वेदान्तकल्पतरुः
स्मृत्यधिकरणविषयाः
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्॥१॥ चेतनजगदुपादानसमन्वयः साङ्ख्यस्मृत्या सङ्कोच्यता न वेति सर्वज्ञभाषितत्वसाम्येन बलाबलाविनिगमात्संदेहे पूर्वपक्षमाह –
न खल्विति ।
विरोधे त्विति ।
औदुम्बरीं स्पृष्ट्वोद्गायेदिति प्रत्यक्षश्रुतिविरुद्धा सर्वामावेष्टेतेति स्मृतिर्मानं वेति सन्देहे वेदार्थानुष्ठातॄणां स्मृतिभिर्मूलश्रुत्यनुमानात्प्रत्यक्षानुमितश्रुत्योश्च स्वपराधीतश्रुतिवत्समबलत्वादुदितानुदितादिवद्विकल्पादिसम्भवान्मानमिति प्राप्ते राद्धान्तः । श्रुतिविरुद्धस्मृतीनां प्रामाण्यमनपेक्षमपेक्षावर्जितं हेयमिति यावत् । यतोऽसति विरोधे मूलश्रुत्यनुमानं स्वपराधीतश्रुत्योस्तुल्यवत्प्रमितत्वात्समबलता । प्रत्यक्षश्रुतिविरुद्धेऽर्थे तु न श्रुत्यनुमानम् ; अर्थापहारेण मानस्याप्यपहारात् ।
अतो मूलाभावादप्रमाणमिति ।
पूर्वपक्षी पूर्वपक्षोपपादकः । अधिकरणारम्भवादीत्यर्थः ।
आर्षप्रत्यक्षमूलापि स्मृतिः सापेक्षा , वेदस्त्वपौरुषेयत्वादनपेक्ष इत्याशङ्क्याह –
अयमस्याभिसंधिरिति ।
आजानसिद्धा स्वभावसिद्धा च साऽनावरणभूतार्थमात्रगोचरा च ।
भ्रमवत्सत्यानृतगोचरत्वं वारयति –
मात्रेति ।
एवंभूता तस्य ब्रह्मणो या बुद्धिस्तत्पूर्वको वेदराशिरित्यर्थः ।
पौरुषेयत्वेन तुल्यत्वमुक्त्वा स्मृतेर्निरवकाशत्वं प्राबल्यहेतुमाह –
न चैता इति ।
अनन्यपरत्वं स्फुटतरत्वम् । श्रुतिरनुष्ठानपरा ।
अन्यस्मृत्यनवकाशमात्रान्न सिद्धान्तसिद्धिः संदेहादित्याशङ्क्याह –
यथा हीत्यादिना ।
देवताधिकरणे (ब्र.अ.१.पा.३.सू.२४–३३) योगिप्रत्यक्षस्य समर्थितत्वाद्भाष्यमस्मदाद्यभिप्रायमित्याह –
अर्वागिति ।
कपिलादयोऽर्वाचीनपुरुषविलक्षणा इत्याशङ्क्याह –
न तावत्कपिलादय इति ।
प्राचि भवे तदनुष्ठानवताम् इति सम्बन्धः । तच्छब्देन वेदार्थो विवक्षितः ।
पूर्वोक्तमिति ।
विप्रतिपत्तौ चेत्यादिभाष्येण पूर्वोक्तं स्मारयतीत्यर्थः ।
श्रुतिसामान्यमात्रेणेति ।
सगरपुत्रप्रतप्तुः साङ्ख्यप्रणेतुश्च कपिल इति शब्दसाम्यमात्रेणेत्यर्थः ।
यथा नृत्यं कुर्वत्यपि नर्तकी नर्तकदर्शितक्रमेणैव नृत्यन्ती न स्वतन्त्रा , एवमीश्वरः प्राचीनक्रममनुरुध्य विरचयन्वेदं न स्वतन्त्रः , क्रमोपगृहीतवर्णात्मा च वेदोऽर्थप्रमितिकर इति न वक्रपेक्षमस्य प्रामाण्यमित्याह –
सत्यमिति ।
फलितमाह –
तेनेति ।
येनानादिः कार्यकारणभावस्तेन न प्रागभूतस्य शास्त्रस्य तदर्थभानपूर्विकाऽभिनवा क्रिया , किंतु नियतक्रमस्य तस्य संस्काररूपेणानुवर्तमानस्य स्मारणेन व्यतीकार इत्यर्थः ।
ननु न नर्तक्यादिवदज्ञ ईश्वरस्ततः शास्त्रक्रियातः प्रागेव तदर्थज्ञानवत्त्वात्कपिलतुल्यः किं न स्यादत आह –
शास्त्रार्थज्ञानं चेति ।
पूर्ववर्णानुपूर्वी हि शास्त्रम् । तथा च यदा तदर्थः स्फुरति तदैवानुपूर्व्यपि संस्कारारूढा स्फुरतीत्यादर्शात्मकशास्त्रस्वरूपमात्रज्ञानात्तत्करणोपपत्तौ न शास्त्रार्थज्ञानस्य हेतुतेत्यर्थः । स्वकृतप्राचीनादर्शापेक्षत्वाच्च माणवकवैलक्षण्यमीश्वरस्य । शास्त्रस्य वक्तृज्ञानाऽजन्यत्वेऽपि नान्तरीयकत्वेन शास्त्रस्फुरणे तदर्थस्फुरणात्सर्वज्ञेश्वरसिद्धिः । तदर्थज्ञानवत्ता च प्रलयान्तरितश्रुतेः ज्ञातृत्वात्सिध्यतीशस्य । न हि माणवकेऽस्ति तत् । सति चैवं शास्त्रयोनित्वशास्त्रविषयाधिकविज्ञानवत्त्वयोर्व्याप्तिः कृत्तिकोदयरोहिण्यासत्तिवत् तद्भावनियतभावत्वरूपा न तु शास्त्रार्थज्ञानशास्त्रकरणयोर्हेतुहेतुमत्त्वकृता ।
ननु - गुणवद्वक्तृज्ञानजन्यत्वाभावे कथं शास्त्रस्य प्रामाण्यमिति - चेत् ; स्वत इत्याह –
शास्त्रं चेति ।
प्रमाणानां प्रामाण्यस्य स्वतस्त्वात्कपिलादिवचस्तथा किं न स्यादत आह –
कपिलादिवचांसि त्विति ।
तेषां कपिलादिवचसामर्था एवार्था यासां तास्तथोक्ताः । तासां स्मृतीनामर्था एवार्था येषामनुभवादीनां ते तदर्थानुभवास्ते पूर्वा यासां ताः स्मृतयस्तथा । यथाऽनपेक्षत्वेन शीघ्रतरप्रवृत्तश्रुत्या तद्विरुद्धलिङ्गस्य श्रुतिकल्पनापेक्षत्वेन विलम्बितप्रवृत्तेः परिच्छेदकत्वमपह्रियते , एवमनपेक्षश्रुत्या तद्विरुद्धकापिलवचसः सापेक्षत्वेन विलम्बिनः प्रामाण्यमपह्रियते इत्यर्थः ।
यावदिति ।
कथंचिदित्यर्थः॥१॥ दौहित्रस्य कर्म दौहित्र्यम् ।
वन्ध्या चेत्स्मरेदिदं मे दौहित्रेण कृतमिति सा स्मृतिरप्रमाणम् मूलस्य दुहितुरभावात् , एवमत्रापि मूलभूतानुभवाभावात् स्मरणाभाव इत्याह –
वन्ध्याया इवेति ।
न चार्षमिति ।
उपजीव्यवेदविरोधस्योक्तत्वादित्यर्थः ॥२॥ अव्यक्तं ज्ञानाल्लीयते ।
अहं सर्वस्येति ।
प्रभवत्यस्मादिति प्रलीयतेऽस्मिन्निति च प्रभवप्रलयौ । तस्मादात्मनोऽधिष्ठातुः प्रभवन्ति स मूलमुपादानम् । शाश्वतिकः अनादिः । नित्योध्वंसवर्जितः । ज्ञानैः पूरयति यः स सर्वेषामात्मा । पुरुषा जीवाः । बहूनां देहिनां योनिः पृथिवी । विश्वं पूर्णम् । गुणैः सर्वज्ञत्वादिभिरधिकम् । सर्वात्मकत्वाद्विश्वमूर्धादित्वम् ॥
इति प्रथमं स्मृत्यधिकरणम्॥
एतेन योगः प्रत्युक्तः॥३॥ एषां हिरण्यगर्भादिशास्त्राणाम् । योगस्वरूपं चित्तवृत्तिनिरोधस्तत्साधनं यमादि तदवान्तरफलं विभूतिरणिमादिः ।
किंचिन्निमित्तीकृत्येति ।
चित्तनिरोधो हि क्वचिदालम्बने निवेशाद्भवति । पुरुषे च सूक्ष्मे द्राड्निवेशासम्भवात्प्रधानादि चित्तालम्बनत्वेन व्युत्पाद्यत इत्यर्थः । प्रतिसर्गः प्रलयः । वंशानुचरितं तत्कर्म ।
तत्प्रतिपादनेति ।
तच्छब्देन कैवल्यादिपरामर्शः ।
देवताधिकरणन्यायेन (ब्र.अ.१.पा.२.सू.२४ –३३) प्रधानादौ प्रामाण्यमाशङ्क्याह –
अन्यपरादपीति ।
यत एव प्रधानादेरविवक्षाऽत एव गुणानां सत्त्वादीनां परमं रूपमधिष्ठानमात्मा , दृष्टिपथप्राप्तं दृश्यं प्रधानादि , मायैव मिथ्या । तत्सुतुच्छकं सुष्ठु तुच्छकमिति।
प्रधानादावतात्पर्ये योगशास्त्रस्यानुवादकत्वं वक्तव्यम् , तत्कथम् ? प्राप्त्यभावादित्यत आह –
अलोकसिद्धानामिति ।
वैदिकलिङ्गानां न्यायाभाससिद्धानाम् अनुवाद्यत्वमित्यर्थः ।
अष्टकादिस्मृतिवदिति ।
अष्टकाः कर्तव्याः , तटाकं खनितव्यमित्यादिस्मृतयो न प्रमाणम् ; धर्मस्य वेदैकप्रमाणत्वादष्टकादिश्रेयःसाधनत्वे वेदानुपलम्भात् स्मृतेश्च भ्रान्त्यापि सम्भवादिति प्राप्ते राद्धान्तितम् । वेदार्थानुष्ठातॄणामेव स्मृतिषु सनिबन्धनासु कर्तृत्वाद् मूलभूतवेदमनुमापयन्त्यः स्मृतयः प्रमाणमिति।
‘’तत्कारणं सांख्ययोगाभिपन्नम्’’ इति श्रुतौ सांख्ययोगशब्दाभ्यां ज्ञानध्याने निर्दिष्टे इत्युक्तं भाष्ये , तदुपपादयति –
संख्येति ।
कथं चित्तवृत्तिनिरोधवाचियोगशब्देन चिन्तारूपं ध्यानमुच्यते ? तत्राह –
उपायेति ।
शरीरग्रीवाशिरांसि त्रीण्युन्नतानि यस्मिंस्तत्तथा एतां ब्रह्मविषयां विद्यां योगप्रकारं च मृत्योर्लब्ध्वा नचिकेता ब्रह्म प्राप्तोऽभूत् । ‘एको बहूनां यो विदधाति कामानि’त्युपक्रम्य श्रुतं तत्कारणम् इति तेषां कामानां कारणं ज्ञानिभिर्ध्यानिभिश्च प्राप्तं देवं ज्ञात्वा मुच्यते ॥३॥
इति द्वितीयं योगप्रत्युक्त्यधिकरणम्॥
न विलक्षणत्वादस्य तथात्वं च शब्दात्॥४॥ चेतनोपादानकजगद्वादिसमान्वयस्य गगनादि , अचेतनप्रकृतिकं , द्रव्यत्वाद् , घटवदित्यनुमानेन संकोचसंदेहे वेदविरुद्धस्मृतेर्मूलाभावादमानत्वमुक्तम् । अनुमानमूलं तु व्याप्तिपक्षधर्मते लोकसिद्धे इत्युत्तराधिकरणस्तोमस्य स्मृत्यधिकरणेन सङ्गतिमाह –
अवान्तरसङ्गतिमिति ।
वेदविरुद्धार्थत्वेन स्मृतेस्तद्वैलक्षण्यादतन्मूलत्ववद् ब्रह्मवैलक्षण्याज्जगदप्येतन्मूलमिति निरन्तरसङ्गतिः ।
एकश्रुत्यनुसारेणेतरश्रुतिनयनदृष्टान्तमात्रात्तर्कवशेन श्रुतिसंकोचो न युक्तः , वैपरीत्यस्यापि सम्भवादित्याशङ्क्याह –
सावकाशा इति ।
श्रुतीनां निमित्तकारणे सावकाशत्वं , तर्कस्यानौपाधिकत्वेनानवकाशत्वम् ।
दृष्टसाधर्म्येणेति ।
प्रत्यक्षदृष्टान्ततुल्यत्वेनानुमानात्पक्षे साध्ये गमिते तस्यापि प्रत्यक्षता संभाव्यत इत्यर्थः ।
तर्कमाह –
प्रकृत्येति ।
ब्रह्मासारूप्यं जगतो दर्शयति –
विशुद्धमिति ।
प्रधानसारूप्यमुपपादयति –
एक इति ।
आनुश्रविकेऽपि सुखाद्यात्मत्वमाह –
स्वर्गेति ।
निरतिशयत्वात् आगमापायिधर्मरहितत्वादित्यर्थः ।
जगतोऽचेतनत्वश्रवणमपि चैतन्यानभिव्यक्तिपरमिति शङ्कापाकरणार्थं भाष्येऽनवगम्यमानग्रहणं , तद्व्याचष्टे –
शब्दार्थादिति ।
आर्थस्य जगच्चेतनत्वस्य श्रुताचेतनत्वबाधकत्वायोपबृंहकलोकानुभवाभावोऽनवगम्यमानपदद्योतित इत्यर्थः ।
आर्थत्वे उपोद्बलकापेक्षा , तदेव नेत्याह –
न पृथिव्यादीनामिति ।
श्रुतार्थापत्त्यनुगृहीतश्रुतिभिर्जगदचेतनत्वश्रुतयश्चैतन्यानभिव्यक्तिपरत्वेन व्याख्येया इत्यर्थः॥४॥ प्रथमेऽध्याये ईक्षत्यधिकरणे इति।
मुख्यतयेति ।
ऐक्षतेत्यस्य मुख्यत्वं तेजआदिशब्दा लाक्षणिका एव तदिदमुक्तं –
कथंचिदिति॥५॥
साध्यासाधकः पक्षे एव वर्तमानोऽसाधारणः । यथा सर्वं क्षणिकं सत्त्वादिति।
एवं चैतन्यानन्वितत्वमपीत्याह –
तृतीयस्त्विति ।
प्रमाणेति ।
प्रमाणविषयस्य वचनयुक्त्याभासनिरासेन विवेचकतयेत्यर्थः ।
श्रवणपाश्चात्यासंभावनानिरासकवाचारम्भणत्वादितर्काभिप्रायम् मननस्य साक्षात्काराङ्गत्वं ध्यानव्यवधानेनेत्याह –
मतो हीति ।
अचेतनस्य जगत्कारणस्य सर्गोत्तरकालं विज्ञानात्मकजीवरूपता न सम्भवतीत्यर्थः ॥६॥
प्रागुत्पत्तेः कारणस्य सत्त्वात्तदभिन्नं कार्यं कथमसदत आह –
न कारणादिति ।
यदुक्तं न कारणात्कार्यमभिन्नमिति , तत्राह –
प्रतिपादयिष्यति हीति ।
पृथुबुध्नोदराकारादिस्वरूपेण कार्यं कारणान्न भिन्नम् , नाप्यभिन्नम् , न सन्न चासदतस्तद्रूपेण सत्ता दुःसाध्येत्यर्थः ।
फलितमाह –
एवं चेति ।
न केवलमुत्पत्तेः प्रागेव स्वरूपेण कार्यस्यासत्त्वमपि तु सर्वदेत्याह –
स्वरूपेण त्विति ॥७॥
यूषः शाकरसः । रूषयति मिश्रयति।
ननु घटादिलये यथा मृदो न तत्तद्रूषणमेवामिहेत्यत आह –
न चान्यथेति ।
निरन्वयनाशानभ्युपगमादीषदनुवर्तमानस्यान्यथालयो न लोकसिद्ध इत्यर्थः ॥८॥
निरन्वयनाशवादिनः कार्यधर्मरूपणं कारणे स्यान्न तवेति आशङ्कते –
स्यादेतदिति ।
कार्यस्य कारणतावन्मात्रत्वात्कारणानुवृत्त्या सान्वयनाशोक्तिराकस्मिकीत्याह –
यथा रजतस्येति ।
लौकिकः पुरुषो जीवोऽतश्च न साध्यसमत्वमित्यर्थः ।
जगत्कारणस्य जाग्रदाद्यभावाद्व्याचष्टे –
उत्पत्तीति॥९॥
उपरिष्टादिति ।
अनन्तर एव शिष्टापरिग्रहाधिकरणपूर्वपक्षे॥१०॥
सर्वस्तर्कोऽप्रतिष्ठित उत कश्चिद् , न चरम इत्याह –
नानुमानाभासेति ।
स्वाभाविकप्रतिबन्धो व्याप्तिः ।
नाद्य इत्याह –
अपि चेति ।
चरमो न केवलमविरुद्धः प्रत्युतानुगुण इत्याह –
अपि च विचारेति ॥११॥
नैषेति ।
एषा ब्रह्मविषया मतिस्तर्केण नापनेया प्रापणीयेत्यर्थः । अथवा – कुतः तर्केणापनेया निरस्या न भवति , किं तर्ह्यान्येनैवाचार्येण प्रोक्ता सती सुज्ञानाय फलपर्यन्तसाक्षात्काराय भवति। हे प्रेष्ठ प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् । कः अद्धा साक्षाद्वेद ब्रह्म को वा प्रावोचत् छन्दसि कालानियमात् प्रब्रूयादित्यर्थः । इयं विसृष्टिर्यत आबभूव स एव स्वरूपं वेद नान्य इति मन्त्रप्रतीकयोरर्थः । तं सर्वं परादान्निराकुर्याद् योऽन्यत्रात्मनः आत्मव्यतिरेकेण सर्वं वेदेत्यर्थः । अजं जन्मरहितम् । अनिद्रम् अज्ञानरहितम् । अस्वप्नं भ्रमरहितम् । अत एवाद्वैतं तदा बुध्यत इति संप्रदायविद्वचनार्थः॥
इति तृतीयं नविलक्षणत्वाधिकरणम् ॥
एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥१२॥ अतिदेशस्योपदेशवत्सङ्गतिः । यथा हि वेदविपरीतत्वात्सांख्यादिस्मृतिरतन्मूल , एवं ब्रह्मकारणवैपरीत्याज्जगन्न तन्मूलम् । तन्मूलत्वे हि ततो महत्स्यान्नाल्पमिति अतुल्यत्वाशङ्कायामतिदेशः स्यादिति , तामाह –
न कार्यमिति ।
इयमारम्भणाधिकरणे(ब्र.अ.२.पा.१.सू.१४) निरसिष्यमाणाऽप्यभ्युच्चयत्वेनेह निर्देश्यते । यत्तु वक्ष्यते उपादानत्वं च कारणस्य कार्यादल्पपरिमाणस्यैव दृष्टमिति सैवैतदधिकरणे निरस्येति। अस्य कार्यस्येत्यर्थः ।
कुलालादिव्यापारात्प्राक् मृद् , घटरहिता , तदानीं योग्यत्वे सत्यनुपलभ्यमानघटत्वाद् , गगनवत् , ततश्च सत्त्वविरोधान्न कार्यकारणयोरैक्यमित्याह –
किंचेति ।
येनेति ।
अर्थगतप्रत्यक्षपरोक्षत्वेनेत्यर्थः । घटादिकार्यस्य प्रागुत्पत्तेः सत्त्वे मानम् ‘असदकरणा’ दित्याद्यनुमानज उपलम्भोऽनुमितिरित्यनुमानम् । जगतस्तु प्रागवस्थायामागमज उपलम्भ आगमः ।
घटो यदि भिन्नो मृदः तर्हि तत्कार्यं न स्यादश्ववदिति तर्कस्य , स ततो यद्यभिन्नः , तर्हि तत्कार्यं न स्यान्मृद्वदिति प्रतिरोधमुक्त्वा मूलशैथिल्यमाह –
अत्यन्तेति ।
ननु यदि कुम्भात् कुम्भकारमृदोरत्यन्तभेदः , तर्हि कथमुपादाननिमित्तव्यवस्थाऽता आह –
तस्मादिति ।
परमाणोरपि मूर्तत्वात् क्षुद्रतरान्तराभ्यत्वमतो न क्षुद्रत्वविश्रान्तिरत आह –
क्षोदीयोऽन्तरेति ।
सहस्रसंवत्सरेति ।
‘‘पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविंशा विश्वसृजामयने सहस्रसंवत्सरमुपयन्ती’’त्यत्र संवत्सरशब्दस्य ह्युत्पत्तिवाक्ये मुख्यार्थलाभात् तावदायुष्कररसादिसिद्धमनुष्याद्यधिकारतामाशङ्क्य षष्ठे सिद्धान्तितम् । प्रकृतौ हि ‘’द्वादशाहे त्रयस्त्रिवृतो भवन्ति त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविंशा’’ इति त्रिवृदादिशब्दास्त्रिवृदादिस्तोत्रविशिष्टाह पराः समधिगताः । एवं चात्रापि पञ्चपञ्चाशतस्त्रिवृतः संवत्सरा इत्याद्युत्पत्तिवाक्येष्वहःपरत्रिवृदादिशब्दैर्निश्चितार्थैः सामानाधिकरण्यात्संवत्सरशब्दस्य स्वयं सौरचान्द्रादिनानोपाधित्वेनानिर्धारितार्थस्याहःपरतैव । एवं चोत्पत्तिमालोच्य सहस्रसंवत्सरशब्दोऽपि सहस्रदिवससाध्यकर्मपरः । औषधादिसिद्धिकल्पनाप्येवं न भवति। तस्मान्मनुष्योऽधिकारीति ।
आरम्भे हि न्यूनपरिमाणान्महदुदयनियमो न निवर्तते , उन्नततरगिरिशिखरवर्तिमहातरुषु भूमिष्ठस्य दूर्वाकारनिर्भासप्रतिभासोपलम्भादित्याह –
अविद्यासमारोपेणेति॥
इति चतुर्थं शिष्टापरिग्रहाधिकरणम्॥
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्॥१३॥ अद्वयब्रह्मणो जगत्सर्गवादिनः समन्वयस्य भेदग्राहिमानविरोधसंदेहे सङ्गतिगर्भमगतार्थत्वमाह –
प्रवृत्ता हीति ।
पूर्वत्र जगत्कारणे तर्कोऽप्रतिष्ठित इत्युक्तम् , तर्हि जगद्भेदे तर्कः प्रतिष्ठित इत्यद्वैतविरोधेन प्रत्यवस्थानात्सङ्गतिः । अत एव लब्धप्रतिष्ठतर्केण श्रुतेर्मुखनिरोधादगतार्थत्वं चेत्यर्थः ।
प्रवर्तमानेति ।
स्वविषयप्रतिष्ठविरोधितर्केण सहोन्मज्जननिमज्जनमनुभवन्ती बलाबलविवेकमपेक्षमाणेत्यर्थः । एतद्वैधर्म्यं च प्रवृत्तत्वम् ।
तर्कस्य प्राबल्यमाह –
स्फुटतरेति ।
स्थूलनीलादिभेदगोचरत्वात्स्फुटतरत्वम् । प्रतिष्ठितत्वमनुपचरितत्वम् ।
आम्नायो ह्युपचारेणापि सावकाश इति वर्तमानविभागेनापि विरोधसिद्धेर्वर्तमानसाम्योपपादनमतीतानागतयोर्भाष्येऽनुपयोगीत्याशङ्क्य वर्तमानविभागसत्यत्वं फलितमाह –
यदीति॥१३॥
इति पञ्चमं भोक्त्रापत्त्यधिकरणम्॥
तदनन्यत्वमारम्भणशब्दादिभ्यः॥१४॥ पूर्वाधिकरणेऽपि भेदग्राहिमानविरोधोक्तेः पुनरुक्तिमाशङ्क्याह –
पूर्वस्मादिति ।
अङ्गीकृत्य हि भेदग्राहिमानस्य प्रामाण्यं भेदाभेदयो रूपभेदेन विरोधः परिहृतः , इदानीं त्वस्वीकृत्य प्रामाण्यं तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे व्यवस्थाप्यते । एवंभूतविशेषाभिधानेनोपक्रमो यस्य विरोधपरिहारस्य स तथोक्तः । तदनन्यत्वपदेन द्वैतमिथ्यात्वोक्तेरेवमुपक्रमत्वम् । श्रुतौ परिणामिमृदादिदृष्टान्तोपादानान्न भेदाभेदविवक्षेति मन्तव्यम् ।
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायां प्रधानस्यानुरोधेन गुणभूतदृष्टान्तस्य विवर्तपरत्वेन नेयत्वादित्याह –
एवं हीति ।
ननु परिणामपक्षेऽप्यभेदांशेन सर्वज्ञानं स्यादत आह –
तत्त्वज्ञानं चेति ।
भेदालीकताया उक्तत्वादित्यर्थः ।
उपपादितमधस्तादिति ।
शिष्टापरिग्रहाधिकरण(ब्र.अ.१ पा३ सू.२४ –३३) पूर्वपक्ष इत्यर्थः ।
दृष्टान्तमात्रान्नार्थसिद्धिरिति भाष्ये हेतुरुक्त – दृष्टेति ।
तं व्याचष्टे –
ये हीति ।
क्वचिद्दृष्टं पुनर्नष्टमनित्यमित्यर्थः । दृष्टग्रहणं प्रतीतसमयेऽपि सत्त्वव्यावृत्त्यर्थम् ।
व्यतिरेकव्याप्तिमाह –
यदस्तीति ।
विमतं मिथ्या , सावधिकत्वाद्व्यतिरेके चिदात्मवदित्यनुमानस्य विपक्षे बाधकतामाह –
सत्स्वभावं चेदेति ।
सत्त्वासत्त्वे विकारस्य स्वरूपमुत धर्मौ , अथार्थान्तरमलीकं वेति विकल्प्य क्रमेण निराकुर्वन्ननुमानस्यानुकूलतर्कमाह –
असत्स्वभावं चेत्यादिना ।
अर्थान्तरत्वेऽपि विरोधित्वं शङ्कते –
असत्त्वमिति ।
विरोधिभूतमसत्त्वं भावस्य किमकिंचित्करमुतासत्व करं स्वरूपं वेति विकल्प्य क्रमेण दूषयति –
नेत्यादिना ।
किंचित्करत्वे यत्किंचिदसत्त्वं क्रियते तदपि स्वरूपं धर्मो वेत्यादि विकल्प्य तद्दूषणानां सम्भवादित्यर्थः । असत्त्ववत्सत्त्वेऽपि अर्थान्तरत्वादिविकल्पा द्रष्टव्याः । अर्थान्तरत्वादपि विकारे फलाभावात्सत्त्वान्तरजन्मनि चानवस्थानाद् विकारे सत्त्वान्तरं न भवति , किन्तु स एव सन् भवतीत्युक्तेऽपि त्स्वभावस्यासत्त्वविरोधेन विकारनित्यत्वापातादिति।
ननु कार्यमिथ्यात्वं कारणसत्यत्वं चानुमानसिद्धं श्रुत्या दृष्टान्तीकर्तुमयुक्तम् , लोकसिद्धस्य दृष्टान्तत्वोक्तेरित्याशङ्क्याह –
यत्रेति ।
मृदेका शरावादायः परस्परं भिन्ना इत्यभ्युपगमेऽत्यन्तभेद एव स्यात् ।
अथ मृदात्मना शरावादीनामेकत्वं मृदश्च शरावाद्यात्मना नानात्वमिति मतम् , तद् विकल्प्य दूषयति –
इदं तावदित्यादिना ।
अत्यन्ताभेदे ह्यपुनरुक्तशब्दद्वयप्रयोगो भेदाभेदयोः कार्यकारणात्मना व्यवस्था च न स्यादित्याह –
तत्रेति ।
न चानेकान्तवाद इति ।
भेदपक्षेऽनेकान्तवादश्च न भवतीत्यर्थः ।
न भवेदपीति ।
अनेकान्तत्वान्न भवेदपीत्यपेरर्थः । सत्यवादिनस्तस्करत्वेनारोपितस्य मोक्षवत्सत्यब्रह्मात्मत्ववेदिनो मोक्ष इति तस्करदृष्टान्तः ।
अहंममाभिमानयोरेकत्र व्याघातः स्यादिति प्रविभज्य योजयति –
शरीरादीनीति ।
ननु मिथ्यात्वे श्रवणादीनामविद्यानिवृत्तिसमर्थसाक्षात्कारहेतुत्वं न स्यादत आह –
सांव्यवहारिकं त्विति ।
असत्यादपि कार्यक्षमपदार्थोत्पत्तिमनन्तरमेव वक्ष्याम इत्यर्थः ।
यद्यसत्यात्सत्यधीः स्यात् , तर्हि धूमाभासादपि वह्निधीः समीचीना स्यादित्युक्तम् , इत्याशङ्क्याह –
न च ब्रूम इति ।
धूममहिषी धूमी । सा च बाष्पः । असत्यादपि सत्यमुत्पद्यत इत्युच्यते न पुनरसत्यात्सत्योत्पादनियम इत्यर्थः ।
यदि पुनः कुतश्चिदसत्यात्सत्यं जातमिति सर्वं स्मादसत्यात्सत्यजन्मापाद्यते , तर्हि किंचित्सत्यं कस्यचित्सत्यस्य जनकमिति तत एव सर्वं सत्यं स्यादिति प्रतिबन्दीमाह –
न हीति ।
चोद्यसाम्यमुक्त्वा परिहारसाम्यमाह –
यत इति ।
यतो नियमादित्यर्थः । ज्या वयोहानावित्यस्य निष्ठायां संप्रसारणे नञ्समासे चाऽजीनमिति रूपम् । अस्मादध्यस्तदीर्घभावाद्यद्यपि ज्योनेर्वयोहानेरभावं सत्यमवगच्छति। वक्ता तु ह्रस्वत्वेनाजिनमिति उच्चरिते भ्रमादजीनमिति गृहीतादस्माच्छब्दाद्या वयोहानिप्रतीतिः सा भ्रान्तिरजिनशब्दो हि चर्मवचन इति ।
अत्र यथा आरोपितत्वाविशेषेऽपि किंचिद्दैर्ध्यं सत्यबोधकं किंचिदसत्यबोधकमेवमस्माकमपीत्यर्थः । पायं पायं पीत्वा पीत्वा । तारक्षवीं व्याघ्रमयीं तनुमास्थायेत्यन्वयः । व्याप्तं विवृतं विकटाभ्यां वक्त्रभ्यां दंष्ट्राभ्यां करालं भयानकम् आननं यस्याः सा तथोक्ता । उत्तब्धम् उन्नमय्य धृतम् । बम्भ्रमदत्यर्थं भ्रमन्मस्तकावचुम्बि लाङ्गूलं यस्याः सा तथा । ध्वस्ते इतस्ततो विक्षिप्ते लोचने यस्याः सा तथा । अमित्रमभि प्रतियोद्धुं गताम् अभ्यमित्रीणाम् । स्फटिकशैलप्रतिबिम्बितां ह्यमित्रमिति भ्रमादात्मतनुं धावन्तीं सुप्तो व्याघ्रतनुमास्थितः पश्यतीति। यदि स्वप्नदृशोऽवगतिरबाधिता स्यात् , तर्ह्येवोपपद्यत इत्यर्थः । भेदाभेदव्यवहारौ भेदाभेदोपपादकाविति वदन् प्रष्टव्यः किं ब्रह्मज्ञानात्प्राचीनौ तदुपपादकौ पराचीनौ वेति।
नाद्य इत्युक्तं –
नानात्वांशेन कर्मकाण्डाश्रय इत्यादिना ।
तत्त्वज्ञानात्प्रागभेदव्यवहारस्याप्राप्तत्वान्न स उपन्यस्तः ।
द्वितीयमिदानीं शङ्कते –
यच्चोक्तमिति ।
एकत्वज्ञानोत्तरकालम् एकत्वव्यवहारोऽपि नास्ति , नतरामनेकत्वव्यवहार इति परिहरति –
यदि खल्विति ।
डुलिः कच्छपी । न तस्याः क्षीरमस्ति , स्मृत्या हि साऽपत्यानि पोषयति। अवगतिर्वृत्ति व्यक्तं स्वरूपम् ।
यथा खलु घटध्वंसो घटविरोधिकार्योदय एव , नाभावस्तस्य तुच्छत्वेन कार्यत्वायोगादेवमविद्यानिवृत्तिरपि विरोधिविद्याभिव्यक्तिरित्याह –
अविद्याविरोधिस्वभावतयेति ।
अविद्यानिवृत्तिर्यदि विद्यायाः स्वरूपं , कथं तर्हि विद्याफलमत आह –
अविद्यानिवृत्तिश्चेति ।
न वयं ज्ञानात्पराचीनव्यवहाराय द्वैतसत्यत्वं कल्पयामः , किन्तु प्राचीनसिध्द्यर्थमेवेति शङ्कते –
स्यादेतदिति ।
एकत्वनिबन्धनो व्यवहारो मा भूत् । द्वैतसत्यत्वाक्षेपक इति शेषः । पूर्वं नानात्वांशेन कर्मकाण्डाश्रय इति ग्रन्थे प्रमाणसिद्धाद्भेदव्यवहाराद्भेदसत्यत्वमाशङ्क्य परिहृतम् , इदानीं सर्वलोकप्रसिद्धेर्भेदसत्यत्वमाशङ्क्य देहात्मभाववद् मिथ्यात्वेऽपि तदुपपत्तिमाहेति भेदः॥१४॥
कार्यं कारणादभिन्नं तद्भाव उपलब्धेरित्यापातसिद्धे सूत्रार्थे दोषं दृष्ट्वा व्याख्याति –
कारणस्य भाव इति ।
भाव इत्यस्य व्याख्यानं –
सत्ता चेति ।
ननु कारणस्य भाव एव सूत्रे प्रतीयते , कार्यस्योपलब्धिरेव , तत्कथमुभयत्रेतरेतरविशिष्टयोर्हेतुत्वमत आह –
एतदिति ।
विषयपदं भावपरम् , भावो ह्युपलब्धिविषय इति तद्दण्डिन्यायेन विषयविषयिपरम् । एवं विषयिपदमुपलब्धिपदमप्युभयपरमित्यर्थः । उपादेयं कार्यम् ।
सविशेषहेतौ फलमाह –
तथा चेति ।
उपलब्धावुपलब्धेरिति हेतूकारे प्रभासाक्षात्कारे साक्षात्कृतेन चाक्षुषेण व्यभिचारः स्यात् । न हि घटादेः प्रभायाश्चाभेदस्तन्निवृत्त्यर्थं भावे भावादिति विशेषणम् । न हि प्रभाया भाव एव घटो भवतीत्यर्थः ।
यदा तद्भावानुरक्तधीबोध्यत्वं हेत्वर्थस्तदापि भाति घट इति प्रभानुरक्तधीगम्येऽनेकान्तस्तदिदमुक्तं –
प्रभारूपानुविद्धेति ।
यदि भावे भावादिति हेतुस्तर्हि वह्निभावे भवति विशिष्टधूमेऽनेकान्तः स्यात् ।
उपलब्धावुपलब्धेरिति विशेषेण तु न भवेद्धूमस्य वह्न्युपलब्धावेवोपलब्धिरिति नियमाभावादित्याह –
नापीति ।
तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदाम इति भाष्यम् ।
अत्र कारणस्वभावानुविद्धा कार्यबुद्धिर्हेतुत्वेनोक्तेति न भ्रमितव्यम् ; तत्रापि व्यभिचारस्योक्तत्वात् , किंतु सूत्रगतोपलब्धिं बुद्धिं कार्यकारणोभयविषयां तयोः कार्यकारणयोर्भावेन सत्तयोपरक्तां विशेषितां हेतुं वयं वदाम इति भाष्यार्थ इत्याह –
तदनेनेति ।
हेतुविशेषणमुक्तं न हेत्वन्तरपरत्वेन व्याख्यानमित्यर्थः ।
पटस्य तन्तुव्यतिरेकेणानुपलम्भः समवायस्य भेदतिरोधायकत्वादन्यथासिद्ध इत्याशङ्क्याह –
न चेति ।
सम्बन्धस्य भिन्नाश्रितत्वाद्भेदसिद्धौ समवायः समवायाच्च व्यतिरेकानुपलब्धौ समाहितायां भेदसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।
पटस्तन्तुभ्यो भिद्यते तदुपलम्भेऽपि कुविन्दव्यापारात्प्रागनुपालब्धत्वात् कुम्भवदित्यनुमानाद्भेदसिद्धेर्नेतरेतराश्रयमित्याशङ्क्याह –
न च भेद इति ।
अभेदवादिनस्तन्तूपलम्भे तदभिन्नपटोपलम्भाद्धेत्वसिद्धिरित्यर्थः ।कारणसत्त्वे तन्त्वादि सत्यं स्यादित्याशङ्क्याह –
अनयेति ॥१५॥
उपपत्तिश्चात्र भवतीति ।
आहेति शेषः ।
उपपत्तिमेव दर्शयति –
न हीति ।
यथा मृदि घटो मृदात्मनाऽस्ति , तथा सिकतायां तदात्मना न तैलमस्ति , तदुपादानोपादेयत्वाभावकृतमित्यर्थः ।
ननु मृदेव घटोत्पत्तेः प्रागस्ति , कथं तदात्मना घटस्य सत्ता ? अत आह –
प्रत्युत्पन्नो हीति ।
उत्पन्नस्य घटस्य मृदात्मत्वदर्शनान्मृदि सत्यां घटसत्त्वं युक्तमित्यर्थः । इत्थं तर्किते कार्यकारणाभेदे प्रयुज्यते - घटत्वं , मृन्निष्ठं घटनिष्ठत्वात्सत्त्ववदिति। एवं जगद्ब्रह्मणोरभेदेऽपि शब्दो ब्रह्मवृत्तिः , आकाशवृत्तित्वात्सत्त्ववदिति ।
कार्यस्य कालत्रये सत्यत्वं भाष्योक्तमयुक्तम् ; तथा सति कर्यत्वव्याघातादित्याशङ्क्यानिर्वाच्यरूपस्य कादाचित्कत्वेऽपि कार्यस्य तत्त्वमधिष्ठानं तच्च नित्यमिति युक्तितः प्रतिपादयति – यथा हि घट इति । कार्यस्य सत्त्वं स्वरूपं धर्मो वा । आद्ये तस्य कदाचिदसत्त्वं न स्यात् । धर्मत्वे च सत्त्वाऽसत्त्वयोर्धर्मयोः कार्यस्य धर्मिणोऽन्वयात् कादाचित्कत्वव्याहतिरित्याद्युपपादितम् । अधस्तात् दृष्टनष्टस्वरूपत्वादिति भाष्यव्याख्यानावसर इत्यर्थः ।
कार्यस्य त्रिषु कालेषु सत्त्वे कारणस्यापि तथात्वाद् द्वे सत्त्वे स्यातां , तथाचाभेदासिद्धिरित्युक्ताभिप्रायानभिज्ञः शङ्कते –
सत्त्वं चेदिति ।
त्रिष्वपि कालेषु कार्यस्य सत्त्वं चेदित्यर्थः । कार्यकारणयोः स्वरूपसत्त्वं चैकमित्यर्थः ।
यदि कार्यकारणयोरेकसत्त्वादभेदादभिन्नत्वं , तर्हि तस्यापि द्वाभ्यामभेदाद्भेदापत्तिरित्याशङ्क्याह –
न च ताभ्यामिति ।
न हि वयं सत्त्वेन कार्यकारणयोः साक्षादभेदं ब्रूमः , किंतु तत्र तयोरारोपितत्वेन तद्व्यतिरेकेणाभावम् ।
यदि मन्येत सत्त्वमेव कार्यकारणयोरारोपितमस्त्विति , तत्राह –
तथा सति हीति ।
स्वकृतस्यैव प्रसञ्जनमयुक्तं दर्शयितुं तामेव पक्षविभागपूर्वकमाह –
तत्रेति ।
भेदः कार्यकारणलक्षणः । सत्त्वमभेदः । अस्मादयं भिन्न इत्यत्र पञ्चम्युल्लिखितावधेर्ग्रहो धर्मिणः सकाशादगृहीतभेदस्य न सम्भवति। भेदग्रहश्च नागृहीते प्रतियोगित्वे उपपद्यते ।
धर्मिणोपि स्वापेक्षया तत्प्रसङ्गात्ततश्चान्योन्याश्रयग्रस्तभेद एवारोपितो नाऽभेद इत्याह –
वयं त्विति ।
यस्तु – अयमन्योन्याश्रयस्य केनचिदुद्धारः कृतः , प्रतियोगित्वेनाप्रतीतावधिकरणत्वप्रतीतिरधिकरणत्वेनाप्रतीतौप्रतियोगित्वप्रतीतेश्च भेदग्रहणकारणं , न भेदेन गृहीतत्वम् । एकं हि अन्योन्याभावाख्यभेदं प्रति स्तम्भकुम्भयोरधिकरणत्वं प्रतियोगित्वं चास्ति। अतः स्वस्मादपि स्वस्य भेदग्रहवारणाय प्रतियोगित्वेनेत्यादिविशेषणम् । स्तम्भाद्भिन्नः कुम्भ इत्यत्र हि स्तम्भः प्रतियोगित्वेनैव प्रतीयते नाधिकरणत्वेन । कुम्भश्चाधिकरणत्वेन न प्रतियोगितया । कुम्भाद्भिन्नः स्तम्भ इति प्रतीत्यन्तरे तु तमेव भेदं प्रति कुम्भः प्रतियोगितया प्रतिभाति , स्तम्भश्च धर्मितया । ततश्चोक्तविधवस्तुप्रतीतिर्भेदग्रहे हेतुरिति क्वेतरेतराश्रयम् – इति सोऽसाधुः ; भेदाधिकरणत्वेन भेदप्रतियोगित्वेन च प्रतीतेरपेक्षायामन्योन्याश्रयादनिस्तारात् , यस्य कस्यचिदधिकरणत्वेन प्रतियोगित्वेन च प्रतीत्यपेक्षायां सत्ताधिकरणत्वेन पुरोदेशादन्यदेशगतसंसर्गाभावं प्रति प्रतियोगित्वेन च स्फुरतः शक्तिदमंशस्य रजताद्भेदग्रहप्रसङ्गेन भ्रमानुदयप्रसङ्गाद्वस्तुवृत्तेन भेदाधिकरणस्य तत्प्रतियोगिनश्च स्वरूपेण प्रतीत्यपेक्षाप्यत एवापास्तः , स्वरूपेण गृहीतयोः शुक्तीदमंशरजतयोर्वस्तुवृत्तेन तथाभूतयोर्भेदग्रहप्रसङ्गात् । एवं स्वरूपं भेद इति चात एवापास्तम् । असाधारणं स्वरूपं भेद इत्यपि न ; असाधारणत्वस्य भेदग्रहाधीनग्रहत्वेन भेदान्तरापेक्षायां स्वरूपभेदाभ्युपगमभङ्गादिति दिक् ।
भेदेनोपजीव्यत्वाच्चाभेदो नाध्यस्त इत्याह –
एकैकेति ।
वीप्सया भ्रान्तभेदानुवादः । अत एवैकाभाव इत्युक्तम्॥१६॥ व्याकृतनामरूपत्वादिति भाष्ये व्यक्ताव्यक्तस्वीकृतेः सांख्यवादापात इत्याशङ्क्याह – व्याकृतत्वेति॥१७॥ नान्याऽसतीति भाष्ये असतीति च्छेदः ।
कार्यरूपेण च सत्त्वं शक्तेरापाद्यते , तथा सति हि कार्यस्यासत्त्वप्रतिक्षेपः सिध्यतीति मन्वान आह –
नाप्यसतीति ।
भावाच्चेति द्वितीयपाठव्याख्यायां कारणातिरेकेण कार्यानुपलम्भस्योक्तत्वात्पुनरुक्तिमाशङ्क्याह –
यद्यपीति ।
स्वपरनिर्वाहकत्वात्समवायः सम्बन्धान्तरानपेक्षश्चेत्संयोगोऽपि नापेक्षेतेति प्रतिबन्दी , सा संयोगस्य कार्यस्वरूपविशेषादयुक्तेत्याशङ्क्य नित्ये आत्माकाशसंयोगे तस्यासिद्धिमाह –
अजेति ।
अजसंयोगमनिच्छन्तं प्रति सर्वत्रासिद्धमाह –
अपि चेति ।
अस्तु संयोगनित्यत्वाभावाय समवायोऽप्यनित्यः , तथापि नानवस्था ; समवायस्य समवायिकारणानभ्युपगमेन निमित्तकारणमात्रात्तदुत्पत्तेः समवायान्तराप्रसङ्गादित्याशङ्क्याह –
तथासतीति ।
ततः संयोगस्य समवायिकारणमिच्छता समवायस्यापि तदेष्ठव्यमित्यनवस्था तदवस्थैवेत्यर्थः । नानात्वेन सहैक आश्रयो यस्य स सम्बन्धस्तथोक्तः ।
उत्पत्तिकर्तुः कार्यस्य प्रागुत्पत्तेर्नासत्त्वमित्युक्ते तत्रोत्पत्तेर्न कार्यं कर्तृ , किंतु कारणमिति शङ्कते –
यद्युच्येतेति ।
यद्यप्युत्पद्यते घट इति कार्यस्य कर्तृत्वं भाति ; तथापि गौण्या वृत्त्या कारणस्य । तत्र च सिद्धेषु कपालेषु जायत इति पूर्वापरकालव्यासक्तप्रयोगानुपपत्तिः कार्योत्पादनाया व्यासक्तत्वादित्यर्थः ।
कपालकर्तृका घटविषयोत्पादना नोत्पत्तिः , सा तु घटकर्तृकेति परिहरति –
उत्पादनाहीत्यादिना ।
यद्युत्पत्तिरुत्पादनैव , तर्हि उत्पादनायामिवोत्पत्तावपि सकर्मकत्वाद् घटस्य कर्मत्वं व्यपदिश्येत , न चैवमस्तीत्यर्थः । भृत्यो हि घटं करोति स्वामी कारयति तत्र यथा करोतिकारयत्योराश्रयभेद एवमत्रापीत्यर्थः ।
धातूपात्तव्यापारः कर्त्तेति कर्तृलक्षणयोगाच्च घट एवोत्पत्तिकर्तेत्याह –
एवं चेति ।
स्वकारणे कार्यस्य समवायो जन्म स्वस्मिन्नसति कार्ये सत्तासमवायो वेत्यर्थः ।
भिन्नमेवेति ।
सामानाधिकरण्येन हि भिन्नमिवाभिन्नमिव चकास्तीति ।
अनयैवेति ।
इतरथा हि सांख्यवादः स्यादिति ।
भाष्यगतमूलकारणशब्देन ब्रह्मणोऽन्यः कश्चिन्मायाप्रतिबिम्बितो नाभिधीयते । तथा सति तस्य परिच्छन्नत्वादधिकरणोपक्रमोक्तस्य कारणविज्ञानात्सर्वविज्ञानस्यासम्भवप्रसङ्गात्किंतु सर्वाधिष्ठानमित्याह –
मूलकारणमिति॥१८॥
स्वशत्तया नटवद् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीवभ्रान्तिनिमित्तं तद् बभाषे भामतीपतिः॥ अज्ञातं नटवद् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीवाज्ञातं जगद्बीजं जगौ वाचस्पतिस्तथा॥१९॥
