नु­वा­दे­ना­प्र­सि­द्ध­ब्र­ह्मा­त्म­बो­ध­न­प­र­ताऽ­व­धा­र्यते, सुषु­प्त्यु­त्क्रा­न्त्या­धि­क­रणे(ब्र.अ.१.पा.३.सू.४४) तत्सिद्धेः; तथापि जीवमनूद्य ब्रह्म­त्वा­बो­ध­ना­द­नु­वा­द्य­वि­धे­य­यो­र्भे­दा­भे­दा­विति मतनिरासेन ऐकान्तिकमद्वैतं प्रतिपाद्यत इत्याह –
अत्रोच्यत इति ।
मैत्रे­यी­ब्रा­ह्म­ण­वि­षये जीव­मा­त्र­प­र­त्व­पू­र्व­प­क्षेण प्रस्तावमात्रं कृतं, तत्किमर्थमत आह –
भोक्तृत्वेति ।
भोक्तृत्वादीनां भेदपरत्वेन शङ्क्यमानानां समाधये इत्यर्थः।
भोक्तृत्वं विभजते –
पतीति ।
आत्मनस्तु कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय जाया प्रिये­त्या­दि­सं­बन्ध इत्यर्थः।
ज्ञातृतामाह –
नापीति ।
विज्ञातारमरे केन विजानीयादिति श्रुतमित्यर्थः।
जीवरूपेण ब्रह्मण उत्था­न­मु­त्प­त्ति­माह –
साक्षाच्चेति ।
भोक्तृ­त्वा­दे­र­र्था­पत्त्या जीवधीः, इह तु ब्रह्मण उत्पत्त्या मुखत एवेति साक्षा­द्ग्र­ह­णम्। भाष्ये भोक्त्र­र्थ­त्वा­द्भो­ग्य­जा­तस्य जीवज्ञानात् सर्वज्ञानोपचार इति जीव­प­क्ष­स्यो­प­बृं­ह­णा­भासो दुन्दुभ्यादिभिः सर्व­ज्ञा­नो­प­पा­द­ना­दु­प­चा­राऽ­यो­गा­दि­त्यर्थः।
सिद्धान्तभाष्यं गता­र्थ­त्व­व­र्ण­न­च्छ­लेन विवृ­त­मि­त्य­भि­प्रे­त्याह –
सिद्धा­न्त­स्त्विति ।
लिङ्गत्रयसमाधिं श्लोकोक्तं दर्शयति –
तदेवमित्यादिना ।
पूर्वपक्षमाह –
आचार्यदेशीयेति ।
प्रतिज्ञेति ।
तद्रूपेण वह्निरूपेण निरूपणं येषां ते तथा। अत्यन्तमभेदे ब्रह्म­व­त्प­र­स्प­र­म­व्या­वृ­त्ति­प्र­स­ङ्गात् ब्रह्म­व्य­ति­रि­क्त­जी­वा­भावे च तस्यैवोपदेशः स्यात् तस्य चायु­क्त­त्वा­दि­त्यर्थः। परमात्मनि दर्शयितव्ये यो विज्ञा­ना­त्म­नो­प­क्रमः स तयोरभेदमादाय।
स चाभेदः प्रति­ज्ञा­सि­द्धये इति योजना॥२०॥ आश्म­र­थ्य­म­ता­द्भि­नत्ति –
जीवो हीति ।
उपाधिसंपर्को हेतुः कालुष्ये, न जीवपरभेदे। सर्वदेति अनादिकाले। भेदहेतोः गमकस्य संसा­रि­त्वा­दे­री­श्व­र­वि­रु­द्ध­ध­र्म­स्ये­त्यर्थः। वृद्ध­वै­शे­षि­क­दृ­ष्ट्याऽ­ना­द्य­णु­श्या­म­तो­दा­हृता। यथा नद्यः स्यान्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहा­ये­त्यु­दा­ह­र्त­व्यम्। तद्धि तथा विद्वानित्यस्य पूर्वार्धम्।
अर्थसाम्यात्तु यथा सोम्येमा नद्यः स्यन्दमानाः समुद्रं प्राप्यास्तं गच्छ­न्ती­त्यु­दा­ह­रत्॥२१॥ अनेन जीवेनात्मनेति सामानाधिकरण्यं कार्यकारणभावेन भेदाभेदपरमिति शङ्किते परिहरति –
न च तेज इति ।
आश्मरथ्यमते कार्यकरणभावस्य वास्त­व­त्वे­ना­न्यू­न­त्वा­त्कि­या­न­पीति भाष्य­नि­र्दे­शा­यो­ग­मा­श­ङ्क्याह –
आत्यन्तिके इति ।
अभेदे आत्यन्तिके सति विद्यमान इति च्छेदः। आस्थिते कथं­चि­द­भे­देऽ­पी­ष­द्भेद आपततीति स कार्य­का­र­ण­भा­व­नि­र्वा­हक इति लक्षणया तथोक्त इत्यर्थः। ननू­च्छे­दा­भि­धा­न­मे­त­दिति शेषं भाष्यं न संज्ञामात्रं व्यासे­धी­त्या­दि­ग्र­न्थेन व्याख्या­ता­र्थ­मि­त्यर्थः।
