अद्वैतशारदा

वेदान्तकल्पतरुः

तदन्तरप्रतिपत्त्यधिकरणविषयाः

व्याख्याः

कल्पादौ नूनमाशा हरिरसृजदमूः कीर्ति­वि­स्ता­र­विज्ञः ।
श्रीमद् व्यासाश्रमस्य प्रति­व­द­न­म­धा­त्क­र्ण­युग्मं विरिञ्चिः ॥
श्रोतुं वाचस्पतेर्वाक् सरणिषु विततं कल्पवृक्षं निबन्धम् ।
भेजे वज्री सहस्रं चरितमभिनवं द्रष्टु­म­क्ष्य­म्बु­जा­नाम् ॥१॥
इदममलात्मनः - मत्स­र­पि­त्त­नि­दानां विदुषामरुचिं चिकित्सति प्रबलाम् ।
स्वगु­ण­ग­णा­मृ­त­वर्षैः कृतिरेषा कर्णरन्धगता ॥२॥
तद­न्त­र­प्र­ति­पत्तौ रंहति संपरिष्वक्तः प्रश्न­नि­रू­प­णा­भ्याम् ॥१॥
अविरोधेन वेदान्तवेद्यं ब्रह्म निरूपितम् ।
तत्प्रा­प्ति­सा­धनं ज्ञानं सोपायमिह चिन्त्यते ॥
हेतुहेतुमद्भावं विशदयति –
स्मृतिन्यायेति ।
स्मृति­न्या­य­श्रु­तिभिः सह श्रुतीनां विरो­ध­प­रि­हा­रे­णेति योजना । अवान्तरसंगतिः पादसंगतिः । भाष्ये प्रसङ्गागतमिति देहा­त्म­व्य­ति­रे­का­दि­रुक्तः । पूर्वापरौ पूर्वोत्तरपक्षौ । भूमिकेति विषयः । भूतपरिष्वङ्गे प्राणानां नर­का­दि­ग­म­ना­द्वै­रा­ग्यम् , न चेद् निरा­श्र­य­प्रा­ण­ग­त्य­भा­वा­न्नेति चिन्ताप्रयोजनम् ।
करणेषु उपात्तेषु भूतानुपादानं व्याहतम् ; कार्यस्वीकारे तत्प्र­कृ­ति­स्वी­का­र­स्या­व­श्यं­भा­वा­दि­त्या­श­ङ्क्याह –
अत्रेति ।
ननु भूतो­पा­दा­न­स्या­श्र­वणं तदभावगमकं न भवति ; सत्यपि प्रमेये प्रमा­णा­नु­द­य­सं­भ­वा­दत आह –
न ह्यागमैकेति ।
नानाप्रमाणगम्ये हि वस्तु­न्ये­क­प्र­मा­णा­नु­त्प­त्ता­वपि प्रमा­णा­न्त­र­प्र­वृ­त्ति­श­ङ्कया वस्तु­स­द्भा­व­शङ्का स्यात् , न त्विहेत्यर्थः ।
अनग्निषु द्युलो­का­दि­ष्व­ग्नि­त्व­स्या­ना­हु­ति­त्व­स्यो­प­चारे निमित्तमाह –
इह हीति ।
यदि शरी­रो­त्प­त्त्य­व­स्था­मा­हु­तिजां पञ्चाहुतित्वेन प्रविभज्य तदाधारेषु द्युलो­का­दि­ष्व­ग्नि­त्व­सं­पा­दनं विधीयते , कथं तर्ह्यापः पुरुषवचस इति प्रश्ने आहुतावपूशब्दः? कथं वा प्रतिवचने श्रद्धां जुह्वतीति श्रद्धाशब्दः? अत आह –
अत्र सायमित्यादिना ।
श्रद्धापूर्वं हुते इत्यन्वयः ।
वक्ष्य­मा­ण­रू­प­क­सि­द्धा­र्थ­माह –
आहवनीयाग्नीति ।
पञ्चा­ग्नि­वि­द्या­श्रु­ति­मु­दा­हृत्य व्याचष्टे –
असौ वावेत्यादिना ।
आदि­त्य­का­र्य­त्वा­च्चेति ।