कार्यमुपादानाद् भिन्नं , तदुपलब्धावपि अनुपलब्धत्वात् , ततोऽधिकपरिमाणत्वाच्च सम्मतवदित्यनुमानयोर्व्यभिचारार्थं - पटवच्चेति सूत्रम् । तस्यामेव प्रतिज्ञायां भिन्नकार्यकरत्वस्य व्यभिचारार्थं –
यथा च प्राणादि इति॥२०॥
इति षष्ठमारम्भणाधिकरणम्॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः॥२१॥ जीवाभिन्नं ब्रह्म जगदुपादानं वदन्समन्वयो यदि तादृग् ब्रह्म जगज्जनयेत् , तर्हि स्वानिष्टं न सृजेदिति न्यायेन विरुध्यते न वेति संदेहे पूर्वत्र कार्यकारणानन्यत्ववद् घटाकाशकल्पजीवानामपि महाकाशोपमब्रह्मात्मैक्यमुक्तं , तस्य हिताकरणाद्यनुपपत्तिभिराक्षेपात्सङ्गतिः । ननु ‘’सोऽन्वेष्टव्य’’ इत्यादिभेदनिर्देशात् कथं पूर्वपक्षस्तत्राह –
यद्यपीति ।
यदि भेदाभेदावेकत्र विरुद्धौ , तर्ह्यभेद एव भेदेन बाध्यतामत आह –
न च भेद इति ।
इत्युक्तम् । अनन्तराधिकरण इत्यर्थः ।
ननु स्वाभाविकं ब्रह्मणैकत्वं जीवा अविद्योपहिताः स्वेषां न जानन्तीति हितेऽप्यहितभ्रमादकरणमुपपन्नमत आह –
तेनेति॥२१॥
तद्वदभिमान इति ।
पश्यतीत्यन्वयः । यद्यपि परमात्मनो दर्शनक्रियाश्रयत्वमनुपपन्नम् ; तथापि पुरुषः स्वप्रकाश एव तत्तद्विशेषेणोपरक्तस्तं तं यथावस्थितं भासयतीति अतः पश्यतीति निर्दिश्यते॥२२॥२३॥
इति सप्तममितरव्यपदेशाधिकरणम् ॥
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि॥२४॥ ब्रह्म नोपादानमसहायत्वात्संमतवदिति न्यायेन समन्वयस्य विरोधसन्देहे पूर्वत्रौपाधिकजीवब्रह्मभेदाद्धिताकरणादिदोषः परिहृतः , इह तूपाधितोऽपि विभक्तमधिष्ठात्रादि नास्तीति पूर्वपक्षमाह –
ब्रह्म खल्वित्यादिना ।
एकमित्युपादानभेदवारणम् । अद्वितीयतयेति सहकारिनिषेधः ।
एकत्वप्रयुक्तं दूषणमाह –
न ह्येकरूपादिति ।
कारणवैजात्ये हि कार्यवैजात्यमित्यर्थः ।
न केवलं कार्यवैजात्यायोग एकजातीयकार्याणामपि क्रमयोग इत्याह –
न चाक्रमादिति ।
समर्थमपि सहकार्यपेक्षं सत् क्रमेण कुर्यादित्याशङ्कामपनयन्नद्वितीयत्वप्रयुक्तामनुपपत्तिमाह –
अद्वितीयतया चेति ।
भाष्यस्थकारकसाधनपदयोरपौनरुक्त्यमाह –
एकैकमिति ।
समग्राणां भावः सामग्र्यम् ।
कथं तस्य साधनशब्दाभिधेयत्वमत आह –
ततो हीति ।
साधयत्येवेति ।
साधनमित्यर्थः॥ श्रुतौ – करणं निष्पादनम् । अत्यन्तव्यतिरिक्तत्वं स्वधर्मत्वेनानन्तर्भूतत्वम् । एकस्मिन्काले उषित्वा तं परित्यज्य कालान्तरेऽपि वासः परिवासः पर्युषितमिति दर्शनात् । आन्तरत्वं नाम स्वधर्मत्वम् । मायिनं मायाविषयम् । अज्ञातत्वस्य वस्तुधर्मत्वात् तद्द्वारेण मायाख्यमज्ञानमपि धर्म इत्यान्तरत्वम् ।
ननु मायाया अप्यक्रमत्वात् कथमक्रमात्कारणात् कार्यक्रमस्तत्राह –
कार्यक्रमेणेति ।
तस्या मायायाः परिपाकस्तत्तत्कार्यसर्गं प्रति पौष्कल्यम् । तस्य क्रमोऽपि कार्यक्रमान्यथानुपपत्त्या कल्प्य इत्यर्थः ।
पूर्वमविद्यासाचिव्यादसहायत्वमसिद्धमित्युक्तम् , इदानीमङ्गीकृत्यापि तदनैकान्तिकत्वमाह –
एकस्मादपीति ।
शरे उत्पन्नं हि कर्म पूर्वाकाशप्रदेशविभागमुत्तरप्रदेशसंयोगं शरे च वेगाख्यसंस्कारं जनयतीत्यनैकान्तिकम् । असहायत्वं नानाकार्यानुत्पादमित्यर्थः॥२४॥
असहायस्योपादानत्वं क्षीरवदुपपाद्यासहायस्याधिष्ठातृत्वसमर्थकं सूत्रमवतारयति –
यदि त्विति॥२५॥
इत्यष्टममुपसंहारदर्शनाधिकरणम्॥
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा॥२६॥ सावयवस्यैव नानाकार्योपादानतेति न्यायेन समन्वयस्य विरोधसन्देहे पूर्वाधिकरणोक्तक्षीरदृष्टान्तात् परिणामित्वभ्रमे तन्निरासात् संगतिमाह –
क्षीरेति ।
तस्मादविकृतं ब्रह्मेति भाष्यं तदस्तीति तत्त्वत इति च पदाध्याहारेण व्याचष्टे –
तस्मादिति ।
इतरथा हि मायामयविकारनिषेधे जगत्सर्गो न स्यादस्तीत्यनुक्तौ च साकाङ्क्षत्वं स्यादिति निरवयवेऽपि ब्रह्मणि विचित्रशक्तिवशेनाकृत्स्नप्रसक्तेरुक्तत्वाच्चोद्यानुपपत्तिमाशङ्क्य शक्तीनामवस्तवत्वकथनार्थत्वेन परिहरति –
अविद्येति॥२६॥२७॥२८॥
अवस्तुत्वात्समुदायो न परिणमते , समुदायिष्वपि यदि सत्त्वमात्रं परिणमते , न रजस्तमसी , ततो मूलोच्छेदो न स्यान्न चैतदस्ति इत्याह –
यद्यपि समुदाय इति ।
द्व्यणुकमारब्धुमणुना संयुज्यमानोऽणुरुपर्यधःपार्श्वतश्चतसृष्वपि दिक्षुकदाचित् कश्चित्संयुज्यते , ते च सर्वे तेन समानदेशा इति प्रथिमानुपपत्तेर्द्व्यणुकपिण्डः परमाणुमात्रः प्रसज्येतेत्यर्थः । अव्याप्यवृत्तौ संयोगस्य तावन्नैकत्र भावाभावावित्युक्तम् ।
अथ प्रदेशभेदेन भावाभावौ तत्राह –
अव्यापने वेति ।
कार्यकारणभाव आरम्भः॥२९॥
इति नवमं कृत्स्नप्रसक्त्यधिकरणम्॥
सर्वोपेता च तद्दर्शनात्॥३०॥ मायाशक्तिमद्ब्रह्मणः जगत्सर्वं वदतः समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधसंदेहे संगतिमाह –
विचित्रेति ।
अन्तर्याम्यधिकरणे (ब्र.अ.१.पा.३.सू.१८) त्वविद्योपार्जितत्वसम्बन्धे जगद्ब्रह्मणोः सिद्धे शरीररहितस्यापि नियन्तृत्वसम्भव उक्तः , इह त्वशरीरस्याविद्यैवाक्षिप्यत इति भेदः॥३०॥
तदुक्तमित्येतद्देवादिवदपीति (ब्र.अ.२.पा.१.सू.२८) सूत्रोक्तिपरत्वेन व्याचष्टे –
कुलालादिभ्य इति ।
आत्मनि चैव (ब्र.अ.२.पा.१.सू.२५) मिति सूत्रोक्तिपरत्वेनापि व्याचष्टे –
यथा त्विति ।
शक्तिमन्तो देवादयो यद्यपि शरीरिणः , तथापि बाह्यसाधनानपेक्षाः । यदि तु तत्र दृष्टं शरीरित्वं शक्तिमत्त्वेन ब्रह्मण्यापाद्यते , तर्हि कर्तृत्वेन कुलालादिषु दृष्टं बाह्यसाधनापेक्षत्वं देवादिष्वप्यापाद्येतेति प्रतिबन्ध्या प्रमेयसंभावनोक्ता । श्रूयमाणम् इति प्रमाणमुक्तम्॥३१॥
इति दशमं सर्वोपेताधिकरणम्॥
न प्रयोजनवत्त्वात्॥३२॥ परितृप्ताद्ब्रह्मणो जगत्सर्गवादिसमन्वयस्य ब्रह्म न विना प्रयोजनेन सृजति , अभ्रान्तचेतनत्वात्संमतवदिति न्यायेन बाधसंदेहे पूर्वत्र सर्वशक्ति ब्रह्मेत्युक्तं , तर्हि शक्तस्यापि प्रयोजनाभिसंध्यभावादकर्तृत्वमिति पूर्वपक्षमाह –
न तावदित्यादिना ।
तादर्थ्येन सुखार्थत्वेन । प्रवृत्तौ प्रवृत्तेः प्राक् सुखाभावे सति कृतार्थत्वानुपपत्तेरित्यर्थः । अविद्योपहितजीवान् करेणापिधायानुग्राह्याभाव उक्तः । न दृष्टः प्रयोजनोद्देशलक्षणो हेतुरस्या इत्यदृष्टहेतुका । औत्पत्तिकी पुरुषस्योत्पत्तिमारम्भ प्रवृत्ता । अदृष्टहेतुकत्वस्य विवरणं – प्रयोजनानुसन्धानमन्तरेण इत्येतत् ।
स्वापादौ प्रयोजनानभिसन्धिरूपे श्वासे साध्याभाववद्धेतोरपि चेतनकर्तृकत्वस्याभावान्न व्यभिचार इत्याशङ्क्याह –
न चास्यामिति ।
जाग्रदादौ चेतनस्य जानतोऽपि चैतन्यमस्यां श्वासादिप्रवृत्तावनुपयोगि , सुषुप्तेऽपि तस्याभावादिति च न युक्तम् ; कुतः ? प्राज्ञस्य सुषुप्तस्यापि स्वरूपचैतन्याप्रच्युतेरित्यर्थः॥३२॥ यदुक्तं लीलाया अपि सुखप्रयोजनत्वादिति , तत्राह – सत्यपीति । अनुद्दिश्य प्रयोजनं न करोति इति साध्ये त्वभ्रान्तचेतनत्वं लीलाकर्तरि सव्यभिचारम् इत्यर्थः ।
ननु यद्बह्वायाससाध्यं तत्प्रयोजनाभिसंधिपूर्वकमिति व्याप्तिरभिमता , तथा च न लीलादौ व्यभिचारस्तत्राह –
दृष्टं चेति ।
तदप्यस्मदाद्यपेक्षया जगद्बह्वायाससाध्यं भाति ; तथापि न ब्रह्मापेक्षयेति न प्रयोजनाभिसंध्यापात इत्यर्थः । नगैः पर्वतैर्हनुमत्प्रभृतिभिः कर्तृभिर्न बद्ध इत्यर्थः । तत्तर्हीत्यन्वयः । एतच्छक्यत्वे निदर्शनम् । एषः नीरनिधिः समुद्रः । शिलीमुखैः शरैर्न बद्धः । न च नीरनिधिर्न पीत इतीषत्करत्वे निदर्शनम् ।
आचार्यं यो महीपतिर्महयाञ्चकार तस्य नाम –
नृग इति ।
नियतनिमित्तमनपेक्ष्य यदा कदाचित्प्रवृत्त्युदयो यदृच्छा , स्वभावस्तु स एव यावद्वस्तुभावी यथा श्वासादौ ।
यदुक्तं न तावदुन्मत्तस्येव मतिविभ्रमाज्जगत्प्रक्रियेति , तत्र मा भूदुन्मत्तं ब्रह्म , भवति तु जीवाविद्याविषयीकृतं जगद्विवर्ताधिष्ठानम् , तथा च न प्रयोजनपर्यनुयोगः सृष्टावित्याह –
अपि च नेयमिति ।
जीवभ्रान्त्या परं ब्रह्म जगद्बीजमजूघुषत् । वाचस्पतिः परेशस्य लीलासूत्रमलूलुपत्॥ प्रतिबिम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः । पुमान् क्रीडेद्यथा ब्रह्म तथा जीवस्थविक्रिया॥ एवं वाचस्पतेर्लीला लीलासूत्रीयसङ्गतिः । अस्वतन्त्रत्वतः क्लिष्टा प्रतिबिम्बेशवादिनाम्॥
विभ्रमाणां प्रयोजनानपेक्षायामपि तत्कार्यस्य तदपेक्षा स्यादित्याकाशादेर्भ्रमकार्यस्य तदपेक्षामाशङ्क्याह –
न चेति ।
नन्वविद्याया हेतुत्वे कथं ब्रह्म कारणमत आह –
सा चेति ।
छुरिता मिश्रिता ।
निर्विषय इति ।
वेदान्तप्रतिपाद्यो विषयोऽस्य दूष्यत्वेन न वर्तत इति तथोक्तः॥३३॥
इत्येकादशं नप्रयोजनवत्त्वाधिकरणम्॥
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति॥३४ ॥ यो विषमसृष्टिकारी स सावद्यो ब्रह्म च विषमं सृजतीति न्यायेन समन्वयस्य विरोधसंदेहे पूर्वत्र लीलया स्रष्टृत्वमुक्तम् , इदानीं सैव न सापेक्षस्य सम्भवति ; अनीश्वरत्वप्रसङ्गाद् , निरपेक्षत्वे च रागादिमत्त्वमित्याक्षिप्यते । अनुमानस्य व्यभिचारमाह –
न हि सभ्य इति ।
सापेक्षत्वेऽनीश्वरत्वमाशङ्क्य व्यभिचारमाह –
न हि सेवेति ।
कर्मापेक्षत्वेन वैषम्यं परिहृतं , तर्हि विषमकर्मणि प्रेरकत्वेन वैषम्यतादवस्थ्यमित्याशङ्क्याह –
न चैष इति ।
वैषम्यादिप्रसङ्गान्नेश्वरः कारणमिति न च वाच्यमित्यन्वयः । यदीश्वरोऽपि विषमं सृजेत्तर्हि रागादिमत्तयाऽनीश्वरः स्यादीश्वरश्चायं तस्मान्न विषमं सृजतीति किमनुमीयते उत ईश्वरो रागादिमान् विषमस्रष्टृत्वादिति वैषम्यम् । नाद्यो विरोधादित्युक्तम् ।
तमेवागमविरोधं दर्शयति –
यस्मादिति ।
द्वितीयं निषेधति –
न चेति ।
यद्येवं वैषम्यमनुमितं किमतो निरवद्यत्वस्यापि श्रुतिसिद्धत्वेनातीतकालतातादवस्थ्यादित्यर्थः ।
तदेव दर्शयति –
तस्मादिति ।
श्रुतीनां ग्रावप्लवनादिश्रुतिभ्यो वैषम्यार्थमर्थसंभावनां दर्शयति –
तज्जातीयेति ।
उन्निनीषते ऊर्ध्वं नेतुमिच्छति। ईश्वरः पर्जन्यवत्सृष्टिमात्रे कारणं , वैषम्ये तु बीजवत्तत्तत्प्राणिकर्मवासने इति नेश्वरस्य सावद्यतेत्यर्थः । अपि च मायामयी सृष्टिरस्माकम् । यदि च तथाविधसृष्टिकर्तृत्वेन रागादिमत्त्वमनुमीयते , तर्ह्यनैकान्तिकत्वमित्याह – अभ्युपेत्य चेति॥३४॥३५॥
अकृताभ्यागमप्रसङ्गं व्याकरोति –
अकृते इति ।
तदङ्गीकारे आगतौ दोषावाह –
तथा चेति ।
वेदान्तानर्थक्यं मुक्तानामपीति भाष्योक्तमित्याह –
मोक्षशास्त्रस्येति ।
भाष्ये केवलाया अविद्याया वैषम्यकरत्वनिषेधोऽनुपपन्नः , भ्रान्तेर्विचित्रत्वेन वैषम्यहेतुत्वोपपत्तेरित्याशङ्क्याह –
लयेति ।
ननु - मा भूल्लयलक्षणाविद्या वैषम्यकरी , भ्रमसंस्कारस्तु किं न स्यादिति - चेत् , अस्तु न तु संसारानादितामन्तरेण स्यात् , तथा च सिद्धं नः समीहितमित्याह –
विक्षेपेति ।
विभ्रमसंस्कारस्य भ्रमसापेक्षत्वान्न स्वत एव वैषम्यहेतुत्वं , विभ्रमश्च न केवलो वैषम्यहेतुरपि रागादीन् जनयित्वा तत्सहितः । तथा च विभ्रमो रागादिसहितः शरीराच्छरीरं कर्मणः कर्म रागद्वेषाभ्यां तौ च मोहसंज्ञाद्विभ्रमात् स च शरीरादुदेतीति चक्रकभ्रमणमनादितैव समादधातीत्यर्थः । अवघातनिष्पन्नास्तुषान् पुरोडाशकपालेनोपवपति विगमयतीत्यत्रावघातसमये कपालेषु पुरोडाशश्रपणाभावाद्भविष्यच्छ्रपणमपेक्ष्य कपालानां पुरोडाशसबन्धकीर्तनमिति॥३६॥
इति द्वादशं वैषम्यनैर्घृण्याधिकरणम्॥
सर्वधर्मोपपत्तेश्च॥३७॥ निर्गुणब्रह्मणो जगदुपादानत्ववादिसमन्वयस्य यन्निर्गुणं न तदुपादानं गन्ध इवेति न्यायविरोधसंदेहे भवतु विषमस्रष्टृत्वं पक्षपातेनाव्याप्तमनेकान्तम् । साध्येन तु सगुणत्वे उपादानत्वमिति प्राप्ते विवर्ताधिष्ठानत्वमिहोपादानत्वम् । तच्च निर्गुणेऽप्यविरुद्धम् ; जात्यादावनित्यत्वाद्यारोपोपलब्धेरिति सिद्धान्तः । भाष्यकारेण सौत्रीं सर्वधर्मोपपत्तिं व्याकुर्वता सर्वज्ञत्वादयः कारणधर्मा ब्रह्मण्युपपद्यन्त इत्युक्तम् , तदयुक्तमिव ; न ह्येते लोके कस्यचित्कारणस्य धर्मा दृश्यन्ते , अत आह –
अत्रेति ।
जडप्रेरकत्वं कुलालादौ दृष्ठं , ब्रह्मण्यपि नियन्तरि तेन भाव्यम् । तस्य सर्वप्रेरकत्वस्य श्रुतिसिद्धत्वादर्थात्सर्वज्ञत्वसिद्धिः । एवं सर्वशक्तित्वादौ योज्यम् । सर्वशक्तित्वेनोपादानकारणत्वमुपपादितम् । सर्वज्ञत्वेन निमित्तकारणं चेत्युपपादितमित्यर्थः । महामायाविषयीकृतत्वेन निर्गुणत्वादिप्रयुक्तसर्वानुपपत्तिशङ्काऽपास्तेत्यर्थः॥३७॥
इति त्रयोदशं सर्वधर्मोपपत्त्यधिकरणम्॥
उद्दण्डैर्बाहुदण्डैः पृथुतरपरिघप्रांशुभिर्भिन्नगात्राः केचित्केचिच्च वज्रप्रतिमनखमुखैर्दीर्णदेहोपदेहाः । आकर्ण्यैके च यस्य प्रलयघनघनध्वानगम्भीरनादं विध्वस्ता दैत्यमुख्यास्तमहमतिबलं श्रीनृसिंहं प्रपद्ये ॥ स्वबोधदलिताबोधतदुद्भूतजगद् भ्रमम् । सदानन्दघनाद्वैतं परं ब्रह्मास्मि निर्मलम् ॥ रचनानुपपत्तेश्च नानुमानम् ॥१॥ स्वतन्त्रा इत्यस्य व्याख्यानं –
वेदनिरपेक्षा इति ।
विलक्षणत्वादयो हि प्रधानादिपरत्वेन वेदान्तव्याख्यामनुग्राहिकाः , इमास्तु युक्तयः स्वातन्त्र्येण प्रधानादिसाधिका इति। अनेनाक्षेपावसरे एव पादार्थो विवेचितः । मोक्षमाणानां मोक्षमिच्छताम् । मुचेः सन्नन्तस्य लुप्ताभ्यासस्य रूपम् ।
वेदान्तैरेव ज्ञानजननात्किं परपक्षाक्षेपेण ? तत्राह –
यथा चेति ।
ननु प्रमाणावगतान्युपादानानि जगति समुच्चीयन्तां , तन्तव इव पटेऽत आह –
न चैतदेवेति ।
चेतनमुपादानमस्येति तथोक्तम् । वेदो हि ब्रह्मप्रणीत इति सांख्याद्यागमस्य तत्तुल्यता । तथा च कपिलाद्यागमो वेदेन न बाध्यते , सिंह इव समबलसिंहान्तरेण । एवं कपिलाद्यागमं दृष्ट्वा कृतमनुमानमपि न बाध्यते , यथा सिंहं दृष्ट्वा कृते दार्वादिमये प्रतिकृतिसिंहे दृश्यमानाया ईदृशः सिंह इति सिंहाकारप्रतीतेरबाध इत्यर्थः ।
चेतनप्रकृतिकं जगदिति प्रतिपादकस्य वेदस्य प्रतिरोधकमनुमानमाह –
यानि हीति ।
संयोगादौ व्यभिचारवारणार्थं स्थौल्यादित्युक्तम् । संयोगादयो हि न स्थूलपिण्डादारभ्य कणपर्यन्तमनुयन्ति। कुम्भोपादानत्वं सत्त्वादिगुणाश्रितं मृद्गतत्वात्सत्तावदिति च वक्ररीत्याऽनुमानम् ।
ननु सुखं घट इत्याद्यनुपलम्भात् कथं तदात्मत्वेनानुगतिरत आह –
उपलभ्यत इति ।
घटविषया हि बुद्धिस्तमनुकूलं प्रतिकूलं वा गोचरयतीति अस्त्येवानुगतिरित्यर्थः । अन्वितत्वादेव सुखदुःखमोहात्मकं सामान्यम् ।
सुखाद्यारब्धत्वेऽपि जगतः कथं सत्त्वाद्यात्मकप्रधानारभ्यत्वमत आह –
तत्रेति ।
येयं जगत्कारणस्य कार्यवशोन्नीता सुखाद्यात्मता सा सत्त्वमित्यर्थः । विधेयापेक्षया नपुंसकप्रयोगः ।
उपलभ्यत इति यदुक्तं तद्व्यक्तीकरोति –
तथा हीति ।
निरन्तरतरुष्वध्यस्तवनेऽनेकान्तवारणाय प्रत्येकमित्युक्तम् ।
ननु चेतनोपकारत्वेन तं प्रति गुणीभूतगुणत्रयस्य कथं प्रधानत्वमत आह –
तच्च त्रिगुणमिति ।
चेतनं प्रति गुणभूतस्यापि गुणत्रयस्य सिद्धान्तसिद्धमायया वैलक्षण्यमाह –
न तु केनचिदिति ।
करणमिन्द्रियं केनचिच्चेतनेन न कार्यते न प्रेर्यते , किंतु कारणानां प्रवृत्तावनागतावस्थोपभोगापवर्गरूपः पुरुषार्थ एव हेतुः , स च न्यायो गुणानामपि तुल्य इत्यर्थः ।
नन्वनुमानादचेतनोपादानत्वे जगतः सिद्धे जगदुपादानस्य चेतनाधिष्ठितत्वापत्त्या किं दूषणमुक्तं भवति ? साध्यसिद्धिमङ्गीकृत्य दृष्टान्तदृष्टधर्मान्तरसंचारो ह्युत्कर्षसमा जातिः स्यात् , यथा –यदि कृतकत्वेन घटवदनित्यः शब्दः , तर्हि तद्वन्मूर्तः स्यादिति , तत्राह–
यदि तावदिति ।
अयमत्र दूषणाभिप्रायः – किं गुणत्रयं चेतनानधिष्ठितमुपादानं साध्यते , उत तस्योपादानत्वमात्रम् । आद्ये विरुद्धत्वं द्वितीये सिद्धसाधनं ; त्रिगुणमायाया ईश्वराधिष्ठितायाः प्रकृतित्वेष्टेरिति।
मूर्तत्वापादनाद् वैषम्यमाह –
व्याप्तेरिति ।
कृतकत्वं हि न व्याप्तमित्यर्थः । उपाददते उत्पादयन्ति कृतकत्वमिव विरुद्धमित्यन्वयः । इवशब्दो यथाशब्दसमानार्थ उपमामात्रपरो न तूपमीयमानपरः ; एवंशब्दस्य पृथक् प्रयोगात् । यदि सत्त्वाद्यन्वितत्वाज्जगत्तत्प्रकृतिकं मृदन्वितकुम्भवत् , तर्हि तच्चेतनाधिष्ठितं तत्प्रकृतिकं स्यात्तत एव तद्देवेत्युक्तम् ।
तत्रोपाधिमाशङ्कते –
यद्युच्येतेति ।
यथैकस्मिन्साध्ये साधनद्वयसन्निपाते सति एकतरसाधनप्रयुक्ता व्याप्तिरितरत्रारोप्यत इति सोपाधिकता , तद्यथा निषिद्धत्वप्रयुक्ता व्याप्तिरधर्मत्वस्य हिंसात्वे समारोप्यते , एवमेकस्मिन्साधने समन्वयादौ प्रकृतिगताचेतनत्वचेतनाधिष्ठितत्वरूपसाध्यद्वयवत्यन्तरङ्गा चेतनत्वप्रयुक्ता हेतुसाध्ययोर्व्याप्तिर्बहिरङ्गचेतनाधिष्ठितत्वे समारोप्यत इति भवति साध्यमपि सोपाधिकमित्यर्थः । कश्चिद्धर्मोऽन्तरङ्गत्वादिः ।
नान्तरङ्गत्वबहिरङ्गत्वकृते व्यापकत्वे , किंत्वव्यभिचारकृतेऽन्तरङ्गस्यापि महानसादिस्वरूपस्य व्यभिचाराद्धूमवत्त्वं प्रत्यव्यापकत्वाद्बहिरङ्गस्यापि वह्निसंयोगस्याव्यभिचारेण व्यापकत्वादिति मत्वा परिहरति –
स्वभावेति ।
स्वभावप्रतिबद्धमनौपाधिकत्वेन संबद्धम् ।
ननु स्वभावसंबन्धोऽप्यन्तरङ्गत्वाद् ज्ञेयस्तत्राह –
स चेति ।
साधनाव्यापक उपाधिर्यथा प्रपञ्चः सत्यः प्रतिभासमानत्वाद् ब्रह्मवदित्यत्र चेतनत्वमुपाधिः । अयं हि साध्यव्यापकः सत्यब्रह्मव्यापनात् । न च साधनव्यापकः ; पक्षे साधनवत्यप्यप्रवृत्तेः । साध्यव्यापक इत्युक्ते शैलेऽनलस्यानुमायामिन्धनवत्त्वस्याप्युपाधिता स्यात् तद्वारणाय साधनव्यापक इत्युक्तम् । एतावत्युक्ते कारीषवह्निमत्त्वादेरप्युपाधित्वं भवेत्तन्मा भूदिति साध्यव्यापक इत्यभिहितम् । नन्वेवं पक्षेतरत्वस्याप्युपाधिता स्यात्तद्व्यावृत्त्यर्थं साध्यसमव्याप्तिरिति विशेषणीयमिति तन्न । यतः - साध्याभावेन साकं स्वाभावव्याप्तेरनिश्चयात् । कुतः पक्षेतरत्वस्य साध्यव्यापकता मतता ॥ यदि हि यत्र पक्षान्यत्वं नास्ति , तत्र साध्यमिति व्यतिरेकव्याप्तिरवधार्येत , यदा यत्र साध्यं तत्र पक्षान्यत्वमित्यन्वयः । अन्यथा पक्षेतरत्वं त्यक्त्वापि साध्यसत्त्वे कुतस्तस्य तद्व्यापकता ? न चायमवधारयितुं शक्यते ; यत्र पक्षान्यत्वं नास्ति पक्षे तत्र साध्याभावस्य संदिग्धत्वात् । एवं च साध्यव्यापकत्वेनैव पक्षेतरत्वस्य व्यावृत्तेः समपदं मुधेति। द्विधा चोपाधिस्तत्र शङ्कितोऽनुकूलतर्काभावादिनावगम्यते , निश्चितस्तु यथायोगं प्रमाणैरवधार्यते । सदनुमाने तु समारोपित उपाधिः साधनव्याप्त्यादिभिरुद्धीयते । शङ्कितस्त्वनुकूलतर्कैः , शङ्क्यमानश्च साध्यव्यापकः साधनाव्यापकश्च वाच्यः , तत्र साध्यव्यापकत्वं स्याद् , व्यापकं प्रति व्यापकस्य व्याप्यं प्रति व्यापकताया अवश्यंभावात्साधनाव्यापकत्वे च साध्याव्यापकत्वं भवेद् व्याप्यं प्रत्यव्यापकस्य तद्व्यापकं प्रत्यव्यापकत्वनियमादित्यादिभिश्च तदुद्धार इति। नन्वेवमुपाधिसिद्धौ निरुपाधिकसंबन्धरूपव्याप्तिसिद्धिस्तत्सिद्धौ च साधनाव्यापकत्वादिरूपलक्षणसिद्धिः सिद्धे च लक्षणे उपाधिसिद्धिरिति चक्रकं स्यात् । नेति नवीनाः - साध्यवन्निष्ठात्यन्ताभावाप्रतियोगित्वरूपत्वात्साध्यव्यापकत्वस्य साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वात्मकत्वाच्च साधनाव्यापकत्वस्येति। नवीनतरास्तु न साध्यत्वं सपक्षे यत्रोपाध्यवधारणम् । अथ साध्यत्वेन संभाव्यमानत्वं , तदेव कुतः ? यदि व्यापकत्वादिति मन्वीरन् , तदेव तर्हि चक्रकमापतितमिति घट्टकुठ्व्यां प्रभातमिति। अस्माकं त्वनिर्वचनीयत्वादिनामत्रानास्थेति ।
अस्तु तर्ह्यनौपाधिकसंबन्धनिश्चयोऽन्तरङ्गत्वेनैव , नेत्याह –
तन्निश्चयश्चान्वयेति ।
साध्यव्यापकत्वादित्युक्तधर्मान्तरस्यानुपलब्धौ सत्यां सतोश्चान्वयव्यतिरेकयोर्व्याप्तिनिश्चय आयतते सिध्यति प्राप्नोतीत्यर्थः । अचेतनस्य चेतनाप्रेरितस्य कार्यजनकत्वाभावाच्च चेतनप्रयुक्तान्वयव्यतिरेकयोरतिस्फुटत्वम् ।
अन्वयव्यतिरेकवन्मात्रानुमाने एतत् पर्वतेतरत्वादेरप्यनुमानं स्यादत आह –
एवमपीति ।
आन्तराः प्रमातृबुध्द्यैक्याध्यस्तचैतन्यधर्माः , एतद्वैपरीत्यं बाह्यत्वम् ।
एतस्य च व्याख्यानं –
विच्छिन्नेति ।
चन्दनाद्यन्वयेऽपि सुखादिव्यभिचाराच्च नैक्यमित्याह –
यदि पुनरिति ।
सुखयतीति सुखः । क्रमेलक उष्ट्रः ।
प्रधाने हेतोरपर्यवसानाद् अर्थान्तरतामाशङ्क्याह –
संसर्गपूर्वकत्वे हीति ।
नानात्वेन सहैकस्मिन् अर्थे समवेतः संसर्गः स तथोक्तः । परिमितत्वं किं योजनादिमितत्वम् , उत स्वसत्तामतिक्रम्य वर्तमानेन वस्तुना सह वर्तमानत्वमथ वा स्वासंसृष्टवस्तुमत्त्वम् ।
नाद्य इत्याह –
यदि तावदिति ।
द्वितीयमाशङ्कते –
अथेत्यादिना ।
कारणं हि कार्यान्तरमपि व्याप्नोति न कार्यमतो यावत्कारणं शब्दतन्मात्रं तावन्न व्याप्नोति नभः , गन्धाद्यव्याप्तिस्तस्य प्रसिद्धैवेति।
परिहरति –
हन्तेति ।
न तृतीय इत्याह –
परस्परसंसर्गस्त्विति ।
सत्त्वादीनां चितिशक्त्या आत्मना परस्परं च संसर्गो नास्तीत्यर्थः ॥१॥
रचनायाः प्रवृत्तेः सकाशाद्भेदमाह –
रचनाभेदा इति ।
कार्यगतविन्यासविशेषा इत्यर्थः । अपि त्वित्यस्य या प्रवृत्तिः सापि चेतनाधिष्ठानमेव गमयतीति वक्ष्यमाणेनान्वयः ।
प्रवृत्तेर्हेतुमाह –
साम्येति ।
वैषम्यं भवतीति शेषः ।
वैषम्ये सत्यङ्गाङ्गित्वं भवतीत्याह –
तथा चेति ।
अङ्गाङ्गित्वात्कार्योत्पादनरूपा प्रवृत्तिर्भवतीत्याह –
एवं हीति ।
एवं चाङ्गित्वानुपपत्तेश्चेत्यस्य सूत्रस्य(ब्र.अ.२.पा.२.सू.८) प्रवृत्तेश्चेत्यनेन पौनरुत्तयमर्थान्निरस्तम् । चेतनानधिष्ठितप्रधानसाधकत्वेन परोक्तस्य प्रवृत्तेरिति हेतोरेव चेतनाधिष्ठिताचैतनसिद्धौ हेतुत्वेनाभिधानात्साध्यविरुद्धोक्तिर्वक्रोक्तिः ।
औपनिषदेन न दृष्टान्तानुसारेण ब्रह्मकारणत्वं समर्थ्यतेऽतः केवलस्य चेतनस्य प्रवृत्तिर्न दृष्टा इत्यचोद्यमित्याशङ्क्याह –
त्वया किलेति ।
उपनिषदर्थसंभावनायाम् अनुमानं सामान्यतो दृष्टं वाच्यमित्यर्थः । अविद्याप्रत्युपस्थापितेत्यादिभाष्येण स्वपक्षं समाधास्यामीत्यभिसंधिमानित्यर्थः । न केवलस्य चेतनस्य प्रवृत्तिर्दृष्टेत्येतत्सत्यमित्यर्थः । अत्र च शेषत्वेन तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टेति भाष्यमनुसन्धेयम् । इत्थं केवलस्य चेतनस्य प्रवृत्त्यभावमभ्युपगम्याचेतनस्य प्रवृत्तिश्चेतनाधीनेति समर्थिते सांख्य आहेत्यर्थः ।
न चेतनस्य प्रवृत्त्याश्रयत्वमित्यत्र लौकायतिकभ्रमोऽपि लिङ्गमित्याह –
यतश्चेति ।
रचनायाः प्रवृत्तेर्वा हेतोश्चिदात्मकारणकत्वसिद्धिर्जगतो नेत्यर्थः । यदुक्तं न चेतनः प्रवृत्त्याश्रयतयेष्यत इति , तत्र किं स्वरूपस्यासिद्धिरभिमता ।
उत प्रवृत्तिसंबन्धस्य ? नाद्य इत्याह –
न तावदिति ।
न द्वितीय इत्याह –
तत्रेति ।
आकाशस्य प्रवृत्त्यन्वयमात्रम् , चैतन्यस्य तु व्यतिरेकोऽप्यस्तीति वैषम्यमित्यर्थः ।
लौकायतिकोऽपि चेतनतन्त्रामचेतनप्रवृत्तिं मन्यते , सांख्यस्तु ततोऽप्यविवेकीत्याह –
भूतेति ।
भूतानां चेतनेति येषां मतं ते तथोक्ताः ।
एवं तावद्रथादिवन्मूलकारणस्याप्यचेतनस्य चेतनाधीनप्रवृत्तिकत्वं साधितम् , तत्र दृष्टान्तासिद्धिमाशङ्कते –
स्यादेतदिति ।
रथादिप्रवर्तको देह एव , स तु चेतन इत्यविवेकिनां प्रसिद्धिरनूदिता , साक्षाद्यच्चेतनः सोऽसङ्गत्वादप्रवर्तक इत्यर्थः ।
तवेति ।
तदापीत्यर्थः ।
रूपादीनां सन्निधिमात्रेणेन्द्रियप्रवर्तकत्वे चेतनाधिष्ठितादचेतनात्कार्यरचनेति नियमभङ्गमाशङ्क्य परसिद्धमुदाहृतमिति परिहरति –
सांख्यानां हीति ।
अर्थाकारेणेति ।
अर्थविषयज्ञानाकारेणेत्यर्थः । उक्तं हि शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिरिति ॥२॥
यदि पयोम्बुनोः सपक्षत्वमपि , कथं तर्हि साध्यपक्षनिक्षिप्तत्वादिति भाष्यमत आह –
साध्यपक्षेत्युपलक्षणमिति ॥३॥
प्रधानस्य सहकार्यभावासिद्धेः सूत्रभाष्यायोगमाशङ्क्याह –
यद्यपीति ।
सर्गस्य निर्माणे कर्मवासना न प्रभवतीति चेत्क्व तर्हि तासामुपयोगस्तत्राह –
प्रधानमेवेति ।
निमित्तं धर्मादि । प्रकृतीनां मूलप्रकृतेर्महदादिप्रकृतिविकृतीनां च अप्रयोजकं स्वकार्ये सर्गे , किंतु वरणस्य प्रतिबन्धकस्य भेदो भङ्गस्ततो निमित्ताद्भवति , क्षेत्रिकवद् - यथा हि क्षेत्रकारीकेदारादपां पूर्णात्केदारान्तरं समं निम्नं वा पिप्लावयिषुरपो न पाणिनाऽपकर्षति , किंतु वरणं तासा भिनत्ति , भिन्ने तस्मिन्स्वयमेवापः केदारान्तरं प्लावयन्ति , तद्वदिति पातञ्जलसूत्रार्थः ।
तर्ह्यपनीते प्रतिबन्धे सृजतु प्रधानमत आह –
ततश्चेति ।
सदातनादपनायकात्सदापनीतः प्रतिबन्ध इति सदैव सर्गः स्यादित्यर्थः ।
ईश्वरस्य तु सर्वज्ञत्वात्प्राणिकर्मपरिपाकावसराभिज्ञस्य लीलादिना कदाचित् स्रष्टृत्वं न सर्वदेत्याह –
ईश्वरस्य त्विति ।
यद्दृच्छयेति ।
यथास्मदादेस्तृणच्छेदादौ नियतनिमित्तानपेक्षा प्रवृत्तिरेवमित्यर्थः ॥४॥
वह्न्यादीति ।
पित्तधातुरादिशब्दार्थः ॥५॥
कीदृशोऽनाधेयातिशयस्य भोग इत्यादिभाष्यं व्याचष्टे –
न केवलमिति ।
सिद्धान्तेऽप्यतात्त्विकभोगाभ्युपगमाद् अवास्तवस्य न निषेध इत्यर्थः ।
उभयार्थताभ्युपगमेऽपि भोक्ताव्यानां प्रधानमात्राणाम् आनन्त्यादनिर्मोक्षप्रसङ्ग एवेति भाष्यं , तदनुपपन्नमिव ; अपवर्गार्थमपि प्रधानप्रवृत्तौ सत्यां क्रमेण भोगमोक्षोपपत्तेः , योगैश्वर्याच्चानन्तविकाराणां युगपदुपभोगसंभवादित्याशङ्क्याह –
न तावदपवर्ग इति ।
किं निःशेषविकारान् भोजयितुं प्रधानं प्रवर्तते उत कियतोऽपि ।
नान्त्य इत्याह –
भोगस्य चेति ।
आद्ये निषेधभाष्यमुपपादयति –
निःशेषेति ।
यद्यपि सकृच्छब्दाद्युपलम्भाद् भोगः समाप्तः ; तथापि न पुनरप्रवृत्तिः ।
तत्त्वज्ञानमन्तरेण मोक्षासिद्धेः प्राक्च मोक्षाद्भोगस्यावश्यकत्वादिति शङ्कते –
कृतभोगमपीति ।
सत्त्वं बुद्धिः । क्रियासमभिहारोऽभ्यासः । अपवर्गः किं शब्दाद्यनुपलब्धिर्बुद्धिक्षेत्रज्ञभेदख्यातिर्वा ।
यदि आद्यस्तत्राह –
हन्तेति ।
न द्वितीय इत्याह –
नचास्या इति ।
उभयार्थमिति ।
भोगमोक्षार्थमित्यर्थः । शक्तिशक्तिमतोरभेदात्पुरुषो दृक्शक्तिः । दृक्शक्त्यनुच्छेदवदिति इदानीं भाष्यपाठो दृश्यते ।
निबन्धे तु सर्गशक्त्यनुच्छेदवदिति पाठं दृष्ट्वा व्याचष्टे –
सर्गेति ।
दृक्शक्तिः किं सर्वप्रधानकार्यविषया , एकदेशविषया वा ।
आद्ये दोषमाह –
यथा हीति ।
यथैकेन पुंसा स्वविकारदर्शनेन कृतार्थापि सर्गशक्तिः पुरुषान्तरं प्रति दर्शयितुमनुच्छेदादनुच्छेदेन प्रवर्तते , एवं दृक्शक्तिरपि सकृद्दृश्यदर्शनेन चरितार्थापि तं पुरुषं प्रति सर्वप्रधानविकाराणामर्थवत्त्वाय सर्वान्द्रष्टुमनुच्छेदेन प्रवर्तत इत्यर्थः ।
द्वितीयं प्रत्याह –
सकृद्दृश्येति ।
एकपदे एकपदन्यासावच्छिन्नक्षणे ॥६॥
अर्थाभावसूत्रोक्तं दूषणमनुजानाति –
मा भूदिति ।
शक्त्यर्थवत्त्वं दृक्शक्तिसर्गशक्त्यवत्त्वम् । शङ्केत्यत्र ग्रन्थच्छेदः ॥७॥
प्रधानावस्थानाशेऽपि अवस्थावतां गुणानामनाशात्स्वरूपप्रणाशभयादिति भाष्यायोगमाशङ्क्य विकल्पमुखेन व्याचष्टे –
यदि प्रधानावस्थेति ।
भाष्ये – अनपेक्षस्वरूपाणामिति । इतरेतरमनपेक्षमाणानां गुणप्रधानत्वहीनानामित्यर्थः ।
ननु प्राचीनवैषम्यपरिणामसंस्कार एव पुनरवैषम्यहेतुरस्तु किं बाह्यक्षोभयित्रा ? तत्राह –
यत्साम्यावस्थयेति ।
प्रलयसमये यत्साम्याकारेण सुचिरं परिणतं तत्संस्कारप्राचुर्यात्पुनरपि साम्याकारेण परिणमते , तद् द्वयोः संस्कारयोः समत्वेऽपि प्राचीनवैषम्यसंस्कारस्याभिनवसाम्यसंस्कारेण व्यवधानात्साम्यपरिणाम एव युक्त इत्यर्थः । विलक्षणश्चासौ कार्यं जनयितुं प्रत्ययते आगच्छतीति तथोक्तः ॥८॥९॥
एकादशेन्द्रियाणां कथं सप्तत्वमित्याशङ्क्य बुद्धीन्द्रियाणि त्वागिन्द्रियेऽन्तर्भावयति –
त्वङ्मात्रमेवेति ।
अनेकरूपादिग्रहणसमर्थं यत् त्वङ्मात्रं तदेव बुद्धीन्द्रियं तच्चैकमित्यर्थः ।
ननु तप्य एव मा भूद् यथाऽस्तीत्यत्र , तथा च कथमद्वैतव्याघातकस्तप्यतापकभावस्तत्राह –
नहि तपिरिति ।
कर्तृस्थो भावः फलं यस्य स तथोक्तः ।
परमसमवेतेति ।
कर्मत्वव्यापकोक्तिरियम् । तद्व्यावृत्त्या तद्व्यावृत्त्यैव न लक्षणोक्तिः । तथा सति वृक्षात्पतिते पर्णे पर्णसमवेतपतनक्रियाफलविभागाभाजो वृक्षस्यापादानस्यापि कर्मत्वप्रसङ्गात् । ननु -‘आत्मानं जानाति’ ‘पच्यते फलं स्वयमेवे’त्यत्रैकस्यापि कर्मकर्तृभावात् कथमस्य कर्मत्वव्यापकत्वम् ? उच्यते – सोपाध्यात्मनि उपाधिभेदादेव भेदान्निरूपाधौ यां वृत्तिं कर्मत्वं तस्या एवोपाधित्वस्य वर्णितत्वात् , पच्यते फलं स्वयमेवेत्यत्र कर्मत्वोपचारात् । पाणिनिर्हि कर्मवदित्याह - तस्माद् यत्कर्म तत्परसमवेतक्रियाफलभागीत्यर्थो नतु यदुक्तविधं तत्कर्मेति।
ननु क्रियाफलशालित्वमात्रव्याप्तं कर्मवत्वम् , वृथा परविशेषणम् ; तथा च तप्तुरेव तप्यत्वमस्तु , तत्राह –
अनन्यत्व इति ।
तप्यस्य तापकादनन्यत्वे सति अकर्मत्वप्रसङ्गादित्यन्वयः ।
निदर्शनं –
चैत्रस्येवेति ।
स्वसमवेता गमनक्रिया तस्याः फलं नगरप्राप्तिस्तच्छालिनोऽपि चैत्रस्य परत्वाभावादकर्मत्ववत्तप्यस्याप्यभेदाभ्युपगतावकर्मत्वप्रसङ्गादित्यर्थः ।
ननु यथा जलधिः स्वभावभूतैरपि वीच्यादिभिर्मुच्यते , तथा तप्यतापकाभ्यामात्मा , तत्राह –
जलधेश्चेति ।
अर्थस्यापि स्वर्गादेस्तापकत्वं भाष्योक्तमुपपादयति –
अर्थोऽपीति ।
दुनोति परितापयति । दृक्शक्तिः पुरुषः । दर्शयति स्वविकारान् पुंस इति दर्शनशक्तिः प्रधानं , तस्य च बुद्धिरूपेण परिणतस्य चिच्छायापत्तिः संयोगः । अविविक्तयोः प्रधानपुरुषयोर्दर्शनम् अविवेकदर्शनम् ।
भाष्ये स्यादपीत्यपिना न साक्षात्पुंसो मोक्ष इत्यसूचि , तदाह –
अत्र चेति ।
बन्धमोक्षस्वरूपालोचनेन तयोः साक्षाद्बुद्धिधर्मत्वमाह –
तथा हीति ।
अविभागो बुद्धिसत्त्वस्य पुरुषादविवेकस्तेन बुद्धेर्जडाया अप्यापन्नं गुणस्वरूपावधारणम् । अनुकूलप्रतिकूलशब्दादिज्ञानस्य विविक्तपुरुषज्ञानस्य च बुद्धिपरिणामत्वाद् बुद्धेरेव बन्धमोक्षावित्यर्थः । मोक्षनिरूपणाय च बन्धनिरूपणम् । अत एवापवृज्यत इत्येवाह ।
इदानीं स्वामिनि पुरुषे बन्धाद्युपचारं सदृष्टान्तमाह –
तथापीति ।