भाष्ये - विज्ञातारमिति कर्तृ­नि­र्दे­श­लिङ्गं काश­कृ­त्स्न­म­ते­नैव परि­ह­र­णी­य­मि­त्ये­व­का­र­स्या­भि­प्रा­य­माह –
काश­कृ­त्स्नी­ये­नै­वेति ।
शक्य­नि­रा­क­र­ण­त्व­मेव दर्शयति –
ऐकान्तिके हीति ।
‘‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्तत् केन कं पश्ये’’ दित्या­त्म­नोऽ­न्य­क­र्म­क­रणे निषिद्धे तत आत्मनं जानात्विति शङ्कायां स्वप्रकाशं विज्ञातारं केन विजानीयादिति तत्कर्मत्वं प्रतिषिद्धम्। एतानि भेदपक्षे भेदाभेदपक्षे च निषेद्धुं न शक्यानि प्रमाणादेः सत्त्वा­दि­त्यर्थः। अत्यन्तभिन्नस्य तत्केनेति प्रतिषेधो विज्ञातारमिति व्यावृत्तत्वेन जीवग्रहणाऽनिषेध इति केन­चि­द­यु­क्त­मु­क्तम्, आत्मैवाभूदिति भेदा­भे­द­प्र­ति­षे­धात् यत्र हि द्वैतमिवेति इवकारेण द्वैत­वै­त­थ्यो­प­क्र­माच्च। श्रुत्य­नु­सा­रि­का­श­कृ­त्स्न­म­ता­द­त्य­न्ता­द्वै­त­सिद्धौ जीवस्य यत् ज्ञातृ­त्व­म­वि­द्या­व­स्थायां भूतं तदालोचनेन तन्निर्देश इत्य­र्था­त्स्थि­तम्।
इदानीं पौरुषेयीं काश­कृ­त्स्न­दृ­ष्टि­म­न­पेक्ष्य श्रुतित एव निर्धार्यते इत्याह –
न केवलमिति ।
यदि श्रुति­वि­त्का­श­कृत्स्न इति तन्मतमादृतं, हन्त किं न श्रुतिविद इतरे आचार्याः? इति शङ्कते –
कस्मात्पुनरिति ।
पुंगौरवेण श्रुत्य­नु­मा­ना­द्वरं प्रत्य­क्ष­श्रु­ति­दृष्टं मतं गृहीतमिति परिहारार्थः। दर्शितं तु पुरस्ताद् । यत्र हीत्या­दि­श्रु­ति­म­त्त्व­मि­त्यर्थः।
उक्त­श्रु­त्यु­दा­ह­र­ण­भा­ष्यस्य पौन­रु­क्त्य­मा­शङ्क्य बहु­वा­क्य­प्र­द­र्श­क­त्वेन परिहरति –
श्रुति­प्र­ब­न्धेति ।
स्मृतिमत्त्वं च स्मृत्यु­प­न्या­से­नेति शेषः। भाष्यगत उपसंहार उपक्रमे यस्य तच्छुतिमत्त्वं तथोक्तम्। उप­सं­हा­रो­क्ति­स्त­द्द्वा­रा­प्य­जा­मि­त्वाय। अत­श्चे­त्या­द्य­भ्यु­प­ग­न्तव्य इत्यन्तं भाष्य­मु­प­सं­हा­रा­र्थम्, ततः परं श्रुति­प्र­ब­न्धो­प­न्य­साय। आतश्चेति पाठे बहु­प्र­मा­ण­दृ­ष्टि­र­व­श्य­तया सूचिता।
भाष्यकारेण स वा एष इति श्रुतिमुदाहृत्य सर्व­वि­क्रि­या­प्र­ति­षे­धा­दिति तात्पर्यमभाणि तद्विशदयति –
जननेति ।
श्रुतावमर इत्य­प­क्ष­य­प्र­ति­षेधः।
भाष्य­स्थ­श्रु­ती­ना­म­न­न्य­था­सि­द्धि­माह –
परिणामेति ।
अन्यथा निर­प­वा­द­वि­ज्ञा­ना­नु­प­प­त्ते­रिति भाष्यं व्याकरोति –
अपि चेति ।
भेदा­भे­दा­व­वि­रु­द्धा­वुत विरुद्धौ, नाद्य इत्याह –
विरोधादिति ।
अवि­रो­ध­श्चे­द्भे­देऽ­प्य­त्य­न्ता­भे­दा­वि­रो­धान्न भेदाभेदावकाश इति भावः।
द्वितीये विषमबलौ, समबलौ वा; आद्यमनूद्य प्रत्याह –
नात्मनीति ।
भाष्ये - निर­प­वा­द­त्व­म­बा­ध्य­त्वम्।
द्वितीयमनुभाष्य दूषयन् सुनि­श्चि­ता­र्थ­त्वा­नु­प­प­त्ते­श्चेति भाष्यभावमाह –
अथ त्विति ।