समि­द्रू­पा­दि­त्य­का­र्य­त्वा­द­ह­रर्चिः ; प्रसि­द्ध­स्या­र्चिषः समि­त्का­र्य­त्वा­दि­त्यर्थः । अधिदैवं यजमानप्राणा इत्यन्वयः ।
तन्निर्दिशति –
अग्न्यादिरूपा इति ।
ह्रादुनयो विस्फुलिङ्गा इति श्रुति व्याचष्टे –
गर्जितमिति ।
अग्निरूपा इत्य­ग्न्या­दि­रूपा इति द्रष्टव्यम् । स्वर्गे आराब्धो देहः सोमो राजा ।
यद्यपि श्रद्धा सोम इत्या­दि­रा­हु­ति­भेदः श्रूयते ; तथापि जीवस्य भूत­प­रि­ष्व­ङ्ग­सि­द्ध्य­र्थ­माप एव तत्त­दा­का­र­प­रि­ण­ता­स्तथा तथा निर्दिश्यन्त इत्याह –
श्रद्धाख्या इति ।
प्रगे इति ।
प्रभाते इत्यर्थः ।
स्वरू­पा­भा­व­मु­प­श­म­मा­श­ङ्क्याह –
प्रसन्नानामिति ।
श्रोत्रं शब्दश्रवणार्थं दिक्षु विप्रकीर्णमिव । उपमन्त्रणं संकेतः ।
श्रुत्य­न्त­र­व­शे­नाह –
लोमानि वेति ।
तानि च गौह्यानि धूमोऽ­र्चि­र्ज­न्य­त्वा­दि­त्यर्थः । सुख­ल­व­वि­स्फु­लि­ङ्ग­हे­तु­त्वाद् ग्राम्य­क­र्म­णोऽ­ङ्गा­र­त्वम् । अप्स­म­वा­यि­त्वा­द्ग­र्भ­स्येति शेषः ।
अश्रुतत्वादिति सूत्रार्थमिह प्राप्तावसरं दर्शयति –
यद्यपीत्यादिना ।
कर्मिणां चन्द्र­लो­का­रो­हा­व­रो­हा­वा­श्रित्य पञ्चा­ग्नि­द­र्श­न­मु­च्यते । तत्र दक्षिणमार्गे ‘‘तद्य इमे ग्राम इष्टाद्युपासते धूम­म­भि­सं­भ­वन्ति’’ इत्युपक्रम्य ‘‘एष सोमो राजे’’ति चन्द्र­लो­क­प्राप्तः पुरुषो निर्दिष्टः , पञ्चा­ग्नि­वि­द्या­या­मपि स्वर्गे लोके सोमो राजा भवतीति स एव निर्दिश्यते ।
सोम­रा­ज­श्रु­ति­सा­म्या­त्स्व­र्गा­ख्य­स्था­न­सा­म्या­च्चे­त्याह –
तथा­पी­ष्टा­दि­का­रि­णा­मिति ।
श्रद्धां जुह्व­ती­त्य­त्रा­पा­मि­ष्टा­दि­का­रि­भि­र­न्व­य­मुक्त्वा एष सोमोराजेत्यत्र कर्तॄणां श्रद्धा­वा­क्या­व­ग­ता­भि­रद्भिः परिष्वङ्गमाह –
तथा हि या एवेति ।
अन्त्या­हु­त्य­पे­क्षया द्वितीया श्रद्धाहुतिः । अथ वा - पर्जन्याग्नौ द्वितीये द्विती­य­स्या­मा­हुतौ होतव्यायां सोमभावं गता इत्यर्थः । अस्मिन्पक्षे प्रत्य­व­रो­ह­साम्यं वाक्यद्वये दर्शितम् । तथा हि – पञ्चा­ग्नि­वि­द्यायां पर्ज­न्या­दि­ष्व­ग्निषु हुतस्य सोमराजस्य वृष्ठ्य­न्न­रे­तो­भाव आम्नायते । तथा दक्षिणमार्गेऽपि प्रत्यवरूढानां सोमराजानां तथाभावो वायोर्वृष्टिं ते पृथिवी प्राप्यान्नं भवन्तीत्यादिना । अतश्च श्रद्धावाक्ये कर्मिणां लाभ इत्यर्थः । चन्द्रलोकं प्राप्त­स्त­त­श्च­न्द्र­भूयं चन्द्र­भा­व­म­मृ­त­म­य­श­री­रा­त्मतां गत इत्यर्थः ।