अविभागस्याविवेकस्यापत्तिः प्राप्तिस्तयेत्यर्थः ।
औपनिषददर्शनासामञ्जस्यं निषेधति –
नेति ।
किं वस्तुतत्तप्यतापकविभागानुपपत्तिरुच्यते , व्यवहारतो वा ।
आद्ये इष्टप्रसङ्ग इत्याह –
एकत्वादेवेति ।
उपात्तं भाष्यं व्याख्याति –
यत इति ।
द्वितीये नानुपपत्तिर्व्यवहारतो भेदस्वीकारादित्याह –
तस्मादिति ।
परोक्तदोषानुवाद एव भाष्ये भाति –न दूषणमित्याशङ्क्याध्याहारेणेष्टप्रसङ्गकथनपरतां स्फोटयति–
इत्यस्मदिति ।
यदि भ्रान्तत्वं तप्यतापकभावस्य , तर्ह्येष एव दोष इत्याशङ्क्य साम्यप्रतिपादनार्थं तत्र त्वयापीति भाष्यम् , तद् व्याचष्टे –
सांख्योऽपि हीति ।
ब्रुवाणोऽपीत्यन्वयः । सत्त्वं बुद्धिगतः सत्त्वगुणः । दर्शितो विषयो यस्य पुंसः सः तथा तस्य भावस्तत्त्वं तत इति।
अविभागापत्तिस्तर्हि क्षीरवत्सत्येति तन्निमित्ता तप्तिः पुंसः सत्या स्यादत आह –
तदविभागापत्तिश्चेति ।
अविवेको ह्यविभाग इति । नित्यत्वाभ्युपगमाच्च तापकस्येति भाष्यमुपात्तम् । अनिर्मोक्षप्रसङ्ग इति तस्यातीतानन्तरपदानुषङ्गेण व्याख्या । न दृश्यतेऽनेन पुरुषत्वमिति अदर्शनं तमः ।
तस्य तप्तिहेतुत्वमुपपादयति –
न तावदित्यादिना ।
तमसः तप्तस्य निवृत्त्ययोगात् परस्य तन्निमित्ततप्तेरनाश उक्तः ।
सिद्धान्ते त्वविद्याया अवस्तुतस्तप्तिहेतोर्विद्यया निवृत्तेर्मोक्षोपपत्तिमाह –
यथा हीति ।
सांख्यस्य त्विति तुशब्दो नशब्दसमानार्थः ॥१०॥
इति प्रथमं रचनानुपपत्त्यधिकरणम् ॥
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥११॥ यद्यप्यस्य स्वपक्षदोषपरिहारस्य स्मृतिपादे एव सङ्गतिः ; तथापि यदि प्रधानगुणानन्वयाज्जगन्न तत्प्रकृतिकं , तर्हि ब्रह्मविशेषगुणानन्वयान्न तदुपादानकम् इत्यवान्तरसङ्गतिलोभादिह लिखितः । तत्त्वज्ञानप्रधानस्यास्य शास्त्रस्य परमतनिरासपरत्वाभावान्निराकृतो निराकर्तव्य इति च भाष्यनिर्देशायोगमाशङ्क्याह –
यथैवेति ।
श्रौतब्रह्मधीसिद्धौ तन्निरास इत्यर्थः । एतेनेत्यत्र कारणं कार्यन्न्यूनपरिमाणमिति नियमो भग्नः , इह कारणविशेषगुणस्य कार्ये गुणारम्भनियमो भज्यत इति सत्यपि भेदे रीतिसाम्यकृतजामित्वपरिहारः ।
प्रपञ्च आरभ्यत इति ।
कारणगुणस्य प्रक्रम उपक्रमो नियतपूर्वसत्त्वं तेन तमसमवायिकारणं कृत्वेत्यर्थः ।
तर्कस्य विपर्ययमनुमानमाह –
तस्मादिति ।
विमतमचेतनोपादानकं कार्यद्रव्यत्वात्संमतवदित्यर्थः । ज्ञानादौ व्यभिचारवारणाय द्रव्यपदम् । मायाशबलब्रह्मोपादानत्वेन सिद्धसाधनत्वं व्यावर्तयितुमेवकारः ।
प्रधानसिद्व्याऽर्थान्तरत्वमाशङ्क्याह –
तच्चेति ।
इत्युक्तमिति ।
एतेन शिष्टापरिग्रहा (ब्र.अ.२.पा.१. सू.१२) इत्यत्र पूर्वपक्षे इत्यर्थः ।
महाप्रलये प्रयत्नाभिघाताद्यभावात् कथमणुषु कर्म ? तत्राह –
अदृष्टवदिति ।
ननु किं द्व्यणुकारम्भव्यवधिनाऽत आह –
बहवस्त्विति ।
असंयुक्तानामारम्भानभ्युपगमात् सिद्धसाधनमाश्क्याह –
संयुक्ता इति ।
सहसेति ।
द्व्यणुकमनारभ्येत्यर्थः । अनेन बाधोऽपोदितः । तन्त्वादिषु व्यभिचारवारणार्थमणुत्वम् इति। द्व्यणुकेषु अनैकान्तिकत्ववारणार्थं परमेति । परमाण्वोः स्वापेक्षया स्थूलद्व्यणुकारम्भकयोरव्यभिचाराय बहुत्वादिति।
साध्यवैलक्यमाशङ्क्याह –
यदि हीति ।
परमाणवः किम् अनारभ्य द्व्यणुकादीनि कुम्भमारभन्त इति उतारभ्य ।
नाद्य इत्याह –
न घटे इति ।
सत्येव घटे बुध्द्या विभज्यमाने कपिलादिखण्डावयविनो नोपलभ्येरन् । तथाच त्रसरेणुवदनुपलब्धरेखोपरेखे घटे संस्थानविशेषानुपपत्तेर्व्यञ्जकाभावाद् घटत्वानुपलब्धिप्रसङ्ग इत्यर्थः ।
न द्वितीय इत्याह –
घटस्यैव त्विति ।
यदि हि परमाणव एव खण्डावयविनम् आरभ्य महावयविन आरभेरन् , तथा सति सर्वएव ते परमाणुषु संभवेयुः । तच्च न ; मूर्तानामवयवावयविभावविरहिणामेकदेशत्वाभावनियमात् । अवयवावयविनौ हि तन्तुपटावेकत्र संयोगिभूभागे भवतो नतु परमाणुषु समवयतामवयविनामस्ति परस्परमवयवावयविभाव इति न समानदेशता । तस्माद्यपि परमाणुभिः स्थूलमारभ्येत घट एव वाऽऽरभ्यः स्यान्न कपालादीनीत्यर्थः ।
यदि न घट एव परमाणुभिरारब्धस्तदा न केवलं विद्यमाने घटे संस्थानानुपलम्भप्रसङ्गः , किंतु नाशादूर्ध्वमपि कपालाद्यनुपलम्भप्रसङ्ग इत्याह –
तथा सतीति ।
न च वाच्यं कुम्भभङ्गसमनन्तरमवस्थितसंयोगसचिवाः परमाणवः कपालकणादीनारभन्ते , सति तु कुम्भे तेन प्रतिबन्धादसन्तोऽपि संयोगा नारभन्त इति ; यतः कपालादीनामेव सहसारम्भे संस्थानानुपलम्भः स्याद् , द्व्यणुकादीन्यारभ्य तदारम्भे मूर्तानां समानदेशत्वायोगो द्व्यणुकादिप्रक्रमेण तदारम्भे कुम्भारम्भोऽपि तथा भवत्विति वृथा शुष्कवर्णनमिति। ननु - द्व्यणुकैरपि यदि बहुभिः कार्यमारभ्यते , तर्हि घटादयोऽप्यारभ्यन्तां , तथा चान्तरालिककार्यानुपलम्भप्रसङ्गः । अथ तैस्त्रसरेणुरेवारभ्यते , तर्हि परमाणुभिरपि स एवारभ्यतां , मुधा द्व्यणुकं विशेषो वाच्यः , उच्यते – किं सर्वत्र परमाणूनामारम्भकत्वमुत क्वचिद् द्व्यणुकादिप्रक्रमोऽपि । नाद्यः ; यतोऽस्ति तावल्लोष्टमूलावयवपरमाणुसंख्यापेक्षया लोष्टावयवमूलपरमाणूनां संख्यापकर्षः । अन्यथा लोष्टतदवयवयोर्गुरुत्वादिसाम्यप्रसङ्गात् । एवं तदपेक्षया तदवयवतदवयवानां मूलावयवपरमाणुसंख्यापकर्षो द्रष्टव्यः । नचायं निरवधिः ; एकत्वात्परन्यूनसंख्यासंभवात् । न च त्रित्वमारम्भकसंख्यावधिः ; ततः परमप्येकत्वद्वित्वभावात् । न चैकत्वमेकस्य संयोगानुपपत्तावसमवायिकारणविधुरस्यानारम्भकत्वात् । तस्मात्सजातीयसंयुक्तपरमाणुगतद्वित्वमारम्भकसंख्यापकर्षावधिरिति सिद्धं द्व्यणुकम् । तथाच न सर्वत्र परमाणुभिस्त्र्यणुकारम्भः । नापि द्वितीयः ; सिद्धं हि परमाणोस्त्र्यणुककारणं द्व्यणुकं प्रति कारणत्वम् । तथाच न तस्य क्वापि त्र्यणुककारणत्वसंभवः ; कारणजातीयस्य कार्यजातीयं प्रति अनारम्भकत्वात् । न ह्यणुजातीयः तन्तुः कार्यं पटजातीयमारभत इति। बहुत्वं प्रति बहूनां परमाणूनां समवायिकारणत्वाद् द्रव्यं प्रतीत्युक्तम् । प्रलयेऽस्मादादीनामपेक्षाबुद्ध्यभावमाशङ्क्येश्वरबुद्धिमित्युक्तम् ।
तदपि हीति ।
परिमाणस्य सजातीयपरिमाणारम्भकत्वनियमादित्यर्थः ।
कारणबहुत्वेति ।
समपरिमाणदृढसंयोगवत्तन्त्वारब्धपटयोर्मध्ये यदन्यतरस्मिन् महत्त्वमुद्रिक्तं तस्य कारणबहुत्वादुत्पत्तिः । समसंख्यदृढसंयोगवत्तन्त्वारब्धयोस्तु कारणमहत्त्वात् समपरिमाणसमसख्यतन्त्वारब्धयोः पुनः कारणप्राचुर्यादित्यर्थः ।
यथा तूलपिण्डानां प्रवयस्तथा द्व्यणुकयोर्नास्तीत्यत्र हेतुमाह –
तदवयवानामिति ।
प्रचयो ह्यारम्भकावयवगत शिथिलसंयोगः समतुलिततूलपिष्टद्वयाभ्याम् आरब्धयोर्महत्तूलपिण्डयोरन्यतरमहत्त्वातिशयकारणम् । न च द्व्यणुकयोरवयवानां परमाणूनां भागेन लग्नत्वं भागेनालग्नत्वमित्येवं रूपः शिथिलसंयोगः ; निरवयवत्वादित्यर्थः ।
यदि द्व्यणुकगत संख्यैव त्र्यणुकगतमहत्त्वकारणं , तर्हि त्र्यणुकादिगता संख्यैव तत्कार्यमहत्त्वहेतुरस्तु इत्याशङ्क्य तत्र महत्त्वादिसंभवादनियम इत्याह –
त्र्यणुकादिभिरिति ।
समानजातीयगुणान्तरमारभन्त इति दूषणव्यभिचाराद्धेतोरदूषणीक्रियते सूत्रकारेणेत्याह - भाष्यकारः - इममभ्युपगमं तदीययैव प्रक्रिययेत्यादिभाष्येणेति शेषः ।
सूत्रमुदाहृत्य व्याचष्टे –
यथेत्यादिना ।
यथाश्रुतसूत्रे परिमण्डलादपि महदारम्भो भाति स चायुक्त इति मत्वा वक्ति –
अनुक्तेति ।
अनुक्तमेव दर्शयति –
यथा द्व्यणुकमिति ।
सूत्रे वतोरधस्ताद् अण्वित्यध्याहर्तव्यम् । तथा च यथाक्रमं ह्रस्वपरिमण्डलाभ्यां महद्दीर्घाणुवदिति सूचनाय वाशब्द इत्यर्थः । परिमाणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभत इति भाष्ये परमाणुपारिमाण्डल्याद् द्व्यणुके पारिमाण्डल्यारम्भनिषेधात् ।
अर्थाद् द्व्यणुकगताणुत्वस्य पारिमाण्डल्यादारम्भ इति भ्रमः स्यात्तं निरस्यति –
पारिमाण्डल्यग्रहणमिति ।
ननु सूत्रे ह्रस्वपरिमाणस्य महद्दीर्घारम्भकत्वं परिमण्डलपरिमाणस्य ह्रस्वपरिमाणारम्भकत्वं च भाति , तदयुक्तम् ; अनन्तरनिषेधादत आह –
गुणपरमिति ।
परिमाणवद्द्रव्याभ्यां द्रव्यान्तरारम्भ उच्यते , न तु गुणारम्भ इत्यर्थः ।
द्व्यणुक इति सप्तम्येकवचनं कृत्वा वाक्यार्थमाह –
द्व्यणुकाधिकरण इति ।
ननु द्व्यणुकगतद्वित्वयोः कथं चतुरणुकारम्भकत्वम् , संख्याया द्रव्यारम्भकत्वायोगादत आह –
संख्येयानामिति ।
जायतेपदानुषङ्गमाह –
योजनेति ।
पारिमाण्डल्यादारम्भे अपोदिते विरोधिपरिमाणान्तराक्रान्तिरसिद्धेत्याशङ्क्याह –
स्वकारणेति ।
स्वकारणं संख्या । व्याप्तेर्व्यभिचारे उक्ते यत्र व्यभिचारस्तत्रास्त्यनारम्भे कारणमित्येतावदुच्यते उत तत्कारणराहित्येन व्याप्तिर्विशिष्यते ।
नाद्य इत्याह –
कारणगता इति ।
द्वितीयेऽपि किमणुमहत्परिमाणाभ्यां द्व्यणुकत्र्यणुकयोः स्वरूपेण व्याप्तिः पारिमाण्डल्याणुत्वयोरनारम्भे हेतुरुत तत्कारणेन ।
नाद्य इत्याह –
अपि चेति ।
न चरम इत्याह –
न चेति ।
परमाण्वादौ पारिमाण्ड्ल्यादिगुणवति सति तदारब्धद्व्यणुकादावणुमहत्त्वाद्यनुपपत्तिरुक्ता , संप्रति पारिमण्डल्यादेरेव त्वराविशेषादणुत्वाद्यारम्भकत्वं परमाणुद्व्यणुकगतद्वित्वबहुत्वयोर्वा सन्निधानविशेषादणुमहत्त्वाद्यारम्भकत्वमिति आशङ्कानिरासार्थं भाष्यं व्याचष्टे –
न च परिमाणान्तरारम्भ इति ।
न च परिमाणान्तरे व्यापृतता ; पारिमाण्डल्यादीनां व्यापृतत्वे पारिमाण्डल्याद्यारम्भेऽपि व्यापृततयास्तुल्यत्वादित्यर्थः । कारणबहुत्वादीनां सन्निधानं पारिमाण्डल्यादीनाम् असन्निधानमित्येतच्च नास्ति ; कारणैकार्थसमवायस्य तुल्यात्वादित्यर्थः । कारणावस्था द्रव्यमिति घृतद्रवत्वं वक्ष्यमाणमभिप्रेत्य भाष्ये द्रव्यस्य संयोग उदाहृतः । ननु - आरभेत गुणं कार्ये सजातिं समवायिगः । विशेषगुण इत्यस्या व्याप्तेः का नु प्रतिक्रिया ॥ उच्यते – न तावदस्ति विशेषगुण इति । यत्तूदयनेन तत्र लक्षणमभाणि स्वाश्रयव्यवच्छेदोचितावान्तरसामान्यविशेषवन्तो विशेषगुणा इति। नवसु मध्ये यस्मिन्द्रव्ये वर्तन्ते तस्येतराष्टद्रव्येभ्यो व्यावर्तका इत्युक्तं भवति । एवं च नवान्यतममात्रवृत्तिगुणत्वं लक्षणम् । तत्र किं नवान्यतममात्रवृत्तित्वं वा नवसु मध्ये एकैकमात्रवृत्तित्वं नवव्यतिरिक्तव्यतिरिक्तमात्रवृत्तित्वं वा पृथिव्यादिनवलक्षणव्यतिरिक्तव्यतिरिक्तानेकसमानाधिकरणत्वानापादकसामान्यवत्त्वं वा । नाग्निमः ; अव्याप्तेः । न द्वितीयः ; अतिव्याप्तेः । न तृतीयः ; स ह्येवम् । पृथिव्यादीनां यानि नव लक्षणानि तेभ्यो यानि व्यतिरिक्तानि तेभ्यश्च व्यतिरिक्तानि तान्येव नव लक्षणानि तैरनेकैः समानाधिकरणत्वानापादकानि यानि सामान्यानि गन्धत्वादीनि तद्वत्त्वं विशेषगुणत्वम् । तथा च विशेषगुणस्यैकैकपृथिव्यादिनिष्ठत्वसिद्धिरिति। तन्न ; किमिदं नवलक्षणव्यतिरिक्तव्यतिरिक्तत्वम् ? नवत्वविशिष्टव्यतिरिक्तत्वं वा , तदुपलक्षितव्यतिरिक्तव्यतिरिक्तत्वं वा । नाद्यः ; नवत्वविशिष्टव्यतिरिक्तसमुदितातिरिक्तैकैकपृथिव्यादिलक्षणेभ्यो व्यतिरिक्तानि यानि गुणादिलक्षणानि तैरनेकैः समानाधिकरणत्वानापादकपरिमाणत्वसामान्यवतः परिमाणस्यापि विशेष गुणत्वापत्त्यातिव्याप्तेः । न द्वितीयः ; उपलक्षितैकैकातिरिक्तनवत्वविशिष्टपृथिव्यादिलक्षणव्यतिरिक्तानेकगुणादिलक्षणसमानाधिकरणत्वानापादकपरिमाणत्वसामान्यवति परिमाणेऽपि गतत्वेनोक्तदोषतादवस्थात् । गुणत्वावान्तरजातिद्वारैकैकेन्द्रियग्राह्यसजातीया ये रूपादयो यानि च धर्माधर्मभावनासांसिद्धिकद्रवत्वानि तेभ्यो व्यतिरिक्तव्यतिरिक्तत्वं विशेषगुणत्वमिति चेत् , न ; मिलितव्यतिरिक्तैकैकव्यतिरिक्ते एकैकव्यतिरिक्तमिलितव्यतिरिक्ते च संख्यादावतिव्याप्तेः । स्वसमवेतविशेषणविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वं विशेषगुणत्वम् व्योमशिवोक्तमशिवम् ; स्वगतसंख्यात्वादिविशेषितैर्द्रव्यजातीयपृथिव्यादिव्यवच्छेदकैः संख्यादिभिरतिव्याप्तेः , गगनत्वजातिविरहेणैकजातीयकस्वाश्रयाव्यवच्छेदकशब्दाव्याप्तेश्च । स्वाश्रयैकजातिपदेन न वान्यतमविवक्षायाम् उक्तदोषादिति। एवमन्यदपि संभवल्लक्षणं खण्डनीयमिति । किंच कारणैकार्थसमवायाविशेषाद् महत्त्वमिव महत्त्वान्तरमणुत्वमपि कारणगतं कार्येऽणुत्वं किमिति नारभते ? कार्यस्याप्यणुत्वे भोगातिशयासिद्धेः नारभत इति चेत् , तर्हीहापि सर्वत्र जगति चेतनारम्भे शेषशेषिभावाभावाद्भोगो न स्यादतो मायाशबलब्रह्मण उपादानत्वान्मायागतं जाड्यं जगति जाड्यमारभते न ब्रह्मचेतना चेतनाम् । जीवेषु तु ब्रह्मावच्छेदेष्वचेतना वर्स्त्यतीति तुल्यम् । तदुक्तमाचार्यवार्तिककृता - तमःप्रधानःक्षेत्राणां चित्प्रधानश्चिदात्मनाम् । परः कारणतामेति भावनाज्ञानकर्मभिः ॥
इति द्वितीयं महद्दीर्घाधिकरणम् ॥
उभयथापि न कर्मातस्तदभावः ॥१२॥ अस्य प्रासङ्गिकेनानन्तराधिकरणेन न संगतिरिति व्यवहितेनोच्यते । प्रधानं चेतनानधिष्ठितत्वान्न कारणं चेत्तर्ह्यणवस्तदधिष्ठिता भवन्तु कारणमिति सुखबोधाय सूत्रमादौ त्रेधा योजयति –
परमाणूनामित्यादिना ।
अनवबोधरूप आत्मा अदृष्टाश्रय इति वदतामणवः किं न स्युरित्यणुसमवायीत्युक्तम् ।
ननु कर्मणश्चेतनानधिष्ठितत्वमसिद्धम् ईश्वराधिष्ठितत्वादत आह –
निमित्तेति ।
उपरिष्टादिति ।
पत्यु (ब्र.अ.२.पा.२.सू.३७) रित्यत्रेत्यर्थः ।
भाष्ये स्वानुगतैरिति न जातेरिव व्यक्तीनामनुगतत्वमुच्यत इत्याह –
स्वसंबद्धैरिति ।
संबन्धोऽपि न संयोग इत्याह –
संबन्धश्चेति ।
आधारीतीन्प्रत्ययो नित्ययोगे । अतश्चायुतसिद्धिसिद्धेर्न कुण्डबदरसंयोगेऽतिव्याप्तिः ।
समवाये प्रमाणमाह –
इहेति ।
इह प्रत्ययकार्यगम्य इत्यर्थः । संस्कारो वेगादिः । अभिघातः क्रियाविशिष्टद्रव्यस्य द्रव्यान्तरेण संयोगविशेषः । यथोद्यमितनिपातितमुसलस्योलूखलेन । नोदनं तु संयुक्तस्य स एव संयोगः प्रयत्नविशेषापेक्षः , यथा संनद्धकरशरसंयोगः क्षेपानुकूलप्रयत्नापेक्षः । निमित्तापेक्षत्वेन समानयोगक्षेमौ नोदनसंस्कारावित्यर्थः ।
तथापीश्वरस्य चैतन्यमस्तीत्याशङ्क्याह –
क्षेत्रज्ञस्येति ।
शङ्कत इति ।
परमाणूनां कल्पिता इति वक्ष्यमाणप्रतीकग्रहणेनानुषङ्गः ।
ननु परैः कल्पिताः प्रदेशा नेष्यन्ते , किंतु परमाणौ संयोगस्य वृत्त्यवृत्ती इत्याशङ्क्य वृत्त्यवृत्तिपक्षे व्याघातान्निरस्ते , गत्यभावाद्वैशेषिको यदि परमाणौ संयोगस्याव्याप्यवृत्तये कल्पितं प्रदेशं मन्येत , स भाष्ये आशङ्क्य निरस्यत इति वक्तुं वृत्त्यवृत्तिपक्षं तावदाह –
यद्यपीति ।
व्याघातमाह सिद्धान्ती –
कैषेति ।
परिहरति वैषेषिकः –
एषेति ।
घटादिषु हि संयोगस्य वृत्त्यवृत्ती दृश्येते , यदि तत्राप्यवयवविभागेन , तर्हि यावत्परमाणु तथात्वे परमाणोश्च निरंशत्वे संयोग एव न स्यादिति वृत्त्यवृत्ती एव तस्याव्याप्यवृत्तितेत्यर्थः । सूद्धारां सुपरिहारामापाद्येत्यर्थः ।
शङ्कायाः सूद्धारत्वासिद्ध्यर्थं वृत्त्यवृत्तिपक्षं दूषयति –
न ह्यस्तीति ।
यदि भावाभावयोरेकत्राविरोधस्तर्हि न क्वचिदपि भेदोऽवकाशमासादयेत्स हि विरुद्धधर्माद्यासरूपः , विरोधाय च त्वया जलाञ्जलिर्दत्त इत्यर्थः । प्रदेशकल्पनयापि कल्प्य इति परेणाप्यङ्गीकार्यमित्यर्थः ।
नन्वभिघातादय इति ।
प्राक् प्रलयादभिघातादीनां हेतुत्वसंभवादित्यर्थः ।
सर्वस्मिन्नणावपर्यायेणाभिघातादयो न संभवन्तीत्यत्र हेतुमाह –
नियमेति ।
सत्यपि पृथिव्यादौ शरीरादिलयादेव दुःखच्छेदसिद्धेरप्रयोजकस्तस्मिन् पृथिव्यादिलय इत्याह –
तथापीति ।
भवन्मते तावन्न समवायः संबन्धिभ्यां कल्पिततादात्म्यवान् । तथा च स्वतन्त्रोऽसंबद्धः सन् संबन्धिनौ न घटयितुमर्हतीत्यर्थः ॥१२॥
समवायस्तन्तुपटाभ्यां संबद्धः तन्नियामकत्वात्कारणवदित्यत्रासंबन्धत्वमुपाधिमाशङ्कते –
अथासाविति ।
अनवस्थया पक्षे साध्याभावनिश्चयात्पक्षेतरस्याप्युपाधिता संबन्धिनोर्न घटयितुमर्हतीत्यर्थः । परस्परं स्वस्य च ताभ्यां संबन्धनमविश्लिष्टत्वापादानं परमार्थः स्वभावो यस्य स तथा तत्त्वादित्यर्थः ।
स्वस्य संबन्धिभ्यां सबन्धनात्सत्त्वं नित्यपरतन्त्रत्वादित्याह –
नासाविति ।
संबन्धिनोः संबन्धानात्मत्वे हेतुमाह –
न च तस्मिन्निति ।
स्वसत्तायां संबन्धिनोरसंबन्धाभावान्न समवायस्य तत्संबन्धने स्वातिरिक्तसंबन्धापेक्षेत्यर्थः । समवायः समवायिनोरिति यत्तत्स्वभावादिति योजना । किमसंबन्धत्वमुपाधिः असमवायत्वं वा ।
नाद्यः ; संयोगे साध्याव्याप्तेरित्याह –
संयोगोऽपीति ।
समवायेन तुल्यन्यायत्वात्संयोगोऽप्यसंबन्धः प्रसज्येत । न चैवं त्वयेष्यतेऽतः साध्याव्याप्तिरित्यर्थः । पक्षद्वयेऽपि पक्षेतरत्वं च । यः संबन्धः समवायो वा संबन्धानपेक्ष इत्युपाधिव्यतिरेके दृष्टान्ताभावात् । न चानवस्थया पक्षे साध्याभावानिश्चयापदोषः , तथासति समवायस्य लोपात् । न चैवं समवायस्य संबन्धापेक्षानुमानमाश्रयासिद्धम् ; परसिद्धमाश्रित्य परेषामनिष्टापादनादिति।
अगुणत्वे सत्यसंबन्धत्वं संबन्धापेक्षायामुपाधिस्तथा च न साध्याव्याप्तिरित्याशङ्कते –
यद्युच्येतेति ।
संयोगस्य गुणत्वमसिद्धमिति साध्याव्याप्तिस्तदवस्थेत्याह –
यद्यसमवाय इति ।
संबन्धान्तरसापेक्षेऽपि संयोगे नास्त्यगुणत्वे सत्यसंबन्धत्वमस्मन्मतेऽस्यागुणत्वात्संबन्धत्वाच्च अतः साध्याव्याप्तिरित्यर्थः ।
ननूभयसिद्धस्थले साध्याव्याप्तिर्न्यायमते च संयोगस्यागुणत्वमसिद्धमित्याशङ्क्याह –
परमार्थस्त्विति ।
अयं परिहार इति शेषः ।
द्रव्याश्रयीत्युक्तमिति ।
न च द्रव्यासमवेतो गुणो भवतीति ग्रन्थ इत्यर्थः । अयं भावः - अगुणत्वे सत्यसंबन्धत्वमित्युपाधेर्व्यतिरेक एवं वाच्यः । समवायः संबन्धाऽनपेक्षः अगुणत्वे सति संबन्धत्वादिति। अत्र तावद् दृष्टान्ताभावादनध्यवसितत्वम् । न च व्यतिरेकित्वम् ; अभावे साध्यवत्यपि हेतोरवृत्तेः । विशेषणवैयर्थ्यं च । संयोगस्य प्रागुक्तरीत्या स्वाभाविकद्रव्याश्रितत्वप्रयुक्तेरगुणत्वोपपत्तौ अव्यवच्छेद्यत्वादिति। समवायः समवेतः संबन्धत्वात्संयोगवदित्यप्यनुमानं द्रष्टव्यम् । संयोगे संबन्धत्वे सति संबन्धापेक्षत्वे कार्यत्वमुपाधिः । जात्यादौ साध्याव्याप्तिवारणाय संबन्धत्वे सतीति साध्यविशेषणम् । तथा च कार्यत्वं समवायाद्व्यावर्तमानं स्वव्याप्तां संबन्धत्वे सति संबन्धापेक्षां वारयेत् , संबन्धत्वं च समवाये उभयवादिसिद्धम् ।
अतोऽर्थात्संबधापेक्षाव्यावृत्तिसिद्धिरित्याशङ्क्याह –
न च कार्यत्वादिति ।
आत्माकाशसंयोगे साध्याव्याप्तिमाह –
अजसंयोगस्येति ।
अजसंयोगश्च साधयिष्यते ।
संबन्धत्वेन हेतुना संयोगवत्समवायस्यापि कार्यत्वं साधयन्साधनव्याप्तिमाह –
अपि चेति ।
ये तु समवायस्य कार्यत्वं स्वीकृत्यैव समवायिकारणानपेक्षत्वेन समवायान्तरापेक्षां न मन्यन्ते प्राभाकरास्तान्प्रति प्रतिबन्द्या समवायान्तरापेक्षामुपपादयति –
तथा चेति ।
संयोगप्रतिबन्दीमुपसंहरति –
तस्मादिति ।
ननु संयोगस्यापि संयोगिभ्यामसंबन्ध एव भवतु तथा च कुतः प्रतिबन्दीति कश्चिच्छङ्कते –
यद्युच्येतेति ।
दूषयति –
तत्किमिति ।
संयोगिनोरिति सप्तमी ॥१३॥१४॥
यदि परमाणून्पक्षीकृत्य रूपादिमत्त्वेन सावयवत्वमनित्यत्वं च साध्यते तर्ह्याश्रयासिद्धिरित्याशङ्क्याह –
यत्किलेति ।
मूलकारणमुभयसंमतं पक्षस्तद्यदि रूपादिमत्तर्हि सावयवत्वाद्यापाद्यमिति नाश्रयासिद्धिरित्यर्थः ।
नन्वेवमपि पक्षधर्मत्वासिद्धिः स्यात् , सिद्धान्ते मूलकारणस्य रूपादिमत्त्वानभ्युपगमादत आह –
केति ।
यदि पर्वतेऽनग्निमत्त्वम् अभ्युपगम्यते , तर्ह्यधूमवत्त्वं स्यादित्यादावप्रमितस्यैवाभ्युपगममात्रेणापादकत्वदर्शनादिति भावः । प्रसङ्गेऽप्यापाद्यापादकयोर्व्याप्तिः प्रमिता वक्तव्या ।
यदनग्निमत्तदधूमवदिति व्याप्तेः प्रमितत्वात्तदिदमुक्तं –
नियतेति ।
ननु व्याप्यारोपाद्व्यापकरोपस्तर्कः कथमनेन वस्तुसिद्धिरत आह –
तदनेनेति ।
तदिति ।
तत्रेत्यर्थः । विमतं सोपादानं भावकार्यत्वात्संमतवदिति सामान्यतः प्रवृत्तानुमानमेतत्तर्कोपबृंहितं नित्यव्यापकब्रह्मविषयं क्रियत इत्यर्थः । जगदुपादानं न स्पर्शवद् न चाणु नित्यत्वाद् - अत्यन्ताभाववदिति अनुमानपर्यवसानम् ।
सत्यपि स्पर्शादिमत्त्वे मूलकारणस्य नित्यत्वमनुमानात्सिध्यतीत्यर्थात्सत्प्रतिपक्षतामाशङ्क्य दूषयतीत्याह –
परमाणुनित्यत्वेति ।
कारणाभावादेवनित्यत्वसिद्धेः कारणग्रहणोक्तिर्व्यर्थेत्याह –
अपि चेति ।
परमाणुर्नित्यः , अवयवविनाशावयवविभागरहितत्वादात्मवदित्येतत्सुखादिभिर्न सव्यभिचारं द्रव्यत्वे सतीति विशेषणादित्याह –
न च सुखादिभिरिति ।
ननु स्थिते घृते काठिन्यनाशो भाष्ये उदाहृतः उत घृतस्यापि । नाद्ये द्रव्यलयस्योदाहरणम् । अन्त्ये तु अवयवविभागपूर्वकत्वात्तत्रापि घृतनाशस्य साध्यसमत्वमिति। तत्र साध्यसमत्वमुपरि परिहरिष्यति ।
काठिन्यं तावद् घृतस्यावस्था , न च दार्ष्टान्तिकेनासंगतिः ; पटादीनामपि तन्त्वाद्यवस्थाविशेषत्वेन तन्त्वान्तरत्वाभावाद् , इत्याह –
द्रव्यस्वरूपापरिज्ञानादिति ।
अधस्तादारम्भणाधिकारणे (ब्र.अ.२.पा.१.सू.२४) ।
ननु विशेषावस्थापि संयोगपूर्वेति , नेत्याह –
तच्चेति ।
एकं ह्यनुगतद्रव्यं कारणभूतं सामान्यं न तस्य संयोग इत्यर्थः ।
कारणस्य सामान्यात्मत्वमुपपादयति –
मृद्वेति ।
कारणस्यैव कार्यरूपसंस्थानात्मकत्वमाह –
न चैत इति ।
शकलम् इत्यारभ्य रुचकावान्तरो विकार उक्तः ।
ननु किमनुगतद्रव्यकल्पनया व्यावृत्ताः कपालशकलादय एव घटरुचकादीनारप्स्यन्ते , इत्यत आह –
तत्र तत्रेति ।
सत्यपि जनकत्वाविशेषे कुम्भकारहेमकारादयो न कुम्भरुचकादीनाम् उपादानम् । नहि ते तांस्तादात्म्येनोपाददाना दृश्यन्ते । भृत्कनके तूपादानमिति व्यवस्था तादात्म्यकारिता ; समवायस्य प्राग् निरस्तत्वात् , तादात्म्यं चानुवृत्तयोरेव महीहेम्नोर्घटरुचकादिष्वनुभूयते , नेतरेतरव्यावृत्तानामित्यनुगतद्रव्यमेवोपादानमित्यर्थः ।
ननु सत्युपादानेऽनुवृत्तिव्यावृत्तिचिन्ता , तदेव नेति बौद्धमतमाशङ्क्याह –
न च विनश्यन्तमिति ।
प्रतीत्य प्राप्य । एवं ‘यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानम् आरम्भकमभ्युपगम्यत’ इति भाष्यमुपपादितम् ।
इदानीं तु तदा घृतकाठिन्यविलयनवदित्यादिभाष्यं कृतोपोद्घातं व्याचष्टे –
एवं व्यवस्थिते इति ।
यत्तु घृतस्यापि नाशाभ्युपगमेऽवयवविभागस्य सद्भावात्साध्यसमत्वमिति तत्र घृतनाशो नोपेयते , काठिन्यसंस्थाननाशस्तु न च तत्र विद्यमानोप्यवयवविभागप्रयोजकः ; परमाणुगतकाठिन्यनाशे द्रवत्वोदये च तदभावादित्याह –
न च तत्रेति ।
यथा कार्यद्रवत्वात्परमाणोर्द्रवत्वकल्पना , एवं काठिन्यमपि कल्प्यं न चेन्नेतरदपि ।
न केवलं परमाणुदृष्टान्ते अवयवविभागाद्यभाव उपजीव्यः , किंतु कार्यकारणभेदाभावोऽपीत्याह –
न च काठिन्यद्रवत्वे इति ॥१५॥
परमाणुषु गुणोपचयापचयाभ्याम् उपचितापचितावयवत्वप्रसञ्जनमयुक्तम् , अन्यत्वाद्गुणानां द्रव्यस्य निरवयवत्वाविघातादित्याशङ्क्य गुणसमुदायत्वं परमाणूनां वक्तुं कार्यस्य गुणसमुदायत्वं तद्वृद्धिह्रासाभ्यां च स्थौल्यसौक्ष्म्ये दर्शयति –
अनुभूयते हीत्यादिना ।
येनामिलिता गुणास्तेन कारणेन स्थूलाः सन्तस्ते विशेषा व्यावृत्तव्यवहारवन्तस्ते च सात्त्विकत्वादिना शान्ततादियोगिन इत्यर्थः ।
परस्परेति ।
परस्परे गन्धादीनामनुप्रवेशाद् द्रव्यसंज्ञां लब्ध्वा रसादयः पृथिवी भूत्वा गन्धं धारयन्ति , रूपादय आपो भूत्वा रसं धारयन्ति , स्पर्शादयस्तेजो भूत्वा रूपं धारयन्ति , शब्दस्पर्शसमुदायश्च वायुर्भूत्वा स्पर्शं धारयतीत्यर्थः । उपचितगुणानां मूर्त्युपचयादिति भाष्योपादानम् ।
उपचयमात्रेण न संधातात्मकमूर्त्याधिक्यमतो व्याख्या –
संहन्यमानानामिति ।
संघातेति मूर्तशब्दव्याख्या ।
यस्तु ब्रूते इति ।
आगममनादृत्येत्यर्थः ।
गुणसङ्घातोपचयापादने इष्टपरतामाशङ्क्याह –
द्रव्यस्वरूपेति ।
परमाणुषु गुणोपचयान्मूर्त्युपचये साध्ये कार्येषु तदुपचयान्मूर्त्युपचयप्रदर्शनं न तावद्दृष्टान्तत्वेन ; साध्यसमत्वाद् , नापि हेतुत्वेन ; व्यधिकरणत्वादित्याशङ्क्याह –
न तावदिति ।
दृष्टान्तोक्तिस्तावदियम् ।
तत्र साध्यसमतां परिहरति –
कार्यं चेति ।
भावे चोपलब्धे (ब्र.अ.२.पा.१.सू.१५) रित्यत्र चोक्तरीत्येत्यर्थः । सौगतमते सङ्घातोऽनधिष्ठातृकः सिद्धान्ते त्वीश्वराधीनः । उपादानं च गन्धादीनामस्त्यव्याकृतमिति भेदः ॥१६॥१७॥
उत्सूत्रमिति ।
उत्सूत्रवाक्यमित्यर्थः । सौत्रचशब्दव्याख्यानत्वात् षट्पदार्थीदूषणस्य । भाष्ये – द्रव्याधीनत्वं द्रव्याधीननिरूपणत्वमिति , न तु तदुत्पाद्यत्वम् ; केषांचिद्गुणानां सामान्यादीनां च तदभावाद् ।
द्रव्याधीनत्वमुपपादयति –
न हि यथेति ।
पूर्वं स्वमते स्थित्वा द्रव्यस्य गुणसङ्घातमात्रत्वमुक्तमिदानीं वैशेषिकदृष्ट्या द्रव्यं किंचिदभ्युपेत्य द्रव्यसामानाधिकरण्यप्रतीत्या गुणादेर्द्रव्यमात्रत्वमुच्यत इति न पूर्वापरविरोधः ।
ननु न तादात्म्येन द्रव्याधीननिरूपणत्वं किंतु तदुत्पत्त्येत्याशङ्क्याह –
वह्न्याद्यधीनेति ।
ननु तादात्म्येन प्रतीयमानत्वम् अभेदहेतुरित्युक्ते कथं भाष्येऽग्निधूमयोर्व्यभिचारशङ्कात आह –
द्रव्यकार्यमात्रत्वमिति ।
शङ्कत इति ।
शुक्लत्वं घटवृत्ति शौक्ल्यवृत्तित्वात्सत्त्ववदित्यनुमानमभिप्रेत्य तदनुकूलत्वेन सामानाधिकरण्यप्रतीतिरुक्ता , तस्या अन्यथासिद्धिं शङ्कत इत्यर्थः ।
अयुतसिद्धत्वसंबन्धेऽपि भेदे सति न सामानाधिकरण्यमुपपद्यत इत्याशङ्कयायुतसिद्धत्वं निर्वक्ति –
यत्र हीति ।
आकारिणौ स्वतन्त्रौ स्वतन्त्रवस्तुनोरसामानाधिकरण्यं न स्वतन्त्रपरतन्त्रयोर्द्रव्यतन्त्राश्च गुणादय इति भेदेऽपि सामानाधिकरण्यमित्यर्थः । द्रव्याकारतया द्रव्यधर्मतया । आकारान्तरायोगेन स्वातन्त्र्यप्रयोजकधर्मयोगेनेत्यर्थः । भवेदियमयुतसिद्धिः सामानाधिकरण्योपपादिका , एषैव तु न भेदे घटते , न हि भिन्नानां विन्ध्यहिमवदादीनां धर्मधर्मिभाव उपलभ्यते ।
अथ भिन्नानामप्यपृथग्देशत्वादिभिः प्रकारैर्धर्मधर्मिभाव उच्येत , तर्हि तान् विकल्प्य दूषयतीत्याह –
तामिमामिति ।
तदर्थविकल्पोऽपि तद्विकल्प इति तामित्युक्तम् ।
एकदेशत्वमपृथग्देशत्वं भाष्यदूषितं , स्वयं तु प्रकारान्तरेणापृथग्देशत्वमाशङ्कते , तत्र तावत्प्रतियोगिभूतं पृथग्देशत्वमाह –
यदि तु संयोगिनोरिति ।
कुण्डबदरे हि संयोगिनी ताभ्यामन्यः स्वस्वावयव एव तयोर्देश इति।
ननु परमाण्वोराकाशपरमाण्वोश्च संयोगे कथं संबन्धिभ्यामन्यदेशत्वं युतसिद्धिस्तेषामनाश्रितत्वादत आह –
नित्ययोस्त्विति ।
अविभुनोर्द्वायोर्विभुनोस्त्वन्यतरस्याविभुन इत्यर्थः ।
तथा चाकाशेति ।
अत्र न यथासंख्यम् ।
सत्यपीति ।
एकतरस्य सबन्धिदेशत्वादेव न तयोः सबन्धिभ्यामन्यदेशत्वमित्यर्थः ।
आत्मसंयोगीति ।
आत्माश्रितसंयोगेन संयोगीत्यर्थः । तथा च न मूर्तत्वमुपाधिः स्यादात्मन्येव साध्याव्याप्तेः । तस्यात्माश्रितसंयोगे न संयोगित्वादमूर्तत्वाच्च । यथाश्रुते तु भवत्येवोपाधिः ; यत्रात्मसंयोगित्वं तत्र मूर्तत्वमिति व्याप्तेरिति। सङ्गित्वात् संयोगित्वादित्यर्थः ; संबन्धित्वमात्रस्य गुणादौ व्यभिचारात् । एतावानेव हेतुः । सुखबोधार्थं तु मूर्तद्रव्यग्रहणम् । यद्यप्याकाशे आत्मसंयोगेऽस्ति विप्रतिपत्तिः ; तथापि न तस्य मूर्तसंयोगेऽस्तीति।
अभ्युपेत्यापि वर्णितामयुतसिद्धिं दोषान्तरमाह –
पृथगाश्रयाश्रयित्वमित्यादिना ।
स्यादेतत् - न तादात्म्यप्रत्ययोपपादकः समवायः , किन्तु सामानाधिकरण्यप्रत्ययविषय एवेति , नेत्याह –
न च प्रत्यक्ष इति ।
ननु शुक्लत्वमित्यादित्वतलादिभिर्निष्कृष्टो गुणोऽभिधीयते , शुक्लशब्दस्तु द्रव्यनिलीनगुणवाची लक्षयति द्रव्यमतो लाक्षणिकं सामानाधिकरण्यम् , ततः कथं द्रव्यगुणयोरभेदप्रतिभावमत आह –
न चेति ।
शाब्दो हि व्यवहारो लाक्षणिकः स्याद् , न प्रत्यक्षप्रत्यय इत्यर्थः ।
अभेदप्रत्ययस्य भ्रमत्वं भेदग्राहिप्रमाणाद्भवति , तच्च लक्षणस्वरूपमनुमानम् , द्रव्यं गुणादिभ्यो भिद्यते समवायिकारणत्वादित्यादि , तच्च धर्मिग्राहकप्रत्यक्षविरोधादाभास इत्याह –
न चायमिति ।
तस्य भ्रान्तित्वे सर्वाभावप्रसङ्गादाश्रयासिद्धिः । प्रमाणत्वे चाभेदविषयेण तेन विरोधादनुमानोत्थानासंभव इत्यर्थः ।
ननु संबन्धिन्यसति समवायो न भवतीति कथम् ? उत्पत्तिर्हि समवायः , उत्पत्तिश्चासत्येव कार्ये भवति , इतरथा तद्वैयर्थ्यादत आह –
न च कारणसमवायादन्येति ।
अन्येति वा पाठः । तत्र च न कारणसमवायादन्योत्पत्तिः , किं तूत्पत्तिरेव समवाय इति पूर्वपक्षिण एव ग्रन्थः । एवं हि सतीत्यारभ्य सिद्धान्तः ।
नित्यसमवायस्योत्पत्तित्वे कार्योत्पत्त्यर्थं कारणवैयर्थ्यं चेत्तर्ह्यनित्योऽस्तु , तत्राह –
उत्पत्तौ चेति ।
अथ समवायादन्या कार्यस्योत्पत्तिरुत्पन्नस्य च समवायस्तत्राह –
सिद्धयोस्त्विति ।
ननु सिद्धयोरपि संबन्धिभ्यामन्यदेशत्वाभावादिभिरयुतसिद्धिः स्यादिति , नेत्याह –
न चान्येति ।
एतेनेति ।
युतसिद्ध्यभावाद्यत्संयोगाभावस्तदयोगेनेत्यर्थः । पूर्वमप्राप्तिस्ततः संयोगौ ।
एतेनेत्येतद्विवृणोति –
मा भूदिति ।
एवंभूतयुतसिद्धिव्यवस्थापना हि कार्यकारणयोः संबन्धस्य संयोगत्वव्यावृत्त्यर्थो , तत्र च कार्यस्य नित्यपारतन्त्र्येणात्प्राप्त्यभावेऽपि तत्प्राप्तेः संयोगत्वाभावोऽसिद्धस्ततश्च युतसिद्धिलक्षणे सयोगपदं कार्यकारणसंबन्धाव्यवच्छेदकत्वाद् व्यर्थमित्यर्थः ।
अथ कार्यकारणसंबन्धाद्व्यावृत्तत्वेनोभयवादिसंमतधर्माणां वाचकेन पदवृन्देन युतं लक्षणान्तरं द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वमित्याद्यभिधीयेत , तत्राह –
तत्रेति ।
अस्याः प्राप्तेः कार्यकारणसंबन्धस्यासंयोगत्वसिद्धौ तद्व्यवृत्तिसमर्थसंयोगपदवद्युतसिद्धिलक्षणस्य सिद्धिस्तत्सिद्धौ च तल्लक्षितयुतसिद्धिराहित्येन कार्यकारणसंबन्धस्यासंयोगत्वसिद्धिरितीतरेतराश्रयम् ।
तर्ह्यान्यैवास्तु , नेत्याह –
न चान्येति ।
अन्यासभवोसिद्ध इति शङ्कते –
यद्युच्येतेति ।
अप्राप्तिपूर्विका प्राप्तिरन्यतरकर्मजा प्राप्तिरुभयकर्मजा प्राप्तिरिति त्रीणि लक्षणानि । एतानि च कार्यकारणसंबन्धस्य न संभवन्तीति नेतरेतराश्रयमित्यर्थः ।