सम­ब­ल­बो­धि­त­वि­प­र्यये विषये संशयः सत्प्र­ति­प­क्षा­नु­मा­न­व­दि­त्यर्थः। भेदाभेदव्यवस्था चेद्धिं­सा­वि­धि­नि­षे­ध­वत्। कार्य­का­र­ण­यो­स्तर्हि नैकत्र स्तो भिदाभिदे॥ यथा­ग्नी­षो­मी­य­हिं­सायां विधिः, वृथाहिंसायां निषेधः, नैकत्रैव; एवं कारणमेकं कार्याणि नानेति भेदवाद एव स्यात्। सामानाधिकरण्यं यद्धेमकुण्डलगं न तत्।
भेदाभेदावगाहीति प्राग्वा­च­स्प­ति­ने­रि­तम्॥ भाष्य­स्थ­श्रुत्या भेदाभेदौ निरस्तावित्याह –
एकत्वमिति ।
स्थितप्रज्ञेति भाष्ये स्थिति­र्नि­स्सं­श­यता।
लोकप्रसिद्ध्या जीवेश्वरभेदमाह –
कथं तर्हीति ।
अनुमानादप्याह –
कथं चेति ।
यद्वि­रु­द्ध­र्म­व­त्तया दहनतुहिनवत्तया च जीवे­शा­वि­त्यर्थः।
स्वाभाविकं विरु­द्ध­ध­र्म­व­त्त्व­म­सि­द्ध­मौ­पा­धिकं तु बिम्ब­प्र­ति­बि­म्ब­यो­र­ने­का­न्त­मिति शङ्कित्वा परिहरति भेदवादी –
अविद्येत्यादिना ।
भाष्यकृद्भिः श्रौताभेदसिद्धौ मृषा भेद इति प्रतिपादितं तदयुक्तम्।
भेदा­भे­द­सं­भ­वा­दि­त्या­श­ङ्क्याह –
न ताव­द्भे­दा­भे­दा­विति ।
अविद्याश्रयं त्वविद्योपधानं चेत्यादिना वक्ष्याम इति तावच्छब्दः।
मा भूतामेकत्र भेदाभेदौ, भेद एवास्तु, नेत्याह –
द्वैतेति ।
लोकप्रसिद्धिम् अन्य­था­सि­द्ध­य­त्य­नु­मानं वाऽनेकान्तयति –
तत्र यथेत्यादिना ।
परस्मिन्नुच्यते प्राची­नै­रा­चा­र्यै­र­विद्या ब्रह्मणीति वद­द्भि­रि­त्यर्थः। अनादित्वमात्रे बीजा­ङ्कु­र­दृ­ष्टान्तो न तु जीवा­वि­द्या­व्य­क्ति­भेदे। उत्पत्तौ हीतरेताश्रयदोषः अना­द्यो­र्जी­वा­वि­द्य­योश्च नोत्पत्तिः। इतरेतराधीनत्वं तु स्यात्। तच्च दृष्ट­म­वि­द्या­त­त्सं­ब­न्ध­यो­र्वा­च्य­वा­च­क­त्वा­दीनां चेत्यर्थः। यदत्राह केशवः - यद्यु­पा­धि­वि­शि­ष्टस्य संसारो नाशितात्मनः। तल्लक्षितस्य चेद् ब्रह्म मुक्त्वा तद्रू­प­मु­च्य­ताम्॥ इति। तन्न; यतो न विशेषणम् अविद्या, नाप्युपलक्षणम्, किं तूपाधिः। कः पुनरेषां भेदः? उच्यते। कार्या­न्व­यि­त्वेन विभेदकं हि विशेषणं नैल्य­मि­वो­त्प­लस्य। अनन्वयित्वेन तु भेदकानाम् उपाधिता उपलक्षणता च सिद्धा। तत्र च - याव­त्का­र्य­म­व­स्थाय भेद­हे­तो­रु­पा­धिता। कादाचित्कतया भेद­धी­हे­तु­रु­प­ल­क्ष­णम्॥ नीलो­त्प­ल­मा­न­ये­त्यत्र हि नैल्यं व्यावृ­त्ति­प्र­यु­क्ता­न­य­न­का­र्या­न्वयि सदुत्पलं रक्ता­द्व्या­व­र्त­यति। अलक्तककाकौ तु स्फुटि­क­गृ­ह­का­र्य­यो­र्ना­न्वी­येते। अलक्तकं तु याव­द्र­क्त­स्फ­टि­का­न­य­न­म­नु­व­र्तते। काकस्तु न चैत्रगृहगमनं यावदनुवर्तते। तदिहाऽविद्या न विशेषणमिति न तन्नाशे जीवनाशः। न चोपलक्षणमिति न ब्रह्मणि संसारो यावत्संसारं चानुवर्तिष्यते। तन्निवृत्तौ च जीवः स्वं ब्रह्म­भा­व­मे­ष्यति। त्वयापि लिङ्ग­री­रा­व­च्छे­दा­भ्यु­प­ग­मात् समौ पर्य­नु­यो­ग­प­रि­हारौ। न चौपाधिकस्य सत्य­त्व­मि­त्य­न­न्त­र­मेव वक्ष्यत इति।
अत एवे­त्ये­त­द्वि­वृ­णोति –
न खल्विति ।
