अद्वैतशारदा

वेदान्तकल्पतरुः

स्मृत्यधिकरणविषयाः

व्याख्याः

स्मृत्य­न­व­का­श­दो­ष­प्र­सङ्ग इति चेन्ना­न्य­स्मृ­त्य­न­व­का­श­दो­ष­प्र­स­ङ्गात्॥१॥ चेत­न­ज­ग­दु­पा­दा­न­स­म­न्वयः साङ्ख्यस्मृत्या सङ्कोच्यता न वेति सर्व­ज्ञ­भा­षि­त­त्व­सा­म्येन बला­ब­ला­वि­नि­ग­मा­त्सं­देहे पूर्वपक्षमाह –
न खल्विति ।
विरोधे त्विति ।
औदुम्बरीं स्पृष्ट्वो­द्गा­ये­दिति प्रत्य­क्ष­श्रु­ति­वि­रुद्धा सर्वा­मा­वे­ष्टे­तेति स्मृतिर्मानं वेति सन्देहे वेदा­र्था­नु­ष्ठा­तॄणां स्मृति­भि­र्मू­ल­श्रु­त्य­नु­मा­ना­त्प्र­त्य­क्षा­नु­मि­त­श्रु­त्योश्च स्वप­रा­धी­त­श्रु­ति­व­त्स­म­ब­ल­त्वा­दु­दि­ता­नु­दि­ता­दि­व­द्वि­क­ल्पा­दि­स­म्भ­वा­न्मा­न­मिति प्राप्ते राद्धान्तः । श्रुति­वि­रु­द्ध­स्मृ­तीनां प्रामा­ण्य­म­न­पे­क्ष­म­पे­क्षा­व­र्जितं हेयमिति यावत् । यतोऽसति विरोधे मूल­श्रु­त्य­नु­मानं स्वप­रा­धी­त­श्रु­त्यो­स्तु­ल्य­व­त्प्र­मि­त­त्वा­त्स­म­ब­लता । प्रत्य­क्ष­श्रु­ति­वि­रु­द्धेऽर्थे तु न श्रुत्यनुमानम् ; अर्थापहारेण मान­स्या­प्य­प­हा­रात् ।
अतो मूला­भा­वा­द­प्र­मा­ण­मिति ।
पूर्वपक्षी पूर्व­प­क्षो­प­पा­दकः । अधि­क­र­णा­र­म्भ­वा­दी­त्यर्थः ।
आर्ष­प्र­त्य­क्ष­मू­लापि स्मृतिः सापेक्षा , वेद­स्त्व­पौ­रु­षे­य­त्वा­द­न­पेक्ष इत्याशङ्क्याह –
अय­म­स्या­भि­सं­धि­रिति ।
आजानसिद्धा स्वभावसिद्धा च साऽना­व­र­ण­भू­ता­र्थ­मा­त्र­गो­चरा च ।
भ्रम­व­त्स­त्या­नृ­त­गो­च­रत्वं वारयति –
मात्रेति ।
एवंभूता तस्य ब्रह्मणो या बुद्धि­स्त­त्पू­र्वको वेद­रा­शि­रि­त्यर्थः ।
पौरुषेयत्वेन तुल्य­त्व­मुक्त्वा स्मृते­र्नि­र­व­का­शत्वं प्राबल्यहेतुमाह –
न चैता इति ।
अनन्यपरत्वं स्फुटतरत्वम् । श्रुति­र­नु­ष्ठा­न­परा ।
अन्य­स्मृ­त्य­न­व­का­श­मा­त्रान्न सिद्धा­न्त­सिद्धिः संदे­हा­दि­त्या­श­ङ्क्याह –
यथा हीत्यादिना ।
देवताधिकरणे (ब्र.अ.१.पा.३.सू.२४–३३) योगि­प्र­त्य­क्षस्य सम­र्थि­त­त्वा­द्भा­ष्य­म­स्म­दा­द्य­भि­प्रा­य­मि­त्याह –
अर्वागिति ।
कपि­ला­द­योऽ­र्वा­ची­न­पु­रु­ष­वि­ल­क्षणा इत्याशङ्क्याह –
न तावत्कपिलादय इति ।
प्राचि भवे तदनुष्ठानवताम् इति सम्बन्धः । तच्छब्देन वेदार्थो विवक्षितः ।
पूर्वोक्तमिति ।
विप्रतिपत्तौ चेत्यादिभाष्येण पूर्वोक्तं स्मारयतीत्यर्थः ।
श्रुति­सा­मा­न्य­मा­त्रे­णेति ।
सग­र­पु­त्र­प्र­तप्तुः साङ्ख्य­प्र­णे­तुश्च कपिल इति शब्द­सा­म्य­मा­त्रे­णे­त्यर्थः ।
यथा नृत्यं कुर्वत्यपि नर्तकी नर्त­क­द­र्शि­त­क्र­मे­णैव नृत्यन्ती न स्वतन्त्रा , एवमीश्वरः प्राची­न­क्र­म­म­नु­रुध्य विरचयन्वेदं न स्वतन्त्रः , क्रमो­प­गृ­ही­त­व­र्णात्मा च वेदोऽ­र्थ­प्र­मि­ति­कर इति न वक्रपेक्षमस्य प्रामा­ण्य­मि­त्याह –
सत्यमिति ।
फलितमाह –
तेनेति ।
येनानादिः कार्य­का­र­ण­भा­व­स्तेन न प्रागभूतस्य शास्त्रस्य तद­र्थ­भा­न­पू­र्वि­काऽ­भि­नवा क्रिया , किंतु नियतक्रमस्य तस्य संस्का­र­रू­पे­णा­नु­व­र्त­मा­नस्य स्मारणेन व्यतीकार इत्यर्थः ।
ननु न नर्तक्यादिवदज्ञ ईश्वरस्ततः शास्त्रक्रियातः प्रागेव तद­र्थ­ज्ञा­न­व­त्त्वा­त्क­पि­ल­तुल्यः किं न स्यादत आह –
शास्त्रा­र्थ­ज्ञानं चेति ।
पूर्व­व­र्णा­नु­पूर्वी हि शास्त्रम् । तथा च यदा तदर्थः स्फुरति तदै­वा­नु­पू­र्व्यपि संस्कारारूढा स्फुर­ती­त्या­द­र्शा­त्म­क­शा­स्त्र­स्व­रू­प­मा­त्र­ज्ञा­ना­त्त­त्क­र­णो­प­पत्तौ न शास्त्रा­र्थ­ज्ञा­नस्य हेतुतेत्यर्थः । स्वकृ­त­प्रा­ची­ना­द­र्शा­पे­क्ष­त्वाच्च माण­व­क­वै­ल­क्ष­ण्य­मी­श्व­रस्य । शास्त्रस्य वक्तृ­ज्ञा­नाऽ­ज­न्य­त्वेऽपि नान्तरीयकत्वेन शास्त्रस्फुरणे तद­र्थ­स्फु­र­णा­त्स­र्व­ज्ञे­श्व­र­सिद्धिः । तदर्थज्ञानवत्ता च प्रल­या­न्त­रि­त­श्रुतेः ज्ञातृ­त्वा­त्सि­ध्य­ती­शस्य । न हि माणवकेऽस्ति तत् । सति चैवं शास्त्र­यो­नि­त्व­शा­स्त्र­वि­ष­या­धि­क­वि­ज्ञा­न­व­त्त्व­यो­र्व्याप्तिः कृत्ति­को­द­य­रो­हि­ण्या­स­त्ति­वत् तद्भा­व­नि­य­त­भा­व­त्व­रूपा न तु शास्त्रा­र्थ­ज्ञा­न­शा­स्त्र­क­र­ण­यो­र्हे­तु­हे­तु­म­त्त्व­कृता ।
ननु - गुण­व­द्व­क्तृ­ज्ञा­न­ज­न्य­त्वा­भावे कथं शास्त्रस्य प्रामाण्यमिति - चेत् ; स्वत इत्याह –
शास्त्रं चेति ।
प्रमाणानां प्रामाण्यस्य स्वत­स्त्वा­त्क­पि­ला­दि­व­च­स्तथा किं न स्यादत आह –
कपिलादिवचांसि त्विति ।
तेषां कपि­ला­दि­व­च­सा­मर्था एवार्था यासां तास्तथोक्ताः । तासां स्मृतीनामर्था एवार्था येषामनुभवादीनां ते तदर्थानुभवास्ते पूर्वा यासां ताः स्मृतयस्तथा । यथाऽनपेक्षत्वेन शीघ्र­त­र­प्र­वृ­त्त­श्रुत्या तद्वि­रु­द्ध­लि­ङ्गस्य श्रुति­क­ल्प­ना­पे­क्ष­त्वेन विल­म्बि­त­प्र­वृत्तेः परि­च्छे­द­क­त्व­म­प­ह्रि­यते , एव­म­न­पे­क्ष­श्रुत्या तद्वि­रु­द्ध­का­पि­ल­व­चसः सापेक्षत्वेन विलम्बिनः प्रामा­ण्य­म­प­ह्रि­यते इत्यर्थः ।
यावदिति ।
कथं­चि­दि­त्यर्थः॥१॥ दौहित्रस्य कर्म दौहित्र्यम् ।
वन्ध्या चेत्स्मरेदिदं मे दौहित्रेण कृतमिति सा स्मृतिरप्रमाणम् मूलस्य दुहितुरभावात् , एवमत्रापि मूल­भू­ता­नु­भ­वा­भा­वात् स्मरणाभाव इत्याह –
वन्ध्याया इवेति ।
न चार्षमिति ।
उप­जी­व्य­वे­द­वि­रो­ध­स्यो­क्त­त्वा­दि­त्यर्थः ॥२॥ अव्यक्तं ज्ञानाल्लीयते ।
अहं सर्वस्येति ।
प्रभ­व­त्य­स्मा­दिति प्रली­य­तेऽ­स्मि­न्निति च प्रभवप्रलयौ । तस्मा­दा­त्म­नोऽ­धि­ष्ठातुः प्रभवन्ति स मूलमुपादानम् । शाश्वतिकः अनादिः । नित्यो­ध्वं­स­व­र्जितः । ज्ञानैः पूरयति यः स सर्वेषामात्मा । पुरुषा जीवाः । बहूनां देहिनां योनिः पृथिवी । विश्वं पूर्णम् । गुणैः सर्व­ज्ञ­त्वा­दि­भि­र­धि­कम् । सर्वा­त्म­क­त्वा­द्वि­श्व­मू­र्धा­दि­त्वम् ॥
इति प्रथमं स्मृत्यधिकरणम्॥

एतेन योगः प्रत्युक्तः॥३॥ एषां हिर­ण्य­ग­र्भा­दि­शा­स्त्रा­णाम् । योगस्वरूपं चित्त­वृ­त्ति­नि­रो­ध­स्त­त्सा­धनं यमादि तदवान्तरफलं विभूतिरणिमादिः ।
किंचि­न्नि­मि­त्ती­कृ­त्येति ।
चित्तनिरोधो हि क्वचिदालम्बने निवेशाद्भवति । पुरुषे च सूक्ष्मे द्राड्नि­वे­शा­स­म्भ­वा­त्प्र­धा­नादि चित्ता­ल­म्ब­न­त्वेन व्युत्पाद्यत इत्यर्थः । प्रतिसर्गः प्रलयः । वंशानुचरितं तत्कर्म ।
तत्प्रतिपादनेति ।
तच्छब्देन कैव­ल्या­दि­प­रा­मर्शः ।
देव­ता­धि­क­र­ण­न्या­येन (ब्र.अ.१.पा.२.सू.२४ –३३) प्रधानादौ प्रामा­ण्य­मा­श­ङ्क्याह –
अन्यपरादपीति ।
यत एव प्रधा­ना­दे­र­वि­व­क्षाऽत एव गुणानां सत्त्वादीनां परमं रूप­म­धि­ष्ठा­न­मात्मा , दृष्टि­प­थ­प्राप्तं दृश्यं प्रधानादि , मायैव मिथ्या । तत्सुतुच्छकं सुष्ठु तुच्छकमिति।
प्रधा­ना­दा­व­ता­त्पर्ये योग­शा­स्त्र­स्या­नु­वा­द­कत्वं वक्तव्यम् , तत्कथम् ? प्राप्त्य­भा­वा­दि­त्यत आह –
अलो­क­सि­द्धा­ना­मिति ।
वैदिकलिङ्गानां न्याया­भा­स­सि­द्धा­नाम् अनु­वा­द्य­त्व­मि­त्यर्थः ।
अष्ट­का­दि­स्मृ­ति­व­दिति ।
अष्टकाः कर्तव्याः , तटाकं खनि­त­व्य­मि­त्या­दि­स्मृ­तयो न प्रमाणम् ; धर्मस्य वेदै­क­प्र­मा­ण­त्वा­द­ष्ट­का­दि­श्रे­यः­सा­ध­नत्वे वेदानुपलम्भात् स्मृतेश्च भ्रान्त्यापि सम्भवादिति प्राप्ते राद्धान्तितम् । वेदा­र्था­नु­ष्ठा­तॄ­णा­मेव स्मृतिषु सनिबन्धनासु कर्तृत्वाद् मूल­भू­त­वे­द­म­नु­मा­प­यन्त्यः स्मृतयः प्रमाणमिति।
‘’तत्कारणं सांख्य­यो­गा­भि­प­न्नम्’’ इति श्रुतौ सांख्य­यो­ग­श­ब्दाभ्यां ज्ञानध्याने निर्दिष्टे इत्युक्तं भाष्ये , तदुपपादयति –
संख्येति ।
कथं चित्त­वृ­त्ति­नि­रो­ध­वा­चि­यो­ग­श­ब्देन चिन्तारूपं ध्यानमुच्यते ? तत्राह –
उपायेति ।
शरी­र­ग्री­वा­शि­रांसि त्रीण्युन्नतानि यस्मिंस्तत्तथा एतां ब्रह्मविषयां विद्यां योगप्रकारं च मृत्योर्लब्ध्वा नचिकेता ब्रह्म प्राप्तोऽभूत् । ‘एको बहूनां यो विदधाति कामा­नि’त्यु­प­क्रम्य श्रुतं तत्कारणम् इति तेषां कामानां कारणं ज्ञानि­भि­र्ध्या­नि­भिश्च प्राप्तं देवं ज्ञात्वा मुच्यते ॥३॥
इति द्वितीयं योग­प्र­त्यु­क्त्य­धि­क­र­णम्॥

न विलक्षणत्वादस्य तथात्वं च शब्दात्॥४॥ चेत­नो­पा­दा­न­क­ज­ग­द्वा­दि­स­मा­न्व­यस्य गगनादि , अचेतनप्रकृतिकं , द्रव्यत्वाद् , घटवदित्यनुमानेन संकोचसंदेहे वेद­वि­रु­द्ध­स्मृ­ते­र्मू­ला­भा­वा­द­मा­न­त्व­मु­क्तम् । अनुमानमूलं तु व्याप्ति­प­क्ष­ध­र्मते लोकसिद्धे इत्यु­त्त­रा­धि­क­र­ण­स्तो­मस्य स्मृत्यधिकरणेन सङ्गतिमाह –
अवा­न्त­र­स­ङ्ग­ति­मिति ।
वेद­वि­रु­द्धा­र्थ­त्वेन स्मृते­स्त­द्वै­ल­क्ष­ण्या­द­त­न्मू­ल­त्व­वद् ब्रह्म­वै­ल­क्ष­ण्या­ज्ज­ग­द­प्ये­त­न्मू­ल­मिति निरन्तरसङ्गतिः ।
एक­श्रु­त्य­नु­सा­रे­णे­त­र­श्रु­ति­न­य­न­दृ­ष्टा­न्त­मा­त्रा­त्त­र्क­व­शेन श्रुतिसंकोचो न युक्तः , वैपरीत्यस्यापि सम्भ­वा­दि­त्या­श­ङ्क्याह –
सावकाशा इति ।
श्रुतीनां निमित्तकारणे सावकाशत्वं , तर्क­स्या­नौ­पा­धि­क­त्वे­ना­न­व­का­श­त्वम् ।
दृष्ट­सा­ध­र्म्ये­णेति ।
प्रत्य­क्ष­दृ­ष्टा­न्त­तु­ल्य­त्वे­ना­नु­मा­ना­त्पक्षे साध्ये गमिते तस्यापि प्रत्यक्षता संभाव्यत इत्यर्थः ।
तर्कमाह –
प्रकृत्येति ।
ब्रह्मासारूप्यं जगतो दर्शयति –
विशुद्धमिति ।
प्रधा­न­सा­रू­प्य­मु­प­पा­द­यति –
एक इति ।
आनुश्रविकेऽपि सुखा­द्या­त्म­त्व­माह –
स्वर्गेति ।
निरतिशयत्वात् आग­मा­पा­यि­ध­र्म­र­हि­त­त्वा­दि­त्यर्थः ।
जग­तोऽ­चे­त­न­त्व­श्र­व­ण­मपि चैत­न्या­न­भि­व्य­क्ति­प­र­मिति शङ्कापाकरणार्थं भाष्येऽ­न­व­ग­म्य­मा­न­ग्र­हणं , तद्व्याचष्टे –
शब्दार्थादिति ।
आर्थस्य जगच्चेतनत्वस्य श्रुता­चे­त­न­त्व­बा­ध­क­त्वा­यो­प­बृं­ह­क­लो­का­नु­भ­वा­भा­वोऽ­न­व­ग­म्य­मा­न­प­द­द्यो­तित इत्यर्थः ।
आर्थत्वे उपोद्बलकापेक्षा , तदेव नेत्याह –
न पृथि­व्या­दी­ना­मिति ।
श्रुता­र्था­प­त्त्य­नु­गृ­ही­त­श्रु­ति­भि­र्ज­ग­द­चे­त­न­त्व­श्रु­त­य­श्चै­त­न्या­न­भि­व्य­क्ति­प­र­त्वेन व्याख्येया इत्यर्थः॥४॥ प्रथमेऽध्याये ईक्षत्यधिकरणे इति।
मुख्यतयेति ।
ऐक्षतेत्यस्य मुख्यत्वं तेजआदिशब्दा लाक्षणिका एव तदिदमुक्तं –
कथंचिदिति॥५॥
साध्यासाधकः पक्षे एव वर्त­मा­नोऽ­सा­धा­रणः । यथा सर्वं क्षणिकं सत्त्वादिति।
एवं चैत­न्या­न­न्वि­त­त्व­म­पी­त्याह –
तृतीयस्त्विति ।
प्रमाणेति ।
प्रमाणविषयस्य वच­न­यु­क्त्या­भा­स­नि­रा­सेन विवे­च­क­त­ये­त्यर्थः ।
श्रव­ण­पा­श्चा­त्या­सं­भा­व­ना­नि­रा­स­क­वा­चा­र­म्भ­ण­त्वा­दि­त­र्का­भि­प्रा­यम् मननस्य साक्षा­त्का­रा­ङ्गत्वं ध्यान­व्य­व­धा­ने­ने­त्याह –
मतो हीति ।
अचेतनस्य जगत्कारणस्य सर्गोत्तरकालं विज्ञा­ना­त्म­क­जी­व­रू­पता न सम्भवतीत्यर्थः ॥६॥
प्रागुत्पत्तेः कारणस्य सत्त्वा­त्त­द­भिन्नं कार्यं कथमसदत आह –
न कारणादिति ।
यदुक्तं न कार­णा­त्का­र्य­म­भि­न्न­मिति , तत्राह –
प्रतिपादयिष्यति हीति ।
पृथु­बु­ध्नो­द­रा­का­रा­दि­स्व­रू­पेण कार्यं कारणान्न भिन्नम् , नाप्यभिन्नम् , न सन्न चासदतस्तद्रूपेण सत्ता दुःसा­ध्ये­त्यर्थः ।
फलितमाह –
एवं चेति ।
न केवलमुत्पत्तेः प्रागेव स्वरूपेण कार्य­स्या­स­त्त्व­मपि तु सर्वदेत्याह –
स्वरूपेण त्विति ॥७॥
यूषः शाकरसः । रूषयति मिश्रयति।
ननु घटादिलये यथा मृदो न तत्त­द्रू­ष­ण­मे­वा­मि­हे­त्यत आह –
न चान्यथेति ।
निर­न्व­य­ना­शा­न­भ्यु­प­ग­मा­दी­ष­द­नु­व­र्त­मा­न­स्या­न्य­था­लयो न लोकसिद्ध इत्यर्थः ॥८॥
निर­न्व­य­ना­श­वा­दिनः कार्यधर्मरूपणं कारणे स्यान्न तवेति आशङ्कते –
स्यादेतदिति ।
कार्यस्य कार­ण­ता­व­न्मा­त्र­त्वा­त्का­र­णा­नु­वृत्त्या सान्व­य­ना­शो­क्ति­रा­क­स्मि­की­त्याह –
यथा रजतस्येति ।
लौकिकः पुरुषो जीवोऽतश्च न साध्य­स­म­त्व­मि­त्यर्थः ।
जगत्कारणस्य जाग्र­दा­द्य­भा­वा­द्व्या­चष्टे –
उत्पत्तीति॥९॥
उपरिष्टादिति ।
अनन्तर एव शिष्टा­प­रि­ग्र­हा­धि­क­र­ण­पू­र्व­पक्षे॥१०॥
सर्व­स्त­र्कोऽ­प्र­ति­ष्ठित उत कश्चिद् , न चरम इत्याह –
नानुमानाभासेति ।
स्वाभा­वि­क­प्र­ति­बन्धो व्याप्तिः ।
नाद्य इत्याह –
अपि चेति ।
चरमो न केवलमविरुद्धः प्रत्युतानुगुण इत्याह –
अपि च विचारेति ॥११॥
नैषेति ।
एषा ब्रह्मविषया मतिस्तर्केण नापनेया प्राप­णी­ये­त्यर्थः । अथवा – कुतः तर्केणापनेया निरस्या न भवति , किं तर्ह्या­न्ये­नै­वा­चा­र्येण प्रोक्ता सती सुज्ञानाय फल­प­र्य­न्त­सा­क्षा­त्का­राय भवति। हे प्रेष्ठ प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् । कः अद्धा साक्षाद्वेद ब्रह्म को वा प्रावोचत् छन्दसि कालानियमात् प्रब्रू­या­दि­त्यर्थः । इयं विसृष्टिर्यत आबभूव स एव स्वरूपं वेद नान्य इति मन्त्र­प्र­ती­क­यो­रर्थः । तं सर्वं परा­दा­न्नि­रा­कु­र्याद् योऽन्यत्रात्मनः आत्मव्यतिरेकेण सर्वं वेदेत्यर्थः । अजं जन्मरहितम् । अनिद्रम् अज्ञानरहितम् । अस्वप्नं भ्रमरहितम् । अत एवाद्वैतं तदा बुध्यत इति संप्र­दा­य­वि­द्व­च­नार्थः॥
इति तृतीयं नवि­ल­क्ष­ण­त्वा­धि­क­र­णम् ॥

एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥१२॥ अति­दे­श­स्यो­प­दे­श­व­त्स­ङ्गतिः । यथा हि वेद­वि­प­री­त­त्वा­त्सां­ख्या­दि­स्मृ­ति­र­त­न्मूल , एवं ब्रह्म­का­र­ण­वै­प­री­त्या­ज्ज­गन्न तन्मूलम् । तन्मूलत्वे हि ततो मह­त्स्या­न्ना­ल्प­मिति अतु­ल्य­त्वा­श­ङ्का­या­म­ति­देशः स्यादिति , तामाह –
न कार्यमिति ।
इय­मा­र­म्भ­णा­धि­क­रणे(ब्र.अ.२.पा.१.सू.१४) निर­सि­ष्य­मा­णाऽ­प्य­भ्यु­च्च­य­त्वे­नेह निर्देश्यते । यत्तु वक्ष्यते उपादानत्वं च कारणस्य कार्या­द­ल्प­प­रि­मा­ण­स्यैव दृष्टमिति सैवैतदधिकरणे निरस्येति। अस्य कार्य­स्ये­त्यर्थः ।
कुला­ला­दि­व्या­पा­रा­त्प्राक् मृद् , घटरहिता , तदानीं योग्यत्वे सत्य­नु­प­ल­भ्य­मा­न­घ­ट­त्वाद् , गगनवत् , ततश्च सत्त्वविरोधान्न कार्य­का­र­ण­यो­रै­क्य­मि­त्याह –
किंचेति ।
येनेति ।
अर्थ­ग­त­प्र­त्य­क्ष­प­रो­क्ष­त्वे­ने­त्यर्थः । घटादिकार्यस्य प्रागुत्पत्तेः सत्त्वे मानम् ‘असदकरणा’ दित्याद्यनुमानज उप­ल­म्भोऽ­नु­मि­ति­रि­त्य­नु­मा­नम् । जगतस्तु प्राग­व­स्था­या­मा­ग­मज उपलम्भ आगमः ।
घटो यदि भिन्नो मृदः तर्हि तत्कार्यं न स्यादश्ववदिति तर्कस्य , स ततो यद्यभिन्नः , तर्हि तत्कार्यं न स्यान्मृद्वदिति प्रति­रो­ध­मुक्त्वा मूलशैथिल्यमाह –
अत्यन्तेति ।
ननु यदि कुम्भात् कुम्भ­का­र­मृ­दो­र­त्य­न्त­भेदः , तर्हि कथ­मु­पा­दा­न­नि­मि­त्त­व्य­व­स्थाऽता आह –
तस्मादिति ।
परमाणोरपि मूर्तत्वात् क्षुद्र­त­रा­न्त­रा­भ्य­त्व­मतो न क्षुद्र­त्व­वि­श्रा­न्ति­रत आह –
क्षोदी­योऽ­न्त­रेति ।
सहस्रसंवत्सरेति ।
‘‘पञ्च­प­ञ्चा­श­त­स्त्रि­वृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविंशा विश्वसृजामयने सह­स्र­सं­व­त्स­र­मु­प­य­न्ती’’त्यत्र संवत्सरशब्दस्य ह्युत्प­त्ति­वाक्ये मुख्यार्थलाभात् ताव­दा­यु­ष्क­र­र­सा­दि­सि­द्ध­म­नु­ष्या­द्य­धि­का­र­ता­मा­शङ्क्य षष्ठे सिद्धान्तितम् । प्रकृतौ हि ‘’द्वादशाहे त्रयस्त्रिवृतो भवन्ति त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविंशा’’ इति त्रिवृ­दा­दि­श­ब्दा­स्त्रि­वृ­दा­दि­स्तो­त्र­वि­शि­ष्टाह पराः समधिगताः । एवं चात्रापि पञ्च­प­ञ्चा­श­त­स्त्रि­वृतः संवत्सरा इत्या­द्यु­त्प­त्ति­वा­क्ये­ष्व­हः­प­र­त्रि­वृ­दा­दि­श­ब्दै­र्नि­श्चि­तार्थैः सामा­ना­धि­क­र­ण्या­त्सं­व­त्स­र­श­ब्दस्य स्वयं सौर­चा­न्द्रा­दि­ना­नो­पा­धि­त्वे­ना­नि­र्धा­रि­ता­र्थ­स्या­हः­प­र­तैव । एवं चोत्प­त्ति­मा­लोच्य सह­स्र­सं­व­त्स­र­श­ब्दोऽपि सह­स्र­दि­व­स­सा­ध्य­क­र्म­परः । औष­धा­दि­सि­द्धि­क­ल्प­ना­प्येवं न भवति। तस्मा­न्म­नु­ष्योऽ­धि­का­रीति ।
आरम्भे हि न्यून­प­रि­मा­णा­न्म­ह­दु­द­य­नि­यमो न निवर्तते , उन्न­त­त­र­गि­रि­शि­ख­र­व­र्ति­म­हा­त­रुषु भूमिष्ठस्य दूर्वा­का­र­नि­र्भा­स­प्र­ति­भा­सो­प­ल­म्भा­दि­त्याह –
अवि­द्या­स­मा­रो­पे­णेति॥
इति चतुर्थं शिष्टा­प­रि­ग्र­हा­धि­क­र­णम्॥

भोक्त्रा­प­त्ते­र­वि­भा­ग­श्चे­त्स्या­ल्लो­क­वत्॥१३॥ अद्वयब्रह्मणो जगत्सर्गवादिनः समन्वयस्य भेद­ग्रा­हि­मा­न­वि­रो­ध­सं­देहे सङ्ग­ति­ग­र्भ­म­ग­ता­र्थ­त्व­माह –
प्रवृत्ता हीति ।
पूर्वत्र जगत्कारणे तर्कोऽ­प्र­ति­ष्ठित इत्युक्तम् , तर्हि जगद्भेदे तर्कः प्रतिष्ठित इत्य­द्वै­त­वि­रो­धेन प्रत्य­व­स्था­ना­त्स­ङ्गतिः । अत एव लब्ध­प्र­ति­ष्ठ­त­र्केण श्रुते­र्मु­ख­नि­रो­धा­द­ग­ता­र्थत्वं चेत्यर्थः ।
प्रवर्तमानेति ।
स्ववि­ष­य­प्र­ति­ष्ठ­वि­रो­धि­त­र्केण सहो­न्म­ज्ज­न­नि­म­ज्ज­न­म­नु­भ­वन्ती बला­ब­ल­वि­वे­क­म­पे­क्ष­मा­णे­त्यर्थः । एतद्वैधर्म्यं च प्रवृत्तत्वम् ।
तर्कस्य प्राबल्यमाह –
स्फुटतरेति ।
स्थूल­नी­ला­दि­भे­द­गो­च­र­त्वा­त्स्फु­ट­त­र­त्वम् । प्रति­ष्ठि­त­त्व­म­नु­प­च­रि­त­त्वम् ।
आम्नायो ह्युपचारेणापि सावकाश इति वर्त­मा­न­वि­भा­गे­नापि विरो­ध­सि­द्धे­र्व­र्त­मा­न­सा­म्यो­प­पा­द­न­म­ती­ता­ना­ग­त­यो­र्भा­ष्येऽ­नु­प­यो­गी­त्या­शङ्क्य वर्त­मा­न­वि­भा­ग­स­त्यत्वं फलितमाह –
यदीति॥१३॥
इति पञ्चमं भोक्त्रा­प­त्त्य­धि­क­र­णम्॥

तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः॥१४॥ पूर्वाधिकरणेऽपि भेद­ग्रा­हि­मा­न­वि­रो­धोक्तेः पुन­रु­क्ति­मा­श­ङ्क्याह –
पूर्वस्मादिति ।
अङ्गीकृत्य हि भेदग्राहिमानस्य प्रामाण्यं भेदाभेदयो रूपभेदेन विरोधः परिहृतः , इदानीं त्वस्वीकृत्य प्रामाण्यं तत्त्वा­वे­द­क­त्वा­त्प्र­च्याव्य व्यावहारिकत्वे व्यवस्थाप्यते । एवं­भू­त­वि­शे­षा­भि­धा­ने­नो­प­क्रमो यस्य विरोधपरिहारस्य स तथोक्तः । तदनन्यत्वपदेन द्वैत­मि­थ्या­त्वो­क्ते­रे­व­मु­प­क्र­म­त्वम् । श्रुतौ परि­णा­मि­मृ­दा­दि­दृ­ष्टा­न्तो­पा­दा­नान्न भेदा­भे­द­वि­व­क्षेति मन्तव्यम् ।
एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञायां प्रधा­न­स्या­नु­रो­धेन गुण­भू­त­दृ­ष्टा­न्तस्य विवर्तपरत्वेन नेयत्वादित्याह –
एवं हीति ।
ननु परि­णा­म­प­क्षेऽ­प्य­भे­दां­शेन सर्वज्ञानं स्यादत आह –
तत्त्वज्ञानं चेति ।
भेदालीकताया उक्त­त्वा­दि­त्यर्थः ।
उप­पा­दि­त­म­ध­स्ता­दिति ।
शिष्टा­प­रि­ग्र­हा­धि­क­रण(ब्र.अ.१ पा३ सू.२४ –३३) पूर्वपक्ष इत्यर्थः ।
दृष्टा­न्त­मा­त्रा­न्ना­र्थ­सि­द्धि­रिति भाष्ये हेतुरुक्त – दृष्टेति ।
तं व्याचष्टे –
ये हीति ।
क्वचिद्दृष्टं पुन­र्न­ष्ट­म­नि­त्य­मि­त्यर्थः । दृष्टग्रहणं प्रतीतसमयेऽपि सत्त्व­व्या­वृ­त्त्य­र्थम् ।
व्यति­रे­क­व्या­प्ति­माह –
यदस्तीति ।
विमतं मिथ्या , साव­धि­क­त्वा­द्व्य­ति­रेके चिदा­त्म­व­दि­त्य­नु­मा­नस्य विपक्षे बाधकतामाह –
सत्स्वभावं चेदेति ।
सत्त्वासत्त्वे विकारस्य स्वरूपमुत धर्मौ , अथा­र्था­न्त­र­म­लीकं वेति विकल्प्य क्रमेण निरा­कु­र्व­न्न­नु­मा­न­स्या­नु­कू­ल­त­र्क­माह –
असत्स्वभावं चेत्यादिना ।
अर्था­न्त­र­त्वेऽपि विरोधित्वं शङ्कते –
असत्त्वमिति ।
विरो­धि­भू­त­म­सत्त्वं भावस्य किम­किं­चि­त्क­र­मु­ता­सत्व करं स्वरूपं वेति विकल्प्य क्रमेण दूषयति –
नेत्यादिना ।
किंचित्करत्वे यत्किं­चि­द­सत्त्वं क्रियते तदपि स्वरूपं धर्मो वेत्यादि विकल्प्य तद्दूषणानां सम्भवादित्यर्थः । अस­त्त्व­व­त्स­त्त्वेऽपि अर्था­न्त­र­त्वा­दि­वि­कल्पा द्रष्टव्याः । अर्था­न्त­र­त्वा­दपि विकारे फला­भा­वा­त्स­त्त्वा­न्त­र­ज­न्मनि चानवस्थानाद् विकारे सत्त्वान्तरं न भवति , किन्तु स एव सन् भवतीत्युक्तेऽपि त्स्वभा­व­स्या­स­त्त्व­वि­रो­धेन विका­र­नि­त्य­त्वा­पा­ता­दिति।
ननु कार्यमिथ्यात्वं कारणसत्यत्वं चानुमानसिद्धं श्रुत्या दृष्टा­न्ती­क­र्तु­म­यु­क्तम् , लोकसिद्धस्य दृष्टा­न्त­त्वो­क्ते­रि­त्या­श­ङ्क्याह –
यत्रेति ।
मृदेका शरावादायः परस्परं भिन्ना इत्य­भ्यु­प­ग­मेऽ­त्य­न्त­भेद एव स्यात् ।
अथ मृदात्मना शरा­वा­दी­ना­मे­कत्वं मृदश्च शरावाद्यात्मना नानात्वमिति मतम् , तद् विकल्प्य दूषयति –
इदं तावदित्यादिना ।
अत्यन्ताभेदे ह्यपु­न­रु­क्त­श­ब्द­द्व­य­प्र­योगो भेदाभेदयोः कार्यकारणात्मना व्यवस्था च न स्यादित्याह –
तत्रेति ।
न चानेकान्तवाद इति ।
भेद­प­क्षेऽ­ने­का­न्त­वा­दश्च न भवतीत्यर्थः ।
न भवेदपीति ।
अनेकान्तत्वान्न भवे­द­पी­त्य­पे­रर्थः । सत्य­वा­दि­न­स्त­स्क­र­त्वे­ना­रो­पि­तस्य मोक्ष­व­त्स­त्य­ब्र­ह्मा­त्म­त्व­वे­दिनो मोक्ष इति तस्करदृष्टान्तः ।
अहं­म­मा­भि­मा­न­यो­रे­कत्र व्याघातः स्यादिति प्रविभज्य योजयति –
शरीरादीनीति ।
ननु मिथ्यात्वे श्रव­णा­दी­ना­म­वि­द्या­नि­वृ­त्ति­स­म­र्थ­सा­क्षा­त्का­र­हे­तुत्वं न स्यादत आह –
सांव्यवहारिकं त्विति ।
असत्यादपि कार्य­क्ष­म­प­दा­र्थो­त्प­त्ति­म­न­न्त­र­मेव वक्ष्याम इत्यर्थः ।
यद्य­स­त्या­त्स­त्यधीः स्यात् , तर्हि धूमाभासादपि वह्निधीः समीचीना स्यादित्युक्तम् , इत्याशङ्क्याह –
न च ब्रूम इति ।
धूममहिषी धूमी । सा च बाष्पः । असत्यादपि सत्यमुत्पद्यत इत्युच्यते न पुन­र­स­त्या­त्स­त्यो­त्पा­द­नि­यम इत्यर्थः ।
यदि पुनः कुत­श्चि­द­स­त्या­त्सत्यं जातमिति सर्वं स्माद­स­त्या­त्स­त्य­ज­न्मा­पा­द्यते , तर्हि किंचित्सत्यं कस्यचित्सत्यस्य जनकमिति तत एव सर्वं सत्यं स्यादिति प्रतिबन्दीमाह –
न हीति ।
चोद्य­सा­म्य­मुक्त्वा परिहारसाम्यमाह –
यत इति ।
यतो नियमादित्यर्थः । ज्या वयोहानावित्यस्य निष्ठायां संप्रसारणे नञ्समासे चाऽजीनमिति रूपम् । अस्मा­द­ध्य­स्त­दी­र्घ­भा­वा­द्य­द्यपि ज्योने­र्व­यो­हा­ने­र­भावं सत्यमवगच्छति। वक्ता तु ह्रस्व­त्वे­ना­जि­न­मिति उच्चरिते भ्रमादजीनमिति गृही­ता­द­स्मा­च्छ­ब्दाद्या वयोहानिप्रतीतिः सा भ्रान्ति­र­जि­न­शब्दो हि चर्मवचन इति ।
अत्र यथा आरो­पि­त­त्वा­वि­शे­षेऽपि किंचिद्दैर्ध्यं सत्यबोधकं किंचि­द­स­त्य­बो­ध­क­मे­व­म­स्मा­क­म­पी­त्यर्थः । पायं पायं पीत्वा पीत्वा । तारक्षवीं व्याघ्रमयीं तनु­मा­स्था­ये­त्य­न्वयः । व्याप्तं विवृतं विकटाभ्यां वक्त्रभ्यां दंष्ट्राभ्यां करालं भयानकम् आननं यस्याः सा तथोक्ता । उत्तब्धम् उन्नमय्य धृतम् । बम्भ्रमदत्यर्थं भ्रम­न्म­स्त­का­व­चुम्बि लाङ्गूलं यस्याः सा तथा । ध्वस्ते इतस्ततो विक्षिप्ते लोचने यस्याः सा तथा । अमित्रमभि प्रतियोद्धुं गताम् अभ्यमित्रीणाम् । स्फटि­क­शै­ल­प्र­ति­बि­म्बितां ह्यमित्रमिति भ्रमादात्मतनुं धावन्तीं सुप्तो व्याघ्र­त­नु­मा­स्थितः पश्यतीति। यदि स्वप्न­दृ­शोऽ­व­ग­ति­र­बा­धिता स्यात् , तर्ह्येवोपपद्यत इत्यर्थः । भेदाभेदव्यवहारौ भेदा­भे­दो­प­पा­द­का­विति वदन् प्रष्टव्यः किं ब्रह्म­ज्ञा­ना­त्प्रा­चीनौ तदुपपादकौ पराचीनौ वेति।
नाद्य इत्युक्तं –
नानात्वांशेन कर्मकाण्डाश्रय इत्यादिना ।
तत्त्व­ज्ञा­ना­त्प्रा­ग­भे­द­व्य­व­हा­र­स्या­प्रा­प्त­त्वान्न स उपन्यस्तः ।
द्वितीयमिदानीं शङ्कते –
यच्चोक्तमिति ।
एक­त्व­ज्ञा­नो­त्त­र­का­लम् एक­त्व­व्य­व­हा­रोऽपि नास्ति , नत­रा­म­ने­क­त्व­व्य­व­हार इति परिहरति –
यदि खल्विति ।
डुलिः कच्छपी । न तस्याः क्षीरमस्ति , स्मृत्या हि साऽपत्यानि पोषयति। अवगतिर्वृत्ति व्यक्तं स्वरूपम् ।
यथा खलु घटध्वंसो घट­वि­रो­धि­का­र्यो­दय एव , नाभावस्तस्य तुच्छत्वेन कार्य­त्वा­यो­गा­दे­व­म­वि­द्या­नि­वृ­त्ति­रपि विरो­धि­वि­द्या­भि­व्य­क्ति­रि­त्याह –
अवि­द्या­वि­रो­धि­स्व­भा­व­त­येति ।
अवि­द्या­नि­वृ­त्ति­र्यदि विद्यायाः स्वरूपं , कथं तर्हि विद्याफलमत आह –
अवि­द्या­नि­वृ­त्ति­श्चेति ।
न वयं ज्ञाना­त्प­रा­ची­न­व्य­व­हा­राय द्वैतसत्यत्वं कल्पयामः , किन्तु प्राची­न­सि­ध्द्य­र्थ­मे­वेति शङ्कते –
स्यादेतदिति ।
एकत्वनिबन्धनो व्यवहारो मा भूत् । द्वैत­स­त्य­त्वा­क्षे­पक इति शेषः । पूर्वं नानात्वांशेन कर्मकाण्डाश्रय इति ग्रन्थे प्रमा­ण­सि­द्धा­द्भे­द­व्य­व­हा­रा­द्भे­द­स­त्य­त्व­मा­शङ्क्य परिहृतम् , इदानीं सर्व­लो­क­प्र­सि­द्धे­र्भे­द­स­त्य­त्व­मा­शङ्क्य देहात्मभाववद् मिथ्यात्वेऽपि तदुपपत्तिमाहेति भेदः॥१४॥
कार्यं कारणादभिन्नं तद्भाव उप­ल­ब्धे­रि­त्या­पा­त­सिद्धे सूत्रार्थे दोषं दृष्ट्वा व्याख्याति –
कारणस्य भाव इति ।
भाव इत्यस्य व्याख्यानं –
सत्ता चेति ।
ननु कारणस्य भाव एव सूत्रे प्रतीयते , कार्य­स्यो­प­ल­ब्धि­रेव , तत्क­थ­मु­भ­य­त्रे­त­रे­त­र­वि­शि­ष्ट­यो­र्हे­तु­त्व­मत आह –
एतदिति ।
विषयपदं भावपरम् , भावो ह्युपलब्धिविषय इति तद्दण्डिन्यायेन विषयविषयिपरम् । एवं विष­यि­प­द­मु­प­ल­ब्धि­प­द­म­प्यु­भ­य­प­र­मि­त्यर्थः । उपादेयं कार्यम् ।
सविशेषहेतौ फलमाह –
तथा चेति ।
उप­ल­ब्धा­वु­प­ल­ब्धे­रिति हेतूकारे प्रभा­सा­क्षा­त्कारे साक्षात्कृतेन चाक्षुषेण व्यभिचारः स्यात् । न हि घटादेः प्रभा­या­श्चा­भे­द­स्त­न्नि­वृ­त्त्यर्थं भावे भावादिति विशेषणम् । न हि प्रभाया भाव एव घटो भवतीत्यर्थः ।
यदा तद्भा­वा­नु­र­क्त­धी­बो­ध्यत्वं हेत्वर्थस्तदापि भाति घट इति प्रभा­नु­र­क्त­धी­ग­म्येऽ­ने­का­न्त­स्त­दि­द­मुक्तं –
प्रभा­रू­पा­नु­वि­द्धेति ।
यदि भावे भावादिति हेतुस्तर्हि वह्निभावे भवति विशि­ष्ट­धू­मेऽ­ने­कान्तः स्यात् ।
उप­ल­ब्धा­वु­प­ल­ब्धे­रिति विशेषेण तु न भवेद्धूमस्य वह्न्यु­प­ल­ब्धा­वे­वो­प­ल­ब्धि­रिति निय­मा­भा­वा­दि­त्याह –
नापीति ।
तद्भावानुरक्तां हि बुद्धिं कार्य­का­र­ण­यो­र­न­न्यत्वे हेतुं वयं वदाम इति भाष्यम् ।
अत्र कार­ण­स्व­भा­वा­नु­विद्धा कार्य­बु­द्धि­र्हे­तु­त्वे­नो­क्तेति न भ्रमितव्यम् ; तत्रापि व्यभि­चा­र­स्यो­क्त­त्वात् , किंतु सूत्रगतोपलब्धिं बुद्धिं कार्य­का­र­णो­भ­य­वि­षयां तयोः कार्य­का­र­ण­यो­र्भा­वेन सत्तयोपरक्तां विशेषितां हेतुं वयं वदाम इति भाष्यार्थ इत्याह –
तदनेनेति ।
हेतु­वि­शे­ष­ण­मुक्तं न हेत्व­न्त­र­प­र­त्वेन व्याख्या­न­मि­त्यर्थः ।
पटस्य तन्तु­व्य­ति­रे­के­णा­नु­प­लम्भः समवायस्य भेद­ति­रो­धा­य­क­त्वा­द­न्य­था­सिद्ध इत्याशङ्क्याह –
न चेति ।
सम्बन्धस्य भिन्ना­श्रि­त­त्वा­द्भे­द­सिद्धौ समवायः समवायाच्च व्यति­रे­का­नु­प­लब्धौ समाहितायां भेद­सि­द्धि­रि­त्य­न्यो­न्या­श्रय इत्यर्थः ।
पटस्तन्तुभ्यो भिद्यते तदुपलम्भेऽपि कुवि­न्द­व्या­पा­रा­त्प्रा­ग­नु­पा­ल­ब्ध­त्वात् कुम्भ­व­दि­त्य­नु­मा­ना­द्भे­द­सि­द्धे­र्ने­त­रे­त­रा­श्र­य­मि­त्या­श­ङ्क्याह –
न च भेद इति ।
अभे­द­वा­दि­न­स्त­न्तू­प­लम्भे तद­भि­न्न­प­टो­प­ल­म्भा­द्धे­त्व­सि­द्धि­रि­त्यर्थः ।कारणसत्त्वे तन्त्वादि सत्यं स्यादि­त्या­श­ङ्क्याह –
अनयेति ॥१५॥
उपपत्तिश्चात्र भवतीति ।
आहेति शेषः ।
उपपत्तिमेव दर्शयति –
न हीति ।
यथा मृदि घटो मृदात्मनाऽस्ति , तथा सिकतायां तदात्मना न तैलमस्ति , तदु­पा­दा­नो­पा­दे­य­त्वा­भा­व­कृ­त­मि­त्यर्थः ।
ननु मृदेव घटोत्पत्तेः प्रागस्ति , कथं तदात्मना घटस्य सत्ता ? अत आह –
प्रत्युत्पन्नो हीति ।
उत्पन्नस्य घटस्य मृदा­त्म­त्व­द­र्श­ना­न्मृदि सत्यां घटसत्त्वं युक्तमित्यर्थः । इत्थं तर्किते कार्यकारणाभेदे प्रयुज्यते - घटत्वं , मृन्निष्ठं घट­नि­ष्ठ­त्वा­त्स­त्त्व­व­दिति। एवं जग­द्ब्र­ह्म­णो­र­भे­देऽपि शब्दो ब्रह्मवृत्तिः , आका­श­वृ­त्ति­त्वा­त्स­त्त्व­व­दिति ।
कार्यस्य कालत्रये सत्यत्वं भाष्यो­क्त­म­यु­क्तम् ; तथा सति कर्य­त्व­व्या­घा­ता­दि­त्या­श­ङ्क्या­नि­र्वा­च्य­रू­पस्य कादा­चि­त्क­त्वेऽपि कार्यस्य तत्त्वमधिष्ठानं तच्च नित्यमिति युक्तितः प्रतिपादयति – यथा हि घट इति । कार्यस्य सत्त्वं स्वरूपं धर्मो वा । आद्ये तस्य कदाचिदसत्त्वं न स्यात् । धर्मत्वे च सत्त्वाऽ­स­त्त्व­यो­र्ध­र्मयोः कार्यस्य धर्मिणोऽन्वयात् कादा­चि­त्क­त्व­व्या­ह­ति­रि­त्या­द्यु­प­पा­दि­तम् । अधस्तात् दृष्ट­न­ष्ट­स्व­रू­प­त्वा­दिति भाष्य­व्या­ख्या­ना­व­सर इत्यर्थः ।
कार्यस्य त्रिषु कालेषु सत्त्वे कारणस्यापि तथात्वाद् द्वे सत्त्वे स्यातां , तथा­चा­भे­दा­सि­द्धि­रि­त्यु­क्ता­भि­प्रा­या­न­भिज्ञः शङ्कते –
सत्त्वं चेदिति ।
त्रिष्वपि कालेषु कार्यस्य सत्त्वं चेदित्यर्थः । कार्यकारणयोः स्वरूपसत्त्वं चैकमित्यर्थः ।
यदि कार्य­का­र­ण­यो­रे­क­स­त्त्वा­द­भे­दा­द­भि­न्नत्वं , तर्हि तस्यापि द्वाभ्या­म­भे­दा­द्भे­दा­प­त्ति­रि­त्या­श­ङ्क्याह –
न च ताभ्यामिति ।
न हि वयं सत्त्वेन कार्यकारणयोः साक्षादभेदं ब्रूमः , किंतु तत्र तयोरारोपितत्वेन तद्व्य­ति­रे­के­णा­भा­वम् ।
यदि मन्येत सत्त्वमेव कार्य­का­र­ण­यो­रा­रो­पि­त­म­स्त्विति , तत्राह –
तथा सति हीति ।
स्वकृतस्यैव प्रसञ्जनमयुक्तं दर्शयितुं तामेव पक्ष­वि­भा­ग­पू­र्व­क­माह –
तत्रेति ।
भेदः कार्यकारणलक्षणः । सत्त्वमभेदः । अस्मादयं भिन्न इत्यत्र पञ्च­म्यु­ल्लि­खि­ता­व­धे­र्ग्रहो धर्मिणः सका­शा­द­गृ­ही­त­भे­दस्य न सम्भवति। भेदग्रहश्च नागृहीते प्रतियोगित्वे उपपद्यते ।
धर्मिणोपि स्वापेक्षया तत्प्र­स­ङ्गा­त्त­त­श्चा­न्यो­न्या­श्र­य­ग्र­स्त­भेद एवारोपितो नाऽभेद इत्याह –
वयं त्विति ।
यस्तु – अय­म­न्यो­न्या­श्र­यस्य केनचिदुद्धारः कृतः , प्रति­यो­गि­त्वे­ना­प्र­ती­ता­व­धि­क­र­ण­त्व­प्र­ती­ति­र­धि­क­र­ण­त्वे­ना­प्र­ती­तौ­प्र­ति­यो­गि­त्व­प्र­ती­तेश्च भेदग्रहणकारणं , न भेदेन गृहीतत्वम् । एकं हि अन्यो­न्या­भा­वा­ख्य­भेदं प्रति स्तम्भ­कु­म्भ­यो­र­धि­क­र­णत्वं प्रतियोगित्वं चास्ति। अतः स्वस्मादपि स्वस्य भेदग्रहवारणाय प्रति­यो­गि­त्वे­ने­त्या­दि­वि­शे­ष­णम् । स्तम्भाद्भिन्नः कुम्भ इत्यत्र हि स्तम्भः प्रति­यो­गि­त्वे­नैव प्रतीयते नाधिकरणत्वेन । कुम्भ­श्चा­धि­क­र­ण­त्वेन न प्रतियोगितया । कुम्भाद्भिन्नः स्तम्भ इति प्रतीत्यन्तरे तु तमेव भेदं प्रति कुम्भः प्रतियोगितया प्रतिभाति , स्तम्भश्च धर्मितया । तत­श्चो­क्त­वि­ध­व­स्तु­प्र­ती­ति­र्भे­द­ग्रहे हेतुरिति क्वेत­रे­त­रा­श्र­यम् – इति सोऽसाधुः ; भेदाधिकरणत्वेन भेद­प्र­ति­यो­गि­त्वेन च प्रती­ते­र­पे­क्षा­या­म­न्यो­न्या­श्र­या­द­नि­स्ता­रात् , यस्य कस्य­चि­द­धि­क­र­ण­त्वेन प्रतियोगित्वेन च प्रती­त्य­पे­क्षायां सत्ताधिकरणत्वेन पुरो­दे­शा­द­न्य­दे­श­ग­त­सं­स­र्गा­भावं प्रति प्रतियोगित्वेन च स्फुरतः शक्तिदमंशस्य रज­ता­द्भे­द­ग्र­ह­प्र­स­ङ्गेन भ्रमा­नु­द­य­प्र­स­ङ्गा­द्व­स्तु­वृ­त्तेन भेदाधिकरणस्य तत्प्र­ति­यो­गि­नश्च स्वरूपेण प्रती­त्य­पे­क्षा­प्यत एवापास्तः , स्वरूपेण गृहीतयोः शुक्ती­द­मं­श­र­ज­त­यो­र्व­स्तु­वृ­त्तेन तथा­भू­त­यो­र्भे­द­ग्र­ह­प्र­स­ङ्गात् । एवं स्वरूपं भेद इति चात एवापास्तम् । असाधारणं स्वरूपं भेद इत्यपि न ; असाधारणत्वस्य भेद­ग्र­हा­धी­न­ग्र­ह­त्वेन भेदा­न्त­रा­पे­क्षायां स्वरू­प­भे­दा­भ्यु­प­ग­म­भ­ङ्गा­दिति दिक् ।
भेदे­नो­प­जी­व्य­त्वा­च्चा­भेदो नाध्यस्त इत्याह –
एकैकेति ।
वीप्सया भ्रान्त­भे­दा­नु­वादः । अत एवैकाभाव इत्युक्तम्॥१६॥ व्याकृ­त­ना­म­रू­प­त्वा­दिति भाष्ये व्यक्ता­व्य­क्त­स्वी­कृतेः सांख्यवादापात इत्याशङ्क्याह – व्याकृ­त­त्वेति॥१७॥ नान्याऽसतीति भाष्ये असतीति च्छेदः ।
कार्यरूपेण च सत्त्वं शक्तेरापाद्यते , तथा सति हि कार्य­स्या­स­त्त्व­प्र­ति­क्षेपः सिध्यतीति मन्वान आह –
नाप्यसतीति ।
भावाच्चेति द्विती­य­पा­ठ­व्या­ख्यायां कारणातिरेकेण कार्या­नु­प­ल­म्भ­स्यो­क्त­त्वा­त्पु­न­रु­क्ति­मा­श­ङ्क्याह –
यद्यपीति ।
स्वप­र­नि­र्वा­ह­क­त्वा­त्स­म­वायः सम्ब­न्धा­न्त­रा­न­पे­क्ष­श्चे­त्सं­यो­गोऽपि नापेक्षेतेति प्रतिबन्दी , सा संयोगस्य कार्य­स्व­रू­प­वि­शे­षा­द­यु­क्ते­त्या­शङ्क्य नित्ये आत्माकाशसंयोगे तस्यासिद्धिमाह –
अजेति ।
अज­सं­यो­ग­म­नि­च्छन्तं प्रति सर्व­त्रा­सि­द्ध­माह –
अपि चेति ।
अस्तु संयो­ग­नि­त्य­त्वा­भा­वाय सम­वा­योऽ­प्य­नित्यः , तथापि नानवस्था ; समवायस्य सम­वा­यि­का­र­णा­न­भ्यु­प­ग­मेन निमि­त्त­का­र­ण­मा­त्रा­त्त­दु­त्पत्तेः सम­वा­या­न्त­रा­प्र­स­ङ्गा­दि­त्या­श­ङ्क्याह –
तथासतीति ।
ततः संयोगस्य सम­वा­यि­का­र­ण­मि­च्छता समवायस्यापि तदे­ष्ठ­व्य­मि­त्य­न­वस्था तद­व­स्थै­वे­त्यर्थः । नानात्वेन सहैक आश्रयो यस्य स सम्ब­न्ध­स्त­थोक्तः ।
उत्पत्तिकर्तुः कार्यस्य प्रागु­त्प­त्ते­र्ना­स­त्त्व­मि­त्युक्ते तत्रोत्पत्तेर्न कार्यं कर्तृ , किंतु कारणमिति शङ्कते –
यद्युच्येतेति ।
यद्य­प्यु­त्प­द्यते घट इति कार्यस्य कर्तृत्वं भाति ; तथापि गौण्या वृत्त्या कारणस्य । तत्र च सिद्धेषु कपालेषु जायत इति पूर्वा­प­र­का­ल­व्या­स­क्त­प्र­यो­गा­नु­प­पत्तिः कार्योत्पादनाया व्यास­क्त­त्वा­दि­त्यर्थः ।
कपालकर्तृका घटविषयोत्पादना नोत्पत्तिः , सा तु घटकर्तृकेति परिहरति –
उत्पा­द­ना­ही­त्या­दिना ।
यद्यु­त्प­त्ति­रु­त्पा­द­नैव , तर्हि उत्पा­द­ना­या­मि­वो­त्प­त्ता­वपि सकर्मकत्वाद् घटस्य कर्मत्वं व्यपदिश्येत , न चैवमस्तीत्यर्थः । भृत्यो हि घटं करोति स्वामी कारयति तत्र यथा करो­ति­का­र­य­त्यो­रा­श्र­य­भेद एव­म­त्रा­पी­त्यर्थः ।
धातू­पा­त्त­व्या­पारः कर्त्तेति कर्तृ­ल­क्ष­ण­यो­गाच्च घट एवो­त्प­त्ति­क­र्ते­त्याह –
एवं चेति ।
स्वकारणे कार्यस्य समवायो जन्म स्वस्मिन्नसति कार्ये सत्तासमवायो वेत्यर्थः ।
भिन्नमेवेति ।
सामानाधिकरण्येन हि भिन्न­मि­वा­भि­न्न­मिव चकास्तीति ।
अनयैवेति ।
इतरथा हि सांख्यवादः स्यादिति ।
भाष्य­ग­त­मू­ल­का­र­ण­श­ब्देन ब्रह्मणोऽन्यः कश्चि­न्मा­या­प्र­ति­बि­म्बितो नाभिधीयते । तथा सति तस्य परि­च्छ­न्न­त्वा­द­धि­क­र­णो­प­क्र­मो­क्तस्य कार­ण­वि­ज्ञा­ना­त्स­र्व­वि­ज्ञा­न­स्या­स­म्भ­व­प्र­स­ङ्गा­त्किंतु सर्वा­धि­ष्ठा­न­मि­त्याह –
मूलकारणमिति॥१८॥
स्वशत्तया नटवद् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीव­भ्रा­न्ति­नि­मित्तं तद् बभाषे भामतीपतिः॥ अज्ञातं नटवद् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीवाज्ञातं जगद्बीजं जगौ वाच­स्प­ति­स्तथा॥१९॥
कार्यमुपादानाद् भिन्नं , तदुपलब्धावपि अनुपलब्धत्वात् , ततोऽ­धि­क­प­रि­मा­ण­त्वाच्च सम्म­त­व­दि­त्य­नु­मा­न­यो­र्व्य­भि­चा­रार्थं - पटवच्चेति सूत्रम् । तस्यामेव प्रतिज्ञायां भिन्न­का­र्य­क­र­त्वस्य व्यभिचारार्थं –
यथा च प्राणादि इति॥२०॥
इति षष्ठ­मा­र­म्भ­णा­धि­क­र­णम्॥