वैशेषिकैर्हि तन्तुभ्यः पटे उत्पन्ने तत्क्षणे एव तन्त्वाकाशसंयोगजन्यः पटाकाशसंयोग इष्यते , स च न कर्मजस्ततः प्राक् पटसत्ताक्षणे पटे कर्माभावादतश्च यथोक्तलक्षणं तत्राव्यापकं स्यादित्याह –
संयोगज इति ।
तर्ह्यप्राप्तिपूर्विका प्राप्तिरित्येतावल्लक्षणमस्तु तथा च नाव्याप्तिः ।
नापीतरेतराश्रयत्वं संयोगपदानुपादानादिति , तत्राह –
न चाप्राप्तीति ।
अतिव्याप्तिं च लक्षणस्याह –
कार्यस्य चेति ।
असति प्राप्तरि प्राप्त्यनुपपत्तेः कार्यसत्तोत्तरक्षणे प्राप्तिरिति क्षणमात्रमप्राप्तिरस्तीत्यर्थः ।
ननु निरवयवसावयवयोः समवायसंभवात् कथं संश्लेषानुपपत्तिरत आह –
संग्रह इति ।
एकाकर्षणे इतराकर्षणं हि सावयवानामङ्कुरतरुशाखादीनां दृश्यत इत्यर्थः ।
न हि तत्र पिण्डावयवेति ।
यथा संवेष्टनेन पिण्डीकृते पटे प्रसारणसमये तदवयवसंयोगा न नश्यन्ति , किं त्ववस्थितसंयोगानामेव तेषामधिकदेशव्याप्त्या पिण्डावस्था नश्यति तथा पिष्टस्यापीति ।
इति तृतीयं परमाणुजगदकारणत्वाधिकरणम् ॥
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥१८॥ अभिमतफलदानैस्त्वत्कृतैर्विश्वलोके वितृषि गजमुख त्वद्गण्डभेदेन दानम् । गलदलिकुलजुष्टं त्वद्वपुष्येव जीर्यद् ध्वनयति जनतायां नार्तिरस्तीति नूनम् ॥
समुदायेति ।
गुणानां च केषांचित् परमाणुपरिमाणादीनाम् । अभेदे हि कार्यकारणयोः कार्यनाशोऽपि कारणरूपेण तिष्ठतीति न निरन्वयनाशः , भेदे तु निरन्वय इति।
ननु निमित्ताभावाविशेषात् सङ्घातारम्भवादयोरनुपपत्त्यविशेषे कथं तरप् प्रयोगः ? तत्राह –
स्थिरेति ।
स्थिरपक्षे हि कारणस्य भूत्वा व्यापृत्य जनकत्वं युक्तं नेतरत्रेत्यर्थः । वादिवैचित्र्यात्खलु । बहुप्रकार इति गृहीतभाष्यप्रतीकानुषङ्गः ।
बहुप्रकारत्वमेव दर्शयति –
केचिदिति ।
अत्रभवतां सौत्रान्तिकादीनां विप्रतिपत्तिर्हि पुरुषापराधाद्भवति यथा स्थाणौ वस्तुवशाद्वा यथा क्रियायामत्र तु न प्रथम इत्युक्तं –
सर्वज्ञानामिति ।
न द्वितीय इत्यभिहितं –
तत्त्वस्येति ।
बोधी बुद्धस्तस्य चित्तमभिप्रायस्तद्विवरणग्रन्थे । लोकनाथानां बुद्धानाम् । देशना आगमाः प्राण्यभिप्रायवशानुसारिण्यः शून्यताप्रतिपत्त्युपायैः क्षणिकसर्वास्तित्वादिभिर्लोके श्रोतृसमुदाये पुनः पुनर्बहुधा भिद्यन्ते ।
भेदमेवाह –
गम्भीरेति ।
अगाधो गम्भीरः तद्विपरित उत्तानः स्थूलदृष्टियोग्यस्तद्रूपेण क्वचिद्ग्रन्थप्रवेश उभयलक्षणा ज्ञानमात्रास्तित्वबाह्यार्थास्तित्वलक्षणा तत्प्रतिपादिनी भिन्नाऽपि देशना शून्यतैवाद्वयाऽतल्लक्षणाऽतत्तात्पर्यवत्यभिन्नेत्यर्थः । प्रत्ययवैचित्र्यादर्थोऽनुमेय इति सौत्रान्तिकाः । प्रत्यक्ष इति वैभाषिकाः । अतो मतभेदः । रूप्यते एभिर्विषया इति शेषः । कायस्थत्वात्कायाकारेण संहतत्वादसंहतानामिन्द्रियसंबन्धित्वाद्वेत्यर्थः । अहमित्याकारमालयविज्ञानमिन्द्रियादिजन्यं रूपादिविषयं च ज्ञानमेतद् द्वयं दण्डायमानं प्रवाहापन्नं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं , या प्रियेत्यादि तद्व्याख्यानम् । सविकल्पप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति भेदः स्कन्धयोर्ध्वनितः । वयन्ते तन्तून् संतन्वन्ति ।
अनुपलब्धिलिङ्गकमनुमानमाह –
तस्मादिति ।
यः कार्योत्पादः स तदनुगुणकारणमेलनाधीन इत्येकां व्याप्तिमुक्त्वा द्वितीयामाह –
कार्योत्पादानुगुणं चेति ।
या कार्योत्पत्तिः सा चेतनाधिष्ठितकारणेभ्यो भवतीति व्याप्ता , सा स्वव्यापकचेतनाधिष्ठितत्वविरुद्धा अनधिष्ठितेभ्यः पराभिमतकारणेभ्यो व्यावर्तमाना चेतनाधिष्ठितकारणवत्त्वे सिद्धान्त्यभिमतेऽवतिष्ठते । अतो या कार्योत्पत्तिः सा चेतनाधिष्ठितकारणेभ्य इति व्याप्तिसिद्धिरित्यर्थः । अत्र प्रयोगः - विमतं , चेतनाधिष्ठितमचेतनत्वात्तन्तुवदिति।
चिरातीतत्वेनेति ।
स्थायिवासनायास्त्वयाऽनिष्टत्वादित्यर्थः । व्यापारवदाश्रयो व्यापार इत्युक्ते तदाश्रितजातेस्तद्व्यापारत्वं स्यादिति तत्कारणक इत्युक्तम् । एतावत्युक्ते कुम्भोऽपि कुम्भकारव्यापारः स्यात्तन्निवृत्तये व्यापारवदाश्रय इति। एवमुक्तेऽपि मृदाश्रितो मृज्जश्च घटो मृद्व्यापारः स्यात्तन्निवृत्तये तत्कार्यं प्रति हेतुरित्यपि द्रष्टव्यम् ।
अस्त्वेवं व्यापारलक्षणं , प्रस्तुते किं जातमत आह –
न च समसमययोरिति ।
व्यापारव्यापारिणोरेककालत्वं भिन्नकालत्वं वा । नाद्यः ; कारणत्वस्य नियतप्राक्सत्त्वरूपत्वात् । न द्वितीयः ; आधाराधेयभावसंबन्धस्यान्यतरस्मिन्नसत्यप्ययोगादित्यर्थः ।
अथ पदार्थः पूर्वं भूत्वा स्वजन्यव्यापारसमयेऽपि तदाश्रयत्वेनानुवर्तेत , तत्राह –
तथा चेति ॥१८॥
प्रत्ययोपनिबन्धस्य संग्राहकं बुद्धसूत्रमुदाहरति –
इदमिति ।
हेतुमन्यं प्रति अयते गच्छतीति इतरसहकारिभिर्मिलितो हेतुः प्रत्ययः । इदं कार्यं प्रत्ययस्य कारणसमुदायमात्रस्य फलं , न चेतनस्य कस्यचिदित्यर्थः ।
हेतूपनिबन्धस्य संग्राहकं बुद्धसूत्रमुदाहरति –
उत्पादाद्वेति ।
तथागतानां बुद्धानां मते धर्माणां कार्याणां कारणानां च या धर्मता कार्यकारणभावरूपा एषा उत्पादादनुत्पादाद्वा स्थिता । धत्ते इति धर्मः कारणम् । ध्रियते इति धर्मः कार्यम् । यस्मिन् सति यदुत्पद्यते असति च नोत्पद्यते तत्तस्य कारणं कार्यं च , न चेतनः क्वचित्कार्यसिद्धयेऽपेक्षितव्य इत्यर्थः ।
स्थितधर्मता इत्येतत्स्वयमेव सूत्रकृद्विभजते –
धर्मस्थितितेति ।
कार्यतामाह – कार्यस्य हि धर्मस्य कारणादनतिप्रसङ्गेन कालविशेषे स्थितिर्भवतीति स्वार्थिकस्तल्प्रत्ययः ।
धर्मनियामकतेति ।
कारणतामाह – धर्मस्य कारणस्य कार्यं प्रति नियामकतेत्यर्थः ।
नन्वेवंविधमेव कार्यकारणत्वं न चेतनादृते सिध्यति , तत्राह –
प्रतीत्येति ।
कारणे सति तत्प्रतीत्य प्राप्य समुत्पादानुलोमतानुसारिता या सैव धर्मता , सा चोत्पादानुत्पादात्मा धर्माणां स्थिता , न चेतनः कश्चिदुपलभ्यत इत्यर्थः ।
सूत्रद्वयं व्याचष्टे –
अथ पुनरयमिति ।
हेतोरेकस्य कार्येणोपनिबन्धस्तथोक्तः । प्रत्ययानां मिलितानां नानाकारणानां कार्येणोपनिबन्धस्तथाऽभिहितः ।
हेतूपनिबन्धे उदाहरणमुक्त्वा तत्रैवोत्पादाद्वेति सूत्रं योजयति –
असति बीजे इत्यादिना ।
यावत्पुष्पफलोदाहरणं तावदसति पुष्पे फलं न भवति इत्यादिव्यतिरेको द्रष्टव्य इत्याह –
यावदसतीति ।
चैतन्यं बीजादीनां वाऽभ्युपगम्यते , किं वा तदतिरिक्तस्य कस्यचिद्भोक्तुः प्रशासितुर्वा ।
नाद्य इत्याह –
तत्र बीजस्येत्यादिना ।
यावत्पुष्पस्येति ।
पुष्पपर्यन्तस्येत्यर्थः । फलेऽपि यावच्छब्दो योज्यः ।
न द्वितीय इत्याह –
असत्यपि चान्यस्मिन्निति ।
अङ्कुराद्युत्पत्तौ चेतनव्यापारानुपलम्भादित्यर्थः । न च सोऽनुमेयस्तदन्यहेतौ सति कार्यानुत्पादादर्शनादिति। प्रत्ययोपनिबन्ध इत्यत्र प्रत्ययशब्द इणो धातोर्भावार्थीयाच्प्रत्ययान्तस्य रूपम् ।
तथा च समुदितत्ववाचीत्याह –
अयमानानामिति ।
तत्रास्य हेतूपनिबन्धः । उच्यत इति वाक्यशेषः ।
उदाहरणमाह –
यदिदमिति ।
अविद्यारूपाः प्रत्यया भ्रान्तय इत्यर्थः । तथा संस्काराश्चोत्तरत्र व्याख्यास्यमाना एतदारभ्य यावज्जातिप्रत्ययं जातिरूपं कारणं यावच्च जरामरणादितत्सर्वमाध्यत्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धे उदाहरणमित्यर्थः ।
विज्ञानधातुं व्याचष्टे –
यस्त्विति ।
देवदत्तादिनाम्नः शौक्ल्यादिरूपस्य चाश्रयः शरीरं नामरूपं तस्य च सूक्ष्मावस्था कललबुद्बुदादिकाक्रान्तनामरूपम् स एवाङ्कुरस्तं शब्दादिविषयैः पञ्चभिर्विज्ञानैः कार्यैः संयुक्तं योऽभिनिर्वर्तयति। आस्रवत्यनुगच्छति कर्तारमित्यास्रवः कर्म , तत्सहितं समनन्तरप्रत्ययरूपमनोविज्ञानं योऽभिनिर्वर्तयति स विज्ञानधातुरित्युच्यते , तच्चालयविज्ञानमित्यर्थः । देहाकारपरिणतेषु धातुषु शिरःपाण्यादिमत्त्वेन पिण्डसंज्ञा अत एवैकसंज्ञा एकैकस्मिन्धातौ नित्यसंज्ञा सत्त्वसंज्ञा प्राणिसंज्ञा वृद्धिह्राससंज्ञेत्यर्थः ।
वस्तुविषयेति ।
नालयत्वादिविशेषोऽपेक्ष्योऽपि तु सामान्येन वस्तुविषयेत्यर्थः ।
नामरूपं व्याचष्टे –
विज्ञानादिति ।
विज्ञानाद्धेतोरभिनिर्वर्तत इति संबन्धः । चत्वारः पृथिव्यादयो उपादानकारणस्कन्धाः प्रभेदास्तन्नामेत्युच्यते । विधेयापेक्षयैकवचनं नामाश्रयत्वाच्च नामत्वम् । तानि चोपादानानि उपादाय कारणत्वेन विकृत्य रूपं सितादि रूपवच्छरीरमभिनिर्वर्तते निष्पद्यते इत्यर्थः ।
ननु नामरूपयोर्द्वित्वात्कथमेकवचनमत आह –
तदैकध्यमिति ।
एकधेत्यर्थः । ‘‘एकाद्धो ध्यमुञन्यतरस्या’’ मित्येकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशे रूपम् एकध्यमिति। कार्यकारणे एकीकृत्यैक्यनिर्देश इत्यर्थः ।
जातेरुपरि वक्ष्यमाणत्वादिह गर्भाभ्यन्तरे देहाभिधानमित्याह –
शरीरस्यैवेति ।
षडायतनं व्याचष्टे –
नामरूपसंमिश्रितानीति ।
षट् पृथिव्यादिधातव आयतनानि यस्य कारणवृन्दस्य तत्तथा । उपक्लेषाः मदमानादयस्ते उपाया दुःखादीनां ते च भाष्यगतैवंजातीयकशब्दनिर्देश्या इत्यर्थः । उत्पादानुत्पादाभ्यां हेतुहेतुमद्भावे समर्थिते तावन्मात्रानुवादोऽयं दृश्यते ? उत्पत्तिमात्रनिमित्तत्वादिति।
ततश्चासंगतिमाशङ्क्याह –
अयमभिसंधिरिति ।
अङ्गीकृत्य हेतूपनिबन्धनस्य चेतनानपेक्षा प्रत्ययोपनिबन्धनस्य सा वार्यत इत्यर्थः । चेतनमन्यमनपेक्ष्य स्कन्धानामणूनां चेतरेतरप्रत्ययत्वादितरेतरमिलितत्वात्कार्यसिद्धिरिति चेद् , न ; अचेतनानां कार्योत्पत्तिमात्रे निमित्तत्वात्संघाते त्वस्ति चेतनापेक्षेति सूत्रार्थः । हेतूपनिबन्धस्तु स्वरूपत एव परेषां न संभवतीत्युत्तरसूत्र एवोत्तरोत्पादे च पूर्वनिरोधा (ब्र.अ.२.पा.२.सू.२०) दित्यत्र वक्ष्यत इति।
ननु मिलितेभ्यः पृथिवीधात्वादिभ्यश्चेतनमन्तरेणैवाङ्कुरोत्पत्तिरुक्ता , तद्वद्देहोत्पादोऽपि किं न स्यादत आह –
बीजादिति ।
तत्रापीश्वरोऽस्ति संहन्तेत्यर्थः । न च सर्वत्र हेतुत्वे केवलव्यतिरेकापेक्षा । तथा सत्याद्यज्ञानस्य ज्ञानान्तरजन्यत्वं संलग्नज्ञानदृष्टं तेन भवद्भिर्नानुमीयेत ।
शुक्रादिपरिणाममात्रजन्यत्वसंभवादिति संहत्तानां हेतुत्वे संहन्त्रा भाव्यमित्युक्तं , तत्र संघातस्याप्रयोजकत्वं , ततश्च न संहन्तुरनुमानमिति शङ्कते –
स्यादेतदित्यादिना ।
यद्यनपेक्षास्तर्हि कुसूलाभिहतबीजादिभ्यः किमित्यङ्कुरो न जायते , तत्राह –
अन्त्यक्षणप्राप्ता इति ।
अङ्कुरोत्पत्तेराद्यक्षणो बीजादीनामन्त्यक्षणस्तं प्राप्ता एव कारणं न पूर्वम् ; तथैव दर्शनादित्यर्थः ।
ऐकैकश्येन कार्यजननसमर्थानां कि सघातेन ? तत्राह –
तेषां त्विति ।
उपसर्पणम् इतरेतरसमीपगमनं तस्य प्रत्ययः कारणं तद्वशात्परस्परसन्निधानप्रयोजकं जायत इत्यर्थः । एकस्मादेव कार्यसिद्धेः किमन्यैरिति वदन् प्रष्टव्यः किमेकस्मात्कार्यस्य निष्पन्नत्वादन्येषां व्यर्थतेति , उत जनयितव्ये कार्ये एकस्मात्कारणात्सिद्ध्यति न तत्कारणस्य कारणान्तरेष्वपेक्षेति।
नाद्य इत्याह –
कारणचक्रेति ।
न द्वितीय इत्याह –
न चैकोऽपीति ।
किं त्वित्यादिपूर्वोक्तनिगमनं परस्परं सन्निधानमुत्पादश्च येषां ते तथा ।
यदि प्रत्येकं कार्यजननसामर्थ्यं हेतूनां , तर्हि प्रतिकारणमेकैककार्योदयप्रसङ्ग इत्याशङ्क्याह –
न च स्वमहिम्नेति ।
तत्रैव एकस्मिन्नेवेत्यर्थः । बीजेन हि अङ्कुरो जनयितव्यः , मृदादिभिरपि स एव ; तत्र लाघतात्सर्वैरेक एव जन्यत इत्यर्थः ।
नन्वङ्कुर एव सर्वैः किमिति जनयितव्यः कारणभेदाद्विजातीयात्कार्यजन्म किं न स्यान्महीहेमभ्यामिव घटकटकौ , तत्राह –
न च कारणभेदादिति ।
अस्मिन्मते येषां मिलित्वैव हेतुता तेषां निरपेक्षणामपि सामग्रिता । तद्भेदे च विजातीयकार्योत्पाद इति।
इत्थं संघाताप्रयोजकत्वमुक्तं दूषयति –
तन्नेति ।
यद्यनपेक्षादन्त्यक्षणात्कार्यजन्म , तर्ह्युपान्त्यादयोऽपि स्वकार्यजननेऽनपेक्षाः स्युः ततः किं जातमत आह –
कुसूलस्थत्वाविशेषेऽपीति ।
कुसूलेह्युङ्कुरजननोपयोगिबीजसंताननिर्वर्तको बीजक्षणोऽन्ये च बीजक्षणाः सन्ति। तत्र कुसूलगतविमतबीजक्षणोङ्कुरोपजननोपयोगिबीजसंताननिर्वर्तको बीजक्षणमनपेक्षो न जनयेत् ; कुसूलस्थत्वात् , तत्कालोद्धृतभक्षितबीजक्षणवदित्याशङ्क्य कुसूलस्थत्वाविशेषेऽपीत्युक्तम् । अङ्कुरोपयोगिबीजसन्तानानन्तःपातित्वमुपाधिरित्यर्थः ।
स्वकार्योपजनने इति ।
अनन्तरजन्यबीजजनन इत्यर्थः । तस्मादाद्यक्षणादनन्तरानन्तरवर्तिन उपर्युपरिवर्तिनोऽनपेक्षः स्वस्वकार्यजनन इत्यनुषङ्गः ।
नन्वनन्तरक्षणपरंपरा बहिर्भवतु , कुतः कुसूले एवाङ्कुरसिद्धिस्तत्राह –
येन हीति ।
अनपेक्षस्य देशभेदेऽप्यपेक्षाविरहसाम्यादित्यर्थः । नाऽसंहतस्य सामग्रीत्वं संहन्ता च न तवेत्युक्तमभिसंधिमविद्वानित्यर्थः । अविद्यादिभिः कारणसंघातस्य य आक्षेपः स उत्पाद उत ज्ञापनम् ।
नाद्य इत्याह –
तत्रेति ।
यत्कार्यं तदन्यथानुपपद्यमानं सत्कारणं नोत्पादयति ; अन्यथाऽनुपपद्यमानदशायां तस्यासत्त्वात् , किं तु यदि जनकं , तर्हि स्वसामर्थ्येन , सामर्थ्यं चाविद्यमानस्य नास्तीत्यर्थः ।
न केवलं संघातानुपपत्तिः , किं तु संहतानां य इतरेतरमुपकारः सोऽपि नेत्याह –
अपि चेति ।
भावस्यान्यकृतोपकारस्य च किमेकक्षणवर्तित्वमुत जाते भावे उत्तरक्षणे उपकारः ।
नाद्य इत्याह –
भावस्येति ।
यो ह्येकस्मिन् क्षणे उपकाराभावाद्धेतुतामनश्रुवानः क्षणान्तरे तत्कृतमुपकारमासाद्य हेतुतां भजते , तस्य स उपकारोऽन्यकृत इति ज्ञायते । अपरथा स तस्य स्वभावः किं न स्यात् ? तव तु मते पदार्थक्षणस्याभेद्यत्वाद्वस्तुन उपकृतत्वानुपकृतत्वे न संभवतोऽतश्च भावस्योपकारानास्पदत्वम् । तथा च नोपकार्योपकारकभाव इत्यर्थः ।
द्वितीयं प्रत्याह –
कालभेदेन वेति ।
क्षणिकत्वव्याघातात् कालभेदेनापि नोपकार्योपकारकभाव इत्यधस्तनेनान्वयः । भाष्ये – आश्रयिभूतेष्वित्येतदणुविशेषणम् । चकारश्च भोक्तृषु सत्सु चेत्युपरि संबन्धनीयः । आश्रयाश्रयिशून्येष्वित्यत्र च भावप्रधान्यम् आश्रयाश्रयित्वशून्येष्वित्यर्थः । आश्रयाश्रयिभूतेष्विति तु पाठे भोक्तृविशेषणम् । आश्रयश्चादृष्टमिति ।
उक्तमभिसन्धिमविद्वानिति यदुक्तं तद्विशदयति –
अस्तु तावदिति ।
अदृष्टात्संघातोत्पत्तिव्यवस्थासिद्धेर्भाष्योक्तदूषणानुपपत्तिमाशङ्क्याह –
स खल्विति ।
भोक्तृर्भोगादन्यत्वे हेतुमाह –
अप्राप्तभोगो हीति ।
भोक्तुः स्थिरतायां हेतुर्भोगार्थ इति। अर्थिदशायां भोगदशायां चानुवृत्तेस्थैर्यमित्यर्थः ।
अस्य विवरणं –
भोगमाप्तुकाम इति ।
इतरथा हि भोगश्चासावर्थीति भ्रमः स्यादिति। अन्यस्य भोगायान्यो न कल्पत इत्यर्थः ।
ननु संघातासिद्धौ कर्त्रभावो वाच्यो न भोक्त्रभावः कर्तुर्हि हेतुता , तत्राह –
भोक्त्रभावेनेति ॥१९॥
ननु निरुद्धस्यास्त्वभावग्रस्तता निरुध्यमानस्य कथमत आह –
न तावदिति ।
यथा हि आरम्भकतन्त्वादिसंयोगस्य नाशक्षणे पटादेर्विद्यमानस्यैव विनश्यदवस्था वैशेषिकैः स्वीकृता , न तथा वैनाशिकैरित्यर्थः ।
ननूभयोर्विनाशग्रस्तत्वे को भेदस्तत्राह –
तस्मादिति ।
यद्विनाशग्रस्तत्वं तदचिरनिरुद्धत्वरूपं , सद् निरुध्यमानत्वं वक्तव्यं , तदेव चिरनिरुद्धत्वरूपं सद् विवक्षितमित्यर्थः ।
कार्यकाले कारणस्यासत्त्वेऽपि पूर्वक्षणसत्त्वेन हेतुत्वं भाष्योक्तमयुक्तम् ; मृदादीनां कार्येऽन्वीयमानानामुपादानत्वोपलम्भादिति ; तत्राह –
कारणस्य हीति ।
प्रायेणेति क्रियाज्ञानव्यावृत्त्यर्थम् । एषां पदार्थानां या भूतिरुत्पत्तिः सैव क्रिया कारकमिति चोच्यते तदेव कारणमिति। सामान्यं हि भेदविकल्पाधिष्ठानत्वेन कारणमित्यर्थः ।
ननु सादृश्यसिद्धौ तद्बलादनुगतरूपसिद्धिस्तदेव नास्ति , असत्यपि सादृश्ये सादृश्यभ्रमादत आह –
सर्वथेति ।
ननु वैसादृश्येऽपि तन्तुभावे पटभावादुपादानोपादेयभाव इत्याशङ्क्याह –
न चेति ।
एकस्मिन्पदार्थक्षणे तद्भावभावस्याशक्यग्रहत्वाद्रासभादावपि प्रसङ्गादित्यर्थः । अथ जात्युपाधौ कारणत्वं , तर्हि जातिरेव कारणं , व्यक्तयस्तदवस्थाः स्युर्नान्याः ।
अन्यकारणत्वस्यान्यत्रायोगात् त्वया चैतन्नेष्टमित्याह –
सामान्यस्य चेति ।
भाष्ये उत्पादादिशब्दस्य वस्तुशब्दस्य च पर्यायत्वापादनेऽपि वस्तुनो नित्यत्वापादनं द्रष्टव्यम् । तथा सत्युत्पादनिरोधयोरभावादित्यर्थः ॥२०॥
प्रतिज्ञोपरोधं व्याख्यातुं चतुर्विधां नित्यादिप्रतिज्ञां बौद्धीयां भाष्योक्तां दर्शयति –
नीलाभासस्येत्यादिना ।
तत्र तावच्चतुर्णां कारणानमेकस्मिन्नीलप्रत्यये समुच्चयेन कारणत्वसिद्ध्यर्थं द्वारभेदः प्रदर्श्यते । आलम्बनं च तत् प्रत्ययः कारणं चेति तथोक्तम् । उदितस्य ज्ञानस्य रसादिसाधारण्ये प्राप्ते रूपनियामकं चक्षुरधिपतिः लोके नियामकस्याधिपतित्वादिति।
एवं चित्तानां ज्ञानानां चतुर्भ्य उत्पत्तिमुक्त्वा चैत्तानामपि दर्शयति –
एवमिति ।
सुखं ज्ञानं , मनोजन्यत्वे सत्यपरोक्षत्वात् , संमतवदित्यर्थः । अपरोक्षत्वमद्रष्टादिव्यावृत्त्यर्थम् । एकविधसामग्रीजत्वेन चित्तसबन्धो बौद्धसूत्रे चैत्तशब्दार्थः । चत्वार्येतानि कारणानि । अत एव चित्ताभिन्नहेतुजत्वम् ।
उत्तरक्षणोत्पत्तिकाले पूर्वक्षणस्थितावपि न स्थायित्वं सिद्ध्यति ; एकक्षणेऽप्युभयसंभवाद् , उत्तरक्षणस्तु द्वितीयक्षणो भवत्वित्याशङ्क्याह –
उत्पत्तिरिति ।
भूतितत्कर्त्रोरभेदोपगमादुत्तरभावक्षणतदुत्पत्ती अभिन्ने । तथा च पूर्वक्षणस्योत्तरक्षणं यावदवस्थितौ स्थायित्वमित्यर्थः ॥२१॥
प्रतिशब्दः प्रातिलोम्यार्थः संख्याशब्दो बुद्धिवचन इति व्याचष्टे –
भावेति ।
प्रतीपा विरोधिनी । नन्वन्त्यसन्तानिनो न फलानारम्भकत्वं , यतोऽसत्त्वापत्तिः ।
न च फलारम्भे सन्तानानुच्छेदः ; न हि हेतुफलभावमात्रं सन्तानः , किं तु सजातीयानां हेतुफलभावस्तत्र विशुद्धविजातीयक्षणोत्पत्तावपि सजातीयहेतुफलभावरूपसन्तानो निवर्तत इत्याशङ्क्याह –
न च सभागानामिति ।
हेतुमाह –
तथा सतीति ।
सादृश्यं हि सन्तानिनां ज्ञानानां तुल्यजातीयविषयत्वेन । विषयाणां च तुल्यजातीयत्वं किमपरजात्या , उत परजात्या ।
नाद्यश्चैत्तसन्तानेऽनुवर्तमाने एव रूपज्ञानसन्तानविरमे रसज्ञानोदये सन्तानोच्छेदप्रसङ्गादित्युक्त्वा द्वितीयं दूषयति –
कथंचिदिति ।
सत्तया जात्या तत्सारूप्यमस्तीति सोपप्लवसन्तानोपरमे सति विशुद्धसन्तानोदयेऽपि न सन्तानोच्छेदः स्यादित्यर्थः । सन्तानगोचरौ निरोधौ भावगोचरौ वेति विकल्प्याद्यं निरस्य द्वितीयं निरस्यति।
नापि भावगोचराविति ।
भाष्यगतनिरन्वयनिरुपाख्यत्वपदयोर्हेतुहेतुमद्भावमाह –
यत इति ।
अपरिशिष्यमाणरूपत्वं निरन्वयत्वम् , असत्त्वं निरुपाख्यत्वम् ।
ननु यस्य घटादेर्विनाशः स नान्वयी , यस्य तु सामान्यस्यान्वयस्तन्न नश्यति , तत्कथं सान्वयत्वं नाशस्यात आह –
यद्यदन्वयिरूपमिति ।
तप्तशिलातलपतितस्योदबिन्दोर्दृश्यमानान्वयिरूपाभावमङ्गीकृत्यानुमानादन्वयः समर्थितः , इदानीं प्रत्यक्षेणानुवृत्तिमाह –
शक्यं त्विति ।
उदबिन्दावुपलतलपतिते सिन्धौ समुद्रे च तोयभावस्तोयत्वसामान्यं न भिद्यते । तस्मादुदबिन्दौ विनष्टेऽपि तस्य बिन्दोः सामान्यरूपेणाम्बुधावस्त्यन्वय इत्यान्तरश्लोकस्यार्थः ॥२२॥२३॥ मोक्षाप्तिहेतुत्वाद्भावनाया मार्गत्वम् ।
शब्दस्याकाशाश्रयत्वं परिशेषतः साधयति –
तथा हीति ।
तस्य हि न तावद्द्रव्यादिभ्योऽन्यत्र प्रसङ्गः ।
प्रसक्ते च तेषु षट् स्वन्तर्भावे सामान्यादित्रये तावदनन्तर्भावमाह –
जातिमत्त्वेनेति ।
त्रयाणां निःसामान्यरूपत्वादित्यर्थः । द्रव्यकर्मणोरनन्तर्भावमाह – गुणत्वेन ।
शब्दस्याकाशाश्रयत्वसिद्धये –
अस्पर्शेति ।
शब्दो गुणः जातिमत्त्वे सति बाह्यैकेन्द्रियग्राह्यत्वाद्गन्धवदित्यर्थः । वायुः स्पार्शनप्रत्यक्ष इति मते तस्मिन् व्यभिचाराभावायास्पर्शत्वोक्तिः । दिगादिव्यावृत्त्यर्थमिन्द्रियग्राह्येति। द्वीन्द्रियग्राह्यद्रव्यवारणाय एकेति । एकेन्द्रियग्राह्यगन्धत्वादिजातेरपाकरणाय जातिमत्त्वे सतीति। तथाविधात्मव्युदासाय बाह्येत्युक्तमिति ॥२४॥ सत्यप्येतस्मिन् अनुस्मरणे इत्यर्थः । उपलब्धृस्मर्त्रोरन्यत्वेऽपि स्मृतिरुपपत्स्यत इत्यन्वयः । अस्मिन्मते क्रियातिरिक्तकर्त्रभावादुपलब्धिस्मृती एव उपलब्धस्मर्तारौ तयोर्भेदेऽप्येकसन्ततिगतत्वेन कार्यकारणभावान्नातिप्रसङ्ग इत्युक्तं भवति। प्रत्यभिज्ञात्वेन समाज्ञातं सम्यग्ज्ञातम् ।
अहमद्राक्षीदिति यथाश्रुते अपप्रयोगता स्यात् , तां परिहरति –
अहं स्मरामीति ।
पूर्वोत्तरक्षणद्वयग्रहणाभावे तेनेदमित्याकारप्रत्ययोदयायोगाद्भाष्यस्थशङ्कानुपपत्तिमाशङ्क्याह –
न तु तत्त्वत इति ।
क्षणभङ्गवादी प्रष्टव्यः तेनेदं सदृशमिति प्रत्यये तत्तेदन्तावच्छिन्नावर्थौ तयोः सादृश्यं च किं न भासन्ते , भासमानानि वा किं ज्ञानस्याकाराः , उत तस्माद्भिन्नानि , यदा ज्ञानाकारत्वं तदा तज्ज्ञानं किमेकमुत नानेति।
नाद्य इत्याह –
स्वसंवेदनमिति ।
ज्ञानाकारत्वपक्षे एकस्य नानात्वं व्याहतमित्याह –
न चैकस्येति ।
ज्ञानभेदं निराचष्टे –
न च तावन्तीति ।
एकज्ञानेन नानापदार्थोल्लेखे हि नाना इत्युल्लेखो भवति , न ज्ञानभेदे इत्यर्थः ।
परिशेषाज्ज्ञानाद्भिन्नोऽर्थोऽभ्युपेयस्तस्य च नानाकारस्य तत्तेदन्तास्पदस्य परामर्शः स्थायिन्यात्मनि सति संभवतीत्याह –
तस्मादिति ।
ननु न वयमर्थस्य ज्ञानेऽवभासमपजानीमहे , येन प्रतीतिं विरुन्धीमहि , किं तु सोऽर्थः प्रतीतावारोपितो न बहिरस्ति , न च प्रतीतितावन्मात्रः ? ततश्च न ज्ञानस्यैकस्य नानार्थाकारत्वप्रयुक्तो व्याघातो न च बाह्यार्थाभ्युपगमप्रसङ्ग इति। विकल्पप्रत्ययोऽयमित्यादिशङ्काग्रन्थोक्तमर्थमाविष्करोति –
यद्युच्येतेति ।
कल्पितोऽपि ज्ञानेऽर्थाकारः तस्माद्भिन्नोऽभिन्नो वेति वक्तव्यम् । अनिर्वाच्यत्वानङ्गीकाराद् , भिन्नत्वे ज्ञानान्तरवदकल्पितः स्यात् , तथा च तेनेतीदमिति सदृशमिति च प्रतिभासमानानामर्थानामेकज्ञानाभेदाभ्युपगमे परस्परमप्यभेदप्रसङ्गः । तथा चेतरेतरभेदेन लोकप्रसिद्धाः पदार्था निह्णूयेरन् , ज्ञानाच्च ज्ञेयस्य भेदः प्रसिद्धः सोऽप्यपलप्तः स्यात् । ओमिति वन्दनं प्रति स्वपक्षसाधनम् ।
परपक्षाक्षेपानुपपत्तिरुक्ता भाष्ये , तां विशदयति –
एकाधिकरणेति ।
इदं नित्यमिदमनित्यमिति भिन्नयोर्ज्ञानयोराकारौ । तथा च धर्मिभेदेन व्यवस्थापनाद्विवादो न स्यादित्यर्थः ।
असति बाह्यालम्बनत्व इत्येतद्विवृणोति –
ज्ञानाकारत्वे हीति ।
विषयत्वाभावाद् आश्रितत्वाभावात् ।
असति च लोकप्रसिद्धपदार्थकत्वे इत्यस्य विवरणं –
न चालौकिकार्थेनेति ।
अनित्यशब्दो यद्यलौकिकार्थस्तर्हि तेन विभुत्वमपि वक्तुं शक्यं , तथा च नित्यत्वेन तस्य न विरोध इत्यर्थः । प्रतितिष्ठापयिषता स्थापयितुमिच्छता । एवं तावत्तत्तेदन्तास्पदादिरर्थो ज्ञानस्यान्तर आकार इति विज्ञानवादिमतं बाह्यार्थवाददूषणमध्येऽपि प्रसङ्गादाशङ्क्य प्रतिचिक्षेप ।
इदानीमस्ति बाह्योर्थः , स तु क्षणिको निर्विकल्पके चकास्ति , सविकल्पप्रत्ययास्तु विकल्पास्तद्गतसादृश्याद्याकारेण निर्भासन्ते , अतो विप्रतिपत्त्यादिव्यवहारसिद्धिरिति बाह्यार्थवादमाश्रित्यैव शङ्कते –
यद्युच्येतेति ।
ननु स्वग्राहकस्य ज्ञानस्य स्वयं तावद्ग्राह्यं कथमस्य बाह्याकारविषयत्वमत आह –
द्विविधो हीति ।
स्वाकारस्य निर्विकल्पस्यावसायाद् अधि उपरि अवसेयोऽध्यवसेयः ।
अध्यवसेयस्य बाह्यार्थस्य निश्चितत्वादनिश्चितार्थत्वापादकं भाष्यमयुक्तम् , इत्याशङ्क्याह –
अयमभिसंधिरिति ।
स्वमेव ज्ञानं प्रतिभासो यस्य तत्तथा ।
अनर्थ इति ।
अबाह्य इत्यर्थः । तस्मिन् बाह्यात्मत्वाध्यवसायात् प्रवृत्तिर्हानादिर्लोकस्येत्यर्थः । आन्तरस्यानभिधेयस्य ज्ञानाकारस्य तद्विपरीतबाह्याकाररूपेणाध्यवसायो नाम किं तद्रूपेण निष्पादनमुत तेन संबन्धनं किं वा तेनाकारेणारोपणमिति विकल्पार्थः । आन्तरं बाह्येन सह योजयितुं च नेशत इति योजना । गृह्यमाणे बाह्ये ज्ञानाकारस्यान्तरस्यारोप इति पक्षेऽधिष्ठानस्य बाह्यस्य केन ग्रहणं किं यस्याकार आरोप्यः तेनैव सविकल्पकप्रत्ययेनोत तत्समसमयभुवा निर्विकल्पकेन ।
प्रथमे किं बाह्यमभिमतं यत्रारोपः स्वलक्षणं वा सामान्यं वा , नाद्य इत्याह –
न तावद्विकल्प इति ।
विकल्पः सविकल्पकप्रत्ययस्तावदभिलापसंसर्गयोग्यजातिविशिष्टवस्तुगोचरः । अभिलापस्य च शब्दस्य सामान्येनैव सह समयः शक्यो ग्रहीतुं न स्वलक्षणेन । तस्य देशकालाननुगतत्वेनानन्त्यात्तत्र संगतिग्रहायोगात् अतः शब्दोल्लिखितसविकल्पकप्रत्ययस्य न स्वलक्षणविषयत्वमित्यर्थः । सुखादीनां क्षणिकभावानामात्मा स्वरूपमशक्यसमयः । यतोऽनन्यभागन्याननुगतो हि सः । अतस्तेषां स्वसंवित्तिरसाधारणाकारविषया वित्तिरभिजल्पानुषङ्गिणी न भवति , किंतु निर्विकल्पिकैवेति श्लोकार्थः । एतेन सामान्यात्मकबाह्यस्य सविकल्पकबोधेन ग्रहणपास्तम् । व्यक्तिमगृहीत्वा तद्ग्रहणायोगाद्व्यक्तेश्चोक्तमार्गेणाशक्यग्रहत्वादिति।
द्वितीयं निषेधति –
न चेति ।
विकल्पेनागृहीते बाह्ये विकल्पसमसमयेन निर्विकल्पकेन गृहीते । विकल्पः स्वाकारमारोपयितुं नार्हतीत्यर्थः ।
आद्ययोर्द्वितीय निषेधति –
अगृह्यमाणे त्विति ।
अधिष्ठानाग्रहणे आरोप्यमात्रं प्रतीयते नारोप इत्यर्थः ।
एवं तावदधिष्ठानप्रतिभासासंभवाद्बाह्ये ज्ञानस्वरूपस्यारोपः प्रतिषिद्धः , इदानीमारोप्यस्फुरणायोगाच्च नारोप इत्याह –
अपि चेति ।
स्वसंवेदनं सन्तं विकल्पं यदा बाह्यं बाह्यत्वेनारोपयति , तदा किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चादारोपयतीति योजना । युगपत्स्वाकारस्य ग्रहणं बाह्यत्वेन चारोपणमिति पक्षे किं स्वाकारबाह्ययोरैक्यस्फुरणमारोप उत्ताख्यातिमत इव विवेकाग्रहमात्रम् ।
नाद्य इत्याह –
स्वाकारो हीति ।
स्वप्रकाशकत्वपरप्रकाशत्वाभ्यां भेदावभासान्नैक्यस्फुरणसंभव इत्यर्थः । अन्यदेव स्यात् सिध्येत् प्रथेतेत्यर्थः ।
ननु स्वाकारः समारोपित इति। यः स्वाकारः स समारोपितात्मको न तु स्यादित्यनुषङ्गः , न स्फुरेदित्येवार्थः । द्वितीये किं बाह्ये गृह्यमाणे विवेकाग्रहो मृषाव्यवहारं प्रसूते अगृग्यमाणे वा । नाद्य इत्याह –
न चेति ।
न द्वितीय इत्याह –
अपि चेति ।
अपिचकारः समुच्चयार्थे । एतदुपपत्तिसाहित्यं प्राच्या वक्ति एवं तावद्वस्तुसन्तमित्यारभ्य ।
परमार्थज्ञानाकारस्य बाह्यवस्त्वात्मना समारोपः प्रतिक्षिप्तः , इदानीं वासनापरिप्रापितस्य कल्पितज्ञानाकारस्य बाह्ये समारोपं पराकरोति –
एतेनेति ।
तस्यापि स्वप्रकाशज्ञानवत्त्वेन बाह्याद्भेदग्रहस्य समत्वादित्यर्थः । पाशुपतस्य हि तपस्विन आत्मज्ञानाय चिह्नं कुर्वतः प्रमाणाकुशलजनैरप्युपहासादात्मस्वप्रकाशत्वमवगतम् ॥२५॥
बौद्धैरभावस्यार्थक्रियाकारित्वानभ्युपगमात्कथम् अभावाद्भावोत्पत्तिस्तत्सिद्धान्तत्वेनानूद्य निरस्यते ? तत्राह –
अस्थिरादिति ।
आपाद्यानुवादोऽयमिति वदिष्यन् क्षणिकस्य कारणत्वासंभवमाह –
उक्तमेतदित्यादिना ।
क्षणिकं कारणमिति वदन् प्रष्टव्यः तत्किमनपेक्षं सापेक्षं वेति। नाद्यः ; इतरेतरप्रत्ययत्वा (व्या.अ.२.पा.२.सू.१९) दिति सूत्रविवरणावसरे यद्यन्त्यक्षणप्राप्ता अनपेक्षा इत्यादिना निरस्तत्वादित्यर्थः । द्वितीयोऽपि तत्सूत्रव्याख्यानसमय एव न क्षणिकपक्ष उपकार्योपकारकभावोऽस्तीत्यादिना ग्रन्थेन प्रत्युक्तः ।
तत्सूत्रोक्तं निरासप्रकारमनुवदति –
सापेक्षतायां चेति ।
सापेक्षतायां चाक्षणिकत्वप्रसङ्ग इत्यन्वयः । क्षणिकोऽपि सापेक्ष इति वदन् प्रष्टव्यः स किमन्यकृतोपकारस्याश्रयो न वेति।
आद्यस्य निरसनं –
क्षणस्येति ।
पूर्वमनुपकृतस्य पश्चादुपकारसंबन्धे ह्युपकृतत्वं ज्ञातुं शक्यम् । इतरथोपकारस्य स्वाभाविकत्वसंभवेनान्यकृतत्वासिद्धिरित्यर्थः ।
द्वितीयं प्रत्याह –
अनुपकारिणि चेति ।
ततश्चोपकृतत्वानुपकृतत्वज्ञानाय क्षणद्वयस्थायित्वं वस्तुनो मन्तव्यमित्युक्तं भवति।
यदि क्षणिकस्य नोपकृतत्वं संभवति , अनुपकृतस्य च न सापेक्षत्वं , निरपेक्षस्य च कारणत्वमतिप्रसङ्गि , तर्हि क्षणिको न सापेक्षो ; नापि निरपेक्षः , किंतु प्रकारान्तरयोगीत्याशङ्क्याह –
सापेक्षत्वानपेक्षत्वयोश्चेति ।
कूटस्थस्यापि नियतशक्तिकत्वाद्भाष्ये सर्वतः सर्वोत्पत्तिप्रसङ्गानुपपत्तिमाशङ्क्य सर्वतः सर्वावस्थात्तज्जन्यसर्वोत्पत्तिरिति कार्ययौगपद्यापत्तिपरतया व्याचष्टे –
अयमभिसंधिरिति ।
अन्यकृतोपकारस्य भावादभेदे सत्युपकारशब्देन भावरूपमेवाभिहितं स्यात् , तस्य चान्यकृतत्वे कौटस्थ्यं व्याहन्येतेत्यर्थः । चर्मोपमश्चेत् स्थिरः कारणत्वाभिमतः पदार्थ उपकाराश्रयश्चेदित्यर्थः । उपकारादभेदे भावस्य स भावोऽनित्यः , भेदे स उपकारोऽनित्यः , स एव च कारणं न भाव इत्यर्थः ।
उपकारानाश्रयत्वे दूषणम् –
असत्फल इति ।
यदुक्तमन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी न भाव इति , तत्राह –
न चैतावतेति ।
परमार्थाश्रितत्वात्कार्यकल्पनाया भाव उपादानं तद्धर्मस्त्वनिर्वाच्य उपकारः कार्योपयोगीत्यर्थः । श्रुतौ मृद्दृष्टान्तस्य सत्यत्वाभिधानाद् दार्ष्टान्तिकस्य मूलकारणस्य सत्यत्वमुक्तम् ।
भेदाभेदाभ्यामनिर्वाच्येनोपकारेणोपकृतं कारणं कार्यमनिर्वाच्यं करोतीत्युक्तम् , तदयुक्तम् ; भेदनिषेधे अभेदापत्तेरभेदनिषेधे च भेदप्रसङ्गादित्याशङ्क्य बौद्धं प्रति प्रतिबन्दीमाह –
अपि च येऽपीति ।
किं व्यक्त्योरेव कार्यकारणभावः सामान्ययोर्वा तदुपहितव्यक्त्योयोर्वा ।
न प्रथमोऽतिप्रसङ्गादित्यभिसंधाय द्वितीये सामान्ये वस्तुनी अवस्तुनी वा , नाद्योऽपराद्धान्तादित्याह –
न च बीजाङ्कुरत्वे इति ।
अवस्तुनोरेव सामान्ययोः कार्यकारणभावोऽप्यर्थक्रियाकारिणः सत्त्वाभ्युपगमादपराद्धान्तावह – एव ।
अवस्तुसामान्योपहितानां व्यक्तीनां कार्यकारणत्वाभ्युपगमे तद्वदुपकारकार्ययोरप्यवस्तुत्वसंभवसिद्धिरित्याह –
तस्मादिति ।
काल्पनिकात् काल्पनिकसामान्योपहितादित्यर्थः ।
यदि सामान्योपाधानमन्तरेण व्यक्तीनामेव कार्यकारणभावस्तत्र दोषान्तरमाह –
अन्यथेति ।
अनुमानं हि सामान्योपाधौ प्रवर्तते , व्यक्तीनामानन्त्येन व्याप्तिग्रहायोगादित्यर्थः ॥२६॥२७॥
इति चतुर्थं ससुदायाधिकरणम् ॥