अवि­द्या­धी­न­जी­व­वि­भा­ग­स्या­ना­दि­त्वा­दु­द्दे­श्या­भा­वोऽ­सिद्धः। अनादित्वाच्च मायाया आरचनाभावः। संसा­र­स्या­ना­दि­त्वा­त्सं­सा­रिणं कथं कुर्या­दि­त्य­चो­द्य­मि­त्यर्थः। न मायाकृतसंसारे प्रयोजनानुयोगो गन्ध­र्व­न­ग­रा­दि­भ्र­म­व­दि­त्या­दि­श­ब्दार्थः।
अवि­द्यो­पा­धि­व­र्णनं नाम­मा­त्र­भे­दा­दिति भाष्य­वि­रु­द्ध­मि­त्या­श­ङ्क्याह –
अत्र चेति ।
नामे­त्य­व­स्तु­त्वे­ना­वि­द्यो­क्ति­रि­त्यर्थः।
यदा दर्पणादयोऽपि मुखा­दा­व­व­दा­त­त्वा­दे­र्भा­ना­भाने तन्वते, तदा कैवाविद्यायाः कथेत्याह –
यथा हीति ।
अविद्या गुहा न गिरिदरी। सा चैकस्मिन् स्वयं­प्र­भे­नि­रं­शेऽपि भानाभाने वर्त­य­त्य­सं­भा­व­नी­या­व­भा­स­च­तु­र­त्वा­दिति भाष्य­टी­क­यो­र्भावः।
नन्वै­क्य­सि­द्धा­वु­पा­धिना भाना­भा­न­स­म­र्थ­नम्, तदेवासिद्धमिति शङ्कते –
अस्तु तर्हीति ।
ये तु निर्बन्धं कुर्वन्तीति भाष्यं व्याख्या­न­पू­र्वकं प्रतीकत आदत्ते –
अपि त्वित्यादिना इतीत्यन्तेन ।
आश्मरथ्यस्य वेदा­न्ता­र्थ­बा­ध­कत्वं भाष्योक्तं स्फुटयति –
ब्रह्मण इति ।
भागशः परिणामे कार्यत्वं साव­य­व­त्वा­त्त­त­श्चा­नि­त्यत्वं सर्वात्मना परिणामे च सर्वा­भा­वा­द­नि­त्यत्वं साक्षा­दि­त्यर्थः। अनेन कृतकमनित्यमिति भाष्यं व्याख्यातम्। न्याये­ना­स­ङ्ग­ति­र्व्या­घा­तात्।
औडु­लो­मे­र्न्या­या­स­ङ्ग­ति­माह –
एवमिति ।
भिन्न­यो­रै­क्या­यो­गा­दे­क­त्व­शा­स्त्र­वि­क­त्थ­न­म­स­ङ्ग­त­मि­त्यर्थः। संस्थानभेदो नैर­न्त­र्ये­णा­व­स्था­नम्।
अथ नदीपाथःपरमाणवः समु­द्रा­व­य­वि­नैक्यं यान्ति तत्राह –
एवं समुद्रादपीति ।
भास्करस्य मतमनूद्य दूषयति –
ये त्वित्यादिना ।
साव­य­व­त्व­म­व­य­वा­र­ब्धत्वं सांशत्वं भाग­व­त्त्व­मा­त्र­मिति परो मेने। शब्द­श्र­व­ण­यो­ग्य­मि­त्या­ज्ञा­न­द­शायां कार्यकरत्वात् सत्य­त्व­मि­त्यु­क्तम्।
दिगारभ्यं श्रोत्रमिति मते दृष्टान्तमाह –
वायोरिति ।
नेम्या­का­र­क­र्ण­व­ल­य­त­त्सं­यो­गयोः प्राप्त­यो­रा­का­शां­श­नि­र्दे­शा­द­न्यथा चानिर्देशात् कल्पि­त­न­भोऽ­व­च्छे­दा­न­भ्यु­प­ग­माच्च कर्णस्तत्संयोगो वा आकाशाशं इत्युक्तं स्यादित्यर्थः। किं व्यापी संयोगो न वा।
आद्य­म­नु­प­ल­म्भा­न्नि­रस्य द्वितीयं निरस्यति –
न हीति ।
व्याप्ति­प­क्ष­मा­दाया ऽनुपलम्भस्य अन्य­था­सि­द्धि­मा­श­ङ्क्याह –
व्याप्यैवेति ।
कर्णस्य परि­च्छे­दा­त्क्वा­चि­त्क­प्र­थे­त्यर्थः।
परिहृतेऽपि सर्वत्र प्रथनप्रसङ्गे तत्कार्यस्य सर्व­त्रा­प­त्ति­माह –
न नामेति ।
अज्ञातस्य तस्य शब्द­धी­हे­तु­त्वा­दि­त्यर्थः।
इदानीमंशमात्रे साधारणं दूषणमाह –
न चेति ।
भिन्नयोः नाशां­शि­त्व­म­श्व­म­हि­ष­व­न्ना­भि­न्न­स्यै­कै­व­न्नापि भिन्ना­भि­न्न­यो­स्त­द्वि­रो­धस्य समन्वयसूत्रे (ब्र.अ.१.पा.१.सू.४) उक्त­त्वा­दि­त्यर्थः।
नर्भो­श­स्या­वि­द्या­क­ल्पि­त­त्व­मा­क्षिप्य समाधत्ते –
न च काल्पनिक इति ।