इत­र­व्य­प­दे­शा­द्धि­ता­क­र­णा­दि­दो­ष­प्र­सक्तिः॥२१॥ जीवाभिन्नं ब्रह्म जगदुपादानं वदन्समन्वयो यदि तादृग् ब्रह्म जगज्जनयेत् , तर्हि स्वानिष्टं न सृजेदिति न्यायेन विरुध्यते न वेति संदेहे पूर्वत्र कार्य­का­र­णा­न­न्य­त्व­वद् घटा­का­श­क­ल्प­जी­वा­ना­मपि महा­का­शो­प­म­ब्र­ह्मा­त्मै­क्य­मुक्तं , तस्य हिता­क­र­णा­द्य­नु­प­प­त्ति­भि­रा­क्षे­पा­त्स­ङ्गतिः । ननु ‘’सोऽन्वे­ष्टव्य’’ इत्या­दि­भे­द­नि­र्दे­शात् कथं पूर्व­प­क्ष­स्त­त्राह –
यद्यपीति ।
यदि भेदाभेदावेकत्र विरुद्धौ , तर्ह्यभेद एव भेदेन बाध्यतामत आह –
न च भेद इति ।
इत्युक्तम् । अनन्तराधिकरण इत्यर्थः ।
ननु स्वाभाविकं ब्रह्मणैकत्वं जीवा अविद्योपहिताः स्वेषां न जानन्तीति हितेऽ­प्य­हि­त­भ्र­मा­द­क­र­ण­मु­प­प­न्न­मत आह –
तेनेति॥२१॥
तद्वदभिमान इति ।
पश्यतीत्यन्वयः । यद्यपि परमात्मनो दर्श­न­क्रि­या­श्र­य­त्व­म­नु­प­प­न्नम् ; तथापि पुरुषः स्वप्रकाश एव तत्त­द्वि­शे­षे­णो­प­र­क्तस्तं तं यथावस्थितं भासयतीति अतः पश्यतीति निर्दि­श्यते॥२२॥२३॥
इति सप्त­म­मि­त­र­व्य­प­दे­शा­धि­क­र­णम् ॥

उप­सं­हा­र­द­र्श­ना­न्नेति चेन्न क्षीरवद्धि॥२४॥ ब्रह्म नोपा­दा­न­म­स­हा­य­त्वा­त्सं­म­त­व­दिति न्यायेन समन्वयस्य विरोधसन्देहे पूर्व­त्रौ­पा­धि­क­जी­व­ब्र­ह्म­भे­दा­द्धि­ता­क­र­णा­दि­दोषः परिहृतः , इह तूपाधितोऽपि विभ­क्त­म­धि­ष्ठा­त्रादि नास्तीति पूर्वपक्षमाह –
ब्रह्म खल्वित्यादिना ।
एक­मि­त्यु­पा­दा­न­भे­द­वा­र­णम् । अद्वितीयतयेति सहकारिनिषेधः ।
एकत्वप्रयुक्तं दूषणमाह –
न ह्येकरूपादिति ।
कारणवैजात्ये हि कार्य­वै­जा­त्य­मि­त्यर्थः ।
न केवलं कार्य­वै­जा­त्या­योग एक­जा­ती­य­का­र्या­णा­मपि क्रमयोग इत्याह –
न चाक्रमादिति ।
समर्थमपि सहकार्यपेक्षं सत् क्रमेण कुर्या­दि­त्या­श­ङ्का­म­प­न­य­न्न­द्वि­ती­य­त्व­प्र­यु­क्ता­म­नु­प­प­त्ति­माह –
अद्वितीयतया चेति ।
भाष्य­स्थ­का­र­क­सा­ध­न­प­द­यो­र­पौ­न­रु­क्त्य­माह –
एकैकमिति ।
समग्राणां भावः सामग्र्यम् ।
कथं तस्य साध­न­श­ब्दा­भि­धे­य­त्व­मत आह –
ततो हीति ।
साधयत्येवेति ।
साधनमित्यर्थः॥ श्रुतौ – करणं निष्पादनम् । अत्य­न्त­व्य­ति­रि­क्तत्वं स्वध­र्म­त्वे­ना­न­न्त­र्भू­त­त्वम् । एकस्मिन्काले उषित्वा तं परित्यज्य कालान्तरेऽपि वासः परिवासः पर्युषितमिति दर्शनात् । आन्तरत्वं नाम स्वधर्मत्वम् । मायिनं मायाविषयम् । अज्ञातत्वस्य वस्तुधर्मत्वात् तद्द्वारेण माया­ख्य­म­ज्ञा­न­मपि धर्म इत्यान्तरत्वम् ।
ननु मायाया अप्यक्रमत्वात् कथ­म­क्र­मा­त्का­र­णात् कार्य­क्र­म­स्त­त्राह –
कार्यक्रमेणेति ।
तस्या मायायाः परि­पा­क­स्त­त्त­त्का­र्य­सर्गं प्रति पौष्कल्यम् । तस्य क्रमोऽपि कार्य­क्र­मा­न्य­था­नु­प­पत्त्या कल्प्य इत्यर्थः ।
पूर्व­म­वि­द्या­सा­चि­व्या­द­स­हा­य­त्व­म­सि­द्ध­मि­त्यु­क्तम् , इदा­नी­म­ङ्गी­कृ­त्यापि तद­नै­का­न्ति­क­त्व­माह –
एकस्मादपीति ।
शरे उत्पन्नं हि कर्म पूर्वा­का­श­प्र­दे­श­वि­भा­ग­मु­त्त­र­प्र­दे­श­सं­योगं शरे च वेगाख्यसंस्कारं जन­य­ती­त्य­नै­का­न्ति­कम् । असहायत्वं नाना­का­र्या­नु­त्पा­द­मि­त्यर्थः॥२४॥
अस­हा­य­स्यो­पा­दा­नत्वं क्षीर­व­दु­प­पा­द्या­स­हा­य­स्या­धि­ष्ठा­तृ­त्व­स­म­र्थकं सूत्रमवतारयति –
यदि त्विति॥२५॥
इत्य­ष्ट­म­मु­प­सं­हा­र­द­र्श­ना­धि­क­र­णम्॥

कृत्स्न­प्र­स­क्ति­र्नि­र­व­य­व­त्व­श­ब्द­कोपो वा॥२६॥ सावयवस्यैव नाना­का­र्यो­पा­दा­न­तेति न्यायेन समन्वयस्य विरोधसन्देहे पूर्वा­धि­क­र­णो­क्त­क्षी­र­दृ­ष्टा­न्तात् परिणामित्वभ्रमे तन्निरासात् संगतिमाह –
क्षीरेति ।
तस्मादविकृतं ब्रह्मेति भाष्यं तदस्तीति तत्त्वत इति च पदाध्याहारेण व्याचष्टे –
तस्मादिति ।
इतरथा हि माया­म­य­वि­का­र­नि­षेधे जगत्सर्गो न स्याद­स्ती­त्य­नुक्तौ च साकाङ्क्षत्वं स्यादिति निरवयवेऽपि ब्रह्मणि विचि­त्र­श­क्ति­व­शे­ना­कृ­त्स्न­प्र­स­क्ते­रु­क्त­त्वा­च्चो­द्या­नु­प­प­त्ति­मा­शङ्क्य शक्ती­ना­म­व­स्त­व­त्व­क­थ­ना­र्थ­त्वेन परिहरति –
अवि­द्येति॥२६॥२७॥२८॥
अव­स्तु­त्वा­त्स­मु­दायो न परिणमते , समुदायिष्वपि यदि सत्त्वमात्रं परिणमते , न रजस्तमसी , ततो मूलोच्छेदो न स्यान्न चैतदस्ति इत्याह –
यद्यपि समुदाय इति ।
द्व्यणु­क­मा­र­ब्धु­म­णुना संयु­ज्य­मा­नोऽ­णु­रु­प­र्य­धः­पा­र्श्व­त­श्च­त­सृ­ष्वपि दिक्षुकदाचित् कश्चि­त्सं­यु­ज्यते , ते च सर्वे तेन समानदेशा इति प्रथि­मा­नु­प­प­त्ते­र्द्व्य­णु­क­पिण्डः परमाणुमात्रः प्रस­ज्ये­ते­त्यर्थः । अव्याप्यवृत्तौ संयोगस्य तावन्नैकत्र भावा­भा­वा­वि­त्यु­क्तम् ।
अथ प्रदेशभेदेन भावाभावौ तत्राह –
अव्यापने वेति ।
कार्यकारणभाव आरम्भः॥२९॥
इति नवमं कृत्स्न­प्र­स­क्त्य­धि­क­र­णम्॥

सर्वोपेता च तद्दर्शनात्॥३०॥ माया­श­क्ति­म­द्ब्र­ह्मणः जगत्सर्वं वदतः सम­न्व­य­स्या­श­री­रस्य न मायेति न्यायेन विरोधसंदेहे संगतिमाह –
विचित्रेति ।
अन्त­र्या­म्य­धि­क­रणे (ब्र.अ.१.पा.३.सू.१८) त्ववि­द्यो­पा­र्जि­त­त्व­स­म्बन्धे जगद्ब्रह्मणोः सिद्धे शरीररहितस्यापि नियन्तृत्वसम्भव उक्तः , इह त्वश­री­र­स्या­वि­द्यै­वा­क्षि­प्यत इति भेदः॥३०॥
तदु­क्त­मि­त्ये­त­द्दे­वा­दि­व­द­पीति (ब्र.अ.२.पा.१.सू.२८) सूत्रो­क्ति­प­र­त्वेन व्याचष्टे –
कुलालादिभ्य इति ।
आत्मनि चैव (ब्र.अ.२.पा.१.सू.२५) मिति सूत्रो­क्ति­प­र­त्वे­नापि व्याचष्टे –
यथा त्विति ।
शक्तिमन्तो देवादयो यद्यपि शरीरिणः , तथापि बाह्य­सा­ध­ना­न­पेक्षाः । यदि तु तत्र दृष्टं शरीरित्वं शक्तिमत्त्वेन ब्रह्म­ण्या­पा­द्यते , तर्हि कर्तृत्वेन कुलालादिषु दृष्टं बाह्य­सा­ध­ना­पे­क्षत्वं देवा­दि­ष्व­प्या­पा­द्ये­तेति प्रतिबन्ध्या प्रमे­य­सं­भा­व­नोक्ता । श्रूयमाणम् इति प्रमा­ण­मु­क्तम्॥३१॥
इति दशमं सर्वो­पे­ता­धि­क­र­णम्॥

न प्रयो­ज­न­व­त्त्वात्॥३२॥ परि­तृ­प्ता­द्ब्र­ह्मणो जग­त्स­र्ग­वा­दि­स­म­न्व­यस्य ब्रह्म न विना प्रयोजनेन सृजति , अभ्रा­न्त­चे­त­न­त्वा­त्सं­म­त­व­दिति न्यायेन बाधसंदेहे पूर्वत्र सर्वशक्ति ब्रह्मेत्युक्तं , तर्हि शक्तस्यापि प्रयो­ज­ना­भि­सं­ध्य­भा­वा­द­क­र्तृ­त्व­मिति पूर्वपक्षमाह –
न तावदित्यादिना ।
तादर्थ्येन सुखार्थत्वेन । प्रवृत्तौ प्रवृत्तेः प्राक् सुखाभावे सति कृता­र्थ­त्वा­नु­प­प­त्ते­रि­त्यर्थः । अवि­द्यो­प­हि­त­जी­वान् करे­णा­पि­धा­या­नु­ग्रा­ह्या­भाव उक्तः । न दृष्टः प्रयो­ज­नो­द्दे­श­ल­क्षणो हेतुरस्या इत्यदृष्टहेतुका । औत्पत्तिकी पुरु­ष­स्यो­त्प­त्ति­मा­रम्भ प्रवृत्ता । अदृ­ष्ट­हे­तु­क­त्वस्य विवरणं – प्रयो­ज­ना­नु­स­न्धा­न­म­न्त­रेण इत्येतत् ।
स्वापादौ प्रयो­ज­ना­न­भि­स­न्धि­रूपे श्वासे साध्या­भा­व­व­द्धे­तो­रपि चेत­न­क­र्तृ­क­त्व­स्या­भा­वान्न व्यभिचार इत्याशङ्क्याह –
न चास्यामिति ।
जाग्रदादौ चेतनस्य जानतोऽपि चैतन्यमस्यां श्वासा­दि­प्र­वृ­त्ता­व­नु­प­योगि , सुषुप्तेऽपि तस्याभावादिति च न युक्तम् ; कुतः ? प्राज्ञस्य सुषुप्तस्यापि स्वरू­प­चै­त­न्या­प्र­च्यु­ते­रि­त्यर्थः॥३२॥ यदुक्तं लीलाया अपि सुख­प्र­यो­ज­न­त्वा­दिति , तत्राह – सत्यपीति । अनुद्दिश्य प्रयोजनं न करोति इति साध्ये त्वभ्रा­न्त­चे­त­नत्वं लीलाकर्तरि सव्यभिचारम् इत्यर्थः ।
ननु यद्ब­ह्वा­या­स­साध्यं तत्प्र­यो­ज­ना­भि­सं­धि­पू­र्व­क­मिति व्याप्तिरभिमता , तथा च न लीलादौ व्यभि­चा­र­स्त­त्राह –
दृष्टं चेति ।
तद­प्य­स्म­दा­द्य­पे­क्षया जग­द्ब­ह्वा­या­स­साध्यं भाति ; तथापि न ब्रह्मा­पे­क्ष­येति न प्रयो­ज­ना­भि­सं­ध्या­पात इत्यर्थः । नगैः पर्व­तै­र्ह­नु­म­त्प्र­भृ­तिभिः कर्तृभिर्न बद्ध इत्यर्थः । तत्त­र्ही­त्य­न्वयः । एतच्छक्यत्वे निदर्शनम् । एषः नीरनिधिः समुद्रः । शिलीमुखैः शरैर्न बद्धः । न च नीरनिधिर्न पीत इतीषत्करत्वे निदर्शनम् ।
आचार्यं यो मही­प­ति­र्म­ह­या­ञ्च­कार तस्य नाम –
नृग इति ।
निय­त­नि­मि­त्त­म­न­पेक्ष्य यदा कदा­चि­त्प्र­वृ­त्त्यु­दयो यदृच्छा , स्वभावस्तु स एव यावद्वस्तुभावी यथा श्वासादौ ।
यदुक्तं न ताव­दु­न्म­त्त­स्येव मति­वि­भ्र­मा­ज्ज­ग­त्प्र­क्रि­येति , तत्र मा भूदुन्मत्तं ब्रह्म , भवति तु जीवा­वि­द्या­वि­ष­यी­कृतं जग­द्वि­व­र्ता­धि­ष्ठा­नम् , तथा च न प्रयो­ज­न­प­र्य­नु­योगः सृष्टावित्याह –
अपि च नेयमिति ।
जीवभ्रान्त्या परं ब्रह्म जगद्बीजमजूघुषत् । वाचस्पतिः परेशस्य लीला­सू­त्र­म­लू­लु­पत्॥ प्रतिबिम्बगताः पश्यन् ऋजु­व­क्रा­दि­वि­क्रियाः । पुमान् क्रीडेद्यथा ब्रह्म तथा जीवस्थविक्रिया॥ एवं वाचस्पतेर्लीला लीला­सू­त्री­य­स­ङ्गतिः । अस्वतन्त्रत्वतः क्लिष्टा प्रति­बि­म्बे­श­वा­दि­नाम्॥
विभ्रमाणां प्रयो­ज­ना­न­पे­क्षा­या­मपि तत्कार्यस्य तदपेक्षा स्यादि­त्या­का­शा­दे­र्भ्र­म­का­र्यस्य तद­पे­क्षा­मा­श­ङ्क्याह –
न चेति ।
नन्वविद्याया हेतुत्वे कथं ब्रह्म कारणमत आह –
सा चेति ।
छुरिता मिश्रिता ।
निर्विषय इति ।
वेदा­न्त­प्र­ति­पाद्यो विषयोऽस्य दूष्यत्वेन न वर्तत इति तथोक्तः॥३३॥
इत्येकादशं नप्र­यो­ज­न­व­त्त्वा­धि­क­र­णम्॥

वैष­म्य­नै­र्घृण्ये न सापे­क्ष­त्वा­त्तथा हि दर्शयति॥३४ ॥ यो विषमसृष्टिकारी स सावद्यो ब्रह्म च विषमं सृजतीति न्यायेन समन्वयस्य विरोधसंदेहे पूर्वत्र लीलया स्रष्टृ­त्व­मु­क्तम् , इदानीं सैव न सापेक्षस्य सम्भवति ; अनी­श्व­र­त्व­प्र­स­ङ्गाद् , निरपेक्षत्वे च रागा­दि­म­त्त्व­मि­त्या­क्षि­प्यते । अनुमानस्य व्यभिचारमाह –
न हि सभ्य इति ।
सापे­क्ष­त्वेऽ­नी­श्व­र­त्व­मा­शङ्क्य व्यभिचारमाह –
न हि सेवेति ।
कर्मापेक्षत्वेन वैषम्यं परिहृतं , तर्हि विषमकर्मणि प्रेरकत्वेन वैष­म्य­ता­द­व­स्थ्य­मि­त्या­श­ङ्क्याह –
न चैष इति ।
वैष­म्या­दि­प्र­स­ङ्गा­न्ने­श्वरः कारणमिति न च वाच्यमित्यन्वयः । यदीश्वरोऽपि विषमं सृजेत्तर्हि रागा­दि­म­त्त­याऽ­नी­श्वरः स्यादी­श्व­र­श्चायं तस्मान्न विषमं सृजतीति किमनुमीयते उत ईश्वरो रागादिमान् विष­म­स्र­ष्टृ­त्वा­दिति वैषम्यम् । नाद्यो विरो­धा­दि­त्यु­क्तम् ।
तमेवागमविरोधं दर्शयति –
यस्मादिति ।
द्वितीयं निषेधति –
न चेति ।
यद्येवं वैषम्यमनुमितं किमतो निर­व­द्य­त्व­स्यापि श्रुति­सि­द्ध­त्वे­ना­ती­त­का­ल­ता­ता­द­व­स्थ्या­दि­त्यर्थः ।
तदेव दर्शयति –
तस्मादिति ।
श्रुतीनां ग्राव­प्ल­व­ना­दि­श्रु­तिभ्यो वैष­म्या­र्थ­म­र्थ­सं­भा­वनां दर्शयति –
तज्जातीयेति ।
उन्निनीषते ऊर्ध्वं नेतुमिच्छति। ईश्वरः पर्ज­न्य­व­त्सृ­ष्टि­मात्रे कारणं , वैषम्ये तु बीज­व­त्त­त्त­त्प्रा­णि­क­र्म­वा­सने इति नेश्वरस्य सावद्यतेत्यर्थः । अपि च मायामयी सृष्टिरस्माकम् । यदि च तथा­वि­ध­सृ­ष्टि­क­र्तृ­त्वेन रागा­दि­म­त्त्व­म­नु­मी­यते , तर्ह्य­नै­का­न्ति­क­त्व­मि­त्याह – अभ्युपेत्य चेति॥३४॥३५॥
अकृ­ता­भ्या­ग­म­प्र­सङ्गं व्याकरोति –
अकृते इति ।
तदङ्गीकारे आगतौ दोषावाह –
तथा चेति ।
वेदा­न्ता­न­र्थक्यं मुक्तानामपीति भाष्यो­क्त­मि­त्याह –
मोक्ष­शा­स्त्र­स्येति ।
भाष्ये केवलाया अविद्याया वैष­म्य­क­र­त्व­नि­षे­धोऽ­नु­प­पन्नः , भ्रान्ते­र्वि­चि­त्र­त्वेन वैष­म्य­हे­तु­त्वो­प­प­त्ते­रि­त्या­श­ङ्क्याह –
लयेति ।
ननु - मा भूल्ल­य­ल­क्ष­णा­विद्या वैषम्यकरी , भ्रमसंस्कारस्तु किं न स्यादिति - चेत् , अस्तु न तु संसा­रा­ना­दि­ता­म­न्त­रेण स्यात् , तथा च सिद्धं नः समीहितमित्याह –
विक्षेपेति ।
विभ्र­म­सं­स्का­रस्य भ्रम­सा­पे­क्ष­त्वान्न स्वत एव वैषम्यहेतुत्वं , विभ्रमश्च न केवलो वैषम्यहेतुरपि रागादीन् जनयित्वा तत्सहितः । तथा च विभ्रमो रागादिसहितः शरीराच्छरीरं कर्मणः कर्म रागद्वेषाभ्यां तौ च मोह­सं­ज्ञा­द्वि­भ्र­मात् स च शरीरादुदेतीति चक्र­क­भ्र­म­ण­म­ना­दि­तैव समादधातीत्यर्थः । अव­घा­त­नि­ष्प­न्ना­स्तु­षान् पुरो­डा­श­क­पा­ले­नो­प­व­पति विग­म­य­ती­त्य­त्रा­व­घा­त­स­मये कपालेषु पुरो­डा­श­श्र­प­णा­भा­वा­द्भ­वि­ष्य­च्छ्र­प­ण­म­पेक्ष्य कपालानां पुरो­डा­श­स­ब­न्ध­की­र्त­न­मिति॥३६॥
इति द्वादशं वैष­म्य­नै­र्घृ­ण्या­धि­क­र­णम्॥

सर्व­ध­र्मो­प­प­त्तेश्च॥३७॥ निर्गुणब्रह्मणो जग­दु­पा­दा­न­त्व­वा­दि­स­म­न्व­यस्य यन्निर्गुणं न तदुपादानं गन्ध इवेति न्याय­वि­रो­ध­सं­देहे भवतु विषमस्रष्टृत्वं पक्ष­पा­ते­ना­व्या­प्त­म­ने­का­न्तम् । साध्येन तु सगुणत्वे उपादानत्वमिति प्राप्ते विव­र्ता­धि­ष्ठा­न­त्व­मि­हो­पा­दा­न­त्वम् । तच्च निर्गु­णेऽ­प्य­वि­रु­द्धम् ; जात्या­दा­व­नि­त्य­त्वा­द्या­रो­पो­प­ल­ब्धे­रिति सिद्धान्तः । भाष्यकारेण सौत्रीं सर्व­ध­र्मो­प­पत्तिं व्याकुर्वता सर्वज्ञत्वादयः कारणधर्मा ब्रह्म­ण्यु­प­प­द्यन्त इत्युक्तम् , तदयुक्तमिव ; न ह्येते लोके कस्यचित्कारणस्य धर्मा दृश्यन्ते , अत आह –
अत्रेति ।
जडप्रेरकत्वं कुलालादौ दृष्ठं , ब्रह्मण्यपि नियन्तरि तेन भाव्यम् । तस्य सर्व­प्रे­र­क­त्वस्य श्रुति­सि­द्ध­त्वा­द­र्था­त्स­र्व­ज्ञ­त्व­सिद्धिः । एवं सर्वशक्तित्वादौ योज्यम् । सर्व­श­क्ति­त्वे­नो­पा­दा­न­का­र­ण­त्व­मु­प­पा­दि­तम् । सर्वज्ञत्वेन निमित्तकारणं चेत्यु­प­पा­दि­त­मि­त्यर्थः । महा­मा­या­वि­ष­यी­कृ­त­त्वेन निर्गु­ण­त्वा­दि­प्र­यु­क्त­स­र्वा­नु­प­प­त्ति­श­ङ्काऽ­पा­स्ते­त्यर्थः॥३७॥
इति त्रयोदशं सर्व­ध­र्मो­प­प­त्त्य­धि­क­र­णम्॥

उद्द­ण्डै­र्बा­हु­दण्डैः पृथु­त­र­प­रि­घ­प्रां­शु­भि­र्भि­न्न­गात्राः केचित्केचिच्च वज्र­प्र­ति­म­न­ख­मु­खै­र्दी­र्ण­दे­हो­प­देहाः । आकर्ण्यैके च यस्य प्रल­य­घ­न­घ­न­ध्वा­न­ग­म्भी­र­नादं विध्वस्ता दैत्य­मु­ख्या­स्त­म­ह­म­ति­बलं श्रीनृसिंहं प्रपद्ये ॥ स्वबो­ध­द­लि­ता­बो­ध­त­दु­द्भू­त­ज­गद् भ्रमम् । सदा­न­न्द­घ­ना­द्वैतं परं ब्रह्मास्मि निर्मलम् ॥ रचनानुपपत्तेश्च नानुमानम् ॥१॥ स्वतन्त्रा इत्यस्य व्याख्यानं –
वेदनिरपेक्षा इति ।
विलक्षणत्वादयो हि प्रधा­ना­दि­प­र­त्वेन वेदा­न्त­व्या­ख्या­म­नु­ग्रा­हिकाः , इमास्तु युक्तयः स्वातन्त्र्येण प्रधानादिसाधिका इति। अनेनाक्षेपावसरे एव पादार्थो विवेचितः । मोक्षमाणानां मोक्षमिच्छताम् । मुचेः सन्नन्तस्य लुप्ताभ्यासस्य रूपम् ।
वेदान्तैरेव ज्ञानजननात्किं परपक्षाक्षेपेण ? तत्राह –
यथा चेति ।
ननु प्रमा­णा­व­ग­ता­न्यु­पा­दा­नानि जगति समुच्चीयन्तां , तन्तव इव पटेऽत आह –
न चैतदेवेति ।
चेत­न­मु­पा­दा­न­म­स्येति तथोक्तम् । वेदो हि ब्रह्मप्रणीत इति सांख्या­द्या­ग­मस्य तत्तुल्यता । तथा च कपिलाद्यागमो वेदेन न बाध्यते , सिंह इव समबलसिंहान्तरेण । एवं कपिलाद्यागमं दृष्ट्वा कृतमनुमानमपि न बाध्यते , यथा सिंहं दृष्ट्वा कृते दार्वादिमये प्रतिकृतिसिंहे दृश्यमानाया ईदृशः सिंह इति सिंहा­का­र­प्र­ती­ते­र­बाध इत्यर्थः ।
चेतनप्रकृतिकं जगदिति प्रतिपादकस्य वेदस्य प्रति­रो­ध­क­म­नु­मा­न­माह –
यानि हीति ।
संयोगादौ व्यभि­चा­र­वा­र­णार्थं स्थौल्या­दि­त्यु­क्तम् । संयोगादयो हि न स्थूल­पि­ण्डा­दा­रभ्य कण­प­र्य­न्त­म­नु­यन्ति। कुम्भोपादानत्वं सत्त्वा­दि­गु­णा­श्रितं मृद्ग­त­त्वा­त्स­त्ता­व­दिति च वक्र­री­त्याऽ­नु­मा­नम् ।
ननु सुखं घट इत्या­द्य­नु­प­ल­म्भात् कथं तदा­त्म­त्वे­ना­नु­ग­ति­रत आह –
उपलभ्यत इति ।
घटविषया हि बुद्धि­स्त­म­नु­कूलं प्रतिकूलं वा गोचरयतीति अस्त्ये­वा­नु­ग­ति­रि­त्यर्थः । अन्वितत्वादेव सुख­दुः­ख­मो­हा­त्मकं सामान्यम् ।
सुखा­द्या­र­ब्ध­त्वेऽपि जगतः कथं सत्त्वा­द्या­त्म­क­प्र­धा­ना­र­भ्य­त्व­मत आह –
तत्रेति ।
येयं जगत्कारणस्य कार्यवशोन्नीता सुखाद्यात्मता सा सत्त्वमित्यर्थः । विधेयापेक्षया नपुंसकप्रयोगः ।
उपलभ्यत इति यदुक्तं तद्व्यक्तीकरोति –
तथा हीति ।
निर­न्त­र­त­रु­ष्व­ध्य­स्त­व­नेऽ­ने­का­न्त­वा­र­णाय प्रत्ये­क­मि­त्यु­क्तम् ।
ननु चेतनोपकारत्वेन तं प्रति गुणी­भू­त­गु­ण­त्र­यस्य कथं प्रधानत्वमत आह –
तच्च त्रिगुणमिति ।
चेतनं प्रति गुणभूतस्यापि गुणत्रयस्य सिद्धा­न्त­सि­द्ध­मा­यया वैलक्षण्यमाह –
न तु केनचिदिति ।
करणमिन्द्रियं केनचिच्चेतनेन न कार्यते न प्रेर्यते , किंतु कारणानां प्रवृ­त्ता­व­ना­ग­ता­व­स्थो­प­भो­गा­प­व­र्ग­रूपः पुरुषार्थ एव हेतुः , स च न्यायो गुणानामपि तुल्य इत्यर्थः ।
नन्व­नु­मा­ना­द­चे­त­नो­पा­दा­नत्वे जगतः सिद्धे जगदुपादानस्य चेत­ना­धि­ष्ठि­त­त्वा­पत्त्या किं दूषणमुक्तं भवति ? साध्य­सि­द्धि­म­ङ्गी­कृत्य दृष्टा­न्त­दृ­ष्ट­ध­र्मा­न्त­र­सं­चारो ह्युत्कर्षसमा जातिः स्यात् , यथा –यदि कृतकत्वेन घटवदनित्यः शब्दः , तर्हि तद्वन्मूर्तः स्यादिति , तत्राह–
यदि तावदिति ।
अयमत्र दूषणाभिप्रायः – किं गुणत्रयं चेत­ना­न­धि­ष्ठि­त­मु­पा­दानं साध्यते , उत तस्यो­पा­दा­न­त्व­मा­त्रम् । आद्ये विरुद्धत्वं द्वितीये सिद्धसाधनं ; त्रिगुणमायाया ईश्व­रा­धि­ष्ठि­तायाः प्रकृ­ति­त्वे­ष्टे­रिति।
मूर्त­त्वा­पा­द­नाद् वैषम्यमाह –
व्याप्तेरिति ।
कृतकत्वं हि न व्याप्त­मि­त्यर्थः । उपाददते उत्पादयन्ति कृतकत्वमिव विरु­द्ध­मि­त्य­न्वयः । इवशब्दो यथाशब्दसमानार्थ उपमामात्रपरो न तूपमीयमानपरः ; एवंशब्दस्य पृथक् प्रयोगात् । यदि सत्त्वा­द्य­न्वि­त­त्वा­ज्ज­ग­त्त­त्प्र­कृ­तिकं मृद­न्वि­त­कु­म्भ­वत् , तर्हि तच्चे­त­ना­धि­ष्ठितं तत्प्रकृतिकं स्यात्तत एव तद्दे­वे­त्यु­क्तम् ।
तत्रो­पा­धि­मा­श­ङ्कते –
यद्युच्येतेति ।
यथै­क­स्मि­न्साध्ये साध­न­द्व­य­स­न्नि­पाते सति एक­त­र­सा­ध­न­प्र­युक्ता व्याप्ति­रि­त­र­त्रा­रो­प्यत इति सोपाधिकता , तद्यथा निषि­द्ध­त्व­प्र­युक्ता व्याप्ति­र­ध­र्म­त्वस्य हिंसात्वे समारोप्यते , एव­मे­क­स्मि­न्सा­धने समन्वयादौ प्रकृ­ति­ग­ता­चे­त­न­त्व­चे­त­ना­धि­ष्ठि­त­त्व­रू­प­सा­ध्य­द्व­य­व­त्य­न्त­रङ्गा चेत­न­त्व­प्र­युक्ता हेतु­सा­ध्य­यो­र्व्या­प्ति­र्ब­हि­र­ङ्ग­चे­त­ना­धि­ष्ठि­तत्वे समारोप्यत इति भवति साध्यमपि सोपा­धि­क­मि­त्यर्थः । कश्चि­द्ध­र्मोऽ­न्त­र­ङ्ग­त्वादिः ।
नान्त­र­ङ्ग­त्व­ब­हि­र­ङ्ग­त्व­कृते व्यापकत्वे , किंत्व­व्य­भि­चा­र­कृ­तेऽ­न्त­र­ङ्ग­स्यापि महा­न­सा­दि­स्व­रू­पस्य व्यभि­चा­रा­द्धू­म­वत्त्वं प्रत्य­व्या­प­क­त्वा­द्ब­हि­र­ङ्ग­स्यापि वह्नि­सं­यो­ग­स्या­व्य­भि­चा­रेण व्यापकत्वादिति मत्वा परिहरति –
स्वभावेति ।
स्वभा­व­प्र­ति­ब­द्ध­म­नौ­पा­धि­क­त्वेन संबद्धम् ।
ननु स्वभा­व­सं­ब­न्धोऽ­प्य­न्त­र­ङ्ग­त्वाद् ज्ञेयस्तत्राह –
स चेति ।
साधनाव्यापक उपाधिर्यथा प्रपञ्चः सत्यः प्रति­भा­स­मा­न­त्वाद् ब्रह्मवदित्यत्र चेतनत्वमुपाधिः । अयं हि साध्यव्यापकः सत्य­ब्र­ह्म­व्या­प­नात् । न च साधनव्यापकः ; पक्षे साध­न­व­त्य­प्य­प्र­वृत्तेः । साध्यव्यापक इत्युक्ते शैलेऽ­न­ल­स्या­नु­मा­या­मि­न्ध­न­व­त्त्व­स्या­प्यु­पा­धिता स्यात् तद्वारणाय साधनव्यापक इत्युक्तम् । एतावत्युक्ते कारी­ष­व­ह्नि­म­त्त्वा­दे­र­प्यु­पा­धित्वं भवेत्तन्मा भूदिति साध्यव्यापक इत्यभिहितम् । नन्वेवं पक्षे­त­र­त्व­स्या­प्यु­पा­धिता स्यात्त­द्व्या­वृ­त्त्यर्थं साध्य­स­म­व्या­प्ति­रिति विशेषणीयमिति तन्न । यतः - साध्याभावेन साकं स्वाभा­व­व्या­प्ते­र­नि­श्च­यात् । कुतः पक्षेतरत्वस्य साध्यव्यापकता मतता ॥ यदि हि यत्र पक्षान्यत्वं नास्ति , तत्र साध्यमिति व्यति­रे­क­व्या­प्ति­र­व­धा­र्येत , यदा यत्र साध्यं तत्र पक्षा­न्य­त्व­मि­त्य­न्वयः । अन्यथा पक्षेतरत्वं त्यक्त्वापि साध्यसत्त्वे कुतस्तस्य तद्व्यापकता ? न चायमवधारयितुं शक्यते ; यत्र पक्षान्यत्वं नास्ति पक्षे तत्र साध्याभावस्य संदिग्धत्वात् । एवं च साध्य­व्या­प­क­त्वे­नैव पक्षेतरत्वस्य व्यावृत्तेः समपदं मुधेति। द्विधा चोपाधिस्तत्र शङ्कि­तोऽ­नु­कू­ल­त­र्का­भा­वा­दि­ना­व­ग­म्यते , निश्चितस्तु यथायोगं प्रमा­णै­र­व­धा­र्यते । सदनुमाने तु समारोपित उपाधिः साध­न­व्या­प्त्या­दि­भि­रु­द्धी­यते । शङ्कि­त­स्त्व­नु­कू­ल­तर्कैः , शङ्क्यमानश्च साध्यव्यापकः साधनाव्यापकश्च वाच्यः , तत्र साध्यव्यापकत्वं स्याद् , व्यापकं प्रति व्यापकस्य व्याप्यं प्रति व्यापकताया अव­श्यं­भा­वा­त्सा­ध­ना­व्या­प­कत्वे च साध्या­व्या­प­कत्वं भवेद् व्याप्यं प्रत्यव्यापकस्य तद्व्यापकं प्रत्य­व्या­प­क­त्व­नि­य­मा­दि­त्या­दि­भिश्च तदुद्धार इति। नन्वे­व­मु­पा­धि­सिद्धौ निरु­पा­धि­क­सं­ब­न्ध­रू­प­व्या­प्ति­सि­द्धि­स्त­त्सिद्धौ च साध­ना­व्या­प­क­त्वा­दि­रू­प­ल­क्ष­ण­सिद्धिः सिद्धे च लक्षणे उपाधिसिद्धिरिति चक्रकं स्यात् । नेति नवीनाः - साध्य­व­न्नि­ष्ठा­त्य­न्ता­भा­वा­प्र­ति­यो­गि­त्व­रू­प­त्वा­त्सा­ध्य­व्या­प­क­त्वस्य साध­न­व­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वा­त्म­क­त्वाच्च साध­ना­व्या­प­क­त्व­स्येति। नवीनतरास्तु न साध्यत्वं सपक्षे यत्रो­पा­ध्य­व­धा­र­णम् । अथ साध्यत्वेन संभाव्यमानत्वं , तदेव कुतः ? यदि व्यापकत्वादिति मन्वीरन् , तदेव तर्हि चक्रकमापतितमिति घट्टकुठ्व्यां प्रभातमिति। अस्माकं त्वनि­र्व­च­नी­य­त्वा­दि­ना­म­त्रा­ना­स्थेति ।
अस्तु तर्ह्य­नौ­पा­धि­क­सं­ब­न्ध­नि­श्च­योऽ­न्त­र­ङ्ग­त्वे­नैव , नेत्याह –
तन्नि­श्च­य­श्चा­न्व­येति ।
साध्य­व्या­प­क­त्वा­दि­त्यु­क्त­ध­र्मा­न्त­र­स्या­नु­प­लब्धौ सत्यां सतो­श्चा­न्व­य­व्य­ति­रे­क­यो­र्व्या­प्ति­नि­श्चय आयतते सिध्यति प्राप्नो­ती­त्यर्थः । अचेतनस्य चेतनाप्रेरितस्य कार्य­ज­न­क­त्वा­भा­वाच्च चेत­न­प्र­यु­क्ता­न्व­य­व्य­ति­रे­क­यो­र­ति­स्फु­ट­त्वम् ।
अन्व­य­व्य­ति­रे­क­व­न्मा­त्रा­नु­माने एतत् पर्व­ते­त­र­त्वा­दे­र­प्य­नु­मानं स्यादत आह –
एवमपीति ।
आन्तराः प्रमा­तृ­बु­ध्द्यै­क्या­ध्य­स्त­चै­त­न्य­धर्माः , एतद्वैपरीत्यं बाह्यत्वम् ।
एतस्य च व्याख्यानं –
विच्छिन्नेति ।
चन्द­ना­द्य­न्व­येऽपि सुखा­दि­व्य­भि­चा­राच्च नैक्यमित्याह –
यदि पुनरिति ।
सुखयतीति सुखः । क्रमेलक उष्ट्रः ।
प्रधाने हेतो­र­प­र्य­व­सा­नाद् अर्था­न्त­र­ता­मा­श­ङ्क्याह –
संस­र्ग­पू­र्व­कत्वे हीति ।
नानात्वेन सहैकस्मिन् अर्थे समवेतः संसर्गः स तथोक्तः । परिमितत्वं किं योजनादिमितत्वम् , उत स्वस­त्ता­म­ति­क्रम्य वर्तमानेन वस्तुना सह वर्तमानत्वमथ वा स्वासं­सृ­ष्ट­व­स्तु­म­त्त्वम् ।
नाद्य इत्याह –
यदि तावदिति ।
द्वितीयमाशङ्कते –
अथेत्यादिना ।
कारणं हि कार्यान्तरमपि व्याप्नोति न कार्यमतो यावत्कारणं शब्दतन्मात्रं तावन्न व्याप्नोति नभः , गन्धा­द्य­व्या­प्ति­स्तस्य प्रसिद्धैवेति।
परिहरति –
हन्तेति ।
न तृतीय इत्याह –
पर­स्प­र­सं­स­र्ग­स्त्विति ।
सत्त्वादीनां चितिशक्त्या आत्मना परस्परं च संसर्गो नास्तीत्यर्थः ॥१॥
रचनायाः प्रवृत्तेः सकाशाद्भेदमाह –
रचनाभेदा इति ।
कार्य­ग­त­वि­न्या­स­वि­शेषा इत्यर्थः । अपि त्वित्यस्य या प्रवृत्तिः सापि चेतनाधिष्ठानमेव गमयतीति वक्ष्य­मा­णे­ना­न्वयः ।
प्रवृ­त्ते­र्हे­तु­माह –
साम्येति ।
वैषम्यं भवतीति शेषः ।
वैषम्ये सत्य­ङ्गा­ङ्गित्वं भवतीत्याह –
तथा चेति ।
अङ्गा­ङ्गि­त्वा­त्का­र्यो­त्पा­द­न­रूपा प्रवृ­त्ति­र्भ­व­ती­त्याह –
एवं हीति ।
एवं चाङ्गि­त्वा­नु­प­प­त्ते­श्चे­त्यस्य सूत्रस्य(ब्र.अ.२.पा.२.सू.८) प्रवृ­त्ते­श्चे­त्य­नेन पौन­रु­त्त­य­म­र्था­न्नि­र­स्तम् । चेत­ना­न­धि­ष्ठि­त­प्र­धा­न­सा­ध­क­त्वेन परोक्तस्य प्रवृत्तेरिति हेतोरेव चेत­ना­धि­ष्ठि­ता­चै­त­न­सिद्धौ हेतु­त्वे­ना­भि­धा­ना­त्सा­ध्य­वि­रु­द्धो­क्ति­र्व­क्रोक्तिः ।
औपनिषदेन न दृष्टा­न्ता­नु­सा­रेण ब्रह्मकारणत्वं समर्थ्यतेऽतः केवलस्य चेतनस्य प्रवृत्तिर्न दृष्टा इत्य­चो­द्य­मि­त्या­श­ङ्क्याह –
त्वया किलेति ।
उप­नि­ष­द­र्थ­सं­भा­व­ना­याम् अनुमानं सामान्यतो दृष्टं वाच्यमित्यर्थः । अवि­द्या­प्र­त्यु­प­स्था­पि­ते­त्या­दि­भा­ष्येण स्वपक्षं समा­धा­स्या­मी­त्य­भि­सं­धि­मा­नि­त्यर्थः । न केवलस्य चेतनस्य प्रवृ­त्ति­र्दृ­ष्टे­त्ये­त­त्स­त्य­मि­त्यर्थः । अत्र च शेषत्वेन तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृ­त्ति­र्दृ­ष्टेति भाष्य­म­नु­स­न्धे­यम् । इत्थं केवलस्य चेतनस्य प्रवृ­त्त्य­भा­व­म­भ्यु­प­ग­म्या­चे­त­नस्य प्रवृ­त्ति­श्चे­त­ना­धी­नेति समर्थिते सांख्य आहेत्यर्थः ।
न चेतनस्य प्रवृ­त्त्या­श्र­य­त्व­मि­त्यत्र लौका­य­ति­क­भ्र­मोऽपि लिङ्गमित्याह –
यतश्चेति ।
रचनायाः प्रवृत्तेर्वा हेतो­श्चि­दा­त्म­का­र­ण­क­त्व­सि­द्धि­र्ज­गतो नेत्यर्थः । यदुक्तं न चेतनः प्रवृ­त्त्या­श्र­य­त­ये­ष्यत इति , तत्र किं स्वरू­प­स्या­सि­द्धि­र­भि­मता ।
उत प्रवृ­त्ति­सं­ब­न्धस्य ? नाद्य इत्याह –
न तावदिति ।
न द्वितीय इत्याह –
तत्रेति ।
आकाशस्य प्रवृ­त्त्य­न्व­य­मा­त्रम् , चैतन्यस्य तु व्यति­रे­कोऽ­प्य­स्तीति वैषम्यमित्यर्थः ।
लौकायतिकोऽपि चेत­न­त­न्त्रा­म­चे­त­न­प्र­वृत्तिं मन्यते , सांख्यस्तु ततोऽ­प्य­वि­वे­की­त्याह –
भूतेति ।
भूतानां चेतनेति येषां मतं ते तथोक्ताः ।
एवं ताव­द्र­था­दि­व­न्मू­ल­का­र­ण­स्या­प्य­चे­त­नस्य चेत­ना­धी­न­प्र­वृ­त्ति­कत्वं साधितम् , तत्र दृष्टा­न्ता­सि­द्धि­मा­श­ङ्कते –
स्यादेतदिति ।
रथादिप्रवर्तको देह एव , स तु चेतन इत्यविवेकिनां प्रसि­द्धि­र­नू­दिता , साक्षा­द्य­च्चे­तनः सोऽस­ङ्ग­त्वा­द­प्र­व­र्तक इत्यर्थः ।
तवेति ।
तदापीत्यर्थः ।
रूपादीनां सन्नि­धि­मा­त्रे­णे­न्द्रि­य­प्र­व­र्त­कत्वे चेत­ना­धि­ष्ठि­ता­द­चे­त­ना­त्का­र्य­र­च­नेति निय­म­भ­ङ्ग­मा­शङ्क्य पर­सि­द्ध­मु­दा­हृ­त­मिति परिहरति –
सांख्यानां हीति ।
अर्थाकारेणेति ।
अर्थ­वि­ष­य­ज्ञा­ना­का­रे­णे­त्यर्थः । उक्तं हि शब्दादिषु पञ्चा­ना­मा­लो­च­न­मा­त्र­मि­ष्यते वृत्तिरिति ॥२॥
यदि पयोम्बुनोः सपक्षत्वमपि , कथं तर्हि साध्य­प­क्ष­नि­क्षि­प्त­त्वा­दिति भाष्यमत आह –
साध्य­प­क्षे­त्यु­प­ल­क्ष­ण­मिति ॥३॥
प्रधानस्य सह­का­र्य­भा­वा­सिद्धेः सूत्र­भा­ष्या­यो­ग­मा­श­ङ्क्याह –
यद्यपीति ।
सर्गस्य निर्माणे कर्मवासना न प्रभवतीति चेत्क्व तर्हि तासा­मु­प­यो­ग­स्त­त्राह –
प्रधानमेवेति ।
निमित्तं धर्मादि । प्रकृतीनां मूल­प्र­कृ­ते­र्म­ह­दा­दि­प्र­कृ­ति­वि­कृ­तीनां च अप्रयोजकं स्वकार्ये सर्गे , किंतु वरणस्य प्रतिबन्धकस्य भेदो भङ्गस्ततो निमित्ताद्भवति , क्षेत्रिकवद् - यथा हि क्षेत्र­का­री­के­दा­रा­दपां पूर्णा­त्के­दा­रा­न्तरं समं निम्नं वा पिप्लावयिषुरपो न पाणिनाऽपकर्षति , किंतु वरणं तासा भिनत्ति , भिन्ने तस्मि­न्स्व­य­मे­वापः केदारान्तरं प्लावयन्ति , तद्वदिति पात­ञ्ज­ल­सू­त्रार्थः ।
तर्ह्यपनीते प्रतिबन्धे सृजतु प्रधानमत आह –
ततश्चेति ।
सदा­त­ना­द­प­ना­य­का­त्स­दा­प­नीतः प्रतिबन्ध इति सदैव सर्गः स्यादित्यर्थः ।
ईश्वरस्य तु सर्व­ज्ञ­त्वा­त्प्रा­णि­क­र्म­प­रि­पा­का­व­स­रा­भि­ज्ञस्य लीलादिना कदाचित् स्रष्टृत्वं न सर्वदेत्याह –
ईश्वरस्य त्विति ।
यद्दृच्छयेति ।
यथा­स्म­दा­दे­स्तृ­ण­च्छे­दादौ निय­त­नि­मि­त्ता­न­पेक्षा प्रवृ­त्ति­रे­व­मि­त्यर्थः ॥४॥
वह्न्यादीति ।
पित्त­धा­तु­रा­दि­श­ब्दार्थः ॥५॥
कीदृ­शोऽ­ना­धे­या­ति­श­यस्य भोग इत्यादिभाष्यं व्याचष्टे –
न केवलमिति ।
सिद्धा­न्तेऽ­प्य­ता­त्त्वि­क­भो­गा­भ्यु­प­ग­माद् अवास्तवस्य न निषेध इत्यर्थः ।
उभ­या­र्थ­ता­भ्यु­प­ग­मेऽपि भोक्ताव्यानां प्रधा­न­मा­त्रा­णाम् आन­न्त्या­द­नि­र्मो­क्ष­प्र­सङ्ग एवेति भाष्यं , तदनुपपन्नमिव ; अपवर्गार्थमपि प्रधानप्रवृत्तौ सत्यां क्रमेण भोग­मो­क्षो­प­पत्तेः , योगै­श्व­र्या­च्चा­न­न्त­वि­का­राणां युग­प­दु­प­भो­ग­सं­भ­वा­दि­त्या­श­ङ्क्याह –
न तावदपवर्ग इति ।
किं निःशेषविकारान् भोजयितुं प्रधानं प्रवर्तते उत कियतोऽपि ।
नान्त्य इत्याह –
भोगस्य चेति ।
आद्ये निषे­ध­भा­ष्य­मु­प­पा­द­यति –
निःशेषेति ।
यद्यपि सकृ­च्छ­ब्दा­द्यु­प­ल­म्भाद् भोगः समाप्तः ; तथापि न पुनरप्रवृत्तिः ।
तत्त्व­ज्ञा­न­म­न्त­रेण मोक्षासिद्धेः प्राक्च मोक्षा­द्भो­ग­स्या­व­श्य­क­त्वा­दिति शङ्कते –
कृतभोगमपीति ।
सत्त्वं बुद्धिः । क्रिया­स­म­भि­हा­रोऽ­भ्यासः । अपवर्गः किं शब्दा­द्य­नु­प­ल­ब्धि­र्बु­द्धि­क्षे­त्र­ज्ञ­भे­द­ख्या­तिर्वा ।
यदि आद्यस्तत्राह –
हन्तेति ।
न द्वितीय इत्याह –
नचास्या इति ।
उभयार्थमिति ।
भोग­मो­क्षा­र्थ­मि­त्यर्थः । शक्ति­श­क्ति­म­तो­र­भे­दा­त्पु­रुषो दृक्शक्तिः । दृक्श­क्त्य­नु­च्छे­द­व­दिति इदानीं भाष्यपाठो दृश्यते ।
निबन्धे तु सर्ग­श­क्त्य­नु­च्छे­द­व­दिति पाठं दृष्ट्वा व्याचष्टे –
सर्गेति ।
दृक्शक्तिः किं सर्व­प्र­धा­न­का­र्य­वि­षया , एकदेशविषया वा ।
आद्ये दोषमाह –
यथा हीति ।
यथैकेन पुंसा स्वविकारदर्शनेन कृतार्थापि सर्गशक्तिः पुरुषान्तरं प्रति दर्श­यि­तु­म­नु­च्छे­दा­द­नु­च्छे­देन प्रवर्तते , एवं दृक्शक्तिरपि सकृ­द्दृ­श्य­द­र्श­नेन चरितार्थापि तं पुरुषं प्रति सर्व­प्र­धा­न­वि­का­रा­णा­म­र्थ­व­त्त्वाय सर्वा­न्द्र­ष्टु­म­नु­च्छे­देन प्रवर्तत इत्यर्थः ।
द्वितीयं प्रत्याह –
सकृद्दृश्येति ।
एकपदे एक­प­द­न्या­सा­व­च्छि­न्न­क्षणे ॥६॥
अर्था­भा­व­सू­त्रोक्तं दूषणमनुजानाति –
मा भूदिति ।
शक्त्य­र्थ­वत्त्वं दृक्श­क्ति­स­र्ग­श­क्त्य­व­त्त्वम् । शङ्केत्यत्र ग्रन्थच्छेदः ॥७॥
प्रधा­ना­व­स्था­ना­शेऽपि अवस्थावतां गुणा­ना­म­ना­शा­त्स्व­रू­प­प्र­णा­श­भ­या­दिति भाष्या­यो­ग­मा­शङ्क्य विकल्पमुखेन व्याचष्टे –
यदि प्रधानावस्थेति ।
भाष्ये – अन­पे­क्ष­स्व­रू­पा­णा­मिति । इत­रे­त­र­म­न­पे­क्ष­मा­णानां गुण­प्र­धा­न­त्व­ही­ना­ना­मि­त्यर्थः ।
ननु प्राची­न­वै­ष­म्य­प­रि­णा­म­सं­स्कार एव पुन­र­वै­ष­म्य­हे­तु­रस्तु किं बाह्य­क्षो­भ­यित्रा ? तत्राह –
यत्सा­म्या­व­स्थ­येति ।
प्रलयसमये यत्साम्याकारेण सुचिरं परिणतं तत्सं­स्का­र­प्रा­चु­र्या­त्पु­न­रपि साम्याकारेण परिणमते , तद् द्वयोः संस्कारयोः समत्वेऽपि प्राची­न­वै­ष­म्य­सं­स्का­र­स्या­भि­न­व­सा­म्य­सं­स्का­रेण व्यव­धा­ना­त्सा­म्य­प­रि­णाम एव युक्त इत्यर्थः । विलक्षणश्चासौ कार्यं जनयितुं प्रत्ययते आगच्छतीति तथोक्तः ॥८॥९॥
एका­द­शे­न्द्रि­याणां कथं सप्त­त्व­मि­त्या­शङ्क्य बुद्धी­न्द्रि­याणि त्वागि­न्द्रि­येऽ­न्त­र्भा­व­यति –
त्वङ्मा­त्र­मे­वेति ।
अने­क­रू­पा­दि­ग्र­ह­ण­स­मर्थं यत् त्वङ्मात्रं तदेव बुद्धीन्द्रियं तच्चैकमित्यर्थः ।
ननु तप्य एव मा भूद् यथाऽस्तीत्यत्र , तथा च कथ­म­द्वै­त­व्या­घा­त­क­स्त­प्य­ता­प­क­भा­व­स्त­त्राह –
नहि तपिरिति ।
कर्तृस्थो भावः फलं यस्य स तथोक्तः ।
परमसमवेतेति ।
कर्म­त्व­व्या­प­को­क्ति­रि­यम् । तद्व्यावृत्त्या तद्व्या­वृ­त्त्यैव न लक्षणोक्तिः । तथा सति वृक्षात्पतिते पर्णे पर्ण­स­म­वे­त­प­त­न­क्रि­या­फ­ल­वि­भा­गा­भाजो वृक्ष­स्या­पा­दा­न­स्यापि कर्म­त्व­प्र­स­ङ्गात् । ननु -‘आत्मानं जानाति’ ‘पच्यते फलं स्वय­मे­वे’त्य­त्रै­क­स्यापि कर्मकर्तृभावात् कथमस्य कर्म­त्व­व्या­प­क­त्वम् ? उच्यते – सोपाध्यात्मनि उपाधिभेदादेव भेदान्निरूपाधौ यां वृत्तिं कर्मत्वं तस्या एवोपाधित्वस्य वर्णितत्वात् , पच्यते फलं स्वयमेवेत्यत्र कर्मत्वोपचारात् । पाणिनिर्हि कर्मवदित्याह - तस्माद् यत्कर्म तत्प­र­स­म­वे­त­क्रि­या­फ­ल­भा­गी­त्यर्थो नतु यदुक्तविधं तत्कर्मेति।
ननु क्रिया­फ­ल­शा­लि­त्व­मा­त्र­व्याप्तं कर्मवत्वम् , वृथा परविशेषणम् ; तथा च तप्तुरेव तप्यत्वमस्तु , तत्राह –
अनन्यत्व इति ।
तप्यस्य तापकादनन्यत्वे सति अक­र्म­त्व­प्र­स­ङ्गा­दि­त्य­न्वयः ।
निदर्शनं –
चैत्रस्येवेति ।
स्वसमवेता गमनक्रिया तस्याः फलं नग­र­प्रा­प्ति­स्त­च्छा­लि­नोऽपि चैत्रस्य पर­त्वा­भा­वा­द­क­र्म­त्व­व­त्त­प्य­स्या­प्य­भे­दा­भ्यु­प­ग­ता­व­क­र्म­त्व­प्र­स­ङ्गा­दि­त्यर्थः ।
ननु यथा जलधिः स्वभावभूतैरपि वीच्या­दि­भि­र्मु­च्यते , तथा तप्य­ता­प­का­भ्या­मात्मा , तत्राह –
जलधेश्चेति ।
अर्थस्यापि स्वर्गा­दे­स्ता­प­कत्वं भाष्यो­क्त­मु­प­पा­द­यति –
अर्थोऽपीति ।
दुनोति परितापयति । दृक्शक्तिः पुरुषः । दर्शयति स्वविकारान् पुंस इति दर्शनशक्तिः प्रधानं , तस्य च बुद्धिरूपेण परिणतस्य चिच्छायापत्तिः संयोगः । अविविक्तयोः प्रधा­न­पु­रु­ष­यो­र्द­र्श­नम् अविवेकदर्शनम् ।
भाष्ये स्यादपीत्यपिना न साक्षात्पुंसो मोक्ष इत्यसूचि , तदाह –
अत्र चेति ।
बन्ध­मो­क्ष­स्व­रू­पा­लो­च­नेन तयोः साक्षा­द्बु­द्धि­ध­र्म­त्व­माह –
तथा हीति ।
अविभागो बुद्धिसत्त्वस्य पुरु­षा­द­वि­वे­क­स्तेन बुद्धेर्जडाया अप्यापन्नं गुण­स्व­रू­पा­व­धा­र­णम् । अनु­कू­ल­प्र­ति­कू­ल­श­ब्दा­दि­ज्ञा­नस्य विवि­क्त­पु­रु­ष­ज्ञा­नस्य च बुद्धि­प­रि­णा­म­त्वाद् बुद्धेरेव बन्ध­मो­क्षा­वि­त्यर्थः । मोक्षनिरूपणाय च बन्धनिरूपणम् । अत एवापवृज्यत इत्येवाह ।
इदानीं स्वामिनि पुरुषे बन्धाद्युपचारं सदृष्टान्तमाह –
तथापीति ।
अवि­भा­ग­स्या­वि­वे­क­स्या­पत्तिः प्राप्ति­स्त­ये­त्यर्थः ।
औप­नि­ष­द­द­र्श­ना­सा­म­ञ्जस्यं निषेधति –
नेति ।
किं वस्तु­त­त्त­प्य­ता­प­क­वि­भा­गा­नु­प­प­त्ति­रु­च्यते , व्यवहारतो वा ।
आद्ये इष्टप्रसङ्ग इत्याह –
एकत्वादेवेति ।
उपात्तं भाष्यं व्याख्याति –
यत इति ।
द्वितीये नानु­प­प­त्ति­र्व्य­व­हा­रतो भेद­स्वी­का­रा­दि­त्याह –
तस्मादिति ।
परोक्तदोषानुवाद एव भाष्ये भाति –न दूष­ण­मि­त्या­श­ङ्क्या­ध्या­हा­रे­णे­ष्ट­प्र­स­ङ्ग­क­थ­न­प­रतां स्फोटयति–
इत्यस्मदिति ।
यदि भ्रान्तत्वं तप्यतापकभावस्य , तर्ह्येष एव दोष इत्याशङ्क्य साम्य­प्र­ति­पा­द­नार्थं तत्र त्वयापीति भाष्यम् , तद् व्याचष्टे –
सांख्योऽपि हीति ।
ब्रुवा­णोऽ­पी­त्य­न्वयः । सत्त्वं बुद्धिगतः सत्त्वगुणः । दर्शितो विषयो यस्य पुंसः सः तथा तस्य भावस्तत्त्वं तत इति।
अवि­भा­गा­प­त्ति­स्तर्हि क्षीरवत्सत्येति तन्निमित्ता तप्तिः पुंसः सत्या स्यादत आह –
तद­वि­भा­गा­प­त्ति­श्चेति ।
अविवेको ह्यविभाग इति । नित्य­त्वा­भ्यु­प­ग­माच्च तापकस्येति भाष्यमुपात्तम् । अनि­र्मो­क्ष­प्र­सङ्ग इति तस्या­ती­ता­न­न्त­र­प­दा­नु­ष­ङ्गेण व्याख्या । न दृश्यतेऽनेन पुरुषत्वमिति अदर्शनं तमः ।
तस्य तप्ति­हे­तु­त्व­मु­प­पा­द­यति –
न तावदित्यादिना ।
तमसः तप्तस्य निवृत्त्ययोगात् परस्य तन्नि­मि­त्त­त­प्ते­र­नाश उक्तः ।
सिद्धान्ते त्वविद्याया अव­स्तु­त­स्त­प्ति­हे­तो­र्वि­द्यया निवृ­त्ते­र्मो­क्षो­प­प­त्ति­माह –
यथा हीति ।
सांख्यस्य त्विति तुशब्दो नशब्दसमानार्थः ॥१०॥
इति प्रथमं रच­ना­नु­प­प­त्त्य­धि­क­र­णम् ॥