वाक्य­द्व­य­स्थ­सो­म­रा­ज­श­ब्द­यो­र­र्थ­भेदं शङ्कते –
ननु स्वतन्त्रा इति ।
श्रद्धावाक्ये आप एव सोमा­ख्य­श­री­र­भा­व­मा­प्नु­वन्तु , एष सोमो राजेत्यत्र तु अद्भिरपरिष्वक्त इन्द्रि­य­मा­त्रो­प­हि­त­श्च­न्द्र­लोकं गत्वा सोमशरीरं भुङ्क्ता­मि­त्यर्थः ।
उत्तरम् –
अयं दोष इति ।
येन रूपेणेति ।
अमृ­त­म­य­श­री­रा­भि­मा­नि­त्वे­ने­त्यर्थः । क्रम आहु­ति­प­रि­णा­म­ल­क्षण: ।
शब्द­मा­त्र­सा­म्य­म­ग­मकं - बटो­र­प्य­ग्नि­श­ब्दा­वि­शे­षाद् ज्वल­ना­भे­द­प्र­स­ङ्गा­दि­त्या­श­ङ्क्याह –
तस्मादिति ।
अप्श­ब्दा­त्पु­रु­ष­व­चस इति पुरुषशब्दाच्च केवलभूतगमनस्य पुरु­षा­धि­ष्ठि­त­भू­त­ग­म­नस्य च संशये सोम­रा­ज­श­ब्द­साम्यं निर्णायकं भवति , माणवकस्य तु ज्वल­ना­द्भे­द­नि­श्च­या­न्ना­भे­दा­पात इत्यर्थः ।
एवं हि सूक्ष्मेति ।
सूक्ष्मशरीरं भूतसूक्ष्माणीति ।
जलूकैव जलायुका । ननु - व्यापकस्यात्मन इह देहा­न्त­रा­भि­मा­न­पू­र्व­क­मे­त­द्दे­ह­त्यागः संभवति , तत्र किमिति दृष्टा­न्त­श्रु­ते­रा­र्ज­व­भङ्गः क्रियत इति - चेत् , तत्र वक्तव्यं - किं परमात्मन उक्तविधा देहा­न्त­र­प्रा­प्ति­रुत जीवस्य ।
नाद्य इत्याह –
न तावदिति ।
जीवोऽपि स्वतन्त्र एव व्यापकः सन्नस्मिन्देहे वर्तमानो देहा­न्त­र­म­भि­म­न्यते , उतौपाधिकः सन्नु­पा­धि­व्याप्त्या ।
न प्रथम इत्याह –
परमात्मैव चेति ।
न द्वितीय इत्याह –
तस्य चेति ।
‘‘तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽ­न्य­मा­क्र­म­मा­क्र­म्या­त्मा­न­मु­प­सं­ह­र­त्ये­व­मे­वायं शरीर आत्माऽ­न्य­मा­क्र­म­मा­क्र­म्या­त्मा­न­मु­प­सं­ह­रती’’ति श्रुतौ प्रति­प­त्त­व्य­दे­ह­वि­ष­य­भा­व­ना­दी­र्घी­भाव उपमीयत इति भाष्ये उक्तम् ।
तत्र भावि­दे­ह­स्या­न­नु­भू­त­त्वा­त्स्मृ­ति­हे­तु­भा­व­ना­नु­प­प­त्ते­र­यु­क्ति­मा­शङ्क्य व्याचष्टे –
उत्पादनाया इति ।
प्राकृ­त­क­र्मा­रभ्य भावि­दे­हो­त्पत्तिं याव­त्क­र्तृ­व्या­पा­रस्य विततत्वाद् दीर्घीभावः । एतदुक्तं भवति – यथा जलूका तृणान्तरं प्राप्य तृणं मुञ्चति एवं संसार्यपि देहा­न्त­र­प्रा­प्त्यर्थ कर्म कृत्वा देहं त्यजतीति । शब्दादिज्ञानानि सुखादिज्ञानानि च षट् प्रवृ­त्ति­वि­ज्ञा­नानि । अह­मि­त्या­ल­य­वि­ज्ञा­न­स­न्ता­नस्य वृत्तिः कार्यम् ॥१॥