यत्काल्पनिकं न तद­ज्ञा­त­द­शा­या­मस्ति रज्जु­भु­ज­ङ्ग­व­च्छ्रो­त्र­ल­क्ष­णांशो यदि काल्पनिकत्वेन ज्ञान­मा­त्र­प्रा­प्त­जी­विकः प्रती­त­स­त्ता­क­स्तर्हि कथ­म­ज्ञा­य­मा­नेऽस्ति।
इष्ट­प्र­स­ङ्ग­त्ता­मा­श­ङ्क्याह –
असंश्चेति ।
अज्ञातत्वेन हि श्रोत्रं शब्द­धी­हे­तु­स्त­द­ज्ञा­त­द­शायां यद्य­स­त्स्या­त्ततः शब्दधीर्न स्यादित्यर्थः।
अज्ञातत्वं तदा­नी­म­सि­द्ध­मि­त्या­पा­द­का­सि­द्धि­माह –
अज्ञातत्वेति ।
कुतोऽसिद्धिरत आह –
कार्येति ।
निगू­ढोऽ­त्रा­भि­स­न्धि­स्त­म­जा­नन् शङ्कते –
कार्यो­त्पा­दा­दिति ।
शब्दो­प­ल­ब्धि­का­र्य­लि­ङ्ग­का­नु­मा­नाद्या श्रोत्र­स्या­भि­व्यक्तिः सा कार्यात्पराचीति प्राक् कार्या­द­स­च्छ्रोत्रं स्यात्त­द्ब­लात्तु तत्सत्त्वे चक्रकं सति श्रोत्रे तत्कार्यं तस्मिन्सन्ति श्रोत्रानुमानं ततश्च श्रोत्र­स­त्त्व­मिति तथा च निय­त­प्रा­क्स­त्त्वा­त्म­क­का­र­ण­त्व­मस्य न स्यादित्यर्थः।
निगूढाभिसन्धिं प्रकटयति –
न पूर्वेति ।
पूर्व­पू­र्व­का­र्य­लि­ङ्ग­का­नु­मि­त्यु­पा­धि­क­स­त्त्व­वतः श्रोत्रा­दि­दा­नी­न्त­न­का­र्यो­दय इत्युक्तम्; अजानतामपि श्रोत्रं शब्दोपलम्भादिति चेत्तत्राह –
असत्यपीति ।
यथा कल्पितप्रतीतिः सत्त्वा­पा­धि­स्तथा तत्सं­स्का­रोऽ­पी­त्यर्थः। एतदुक्तं भवति - अभासमानं कार्यकरं श्रोत्रमिति न वास्तवं सत्त्वं कल्प्यम्; भ्रम­सं­स्का­रो­पा­धि­क­स­त्व­सं­भ­वा­दिति।
अथ संस्कारः कुतः? प्राक्त­ना­नु­मि­ते­रिति चेत् तर्हि अनवस्थेति शङ्कां परिहरति –
अनादित्वाच्चेति ।
अथ नैकै­क­स्या­ना­दित्वं न च प्रवाहो नाम वस्त्वत आह –
अस्तु वेति ।
नोपपद्यतेऽर्थः परमार्थत्वं यस्यास्तस्या भावस्तत्त्वम्। कर्ण­ने­मि­म­ण्ड­लो­पा­ध्य­धीनं सत्त्वम् श्रोत्रस्येति नाज्ञा­त­स­त्त्व­वि­रोधो निरु­पा­धि­क­भ्र­मेषु प्रतीतिकसत्ता इति वा परिहारः। किं च - आरभ्यं श्रोत्रमस्माकं नभसा दिग्भिरेव वा। वायोः सांशत्वतः प्राणो भागः सत्यश्च संभवेत्॥ रूपाणि शरीराणि विचित्य निर्माय तेषां नामानि कृत्वा तेषु प्रविश्याभिवदन् य आस्ते एतं महान्तं पुरुषमहं वेदेत्यर्थः॥२२॥
इति षष्ठं वाक्या­न्व­या­धि­क­र­णम्॥

प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात्॥२३॥ मध्ये पादं वृत्तकीर्तनस्य प्रयोजनमाह –
स्यादेतदिति ।
व्यव­हि­त­सं­ब­न्धा­पौ­न­रु­क्तये फले इत्यर्थः।
जन्मादिसूत्र (ब्र.अ.१.पा.१.सू.२) सङ्ग­त्य­भि­धि­त्सायां प्रथ­म­सू­त्रा­र्था­नु­वा­देन यथा­भ्यु­द­य­हे­तु­त्वा­दि­त्या­दि­भा­ष्यो­क्तेन किं प्रयोजनमत आह –
अत्र चेति ।
ब्रह्मलक्षणस्य कारणत्वस्य विचारप्रतिज्ञया सङ्गतिमुक्त्वा तेना­स्या­धि­क­र­णस्य कार­ण­वि­शे­ष­वि­चा­र­प­रस्य सङ्गतिरुक्ता। आकस्मिके हि लक्षणे तद्वि­शे­ष­चि­न्ता­प्या­क­स्मिकी स्यादित्यर्थः। अत एवा­ध्या­य­स­ङ्ग­तिश्च। ब्रह्म­का­र­ण­त्वा­भ्यु­प­ग­मेन विशे­ष­वि­प्र­ति­प­त्ति­नि­रा­स­सा­म्या­त्पा­द­स­ङ्गतिः।