महद्दीर्घवद्वा ह्रस्व­प­रि­म­ण्ड­ला­भ्याम् ॥११॥ यद्यप्यस्य स्वप­क्ष­दो­ष­प­रि­हा­रस्य स्मृतिपादे एव सङ्गतिः ; तथापि यदि प्रधा­न­गु­णा­न­न्व­या­ज्ज­गन्न तत्प्रकृतिकं , तर्हि ब्रह्म­वि­शे­ष­गु­णा­न­न्व­यान्न तदुपादानकम् इत्य­वा­न्त­र­स­ङ्ग­ति­लो­भा­दिह लिखितः । तत्त्व­ज्ञा­न­प्र­धा­न­स्यास्य शास्त्रस्य पर­म­त­नि­रा­स­प­र­त्वा­भा­वा­न्नि­रा­कृतो निराकर्तव्य इति च भाष्य­नि­र्दे­शा­यो­ग­मा­श­ङ्क्याह –
यथैवेति ।
श्रौत­ब्र­ह्म­धी­सिद्धौ तन्निरास इत्यर्थः । एतेनेत्यत्र कारणं कार्य­न्न्यू­न­प­रि­मा­ण­मिति नियमो भग्नः , इह कारणविशेषगुणस्य कार्ये गुणारम्भनियमो भज्यत इति सत्यपि भेदे रीति­सा­म्य­कृ­त­जा­मि­त्व­प­रि­हारः ।
प्रपञ्च आरभ्यत इति ।
कारणगुणस्य प्रक्रम उपक्रमो निय­त­पू­र्व­सत्त्वं तेन तमसमवायिकारणं कृत्वेत्यर्थः ।
तर्कस्य विप­र्य­य­म­नु­मा­न­माह –
तस्मादिति ।
विम­त­म­चे­त­नो­पा­दा­नकं कार्य­द्र­व्य­त्वा­त्सं­म­त­व­दि­त्यर्थः । ज्ञानादौ व्यभिचारवारणाय द्रव्यपदम् । माया­श­ब­ल­ब्र­ह्मो­पा­दा­न­त्वेन सिद्धसाधनत्वं व्याव­र्त­यि­तु­मे­व­कारः ।
प्रधा­न­सि­द्व्याऽ­र्था­न्त­र­त्व­मा­श­ङ्क्याह –
तच्चेति ।
इत्युक्तमिति ।
एतेन शिष्टापरिग्रहा (ब्र.अ.२.पा.१. सू.१२) इत्यत्र पूर्वपक्षे इत्यर्थः ।
महाप्रलये प्रय­त्ना­भि­घा­ता­द्य­भा­वात् कथमणुषु कर्म ? तत्राह –
अदृष्टवदिति ।
ननु किं द्व्यणु­का­र­म्भ­व्य­व­धि­नाऽत आह –
बहवस्त्विति ।
असं­यु­क्ता­ना­मा­र­म्भा­न­भ्यु­प­ग­मात् सिद्ध­सा­ध­न­मा­श्क्याह –
संयुक्ता इति ।
सहसेति ।
द्व्यणु­क­म­ना­र­भ्ये­त्यर्थः । अनेन बाधोऽपोदितः । तन्त्वादिषु व्यभि­चा­र­वा­र­णा­र्थ­म­णु­त्वम् इति। द्व्यणुकेषु अनै­का­न्ति­क­त्व­वा­र­णार्थं परमेति । परमाण्वोः स्वापेक्षया स्थूल­द्व्य­णु­का­र­म्भ­क­यो­र­व्य­भि­चा­राय बहुत्वादिति।
साध्य­वै­ल­क्य­मा­श­ङ्क्याह –
यदि हीति ।
परमाणवः किम् अनारभ्य द्व्यणुकादीनि कुम्भमारभन्त इति उतारभ्य ।
नाद्य इत्याह –
न घटे इति ।
सत्येव घटे बुध्द्या विभज्यमाने कपि­ला­दि­ख­ण्डा­व­य­विनो नोपलभ्येरन् । तथाच त्रस­रे­णु­व­द­नु­प­ल­ब्ध­रे­खो­प­रेखे घटे संस्था­न­वि­शे­षा­नु­प­प­त्ते­र्व्य­ञ्ज­का­भा­वाद् घट­त्वा­नु­प­ल­ब्धि­प्र­सङ्ग इत्यर्थः ।
न द्वितीय इत्याह –
घटस्यैव त्विति ।
यदि हि परमाणव एव खण्डावयविनम् आरभ्य महावयविन आरभेरन् , तथा सति सर्वएव ते परमाणुषु संभवेयुः । तच्च न ; मूर्ता­ना­म­व­य­वा­व­य­वि­भा­व­वि­र­हि­णा­मे­क­दे­श­त्वा­भा­व­नि­य­मात् । अवयवावयविनौ हि तन्तुपटावेकत्र संयोगिभूभागे भवतो नतु परमाणुषु सम­व­य­ता­म­व­य­वि­ना­मस्ति पर­स्प­र­म­व­य­वा­व­य­वि­भाव इति न समानदेशता । तस्माद्यपि परमाणुभिः स्थूलमारभ्येत घट एव वाऽऽरभ्यः स्यान्न कपा­ला­दी­नी­त्यर्थः ।
यदि न घट एव पर­मा­णु­भि­रा­र­ब्ध­स्तदा न केवलं विद्यमाने घटे संस्था­ना­नु­प­ल­म्भ­प्र­सङ्गः , किंतु नाशादूर्ध्वमपि कपा­ला­द्य­नु­प­ल­म्भ­प्र­सङ्ग इत्याह –
तथा सतीति ।
न च वाच्यं कुम्भ­भ­ङ्ग­स­म­न­न्त­र­म­व­स्थि­त­सं­यो­ग­स­चिवाः परमाणवः कपा­ल­क­णा­दी­ना­र­भन्ते , सति तु कुम्भे तेन प्रति­ब­न्धा­द­स­न्तोऽपि संयोगा नारभन्त इति ; यतः कपालादीनामेव सहसारम्भे संस्था­ना­नु­प­लम्भः स्याद् , द्व्यणु­का­दी­न्या­रभ्य तदारम्भे मूर्तानां समानदेशत्वायोगो द्व्यणु­का­दि­प्र­क्र­मेण तदारम्भे कुम्भारम्भोऽपि तथा भवत्विति वृथा शुष्कवर्णनमिति। ननु - द्व्यणुकैरपि यदि बहुभिः कार्यमारभ्यते , तर्हि घटा­द­योऽ­प्या­र­भ्यन्तां , तथा चान्त­रा­लि­क­का­र्या­नु­प­ल­म्भ­प्र­सङ्गः । अथ तैस्त्र­स­रे­णु­रे­वा­र­भ्यते , तर्हि परमाणुभिरपि स एवारभ्यतां , मुधा द्व्यणुकं विशेषो वाच्यः , उच्यते – किं सर्वत्र पर­मा­णू­ना­मा­र­म्भ­क­त्व­मुत क्वचिद् द्व्यणु­का­दि­प्र­क्र­मोऽपि । नाद्यः ; यतोऽस्ति ताव­ल्लो­ष्ट­मू­ला­व­य­व­प­र­मा­णु­सं­ख्या­पे­क्षया लोष्टा­व­य­व­मू­ल­प­र­मा­णूनां संख्यापकर्षः । अन्यथा लोष्ट­त­द­व­य­व­यो­र्गु­रु­त्वा­दि­सा­म्य­प्र­स­ङ्गात् । एवं तदपेक्षया तदवयवतदवयवानां मूला­व­य­व­प­र­मा­णु­सं­ख्या­प­कर्षो द्रष्टव्यः । नचायं निरवधिः ; एक­त्वा­त्प­र­न्यू­न­सं­ख्या­सं­भ­वात् । न च त्रित्व­मा­र­म्भ­क­सं­ख्या­वधिः ; ततः पर­म­प्ये­क­त्व­द्वि­त्व­भा­वात् । न चैकत्वमेकस्य संयो­गा­नु­प­प­त्ता­व­स­म­वा­यि­का­र­ण­वि­धु­र­स्या­ना­र­म्भ­क­त्वात् । तस्मा­त्स­जा­ती­य­सं­यु­क्त­प­र­मा­णु­ग­त­द्वि­त्व­मा­र­म्भ­क­सं­ख्या­प­क­र्षा­व­धि­रिति सिद्धं द्व्यणुकम् । तथाच न सर्वत्र पर­मा­णु­भि­स्त्र्य­णु­का­रम्भः । नापि द्वितीयः ; सिद्धं हि पर­मा­णो­स्त्र्य­णु­क­का­रणं द्व्यणुकं प्रति कारणत्वम् । तथाच न तस्य क्वापि त्र्यणु­क­का­र­ण­त्व­सं­भवः ; कारणजातीयस्य कार्यजातीयं प्रति अनारम्भकत्वात् । न ह्यणुजातीयः तन्तुः कार्यं पटजातीयमारभत इति। बहुत्वं प्रति बहूनां परमाणूनां सम­वा­यि­का­र­ण­त्वाद् द्रव्यं प्रतीत्युक्तम् । प्रल­येऽ­स्मा­दा­दी­ना­म­पे­क्षा­बु­द्ध्य­भा­व­मा­श­ङ्क्ये­श्व­र­बु­द्धि­मि­त्यु­क्तम् ।
तदपि हीति ।
परिमाणस्य सजा­ती­य­प­रि­मा­णा­र­म्भ­क­त्व­नि­य­मा­दि­त्यर्थः ।
कारणबहुत्वेति ।
सम­प­रि­मा­ण­दृ­ढ­सं­यो­ग­व­त्त­न्त्वा­र­ब्ध­प­ट­यो­र्मध्ये यदन्यतरस्मिन् मह­त्त्व­मु­द्रिक्तं तस्य कार­ण­ब­हु­त्वा­दु­त्पत्तिः । सम­सं­ख्य­दृ­ढ­सं­यो­ग­व­त्त­न्त्वा­र­ब्ध­योस्तु कारणमहत्त्वात् सम­प­रि­मा­ण­स­म­स­ख्य­त­न्त्वा­र­ब्धयोः पुनः कार­ण­प्रा­चु­र्या­दि­त्यर्थः ।
यथा तूलपिण्डानां प्रवयस्तथा द्व्यणु­क­यो­र्ना­स्ती­त्यत्र हेतुमाह –
तदवयवानामिति ।
प्रचयो ह्यारम्भकावयवगत शिथिलसंयोगः सम­तु­लि­त­तू­ल­पि­ष्ट­द्व­या­भ्याम् आर­ब्ध­यो­र्म­ह­त्तू­ल­पि­ण्ड­यो­र­न्य­त­र­म­ह­त्त्वा­ति­श­य­का­र­णम् । न च द्व्यणु­क­यो­र­व­य­वानां परमाणूनां भागेन लग्नत्वं भागे­ना­ल­ग्न­त्व­मि­त्येवं रूपः शिथिलसंयोगः ; निर­व­य­व­त्वा­दि­त्यर्थः ।
यदि द्व्यणुकगत संख्यैव त्र्यणु­क­ग­त­म­ह­त्त्व­का­रणं , तर्हि त्र्यणुकादिगता संख्यैव तत्का­र्य­म­ह­त्त्व­हे­तु­रस्तु इत्याशङ्क्य तत्र मह­त्त्वा­दि­सं­भ­वा­द­नि­यम इत्याह –
त्र्यणु­का­दि­भि­रिति ।
समा­न­जा­ती­य­गु­णा­न्त­र­मा­र­भन्त इति दूष­ण­व्य­भि­चा­रा­द्धे­तो­र­दू­ष­णी­क्रि­यते सूत्र­का­रे­णे­त्याह - भाष्यकारः - इममभ्युपगमं तदीययैव प्रक्रि­य­ये­त्या­दि­भा­ष्ये­णेति शेषः ।
सूत्रमुदाहृत्य व्याचष्टे –
यथेत्यादिना ।
यथाश्रुतसूत्रे परिमण्डलादपि महदारम्भो भाति स चायुक्त इति मत्वा वक्ति –
अनुक्तेति ।
अनुक्तमेव दर्शयति –
यथा द्व्यणुकमिति ।
सूत्रे वतोरधस्ताद् अण्वि­त्य­ध्या­ह­र्त­व्यम् । तथा च यथाक्रमं ह्रस्व­प­रि­म­ण्ड­लाभ्यां मह­द्दी­र्घा­णु­व­दिति सूचनाय वाशब्द इत्यर्थः । परिमाणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारि­मा­ण्ड­ल्य­म­प­र­मा­र­भत इति भाष्ये पर­मा­णु­पा­रि­मा­ण्ड­ल्याद् द्व्यणुके पारि­मा­ण्ड­ल्या­र­म्भ­नि­षे­धात् ।
अर्थाद् द्व्यणु­क­ग­ता­णु­त्वस्य पारि­मा­ण्ड­ल्या­दा­रम्भ इति भ्रमः स्यात्तं निरस्यति –
पारि­मा­ण्ड­ल्य­ग्र­ह­ण­मिति ।
ननु सूत्रे ह्रस्वपरिमाणस्य मह­द्दी­र्घा­र­म्भ­कत्वं परि­म­ण्ड­ल­प­रि­मा­णस्य ह्रस्व­प­रि­मा­णा­र­म्भ­कत्वं च भाति , तदयुक्तम् ; अनन्तरनिषेधादत आह –
गुणपरमिति ।
परि­मा­ण­व­द्द्र­व्याभ्यां द्रव्या­न्त­रा­रम्भ उच्यते , न तु गुणारम्भ इत्यर्थः ।
द्व्यणुक इति सप्तम्येकवचनं कृत्वा वाक्यार्थमाह –
द्व्यणुकाधिकरण इति ।
ननु द्व्यणु­क­ग­त­द्वि­त्वयोः कथं चतु­र­णु­का­र­म्भ­क­त्वम् , संख्याया द्रव्या­र­म्भ­क­त्वा­यो­गा­दत आह –
संख्येयानामिति ।
जाय­ते­प­दा­नु­ष­ङ्ग­माह –
योजनेति ।
पारि­मा­ण्ड­ल्या­दा­रम्भे अपोदिते विरो­धि­प­रि­मा­णा­न्त­रा­क्रा­न्ति­र­सि­द्धे­त्या­श­ङ्क्याह –
स्वकारणेति ।
स्वकारणं संख्या । व्याप्ते­र्व्य­भि­चारे उक्ते यत्र व्यभि­चा­र­स्त­त्रा­स्त्य­ना­रम्भे कार­ण­मि­त्ये­ता­व­दु­च्यते उत तत्का­र­ण­रा­हि­त्येन व्याप्ति­र्वि­शि­ष्यते ।
नाद्य इत्याह –
कारणगता इति ।
द्वितीयेऽपि किम­णु­म­ह­त्प­रि­मा­णाभ्यां द्व्यणु­क­त्र्य­णु­कयोः स्वरूपेण व्याप्तिः पारि­मा­ण्ड­ल्या­णु­त्व­यो­र­ना­रम्भे हेतुरुत तत्कारणेन ।
नाद्य इत्याह –
अपि चेति ।
न चरम इत्याह –
न चेति ।
परमाण्वादौ पारि­मा­ण्ड्ल्या­दि­गु­ण­वति सति तदा­र­ब्ध­द्व्य­णु­का­दा­व­णु­म­ह­त्त्वा­द्य­नु­प­प­त्ति­रुक्ता , संप्रति पारि­म­ण्ड­ल्या­दे­रेव त्वरा­वि­शे­षा­द­णु­त्वा­द्या­र­म्भ­कत्वं पर­मा­णु­द्व्य­णु­क­ग­त­द्वि­त्व­ब­हु­त्व­योर्वा सन्नि­धा­न­वि­शे­षा­द­णु­म­ह­त्त्वा­द्या­र­म्भ­क­त्व­मिति आश­ङ्का­नि­रा­सार्थं भाष्यं व्याचष्टे –
न च परि­मा­णा­न्त­रा­रम्भ इति ।
न च परिमाणान्तरे व्यापृतता ; पारि­मा­ण्ड­ल्या­दीनां व्यापृतत्वे पारि­मा­ण्ड­ल्या­द्या­र­म्भेऽपि व्यापृ­त­त­या­स्तु­ल्य­त्वा­दि­त्यर्थः । कार­ण­ब­हु­त्वा­दीनां सन्निधानं पारि­मा­ण्ड­ल्या­दी­नाम् अस­न्नि­धा­न­मि­त्ये­तच्च नास्ति ; कार­णै­का­र्थ­स­म­वा­यस्य तुल्या­त्वा­दि­त्यर्थः । कारणावस्था द्रव्यमिति घृतद्रवत्वं वक्ष्य­मा­ण­म­भि­प्रेत्य भाष्ये द्रव्यस्य संयोग उदाहृतः । ननु - आरभेत गुणं कार्ये सजातिं समवायिगः । विशेषगुण इत्यस्या व्याप्तेः का नु प्रतिक्रिया ॥ उच्यते – न तावदस्ति विशेषगुण इति । यत्तूदयनेन तत्र लक्षणमभाणि स्वाश्र­य­व्य­व­च्छे­दो­चि­ता­वा­न्त­र­सा­मा­न्य­वि­शे­ष­वन्तो विशेषगुणा इति। नवसु मध्ये यस्मिन्द्रव्ये वर्तन्ते तस्ये­त­रा­ष्ट­द्र­व्येभ्यो व्यावर्तका इत्युक्तं भवति । एवं च नवा­न्य­त­म­मा­त्र­वृ­त्ति­गु­णत्वं लक्षणम् । तत्र किं नवा­न्य­त­म­मा­त्र­वृ­त्तित्वं वा नवसु मध्ये एकै­क­मा­त्र­वृ­त्तित्वं नव­व्य­ति­रि­क्त­व्य­ति­रि­क्त­मा­त्र­वृ­त्तित्वं वा पृथि­व्या­दि­न­व­ल­क्ष­ण­व्य­ति­रि­क्त­व्य­ति­रि­क्ता­ने­क­स­मा­ना­धि­क­र­ण­त्वा­ना­पा­द­क­सा­मा­न्य­वत्त्वं वा । नाग्निमः ; अव्याप्तेः । न द्वितीयः ; अतिव्याप्तेः । न तृतीयः ; स ह्येवम् । पृथिव्यादीनां यानि नव लक्षणानि तेभ्यो यानि व्यतिरिक्तानि तेभ्यश्च व्यतिरिक्तानि तान्येव नव लक्षणानि तैरनेकैः समा­ना­धि­क­र­ण­त्वा­ना­पा­द­कानि यानि सामान्यानि गन्धत्वादीनि तद्वत्त्वं विशेषगुणत्वम् । तथा च विशे­ष­गु­ण­स्यै­कै­क­पृ­थि­व्या­दि­नि­ष्ठ­त्व­सि­द्धि­रिति। तन्न ; किमिदं नव­ल­क्ष­ण­व्य­ति­रि­क्त­व्य­ति­रि­क्त­त्वम् ? नव­त्व­वि­शि­ष्ट­व्य­ति­रि­क्तत्वं वा , तदु­प­ल­क्षि­त­व्य­ति­रि­क्त­व्य­ति­रि­क्तत्वं वा । नाद्यः ; नव­त्व­वि­शि­ष्ट­व्य­ति­रि­क्त­स­मु­दि­ता­ति­रि­क्तै­कै­क­पृ­थि­व्या­दि­ल­क्ष­णेभ्यो व्यतिरिक्तानि यानि गुणादिलक्षणानि तैरनेकैः समा­ना­धि­क­र­ण­त्वा­ना­पा­द­क­प­रि­मा­ण­त्व­सा­मा­न्य­वतः परिमाणस्यापि विशेष गुण­त्वा­प­त्त्या­ति­व्याप्तेः । न द्वितीयः ; उप­ल­क्षि­तै­कै­का­ति­रि­क्त­न­व­त्व­वि­शि­ष्ट­पृ­थि­व्या­दि­ल­क्ष­ण­व्य­ति­रि­क्ता­ने­क­गु­णा­दि­ल­क्ष­ण­स­मा­ना­धि­क­र­ण­त्वा­ना­पा­द­क­प­रि­मा­ण­त्व­सा­मा­न्य­वति परिमाणेऽपि गत­त्वे­नो­क्त­दो­ष­ता­द­व­स्थात् । गुण­त्वा­वा­न्त­र­जा­ति­द्वा­रै­कै­के­न्द्रि­य­ग्रा­ह्य­स­जा­तीया ये रूपादयो यानि च धर्मा­ध­र्म­भा­व­ना­सां­सि­द्धि­क­द्र­व­त्वानि तेभ्यो व्यति­रि­क्त­व्य­ति­रि­क्तत्वं विशेषगुणत्वमिति चेत् , न ; मिलि­त­व्य­ति­रि­क्तै­कै­क­व्य­ति­रिक्ते एकै­क­व्य­ति­रि­क्त­मि­लि­त­व्य­ति­रिक्ते च संख्या­दा­व­ति­व्याप्तेः । स्वस­म­वे­त­वि­शे­ष­ण­वि­शि­ष्टत्वे सति स्वाश्र­यै­क­जा­ती­य­व्य­व­च्छे­द­कत्वं विशेषगुणत्वम् व्योम­शि­वो­क्त­म­शि­वम् ; स्वग­त­सं­ख्या­त्वा­दि­वि­शे­षि­तै­र्द्र­व्य­जा­ती­य­पृ­थि­व्या­दि­व्य­व­च्छे­दकैः संख्या­दि­भि­र­ति­व्याप्तेः , गग­न­त्व­जा­ति­वि­र­हे­णै­क­जा­ती­य­क­स्वा­श्र­या­व्य­व­च्छे­द­क­श­ब्दा­व्या­प्तेश्च । स्वाश्र­यै­क­जा­ति­प­देन न वान्य­त­म­वि­व­क्षा­याम् उक्तदोषादिति। एवमन्यदपि संभवल्लक्षणं खण्डनीयमिति । किंच कार­णै­का­र्थ­स­म­वा­या­वि­शे­षाद् महत्त्वमिव मह­त्त्वा­न्त­र­म­णु­त्व­मपि कारणगतं कार्येऽणुत्वं किमिति नारभते ? कार्य­स्या­प्य­णुत्वे भोगा­ति­श­या­सिद्धेः नारभत इति चेत् , तर्हीहापि सर्वत्र जगति चेतनारम्भे शेष­शे­षि­भा­वा­भा­वा­द्भोगो न स्यादतो मायाशबलब्रह्मण उपा­दा­न­त्वा­न्मा­या­गतं जाड्यं जगति जाड्यमारभते न ब्रह्मचेतना चेतनाम् । जीवेषु तु ब्रह्मा­व­च्छे­दे­ष्व­चे­तना वर्स्त्यतीति तुल्यम् । तदु­क्त­मा­चा­र्य­वा­र्ति­क­कृता - तमः­प्र­धा­नः­क्षे­त्राणां चित्प्र­धा­न­श्चि­दा­त्म­नाम् । परः कारणतामेति भाव­ना­ज्ञा­न­क­र्मभिः ॥
इति द्वितीयं मह­द्दी­र्घा­धि­क­र­णम् ॥

उभयथापि न कर्मातस्तदभावः ॥१२॥ अस्य प्रास­ङ्गि­के­ना­न­न्त­रा­धि­क­र­णेन न संगतिरिति व्यवहितेनोच्यते । प्रधानं चेत­ना­न­धि­ष्ठि­त­त्वान्न कारणं चेत्त­र्ह्य­ण­व­स्त­द­धि­ष्ठिता भवन्तु कारणमिति सुखबोधाय सूत्रमादौ त्रेधा योजयति –
पर­मा­णू­ना­मि­त्या­दिना ।
अनवबोधरूप आत्मा अदृष्टाश्रय इति वदतामणवः किं न स्युरि­त्य­णु­स­म­वा­यी­त्यु­क्तम् ।
ननु कर्म­ण­श्चे­त­ना­न­धि­ष्ठि­त­त्व­म­सि­द्धम् ईश्व­रा­धि­ष्ठि­त­त्वा­दत आह –
निमित्तेति ।
उपरिष्टादिति ।
पत्यु (ब्र.अ.२.पा.२.सू.३७) रित्य­त्रे­त्यर्थः ।
भाष्ये स्वानुगतैरिति न जातेरिव व्यक्ती­ना­म­नु­ग­त­त्व­मु­च्यत इत्याह –
स्वसंबद्धैरिति ।
संबन्धोऽपि न संयोग इत्याह –
संबन्धश्चेति ।
आधा­री­ती­न्प्र­त्ययो नित्ययोगे । अत­श्चा­यु­त­सि­द्धि­सि­द्धेर्न कुण्ड­ब­द­र­सं­यो­गेऽ­ति­व्याप्तिः ।
समवाये प्रमाणमाह –
इहेति ।
इह प्रत्य­य­का­र्य­गम्य इत्यर्थः । संस्कारो वेगादिः । अभिघातः क्रिया­वि­शि­ष्ट­द्र­व्यस्य द्रव्यान्तरेण संयोगविशेषः । यथो­द्य­मि­त­नि­पा­ति­त­मु­स­ल­स्यो­लू­ख­लेन । नोदनं तु संयुक्तस्य स एव संयोगः प्रय­त्न­वि­शे­षा­पेक्षः , यथा संन­द्ध­क­र­श­र­सं­योगः क्षेपा­नु­कू­ल­प्र­य­त्ना­पेक्षः । निमि­त्ता­पे­क्ष­त्वेन समानयोगक्षेमौ नोद­न­सं­स्का­रा­वि­त्यर्थः ।
तथापीश्वरस्य चैत­न्य­म­स्ती­त्या­श­ङ्क्याह –
क्षेत्र­ज्ञ­स्येति ।
शङ्कत इति ।
परमाणूनां कल्पिता इति वक्ष्य­मा­ण­प्र­ती­क­ग्र­ह­णे­ना­नु­षङ्गः ।
ननु परैः कल्पिताः प्रदेशा नेष्यन्ते , किंतु परमाणौ संयोगस्य वृत्त्यवृत्ती इत्याशङ्क्य वृत्त्य­वृ­त्ति­पक्षे व्याघा­ता­न्नि­रस्ते , गत्य­भा­वा­द्वै­शे­षिको यदि परमाणौ संयो­ग­स्या­व्या­प्य­वृ­त्तये कल्पितं प्रदेशं मन्येत , स भाष्ये आशङ्क्य निरस्यत इति वक्तुं वृत्त्य­वृ­त्ति­पक्षं तावदाह –
यद्यपीति ।
व्याघातमाह सिद्धान्ती –
कैषेति ।
परिहरति वैषेषिकः –
एषेति ।
घटादिषु हि संयोगस्य वृत्त्यवृत्ती दृश्येते , यदि तत्रा­प्य­व­य­व­वि­भा­गेन , तर्हि यावत्परमाणु तथात्वे परमाणोश्च निरंशत्वे संयोग एव न स्यादिति वृत्त्यवृत्ती एव तस्या­व्या­प्य­वृ­त्ति­ते­त्यर्थः । सूद्धारां सुप­रि­हा­रा­मा­पा­द्ये­त्यर्थः ।
शङ्कायाः सूद्धा­र­त्वा­सि­द्ध्यर्थं वृत्त्य­वृ­त्ति­पक्षं दूषयति –
न ह्यस्तीति ।
यदि भावा­भा­व­यो­रे­क­त्रा­वि­रो­ध­स्तर्हि न क्वचिदपि भेदोऽ­व­का­श­मा­सा­द­येत्स हि विरु­द्ध­ध­र्मा­द्या­स­रूपः , विरोधाय च त्वया जलाञ्जलिर्दत्त इत्यर्थः । प्रदेशकल्पनयापि कल्प्य इति परे­णा­प्य­ङ्गी­का­र्य­मि­त्यर्थः ।
नन्वभिघातादय इति ।
प्राक् प्रल­या­द­भि­घा­ता­दीनां हेतु­त्व­सं­भ­वा­दि­त्यर्थः ।
सर्व­स्मि­न्न­णा­व­प­र्या­ये­णा­भि­घा­ता­दयो न संभवन्तीत्यत्र हेतुमाह –
नियमेति ।
सत्यपि पृथिव्यादौ शरीरादिलयादेव दुःख­च्छे­द­सि­द्धे­र­प्र­यो­ज­क­स्त­स्मिन् पृथिव्यादिलय इत्याह –
तथापीति ।
भवन्मते तावन्न समवायः संबन्धिभ्यां कल्पि­त­ता­दा­त्म्य­वान् । तथा च स्वत­न्त्रोऽ­सं­बद्धः सन् संबन्धिनौ न घट­यि­तु­म­र्ह­ती­त्यर्थः ॥१२॥
सम­वा­य­स्त­न्तु­प­टाभ्यां संबद्धः तन्नि­या­म­क­त्वा­त्का­र­ण­व­दि­त्य­त्रा­सं­ब­न्ध­त्व­मु­पा­धि­मा­श­ङ्कते –
अथासाविति ।
अनवस्थया पक्षे साध्या­भा­व­नि­श्च­या­त्प­क्षे­त­र­स्या­प्यु­पा­धिता संबन्धिनोर्न घट­यि­तु­म­र्ह­ती­त्यर्थः । परस्परं स्वस्य च ताभ्यां संब­न्ध­न­म­वि­श्लि­ष्ट­त्वा­पा­दानं परमार्थः स्वभावो यस्य स तथा तत्त्वा­दि­त्यर्थः ।
स्वस्य संबन्धिभ्यां सब­न्ध­ना­त्सत्त्वं नित्य­प­र­त­न्त्र­त्वा­दि­त्याह –
नासाविति ।
संबन्धिनोः संब­न्धा­ना­त्मत्वे हेतुमाह –
न च तस्मिन्निति ।
स्वसत्तायां संब­न्धि­नो­र­सं­ब­न्धा­भा­वान्न समवायस्य तत्संबन्धने स्वाति­रि­क्त­सं­ब­न्धा­पे­क्षे­त्यर्थः । समवायः समवायिनोरिति यत्त­त्स्व­भा­वा­दिति योजना । किम­सं­ब­न्ध­त्व­मु­पाधिः असमवायत्वं वा ।
नाद्यः ; संयोगे साध्या­व्या­प्ते­रि­त्याह –
संयोगोऽपीति ।
समवायेन तुल्य­न्या­य­त्वा­त्सं­यो­गोऽ­प्य­सं­बन्धः प्रसज्येत । न चैवं त्वयेष्यतेऽतः साध्या­व्या­प्ति­रि­त्यर्थः । पक्षद्वयेऽपि पक्षेतरत्वं च । यः संबन्धः समवायो वा संबन्धानपेक्ष इत्यु­पा­धि­व्य­ति­रेके दृष्टा­न्ता­भा­वात् । न चानवस्थया पक्षे साध्या­भा­वा­नि­श्च­या­प­दोषः , तथासति समवायस्य लोपात् । न चैवं समवायस्य संब­न्धा­पे­क्षा­नु­मा­न­मा­श्र­या­सि­द्धम् ; पर­सि­द्ध­मा­श्रित्य परे­षा­म­नि­ष्टा­पा­द­ना­दिति।
अगुणत्वे सत्यसंबन्धत्वं संब­न्धा­पे­क्षा­या­मु­पा­धि­स्तथा च न साध्या­व्या­प्ति­रि­त्या­श­ङ्कते –
यद्युच्येतेति ।
संयोगस्य गुण­त्व­म­सि­द्ध­मिति साध्या­व्या­प्ति­स्त­द­व­स्थे­त्याह –
यद्यसमवाय इति ।
संब­न्धा­न्त­र­सा­पे­क्षेऽपि संयोगे नास्त्यगुणत्वे सत्य­सं­ब­न्ध­त्व­म­स्म­न्म­तेऽ­स्या­गु­ण­त्वा­त्सं­ब­न्ध­त्वाच्च अतः साध्या­व्या­प्ति­रि­त्यर्थः ।
ननूभयसिद्धस्थले साध्या­व्या­प्ति­र्न्या­य­मते च संयो­ग­स्या­गु­ण­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याह –
परमार्थस्त्विति ।
अयं परिहार इति शेषः ।
द्रव्या­श्र­यी­त्यु­क्त­मिति ।
न च द्रव्यासमवेतो गुणो भवतीति ग्रन्थ इत्यर्थः । अयं भावः - अगुणत्वे सत्य­सं­ब­न्ध­त्व­मि­त्यु­पा­धे­र्व्य­ति­रेक एवं वाच्यः । समवायः संबन्धाऽनपेक्षः अगुणत्वे सति संबन्धत्वादिति। अत्र तावद् दृष्टा­न्ता­भा­वा­द­न­ध्य­व­सि­त­त्वम् । न च व्यतिरेकित्वम् ; अभावे साध्यवत्यपि हेतोरवृत्तेः । विशेषणवैयर्थ्यं च । संयोगस्य प्रागुक्तरीत्या स्वाभा­वि­क­द्र­व्या­श्रि­त­त्व­प्र­यु­क्ते­र­गु­ण­त्वो­प­पत्तौ अव्य­व­च्छे­द्य­त्वा­दिति। समवायः समवेतः संब­न्ध­त्वा­त्सं­यो­ग­व­दि­त्य­प्य­नु­मानं द्रष्टव्यम् । संयोगे संबन्धत्वे सति संब­न्धा­पे­क्षत्वे कार्यत्वमुपाधिः । जात्यादौ साध्या­व्या­प्ति­वा­र­णाय संबन्धत्वे सतीति साध्यविशेषणम् । तथा च कार्यत्वं सम­वा­या­द्व्या­व­र्त­मानं स्वव्याप्तां संबन्धत्वे सति संबन्धापेक्षां वारयेत् , संबन्धत्वं च समवाये उभयवादिसिद्धम् ।
अतोऽ­र्था­त्सं­ब­धा­पे­क्षा­व्या­वृ­त्ति­सि­द्धि­रि­त्या­श­ङ्क्याह –
न च कार्यत्वादिति ।
आत्माकाशसंयोगे साध्या­व्या­प्ति­माह –
अजसंयोगस्येति ।
अजसंयोगश्च साधयिष्यते ।
संबन्धत्वेन हेतुना संयो­ग­व­त्स­म­वा­य­स्यापि कार्यत्वं साध­य­न्सा­ध­न­व्या­प्ति­माह –
अपि चेति ।
ये तु समवायस्य कार्यत्वं स्वीकृत्यैव सम­वा­यि­का­र­णा­न­पे­क्ष­त्वेन सम­वा­या­न्त­रा­पेक्षां न मन्यन्ते प्राभा­क­रा­स्ता­न्प्रति प्रतिबन्द्या सम­वा­या­न्त­रा­पे­क्षा­मु­प­पा­द­यति –
तथा चेति ।
संयो­ग­प्र­ति­ब­न्दी­मु­प­सं­ह­रति –
तस्मादिति ।
ननु संयोगस्यापि संयो­गि­भ्या­म­सं­बन्ध एव भवतु तथा च कुतः प्रतिबन्दीति कश्चिच्छङ्कते –
यद्युच्येतेति ।
दूषयति –
तत्किमिति ।
संयोगिनोरिति सप्तमी ॥१३॥१४॥
यदि पर­मा­णू­न्प­क्षी­कृत्य रूपादिमत्त्वेन साव­य­व­त्व­म­नि­त्यत्वं च साध्यते तर्ह्या­श्र­या­सि­द्धि­रि­त्या­श­ङ्क्याह –
यत्किलेति ।
मूल­का­र­ण­मु­भ­य­सं­मतं पक्षस्तद्यदि रूपादिमत्तर्हि साव­य­व­त्वा­द्या­पा­द्य­मिति नाश्र­या­सि­द्धि­रि­त्यर्थः ।
नन्वेवमपि पक्ष­ध­र्म­त्वा­सिद्धिः स्यात् , सिद्धान्ते मूलकारणस्य रूपा­दि­म­त्त्वा­न­भ्यु­प­ग­मा­दत आह –
केति ।
यदि पर्व­तेऽ­न­ग्नि­म­त्त्वम् अभ्युपगम्यते , तर्ह्य­धू­म­वत्त्वं स्यादि­त्या­दा­व­प्र­मि­त­स्यै­वा­भ्यु­प­ग­म­मा­त्रे­णा­पा­द­क­त्व­द­र्श­ना­दिति भावः । प्रस­ङ्गेऽ­प्या­पा­द्या­पा­द­क­यो­र्व्याप्तिः प्रमिता वक्तव्या ।
यद­न­ग्नि­म­त्त­द­धू­म­व­दिति व्याप्तेः प्रमि­त­त्वा­त्त­दि­द­मुक्तं –
नियतेति ।
ननु व्याप्या­रो­पा­द्व्या­प­क­रो­प­स्तर्कः कथमनेन वस्तुसिद्धिरत आह –
तदनेनेति ।
तदिति ।
तत्रेत्यर्थः । विमतं सोपादानं भाव­का­र्य­त्वा­त्सं­म­त­व­दिति सामान्यतः प्रवृ­त्ता­नु­मा­न­मे­त­त्त­र्को­प­बृं­हितं नित्य­व्या­प­क­ब्र­ह्म­वि­षयं क्रियत इत्यर्थः । जगदुपादानं न स्पर्शवद् न चाणु नित्यत्वाद् - अत्य­न्ता­भा­व­व­दिति अनु­मा­न­प­र्य­व­सा­नम् ।
सत्यपि स्पर्शा­दि­मत्त्वे मूलकारणस्य नित्य­त्व­म­नु­मा­ना­त्सि­ध्य­ती­त्य­र्था­त्स­त्प्र­ति­प­क्ष­ता­मा­शङ्क्य दूषयतीत्याह –
पर­मा­णु­नि­त्य­त्वेति ।
कार­णा­भा­वा­दे­व­नि­त्य­त्व­सिद्धेः कार­ण­ग्र­ह­णो­क्ति­र्व्य­र्थे­त्याह –
अपि चेति ।
परमाणुर्नित्यः , अव­य­व­वि­ना­शा­व­य­व­वि­भा­ग­र­हि­त­त्वा­दा­त्म­व­दि­त्ये­त­त्सु­खा­दि­भिर्न सव्यभिचारं द्रव्यत्वे सतीति विशेषणादित्याह –
न च सुखादिभिरिति ।
ननु स्थिते घृते काठिन्यनाशो भाष्ये उदाहृतः उत घृतस्यापि । नाद्ये द्रव्य­ल­य­स्यो­दा­ह­र­णम् । अन्त्ये तु अव­य­व­वि­भा­ग­पू­र्व­क­त्वा­त्त­त्रापि घृतनाशस्य साध्यसमत्वमिति। तत्र साध्यसमत्वमुपरि परिहरिष्यति ।
काठिन्यं तावद् घृतस्यावस्था , न च दार्ष्टा­न्ति­के­ना­सं­गतिः ; पटादीनामपि तन्त्वा­द्य­व­स्था­वि­शे­ष­त्वेन तन्त्वा­न्त­र­त्वा­भा­वाद् , इत्याह –
द्रव्य­स्व­रू­पा­प­रि­ज्ञा­ना­दिति ।
अध­स्ता­दा­र­म्भ­णा­धि­का­रणे (ब्र.अ.२.पा.१.सू.२४) ।
ननु विशेषावस्थापि संयोगपूर्वेति , नेत्याह –
तच्चेति ।
एकं ह्यनुगतद्रव्यं कारणभूतं सामान्यं न तस्य संयोग इत्यर्थः ।
कारणस्य सामा­न्या­त्म­त्व­मु­प­पा­द­यति –
मृद्वेति ।
कारणस्यैव कार्य­रू­प­सं­स्था­ना­त्म­क­त्व­माह –
न चैत इति ।
शकलम् इत्यारभ्य रुचकावान्तरो विकार उक्तः ।
ननु किम­नु­ग­त­द्र­व्य­क­ल्प­नया व्यावृत्ताः कपालशकलादय एव घट­रु­च­का­दी­ना­र­प्स्यन्ते , इत्यत आह –
तत्र तत्रेति ।
सत्यपि जनकत्वाविशेषे कुम्भ­का­र­हे­म­का­रा­दयो न कुम्भ­रु­च­का­दी­नाम् उपादानम् । नहि ते तांस्ता­दा­त्म्ये­नो­पा­द­दाना दृश्यन्ते । भृत्कनके तूपादानमिति व्यवस्था तादात्म्यकारिता ; समवायस्य प्राग् निरस्तत्वात् , तादात्म्यं चानुवृत्तयोरेव मही­हे­म्नो­र्घ­ट­रु­च­का­दि­ष्व­नु­भू­यते , नेत­रे­त­र­व्या­वृ­त्ता­ना­मि­त्य­नु­ग­त­द्र­व्य­मे­वो­पा­दा­न­मि­त्यर्थः ।
ननु सत्यु­पा­दा­नेऽ­नु­वृ­त्ति­व्या­वृ­त्ति­चिन्ता , तदेव नेति बौद्ध­म­त­मा­श­ङ्क्याह –
न च विनश्यन्तमिति ।
प्रतीत्य प्राप्य । एवं ‘यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशे­ष­व­द­व­स्था­न्त­र­मा­प­द्य­मा­नम् आर­म्भ­क­म­भ्यु­प­ग­म्यत’ इति भाष्यमुपपादितम् ।
इदानीं तु तदा घृत­का­ठि­न्य­वि­ल­य­न­व­दि­त्या­दि­भाष्यं कृतोपोद्घातं व्याचष्टे –
एवं व्यवस्थिते इति ।
यत्तु घृतस्यापि नाशा­भ्यु­प­ग­मेऽ­व­य­व­वि­भा­गस्य सद्भा­वा­त्सा­ध्य­स­म­त्व­मिति तत्र घृतनाशो नोपेयते , काठि­न्य­सं­स्था­न­ना­शस्तु न च तत्र विद्य­मा­नो­प्य­व­य­व­वि­भा­ग­प्र­यो­जकः ; पर­मा­णु­ग­त­का­ठि­न्य­नाशे द्रवत्वोदये च तदभावादित्याह –
न च तत्रेति ।
यथा कार्य­द्र­व­त्वा­त्प­र­मा­णो­र्द्र­व­त्व­क­ल्पना , एवं काठिन्यमपि कल्प्यं न चेन्नेतरदपि ।
न केवलं पर­मा­णु­दृ­ष्टान्ते अव­य­व­वि­भा­गा­द्य­भाव उपजीव्यः , किंतु कार्य­का­र­ण­भे­दा­भा­वोऽ­पी­त्याह –
न च काठिन्यद्रवत्वे इति ॥१५॥
परमाणुषु गुणो­प­च­या­प­च­या­भ्याम् उप­चि­ता­प­चि­ता­व­य­व­त्व­प्र­स­ञ्ज­न­म­यु­क्तम् , अन्य­त्वा­द्गु­णानां द्रव्यस्य निर­व­य­व­त्वा­वि­घा­ता­दि­त्या­शङ्क्य गुणसमुदायत्वं परमाणूनां वक्तुं कार्यस्य गुणसमुदायत्वं तद्वृ­द्धि­ह्रा­साभ्यां च स्थौल्य­सौक्ष्म्ये दर्शयति –
अनुभूयते हीत्यादिना ।
येनामिलिता गुणास्तेन कारणेन स्थूलाः सन्तस्ते विशेषा व्यावृ­त्त­व्य­व­हा­र­व­न्तस्ते च सात्त्वि­क­त्वा­दिना शान्ततादियोगिन इत्यर्थः ।
परस्परेति ।
परस्परे गन्धा­दी­ना­म­नु­प्र­वे­शाद् द्रव्यसंज्ञां लब्ध्वा रसादयः पृथिवी भूत्वा गन्धं धारयन्ति , रूपादय आपो भूत्वा रसं धारयन्ति , स्पर्शादयस्तेजो भूत्वा रूपं धारयन्ति , शब्द­स्प­र्श­स­मु­दा­यश्च वायुर्भूत्वा स्पर्शं धारयतीत्यर्थः । उपचितगुणानां मूर्त्यु­प­च­या­दिति भाष्योपादानम् ।
उपचयमात्रेण न संधा­ता­त्म­क­मू­र्त्या­धि­क्य­मतो व्याख्या –
संह­न्य­मा­ना­ना­मिति ।
संघातेति मूर्त­श­ब्द­व्याख्या ।
यस्तु ब्रूते इति ।
आग­म­म­ना­दृ­त्ये­त्यर्थः ।
गुण­स­ङ्घा­तो­प­च­या­पा­दने इष्ट­प­र­ता­मा­श­ङ्क्याह –
द्रव्यस्वरूपेति ।
परमाणुषु गुणो­प­च­या­न्मू­र्त्यु­प­चये साध्ये कार्येषु तदु­प­च­या­न्मू­र्त्यु­प­च­य­प्र­द­र्शनं न ताव­द्दृ­ष्टा­न्त­त्वेन ; साध्यसमत्वाद् , नापि हेतुत्वेन ; व्यधि­क­र­ण­त्वा­दि­त्या­श­ङ्क्याह –
न तावदिति ।
दृष्टा­न्तो­क्ति­स्ता­व­दि­यम् ।
तत्र साध्यसमतां परिहरति –
कार्यं चेति ।
भावे चोपलब्धे (ब्र.अ.२.पा.१.सू.१५) रित्यत्र चोक्त­री­त्ये­त्यर्थः । सौगतमते सङ्घा­तोऽ­न­धि­ष्ठा­तृकः सिद्धान्ते त्वीश्वराधीनः । उपादानं च गन्धा­दी­ना­म­स्त्य­व्या­कृ­त­मिति भेदः ॥१६॥१७॥
उत्सूत्रमिति ।
उत्सू­त्र­वा­क्य­मि­त्यर्थः । सौत्र­च­श­ब्द­व्या­ख्या­न­त्वात् षट्प­दा­र्थी­दू­ष­णस्य । भाष्ये – द्रव्याधीनत्वं द्रव्या­धी­न­नि­रू­प­ण­त्व­मिति , न तु तदुत्पाद्यत्वम् ; केषां­चि­द्गु­णानां सामान्यादीनां च तदभावाद् ।
द्रव्या­धी­न­त्व­मु­प­पा­द­यति –
न हि यथेति ।
पूर्वं स्वमते स्थित्वा द्रव्यस्य गुण­स­ङ्घा­त­मा­त्र­त्व­मु­क्त­मि­दानीं वैशेषिकदृष्ट्या द्रव्यं किंचिदभ्युपेत्य द्रव्य­सा­मा­ना­धि­क­र­ण्य­प्र­तीत्या गुणा­दे­र्द्र­व्य­मा­त्र­त्व­मु­च्यत इति न पूर्वापरविरोधः ।
ननु न तादात्म्येन द्रव्या­धी­न­नि­रू­प­णत्वं किंतु तदु­त्प­त्त्ये­त्या­श­ङ्क्याह –
वह्न्या­द्य­धी­नेति ।
ननु तादात्म्येन प्रतीयमानत्वम् अभे­द­हे­तु­रि­त्युक्ते कथं भाष्येऽ­ग्नि­धू­म­यो­र्व्य­भि­चा­र­श­ङ्कात आह –
द्रव्य­का­र्य­मा­त्र­त्व­मिति ।
शङ्कत इति ।
शुक्लत्वं घटवृत्ति शौक्ल्य­वृ­त्ति­त्वा­त्स­त्त्व­व­दि­त्य­नु­मा­न­म­भि­प्रेत्य तदनुकूलत्वेन सामा­ना­धि­क­र­ण्य­प्र­ती­ति­रुक्ता , तस्या अन्यथासिद्धिं शङ्कत इत्यर्थः ।
अयु­त­सि­द्ध­त्व­सं­ब­न्धेऽपि भेदे सति न सामा­ना­धि­क­र­ण्य­मु­प­प­द्यत इत्या­श­ङ्क­या­यु­त­सि­द्धत्वं निर्वक्ति –
यत्र हीति ।
आकारिणौ स्वतन्त्रौ स्वत­न्त्र­व­स्तु­नो­र­सा­मा­ना­धि­क­रण्यं न स्वत­न्त्र­प­र­त­न्त्र­यो­र्द्र­व्य­त­न्त्राश्च गुणादय इति भेदेऽपि सामा­ना­धि­क­र­ण्य­मि­त्यर्थः । द्रव्याकारतया द्रव्यधर्मतया । आकारान्तरायोगेन स्वात­न्त्र्य­प्र­यो­ज­क­ध­र्म­यो­गे­ने­त्यर्थः । भवे­दि­य­म­यु­त­सिद्धिः सामा­ना­धि­क­र­ण्यो­प­पा­दिका , एषैव तु न भेदे घटते , न हि भिन्नानां विन्ध्य­हि­म­व­दा­दीनां धर्मधर्मिभाव उपलभ्यते ।
अथ भिन्ना­ना­म­प्य­पृ­थ­ग्दे­श­त्वा­दिभिः प्रका­रै­र्ध­र्म­ध­र्मि­भाव उच्येत , तर्हि तान् विकल्प्य दूषयतीत्याह –
तामिमामिति ।
तदर्थविकल्पोऽपि तद्विकल्प इति तामित्युक्तम् ।
एक­दे­श­त्व­म­पृ­थ­ग्दे­शत्वं भाष्यदूषितं , स्वयं तु प्रका­रा­न्त­रे­णा­पृ­थ­ग्दे­श­त्व­मा­श­ङ्कते , तत्र ताव­त्प्र­ति­यो­गि­भूतं पृथग्देशत्वमाह –
यदि तु संयोगिनोरिति ।
कुण्डबदरे हि संयोगिनी ताभ्यामन्यः स्वस्वावयव एव तयोर्देश इति।
ननु पर­मा­ण्वो­रा­का­श­प­र­मा­ण्वोश्च संयोगे कथं संब­न्धि­भ्या­म­न्य­दे­शत्वं युत­सि­द्धि­स्ते­षा­म­ना­श्रि­त­त्वा­दत आह –
नित्ययोस्त्विति ।
अवि­भु­नो­र्द्वा­यो­र्वि­भु­नो­स्त्व­न्य­त­र­स्या­वि­भुन इत्यर्थः ।
तथा चाकाशेति ।
अत्र न यथासंख्यम् ।
सत्यपीति ।
एकतरस्य सब­न्धि­दे­श­त्वा­देव न तयोः सब­न्धि­भ्या­म­न्य­दे­श­त्व­मि­त्यर्थः ।
आत्मसंयोगीति ।
आत्मा­श्रि­त­सं­यो­गेन संयोगीत्यर्थः । तथा च न मूर्तत्वमुपाधिः स्यादात्मन्येव साध्याव्याप्तेः । तस्या­त्मा­श्रि­त­सं­योगे न संयो­गि­त्वा­द­मू­र्त­त्वाच्च । यथाश्रुते तु भवत्येवोपाधिः ; यत्रा­त्म­सं­यो­गित्वं तत्र मूर्तत्वमिति व्याप्तेरिति। सङ्गित्वात् संयो­गि­त्वा­दि­त्यर्थः ; संब­न्धि­त्व­मा­त्रस्य गुणादौ व्यभिचारात् । एतावानेव हेतुः । सुखबोधार्थं तु मूर्त­द्र­व्य­ग्र­ह­णम् । यद्यप्याकाशे आत्मसंयोगेऽस्ति विप्रतिपत्तिः ; तथापि न तस्य मूर्त­सं­यो­गेऽ­स्तीति।
अभ्युपेत्यापि वर्णि­ता­म­यु­त­सिद्धिं दोषान्तरमाह –
पृथ­गा­श्र­या­श्र­यि­त्व­मि­त्या­दिना ।
स्यादेतत् - न तादा­त्म्य­प्र­त्य­यो­प­पा­दकः समवायः , किन्तु सामा­ना­धि­क­र­ण्य­प्र­त्य­य­वि­षय एवेति , नेत्याह –
न च प्रत्यक्ष इति ।
ननु शुक्ल­त्व­मि­त्या­दि­त्व­त­ला­दि­भि­र्नि­ष्कृष्टो गुणोऽभिधीयते , शुक्लशब्दस्तु द्रव्य­नि­ली­न­गु­ण­वाची लक्षयति द्रव्यमतो लाक्षणिकं सामानाधिकरण्यम् , ततः कथं द्रव्य­गु­ण­यो­र­भे­द­प्र­ति­भा­व­मत आह –
न चेति ।
शाब्दो हि व्यवहारो लाक्षणिकः स्याद् , न प्रत्य­क्ष­प्र­त्यय इत्यर्थः ।
अभेदप्रत्ययस्य भ्रमत्वं भेद­ग्रा­हि­प्र­मा­णा­द्भ­वति , तच्च लक्ष­ण­स्व­रू­प­म­नु­मा­नम् , द्रव्यं गुणादिभ्यो भिद्यते सम­वा­यि­का­र­ण­त्वा­दि­त्यादि , तच्च धर्मि­ग्रा­ह­क­प्र­त्य­क्ष­वि­रो­धा­दा­भास इत्याह –
न चायमिति ।
तस्य भ्रान्तित्वे सर्वा­भा­व­प्र­स­ङ्गा­दा­श्र­या­सिद्धिः । प्रमाणत्वे चाभेदविषयेण तेन विरो­धा­द­नु­मा­नो­त्था­ना­सं­भव इत्यर्थः ।
ननु संबन्धिन्यसति समवायो न भवतीति कथम् ? उत्पत्तिर्हि समवायः , उत्प­त्ति­श्चा­स­त्येव कार्ये भवति , इतरथा तद्वैयर्थ्यादत आह –
न च कार­ण­स­म­वा­या­द­न्येति ।
अन्येति वा पाठः । तत्र च न कार­ण­स­म­वा­या­द­न्यो­त्पत्तिः , किं तूत्पत्तिरेव समवाय इति पूर्वपक्षिण एव ग्रन्थः । एवं हि सतीत्यारभ्य सिद्धान्तः ।
नित्य­स­म­वा­य­स्यो­त्प­त्तित्वे कार्यो­त्प­त्त्यर्थं कारणवैयर्थ्यं चेत्त­र्ह्य­नि­त्योऽस्तु , तत्राह –
उत्पत्तौ चेति ।
अथ समवायादन्या कार्य­स्यो­त्प­त्ति­रु­त्प­न्नस्य च समवायस्तत्राह –
सिद्धयोस्त्विति ।
ननु सिद्धयोरपि संब­न्धि­भ्या­म­न्य­दे­श­त्वा­भा­वा­दि­भि­र­यु­त­सिद्धिः स्यादिति , नेत्याह –
न चान्येति ।
एतेनेति ।
युत­सि­द्ध्य­भा­वा­द्य­त्सं­यो­गा­भा­व­स्त­द­यो­गे­ने­त्यर्थः । पूर्व­म­प्रा­प्ति­स्ततः संयोगौ ।
एते­ने­त्ये­त­द्वि­वृ­णोति –
मा भूदिति ।
एवं­भू­त­यु­त­सि­द्धि­व्य­व­स्था­पना हि कार्यकारणयोः संबन्धस्य संयो­ग­त्व­व्या­वृ­त्त्यर्थो , तत्र च कार्यस्य नित्य­पा­र­त­न्त्र्ये­णा­त्प्रा­प्त्य­भा­वेऽपि तत्प्राप्तेः संयो­ग­त्वा­भा­वोऽ­सि­द्ध­स्त­तश्च युतसिद्धिलक्षणे सयोगपदं कार्य­का­र­ण­सं­ब­न्धा­व्य­व­च्छे­द­क­त्वाद् व्यर्थमित्यर्थः ।
अथ कार्य­का­र­ण­सं­ब­न्धा­द्व्या­वृ­त्त­त्वे­नो­भ­य­वा­दि­सं­म­त­ध­र्माणां वाचकेन पदवृन्देन युतं लक्षणान्तरं द्वयोरन्यतरस्य वा पृथ­ग्ग­ति­म­त्त्व­मि­त्या­द्य­भि­धी­येत , तत्राह –
तत्रेति ।
अस्याः प्राप्तेः कार्य­का­र­ण­सं­ब­न्ध­स्या­सं­यो­ग­त्व­सिद्धौ तद्व्य­वृ­त्ति­स­म­र्थ­सं­यो­ग­प­द­व­द्यु­त­सि­द्धि­ल­क्ष­णस्य सिद्धि­स्त­त्सिद्धौ च तल्ल­क्षि­त­यु­त­सि­द्धि­रा­हि­त्येन कार्य­का­र­ण­सं­ब­न्ध­स्या­सं­यो­ग­त्व­सि­द्धि­रि­ती­त­रे­त­रा­श्र­यम् ।
तर्ह्या­न्यै­वास्तु , नेत्याह –
न चान्येति ।
अन्यासभवोसिद्ध इति शङ्कते –
यद्युच्येतेति ।
अप्रा­प्ति­पू­र्विका प्राप्ति­र­न्य­त­र­क­र्मजा प्राप्ति­रु­भ­य­क­र्मजा प्राप्तिरिति त्रीणि लक्षणानि । एतानि च कार्य­का­र­ण­सं­ब­न्धस्य न संभवन्तीति नेत­रे­त­रा­श्र­य­मि­त्यर्थः ।
वैशेषिकैर्हि तन्तुभ्यः पटे उत्पन्ने तत्क्षणे एव तन्त्वा­का­श­सं­यो­ग­जन्यः पटाकाशसंयोग इष्यते , स च न कर्मजस्ततः प्राक् पटसत्ताक्षणे पटे कर्माभावादतश्च यथोक्तलक्षणं तत्राव्यापकं स्यादित्याह –
संयोगज इति ।
तर्ह्य­प्रा­प्ति­पू­र्विका प्राप्ति­रि­त्ये­ता­व­ल्ल­क्ष­ण­मस्तु तथा च नाव्याप्तिः ।
नापी­त­रे­त­रा­श्र­यत्वं संयो­ग­प­दा­नु­पा­दा­ना­दिति , तत्राह –
न चाप्राप्तीति ।
अतिव्याप्तिं च लक्षणस्याह –
कार्यस्य चेति ।
असति प्राप्तरि प्राप्त्य­नु­प­पत्तेः कार्य­स­त्तो­त्त­र­क्षणे प्राप्तिरिति क्षण­मा­त्र­म­प्रा­प्ति­र­स्ती­त्यर्थः ।
ननु निरवयवसावयवयोः समवायसंभवात् कथं संश्ले­षा­नु­प­प­त्ति­रत आह –
संग्रह इति ।
एकाकर्षणे इतराकर्षणं हि साव­य­वा­ना­म­ङ्कु­र­त­रु­शा­खा­दीनां दृश्यत इत्यर्थः ।
न हि तत्र पिण्डावयवेति ।
यथा संवेष्टनेन पिण्डीकृते पटे प्रसारणसमये तदवयवसंयोगा न नश्यन्ति , किं त्वव­स्थि­त­सं­यो­गा­ना­मेव तेषा­म­धि­क­दे­श­व्याप्त्या पिण्डावस्था नश्यति तथा पिष्टस्यापीति ।
इति तृतीयं पर­मा­णु­ज­ग­द­का­र­ण­त्वा­धि­क­र­णम् ॥