नाभाव उपलब्धेः ॥२८॥ रूपादिरहितब्रह्मजगदुपादानत्ववादिसमन्वयस्य विज्ञानं नीलाद्याकारमित्यनुमानविरोधाविरोधसंदेहे पूर्वोक्तसमुदायाप्राप्त्यादिदूषणान्युपजीव्य बाह्यार्थापलापाद्धेतुहेतुमल्लक्षणां सङ्गतिमाहेत्यर्थः । व्याघातेन पूर्वपक्षानुत्थानमाशङ्कते –
अथेति ।
चोद्यप्रारम्भार्थोऽथशब्दः । वस्तुव्यवस्थित्यै प्रमाणाद्यभ्युपगम्य तन्निषेधो व्याघात इत्यर्थः ।
बुद्धिपरिकल्पितेनेति ।
विभागमात्रं ज्ञेयाद्याकाराणां परिकल्पितं ज्ञेयादिरूपत्वं बुद्धेर्वास्तवमेव ।
ननु नीलाद्याकारं विज्ञानम् इत्यनुमाने वेदान्तिनां सिद्धसाधनम् ; ब्रह्मणो विज्ञानात्मकस्य नीलाद्यात्मकत्वाद् , अन्यथा तदद्वैतासिद्धेरत आह –
एवं चेति ।
बौद्धा हि वित्तेर्विज्ञानस्यान्तरं नीलादिरूपमाचक्षते , न वयमित्यर्थः ।
बुद्धौ परिकल्पितं ज्ञेयादिविभागमुपपादयति –
तथा हीति ।
असत्याकारेति ।
आकारस्यासत्यत्वं बाह्यरूपेणासत्येनान्तररूपेण सत्येनाकारेण युक्तमित्यर्थः ।
ननु बाह्यार्थसत्यत्वे प्रमाणादयः सत्याः सिध्यन्ति , किं कल्पितत्वेनेत्याशङ्क्य तन्मते प्रमेयविभागः सत्य उपलभ्येतापि , प्रमाणफलविभागस्तावन्मिथ्या , तथा चार्थात्प्रमेयमिथ्यात्वमापत्स्यत इत्यभिप्रेत्याह –
बाह्यवादिनोरपीति ।
वैभाषिकमते प्रमाणफलविभागस्य कल्पितत्वमुपपादयति –
भिन्नाधिकरणत्वे हीति ।
प्रमाणं हि करणं प्रमितिः फलं तयोर्भिन्नाधिकरणत्वे करणफलभावो न स्यात् ।
करणफलभाव एकाधिकरणयोरेवेत्यत्र दृष्टान्तमाह –
न हीति ।
यद्यपि परशुः स्वावयवेषु समवेतो द्वैधीभावस्तु स्वदिरे ; तथापि व्यापाराविष्टकरणीभूतः परशुः संयोगेन खदिराधिकरण इति करणफलयोरैकाधिकरण्यम् ।
भवतु प्रमाणफलयोरेकाधिकरणता , तावता कथं तद्विभागस्य कल्पितत्वसिद्धिरत आह –
कथं चेति ।
यदि ज्ञानस्थे एव प्रमाणफले भवतः , तर्ह्येव तदैकाधिकरण्यं भवति ; इतरथा कथं भवतीत्यर्थः ।
ननु भवेतां ज्ञानस्थे एव प्रमाणफलेऽतो वा किं जातमत आह –
न च ज्ञानं स्वलक्षणमिति ।
न तावत् कुण्डे बदरवज्ज्ञाने प्रमाणफलयोरवस्थानसंभवः ; ज्ञानस्यासंयोगित्वात् , तादात्म्येन तु स्यादवस्थानं , न च वस्तुतो भिन्नाभ्यामेकस्यैक्योपपत्तिस्ततः काल्पनिकप्रमाणफलभेद इत्यर्थः ।
तमेव दर्शयति –
तदेवेति ।
अज्ञानव्यावृत्त्यात्मकापोहरूपेण कल्पितो ज्ञानत्वसामान्यरूपोंऽशो यस्य तत्तथोक्तम् । अशक्तिव्यावृत्तिरूपेण कल्पिता विज्ञानस्यात्मानं स्वमनात्मानमर्थं प्रति च या प्रकाशनशक्तिः सोंशो यस्य तद्विज्ञानं तथा । तच्च प्रमाणमित्यर्थः । वैभाषिकस्य बाह्योऽर्थः प्रत्यक्षः सौत्रान्तिकस्य ज्ञानगताकारवैचित्र्येणानुमेयः ।
तन्मतेऽपि प्रमाणफलविभागस्य कल्पितत्वमाह –
एवमिति ।
ज्ञानगतं बाह्यनीलसारूप्यं भासमानमनीलाकारापोहरूपेण कल्पितं , तच्च बाह्यमर्थं व्यवस्थापयति , प्रतिबिम्बमिव बिम्बम् , अतः प्रमाणम् । ज्ञानात्सकाशाद्यदन्यत्तद्व्यावृत्तिरूपेण कल्पितं ज्ञानत्वं सामान्यं फलं , तद्धि सारूप्यबलान्नीलज्ञानत्वेन व्यवस्थाप्यते ।
अस्मिन्नपि मते प्रमेयं परमार्थभिन्नमिति सारूप्यस्य ज्ञानज्ञेयभावव्यवस्थापकत्वे सौत्रान्तिकवचनमाह –
तथा चेति ।
वित्तिसत्तैव तद्वेदना । तस्यार्थस्य वेदना न युक्ता । कुतः ? तस्या वित्तिसत्तयाः सर्वत्रार्थे विशेषाभावात् । ज्ञानमात्रं हि सर्वज्ञेयसाधारणम् । तस्मात्तां तु वित्तिं सारूप्यमाविशद् घटयेत् ।
किं घटयेदित्यत आह –
सरूपयत्तदिति ।
तद्बाह्यं वस्तु सरूपयत् स्वेन रूपेण सरूपां वित्तिं कुर्वद् घटयेद् वित्त्या सह विषयभावेन योजयेदित्यर्थः । सरूपयन्तमिति पाठे अर्थमिति शेषः ।
एवं संभाविते पूर्वपक्षे साधकप्रमाणानि कथयतीत्याह –
प्रश्नपूर्वकमिति ।
स्तम्भाद्यर्थः किं परमाणुस्तत्कृतोऽवयवीवा । प्रथमे किं परमाणुमात्रस्तद्गोचरप्रतीतिविशेषकृतो वा ।
तत्र परमाणुमात्रत्वं निषेधति –
स हीति ।
भासमानादन्यगोचरत्वमात्रमतिप्रसङ्गः ।
आद्यद्वितीयं द्वेधा विकल्प्य दूषयति –
न चेति ।
प्रतिभासनकाले तदुपाधिं कृत्वा अर्थस्य धर्म इत्यर्थः । स्वांशः स्वाकारः ।
ग्रहेऽनेकस्येति ।
अनेकस्य परमाणोरेकेन ज्ञानेन ग्रहणे किंचित् स्थूलं रूपं गृह्यते तच्च सांवृतम् ।
सांवृतत्वस्य विवरणं –
प्रतिभासस्थमिति ।
विशकलितपरमाणुतत्त्वाच्छादकत्वात्संवृत्तिर्बुद्धिः ।
स्वाभाविकत्वभावे हेतुमाह –
एकात्मनीति ।
एकपरमाण्वात्मनि औपाधिकविषयत्वे स्थूलबुद्धेर्भ्रान्तित्वमाशङ्क्य द्वितीयश्लोकेन परिह्रियते –
न चेति ।
तस्य स्थूलस्य दर्शनं न च भ्रान्तम् ; यतः कारणान्नानावस्तूनां परमाणूनां ग्रहणात् सकाशात् सांवृतस्य स्थूलस्य ग्रहणमन्यत्र भवति। य एव हि भिन्नधीगृहीतास्त एव निरन्तराः परमाणव एकधिया गृह्यमाणाः स्थूलमिति निर्भासन्ते । ते च वस्त्वेव वस्तुग्रहश्च न भ्रम इत्यर्थः ।
एवं स्थूलनीलावभासस्य सालम्बनत्वं बाह्यार्थवादिना समर्थितं विज्ञानवादी दूषयति –
तन्नेति ।
यदि निरन्तरा नीलपरमाणव एकधीगोचरा नीलं , तर्हि नैरन्तर्यमसिद्धम् । नीलपदार्थे च रसगन्धस्पर्शपरमाणूनामपि सत्त्वेन रूपपरमाणूनां नैरन्तर्याभावादित्यर्थः । आरात् दूरात् । घनं निबिडं तदेव वनम् ।
ननु स्थूलप्रत्ययस्य न भ्रान्तित्वं युक्तम् ; स्वलक्षणविषयत्वेन निर्विकल्पकत्वात् , सविकल्पकं ह्यवस्तुभूतसामान्यविषयत्वाद् भ्रान्तमित्याशङ्क्याह –
तस्मादिति ।
कल्पना अभिलापः । तदपोढं तद्रहितम् । यद्यपि स्थूलं व्यक्तिज्ञानं व्यक्तौ संबन्धग्रहस्याभावेन शब्दवाच्यत्वाभावात् तथापि भ्रान्तत्वान्नास्य प्रत्यक्षता कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणकरणादित्यर्थः ।
आद्यकल्पयोर्द्वितीयं निराकरोति –
नापि तत्समूहा इति ।
परमाणुभ्यः स्तम्भादीनां भेदे संबन्धोऽस्ति न वा । यदि न , कथं तर्ह्युपादानोपादेयभावः ? अस्ति चेत्तर्हि संबन्धस्तादात्म्यं समवायो वा । नाद्यो व्याघातात् । न द्वितीयो वैशेषिकाधिकरणे (ब्र.अ.२.पा.२.सू.१२) हि भिन्नयोः समवायो निरस्त इत्यर्थः ।
भाष्यकारेण ज्ञाने भासमानस्तम्भाद्याकारवैचित्र्यान्यथानुपपत्त्या स्तम्भादेर्ज्ञानाकारत्वमुक्तम् , तदयुक्तम् ; भिन्नस्यैवार्थस्य ज्ञानेन प्रकाशनसंभवादित्याशङ्क्य भेदाभ्युपगमे अर्थस्यापरोक्षता न स्यादित्याह –
न तावदित्यादिना ।
मा भूज्ज्ञानम् अर्थविषयज्ञानान्तरस्य जनकं , मा च विषयाश्रितं प्राकठ्यमनेनाजनि , तथापि स्वभावसंबन्धादर्थविषयव्यवहारं जनयेदित्याशङ्क्याह –
तच्चेति ।
ज्ञानमात्राकारस्य सर्वज्ञेयसाधारण्यान्नीलाकारवज्ज्ञानं नीलव्यवहारहेतुरित्यर्थः ।
विज्ञानवादी सौत्रान्तिकस्यापि संमतमिति वदंस्तदुक्तिमाह –
तदुक्तमिति ।
ननु न सौत्रान्तिकेन ज्ञानस्यैव नीलमाकार इत्युच्यते , किं तु बाह्यनीलसदृशो ज्ञानस्य नीलाकारोऽस्तीति तत्कथमर्थस्य ज्ञानाकारत्वसंमतिरत आह –
एकश्चेति ।
स्वीकृते ज्ञाननिष्ठनीलाकारे तेनैव व्यवहारोपपत्तेर्न बाह्यसिद्धिरित्यर्थः ।
एवं प्रत्यक्षेण ज्ञानाभेदमर्थस्य समर्थ्यानुमानादपि समर्थयते –
यद्येन सहेत्यादिना ।
विज्ञानवादिना यो ज्ञानार्थयोर्भेदो निषिध्यते , तद्व्यापकस्य सहोपलम्भनियमाभावस्य विरुद्धो यः सहोपलम्भनियमस्तदुपलब्धिस्ततश्च व्यापकाभावे व्याप्यभेदाभाव इति।
व्यापकविरुद्धोपलब्धिं प्रपञ्चयति –
निषेध्यो हीति ।
अश्विनौ नक्षत्रे । यो यन्मात्रानुबन्धी यदात्मा च स तत्र स्वभावहेतुः । उक्तं हि - ‘ तद्भावमात्रान्वयिनि स्वभावो हेतुरात्मनी’ति।
तद्भावं प्रकृते दर्शयति –
बाह्यानालम्बनता हीति ।
प्रत्ययत्वमात्रानुबन्धिनीति ।
तदात्मेत्यपि द्रष्टव्यम् । निरालम्बनत्वस्याभावस्य प्रत्ययरूपभावात्मकत्वात् । उक्तं हि न ह्यन्यासंसर्गिणो भावादन्योऽभाव इति। एवं तावत्प्रत्यये नीलाकारः स्वीकृतश्चेत्तेनैव व्यवहारसिद्धेर्बाह्यार्थवैयर्थ्यमुक्तम् ।
तत्र प्रत्ययगतार्थाकारभानमेव बाह्यार्थं कल्पयतीति प्रत्ययतिष्ठते इत्याह –
सौत्रान्तिक इति ।
बाह्यार्थसद्भावेऽनुमानमाह –
ये यस्मिन्निति ।
सौत्रान्तिकः त्वात्मसन्तानमेव दृष्टान्तयति –
यथेति ।
अविवक्षति विवक्षामकुर्वति। अजिगमिषति गन्तुमनिच्छति ।
मयि विवक्षुजिगमिषुपुरुषान्तरसन्तानाश्रितगमनवचनविषयप्रतिभासा यथा मयि सति कादाचित्का मद्व्यतिरिक्तपुरुषान्तरसन्तानमपेक्षन्ते , तथा दार्ष्टान्तिकेऽपीत्याह –
तथाचेति ।
अहमित्युदीयमानालयविज्ञानेन जन्यमानास्तदतिरिक्तजन्यत्वाजन्यत्वाभ्यां विवादाध्यासिताः शब्दस्पर्शरूपरसगन्धसुखादिविषयाः षडप्यर्थविषयप्रवृत्तिहेतुत्वात् प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञानसन्ताने कदाचिद्भवन्तस्तदतिरिक्तहेतुका इत्यर्थः ।
अर्थान्तरमाशङ्क्याह –
यश्चेति ।
अन्यस्यासंभवादित्यर्थः ।
असंभवोऽसिद्ध इति शङ्कते –
वासनेति ।
शङ्काग्रन्थोक्तमर्थं व्याख्यानपूर्वकं दूषयति –
नन्विति ।
तत्प्रवृत्तीति ।
तस्यां सन्ततौ प्रवृत्तिविज्ञानानि नीलादिविषयाणि तज्जननशक्तिर्वासनेत्यर्थः । तत्प्रत्येति प्रत्यागच्छति उत्पद्यतेऽनेन परिपाक इति प्रवृत्तिविज्ञानजनकालयविज्ञानात् पूर्वं आलयविज्ञानसन्ताने यदाकदाचिदुत्पन्नो नीलादिप्रत्ययः प्रत्यय इत्युक्तः ।
ननु किमिति स्वसन्ततिपतितपूर्वक्षण एवोत्तरक्षणवर्तिपरिपाककारणमाश्रीयते –सर्वज्ञानादिसन्तानवर्ती क्षणः किं न कारणं स्यादत आह–
संतानान्तरेति ।
अत्र च हेतुं वक्ष्यति – न च ज्ञानसंतानान्तरनिबन्धनत्वं सर्वेषामिति ग्रन्थेन ।
एवं शङ्काभिप्रायं विशदीकृत्य दूषयति –
तथाचेति ।
प्रवृत्तिविज्ञानजनकालयविज्ञानवर्तिवासनापरिपाकं प्रति सर्वेऽप्यालयविज्ञानसंतानवर्तिनः क्षणा हेतव इति वक्तव्यम् ।
न चेदेकोऽपि हेतुर्न स्यादिति बाधकमाह –
न वा कश्चिदिति ।
सर्वेषां हेतुत्वे च दूषणं वक्ष्यते ।
इदानीमेकस्यैव हेतुत्वमिति पक्षं सौत्रान्तिकं प्रति विज्ञानवादी शङ्कते –
क्षणभेदादिति ।
आलयविज्ञानसंतानवर्तिक्षणानां भेदादस्ति प्रतिक्षणं शक्तिभेदस्तस्य च शक्तिभेदस्य कादाचित्कत्वात् शक्तैकक्षणानन्तरं कार्यस्यालयविज्ञानक्षणवर्तिवासनापरिपाकस्य तज्जन्यप्रवृत्तिविज्ञानस्य च कादाचित्कत्वं सिध्यतीत्यर्थः ।
दूषयति सौत्रान्तिकः –
नन्वेवमिति ।
एकस्यालयविज्ञानस्य प्रवृत्तिविज्ञानाख्यनीलज्ञानोपजनसामर्थ्यं स्यात्ततः प्राक्तनस्यालयविज्ञानवर्तिनीलादिविज्ञानक्षणस्य चैकस्यैव तत्प्रबोधसामर्थ्यमुत्तरक्षणगतवासनापरिपाकाख्यप्रबोधसामर्थ्यं स्यादिति द्वे एव ज्ञाने एकस्यामालयसंततौ कारणे स्यातां नेतराणीत्यर्थः ।
यदीतरेषामपि पूर्वज्ञानानां परिपाकहेतुत्वमुत्तरोत्तरेषां च प्रवृत्तिविज्ञानजननसामर्थ्यमिष्यते तत्राह –
सत्त्वे वेति ।
भवन्तु सर्वे क्षणाः समर्थास्तत्राह समर्थहेतुसद्भावे इति। यदवादिष्म सर्वेषां हेतुत्वे दूषणं वक्ष्यतीति तदनेन ग्रन्थेन क्रियते । यद्यनादिसंततौ पतिता आलयज्ञानक्षणाः सर्व एव नीलज्ञानजननसमर्थाः , तर्हीदं नीलज्ञानं सदा स्यान्न तु कदाचिदित्येव निषेध्यं यत्कादाचित्कत्वं तस्य विरुद्धं सदातनत्वं तस्यापत्तिद्वारेण उपलब्ध्या कादाचित्कत्वं नीलज्ञानस्य निवर्तेत , नतु निवर्तितुमर्हति ; दर्शनादेव । तत आलयविज्ञानाद्यद्धेत्वन्तरं बाह्योऽर्थस्तदपेक्षत्वे व्यवतिष्ठते ।
ततः किं जातमत आह –
इति प्रतिबन्धसिद्धिरिति ।
ये यस्मिन्सत्यपि कादाचित्कास्ते तदतिरिक्तापेक्षाः इति प्राक् सौत्रान्तिकोक्तव्यापकयोः प्रतिबन्धसिद्धिर्व्याप्तिसिद्धिरित्यर्थः ।
ननु नीलविज्ञानमपेक्षतां हेत्वन्तरं , तदेव हेत्वन्तरमालयविज्ञानसंतानान्तरमस्तु , कुतो बाह्यार्थसिद्धिरित्यर्थान्तरतामनुमानस्याशङ्क्याह –
नचेति ।
चैत्रसंताने विच्छिन्नौ गमनवचनप्रतिभासौ यस्य तत्काले उदयतो मैत्रसंतानस्थगमनवचनविषयविज्ञानस्य तत्तथोक्तम् । तस्यैव विज्ञानवादिभिः संतानान्तरनिमित्तत्वमिष्यते , नतु विवक्षति जिगमिषति च चैत्रे यद्गमनवचनप्रतिभानं तस्यापि । तस्य तु चैत्रसंतानमात्रहेतुकत्वं , तच्च निरस्तमिति बाह्यार्थपेक्षा वाच्येत्यर्थः ।
यदि तु तथाविधस्यापि प्रवृत्तिविज्ञानस्यालयविज्ञानसंतानान्तरनिबन्धनत्वमिष्यते , तत्राह –
अपि चेति ।
सत्त्वान्तरं प्राण्यन्तरम् । विज्ञानानां समवायी देशोऽभ्युपेयते , संयोगी वा यद्भेदाद्विप्रकर्षः ।
नाद्य इत्याह –
विज्ञानातिरिक्तेति ।
वैशेषिकादिवत् त्वया ज्ञानसमवाय्यात्मानभ्युपगमादिति भावः ।
न द्वितीय इत्याह –
अमूर्तत्वाच्चेति ।
नास्ति संयोगदेश आधारो येषां तानि तथा तदात्मकत्वादित्यर्थः ।
संतानानां कालतोऽपि न व्यवधानमित्याह –
संसारस्येति ।
एवं हि संतानान्तरस्य कालविप्रकर्षः स्याद्यदि संप्रतितनस्य चैत्रसंतानसंजातनीलज्ञानस्य समनन्तरपूर्वक्षणे मैत्रसंतानं उत्पद्येत । इतरथा तस्याप्यनादित्वे कालविप्रकर्षाभावात्तथा च संसारः सादिः स्यादित्यर्थः । यस्मात्सन्तानान्तरनिमित्तत्वेऽपि तस्य सदा सन्निधानात् प्रवृत्तिविज्ञानस्य कादाचित्कत्वमनुपपन्नं , तस्मादित्युपसंहरति। प्रवृत्तिप्रत्यय आलयविज्ञानातिरिक्तहेतुक इति पक्षस्य स्वसंतानमात्रनिमित्तकत्वम् विपक्षस्तस्मात्सन्दिग्धा व्यावृत्तिर्यस्य स हेतुस्तथा तत्त्वेत्यर्थः ।
स्वसन्तानमात्रनिमित्तत्वमुपपादयितुं प्रतिबन्दीमाह –
बाह्यनिमित्तकत्वेऽपीत्यादिना ।
नन्वालयविज्ञानक्षणानां संबन्धिस्वस्वहेतुवैचित्र्यात्सामर्थ्यभेदेऽप्येकसन्ततिपतितत्वाविशेषादेकविधं सामर्थ्यं स्यादित्याशङ्क्याह –
न च संतानो नामेति ।
आलयविज्ञानसन्तानैक्ये क्षणभेदेऽपि न सामर्थ्यभेद इत्युपपाद्य तद्व्यतिरिक्तबाह्यार्थसन्तानभेदे स्याच्छक्तिभेद इत्याह –
संतानभेदे त्विति ।
आलयविज्ञानानां नीलादिबाह्यार्थसन्तानानां च सामर्थ्यं भेदः ।
ततश्चालयविज्ञानसन्तानैरजन्यमपि नीलादिसंवेदनं बाह्यनीलादिसन्तानैर्जन्यत इति चेत्तत्र दूषणमाह –
हन्त तर्हीति ।
बाह्यार्थवादे हि क्षणिकत्वान्नीलार्थानां प्रतिनीलार्थं भिन्नाः सन्ति नीलसन्तानास्तत्र सन्तानभेदाच्छक्तिभेदोपगमे नीलसन्तानानामप्येकविधाशक्तिर्न स्यात् , तथा चैकमेव नीलं नीलाकारज्ञानं जनयेद् , न सन्तानान्तरवर्तीत्यर्थः ।
चोद्यसाम्यमुक्त्वा परिहारसाम्यमाह –
तस्मात्सन्तानान्तराणामित्यादिना ।
तथा नीलपीतादिसन्तानान्तराणां स्वस्वकारणभेदात्सामर्थ्यभेद एवमालयविज्ञानसन्तानपतितक्षणान्तराणामपीत्यर्थः । स्वप्रत्ययः पूर्वोदितनीलादिप्रत्ययः ।
वासनावैचित्र्यादिति भाष्यस्थवासनाशब्दार्थमाह –
आलयविज्ञानेति ।
असंविदितमविज्ञातमर्थात्पूर्वमिति लभ्यते ; वर्तमानस्य संविदितत्वाद् अनागतस्यासिद्धसत्ताकत्वात्तादृशज्ञानं वासना । न ह्यस्मन्मतेऽस्ति स्थायिनी वासनेति भावः । पूर्वं शक्तिर्वासनेत्युक्तम् , इदानीं शक्तिशक्तिमतोरभेदाद्विज्ञानमिति न विरोधः ।
ननु पूर्वज्ञानात्मकवासनावैचित्र्याच्चेदुत्तरज्ञानानां वैचित्र्यं , तर्हि पूर्वज्ञानवैचित्र्यमेव कुतस्तत्राह –
पूर्वनीलादीति ।
अनेनानादौ संसार इति भाष्यं व्याख्यातम् । तत्रभवता भाष्यकारेण प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संभवासंभवाविति वदतैतदिह सूचयांबभूवे । यथा किल ज्ञानाद्भेदेन स्थूलस्यार्थस्यासंभवः परेण भाष्यते , एवमभेदेनापि मया स सुभाष इत्यप्रयोजकोऽसम्भवः । प्रमाणं त्वावाभ्यामादर्तव्यमिति।
तत्रासम्भवं परमते दर्शयति –
इदमत्रेत्यादिना ।
तत्र बौद्धेन ज्ञानाद्भिन्नस्य स्थूलार्थस्यासंभवमुच्यमानमनुवदति –
तत्रेदमिति ।
स्थौल्यं ह्यर्थस्य युगपद्भिन्नदिग्व्यापित्वं भिन्नदेशव्यापित्वं वा । एवं चैकदिग्देशेऽर्थस्यावरणमन्यदिग्देशे चानावरणमिति विरुद्धधर्माध्यासाद्भेदः स्यात् । ज्ञानाभेदे तु न दोषः । ज्ञानावच्छेदकार्थस्य ज्ञायमानस्य तदभिन्नस्यानावृतत्वादावृतस्य च तदात्मत्वाभावेन विरोधाप्रसङ्गादित्यर्थः । ज्ञानाकारत्वे इति सप्तमी । आवरणादिधर्मसंसर्गेण यद्यपि न युज्यत इति योजना ।
इदानीमेतमसंभवमनुमत्य बौद्धमतेऽप्यसंभवमाह –
तथापीति ।
यद्यप्यवभासानवभासलक्षणविरुद्धधर्मसंसर्गोऽर्थस्य ज्ञानाभेदेऽभ्युपगते न प्रसज्येत ; तथाप्येकज्ञानप्रकाशिते पटे नानादेशव्यासक्ते तद्देशत्वमतद्देशत्वं च दृश्यते , प्रदेशभेदेन च कम्पाकम्पौ चित्रे च तस्मिन् रक्तत्वारक्तत्वे च । सति चैवं ज्ञानाकारत्वेऽप्यर्थस्य वर्णितविरुद्धधर्मवत्त्वाद्भेदप्रसङ्गस्तुल्य इत्यर्थः ।
अर्थस्य ज्ञानाभेदे सति अवयविन्यवयवे चोक्तं दोषान्तरमपि ज्ञाने दुर्वारमित्याह –
व्यतिरेकाव्यतिरेकेति ।
ननु किमिति ज्ञानाभिन्नेऽर्थे तद्देशत्वातद्देशत्वादिविरुद्धधर्माध्यासप्रसङ्गः । यावता परमाणूनेव ज्ञानमवलम्बतां , ते च न भिन्नदेशत्वादिमन्त इत्यत आह –
न तावदिति ।
नीलज्ञानं यदि परमाणूनालम्बेत , तर्हि त्वया ज्ञानज्ञेययोरभेदाभ्युपगमाज्ज्ञानस्य किं ज्ञेयमात्रत्वं ज्ञेयानां वा परमाणूनां ज्ञानमात्रत्वम् । नाद्य इत्याह –
एकस्येति ।
ज्ञानस्येत्यर्थः ।
न द्वितीय इत्याह –
आकाराणां चेति ।
ज्ञानाकाराणां परमाणूनामित्यर्थः ।
ननु नैकं ज्ञानं परमाणून् गोचरयति , यत उक्तदोषः स्यात् , किं प्रतिपरमाणु ज्ञानभेद इति , नेत्याह –
न च यावन्त इति ।
तर्ह्येकैकज्ञानगृहीत नानापरमाणुपरामर्शात्मकः प्रत्ययः स्थूलालम्बन इति , तत्राह – न च तत्पृष्ठेति – तस्यापि प्रत्ययस्य साकारतया आकाराणां नानापरमाणूनां तदभेदात्तस्य परमाणुमात्रत्वे भेदः तेषां विज्ञानमात्रत्वे एकत्वमिति स्थूलालम्बनमेकं ज्ञानं न स्यादित्यर्थः ।
तस्मान्नार्थे इति ।
तस्माद्वृत्तिविकल्पादेस्तर्कादर्थे परमाणुसमूहात्मके विषये न स्थूलाभासः , न च ज्ञाने ज्ञानात्मकेऽर्थे । कुतः ? एकत्र ज्ञाने वर्णितेन मार्गेण तदात्मनो नानाकारत्वात्मकत्वस्य प्रतिषिद्धत्वात् बहुष्वपि विज्ञानेषु परमाणुगोचरेषु स्थूलाभासस्य न संभवः ; बहूनां परस्परवार्तानभिज्ञत्वादित्यर्थः । एकोपलम्भमुक्त्वा यानुपलब्धिः स । सहोपलम्भनियम इति न विरुद्धत्वं हेतोश्चेत्तर्हि सहशब्द एकत्वस्यावाचक इत्यवाचकशब्दप्रयोगात्तव निग्रह इत्यर्थः ।
अर्थैकोपलम्भनियमादित्येव हेतुस्तत्राह –
अपिचेति ।
अनुविद्धं विषयत्वेन संबद्धमित्यर्थः । उपलभ्यत इति साक्षात्काराभिप्रायम् । मनुजग्रहणं तिर्यगादिव्यावृत्त्यर्थम् । चाक्षुषवस्तुत आलोकसाक्षात्कारव्यतिरेकेणानुपलब्धावपि तदैक्यादर्शनादनैकान्तिको हेतुरित्यर्थः । ज्ञानभेदसाध्या इत्यादौ सर्वत्रासत्येकस्मिन्ननेकार्थज्ञानप्रतिसंघातरि नोपपद्यत इति वक्ष्यमाणेनान्वयः ।
भाष्ये –वास्यवासकत्वमविद्योपप्लवे हेतुरविद्योपप्लवश्च सदसद्धर्मेषु हेतुरिति व्याचष्टे–
एवमिति ।
अविद्या सविकल्पकप्रत्ययः ।
अनादीति ।
अनादिवासनाजन्यसविकल्पकप्रत्ययात्मकविकल्पपरिनिष्ठितो विषयीकृतो यः शब्दार्थः स त्रिविधो ज्ञेयः ।
त्रैविध्यमेवाह –
भावेति ।
भावं नीलादि नीलत्वादिरभावं नरविषाणं नरविषाणत्वादि । उभयं विज्ञाननरविषाणादिममूर्तत्वादिराश्रयत इति तथोक्तः ।
बन्धमोक्षादिप्रतिज्ञा इति भाष्यगतादिशब्दं व्याचष्टे –
एवं विप्रतिपन्नमिति ।
प्रतिज्ञेत्यत्रेतिशब्दो यस्मादर्थे यदिति प्रतिपादनविषयनिर्देशः असत्येकस्मिन्प्रतिसंधातरि नोपपद्यते , तावल्लोके त्वया च स नेष्ट इत्याह –
तत्सर्वं विज्ञानस्येति ।
कर्मफलभावो ज्ञानज्ञेयभावः अत्यन्तविरुद्धावित्यतः प्राक्तनभाष्येण प्रतिबन्दीरूपा भूमिरचना क्रियते । तया च ज्ञेयार्थस्वरूपं साधितम् । तत आरभ्य एकस्य कर्मक्रियाविरोध उक्तः ।
विज्ञानस्य स्वव्यतिरिक्तार्थविषयत्वे कुतस्तस्यान्येन ग्राह्यत्वापत्तिः ? चक्षुर्वदप्रकाशमानस्याप्यर्थबोधकत्वसंभवादतश्चोद्यानुपपत्तिमाशङ्क्याह –
चोदयतीति ।
अप्रत्यक्षोपलम्भस्येति ।
यद्यप्रत्यक्ष उपलम्भः स्यात्तर्हि चक्षुष इव तस्यार्थदृष्टिरजन्या स्यात् , सा च न सिध्यति ; तस्या अप्यन्यदृष्ट्यपेक्षत्वेनानवस्थानादित्यर्थः ।
तर्हि ज्ञानं ज्ञानान्तरप्रत्यक्षं सदर्थप्रकाशो भवतु , तत्राह –
तच्चेदिति ।
नन्वर्थं प्रत्यक्षयितुं यथा साक्षिणि उपलम्भ इष्यते , एवमुपलम्भमपि प्रत्यक्षयितुमुपलम्भान्तरमेष्टव्यं , तत्र कुतो नाकाङ्क्षा ? अत आह –
सत्यमिति ।
विज्ञानग्रहमात्र एवास्माभिः स्वीकृते विज्ञानसाक्षिणः विज्ञानविषयग्रहणान्तराकाङ्क्षानुत्पादादिति भाष्यार्थः ।
अनङ्गीक्रियमाणं दर्शयति –
न त्विति ।
तत्प्रत्यक्षत्वाय तस्योपलम्भस्य प्रत्यक्षत्वायेत्यर्थः । स्वप्रकाशसाक्षिणि अन्तःकरणप्रतिबिम्बिते सत्यन्तःकरणपरिणामस्य भास्वरस्य स्वत एव साक्षिप्रतिबिम्बाधारतया सिद्धिसंभावान्न परिणामान्तरादपरोक्षतेति ग्रन्थार्थः । यद्यनुभवापरोक्ष्यं परिणामान्तरात् , तर्ह्यनुभव उदितोऽपि कदाचिन्न प्रकाशेत , न चैवम् ।
अतो नित्यसाक्ष्यनुभवसिद्ध इत्याह –
न ह्यस्ति संभव इति ।
प्रमातुः साक्षिणः । नचानुव्यवसायादनुभवप्रत्यक्षता ; तस्याप्यप्रत्यक्षस्यानुभवसिद्धत्वायोगादनुभवान्तरतः प्रत्यक्षत्वेऽनवस्थाया उक्तत्वादिति।
न केवलमनुभवे एवानुभवितुर्व्याप्तावनुभवान्तरानपेक्षा , किंतु क्रियामात्रमेव कर्त्रा क्रियान्तरमन्तरेण व्याप्यत इत्याह –
यथा छेत्तेति ।
माभूज्ज्ञानविषयज्ञानपरिणामान्तरापेक्षयाऽनवस्था , साक्षिणस्तु साक्ष्यन्तराश्रितप्रमापेक्षयाऽनवस्था स्यादित्याशङ्क्य स्वप्रकाशत्वान्नेत्याह –
न च प्रमातरीति ।
अनेन साक्षिविषयग्रहणाकाङ्क्षानुत्पादादित्येवमपि पूर्वभाष्यं व्याख्यातम् ।
ननु साक्षिणं प्रति प्रत्ययस्योपलभ्यत्वे तद्विषय उपलम्भोऽन्योवाच्यः ; तस्य प्राक् निरासात् पूर्वापरविरोध इति भ्रममपनयति –
ग्राह्यत्वं चेति ।
फलेन्तः करणगतज्ञानपरिणामे स्वाभाविकाकाशकल्पसाक्षिचैतन्यव्यतिरेकेण परिणामान्तरापेक्षफलान्तरानुत्पत्तेरित्यर्थः । चैतन्याभिविभक्तिस्तु फलमस्त्येव । तदाहुरत्रभवन्तो वार्तिककाराः - वियद्वस्तुस्वभावाऽनुरोधादेव न कारकात् । वियत्संपूर्णतोत्पत्तौ कुम्भस्यैवं दशा धियाम् ॥ इति । न संविदर्यते ज्ञायते परिणामज्ञानेनेत्यर्थः । स्वतसिद्धप्रकटतया ज्ञानस्य ग्राह्यत्वमित्यनुषङ्गः ।
ननु यदि परिणामव्याप्तिव्यतिरेकेण संवित् साक्षिणं प्रत्यपरोक्षा , तर्ह्यर्थोऽपि स्याद्व्यापकसाक्षिसंबन्धस्य संविदर्थयोरविशेषादित्याशङ्क्याह –
ग्राह्योऽप्यर्थ इति ।
अर्थो हि स्वविषयान्तःकरणपरिणामरूपायां संविदि सत्यां तदधीनाभिव्यक्तिकसाक्षिरूपानुभावात् प्रकटो भवति। सा तु संवित् केवलस्वरूपानुभवात्स्वप्रतिबिम्बितात् प्रकटतां प्रतिपद्यते । एतदुक्तं भवति – सर्वव्यापी सन्नपि स्वरूपानुभवोऽविद्यावृतत्वान्न भासते , स तु निर्मल इव मुकुरतले मुखं भास्वरस्वभावविशेषवदन्तःकरणे व्यज्यत इति तद्वृत्तिरपि भासुरा सन्निहिता चेति भवति स्वभावप्रकटा । अर्थस्त्वन्तःकरणं प्रति व्यवहितो न च स्वभावादेव चैतन्याभिव्यञ्जनक्षमः । दृष्टं च संबन्धाविशेषेऽपि स्वभावविशेषाद् व्यञ्जकाव्यञ्जकत्वम् । यथा चाक्षुषी प्रभा संबन्धाविशेषेऽपि रूपाद्येव व्यञ्जयति , न वाय्वादिकम् । तस्मात्परिणामाभिव्यक्तानुभवादर्थसिद्धिरिति।
कर्मभाव इति ।
परिणामक्रियाजन्यफलभागितेत्यर्थः ।
आत्मस्वप्रकाशत्वबलादिदं सर्वं सिद्ध्यति , तदेवासिद्धमिति शङ्कते –
स्यादेतदिति ।
आत्मा ज्ञेयः प्रकाशमानत्वाद् घटवदित्यनुमानम् । इदं तावदाभासः । अत्र हि यत्प्रकाशते तद्वेद्यमिति व्याप्तिरभ्युपेया । तथा सत्यस्या व्याप्तेर्या ग्राहिका संवित् सा स्वस्यां न वा । प्रथमे किं कर्मत्वेन किं वाऽन्यसंविदनपेक्षस्वव्यवहारहेतुत्वेन । नाग्रिमः ; स्वात्मनि वृत्तिविरोधात् । न चरमः ; तस्यामेव संविदि व्यभिचारात् ।
न चरमः ; अस्या एव संविदो विशेषस्यानवभासनात् कथं सकलविशेषोपसंग्रहवती व्याप्तिरस्यां संविदि परिस्फुरेत् ? परिस्फुरणे च कथमनुमानमुदयेत ? एवं सिद्धेऽस्य दौर्बल्ये स्वप्रकाशत्वसाधनीयदोषामनुमामाह कालातीतत्वसिद्धये –
तथा हीत्यादिना ।
अनागन्तुकप्रकाश इति प्रतिज्ञा । आगन्तुकः स्वविषयी अर्थात् प्रकाश इति लभ्यते । स यस्य नास्ति स चासौ प्रकाशश्च तत्त्वे सतीत्यर्थः । अनेनाज्ञेयत्वे सति भासमानत्वं स्वप्रकाशत्वमिति निरुक्तम् । भासमानत्वं च व्यावहारिकबाधविधुरं भासत इति शब्दलक्ष्यत्वं न भानविषयत्वमिति न व्याघातः । न च वेदान्तज्ञेयत्वविरोधः । निरुपाधेरज्ञेयत्वाद्वेदान्तजन्यवृत्त्युओआधौ तज्ज्ञेयत्वमपीति ह्युक्तं तन्न प्रन्मर्तव्यम् । अत एव - स्वप्रकाशस्यानुमानज्ञेयत्वविरोध इति – निरस्तम् ; अनुमितेरेव ज्ञेयत्वोपाधित्वात् । नित्यसाक्षात्कारताऽनागन्तुकप्रकाशत्वे हेतुः । स्ंविदभिन्नत्वं च साक्षात्कारत्वं , न तु इन्द्रियजप्रतीतित्वादि । तच्च संविदः स्वतः ; तदन्यस्य तदध्यासात् , तत्समर्थनार्थमसंदिग्धाविपरीततस्येत्युक्तम् ।
असंदिग्धाविपर्यस्तत्वमुपपादयति –
तथा हि प्रमातेत्यादिना ।
संदिहानोऽप्यन्यदिति शेषः । एवं सर्वत्र । तदयं प्रयोगः - आत्मा , स्वयंप्रकाशः , शश्वदपरोक्षत्वात् , शश्वदपरोक्षश्च शश्वदसंदिग्धत्वाद्व्यतिरेके घटवत् । न चाप्रसिद्धविशेषणत्वम् ; अयं घट एतदन्यज्ञेयत्वरहितभासमानान्यः , द्रव्यत्वाद् , घटवदिति तत्सिद्धेरिति।
विपक्षे दण्डमाह –
न चैतदिति ।
यदि नित्यसाक्षात्कारत्वमात्मनो न स्यात् , तर्हि कदाचिदात्मनि संदेहः स्यादित्यर्थः ।
स्यादेतत् - आत्मविषया संविदुदेत्येवेति , तत्राह –
अनवस्थेति ।
उक्तेन क्रमेणेति ।
न क्रिया तया व्याप्यते किंतु कर्त्रेत्यनेनेत्यर्थः । अनेन विज्ञानं व्यतिरिक्तग्राह्यं ग्राह्यत्वादिति पूर्वोक्तानुमानस्य विपक्षे दण्ड उच्यते ।
उक्तक्रमं स्फोरयति –
न फलस्येति ।
नार्थे इति ।
नार्थेऽपि विप्रतिपत्तिः । तस्य त्वन्मतेऽपि मिथ्यात्वादित्यर्थः ॥२८॥ स्वप्नवदित्ययं दृष्टान्तः साध्यविकलः स्यादिति योजना । अभ्युपेत्य स्वप्नप्रत्ययस्य निरालम्बनत्वं जाग्रप्रत्ययस्य तन्निर स्यति। विद्यत एव तु तस्यापि प्रातीतिकमालम्बनम् । एवं तावत् स्तम्भादिप्रत्ययो निरालम्बनः प्रत्ययत्वात्स्वप्नप्रत्ययवदित्यनुमानस्य बाध्यत्वेन सोपाधिकत्वमुक्तम् । न च साधनव्याप्तिः ; सति प्रमातरि गाग्रप्रत्यये बाधविरहस्य प्रमितत्वेन साधनव्याप्त्यनुमानस्यातीतकालत्वात् ।
संप्रति प्रमाणाजन्यत्वेनापि सोपाधिकत्वमाह –
संस्कारमात्रजं हीति ।
मात्रग्रहणेन प्रमाणकारणेन्द्रियादिसहितत्वं व्यावर्त्यते , न तु भ्रमहेतुदोषसाहित्यम् । अत एव भाष्यगतः स्मृतिशब्दः प्रमाणमिलितसंस्कारजत्वाद्भ्रमेऽपि स्वप्नज्ञाने औपचारिको व्याख्यातव्यः ।
उपलब्धिस्त्विति भाष्यगतमुपलब्धिशब्दं व्याचष्टे –
प्रत्युत्पन्नेति ।
प्रत्युत्पन्नेन वर्तमानेन वस्तुना इन्द्रियसंयोगेनेत्यर्थः । षट् प्रमाणजनितं ज्ञानमुपलब्धिः । एवमव्याख्याने स्वप्नस्यापि मिथ्योपलब्धित्वाद्वैधर्म्यं न सिध्येदिति।
कालातीततां प्रत्ययत्वहेतोराह –
अपि च स्वत इति ।
ननूत्सर्गतः प्राप्तमपि प्रामाण्यमनुमानादपोद्यतामत आह –
अनुभवविरोध इति ।
अबाधितविषयत्वेनावगतस्यानुमानस्य प्रमाणत्वात्सति प्रत्यक्षबाधे न प्रमाजनकत्वमतो बाधकानुदयान्न प्रत्यक्षस्य प्रामाण्यापवाद इत्यर्थः । न हि यो यस्य स्वतो धर्मो न संभवति , सोऽन्यसाधर्म्यात्तस्य संभविष्यतीति भाष्यं ।
तत्र न संभवतीति ।
प्रमाणेन न संभवतीत्यवधारितं इत्यर्थः । तेन संदिग्धो वस्तुधर्मोऽन्यसाधार्म्याद्धूमवत्त्वादेः संभविष्यतीति सूचितम् ॥२९॥
अर्थोपलब्ध्यभावान्न वासनानां भाव इत्ययुक्तम् ; परेषामर्थाभावाद्वासनानामर्थोपलब्धिभिर्व्याप्तेरसंभूतत्वादित्याशङ्क्याह –
यथा लोकदर्शनमिति ।
त्वयापि ह्यर्थोपलब्धेः स्वप्ने वासनाजन्यत्वं लोकसिद्धान्वयव्यतिरेकाभ्यामवगन्तव्यम् । तद्दृष्टान्तेन च जाग्रत्यनुमेयं , तथा च यौ लौकिकावन्वयव्यतिरेकौ तावर्थोपलब्धेः कार्यस्यार्थ एव कारणे सति भवतः नार्थानपेक्षवासनारूपकारणे ; स्वप्नप्रत्ययजनकवासनाया अपि जाग्रदर्थोपलब्ध्यधीनत्वदर्शनात्कारणकारणत्वेन तत्राप्यर्थोपलब्धेः स्थितत्वादतश्च वासनानामर्थोपलब्धिभिर्व्याप्तिसिद्धेरित्यर्थः ।
न लौकिकी वासनेति ।
अन्तरेणाश्रयमेकसंततिपतितसमानाकारविज्ञानस्य वासनात्वं ह्यलौकिकमिति भावः । वासना हि गुणस्तस्याश्रयः समवायिकारणं तत्राश्रयत्वाभिमतमालयविज्ञानं वासनया सहोत्पद्यते पूर्वं वा ।
नाद्य इत्याह –
द्वयोरिति ।
नियतप्राक्सत्त्वं हि कारणत्वमित्यर्थः ।
न द्वितीय इत्याह –
प्रागिति ।
असतश्चाधारत्वायोगादिति द्रष्टव्यम् । ॥३०॥
वर्णकान्तरमधिकरणस्य दर्शनम् पूर्वपक्षमाह –
स्यादेतदित्यादिना ।
विविच्यन्त इत्येतन्निर्णयाभिप्रायं न भवति , किंतु व्यवस्थापक्षाद्विभागाभिप्रायमित्याह –
न क्वचिदिति ।
नादरः क्रियते सूत्रान्तराणि न रच्यन्ते । एतान्येवावृत्त्या योज्यन्त इत्यर्थः ।
नाभावो ज्ञानार्थयोः ; प्रमाणैरुपलब्धेरिति सूत्रं योजयन् सिद्धान्तमाह –
लौकिकानि हीति ।
अतात्त्विकत्वं प्रपञ्चस्य व्यवस्थापयितुम् अधिष्ठानं वस्तुभूतं वाच्यं तस्याभावस्त्वन्मते प्रमाणतस्तत्त्वानुपलब्धेरिति प्रतिपादयन्न भावोऽनुपलब्धेरिति सूत्रं योजयति –
यद्युच्येतेत्यादिना ।
अतात्त्विकत्वं प्रपञ्चस्य धर्मिग्राहकप्रमाणैरवगम्यते बाधकप्रमाणान्तरेण वा ।
नाद्य इत्याह –
प्रमाणानि हीति ।
न द्वितीय इत्याह –
बाधकं चेति ।
ननु - किमन्याधिष्ठानतत्त्वबोधनेन ? प्रत्यक्षादिप्रमितवस्तुगतं विचारासहत्वमेव बाधकप्रमाणं गमयत्विति - चेत् , तत्र वक्तव्यम् किं विचारासहत्वं नाम सदसदादिपक्षेषु अन्यतमपक्षनिवेशो वस्तुभूतो धर्मः परं विचारं न सहते इत्युच्यते , उत विचारासहत्वेन रूपेण निस्तत्त्वं शून्यमभिमतम् । नाद्य इत्याह –
तत्रेति ।
द्वितीयेऽपि निस्तत्त्वं सदादिपक्षनिविष्टं न वा ।
न प्रथमः ; सदादिप्रकारतत्त्वव्यवस्थायास्त्वयाऽनिष्टत्वादित्याह –
कथमन्यतमदिति ।
न द्वितीय इत्याह –
न चेति ।
निस्तत्त्वं हि तत्त्वरूपत्वाभावः स चासन्नित्यत्वं भावानां व्यवस्थापितं स्यात् । तथा चासत्त्वाव्यवस्थाप्रतिज्ञाविरोध इत्यर्थः ।
पूर्वमधिष्ठानतत्त्वज्ञानाभावाद्बाधो न भवतीत्युक्तम् , इदानीम् अधिष्ठानाभावादारोपासंभवमाह –
अपि चेत्यादिना ।
स्वपक्षे विशेषमाह –
तस्मादिति ।