अव­शे­ष­मा­हे­त्युक्ते तम­व­शि­ष्य­मा­ण­म­र्थ­माह –
एतदुक्तमिति ।
कारणत्वमात्रं लक्षणमुक्त्वा यदि ब्रह्म निमित्तमेवेति पक्ष आश्रीयेत, तदा जग­दु­पा­दा­न­म­भ्यु­पेयं न वा।
आद्यं निरस्य द्वितीयं निरस्यति –
असंभवाद्वेति ।
भावकार्यस्य गग­ना­दे­र­व­श्या­श्र­य­णीये उपादाने तदधिष्ठातृत्वेन निमित्तत्वं वक्तव्यं तदनभ्युपगमे तन्न स्यादित्यर्थः। उभयकारणत्वपक्षे प्रधा­ना­न­न्यु­प­ग­मा­न्ना­ति­व्याप्तिः। अद्वै­ताऽ­व्या­से­ध­क­त्वाच्च एवं­वि­ध­का­र­ण­त्वस्य न लक्ष्या­व्या­प्ति­र्ना­सं­भव इत्यर्थः। एत­द­धि­क­र­ण­सि­द्ध­व­त्का­रेण च जन्मादिसूत्रे उभ­य­का­र­ण­त्व­व्य­व­हारः। यद्यपि तद­न­न्त­र­मि­द­मा­र­ब्ध­व्यम्; तथापि निर्णी­त­ता­त्प­र्यै­र्वे­दान्तैः निमि­त्त­त्व­मा­त्र­सा­ध­का­नु­मा­नस्य कालातीतत्वं मुवचमिति समन्वयावसाने लिलिखे।
अप्रदर्शिते तु विषये समन्वयो दुष्प्रतिपाद इति कारणतामात्रं तत्रोक्तम्। ईक्ष­तृ­त्व­श्रु­ते­रे­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नाच्च ब्रह्म निमि­त्त­मे­वो­तो­पा­दा­न­म­पीति संशये पूर्वत्र प्रतिज्ञां मुख्यामाश्रित्य जीवपरत्वं वाक्यस्य निरस्तम्, इह तु निमि­त्तो­पा­दा­न­भे­दा­द्गौणी सेति सङ्गतिमभिसन्धाय पूर्वपक्षमाह –
ईक्षेति ।
ब्रह्म न द्रव्यप्रकृतिः ईक्षितृत्वात्, कर्तृत्वात् स्वत­न्त्र­त्वा­दिति यावत्। प्रभुत्वाच्च राजवत्। सुखाद्युपादेन राज्ञि साध्य­वै­क­ल्य­व्या­वृ­त्तये प्रतिज्ञायां द्रव्यपदम्।
ब्रह्म न पृथिवीप्रकृतिः निर्गन्धत्वात् अभा­व­व­दि­त्य­प्र­यो­गा­न्म­त्वाऽऽह –
असरूपतेति ।
एते­षा­म­नु­मा­ना­ना­मा­श­ङ्क्या­ती­त­का­लतां विषयव्यवस्थया परिहरति –
आगमस्येति ।
आगमे हि यत इति पञ्चमी न प्रकृतावपि तु हेतुत्वमात्रे ‘हेतु­म­नु­ष्ये­भ्योऽ­न्य­त­रस्यां रूप्य’ इति हेतो­र्म­नु­ष्याच्च रूप्या­प्र­त्य­य­विधौ ‘तत आगत’ इति प्रकृतस्य पञ्चम्यर्थस्य हेतोरिति विशेषणेन हेतावपि पञ्च­मी­ज्ञा­प­नात्। अतो न विरोध इत्यर्थः।
ननु निमि­त्तो­पा­दा­न­भेदे कथं प्रति­ज्ञा­दृ­ष्टा­न्त­यो­जना तत्राह –
एकेति ।
इत्यादिना यत्प्र­ति­ज्ञा­त­मि­त्य­न्वयः।
ननु प्रति­ज्ञा­दृ­ष्टान्तौ प्राधान्यपरौ, नेत्याह –
न मुख्ये इति।
नन्व­नु­मा­न­वा­धा­द्गौ­ण­ताऽत आह -
न चेति ।
अस्त्वागमो निमि­त्त­त्व­प­र­स्त­त्राह –
सर्वे हीति ।
कथ­मै­का­न्ति­काऽ­द्वै­त­प­रत्वं प्रकृ­ति­वि­का­रा­भि­धा­यि­वे­दा­न्ता­ना­मत आह –
द्वैतेति ।
कार्यस्य विव­र्त­त्वे­ना­धि­ष्ठा­न­न्य­ति­रे­णा­भावे वेदान्तानां तात्प­र्य­मि­त्यर्थः।
यदि तज्ज्ञा­ना­त्स­र्व­का­र्य­ज्ञा­नार्थं ब्रह्मोपादानम्, अस्तु तर्हि ततोऽ­न्य­न्नि­मि­त्त­मत आह –
न चेति ।
न केवलमनुमानस्य प्रति­ज्ञा­दि­लि­ङ्गै­र्बा­धोऽपि तु श्रुत्याऽ­पी­त्याह –
यत इतीति ।
यत्तु ज्ञापकाद्धेतौ पञ्चमीति, तत्राह –