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥१८॥ अभि­म­त­फ­ल­दा­नै­स्त्व­त्कृ­तै­र्वि­श्व­लोके वितृषि गजमुख त्वद्गण्डभेदेन दानम् । गलदलिकुलजुष्टं त्वद्वपुष्येव जीर्यद् ध्वनयति जनतायां नार्तिरस्तीति नूनम् ॥
समुदायेति ।
गुणानां च केषांचित् पर­मा­णु­प­रि­मा­णा­दी­नाम् । अभेदे हि कार्यकारणयोः कार्यनाशोऽपि कारणरूपेण तिष्ठतीति न निरन्वयनाशः , भेदे तु निरन्वय इति।
ननु निमि­त्ता­भा­वा­वि­शे­षात् सङ्घा­ता­र­म्भ­वा­द­यो­र­नु­प­प­त्त्य­वि­शेषे कथं तरप् प्रयोगः ? तत्राह –
स्थिरेति ।
स्थिरपक्षे हि कारणस्य भूत्वा व्यापृत्य जनकत्वं युक्तं नेतरत्रेत्यर्थः । वादि­वै­चि­त्र्या­त्खलु । बहुप्रकार इति गृही­त­भा­ष्य­प्र­ती­का­नु­षङ्गः ।
बहुप्रकारत्वमेव दर्शयति –
केचिदिति ।
अत्रभवतां सौत्रा­न्ति­का­दीनां विप्र­ति­प­त्तिर्हि पुरु­षा­प­रा­धा­द्भ­वति यथा स्थाणौ वस्तुवशाद्वा यथा क्रियायामत्र तु न प्रथम इत्युक्तं –
सर्वज्ञानामिति ।
न द्वितीय इत्यभिहितं –
तत्त्वस्येति ।
बोधी बुद्धस्तस्य चित्त­म­भि­प्रा­य­स्त­द्वि­व­र­ण­ग्रन्थे । लोकनाथानां बुद्धानाम् । देशना आगमाः प्राण्य­भि­प्रा­य­व­शा­नु­सा­रिण्यः शून्य­ता­प्र­ति­प­त्त्यु­पायैः क्षणि­क­स­र्वा­स्ति­त्वा­दि­भि­र्लोके श्रोतृसमुदाये पुनः पुनर्बहुधा भिद्यन्ते ।
भेदमेवाह –
गम्भीरेति ।
अगाधो गम्भीरः तद्विपरित उत्तानः स्थूल­दृ­ष्टि­यो­ग्य­स्त­द्रू­पेण क्वचि­द्ग्र­न्थ­प्र­वेश उभयलक्षणा ज्ञान­मा­त्रा­स्ति­त्व­बा­ह्या­र्था­स्ति­त्व­ल­क्षणा तत्प्रतिपादिनी भिन्नाऽपि देशना शून्य­तै­वा­द्व­याऽ­त­ल्ल­क्ष­णाऽ­त­त्ता­त्प­र्य­व­त्य­भि­न्ने­त्यर्थः । प्रत्य­य­वै­चि­त्र्या­द­र्थोऽ­नु­मेय इति सौत्रान्तिकाः । प्रत्यक्ष इति वैभाषिकाः । अतो मतभेदः । रूप्यते एभिर्विषया इति शेषः । काय­स्थ­त्वा­त्का­या­का­रेण संह­त­त्वा­द­सं­ह­ता­ना­मि­न्द्रि­य­सं­ब­न्धि­त्वा­द्वे­त्यर्थः । अह­मि­त्या­का­र­मा­ल­य­वि­ज्ञा­न­मि­न्द्रि­या­दि­जन्यं रूपादिविषयं च ज्ञानमेतद् द्वयं दण्डायमानं प्रवाहापन्नं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं , या प्रियेत्यादि तद्व्याख्यानम् । सविकल्पप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति भेदः स्कन्ध­यो­र्ध्व­नितः । वयन्ते तन्तून् संतन्वन्ति ।
अनु­प­ल­ब्धि­लि­ङ्ग­क­म­नु­मा­न­माह –
तस्मादिति ।
यः कार्योत्पादः स तद­नु­गु­ण­का­र­ण­मे­ल­ना­धीन इत्येकां व्याप्ति­मुक्त्वा द्वितीयामाह –
कार्यो­त्पा­दा­नु­गुणं चेति ।
या कार्योत्पत्तिः सा चेत­ना­धि­ष्ठि­त­का­र­णेभ्यो भवतीति व्याप्ता , सा स्वव्या­प­क­चे­त­ना­धि­ष्ठि­त­त्व­वि­रुद्धा अनधिष्ठितेभ्यः परा­भि­म­त­का­र­णेभ्यो व्यावर्तमाना चेत­ना­धि­ष्ठि­त­का­र­ण­वत्त्वे सिद्धा­न्त्य­भि­म­तेऽ­व­ति­ष्ठते । अतो या कार्योत्पत्तिः सा चेत­ना­धि­ष्ठि­त­का­र­णेभ्य इति व्याप्ति­सि­द्धि­रि­त्यर्थः । अत्र प्रयोगः - विमतं , चेत­ना­धि­ष्ठि­त­म­चे­त­न­त्वा­त्त­न्तु­व­दिति।
चिरातीतत्वेनेति ।
स्थायि­वा­स­ना­या­स्त्व­याऽ­नि­ष्ट­त्वा­दि­त्यर्थः । व्यापारवदाश्रयो व्यापार इत्युक्ते तदा­श्रि­त­जा­ते­स्त­द्व्या­पा­रत्वं स्यादिति तत्कारणक इत्युक्तम् । एतावत्युक्ते कुम्भोऽपि कुम्भ­का­र­व्या­पारः स्यात्त­न्नि­वृ­त्तये व्यापारवदाश्रय इति। एवमुक्तेऽपि मृदाश्रितो मृज्जश्च घटो मृद्व्यापारः स्यात्त­न्नि­वृ­त्तये तत्कार्यं प्रति हेतुरित्यपि द्रष्टव्यम् ।
अस्त्वेवं व्यापारलक्षणं , प्रस्तुते किं जातमत आह –
न च समसमययोरिति ।
व्यापा­र­व्या­पा­रि­णो­रे­क­का­लत्वं भिन्नकालत्वं वा । नाद्यः ; कारणत्वस्य निय­त­प्रा­क्स­त्त्व­रू­प­त्वात् । न द्वितीयः ; आधा­रा­धे­य­भा­व­सं­ब­न्ध­स्या­न्य­त­र­स्मि­न्न­स­त्य­प्य­यो­गा­दि­त्यर्थः ।
अथ पदार्थः पूर्वं भूत्वा स्वज­न्य­व्या­पा­र­स­म­येऽपि तदा­श्र­य­त्वे­ना­नु­व­र्तेत , तत्राह –
तथा चेति ॥१८॥
प्रत्य­यो­प­नि­ब­न्धस्य संग्राहकं बुद्ध­सू­त्र­मु­दा­ह­रति –
इदमिति ।
हेतुमन्यं प्रति अयते गच्छतीति इत­र­स­ह­का­रि­भि­र्मि­लितो हेतुः प्रत्ययः । इदं कार्यं प्रत्ययस्य कार­ण­स­मु­दा­य­मा­त्रस्य फलं , न चेतनस्य कस्यचिदित्यर्थः ।
हेतूपनिबन्धस्य संग्राहकं बुद्ध­सू­त्र­मु­दा­ह­रति –
उत्पादाद्वेति ।
तथागतानां बुद्धानां मते धर्माणां कार्याणां कारणानां च या धर्मता कार्य­का­र­ण­भा­व­रूपा एषा उत्पा­दा­द­नु­त्पा­दाद्वा स्थिता । धत्ते इति धर्मः कारणम् । ध्रियते इति धर्मः कार्यम् । यस्मिन् सति यदुत्पद्यते असति च नोत्पद्यते तत्तस्य कारणं कार्यं च , न चेतनः क्वचि­त्का­र्य­सि­द्ध­येऽ­पे­क्षि­तव्य इत्यर्थः ।
स्थितधर्मता इत्येतत्स्वयमेव सूत्रकृद्विभजते –
धर्मस्थितितेति ।
कार्यतामाह – कार्यस्य हि धर्मस्य कार­णा­द­न­ति­प्र­स­ङ्गेन कालविशेषे स्थितिर्भवतीति स्वार्थि­क­स्त­ल्प्र­त्ययः ।
धर्मनियामकतेति ।
कारणतामाह – धर्मस्य कारणस्य कार्यं प्रति नियामकतेत्यर्थः ।
नन्वेवंविधमेव कार्यकारणत्वं न चेतनादृते सिध्यति , तत्राह –
प्रतीत्येति ।
कारणे सति तत्प्रतीत्य प्राप्य समु­त्पा­दा­नु­लो­म­ता­नु­सा­रिता या सैव धर्मता , सा चोत्पा­दा­नु­त्पा­दात्मा धर्माणां स्थिता , न चेतनः कश्चिदुपलभ्यत इत्यर्थः ।
सूत्रद्वयं व्याचष्टे –
अथ पुनरयमिति ।
हेतोरेकस्य कार्ये­णो­प­नि­ब­न्ध­स्त­थोक्तः । प्रत्ययानां मिलितानां नानाकारणानां कार्ये­णो­प­नि­ब­न्ध­स्त­थाऽ­भि­हितः ।
हेतूपनिबन्धे उदाहरणमुक्त्वा तत्रै­वो­त्पा­दा­द्वेति सूत्रं योजयति –
असति बीजे इत्यादिना ।
याव­त्पु­ष्प­फ­लो­दा­ह­रणं तावदसति पुष्पे फलं न भवति इत्या­दि­व्य­ति­रेको द्रष्टव्य इत्याह –
यावदसतीति ।
चैतन्यं बीजादीनां वाऽभ्युपगम्यते , किं वा तदतिरिक्तस्य कस्यचिद्भोक्तुः प्रशासितुर्वा ।
नाद्य इत्याह –
तत्र बीजस्येत्यादिना ।
याव­त्पु­ष्प­स्येति ।
पुष्प­प­र्य­न्त­स्ये­त्यर्थः । फलेऽपि यावच्छब्दो योज्यः ।
न द्वितीय इत्याह –
असत्यपि चान्यस्मिन्निति ।
अङ्कु­रा­द्यु­त्पत्तौ चेत­न­व्या­पा­रा­नु­प­ल­म्भा­दि­त्यर्थः । न च सोऽनु­मे­य­स्त­द­न्य­हेतौ सति कार्या­नु­त्पा­दा­द­र्श­ना­दिति। प्रत्ययोपनिबन्ध इत्यत्र प्रत्ययशब्द इणो धातो­र्भा­वा­र्थी­या­च्प्र­त्य­या­न्तस्य रूपम् ।
तथा च समु­दि­त­त्व­वा­ची­त्याह –
अयमानानामिति ।
तत्रास्य हेतूपनिबन्धः । उच्यत इति वाक्यशेषः ।
उदाहरणमाह –
यदिदमिति ।
अविद्यारूपाः प्रत्यया भ्रान्तय इत्यर्थः । तथा संस्का­रा­श्चो­त्त­रत्र व्याख्यास्यमाना एतदारभ्य याव­ज्जा­ति­प्र­त्ययं जातिरूपं कारणं यावच्च जरा­म­र­णा­दि­त­त्स­र्व­मा­ध्य­त्मि­कस्य प्रती­त्य­स­मु­त्पा­दस्य हेतूपनिबन्धे उदाहरणमित्यर्थः ।
विज्ञानधातुं व्याचष्टे –
यस्त्विति ।
देव­द­त्ता­दि­नाम्नः शौक्ल्या­दि­रू­पस्य चाश्रयः शरीरं नामरूपं तस्य च सूक्ष्मावस्था कल­ल­बु­द्बु­दा­दि­का­क्रा­न्त­ना­म­रू­पम् स एवाङ्कुरस्तं शब्दादिविषयैः पञ्च­भि­र्वि­ज्ञानैः कार्यैः संयुक्तं योऽभि­नि­र्व­र्त­यति। आस्र­व­त्य­नु­ग­च्छति कर्ता­र­मि­त्या­स्रवः कर्म , तत्सहितं सम­न­न्त­र­प्र­त्य­य­रू­प­म­नो­वि­ज्ञानं योऽभि­नि­र्व­र्त­यति स विज्ञा­न­धा­तु­रि­त्यु­च्यते , तच्चा­ल­य­वि­ज्ञा­न­मि­त्यर्थः । देहाकारपरिणतेषु धातुषु शिरः­पा­ण्या­दि­म­त्त्वेन पिण्डसंज्ञा अत एवैकसंज्ञा एकैकस्मिन्धातौ नित्यसंज्ञा सत्त्वसंज्ञा प्राणिसंज्ञा वृद्धि­ह्रा­स­सं­ज्ञे­त्यर्थः ।
वस्तुविषयेति ।
नाल­य­त्वा­दि­वि­शे­षोऽ­पे­क्ष्योऽपि तु सामान्येन वस्तु­वि­ष­ये­त्यर्थः ।
नामरूपं व्याचष्टे –
विज्ञानादिति ।
विज्ञा­ना­द्धे­तो­र­भि­नि­र्व­र्तत इति संबन्धः । चत्वारः पृथिव्यादयो उपा­दा­न­का­र­ण­स्कन्धाः प्रभे­दा­स्त­न्ना­मे­त्यु­च्यते । विधे­या­पे­क्ष­यै­क­व­चनं नामाश्रयत्वाच्च नामत्वम् । तानि चोपादानानि उपादाय कारणत्वेन विकृत्य रूपं सितादि रूप­व­च्छ­री­र­म­भि­नि­र्व­र्तते निष्पद्यते इत्यर्थः ।
ननु नाम­रू­प­यो­र्द्वि­त्वा­त्क­थ­मे­क­व­च­न­मत आह –
तदैकध्यमिति ।
एकधेत्यर्थः । ‘‘एकाद्धो ध्यमु­ञ­न्य­त­रस्या’’ मित्ये­क­श­ब्दा­त्प­रस्य धाप्रत्ययस्य ध्यमुञादेशे रूपम् एकध्यमिति। कार्यकारणे एकी­कृ­त्यै­क्य­नि­र्देश इत्यर्थः ।
जातेरुपरि वक्ष्य­मा­ण­त्वा­दिह गर्भाभ्यन्तरे देहा­भि­धा­न­मि­त्याह –
शरीरस्यैवेति ।
षडायतनं व्याचष्टे –
नाम­रू­प­सं­मि­श्रि­ता­नीति ।
षट् पृथिव्यादिधातव आयतनानि यस्य कारणवृन्दस्य तत्तथा । उपक्लेषाः मदमानादयस्ते उपाया दुःखादीनां ते च भाष्य­ग­तै­वं­जा­ती­य­क­श­ब्द­नि­र्देश्या इत्यर्थः । उत्पा­दा­नु­त्पा­दाभ्यां हेतुहेतुमद्भावे समर्थिते ताव­न्मा­त्रा­नु­वा­दोऽयं दृश्यते ? उत्प­त्ति­मा­त्र­नि­मि­त्त­त्वा­दिति।
तत­श्चा­सं­ग­ति­मा­श­ङ्क्याह –
अयमभिसंधिरिति ।
अङ्गीकृत्य हेतूपनिबन्धनस्य चेतनानपेक्षा प्रत्य­यो­प­नि­ब­न्ध­नस्य सा वार्यत इत्यर्थः । चेत­न­म­न्य­म­न­पेक्ष्य स्कन्धानामणूनां चेत­रे­त­र­प्र­त्य­य­त्वा­दि­त­रे­त­र­मि­लि­त­त्वा­त्का­र्य­सि­द्धि­रिति चेद् , न ; अचेतनानां कार्यो­त्प­त्ति­मात्रे निमि­त्त­त्वा­त्सं­घाते त्वस्ति चेतनापेक्षेति सूत्रार्थः । हेतूपनिबन्धस्तु स्वरूपत एव परेषां न संभ­व­ती­त्यु­त्त­र­सूत्र एवोत्तरोत्पादे च पूर्वनिरोधा (ब्र.अ.२.पा.२.सू.२०) दित्यत्र वक्ष्यत इति।
ननु मिलितेभ्यः पृथि­वी­धा­त्वा­दि­भ्य­श्चे­त­न­म­न्त­रे­णै­वा­ङ्कु­रो­त्प­त्ति­रुक्ता , तद्व­द्दे­हो­त्पा­दोऽपि किं न स्यादत आह –
बीजादिति ।
तत्रा­पी­श्व­रोऽस्ति संहन्तेत्यर्थः । न च सर्वत्र हेतुत्वे केव­ल­व्य­ति­रे­का­पेक्षा । तथा सत्या­द्य­ज्ञा­नस्य ज्ञाना­न्त­र­ज­न्यत्वं संल­ग्न­ज्ञा­न­दृष्टं तेन भव­द्भि­र्ना­नु­मी­येत ।
शुक्रा­दि­प­रि­णा­म­मा­त्र­ज­न्य­त्व­सं­भ­वा­दिति संहत्तानां हेतुत्वे संहन्त्रा भाव्यमित्युक्तं , तत्र संघा­त­स्या­प्र­यो­ज­कत्वं , ततश्च न संह­न्तु­र­नु­मा­न­मिति शङ्कते –
स्यादे­त­दि­त्या­दिना ।
यद्य­न­पे­क्षा­स्तर्हि कुसू­ला­भि­ह­त­बी­जा­दिभ्यः किमित्यङ्कुरो न जायते , तत्राह –
अन्त्य­क्ष­ण­प्राप्ता इति ।
अङ्कु­रो­त्प­त्ते­रा­द्य­क्षणो बीजा­दी­ना­म­न्त्य­क्ष­णस्तं प्राप्ता एव कारणं न पूर्वम् ; तथैव दर्शनादित्यर्थः ।
ऐकैकश्येन कार्य­ज­न­न­स­म­र्थानां कि सघातेन ? तत्राह –
तेषां त्विति ।
उपसर्पणम् इतरेतरसमीपगमनं तस्य प्रत्ययः कारणं तद्व­शा­त्प­र­स्प­र­स­न्नि­धा­न­प्र­यो­जकं जायत इत्यर्थः । एकस्मादेव कार्यसिद्धेः किमन्यैरिति वदन् प्रष्टव्यः किमे­क­स्मा­त्का­र्यस्य निष्प­न्न­त्वा­द­न्येषां व्यर्थतेति , उत जनयितव्ये कार्ये एक­स्मा­त्का­र­णा­त्सि­द्ध्यति न तत्कारणस्य कार­णा­न्त­रे­ष्व­पे­क्षेति।
नाद्य इत्याह –
कारणचक्रेति ।
न द्वितीय इत्याह –
न चैकोऽपीति ।
किं त्वित्या­दि­पू­र्वो­क्त­नि­ग­मनं परस्परं सन्नि­धा­न­मु­त्पा­दश्च येषां ते तथा ।
यदि प्रत्येकं कार्य­ज­न­न­सा­मर्थ्यं हेतूनां , तर्हि प्रति­का­र­ण­मे­कै­क­का­र्यो­द­य­प्र­सङ्ग इत्याशङ्क्याह –
न च स्वमहिम्नेति ।
तत्रैव एक­स्मि­न्ने­वे­त्यर्थः । बीजेन हि अङ्कुरो जनयितव्यः , मृदादिभिरपि स एव ; तत्र लाघतात्सर्वैरेक एव जन्यत इत्यर्थः ।
नन्वङ्कुर एव सर्वैः किमिति जनयितव्यः कार­ण­भे­दा­द्वि­जा­ती­या­त्का­र्य­जन्म किं न स्यान्म­ही­हे­म­भ्या­मिव घटकटकौ , तत्राह –
न च कारणभेदादिति ।
अस्मिन्मते येषां मिलित्वैव हेतुता तेषां निरपेक्षणामपि सामग्रिता । तद्भेदे च विजा­ती­य­का­र्यो­त्पाद इति।
इत्थं संघा­ता­प्र­यो­ज­क­त्व­मुक्तं दूषयति –
तन्नेति ।
यद्य­न­पे­क्षा­द­न्त्य­क्ष­णा­त्का­र्य­जन्म , तर्ह्यु­पा­न्त्या­द­योऽपि स्वका­र्य­ज­न­नेऽ­न­पेक्षाः स्युः ततः किं जातमत आह –
कुसू­ल­स्थ­त्वा­वि­शे­षेऽ­पीति ।
कुसू­ले­ह्यु­ङ्कु­र­ज­न­नो­प­यो­गि­बी­ज­सं­ता­न­नि­र्व­र्तको बीजक्षणोऽन्ये च बीजक्षणाः सन्ति। तत्र कुसू­ल­ग­त­वि­म­त­बी­ज­क्ष­णो­ङ्कु­रो­प­ज­न­नो­प­यो­गि­बी­ज­सं­ता­न­नि­र्व­र्तको बीजक्षणमनपेक्षो न जनयेत् ; कुसूलस्थत्वात् , तत्का­लो­द्धृ­त­भ­क्षि­त­बी­ज­क्ष­ण­व­दि­त्या­शङ्क्य कुसू­ल­स्थ­त्वा­वि­शे­षेऽ­पी­त्यु­क्तम् । अङ्कु­रो­प­यो­गि­बी­ज­स­न्ता­ना­न­न्तः­पा­ति­त्व­मु­पा­धि­रि­त्यर्थः ।
स्वकार्योपजनने इति ।
अन­न्त­र­ज­न्य­बी­ज­ज­नन इत्यर्थः । तस्मा­दा­द्य­क्ष­णा­द­न­न्त­रा­न­न्त­र­व­र्तिन उप­र्यु­प­रि­व­र्ति­नोऽ­न­पेक्षः स्वस्वकार्यजनन इत्यनुषङ्गः ।
नन्व­न­न्त­र­क्ष­ण­प­रं­परा बहिर्भवतु , कुतः कुसूले एवा­ङ्कु­र­सि­द्धि­स्त­त्राह –
येन हीति ।
अनपेक्षस्य देश­भे­देऽ­प्य­पे­क्षा­वि­र­ह­सा­म्या­दि­त्यर्थः । नाऽसंहतस्य सामग्रीत्वं संहन्ता च न तवे­त्यु­क्त­म­भि­सं­धि­म­वि­द्वा­नि­त्यर्थः । अविद्यादिभिः कारणसंघातस्य य आक्षेपः स उत्पाद उत ज्ञापनम् ।
नाद्य इत्याह –
तत्रेति ।
यत्कार्यं तद­न्य­था­नु­प­प­द्य­मानं सत्कारणं नोत्पादयति ; अन्य­थाऽ­नु­प­प­द्य­मा­न­द­शायां तस्यासत्त्वात् , किं तु यदि जनकं , तर्हि स्वसामर्थ्येन , सामर्थ्यं चाविद्यमानस्य नास्तीत्यर्थः ।
न केवलं संघातानुपपत्तिः , किं तु संहतानां य इतरेतरमुपकारः सोऽपि नेत्याह –
अपि चेति ।
भाव­स्या­न्य­कृ­तो­प­का­रस्य च किमे­क­क्ष­ण­व­र्ति­त्व­मुत जाते भावे उत्तरक्षणे उपकारः ।
नाद्य इत्याह –
भावस्येति ।
यो ह्येकस्मिन् क्षणे उप­का­रा­भा­वा­द्धे­तु­ता­म­न­श्रु­वानः क्षणान्तरे तत्कृ­त­मु­प­का­र­मा­साद्य हेतुतां भजते , तस्य स उपकारोऽन्यकृत इति ज्ञायते । अपरथा स तस्य स्वभावः किं न स्यात् ? तव तु मते पदा­र्थ­क्ष­ण­स्या­भे­द्य­त्वा­द्व­स्तुन उप­कृ­त­त्वा­नु­प­कृ­तत्वे न संभवतोऽतश्च भाव­स्यो­प­का­रा­ना­स्प­द­त्वम् । तथा च नोप­का­र्यो­प­का­र­क­भाव इत्यर्थः ।
द्वितीयं प्रत्याह –
कालभेदेन वेति ।
क्षणि­क­त्व­व्या­घा­तात् कालभेदेनापि नोप­का­र्यो­प­का­र­क­भाव इत्य­ध­स्त­ने­ना­न्वयः । भाष्ये – आश्र­यि­भू­ते­ष्वि­त्ये­त­द­णु­वि­शे­ष­णम् । चकारश्च भोक्तृषु सत्सु चेत्युपरि संबन्धनीयः । आश्र­या­श्र­यि­शू­न्ये­ष्वि­त्यत्र च भावप्रधान्यम् आश्र­या­श्र­यि­त्व­शू­न्ये­ष्वि­त्यर्थः । आश्र­या­श्र­यि­भू­ते­ष्विति तु पाठे भोक्तृविशेषणम् । आश्र­य­श्चा­दृ­ष्ट­मिति ।
उक्त­म­भि­स­न्धि­म­वि­द्वा­निति यदुक्तं तद्विशदयति –
अस्तु तावदिति ।
अदृ­ष्टा­त्सं­घा­तो­त्प­त्ति­व्य­व­स्था­सि­द्धे­र्भा­ष्यो­क्त­दू­ष­णा­नु­प­प­त्ति­मा­श­ङ्क्याह –
स खल्विति ।
भोक्तृ­र्भो­गा­द­न्यत्वे हेतुमाह –
अप्राप्तभोगो हीति ।
भोक्तुः स्थिरतायां हेतुर्भोगार्थ इति। अर्थिदशायां भोगदशायां चानु­वृ­त्ते­स्थै­र्य­मि­त्यर्थः ।
अस्य विवरणं –
भोगमाप्तुकाम इति ।
इतरथा हि भोग­श्चा­सा­व­र्थीति भ्रमः स्यादिति। अन्यस्य भोगायान्यो न कल्पत इत्यर्थः ।
ननु संघातासिद्धौ कर्त्रभावो वाच्यो न भोक्त्रभावः कर्तुर्हि हेतुता , तत्राह –
भोक्त्रभावेनेति ॥१९॥
ननु निरु­द्ध­स्या­स्त्व­भा­व­ग्र­स्तता निरुध्यमानस्य कथमत आह –
न तावदिति ।
यथा हि आर­म्भ­क­त­न्त्वा­दि­सं­यो­गस्य नाशक्षणे पटा­दे­र्वि­द्य­मा­न­स्यैव विनश्यदवस्था वैशेषिकैः स्वीकृता , न तथा वैना­शि­कै­रि­त्यर्थः ।
ननू­भ­यो­र्वि­ना­श­ग्र­स्तत्वे को भेदस्तत्राह –
तस्मादिति ।
यद्वि­ना­श­ग्र­स्तत्वं तद­चि­र­नि­रु­द्ध­त्व­रूपं , सद् निरुध्यमानत्वं वक्तव्यं , तदेव चिर­नि­रु­द्ध­त्व­रूपं सद् विव­क्षि­त­मि­त्यर्थः ।
कार्यकाले कार­ण­स्या­स­त्त्वेऽपि पूर्व­क्ष­ण­स­त्त्वेन हेतुत्वं भाष्यो­क्त­म­यु­क्तम् ; मृदादीनां कार्येऽ­न्वी­य­मा­ना­ना­मु­पा­दा­न­त्वो­प­ल­म्भा­दिति ; तत्राह –
कारणस्य हीति ।
प्रायेणेति क्रिया­ज्ञा­न­व्या­वृ­त्त्य­र्थम् । एषां पदार्थानां या भूतिरुत्पत्तिः सैव क्रिया कारकमिति चोच्यते तदेव कारणमिति। सामान्यं हि भेद­वि­क­ल्पा­धि­ष्ठा­न­त्वेन कारणमित्यर्थः ।
ननु सादृश्यसिद्धौ तद्ब­ला­द­नु­ग­त­रू­प­सि­द्धि­स्त­देव नास्ति , असत्यपि सादृश्ये सादृश्यभ्रमादत आह –
सर्वथेति ।
ननु वैसादृश्येऽपि तन्तुभावे पट­भा­वा­दु­पा­दा­नो­पा­दे­य­भाव इत्याशङ्क्याह –
न चेति ।
एक­स्मि­न्प­दा­र्थ­क्षणे तद्भा­व­भा­व­स्या­श­क्य­ग्र­ह­त्वा­द्रा­स­भा­दा­वपि प्रस­ङ्गा­दि­त्यर्थः । अथ जात्युपाधौ कारणत्वं , तर्हि जातिरेव कारणं , व्यक्त­य­स्त­द­वस्थाः स्युर्नान्याः ।
अन्य­का­र­ण­त्व­स्या­न्य­त्रा­यो­गात् त्वया चैत­न्ने­ष्ट­मि­त्याह –
सामान्यस्य चेति ।
भाष्ये उत्पा­दा­दि­श­ब्दस्य वस्तुशब्दस्य च पर्या­य­त्वा­पा­द­नेऽपि वस्तुनो नित्यत्वापादनं द्रष्टव्यम् । तथा सत्यु­त्पा­द­नि­रो­ध­यो­र­भा­वा­दि­त्यर्थः ॥२०॥
प्रतिज्ञोपरोधं व्याख्यातुं चतुर्विधां नित्या­दि­प्र­तिज्ञां बौद्धीयां भाष्योक्तां दर्शयति –
नीला­भा­स­स्ये­त्या­दिना ।
तत्र तावच्चतुर्णां कार­णा­न­मे­क­स्मि­न्नी­ल­प्र­त्यये समुच्चयेन कार­ण­त्व­सि­द्ध्यर्थं द्वारभेदः प्रदर्श्यते । आलम्बनं च तत् प्रत्ययः कारणं चेति तथोक्तम् । उदितस्य ज्ञानस्य रसादिसाधारण्ये प्राप्ते रूपनियामकं चक्षुरधिपतिः लोके निया­म­क­स्या­धि­प­ति­त्वा­दिति।
एवं चित्तानां ज्ञानानां चतुर्भ्य उत्प­त्ति­मुक्त्वा चैत्तानामपि दर्शयति –
एवमिति ।
सुखं ज्ञानं , मनोजन्यत्वे सत्य­प­रो­क्ष­त्वात् , संमतवदित्यर्थः । अप­रो­क्ष­त्व­म­द्र­ष्टा­दि­व्या­वृ­त्त्य­र्थम् । एक­वि­ध­सा­म­ग्री­ज­त्वेन चित्तसबन्धो बौद्धसूत्रे चैत्तशब्दार्थः । चत्वार्येतानि कारणानि । अत एव चित्ता­भि­न्न­हे­तु­ज­त्वम् ।
उत्त­र­क्ष­णो­त्प­त्ति­काले पूर्व­क्ष­ण­स्थि­ता­वपि न स्थायित्वं सिद्ध्यति ; एक­क्ष­णेऽ­प्यु­भ­य­सं­भ­वाद् , उत्तरक्षणस्तु द्वितीयक्षणो भव­त्वि­त्या­श­ङ्क्याह –
उत्पत्तिरिति ।
भूति­त­त्क­र्त्रो­र­भे­दो­प­ग­मा­दु­त्त­र­भा­व­क्ष­ण­त­दु­त्पत्ती अभिन्ने । तथा च पूर्व­क्ष­ण­स्यो­त्त­र­क्षणं यावदवस्थितौ स्थायि­त्व­मि­त्यर्थः ॥२१॥
प्रतिशब्दः प्राति­लो­म्यार्थः संख्याशब्दो बुद्धिवचन इति व्याचष्टे –
भावेति ।
प्रतीपा विरोधिनी । नन्व­न्त्य­स­न्ता­निनो न फलानारम्भकत्वं , यतोऽ­स­त्त्वा­पत्तिः ।
न च फलारम्भे सन्तानानुच्छेदः ; न हि हेतुफलभावमात्रं सन्तानः , किं तु सजातीयानां हेतुफलभावस्तत्र विशु­द्ध­वि­जा­ती­य­क्ष­णो­त्प­त्ता­वपि सजा­ती­य­हे­तु­फ­ल­भा­व­रू­प­स­न्तानो निवर्तत इत्याशङ्क्याह –
न च सभागानामिति ।
हेतुमाह –
तथा सतीति ।
सादृश्यं हि सन्तानिनां ज्ञानानां तुल्य­जा­ती­य­वि­ष­य­त्वेन । विषयाणां च तुल्यजातीयत्वं किमपरजात्या , उत परजात्या ।
नाद्य­श्चै­त्त­स­न्ता­नेऽ­नु­व­र्त­माने एव रूप­ज्ञा­न­स­न्ता­न­वि­रमे रसज्ञानोदये सन्ता­नो­च्छे­द­प्र­स­ङ्गा­दि­त्युक्त्वा द्वितीयं दूषयति –
कथंचिदिति ।
सत्तया जात्या तत्सा­रू­प्य­म­स्तीति सोप­प्ल­व­स­न्ता­नो­प­रमे सति विशु­द्ध­स­न्ता­नो­द­येऽपि न सन्तानोच्छेदः स्यादित्यर्थः । सन्तानगोचरौ निरोधौ भावगोचरौ वेति विकल्प्याद्यं निरस्य द्वितीयं निरस्यति।
नापि भावगोचराविति ।
भाष्य­ग­त­नि­र­न्व­य­नि­रु­पा­ख्य­त्व­प­द­यो­र्हे­तु­हे­तु­म­द्भा­व­माह –
यत इति ।
अप­रि­शि­ष्य­मा­ण­रू­पत्वं निरन्वयत्वम् , असत्त्वं निरुपाख्यत्वम् ।
ननु यस्य घटादेर्विनाशः स नान्वयी , यस्य तु सामा­न्य­स्या­न्व­य­स्तन्न नश्यति , तत्कथं सान्वयत्वं नाशस्यात आह –
यद्य­द­न्व­यि­रू­प­मिति ।
तप्त­शि­ला­त­ल­प­ति­त­स्यो­द­बि­न्दो­र्दृ­श्य­मा­ना­न्व­यि­रू­पा­भा­व­म­ङ्गी­कृ­त्या­नु­मा­ना­द­न्वयः समर्थितः , इदानीं प्रत्य­क्षे­णा­नु­वृ­त्ति­माह –
शक्यं त्विति ।
उद­बि­न्दा­वु­प­ल­त­ल­प­तिते सिन्धौ समुद्रे च तोय­भा­व­स्तो­य­त्व­सा­मान्यं न भिद्यते । तस्मादुदबिन्दौ विनष्टेऽपि तस्य बिन्दोः सामा­न्य­रू­पे­णा­म्बु­धा­व­स्त्य­न्वय इत्या­न्त­र­श्लो­क­स्यार्थः ॥२२॥२३॥ मोक्षा­प्ति­हे­तु­त्वा­द्भा­व­नाया मार्गत्वम् ।
शब्द­स्या­का­शा­श्र­यत्वं परिशेषतः साधयति –
तथा हीति ।
तस्य हि न ताव­द्द्र­व्या­दि­भ्योऽ­न्यत्र प्रसङ्गः ।
प्रसक्ते च तेषु षट् स्वन्तर्भावे सामान्यादित्रये ताव­द­न­न्त­र्भा­व­माह –
जातिमत्त्वेनेति ।
त्रयाणां निःसा­मा­न्य­रू­प­त्वा­दि­त्यर्थः । द्रव्य­क­र्म­णो­र­न­न्त­र्भा­व­माह – गुणत्वेन ।
शब्द­स्या­का­शा­श्र­य­त्व­सि­द्धये –
अस्पर्शेति ।
शब्दो गुणः जातिमत्त्वे सति बाह्यै­के­न्द्रि­य­ग्रा­ह्य­त्वा­द्ग­न्ध­व­दि­त्यर्थः । वायुः स्पार्श­न­प्र­त्यक्ष इति मते तस्मिन् व्यभि­चा­रा­भा­वा­या­स्प­र्श­त्वोक्तिः । दिगा­दि­व्या­वृ­त्त्य­र्थ­मि­न्द्रि­य­ग्रा­ह्येति। द्वीन्द्रि­य­ग्रा­ह्य­द्र­व्य­वा­र­णाय एकेति । एके­न्द्रि­य­ग्रा­ह्य­ग­न्ध­त्वा­दि­जा­ते­र­पा­क­र­णाय जातिमत्त्वे सतीति। तथा­वि­धा­त्म­व्यु­दा­साय बाह्ये­त्यु­क्त­मिति ॥२४॥ सत्यप्येतस्मिन् अनुस्मरणे इत्यर्थः । उप­ल­ब्धृ­स्म­र्त्रो­र­न्य­त्वेऽपि स्मृति­रु­प­प­त्स्यत इत्यन्वयः । अस्मिन्मते क्रिया­ति­रि­क्त­क­र्त्र­भा­वा­दु­प­ल­ब्धि­स्मृती एव उपलब्धस्मर्तारौ तयो­र्भे­देऽ­प्ये­क­स­न्त­ति­ग­त­त्वेन कार्य­का­र­ण­भा­वा­न्ना­ति­प्र­सङ्ग इत्युक्तं भवति। प्रत्य­भि­ज्ञा­त्वेन समाज्ञातं सम्यग्ज्ञातम् ।
अहमद्राक्षीदिति यथाश्रुते अपप्रयोगता स्यात् , तां परिहरति –
अहं स्मरामीति ।
पूर्वो­त्त­र­क्ष­ण­द्व­य­ग्र­ह­णा­भावे तेने­द­मि­त्या­का­र­प्र­त्य­यो­द­या­यो­गा­द्भा­ष्य­स्थ­श­ङ्का­नु­प­प­त्ति­मा­श­ङ्क्याह –
न तु तत्त्वत इति ।
क्षणभङ्गवादी प्रष्टव्यः तेनेदं सदृशमिति प्रत्यये तत्ते­द­न्ता­व­च्छि­न्ना­वर्थौ तयोः सादृश्यं च किं न भासन्ते , भासमानानि वा किं ज्ञानस्याकाराः , उत तस्माद्भिन्नानि , यदा ज्ञानाकारत्वं तदा तज्ज्ञानं किमेकमुत नानेति।
नाद्य इत्याह –
स्वसंवेदनमिति ।
ज्ञाना­का­र­त्व­पक्षे एकस्य नानात्वं व्याहतमित्याह –
न चैकस्येति ।
ज्ञानभेदं निराचष्टे –
न च तावन्तीति ।
एकज्ञानेन नाना­प­दा­र्थो­ल्लेखे हि नाना इत्युल्लेखो भवति , न ज्ञानभेदे इत्यर्थः ।
परि­शे­षा­ज्ज्ञा­ना­द्भि­न्नोऽ­र्थोऽ­भ्यु­पे­य­स्तस्य च नानाकारस्य तत्ते­द­न्ता­स्प­दस्य परामर्शः स्थायिन्यात्मनि सति संभवतीत्याह –
तस्मादिति ।
ननु न वयमर्थस्य ज्ञानेऽ­व­भा­स­म­प­जा­नी­महे , येन प्रतीतिं विरुन्धीमहि , किं तु सोऽर्थः प्रतीतावारोपितो न बहिरस्ति , न च प्रती­ति­ता­व­न्मात्रः ? ततश्च न ज्ञानस्यैकस्य नाना­र्था­का­र­त्व­प्र­युक्तो व्याघातो न च बाह्या­र्था­भ्यु­प­ग­म­प्र­सङ्ग इति। विक­ल्प­प्र­त्य­योऽ­य­मि­त्या­दि­श­ङ्का­ग्र­न्थो­क्त­म­र्थ­मा­वि­ष्क­रोति –
यद्युच्येतेति ।
कल्पितोऽपि ज्ञानेऽर्थाकारः तस्मा­द्भि­न्नोऽ­भिन्नो वेति वक्तव्यम् । अनि­र्वा­च्य­त्वा­न­ङ्गी­का­राद् , भिन्नत्वे ज्ञाना­न्त­र­व­द­क­ल्पितः स्यात् , तथा च तेनेतीदमिति सदृशमिति च प्रति­भा­स­मा­ना­ना­म­र्था­ना­मे­क­ज्ञा­ना­भे­दा­भ्यु­प­गमे पर­स्प­र­म­प्य­भे­द­प्र­सङ्गः । तथा चेतरेतरभेदेन लोकप्रसिद्धाः पदार्था निह्णूयेरन् , ज्ञानाच्च ज्ञेयस्य भेदः प्रसिद्धः सोऽप्यपलप्तः स्यात् । ओमिति वन्दनं प्रति स्वपक्षसाधनम् ।
पर­प­क्षा­क्षे­पा­नु­प­प­त्ति­रुक्ता भाष्ये , तां विशदयति –
एकाधिकरणेति ।
इदं नित्य­मि­द­म­नि­त्य­मिति भिन्न­यो­र्ज्ञा­न­यो­रा­कारौ । तथा च धर्मिभेदेन व्यव­स्था­प­ना­द्वि­वादो न स्यादित्यर्थः ।
असति बाह्यालम्बनत्व इत्ये­त­द्वि­वृ­णोति –
ज्ञानाकारत्वे हीति ।
विषयत्वाभावाद् आश्रि­त­त्वा­भा­वात् ।
असति च लोक­प्र­सि­द्ध­प­दा­र्थ­कत्वे इत्यस्य विवरणं –
न चालौ­कि­का­र्थे­नेति ।
अनित्यशब्दो यद्य­लौ­कि­का­र्थ­स्तर्हि तेन विभुत्वमपि वक्तुं शक्यं , तथा च नित्यत्वेन तस्य न विरोध इत्यर्थः । प्रति­ति­ष्ठा­प­यि­षता स्थाप­यि­तु­मि­च्छता । एवं ताव­त्त­त्ते­द­न्ता­स्प­दा­दि­रर्थो ज्ञानस्यान्तर आकार इति विज्ञानवादिमतं बाह्या­र्थ­वा­द­दू­ष­ण­म­ध्येऽपि प्रस­ङ्गा­दा­शङ्क्य प्रतिचिक्षेप ।
इदानीमस्ति बाह्योर्थः , स तु क्षणिको निर्विकल्पके चकास्ति , सवि­क­ल्प­प्र­त्य­यास्तु विक­ल्पा­स्त­द्ग­त­सा­दृ­श्या­द्या­का­रेण निर्भासन्ते , अतो विप्र­ति­प­त्त्या­दि­व्य­व­हा­र­सि­द्धि­रिति बाह्या­र्थ­वा­द­मा­श्रि­त्यैव शङ्कते –
यद्युच्येतेति ।
ननु स्वग्राहकस्य ज्ञानस्य स्वयं तावद्ग्राह्यं कथमस्य बाह्या­का­र­वि­ष­य­त्व­मत आह –
द्विविधो हीति ।
स्वाकारस्य निर्वि­क­ल्प­स्या­व­सा­याद् अधि उपरि अवसेयोऽध्यवसेयः ।
अध्यवसेयस्य बाह्यार्थस्य निश्चि­त­त्वा­द­नि­श्चि­ता­र्थ­त्वा­पा­दकं भाष्यमयुक्तम् , इत्याशङ्क्याह –
अयमभिसंधिरिति ।
स्वमेव ज्ञानं प्रतिभासो यस्य तत्तथा ।
अनर्थ इति ।
अबाह्य इत्यर्थः । तस्मिन् बाह्या­त्म­त्वा­ध्य­व­सा­यात् प्रवृ­त्ति­र्हा­ना­दि­र्लो­क­स्ये­त्यर्थः । आन्त­र­स्या­न­भि­धे­यस्य ज्ञानाकारस्य तद्वि­प­री­त­बा­ह्या­का­र­रू­पे­णा­ध्य­व­सायो नाम किं तद्रूपेण निष्पादनमुत तेन संबन्धनं किं वा तेना­का­रे­णा­रो­प­ण­मिति विकल्पार्थः । आन्तरं बाह्येन सह योजयितुं च नेशत इति योजना । गृह्यमाणे बाह्ये ज्ञाना­का­र­स्या­न्त­र­स्या­रोप इति पक्षेऽ­धि­ष्ठा­नस्य बाह्यस्य केन ग्रहणं किं यस्याकार आरोप्यः तेनैव सवि­क­ल्प­क­प्र­त्य­ये­नोत तत्समसमयभुवा निर्विकल्पकेन ।
प्रथमे किं बाह्यमभिमतं यत्रारोपः स्वलक्षणं वा सामान्यं वा , नाद्य इत्याह –
न तावद्विकल्प इति ।
विकल्पः सवि­क­ल्प­क­प्र­त्य­य­स्ता­व­द­भि­ला­प­सं­स­र्ग­यो­ग्य­जा­ति­वि­शि­ष्ट­व­स्तु­गो­चरः । अभिलापस्य च शब्दस्य सामान्येनैव सह समयः शक्यो ग्रहीतुं न स्वलक्षणेन । तस्य देश­का­ला­न­नु­ग­त­त्वे­ना­न­न्त्या­त्तत्र संग­ति­ग्र­हा­यो­गात् अतः शब्दो­ल्लि­खि­त­स­वि­क­ल्प­क­प्र­त्य­यस्य न स्वल­क्ष­ण­वि­ष­य­त्व­मि­त्यर्थः । सुखादीनां क्षणि­क­भा­वा­ना­मात्मा स्वरूपमशक्यसमयः । यतोऽ­न­न्य­भा­ग­न्या­न­नु­गतो हि सः । अतस्तेषां स्वसं­वि­त्ति­र­सा­धा­र­णा­का­र­वि­षया वित्ति­र­भि­ज­ल्पा­नु­ष­ङ्गिणी न भवति , किंतु निर्वि­क­ल्पि­कै­वेति श्लोकार्थः । एतेन सामा­न्या­त्म­क­बा­ह्यस्य सविकल्पकबोधेन ग्रहणपास्तम् । व्यक्ति­म­गृ­हीत्वा तद्ग्र­ह­णा­यो­गा­द्व्य­क्ते­श्चो­क्त­मा­र्गे­णा­श­क्य­ग्र­ह­त्वा­दिति।
द्वितीयं निषेधति –
न चेति ।
विकल्पेनागृहीते बाह्ये विकल्पसमसमयेन निर्विकल्पकेन गृहीते । विकल्पः स्वाका­र­मा­रो­प­यितुं नार्हतीत्यर्थः ।
आद्ययोर्द्वितीय निषेधति –
अगृह्यमाणे त्विति ।
अधिष्ठानाग्रहणे आरोप्यमात्रं प्रतीयते नारोप इत्यर्थः ।
एवं ताव­द­धि­ष्ठा­न­प्र­ति­भा­सा­सं­भ­वा­द्बाह्ये ज्ञान­स्व­रू­प­स्या­रोपः प्रतिषिद्धः , इदा­नी­मा­रो­प्य­स्फु­र­णा­यो­गाच्च नारोप इत्याह –
अपि चेति ।
स्वसंवेदनं सन्तं विकल्पं यदा बाह्यं बाह्य­त्वे­ना­रो­प­यति , तदा किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चादारोपयतीति योजना । युग­प­त्स्वा­का­रस्य ग्रहणं बाह्यत्वेन चारोपणमिति पक्षे किं स्वाका­र­बा­ह्य­यो­रै­क्य­स्फु­र­ण­मा­रोप उत्ताख्यातिमत इव विवे­का­ग्र­ह­मा­त्रम् ।
नाद्य इत्याह –
स्वाकारो हीति ।
स्वप्र­का­श­क­त्व­प­र­प्र­का­श­त्वाभ्यां भेदा­व­भा­सा­न्नै­क्य­स्फु­र­ण­सं­भव इत्यर्थः । अन्यदेव स्यात् सिध्येत् प्रथेतेत्यर्थः ।
ननु स्वाकारः समारोपित इति। यः स्वाकारः स समारोपितात्मको न तु स्यादि­त्य­नु­षङ्गः , न स्फुरे­दि­त्ये­वार्थः । द्वितीये किं बाह्ये गृह्यमाणे विवेकाग्रहो मृषाव्यवहारं प्रसूते अगृग्यमाणे वा । नाद्य इत्याह –
न चेति ।
न द्वितीय इत्याह –
अपि चेति ।
अपिचकारः समुच्चयार्थे । एत­दु­प­प­त्ति­सा­हित्यं प्राच्या वक्ति एवं ताव­द्व­स्तु­स­न्त­मि­त्या­रभ्य ।
पर­मा­र्थ­ज्ञा­ना­का­रस्य बाह्य­व­स्त्वा­त्मना समारोपः प्रतिक्षिप्तः , इदानीं वास­ना­प­रि­प्रा­पि­तस्य कल्पि­त­ज्ञा­ना­का­रस्य बाह्ये समारोपं पराकरोति –
एतेनेति ।
तस्यापि स्वप्र­का­श­ज्ञा­न­व­त्त्वेन बाह्या­द्भे­द­ग्र­हस्य समत्वादित्यर्थः । पाशुपतस्य हि तपस्विन आत्मज्ञानाय चिह्नं कुर्वतः प्रमा­णा­कु­श­ल­ज­नै­र­प्यु­प­हा­सा­दा­त्म­स्व­प्र­का­श­त्व­म­व­ग­तम् ॥२५॥
बौद्धै­र­भा­व­स्या­र्थ­क्रि­या­का­रि­त्वा­न­भ्यु­प­ग­मा­त्क­थम् अभा­वा­द्भा­वो­त्प­त्ति­स्त­त्सि­द्धा­न्त­त्वे­ना­नूद्य निरस्यते ? तत्राह –
अस्थिरादिति ।
आपा­द्या­नु­वा­दोऽ­य­मिति वदिष्यन् क्षणिकस्य कारणत्वासंभवमाह –
उक्त­मे­त­दि­त्या­दिना ।
क्षणिकं कारणमिति वदन् प्रष्टव्यः तत्किमनपेक्षं सापेक्षं वेति। नाद्यः ; इत­रे­त­र­प्र­त्य­यत्वा (व्या.अ.२.पा.२.सू.१९) दिति सूत्रविवरणावसरे यद्य­न्त्य­क्ष­ण­प्राप्ता अनपेक्षा इत्यादिना निर­स्त­त्वा­दि­त्यर्थः । द्वितीयोऽपि तत्सू­त्र­व्या­ख्या­न­स­मय एव न क्षणिकपक्ष उप­का­र्यो­प­का­र­क­भा­वोऽ­स्ती­त्या­दिना ग्रन्थेन प्रत्युक्तः ।
तत्सूत्रोक्तं निरा­स­प्र­का­र­म­नु­व­दति –
सापेक्षतायां चेति ।
सापेक्षतायां चाक्ष­णि­क­त्व­प्र­सङ्ग इत्यन्वयः । क्षणिकोऽपि सापेक्ष इति वदन् प्रष्टव्यः स किम­न्य­कृ­तो­प­का­र­स्या­श्रयो न वेति।
आद्यस्य निरसनं –
क्षणस्येति ।
पूर्वमनुपकृतस्य पश्चा­दु­प­का­र­सं­बन्धे ह्युपकृतत्वं ज्ञातुं शक्यम् । इतरथोपकारस्य स्वाभा­वि­क­त्व­सं­भ­वे­ना­न्य­कृ­त­त्वा­सि­द्धि­रि­त्यर्थः ।
द्वितीयं प्रत्याह –
अनुपकारिणि चेति ।
तत­श्चो­प­कृ­त­त्वा­नु­प­कृ­त­त्व­ज्ञा­नाय क्षण­द्व­य­स्था­यित्वं वस्तुनो मन्त­व्य­मि­त्युक्तं भवति।
यदि क्षणिकस्य नोपकृतत्वं संभवति , अनुपकृतस्य च न सापेक्षत्वं , निरपेक्षस्य च कार­ण­त्व­म­ति­प्र­सङ्गि , तर्हि क्षणिको न सापेक्षो ; नापि निरपेक्षः , किंतु प्रका­रा­न्त­र­यो­गी­त्या­श­ङ्क्याह –
सापे­क्ष­त्वा­न­पे­क्ष­त्व­यो­श्चेति ।
कूटस्थस्यापि निय­त­श­क्ति­क­त्वा­द्भाष्ये सर्वतः सर्वो­त्प­त्ति­प्र­स­ङ्गा­नु­प­प­त्ति­मा­शङ्क्य सर्वतः सर्वा­व­स्था­त्त­ज्ज­न्य­स­र्वो­त्प­त्ति­रिति कार्य­यौ­ग­प­द्या­प­त्ति­प­र­तया व्याचष्टे –
अयमभिसंधिरिति ।
अन्यकृतोपकारस्य भावादभेदे सत्युपकारशब्देन भाव­रू­प­मे­वा­भि­हितं स्यात् , तस्य चान्यकृतत्वे कौटस्थ्यं व्याह­न्ये­ते­त्यर्थः । चर्मोपमश्चेत् स्थिरः कारणत्वाभिमतः पदार्थ उप­का­रा­श्र­य­श्चे­दि­त्यर्थः । उपकारादभेदे भावस्य स भावोऽनित्यः , भेदे स उपकारोऽनित्यः , स एव च कारणं न भाव इत्यर्थः ।
उप­का­रा­ना­श्र­यत्वे दूषणम् –
असत्फल इति ।
यदु­क्त­म­न्व­य­व्य­ति­रे­का­भ्या­मु­प­कार एव कार्यकारी न भाव इति , तत्राह –
न चैतावतेति ।
पर­मा­र्था­श्रि­त­त्वा­त्का­र्य­क­ल्प­नाया भाव उपादानं तद्ध­र्म­स्त्व­नि­र्वाच्य उपकारः कार्यो­प­यो­गी­त्यर्थः । श्रुतौ मृद्दृ­ष्टा­न्तस्य सत्य­त्वा­भि­धा­नाद् दार्ष्टा­न्ति­कस्य मूलकारणस्य सत्यत्वमुक्तम् ।
भेदा­भे­दा­भ्या­म­नि­र्वा­च्ये­नो­प­का­रे­णो­प­कृतं कारणं कार्य­म­नि­र्वाच्यं करोतीत्युक्तम् , तदयुक्तम् ; भेदनिषेधे अभे­दा­प­त्ते­र­भे­द­नि­षेधे च भेद­प्र­स­ङ्गा­दि­त्या­शङ्क्य बौद्धं प्रति प्रतिबन्दीमाह –
अपि च येऽपीति ।
किं व्यक्त्योरेव कार्यकारणभावः सामान्ययोर्वा तदु­प­हि­त­व्य­क्त्यो­योर्वा ।
न प्रथ­मोऽ­ति­प्र­स­ङ्गा­दि­त्य­भि­सं­धाय द्वितीये सामान्ये वस्तुनी अवस्तुनी वा , नाद्योऽ­प­रा­द्धा­न्ता­दि­त्याह –
न च बीजाङ्कुरत्वे इति ।
अवस्तुनोरेव सामान्ययोः कार्य­का­र­ण­भा­वोऽ­प्य­र्थ­क्रि­या­का­रिणः सत्त्वा­भ्यु­प­ग­मा­द­प­रा­द्धा­न्ता­वह – एव ।
अव­स्तु­सा­मा­न्यो­प­हि­तानां व्यक्तीनां कार्य­का­र­ण­त्वा­भ्यु­प­गमे तद्व­दु­प­का­र­का­र्य­यो­र­प्य­व­स्तु­त्व­सं­भ­व­सि­द्धि­रि­त्याह –
तस्मादिति ।
काल्पनिकात् काल्प­नि­क­सा­मा­न्यो­प­हि­ता­दि­त्यर्थः ।
यदि सामा­न्यो­पा­धा­न­म­न्त­रेण व्यक्तीनामेव कार्य­का­र­ण­भा­व­स्तत्र दोषान्तरमाह –
अन्यथेति ।
अनुमानं हि सामान्योपाधौ प्रवर्तते , व्यक्ती­ना­मा­न­न्त्येन व्याप्ति­ग्र­हा­यो­गा­दि­त्यर्थः ॥२६॥२७॥
इति चतुर्थं ससुदायाधिकरणम् ॥