भाष्योक्तां देहे भूत­त्र­य­का­र्यो­प­लब्धिं दर्शयति –
तेजस इत्यादिना ।
साम्यावस्थाः शरीरं दधतीति वातादयो धातवः ।
कथं त्रिधातुकत्वे शरीरस्य पञ्च­भू­ता­त्म­क­त्व­मत आह –
अतो न स देह इति ।
वातान्वयाद् वाय्वारब्धत्वं कफ­पि­त्ता­न्व­या­द­प्तेज आरब्धत्वम् अव­का­श­दा­ना­न्व­या­दा­का­शा­र­ब्ध­त्व­मि­त्यर्थः । अत्र नैयायिकादयो विवदन्ते – यदि देहः पञ्च­भू­त­स­म­वा­यि­का­र­णकः स्यात् , तर्हि द्रव्यं न स्यात् , पञ्च­भू­त­स­म­वा­यि­का­र­ण­क­ब­हु­त्व­वत् । यदि च प्रत्य­क्षा­प्र­त्य­क्ष­स­म­वा­यि­का­र­णकः स्यात् , तर्हि प्रत्यक्षो न स्यात् , तरु­म­रु­त्सं­यो­ग­वत् । तस्मान्न देहः पञ्च­भू­त­स­म­वा­यि­का­र­णकः द्रव्य­त्वा­दा­का­श­वत् । नापि प्रत्य­क्षा­प्र­त्य­क्ष­स­म­वा­यि­का­र­णकः प्रत्य­क्ष­त्वा­द्ग­न्ध­वत् । तोया­द्या­र­ब्धत्वे च शैत्या­द्यु­प­ल­म्भ­प्र­सङ्गः , तोय­त्वा­दि­जा­ति­सं­क­र­प्र­स­ङ्गश्च - इति । तन्न ; त्र्यणुकादेरपि प्रत्य­क्ष­त्वा­दि­हे­तो­र­प्र­त्य­क्ष­स­म­वा­यि­का­र­ण­त्वा­भा­वा­नु­मा­ना­पा­तात् । शीतस्पर्शादिश्च शरीरे उद्भ­वा­भि­भ­वाभ्यां क्रमेणोपलभ्यत एव ।जा­ति­सं­क­र­श्चा­दू­ष­णम् । यत्तु - मन्येत द्रव्यत्वादि पृथि­वी­त्वा­दि­जातिं यद्यपि परिहरति व्यापकत्वात् ; तथापि पृथिवीत्वादि द्रव्य­त्वा­दि­जातिं न मुञ्चति ; व्याप्य­त्वा­त्ता­दृ­ग्जा­त्यो­श्चै­कत्र समावेशो नेतरयोः । पृथि­वी­त्वा­दि­जा­तिश्च परस्परपरिहारिणी , कुम्भे सलिलत्वाभावात् कुम्भसलिले च पृथि­वी­त्वा­भा­वात् । पर­स्प­र­प­रि­हा­र­स्या­स­मा­वे­शा­नि­श्चा­य­कत्वे च गोत्वा­श्व­त्व­यो­र­प्य­स­मा­वि­ष्ट­त्व­नि­श्च­या­भा­व­प्र­सङ्गः , उच्छिद्येत च तज्जा­ती­य­वि­रो­ध­कथा । तथा चाप्त­व­च­ना­व­सि­त­तु­र­ग­भावे तुरगत्वान्न स गौरि­त्या­द्य­नु­मा­न­पू­र्व­क­व्य­व­हा­र­वि­ल­य­प्र­सङ्ग - इति । तदपि न । काश्चित्परस्परं परिहरन्त्य क्वचिदपि न समाविशन्ति , काश्चित्तु जातयः क्वचि­त्प­रि­ह­रन्ति क्वचि­त्स­मा­वि­शन्ति च । समावेशश्च