वैधर्म्यसूत्रं सुयोजम् । क्षणिकत्वाच्चेति सूत्रे उपदेशादित्युपस्करणीयम् । ततश्च क्षणिकपदार्थसत्त्वोपदेशाच्छून्योपदेशाच्च व्याहताभिव्याहारः सुगत इति योजनीयम् ॥३१॥
यथायथेति भाष्यस्थवीप्सां व्याचष्टे –
ग्रन्थत इति ।
दर्शनमिति वक्तव्ये पश्यनेत्यपशब्दः । स्थानमिति वक्तव्ये तिष्ठनेत्यपशब्दः । तिष्ठतेर्दृशेश्च शिति प्रत्यये तिष्ठपश्यावादेशौ युच्प्रत्यते तु न तस्याशित्त्वात् । मिह सेचने इत्यस्य निष्ठान्तस्य मीढमिति सिध्यति। मिद्धमिति त्वपशब्दः । पोषधशब्द उपवासे बौद्धैः प्रयुज्यते स्नातः शुचिवस्त्राभरणः पोषधं विदधीतेति। स च लोकैरप्रयुक्तत्वादपशब्दः इति प्रतिभाति ।
अर्थतोऽनुपपत्तिमाह –
अर्थतश्चेति ।
अक्षरमविनाशि । नमनादिवासनानामाश्रयत्वादक्षरत्वसिद्धिः । उत्पादाद्वेति सूत्रे स्थिता धर्मस्थितितेति च कारणत्वधर्मस्य कार्यत्वधर्मस्य च स्थिरत्वस्वीकारात्सर्वक्षणिकत्वविरोधः ॥३२॥
इति पञ्चममभावाधिकरणम् ॥
नैकस्मिन्नसंभवात् ॥३३॥ एकरूपब्रह्मसमन्वयविरोध्यनेकान्तवादभङ्गस्य बुद्धिसन्निधानलक्षणां संगतिमाह –
निरस्त इति ।
मुक्तकच्छेषु निरस्तेषु मुक्तवसना बुद्धिस्था भवन्तीति , अथवा समयमात्रसिद्धपञ्चस्कन्धादिपदार्थाश्रयन्यायाभासे निरस्ते पञ्चास्तिकायादिसामयिकपदार्थाश्रितं न्यायाभाससंदृब्धं मतं भवति बुद्धिस्थम् । तदिदं समयपदेन सूचितम् । उपलब्धेरर्थसत्त्ववत्तदनेकान्तोऽप्युपलब्धेरेवास्तीत्यर्थसंगतिः । अस्तीति कायन्ते शब्द्यन्त इत्यस्तिकायाः । कै गै शब्दे । अर्हन् नित्यसिद्धः । इतरे केचित्साधनैर्मुक्ताः । अन्ये बद्धाः ।
प्रवृत्त्यनुमेय इति ।
सम्यङ्मिथ्यात्वेन प्रवृत्तिद्वैविध्यं वक्ष्यति । तत्र धर्मास्तिकायः सम्यक्प्रवृत्त्यनुमेयः इत्यर्थः । शास्त्रीयबाह्यप्रवृत्त्या ह्यान्तरोऽपूर्वाख्यो धर्मोऽनुमीयत इत्यर्थः ।
अधर्मेति ।
ऊर्ध्वगमनशीलो हि जीवस्तस्य देहेऽवस्थानेनाधर्मोऽनुमीयत इत्यर्थः । बन्धमोक्षौ फले ।
प्रवृत्ती तु समीच्यसमीच्यौ , तयोः साधने ते दर्शयति –
आस्त्रवेति ।
आस्त्रावयति गमयति । बन्धोऽष्टविधमिति । यद्यपि पूर्वोक्त आस्त्रवोऽपि बन्धः ; तथापि तद्धेतुत्वादयमपि बन्ध इत्यर्थः ।
अतिप्रसङ्गादिति ।
आशामोदकादिज्ञानेभ्योऽपि मोदकादिसिद्धिप्रसङ्गादित्यर्थः ।
विपाकहेतुरिति ।
शरीराकारेण परिणामहेतुः । तच्च कर्म वेदनीयं शरीरद्वारेण तत्त्ववेदनहेतुत्वादिति शुक्रशोणितव्यतिरेकजाते मिलितं तदुभयस्वरूपमायुष्कम् । तस्य देहाकारपरिणामशक्तिर्गोत्रिकम् । शक्तिमति तस्मिन् बीजे कललाख्यद्रवात्मकावस्थाया बुद्बुदात्मतायाश्चारम्भकः क्रियाविशेषो नामिकम् । सक्रियस्य बीजस्य तेजःपाकवशादीषद् घनीभावः शरीराकारपरिणामहेतुर्वेदनीयमिति विभागः । कायतीति कै गै शब्दे इत्यस्य रूपम् । स्यादस्ति च नास्ति चेत्येतदवक्तव्य इत्यस्याधस्तात् संबन्धनीयम् । सप्त चैकान्तत्वभङ्गाः कथं कथं कदा कदा च प्रसरन्तीत्यपेक्षायामनन्तवीर्यः प्रतिपादयामास - तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगःस्यात्तन्निषेधे विवक्षिते ॥ क्रमेणोभयवाञ्छायां प्रयोगः समुदायभृत् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः ॥ आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥ समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते ॥ इति , युगपदस्तित्वनास्तित्वयोर्विवक्षायां वाचः क्रमवृत्तित्वादुभयं युगपदवाच्यम् । आद्योऽस्तित्वभङ्गोऽन्त्येनासत्त्वेन सह युगपदवाच्यः । अन्त्यश्चाद्येन भङ्गेन सह युगपदवाच्यः । समुच्चितरूपस्य भङ्ग एकैकेन सह युगपदवाच्य इत्यर्थः । अथवा -सदसदुभयेष्वेकान्ते भग्नेऽनिर्वाच्यत्वनियमभङ्गः स्यादवक्तव्य इति कृतः । तेष्वेव पक्षेषु तत्तत्पूर्वपक्षवाद्युक्तानिर्वाच्यत्वनियमः स्यादस्त्यवक्तव्य इत्यादिना भज्यते ।
नन्वस्ति स्यादिति वर्तमानत्वविधिवाचिनोः कथमेकार्थपर्यवसानमत आह –
स्याच्छब्द इति ।
तिङन्ततुल्योऽतो न विध्यर्थतेत्यर्थः ।
वाक्येष्विति ।
स्यादस्तीत्यादिवाक्येषु स्यादित्ययं शब्दस्तिडन्तसदृशो निपात इत्यन्वयः ।
कोऽस्यार्थ इति , तत्राह –
अनेकान्तेति ।
अनेकान्तः किं स्वातन्त्र्येण प्रतिपाद्यते ? नेत्याह –
गम्यं प्रतीति ।
गम्यमस्तित्वादि ।
कुतोऽस्यानैकान्तद्योतित्वमत आह –
अर्थयोगित्वादिति ।
एतदुपपादयति –
यदि पुनरिति ।
व्यतिरेकमुक्त्वाऽन्वयमाह –
अनेकान्तद्योतकत्वे त्विति ।
स्यात्पदेनानेकान्ताभिधाने किं प्रयोजनमत आह –
तथा चेति ।
यथा स्याच्छब्दस्यानेकान्तद्योतकत्वं जैनैरुक्तं , तथा तत्प्रयोजनं चोक्तमित्यर्थः । स्याद्वादो हेयोपादेयविशेषकृदित्यन्वयः । किंशब्दात्किमश्चेति सूत्रेण थमुप्रत्ययो भवति , ततः कथमिति रूपं लभ्यते । तदुपरि चिदित्ययं निपतो विधियते , ततः कथंचिदिति स्यात् । तस्मात्किंवृत्तचिद्विधेर्हितोः कथंचिदस्ति कथंचिन्नास्तीत्यदिरूपात्सर्वथैकान्तत्यागात् भवन्तं सप्तभङ्गनयमपेक्ष्य स्याद्वादो हेयोपादेयविशेषकृदित्यर्थः । किंवृत्ते किंशब्दादुपरिवृत्ते प्रत्यये थमि सप्तस्वेकान्तेष्वस्त्यादिनियमेष्वित्यर्थः ।
सप्तानामेकान्तानां भङ्गे हेतुं न्यायं दर्शयति –
तथा हीति ।
न प्रवर्तेतेत्यत्र हेतुमाह –
प्राप्तेति ।
सतो वस्तुतः प्राप्तस्याप्रापणीयत्वादित्यर्थः ।
न निवर्तेतेत्यत्र हेतुमाह –
हेयेति ।
असत्त्वे ह्येकान्ते हेयमेव त्यक्तमेवाहितं सर्वदा स्यात् , तस्य च साध्यं हानमनुपपन्नमित्यर्थः ।
यत्तु हेयादिसिद्धिहेतुः स्याद्वाद इति , तत्राह –
एतदुक्तमित्यादिना ।
यदस्ति तदस्त्येवेति नियममेव मन्महे , यस्तु कथंचिदस्ति प्रपञ्चः स विकल्पितः , तत्र च हेयादिविभागसिद्धिरित्यर्थः ।
विचारासहत्वादिति ।
आरम्भणाधिकरणे (ब्र.अ.२.पा.३.सू.१४) हि सदसत्त्वे वस्तुनो न धर्मौ ; असत्त्वदशायामपि वस्त्वनुवृत्त्यापातात् , न च स्वरूपं ; सर्वदाऽद्वयप्रसङ्गादित्यादिर्हि विचारः कृतः स इहानुसन्धेय इत्यर्थः ।
पण्डितरूपाणामिति ।
प्रशंसायां रूपप्प्रत्ययः । ऋषभेण बलीवर्देन ॥३३॥ विशरारवो विशरणशीला नश्वराः ।
अनित्यत्वात्तस्येति ।
निदर्शनस्येत्यर्थः ।
दार्ष्टान्तिके तु नानित्यत्वमित्याह –
नास्थिर इति ॥३४॥
आगमापाय्यवयवानामनात्मत्वं भाष्योक्तं तदा युज्यते , यदि नित्य आत्मेति पराभ्युपगमः ; इतरथा इष्टप्रसङ्गादारब्धावयविन एवात्मत्वेनावयवानामनात्मत्वादित्यभिप्रेत्याह –
आत्मन इति ।
आत्मानिरूपणमपि भाष्ये प्रसज्यमानमिष्टमित्याशङ्क्याह –
अनिरूपणेनेति ।
सिग् वस्त्रं विगतं येभ्यस्ते विसिचः ॥३५॥
देहान्तराप्रवेशान्मोक्षावस्थं परिमाणमन्त्यं , तस्य नित्यत्वादाद्यमध्यमयोर्नित्यत्वानुमाने परिमाणत्रयप्रसङ्गात्कथम् एकरूपपरिमाणात्मकाविशेषापादनमित्याशङ्क्याह –
एवं हीति ।
नाद्यमध्यमपरिमाणयोर्नित्यत्वमापाद्यते , किं त्वाद्यमध्यमयोः कालयोरन्त्यपरिमाणस्यानुवृत्तिरित्यर्थः । यदि प्रागप्यासीत्तर्ह्यभूत्वा न भवतीत्यर्थः ।
नन्वन्त्यपरिमाणस्य कालत्रयेऽनुवृत्तावपि देहभेदप्राप्तिकालेष्वात्मनः परिमाणान्तराणि किं न स्युरत आह –
न चेति ।
परिमाणभेदे द्रव्यभेदप्रसङ्गादित्यर्थः । भाष्यकारेणात्मगताद्यमध्यमपरिमाणे नित्ये , आत्मपरिमाणत्वादन्त्यपरिमाणवत्ततश्चैकपरिमाणतेत्येकं व्याख्यानं कृतम् । अपरं च मोक्षकालगतात्मपरिमाणस्यावस्थितत्वान्नियतत्वात्पूर्वयोरप्याद्यमध्यमकालयोरवस्थितपरिमाण एव जीवः स्यादिति। तत्र द्वितीयव्याख्या त्वेन विशदिता ।
आद्यव्याख्यामुभयपरिमाणनित्यत्वस्यान्त्यपरिमाणदृष्टान्तेनापाद्यत्वादुभयनित्यत्वादिति सिद्धवत्सूत्रे हेतुनिर्देशायोगमाशङ्क्याह –
अत्र चोभयोरिति ।
अत्र चेति सूत्रे इत्यर्थः ।
नन्वादिमध्यमान्तिमपरिमाणानां नित्यत्वे आपतिते परिमाणत्रयवत्त्वमात्मनः स्यात् , कुत एकपरिमाणताऽऽपाद्यते ? अत आह –
एकशरीरेति ।
त्रयाणां परिमाणानां सर्वशरीरेषु समत्वात्सर्वशरीरेष्वेकरूपपरिमाणताऽऽत्मनः स्यादिति। दीप्यं व्याख्येयमित्यर्थः ।
द्वितीयव्याख्यायां - सर्वदा परिमाणैक्यस्यैवापाद्यत्वात्सूत्रगतोभयशब्देन न परिमाणद्वयमभिधीयते , किंत्वाद्यमध्यमकालौ ; ततश्चाद्यमध्यमकालयोरुभयोः परिमाणनित्यत्वादित्येवं रूपे हेतुं योजयति भाष्यकार इत्याह –
द्वितीये त्विति ।
अस्यां व्याख्यायामविशेषशब्देन न परिमाणत्रयस्य सर्वशरीरेषु तुल्यत्वमापाद्यते , किंतु यदैकशरीरे परिमाणतामात्रं सर्वशरीरेष्वापाद्यते तदाऽणुर्महान्वाऽत्मा सर्वदेहेषु स्यादित्येवंरूपमित्याह –
एकशरीरेति ॥
इति षष्ठमेकस्मिन्नसंभवाधिकरणम् ॥
पत्युरसामञ्जस्यात् ॥३७॥ सत्त्वासत्त्वादेरेकत्रासंभववदधिष्ठातृत्वोपादानत्वयोरप्येकत्रासंभव इति प्रत्यवस्थानात्सङ्गतिः । सांख्ययोगव्यपाश्रया इत्यादिभाष्यं व्याचष्टे –
हिरण्यगर्भेत्यादिना ।
भाष्यगतपुरुषपदव्याख्यानं –
दृक्शक्तिरिति ।
शक्तिग्रहणं तु समर्थापि सर्वं ज्ञातुं जैवि दृग् न जानात्यावृत्तत्वादित्यर्थम् ।
कथं तर्हि जीवस्य ज्ञातृत्वं ? तत्राह –
प्रत्ययेति ।
प्रत्ययमन्तः – करणपरिणाममनुपश्यतीति तथोक्तः ।
भाष्ये प्रधानपुरुषयोरधिष्ठातेति द्विवचनप्रयोगादेको जीव इति भ्रमः स्यात्तं व्युदस्यति –
स चेति ।
समासान्तर्वर्त्येकवचनं जात्यभिप्रायेणेत्यर्थः । क्लेशेति सूत्रमीक्षत्यधिकरणे (ब्र.अ.१.पा.१.सू.५) व्याख्यातम् । पुरुषत्वात्प्रधानादन्यः क्लेशाद्यपरामृष्टत्वात्पुरुषादन्यः – जीवादन्य इत्यर्थः । गूढचर्या स्वगुणाप्रख्यापनेन देशेषु वासः ।
ईश्वरो , न द्रव्यं प्रत्युपादानं , चेतनत्वात्कुलालवदित्याह –
चेतनस्येति ।
कुलालस्यापि सुखाद्युपादानत्वात्साध्यवैकल्यं स्यात्तद्वारणाय द्रव्यमित्यध्याहृतम् । जगत्कारणानां प्रधानस्य परमाणूनां चेत्यर्थः ।
निमित्तमित्यस्य विवरणम् –
अधिष्ठातेति ।
सिद्धान्तस्तु अधिगम्य श्रुतेरीशमनुपादानता यदि । अनुमीयेत बाधः स्यादाश्रयासिद्धिरन्यथा ॥ किमप्रमित ईश्वरेऽनुपादानत्वं साध्यते , उत प्रमिते । नाद्यः ; आश्रयासिध्द्यापातात् । द्वितीयेऽपि तत्प्रमितिः श्रुतेरनुमानाद्वा पौरुषेयागमाद्वा । प्रथमे किमीक्षणपूर्वककर्तृत्वादिप्रतिपादकश्रुत्यैवानुपादानत्वं साध्यते , तत्पूर्वकानुमानाद्वा ।
नाग्रिमः ; तस्याः श्रुतेर्निमित्तत्वमात्रपरत्वं न तूपादानत्वनिषेधपरत्वमिति प्रकृतिश्चे(ब्र.अ.१.पा.४.सू.२३) त्यधिकरणे सुसाधितत्वादित्याह –
न तावदिति ।
न द्वितीय इत्याह –
तस्मादिति ।
आस्थीयमानमपि न संभवति ; तदात्मानं स्वयमकुरुतेत्यादिश्रुत्यैव बाधादित्यर्थः ॥
अस्तु तर्ह्यनुमिते ईश्वरेऽनुपादानत्वानुमानमत आह –
तत्रेति ।
ईश्वरे इत्यर्थः । पौरुषेयागमं च निषेत्स्याम इति तावच्छब्दः । तथाहि – न तावदाद्यं कार्यं सकर्तृकं कार्यत्वात्कुम्भवदिति मानम् ; जीवादृष्टजत्वसिद्धेः , अव्यवहितप्राक्कालवर्तिप्रयत्नजत्वसाधने चाद्यकार्यव्यवहितप्रयत्नजत्वस्य कुम्भेऽभावेन साध्यवैकल्यात् , कुम्भाव्यहितप्रयत्नजत्वस्य आद्ये कार्ये बाधात् , किंचिदव्यवहितप्रयत्नजन्यत्वस्य च सिद्धसाधनात् । अदृष्टाव्यवहितप्राक्कालप्रयत्नजत्वादाद्यकार्यस्य । अथ द्व्युणुके द्व्युणुकोपादानसाक्षात्कारवज्जन्यं कार्यत्वादिति। तच्चः न ; अप्रसिद्धविशेषणविशेष्यत्वाभ्यां द्व्युणुकस्य तदुपादानसाक्षात्कारस्य चासिद्धेः । दृष्टान्ते च संदिग्धसाध्यत्वम् ; घटस्य द्व्युणुकोपादानसाक्षात्कारवदीश्वरप्रयत्नजन्यत्वस्यासम्प्रतिपत्तेः । अदृष्टं प्रत्यक्षं मेयत्वादित्यत्र च योगिभिरर्थान्तरता , कार्यं सर्वज्ञकर्तृकं कार्यत्वादित्यत्र च । स्यादेतत् - धर्मो भ्रमसमानाधिकरणधर्मविषयत्वरहितसाक्षात्कारविषयः , मेयत्वाद् , घटवत् । साक्षात्कारगोचर इत्युक्ते योगिभिरर्थान्तरतेति भ्रमसमानाधिकरणधर्मविषयत्वरहितग्रहणम् ; योगिसाक्षात्कारस्य कालभेदेन भ्रमसमानाश्रयत्वात् । भ्रमसमानाधिकरणत्वरहितसाक्षात्कारगोचर इत्युक्ते चाप्रसिद्धविशेषणत्वमिति तन्निवृत्त्यर्थं धर्मविषयत्वग्रहणम् । अस्मदादीनां घटादिविषयसाक्षात्कारस्य भ्रमसमानाश्रयत्वेऽपि धर्मविषयत्वाभावेन भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वरूपविशिष्टधर्मरहितत्वात्तत्र साध्यसिद्धेः । साक्षात्कारस्य च भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वरहितत्वं धर्मविषयत्वराहित्याद्वा भ्रमसमानाधिकरणत्वराहित्याद्वा भवति। आद्ये तस्य धर्मविषयत्वव्याघात इति द्वितीयः स्यात् । तथा च तादृशसाक्षात्कारवदीश्वरसिद्धिरिति। तन्न ; किमिदं धर्मविषयत्वरहितत्वम् । धर्मविषयत्वसंसर्गभाववत्त्वमिति चेत्तत्किं धर्मविषयत्वसंसर्गान्योन्याभाववत्त्वमुत तत्संसर्गाभाववत्त्वम् । नाद्यः ; तथासत्यस्य विशेषणस्य वैयर्थ्यात्साक्षात्कारपदेनैव तद्वाच्यार्थस्य धर्मविषयत्वसंसर्गान्योन्याभाववत्त्वसिद्धेः । न हि धर्मविषयत्वसंसर्गात्मकः कश्चित्साक्षात्कारोऽस्ति , यद्व्यवच्छेदार्थमिदं विशेषणम् । न द्वितीयः ; धर्मविषयत्वसंसर्गसंसर्गान्योन्याभावमादाय विशेषणवैयर्थ्यतादवस्थ्यात् , तत्रापि संसर्गान्तरं प्रति धावने च तत्तदन्योन्याभावमादाय वैयर्थ्यधावनात् । अथ मतं न संसर्गस्य संसर्गान्तरमस्ति , किंतु स्वयमेव स्वस्य संसर्ग इति क्वानवस्थेति ? नैतत् ; तथासति तादृशसंसर्गान्योन्याभावमादाय विशेषणवैयर्थ्येन वज्रलेपनात् । एतत्खण्डनभयेन यदि विशेषणमुज्झसि , तर्हि ग्रस्तोऽसि योगिभिरर्थान्तरतया । एवं सर्वा महाविद्यास्तच्छाया वाऽन्ये प्रयोगाः खण्डनीया इति ॥ तत्सुखाद्वैतबोधात्मस्वभावहरये नमः । वेदान्तैकप्रमाणाय कुतर्काणामभूमये ॥ तस्मात्सुष्ठूक्तं तत्रेश्वरेऽनुमानं तावन्न संभवतीति।
अथवा –पूर्वग्रन्थेनास्मिन्नर्थे ईश्वरस्य निमित्तमात्रत्वे प्रमाणान्तरमास्थेयमिति सामान्यतः श्रुतिव्यतिरिक्तप्रमाणापेक्षामुक्त्वा किं तदनुमानं पौरुषेयागमो वेति विकल्प्याद्यं प्रत्याह–
तत्रानुमानमिति ।
यथैव चेतनस्य निमित्तत्वमात्रमनुमीयते , तथा रागादिकमप्यनुमेयं व्याप्तेरविशेषात्तथा च वाद्यभिमतनिरवद्यत्वविशेषविरुद्धोऽयं हेतुरित्याह –
तद्धि दृष्ट्यनुसारेणेति ।
ननु सिद्धान्ते श्रुतिगम्येश्वरस्यापि पुरुषत्वाद्रागादिमत्त्वानुमानं दुर्वारमत आह –
एतदुक्तमिति ।
व्याप्त्यपेक्षं ह्यनुमानं व्याप्त्युपनीतं सर्वमनुमन्यते । आगमस्तु स्वतन्त्रस्तत्र यत् तद्विरुद्धमनुमानं तत् कालातीतं स्यादित्यर्थः । लोहगन्धिता कलङ्कगन्धिता ।
कथं तर्हि मानान्तरानुसारेणापूर्वादिकल्पना ? तत्राह –
यस्त्विति ।
तत्राप्यागमप्रामाण्यात्कालान्तरकृतयागात्स्वर्गोऽस्तु का क्षतिः ? अनन्तरपूर्वक्षणवर्तिनः कारणत्वमिति लोकानुभावमनुरुध्यापूर्वकल्पनेत्यर्थः ।
इदानीं चेत्कर्मेश्वरयोः प्रवर्त्यप्रवर्तकत्वं प्रतीयेत , तत एतद्बलाद्बीजाङ्कुरवत् परंपराऽवलम्बिष्यते , तत्र कुत इतरेतराश्रयत्वं कुतस्तरामन्धपरंपरेत्याशङ्क्यादौ तावत्प्रवर्त्यप्रवर्तकभावानुपपत्तिं कर्मेश्वरयोर्दर्शयति –
यदीश्वर इति ।
अथवा –करुणयैवेश्वरः प्रेरितः कर्म कारयति , तत्कुत इतरेतराश्रयत्वं भाष्ये उच्यते ? तत्राह–
यदीश्वर इति ।
कपूयं कुत्सितम् । उत्तरस्मिन् व्याख्याने कर्मभिः प्रयोजनैः करुणया हेतुना प्रवर्त्यत इति दृष्टविरुद्धम् ; दृश्यमानकार्यस्य करुणाहेतुकत्वविरुद्धदुःखात्मकत्वादिति योजना ।
ईश्वरेण पूर्वं कर्म तावत्प्रवर्तयितुं न शक्यते ; कुत्सितफलानुदयप्रसङ्गादेवं पूर्वकर्मेश्वराप्रवर्तितं कथमीश्वरप्रवर्तनलक्षणं कार्यं करोति ? एवं सति प्रवर्तकत्वोपपत्तिमनुक्त्वा केवलं ततः पूर्वकर्मैवावालम्ब्यते , तत्राह –
तत्रापीति ।
तत्रापीश्वरप्रवर्तने स्वकार्ये पूर्वं कर्म ततः पूर्वभाविकर्मप्रवर्तितेनेश्वरेण प्रवर्तितमिति वक्तव्यं , तथा च सर्वत्रानुपपत्तिसाम्यादन्धपरम्परेत्यर्थः । द्वावपि कर्मेश्वरौ ।
अस्माकं त्विति ।
मायामय्यां प्रवृत्तावचोद्यत्वादित्यर्थः ।
एवं श्रुतेरनुमानाच्चेश्वरसिद्धिं निरस्य पौरुषेयागमात्तत्सिद्धिर्निरस्यत इत्याह –
परस्यापीति ।
अस्माकं त्विति ।
शास्त्रयोनित्वेऽपीश्वरस्यानादिसिद्धनियतक्रमापेक्षणान्नेश्वराधीनं वेदस्य प्रामाण्यं किंतु स्वतः । यथा देवदत्तकृतत्वेऽपि दीपस्य प्रकाशनशक्तिमत एव कृतत्वाद् न देवदत्तापेक्षं तस्य प्रकाशकत्वं तद्वदित्यर्थः ।
ननु रूपादिहीनस्याधिष्ठेयत्वानुपपत्तिर्मायायामपि तुल्या , तत्राह –
यथादर्शनमिति ।
अधिष्ठानेति (ब्र.अ.२.पा.२.सू.३९) सूत्रगतव्याख्यानयोर्भेदमाह –
पूर्वमिति ।
करणवच्चेदिति (ब्र.अ.२.पा.२.सू.४०) सूत्रस्थव्याख्यानयोर्विशेषमाह –
तथेति ।
प्रधानपुरुषेश्वराणामिति ।
एषां पुरुषान् जात्यैकीकृत्य त्रित्वं तावत्सिद्धं , पुरुषाणां तु परार्धादिसंख्यासु मध्येऽन्यतमसंख्ययेयन्त एवेति संख्याभेदवत्त्वं द्रव्यत्वात् कुसूलमितधान्यवदित्यनुमाय सर्वेषां प्रधानादीनां संख्यावत्त्वादन्तवत्त्वं विनाशित्वमनुमातव्यम् । यद्यपि द्रव्यत्वादेवान्तवत्त्वं सर्वेषामनुमातुं शक्यम् ; तथापि प्रवाहनियत्वादनित्यानामपि स्रोतोरूपेण संसारवाहकत्वशङ्कां व्यावर्तयितुं संख्याभेदवत्त्वमनुमितम् । एवं तावद्द्रव्याश्रितैव संख्येति येषामाग्रहस्तन्मते संख्याभेदवत्त्वे द्रव्यत्वं हेतूकृतम् ।
अथ संख्यां विहाय सर्वत्र संख्यास्तीति मतं तन्मतेन मानं –
संख्यान्यत्वे सतीति ।
संख्यान्यत्वादित्यर्थः । सप्तमी च निमित्तार्था ।
अथ संख्यायामपि संख्यास्तीति मतं , तत्रानुमानमाह –
प्रमेयत्वादिति ।
सामान्यतो दृष्टानुमानोपन्यासस्तु ईदृशेनापि दूष्यत्वादाभासतरः परपक्ष इति द्योतनाय ।
व्याख्यातेऽर्थे सूत्रमवतारयति –
ततश्चेति ।
ननु बाह्यप्यन्तवदेकत्वादेकघटवदिति किं न स्यादत आह –
अस्माकं त्विति ।
भाष्यस्थस्वरूपपरिमाणपदं व्याचष्टे –
स्वरूपेति ।
परिहरति । तत ईश्वरस्येत्यादिभाष्येणेति शेषः ।
असति ह्यन्ते तदपरिच्छेदो न दोषाय , अस्ति च स इत्याह –
आगमेति ।
आगमानपेक्षो वादी तस्येति ॥४१॥
इति सप्तमम् पत्यधिकरणम् ॥
उत्पत्त्यसंभवात् ॥४२॥ अधिष्ठातैवैश्वर इति मते निरस्ते प्रकृतिरपि स इति मतस्य वेदसंगतार्थत्वाज्जीवोत्पत्तावपि प्रमाणत्वमतो जीवस्वरूपतया बोध्यमानाद् ब्रह्मणो जगत्सर्ग ब्रुवतः समन्वयस्य तेन बाध इति शङ्कानिरासात्संगतिमभिप्रेत्याह –
अन्यत्रेति ।
पञ्चरात्रकर्तुर्वासुदेवस्य वेदादेव सर्वज्ञत्वावगमात् कपिलपतञ्जल्यादीनां च जीवत्वात्पञ्जरात्रस्य च पुराणेषु बुद्धादिदेशनावद्व्यामोहार्थमीश्वरप्रणीतत्वश्रवणान्न योगाद्यधिकरणगतार्थता । अनन्तरसंगतिवशादिह पादेऽस्य लेखः ।
भवतु क्रियाकरणमुत्पाद्यं न तु ज्ञानकरणमित्याशङ्क्याह –
प्रयत्नेति ।
प्रयत्नादीनां करणत्वं विवक्षातः । सिद्धान्तस्तु – बुद्धिपूर्वकृतिः पञ्चरात्रं निःश्वसितं श्रुतिः । तेन जीवजनिस्तत्र सिद्धा गौणी नियम्यते ॥ यावध्द्येकदेशे वेदाऽविरोधादीश्वरबुद्धेर्वेदमूलत्वं वेदाद्वा सर्वविषयत्वं प्रमीयते , तावदेव स्वतःप्रमाणवेदाज्जीवानुत्पत्तिप्रमितौ तादृग्बुद्धिपूर्वकेश्वरवचनान्न जीवोत्पत्तिरवगन्तुं शक्यते । अतः प्रमाणापहृतविषये गौणं तद्वचनं न तु भ्रान्तम् पूर्वपक्षयुक्तेरिति। संकर्षणसंज्ञो जीवः प्रद्युम्नं जनयितुं करणान्तरवान्न वा । आद्ये तदेव सर्वत्र करणं स्यादिति न प्रद्युम्नः करणं भवेत् ।
द्वितीयं प्रत्याह –
संकर्षणोऽकरण इति ।
करणसामर्थ्य इति ।
इह करणं कृतिः ।
परस्परव्याहतेच्छा इति ।
व्याहतेच्छत्वे ईश्वरत्वव्याघातादित्यर्थः ।
उत्पन्ने हि कार्ये तत्प्रतीश्वरत्वमुत्पत्तिरेव न स्याद् , इत्याह –
व्याहतकामत्वे वेति ।
परिशुद्धं निश्चितम् ।
अनेकेश्वरत्वेऽपसिद्धान्तमाह –
भगवानेवेति ।
व्याख्यातो भाष्ये इति शेषः ॥
इति अष्टममुत्पत्त्यधिकरणम् ॥
इति श्रीपरमहंसपरिव्राजकाचार्यानुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ द्वितीयाध्यायस्य द्वितीयः पादः
न वियदश्रुतेः॥१॥ इह पादे भूतभोक्तृविषयवाक्यानां विरोधः परिह्रियते । प्रासङ्गिकीं पादसंगतिं वक्तुं विप्रतिषेधाच्चेति भाष्यम् । तत्र श्रुतिविप्रतिषेधादित्यर्थः । परपक्षेषु सर्वत्र स्ववचनविरोधस्याभावादित्यभिप्रेत्याह –
श्रुतीति ।
न वियदिति पूर्वपक्षः अस्ति त्विति सिद्धान्त इति भ्रमं व्यावर्तयति –
इह हीति ।
एवं ह्यविरोधाध्यायसंगतिरित्यर्थः । अत्र हि गौण्यसंभवादित्येकदेशिसूत्रस्य न वियदिति सूत्रोक्तानुत्पत्त्युपजीवित्वादेकवाक्यता । अत इदमप्येकदेशिन इति । केचित्तु – सूत्रद्वयेन पक्षद्वयं प्रदर्श्य विप्रतिषेध उच्यते , पादसंगतपूर्वपक्षार्थत्वसंभवे सूत्रस्यैकदेशिमतार्थत्वायोगात् इत्याहुः । तन्न किमश्रुतेरिति हेतुः सार्वत्रिक उतैकदेशपरः । नाद्यः तैत्तिरीयके नभःसंभवश्रवणात् । नान्यः ; अनुत्पत्त्यसाधकत्वात् । न च क्वचिच्छ्रवणात् क्वचिदश्रवणाच्च विप्रतिषेधः ; अश्रुतस्थले उपसंहारसंभवात् । न चैहैवोपसंहारचिन्ता ; सर्ववेदान्तप्रत्ययाद्यधिकरणपौनरुक्त्यापातात् । तस्मान्न विप्रतिषेधः सूत्राभ्यां दर्शयितुं शक्यः । ततः क्वचिदाकाशस्य प्राथम्यं श्रुतं क्वचित्तेजस इत्येव विप्रतिषेधः । पूर्वपक्षाद्बहिष्ठात् सिद्धान्तच्छायमेकदेशिमतमिति संगतिः पादेन । एवमाऽध्यायसमाप्तेः प्रथमम् विप्रतिषेधादप्रामाण्येन पूर्वपक्षः , तत एकदेशिव्याख्या ततः सिद्धान्त इति दर्शनीयम् ।
नन्वेकदेश्यपि श्रुतौ सत्यां कथमश्रुतेरिति ब्रूयाद् ? अत आह –
तस्याभिसंधिरिति ।
विरोधेन पूर्वपक्षे भाष्यविरोधमाशङ्क्याह –
तदिदमिति ।
अश्रुतस्थलेऽपि श्रुतोत्पत्तेरुपसंहारादविरोधमाशङ्क्याह –
पूर्वपक्षी – न च श्रुत्यन्तरानुरोधेनेत्यादिना ।
अस्ति त्वित्यपि सूत्रं निगूढाभिसंधेः सिद्धान्तिन एव अभिप्रायानभिव्यक्तिमपेक्ष्य पूर्वपक्षसूत्रमित्युक्तमिति न वियदिति सूत्रेण पुनरुक्तिमाशङ्क्याह –
स्वाभिप्रायमिति ।
अश्रुतेरित्यस्य मुख्यश्रुत्यभावादिति ह्यभिप्रायस्तं विवृणोतीत्यर्थः ।
आदिग्रहणेनेति ।
विभुत्वादिलक्षणादित्यत्रत्येनेत्यर्थः । घटादिव्यावृत्त्यर्थमस्पर्शत्वं क्रियादिव्यावृत्त्यर्थं द्रव्यत्वविशेषणम् ।
एकस्य संभूतशब्दस्य सकृत्प्रयोगे गौणमुख्यत्वव्याघातस्य ब्रह्मशब्ददृष्टान्तेन कथं परिहारः , तत्रापि तुल्यत्वादनुपपत्तेरित्याशङ्क्योभयत्र न्यायमाह –
पदस्येति ।
अर्थो हि गौणत्वमुख्यत्वविरुद्धधर्माध्यासं न सहते , शब्दस्तु येनानुषज्यते तेन योग्यतामपेक्ष्य संबध्यते , ततो यत्र मुख्यवृत्त्याऽन्वययोग्यता तत्र मुख्योऽन्यत्र गौणः संभवतीत्यर्थः॥५॥
कुलशब्दस्य संतानवाचित्वं व्यावर्तयति –
गृहमिति ।
अमत्रशब्दस्य स्थालादिवचनत्वं च व्युदस्यति –
घटशरावादीनीति ।
क्षीरस्येति षष्ठी तृतीयार्थे । द्वे किल पूर्वपक्षिणाऽमुपपत्ती उक्ते , तत्तेजोऽसृजतेत्यत्राकाशस्योपसंहारे सकृदसृजतेति श्रुतस्य स्रष्टुराकाशतेजोभ्यां संबन्धे सत्यावृत्त्या वाक्यभेदः स्याद् , द्वयोश्चाकाशतेजसोः प्रथमसृष्टत्वविरोध इति।
तत्र द्वितीयामनुपपत्तिं परिहरति –
श्रुत्योरिति ।
तेजः प्रथमं सृष्टमिति प्रथमशब्दस्य छान्दोग्यश्रुतावश्रवणात्तेजोजन्ममात्रेणान्यथोपपत्तिरित्याकाशमेव प्रथमं , तेजस्तु यथातैत्तिरीयश्रुति तृतीयमिति न विरोध इत्यर्थः ।
तदुक्तं भाष्ये –
तृतीयत्वश्रवणादिति ।
ननु यद्यपि प्रथमशब्दो न श्रुतः ; तथापि प्रथमं तावत्तेजोऽवगतं तदाकाशोपसंहारे बाध्येतेति शङ्कते –
नन्वसहायमिति ।
परिहारभाष्याभिप्रायमाह –
सर्गसंसर्ग इति ।
तेजसो जन्मसंसर्ग एव श्रुतः , भेदस्तु व्यावृत्तिराकाशस्य न श्रुता , किंतु प्रथमस्थाने तेजः श्रवणादर्थात्कल्प्यते , स्थानं च तैत्तिरीयश्रुत्यन्तरेण विरोधात्तेन बाध्यते ; स्थानाच्छ्रुतेर्बलीयस्त्वादित्यर्थः ।
न केवलं विरोधादाकाशजन्माभावकल्पना , किंतु श्रुतानुपयोगादपीत्याह –
न च तेजःप्रमुखेति ।
तत्रापि लभ्यमित्यन्तः पूर्वोक्तविरोधानुवाद एव व्यतिरेको व्यावृत्तिश्रुत्यन्तरश्रुतेर्नाकाशजन्मना तस्यार्थिकस्य व्यतिरेकस्य बाधने श्रुतस्य तेजःसर्गस्य नानुपपत्तिः । अतः श्रुताकाशजन्मविरोधित्वात् श्रुततेजोजन्मानुपयोगित्वाच्चाकाशजन्माभावो न कल्प्य इत्यर्थः ।
प्रथमामनुपपत्तिं प्रसङ्गद्वारेणोत्थाप्य परिहरति –
स्यादेतदित्यादिना ।
तत्र किमर्थानुपपत्तिरुच्यते , शब्दानुपपत्तिर्वा ? नाद्य इति तावत्प्रथमं प्रतिपाद्यते , तत्र यदुक्तं यथैकं वाक्यमनेकार्थं न भवति , एवमेकस्य कर्तुरनेकव्यापारवत्त्वमपि विरुद्धमिति , तत्र दृष्टान्तस्य वैषम्यमाह –
वृद्धप्रयोगेति ।
अनेकत्रार्थेऽनावृत्तस्य शब्दस्य व्यापारो वृद्धव्यवहारे न दृष्टः , आवृत्तौ तु शब्दभेद एवेति नैकस्य शब्दस्य नानार्थतेत्यर्थः ।
दार्ष्टान्तिके तु नैवमित्याह –
दृष्टं त्विति ।
शब्दानुपपत्तिं परिहरति –
न चास्मिन्निति ।
तत्तेजोऽसृजतेत्यत्र ह्याकाशजन्मन्युपसंहृते वाक्यद्वयमनुमीयते तदाकाशमस्रुजत तत्तेजोसृजतेति च । ततश्चैकस्मिन् श्रूयमाणे वाक्येन शब्दावृत्तिरूपवाक्यभेदापत्तिरित्यर्थः ।
वाक्यानामिति ।
बहुवचनमुपसंहारोदाहरणान्तराभिप्रायं प्रथमस्थाने तेजःश्रवणमर्थादाकाशस्य प्रथमं जन्म वारयतीत्यार्थिकक्रमस्याकाशजन्मश्रुत्या बाधो दर्शितः ।
इदानीं क्रमस्य पदार्थधर्मत्वाच्च न श्रुताकाशपदार्थबाधकत्वमित्याह –
गुणत्वादिति ।
वियदुत्पत्त्यभ्युपगमेन श्रुतिविप्रतिषेधवादिनिराकरणे प्रस्तुते वियदुत्पत्तिहेतुकथनं भाष्यकारीयमसंगतमित्याशङ्क्याह –
सिंहावलोकितेति ।
विकारा इति ।
पराधीनसत्ताका इत्यर्थः । एवं च विभक्तत्वमविद्यादौ नानैकान्तं तस्य प्रागभावत्वाभावेऽप्यध्यस्तत्वेन परायत्तसत्ताकत्वाज्जीवेश्वराद्यपि विभागविशिष्टरूपेण समारोपितमेव ।
नन्वद्वैतवादिनः कथमाकाशादेर्विभक्तत्वसिद्धिरत आह –
आत्मान्यत्वे सतीति ।
तत्त्वतो विभक्तत्वाभावेऽऽप्यविद्ययाऽऽकाशादेरन्यत्वकल्पनायां सत्यामस्ति विभक्तत्वमित्यर्थः । विभागश्च धर्मिसमानसत्ताको विवक्षितः । तथा च न ब्रह्मणि व्यभिचारः ; तद्गतस्याकाशादिप्रतियोगिकभेदस्य मिथ्यात्वेन ब्रह्मसमानसत्त्वाभावादिति।
भाष्ये कथमात्मनः कार्यत्वे सत्याकाशादेर्निरात्मकत्वमापाद्यते ? न ह्यन्यस्य कार्यत्वेऽन्यं निरात्मकं स्यादत आह –
निरुपादानं स्यादिति ।
सर्वकार्यसृष्टेः प्राग्यद्यात्मापि न स्यात् , तर्हि निरुपादानत्वमसत्त्वं कार्यस्येत्यनेनापाद्यते । उपादानं हि कार्यस्यात्मेत्यर्थः ।
भाष्योक्तशून्यवादप्रसङ्गस्य तन्मतेनेष्टप्रसङ्गत्वमाशङ्क्याह –
शून्यवादश्चेति ।
श्रुतिममन्यमानं प्रत्याह –
उपपादितं चेति ।
भाष्ये आत्मसमर्थनमात्मन एवाकाशाद्युपादानत्वसमर्थनार्थम् ; अन्यथा प्रकृतासंगतेरित्यभिप्रेत्याह –
आत्मवादे चेति ।
आत्मत्वादेवेति ।
प्रत्यगात्मनो निराकरणशङ्काऽनुपपत्तिरित्येतद्भाष्यमात्मत्वादेवोपादानत्वादेवेति व्याख्येयमित्यर्थः ।
तदर्थमात्मन उपादानत्वं समर्थयते –
एतदुक्तमिति ।
वियदादेर्भावकार्यत्वात्सोपादानत्वं तदुपादानस्य च श्रुतावात्मत्वम् सिद्धमित्यर्थः ।
प्रकृतिप्रत्ययाभ्यामिति ।
ज्ञा इति धात्वंशः प्रकृतिः । तव्य इति प्रत्ययः । ज्ञानविशिष्टस्य ज्ञेयस्यान्यथाभावोक्तिर्विशेषणभूतज्ञानेऽपि द्रष्टव्येत्यर्थः ।
क्षीरावयवानां दध्युपादानत्वाद्दृष्टान्तः साध्यसम इत्याशङ्क्याह –
तत्र नावयवानामिति ।
उपात्तं सिद्धम् । न हि दधिभावसमये क्षीरं नश्यति , यतस्तदवयवानामारम्भकत्वं कल्प्येतेत्यर्थः ।
ननु दध्यनेकोपादानं कार्यद्रव्यत्वात् पटवद् इत्यनुमीयतां , तत्राह –
यथेति ।
यथा भवतां क्षीरे नष्टे क्षीरारम्भकपरमाणौ दध्यारम्भाय क्षीररसादिव्यतिरेकेणापरे रसादय उदयन्ते , तेषां चैकारभ्यत्वमेवं दध्नोऽपि किं न स्यात् ? तस्यापि दुग्धसंस्थानमात्रत्वेन गुणवद्द्रव्यान्तरत्वानभ्युपगमादिति भावः॥७॥
इति प्रथमं वियदधिकरणम्॥
एतेन मातरिश्वा व्याख्यातः॥८॥ संगतिमाह –
यदीति ।
पूर्वाधिकरणे हि ब्रह्मण्यद्वितीयत्वप्रतिज्ञा न गौणी एकाऽद्वितीयैवशब्दैरस्या अभ्यासादित्युक्तं तद्वद्वायुनित्यत्वमपि नापेक्षिकमभ्यस्यमानत्वादित्यर्थः ।
अन्तरिक्षसहितवाय्वनुत्पत्तिवादिवाक्यमात्रोदाहृतावन्तरिक्षोत्पत्तेः पूर्वत्रोदाहृतेर्वायुनित्यत्वोक्तिरप्यौपचारिकीति शङ्का स्यात्तां परिहरति –
पवनस्य विशेषेणेति ।
मुक्त्वाऽन्तरिक्षमित्यर्थः ।
चेनेति ।
चकारेणेत्यर्थः ।
तदुपपादनार्थत्वाच्चेति ।
बृहदारण्यके खल्वनेन ह्येतत्सर्वं वेदेत्यात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातं वायुश्चान्तरिक्षमित्यादिवाक्यं चात्मकार्यवाय्वादिप्रदर्शनेन तदुपपादकमित्यर्थः ।
प्रधानेनाप्रधानबाधमुक्त्वा गुणभूतावान्तरवाक्यैरपि बहुभिर्वायुनित्यत्ववाक्ययोर्बाधमाह –
तेषामपीति ।
तेषामवान्तरवाक्यानां मध्ये इत्यर्थः ।
अद्वैतप्रतिपादकानामिति ।
इदं सर्वं यदयमात्मेत्यादिवाक्यानामित्यर्थः । मातरिश्वोत्पत्तिक्रमग्रहणमाकाशजन्मसमर्थनात् कार्यस्यापि कार्यं वायुः कुतोऽस्य नित्यत्वमित्यर्थम्॥८॥
इति द्वितीयं मातरिश्वव्याख्यानाधिकरणम्॥
असंभवस्तु सतोऽनुपपत्तेः॥९॥ भास्करोक्तं दूषणं शङ्कित्वा भाष्यमवतारयति –
नन्वित्यादिना ।
अग्निविस्फुलिङ्गदृष्टान्तश्रुतिविरोधादिति। ननु नात्माश्रुतेरित्यधिकरणेऽप्येतच्छ्रुतिबलेन पूर्वपक्षः , सत्यम् ; तत्र हि ब्रह्म नित्यमुपेत्यैव जीवस्य तस्मादुत्पत्तिरेतद्वाक्यबलेन शङ्किष्यतेऽत्र तु यथाग्नेरग्निरेव विस्फुलिङ्ग उत्पद्यते , एवं ब्रह्मान्तराद् ब्रह्मेति शङ्क्यते ।
ननु यद्यात्मा आत्मान्तरं प्रति कारणं , तर्हि तस्याप्यन्य इत्यनवस्थेत्याशङ्क्याऽग्निविस्फुलिङ्गवदनादित्वाददोष इत्याह –
न चेति ।
अपि च विवर्तता हि कार्यता , तत्र ब्रह्म कार्यमिति वदन् प्रष्टव्यः किं ब्रह्म स्वयं सत्यमसत्ये कुत्रचिदध्यस्तम् , उत सत्यान्तरे , किं वा विनैवाधिष्ठानेन स्वयमेवारोपितम् ।
नाद्य इत्याह –
यत्स्वभावाद्विचलतीति ।
न द्वितीय इत्याह –
ययोस्त्विति ।
न तृतीय इत्याह –
न च निरधिष्ठान इति ।
अनादित्वान्नानवस्थादोषमावहतीत्युक्तत्वाद् भाष्यायोगमाशङ्क्याह –
पारमार्थिको हीति ।