न कारणमात्र इति ।
ज्ञापनेन विध्यु­न्न­य­ना­द्व­र­मिह प्रत्य­क्ष­वि­धि­प्रा­प्त­प्र­कृ­ति­त्वो­पा­दा­न­मिति भावः। अपि च गुणवचनेषु हेतुपञ्चमी दृश्यते जाड्याद्वद्ध इत्यादिषु। न च ब्रह्म गुणोऽ­ना­श्रि­त­त्वाद्, येन ‘यत’ इत्यस्य गुणवचनता स्यादिति जनि­क­र्तु­र्जा­य­मा­नस्य प्रकृ­ति­र­पा­दा­न­संज्ञा भवति ततोऽपादाने पञ्चमीति सूत्रेण प्रकृतौ स्मर्यत इत्यर्थः।
भाष्यस्थश्रुतिं व्याचष्टे -
दुन्दुभीति॥२३॥
सौत्र्यभिध्या ऽना­ग­त­व­स्तु­नीच्छा, तस्या व्याख्या –
संकल्प इति ।
एतयाऽभिष्यया त्वात यं दर्शितं तेन च निमित्तत्वं श्रुतौ दर्शि­त­मि­त्यर्थः।
बहु स्यामि­त्या­भि­ध्याया ईश्वरविषयत्वेन कार्यकारणाऽ भेद­सू­च­ना­दु­पा­दा­न­त्व­मु­क्त­मि­त्यर्थः॥२४॥ साक्षाच्चेति सूत्रो­दा­हृ­त­श्रु­ता­वा­का­श­शब्दो ब्रह्मवचन इत्याह –
ब्रह्मण इति ।
व्याचष्टे इति ।
उपा­दा­ना­न्त­रे­त्या­दि­नेति शेषः।
आकाशादेवेति ।
श्रौता­व­धा­र­णो­क्तो­पा­दा­ना­न्त­रा­भावं साक्षादिति सूत्रपदेन दर्शयति इत्येवं व्यवहितान्वयेन भाष्यं योजयति –
आकाशादेवेति ॥२५॥
भाष्ये प्रकृ­ति­ग्र­ह­ण­मु­प­ल­क्ष­णा­र्थ­मि­त्यर्थः।
निमि­त्तो­पा­दा­न­त्वे­हे­तु­परं यत्का­र­ण­मि­त्या­दि­भाष्यं व्याचष्टे –
कर्मत्वेनेति ।
पूर्व­सि­द्ध­स्येति ।
भेदे­ना­नि­र्व­च­ना­दि­भिन्न इवेति योजना। सामान्येन द्रव्यत्वादिना विशेषेण पृथिवीत्वादिना निर्वाच्यमिति निरु­क्त­प­द­व्याख्या।
द्वे वा व ब्रह्मणो रूपे इति मूर्तामूर्तं ब्रह्माभेदेन श्रुतं तत्कथं स्याद्यदि ब्रह्मोपादानं न स्यादिति व्यतिरेकं सिद्ध­व­त्कृ­त्या­न्व­य­माह –
यदीति ।
तर्ह्येवंरूपं स्यादिति शेषः॥२६॥
विशेष्येति ।
साध्यं प्रति विशेष्यस्य हेतुं प्रत्याश्रयस्य च ग्राह­क­त­यो­प­जी­व्या­ग­म­वि­रो­धा­दि­त्यर्थः।
भास्करस्त्विह बभ्राम योनिरिति परिणामादिति च सूत्र­नि­र्दे­शा­च्छा­न्दो­ग्य­वा­क्य­का­रेण ब्रह्मनन्दिना परिणामस्तु स्यादि­त्य­भि­धा­नाच्च परिणामवादो वृद्धसंमत इति, तं प्रतिबोधयति –
इयं चेति ।
ब्रह्मनन्दिना हि नास­तोऽ­नि­ष्पा­द्य­त्वा­त्प्र­वृ­त्त्या­न­र्थक्यं तु सत्त्वा­वि­शे­षा­दिति सद­स­त्प­क्ष­प्र­ति­क्षे­पेण पूर्व­प­क्ष­मा­दर्श्य न संव्य­व­हा­र­मा­त्र­त्वा­दिति अनिर्वचनीयता सिद्धान्तिता अतः परिणामस्त्विति मिथ्या­प­रि­णा­मा­भि­प्रायं, सूत्रं त्वेत­द­भि­प्रा­य­मे­वे­त्यर्थः।
उदा­ह­रि­ष्य­मा­ण­श्रु­ति­सं­मतां युक्तिमाह –
न खल्विति ।
परिणामः सर्वात्मना एकदेशेन वा। नाद्यः सर्वात्मना प्राक्त­न­रू­प­त्या­गा­द­नि­त्य­त्वा­पत्तौ श्रौत­नि­त्य­वि­रो­धात्। न द्वितीयः; निष्क­ल­श्रु­त्य­व­ग­ता­नं­श­त्व­वि­रो­धा­दि­त्यर्थः। नित्यत्वादिति हेतु­ग­र्भ­नि­र्दे­श­यो­र्वि­व­र­णम्। एवं सौत्र­प­रि­णा­म­शब्दो विवर्तपरतया योजितः।
इदानीं तु यथा­श्रु­त­मा­श्रित्य परिणामत्वेन लोकसिद्धस्य युक्तयसहत्वेन विवर्ततामाह –