कियस्त्वेव देहादिष्वति निश्चित्य गोत्वा­दा­व­प्यु­क्त­री­त्यो­रे­का­मा­प्ता­दिभ्यः परिच्छिद्य प्रवृ­त्त्यु­प­पत्तेः । अपि चायमत्र प्रमाणार्थः । पृथिवीत्वजलत्वे नैकत्र समाविशतः , पर­स्प­र­प­रि­हा­रि­त्वाद् गोत्वा­श्व­त्व­व­दिति । तत्र परस्परेति पृथि­वी­त्व­स­लि­ल­त्व­वि­व­क्षायां साधनविकलो दृष्टान्तः । न हि गोत्वाश्वत्वे पृथिवीत्वं परिहरतः । गोत्वा­श्व­त्व­वि­व­क्षा­या­म­वि­शे­षेण यत्किं­चि­त्प­र­स्प­र­वि­व­क्षायां च हेतो­र­नै­का­न्ति­कता ; गुण­त्व­रू­प­त्व­यो­र्गो­त्वा­श्वत्वे त्यज­तो­र्य­त्किं­चि­त्प­र­स्प­रा­त्म­क­स्त­म्भ­कुम्बौ परि­ह­र­तो­र­प्ये­कत्र समावेशात् । तस्मा­त्प्र­सि­द्धि­सा­म­र्थ्या­द्बा­ध­क­स्या­नि­रू­प­णात् पञ्चभूतमयः कायः श्रुति­तोऽ­प्य­नु­मी­य­ताम् । श्रूयते हि पृथिवीमय आपोमयो वायुमयस्तेजोमय आकाशमय इति । अत्र च देह­द्वा­राऽऽ­त्मनः पञ्च­भू­त­म­य­त्व­मु­च्यते ; चक्षुर्मय इत्या­दि­वा­क्य­शे­षात् । अनुमानमपि देव­द­त्त­श­री­र­मे­त­ज्ज­न­कत्वे सत्य­नु­द­क­त्वा­ते­ज­स्त्वा­वा­यु­त्वा­ना­का­श­त्वा­त्य­न्ता­भा­व­व­त्स­म­वा­यि­का­र­णकं शरी­र­त्वा­द्य­ज्ञ­द­त्त­श­री­र­व­दिति । यद्यपि यज्ञ­द­त्त­श­री­र­म­नु­द­क­त्वा­दि­मत् पृथि­वी­मा­त्र­स­म­वा­यि­का­र­णकं परेषां ; तथापि देव­द­त्त­श­री­र­ज­न­कत्वे सति अनु­द­का­दि­म­ज्जन्यं न भवति , तस्य देव­द­त्त­श­री­र­ज­न­क­त्वा­भा­वेन तद्वि­शि­ष्टा­नु­द­का­दि­म­त्त्व­र­हि­त­त्वात् । अतः साध्यप्रसिद्धिः । एतज्जनकत्वे सत्य­नु­द­क­त्वा­दि­म­त्त्व­र­हि­त­ज­न्य­त्व­म­नु­द­क­त्वा­दि­म­त्त्व­र­हि­त­ज­न्य­त्वाद्वा स्यादे­त­ज्ज­न­क­त्व­र­हि­त­ज­न्य­त्वाद्वा । द्वितीयो व्याहत इति प्रथमः स्यात्तथा चोद­क­त्वा­दि­म­द्भू­त­स­म­वा­यि­का­र­ण­त्व­सि­द्धि­रिति ॥२॥
ननु निराश्रया एव प्राणा गच्छन्तु वायु­व­दि­त्या­श­ङ्क्याह –
जीवद्देहे इति ।
भवतु साश्रयत्वं , गति­स्त्वा­श्र­य­स्यैव न प्राणानामिति , नेत्याह –
तदनुविधायिनः इति ।
न चेत्प्राणा गच्छन्ति स्थित्या­धा­र­दे­शान्न वियुज्येरन् । तथा च देशान्तरगते देहे प्राणोपलब्धिर्न स्यादित्यर्थः ।
साश्र­य­प्रा­णो­त्क्रा­न्ता­वा­श्र­य­द­र्श­न­प्र­स­ङ्ग­मा­श­ङ्क्याह –