नाभाव उपलब्धेः ॥२८॥ रूपा­दि­र­हि­त­ब्र­ह्म­ज­ग­दु­पा­दा­न­त्व­वा­दि­स­म­न्व­यस्य विज्ञानं नीला­द्या­का­र­मि­त्य­नु­मा­न­वि­रो­धा­वि­रो­ध­सं­देहे पूर्वो­क्त­स­मु­दा­या­प्रा­प्त्या­दि­दू­ष­णा­न्यु­प­जीव्य बाह्या­र्था­प­ला­पा­द्धे­तु­हे­तु­म­ल्ल­क्षणां सङ्ग­ति­मा­हे­त्यर्थः । व्याघातेन पूर्व­प­क्षा­नु­त्था­न­मा­श­ङ्कते –
अथेति ।
चोद्य­प्रा­र­म्भा­र्थोऽ­थ­शब्दः । वस्तु­व्य­व­स्थित्यै प्रमा­णा­द्य­भ्यु­प­गम्य तन्निषेधो व्याघात इत्यर्थः ।
बुद्धि­प­रि­क­ल्पि­ते­नेति ।
विभागमात्रं ज्ञेया­द्या­का­राणां परिकल्पितं ज्ञेयादिरूपत्वं बुद्धे­र्वा­स्त­व­मेव ।
ननु नीलाद्याकारं विज्ञानम् इत्यनुमाने वेदान्तिनां सिद्धसाधनम् ; ब्रह्मणो विज्ञानात्मकस्य नीला­द्या­त्म­क­त्वाद् , अन्यथा तद­द्वै­ता­सि­द्धे­रत आह –
एवं चेति ।
बौद्धा हि वित्ते­र्वि­ज्ञा­न­स्या­न्तरं नीला­दि­रू­प­मा­च­क्षते , न वयमित्यर्थः ।
बुद्धौ परिकल्पितं ज्ञेया­दि­वि­भा­ग­मु­प­पा­द­यति –
तथा हीति ।
असत्याकारेति ।
आका­र­स्या­स­त्यत्वं बाह्य­रू­पे­णा­स­त्ये­ना­न्त­र­रू­पेण सत्येनाकारेण युक्तमित्यर्थः ।
ननु बाह्या­र्थ­स­त्यत्वे प्रमाणादयः सत्याः सिध्यन्ति , किं कल्पि­त­त्वे­ने­त्या­शङ्क्य तन्मते प्रमेयविभागः सत्य उपलभ्येतापि , प्रमा­ण­फ­ल­वि­भा­ग­स्ता­व­न्मिथ्या , तथा चार्था­त्प्र­मे­य­मि­थ्या­त्व­मा­प­त्स्यत इत्यभिप्रेत्याह –
बाह्य­वा­दि­नो­र­पीति ।
वैभाषिकमते प्रमा­ण­फ­ल­वि­भा­गस्य कल्पि­त­त्व­मु­प­पा­द­यति –
भिन्नाधिकरणत्वे हीति ।
प्रमाणं हि करणं प्रमितिः फलं तयो­र्भि­न्ना­धि­क­र­णत्वे करणफलभावो न स्यात् ।
करणफलभाव एका­धि­क­र­ण­यो­रे­वे­त्यत्र दृष्टान्तमाह –
न हीति ।
यद्यपि परशुः स्वावयवेषु समवेतो द्वैधीभावस्तु स्वदिरे ; तथापि व्यापा­रा­वि­ष्ट­क­र­णी­भूतः परशुः संयोगेन खदिराधिकरण इति कर­ण­फ­ल­यो­रै­का­धि­क­र­ण्यम् ।
भवतु प्रमा­ण­फ­ल­यो­रे­का­धि­क­र­णता , तावता कथं तद्विभागस्य कल्पि­त­त्व­सि­द्धि­रत आह –
कथं चेति ।
यदि ज्ञानस्थे एव प्रमाणफले भवतः , तर्ह्येव तदैकाधिकरण्यं भवति ; इतरथा कथं भवतीत्यर्थः ।
ननु भवेतां ज्ञानस्थे एव प्रमाणफलेऽतो वा किं जातमत आह –
न च ज्ञानं स्वलक्षणमिति ।
न तावत् कुण्डे बदरवज्ज्ञाने प्रमा­ण­फ­ल­यो­र­व­स्था­न­सं­भवः ; ज्ञान­स्या­सं­यो­गि­त्वात् , तादात्म्येन तु स्यादवस्थानं , न च वस्तुतो भिन्ना­भ्या­मे­क­स्यै­क्यो­प­प­त्ति­स्ततः काल्प­नि­क­प्र­मा­ण­फ­ल­भेद इत्यर्थः ।
तमेव दर्शयति –
तदेवेति ।
अज्ञा­न­व्या­वृ­त्त्या­त्म­का­पो­ह­रू­पेण कल्पितो ज्ञान­त्व­सा­मा­न्य­रू­पोंऽशो यस्य तत्तथोक्तम् । अश­क्ति­व्या­वृ­त्ति­रू­पेण कल्पिता विज्ञा­न­स्या­त्मानं स्वम­ना­त्मा­न­मर्थं प्रति च या प्रकाशनशक्तिः सोंशो यस्य तद्विज्ञानं तथा । तच्च प्रमाणमित्यर्थः । वैभाषिकस्य बाह्योऽर्थः प्रत्यक्षः सौत्रान्तिकस्य ज्ञान­ग­ता­का­र­वै­चि­त्र्ये­णा­नु­मेयः ।
तन्मतेऽपि प्रमा­ण­फ­ल­वि­भा­गस्य कल्पितत्वमाह –
एवमिति ।
ज्ञानगतं बाह्य­नी­ल­सा­रूप्यं भास­मा­न­म­नी­ला­का­रा­पो­ह­रू­पेण कल्पितं , तच्च बाह्यमर्थं व्यवस्थापयति , प्रतिबिम्बमिव बिम्बम् , अतः प्रमाणम् । ज्ञाना­त्स­का­शा­द्य­द­न्य­त्त­द्व्या­वृ­त्ति­रू­पेण कल्पितं ज्ञानत्वं सामान्यं फलं , तद्धि सारू­प्य­ब­ला­न्नी­ल­ज्ञा­न­त्वेन व्यवस्थाप्यते ।
अस्मिन्नपि मते प्रमेयं पर­मा­र्थ­भि­न्न­मिति सारूप्यस्य ज्ञान­ज्ञे­य­भा­व­व्य­व­स्था­प­कत्वे सौत्रा­न्ति­क­व­च­न­माह –
तथा चेति ।
वित्तिसत्तैव तद्वेदना । तस्यार्थस्य वेदना न युक्ता । कुतः ? तस्या वित्तिसत्तयाः सर्वत्रार्थे विशेषाभावात् । ज्ञानमात्रं हि सर्व­ज्ञे­य­सा­धा­र­णम् । तस्मात्तां तु वित्तिं सारूप्यमाविशद् घटयेत् ।
किं घटयेदित्यत आह –
सरूपयत्तदिति ।
तद्बाह्यं वस्तु सरूपयत् स्वेन रूपेण सरूपां वित्तिं कुर्वद् घटयेद् वित्त्या सह विषयभावेन योजयेदित्यर्थः । सरूपयन्तमिति पाठे अर्थमिति शेषः ।
एवं संभाविते पूर्वपक्षे साधकप्रमाणानि कथयतीत्याह –
प्रश्न­पू­र्व­क­मिति ।
स्तम्भाद्यर्थः किं पर­मा­णु­स्त­त्कृ­तोऽ­व­य­वीवा । प्रथमे किं पर­मा­णु­मा­त्र­स्त­द्गो­च­र­प्र­ती­ति­वि­शे­ष­कृतो वा ।
तत्र परमाणुमात्रत्वं निषेधति –
स हीति ।
भास­मा­ना­द­न्य­गो­च­र­त्व­मा­त्र­म­ति­प्र­सङ्गः ।
आद्यद्वितीयं द्वेधा विकल्प्य दूषयति –
न चेति ।
प्रतिभासनकाले तदुपाधिं कृत्वा अर्थस्य धर्म इत्यर्थः । स्वांशः स्वाकारः ।
ग्रहेऽनेकस्येति ।
अनेकस्य परमाणोरेकेन ज्ञानेन ग्रहणे किंचित् स्थूलं रूपं गृह्यते तच्च सांवृतम् ।
सांवृतत्वस्य विवरणं –
प्रतिभासस्थमिति ।
विश­क­लि­त­प­र­मा­णु­त­त्त्वा­च्छा­द­क­त्वा­त्सं­वृ­त्ति­र्बुद्धिः ।
स्वाभा­वि­क­त्व­भावे हेतुमाह –
एकात्मनीति ।
एकपरमाण्वात्मनि औपाधिकविषयत्वे स्थूल­बु­द्धे­र्भ्रा­न्ति­त्व­मा­शङ्क्य द्वितीयश्लोकेन परिह्रियते –
न चेति ।
तस्य स्थूलस्य दर्शनं न च भ्रान्तम् ; यतः कार­णा­न्ना­ना­व­स्तूनां परमाणूनां ग्रहणात् सकाशात् सांवृतस्य स्थूलस्य ग्रहणमन्यत्र भवति। य एव हि भिन्न­धी­गृ­ही­तास्त एव निरन्तराः परमाणव एकधिया गृह्यमाणाः स्थूलमिति निर्भासन्ते । ते च वस्त्वेव वस्तुग्रहश्च न भ्रम इत्यर्थः ।
एवं स्थूल­नी­ला­व­भा­सस्य सालम्बनत्वं बाह्यार्थवादिना समर्थितं विज्ञानवादी दूषयति –
तन्नेति ।
यदि निरन्तरा नीलपरमाणव एकधीगोचरा नीलं , तर्हि नैर­न्त­र्य­म­सि­द्धम् । नीलपदार्थे च रस­ग­न्ध­स्प­र्श­प­र­मा­णू­ना­मपि सत्त्वेन रूपपरमाणूनां नैर­न्त­र्या­भा­वा­दि­त्यर्थः । आरात् दूरात् । घनं निबिडं तदेव वनम् ।
ननु स्थूलप्रत्ययस्य न भ्रान्तित्वं युक्तम् ; स्वल­क्ष­ण­वि­ष­य­त्वेन निर्वि­क­ल्प­क­त्वात् , सविकल्पकं ह्यव­स्तु­भू­त­सा­मा­न्य­वि­ष­य­त्वाद् भ्रान्त­मि­त्या­श­ङ्क्याह –
तस्मादिति ।
कल्पना अभिलापः । तदपोढं तद्रहितम् । यद्यपि स्थूलं व्यक्तिज्ञानं व्यक्तौ संब­न्ध­ग्र­ह­स्या­भा­वेन शब्द­वा­च्य­त्वा­भा­वात् तथापि भ्रान्त­त्वा­न्नास्य प्रत्यक्षता कल्प­ना­पो­ढ­म­भ्रा­न्त­मिति प्रत्य­क्ष­ल­क्ष­ण­क­र­णा­दि­त्यर्थः ।
आद्य­क­ल्प­यो­र्द्वि­तीयं निराकरोति –
नापि तत्समूहा इति ।
परमाणुभ्यः स्तम्भादीनां भेदे संबन्धोऽस्ति न वा । यदि न , कथं तर्ह्यु­पा­दा­नो­पा­दे­य­भावः ? अस्ति चेत्तर्हि संब­न्ध­स्ता­दात्म्यं समवायो वा । नाद्यो व्याघातात् । न द्वितीयो वैशेषिकाधिकरणे (ब्र.अ.२.पा.२.सू.१२) हि भिन्नयोः समवायो निरस्त इत्यर्थः ।
भाष्यकारेण ज्ञाने भास­मा­न­स्त­म्भा­द्या­का­र­वै­चि­त्र्या­न्य­था­नु­प­पत्त्या स्तम्भा­दे­र्ज्ञा­ना­का­र­त्व­मु­क्तम् , तदयुक्तम् ; भिन्न­स्यै­वा­र्थस्य ज्ञानेन प्रका­श­न­सं­भ­वा­दि­त्या­शङ्क्य भेदाभ्युपगमे अर्थ­स्या­प­रो­क्षता न स्यादित्याह –
न तावदित्यादिना ।
मा भूज्ज्ञानम् अर्थ­वि­ष­य­ज्ञा­ना­न्त­रस्य जनकं , मा च विषयाश्रितं प्राक­ठ्य­म­ने­ना­जनि , तथापि स्वभा­व­सं­ब­न्धा­द­र्थ­वि­ष­य­व्य­व­हारं जन­ये­दि­त्या­श­ङ्क्याह –
तच्चेति ।
ज्ञान­मा­त्रा­का­रस्य सर्व­ज्ञे­य­सा­धा­र­ण्या­न्नी­ला­का­र­व­ज्ज्ञानं नील­व्य­व­हा­र­हे­तु­रि­त्यर्थः ।
विज्ञानवादी सौत्रा­न्ति­क­स्यापि संमतमिति वदंस्तदुक्तिमाह –
तदुक्तमिति ।
ननु न सौत्रान्तिकेन ज्ञानस्यैव नीलमाकार इत्युच्यते , किं तु बाह्यनीलसदृशो ज्ञानस्य नीलाकारोऽस्तीति तत्कथमर्थस्य ज्ञाना­का­र­त्व­सं­म­ति­रत आह –
एकश्चेति ।
स्वीकृते ज्ञान­नि­ष्ठ­नी­ला­कारे तेनैव व्यव­हा­रो­प­प­त्तेर्न बाह्य­सि­द्धि­रि­त्यर्थः ।
एवं प्रत्यक्षेण ज्ञाना­भे­द­म­र्थस्य सम­र्थ्या­नु­मा­ना­दपि समर्थयते –
यद्येन सहेत्यादिना ।
विज्ञानवादिना यो ज्ञाना­र्थ­यो­र्भेदो निषिध्यते , तद्व्यापकस्य सहो­प­ल­म्भ­नि­य­मा­भा­वस्य विरुद्धो यः सहो­प­ल­म्भ­नि­य­म­स्त­दु­प­ल­ब्धि­स्त­तश्च व्यापकाभावे व्याप्यभेदाभाव इति।
व्याप­क­वि­रु­द्धो­प­लब्धिं प्रपञ्चयति –
निषेध्यो हीति ।
अश्विनौ नक्षत्रे । यो यन्मा­त्रा­नु­बन्धी यदात्मा च स तत्र स्वभावहेतुः । उक्तं हि - ‘ तद्भा­व­मा­त्रा­न्व­यिनि स्वभावो हेतुरात्मनी’ति।
तद्भावं प्रकृते दर्शयति –
बाह्यानालम्बनता हीति ।
प्रत्य­य­त्व­मा­त्रा­नु­ब­न्धि­नीति ।
तदात्मेत्यपि द्रष्टव्यम् । निरा­ल­म्ब­न­त्व­स्या­भा­वस्य प्रत्य­य­रू­प­भा­वा­त्म­क­त्वात् । उक्तं हि न ह्यन्या­सं­स­र्गिणो भावादन्योऽभाव इति। एवं तावत्प्रत्यये नीलाकारः स्वीकृ­त­श्चे­त्ते­नैव व्यव­हा­र­सि­द्धे­र्बा­ह्या­र्थ­वै­य­र्थ्य­मु­क्तम् ।
तत्र प्रत्य­य­ग­ता­र्था­का­र­भा­न­मेव बाह्यार्थं कल्पयतीति प्रत्ययतिष्ठते इत्याह –
सौत्रान्तिक इति ।
बाह्या­र्थ­स­द्भा­वेऽ­नु­मा­न­माह –
ये यस्मिन्निति ।
सौत्रान्तिकः त्वात्म­स­न्ता­न­मेव दृष्टान्तयति –
यथेति ।
अविवक्षति विव­क्षा­म­कु­र्वति। अजिगमिषति गन्तुमनिच्छति ।
मयि विव­क्षु­जि­ग­मि­षु­पु­रु­षा­न्त­र­स­न्ता­ना­श्रि­त­ग­म­न­व­च­न­वि­ष­य­प्र­ति­भासा यथा मयि सति कादाचित्का मद्व्य­ति­रि­क्त­पु­रु­षा­न्त­र­स­न्ता­न­म­पे­क्षन्ते , तथा दार्ष्टा­न्ति­केऽ­पी­त्याह –
तथाचेति ।
अह­मि­त्यु­दी­य­मा­ना­ल­य­वि­ज्ञा­नेन जन्य­मा­ना­स्त­द­ति­रि­क्त­ज­न्य­त्वा­ज­न्य­त्वाभ्यां विवादाध्यासिताः शब्द­स्प­र्श­रू­प­र­स­ग­न्ध­सु­खा­दि­वि­षयाः षड­प्य­र्थ­वि­ष­य­प्र­वृ­त्ति­हे­तु­त्वात् प्रवृ­त्ति­प्र­त्ययाः सत्य­प्या­ल­य­वि­ज्ञा­न­स­न्ताने कदा­चि­द्भ­व­न्त­स्त­द­ति­रि­क्त­हे­तुका इत्यर्थः ।
अर्था­न्त­र­मा­श­ङ्क्याह –
यश्चेति ।
अन्य­स्या­सं­भ­वा­दि­त्यर्थः ।
असंभवोऽसिद्ध इति शङ्कते –
वासनेति ।
शङ्का­ग्र­न्थो­क्त­मर्थं व्याख्या­न­पू­र्वकं दूषयति –
नन्विति ।
तत्प्रवृत्तीति ।
तस्यां सन्ततौ प्रवृ­त्ति­वि­ज्ञा­नानि नीलादिविषयाणि तज्ज­न­न­श­क्ति­र्वा­स­ने­त्यर्थः । तत्प्रत्येति प्रत्यागच्छति उत्पद्यतेऽनेन परिपाक इति प्रवृ­त्ति­वि­ज्ञा­न­ज­न­का­ल­य­वि­ज्ञा­नात् पूर्वं आल­य­वि­ज्ञा­न­स­न्ताने यदा­क­दा­चि­दु­त्पन्नो नीलादिप्रत्ययः प्रत्यय इत्युक्तः ।
ननु किमिति स्वस­न्त­ति­प­ति­त­पू­र्व­क्षण एवो­त्त­र­क्ष­ण­व­र्ति­प­रि­पा­क­का­र­ण­मा­श्री­यते –सर्व­ज्ञा­ना­दि­स­न्ता­न­वर्ती क्षणः किं न कारणं स्यादत आह–
संतानान्तरेति ।
अत्र च हेतुं वक्ष्यति – न च ज्ञान­सं­ता­ना­न्त­र­नि­ब­न्ध­नत्वं सर्वेषामिति ग्रन्थेन ।
एवं शङ्काभिप्रायं विशदीकृत्य दूषयति –
तथाचेति ।
प्रवृ­त्ति­वि­ज्ञा­न­ज­न­का­ल­य­वि­ज्ञा­न­व­र्ति­वा­स­ना­प­रि­पाकं प्रति सर्वेऽ­प्या­ल­य­वि­ज्ञा­न­सं­ता­न­व­र्तिनः क्षणा हेतव इति वक्तव्यम् ।
न चेदेकोऽपि हेतुर्न स्यादिति बाधकमाह –
न वा कश्चिदिति ।
सर्वेषां हेतुत्वे च दूषणं वक्ष्यते ।
इदानीमेकस्यैव हेतुत्वमिति पक्षं सौत्रान्तिकं प्रति विज्ञानवादी शङ्कते –
क्षणभेदादिति ।
आल­य­वि­ज्ञा­न­सं­ता­न­व­र्ति­क्ष­णानां भेदादस्ति प्रतिक्षणं शक्तिभेदस्तस्य च शक्तिभेदस्य कादाचित्कत्वात् शक्तै­क­क्ष­णा­न­न्तरं कार्य­स्या­ल­य­वि­ज्ञा­न­क्ष­ण­व­र्ति­वा­स­ना­प­रि­पा­कस्य तज्ज­न्य­प्र­वृ­त्ति­वि­ज्ञा­नस्य च कादाचित्कत्वं सिध्यतीत्यर्थः ।
दूषयति सौत्रान्तिकः –
नन्वेवमिति ।
एक­स्या­ल­य­वि­ज्ञा­नस्य प्रवृ­त्ति­वि­ज्ञा­ना­ख्य­नी­ल­ज्ञा­नो­प­ज­न­सा­मर्थ्यं स्यात्ततः प्राक्त­न­स्या­ल­य­वि­ज्ञा­न­व­र्ति­नी­ला­दि­वि­ज्ञा­न­क्ष­णस्य चैकस्यैव तत्प्र­बो­ध­सा­म­र्थ्य­मु­त्त­र­क्ष­ण­ग­त­वा­स­ना­प­रि­पा­का­ख्य­प्र­बो­ध­सा­मर्थ्यं स्यादिति द्वे एव ज्ञाने एकस्यामालयसंततौ कारणे स्यातां नेतराणीत्यर्थः ।
यदीतरेषामपि पूर्वज्ञानानां परि­पा­क­हे­तु­त्व­मु­त्त­रो­त्त­रेषां च प्रवृ­त्ति­वि­ज्ञा­न­ज­न­न­सा­म­र्थ्य­मि­ष्यते तत्राह –
सत्त्वे वेति ।
भवन्तु सर्वे क्षणाः समर्थास्तत्राह सम­र्थ­हे­तु­स­द्भावे इति। यदवादिष्म सर्वेषां हेतुत्वे दूषणं वक्ष्यतीति तदनेन ग्रन्थेन क्रियते । यद्यनादिसंततौ पतिता आलयज्ञानक्षणाः सर्व एव नील­ज्ञा­न­ज­न­न­स­मर्थाः , तर्हीदं नीलज्ञानं सदा स्यान्न तु कदाचिदित्येव निषेध्यं यत्का­दा­चि­त्कत्वं तस्य विरुद्धं सदातनत्वं तस्या­प­त्ति­द्वा­रेण उपलब्ध्या कादाचित्कत्वं नीलज्ञानस्य निवर्तेत , नतु निवर्तितुमर्हति ; दर्शनादेव । तत आल­य­वि­ज्ञा­ना­द्य­द्धे­त्व­न्तरं बाह्योऽ­र्थ­स्त­द­पे­क्षत्वे व्यवतिष्ठते ।
ततः किं जातमत आह –
इति प्रति­ब­न्ध­सि­द्धि­रिति ।
ये यस्मिन्सत्यपि कादाचित्कास्ते तद­ति­रि­क्ता­पेक्षाः इति प्राक् सौत्रा­न्ति­को­क्त­व्या­प­कयोः प्रति­ब­न्ध­सि­द्धि­र्व्या­प्ति­सि­द्धि­रि­त्यर्थः ।
ननु नील­वि­ज्ञा­न­म­पे­क्षतां हेत्वन्तरं , तदेव हेत्व­न्त­र­मा­ल­य­वि­ज्ञा­न­सं­ता­ना­न्त­र­मस्तु , कुतो बाह्या­र्थ­सि­द्धि­रि­त्य­र्था­न्त­र­ता­म­नु­मा­न­स्या­श­ङ्क्याह –
नचेति ।
चैत्रसंताने विच्छिन्नौ गमनवचनप्रतिभासौ यस्य तत्काले उदयतो मैत्र­सं­ता­न­स्थ­ग­म­न­व­च­न­वि­ष­य­वि­ज्ञा­नस्य तत्तथोक्तम् । तस्यैव विज्ञानवादिभिः संता­ना­न्त­र­नि­मि­त्त­त्व­मि­ष्यते , नतु विवक्षति जिगमिषति च चैत्रे यद्ग­म­न­व­च­न­प्र­ति­भानं तस्यापि । तस्य तु चैत्र­सं­ता­न­मा­त्र­हे­तु­कत्वं , तच्च निरस्तमिति बाह्यार्थपेक्षा वाच्येत्यर्थः ।
यदि तु तथाविधस्यापि प्रवृ­त्ति­वि­ज्ञा­न­स्या­ल­य­वि­ज्ञा­न­सं­ता­ना­न्त­र­नि­ब­न्ध­न­त्व­मि­ष्यते , तत्राह –
अपि चेति ।
सत्त्वान्तरं प्राण्यन्तरम् । विज्ञानानां समवायी देशोऽभ्युपेयते , संयोगी वा यद्भे­दा­द्वि­प्र­कर्षः ।
नाद्य इत्याह –
विज्ञा­ना­ति­रि­क्तेति ।
वैशेषिकादिवत् त्वया ज्ञान­स­म­वा­य्या­त्मा­न­भ्यु­प­ग­मा­दिति भावः ।
न द्वितीय इत्याह –
अमू­र्त­त्वा­च्चेति ।
नास्ति संयोगदेश आधारो येषां तानि तथा तदा­त्म­क­त्वा­दि­त्यर्थः ।
संतानानां कालतोऽपि न व्यवधानमित्याह –
संसारस्येति ।
एवं हि संतानान्तरस्य कालविप्रकर्षः स्याद्यदि संप्रतितनस्य चैत्र­सं­ता­न­सं­जा­त­नी­ल­ज्ञा­नस्य सम­न­न्त­र­पू­र्व­क्षणे मैत्रसंतानं उत्पद्येत । इतरथा तस्या­प्य­ना­दित्वे काल­वि­प्र­क­र्षा­भा­वा­त्तथा च संसारः सादिः स्यादित्यर्थः । यस्मा­त्स­न्ता­ना­न्त­र­नि­मि­त्त­त्वेऽपि तस्य सदा सन्निधानात् प्रवृ­त्ति­वि­ज्ञा­नस्य कादा­चि­त्क­त्व­म­नु­प­पन्नं , तस्मा­दि­त्यु­प­सं­ह­रति। प्रवृ­त्ति­प्र­त्यय आल­य­वि­ज्ञा­ना­ति­रि­क्त­हे­तुक इति पक्षस्य स्वसं­ता­न­मा­त्र­नि­मि­त्त­क­त्वम् विप­क्ष­स्त­स्मा­त्स­न्दिग्धा व्यावृ­त्ति­र्यस्य स हेतुस्तथा तत्त्वेत्यर्थः ।
स्वस­न्ता­न­मा­त्र­नि­मि­त्त­त्व­मु­प­पा­द­यितुं प्रतिबन्दीमाह –
बाह्य­नि­मि­त्त­क­त्वेऽ­पी­त्या­दिना ।
नन्वा­ल­य­वि­ज्ञा­न­क्ष­णानां संब­न्धि­स्व­स्व­हे­तु­वै­चि­त्र्या­त्सा­म­र्थ्य­भे­देऽ­प्ये­क­स­न्त­ति­प­ति­त­त्वा­वि­शे­षा­दे­क­विधं सामर्थ्यं स्यादि­त्या­श­ङ्क्याह –
न च संतानो नामेति ।
आल­य­वि­ज्ञा­न­स­न्ता­नैक्ये क्षणभेदेऽपि न सामर्थ्यभेद इत्युपपाद्य तद्व्य­ति­रि­क्त­बा­ह्या­र्थ­स­न्ता­न­भेदे स्याच्छक्तिभेद इत्याह –
संतानभेदे त्विति ।
आलयविज्ञानानां नीला­दि­बा­ह्या­र्थ­स­न्ता­नानां च सामर्थ्यं भेदः ।
तत­श्चा­ल­य­वि­ज्ञा­न­स­न्ता­नै­र­ज­न्य­मपि नीलादिसंवेदनं बाह्य­नी­ला­दि­स­न्ता­नै­र्ज­न्यत इति चेत्तत्र दूषणमाह –
हन्त तर्हीति ।
बाह्यार्थवादे हि क्षणि­क­त्वा­न्नी­ला­र्थानां प्रतिनीलार्थं भिन्नाः सन्ति नील­स­न्ता­ना­स्तत्र सन्ता­न­भे­दा­च्छ­क्ति­भे­दो­प­गमे नील­स­न्ता­ना­ना­म­प्ये­क­वि­धा­श­क्तिर्न स्यात् , तथा चैकमेव नीलं नीलाकारज्ञानं जनयेद् , न सन्ता­ना­न्त­र­व­र्ती­त्यर्थः ।
चोद्य­सा­म्य­मुक्त्वा परिहारसाम्यमाह –
तस्मा­त्स­न्ता­ना­न्त­रा­णा­मि­त्या­दिना ।
तथा नील­पी­ता­दि­स­न्ता­ना­न्त­राणां स्वस्व­का­र­ण­भे­दा­त्सा­म­र्थ्य­भेद एव­मा­ल­य­वि­ज्ञा­न­स­न्ता­न­प­ति­त­क्ष­णा­न्त­रा­णा­म­पी­त्यर्थः । स्वप्रत्ययः पूर्वो­दि­त­नी­ला­दि­प्र­त्ययः ।
वास­ना­वै­चि­त्र्या­दिति भाष्य­स्थ­वा­स­ना­श­ब्दा­र्थ­माह –
आलयविज्ञानेति ।
असं­वि­दि­त­म­वि­ज्ञा­त­म­र्था­त्पू­र्व­मिति लभ्यते ; वर्तमानस्य संविदितत्वाद् अना­ग­त­स्या­सि­द्ध­स­त्ता­क­त्वा­त्ता­दृ­श­ज्ञानं वासना । न ह्यस्म­न्म­तेऽस्ति स्थायिनी वासनेति भावः । पूर्वं शक्ति­र्वा­स­ने­त्यु­क्तम् , इदानीं शक्ति­श­क्ति­म­तो­र­भे­दा­द्वि­ज्ञा­न­मिति न विरोधः ।
ननु पूर्व­ज्ञा­ना­त्म­क­वा­स­ना­वै­चि­त्र्या­च्चे­दु­त्त­र­ज्ञा­नानां वैचित्र्यं , तर्हि पूर्व­ज्ञा­न­वै­चि­त्र्य­मेव कुतस्तत्राह –
पूर्वनीलादीति ।
अनेनानादौ संसार इति भाष्यं व्याख्यातम् । तत्रभवता भाष्यकारेण प्रमा­ण­प्र­वृ­त्त्य­प्र­वृ­त्ति­पू­र्वकौ संभवासंभवाविति वदतैतदिह सूचयांबभूवे । यथा किल ज्ञानाद्भेदेन स्थूल­स्या­र्थ­स्या­सं­भवः परेण भाष्यते , एवमभेदेनापि मया स सुभाष इत्य­प्र­यो­ज­कोऽ­स­म्भवः । प्रमाणं त्वावा­भ्या­मा­द­र्त­व्य­मिति।
तत्रासम्भवं परमते दर्शयति –
इदमत्रेत्यादिना ।
तत्र बौद्धेन ज्ञाना­द्भि­न्नस्य स्थूला­र्थ­स्या­सं­भ­व­मु­च्य­मा­न­म­नु­व­दति –
तत्रेदमिति ।
स्थौल्यं ह्यर्थस्य युग­प­द्भि­न्न­दि­ग्व्या­पित्वं भिन्न­दे­श­व्या­पित्वं वा । एवं चैक­दि­ग्दे­शेऽ­र्थ­स्या­व­र­ण­म­न्य­दि­ग्देशे चानावरणमिति विरु­द्ध­ध­र्मा­ध्या­सा­द्भेदः स्यात् । ज्ञानाभेदे तु न दोषः । ज्ञाना­व­च्छे­द­का­र्थस्य ज्ञायमानस्य तद­भि­न्न­स्या­ना­वृ­त­त्वा­दा­वृ­तस्य च तदात्मत्वाभावेन विरो­धा­प्र­स­ङ्गा­दि­त्यर्थः । ज्ञानाकारत्वे इति सप्तमी । आव­र­णा­दि­ध­र्म­सं­स­र्गेण यद्यपि न युज्यत इति योजना ।
इदा­नी­मे­त­म­सं­भ­व­म­नु­मत्य बौद्ध­म­तेऽ­प्य­सं­भ­व­माह –
तथापीति ।
यद्य­प्य­व­भा­सा­न­व­भा­स­ल­क्ष­ण­वि­रु­द्ध­ध­र्म­सं­स­र्गोऽ­र्थस्य ज्ञाना­भे­देऽ­भ्यु­प­गते न प्रसज्येत ; तथा­प्ये­क­ज्ञा­न­प्र­का­शिते पटे नाना­दे­श­व्या­सक्ते तद्दे­श­त्व­म­त­द्दे­शत्वं च दृश्यते , प्रदेशभेदेन च कम्पाकम्पौ चित्रे च तस्मिन् रक्त­त्वा­र­क्तत्वे च । सति चैवं ज्ञाना­का­र­त्वेऽ­प्य­र्थस्य वर्णि­त­वि­रु­द्ध­ध­र्म­व­त्त्वा­द्भे­द­प्र­स­ङ्ग­स्तुल्य इत्यर्थः ।
अर्थस्य ज्ञानाभेदे सति अवयविन्यवयवे चोक्तं दोषान्तरमपि ज्ञाने दुर्वारमित्याह –
व्यति­रे­का­व्य­ति­रे­केति ।
ननु किमिति ज्ञाना­भि­न्नेऽर्थे तद्दे­श­त्वा­त­द्दे­श­त्वा­दि­वि­रु­द्ध­ध­र्मा­ध्या­स­प्र­सङ्गः । यावता परमाणूनेव ज्ञानमवलम्बतां , ते च न भिन्न­दे­श­त्वा­दि­मन्त इत्यत आह –
न तावदिति ।
नीलज्ञानं यदि परमाणूनालम्बेत , तर्हि त्वया ज्ञान­ज्ञे­य­यो­र­भे­दा­भ्यु­प­ग­मा­ज्ज्ञा­नस्य किं ज्ञेयमात्रत्वं ज्ञेयानां वा परमाणूनां ज्ञानमात्रत्वम् । नाद्य इत्याह –
एकस्येति ।
ज्ञान­स्ये­त्यर्थः ।
न द्वितीय इत्याह –
आकाराणां चेति ।
ज्ञानाकाराणां पर­मा­णू­ना­मि­त्यर्थः ।
ननु नैकं ज्ञानं परमाणून् गोचरयति , यत उक्तदोषः स्यात् , किं प्रतिपरमाणु ज्ञानभेद इति , नेत्याह –
न च यावन्त इति ।
तर्ह्ये­कै­क­ज्ञा­न­गृ­हीत नाना­प­र­मा­णु­प­रा­म­र्शा­त्मकः प्रत्ययः स्थूलालम्बन इति , तत्राह – न च तत्पृष्ठेति – तस्यापि प्रत्ययस्य साकारतया आकाराणां नानापरमाणूनां तदभेदात्तस्य परमाणुमात्रत्वे भेदः तेषां विज्ञा­न­मा­त्रत्वे एकत्वमिति स्थूलालम्बनमेकं ज्ञानं न स्यादित्यर्थः ।
तस्मान्नार्थे इति ।
तस्मा­द्वृ­त्ति­वि­क­ल्पा­दे­स्त­र्का­दर्थे पर­मा­णु­स­मू­हा­त्मके विषये न स्थूलाभासः , न च ज्ञाने ज्ञाना­त्म­केऽर्थे । कुतः ? एकत्र ज्ञाने वर्णितेन मार्गेण तदात्मनो नाना­का­र­त्वा­त्म­क­त्वस्य प्रति­षि­द्ध­त्वात् बहुष्वपि विज्ञानेषु परमाणुगोचरेषु स्थूलाभासस्य न संभवः ; बहूनां पर­स्प­र­वा­र्ता­न­भि­ज्ञ­त्वा­दि­त्यर्थः । एको­प­ल­म्भ­मुक्त्वा यानुपलब्धिः स । सहोपलम्भनियम इति न विरुद्धत्वं हेतोश्चेत्तर्हि सहशब्द एकत्वस्यावाचक इत्य­वा­च­क­श­ब्द­प्र­यो­गा­त्तव निग्रह इत्यर्थः ।
अर्थै­को­प­ल­म्भ­नि­य­मा­दि­त्येव हेतुस्तत्राह –
अपिचेति ।
अनुविद्धं विषयत्वेन संबद्धमित्यर्थः । उपलभ्यत इति साक्षा­त्का­रा­भि­प्रा­यम् । मनुजग्रहणं तिर्य­गा­दि­व्या­वृ­त्त्य­र्थम् । चाक्षुषवस्तुत आलो­क­सा­क्षा­त्का­र­व्य­ति­रे­के­णा­नु­प­ल­ब्धा­वपि तदै­क्या­द­र्श­ना­द­नै­का­न्तिको हेतुरित्यर्थः । ज्ञानभेदसाध्या इत्यादौ सर्व­त्रा­स­त्ये­क­स्मि­न्न­ने­का­र्थ­ज्ञा­न­प्र­ति­सं­घा­तरि नोपपद्यत इति वक्ष्य­मा­णे­ना­न्वयः ।
भाष्ये –वास्य­वा­स­क­त्व­म­वि­द्यो­प­प्लवे हेतु­र­वि­द्यो­प­प्ल­वश्च सदसद्धर्मेषु हेतुरिति व्याचष्टे–
एवमिति ।
अविद्या सवि­क­ल्प­क­प्र­त्ययः ।
अनादीति ।
अना­दि­वा­स­ना­ज­न्य­स­वि­क­ल्प­क­प्र­त्य­या­त्म­क­वि­क­ल्प­प­रि­नि­ष्ठितो विषयीकृतो यः शब्दार्थः स त्रिविधो ज्ञेयः ।
त्रैविध्यमेवाह –
भावेति ।
भावं नीलादि नीलत्वादिरभावं नरविषाणं नरविषाणत्वादि । उभयं विज्ञा­न­न­र­वि­षा­णा­दि­म­मू­र्त­त्वा­दि­रा­श्र­यत इति तथोक्तः ।
बन्ध­मो­क्षा­दि­प्र­तिज्ञा इति भाष्यगतादिशब्दं व्याचष्टे –
एवं विप्रतिपन्नमिति ।
प्रति­ज्ञे­त्य­त्रे­ति­शब्दो यस्मादर्थे यदिति प्रति­पा­द­न­वि­ष­य­नि­र्देशः अस­त्ये­क­स्मि­न्प्र­ति­सं­धा­तरि नोपपद्यते , तावल्लोके त्वया च स नेष्ट इत्याह –
तत्सर्वं विज्ञानस्येति ।
कर्मफलभावो ज्ञानज्ञेयभावः अत्य­न्त­वि­रु­द्धा­वि­त्यतः प्राक्तनभाष्येण प्रतिबन्दीरूपा भूमिरचना क्रियते । तया च ज्ञेया­र्थ­स्व­रूपं साधितम् । तत आरभ्य एकस्य कर्मक्रियाविरोध उक्तः ।
विज्ञानस्य स्वव्य­ति­रि­क्ता­र्थ­वि­ष­यत्वे कुतस्तस्यान्येन ग्राह्य­त्वा­पत्तिः ? चक्षु­र्व­द­प्र­का­श­मा­न­स्या­प्य­र्थ­बो­ध­क­त्व­सं­भ­वा­द­त­श्चो­द्या­नु­प­प­त्ति­मा­श­ङ्क्याह –
चोदयतीति ।
अप्र­त्य­क्षो­प­ल­म्भ­स्येति ।
यद्यप्रत्यक्ष उपलम्भः स्यात्तर्हि चक्षुष इव तस्या­र्थ­दृ­ष्टि­र­जन्या स्यात् , सा च न सिध्यति ; तस्या अप्य­न्य­दृ­ष्ट्य­पे­क्ष­त्वे­ना­न­व­स्था­ना­दि­त्यर्थः ।
तर्हि ज्ञानं ज्ञाना­न्त­र­प्र­त्यक्षं सदर्थप्रकाशो भवतु , तत्राह –
तच्चेदिति ।
नन्वर्थं प्रत्यक्षयितुं यथा साक्षिणि उपलम्भ इष्यते , एवमुपलम्भमपि प्रत्य­क्ष­यि­तु­मु­प­ल­म्भा­न्त­र­मे­ष्टव्यं , तत्र कुतो नाकाङ्क्षा ? अत आह –
सत्यमिति ।
विज्ञा­न­ग्र­ह­मात्र एवास्माभिः स्वीकृते विज्ञानसाक्षिणः विज्ञा­न­वि­ष­य­ग्र­ह­णा­न्त­रा­का­ङ्क्षा­नु­त्पा­दा­दिति भाष्यार्थः ।
अनङ्गीक्रियमाणं दर्शयति –
न त्विति ।
तत्प्र­त्य­क्ष­त्वाय तस्योपलम्भस्य प्रत्य­क्ष­त्वा­ये­त्यर्थः । स्वप्र­का­श­सा­क्षिणि अन्तः­क­र­ण­प्र­ति­बि­म्बिते सत्य­न्तः­क­र­ण­प­रि­णा­मस्य भास्वरस्य स्वत एव साक्षि­प्र­ति­बि­म्बा­धा­र­तया सिद्धिसंभावान्न परि­णा­मा­न्त­रा­द­प­रो­क्ष­तेति ग्रन्थार्थः । यद्य­नु­भ­वा­प­रोक्ष्यं परिणामान्तरात् , तर्ह्यनुभव उदितोऽपि कदाचिन्न प्रकाशेत , न चैवम् ।
अतो नित्य­सा­क्ष्य­नु­भ­व­सिद्ध इत्याह –
न ह्यस्ति संभव इति ।
प्रमातुः साक्षिणः । नचा­नु­व्य­व­सा­या­द­नु­भ­व­प्र­त्य­क्षता ; तस्या­प्य­प्र­त्य­क्ष­स्या­नु­भ­व­सि­द्ध­त्वा­यो­गा­द­नु­भ­वा­न्त­रतः प्रत्य­क्ष­त्वेऽ­न­व­स्थाया उक्तत्वादिति।
न केवलमनुभवे एवा­नु­भ­वि­तु­र्व्या­प्ता­व­नु­भ­वा­न्त­रा­न­पेक्षा , किंतु क्रियामात्रमेव कर्त्रा क्रिया­न्त­र­म­न्त­रेण व्याप्यत इत्याह –
यथा छेत्तेति ।
माभू­ज्ज्ञा­न­वि­ष­य­ज्ञा­न­प­रि­णा­मा­न्त­रा­पे­क्ष­याऽ­न­वस्था , साक्षिणस्तु साक्ष्य­न्त­रा­श्रि­त­प्र­मा­पे­क्ष­याऽ­न­वस्था स्यादि­त्या­शङ्क्य स्वप्र­का­श­त्वा­न्ने­त्याह –
न च प्रमातरीति ।
अनेन साक्षि­वि­ष­य­ग्र­ह­णा­का­ङ्क्षा­नु­त्पा­दा­दि­त्ये­व­मपि पूर्वभाष्यं व्याख्यातम् ।
ननु साक्षिणं प्रति प्रत्य­य­स्यो­प­ल­भ्यत्वे तद्विषय उप­ल­म्भोऽ­न्यो­वाच्यः ; तस्य प्राक् निरासात् पूर्वापरविरोध इति भ्रममपनयति –
ग्राह्यत्वं चेति ।
फलेन्तः कर­ण­ग­त­ज्ञा­न­प­रि­णामे स्वाभा­वि­का­का­श­क­ल्प­सा­क्षि­चै­त­न्य­व्य­ति­रे­केण परि­णा­मा­न्त­रा­पे­क्ष­फ­ला­न्त­रा­नु­त्प­त्ते­रि­त्यर्थः । चैत­न्या­भि­वि­भ­क्तिस्तु फलमस्त्येव । तदाहुरत्रभवन्तो वार्तिककाराः - विय­द्व­स्तु­स्व­भा­वाऽ­नु­रो­धा­देव न कारकात् । विय­त्सं­पू­र्ण­तो­त्पत्तौ कुम्भस्यैवं दशा धियाम् ॥ इति । न संविदर्यते ज्ञायते परि­णा­म­ज्ञा­ने­ने­त्यर्थः । स्वत­सि­द्ध­प्र­क­ट­तया ज्ञानस्य ग्राह्य­त्व­मि­त्य­नु­षङ्गः ।
ननु यदि परि­णा­म­व्या­प्ति­व्य­ति­रे­केण संवित् साक्षिणं प्रत्यपरोक्षा , तर्ह्यर्थोऽपि स्याद्व्या­प­क­सा­क्षि­सं­ब­न्धस्य संवि­द­र्थ­यो­र­वि­शे­षा­दि­त्या­श­ङ्क्याह –
ग्राह्योऽप्यर्थ इति ।
अर्थो हि स्ववि­ष­या­न्तः­क­र­ण­प­रि­णा­म­रू­पायां संविदि सत्यां तद­धी­ना­भि­व्य­क्ति­क­सा­क्षि­रू­पा­नु­भा­वात् प्रकटो भवति। सा तु संवित् केव­ल­स्व­रू­पा­नु­भ­वा­त्स्व­प्र­ति­बि­म्बि­तात् प्रकटतां प्रतिपद्यते । एतदुक्तं भवति – सर्वव्यापी सन्नपि स्वरू­पा­नु­भ­वोऽ­वि­द्या­वृ­त­त्वान्न भासते , स तु निर्मल इव मुकुरतले मुखं भास्व­र­स्व­भा­व­वि­शे­ष­व­द­न्तः­क­रणे व्यज्यत इति तद्वृत्तिरपि भासुरा सन्निहिता चेति भवति स्वभावप्रकटा । अर्थ­स्त्व­न्तः­क­रणं प्रति व्यवहितो न च स्वभावादेव चैत­न्या­भि­व्य­ञ्ज­न­क्षमः । दृष्टं च संब­न्धा­वि­शे­षेऽपि स्वभावविशेषाद् व्यञ्ज­का­व्य­ञ्ज­क­त्वम् । यथा चाक्षुषी प्रभा संब­न्धा­वि­शे­षेऽपि रूपाद्येव व्यञ्जयति , न वाय्वादिकम् । तस्मा­त्प­रि­णा­मा­भि­व्य­क्ता­नु­भ­वा­द­र्थ­सि­द्धि­रिति।
कर्मभाव इति ।
परि­णा­म­क्रि­या­ज­न्य­फ­ल­भा­गि­ते­त्यर्थः ।
आत्म­स्व­प्र­का­श­त्व­ब­ला­दिदं सर्वं सिद्ध्यति , तदेवासिद्धमिति शङ्कते –
स्यादेतदिति ।
आत्मा ज्ञेयः प्रकाशमानत्वाद् घटवदित्यनुमानम् । इदं तावदाभासः । अत्र हि यत्प्रकाशते तद्वेद्यमिति व्याप्ति­र­भ्यु­पेया । तथा सत्यस्या व्याप्तेर्या ग्राहिका संवित् सा स्वस्यां न वा । प्रथमे किं कर्मत्वेन किं वाऽन्य­सं­वि­द­न­पे­क्ष­स्व­व्य­व­हा­र­हे­तु­त्वेन । नाग्रिमः ; स्वात्मनि वृत्तिविरोधात् । न चरमः ; तस्यामेव संविदि व्यभिचारात् ।
न चरमः ; अस्या एव संविदो विशे­ष­स्या­न­व­भा­स­नात् कथं सक­ल­वि­शे­षो­प­सं­ग्र­ह­वती व्याप्तिरस्यां संविदि परिस्फुरेत् ? परिस्फुरणे च कथमनुमानमुदयेत ? एवं सिद्धेऽस्य दौर्बल्ये स्वप्र­का­श­त्व­सा­ध­नी­य­दो­षा­म­नु­मा­माह काला­ती­त­त्व­सि­द्धये –
तथा हीत्यादिना ।
अनागन्तुकप्रकाश इति प्रतिज्ञा । आगन्तुकः स्वविषयी अर्थात् प्रकाश इति लभ्यते । स यस्य नास्ति स चासौ प्रकाशश्च तत्त्वे सतीत्यर्थः । अनेनाज्ञेयत्वे सति भासमानत्वं स्वप्र­का­श­त्व­मिति निरुक्तम् । भासमानत्वं च व्याव­हा­रि­क­बा­ध­वि­धुरं भासत इति शब्दलक्ष्यत्वं न भानविषयत्वमिति न व्याघातः । न च वेदा­न्त­ज्ञे­य­त्व­वि­रोधः । निरु­पा­धे­र­ज्ञे­य­त्वा­द्वे­दा­न्त­ज­न्य­वृ­त्त्यु­ओ­आधौ तज्ज्ञे­य­त्व­म­पीति ह्युक्तं तन्न प्रन्मर्तव्यम् । अत एव - स्वप्र­का­श­स्या­नु­मा­न­ज्ञे­य­त्व­वि­रोध इति – निरस्तम् ; अनुमितेरेव ज्ञेय­त्वो­पा­धि­त्वात् । नित्य­सा­क्षा­त्का­र­ताऽ­ना­ग­न्तु­क­प्र­का­शत्वे हेतुः । स्ंविदभिन्नत्वं च साक्षात्कारत्वं , न तु इन्द्रि­य­ज­प्र­ती­ति­त्वादि । तच्च संविदः स्वतः ; तदन्यस्य तदध्यासात् , तत्स­म­र्थ­ना­र्थ­म­सं­दि­ग्धा­वि­प­री­त­त­स्ये­त्यु­क्तम् ।
असं­दि­ग्धा­वि­प­र्य­स्त­त्व­मु­प­पा­द­यति –
तथा हि प्रमातेत्यादिना ।
संदि­हा­नोऽ­प्य­न्य­दिति शेषः । एवं सर्वत्र । तदयं प्रयोगः - आत्मा , स्वयंप्रकाशः , शश्व­द­प­रो­क्ष­त्वात् , शश्वदपरोक्षश्च शश्व­द­सं­दि­ग्ध­त्वा­द्व्य­ति­रेके घटवत् । न चाप्र­सि­द्ध­वि­शे­ष­ण­त्वम् ; अयं घट एत­द­न्य­ज्ञे­य­त्व­र­हि­त­भा­स­मा­नान्यः , द्रव्यत्वाद् , घटवदिति तत्सिद्धेरिति।
विपक्षे दण्डमाह –
न चैतदिति ।
यदि नित्य­सा­क्षा­त्का­र­त्व­मा­त्मनो न स्यात् , तर्हि कदाचिदात्मनि संदेहः स्यादित्यर्थः ।
स्यादेतत् - आत्मविषया संवि­दु­दे­त्ये­वेति , तत्राह –
अनवस्थेति ।
उक्तेन क्रमेणेति ।
न क्रिया तया व्याप्यते किंतु कर्त्रे­त्य­ने­ने­त्यर्थः । अनेन विज्ञानं व्यति­रि­क्त­ग्राह्यं ग्राह्यत्वादिति पूर्वो­क्ता­नु­मा­नस्य विपक्षे दण्ड उच्यते ।
उक्तक्रमं स्फोरयति –
न फलस्येति ।
नार्थे इति ।
नार्थेऽपि विप्रतिपत्तिः । तस्य त्वन्मतेऽपि मिथ्या­त्वा­दि­त्यर्थः ॥२८॥ स्वप्नवदित्ययं दृष्टान्तः साध्यविकलः स्यादिति योजना । अभ्युपेत्य स्वप्न­प्र­त्य­यस्य निरालम्बनत्वं जाग्रप्रत्ययस्य तन्निर स्यति। विद्यत एव तु तस्यापि प्राती­ति­क­मा­ल­म्ब­नम् । एवं तावत् स्तम्भा­दि­प्र­त्ययो निरालम्बनः प्रत्य­य­त्वा­त्स्व­प्न­प्र­त्य­य­व­दि­त्य­नु­मा­नस्य बाध्यत्वेन सोपा­धि­क­त्व­मु­क्तम् । न च साधनव्याप्तिः ; सति प्रमातरि गाग्रप्रत्यये बाधविरहस्य प्रमितत्वेन साध­न­व्या­प्त्य­नु­मा­न­स्या­ती­त­का­ल­त्वात् ।
संप्रति प्रमा­णा­ज­न्य­त्वे­नापि सोपाधिकत्वमाह –
संस्कारमात्रजं हीति ।
मात्रग्रहणेन प्रमा­ण­का­र­णे­न्द्रि­या­दि­स­हि­तत्वं व्यावर्त्यते , न तु भ्रम­हे­तु­दो­ष­सा­हि­त्यम् । अत एव भाष्यगतः स्मृतिशब्दः प्रमा­ण­मि­लि­त­सं­स्का­र­ज­त्वा­द्भ्र­मेऽपि स्वप्नज्ञाने औपचारिको व्याख्यातव्यः ।
उपलब्धिस्त्विति भाष्य­ग­त­मु­प­ल­ब्धि­शब्दं व्याचष्टे –
प्रत्यु­त्प­न्नेति ।
प्रत्युत्पन्नेन वर्तमानेन वस्तुना इन्द्रि­य­सं­यो­गे­ने­त्यर्थः । षट् प्रमाणजनितं ज्ञानमुपलब्धिः । एवमव्याख्याने स्वप्नस्यापि मिथ्यो­प­ल­ब्धि­त्वा­द्वै­धर्म्यं न सिध्येदिति।
कालातीततां प्रत्य­य­त्व­हे­तो­राह –
अपि च स्वत इति ।
ननूत्सर्गतः प्राप्तमपि प्रामा­ण्य­म­नु­मा­ना­द­पो­द्य­ता­मत आह –
अनुभवविरोध इति ।
अबा­धि­त­वि­ष­य­त्वे­ना­व­ग­त­स्या­नु­मा­नस्य प्रमाणत्वात्सति प्रत्यक्षबाधे न प्रमाजनकत्वमतो बाधकानुदयान्न प्रत्यक्षस्य प्रामाण्यापवाद इत्यर्थः । न हि यो यस्य स्वतो धर्मो न संभवति , सोऽन्य­सा­ध­र्म्या­त्तस्य संभविष्यतीति भाष्यं ।
तत्र न संभवतीति ।
प्रमाणेन न संभ­व­ती­त्य­व­धा­रितं इत्यर्थः । तेन संदिग्धो वस्तु­ध­र्मोऽ­न्य­सा­धा­र्म्या­द्धू­म­व­त्त्वादेः संभविष्यतीति सूचितम् ॥२९॥
अर्थो­प­ल­ब्ध्य­भा­वान्न वासनानां भाव इत्ययुक्तम् ; परे­षा­म­र्था­भा­वा­द्वा­स­ना­ना­म­र्थो­प­ल­ब्धि­भि­र्व्या­प्ते­र­सं­भू­त­त्वा­दि­त्या­श­ङ्क्याह –
यथा लोकदर्शनमिति ।
त्वयापि ह्यर्थोपलब्धेः स्वप्ने वासनाजन्यत्वं लोक­सि­द्धा­न्व­य­व्य­ति­रे­का­भ्या­म­व­ग­न्त­व्यम् । तद्दृष्टान्तेन च जाग्रत्यनुमेयं , तथा च यौ लौकि­का­व­न्व­य­व्य­ति­रेकौ तावर्थोपलब्धेः कार्यस्यार्थ एव कारणे सति भवतः नार्था­न­पे­क्ष­वा­स­ना­रू­प­का­रणे ; स्वप्न­प्र­त्य­य­ज­न­क­वा­स­नाया अपि जाग्र­द­र्थो­प­ल­ब्ध्य­धी­न­त्व­द­र्श­ना­त्का­र­ण­का­र­ण­त्वेन तत्रा­प्य­र्थो­प­लब्धेः स्थितत्वादतश्च वास­ना­ना­म­र्थो­प­ल­ब्धि­भि­र्व्या­प्ति­सि­द्धे­रि­त्यर्थः ।
न लौकिकी वासनेति ।
अन्त­रे­णा­श्र­य­मे­क­सं­त­ति­प­ति­त­स­मा­ना­का­र­वि­ज्ञा­नस्य वासनात्वं ह्यलौकिकमिति भावः । वासना हि गुणस्तस्याश्रयः समवायिकारणं तत्रा­श्र­य­त्वा­भि­म­त­मा­ल­य­वि­ज्ञानं वासनया सहोत्पद्यते पूर्वं वा ।
नाद्य इत्याह –
द्वयोरिति ।
निय­त­प्रा­क्सत्त्वं हि कार­ण­त्व­मि­त्यर्थः ।
न द्वितीय इत्याह –
प्रागिति ।
अस­त­श्चा­धा­र­त्वा­यो­गा­दिति द्रष्टव्यम् । ॥३०॥
वर्ण­का­न्त­र­म­धि­क­र­णस्य दर्शनम् पूर्वपक्षमाह –
स्यादे­त­दि­त्या­दिना ।
विविच्यन्त इत्ये­त­न्नि­र्ण­या­भि­प्रायं न भवति , किंतु व्यव­स्था­प­क्षा­द्वि­भा­गा­भि­प्रा­य­मि­त्याह –
न क्वचिदिति ।
नादरः क्रियते सूत्रान्तराणि न रच्यन्ते । एता­न्ये­वा­वृत्त्या योज्यन्त इत्यर्थः ।
नाभावो ज्ञानार्थयोः ; प्रमा­णै­रु­प­ल­ब्धे­रिति सूत्रं योजयन् सिद्धान्तमाह –
लौकिकानि हीति ।
अतात्त्विकत्वं प्रपञ्चस्य व्यवस्थापयितुम् अधिष्ठानं वस्तुभूतं वाच्यं तस्या­भा­व­स्त्व­न्मते प्रमा­ण­त­स्त­त्त्वा­नु­प­ल­ब्धे­रिति प्रतिपादयन्न भावोऽ­नु­प­ल­ब्धे­रिति सूत्रं योजयति –
यद्यु­च्ये­ते­त्या­दिना ।
अतात्त्विकत्वं प्रपञ्चस्य धर्मि­ग्रा­ह­क­प्र­मा­णै­र­व­ग­म्यते बाध­क­प्र­मा­णा­न्त­रेण वा ।
नाद्य इत्याह –
प्रमाणानि हीति ।
न द्वितीय इत्याह –
बाधकं चेति ।
ननु - किम­न्या­धि­ष्ठा­न­त­त्त्व­बो­ध­नेन ? प्रत्य­क्षा­दि­प्र­मि­त­व­स्तु­गतं विचारासहत्वमेव बाधकप्रमाणं गमयत्विति - चेत् , तत्र वक्तव्यम् किं विचारासहत्वं नाम सदसदादिपक्षेषु अन्य­त­म­प­क्ष­नि­वेशो वस्तुभूतो धर्मः परं विचारं न सहते इत्युच्यते , उत विचारासहत्वेन रूपेण निस्तत्त्वं शून्यमभिमतम् । नाद्य इत्याह –
तत्रेति ।
द्वितीयेऽपि निस्तत्त्वं सदा­दि­प­क्ष­नि­विष्टं न वा ।
न प्रथमः ; सदा­दि­प्र­का­र­त­त्त्व­व्य­व­स्था­या­स्त्व­याऽ­नि­ष्ट­त्वा­दि­त्याह –
कथमन्यतमदिति ।
न द्वितीय इत्याह –
न चेति ।
निस्तत्त्वं हि तत्त्व­रू­प­त्वा­भावः स चासन्नित्यत्वं भावानां व्यवस्थापितं स्यात् । तथा चास­त्त्वा­व्य­व­स्था­प्र­ति­ज्ञा­वि­रोध इत्यर्थः ।
पूर्व­म­धि­ष्ठा­न­त­त्त्व­ज्ञा­ना­भा­वा­द्बाधो न भवतीत्युक्तम् , इदानीम् अधि­ष्ठा­ना­भा­वा­दा­रो­पा­सं­भ­व­माह –
अपि चेत्यादिना ।
स्वपक्षे विशेषमाह –
तस्मादिति ।
वैधर्म्यसूत्रं सुयोजम् । क्षणि­क­त्वा­च्चेति सूत्रे उप­दे­शा­दि­त्यु­प­स्क­र­णी­यम् । ततश्च क्षणि­क­प­दा­र्थ­स­त्त्वो­प­दे­शा­च्छू­न्यो­प­दे­शाच्च व्याह­ता­भि­व्या­हारः सुगत इति योजनीयम् ॥३१॥
यथायथेति भाष्यस्थवीप्सां व्याचष्टे –
ग्रन्थत इति ।
दर्शनमिति वक्तव्ये पश्यनेत्यपशब्दः । स्थानमिति वक्तव्ये तिष्ठ­ने­त्य­प­शब्दः । तिष्ठ­ते­र्दृ­शेश्च शिति प्रत्यये तिष्ठ­प­श्या­वा­देशौ युच्प्रत्यते तु न तस्याशित्त्वात् । मिह सेचने इत्यस्य निष्ठान्तस्य मीढमिति सिध्यति। मिद्धमिति त्वपशब्दः । पोषधशब्द उपवासे बौद्धैः प्रयुज्यते स्नातः शुचिवस्त्राभरणः पोषधं विदधीतेति। स च लोकै­र­प्र­यु­क्त­त्वा­द­प­शब्दः इति प्रतिभाति ।
अर्थ­तोऽ­नु­प­प­त्ति­माह –
अर्थतश्चेति ।
अक्षरमविनाशि । नम­ना­दि­वा­स­ना­ना­मा­श्र­य­त्वा­द­क्ष­र­त्व­सिद्धिः । उत्पादाद्वेति सूत्रे स्थिता धर्मस्थितितेति च कारणत्वधर्मस्य कार्यत्वधर्मस्य च स्थिर­त्व­स्वी­का­रा­त्स­र्व­क्ष­णि­क­त्व­वि­रोधः ॥३२॥
इति पञ्च­म­म­भा­वा­धि­क­र­णम् ॥