भाष्येऽनवस्थाशब्देन प्रमाणाभाव उच्यते । अग्निविस्फुलिङ्गादेर्हिक्वचित्कार्यकारणभावस्य प्रमितत्वात् प्रागप्येविमिति परम्परा स्यादत्र तु विकारस्य सतो ब्रह्मणः समारोपिते क्वचित्समारोपः स्यात्स च न प्रमित इत्यपरिनिष्ठेत्यर्थः । माध्यमिकमतनिषेधप्रस्तावे हि अन्यत्तत्त्वमनधिगम्य प्रत्यक्षादिप्रमितनिषेधो न युज्यते , तैरेव विरोधादतः प्रमितः परमार्थ एवाधिष्ठानमिति ह्युपपादितम् ।
असदधिष्ठानेति ।
असच्छब्दोऽपरमार्थवचनः । भास्करस्य भाष्यकारीयमते यदरुचिनिदानं तत्प्रागेव विचिकित्सितम् ।
इदानीं तदुदीरितामधिकरणभङ्गीं भञ्जयति –
ये त्विति ।
क्लेशेनेति ।
सतो विद्यमानस्य गुणादेर्नित्यत्वासंभवः , कुतः ? अद्वितीयश्रुत्यनुपपत्तेरित्यध्याहारः क्लेशः । किंच तैरश्रुतोत्पत्तिकानामनुत्पत्तिशङ्कानिरासोऽधिकरणार्थ इत्युच्यते ।
ततश्च श्रुतिविरोधापरिहारात् पादासंगतिरित्याह –
अविरोधेति ।
यत्तु - केशवेन समादधे पूर्वाधिकरणार्थ एवात्राक्षिप्यते ; श्रुताकाशादिभिरश्रुतदिगादीनां परिसंख्यायां प्रतिज्ञाव्यतिरेकयोर्बाधाद् , अपरिसंख्यायां त्वेकदेशोपादानवैयर्थ्यम् - इति। तन्न ; अनादिपूर्वपक्षा भासोत्प्रेक्षितानुत्पत्तीनामाकाशादीनामुत्पत्त्यभिधानस्य सर्वकार्योपलक्षणार्थत्वादिति॥९॥
इति तृतीयमसंभवाधिकरणम्॥
तेजोऽतस्तथा ह्याह॥१०॥ अध्यस्तस्याधिष्ठानत्वायोगान्न ब्रह्मणः कुतश्चित्संभव इत्युक्तं , तर्हि वायोरप्यध्यस्तत्वान्न तेजसस्ततो जन्म , किंतु ब्रह्मण एवेति प्रत्यवस्थानात्संगति। अत्र पूर्वपक्षसम्भावनार्थं भाष्यं वायोरग्निरिति क्रमोपदेशो वायोरनन्तरमग्निः संभूत इति ।
तदनुपपन्नम् , वायोरनन्तरमिति दिग्योगार्थपञ्चम्या अनन्तरमित्युपपदसापेक्षत्वात् , अपादानपञ्चम्या निरपेक्षत्वाद् , वायोरेव तेजःप्रत्युपादानत्वप्रतीतेरित्याशङ्क्याह –
यद्यपीति ।
बहुश्रुतयस्तत्तेज इत्याद्यास्ता हि ब्रह्मजत्वं तेजसोऽभिवदन्त्यो वायुजत्वे विरुध्येरन्निति।
ननु श्रुतयः परम्परया ब्रह्मजत्वेऽपि योक्ष्ययन्तेऽत आह –
न चेति ।
पारम्पर्यसंबन्धिदृष्टान्तमाह –
वाजपेयस्येति ।
वाजपेयस्य यूप इतिवद् यत्परम्परया तज्जत्वं तत्साक्षाद् ब्रह्मजत्वसंभवे सति न युक्तमिति योजना । शेषलक्षणे स्थितम् – आनर्थक्यात्तदङ्गेषु (जै.अ.३.पा.१.सू.१८) । सप्तदशारत्निर्वाजपेयस्य यूप इति श्रूयते । तत्र न तावद्यो वाजपेयस्य यूपः स सप्तदशारत्निरिति विधीयते ; विशिष्टोद्देशेन वाक्यभेदप्रसङ्गात् । तत्रान्यतरोद्देशे किं वाजपेयोद्देशेन सप्तदशारत्नित्वं विधीयते , उत यूपोद्देशेनेति संशयेऽनन्तरदृष्टत्वात्प्रधानत्वात्प्रकरणित्वाच्च वाजपेय उद्देश्यः , तस्य च साक्षात्सप्तदशारत्नित्वासंभवे तदीयषोडश्याख्योर्ध्वपात्रोपलक्षणार्थो यूपशब्द इति प्राप्ते सिद्धान्तः । यूप उद्देश्यः । एवं हि यूपशब्दो मुख्यार्थः स्यान्न च वाजपेयस्येति गौणता ; व्यवहितसंबन्धेऽपि षष्ठ्या मुख्यत्वाच्चैत्रस्य नप्तेतिवत् । तस्माद्वाजपेये यूपाभावात्तदङ्गगतयूपे सप्तदशारत्निता विधीयते इति। पशुयागसंबन्धिनो यूपस्य साक्षाद्वाजपेयसंबन्धो न संभवति ; वाजपेयपशुयागयोरङ्गाङ्गित्वेन विरुद्धधर्माध्यासेन भेदात् । तत्र वाजपेयस्येति षष्ठी परम्परासंबन्धमाश्रयेत् । अत्र तु वायोरिति श्रुत्या वायूपादानत्वे तेजसोऽभिहितेऽपि न ब्रह्मजत्वश्रुतिभिः पारम्पर्यमवलम्ब्यम् ।
ब्रह्मवाय्वोरभेदेन वायुजस्यापि ब्रह्मजत्वोपपत्तेरित्याह –
युक्तमित्यादिना ।
वायोर्ब्रह्मविकारस्य यद्यपि ब्रह्मणः सकाशात् काल्पनिको भेदः ; तथापि वास्तवाभेदादव्यवधानमित्याह –
ब्रह्मविकारस्यापीति ।
यदुक्तं बह्विभिर्ब्रह्मजत्वश्रुतिभिः कारकविभक्तेर्बाध इति , तदप्येवं सत्यपास्तमित्याह –
उभयथेति ।
वायुभावापन्नब्रह्मजत्वे केवलब्रह्मजत्वेऽपीत्यर्थः । यद्यप्येकाकिनी कारकविभक्तिस्तास्तु बह्व्यः ; तथापि तासां वायुभावापन्नब्रह्मजत्वेऽपि तेजसो न विरोध इति पञ्चम्यनुग्रहाय तत्रैव नियम्यन्त इति भावः । एवंच कल्पितस्य वायोरधिष्ठानत्वायोग इति परास्तम् ; तद्भावापन्नब्रह्मणः परमार्थत्वादिति।
कांस्यभोजिवदिति ।
लोके कस्यचिच्छिष्यस्य कांस्यभोजित्वं नियतम् , उपाद्यायस्य त्वनियतपात्रभोजित्वम् , तत्र यदि तयोः कुतश्चिन्निमित्तादेकस्मिन्पात्रे भोजनं प्राप्नुयात् , तदानीममुख्यस्यापि शिष्यस्य धर्माऽबाधायोपाध्यायोऽपि कांस्यभोजित्वेनैव नियम्यत इति।
अव्यवधानस्य समर्थितत्वाद् भाष्यायोगमाशङ्क्याह –
भेदकल्पनेति ।
काल्पनिकं वायुब्रह्मभेदमाश्रित्य पारम्पर्यवाद इत्यर्थः ।
न तु सर्वथेति ।
शृतस्य दुग्धस्य धेन्वाश्च वायुब्रह्मणोरिवाभेदाभावादित्यर्थः॥१०॥
इति चतुर्थं तेजोधिकरणम्॥
आपः॥११॥ अतिदेशोऽयम् । ‘एतस्माज्जायत’ इत्युपक्रम्य ‘ खं वायुर्ज्योतिराप’ इति श्रूयते । अग्नेराप इति च । अतश्चापः किं सतो जायन्ते उत तेजस इति संशयादि पूर्ववत् । अपामग्निदाह्यत्वादग्नेरुत्पत्त्ययोगादग्नेरापस्तत्तेजोऽपोऽसृजतेति च गौण्यौ श्रुती इति शङ्काऽत्र निवर्त्यते । अत्रिवृत्कृताऽप्तेजसोरविरुद्धत्वादिति ॥११॥
इति पञ्चममबधिकरणम्॥
पृथिव्यधिकाररूपशब्दान्तरेभ्यः॥१२॥ सृष्टावपां तेजसोऽनन्तरत्वात्पृथिव्याश्चाबानन्तर्यादधिकरणद्वयस्य बुद्धिसन्निधानरूपा संगतिः । व्युत्पत्त्या व्युत्पाद्यत इति योगवृत्त्या । प्रसिद्ध्या रूढ्या । न वयं महाभूतप्रकरणमात्रादन्नश्रुतिं बाधामहे , किंतु लिङ्गप्रकरणसहितसाभ्यासपृथिवीश्रुत्या इत्याह –
श्रुत्योरित्यादिना ।
लिङ्गमाह –
प्रायिकेति ।
तत् तत्र सृष्टिकाले यद् यः अपां शरः मण्डः धनीभावः आसीत् सा पृथिव्यभवद् इति पुनःश्रुतेरर्थः ।
ननु वर्षणाद्भूयिष्ठत्वप्राप्तिलिङ्गमन्नश्रुतेरप्यनुग्राहकमस्ति , अत आह –
वाक्यशेषस्य चेति ।
तस्य लिङ्गप्रकरणाभ्यां बाधात् । अन्यथा पार्थिवव्रीह्यादिपरत्वेऽनुपपत्तेरित्यर्थः॥१२॥
इति षष्ठं पृथिव्यधिकरणम्॥
तदभिध्यानादेव तु तल्लिङ्गात्सः॥१३॥ ननु न तावदिह भूतानां ब्रह्माधिष्ठितानां स्रष्टृत्वाभावश्चिन्त्यते ; ईक्षत्याद्यधिकरणै (ब्र.अ.१.पा.१.सू.५) र्गतत्वात् । नापि ब्रह्मण एव तत्तद्भूतात्मनाऽवस्थितस्योत्तरकार्योपादानत्वम् ; तेजोऽत (ब्र.अ.२.पा.३.सू.१०) इत्यत्र तन्निर्णयात् । अतोऽधिकरणानारम्भ इत्याशङ्कामपनयन् सङ्गतिमाह –
सृष्टिक्रम इति ।
पूर्वपक्षमाह –
तत्राकाशाद्वायुरिति ।
यद्यपि परात्तु तच्छ्रुते (ब्र.अ.२.पा.३.सू.४१) रित्यत्र जीवकर्तृत्वमीश्वराधीनमिति वक्ष्यते ; तथापीह देवतानामैश्वर्ययोगात्स्वातन्त्र्यमाशङ्क्यते । न च देवतानामपीश्वराधीनत्वेऽत्र सिद्धे कैमुतिकन्यायाज्जीवमात्रेष्वपि तत्सिद्धेस्तदधिकरणानारम्भः शङ्क्यः ; सत्यपि देवतानां महाभूतसृष्टावीश्वरपारतन्त्र्ये विहितक्रियाकर्तृत्वादौ क्षुद्रे जीवमात्रस्यापि स्वातन्त्र्यशङ्कोदयसंभवादिति। अत्राकाशादिशब्दैराकाशाद्यभिमानिन्यो देवता विवक्षिताः , मनुष्यादिशब्दैरिवजीवाः । पञ्चम्यश्च निमित्तार्थाः । एतदुक्तं भवति – यथाऽऽकाशाद्यात्मनेश्वरो वाय्वाद्युपादानमेवं तदभिमानिदेवतात्मनाऽधिष्ठातेति। भूतानामपि चेतनत्वश्रवणादिति भाष्यं भूताभिमानिदेवताभिप्रायम् ।
ननु सोऽकामयतेति परमेश्वरप्रस्तावं कृत्वा तद्ब्रह्मात्मानं स्वयमकुरुतेति कर्तृत्वं श्रूयते , यः पृथिव्यां तिष्ठन् यमयतीति चेश्वरस्य नियन्तृत्वलिङ्गमस्ति , तत्कथं देवतानां स्वातन्त्र्येण कार्यनियन्तृत्वमत आह –
प्रस्तावस्य चेति ।
मूलकारणस्य च ब्रह्मणः प्रस्तावलिङ्गद्योतितसर्वनियन्तृत्वस्य पारम्पर्येणाभिमानिदेवताद्वारेणोपपत्तेरित्यर्थः ।
ब्रह्मयोनित्वेति ।
योनिशब्दो निमित्तार्थः । आकाशादिशब्दैर्न देवतालक्षणा ; मुख्यार्थबाधाभावात् ।
पञ्चम्यश्चापादानार्थस्तत्र रूढतरत्वादित्याह –
आकाशादीनामिति ।
देवतालक्षणमङ्गीकृत्याप्याह –
न च चेतनानामिति ।
भाष्ये तेन तेनात्मनाऽवतिष्ठमानत्वम् इति भूतात्मतामापन्नस्योपादानत्वमुक्तमिति भ्रममपनुदति –
स्वयमधिष्ठायेति ।
तत्र चान्यत्र चानुगतकारणरूपेणावस्थानं तदात्मनाऽवस्थानं , न तु तदात्मत्वेनैव परिसमाप्तिः ।
भाष्ये परमेश्वरावेशो जीवापत्तिरिति भ्रान्ति निरस्यति –
अन्तर्यामिभावेनेति ॥१३॥
इति सप्तमं तदभिध्यानाधिकरणम्॥
विपर्ययेण तु क्रमोऽत उपपद्यते च॥१४॥ यद्यप्यत्र श्रुतिविप्रतिषेधो न परिह्रियते ; तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यो पादावान्तरसङ्गती । भास्करेण सिद्धान्ते स्थित्वाऽन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छेत्यत्र लयेऽपि भूतानां क्रमः श्रुत इत्युक्तं , तदयुक्तमित्याह –
नाप्यय इति ।
तत्र हि कार्येण कारणमनुमाप्यते , न लयोऽभिधीयत इति।
यत्तु यत्प्रयन्त्यभिसंविशन्तीति , तत्र लयमात्रमुक्तं न क्रम इत्याह –
अप्ययमात्रस्येति ।
यच्च भास्करेणाऽनियमः पूर्वपक्ष इत्युक्तं , तदप्ययुक्तमित्याह –
तत्रेति ।
श्रुतोत्पत्तिक्रमादेव नियमे सति नानियम इत्यर्थः । यत्तु - केशवेनोक्तम् अयोग्य उत्पत्तिक्रमो नाप्यये भवितुमर्हति , न हि नष्टेषु तन्तुषु पटस्तिष्ठन् दृष्टः - इति , तदयुक्तम् ; अनियमेऽपि पाक्षिकस्यायोग्यत्वस्यापरिहारात् । तत्र तदपि स्वीकृत्याव्यवस्थितपक्षाभ्युपगमाद्वरं व्यवस्थितोत्पत्तिक्रमाश्रयणम् । भाष्यकारस्त्वनियतपक्षमुपक्रममात्रमुक्तवानिति।
घटादीनां दृष्टोऽप्ययक्रमो विपरीतः , स भूतानां किमस्त्वित्याह –
किं दृष्ट इति ।
सन्निधानेप्युत्पत्तिक्रमस्यानाकाङ्क्षितत्वान्नाप्ययसबन्ध इत्याह –
अप्ययस्येति ।
न च विपरीतक्रमस्यासन्निधानं , प्रमाणेन सन्निधापितत्वादित्याह –
दृष्टेति ।
घटादौ दृष्टेनात्राप्यनुमानोपनीतेनेत्यर्थः ।
श्रुत्यनुसारिणोऽप्ययक्रमस्येति ।
उत्पत्तौ श्रुतस्याप्ययेऽपि संगमयितुं त्वयेष्यमाणस्येत्यर्थः । लोकदृष्टपदार्थबोधाधीना हि श्रुतिरतः श्रुतिसन्निहितादपि लौकिकः क्रमः सन्निहिततर इति तेन तद्बाधनं युक्तम् ।
दृष्टेन क्रमेण श्रौतबाधे हेत्वन्तरं चाह –
तस्मिन् हि सतीति ।
अनाकाङ्क्षामुपसंहरति –
तद्विरुद्धेति ।
तस्योपादानोपरमेऽपि कार्यसत्तापादकस्योत्पत्तिक्रमस्य विरुद्धो यो विपरीतक्रमस्तस्यावरोधात्संबन्धादित्यर्थः ।
ननु विपरीतक्रमे श्रुत्यभावाद् भाष्योक्तजगत्प्रतिष्ठेत्याद्या स्मृतिर्निर्मूलेत्यत आह –
एतन्न्यायमूलेति ।
उपादानलये कार्यस्थित्ययोगो न्यायः॥१४॥
इत्यष्टमं विपर्ययाधिकरणम्॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्॥१५॥ संगतिमाह –
तदेवमिति ।
भावनोपयोगिनाविति ।
पूर्वाधिकरणानां प्रयोजनोक्तिः । भूतोत्पत्तिलयशीलनं ह्यद्वैतब्रह्मध्यानोपयोगीति बुद्ध्याद्युत्पत्तिक्रमविचारोऽपि तत्फल एव ।
ननु सूत्रे विज्ञानशब्दप्रयोगात्तस्य च बुद्धिवृत्तौ प्रसिद्धेः कथं बुद्धीन्द्रियाणामुत्पत्तिचिन्ता ? अत आह –
अत्रेति ।
निश्चयवती बुद्धिः संशयादिमन्मतनः इति तद्भेदः ।
चेदित्यन्तस्य योजनया पूर्वपक्षमाह –
तत्रैतेषामिति ।
आत्मानं भूतानीति च द्वितीये ; ‘‘अन्तरान्तरेण युक्ते’’ इति षष्ठ्यर्थे सामाम्नानात् । एतस्माज्जायत इति वाक्ये इत्यर्थः ।
श्रुतिविरोधपरिहारेण चिन्तां संगमयति –
तस्मात्पूर्वेति ।
ननु यदि साक्षादात्मकार्याणीन्द्रियाणि , कथं तर्ह्यन्नादिमयत्वं मन आदीनामाम्नायतेऽत आह –
अन्नमयमिति चेति ।
प्राचुर्यार्थो मयद प्राचुर्यं चान्नात्मकशरीरेण मनआदेरवच्छेदादित्यर्थः ।
अन्नमयमित्यादिलिङ्गश्रवणादिति ।
अन्नमशितं त्रेधा विधीयत इति आध्यात्मिकत्रिवृत्करणपरे वाक्ये मनसोऽन्नमयत्वेन निर्देशो लिङ्गदर्शनमिति ।
इतरथा त्विति ।
प्राचुर्यार्थत्वेऽनपेक्षितं प्राचुर्यमुक्तं भवेदित्यर्थः ।
न च तदपीति ।
प्राचुर्यमित्यर्थः । अन्नकार्यत्वं तु मनसो घटते ; अन्नोपयोगे मनोविवृद्धेः श्रुत्यैव दर्शितत्वादिति। भूतानां मध्ये आकाशः प्रथमं जायत इत्युक्तक्रमः॥१५॥
इति नवममन्तराविज्ञानाधिकरणम्॥
चराचरव्यापाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्॥१६॥ एवं तावत्तत्पदवाच्यकारणत्वनिर्णयाय भूतोत्पत्तिश्रुतिविरोधो निरस्तः । इदानीमापादसमाप्तेस्त्वंपदार्थशुध्द्यै जीवविषयश्रुतिकलहो वारयिष्यते । यदीन्द्रियोत्पत्तिर्न भूतोत्पत्तिक्रममन्यथयति , तर्हि जीवोत्पत्तिस्तमन्यथयेदिति शङ्कायां सैव नास्ति , कुतः कलहः ? इति प्रतिपादनादवान्तरसंगतिः । इह जीवजनननिधननिमित्तश्राद्धवैश्वानरीयेष्ठ्यादिशास्त्राणां च जीवनित्यत्वशास्त्राणां चाविरोधः साध्यते । देवदत्तादिनाम्नो देहवाचकत्वात्कथं भाष्ये जातो देवदत्त इत्यादिव्यपदेशाजजीवजन्मशङ्काऽत आह –
देवदत्तादीति ।
तन्मृत इति ।
तदिति तस्मादर्थे ।
देहेन सहात्मनाशे श्राद्धादिविधिवैयर्थ्यात् स्थाय्यात्मेति सिद्धान्तयति –
मुख्यत्व इति ।
भक्तिर्गुणयोगः तत्संयोग इत्यन्वयः । शरीरोत्पादविनाशौ स्त इति शेषः॥
इति दशमं चराचरव्यपाश्रयाधिकरणम्॥
नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः॥१७॥ स्वर्गादिभोगाय देहनाशेऽप्यात्मा न नश्यतीत्युक्तम् , तर्हि कल्पमात्रावस्थानेऽपि स्वर्गादिभोगसंभवज्जीवः कल्पाद्यन्तयोरुत्पत्तिविनाशवानिति संगतिमाह –
मा भूतामिति ।
नन्वसंभवस्त्वि (ब्र.अ.२.पा.३.सू.९) त्यत्र ब्रह्मजन्मनिषेधात् कथं तदभिन्नजीवजन्मशङ्काऽत आह –
परमात्मनस्तावदिति ।
परमात्मनो जीवानामन्यत्वमित्यन्वयः ।
एवं हीति ।
क्वचिच्छ्रुतस्यान्यत्रानुपसंहारे सतीत्यर्थः ।
विकारभावापत्त्येति ।
जीवलक्षणविकारभावमापद्य तद्रूपेण शरीरे प्रवेश इत्यर्थः ।
मनोमय इत्यादीनामिति ।
मनोमयादिशब्देषु श्रुतानां मन आदीनामित्यर्थः । उपाधिप्रविलयेन हेतुना उपहितस्यैव विशिष्टस्यैव प्रविलयो न शुद्धस्येति प्रश्नोत्तराभ्याम् अत्रैव मा भगवानमूमुहदित्यविनाशी वा अरे अयमात्मा इत्याभ्यामुपपादनादित्यर्थः ।
अनेकधेति ।
अविनाशी अनुच्छित्तिधर्मेति निरन्वयसान्वयनाशवारणादित्यर्थः । श्रुत्योपपादनादित्यधस्तनेनान्वयः । अविभागस्य चेति च्छेदः ।
अधस्तादिति ।
वाक्यान्वया (ब्र.अ.१.पा.४.सू.१९) दित्यधिकरणे इत्यर्थः॥१७॥
इत्येकादशं आत्माधिकरणम्॥
ज्ञोऽत एव॥१८॥ आत्मैवास्य ज्योतिरित्यादिश्रुतीनां पश्यंश्चक्षुः शृण्वन् श्रोत्रमित्यादिश्रुतिभिर्जीवस्यागन्तुकज्ञानत्ववादिनीभिर्विरोधः परिह्रियते । प्रागुक्तजीवानुत्पत्तिहेतुम् उपादाय स्वप्रकाशत्वसाधनात् संगतिः सूत्रभाष्ययोरेव स्पष्टा । अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति तत्र स्वप्रकाशता । न चैवं गतार्थत्वम् ; अनुत्पन्नस्यापि जीवस्यानित्यज्ञानत्वश्रुतिवशाद् ब्रह्मान्यत्वशङ्कोपपत्तेर्ब्रह्मैक्ययोग्यत्वाय जीवस्येह स्वप्रकाशत्वं समर्थ्यते । उत्तरेण स्वाभाविकाणुत्वनिरासेन वस्तुतो महत्परिमाणं चैतन्यादीषद्बहिष्ठं साधयिष्यते । ततोऽधिकरणत्रयेण ततोऽपि बहिष्ठं कर्तृत्वं बुद्धिकर्तृत्वव्यावर्तनेनाऽऽत्मनाध्यस्तमुपपादयिष्यते । एवं ज्ञानयोग्यत्वस्य जीवस्य ब्रह्मणैक्यम् अश (ब्र.अ.२.पा.३.सू.४३) इत्यत्र वक्ष्यते । इत्यापादसमाप्ति संगतयः । अनित्यज्ञानत्वे युक्तिमप्याह –
कर्मणा हीत्यादिना ।
यदि जीवानां स्वभाविकी ज्ञानशक्तिर्न स्यात् , तर्हि इन्द्रियादिसन्निकर्षेऽपि न जानीरन्नाकाशवन्न चैवमित्याह –
न तु व्योम्न इवेति ।
ननु जीवस्वरूपेऽस्ति विशेषः , शक्तावपि तुल्यमिति चेद् , न ; कार्यनियमाय शक्तेः पितृत्वादिवदसादारण्यकल्पनादित्यर्थः । व्यतिरेकव्याप्तिपूर्वकमात्मस्वप्रकाशत्वेऽनुमानमाह –
यदागन्तुकज्ञानमित्यादिना ।
व्याख्याता एते ग्रन्था बौद्धाधिकरणे ।
यदुक्तमसति कर्मणि न चैतन्यमिति तत्राह –
तस्माद् वृत्तय इति ।
अत एव पश्यंश्चक्षुरित्यादिषु श्रुतयो दत्तविषयाः॥१८॥
इति द्वादशं ज्ञाधिकरणम्॥
उत्कान्निगत्यागतीनाम् ॥२९॥ अणुरिति श्रुतेरिति चोत्तरसूत्रादाकृष्याणुर्जीव उत्क्रान्त्यादीनां श्रुतेरिति योजना॥१९॥
तच्चाचलतोऽपीति ।
देहस्वामित्वं हि देहाभिमान इत्युक्तमध्यासे । तदेव च जीवनं तन्निवृत्तिश्च मरणमित्यचलतोऽपि तत्संभव इत्यर्थः । कर्तृस्थो भवतीति भावः । फलं संयोगविभागाख्यं ययोस्ते गत्यागती कर्तृस्थभावे तयोरित्यर्थः ।
तयोर्व्यापिन्यसंभवादित्येतान्निगमयति –
गत्यागती चेति ।
अपि सापादानेति ।
अपिश्चार्थे सापादाना च सतीति हेत्वन्तरसमुच्चयः । अनेन सौत्रश्चशब्दो व्याख्यातः ।
न केवलमिति ।
चक्षुष्टो वा मूर्ध्नो वा निष्कामतीति शरीरैकदेशानामुत्क्रान्तावुपादानत्वश्रुतेरेव केवलमुत्क्रान्तिरणुत्वसाधनमित्येतदेव न , किंतु शरीरप्रदेशानां हृदयादीनां गन्तव्यत्वश्रुतेरप्युत्क्रान्तिरणुत्वसाधनमित्यर्थः । स आत्मा एतास्तेजस उपलक्षितभूतमात्रा भूतकार्याणीन्द्रियाण्याददानो हृदयं पुण्डरीकमन्ववक्रामति अवक्रामन् लिङ्गशरीरमनु तदुपाधिरवक्रामति प्राप्नोति उत्क्रान्तौ । सुषुप्तः पुनः शुक्रं शोचिष्मन्तमिन्द्रियसमुदायमादाय जागरितस्थानमेति आगच्छतीति श्रुतेरर्थः॥१९॥२०॥ इतराधिकारादिति सूत्रमयुक्तम् ; जीवपरयोरभेदादित्याशङ्क्याह – यत उत्क्रान्त्यादीति॥२१॥
उद्धृत्येति ।
अवयविनोऽवयवमुद्धृत्य विभज्यमानमुन्मानमित्यर्थः ।
वालाग्रदृष्टान्तेऽपि व्याचष्टे –
आराग्रादिति ।
अत्र मोत्रेत्यध्याहारः । आराग्रस्य तोत्राग्रप्रोतलोहाग्रस्य मात्रेव मात्रा परिमाणं यस्य सोऽवरो जीवो दृष्ट इति श्रुतेरर्थः॥२२॥२३॥
एकदेशस्थस्य व्यापि कार्यं न संभवतीति न व्याप्तिश्चन्दनादौ व्यभिचारादित्युक्ते दृष्टान्तः प्रत्यक्ष इत्युक्त्या न परिहार इत्याशङ्क्याह –
यस्य त्विति ।
शरीरैकदेशमात्रवृत्तित्वेनाप्रमितत्वे सति शरीरव्यापिकार्यकारित्वात्त्वग्वदात्मनः सकलशरीरव्यापित्वमनुमीयत इत्यर्थः ।
प्रतिदृष्टान्तसंभवेनेति ।
उक्तमार्गेण प्रतिदृष्टान्तसंभवेनेत्यर्थः ।
अनैकान्तिकत्वादिति ।
चन्दनदृष्टान्तस्यानिर्णायकत्वादित्यर्थः ।
शरीरैकदेशमात्रवृत्तित्वेनाप्रमितत्वं हेतुविशेषणसिद्धम् ; हृदि ह्येष आत्मेत्यादिश्रुतिभिरेकदेशस्थत्वस्य प्रमितत्वादिति परिहरतीत्याह –
शङ्कामिमामिति ।
ननूत्क्रान्त्यादिश्रुतिभिरेवात्मनोऽणुत्वैकदेशस्थत्वयोः सिद्धौ किमितीह श्रुत्यन्तरमुदाह्रियते ? अत आह – यद्यपीति॥२४॥२५॥ सर्वथा यदक्षीयमाणं , तर्हि गुरुत्वादिहानानुपपत्तिरित्याशङ्क्य व्याचष्टे – क्षयस्येति॥२६॥२७॥२८॥
ननु यदि त्वक्वण्टकसंयोगस्य यावत्त्वग्व्यपित्वात्तज्जं दुःखं सर्वाङ्गीणं स्यात् , तर्हि तव मतेऽपि जीवस्य सकलशरीरव्यापित्वात्त्वाजीवकण्टकयोगस्यापि यावज्जीवव्यापित्वात्कण्टकतोजनितवेदनायाः सकलशरीरव्यापितोपलम्भप्रसङ्गस्तत्राह –
महदल्पयोरिति ।
कण्टकावच्छेदकल्पिते जीवैकदेशे जीवकण्टकसंयोगो वर्तते न सर्वत्रेत्यर्थः । अवरूध्यते अवरुणद्धि ।
तर्हि ममापि त्वक्वण्टसंयोगस्त्वक्प्रदेशे वर्तेतेति साम्यमिति च न शङ्क्यम् ; तथा सति त्वग्जीवसंयोगस्यापि जीवानुरोधित्वापत्तौ त्वग् द्वारा सकलशरीरव्यापिवेदनोपलम्भाऽलाभेन वृद्धिमिष्टवतो मूलमपि नष्टमिति कष्टतरप्रसरादित्याह –
न चाणोरिति ।
चस्त्वर्थः । न त्वित्यर्थः । अनन्तरदोषान्निस्तारेऽपि प्रस्तुतं न निर्वहेदित्यर्थः ।
ननु यदि महदल्पयोः संयोगोऽल्पानुरोधी , तर्हि जीवमनःसंयोगोऽपि मनोऽनुरुन्धीतेति न तद्वारा सर्वाङ्गीणशैत्योपलम्भस्तत्राह –
यद्यपीति ।
ननु त्वङ्मनःसंबन्धोपि त्वदेकदेशवृत्तिः , सत्यं मनोऽधिष्ठितत्वम् त्वचोऽपेक्षितं दंडवत् , व्यापिवेदनोपलब्धो तु त्वगात्मसंयोगो हेतुरित्याह –
एकदेशेऽप्यधिष्ठितेति ।
न चाणोर्जीवस्येत्येतद्विवृणोति –
अणुस्त्विति ।
तदिति ।
दुःखादीत्यर्थः ।
तस्येति ।
जीवस्येत्यर्थः ।
महदल्पयोरित्यादिग्रन्थेनोक्तमर्थं निगमयति –
कण्टकतोदनस्य त्विति ।
यदुक्तं गन्धवदवयवानां परमसूक्ष्मत्वत्तद्गतरूपादिवद् गन्धोपि नोपलभ्येतोपलभ्यमानो वा सूक्ष्म उपलभ्येत , स्थूलस्तूपलभ्यमानो द्रव्यं मुक्त्वैव गच्छति गन्ध इति न द्रव्यदेशत्वनियम इति , तत्राह –
अत एव हीति ।
यत एव द्रव्यदेशत्वनियमो यत एव चैकार्थसमवेतगुणानां मध्ये कस्यचिदुद्भवः कस्यचिच्च नेति संभवति अत एवेत्यर्थः । विषक्ताः । विप्रकीर्णाः , अवयवा यस्य तदाप्यद्रव्यं तथा । अतिसान्द्रेऽतिघने । न चात्रापि विप्रतिपत्तव्यम् ; कुङ्कुममृगमदादिवच्छीतस्पर्शोपलम्भसमये जलावयविनो देशान्तरस्थस्यानुपलम्भात् ।
एतदपि विप्रतिपन्नमिति न वाच्यम् ; सर्वत्र सूक्ष्महिमकणप्रसरस्य कालविशेषादुपपत्तेरित्यभिप्रेत्योक्तं –
हेमन्ते इति ।
दार्ष्टान्तिकमाह –
तथेति ।
कालपरिवासः कालात्ययः ; पर्युषितमिति यातयामे प्रयोगात् ।
बुद्धेरप्रकृतत्वात् सूत्रगततच्छब्देन परामर्शायोगमाशङ्क्याह –
आत्मनेति ।
ननु तद्गुणसारत्वादिति हेतुरसिद्धः ; स्वत एवाणुरात्मेति वदन्तं पूर्वपक्षिणं प्रत्यात्मनि बुद्धिगुणाध्यारोपासिद्धेरहमिति चात्मनो विवेकग्रहणात्तस्मिन्नारोपायोगाच्चेति , अत आह –
न हीति ।
अहमिति प्रतिभासेऽप्यनवच्छिन्नानन्दस्वभावस्यात्मतत्त्वस्याऽननुभवादारोपसंभव इत्यर्थः ।
ननु किमवच्छिन्नस्वभावत्वेन स्वत एव जीव इच्छादिमानस्तु , तत्राह –
न च ब्रह्मस्वभावस्येति ।
तत्त्वमसीत्युपदेशात् ब्रह्मैव जीव इत्यर्थः । बुद्धिगुणानां तेषां तस्या बुद्धेरात्मना सहाऽभेदाध्यासेन तद्धर्मवत्त्वाध्यासः ,तद्धर्मवानात्मेत्येवं प्रतिभास इत्यर्थः ।
एवं हेतुं समर्थ्य हेतुमन्तं परिमाणारोपमाह –
तथा चेति ।
भाष्ये बुद्धिवियोगे सत्यात्मनोऽसत्त्वमुक्तं , तत्प्रायणविषयमित्याह –
प्रायण इति ।
बुद्धिवियोगे चेदात्मनो मरणं , तर्ह्यसत्त्वम् ; अथ वियोगेनावस्थानं , तर्ह्यसंसारित्वं ; तथा च को दोषस्तत्राह – ततश्चेति॥२९॥३०॥३१॥
अनुबुभूषाशुश्रूषे , साश्रये , गुणत्वाद् , रूपवद् , यस्तयोराश्रयस्तन्मन इत्युक्तेऽर्थान्तरतामाशङ्क्याह –
न चैते इति ।
स्तां तर्हि घटादेरनुबुभूषाशुश्रूषे , नेत्याह –
न च ते इति ।
बाह्ये इति सप्तमी॥३२॥
इति त्रयोदशमुत्क्रान्त्यधिकरणम्॥
कर्ता शास्त्रार्थवत्त्वात्॥३३॥ अत्राऽसङ्गो ह्ययं पुरुष इत्यादिश्रुतीनां विध्यादिश्रुतीनां चात्मकर्तृत्वाऽकर्तृत्ववादिनीनां बन्धमोक्षावस्थाविषयत्वेन विरोधः परिह्रियते । क्रियाश्रयत्वे नित्यत्वप्रसङ्गादकर्ताऽऽत्मेति पूर्वपक्षमाह –
ये सांख्याः पश्यन्तीति ।
सिद्धान्तमाह –
शास्त्रेति ।
अधिकरणं त्वध्यासभाष्येऽनुक्रान्तं कर्तृभोक्त्रोर्भेदे शास्त्रानर्थक्यात् ।
भोक्तृरात्मन एव कर्तृत्वमित्यभिधाय क्रियाश्रयस्यानित्यत्वं परिहरति –
यथा चेति ।
चित्स्वभावत्वं चेद् भोक्तृत्वं , मुक्तावपि स्यात् , क्रियावेशात्मकं चेत् , कर्तृत्वमपि तद्वदविरुद्धमित्यर्थः॥३३॥३४॥३५॥
अभ्युच्चयमात्रमिति ।
विज्ञानशब्देन कोशरूपबुद्धेरभिधानादात्मकर्तृत्वासाधकत्वादित्यर्थः॥३६॥ भाष्ये स्वरूपभूतोपलब्धावनपेक्षत्वात् स्वातन्त्र्यम् , आत्मनः विषयविकल्पने त्वन्यापेक्षेत्युक्तमिति प्रतिभाति , तथा च प्रकृतासंगतिः ।
कर्तृत्वे हि कार्येऽन्यापेक्षायामपि स्यातन्त्र्यमुपपादनीयमतो व्याचष्टे –
नित्यचैतन्येति ।
उपलब्धौ विषयावच्छिन्नचैतन्येऽन्योपलब्ध्यनपेक्षत्वमात्मनः चैतन्यात्मकत्वादुपलब्धिहेतूनाम् इन्द्रियादीनामपि विषयप्रकल्पनेऽवच्छिन्नोपलब्ध्युत्पत्तावुपकरणमात्रत्वं न स्वातन्त्र्यव्याघात इति भाष्यं योज्यम्॥३७॥
ननु कर्त्र्या बुद्धेर्न करणशक्तिः कल्प्यते , सा तु कर्त्र्येव किंत्वन्यदस्ति तस्याः साधारणं कारणमतः कथं शक्तिविपर्ययस्तत्राह –
अविपर्ययाय त्विति ।
तर्हि सैवास्माकमात्मा स्यादिति नाम्नि विप्रतिपत्तिर्न त्वर्थे इत्यर्थः ॥३८॥ पातञ्जले धारणादीनि लक्षितानि । द्देशबन्धश्चित्तस्य धारणा (पतञ्जलियोग पा.२.सू.१) । नाभिचक्रहृदयपुण्डरीकादिदेशेष्वन्यस्मिन्वा विषये चित्तस्य वृत्तिमात्रेण बन्धो धारणेत्यर्थः । तत्र प्रत्ययैकतानता ध्यानम् । (पातञ्जलयोगसू.पा.२.सू.३) तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्य एकरूपस्रोतःकरणं ध्यानमिति। तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव भवतीति समाधिः(योगसू.पा.२ सू.३) । ध्यानमेव ध्येयाकारनिर्भासं ध्येयस्वभावावेशात् प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति तदा समाधिरित्युच्यते । त्रयमेकत्र संयमः(पातञ्जलयोगसू.पा.२.सू.४) एकविषयाणि त्रीणि साधनानि संयम उच्यते इति।
तत्र कथं भाष्यकारेण श्रवणादीनां समाधित्वमुच्यतेऽत आह –
संयममुपलक्षयतीति ।
वाक्यमुक्तिभ्यां ब्रह्मणि चित्तनिवेशात्मकत्वाच्छ्रवणमननयोर्धारणात्वं दर्शनस्य साक्षात्कारस्य वृत्तिरूपस्य ब्रह्मण्यावेशात्स्वरूपशून्यमिव भवतीति समाधित्वम्॥३९॥
इति चतुर्दशं कर्त्रधिकरणम्॥
यथा च तक्षोभयथा॥४०॥ ननु यद्युपाधिमन्तरेण कर्ताऽऽत्मा , तर्हि मुक्तावपि कर्म कुर्यात् , इतरथा कथं कर्तृत्वमस्य स्वभावः स्यात् ? तथा च न मुक्तिः स्यादित्याशङ्क्याह –
न च मुक्त्यभावेति ।
जीवस्य ब्रह्मात्मत्वं हि मोक्षो ब्रह्म च ज्ञानं , सत्यं ज्ञानमिति श्रुतेः । ततश्च ज्ञानात्मत्वमसत्यपि विषये मोक्षे स्यात् , कर्तृत्वं तु ब्रह्मस्वभाव इति न श्रुतम् । अतः क्रियावेशादेव लोकवद् द्रष्टव्यम् ।
क्रियाभ्युपगमे च मुक्तिव्याघात इति प्रतिबन्दी परहरति –
नित्यशुद्धेत्यादिना ।
नित्योदासीनत्वे हेतुः –
कूटस्थेति ।
तत्र प्रमाणम् –
असकृदिति ।
संभवति क्रियावेशे इत्यनुषङ्गः ।
ननु क्रियावेशाभावेऽपि तद्विषयशक्तिमत्त्वं स्यात् , तदेव च कर्तृत्वमित्याशङ्क्याह –
तस्य चेति ।
तत्सिद्ध्यर्थमिति ।
क्रियायोगविषयशक्तिसिद्ध्यर्थम् । तद्विषयस्तस्याः शक्तेर्विषयः ।
उपाधिमन्तरेण क्रियायोगश्चेत्तर्हि स स्वरूपं स्यात् स्वाभाविको वा धर्मः , अग्नेरिवौष्ण्यम् ; तन्नाशे आत्मनाशः स्यादित्याह –
तथा सतीति ।
स क्रियावेशः स्वभावो यस्य स आत्मा तथा स्वभाविनि सति स्वभावोऽपि सन्नेव ; भेदाभावादित्यर्थः । भावनाशप्रसङ्गः स्वभाविन आत्मनो नाशप्रसङ्गः ।
ननु मुक्तावपि क्रियायोगोऽस्तु , कथमात्मनाशापत्तिरत आह –
न च मुक्तस्येति ।
मुक्तस्य नास्ति क्रियायोग इति यस्मादतो भावनाशप्रसङ्गः इति योजना ।
मुक्तस्य क्रियायोगाभावे हेतुः –
क्रियाया इति ।
फलितमाह –
न विगलितेति ।
परमार्थशक्तिवादिनां मते दूषणमाह –
शक्तशक्याश्रयेति ।
शक्तमाश्रयत्वेनाश्रयते शक्यं विषयत्वेनेत्यर्थः । शक्तग्रहणं दृष्टान्तार्थम् ।
उक्तमभिप्रायमिति ।
ज्ञानं ब्रह्मस्वभावो न कर्तृत्वमितीममित्यर्थः ।
तक्षणि विवक्षितविवेचनेन साम्यमुक्त्वा सर्वथैव समं दृष्टान्तमाह –
यथाऽऽत्मा चेति ।
यः प्रेरयति स पाण्यादिभिरेव प्रेरयतीति। नियोगेन नियमेन पर्यनुयोगो नियोगपर्यनुयोगः तस्यानुपपत्तिरित्यर्थः । अपेक्षितोपायो भावना पुरुषप्रवृत्तिस्तत्परमित्यर्थः ।
नन्वतत्परादपि देवताविग्रहादिवत् कर्ता प्रतीयतामत आह –
तस्मादिति ।
यद्यन्याधीनस्यापि स्वातन्त्र्यवाचिनी कर्तृविभक्तिस्तर्ह्यतिप्रसङ्ग इत्याह –
ननु यदीति ।
भाष्ये कर्तृत्वमात्रस्यैवाहङ्कारोपाधिनाऽऽत्मन्यध्यस्तत्वनिषेधः प्रतिभाति , तथा चाध्यासभाष्येण विरोध इत्याशङ्क्य चैतन्यकर्तृत्वस्य तथाविधत्वेन निषेध इत्याह –
तदेवमिति ।
शरीरादि यथा स्वकर्मकक्रियायाः कर्तृ न भवत्येवं बुद्धिरपि स्वकर्मचैतन्ये न कर्त्रीत्यर्थः । बुद्धेः कर्त्र्या उपलब्धिः क्रिया यदि भवेदित्यर्थः ।
उत्तरमपि भाष्यं बुद्धेश्चैतन्यं प्रति कर्तृत्वे सत्यात्मत्वापत्तौ तन्निषेधार्थमित्याह –
यदा चेति ।
ननूपलब्धेर्नित्यत्वात्तस्यां यदि न कर्त्री बुद्धिस्तर्हि न करणमपि स्यात् , तथा च बुद्धेरुपलब्धिकरणत्वप्रसिद्धिबाध इति शङ्कते –
तत्किमिदानीमिति ।
चैतन्यव्यञ्जकवृत्तौ बुद्धेः करणत्वं तदुपहितस्य चात्मनः कर्तृत्वम् , तथा च न प्रसिद्धिबाध इति परिहरति –
किंतु चैतन्यमेवेति॥४०॥
इति पञ्चदशं तक्षाधिकरणम्॥
परात्तु तच्छ्रुतेः॥४१॥ एष ह्येवेत्यादिश्रुतीनां विधिश्रुत्यादिभिर्विरोधसंदेहे संगतिगर्भं पूर्वपक्षमाह –
यदेतदित्यादिना ।
ईश्वरस्य प्रवर्तकत्वयोग्यतामङ्गीकृत्य प्रवर्तकान्तरस्य सिद्धत्वाद्वैयर्थ्यमुक्तं , तत्र प्रवर्तकत्वमेवेश्वरस्यायुक्तम् , विषमं सृजतो रागादिमत्त्वप्रसङ्गात् ।
ननु कर्मापेक्षत्वाददोष इति , तत्राह –
न चेश्वर इति ।
ननु नेश्वरो धर्मादितन्त्रः प्रवर्तयति , किंतु करुणयेति तत्राह –
स हि स्वतन्त्र इति ।
अत्यन्तपराधीनं प्रति न विधिरित्यत्र दृष्टान्तमाह –
न हि बलवदिति ।
श्वभ्रंगर्तम् ।
विधौ प्रतिषेधे चेश्वर एव नियोज्य इति भ्रमं व्यावर्तयति –
स्थान इति ।
पूर्वोक्तदोषप्रसङ्गश्चेति भाष्यं पूर्वपक्षावसरोक्तदोषपरत्वेन व्याचष्टे –
कृतनाशेति॥४१॥४२॥
इति षोडशं परायत्ताधिकरणम्॥
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥४३॥ जीवब्रह्मभेदाभेदश्रुतिविरोधसंदेहे पूर्वत्र जीवनियन्तेश्वर इत्युक्तम् , इदानीं स ईश्वर आक्षिप्य समर्थ्यत इति संगतिमाहेति दर्शयति –
अवान्तरेति ।
भाष्ये स्वामिभृत्यवत् संबन्ध इति न पूर्वपक्ष उक्तः , तथा सति तद्वन्नियन्तृनियन्तव्यत्वसंभवात्पूर्वोक्ताक्षेपरूपसंगत्यसिद्धेरतो विरोधैकशृङ्गप्रदर्शनम् । अत एव टीकाकारो न ब्रह्मैकमद्वयमिति ब्रह्माभावेन पूर्वपक्षमुपसंहरिष्यति।
जीवेश्वरयोरुपकार्योपकारकभावाभ्युपगमादिति भाष्ये उत्पाद्योत्पादकत्वमुक्तमिति भ्रमं व्युदस्यति –
उपकार्येति ।
निश्चयहेत्वाभासेति ।
अभेदश्रुतिषु सतीषु भेदो निश्चेतुं न शक्यते इत्याभासत्वमत एकं शृङ्गं दर्शितमित्यर्थः ।
विरोधोद्धाटनाय शृङ्गान्तरं दर्शयति –
न च ब्रह्मेति ।
भेदे इति च्छेदः ।
उभयीनां श्रुतीनामविरोधमाशङ्क्याह –
न चैताभिरिति ।
न च युज्यत इत्युपरितनेनान्वयः ।
ननु जीवनामीश्वरांशत्वसिद्धावपि नेश्वरस्य जीवनियन्तृत्वं , चेतनत्वेन जीवैरविशेषादित्याशङ्क्याह –
निरतिशयेति ।
अधिष्ठानेऽतिशयानाधायिन्यो जीवाश्रया अविद्या निरतिशयाः ताभिर्विषयीकृतत्वाद् ब्रह्मणस्ता उपाधितयोक्ताः , निरतिशया उपाधिसंपत् सा यस्य स विभूतियोगस्तथोक्तः । विभूतेरनवच्छिन्नरूपस्य योगो घटकं तेनेत्यर्थः ।
अविरोधवाद्याह –
तस्मादिति ।
यदुक्तमीशित्रीशिक्तव्यभावश्चत्यादि तत्राह –
तत्र भेद इति ।