सूक्ष्म इति ।
ननु कार्यवशाद्यः कश्चिदाश्रयः कल्प्यतां , कथं भूतसिद्धिरत आह –
भूतेन्द्रियमय इति ।
इन्द्रियग्रहणं मृत­दे­ह­तु­ल्य­त्व­व्या­वृ­त्त्य­र्थम् । जागरिते भूत­म­य­दे­हा­श्र­य­त्व­द­र्श­ना­दि­त्यर्थः । तर्हीन्द्रियाणि सन्त्वाश्रयो , नेत्याह – न हीति ॥३॥ तेषामपि परोपाधिगमनत्वेन प्राण­ग­त्य­नु­प­पा­द­क­त्वा­दि­त्यर्थः ।
नैव प्राणा गच्छन्तीति भाष्यं दृष्ट्वा प्राणानां गम­ना­भा­वेऽ­ग्न्या­दि­ग­ति­श्रु­ति­र्हे­तु­रुक्त इति कश्चिन्मन्येत , तच्चायुक्तम् ; श्रुतौ सत्या­म­व­धा­र­णा­नु­प­पत्तेः , अत आह –
शावितेऽपीति ।
अत्र श्रुति­द्व­य­वि­रो­धा­द­न­ध्य­व­साय आशङ्क्यते । भाष्यं च प्राणा गच्छन्त्येवेति यत्तन्नेति व्याख्ये­य­मि­त्यर्थः ।
परिहारभागं व्याचष्टे –
अत्र हीत्यादिना ।
तेषामपीति ।
वागा­दि­ग­म­ना­ना­म­पी­त्यर्थः ।
ननु संदिग्धं वस्तु प्राय­द­र्श­ना­न्नि­र्णी­यते गौण­मु­ख्य­ग्र­ह­ण­वि­षये च मुख्ये संप्रत्ययस्तत्र कथं वागा­दी­ना­म­ग्न्या­दि­ग­ति­श्रुतिः प्राय­द­र्श­न­मा­त्रा­न्मु­ख्या­र्था­त्प्र­च्या­व्यते , अत आह –
श्रुति­वि­रो­धा­दिति ।
जीवेन सहो­त्क्रा­न्त्या­दि­श्रु­ति­वि­रो­धा­त्सं­दि­ह्य­मा­नार्था वागा­दि­ग­ति­श्रु­ति­रतः प्रायदर्शनावकाश इत्यर्थः । भक्तिर्गुणयोगः । उप­का­र­नि­वृ­त्ति­रुक्ता । भाष्ये इति शेषः । ।४॥
ता एव ह्युपपत्तेरिति सूत्रस्य (ब्र.अ.३.पा.१.सू.५४) परिहारभागं व्याचष्टे –
पञ्च­म्या­मा­हु­ता­वि­त्या­दिना ।
पञ्च­म्या­मा­हु­ता­वपां पुरु­ष­श­ब्द­वा­च्यत्वं यथा भवति , तथा किं वेत्थेति प्रश्ने पुरु­ष­श­ब्द­वा­च्य­त्व­प्र­का­र­मा­त्र­म­ग्नि­वि­स्फु­लि­ङ्गा­दि­दृ­ष्टि­वि­शि­ष्ट­म­ज्ञातं पृच्छयते , वाक्यस्य विशे­ष­ण­सं­क्रा­न्त­त्वात् । आप­स्त्व­ग्नि­हो­त्रा­दि­फ­ल­प्रा­प्ति­पु­न­रा­वृ­त्ति­प­र्या­लो­च­नया शास्त्रान्तराद् ज्ञाता एव । तत्र प्रथ­मा­द्या­हु­ति­ष्व­प्या­हु­ति­वि­शे­ष­म­जि­ज्ञा­सित्वा पञ्चम्याम् आहुतिविषयः प्रश्न एवमभिप्रायः यैव पञ्चम्याहुतिः सैव प्रथ­मा­दि­स्था­नेऽपि भवतीति । सति चैवं प्रश्नहृदये प्रथमाहुतौ अब्य­ति­रि­क्ता­हु­त्य­भि­धा­न­म­सं­बद्धं स्यादित्यर्थः । अप्शब्दस्य नित्य­ब­हु­व­च­ना­न्त­त्वा­द­नपां श्रद्धाया इति निर्देशः ।