नैक­स्मि­न्न­सं­भ­वात् ॥३३॥ एक­रू­प­ब्र­ह्म­स­म­न्व­य­वि­रो­ध्य­ने­का­न्त­वा­द­भ­ङ्गस्य बुद्धि­स­न्नि­धा­न­ल­क्षणां संगतिमाह –
निरस्त इति ।
मुक्तकच्छेषु निरस्तेषु मुक्तवसना बुद्धिस्था भवन्तीति , अथवा सम­य­मा­त्र­सि­द्ध­प­ञ्च­स्क­न्धा­दि­प­दा­र्था­श्र­य­न्या­या­भासे निरस्ते पञ्चा­स्ति­का­या­दि­सा­म­यि­क­प­दा­र्था­श्रितं न्याया­भा­स­सं­दृब्धं मतं भवति बुद्धिस्थम् । तदिदं समयपदेन सूचितम् । उप­ल­ब्धे­र­र्थ­स­त्त्व­व­त्त­द­ने­का­न्तोऽ­प्यु­प­ल­ब्धे­रे­वा­स्ती­त्य­र्थ­सं­गतिः । अस्तीति कायन्ते शब्द्यन्त इत्यस्तिकायाः । कै गै शब्दे । अर्हन् नित्यसिद्धः । इतरे केचि­त्सा­ध­नै­र्मुक्ताः । अन्ये बद्धाः ।
प्रवृत्त्यनुमेय इति ।
सम्य­ङ्मि­थ्या­त्वेन प्रवृ­त्ति­द्वै­विध्यं वक्ष्यति । तत्र धर्मास्तिकायः सम्य­क्प्र­वृ­त्त्य­नु­मेयः इत्यर्थः । शास्त्री­य­बा­ह्य­प्र­वृत्त्या ह्यान्त­रोऽ­पू­र्वाख्यो धर्मोऽनुमीयत इत्यर्थः ।
अधर्मेति ।
ऊर्ध्वगमनशीलो हि जीवस्तस्य देहेऽ­व­स्था­ने­ना­ध­र्मोऽ­नु­मी­यत इत्यर्थः । बन्धमोक्षौ फले ।
प्रवृत्ती तु समीच्यसमीच्यौ , तयोः साधने ते दर्शयति –
आस्त्रवेति ।
आस्त्रावयति गमयति । बन्धोऽ­ष्ट­वि­ध­मिति । यद्यपि पूर्वोक्त आस्त्रवोऽपि बन्धः ; तथापि तद्धे­तु­त्वा­द­य­मपि बन्ध इत्यर्थः ।
अतिप्रसङ्गादिति ।
आशा­मो­द­का­दि­ज्ञा­ने­भ्योऽपि मोद­का­दि­सि­द्धि­प्र­स­ङ्गा­दि­त्यर्थः ।
विपाकहेतुरिति ।
शरीराकारेण परिणामहेतुः । तच्च कर्म वेदनीयं शरीरद्वारेण तत्त्व­वे­द­न­हे­तु­त्वा­दिति शुक्र­शो­णि­त­व्य­ति­रे­क­जाते मिलितं तदु­भ­य­स्व­रू­प­मा­यु­ष्कम् । तस्य देहा­का­र­प­रि­णा­म­श­क्ति­र्गो­त्रि­कम् । शक्तिमति तस्मिन् बीजे कल­ला­ख्य­द्र­वा­त्म­का­व­स्थाया बुद्बु­दा­त्म­ता­या­श्चा­र­म्भकः क्रियाविशेषो नामिकम् । सक्रियस्य बीजस्य तेजःपाकवशादीषद् घनीभावः शरी­रा­का­र­प­रि­णा­म­हे­तु­र्वे­द­नी­य­मिति विभागः । कायतीति कै गै शब्दे इत्यस्य रूपम् । स्यादस्ति च नास्ति चेत्येतदवक्तव्य इत्यस्याधस्तात् संबन्धनीयम् । सप्त चैका­न्त­त्व­भङ्गाः कथं कथं कदा कदा च प्रस­र­न्ती­त्य­पे­क्षा­या­म­न­न्त­वीर्यः प्रतिपादयामास - तद्वि­धा­न­वि­व­क्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयो­गः­स्या­त्त­न्नि­षेधे विवक्षिते ॥ क्रमे­णो­भ­य­वा­ञ्छायां प्रयोगः समुदायभृत् । युग­प­त्त­द्वि­व­क्षायां स्याद­वा­च्य­म­श­क्तितः ॥ आद्या­वा­च्य­वि­व­क्षायां पञ्चमो भङ्ग इष्यते । अन्त्या­वा­च्य­वि­व­क्षायां षष्ठ­भ­ङ्ग­स­मु­द्भवः ॥ समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते ॥ इति , युग­प­द­स्ति­त्व­ना­स्ति­त्व­यो­र्वि­व­क्षायां वाचः क्रम­वृ­त्ति­त्वा­दु­भयं युगपदवाच्यम् । आद्योऽ­स्ति­त्व­भ­ङ्गोऽ­न्त्ये­ना­स­त्त्वेन सह युगपदवाच्यः । अन्त्यश्चाद्येन भङ्गेन सह युगपदवाच्यः । समुच्चितरूपस्य भङ्ग एकैकेन सह युगपदवाच्य इत्यर्थः । अथवा -सद­स­दु­भ­ये­ष्वे­कान्ते भग्नेऽ­नि­र्वा­च्य­त्व­नि­य­म­भङ्गः स्यादवक्तव्य इति कृतः । तेष्वेव पक्षेषु तत्त­त्पू­र्व­प­क्ष­वा­द्यु­क्ता­नि­र्वा­च्य­त्व­नि­यमः स्याद­स्त्य­व­क्तव्य इत्यादिना भज्यते ।
नन्वस्ति स्यादिति वर्त­मा­न­त्व­वि­धि­वा­चिनोः कथ­मे­का­र्थ­प­र्य­व­सा­न­मत आह –
स्याच्छब्द इति ।
तिङन्ततुल्योऽतो न विध्य­र्थ­ते­त्यर्थः ।
वाक्येष्विति ।
स्याद­स्ती­त्या­दि­वा­क्येषु स्यादित्ययं शब्द­स्ति­ड­न्त­स­दृशो निपात इत्यन्वयः ।
कोऽस्यार्थ इति , तत्राह –
अनेकान्तेति ।
अनेकान्तः किं स्वातन्त्र्येण प्रतिपाद्यते ? नेत्याह –
गम्यं प्रतीति ।
गम्यमस्तित्वादि ।
कुतोऽ­स्या­नै­का­न्त­द्यो­ति­त्व­मत आह –
अर्थ­यो­गि­त्वा­दिति ।
एतदुपपादयति –
यदि पुनरिति ।
व्यति­रे­क­मु­क्त्वाऽ­न्व­य­माह –
अने­का­न्त­द्यो­त­कत्वे त्विति ।
स्यात्प­दे­ना­ने­का­न्ता­भि­धाने किं प्रयोजनमत आह –
तथा चेति ।
यथा स्याच्छ­ब्द­स्या­ने­का­न्त­द्यो­त­कत्वं जैनैरुक्तं , तथा तत्प्रयोजनं चोक्तमित्यर्थः । स्याद्वादो हेयो­पा­दे­य­वि­शे­ष­कृ­दि­त्य­न्वयः । किंश­ब्दा­त्कि­म­श्चेति सूत्रेण थमुप्रत्ययो भवति , ततः कथमिति रूपं लभ्यते । तदुपरि चिदित्ययं निपतो विधियते , ततः कथंचिदिति स्यात् । तस्मा­त्किं­वृ­त्त­चि­द्वि­धे­र्हितोः कथंचिदस्ति कथं­चि­न्ना­स्ती­त्य­दि­रू­पा­त्स­र्व­थै­का­न्त­त्या­गात् भवन्तं सप्त­भ­ङ्ग­न­य­म­पेक्ष्य स्याद्वादो हेयो­पा­दे­य­वि­शे­ष­कृ­दि­त्यर्थः । किंवृत्ते किंश­ब्दा­दु­प­रि­वृत्ते प्रत्यये थमि सप्त­स्वे­का­न्ते­ष्व­स्त्या­दि­नि­य­मे­ष्वि­त्यर्थः ।
सप्ता­ना­मे­का­न्तानां भङ्गे हेतुं न्यायं दर्शयति –
तथा हीति ।
न प्रव­र्ते­ते­त्यत्र हेतुमाह –
प्राप्तेति ।
सतो वस्तुतः प्राप्त­स्या­प्रा­प­णी­य­त्वा­दि­त्यर्थः ।
न निवर्तेतेत्यत्र हेतुमाह –
हेयेति ।
असत्त्वे ह्येकान्ते हेयमेव त्यक्तमेवाहितं सर्वदा स्यात् , तस्य च साध्यं हान­म­नु­प­प­न्न­मि­त्यर्थः ।
यत्तु हेया­दि­सि­द्धि­हेतुः स्याद्वाद इति , तत्राह –
एत­दु­क्त­मि­त्या­दिना ।
यदस्ति तदस्त्येवेति नियममेव मन्महे , यस्तु कथंचिदस्ति प्रपञ्चः स विकल्पितः , तत्र च हेया­दि­वि­भा­ग­सि­द्धि­रि­त्यर्थः ।
विचा­रा­स­ह­त्वा­दिति ।
आरम्भणाधिकरणे (ब्र.अ.२.पा.३.सू.१४) हि सदसत्त्वे वस्तुनो न धर्मौ ; असत्त्वदशायामपि वस्त्व­नु­वृ­त्त्या­पा­तात् , न च स्वरूपं ; सर्व­दाऽ­द्व­य­प्र­स­ङ्गा­दि­त्या­दिर्हि विचारः कृतः स इहानुसन्धेय इत्यर्थः ।
पण्डि­त­रू­पा­णा­मिति ।
प्रशंसायां रूपप्प्रत्ययः । ऋषभेण बलीवर्देन ॥३३॥ विशरारवो विशरणशीला नश्वराः ।
अनि­त्य­त्वा­त्त­स्येति ।
निद­र्श­न­स्ये­त्यर्थः ।
दार्ष्टान्तिके तु नानि­त्य­त्व­मि­त्याह –
नास्थिर इति ॥३४॥
आग­मा­पा­य्य­व­य­वा­ना­म­ना­त्मत्वं भाष्योक्तं तदा युज्यते , यदि नित्य आत्मेति पराभ्युपगमः ; इतरथा इष्ट­प्र­स­ङ्गा­दा­र­ब्धा­व­य­विन एवा­त्म­त्वे­ना­व­य­वा­ना­म­ना­त्म­त्वा­दि­त्य­भि­प्रे­त्याह –
आत्मन इति ।
आत्मानिरूपणमपि भाष्ये प्रस­ज्य­मा­न­मि­ष्ट­मि­त्या­श­ङ्क्याह –
अनिरूपणेनेति ।
सिग् वस्त्रं विगतं येभ्यस्ते विसिचः ॥३५॥
देहा­न्त­रा­प्र­वे­शा­न्मो­क्षा­वस्थं परिमाणमन्त्यं , तस्य नित्य­त्वा­दा­द्य­म­ध्य­म­यो­र्नि­त्य­त्वा­नु­माने परि­मा­ण­त्र­य­प्र­स­ङ्गा­त्क­थम् एक­रू­प­प­रि­मा­णा­त्म­का­वि­शे­षा­पा­द­न­मि­त्या­श­ङ्क्याह –
एवं हीति ।
नाद्य­म­ध्य­म­प­रि­मा­ण­यो­र्नि­त्य­त्व­मा­पा­द्यते , किं त्वाद्यमध्यमयोः काल­यो­र­न्त्य­प­रि­मा­ण­स्या­नु­वृ­त्ति­रि­त्यर्थः । यदि प्राग­प्या­सी­त्त­र्ह्य­भूत्वा न भवतीत्यर्थः ।
नन्व­न्त्य­प­रि­मा­णस्य काल­त्र­येऽ­नु­वृ­त्ता­वपि देह­भे­द­प्रा­प्ति­का­ले­ष्वा­त्मनः परिमाणान्तराणि किं न स्युरत आह –
न चेति ।
परिमाणभेदे द्रव्य­भे­द­प्र­स­ङ्गा­दि­त्यर्थः । भाष्य­का­रे­णा­त्म­ग­ता­द्य­म­ध्य­म­प­रि­माणे नित्ये , आत्म­प­रि­मा­ण­त्वा­द­न्त्य­प­रि­मा­ण­व­त्त­त­श्चै­क­प­रि­मा­ण­ते­त्येकं व्याख्यानं कृतम् । अपरं च मोक्ष­का­ल­ग­ता­त्म­प­रि­मा­ण­स्या­व­स्थि­त­त्वा­न्नि­य­त­त्वा­त्पू­र्व­यो­र­प्या­द्य­म­ध्य­म­का­ल­यो­र­व­स्थि­त­प­रि­माण एव जीवः स्यादिति। तत्र द्वितीयव्याख्या त्वेन विशदिता ।
आद्य­व्या­ख्या­मु­भ­य­प­रि­मा­ण­नि­त्य­त्व­स्या­न्त्य­प­रि­मा­ण­दृ­ष्टा­न्ते­ना­पा­द्य­त्वा­दु­भ­य­नि­त्य­त्वा­दिति सिद्धवत्सूत्रे हेतु­नि­र्दे­शा­यो­ग­मा­श­ङ्क्याह –
अत्र चोभयोरिति ।
अत्र चेति सूत्रे इत्यर्थः ।
नन्वा­दि­म­ध्य­मा­न्ति­म­प­रि­मा­णानां नित्यत्वे आपतिते परि­मा­ण­त्र­य­व­त्त्व­मा­त्मनः स्यात् , कुत एक­प­रि­मा­ण­ताऽऽ­पा­द्यते ? अत आह –
एकशरीरेति ।
त्रयाणां परिमाणानां सर्वशरीरेषु सम­त्वा­त्स­र्व­श­री­रे­ष्वे­क­रू­प­प­रि­मा­ण­ताऽऽ­त्मनः स्यादिति। दीप्यं व्याख्ये­य­मि­त्यर्थः ।
द्विती­य­व्या­ख्यायां - सर्वदा परि­मा­णै­क्य­स्यै­वा­पा­द्य­त्वा­त्सू­त्र­ग­तो­भ­य­श­ब्देन न परि­मा­ण­द्व­य­म­भि­धी­यते , किंत्वा­द्य­म­ध्य­म­कालौ ; तत­श्चा­द्य­म­ध्य­म­का­ल­यो­रु­भयोः परि­मा­ण­नि­त्य­त्वा­दि­त्येवं रूपे हेतुं योजयति भाष्यकार इत्याह –
द्वितीये त्विति ।
अस्यां व्याख्या­या­म­वि­शे­ष­श­ब्देन न परिमाणत्रयस्य सर्वशरीरेषु तुल्य­त्व­मा­पा­द्यते , किंतु यदैकशरीरे परिमाणतामात्रं सर्व­श­री­रे­ष्वा­पा­द्यते तदाऽ­णु­र्म­हा­न्वाऽत्मा सर्वदेहेषु स्यादि­त्ये­वं­रू­प­मि­त्याह –
एकशरीरेति ॥
इति षष्ठ­मे­क­स्मि­न्न­सं­भ­वा­धि­क­र­णम् ॥

पत्यु­र­सा­म­ञ्ज­स्यात् ॥३७॥ सत्त्वा­स­त्त्वा­दे­रे­क­त्रा­सं­भ­व­व­द­धि­ष्ठा­तृ­त्वो­पा­दा­न­त्व­यो­र­प्ये­क­त्रा­सं­भव इति प्रत्य­व­स्था­ना­त्स­ङ्गतिः । सांख्य­यो­ग­व्य­पा­श्रया इत्यादिभाष्यं व्याचष्टे –
हिर­ण्य­ग­र्भे­त्या­दिना ।
भाष्य­ग­त­पु­रु­ष­प­द­व्या­ख्यानं –
दृक्शक्तिरिति ।
शक्तिग्रहणं तु समर्थापि सर्वं ज्ञातुं जैवि दृग् न जाना­त्या­वृ­त्त­त्वा­दि­त्य­र्थम् ।
कथं तर्हि जीवस्य ज्ञातृत्वं ? तत्राह –
प्रत्ययेति ।
प्रत्ययमन्तः – कर­ण­प­रि­णा­म­म­नु­प­श्य­तीति तथोक्तः ।
भाष्ये प्रधा­न­पु­रु­ष­यो­र­धि­ष्ठा­तेति द्विव­च­न­प्र­यो­गा­देको जीव इति भ्रमः स्यात्तं व्युदस्यति –
स चेति ।
समा­सा­न्त­र्व­र्त्ये­क­व­चनं जात्य­भि­प्रा­ये­णे­त्यर्थः । क्लेशेति सूत्र­मी­क्ष­त्य­धि­क­रणे (ब्र.अ.१.पा.१.सू.५) व्याख्यातम् । पुरु­ष­त्वा­त्प्र­धा­ना­दन्यः क्लेशा­द्य­प­रा­मृ­ष्ट­त्वा­त्पु­रु­षा­दन्यः – जीवादन्य इत्यर्थः । गूढचर्या स्वगु­णा­प्र­ख्या­प­नेन देशेषु वासः ।
ईश्वरो , न द्रव्यं प्रत्युपादानं , चेत­न­त्वा­त्कु­ला­ल­व­दि­त्याह –
चेतनस्येति ।
कुलालस्यापि सुखा­द्यु­पा­दा­न­त्वा­त्सा­ध्य­वै­कल्यं स्यात्तद्वारणाय द्रव्य­मि­त्य­ध्या­हृ­तम् । जगत्कारणानां प्रधानस्य परमाणूनां चेत्यर्थः ।
निमित्तमित्यस्य विवरणम् –
अधिष्ठातेति ।
सिद्धान्तस्तु अधिगम्य श्रुते­री­श­म­नु­पा­दा­नता यदि । अनुमीयेत बाधः स्यादा­श्र­या­सि­द्धि­र­न्यथा ॥ किमप्रमित ईश्व­रेऽ­नु­पा­दा­नत्वं साध्यते , उत प्रमिते । नाद्यः ; आश्र­या­सि­ध्द्या­पा­तात् । द्वितीयेऽपि तत्प्रमितिः श्रुते­र­नु­मा­नाद्वा पौरुषेयागमाद्वा । प्रथमे किमी­क्ष­ण­पू­र्व­क­क­र्तृ­त्वा­दि­प्र­ति­पा­द­क­श्रु­त्यै­वा­नु­पा­दा­नत्वं साध्यते , तत्पू­र्व­का­नु­मा­नाद्वा ।
नाग्रिमः ; तस्याः श्रुते­र्नि­मि­त्त­त्व­मा­त्र­प­रत्वं न तूपा­दा­न­त्व­नि­षे­ध­प­र­त्व­मिति प्रकृ­तिश्चे(ब्र.अ.१.पा.४.सू.२३) त्यधिकरणे सुसा­धि­त­त्वा­दि­त्याह –
न तावदिति ।
न द्वितीय इत्याह –
तस्मादिति ।
आस्थीयमानमपि न संभवति ; तदात्मानं स्वय­म­कु­रु­ते­त्या­दि­श्रु­त्यैव बाधादित्यर्थः ॥
अस्तु तर्ह्यनुमिते ईश्व­रेऽ­नु­पा­दा­न­त्वा­नु­मा­न­मत आह –
तत्रेति ।
ईश्वरे इत्यर्थः । पौरुषेयागमं च निषेत्स्याम इति तावच्छब्दः । तथाहि – न तावदाद्यं कार्यं सकर्तृकं कार्य­त्वा­त्कु­म्भ­व­दिति मानम् ; जीवा­दृ­ष्ट­ज­त्व­सिद्धेः , अव्य­व­हि­त­प्रा­क्का­ल­व­र्ति­प्र­य­त्न­ज­त्व­सा­धने चाद्य­का­र्य­व्य­व­हि­त­प्र­य­त्न­ज­त्वस्य कुम्भेऽभावेन साध्यवैकल्यात् , कुम्भा­व्य­हि­त­प्र­य­त्न­ज­त्वस्य आद्ये कार्ये बाधात् , किंचि­द­व्य­व­हि­त­प्र­य­त्न­ज­न्य­त्वस्य च सिद्धसाधनात् । अदृ­ष्टा­व्य­व­हि­त­प्रा­क्का­ल­प्र­य­त्न­ज­त्वा­दा­द्य­का­र्यस्य । अथ द्व्युणुके द्व्युणु­को­पा­दा­न­सा­क्षा­त्का­र­व­ज्जन्यं कार्यत्वादिति। तच्चः न ; अप्र­सि­द्ध­वि­शे­ष­ण­वि­शे­ष्य­त्वाभ्यां द्व्युणुकस्य तदु­पा­दा­न­सा­क्षा­त्का­रस्य चासिद्धेः । दृष्टान्ते च संदि­ग्ध­सा­ध्य­त्वम् ; घटस्य द्व्युणु­को­पा­दा­न­सा­क्षा­त्का­र­व­दी­श्व­र­प्र­य­त्न­ज­न्य­त्व­स्या­स­म्प्र­ति­पत्तेः । अदृष्टं प्रत्यक्षं मेयत्वादित्यत्र च योगि­भि­र­र्था­न्त­रता , कार्यं सर्वज्ञकर्तृकं कार्य­त्वा­दि­त्यत्र च । स्यादेतत् - धर्मो भ्रम­स­मा­ना­धि­क­र­ण­ध­र्म­वि­ष­य­त्व­र­हि­त­सा­क्षा­त्का­र­वि­षयः , मेयत्वाद् , घटवत् । साक्षात्कारगोचर इत्युक्ते योगि­भि­र­र्था­न्त­र­तेति भ्रम­स­मा­ना­धि­क­र­ण­ध­र्म­वि­ष­य­त्व­र­हि­त­ग्र­ह­णम् ; योगि­सा­क्षा­त्का­रस्य कालभेदेन भ्रम­स­मा­ना­श्र­य­त्वात् । भ्रम­स­मा­ना­धि­क­र­ण­त्व­र­हि­त­सा­क्षा­त्का­र­गो­चर इत्युक्ते चाप्र­सि­द्ध­वि­शे­ष­ण­त्व­मिति तन्नि­वृ­त्त्यर्थं धर्म­वि­ष­य­त्व­ग्र­ह­णम् । अस्मदादीनां घटा­दि­वि­ष­य­सा­क्षा­त्का­रस्य भ्रम­स­मा­ना­श्र­य­त्वेऽपि धर्म­वि­ष­य­त्वा­भा­वेन भ्रम­स­मा­ना­धि­क­र­णत्वे सति धर्म­वि­ष­य­त्व­रू­प­वि­शि­ष्ट­ध­र्म­र­हि­त­त्वा­त्तत्र साध्यसिद्धेः । साक्षात्कारस्य च भ्रम­स­मा­ना­धि­क­र­णत्वे सति धर्म­वि­ष­य­त्व­र­हि­तत्वं धर्म­वि­ष­य­त्व­रा­हि­त्याद्वा भ्रम­स­मा­ना­धि­क­र­ण­त्व­रा­हि­त्याद्वा भवति। आद्ये तस्य धर्म­वि­ष­य­त्व­व्या­घात इति द्वितीयः स्यात् । तथा च तादृ­श­सा­क्षा­त्का­र­व­दी­श्व­र­सि­द्धि­रिति। तन्न ; किमिदं धर्म­वि­ष­य­त्व­र­हि­त­त्वम् । धर्म­वि­ष­य­त्व­सं­स­र्ग­भा­व­व­त्त्व­मिति चेत्तत्किं धर्म­वि­ष­य­त्व­सं­स­र्गा­न्यो­न्या­भा­व­व­त्त्व­मुत तत्सं­स­र्गा­भा­व­व­त्त्वम् । नाद्यः ; तथासत्यस्य विशेषणस्य वैय­र्थ्या­त्सा­क्षा­त्का­र­प­दे­नैव तद्वाच्यार्थस्य धर्म­वि­ष­य­त्व­सं­स­र्गा­न्यो­न्या­भा­व­व­त्त्व­सिद्धेः । न हि धर्म­वि­ष­य­त्व­सं­स­र्गा­त्मकः कश्चि­त्सा­क्षा­त्का­रोऽस्ति , यद्व्य­व­च्छे­दा­र्थ­मिदं विशेषणम् । न द्वितीयः ; धर्म­वि­ष­य­त्व­सं­स­र्ग­सं­स­र्गा­न्यो­न्या­भा­व­मा­दाय विशे­ष­ण­वै­य­र्थ्य­ता­द­व­स्थ्यात् , तत्रापि संसर्गान्तरं प्रति धावने च तत्त­द­न्यो­न्या­भा­व­मा­दाय वैयर्थ्यधावनात् । अथ मतं न संसर्गस्य संस­र्गा­न्त­र­मस्ति , किंतु स्वयमेव स्वस्य संसर्ग इति क्वानवस्थेति ? नैतत् ; तथासति तादृ­श­सं­स­र्गा­न्यो­न्या­भा­व­मा­दाय विशे­ष­ण­वै­य­र्थ्येन वज्रलेपनात् । एतत्खण्डनभयेन यदि विशेषणमुज्झसि , तर्हि ग्रस्तोऽसि योगि­भि­र­र्था­न्त­र­तया । एवं सर्वा महा­वि­द्या­स्त­च्छाया वाऽन्ये प्रयोगाः खण्डनीया इति ॥ तत्सु­खा­द्वै­त­बो­धा­त्म­स्व­भा­व­ह­रये नमः । वेदा­न्तै­क­प्र­मा­णाय कुतर्काणामभूमये ॥ तस्मा­त्सु­ष्ठूक्तं तत्रे­श्व­रेऽ­नु­मानं तावन्न संभवतीति।
अथवा –पूर्व­ग्र­न्थे­ना­स्मि­न्नर्थे ईश्वरस्य निमि­त्त­मा­त्रत्वे प्रमा­णा­न्त­र­मा­स्थे­य­मिति सामान्यतः श्रुति­व्य­ति­रि­क्त­प्र­मा­णा­पे­क्षा­मुक्त्वा किं तदनुमानं पौरुषेयागमो वेति विकल्प्याद्यं प्रत्याह–
तत्रानुमानमिति ।
यथैव चेतनस्य निमि­त्त­त्व­मा­त्र­म­नु­मी­यते , तथा रागा­दि­क­म­प्य­नु­मेयं व्याप्ते­र­वि­शे­षा­त्तथा च वाद्य­भि­म­त­नि­र­व­द्य­त्व­वि­शे­ष­वि­रु­द्धोऽयं हेतुरित्याह –
तद्धि दृष्ट्य­नु­सा­रे­णेति ।
ननु सिद्धान्ते श्रुति­ग­म्ये­श्व­र­स्यापि पुरु­ष­त्वा­द्रा­गा­दि­म­त्त्वा­नु­मानं दुर्वारमत आह –
एतदुक्तमिति ।
व्याप्त्यपेक्षं ह्यनुमानं व्याप्त्युपनीतं सर्वमनुमन्यते । आगमस्तु स्वतन्त्रस्तत्र यत् तद्वि­रु­द्ध­म­नु­मानं तत् कालातीतं स्यादित्यर्थः । लोहगन्धिता कलङ्कगन्धिता ।
कथं तर्हि माना­न्त­रा­नु­सा­रे­णा­पू­र्वा­दि­क­ल्पना ? तत्राह –
यस्त्विति ।
तत्रा­प्या­ग­म­प्रा­मा­ण्या­त्का­ला­न्त­र­कृ­त­या­गा­त्स्व­र्गोऽस्तु का क्षतिः ? अन­न्त­र­पू­र्व­क्ष­ण­व­र्तिनः कारणत्वमिति लोका­नु­भा­व­म­नु­रु­ध्या­पू­र्व­क­ल्प­ने­त्यर्थः ।
इदानीं चेत्क­र्मे­श्व­रयोः प्रव­र्त्य­प्र­व­र्त­कत्वं प्रतीयेत , तत एत­द्ब­ला­द्बी­जा­ङ्कु­र­वत् परं­प­राऽ­व­ल­म्बि­ष्यते , तत्र कुत इतरेतराश्रयत्वं कुत­स्त­रा­म­न्ध­प­रं­प­रे­त्या­श­ङ्क्यादौ ताव­त्प्र­व­र्त्य­प्र­व­र्त­क­भा­वा­नु­प­पत्तिं कर्मे­श्व­र­यो­र्द­र्श­यति –
यदीश्वर इति ।
अथवा –करुणयैवेश्वरः प्रेरितः कर्म कारयति , तत्कुत इतरेतराश्रयत्वं भाष्ये उच्यते ? तत्राह–
यदीश्वर इति ।
कपूयं कुत्सितम् । उत्तरस्मिन् व्याख्याने कर्मभिः प्रयोजनैः करुणया हेतुना प्रवर्त्यत इति दृष्टविरुद्धम् ; दृश्य­मा­न­का­र्यस्य करु­णा­हे­तु­क­त्व­वि­रु­द्ध­दुः­खा­त्म­क­त्वा­दिति योजना ।
ईश्वरेण पूर्वं कर्म ताव­त्प्र­व­र्त­यितुं न शक्यते ; कुत्सि­त­फ­ला­नु­द­य­प्र­स­ङ्गा­देवं पूर्व­क­र्मे­श्व­रा­प्र­व­र्तितं कथ­मी­श्व­र­प्र­व­र्त­न­ल­क्षणं कार्यं करोति ? एवं सति प्रव­र्त­क­त्वो­प­प­त्ति­म­नुक्त्वा केवलं ततः पूर्व­क­र्मै­वा­वा­ल­म्ब्यते , तत्राह –
तत्रापीति ।
तत्रा­पी­श्व­र­प्र­व­र्तने स्वकार्ये पूर्वं कर्म ततः पूर्व­भा­वि­क­र्म­प्र­व­र्ति­ते­ने­श्व­रेण प्रवर्तितमिति वक्तव्यं , तथा च सर्व­त्रा­नु­प­प­त्ति­सा­म्या­द­न्ध­प­र­म्प­रे­त्यर्थः । द्वावपि कर्मेश्वरौ ।
अस्माकं त्विति ।
मायामय्यां प्रवृ­त्ता­व­चो­द्य­त्वा­दि­त्यर्थः ।
एवं श्रुते­र­नु­मा­ना­च्चे­श्व­र­सिद्धिं निरस्य पौरु­षे­या­ग­मा­त्त­त्सि­द्धि­र्नि­र­स्यत इत्याह –
परस्यापीति ।
अस्माकं त्विति ।
शास्त्र­यो­नि­त्वेऽ­पी­श्व­र­स्या­ना­दि­सि­द्ध­नि­य­त­क्र­मा­पे­क्ष­णा­न्ने­श्व­रा­धीनं वेदस्य प्रामाण्यं किंतु स्वतः । यथा देव­द­त्त­कृ­त­त्वेऽपि दीपस्य प्रकाशनशक्तिमत एव कृतत्वाद् न देवदत्तापेक्षं तस्य प्रकाशकत्वं तद्वदित्यर्थः ।
ननु रूपा­दि­ही­न­स्या­धि­ष्ठे­य­त्वा­नु­प­प­त्ति­र्मा­या­या­मपि तुल्या , तत्राह –
यथादर्शनमिति ।
अधिष्ठानेति (ब्र.अ.२.पा.२.सू.३९) सूत्र­ग­त­व्या­ख्या­न­यो­र्भे­द­माह –
पूर्वमिति ।
करणवच्चेदिति (ब्र.अ.२.पा.२.सू.४०) सूत्र­स्थ­व्या­ख्या­न­यो­र्वि­शे­ष­माह –
तथेति ।
प्रधा­न­पु­रु­षे­श्व­रा­णा­मिति ।
एषां पुरुषान् जात्यैकीकृत्य त्रित्वं तावत्सिद्धं , पुरुषाणां तु परा­र्धा­दि­सं­ख्यासु मध्येऽ­न्य­त­म­सं­ख्य­ये­यन्त एवेति संख्या­भे­द­वत्त्वं द्रव्यत्वात् कुसू­ल­मि­त­धा­न्य­व­दि­त्य­नु­माय सर्वेषां प्रधानादीनां संख्या­व­त्त्वा­द­न्त­वत्त्वं विना­शि­त्व­म­नु­मा­त­व्यम् । यद्यपि द्रव्य­त्वा­दे­वा­न्त­वत्त्वं सर्वेषामनुमातुं शक्यम् ; तथापि प्रवा­ह­नि­य­त्वा­द­नि­त्या­ना­मपि स्रोतोरूपेण संसा­र­वा­ह­क­त्व­शङ्कां व्यावर्तयितुं संख्या­भे­द­व­त्त्व­म­नु­मि­तम् । एवं ताव­द्द्र­व्या­श्रि­तैव संख्येति येषा­मा­ग्र­ह­स्त­न्मते संख्या­भे­द­वत्त्वे द्रव्यत्वं हेतूकृतम् ।
अथ संख्यां विहाय सर्वत्र संख्यास्तीति मतं तन्मतेन मानं –
संख्यान्यत्वे सतीति ।
संख्या­न्य­त्वा­दि­त्यर्थः । सप्तमी च निमित्तार्था ।
अथ संख्यायामपि संख्यास्तीति मतं , तत्रानुमानमाह –
प्रमेयत्वादिति ।
सामान्यतो दृष्टा­नु­मा­नो­प­न्या­सस्तु ईदृशेनापि दूष्य­त्वा­दा­भा­स­तरः परपक्ष इति द्योतनाय ।
व्याख्यातेऽर्थे सूत्रमवतारयति –
ततश्चेति ।
ननु बाह्य­प्य­न्त­व­दे­क­त्वा­दे­क­घ­ट­व­दिति किं न स्यादत आह –
अस्माकं त्विति ।
भाष्य­स्थ­स्व­रू­प­प­रि­मा­ण­पदं व्याचष्टे –
स्वरूपेति ।
परिहरति । तत ईश्व­र­स्ये­त्या­दि­भा­ष्ये­णेति शेषः ।
असति ह्यन्ते तदपरिच्छेदो न दोषाय , अस्ति च स इत्याह –
आगमेति ।
आगमानपेक्षो वादी तस्येति ॥४१॥
इति सप्तमम् पत्यधिकरणम् ॥

उत्प­त्त्य­सं­भ­वात् ॥४२॥ अधिष्ठातैवैश्वर इति मते निरस्ते प्रकृतिरपि स इति मतस्य वेद­सं­ग­ता­र्थ­त्वा­ज्जी­वो­त्प­त्ता­वपि प्रमाणत्वमतो जीवस्वरूपतया बोध्यमानाद् ब्रह्मणो जगत्सर्ग ब्रुवतः समन्वयस्य तेन बाध इति शङ्का­नि­रा­सा­त्सं­ग­ति­म­भि­प्रे­त्याह –
अन्यत्रेति ।
पञ्च­रा­त्र­क­र्तु­र्वा­सु­दे­वस्य वेदादेव सर्व­ज्ञ­त्वा­व­ग­मात् कपि­ल­प­त­ञ्ज­ल्या­दीनां च जीव­त्वा­त्प­ञ्ज­रा­त्रस्य च पुराणेषु बुद्धा­दि­दे­श­ना­व­द्व्या­मो­हा­र्थ­मी­श्व­र­प्र­णी­त­त्व­श्र­व­णान्न योगा­द्य­धि­क­र­ण­ग­ता­र्थता । अन­न्त­र­सं­ग­ति­व­शा­दिह पादेऽस्य लेखः ।
भवतु क्रिया­क­र­ण­मु­त्पाद्यं न तु ज्ञान­क­र­ण­मि­त्या­श­ङ्क्याह –
प्रयत्नेति ।
प्रयत्नादीनां करणत्वं विवक्षातः । सिद्धान्तस्तु – बुद्धि­पू­र्व­कृतिः पञ्चरात्रं निःश्वसितं श्रुतिः । तेन जीवजनिस्तत्र सिद्धा गौणी नियम्यते ॥ यावध्द्येकदेशे वेदाऽ­वि­रो­धा­दी­श्व­र­बु­द्धे­र्वे­द­मू­लत्वं वेदाद्वा सर्वविषयत्वं प्रमीयते , तावदेव स्वतः­प्र­मा­ण­वे­दा­ज्जी­वा­नु­त्प­त्ति­प्र­मितौ तादृ­ग्बु­द्धि­पू­र्व­के­श्व­र­व­च­नान्न जीवो­त्प­त्ति­र­व­गन्तुं शक्यते । अतः प्रमा­णा­प­हृ­त­वि­षये गौणं तद्वचनं न तु भ्रान्तम् पूर्व­प­क्ष­यु­क्ते­रिति। संकर्षणसंज्ञो जीवः प्रद्युम्नं जनयितुं करणान्तरवान्न वा । आद्ये तदेव सर्वत्र करणं स्यादिति न प्रद्युम्नः करणं भवेत् ।
द्वितीयं प्रत्याह –
संकर्षणोऽकरण इति ।
करणसामर्थ्य इति ।
इह करणं कृतिः ।
पर­स्प­र­व्या­ह­तेच्छा इति ।
व्याहतेच्छत्वे ईश्व­र­त्व­व्या­घा­ता­दि­त्यर्थः ।
उत्पन्ने हि कार्ये तत्प्र­ती­श्व­र­त्व­मु­त्प­त्ति­रेव न स्याद् , इत्याह –
व्याहतकामत्वे वेति ।
परिशुद्धं निश्चितम् ।
अने­के­श्व­र­त्वेऽ­प­सि­द्धा­न्त­माह –
भगवानेवेति ।
व्याख्यातो भाष्ये इति शेषः ॥
इति अष्ट­म­मु­त्प­त्त्य­धि­क­र­णम् ॥
इति श्रीप­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्या­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ द्विती­या­ध्या­यस्य द्वितीयः पादः

न वियदश्रुतेः॥१॥ इह पादे भूत­भो­क्तृ­वि­ष­य­वा­क्यानां विरोधः परिह्रियते । प्रासङ्गिकीं पादसंगतिं वक्तुं विप्र­ति­षे­धा­च्चेति भाष्यम् । तत्र श्रुति­वि­प्र­ति­षे­धा­दि­त्यर्थः । परपक्षेषु सर्वत्र स्वव­च­न­वि­रो­ध­स्या­भा­वा­दि­त्य­भि­प्रे­त्याह –
श्रुतीति ।
न वियदिति पूर्वपक्षः अस्ति त्विति सिद्धान्त इति भ्रमं व्यावर्तयति –
इह हीति ।
एवं ह्यवि­रो­धा­ध्या­य­सं­ग­ति­रि­त्यर्थः । अत्र हि गौण्य­सं­भ­वा­दि­त्ये­क­दे­शि­सू­त्रस्य न वियदिति सूत्रो­क्ता­नु­त्प­त्त्यु­प­जी­वि­त्वा­दे­क­वा­क्यता । अत इदमप्येकदेशिन इति । केचित्तु – सूत्रद्वयेन पक्षद्वयं प्रदर्श्य विप्रतिषेध उच्यते , पाद­सं­ग­त­पू­र्व­प­क्षा­र्थ­त्व­सं­भवे सूत्र­स्यै­क­दे­शि­म­ता­र्थ­त्वा­यो­गात् इत्याहुः । तन्न किमश्रुतेरिति हेतुः सार्वत्रिक उतैकदेशपरः । नाद्यः तैत्तिरीयके नभःसंभवश्रवणात् । नान्यः ; अनु­त्प­त्त्य­सा­ध­क­त्वात् । न च क्वचिच्छ्रवणात् क्वचिदश्रवणाच्च विप्रतिषेधः ; अश्रुतस्थले उपसंहारसंभवात् । न चैहै­वो­प­सं­हा­र­चिन्ता ; सर्व­वे­दा­न्त­प्र­त्य­या­द्य­धि­क­र­ण­पौ­न­रु­क्त्या­पा­तात् । तस्मान्न विप्रतिषेधः सूत्राभ्यां दर्शयितुं शक्यः । ततः क्वचिदाकाशस्य प्राथम्यं श्रुतं क्वचित्तेजस इत्येव विप्रतिषेधः । पूर्व­प­क्षा­द्ब­हि­ष्ठात् सिद्धा­न्त­च्छा­य­मे­क­दे­शि­म­त­मिति संगतिः पादेन । एव­माऽ­ध्या­य­स­माप्तेः प्रथमम् विप्र­ति­षे­धा­द­प्रा­मा­ण्येन पूर्वपक्षः , तत एकदेशिव्याख्या ततः सिद्धान्त इति दर्शनीयम् ।
नन्वेकदेश्यपि श्रुतौ सत्यां कथमश्रुतेरिति ब्रूयाद् ? अत आह –
तस्याभिसंधिरिति ।
विरोधेन पूर्वपक्षे भाष्य­वि­रो­ध­मा­श­ङ्क्याह –
तदिदमिति ।
अश्रुतस्थलेऽपि श्रुतो­त्प­त्ते­रु­प­सं­हा­रा­द­वि­रो­ध­मा­श­ङ्क्याह –
पूर्वपक्षी – न च श्रुत्य­न्त­रा­नु­रो­धे­ने­त्या­दिना ।
अस्ति त्वित्यपि सूत्रं निगूढाभिसंधेः सिद्धान्तिन एव अभि­प्रा­या­न­भि­व्य­क्ति­म­पेक्ष्य पूर्व­प­क्ष­सू­त्र­मि­त्यु­क्त­मिति न वियदिति सूत्रेण पुन­रु­क्ति­मा­श­ङ्क्याह –
स्वाभिप्रायमिति ।
अश्रुतेरित्यस्य मुख्य­श्रु­त्य­भा­वा­दिति ह्यभिप्रायस्तं विवृणोतीत्यर्थः ।
आदिग्रहणेनेति ।
विभु­त्वा­दि­ल­क्ष­णा­दि­त्य­त्र­त्ये­ने­त्यर्थः । घटा­दि­व्या­वृ­त्त्य­र्थ­म­स्प­र्शत्वं क्रिया­दि­व्या­वृ­त्त्यर्थं द्रव्य­त्व­वि­शे­ष­णम् ।
एकस्य संभूतशब्दस्य सकृत्प्रयोगे गौण­मु­ख्य­त्व­व्या­घा­तस्य ब्रह्म­श­ब्द­दृ­ष्टा­न्तेन कथं परिहारः , तत्रापि तुल्य­त्वा­द­नु­प­प­त्ते­रि­त्या­श­ङ्क्यो­भ­यत्र न्यायमाह –
पदस्येति ।
अर्थो हि गौण­त्व­मु­ख्य­त्व­वि­रु­द्ध­ध­र्मा­ध्यासं न सहते , शब्दस्तु येनानुषज्यते तेन योग्यतामपेक्ष्य संबध्यते , ततो यत्र मुख्य­वृ­त्त्याऽ­न्व­य­यो­ग्यता तत्र मुख्योऽन्यत्र गौणः संभ­व­ती­त्यर्थः॥५॥
कुलशब्दस्य संतानवाचित्वं व्यावर्तयति –
गृहमिति ।
अमत्रशब्दस्य स्थालादिवचनत्वं च व्युदस्यति –
घटशरावादीनीति ।
क्षीरस्येति षष्ठी तृतीयार्थे । द्वे किल पूर्व­प­क्षि­णाऽ­मु­प­पत्ती उक्ते , तत्ते­जोऽ­सृ­ज­ते­त्य­त्रा­का­श­स्यो­प­सं­हारे सकृदसृजतेति श्रुतस्य स्रष्टु­रा­का­श­ते­जोभ्यां संबन्धे सत्यावृत्त्या वाक्यभेदः स्याद् , द्वयो­श्चा­का­श­ते­जसोः प्रथ­म­सृ­ष्ट­त्व­वि­रोध इति।
तत्र द्विती­या­म­नु­प­पत्तिं परिहरति –
श्रुत्योरिति ।
तेजः प्रथमं सृष्टमिति प्रथमशब्दस्य छान्दो­ग्य­श्रु­ता­व­श्र­व­णा­त्ते­जो­ज­न्म­मा­त्रे­णा­न्य­थो­प­प­त्ति­रि­त्या­का­श­मेव प्रथमं , तेजस्तु यथा­तै­त्ति­री­य­श्रुति तृतीयमिति न विरोध इत्यर्थः ।
तदुक्तं भाष्ये –
तृती­य­त्व­श्र­व­णा­दिति ।
ननु यद्यपि प्रथमशब्दो न श्रुतः ; तथापि प्रथमं तावत्तेजोऽवगतं तदाकाशोपसंहारे बाध्येतेति शङ्कते –
नन्वसहायमिति ।
परि­हा­र­भा­ष्या­भि­प्रा­य­माह –
सर्गसंसर्ग इति ।
तेजसो जन्मसंसर्ग एव श्रुतः , भेदस्तु व्यावृ­त्ति­रा­का­शस्य न श्रुता , किंतु प्रथमस्थाने तेजः श्रव­णा­द­र्था­त्क­ल्प्यते , स्थानं च तैत्ति­री­य­श्रु­त्य­न्त­रेण विरोधात्तेन बाध्यते ; स्थाना­च्छ्रु­ते­र्ब­ली­य­स्त्वा­दि­त्यर्थः ।
न केवलं विरो­धा­दा­का­श­ज­न्मा­भा­व­क­ल्पना , किंतु श्रुता­नु­प­यो­गा­द­पी­त्याह –
न च तेजःप्रमुखेति ।
तत्रापि लभ्यमित्यन्तः पूर्वो­क्त­वि­रो­धा­नु­वाद एव व्यतिरेको व्यावृ­त्ति­श्रु­त्य­न्त­र­श्रु­ते­र्ना­का­श­ज­न्मना तस्यार्थिकस्य व्यतिरेकस्य बाधने श्रुतस्य तेजःसर्गस्य नानुपपत्तिः । अतः श्रुता­का­श­ज­न्म­वि­रो­धि­त्वात् श्रुत­ते­जो­ज­न्मा­नु­प­यो­गि­त्वा­च्चा­का­श­ज­न्मा­भावो न कल्प्य इत्यर्थः ।
प्रथ­मा­म­नु­प­पत्तिं प्रस­ङ्ग­द्वा­रे­णो­त्थाप्य परिहरति –
स्यादे­त­दि­त्या­दिना ।
तत्र किम­र्था­नु­प­प­त्ति­रु­च्यते , शब्दा­नु­प­प­त्तिर्वा ? नाद्य इति तावत्प्रथमं प्रतिपाद्यते , तत्र यदुक्तं यथैकं वाक्यमनेकार्थं न भवति , एवमेकस्य कर्तु­र­ने­क­व्या­पा­र­व­त्त्व­मपि विरुद्धमिति , तत्र दृष्टान्तस्य वैषम्यमाह –
वृद्धप्रयोगेति ।
अने­क­त्रा­र्थेऽ­ना­वृ­त्तस्य शब्दस्य व्यापारो वृद्धव्यवहारे न दृष्टः , आवृत्तौ तु शब्दभेद एवेति नैकस्य शब्दस्य नाना­र्थ­ते­त्यर्थः ।
दार्ष्टान्तिके तु नैवमित्याह –
दृष्टं त्विति ।
शब्दानुपपत्तिं परिहरति –
न चास्मिन्निति ।
तत्ते­जोऽ­सृ­ज­ते­त्यत्र ह्याका­श­ज­न्म­न्यु­प­सं­हृते वाक्य­द्व­य­म­नु­मी­यते तदाकाशमस्रुजत तत्तेजोसृजतेति च । ततश्चैकस्मिन् श्रूयमाणे वाक्येन शब्दा­वृ­त्ति­रू­प­वा­क्य­भे­दा­प­त्ति­रि­त्यर्थः ।
वाक्यानामिति ।
बहु­व­च­न­मु­प­सं­हा­रो­दा­ह­र­णा­न्त­रा­भि­प्रायं प्रथमस्थाने तेजः­श्र­व­ण­म­र्था­दा­का­शस्य प्रथमं जन्म वार­य­ती­त्या­र्थि­क­क्र­म­स्या­का­श­ज­न्म­श्रुत्या बाधो दर्शितः ।
इदानीं क्रमस्य पदा­र्थ­ध­र्म­त्वाच्च न श्रुता­का­श­प­दा­र्थ­बा­ध­क­त्व­मि­त्याह –
गुणत्वादिति ।
विय­दु­त्प­त्त्य­भ्यु­प­ग­मेन श्रुति­वि­प्र­ति­षे­ध­वा­दि­नि­रा­क­रणे प्रस्तुते विय­दु­त्प­त्ति­हे­तु­क­थनं भाष्य­का­री­य­म­सं­ग­त­मि­त्या­श­ङ्क्याह –
सिंहावलोकितेति ।
विकारा इति ।
पराधीनसत्ताका इत्यर्थः । एवं च विभ­क्त­त्व­म­वि­द्यादौ नानैकान्तं तस्य प्राग­भा­व­त्वा­भा­वेऽ­प्य­ध्य­स्त­त्वेन परा­य­त्त­स­त्ता­क­त्वा­ज्जी­वे­श्व­रा­द्यपि विभा­ग­वि­शि­ष्ट­रू­पेण समारोपितमेव ।
नन्वद्वैतवादिनः कथ­मा­का­शा­दे­र्वि­भ­क्त­त्व­सि­द्धि­रत आह –
आत्मान्यत्वे सतीति ।
तत्त्वतो विभ­क्त­त्वा­भा­वेऽऽ­प्य­वि­द्य­याऽऽ­का­शा­दे­र­न्य­त्व­क­ल्प­नायां सत्यामस्ति विभ­क्त­त्व­मि­त्यर्थः । विभागश्च धर्मि­स­मा­न­स­त्ताको विवक्षितः । तथा च न ब्रह्मणि व्यभिचारः ; तद्ग­त­स्या­का­शा­दि­प्र­ति­यो­गि­क­भे­दस्य मिथ्यात्वेन ब्रह्म­स­मा­न­स­त्त्वा­भा­वा­दिति।
भाष्ये कथमात्मनः कार्यत्वे सत्या­का­शा­दे­र्नि­रा­त्म­क­त्व­मा­पा­द्यते ? न ह्यन्यस्य कार्यत्वेऽन्यं निरात्मकं स्यादत आह –
निरुपादानं स्यादिति ।
सर्व­का­र्य­सृष्टेः प्राग्य­द्या­त्मापि न स्यात् , तर्हि निरु­पा­दा­न­त्व­म­सत्त्वं कार्य­स्ये­त्य­ने­ना­पा­द्यते । उपादानं हि कार्य­स्या­त्मे­त्यर्थः ।
भाष्यो­क्त­शू­न्य­वा­द­प्र­स­ङ्गस्य तन्म­ते­ने­ष्ट­प्र­स­ङ्ग­त्व­मा­श­ङ्क्याह –
शून्यवादश्चेति ।
श्रुतिममन्यमानं प्रत्याह –
उपपादितं चेति ।
भाष्ये आत्म­स­म­र्थ­न­मा­त्मन एवा­का­शा­द्यु­पा­दा­न­त्व­स­म­र्थ­ना­र्थम् ; अन्यथा प्रकृ­ता­सं­ग­ते­रि­त्य­भि­प्रे­त्याह –
आत्मवादे चेति ।
आत्मत्वादेवेति ।
प्रत्यगात्मनो निरा­क­र­ण­श­ङ्काऽ­नु­प­प­त्ति­रि­त्ये­त­द्भा­ष्य­मा­त्म­त्वा­दे­वो­पा­दा­न­त्वा­दे­वेति व्याख्ये­य­मि­त्यर्थः ।
तदर्थमात्मन उपादानत्वं समर्थयते –
एतदुक्तमिति ।
विय­दा­दे­र्भा­व­का­र्य­त्वा­त्सो­पा­दा­नत्वं तदुपादानस्य च श्रुता­वा­त्म­त्वम् सिद्धमित्यर्थः ।
प्रकृ­ति­प्र­त्य­या­भ्या­मिति ।
ज्ञा इति धात्वंशः प्रकृतिः । तव्य इति प्रत्ययः । ज्ञानविशिष्टस्य ज्ञेय­स्या­न्य­था­भा­वो­क्ति­र्वि­शे­ष­ण­भू­त­ज्ञा­नेऽपि द्रष्ट­व्ये­त्यर्थः ।
क्षीरावयवानां दध्यु­पा­दा­न­त्वा­द्दृ­ष्टान्तः साध्यसम इत्याशङ्क्याह –
तत्र नावयवानामिति ।
उपात्तं सिद्धम् । न हि दधिभावसमये क्षीरं नश्यति , यत­स्त­द­व­य­वा­ना­मा­र­म्भ­कत्वं कल्प्ये­ते­त्यर्थः ।
ननु दध्यनेकोपादानं कार्य­द्र­व्य­त्वात् पटवद् इत्यनुमीयतां , तत्राह –
यथेति ।
यथा भवतां क्षीरे नष्टे क्षीरा­र­म्भ­क­प­र­माणौ दध्यारम्भाय क्षीर­र­सा­दि­व्य­ति­रे­के­णा­परे रसादय उदयन्ते , तेषां चैकारभ्यत्वमेवं दध्नोऽपि किं न स्यात् ? तस्यापि दुग्ध­सं­स्था­न­मा­त्र­त्वेन गुण­व­द्द्र­व्या­न्त­र­त्वा­न­भ्यु­प­ग­मा­दिति भावः॥७॥
इति प्रथमं वियदधिकरणम्॥

एतेन मातरिश्वा व्याख्यातः॥८॥ संगतिमाह –
यदीति ।
पूर्वाधिकरणे हि ब्रह्म­ण्य­द्वि­ती­य­त्व­प्र­तिज्ञा न गौणी एकाऽ­द्वि­ती­यै­व­श­ब्दै­रस्या अभ्या­सा­दि­त्युक्तं तद्व­द्वा­यु­नि­त्य­त्व­मपि नापे­क्षि­क­म­भ्य­स्य­मा­न­त्वा­दि­त्यर्थः ।
अन्त­रि­क्ष­स­हि­त­वा­य्व­नु­त्प­त्ति­वा­दि­वा­क्य­मा­त्रो­दा­हृ­ता­व­न्त­रि­क्षो­त्पत्तेः पूर्व­त्रो­दा­हृ­ते­र्वा­यु­नि­त्य­त्वो­क्ति­र­प्यौ­प­चा­रि­कीति शङ्का स्यात्तां परिहरति –
पवनस्य विशेषेणेति ।
मुक्त्वाऽ­न्त­रि­क्ष­मि­त्यर्थः ।
चेनेति ।
चकारेणेत्यर्थः ।
तदु­प­पा­द­ना­र्थ­त्वा­च्चेति ।
बृहदारण्यके खल्वनेन ह्येतत्सर्वं वेदे­त्या­त्म­वि­ज्ञा­नेन सर्वविज्ञानं प्रतिज्ञातं वायु­श्चा­न्त­रि­क्ष­मि­त्या­दि­वाक्यं चात्म­का­र्य­वा­य्वा­दि­प्र­द­र्श­नेन तदु­प­पा­द­क­मि­त्यर्थः ।
प्रधा­ने­ना­प्र­धा­न­बा­ध­मुक्त्वा गुण­भू­ता­वा­न्त­र­वा­क्यै­रपि बहु­भि­र्वा­यु­नि­त्य­त्व­वा­क्य­यो­र्बा­ध­माह –
तेषामपीति ।
तेषा­म­वा­न्त­र­वा­क्यानां मध्ये इत्यर्थः ।
अद्वै­त­प्र­ति­पा­द­का­ना­मिति ।
इदं सर्वं यद­य­मा­त्मे­त्या­दि­वा­क्या­ना­मि­त्यर्थः । मात­रि­श्वो­त्प­त्ति­क्र­म­ग्र­ह­ण­मा­का­श­ज­न्म­स­म­र्थ­नात् कार्यस्यापि कार्यं वायुः कुतोऽस्य नित्य­त्व­मि­त्य­र्थम्॥८॥
इति द्वितीयं मात­रि­श्व­व्या­ख्या­ना­धि­क­र­णम्॥