प्रमेयापूर्वत्वलक्षणतात्पर्यलिङ्गादद्वैतश्रुतिर्बलीयसीत्युक्त्वोपक्रमाद्यैकरूप्यादपीत्याह –
येन चेति ।
यदुक्तं ब्रह्मभावं गतस्य समस्तजीवगतवेदनाप्रसङ्ग इति।
तत्राह –
यथा च दर्पणापनय इति ।
दर्पणस्यापगमे तत्रत्यं मुखप्रतिबिम्बं बिम्बभावेनावतिष्ठते , न तु प्रतिबिम्बान्तररूपेण ; यद्यपि बिम्बात्मतामापन्नं तत्र तद्रूपेण कृपाणे प्रतिबिम्बितं ; तथापि बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्वादिव्यवस्थानात्तद्धर्मसांकर्यमित्यर्थः । दार्ष्टान्तिकमाह – एवमिति॥४३॥४४॥४५॥४६॥ ॥ जीवे ब्रह्मभाव एव न जीवान्तरापत्तिरित्यर्थः ।
भाष्योदाहृतस्मृतौ सप्तदशकपदं व्याचष्टे –
सप्तदशेति ।
निश्चयः संशयश्चेति वृत्तिभेदमात्रेण॥४७॥
ननु प्रवर्तयितुः स्वामिनोऽभिमतोपाय इति मत्वा प्रवृत्ते भृत्ये पुनरहिताशङ्क्या सहसा निवृत्तौ स्वामिनोऽनुज्ञा प्रवृत्तप्रवर्तनी , सा च प्रवर्तयितुः स्वामिनोऽभिप्रायानुरोधिनी न वेदे संभवति , तत्कथमनुज्ञेति सूत्रनिर्देशस्तत्राह –
विधिरिति ।
क्रत्वर्थायामिति ।
क्रत्वर्थग्रहणं पुरुषार्थे फलकामनया सामान्यतः प्रवृत्तस्त प्रवर्तको विधिरनुज्ञापि स्यादिति शङ्कां वारयितुम् ।
अपि च पुरुषार्थेऽपि सामान्यतः प्रवर्ततां गोदोहनादिसाधनविशेषनियमे पश्वाद्यर्थीविधितः प्रागप्रवृत्त इति नानुज्ञा संभवतीत्याह –
पुरुषार्थेऽपीति ।
ननु विपरीतप्रत्ययस्य कथं देहाद्यात्मसंबन्धत्वं तस्यात्ममात्रनिष्ठत्वादत आह –
अस्यामिति ।
भ्रान्तविषयमिथ्यातादात्म्यं संबन्ध इति कथयितुं भाष्ये विपरीतप्रत्ययोत्पत्तिरुक्ता इत्यर्थः । यदि देहात्मनोर्मिथ्या तादात्म्यं संबन्धस्तर्हि देहव्यतिरेकज्ञस्य स नास्तीति देहसंबन्धनिमित्तविधिनिषेधौ ब्रह्मविद इव न स्ताम् ।
न चानिष्टप्रसङ्गः ; देहव्यतिरेकविद एव नियोज्यत्वादित्याह –
व्यतिरेकदर्शिन एवेति ।
अस्थिस्नायुमज्जात्वङ्मांसशोणितानि षट् कोशाः । तत्कृतं षाट्कौशिकं स्थूलशरीरम् । तन्मात्रविवेकिनोऽपि सूक्ष्मदेहविवेकाभावान्न देहसंबन्धाभाव इति विधिगोचरता । निष्प्रपञ्चब्रह्मात्मतासाक्षात्कारिणस्तु न विधिगोचरता । न च यथेष्टचेष्टा ; तथाविधाभिमानाभावादित्यर्थः । अभिमानाभासस्तु न स्वैरचेष्टाहेतुः , तत्त्वबोधाग्निदग्धत्वादित्यर्थः । उक्तं हि वार्तिककारैः - उत्पन्नात्मप्रबोधानामात्माविद्या तदुद्भवम् । सम्यग्ज्ञानाग्निना नित्यं दह्यमानं प्रजायते॥४८॥४९॥ भाष्ये साक्षात्प्रत्येकमात्मनः सुखादिसंबन्धमङ्गीकृत्य सर्वेषां तदीयसुखादिसंबन्धश्च आपादितः ।
तत्र निर्विशेषस्य न संबन्धोऽपीत्याह –
यादृश इति ।
आत्ममनः संयोगस्य सर्वात्मसाधारण्यमङ्गीकृत्य स्वस्वामिसंबन्ध आत्मविशेषेणासाधारण इत्युक्तम् ।
इदानीमात्ममनःसंयोगोऽप्यासाधारण इत्याह –
न चेति ।
आत्मना सह मनसो यः संयोगस्तस्यैकत्वेऽपि मनसः प्रतिसंयोगिनामात्मनां भेदेन भेदादाश्रयभेदेन हि संयोगो भिद्यते , घटेन सह पटकुड्यसंयोगवदित्यर्थः ।
यद्यदृष्टाद्यनियमेन न वैशेषिकमतं दूष्यं , कथं तर्हि दूषयत आह –
तस्मादिति ।
अदृष्टहेतुकमनःसंयोगो यदैकस्यात्मनस्तदैव सर्वेषामात्मनां तेन मनसा संयोगः स्यात् ; तेषां व्यापकत्वात् , ततश्च प्रत्यात्मं संयोगभेदेऽपि हेत्वविशेषाददृष्टनिष्पत्तिस्तुल्या स्यात् , तत्कृताश्च स्वस्वामिभावाः सर्वात्मना स्युरिति कुतस्तत्कृताभिसंध्यादिव्यवस्थासिद्धिरिति केचित्कारेण सूचितम्॥५०॥५१॥५२॥५३॥
इति सप्तदशमंशाधिकरणम्॥
इति श्रीपरमहंसपरिव्राजकाचार्यानुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ द्वितीयाध्यासस्य तृतीयः पादः॥
तथा प्राणाः॥१॥ वियदधिकरणेन (ब्र.अ.२ पा.२.सू.१) गतार्थत्वमाशङ्क्य परिहरति –
यद्यपीत्यादिना ।
सर्ववेदनप्रतिज्ञारूपाश्रुतिस्तस्य सर्ववेदनस्योपपादनश्रुतिश्च यथोक्ता ताभ्यां विरोधादित्यर्थः । कस्मिन्सति सर्ववेदनमित्यपेक्षायां ब्रह्मवेदने इति पश्चात्संबन्धनीयम् ।
अन्यथानयनप्रकारमिति ।
अवान्तरप्रलयाभिप्रायमित्यर्थः । ये पुनराप (ब्र.अ.२ पा.३.सू.११) इत्यधिकरणेऽप्यपामाप एवेदमग्र आसुरिति प्रलयकाले सद्भावश्रवणादनुत्पत्तिरिति पूर्वपक्षयित्वा तस्यावान्तरप्रलयपरत्वेन सिद्धान्तयांबभूवुः , तेषां मतेन पुनरुक्तिः । अस्माभिस्त्वतिदेशत्वेन तद्व्याख्यातम् ।
ननु भाष्ये कथमनाम्नानात् प्राणानामनुत्पत्तिनिश्चयः ? न खलु प्रमाणाभावमात्रं प्रमेयाभावव्याप्तम् , पुराणनगरनिहितनिधिष्वदर्शनादत आह –
शब्दैकेति ।
महाभूतशब्दोऽस्मदाद्यनुपलभ्योत्पत्तिकपदार्थपरः । तथा च प्राणानामपि संग्राहको महाभूतोत्पत्तेः प्रतिपादकः शब्दो यत्र महाभूते प्राणलक्षणे निवर्तते , तत्र तस्या उत्पत्तेः प्रमाणाभावेन तदभावः , तस्या उत्पत्तेरभावः प्रतीयते इत्यर्थः । चैत्यवन्दनं तत्कर्म तस्य चैत्यस्य करणं निष्पादनं तयोर्धर्मताया यथाशब्दाभावान्निवृत्तिरित्यर्थः ।
अश्वेति ।
शेषलक्षणे स्थितन् - दोषात्त्विष्टिर्लौकिके स्याच्छास्त्राद्धि वैदिके न दोषः स्यात्(जै.अ.३.पा.४ सू.३४) वरुणो वा एनं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान् प्रतिगृह्णीयात् तावतश्चतुष्कपालान्वारुणान् निर्वपेदित्यत्र दातुरिष्टिरित्युत्तराधिकरणे (जै.अ.३ पा.४.सू.३६ –३७) स्थास्यति ततो दाननिमित्तेष्टिः । सा किं लौकिकेऽश्वदाने वैदिके वेति संदेहो न तु लौकिकेऽश्वप्रतिग्रहे वैदिके वेति ; रागप्राप्तप्रतिग्रहस्याविहितत्वेन वैदिकत्वासंभवात् , तत्र दोषनिर्घातार्थत्वादिष्टेः , दोषस्य च न केसरिणो ददातीति प्रतिषिद्धलौकिकाश्वदान एव संभवात् , पौण्डरीकेऽश्वसहस्रं दक्षिणेत्यादिविशेषविधिविहिते तु वैदिकेऽश्वदाने सामान्यनिषेधाऽनवकाशेन दोषाऽप्राप्तेर्लौकिकेऽश्वदाने इष्टिरिति प्राप्तेऽभिधीयते अर्थवादोऽनुपपतात्तस्माद्यज्ञे प्रतीयते (जै.अ.३ पा.४ सू.३५) । न तावद्यथाश्रुति जलोदररूपवरुणग्रहदोषो लौकिकेऽश्वदाने सति भवतीति प्रत्यक्षादिभिः प्रमीयते ; तत्रानेन दाने दोषः तन्निर्घातार्था चेष्टिरिति वदतो वाक्यभेदात् । न च - वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषमनुवदतीति – युक्तम् ; तथा सति प्रसिद्धित्यागात् । तत्त्यागे च वैदिकेऽपि दानेऽश्वत्यागजन्यदुःखेन वृणोतीति भवति वरुणशब्दः । तस्मात्प्राप्तस्यानुवादकोऽर्थवादोऽयम् । ततो यज्ञसंबन्धिनि दाने इष्टिरिति। ततः कस्तस्याः कर्तेति चिन्ता । तत्र अचोदितं च कर्म भेदात्(जै.अ.३.पा.४.सू.३६) । दातुरचोदितमिष्टिकर्म यः प्रतिगृह्णाति स निर्वपेदिति तस्य प्रतिग्रहीत्रा भेदाद् विशेषणादिति। सिद्धान्तस्तु – सा लिङ्गादार्त्विजे स्यात्(जै.अ.३.पा.४.सू.३८) । ॠत्विजामयमित्यार्त्विजो यजमानः तस्मिन्सेष्टिःस्यात् । प्रजापतिर्वरुणायाश्वमनयदित्युपक्रमे दातृकीर्तनाद् लिङ्गादुपक्रमाधीनत्वाच्चैकस्मिन् वाक्ये उपसंहारस्य । प्रतिगृह्णातीति च प्रतिग्रहकर्तृत्वमुच्यते । दाताऽपि प्रतिग्रहं करोति संप्रदानप्रेरणादिना । अतः प्रतिगृह्णातीति दातर्यप्यविरुद्धमिति। पानव्यापच्च तद्वत् (जै.अ.३.पा.४.सू.३८) । सौमेन्द्रं चरुं निर्वपद् श्यामाकं सोमवामिन इति श्रूयते । तत्राश्वप्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षवल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमने याग इन्द्रियेण वीर्येण व्यर्ध्यते यः सोमं वमतीति दोषाद् वमननिमित्तेन्द्रियशोषस्य दर्शनान्न वरुणग्रहवदप्राप्तिरित्यधिकशङ्का । वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमनेऽपि न दोष इति। सिद्धान्तस्तु लोके धातुसाम्यार्थत्वाद्वमनस्य तज्जन्येन्द्रियशोषस्य धातुसाम्यकरत्वान्न दोषता । वेदे तु ‘‘मा मे वाङ्नाभिमति गा’’ इति सम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्याद्दोष इति।
अग्निसाधनेति ।
अग्निश्चितोग्निः तत्साधनानि शर्करादीनि । अधिकारिपुरुषः स्रष्टा ।
तस्मादिति ।
प्राणा अपि नभोवद् ब्रह्मणो विकारा इत्युपरि संबद्यते । भूयसीनां प्राणोत्पत्तिश्रुतीनां ब्रह्मविज्ञानात्सर्वविज्ञानप्रतिज्ञासिद्ध्यर्थस्य चोत्तरस्य संदर्भस्य प्राणसृष्टिपरस्य प्राणा व्युच्चरन्तीत्यादेरनुग्रहाय तदीयान् प्राणानपेक्ष्य सा श्रुतिरुपपन्नार्थेति योजना । उपवासवाची योषधशब्द इति बौद्धाधिकरणे (ब्र.अ.२.पा.२. अधि.५) उक्तम् । तत्त्वान्तरतयैषामनुत्पत्तिरास्थेयेति । अविद्यादिवदनाद्यध्याससिद्धये साक्षिणाऽव्यवधानात् सुशुप्तेऽप्युपलम्भप्रसङ्गादित्यर्थः ।
तत्सामान्यादिति ।
अन्नादीनां ह्रासे ह्रासाद्वृद्धौ वृद्धेर्हि मन आदीनामन्नादिमयत्वं श्रुत्योच्यते , तदिन्द्रियान्तराणामपि तुल्यमित्यर्थः॥१॥२॥३॥ ब्रह्मकर्तृकायां नामरूपव्याक्रियायां विषये यावुपक्रमोपसंहारौ तत्पर्यालोचनया हेतुना उक्तैव सृष्टिदृष्टिरित्यन्वयः॥४॥
इति प्रथमं प्राणोत्पत्त्यधिकरणम्॥
सप्त गतेर्विशेषितत्वाच्च॥५॥ पूर्वपक्षे सप्तभ्यः प्राणेभ्यस्त्वंपदार्थस्य विवेको ज्ञातव्यः । सिद्धान्ते एकादशभ्य इति प्रयोजनम् । ग्रहत्वेनेत्यस्य व्याख्यानं –
बन्धनेनेति ।
रागोत्पादनेनेन्द्रियाकर्षकत्वाद् विषयाणामतिग्रहत्वम् । प्राण इति प्राणेन्द्रियं लक्षणयोच्यते । अपान इति च गन्धः ।
अपानेन गन्धलक्षणायां हेतुं श्रुतिरेवाह –
अपानेन हीति ।
अपश्वासेनेत्यर्थः ।
अधिष्ठाने नेत्यात्मेति ।
इन्द्रियाणीति शेषः । स्पर्शानां त्वगेकायनमाश्रयः ग्राहकत्वात् ।
ननु शीर्षण्याः प्राणाः सप्तेत्युक्तेऽर्थादशिरस्याः प्राणा अन्ये सन्तीति गम्यतेऽत आह –
ये सप्तेति ।
नेह शीर्षण्यान् प्राणानुद्दिश्य सप्तत्वं विधीयते ; अन्यतोऽवगमाद् अनुवादत्वापत्तेः , किंतु शीर्षण्यान् सप्त श्रोत्रादीनुद्दिश्य प्राणत्वम् । तथा च प्राणान्तरस्य व्यावृत्तिः फलमित्यर्थः ।
नन्वष्टत्वादिसंख्या अपि प्राणेषु श्रूयन्ते , न च ताः सप्तत्वे अन्तर्भवन्ति , अन्तर्भवति तु तासु सप्तत्वमतः कथं सप्तसंख्यानियमः ? तत्राह –
यद्यपीति ।
इह –रूपोपलब्ध्यादिकार्यवशादनुमानानुग्रहीतैकादशत्वश्रुत्तैकादशेन्दियाणीति सिद्धान्त्यते , तदयुक्तम् श्रुतेः परतः प्रामाण्यप्रसङ्गादित्याशङ्क्याह –
यद्यपि श्रुतय इति ।
श्रुतीनां परस्परविरोधावबोधकत्वभ्रमे तद्व्युदासेन तात्पर्यनिर्णयायानुमानानुसरणमित्यर्थः॥५॥
स्रुवेणेति ।
प्रमाणलक्षणे स्थितम् – अर्थाद्वा कल्पनैकदेशत्वात् (जै.अ.१.पा.४.सू.३०)॥ स्रुवेणावद्यति स्वधितिनाऽवद्यति हस्तेनावद्यतीति श्रूयते । स्वधितिरुभयतोधारः क्षुरः , अवदानं चास्ति द्रवाणामाज्यादीनां संहृतानां च मांसादीनाम् । तत्राविशेषश्रवणादनियमे प्राप्ते राद्धान्तः । अशक्यार्थविध्यसंभवाद्विधिरेव यथासामर्थ्यं विधेयं व्यवस्थापयति। शक्तश्च स्रुवो द्रवस्यावदाने स्वधितिर्मांसस्य हस्तश्च पुरोडाशस्य । तस्मादर्थात्सामर्थ्यात्कल्पनाव्यवस्था ; सामर्थ्यस्य योग्यतारूपस्य बोधकैकदेशत्वादिति। मननात् । संशयादिरूपविचारकरणादित्यर्थः ।
भेदे प्रमाणाभावादिति ।
चक्षुष इव शब्दोपलब्धौ वृत्तिमन्मनसोऽध्यवसायादिकार्ये व्यतिरेकानवगमादित्यर्थः ।
अवयुत्यानुवादेनेति ।
न तावत्सप्त वै शीर्षण्याः प्राणा इति श्रुतिरज्ञातार्थबोधनपरा ; ‘‘सप्तभिर्धूपयति सप्त वै शीर्षण्याः प्राणाः , शिर एतद्यज्ञस्य यदुखा शीर्षन्नेव यज्ञस्य प्राणान्दधाती’’ त्युखाधूपनस्तुतिपरत्वात् । सप्तभिर्वसवस्त्वा धूपयन्त्वित्यादिमन्त्रैरित्यर्थः । ततः प्राणान्तरव्यावृत्तिपरत्वयोजना न युक्ता । यद्यपि दशेमे पुरुषे प्राणा आत्मैकादश इत्यनुवाद एव ; तथापि सदनुवाद इति विशेषः । एकं वृणीत इत्यत एव प्राण(ब्र.अ.२.पा.३.सू.२३) इत्यत्र व्याख्यातम्॥६॥ पूर्वयोजनायां हि गतेरित्यस्यावगतेरिति क्लिष्टा योजना । श्रुत्यन्तरगताधिकप्राणावगतेश्च वृत्तिभेदविषयकत्वकल्पनाक्लेशः ।
ये सप्त त एव प्राणाइति योजनायां परिसंख्यापत्तिरिति व्याख्यानान्तरमाह –
इयमपरेति ।
अस्मिन्व्याख्याने प्राणानां सप्तमं नावध्रियते , पूर्वस्मादविशेषापातात् , किंतु सन्त्वन्ये प्राणाः उत्क्रान्तिस्तु सप्तानामेवेति। सप्तैव प्राणा इति भाष्ये च उत्क्रामन्तीत्यध्याहार्यम् । प्रयोजनं तूत्क्रामतामेव प्राणानां सर्वदेहानुयायित्वेन बन्धकत्वादध्यात्माधिदैविकोपासनेषु सप्तानामुपास्तिः पूर्वपक्षे , सिद्धान्ते त्वेकादशानामिति॥५॥६॥
इति द्वितीयं सप्तगत्यधिकरणम्॥
अणवश्च॥७॥ एकादशप्राणानमुत्क्रान्तिरुक्ता , सा न मुख्या ; तेषां व्यापित्वादिति सङ्गतिगर्भं पूर्वपक्षमाह –
अत्रेति ।
वृत्तिः अभिव्यक्तिः । दूनस्य परितप्तस्य । अहंकारस्य व्यापित्वमसिद्धम् ; आध्यात्मिकाहंकारस्याहंप्रत्ययेन परिच्छेदप्रतिभासात् ।
आधिदैविकव्यापकाहंकारसद्भावे च नास्ति प्रमाणम् ; इन्द्रियाणां तत्प्रकृतिकत्वं तु षण्ढसुतसमम् , व्यापित्वं तु तेषां प्रतिज्ञातुमशक्यमसंभावितत्वादित्याह –
यदीति॥७॥
इति तृतीयं प्राणाणुत्वाधिकरणम्॥
श्रेष्ठश्च॥८॥ पादाद्यधिकरणन्यायोऽत्रातिदिश्यते । ज्ञातेषु चक्षुरादिषु तद्व्यापारात् प्राणस्य भेदचिन्ता वक्ष्यमाणा सुकरेति तदनन्तरमनतिदेशः । आनीदित्यस्य महाप्रलयविषयत्वेनाधिकाशङ्कामाह –
नासदासीदितीति॥८॥
इति चतुर्थं प्राणश्रैष्ठ्याधिकरणम्॥
न वायुक्रिये पृथगुपदेशात्॥९॥ संगतिमाह –
संप्रतीति ।
उत्पत्तिचिन्तानन्तरमुत्पद्यमानस्वरूपं निरूप्यत इत्यर्थः । प्रयोजनं तु पूर्वपक्षे वायुमात्रादिन्द्रियमात्राच्च त्वंपदार्थस्य विवेकः कार्यः , सिद्धान्ते प्राणादपीति।
भाष्ये श्रुतिबलेन वायुरेव प्राण इत्येकं पूर्वपक्षमुक्त्वा सांख्यप्रसिद्धकरणव्यापारः प्राण इति पक्षान्तरमुक्तमयुक्तम् ; दृढश्रौतपक्षव्यतिरेकेण स्मार्तपक्षोपन्यासवैयर्थ्यादत आह –
अथवेति ।
छान्दोग्येऽध्यात्मं मनो ब्रह्मेत्युपासीतेति उपक्रम्य मन आख्यब्रह्मणो वाक् प्राणचक्षुःश्रोत्रैः पादैश्चतुष्पात्त्वमुक्तम् । वागादिभिर्हि मनः स्वविषयेषु प्रवर्तते , गौरिव पादैः तत्र प्राणा एवेति ब्रह्मणो वागाद्यपेक्षया चतुर्थः पादः । स च वायुनाऽऽधिदैविकेन भाति अभिव्यक्तो भवति। तपति च स्वव्यापारे उद्यच्छतीत्यर्थः । पदभाष्ये इन्द्रियप्रकरणाद् घ्राणेन्द्रियं प्राण इति व्याख्यातम् । अत्र तु प्राणशब्दश्रुतिवशान्मुख्यः प्राण इति एतद्विरोधादिति। एतयोर्भेदाभेदश्रवणयोर्विरोधादित्यर्थः ।
किं श्रुती हातव्ये ? नेत्याह –
कथंचिदिति ।
त्वयापि हि वायुप्राणयोः स्वरूपाभेदमाश्रित्याभेदश्रुतिः , वृत्तितद्वद्भेदाभिप्राया च भेदश्रुतिरिति व्याख्यातव्यमित्यर्थः ।
तर्हि किं वायुरेव प्राणोऽस्तु ? तदपि नेत्याह –
इति सामान्येति ।
यदा तु श्रुती त्याजितस्वार्थे , तदा करणव्यापारपरतयाऽपि कथंचिच्छक्ययोजने । शक्यते हि करणव्यापारे चलनाश्रयवाची वायुशब्द उपचरितुम् । तथा चाभग्नस्वार्थस्मृतिबलात्करणवृत्तिरेव प्राण इत्यर्थः ।
स्यादेतत् - ‘‘एतस्माज्जायते प्राणो मनः सर्वेद्रियाणि चे’’त्यादौ करणेभ्योऽपि पृथक् प्राणः स्वतन्त्रवदुपदिश्यते , स कथं करणव्यापारमात्रः स्यादतोऽत्रापि समः श्रुतिविरोध इत्यत आह –
न चात्रापीति ।
अस्ति तावद्वृत्तितद्वतोर्भेदः । यस्तु स्वतन्त्रवन्निर्देशः स जीवनाख्यकरणवृत्तेर्देहस्थित्युपयोगित्वेन प्राधान्यमभिप्रेत्येत्यर्थः ।
मा भूदनेकसाध्यो गुण एकस्मात्क्रिया तु किं न स्यादित्यत आह –
न चेति ।
विष्टयो वाहकाः । प्रत्येकवृत्तित्वे च प्रतीन्द्रियं प्राणभेदप्रसङ्गः ।
यदि मन्येत नानेकेन्द्रियवृत्तिः प्राणो यतः प्रत्येकमिलितविकल्पावकाशः , किंतु त्वह्यात्रवृत्तिरिति , तत्राह –
न च त्वगिति ।
न ते तदनुगुण इति ।
तदुपरमेऽपि सुषुप्तौ प्राणदर्शनादित्यर्थः ।
वायुभेद इति ।
वायोः परिणामरूपकार्यविशेष इत्यर्थः॥९॥
संहतत्वादिति ।
सत्त्वादिगुणसंहतिरूपत्वादित्यर्थः । एतच्च सांख्यदृष्ठ्योक्तम् ।
सिद्धान्तमाश्रित्याह –
अचेतनत्वादिति ।
एभिर्हेतुभिः पुरुषार्थत्वं पुरुषं प्रति शेषत्वं , ततश्च तत्पारतन्त्र्यमित्यर्थः ॥
धारणादीति ।
धारणं मेधा॥११॥ मिथ्याज्ञानत्वे हेतुरतद्रूपप्रतिष्ठत्वम् । पातञ्जलसूत्रे शब्दज्ञानानुपातित्वविशेषणेन विकल्पस्य विपर्ययाद्भेद उक्तः ।
तं विशदयति –
यद्यपीति ।
अधिष्ठानतत्त्वे प्रमिते व्यवहारहेतुत्वं विशेष इत्यर्थः ।
वस्तुशून्यत्वं विकल्पस्य दर्शयति –
न ह्यत्रेति ।
ननु मनसो निद्रावृत्तिरित्यसूत्रयत् पतञ्जलिरभावप्रत्ययेत्यादिना , सिद्धान्ते च सुषुप्तौ मनोलय इष्टः , अतः कथं तत्रान्तरस्थपञ्चवृत्तिता आह –
यद्यपीति ।
सूत्रमीक्षत्यधिकरणे (ब्र.अ.१.पा.१.सू.५) व्याख्यातम्॥१२॥
इति पञ्चमं नवायुक्रियाधिकरणम्॥
अणुश्च॥१३॥ अणवश्चेत्यत्र साङ्क्योक्तमाहंकारिकत्वकृतं व्यापित्वमिन्द्रियाणां निरस्तम् । वादिविप्रतिपत्तिनिरासोऽपि श्रुतिविरोधनिराकरणपरे पादे प्रसङ्गात् संगच्छते । प्राणेषु हि प्रस्तुतेषु तत्परिमाणस्यापि वादिसंमतस्य बुद्धिस्थत्वात् । अत्र तु श्रुत्यावगतप्राणव्यापित्वमाधिदैविकविषयं व्यवस्थाप्यते इति न तुल्यन्यायता । अतएव भाष्यकारनिबन्धकाराभ्याम् अणवश्चेत्यत्र न काचन श्रुतिरुदाहृता । अन्ये त्वाहुः - तस्यातिदेशोऽयम् , समोऽनेन सर्वेणेति व्यापित्वश्रुतेश्चाधिका शङ्का आधिदैविकविषयत्वेन च तन्निरासः - इति। तन्न ; सर्वेऽनन्ता इतीन्द्रियाणामपि व्यापित्वश्रवणस्य व्यवस्थायाश्च साम्यात् । अपरे प्रतिपादयन्ति – तत्र चात्र चेन्द्रियाणां प्राणस्य च व्यापित्वपरिच्छिन्नत्वश्रुतय उदाहरणम् । तत्रेन्द्रियव्याप्तिश्रुतीनां ‘‘स यो हैताननन्तानुपास्ते’’ इत्युपास्तिविषयत्वादुपास्तेश्चारोपेणाप्युपपत्तेर्न व्याप्तिसाधकत्वमित्युक्तम् , अत्र तु समोऽनेन सर्वेणेत्यादेः प्राणव्याप्तिश्रवणस्याधिदेविकविषयत्वं वर्ण्यत - इति तन्न ; अत्रापि समत्वात् , साम प्राण इति व्युत्पाद्य य एवमेतत् साम वेदेत्युपास्तिविधानाद् , हेतुभेदस्य चाधिकरणाभेदकत्वादिति। कुटो घटः ।
यत्त्वस्य विभुत्वाम्नानमिति ।
सम एभिस्त्रिभिर्लोकैरित्येतदित्यर्थः । समष्टिः सामान्यम् । व्यष्टिः विशेषस्तद्रूपेण ।
यस्तु विशेषमात्ररूपः प्राणो न तद्रूपेण विभुत्वाम्नानमित्याह –
न त्विति ।
आत्मनि शरीरे भवतीत्याध्यात्मिकम् । प्लुषिर्मशकादपि सूक्ष्मशरीरः पुत्तिकाख्यो जन्तुविशेषः । तदाश्रया आध्यात्मिकप्राणाश्रयाः॥१३॥
इति षष्ठं श्रेष्ठाणुत्वाधिकरणम्॥
ज्योतिराद्यधिष्ठानं तु तदामननात्॥१४॥ चक्षुषा हि रूपाणि पश्यत्यग्निर्वाग्भूत्वेत्यादावविरोधविचारादध्यायसङ्गतिः । यथा स्वकार्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तन्ते इत्ययुक्तम् ; शक्तस्याप्यन्याधिष्ठितत्वाविरोधादित्याशङ्क्याह –
यद्धीति ।
न तु करणानां पराधीनत्वेऽपि बलवत्प्रमाणमित्यर्थः ।
ननु करणानि , चेतनाधिष्ठितानि , अचेतनत्वे सति प्रवर्तमानत्वाद् , वास्यादिवदित्याशङ्क्य जीवाधिष्ठितत्वेन सिद्धसाधनत्वमाह –
वास्यादिनामित्यादिना ।
ननु माऽनुमानाद्बाध्युत्सर्गः , आगमात्तु बाधिष्यते , तत्राह –
न चाग्निरित्यादिना ।
वाग्भूत्वेति ।
वागधिष्ठाता भूत्वेत्यर्थः ।
जीवस्य देवतानां चाधिष्ठातृत्वसाम्यमभ्युपगम्य विरोध उक्तः , अधुना तु तदेव नास्तीत्याह –
अपि चेति ।
सत्यपि जीवे देवतानां करणाधिष्ठातृत्वाभ्युपगमे हि जीवस्य करणाधिष्ठातृत्वं न स्यात् , अप्रयोजकत्वात् , ततश्च ता एव भोक्त्र्यः कर्त्र्यश्च स्युरित्यर्थः ।
आगमस्तावदुत्सर्गस्यापवादकः , न च स औपचारिकः साभ्यसत्वादित्याह –
नानाविधास्त्विति ।
ननु श्रुतिस्मृतिषु करणाधिष्ठातृदेवतानिरूपणमाध्यात्मिककरणानामाधिदैविकाग्न्यादिभिरभेदोपासनार्थम् , उपासनं च समारोपादपि संभवति , तत्राह –
न च तदसत्यमिति ।
अनुपपत्तिर्ह्यत्राभिप्रायभेदात्कार्यासिद्धिस्तां तु परिहरिष्यति – अनेकेषामधिष्ठातॄणाम् एकः परमेश्वरोऽस्ति नियन्तेति ग्रन्थेन । अनुमानमप्युत्सर्गं बाधत इति वदामः ।
ननु तत् जीवेन सिद्धसाधनमित्युक्तमत आह –
न च स्वरूपोपयोगेति ।
अधिष्ठातृत्वं त्वधिष्ठानानन्तरपूर्वक्षणेऽधिष्ठेयस्वरूपतत्साध्यप्रयोजनज्ञानपूर्वकं तत्प्रेरकत्वं , न च तदस्ति जीवे इति कथं सिद्धसाधनमित्यर्थः । न चेश्वरेण सिद्धसाधनत्वम् ; तदभ्युपगमे त्वयैवोत्सर्गबाधस्येष्टत्वात् , स्वरूपप्रयोजनाद्यभिज्ञजीवाधिष्ठितमिति साध्यत्वाच्च ।
यच्चोक्तं करणाधिष्ठातृत्वाद् भोगः स्यादिति , तत्राह –
न चैतावतेति ।
यो यदधिष्ठाता स तत्साध्यफलभोक्तेति न व्याप्तिः ; यन्तरि सारथौ अनेकान्तादित्यर्थः ।
यदि मन्येत यन्तरि भोक्तृत्वे मानाभावाद्युक्तस्तदभाव इति , तर्हि देवतास्वपि स सम इत्याह –
तावन्मात्रस्येति ।
अधिष्ठातृत्वमात्रस्येत्यर्थः ।
स्यादेतत् - देवता एतदिन्द्रियसाध्यफलभोगिन्यः तदधिष्ठातृत्वाज्जीववदिति विशेषतोऽनुमीयते , तत्कुतोऽनैकान्तिकताऽत आह –
न च नरादीति ।
न ह वै देवान्पापं गच्छति इत्यागमविरुद्धमनुमानमित्यर्थः॥१४॥१५॥१६॥
सप्तमं ज्योतिराद्यधिकरणम्॥
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्॥१७॥ सत्सु इन्द्रियेषु तदधिष्ठातृचिन्ता , तान्येव तु न मुख्यप्राणवृत्तिव्यतिरेकेण सन्तीति शङ्कते –
मा भूदिति ।
तद्भावेति ।
तस्य प्राणभावाभावावनुविधायिनावनुसरणशीलौ भावाभावौ येषां तानीन्द्रियाणि तथातत्त्वादित्यर्थः ।
प्राणशब्दस्येति ।
तस्मादेत एतेनाख्यायन्ते प्राणा इतीत्यस्येत्यर्थः । एतस्माज्जायते इत्यादिव्यपदेशो न भेदसाधनमिति योजना ।
तत्र हेतुः –
मनसोऽपीति ।
तस्मिन्नेव वाक्ये मनः सर्वेन्द्रियाणीति भेदव्यपदेशान्मनसोऽप्यनिन्द्रियत्वप्रसङ्ग इत्यर्थः ।
स्मृतिवशादिति ।
मनःषष्ठानीन्द्रियाणीति स्मृतिः । हन्तः इदानीमस्यैव मुख्यप्राणस्य रूपमसाम भवेमेति प्राणसंवादे इन्द्रियाणामुक्तिः । मृत्युर्वागादीनां स्वविषयासङ्गः सोऽसुरशब्देन भाष्ये उक्तः ।
मृत्युप्राप्तेति ।
श्रूयते हि यो वाचि भोगस्तं देवेभ्य आगायत् यत्कल्याणं वदति तदात्मन इत्यादिना वागादीनां विषयासङ्गवत्त्वं संश्राव्य तानि मृत्युः श्रमो भूत्वोपयेमेऽथेममेव नाप्नोद्योयं मध्यमः प्राण इति ।
अर्थक्रियाभेदाच्चेति ।
अर्थालोचनं बाह्येन्द्रियाणामर्थक्रिया , मनसो मननम् ॥ भाष्यकारैर्हि तत्त्वान्तराणीति भेदवाचकं तत्त्वान्तरशब्दं सूत्रेऽध्याहृत्य प्राणात्तत्त्वान्तराणि वागादीनीति प्रतिज्ञां रचयित्वा , तद्व्यपदेशाद् भेदव्यपदेशादिति हेतुं व्याख्याय , तत्साधनार्थं योजितः । अन्यत्र श्रेष्ठात् श्रेष्ठं मुक्त्वा ये प्राणास्त इन्द्रियाणि इन्द्रियशब्देनोक्ताः श्रुतौ , अतः प्राणासंभवीन्द्रियशब्दवाच्यत्वादिन्द्रियाणि प्राणात्तत्त्वान्तराणीत्यर्थ इति।
तत्राऽपरितोषं दर्शयन् व्याख्यान्तरमाह –
अन्ये त्विति ।
न केवलमध्याहारापेक्षत्वात् प्रतिज्ञोक्तिरयुक्ता ; हेतूक्तिरपि पौनरुक्त्यादयुक्तेत्याह –
भेदश्रुतेश्चेति ।
यदि तद्व्यपदेशादितीन्द्रियाणां प्राणाद् भेदव्यपदेशादित्यर्थः , तर्ह्युत्तरसूत्रे स एव हेतुर्विवक्षित इति पुनरुक्तिरित्यर्थः । ननु प्राणा इतीन्द्रियाणीति च संज्ञाभेदस्तद्व्यपदेशादियुक्तः , प्रकरणभेदस्तु भेदश्रुतेरित्युक्त इत्यपौनरुक्त्यम् , प्रकरणभेदश्च भाष्ये प्रकटित इति , उच्यते ; यदीन्द्रियशब्दः प्राणशब्देनापुनरुक्तः सन्प्राणादन्यत्किंचिद्वक्तीति विवक्षितं ; तर्हि प्राणवृत्तीनामिन्द्रियाणां प्राणादन्यत्वात् सिद्धसाधनम् । अथ स्वतन्त्रं वक्तीति , न तर्हि संज्ञाभेदः संज्ञस्वातन्त्र्यव्याप्तः प्राणाप्राणवृत्तिशब्दयोरेव व्यभिचारात् । अत एव संज्ञाभेदं जानन्नेव तदप्रयोजकतां मन्वानो निबन्धात्तद्व्यपदेशं विवृण्वन् मृत्युप्राप्ताप्तत्वेत्यादिना प्रकरणभेदमेव वर्णयांबभूव । तत उभयत्रायमेव वक्तव्यस्तथा च पुनरुक्तिरित्यभिप्रायः । किंचास्यां व्याख्यायां तद्व्यपदेशादित्यत्रत्यस्तच्छब्दस्तत्त्वान्तराणीति प्रतिज्ञागतमध्याहृतपदार्थं परामृशेन्न साक्षादुक्तम् ।
स्वव्याख्यायां त्वेकादशप्राणानामिन्द्रियत्वाप्रतिज्ञानादिन्द्रियपदार्थमनन्तरोक्तं परामृशतीति लाभमाह –
तच्छब्दस्य चेति ।
नन्विन्द्रियशब्दश्चक्षुरादिषु रूढः कथं प्राणे वर्त्स्यतीत्यत आह –
इन्द्रस्येति ।
जीवभावमापन्नस्येत्यर्थः । स्मरति स्म हि भवगान् पाणिनिः ‘‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा’’ इति। इन्द्रशब्दात् षष्ठीसमर्थाल्लिङ्गमित्येतस्मिन्नर्थे घच् प्रत्ययो भवति । घस्यायनादिसूत्रेण इयादेशः । चकारश्चित इत्यन्तोदात्तार्थः । अस्मादेव तृतीयासमर्थादिन्द्रेण दृष्टमित्याद्यर्थे प्रत्ययो योज्यः । अत एव रूढौ सत्यां व्युत्पत्तिशङ्कैव नास्तीति केशवोक्तमसाधु ; स्मृतिदर्शनात् शङ्कोपपत्तेरिति। भौतिकमित्युक्ते देहस्यापीन्द्रियत्वं स्यादितीन्द्रलिङ्गत्वोक्तिः । न हि सुषुप्तौ देहमात्रम् इन्द्रमनुमापयति। यदि प्राणो न स्याद् इन्द्रलिङ्गत्वमज्ञानादेरप्यस्तीति भौतिकग्रहणम् ।
इन्द्रियत्व जातिव्यञ्जकमाह –
देहाधिष्ठानत्वे इति ।
तद्गोलकेषु देहशब्दः ।
तस्माद्रूढेरिति ।
रूढस्यैवेन्द्रियशब्दस्य स्वरसिद्ध्यर्थं पाणिनिर्व्युत्पत्तिमन्वशासदत एव चानियमप्रदर्शनम् । व्युत्पन्नेषु पाचकादिषु नियतोऽवयवार्थ , रूढानां पुनः शब्दानां यथाकथंचित्परिकल्पितेनाप्यवयवार्थेन व्युत्पत्तिः क्रियत इति । भाष्यकारीयं त्विति । द्वे इमे अधिकरणे इत्यर्थः ।
सूत्रेष्विति ।
बहुवचनं सूत्रद्वयगतपदाभिप्रायम् । एवं चाद्यसूत्रे एव यद्भाष्यकारैरिन्द्रियाणां प्राणवृत्तित्वनिरसनमकारि , तन्मात्रमयुक्तमित्युक्तं भवति। ननु टीकायां दुरक्तिचिन्ता न युक्ता , वार्तिके हि सा भवति , तर्हि वार्तिकत्वमस्तु न हि वार्तिकस्य शृङ्गमस्ति । अत एवानन्दमयाधिकरणे मान्त्रवर्णिकसूत्रे आरम्भणाधिकरणे च भावे चोपलब्धेरितिसूत्रभाष्यमनपेक्ष्य व्याख्यां चकार॥१७॥१८॥१९॥
इत्यष्टममिन्द्रियाधिकरणम्॥
संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्॥२०॥ उत्पद्यमानव्यापर उत्पत्तिः । उत्पादकव्यापार उत्पादना । तत्र जगदुत्पत्तिविषयश्रुतिविरोध इतः प्राक् पादद्वये निरस्तः । इदानीम् उत्पादनाविषयश्रुतिविरोधो निरस्यते । तत्रात्रिवृत्कृतभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविगीतमवगतम् , भौतिकनिर्माणे तु श्रुतिषु विप्रतिपत्तिर्दृश्यते इति तन्निरासाय यत्यते । विषयप्रदर्शकं भाष्यमुदाहृत्य व्याचष्टे –
अस्यार्थ इत्यादिना ।
ननु ‘तदैक्षत बहु स्या प्रजायेय’ इतीक्षणं ब्रह्मण उक्तम् , अतः कथं सेयं देवतैक्षतेति पुनरुच्यतेऽत आह –
पूर्वोक्तमिति ।
अत्रिवृत्कृतभूतानां सूक्ष्मत्वेन व्यवहारायोग्यत्वादीक्षणस्य प्रयोजनं बहुभवनं सामस्त्येन न निष्पन्नमित्यर्थः । अस्मानपेक्ष्य परोक्षत्वात्तेज आदिषु देवताशब्दः ।
ननु प्रलयसमये प्राणाभावात् कथं तद्धारणनिमित्तजीवशब्दस्तत्राह –
पूर्वसृष्टाविति ।
सत्यप्यविद्योपहिते जीवे प्राणोपाध्यभिव्यक्तिरूपाभावाभिप्राया स्मरणसन्निधापितत्वोक्तिः ।
भूतमात्रायां भूतकार्ये रूपनिष्पत्त्यर्था या त्रिवृत्करणश्रुतिस्तां व्याचष्टे –
तासामिति ।
तासां मध्ये एकैकां त्रिवृतं करवाणीति योजना । नामरूपनिर्माणेऽपि समाननामरूपत्वमुक्तं न प्रस्मर्तव्यम् । ततश्च न शब्दार्थसंबन्धस्य कृत्रिमत्वशङ्का ।
जीवेनेत्यस्य व्याकरणानुप्रवेशसंबन्धाभ्यां संशयमाह –
तत्रेति ।
जीवस्य समुद्रादिनामरूपनिर्माणयोग्यत्वाभावात् जीवेनेत्यस्य व्याकरवाणीत्यनेनासंबन्धे पूर्वपक्षाभावमाशङ्क्याह –
डित्थेति ।
अस्ति तावत् सामान्येन नामरूपनिर्माणे जीवस्य योग्यत्वं , तावन्मात्रं चान्वयोपयोगि ; विशेषाणामानन्त्येनाशक्यज्ञानत्वात् । यथाह – सामान्येनैव योग्यत्वं लोके यदवधारितम् । तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम् ॥इति।
योग्यतामुपपाद्याकाङ्क्षामाह –
प्रधानक्रिययेति ।
ननु जीवेनेत्यस्यानुप्रविश्येत्यनेन सन्निधिरस्तीति , तत्राह –
न त्विति ।
आकाङ्क्षायोग्यताभ्यां लिङ्गाभ्यां सन्निधिः स्थानलक्षणो दुर्बल इत्यर्थः ।
प्रधानक्रिययेत्येतद्विवृणोति –
प्रधानपदार्थेति ।
क्वचिदित्यारुण्यादौ परम्परया संबन्धाश्रयणमित्यर्थः ।
ननु व्याकरवाणीत्यस्य मुख्यार्थस्वीकारे को बाधः ? यतः प्रयोजकव्यापारलक्षणा , तत्राह –
यदि पुनरिति ।
स्यादेतत् - साक्षात्कर्त्र्या देवतायाः करणं भवतु जीवस्तक्ष्ण इव वास्यादीति , नेत्याह –
न हि जीवस्येति ।
जीवो हि चेतनत्वात् कर्ता , यत्र च कर्ता कर्त्रन्तरं प्रतिकरणं तत्र करणभूतस्य स्वतन्त्रकर्तृत्वमितरस्य तु प्रयोजककर्तृत्वं चारेण संकलयानीत्यादौ तथा दर्शनादित्यर्थः ।
नामकर्मणीति ।
नामोत्पादने इत्यर्थः ।
सामान्यतोऽवगतयोग्यत्वस्य विशेषे बाधकप्रमाणाभावादपवादमाह –
न गिरिनदीति ।
अर्थापत्त्यभावेति ।
करणसामर्थ्ये हि प्रमाणं कार्यजनकत्वान्यथानुपपत्तिर्जीवस्य च समुद्रादिजनकत्वादर्शनात् तच्छक्तौ नार्थापत्तिरस्ति , तेन सामर्थ्याभावोऽर्थापत्त्यनुदयपरिच्छिन्न इत्यर्थः ।
जीवेनेत्यस्य व्याकरवाणीति प्रतिप्रधानान्वययोग्यतायां निरस्तायां सन्निधेरेव साम्राज्यमित्याह –
अनुप्रविश्येत्यनेन त्विति ।
त्तवः क्त्वाप्रत्ययस्य ॥२०॥
अन्नभागतेति ।
योऽणिष्ठस्तन्मन इत्युक्ता अन्नस्य सूक्ष्मभागात्मतेत्यर्थः । वाचः पटुत्वात्तेजसा साम्यमस्ति तत्तेजोमयी वागित्युक्तमित्यूहनीयमित्यर्थः । तेज इत्यग्निदीपकं घृताद्युच्यते ।
तेजसः सूक्ष्मो भागो वाग् अन्नस्याशितस्य सूक्ष्मो भागो मन इति श्रुतिवशाद् वाङ्मनसयोस्तैजसभोमत्वे वक्तव्ये कथं मांसादेर्भौमत्वमुच्यते ? अत्राह –
वाङ्मनसी इति ।
मांसादीत्यादिशब्देनाप्तेजःकार्ययोर्मज्जालोहितयोर्ग्रहणम् । मज्जा नामास्थोऽभ्यन्तरो रसः ।f
नित्यत्वं मनसो दूषयति –
न तावदिति ।
नाप्याहंकारादिकं मन आदीति शेषः॥२१॥ भूयस्त्वं भूतानां स्वस्वार्धाधिक्यम् । तच्च ईक्षत्यधिकरणेऽस्माभिर्दर्शितमिति॥२२॥
इति नवमं संज्ञाक्लृप्त्यधिकरणम्॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ द्वितीयाध्यायस्य चतुर्थः पादः॥
समाप्तश्चायमविरोधाख्यो द्वितीयोऽध्यायः॥