न च मृद इति ।
मृद एव सत्य­त्वा­व­धा­र­णा­त्का­र्य­मि­थ्यात्वं श्रुतिराह - एक­मे­वा­द्वि­ती­य­मि­त्यादौ साक्षान्नेति नेतीत्यादौ निषेधेन।
ननु सृष्टिश्रुतेः सप्र­प­ञ्च­ताऽस्तु, नेत्याह –
न हीति ।
उप­क्र­मा­द्य­व­ग­त­ता­त्प­र्य­म­हा­वा­क्य­म­ध्य­स्था­वा­न्त­र­वा­क्यस्य प्रधानानुरोधेन माया­म­य­सृ­ष्टि­वि­ष­य­त्व­मि­त्यर्थः। अत्र कश्चिदाह - भ्रान्ते ब्रह्मो­पा­दा­नत्वे पूर्वपक्ष एव समर्थितः स्याद्, निर्वि­का­र­त्व­श्रु­तयः प्राक् सृष्टे­र­वि­का­रि­ता­माहुः - इति। तन्न; वाक्या­भा­सो­त्थ­भ्र­म­मा­त्र­सिद्धं ब्रह्मो­पा­दा­न­त्व­मिति हि पूर्वपक्षाशयः; स्वप्न­व­द­र्थ­क्रि­या­स­म­र्थ­प्र­प­ञ्चा­स्प­दत्वं सिद्धा­न्त­सं­म­त­मिति भेदोपपत्तेः। प्रल­य­श्रु­ति­भि­रेव प्राग­वि­का­रि­त्व­सि­द्धिर्न निर्वि­का­र­श्रु­ति­स्त­त्परा, निर्विकारित्वं विका­रा­त्य­न्ता­भावो ब्रह्मधर्मः स चानिर्वाच्यो विका­र­म­नि­र्वाच्यं न सहते सत्य इव तव घटाभावः सत्यघटं न चाद्वैतं व्याहन्तीति॥२७॥
इति सप्तमं प्रकृ­त्य­धि­क­र­णम्॥ २७॥

एतेन सर्वे व्याख्याता व्याख्याताः॥२८॥ अस्वातिदेशस्य जन्मा­दि­सू­त्रे­णा­क्षे­प­स­ङ्गतिः दर्शयन् अध्यायसङ्गतिमाह –
स्यादेतदिति ।
ब्रह्मोररीकृत्य कार­णा­न्त­र­प्र­त्य­व­स्था­नात् पादसङ्गतिः। उपप्लवमानत्वात् बुद्धौ प्रति­भा­स­मा­न­त्वात्। जगतः प्रकृतिर्ब्रह्म यदि स्यान्मृ­न्नि­द­र्श­नात्। अण्वादयोऽपि किं न स्युर्व­ट­धा­ना­नि­द­र्श­नात्॥ इत्य­वा­न्त­र­स­ङ्ग­त्य­धि­क­शङ्के। न्यग्रो­ध­फ­ल­मा­ह­रेति भिन्धीति किमत्र पश्यसीति अण्व्य इमा धाना इति आसामेकां भिन्धीति किमत्र पश्यसीति न किंचन भगव इति एतस्य सोम्यैयोऽणिम्न एवं महा­न्न्या­ग्रो­ध­स्ति­ष्ठ­तीति जगतः प्रागवस्थाया दृष्टान्तः श्रूयते। अत्र न किंचनेति शून्य­स्व­भा­व­वा­दा­व­णिम्न इत्य­दृ­श्य­मा­ना­णु­नि­र्दे­शा­द­णु­वा­दश्च भान्ति दार्ष्टान्तिका इति। सिद्धान्तस्तु - मृदादयो हि दृष्टान्ताः प्रति­ज्ञा­म­सु­रु­न्धते। धाना­स्ता­मु­प­रु­न्धाना भक्तिमार्गं प्रपेदिरे॥ इह खल्वे­क­वि­ज्ञा­ना­त्स­र्व­वि­ज्ञा­न­प्र­ति­ज्ञानं प्रधानं नासदारिपक्षेषु कल्पते, अतो न किंच­ने­त्य­न­भि­व्य­क्ति­र­णिम्न इति सूक्ष्मता चोक्तेति।
अध्यायार्थं सङ्कलयति –
प्रतिज्ञेति ।
प्रथम सूत्रे विचारप्रतिज्ञा। लक्षणं द्वितीये। लक्ष्यमाणे समन्वयः चतुर्थे। स च तत्रैवेति शिष्टायां त्रिपाद्याम्, नान्यत्रेति चतुर्थपादे। इत्ये­त­त्स­र्व­म­त्रा­ध्याये साधितमित्यर्थः। इत्यष्टमं सर्व­व्या­ख्या­ना­धि­क­र­णम्॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य-श्री­म­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य-भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ प्रथमाध्यायस्य चतुर्थः पादः समाप्तः॥