असंभवस्तु सतोऽ­नु­प­पत्तेः॥९॥ भास्करोक्तं दूषणं शङ्कित्वा भाष्यमवतारयति –
नन्वित्यादिना ।
अग्नि­वि­स्फु­लि­ङ्ग­दृ­ष्टा­न्त­श्रु­ति­वि­रो­धा­दिति। ननु नात्मा­श्रु­ते­रि­त्य­धि­क­र­णेऽ­प्ये­त­च्छ्रु­ति­ब­लेन पूर्वपक्षः , सत्यम् ; तत्र हि ब्रह्म नित्यमुपेत्यैव जीवस्य तस्मा­दु­त्प­त्ति­रे­त­द्वा­क्य­ब­लेन शङ्किष्यतेऽत्र तु यथाग्नेरग्निरेव विस्फुलिङ्ग उत्पद्यते , एवं ब्रह्मान्तराद् ब्रह्मेति शङ्क्यते ।
ननु यद्यात्मा आत्मान्तरं प्रति कारणं , तर्हि तस्याप्यन्य इत्य­न­व­स्थे­त्या­श­ङ्क्याऽ­ग्नि­वि­स्फु­लि­ङ्ग­व­द­ना­दि­त्वा­द­दोष इत्याह –
न चेति ।
अपि च विवर्तता हि कार्यता , तत्र ब्रह्म कार्यमिति वदन् प्रष्टव्यः किं ब्रह्म स्वयं सत्यमसत्ये कुत्र­चि­द­ध्य­स्तम् , उत सत्यान्तरे , किं वा विनैवाधिष्ठानेन स्वयमेवारोपितम् ।
नाद्य इत्याह –
यत्स्व­भा­वा­द्वि­च­ल­तीति ।
न द्वितीय इत्याह –
ययोस्त्विति ।
न तृतीय इत्याह –
न च निरधिष्ठान इति ।
अना­दि­त्वा­न्ना­न­व­स्था­दो­ष­मा­व­ह­ती­त्यु­क्त­त्वाद् भाष्या­यो­ग­मा­श­ङ्क्याह –
पारमार्थिको हीति ।
भाष्येऽ­न­व­स्था­श­ब्देन प्रमाणाभाव उच्यते । अग्नि­वि­स्फु­लि­ङ्गा­दे­र्हि­क्व­चि­त्का­र्य­का­र­ण­भा­वस्य प्रमितत्वात् प्रागप्येविमिति परम्परा स्यादत्र तु विकारस्य सतो ब्रह्मणः समारोपिते क्वचित्समारोपः स्यात्स च न प्रमित इत्य­प­रि­नि­ष्ठे­त्यर्थः । माध्य­मि­क­म­त­नि­षे­ध­प्र­स्तावे हि अन्य­त्त­त्त्व­म­न­धि­गम्य प्रत्य­क्षा­दि­प्र­मि­त­नि­षेधो न युज्यते , तैरेव विरोधादतः प्रमितः परमार्थ एवाधिष्ठानमिति ह्युपपादितम् ।
असदधिष्ठानेति ।
अस­च्छ­ब्दोऽ­प­र­मा­र्थ­व­चनः । भास्करस्य भाष्यकारीयमते यदरुचिनिदानं तत्प्रागेव विचिकित्सितम् ।
इदानीं तदु­दी­रि­ता­म­धि­क­र­ण­भङ्गीं भञ्जयति –
ये त्विति ।
क्लेशेनेति ।
सतो विद्यमानस्य गुणा­दे­र्नि­त्य­त्वा­सं­भवः , कुतः ? अद्वि­ती­य­श्रु­त्य­नु­प­प­त्ते­रि­त्य­ध्या­हारः क्लेशः । किंच तैर­श्रु­तो­त्प­त्ति­का­ना­म­नु­त्प­त्ति­श­ङ्का­नि­रा­सोऽ­धि­क­र­णार्थ इत्युच्यते ।
ततश्च श्रुति­वि­रो­धा­प­रि­हा­रात् पादा­सं­ग­ति­रि­त्याह –
अविरोधेति ।
यत्तु - केशवेन समादधे पूर्वाधिकरणार्थ एवा­त्रा­क्षि­प्यते ; श्रुता­का­शा­दि­भि­र­श्रु­त­दि­गा­दीनां परिसंख्यायां प्रति­ज्ञा­व्य­ति­रे­क­यो­र्बा­धाद् , अपरिसंख्यायां त्वेक­दे­शो­पा­दा­न­वै­य­र्थ्यम् - इति। तन्न ; अनादिपूर्वपक्षा भासो­त्प्रे­क्षि­ता­नु­त्प­त्ती­ना­मा­का­शा­दी­ना­मु­त्प­त्त्य­भि­धा­नस्य सर्व­का­र्यो­प­ल­क्ष­णा­र्थ­त्वा­दिति॥९॥
इति तृती­य­म­सं­भ­वा­धि­क­र­णम्॥

तेजोऽतस्तथा ह्याह॥१०॥ अध्य­स्त­स्या­धि­ष्ठा­न­त्वा­यो­गान्न ब्रह्मणः कुतश्चित्संभव इत्युक्तं , तर्हि वायो­र­प्य­ध्य­स्त­त्वान्न तेजसस्ततो जन्म , किंतु ब्रह्मण एवेति प्रत्य­व­स्था­ना­त्सं­गति। अत्र पूर्व­प­क्ष­स­म्भा­व­नार्थं भाष्यं वायोरग्निरिति क्रमोपदेशो वायो­र­न­न्त­र­मग्निः संभूत इति ।
तदनुपपन्नम् , वायोरनन्तरमिति दिग्यो­गा­र्थ­प­ञ्चम्या अन­न्त­र­मि­त्यु­प­प­द­सा­पे­क्ष­त्वात् , अपादानपञ्चम्या निरपेक्षत्वाद् , वायोरेव तेजः­प्र­त्यु­पा­दा­न­त्व­प्र­ती­ते­रि­त्या­श­ङ्क्याह –
यद्यपीति ।
बहु­श्रु­त­य­स्त­त्तेज इत्याद्यास्ता हि ब्रह्मजत्वं तेज­सोऽ­भि­व­दन्त्यो वायुजत्वे विरु­ध्ये­र­न्निति।
ननु श्रुतयः परम्परया ब्रह्मजत्वेऽपि योक्ष्ययन्तेऽत आह –
न चेति ।
पार­म्प­र्य­सं­ब­न्धि­दृ­ष्टा­न्त­माह –
वाजपेयस्येति ।
वाजपेयस्य यूप इतिवद् यत्परम्परया तज्जत्वं तत्साक्षाद् ब्रह्मजत्वसंभवे सति न युक्तमिति योजना । शेषलक्षणे स्थितम् – आन­र्थ­क्या­त्त­द­ङ्गेषु (जै.अ.३.पा.१.सू.१८) । सप्त­द­शा­र­त्नि­र्वा­ज­पे­यस्य यूप इति श्रूयते । तत्र न तावद्यो वाजपेयस्य यूपः स सप्त­द­शा­र­त्नि­रिति विधीयते ; विशिष्टोद्देशेन वाक्य­भे­द­प्र­स­ङ्गात् । तत्रा­न्य­त­रो­द्देशे किं वाजपेयोद्देशेन सप्त­द­शा­र­त्नित्वं विधीयते , उत यूपोद्देशेनेति संश­येऽ­न­न्त­र­दृ­ष्ट­त्वा­त्प्र­धा­न­त्वा­त्प्र­क­र­णि­त्वाच्च वाजपेय उद्देश्यः , तस्य च साक्षा­त्स­प्त­द­शा­र­त्नि­त्वा­सं­भवे तदी­य­षो­ड­श्या­ख्यो­र्ध्व­पा­त्रो­प­ल­क्ष­णार्थो यूपशब्द इति प्राप्ते सिद्धान्तः । यूप उद्देश्यः । एवं हि यूपशब्दो मुख्यार्थः स्यान्न च वाजपेयस्येति गौणता ; व्यव­हि­त­सं­ब­न्धेऽपि षष्ठ्या मुख्य­त्वा­च्चै­त्रस्य नप्तेतिवत् । तस्माद्वाजपेये यूपा­भा­वा­त्त­द­ङ्ग­ग­त­यूपे सप्तदशारत्निता विधीयते इति। पशुयागसंबन्धिनो यूपस्य साक्षा­द्वा­ज­पे­य­सं­बन्धो न संभवति ; वाज­पे­य­प­शु­या­ग­यो­र­ङ्गा­ङ्गि­त्वेन विरु­द्ध­ध­र्मा­ध्या­सेन भेदात् । तत्र वाजपेयस्येति षष्ठी पर­म्प­रा­सं­ब­न्ध­मा­श्र­येत् । अत्र तु वायोरिति श्रुत्या वायूपादानत्वे तेजसोऽभिहितेऽपि न ब्रह्म­ज­त्व­श्रु­तिभिः पार­म्प­र्य­म­व­ल­म्ब्यम् ।
ब्रह्म­वा­य्वो­र­भे­देन वायुजस्यापि ब्रह्म­ज­त्वो­प­प­त्ते­रि­त्याह –
युक्तमित्यादिना ।
वायो­र्ब्र­ह्म­वि­का­रस्य यद्यपि ब्रह्मणः सकाशात् काल्पनिको भेदः ; तथापि वास्त­वा­भे­दा­द­व्य­व­धा­न­मि­त्याह –
ब्रह्म­वि­का­र­स्या­पीति ।
यदुक्तं बह्वि­भि­र्ब्र­ह्म­ज­त्व­श्रु­तिभिः कार­क­वि­भ­क्ते­र्बाध इति , तदप्येवं सत्य­पा­स्त­मि­त्याह –
उभयथेति ।
वायु­भा­वा­प­न्न­ब्र­ह्म­जत्वे केव­ल­ब्र­ह्म­ज­त्वेऽ­पी­त्यर्थः । यद्यप्येकाकिनी कार­क­वि­भ­क्ति­स्तास्तु बह्व्यः ; तथापि तासां वायु­भा­वा­प­न्न­ब्र­ह्म­ज­त्वेऽपि तेजसो न विरोध इति पञ्चम्यनुग्रहाय तत्रैव नियम्यन्त इति भावः । एवंच कल्पितस्य वायो­र­धि­ष्ठा­न­त्वा­योग इति परास्तम् ; तद्भा­वा­प­न्न­ब्र­ह्मणः पर­मा­र्थ­त्वा­दिति।
कांस्यभोजिवदिति ।
लोके कस्य­चि­च्छि­ष्यस्य कांस्यभोजित्वं नियतम् , उपाद्यायस्य त्वनि­य­त­पा­त्र­भो­जि­त्वम् , तत्र यदि तयोः कुत­श्चि­न्नि­मि­त्ता­दे­क­स्मि­न्पात्रे भोजनं प्राप्नुयात् , तदा­नी­म­मु­ख्य­स्यापि शिष्यस्य धर्माऽ­बा­धा­यो­पा­ध्या­योऽपि कांस्य­भो­जि­त्वे­नैव नियम्यत इति।
अव्यवधानस्य समर्थितत्वाद् भाष्या­यो­ग­मा­श­ङ्क्याह –
भेदकल्पनेति ।
काल्पनिकं वायु­ब्र­ह्म­भे­द­मा­श्रित्य पारम्पर्यवाद इत्यर्थः ।
न तु सर्वथेति ।
शृतस्य दुग्धस्य धेन्वाश्च वायु­ब्र­ह्म­णो­रि­वा­भे­दा­भा­वा­दि­त्यर्थः॥१०॥
इति चतुर्थं तेजोधिकरणम्॥

आपः॥११॥ अतिदेशोऽयम् । ‘एतस्माज्जायत’ इत्युपक्रम्य ‘ खं वायु­र्ज्यो­ति­राप’ इति श्रूयते । अग्नेराप इति च । अतश्चापः किं सतो जायन्ते उत तेजस इति संशयादि पूर्ववत् । अपा­म­ग्नि­दा­ह्य­त्वा­द­ग्ने­रु­त्प­त्त्य­यो­गा­द­ग्ने­रा­प­स्त­त्ते­जोऽ­पोऽ­सृ­ज­तेति च गौण्यौ श्रुती इति शङ्काऽत्र निवर्त्यते । अत्रि­वृ­त्कृ­ताऽ­प्ते­ज­सो­र­वि­रु­द्ध­त्वा­दिति ॥११॥
इति पञ्चममबधिकरणम्॥

पृथि­व्य­धि­का­र­रू­प­श­ब्दा­न्त­रेभ्यः॥१२॥ सृष्टावपां तेज­सोऽ­न­न्त­र­त्वा­त्पृ­थि­व्या­श्चा­बा­न­न्त­र्या­द­धि­क­र­ण­द्व­यस्य बुद्धि­स­न्नि­धा­न­रूपा संगतिः । व्युत्पत्त्या व्युत्पाद्यत इति योगवृत्त्या । प्रसिद्ध्या रूढ्या । न वयं महा­भू­त­प्र­क­र­ण­मा­त्रा­द­न्न­श्रुतिं बाधामहे , किंतु लिङ्ग­प्र­क­र­ण­स­हि­त­सा­भ्या­स­पृ­थि­वी­श्रुत्या इत्याह –
श्रुत्यो­रि­त्या­दिना ।
लिङ्गमाह –
प्रायिकेति ।
तत् तत्र सृष्टिकाले यद् यः अपां शरः मण्डः धनीभावः आसीत् सा पृथिव्यभवद् इति पुनःश्रुतेरर्थः ।
ननु वर्ष­णा­द्भू­यि­ष्ठ­त्व­प्रा­प्ति­लि­ङ्ग­म­न्न­श्रु­ते­र­प्य­नु­ग्रा­ह­क­मस्ति , अत आह –
वाक्यशेषस्य चेति ।
तस्य लिङ्ग­प्र­क­र­णाभ्यां बाधात् । अन्यथा पार्थि­व­व्री­ह्या­दि­प­र­त्वेऽ­नु­प­प­त्ते­रि­त्यर्थः॥१२॥
इति षष्ठं पृथिव्यधिकरणम्॥

तदभिध्यानादेव तु तल्लि­ङ्गात्सः॥१३॥ ननु न तावदिह भूतानां ब्रह्मा­धि­ष्ठि­तानां स्रष्टृ­त्वा­भा­व­श्चि­न्त्यते ; ईक्ष­त्या­द्य­धि­क­रणै (ब्र.अ.१.पा.१.सू.५) र्गतत्वात् । नापि ब्रह्मण एव तत्त­द्भू­ता­त्म­नाऽ­व­स्थि­त­स्यो­त्त­र­का­र्यो­पा­दा­न­त्वम् ; तेजोऽत (ब्र.अ.२.पा.३.सू.१०) इत्यत्र तन्निर्णयात् । अतोऽ­धि­क­र­णा­ना­रम्भ इत्या­श­ङ्का­म­प­न­यन् सङ्गतिमाह –
सृष्टिक्रम इति ।
पूर्वपक्षमाह –
तत्रा­का­शा­द्वा­यु­रिति ।
यद्यपि परात्तु तच्छ्रुते (ब्र.अ.२.पा.३.सू.४१) रित्यत्र जीव­क­र्तृ­त्व­मी­श्व­रा­धी­न­मिति वक्ष्यते ; तथापीह देव­ता­ना­मै­श्व­र्य­यो­गा­त्स्वा­त­न्त्र्य­मा­श­ङ्क्यते । न च देव­ता­ना­म­पी­श्व­रा­धी­न­त्वेऽत्र सिद्धे कैमु­ति­क­न्या­या­ज्जी­व­मा­त्रे­ष्वपि तत्सि­द्धे­स्त­द­धि­क­र­णा­ना­रम्भः शङ्क्यः ; सत्यपि देवतानां महा­भू­त­सृ­ष्टा­वी­श्व­र­पा­र­तन्त्र्ये विहि­त­क्रि­या­क­र्तृ­त्वादौ क्षुद्रे जीवमात्रस्यापि स्वात­न्त्र्य­श­ङ्को­द­य­सं­भ­वा­दिति। अत्रा­का­शा­दि­श­ब्दै­रा­का­शा­द्य­भि­मा­निन्यो देवता विवक्षिताः , मनु­ष्या­दि­श­ब्दै­रि­व­जीवाः । पञ्चम्यश्च निमित्तार्थाः । एतदुक्तं भवति – यथाऽऽ­का­शा­द्या­त्म­ने­श्वरो वाय्वा­द्यु­पा­दा­न­मेवं तद­भि­मा­नि­दे­व­ता­त्म­नाऽ­धि­ष्ठा­तेति। भूतानामपि चेत­न­त्व­श्र­व­णा­दिति भाष्यं भूता­भि­मा­नि­दे­व­ता­भि­प्रा­यम् ।
ननु सोऽकामयतेति पर­मे­श्व­र­प्र­स्तावं कृत्वा तद्ब्र­ह्मा­त्मानं स्वयमकुरुतेति कर्तृत्वं श्रूयते , यः पृथिव्यां तिष्ठन् यमयतीति चेश्वरस्य निय­न्तृ­त्व­लि­ङ्ग­मस्ति , तत्कथं देवतानां स्वातन्त्र्येण कार्य­नि­य­न्तृ­त्व­मत आह –
प्रस्तावस्य चेति ।
मूलकारणस्य च ब्रह्मणः प्रस्ता­व­लि­ङ्ग­द्यो­ति­त­स­र्व­नि­य­न्तृ­त्वस्य पार­म्प­र्ये­णा­भि­मा­नि­दे­व­ता­द्वा­रे­णो­प­प­त्ते­रि­त्यर्थः ।
ब्रह्म­यो­नि­त्वेति ।
योनिशब्दो निमित्तार्थः । आकाशादिशब्दैर्न देवतालक्षणा ; मुख्या­र्थ­बा­धा­भा­वात् ।
पञ्च­म्य­श्चा­पा­दा­ना­र्थ­स्तत्र रूढ­त­र­त्वा­दि­त्याह –
आकाशादीनामिति ।
देव­ता­ल­क्ष­ण­म­ङ्गी­कृ­त्या­प्याह –
न च चेतनानामिति ।
भाष्ये तेन तेना­त्म­नाऽ­व­ति­ष्ठ­मा­न­त्वम् इति भूता­त्म­ता­मा­प­न्न­स्यो­पा­दा­न­त्व­मु­क्त­मिति भ्रममपनुदति –
स्वयमधिष्ठायेति ।
तत्र चान्यत्र चानु­ग­त­का­र­ण­रू­पे­णा­व­स्थानं तदा­त्म­नाऽ­व­स्थानं , न तु तदात्मत्वेनैव परिसमाप्तिः ।
भाष्ये परमेश्वरावेशो जीवापत्तिरिति भ्रान्ति निरस्यति –
अन्त­र्या­मि­भा­वे­नेति ॥१३॥
इति सप्तमं तद­भि­ध्या­ना­धि­क­र­णम्॥

विपर्ययेण तु क्रमोऽत उपपद्यते च॥१४॥ यद्यप्यत्र श्रुति­वि­प्र­ति­षेधो न परिह्रियते ; तथा­प्यु­त्प­त्ति­क्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यो पादा­वा­न्त­र­स­ङ्गती । भास्करेण सिद्धान्ते स्थित्वाऽन्नेन सोम्य शुङ्गेनापो मूल­म­न्वि­च्छे­त्यत्र लयेऽपि भूतानां क्रमः श्रुत इत्युक्तं , तदयुक्तमित्याह –
नाप्यय इति ।
तत्र हि कार्येण कारणमनुमाप्यते , न लयोऽभिधीयत इति।
यत्तु यत्प्र­य­न्त्य­भि­सं­वि­श­न्तीति , तत्र लयमात्रमुक्तं न क्रम इत्याह –
अप्य­य­मा­त्र­स्येति ।
यच्च भास्करेणाऽनियमः पूर्वपक्ष इत्युक्तं , तद­प्य­यु­क्त­मि­त्याह –
तत्रेति ।
श्रुतो­त्प­त्ति­क्र­मा­देव नियमे सति नानियम इत्यर्थः । यत्तु - केशवेनोक्तम् अयोग्य उत्पत्तिक्रमो नाप्यये भवितुमर्हति , न हि नष्टेषु तन्तुषु पटस्तिष्ठन् दृष्टः - इति , तदयुक्तम् ; अनियमेऽपि पाक्षि­क­स्या­यो­ग्य­त्व­स्या­प­रि­हा­रात् । तत्र तदपि स्वीकृ­त्या­व्य­व­स्थि­त­प­क्षा­भ्यु­प­ग­मा­द्वरं व्यव­स्थि­तो­त्प­त्ति­क्र­मा­श्र­य­णम् । भाष्य­का­र­स्त्व­नि­य­त­प­क्ष­मु­प­क्र­म­मा­त्र­मु­क्त­वा­निति।
घटादीनां दृष्टोऽ­प्य­य­क्रमो विपरीतः , स भूतानां किमस्त्वित्याह –
किं दृष्ट इति ।
सन्नि­धा­ने­प्यु­त्प­त्ति­क्र­म­स्या­ना­का­ङ्क्षि­त­त्वा­न्ना­प्य­य­स­बन्ध इत्याह –
अप्ययस्येति ।
न च विप­री­त­क्र­म­स्या­स­न्नि­धानं , प्रमाणेन सन्नि­धा­पि­त­त्वा­दि­त्याह –
दृष्टेति ।
घटादौ दृष्टे­ना­त्रा­प्य­नु­मा­नो­प­नी­ते­ने­त्यर्थः ।
श्रुत्य­नु­सा­रि­णोऽ­प्य­य­क्र­म­स्येति ।
उत्पत्तौ श्रुत­स्या­प्य­येऽपि संगमयितुं त्वये­ष्य­मा­ण­स्ये­त्यर्थः । लोक­दृ­ष्ट­प­दा­र्थ­बो­धा­धीना हि श्रुतिरतः श्रुति­स­न्नि­हि­ता­दपि लौकिकः क्रमः सन्निहिततर इति तेन तद्बाधनं युक्तम् ।
दृष्टेन क्रमेण श्रौतबाधे हेत्वन्तरं चाह –
तस्मिन् हि सतीति ।
अना­का­ङ्क्षा­मु­प­सं­ह­रति –
तद्विरुद्धेति ।
तस्यो­पा­दा­नो­प­र­मेऽपि कार्य­स­त्ता­पा­द­क­स्यो­त्प­त्ति­क्र­मस्य विरुद्धो यो विप­री­त­क्र­म­स्त­स्या­व­रो­धा­त्सं­ब­न्धा­दि­त्यर्थः ।
ननु विपरीतक्रमे श्रुत्यभावाद् भाष्यो­क्त­ज­ग­त्प्र­ति­ष्ठे­त्याद्या स्मृति­र्नि­र्मू­ले­त्यत आह –
एतन्न्यायमूलेति ।
उपादानलये कार्य­स्थि­त्य­योगो न्यायः॥१४॥
इत्यष्टमं विप­र्य­या­धि­क­र­णम्॥

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्ना­वि­शे­षात्॥१५॥ संगतिमाह –
तदेवमिति ।
भाव­नो­प­यो­गि­ना­विति ।
पूर्वाधिकरणानां प्रयोजनोक्तिः । भूतो­त्प­त्ति­ल­य­शी­लनं ह्यद्वै­त­ब्र­ह्म­ध्या­नो­प­यो­गीति बुद्ध्या­द्यु­त्प­त्ति­क्र­म­वि­चा­रोऽपि तत्फल एव ।
ननु सूत्रे विज्ञा­न­श­ब्द­प्र­यो­गा­त्तस्य च बुद्धिवृत्तौ प्रसिद्धेः कथं बुद्धी­न्द्रि­या­णा­मु­त्प­त्ति­चिन्ता ? अत आह –
अत्रेति ।
निश्चयवती बुद्धिः संशयादिमन्मतनः इति तद्भेदः ।
चेदित्यन्तस्य योजनया पूर्वपक्षमाह –
तत्रैतेषामिति ।
आत्मानं भूतानीति च द्वितीये ; ‘‘अन्तरान्तरेण युक्ते’’ इति षष्ठ्यर्थे सामाम्नानात् । एतस्माज्जायत इति वाक्ये इत्यर्थः ।
श्रुति­वि­रो­ध­प­रि­हा­रेण चिन्तां संगमयति –
तस्मात्पूर्वेति ।
ननु यदि साक्षा­दा­त्म­का­र्या­णी­न्द्रि­याणि , कथं तर्ह्य­न्ना­दि­म­यत्वं मन आदी­ना­मा­म्ना­य­तेऽत आह –
अन्नमयमिति चेति ।
प्राचुर्यार्थो मयद प्राचुर्यं चान्ना­त्म­क­श­री­रेण मन­आ­दे­र­व­च्छे­दा­दि­त्यर्थः ।
अन्न­म­य­मि­त्या­दि­लि­ङ्ग­श्र­व­णा­दिति ।
अन्नमशितं त्रेधा विधीयत इति आध्या­त्मि­क­त्रि­वृ­त्क­र­ण­परे वाक्ये मनसोऽन्नमयत्वेन निर्देशो लिङ्गदर्शनमिति ।
इतरथा त्विति ।
प्राचु­र्या­र्थ­त्वेऽ­न­पे­क्षितं प्राचुर्यमुक्तं भवेदित्यर्थः ।
न च तदपीति ।
प्राचु­र्य­मि­त्यर्थः । अन्नकार्यत्वं तु मनसो घटते ; अन्नोपयोगे मनोविवृद्धेः श्रुत्यैव दर्शितत्वादिति। भूतानां मध्ये आकाशः प्रथमं जायत इत्यु­क्त­क्रमः॥१५॥
इति नव­म­म­न्त­रा­वि­ज्ञा­ना­धि­क­र­णम्॥

चरा­च­र­व्या­पा­श्र­यस्तु स्यात्त­द्व्य­प­देशो भाक्त­स्त­द्भा­व­भा­वि­त्वात्॥१६॥ एवं ताव­त्त­त्प­द­वा­च्य­का­र­ण­त्व­नि­र्ण­याय भूतो­त्प­त्ति­श्रु­ति­वि­रोधो निरस्तः । इदा­नी­मा­पा­द­स­मा­प्ते­स्त्वं­प­दा­र्थ­शुध्द्यै जीव­वि­ष­य­श्रु­ति­क­लहो वारयिष्यते । यदी­न्द्रि­यो­त्प­त्तिर्न भूतो­त्प­त्ति­क्र­म­म­न्य­थ­यति , तर्हि जीवो­त्प­त्ति­स्त­म­न्य­थ­ये­दिति शङ्कायां सैव नास्ति , कुतः कलहः ? इति प्रति­पा­द­ना­द­वा­न्त­र­सं­गतिः । इह जीव­ज­न­न­नि­ध­न­नि­मि­त्त­श्रा­द्ध­वै­श्वा­न­री­ये­ष्ठ्या­दि­शा­स्त्राणां च जीव­नि­त्य­त्व­शा­स्त्राणां चाविरोधः साध्यते । देव­द­त्ता­दि­नाम्नो देह­वा­च­क­त्वा­त्कथं भाष्ये जातो देवदत्त इत्या­दि­व्य­प­दे­शा­ज­जी­व­ज­न्म­श­ङ्काऽत आह –
देवदत्तादीति ।
तन्मृत इति ।
तदिति तस्मादर्थे ।
देहेन सहात्मनाशे श्राद्धा­दि­वि­धि­वै­य­र्थ्यात् स्थाय्यात्मेति सिद्धान्तयति –
मुख्यत्व इति ।
भक्तिर्गुणयोगः तत्संयोग इत्यन्वयः । शरी­रो­त्पा­द­वि­नाशौ स्त इति शेषः॥
इति दशमं चरा­च­र­व्य­पा­श्र­या­धि­क­र­णम्॥

नात्माऽ­श्रु­ते­र्नि­त्य­त्वाच्च ताभ्यः॥१७॥ स्वर्गादिभोगाय देह­ना­शेऽ­प्यात्मा न नश्यतीत्युक्तम् , तर्हि कल्प­मा­त्रा­व­स्था­नेऽपि स्वर्गा­दि­भो­ग­सं­भ­व­ज्जीवः कल्पा­द्य­न्त­यो­रु­त्प­त्ति­वि­ना­श­वा­निति संगतिमाह –
मा भूतामिति ।
नन्वसंभवस्त्वि (ब्र.अ.२.पा.३.सू.९) त्यत्र ब्रह्म­ज­न्म­नि­षे­धात् कथं तद­भि­न्न­जी­व­ज­न्म­श­ङ्काऽत आह –
पर­मा­त्म­न­स्ता­व­दिति ।
परमात्मनो जीवा­ना­म­न्य­त्व­मि­त्य­न्वयः ।
एवं हीति ।
क्वचि­च्छ्रु­त­स्या­न्य­त्रा­नु­प­सं­हारे सतीत्यर्थः ।
विका­र­भा­वा­प­त्त्येति ।
जीव­ल­क्ष­ण­वि­का­र­भा­व­मा­पद्य तद्रूपेण शरीरे प्रवेश इत्यर्थः ।
मनोमय इत्यादीनामिति ।
मनोमयादिशब्देषु श्रुतानां मन आदीनामित्यर्थः । उपाधिप्रविलयेन हेतुना उपहितस्यैव विशिष्टस्यैव प्रविलयो न शुद्धस्येति प्रश्नो­त्त­रा­भ्याम् अत्रैव मा भग­वा­न­मू­मु­ह­दि­त्य­वि­नाशी वा अरे अयमात्मा इत्या­भ्या­मु­प­पा­द­ना­दि­त्यर्थः ।
अनेकधेति ।
अविनाशी अनु­च्छि­त्ति­ध­र्मेति निर­न्व­य­सा­न्व­य­ना­श­वा­र­णा­दि­त्यर्थः । श्रुत्यो­प­पा­द­ना­दि­त्य­ध­स्त­ने­ना­न्वयः । अविभागस्य चेति च्छेदः ।
अधस्तादिति ।
वाक्यान्वया (ब्र.अ.१.पा.४.सू.१९) दित्यधिकरणे इत्यर्थः॥१७॥
इत्येकादशं आत्माधिकरणम्॥

ज्ञोऽत एव॥१८॥ आत्मैवास्य ज्योति­रि­त्या­दि­श्रु­तीनां पश्यंश्चक्षुः शृण्वन् श्रोत्र­मि­त्या­दि­श्रु­ति­भि­र्जी­व­स्या­ग­न्तु­क­ज्ञा­न­त्व­वा­दि­नी­भि­र्वि­रोधः परिह्रियते । प्रागु­क्त­जी­वा­नु­त्प­त्ति­हे­तुम् उपादाय स्वप्र­का­श­त्व­सा­ध­नात् संगतिः सूत्रभाष्ययोरेव स्पष्टा । अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति तत्र स्वप्रकाशता । न चैवं गतार्थत्वम् ; अनुत्पन्नस्यापि जीव­स्या­नि­त्य­ज्ञा­न­त्व­श्रु­ति­व­शाद् ब्रह्मा­न्य­त्व­श­ङ्को­प­प­त्ते­र्ब्र­ह्मै­क्य­यो­ग्य­त्वाय जीवस्येह स्वप्रकाशत्वं समर्थ्यते । उत्तरेण स्वाभा­वि­का­णु­त्व­नि­रा­सेन वस्तुतो महत्परिमाणं चैत­न्या­दी­ष­द्ब­हिष्ठं साधयिष्यते । ततोऽधिकरणत्रयेण ततोऽपि बहिष्ठं कर्तृत्वं बुद्धि­क­र्तृ­त्व­व्या­व­र्त­ने­नाऽऽ­त्म­ना­ध्य­स्त­मु­प­पा­द­यि­ष्यते । एवं ज्ञान­यो­ग्य­त्वस्य जीवस्य ब्रह्मणैक्यम् अश (ब्र.अ.२.पा.३.सू.४३) इत्यत्र वक्ष्यते । इत्यापादसमाप्ति संगतयः । अनित्यज्ञानत्वे युक्तिमप्याह –
कर्मणा हीत्यादिना ।
यदि जीवानां स्वभाविकी ज्ञानशक्तिर्न स्यात् , तर्हि इन्द्रि­या­दि­स­न्नि­क­र्षेऽपि न जानी­र­न्ना­का­श­वन्न चैवमित्याह –
न तु व्योम्न इवेति ।
ननु जीवस्वरूपेऽस्ति विशेषः , शक्तावपि तुल्यमिति चेद् , न ; कार्यनियमाय शक्तेः पितृ­त्वा­दि­व­द­सा­दा­र­ण्य­क­ल्प­ना­दि­त्यर्थः । व्यति­रे­क­व्या­प्ति­पू­र्व­क­मा­त्म­स्व­प्र­का­श­त्वेऽ­नु­मा­न­माह –
यदा­ग­न्तु­क­ज्ञा­न­मि­त्या­दिना ।
व्याख्याता एते ग्रन्था बौद्धाधिकरणे ।
यदुक्तमसति कर्मणि न चैतन्यमिति तत्राह –
तस्माद् वृत्तय इति ।
अत एव पश्यं­श्च­क्षु­रि­त्या­दिषु श्रुतयो दत्तविषयाः॥१८॥
इति द्वादशं ज्ञाधिकरणम्॥

उत्का­न्नि­ग­त्या­ग­ती­नाम् ॥२९॥ अणुरिति श्रुतेरिति चोत्त­र­सू­त्रा­दा­कृ­ष्या­णु­र्जीव उत्क्रा­न्त्या­दीनां श्रुतेरिति योजना॥१९॥
तच्चाचलतोऽपीति ।
देहस्वामित्वं हि देहाभिमान इत्युक्तमध्यासे । तदेव च जीवनं तन्निवृत्तिश्च मरणमित्यचलतोऽपि तत्संभव इत्यर्थः । कर्तृस्थो भवतीति भावः । फलं संयोगविभागाख्यं ययोस्ते गत्यागती कर्तृस्थभावे तयोरित्यर्थः ।
तयो­र्व्या­पि­न्य­सं­भ­वा­दि­त्ये­ता­न्नि­ग­म­यति –
गत्यागती चेति ।
अपि सापादानेति ।
अपिश्चार्थे सापादाना च सतीति हेत्व­न्त­र­स­मु­च्चयः । अनेन सौत्रश्चशब्दो व्याख्यातः ।
न केवलमिति ।
चक्षुष्टो वा मूर्ध्नो वा निष्कामतीति शरी­रै­क­दे­शा­ना­मु­त्क्रा­न्ता­वु­पा­दा­न­त्व­श्रु­ते­रेव केव­ल­मु­त्क्रा­न्ति­र­णु­त्व­सा­ध­न­मि­त्ये­त­देव न , किंतु शरीरप्रदेशानां हृदयादीनां गन्त­व्य­त्व­श्रु­ते­र­प्यु­त्क्रा­न्ति­र­णु­त्व­सा­ध­न­मि­त्यर्थः । स आत्मा एतास्तेजस उप­ल­क्षि­त­भू­त­मात्रा भूत­का­र्या­णी­न्द्रि­या­ण्या­द­दानो हृदयं पुण्ड­री­क­म­न्व­व­क्रा­मति अवक्रामन् लिङ्गशरीरमनु तदु­पा­धि­र­व­क्रा­मति प्राप्नोति उत्क्रान्तौ । सुषुप्तः पुनः शुक्रं शोचि­ष्म­न्त­मि­न्द्रि­य­स­मु­दा­य­मा­दाय जागरितस्थानमेति आगच्छतीति श्रुते­रर्थः॥१९॥२०॥ इतराधिकारादिति सूत्रमयुक्तम् ; जीव­प­र­यो­र­भे­दा­दि­त्या­श­ङ्क्याह – यत उत्क्रा­न्त्या­दीति॥२१॥
उद्धृत्येति ।
अव­य­वि­नोऽ­व­य­व­मु­द्धृत्य विभ­ज्य­मा­न­मु­न्मा­न­मि­त्यर्थः ।
वाला­ग्र­दृ­ष्टा­न्तेऽपि व्याचष्टे –
आराग्रादिति ।
अत्र मोत्रे­त्य­ध्या­हारः । आराग्रस्य तोत्रा­ग्र­प्रो­त­लो­हा­ग्रस्य मात्रेव मात्रा परिमाणं यस्य सोऽवरो जीवो दृष्ट इति श्रुते­रर्थः॥२२॥२३॥
एकदेशस्थस्य व्यापि कार्यं न संभवतीति न व्याप्ति­श्च­न्द­नादौ व्यभि­चा­रा­दि­त्युक्ते दृष्टान्तः प्रत्यक्ष इत्युक्त्या न परिहार इत्याशङ्क्याह –
यस्य त्विति ।
शरी­रै­क­दे­श­मा­त्र­वृ­त्ति­त्वे­ना­प्र­मि­तत्वे सति शरी­र­व्या­पि­का­र्य­का­रि­त्वा­त्त्व­ग्व­दा­त्मनः सक­ल­श­री­र­व्या­पि­त्व­म­नु­मी­यत इत्यर्थः ।
प्रति­दृ­ष्टा­न्त­सं­भ­वे­नेति ।
उक्तमार्गेण प्रति­दृ­ष्टा­न्त­सं­भ­वे­ने­त्यर्थः ।
अनै­का­न्ति­क­त्वा­दिति ।
चन्द­न­दृ­ष्टा­न्त­स्या­नि­र्णा­य­क­त्वा­दि­त्यर्थः ।
शरी­रै­क­दे­श­मा­त्र­वृ­त्ति­त्वे­ना­प्र­मि­तत्वं हेतु­वि­शे­ष­ण­सि­द्धम् ; हृदि ह्येष आत्मे­त्या­दि­श्रु­ति­भि­रे­क­दे­श­स्थ­त्वस्य प्रमितत्वादिति परिहरतीत्याह –
शङ्कामिमामिति ।
ननू­त्क्रा­न्त्या­दि­श्रु­ति­भि­रे­वा­त्म­नोऽ­णु­त्वै­क­दे­श­स्थ­त्वयोः सिद्धौ किमितीह श्रुत्य­न्त­र­मु­दा­ह्रि­यते ? अत आह – यद्यपीति॥२४॥२५॥ सर्वथा यदक्षीयमाणं , तर्हि गुरु­त्वा­दि­हा­ना­नु­प­प­त्ति­रि­त्या­शङ्क्य व्याचष्टे – क्षय­स्येति॥२६॥२७॥२८॥
ननु यदि त्वक्व­ण्ट­क­सं­यो­गस्य याव­त्त्व­ग्व्य­पि­त्वा­त्तज्जं दुःखं सर्वाङ्गीणं स्यात् , तर्हि तव मतेऽपि जीवस्य सक­ल­श­री­र­व्या­पि­त्वा­त्त्वा­जी­व­क­ण्ट­क­यो­ग­स्यापि याव­ज्जी­व­व्या­पि­त्वा­त्क­ण्ट­क­तो­ज­नि­त­वे­द­नायाः सक­ल­श­री­र­व्या­पि­तो­प­ल­म्भ­प्र­स­ङ्ग­स्त­त्राह –
महदल्पयोरिति ।
कण्ट­का­व­च्छे­द­क­ल्पिते जीवैकदेशे जीवकण्टकसंयोगो वर्तते न सर्वत्रेत्यर्थः । अवरूध्यते अवरुणद्धि ।
तर्हि ममापि त्वक्व­ण्ट­सं­यो­ग­स्त्व­क्प्र­देशे वर्तेतेति साम्यमिति च न शङ्क्यम् ; तथा सति त्वग्जी­व­सं­यो­ग­स्यापि जीवा­नु­रो­धि­त्वा­पत्तौ त्वग् द्वारा सक­ल­श­री­र­व्या­पि­वे­द­नो­प­ल­म्भाऽ­ला­भेन वृद्धिमिष्टवतो मूलमपि नष्टमिति कष्ट­त­र­प्र­स­रा­दि­त्याह –
न चाणोरिति ।
चस्त्वर्थः । न त्वित्यर्थः । अन­न्त­र­दो­षा­न्नि­स्ता­रेऽपि प्रस्तुतं न निर्व­हे­दि­त्यर्थः ।
ननु यदि महदल्पयोः संयो­गोऽ­ल्पा­नु­रोधी , तर्हि जीवमनःसंयोगोऽपि मनोऽ­नु­रु­न्धी­तेति न तद्वारा सर्वा­ङ्गी­ण­शै­त्यो­प­ल­म्भ­स्त­त्राह –
यद्यपीति ।
ननु त्वङ्म­नः­सं­ब­न्धोपि त्वदे­क­दे­श­वृत्तिः , सत्यं मनोऽ­धि­ष्ठि­त­त्वम् त्वचोऽपेक्षितं दंडवत् , व्यापि­वे­द­नो­प­लब्धो तु त्वगात्मसंयोगो हेतुरित्याह –
एक­दे­शेऽ­प्य­धि­ष्ठि­तेति ।
न चाणो­र्जी­व­स्ये­त्ये­त­द्वि­वृ­णोति –
अणुस्त्विति ।
तदिति ।
दुःखादीत्यर्थः ।
तस्येति ।
जीवस्येत्यर्थः ।
मह­द­ल्प­यो­रि­त्या­दि­ग्र­न्थे­नो­क्त­मर्थं निगमयति –
कण्टकतोदनस्य त्विति ।
यदुक्तं गन्धवदवयवानां पर­म­सू­क्ष्म­त्व­त्त­द्ग­त­रू­पा­दि­वद् गन्धोपि नोप­ल­भ्ये­तो­प­ल­भ्य­मानो वा सूक्ष्म उपलभ्येत , स्थूल­स्तू­प­ल­भ्य­मानो द्रव्यं मुक्त्वैव गच्छति गन्ध इति न द्रव्य­दे­श­त्व­नि­यम इति , तत्राह –
अत एव हीति ।
यत एव द्रव्य­दे­श­त्व­नि­यमो यत एव चैका­र्थ­स­म­वे­त­गु­णानां मध्ये कस्यचिदुद्भवः कस्यचिच्च नेति संभवति अत एवेत्यर्थः । विषक्ताः । विप्रकीर्णाः , अवयवा यस्य तदाप्यद्रव्यं तथा । अति­सा­न्द्रेऽ­ति­घने । न चात्रापि विप्र­ति­प­त्त­व्यम् ; कुङ्कु­म­मृ­ग­म­दा­दि­व­च्छी­त­स्प­र्शो­प­ल­म्भ­स­मये जलावयविनो देशा­न्त­र­स्थ­स्या­नु­प­ल­म्भात् ।
एतदपि विप्रतिपन्नमिति न वाच्यम् ; सर्वत्र सूक्ष्म­हि­म­क­ण­प्र­स­रस्य काल­वि­शे­षा­दु­प­प­त्ते­रि­त्य­भि­प्रे­त्योक्तं –
हेमन्ते इति ।
दार्ष्टा­न्ति­क­माह –
तथेति ।
कालपरिवासः कालात्ययः ; पर्युषितमिति यातयामे प्रयोगात् ।
बुद्धे­र­प्र­कृ­त­त्वात् सूत्र­ग­त­त­च्छ­ब्देन परा­म­र्शा­यो­ग­मा­श­ङ्क्याह –
आत्मनेति ।
ननु तद्गु­ण­सा­र­त्वा­दिति हेतुरसिद्धः ; स्वत एवाणुरात्मेति वदन्तं पूर्वपक्षिणं प्रत्यात्मनि बुद्धि­गु­णा­ध्या­रो­पा­सि­द्धे­र­ह­मिति चात्मनो विवे­क­ग्र­ह­णा­त्त­स्मि­न्ना­रो­पा­यो­गा­च्चेति , अत आह –
न हीति ।
अहमिति प्रति­भा­सेऽ­प्य­न­व­च्छि­न्ना­न­न्द­स्व­भा­व­स्या­त्म­त­त्त्व­स्याऽ­न­नु­भ­वा­दा­रो­प­सं­भव इत्यर्थः ।
ननु किम­व­च्छि­न्न­स्व­भा­व­त्वेन स्वत एव जीव इच्छादिमानस्तु , तत्राह –
न च ब्रह्म­स्व­भा­व­स्येति ।
तत्त्व­म­सी­त्यु­प­दे­शात् ब्रह्मैव जीव इत्यर्थः । बुद्धिगुणानां तेषां तस्या बुद्धेरात्मना सहाऽभेदाध्यासेन तद्ध­र्म­व­त्त्वा­ध्यासः ,तद्ध­र्म­वा­ना­त्मे­त्येवं प्रतिभास इत्यर्थः ।
एवं हेतुं समर्थ्य हेतुमन्तं परिमाणारोपमाह –
तथा चेति ।
भाष्ये बुद्धिवियोगे सत्या­त्म­नोऽ­स­त्त्व­मुक्तं , तत्प्रा­य­ण­वि­ष­य­मि­त्याह –
प्रायण इति ।
बुद्धिवियोगे चेदात्मनो मरणं , तर्ह्यसत्त्वम् ; अथ वियोगेनावस्थानं , तर्ह्य­सं­सा­रित्वं ; तथा च को दोषस्तत्राह – तत­श्चेति॥२९॥३०॥३१॥
अनु­बु­भू­षा­शु­श्रूषे , साश्रये , गुणत्वाद् , रूपवद् , यस्त­यो­रा­श्र­य­स्त­न्मन इत्यु­क्तेऽ­र्था­न्त­र­ता­मा­श­ङ्क्याह –
न चैते इति ।
स्तां तर्हि घटा­दे­र­नु­बु­भू­षा­शु­श्रूषे , नेत्याह –
न च ते इति ।
बाह्ये इति सप्तमी॥३२॥
इति त्रयो­द­श­मु­त्क्रा­न्त्य­धि­क­र­णम्॥

कर्ता शास्त्रा­र्थ­व­त्त्वात्॥३३॥ अत्राऽसङ्गो ह्ययं पुरुष इत्या­दि­श्रु­तीनां विध्या­दि­श्रु­तीनां चात्म­क­र्तृ­त्वाऽ­क­र्तृ­त्व­वा­दि­नीनां बन्ध­मो­क्षा­व­स्था­वि­ष­य­त्वेन विरोधः परिह्रियते । क्रियाश्रयत्वे नित्य­त्व­प्र­स­ङ्गा­द­क­र्ताऽऽ­त्मेति पूर्वपक्षमाह –
ये सांख्याः पश्यन्तीति ।
सिद्धान्तमाह –
शास्त्रेति ।
अधिकरणं त्वध्या­स­भा­ष्येऽ­नु­क्रान्तं कर्तृ­भो­क्त्रो­र्भेदे शास्त्रा­न­र्थ­क्यात् ।
भोक्तृरात्मन एव कर्तृ­त्व­मि­त्य­भि­धाय क्रिया­श्र­य­स्या­नि­त्यत्वं परिहरति –
यथा चेति ।
चित्स्वभावत्वं चेद् भोक्तृत्वं , मुक्तावपि स्यात् , क्रियावेशात्मकं चेत् , कर्तृत्वमपि तद्व­द­वि­रु­द्ध­मि­त्यर्थः॥३३॥३४॥३५॥
अभ्यु­च्च­य­मा­त्र­मिति ।
विज्ञानशब्देन कोश­रू­प­बु­द्धे­र­भि­धा­ना­दा­त्म­क­र्तृ­त्वा­सा­ध­क­त्वा­दि­त्यर्थः॥३६॥ भाष्ये स्वरू­प­भू­तो­प­ल­ब्धा­व­न­पे­क्ष­त्वात् स्वातन्त्र्यम् , आत्मनः विषयविकल्पने त्वन्या­पे­क्षे­त्यु­क्त­मिति प्रतिभाति , तथा च प्रकृतासंगतिः ।
कर्तृत्वे हि कार्येऽ­न्या­पे­क्षा­या­मपि स्यात­न्त्र्य­मु­प­पा­द­नी­य­मतो व्याचष्टे –
नित्यचैतन्येति ।
उपलब्धौ विष­या­व­च्छि­न्न­चै­त­न्येऽ­न्यो­प­ल­ब्ध्य­न­पे­क्ष­त्व­मा­त्मनः चैत­न्या­त्म­क­त्वा­दु­प­ल­ब्धि­हे­तू­नाम् इन्द्रि­या­दी­ना­मपि विष­य­प्र­क­ल्प­नेऽ­व­च्छि­न्नो­प­ल­ब्ध्यु­त्प­त्ता­वु­प­क­र­ण­मा­त्रत्वं न स्वात­न्त्र्य­व्या­घात इति भाष्यं योज्यम्॥३७॥
ननु कर्त्र्या बुद्धेर्न करणशक्तिः कल्प्यते , सा तु कर्त्र्येव किंत्वन्यदस्ति तस्याः साधारणं कारणमतः कथं शक्ति­वि­प­र्य­य­स्त­त्राह –
अविपर्ययाय त्विति ।
तर्हि सैवास्माकमात्मा स्यादिति नाम्नि विप्रतिपत्तिर्न त्वर्थे इत्यर्थः ॥३८॥ पातञ्जले धारणादीनि लक्षितानि । द्देश­ब­न्ध­श्चि­त्तस्य धारणा (पतञ्जलियोग पा.२.सू.१) । नाभि­च­क्र­हृ­द­य­पु­ण्ड­री­का­दि­दे­शे­ष्व­न्य­स्मिन्वा विषये चित्तस्य वृत्तिमात्रेण बन्धो धारणेत्यर्थः । तत्र प्रत्ययैकतानता ध्यानम् । (पात­ञ्ज­ल­यो­गसू.पा.२.सू.३) तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्य एकरूपस्रोतःकरणं ध्यानमिति। तदे­वा­र्थ­मा­त्र­नि­र्भासं स्वरूपशून्यमिव भवतीति समा­धिः(यो­गसू.पा.२ सू.३) । ध्यानमेव ध्येया­का­र­नि­र्भासं ध्येय­स्व­भा­वा­वे­शात् प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति तदा समा­धि­रि­त्यु­च्यते । त्रयमेकत्र संय­मः(पा­त­ञ्ज­ल­यो­गसू.पा.२.सू.४) एकविषयाणि त्रीणि साधनानि संयम उच्यते इति।
तत्र कथं भाष्यकारेण श्रवणादीनां समा­धि­त्व­मु­च्य­तेऽत आह –
संय­म­मु­प­ल­क्ष­य­तीति ।
वाक्य­मु­क्तिभ्यां ब्रह्मणि चित्त­नि­वे­शा­त्म­क­त्वा­च्छ्र­व­ण­म­न­न­यो­र्धा­र­णात्वं दर्शनस्य साक्षात्कारस्य वृत्तिरूपस्य ब्रह्म­ण्या­वे­शा­त्स्व­रू­प­शू­न्य­मिव भवतीति समाधित्वम्॥३९॥
इति चतुर्दशं कर्त्रधिकरणम्॥

यथा च तक्षोभयथा॥४०॥ ननु यद्यु­पा­धि­म­न्त­रेण कर्ताऽऽत्मा , तर्हि मुक्तावपि कर्म कुर्यात् , इतरथा कथं कर्तृत्वमस्य स्वभावः स्यात् ? तथा च न मुक्तिः स्यादि­त्या­श­ङ्क्याह –
न च मुक्त्यभावेति ।
जीवस्य ब्रह्मात्मत्वं हि मोक्षो ब्रह्म च ज्ञानं , सत्यं ज्ञानमिति श्रुतेः । ततश्च ज्ञाना­त्म­त्व­म­स­त्यपि विषये मोक्षे स्यात् , कर्तृत्वं तु ब्रह्मस्वभाव इति न श्रुतम् । अतः क्रियावेशादेव लोकवद् द्रष्टव्यम् ।
क्रियाभ्युपगमे च मुक्तिव्याघात इति प्रतिबन्दी परहरति –
नित्य­शु­द्धे­त्या­दिना ।
नित्योदासीनत्वे हेतुः –
कूटस्थेति ।
तत्र प्रमाणम् –
असकृदिति ।
संभवति क्रियावेशे इत्यनुषङ्गः ।
ननु क्रिया­वे­शा­भा­वेऽपि तद्वि­ष­य­श­क्ति­मत्त्वं स्यात् , तदेव च कर्तृ­त्व­मि­त्या­श­ङ्क्याह –
तस्य चेति ।
तत्सि­द्ध्य­र्थ­मिति ।
क्रिया­यो­ग­वि­ष­य­श­क्ति­सि­द्ध्य­र्थम् । तद्विषयस्तस्याः शक्तेर्विषयः ।
उपाधिमन्तरेण क्रिया­यो­ग­श्चे­त्तर्हि स स्वरूपं स्यात् स्वाभाविको वा धर्मः , अग्ने­रि­वौ­ष्ण्यम् ; तन्नाशे आत्मनाशः स्यादित्याह –
तथा सतीति ।
स क्रियावेशः स्वभावो यस्य स आत्मा तथा स्वभाविनि सति स्वभावोऽपि सन्नेव ; भेदा­भा­वा­दि­त्यर्थः । भावनाशप्रसङ्गः स्वभाविन आत्मनो नाशप्रसङ्गः ।
ननु मुक्तावपि क्रियायोगोऽस्तु , कथ­मा­त्म­ना­शा­प­त्ति­रत आह –
न च मुक्तस्येति ।
मुक्तस्य नास्ति क्रियायोग इति यस्मादतो भावनाशप्रसङ्गः इति योजना ।
मुक्तस्य क्रियायोगाभावे हेतुः –
क्रियाया इति ।
फलितमाह –
न विगलितेति ।
पर­मा­र्थ­श­क्ति­वा­दिनां मते दूषणमाह –
शक्त­श­क्या­श्र­येति ।
शक्त­मा­श्र­य­त्वे­ना­श्र­यते शक्यं विष­य­त्वे­ने­त्यर्थः । शक्तग्रहणं दृष्टान्तार्थम् ।
उक्त­म­भि­प्रा­य­मिति ।
ज्ञानं ब्रह्मस्वभावो न कर्तृ­त्व­मि­ती­म­मि­त्यर्थः ।
तक्षणि विव­क्षि­त­वि­वे­च­नेन साम्यमुक्त्वा सर्वथैव समं दृष्टान्तमाह –
यथाऽऽत्मा चेति ।
यः प्रेरयति स पाण्यादिभिरेव प्रेरयतीति। नियोगेन नियमेन पर्यनुयोगो नियोगपर्यनुयोगः तस्या­नु­प­प­त्ति­रि­त्यर्थः । अपेक्षितोपायो भावना पुरु­ष­प्र­वृ­त्ति­स्त­त्प­र­मि­त्यर्थः ।
नन्वतत्परादपि देव­ता­वि­ग्र­हा­दि­वत् कर्ता प्रतीयतामत आह –
तस्मादिति ।
यद्य­न्या­धी­न­स्यापि स्वात­न्त्र्य­वा­चिनी कर्तृ­वि­भ­क्ति­स्त­र्ह्य­ति­प्र­सङ्ग इत्याह –
ननु यदीति ।
भाष्ये कर्तृ­त्व­मा­त्र­स्यै­वा­ह­ङ्का­रो­पा­धि­नाऽऽ­त्म­न्य­ध्य­स्त­त्व­नि­षेधः प्रतिभाति , तथा चाध्यासभाष्येण विरोध इत्याशङ्क्य चैत­न्य­क­र्तृ­त्वस्य तथाविधत्वेन निषेध इत्याह –
तदेवमिति ।
शरीरादि यथा स्वक­र्म­क­क्रि­यायाः कर्तृ न भवत्येवं बुद्धिरपि स्वकर्मचैतन्ये न कर्त्रीत्यर्थः । बुद्धेः कर्त्र्या उपलब्धिः क्रिया यदि भवेदित्यर्थः ।
उत्तरमपि भाष्यं बुद्धेश्चैतन्यं प्रति कर्तृत्वे सत्या­त्म­त्वा­पत्तौ तन्नि­षे­धा­र्थ­मि­त्याह –
यदा चेति ।
ननू­प­ल­ब्धे­र्नि­त्य­त्वा­त्तस्यां यदि न कर्त्री बुद्धिस्तर्हि न करणमपि स्यात् , तथा च बुद्धे­रु­प­ल­ब्धि­क­र­ण­त्व­प्र­सि­द्धि­बाध इति शङ्कते –
तत्किमिदानीमिति ।
चैत­न्य­व्य­ञ्ज­क­वृत्तौ बुद्धेः करणत्वं तदुपहितस्य चात्मनः कर्तृत्वम् , तथा च न प्रसिद्धिबाध इति परिहरति –
किंतु चैत­न्य­मे­वेति॥४०॥
इति पञ्चदशं तक्षाधिकरणम्॥

परात्तु तच्छ्रुतेः॥४१॥ एष ह्येवे­त्या­दि­श्रु­तीनां विधि­श्रु­त्या­दि­भि­र्वि­रो­ध­सं­देहे संगतिगर्भं पूर्वपक्षमाह –
यदेतदित्यादिना ।
ईश्वरस्य प्रव­र्त­क­त्व­यो­ग्य­ता­म­ङ्गी­कृत्य प्रव­र्त­का­न्त­रस्य सिद्ध­त्वा­द्वै­य­र्थ्य­मुक्तं , तत्र प्रव­र्त­क­त्व­मे­वे­श्व­र­स्या­यु­क्तम् , विषमं सृजतो रागा­दि­म­त्त्व­प्र­स­ङ्गात् ।
ननु कर्मा­पे­क्ष­त्वा­द­दोष इति , तत्राह –
न चेश्वर इति ।
ननु नेश्वरो धर्मादितन्त्रः प्रवर्तयति , किंतु करुणयेति तत्राह –
स हि स्वतन्त्र इति ।
अत्यन्तपराधीनं प्रति न विधिरित्यत्र दृष्टान्तमाह –
न हि बलवदिति ।
श्वभ्रंगर्तम् ।
विधौ प्रतिषेधे चेश्वर एव नियोज्य इति भ्रमं व्यावर्तयति –
स्थान इति ।
पूर्वो­क्त­दो­ष­प्र­स­ङ्ग­श्चेति भाष्यं पूर्व­प­क्षा­व­स­रो­क्त­दो­ष­प­र­त्वेन व्याचष्टे –
कृत­ना­शेति॥४१॥४२॥
इति षोडशं परा­य­त्ता­धि­क­र­णम्॥

अंशो नाना­व्य­प­दे­शा­द­न्यथा चापि दाश­कि­त­वा­दि­त्व­म­धी­यत एके॥४३॥ जीव­ब्र­ह्म­भे­दा­भे­द­श्रु­ति­वि­रो­ध­सं­देहे पूर्वत्र जीवनियन्तेश्वर इत्युक्तम् , इदानीं स ईश्वर आक्षिप्य समर्थ्यत इति संगतिमाहेति दर्शयति –
अवान्तरेति ।
भाष्ये स्वामिभृत्यवत् संबन्ध इति न पूर्वपक्ष उक्तः , तथा सति तद्व­न्नि­य­न्तृ­नि­य­न्त­व्य­त्व­सं­भ­वा­त्पू­र्वो­क्ता­क्षे­प­रू­प­सं­ग­त्य­सि­द्धे­रतो विरो­धै­क­शृ­ङ्ग­प्र­द­र्श­नम् । अत एव टीकाकारो न ब्रह्मै­क­म­द्व­य­मिति ब्रह्माभावेन पूर्व­प­क्ष­मु­प­सं­ह­रि­ष्यति।
जीवे­श्व­र­यो­रु­प­का­र्यो­प­का­र­क­भा­वा­भ्यु­प­ग­मा­दिति भाष्ये उत्पा­द्यो­त्पा­द­क­त्व­मु­क्त­मिति भ्रमं व्युदस्यति –
उपकार्येति ।
निश्च­य­हे­त्वा­भा­सेति ।
अभेदश्रुतिषु सतीषु भेदो निश्चेतुं न शक्यते इत्याभासत्वमत एकं शृङ्गं दर्शितमित्यर्थः ।
विरोधोद्धाटनाय शृङ्गान्तरं दर्शयति –
न च ब्रह्मेति ।
भेदे इति च्छेदः ।
उभयीनां श्रुती­ना­म­वि­रो­ध­मा­श­ङ्क्याह –
न चैताभिरिति ।
न च युज्यत इत्यु­प­रि­त­ने­ना­न्वयः ।
ननु जीव­ना­मी­श्व­रां­श­त्व­सि­द्धा­वपि नेश्वरस्य जीवनियन्तृत्वं , चेतनत्वेन जीवै­र­वि­शे­षा­दि­त्या­श­ङ्क्याह –
निरतिशयेति ।
अधि­ष्ठा­नेऽ­ति­श­या­ना­धा­यिन्यो जीवाश्रया अविद्या निरतिशयाः ताभि­र्वि­ष­यी­कृ­त­त्वाद् ब्रह्मणस्ता उपाधितयोक्ताः , निरतिशया उपाधिसंपत् सा यस्य स विभू­ति­यो­ग­स्त­थोक्तः । विभू­ते­र­न­व­च्छि­न्न­रू­पस्य योगो घटकं तेनेत्यर्थः ।
अविरोधवाद्याह –
तस्मादिति ।
यदु­क्त­मी­शि­त्री­शि­क्त­व्य­भा­व­श्च­त्यादि तत्राह –
तत्र भेद इति ।
प्रमे­या­पू­र्व­त्व­ल­क्ष­ण­ता­त्प­र्य­लि­ङ्गा­द­द्वै­त­श्रु­ति­र्ब­ली­य­सी­त्यु­क्त्वो­प­क्र­मा­द्यै­क­रू­प्या­द­पी­त्याह –
येन चेति ।
यदुक्तं ब्रह्मभावं गतस्य सम­स्त­जी­व­ग­त­वे­द­ना­प्र­सङ्ग इति।
तत्राह –
यथा च दर्पणापनय इति ।
दर्पणस्यापगमे तत्रत्यं मुखप्रतिबिम्बं बिम्ब­भा­वे­ना­व­ति­ष्ठते , न तु प्रति­बि­म्बा­न्त­र­रू­पेण ; यद्यपि बिम्बा­त्म­ता­मा­पन्नं तत्र तद्रूपेण कृपाणे प्रतिबिम्बितं ; तथापि बिम्ब­प्र­ति­बि­म्ब­यो­र­व­दा­त­त्व­श्या­म­त्वा­दि­व्य­व­स्था­ना­त्त­द्ध­र्म­सां­क­र्य­मि­त्यर्थः । दार्ष्टा­न्ति­क­माह – एव­मिति॥४३॥४४॥४५॥४६॥ ॥ जीवे ब्रह्मभाव एव न जीवा­न्त­रा­प­त्ति­रि­त्यर्थः ।
भाष्यो­दा­हृ­त­स्मृतौ सप्तदशकपदं व्याचष्टे –
सप्तदशेति ।
निश्चयः संशयश्चेति वृत्ति­भे­द­मा­त्रेण॥४७॥
ननु प्रवर्तयितुः स्वामि­नोऽ­भि­म­तो­पाय इति मत्वा प्रवृत्ते भृत्ये पुनरहिताशङ्क्या सहसा निवृत्तौ स्वामिनोऽनुज्ञा प्रवृ­त्त­प्र­व­र्तनी , सा च प्रवर्तयितुः स्वामि­नोऽ­भि­प्रा­या­नु­रो­धिनी न वेदे संभवति , तत्कथमनुज्ञेति सूत्र­नि­र्दे­श­स्त­त्राह –
विधिरिति ।
क्रत्व­र्था­या­मिति ।
क्रत्वर्थग्रहणं पुरुषार्थे फलकामनया सामान्यतः प्रवृत्तस्त प्रवर्तको विधिरनुज्ञापि स्यादिति शङ्कां वारयितुम् ।
अपि च पुरुषार्थेऽपि सामान्यतः प्रवर्ततां गोदो­ह­ना­दि­सा­ध­न­वि­शे­ष­नि­यमे पश्वा­द्य­र्थी­वि­धितः प्रागप्रवृत्त इति नानुज्ञा संभवतीत्याह –
पुरुषार्थेऽपीति ।
ननु विप­री­त­प्र­त्य­यस्य कथं देहा­द्या­त्म­सं­ब­न्धत्वं तस्या­त्म­मा­त्र­नि­ष्ठ­त्वा­दत आह –
अस्यामिति ।
भ्रान्त­वि­ष­य­मि­थ्या­ता­दात्म्यं संबन्ध इति कथयितुं भाष्ये विप­री­त­प्र­त्य­यो­त्प­त्ति­रुक्ता इत्यर्थः । यदि देहा­त्म­नो­र्मिथ्या तादात्म्यं संबन्धस्तर्हि देह­व्य­ति­रे­क­ज्ञस्य स नास्तीति देह­सं­ब­न्ध­नि­मि­त्त­वि­धि­नि­षेधौ ब्रह्मविद इव न स्ताम् ।
न चानिष्टप्रसङ्गः ; देहव्यतिरेकविद एव नियो­ज्य­त्वा­दि­त्याह –
व्यतिरेकदर्शिन एवेति ।
अस्थि­स्ना­यु­म­ज्जा­त्व­ङ्मां­स­शो­णि­तानि षट् कोशाः । तत्कृतं षाट्कौशिकं स्थूलशरीरम् । तन्मा­त्र­वि­वे­कि­नोऽपि सूक्ष्म­दे­ह­वि­वे­का­भा­वान्न देहसंबन्धाभाव इति विधिगोचरता । निष्प्र­प­ञ्च­ब्र­ह्मा­त्म­ता­सा­क्षा­त्का­रि­णस्तु न विधिगोचरता । न च यथेष्टचेष्टा ; तथा­वि­धा­भि­मा­ना­भा­वा­दि­त्यर्थः । अभिमानाभासस्तु न स्वैर­चे­ष्टा­हेतुः , तत्त्व­बो­धा­ग्नि­द­ग्ध­त्वा­दि­त्यर्थः । उक्तं हि वार्तिककारैः - उत्प­न्ना­त्म­प्र­बो­धा­ना­मा­त्मा­विद्या तदुद्भवम् । सम्य­ग्ज्ञा­ना­ग्निना नित्यं दह्यमानं प्रजायते॥४८॥४९॥ भाष्ये साक्षा­त्प्र­त्ये­क­मा­त्मनः सुखा­दि­सं­ब­न्ध­म­ङ्गी­कृत्य सर्वेषां तदी­य­सु­खा­दि­सं­ब­न्धश्च आपादितः ।
तत्र निर्विशेषस्य न संबन्धोऽपीत्याह –
यादृश इति ।
आत्ममनः संयोगस्य सर्वा­त्म­सा­धा­र­ण्य­म­ङ्गी­कृत्य स्वस्वामिसंबन्ध आत्म­वि­शे­षे­णा­सा­धा­रण इत्युक्तम् ।
इदा­नी­मा­त्म­म­नः­सं­यो­गोऽ­प्या­सा­धा­रण इत्याह –
न चेति ।
आत्मना सह मनसो यः संयो­ग­स्त­स्यै­क­त्वेऽपि मनसः प्रति­सं­यो­गि­ना­मा­त्मनां भेदेन भेदादाश्रयभेदेन हि संयोगो भिद्यते , घटेन सह पट­कु­ड्य­सं­यो­ग­व­दि­त्यर्थः ।
यद्य­दृ­ष्टा­द्य­नि­य­मेन न वैशेषिकमतं दूष्यं , कथं तर्हि दूषयत आह –
तस्मादिति ।
अदृ­ष्ट­हे­तु­क­म­नः­सं­योगो यदै­क­स्या­त्म­न­स्त­दैव सर्वेषामात्मनां तेन मनसा संयोगः स्यात् ; तेषां व्यापकत्वात् , ततश्च प्रत्यात्मं संयोगभेदेऽपि हेत्व­वि­शे­षा­द­दृ­ष्ट­नि­ष्प­त्ति­स्तुल्या स्यात् , तत्कृताश्च स्वस्वामिभावाः सर्वात्मना स्युरिति कुत­स्त­त्कृ­ता­भि­सं­ध्या­दि­व्य­व­स्था­सि­द्धि­रिति केचित्कारेण सूचि­तम्॥५०॥५१॥५२॥५३॥
इति सप्त­द­श­मं­शा­धि­क­र­णम्॥
इति श्रीप­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्या­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ द्विती­या­ध्या­सस्य तृतीयः पादः॥

तथा प्राणाः॥१॥ वियदधिकरणेन (ब्र.अ.२ पा.२.सू.१) गता­र्थ­त्व­मा­शङ्क्य परिहरति –
यद्यपीत्यादिना ।
सर्व­वे­द­न­प्र­ति­ज्ञा­रू­पा­श्रु­ति­स्तस्य सर्व­वे­द­न­स्यो­प­पा­द­न­श्रु­तिश्च यथोक्ता ताभ्यां विरोधादित्यर्थः । कस्मिन्सति सर्व­वे­द­न­मि­त्य­पे­क्षायां ब्रह्मवेदने इति पश्चा­त्सं­ब­न्ध­नी­यम् ।
अन्य­था­न­य­न­प्र­का­र­मिति ।
अवा­न्त­र­प्र­ल­या­भि­प्रा­य­मि­त्यर्थः । ये पुनराप (ब्र.अ.२ पा.३.सू.११) इत्य­धि­क­र­णेऽ­प्य­पा­माप एवेदमग्र आसुरिति प्रलयकाले सद्भा­व­श्र­व­णा­द­नु­त्प­त्ति­रिति पूर्वपक्षयित्वा तस्या­वा­न्त­र­प्र­ल­य­प­र­त्वेन सिद्धा­न्त­यां­ब­भूवुः , तेषां मतेन पुनरुक्तिः । अस्मा­भि­स्त्व­ति­दे­श­त्वेन तद्व्याख्यातम् ।
ननु भाष्ये कथमनाम्नानात् प्राणा­ना­म­नु­त्प­त्ति­नि­श्चयः ? न खलु प्रमा­णा­भा­व­मात्रं प्रमे­या­भा­व­व्या­प्तम् , पुरा­ण­न­ग­र­नि­हि­त­नि­धि­ष्व­द­र्श­ना­दत आह –
शब्दैकेति ।
महा­भू­त­श­ब्दोऽ­स्म­दा­द्य­नु­प­ल­भ्यो­त्प­त्ति­क­प­दा­र्थ­परः । तथा च प्राणानामपि संग्राहको महाभूतोत्पत्तेः प्रतिपादकः शब्दो यत्र महाभूते प्राणलक्षणे निवर्तते , तत्र तस्या उत्पत्तेः प्रमाणाभावेन तदभावः , तस्या उत्पत्तेरभावः प्रतीयते इत्यर्थः । चैत्यवन्दनं तत्कर्म तस्य चैत्यस्य करणं निष्पादनं तयोर्धर्मताया यथा­श­ब्दा­भा­वा­न्नि­वृ­त्ति­रि­त्यर्थः ।
अश्वेति ।
शेषलक्षणे स्थितन् - दोषा­त्त्वि­ष्टि­र्लौ­किके स्याच्छा­स्त्राद्धि वैदिके न दोषः स्यात्(जै.अ.३.पा.४ सू.३४) वरुणो वा एनं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान् प्रतिगृह्णीयात् ताव­त­श्च­तु­ष्क­पा­ला­न्वा­रु­णान् निर्वपेदित्यत्र दातु­रि­ष्टि­रि­त्यु­त्त­रा­धि­क­रणे (जै.अ.३ पा.४.सू.३६ –३७) स्थास्यति ततो दान­नि­मि­त्तेष्टिः । सा किं लौकिकेऽश्वदाने वैदिके वेति संदेहो न तु लौकि­केऽ­श्व­प्र­ति­ग्रहे वैदिके वेति ; राग­प्रा­प्त­प्र­ति­ग्र­ह­स्या­वि­हि­त­त्वेन वैदि­क­त्वा­सं­भ­वात् , तत्र दोष­नि­र्घा­ता­र्थ­त्वा­दिष्टेः , दोषस्य च न केसरिणो ददातीति प्रति­षि­द्ध­लौ­कि­का­श्व­दान एव संभवात् , पौण्ड­री­केऽ­श्व­स­हस्रं दक्षि­णे­त्या­दि­वि­शे­ष­वि­धि­वि­हिते तु वैदिकेऽश्वदाने सामा­न्य­नि­षे­धाऽ­न­व­का­शेन दोषाऽ­प्रा­प्ते­र्लौ­कि­केऽ­श्व­दाने इष्टिरिति प्राप्तेऽ­भि­धी­यते अर्थ­वा­दोऽ­नु­प­प­ता­त्त­स्मा­द्यज्ञे प्रतीयते (जै.अ.३ पा.४ सू.३५) । न तावद्यथाश्रुति जलो­द­र­रू­प­व­रु­ण­ग्र­ह­दोषो लौकिकेऽश्वदाने सति भवतीति प्रत्यक्षादिभिः प्रमीयते ; तत्रानेन दाने दोषः तन्निर्घातार्था चेष्टिरिति वदतो वाक्यभेदात् । न च - वृणोतीति व्युत्पत्त्या वरुणशब्दो निषे­धा­ति­क्र­म­कृ­त­दो­ष­म­नु­व­द­तीति – युक्तम् ; तथा सति प्रसि­द्धि­त्या­गात् । तत्त्यागे च वैदिकेऽपि दानेऽ­श्व­त्या­ग­ज­न्य­दुः­खेन वृणोतीति भवति वरुणशब्दः । तस्मा­त्प्रा­प्त­स्या­नु­वा­द­कोऽ­र्थ­वा­दोऽ­यम् । ततो यज्ञसंबन्धिनि दाने इष्टिरिति। ततः कस्तस्याः कर्तेति चिन्ता । तत्र अचोदितं च कर्म भेदात्(जै.अ.३.पा.४.सू.३६) । दातु­र­चो­दि­त­मि­ष्टि­कर्म यः प्रतिगृह्णाति स निर्वपेदिति तस्य प्रतिग्रहीत्रा भेदाद् विशेषणादिति। सिद्धान्तस्तु – सा लिङ्गा­दा­र्त्विजे स्यात्(जै.अ.३.पा.४.सू.३८) । ॠत्वि­जा­म­य­मि­त्या­र्त्विजो यजमानः तस्मि­न्से­ष्टिः­स्यात् । प्रजा­प­ति­र्व­रु­णा­या­श्व­म­न­य­दि­त्यु­प­क्रमे दातृकीर्तनाद् लिङ्गा­दु­प­क्र­मा­धी­न­त्वा­च्चै­क­स्मिन् वाक्ये उपसंहारस्य । प्रतिगृह्णातीति च प्रति­ग्र­ह­क­र्तृ­त्व­मु­च्यते । दाताऽपि प्रतिग्रहं करोति संप्र­दा­न­प्रे­र­णा­दिना । अतः प्रतिगृह्णातीति दात­र्य­प्य­वि­रु­द्ध­मिति। पानव्यापच्च तद्वत् (जै.अ.३.पा.४.सू.३८) । सौमेन्द्रं चरुं निर्वपद् श्यामाकं सोमवामिन इति श्रूयते । तत्रा­श्व­प्र­ति­ग्र­हे­ष्ट्या­द्य­धि­क­र­ण­पू­र्व­प­क्ष­व­ल्लौ­किके धातुसाम्यार्थं पीतसोमस्य वमने याग इन्द्रियेण वीर्येण व्यर्ध्यते यः सोमं वमतीति दोषाद् वम­न­नि­मि­त्ते­न्द्रि­य­शो­षस्य दर्शनान्न वरु­ण­ग्र­ह­व­द­प्रा­प्ति­रि­त्य­धि­क­शङ्का । वैदिके तु सोमपाने शेष­प्र­ति­प­त्ते­र्जा­त­त्वा­द्व­म­नेऽपि न दोष इति। सिद्धान्तस्तु लोके धातु­सा­म्या­र्थ­त्वा­द्व­म­नस्य तज्ज­न्ये­न्द्रि­य­शो­षस्य धातु­सा­म्य­क­र­त्वान्न दोषता । वेदे तु ‘‘मा मे वाङ्नाभिमति गा’’ इति सम्य­ग्ज­र­णा­र्थ­म­न्त्र­लि­ङ्गा­द्व­मने कर्म­वै­गु­ण्या­द्दोष इति।
अग्निसाधनेति ।
अग्नि­श्चि­तोग्निः तत्साधनानि शर्करादीनि । अधिकारिपुरुषः स्रष्टा ।
तस्मादिति ।
प्राणा अपि नभोवद् ब्रह्मणो विकारा इत्युपरि संबद्यते । भूयसीनां प्राणो­त्प­त्ति­श्रु­तीनां ब्रह्म­वि­ज्ञा­ना­त्स­र्व­वि­ज्ञा­न­प्र­ति­ज्ञा­सि­द्ध्य­र्थस्य चोत्तरस्य संदर्भस्य प्राण­सृ­ष्टि­प­रस्य प्राणा व्युच्च­र­न्ती­त्या­दे­र­नु­ग्र­हाय तदीयान् प्राणानपेक्ष्य सा श्रुति­रु­प­प­न्ना­र्थेति योजना । उपवासवाची योषधशब्द इति बौद्धाधिकरणे (ब्र.अ.२.पा.२. अधि.५) उक्तम् । तत्त्वा­न्त­र­त­यै­षा­म­नु­त्प­त्ति­रा­स्थे­येति । अवि­द्या­दि­व­द­ना­द्य­ध्या­स­सि­द्धये साक्षि­णाऽ­व्य­व­धा­नात् सुशु­प्तेऽ­प्यु­प­ल­म्भ­प्र­स­ङ्गा­दि­त्यर्थः ।
तत्सामान्यादिति ।
अन्नादीनां ह्रासे ह्रासाद्वृद्धौ वृद्धेर्हि मन आदी­ना­म­न्ना­दि­म­यत्वं श्रुत्योच्यते , तदि­न्द्रि­या­न्त­रा­णा­मपि तुल्य­मि­त्यर्थः॥१॥२॥३॥ ब्रह्म­क­र्तृ­कायां नाम­रू­प­व्या­क्रि­यायां विषये यावु­प­क्र­मो­प­सं­हारौ तत्पर्यालोचनया हेतुना उक्तैव सृष्टि­दृ­ष्टि­रि­त्य­न्वयः॥४॥
इति प्रथमं प्राणो­त्प­त्त्य­धि­क­र­णम्॥

सप्त गते­र्वि­शे­षि­त­त्वाच्च॥५॥ पूर्वपक्षे सप्तभ्यः प्राणे­भ्य­स्त्वं­प­दा­र्थस्य विवेको ज्ञातव्यः । सिद्धान्ते एकादशभ्य इति प्रयोजनम् । ग्रह­त्वे­ने­त्यस्य व्याख्यानं –
बन्धनेनेति ।
रागो­त्पा­द­ने­ने­न्द्रि­या­क­र्ष­क­त्वाद् विष­या­णा­म­ति­ग्र­ह­त्वम् । प्राण इति प्राणेन्द्रियं लक्षणयोच्यते । अपान इति च गन्धः ।
अपानेन गन्धलक्षणायां हेतुं श्रुतिरेवाह –
अपानेन हीति ।
अप­श्वा­से­ने­त्यर्थः ।
अधिष्ठाने नेत्यात्मेति ।
इन्द्रियाणीति शेषः । स्पर्शानां त्वगे­का­य­न­मा­श्रयः ग्राहकत्वात् ।
ननु शीर्षण्याः प्राणाः सप्ते­त्यु­क्तेऽ­र्था­द­शि­रस्याः प्राणा अन्ये सन्तीति गम्यतेऽत आह –
ये सप्तेति ।
नेह शीर्षण्यान् प्राणानुद्दिश्य सप्तत्वं विधीयते ; अन्यतोऽवगमाद् अनु­वा­द­त्वा­पत्तेः , किंतु शीर्षण्यान् सप्त श्रोत्रा­दी­नु­द्दिश्य प्राणत्वम् । तथा च प्राणान्तरस्य व्यावृत्तिः फलमित्यर्थः ।
नन्व­ष्ट­त्वा­दि­संख्या अपि प्राणेषु श्रूयन्ते , न च ताः सप्तत्वे अन्तर्भवन्ति , अन्तर्भवति तु तासु सप्तत्वमतः कथं सप्तसंख्यानियमः ? तत्राह –
यद्यपीति ।
इह –रूपो­प­ल­ब्ध्या­दि­का­र्य­व­शा­द­नु­मा­ना­नु­ग्र­ही­तै­का­द­श­त्व­श्रु­त्तै­का­द­शे­न्दि­या­णीति सिद्धान्त्यते , तदयुक्तम् श्रुतेः परतः प्रामा­ण्य­प्र­स­ङ्गा­दि­त्या­श­ङ्क्याह –
यद्यपि श्रुतय इति ।
श्रुतीनां पर­स्प­र­वि­रो­धा­व­बो­ध­क­त्व­भ्रमे तद्व्युदासेन तात्प­र्य­नि­र्ण­या­या­नु­मा­ना­नु­स­र­ण­मि­त्यर्थः॥५॥
स्रुवेणेति ।
प्रमाणलक्षणे स्थितम् – अर्थाद्वा कल्प­नै­क­दे­श­त्वात् (जै.अ.१.पा.४.सू.३०)॥ स्रुवेणावद्यति स्वधि­ति­नाऽ­व­द्यति हस्तेनावद्यतीति श्रूयते । स्वधि­ति­रु­भ­य­तो­धारः क्षुरः , अवदानं चास्ति द्रवा­णा­मा­ज्या­दीनां संहृतानां च मांसादीनाम् । तत्रा­वि­शे­ष­श्र­व­णा­द­नि­यमे प्राप्ते राद्धान्तः । अश­क्या­र्थ­वि­ध्य­सं­भ­वा­द्वि­धि­रेव यथासामर्थ्यं विधेयं व्यवस्थापयति। शक्तश्च स्रुवो द्रवस्यावदाने स्वधि­ति­र्मां­सस्य हस्तश्च पुरोडाशस्य । तस्मा­द­र्था­त्सा­म­र्थ्या­त्क­ल्प­ना­व्य­वस्था ; सामर्थ्यस्य योग्यतारूपस्य बोध­कै­क­दे­श­त्वा­दिति। मननात् । संश­या­दि­रू­प­वि­चा­र­क­र­णा­दि­त्यर्थः ।
भेदे प्रमाणाभावादिति ।
चक्षुष इव शब्दोपलब्धौ वृत्ति­म­न्म­न­सोऽ­ध्य­व­सा­या­दि­कार्ये व्यति­रे­का­न­व­ग­मा­दि­त्यर्थः ।
अव­यु­त्या­नु­वा­दे­नेति ।
न तावत्सप्त वै शीर्षण्याः प्राणा इति श्रुति­र­ज्ञा­ता­र्थ­बो­ध­न­परा ; ‘‘सप्त­भि­र्धू­प­यति सप्त वै शीर्षण्याः प्राणाः , शिर एतद्यज्ञस्य यदुखा शीर्षन्नेव यज्ञस्य प्राणान्दधाती’’ त्युखा­धू­प­न­स्तु­ति­प­र­त्वात् । सप्त­भि­र्व­स­वस्त्वा धूप­य­न्त्वि­त्या­दि­म­न्त्रै­रि­त्यर्थः । ततः प्राणा­न्त­र­व्या­वृ­त्ति­प­र­त्व­यो­जना न युक्ता । यद्यपि दशेमे पुरुषे प्राणा आत्मैकादश इत्यनुवाद एव ; तथापि सदनुवाद इति विशेषः । एकं वृणीत इत्यत एव प्राण(ब्र.अ.२.पा.३.सू.२३) इत्यत्र व्याख्यातम्॥६॥ पूर्वयोजनायां हि गते­रि­त्य­स्या­व­ग­ते­रिति क्लिष्टा योजना । श्रुत्य­न्त­र­ग­ता­धि­क­प्रा­णा­व­ग­तेश्च वृत्ति­भे­द­वि­ष­य­क­त्व­क­ल्प­ना­क्लेशः ।
ये सप्त त एव प्राणाइति योजनायां परि­सं­ख्या­प­त्ति­रिति व्याख्या­ना­न्त­र­माह –
इयमपरेति ।
अस्मि­न्व्या­ख्याने प्राणानां सप्तमं नावध्रियते , पूर्व­स्मा­द­वि­शे­षा­पा­तात् , किंतु सन्त्वन्ये प्राणाः उत्क्रान्तिस्तु सप्तानामेवेति। सप्तैव प्राणा इति भाष्ये च उत्क्रा­म­न्ती­त्य­ध्या­हा­र्यम् । प्रयोजनं तूत्क्रामतामेव प्राणानां सर्व­दे­हा­नु­या­यि­त्वेन बन्ध­क­त्वा­द­ध्या­त्मा­धि­दै­वि­को­पा­स­नेषु सप्ता­ना­मु­पास्तिः पूर्वपक्षे , सिद्धान्ते त्वेका­द­शा­ना­मिति॥५॥६॥
इति द्वितीयं सप्त­ग­त्य­धि­क­र­णम्॥

अणवश्च॥७॥ एका­द­श­प्रा­णा­न­मु­त्क्रा­न्ति­रुक्ता , सा न मुख्या ; तेषां व्यापित्वादिति सङ्गतिगर्भं पूर्वपक्षमाह –
अत्रेति ।
वृत्तिः अभिव्यक्तिः । दूनस्य परितप्तस्य । अहंकारस्य व्यापि­त्व­म­सि­द्धम् ; आध्या­त्मि­का­हं­का­र­स्या­हं­प्र­त्य­येन परि­च्छे­द­प्र­ति­भा­सात् ।
आधि­दै­वि­क­व्या­प­का­हं­का­र­स­द्भावे च नास्ति प्रमाणम् ; इन्द्रियाणां तत्प्रकृतिकत्वं तु षण्ढसुतसमम् , व्यापित्वं तु तेषां प्रति­ज्ञा­तु­म­श­क्य­म­सं­भा­वि­त­त्वा­दि­त्याह –
यदीति॥७॥
इति तृतीयं प्राणा­णु­त्वा­धि­क­र­णम्॥

श्रेष्ठश्च॥८॥ पादा­द्य­धि­क­र­ण­न्या­योऽ­त्रा­ति­दि­श्यते । ज्ञातेषु चक्षुरादिषु तद्व्यापारात् प्राणस्य भेदचिन्ता वक्ष्यमाणा सुकरेति तदनन्तरमनतिदेशः । आनीदित्यस्य महा­प्र­ल­य­वि­ष­य­त्वे­ना­धि­का­श­ङ्का­माह –
नास­दा­सी­दि­तीति॥८॥
इति चतुर्थं प्राण­श्रै­ष्ठ्या­धि­क­र­णम्॥

न वायुक्रिये पृथगुपदेशात्॥९॥ संगतिमाह –
संप्रतीति ।
उत्प­त्ति­चि­न्ता­न­न्त­र­मु­त्प­द्य­मा­न­स्व­रूपं निरूप्यत इत्यर्थः । प्रयोजनं तु पूर्वपक्षे वायु­मा­त्रा­दि­न्द्रि­य­मा­त्राच्च त्वंपदार्थस्य विवेकः कार्यः , सिद्धान्ते प्राणादपीति।
भाष्ये श्रुतिबलेन वायुरेव प्राण इत्येकं पूर्व­प­क्ष­मुक्त्वा सांख्य­प्र­सि­द्ध­क­र­ण­व्या­पारः प्राण इति पक्षा­न्त­र­मु­क्त­म­यु­क्तम् ; दृढ­श्रौ­त­प­क्ष­व्य­ति­रे­केण स्मार्त­प­क्षो­प­न्या­स­वै­य­र्थ्या­दत आह –
अथवेति ।
छान्दो­ग्येऽ­ध्यात्मं मनो ब्रह्मे­त्यु­पा­सी­तेति उपक्रम्य मन आख्यब्रह्मणो वाक् प्राण­च­क्षुः­श्रोत्रैः पादै­श्च­तु­ष्पा­त्त्व­मु­क्तम् । वागादिभिर्हि मनः स्वविषयेषु प्रवर्तते , गौरिव पादैः तत्र प्राणा एवेति ब्रह्मणो वागाद्यपेक्षया चतुर्थः पादः । स च वायु­नाऽऽ­धि­दै­वि­केन भाति अभिव्यक्तो भवति। तपति च स्वव्यापारे उद्य­च्छ­ती­त्यर्थः । पदभाष्ये इन्द्रि­य­प्र­क­र­णाद् घ्राणेन्द्रियं प्राण इति व्याख्यातम् । अत्र तु प्राण­श­ब्द­श्रु­ति­व­शा­न्मुख्यः प्राण इति एतद्विरोधादिति। एत­यो­र्भे­दा­भे­द­श्र­व­ण­यो­र्वि­रो­धा­दि­त्यर्थः ।
किं श्रुती हातव्ये ? नेत्याह –
कथंचिदिति ।
त्वयापि हि वायुप्राणयोः स्वरू­पा­भे­द­मा­श्रि­त्या­भे­द­श्रुतिः , वृत्ति­त­द्व­द्भे­दा­भि­प्राया च भेदश्रुतिरिति व्याख्या­त­व्य­मि­त्यर्थः ।
तर्हि किं वायुरेव प्राणोऽस्तु ? तदपि नेत्याह –
इति सामान्येति ।
यदा तु श्रुती त्याजितस्वार्थे , तदा कर­ण­व्या­पा­र­प­र­त­याऽपि कथं­चि­च्छ­क्य­यो­जने । शक्यते हि करणव्यापारे चलनाश्रयवाची वायुशब्द उपचरितुम् । तथा चाभ­ग्न­स्वा­र्थ­स्मृ­ति­ब­ला­त्क­र­ण­वृ­त्ति­रेव प्राण इत्यर्थः ।
स्यादेतत् - ‘‘एतस्माज्जायते प्राणो मनः सर्वेद्रियाणि चे’’त्यादौ करणेभ्योऽपि पृथक् प्राणः स्वत­न्त्र­व­दु­प­दि­श्यते , स कथं कर­ण­व्या­पा­र­मात्रः स्यादतोऽत्रापि समः श्रुतिविरोध इत्यत आह –
न चात्रापीति ।
अस्ति ताव­द्वृ­त्ति­त­द्व­तो­र्भेदः । यस्तु स्वत­न्त्र­व­न्नि­र्देशः स जीव­ना­ख्य­क­र­ण­वृ­त्ते­र्दे­ह­स्थि­त्यु­प­यो­गि­त्वेन प्राधा­न्य­म­भि­प्रे­त्ये­त्यर्थः ।
मा भूदनेकसाध्यो गुण एकस्मात्क्रिया तु किं न स्यादित्यत आह –
न चेति ।
विष्टयो वाहकाः । प्रत्ये­क­वृ­त्तित्वे च प्रतीन्द्रियं प्राण­भे­द­प्र­सङ्गः ।
यदि मन्येत नाने­के­न्द्रि­य­वृत्तिः प्राणो यतः प्रत्ये­क­मि­लि­त­वि­क­ल्पा­व­काशः , किंतु त्वह्या­त्र­वृ­त्ति­रिति , तत्राह –
न च त्वगिति ।
न ते तदनुगुण इति ।
तदुपरमेऽपि सुषुप्तौ प्राण­द­र्श­ना­दि­त्यर्थः ।
वायुभेद इति ।
वायोः परि­णा­म­रू­प­का­र्य­वि­शेष इत्यर्थः॥९॥
संहतत्वादिति ।
सत्त्वा­दि­गु­ण­सं­ह­ति­रू­प­त्वा­दि­त्यर्थः । एतच्च सांख्य­दृ­ष्ठ्यो­क्तम् ।
सिद्धा­न्त­मा­श्रि­त्याह –
अचेतनत्वादिति ।
एभिर्हेतुभिः पुरुषार्थत्वं पुरुषं प्रति शेषत्वं , ततश्च तत्पा­र­त­न्त्र्य­मि­त्यर्थः ॥
धारणादीति ।
धारणं मेधा॥११॥ मिथ्याज्ञानत्वे हेतु­र­त­द्रू­प­प्र­ति­ष्ठ­त्वम् । पातञ्जलसूत्रे शब्द­ज्ञा­ना­नु­पा­ति­त्व­वि­शे­ष­णेन विकल्पस्य विपर्ययाद्भेद उक्तः ।
तं विशदयति –
यद्यपीति ।
अधिष्ठानतत्त्वे प्रमिते व्यवहारहेतुत्वं विशेष इत्यर्थः ।
वस्तुशून्यत्वं विकल्पस्य दर्शयति –
न ह्यत्रेति ।
ननु मनसो निद्रा­वृ­त्ति­रि­त्य­सू­त्र­यत् पत­ञ्ज­लि­र­भा­व­प्र­त्य­ये­त्या­दिना , सिद्धान्ते च सुषुप्तौ मनोलय इष्टः , अतः कथं तत्रा­न्त­र­स्थ­प­ञ्च­वृ­त्तिता आह –
यद्यपीति ।
सूत्र­मी­क्ष­त्य­धि­क­रणे (ब्र.अ.१.पा.१.सू.५) व्याख्यातम्॥१२॥
इति पञ्चमं नवा­यु­क्रि­या­धि­क­र­णम्॥

अणुश्च॥१३॥ अणवश्चेत्यत्र साङ्क्यो­क्त­मा­हं­का­रि­क­त्व­कृतं व्यापि­त्व­मि­न्द्रि­याणां निरस्तम् । वादि­वि­प्र­ति­प­त्ति­नि­रा­सोऽपि श्रुति­वि­रो­ध­नि­रा­क­र­ण­परे पादे प्रसङ्गात् संगच्छते । प्राणेषु हि प्रस्तुतेषु तत्परिमाणस्यापि वादिसंमतस्य बुद्धिस्थत्वात् । अत्र तु श्रुत्या­व­ग­त­प्रा­ण­व्या­पि­त्व­मा­धि­दै­वि­क­वि­षयं व्यवस्थाप्यते इति न तुल्यन्यायता । अतएव भाष्य­का­र­नि­ब­न्ध­का­रा­भ्याम् अणवश्चेत्यत्र न काचन श्रुतिरुदाहृता । अन्ये त्वाहुः - तस्यातिदेशोऽयम् , समोऽनेन सर्वेणेति व्यापि­त्व­श्रु­ते­श्चा­धिका शङ्का आधि­दै­वि­क­वि­ष­य­त्वेन च तन्निरासः - इति। तन्न ; सर्वेऽनन्ता इती­न्द्रि­या­णा­मपि व्यापि­त्व­श्र­व­णस्य व्यवस्थायाश्च साम्यात् । अपरे प्रतिपादयन्ति – तत्र चात्र चेन्द्रियाणां प्राणस्य च व्यापि­त्व­प­रि­च्छि­न्न­त्व­श्रु­तय उदाहरणम् । तत्रे­न्द्रि­य­व्या­प्ति­श्रु­तीनां ‘‘स यो हैता­न­न­न्ता­नु­पास्ते’’ इत्यु­पा­स्ति­वि­ष­य­त्वा­दु­पा­स्ते­श्चा­रो­पे­णा­प्यु­प­प­त्तेर्न व्याप्ति­सा­ध­क­त्व­मि­त्यु­क्तम् , अत्र तु समोऽनेन सर्वेणेत्यादेः प्राण­व्या­प्ति­श्र­व­ण­स्या­धि­दे­वि­क­वि­ष­यत्वं वर्ण्यत - इति तन्न ; अत्रापि समत्वात् , साम प्राण इति व्युत्पाद्य य एवमेतत् साम वेदे­त्यु­पा­स्ति­वि­धा­नाद् , हेतुभेदस्य चाधि­क­र­णा­भे­द­क­त्वा­दिति। कुटो घटः ।
यत्त्वस्य विभु­त्वा­म्ना­न­मिति ।
सम एभि­स्त्रि­भि­र्लो­कै­रि­त्ये­त­दि­त्यर्थः । समष्टिः सामान्यम् । व्यष्टिः विशेषस्तद्रूपेण ।
यस्तु विशेषमात्ररूपः प्राणो न तद्रूपेण विभु­त्वा­म्ना­न­मि­त्याह –
न त्विति ।
आत्मनि शरीरे भव­ती­त्या­ध्या­त्मि­कम् । प्लुषिर्मशकादपि सूक्ष्मशरीरः पुत्तिकाख्यो जन्तुविशेषः । तदाश्रया आध्या­त्मि­क­प्रा­णा­श्रयाः॥१३॥
इति षष्ठं श्रेष्ठा­णु­त्वा­धि­क­र­णम्॥

ज्योति­रा­द्य­धि­ष्ठानं तु तदामननात्॥१४॥ चक्षुषा हि रूपाणि पश्य­त्य­ग्नि­र्वा­ग्भू­त्वे­त्या­दा­व­वि­रो­ध­वि­चा­रा­द­ध्या­य­स­ङ्गतिः । यथा स्वका­र्य­श­क्ति­यो­गात् स्वमहिम्नैव प्राणाः प्रवर्तन्ते इत्ययुक्तम् ; शक्त­स्या­प्य­न्या­धि­ष्ठि­त­त्वा­वि­रो­धा­दि­त्या­श­ङ्क्याह –
यद्धीति ।
न तु करणानां पराधीनत्वेऽपि बल­व­त्प्र­मा­ण­मि­त्यर्थः ।
ननु करणानि , चेतनाधिष्ठितानि , अचेतनत्वे सति प्रव­र्त­मा­न­त्वाद् , वास्या­दि­व­दि­त्या­शङ्क्य जीवा­धि­ष्ठि­त­त्वेन सिद्धसाधनत्वमाह –
वास्या­दि­ना­मि­त्या­दिना ।
ननु माऽनु­मा­ना­द्बा­ध्यु­त्सर्गः , आगमात्तु बाधिष्यते , तत्राह –
न चाग्नि­रि­त्या­दिना ।
वाग्भूत्वेति ।
वागधिष्ठाता भूत्वेत्यर्थः ।
जीवस्य देवतानां चाधि­ष्ठा­तृ­त्व­सा­म्य­म­भ्यु­प­गम्य विरोध उक्तः , अधुना तु तदेव नास्तीत्याह –
अपि चेति ।
सत्यपि जीवे देवतानां कर­णा­धि­ष्ठा­तृ­त्वा­भ्यु­प­गमे हि जीवस्य कर­णा­धि­ष्ठा­तृत्वं न स्यात् , अप्रयोजकत्वात् , ततश्च ता एव भोक्त्र्यः कर्त्र्यश्च स्युरित्यर्थः ।
आग­म­स्ता­व­दु­त्स­र्ग­स्या­प­वा­दकः , न च स औपचारिकः साभ्य­स­त्वा­दि­त्याह –
नाना­वि­धा­स्त्विति ।
ननु श्रुतिस्मृतिषु कर­णा­धि­ष्ठा­तृ­दे­व­ता­नि­रू­प­ण­मा­ध्या­त्मि­क­क­र­णा­ना­मा­धि­दै­वि­का­ग्न्या­दि­भि­र­भे­दो­पा­स­ना­र्थम् , उपासनं च समारोपादपि संभवति , तत्राह –
न च तदसत्यमिति ।
अनु­प­प­त्ति­र्ह्य­त्रा­भि­प्रा­य­भे­दा­त्का­र्या­सि­द्धिस्तां तु परिहरिष्यति – अने­के­षा­म­धि­ष्ठा­तॄ­णाम् एकः परमेश्वरोऽस्ति नियन्तेति ग्रन्थेन । अनु­मा­न­म­प्यु­त्सर्गं बाधत इति वदामः ।
ननु तत् जीवेन सिद्ध­सा­ध­न­मि­त्यु­क्त­मत आह –
न च स्वरूपोपयोगेति ।
अधिष्ठातृत्वं त्वधि­ष्ठा­ना­न­न्त­र­पू­र्व­क्ष­णेऽ­धि­ष्ठे­य­स्व­रू­प­त­त्सा­ध्य­प्र­यो­ज­न­ज्ञा­न­पू­र्वकं तत्प्रेरकत्वं , न च तदस्ति जीवे इति कथं सिद्ध­सा­ध­न­मि­त्यर्थः । न चेश्वरेण सिद्धसाधनत्वम् ; तदभ्युपगमे त्वयै­वो­त्स­र्ग­बा­ध­स्ये­ष्ट­त्वात् , स्वरू­प­प्र­यो­ज­ना­द्य­भि­ज्ञ­जी­वा­धि­ष्ठि­त­मिति साध्यत्वाच्च ।
यच्चोक्तं कर­णा­धि­ष्ठा­तृ­त्वाद् भोगः स्यादिति , तत्राह –
न चैतावतेति ।
यो यदधिष्ठाता स तत्सा­ध्य­फ­ल­भो­क्तेति न व्याप्तिः ; यन्तरि सारथौ अने­का­न्ता­दि­त्यर्थः ।
यदि मन्येत यन्तरि भोक्तृत्वे माना­भा­वा­द्यु­क्त­स्त­द­भाव इति , तर्हि देवतास्वपि स सम इत्याह –
ताव­न्मा­त्र­स्येति ।
अधि­ष्ठा­तृ­त्व­मा­त्र­स्ये­त्यर्थः ।
स्यादेतत् - देवता एत­दि­न्द्रि­य­सा­ध्य­फ­ल­भो­गिन्यः तद­धि­ष्ठा­तृ­त्वा­ज्जी­व­व­दिति विशेषतोऽनुमीयते , तत्कु­तोऽ­नै­का­न्ति­क­ताऽत आह –
न च नरादीति ।
न ह वै देवान्पापं गच्छति इत्या­ग­म­वि­रु­द्ध­म­नु­मा­न­मि­त्यर्थः॥१४॥१५॥१६॥
सप्तमं ज्योति­रा­द्य­धि­क­र­णम्॥

त इन्द्रियाणि तद्व्य­प­दे­शा­द­न्यत्र श्रेष्ठात्॥१७॥ सत्सु इन्द्रियेषु तद­धि­ष्ठा­तृ­चिन्ता , तान्येव तु न मुख्य­प्रा­ण­वृ­त्ति­व्य­ति­रे­केण सन्तीति शङ्कते –
मा भूदिति ।
तद्भावेति ।
तस्य प्राण­भा­वा­भा­वा­व­नु­वि­धा­यि­ना­व­नु­स­र­ण­शीलौ भावाभावौ येषां तानीन्द्रियाणि तथा­त­त्त्वा­दि­त्यर्थः ।
प्राणशब्दस्येति ।
तस्मादेत एतेनाख्यायन्ते प्राणा इती­त्य­स्ये­त्यर्थः । एतस्माज्जायते इत्यादिव्यपदेशो न भेदसाधनमिति योजना ।
तत्र हेतुः –
मनसोऽपीति ।
तस्मिन्नेव वाक्ये मनः सर्वे­न्द्रि­या­णीति भेद­व्य­प­दे­शा­न्म­न­सोऽ­प्य­नि­न्द्रि­य­त्व­प्र­सङ्ग इत्यर्थः ।
स्मृतिवशादिति ।
मनः­ष­ष्ठा­नी­न्द्रि­या­णीति स्मृतिः । हन्तः इदानीमस्यैव मुख्यप्राणस्य रूपमसाम भवेमेति प्राणसंवादे इन्द्रि­या­णा­मुक्तिः । मृत्यु­र्वा­गा­दीनां स्वविषयासङ्गः सोऽसुरशब्देन भाष्ये उक्तः ।
मृत्यु­प्रा­प्तेति ।
श्रूयते हि यो वाचि भोगस्तं देवेभ्य आगायत् यत्कल्याणं वदति तदात्मन इत्यादिना वागादीनां विष­या­स­ङ्ग­वत्त्वं संश्राव्य तानि मृत्युः श्रमो भूत्वो­प­ये­मेऽ­थे­म­मेव नाप्नोद्योयं मध्यमः प्राण इति ।
अर्थ­क्रि­या­भे­दा­च्चेति ।
अर्थालोचनं बाह्ये­न्द्रि­या­णा­म­र्थ­क्रिया , मनसो मननम् ॥ भाष्यकारैर्हि तत्त्वा­न्त­रा­णीति भेदवाचकं तत्त्वा­न्त­र­शब्दं सूत्रेऽ­ध्या­हृत्य प्राणा­त्त­त्त्वा­न्त­राणि वागादीनीति प्रतिज्ञां रचयित्वा , तद्व्यपदेशाद् भेदव्यपदेशादिति हेतुं व्याख्याय , तत्साधनार्थं योजितः । अन्यत्र श्रेष्ठात् श्रेष्ठं मुक्त्वा ये प्राणास्त इन्द्रियाणि इन्द्रि­य­श­ब्दे­नोक्ताः श्रुतौ , अतः प्राणा­सं­भ­वी­न्द्रि­य­श­ब्द­वा­च्य­त्वा­दि­न्द्रि­याणि प्राणा­त्त­त्त्वा­न्त­रा­णी­त्यर्थ इति।
तत्राऽपरितोषं दर्शयन् व्याख्यान्तरमाह –
अन्ये त्विति ।
न केव­ल­म­ध्या­हा­रा­पे­क्ष­त्वात् प्रति­ज्ञो­क्ति­र­युक्ता ; हेतूक्तिरपि पौन­रु­क्त्या­द­यु­क्ते­त्याह –
भेदश्रुतेश्चेति ।
यदि तद्व्य­प­दे­शा­दि­ती­न्द्रि­याणां प्राणाद् भेद­व्य­प­दे­शा­दि­त्यर्थः , तर्ह्यु­त्त­र­सूत्रे स एव हेतुर्विवक्षित इति पुन­रु­क्ति­रि­त्यर्थः । ननु प्राणा इतीन्द्रियाणीति च संज्ञा­भे­द­स्त­द्व्य­प­दे­शा­दि­युक्तः , प्रकरणभेदस्तु भेद­श्रु­ते­रि­त्युक्त इत्य­पौ­न­रु­क्त्यम् , प्रकरणभेदश्च भाष्ये प्रकटित इति , उच्यते ; यदीन्द्रियशब्दः प्राण­श­ब्दे­ना­पु­न­रुक्तः सन्प्रा­णा­द­न्य­त्किं­चि­द्व­क्तीति विवक्षितं ; तर्हि प्राण­वृ­त्ती­ना­मि­न्द्रि­याणां प्राणा­द­न्य­त्वात् सिद्धसाधनम् । अथ स्वतन्त्रं वक्तीति , न तर्हि संज्ञाभेदः संज्ञ­स्वा­त­न्त्र्य­व्याप्तः प्राणा­प्रा­ण­वृ­त्ति­श­ब्द­यो­रेव व्यभिचारात् । अत एव संज्ञाभेदं जानन्नेव तदप्रयोजकतां मन्वानो निब­न्धा­त्त­द्व्य­प­देशं विवृण्वन् मृत्यु­प्रा­प्ता­प्त­त्वे­त्या­दिना प्रकरणभेदमेव वर्णयांबभूव । तत उभयत्रायमेव वक्तव्यस्तथा च पुन­रु­क्ति­रि­त्य­भि­प्रायः । किंचास्यां व्याख्यायां तद्व्य­प­दे­शा­दि­त्य­त्र­त्य­स्त­च्छ­ब्द­स्त­त्त्वा­न्त­रा­णीति प्रति­ज्ञा­ग­त­म­ध्या­हृ­त­प­दार्थं परामृशेन्न साक्षादुक्तम् ।
स्वव्याख्यायां त्वेका­द­श­प्रा­णा­ना­मि­न्द्रि­य­त्वा­प्र­ति­ज्ञा­ना­दि­न्द्रि­य­प­दा­र्थ­म­न­न्त­रोक्तं परामृशतीति लाभमाह –
तच्छब्दस्य चेति ।
नन्वि­न्द्रि­य­श­ब्द­श्च­क्षु­रा­दिषु रूढः कथं प्राणे वर्त्स्यतीत्यत आह –
इन्द्रस्येति ।
जीव­भा­व­मा­प­न्न­स्ये­त्यर्थः । स्मरति स्म हि भवगान् पाणिनिः ‘‘इन्द्रि­य­मि­न्द्र­लि­ङ्ग­मि­न्द्र­दृ­ष्ट­मि­न्द्र­सृ­ष्ट­मि­न्द्र­जु­ष्ट­मि­न्द्र­द­त्त­मिति वा’’ इति। इन्द्रशब्दात् षष्ठी­स­म­र्था­ल्लि­ङ्ग­मि­त्ये­त­स्मि­न्नर्थे घच् प्रत्ययो भवति । घस्या­य­ना­दि­सू­त्रेण इयादेशः । चकारश्चित इत्य­न्तो­दा­त्तार्थः । अस्मादेव तृती­या­स­म­र्था­दि­न्द्रेण दृष्ट­मि­त्या­द्यर्थे प्रत्ययो योज्यः । अत एव रूढौ सत्यां व्युत्प­त्ति­श­ङ्कैव नास्तीति केशवोक्तमसाधु ; स्मृतिदर्शनात् शङ्को­प­प­त्ते­रिति। भौतिकमित्युक्ते देह­स्या­पी­न्द्रि­यत्वं स्यादि­ती­न्द्र­लि­ङ्ग­त्वोक्तिः । न हि सुषुप्तौ देहमात्रम् इन्द्र­म­नु­मा­प­यति। यदि प्राणो न स्याद् इन्द्र­लि­ङ्ग­त्व­म­ज्ञा­ना­दे­र­प्य­स्तीति भौतिकग्रहणम् ।
इन्द्रियत्व जातिव्यञ्जकमाह –
देहाधिष्ठानत्वे इति ।
तद्गोलकेषु देहशब्दः ।
तस्माद्रूढेरिति ।
रूढ­स्यै­वे­न्द्रि­य­श­ब्दस्य स्वरसिद्ध्यर्थं पाणि­नि­र्व्यु­त्प­त्ति­म­न्व­शा­स­दत एव चानि­य­म­प्र­द­र्श­नम् । व्युत्पन्नेषु पाचकादिषु नियतोऽवयवार्थ , रूढानां पुनः शब्दानां यथा­क­थं­चि­त्प­रि­क­ल्पि­ते­ना­प्य­व­य­वा­र्थेन व्युत्पत्तिः क्रियत इति । भाष्यकारीयं त्विति । द्वे इमे अधिकरणे इत्यर्थः ।
सूत्रेष्विति ।
बहुवचनं सूत्र­द्व­य­ग­त­प­दा­भि­प्रा­यम् । एवं चाद्यसूत्रे एव यद्भा­ष्य­का­रै­रि­न्द्रि­याणां प्राण­वृ­त्ति­त्व­नि­र­स­न­म­कारि , तन्मा­त्र­म­यु­क्त­मि­त्युक्तं भवति। ननु टीकायां दुरक्तिचिन्ता न युक्ता , वार्तिके हि सा भवति , तर्हि वार्तिकत्वमस्तु न हि वार्तिकस्य शृङ्गमस्ति । अत एवा­न­न्द­म­या­धि­क­रणे मान्त्र­व­र्णि­क­सूत्रे आरम्भणाधिकरणे च भावे चोप­ल­ब्धे­रि­ति­सू­त्र­भा­ष्य­म­न­पेक्ष्य व्याख्यां चकार॥१७॥१८॥१९॥
इत्य­ष्ट­म­मि­न्द्रि­या­धि­क­र­णम्॥

संज्ञा­मू­र्ति­क्लृ­प्तिस्तु त्रिवृत्कुर्वत उपदेशात्॥२०॥ उत्प­द्य­मा­न­व्या­पर उत्पत्तिः । उत्पादकव्यापार उत्पादना । तत्र जग­दु­त्प­त्ति­वि­ष­य­श्रु­ति­वि­रोध इतः प्राक् पादद्वये निरस्तः । इदानीम् उत्पा­द­ना­वि­ष­य­श्रु­ति­वि­रोधो निरस्यते । तत्रा­त्रि­वृ­त्कृ­त­भू­तो­त्पा­दनं पारमेश्वरमेवेति श्रुति­ष्व­वि­गी­त­म­व­ग­तम् , भौतिकनिर्माणे तु श्रुतिषु विप्र­ति­प­त्ति­र्दृ­श्यते इति तन्निरासाय यत्यते । विषयप्रदर्शकं भाष्यमुदाहृत्य व्याचष्टे –
अस्यार्थ इत्यादिना ।
ननु ‘तदैक्षत बहु स्या प्रजायेय’ इतीक्षणं ब्रह्मण उक्तम् , अतः कथं सेयं देवतैक्षतेति पुनरुच्यतेऽत आह –
पूर्वोक्तमिति ।
अत्रि­वृ­त्कृ­त­भू­तानां सूक्ष्मत्वेन व्यव­हा­रा­यो­ग्य­त्वा­दी­क्ष­णस्य प्रयोजनं बहुभवनं सामस्त्येन न निष्प­न्न­मि­त्यर्थः । अस्मानपेक्ष्य परोक्षत्वात्तेज आदिषु देवताशब्दः ।
ननु प्रलयसमये प्राणाभावात् कथं तद्धा­र­ण­नि­मि­त्त­जी­व­श­ब्द­स्त­त्राह –
पूर्वसृष्टाविति ।
सत्य­प्य­वि­द्यो­प­हिते जीवे प्राणो­पा­ध्य­भि­व्य­क्ति­रू­पा­भा­वा­भि­प्राया स्मर­ण­स­न्नि­धा­पि­त­त्वोक्तिः ।
भूतमात्रायां भूतकार्ये रूप­नि­ष्प­त्त्यर्था या त्रिवृ­त्क­र­ण­श्रु­तिस्तां व्याचष्टे –
तासामिति ।
तासां मध्ये एकैकां त्रिवृतं करवाणीति योजना । नाम­रू­प­नि­र्मा­णेऽपि समा­न­ना­म­रू­प­त्व­मुक्तं न प्रस्मर्तव्यम् । ततश्च न शब्दा­र्थ­सं­ब­न्धस्य कृत्रिमत्वशङ्का ।
जीवेनेत्यस्य व्याक­र­णा­नु­प्र­वे­श­सं­ब­न्धाभ्यां संशयमाह –
तत्रेति ।
जीवस्य समु­द्रा­दि­ना­म­रू­प­नि­र्मा­ण­यो­ग्य­त्वा­भा­वात् जीवेनेत्यस्य व्याक­र­वा­णी­त्य­ने­ना­सं­बन्धे पूर्व­प­क्षा­भा­व­मा­श­ङ्क्याह –
डित्थेति ।
अस्ति तावत् सामान्येन नामरूपनिर्माणे जीवस्य योग्यत्वं , तावन्मात्रं चान्वयोपयोगि ; विशे­षा­णा­मा­न­न्त्ये­ना­श­क्य­ज्ञा­न­त्वात् । यथाह – सामान्येनैव योग्यत्वं लोके यदवधारितम् । तद­न्वि­ता­भि­धा­नस्य व्युत्प­त्ता­वु­प­ल­क्ष­णम् ॥इति।
योग्य­ता­मु­प­पा­द्या­का­ङ्क्षा­माह –
प्रधानक्रिययेति ।
ननु जीवे­ने­त्य­स्या­नु­प्र­वि­श्ये­त्य­नेन सन्निधिरस्तीति , तत्राह –
न त्विति ।
आका­ङ्क्षा­यो­ग्य­ताभ्यां लिङ्गाभ्यां सन्निधिः स्थानलक्षणो दुर्बल इत्यर्थः ।
प्रधा­न­क्रि­य­ये­त्ये­त­द्वि­वृ­णोति –
प्रधानपदार्थेति ।
क्वचि­दि­त्या­रु­ण्यादौ परम्परया संब­न्धा­श्र­य­ण­मि­त्यर्थः ।
ननु व्याक­र­वा­णी­त्यस्य मुख्या­र्थ­स्वी­कारे को बाधः ? यतः प्रयो­ज­क­व्या­पा­र­ल­क्षणा , तत्राह –
यदि पुनरिति ।
स्यादेतत् - साक्षा­त्कर्त्र्या देवतायाः करणं भवतु जीवस्तक्ष्ण इव वास्यादीति , नेत्याह –
न हि जीवस्येति ।
जीवो हि चेतनत्वात् कर्ता , यत्र च कर्ता कर्त्रन्तरं प्रतिकरणं तत्र करणभूतस्य स्वत­न्त्र­क­र्तृ­त्व­मि­त­रस्य तु प्रयो­ज­क­क­र्तृत्वं चारेण संकलयानीत्यादौ तथा दर्शनादित्यर्थः ।
नामकर्मणीति ।
नामोत्पादने इत्यर्थः ।
सामा­न्य­तोऽ­व­ग­त­यो­ग्य­त्वस्य विशेषे बाध­क­प्र­मा­णा­भा­वा­द­प­वा­द­माह –
न गिरिनदीति ।
अर्था­प­त्त्य­भा­वेति ।
करणसामर्थ्ये हि प्रमाणं कार्य­ज­न­क­त्वा­न्य­था­नु­प­प­त्ति­र्जी­वस्य च समु­द्रा­दि­ज­न­क­त्वा­द­र्श­नात् तच्छक्तौ नार्था­प­त्ति­रस्ति , तेन साम­र्थ्या­भा­वोऽ­र्था­प­त्त्य­नु­द­य­प­रि­च्छिन्न इत्यर्थः ।
जीवेनेत्यस्य व्याकरवाणीति प्रति­प्र­धा­ना­न्व­य­यो­ग्य­तायां निरस्तायां सन्निधेरेव साम्रा­ज्य­मि­त्याह –
अनु­प्र­वि­श्ये­त्य­नेन त्विति ।
त्तवः क्त्वाप्र­त्य­यस्य ॥२०॥
अन्नभागतेति ।
योऽणिष्ठस्तन्मन इत्युक्ता अन्नस्य सूक्ष्म­भा­गा­त्म­ते­त्यर्थः । वाचः पटुत्वात्तेजसा साम्यमस्ति तत्तेजोमयी वागि­त्यु­क्त­मि­त्यू­ह­नी­य­मि­त्यर्थः । तेज इत्यग्निदीपकं घृताद्युच्यते ।
तेजसः सूक्ष्मो भागो वाग् अन्नस्याशितस्य सूक्ष्मो भागो मन इति श्रुतिवशाद् वाङ्म­न­स­यो­स्तै­ज­स­भो­मत्वे वक्तव्ये कथं मांसा­दे­र्भौ­म­त्व­मु­च्यते ? अत्राह –
वाङ्मनसी इति ।
मांसा­दी­त्या­दि­श­ब्दे­ना­प्ते­जः­का­र्य­यो­र्म­ज्जा­लो­हि­त­यो­र्ग्र­ह­णम् । मज्जा नामा­स्थोऽ­भ्य­न्तरो रसः ।f
नित्यत्वं मनसो दूषयति –
न तावदिति ।
नाप्या­हं­का­रा­दिकं मन आदीति शेषः॥२१॥ भूयस्त्वं भूतानां स्वस्वा­र्धा­धि­क्यम् । तच्च ईक्ष­त्य­धि­क­र­णेऽ­स्मा­भि­र्द­र्शि­त­मिति॥२२॥
इति नवमं संज्ञा­क्लृ­प्त्य­धि­क­र­णम्॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ द्विती­या­ध्या­यस्य चतुर्थः पादः॥
समा­प्त­श्चा­य­म­वि­रो­धाख्यो द्विती­योऽ­ध्यायः॥