अव्यतिरिक्तायाः श्रद्धायाः प्रथमाहुतित्वे परंपरया तज्जातस्य देह­स्या­ब्व­हु­लत्वं न स्यादित्याह –
न चाप्येवमिति ।
ब्रह्मकार्यस्य तद्वे­ल­क्ष­ण्या­भ्यु­प­ग­मा­दौ­त्स­र्गि­की­त्यु­क्तम् ।
श्रद्धा­या­म­प्त्वो­प­चा­रा­पे­क्षितं सबन्धमाह –
अत एवेति ।
आपो हास्मै श्रद्धां संनमन्त इति श्रुतौ कार्य­का­र­ण­भा­वोऽ­व­ग­म्यते इत्यर्थः ॥५॥ आहुत्यपूर्वरूपा आपो जीवं परिवेष्ट्य परलोकं नयन्तीत्यत्र संवादकत्वेन ते वा एते इत्या­दि­वा­ज­स­ने­यि­ब्रा­ह्मणं भाष्य­का­रे­रु­द्धा­हृ­तम् । तदित्थम् - अग्निहोत्राहुती प्रक्रम्य जनकेन याज्ञवल्क्यं प्रति ‘‘न त्वेवै­न­यो­स्त्व­मु­त्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोक­प्र­त्यु­त्था­यिनं वेत्थे’’त्य­ज्ञाने उद्भाविते तेन चानुमोदिते जनकः षट् प्रश्ना­न्नि­र्णि­नाय । ते वा एते आहुती हुते उत्क्रामतस्ते अन्त­रि­क्ष­मा­वि­श­तस्ते अन्त­रि­क्ष­मे­वा­ह­व­नीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिं ते अन्तरिक्षं तर्पयतस्ते दिवमाविशतस्ते दिवमेवाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव शुक्रामाहुतिं ते दिवं तर्पयतस्ते तता आवर्तेते’’ इत्युपक्रम्य ‘‘पृथिवीं पुरुषं योषितं चाह­व­नी­य­त्वे­नो­प­न्यस्य संवत्सरादींश्च समिदादित्वेन परिकल्प्य योषिदग्नेर्यः पुत्रो जायते स लोकं प्रत्यित्थायी’’ इति । तत्रैष षट् प्रश्नीनिर्णयः पञ्चा­ग्नि­वि­द्या­या­मद्भिः परिवेष्टितस्य जीवस्य न गमयितुमर्हतिः विद्याभेदात् । षट्प्रश्न्यां ह्याह­व­नी­य­स­मि­दा­हु­तय एव श्रूयन्ते , न तु धूमा­र्चि­र­ङ्गाराः । अन्त­रि­क्षा­ग्नि­श्चा­धिकः पर्जन्यश्च न श्रुत इति । तत्र सत्यपि विद्यान्यत्वे आहुतिगत्या गतिसाम्याद् दृष्टा­न्त­त्व­मि­त्य­स्त्येव परिहारः ।
आचार्यस्तु प्रौढ्या विद्यै­क्य­मु­पे­त्या­प्याह –
षट्प्रश्नीति ।
अग्निहोत्रे षट्सु उत्क्रा­न्त्या­दिषु ये प्रश्ना­स्तेऽ­ग्नि­स­मि­द्धू­मा­र्चि­र­ङ्गा­र­वि­स्फु­लि­ङ्गेषु समस्तेषु विषयेषु घटन्ते ; विस्फु­लि­ङ्गा­दीनां तत्रा­प्यु­प­सं­ह­र्त­व्य­त्वात् , बहुसाम्ये सत्य­ल्प­वै­ष­म्य­स्या­किं­चि­त्क­र­त्वा­त्प­र्ज­न्या­ग्ने­श्चा­ग्नि­होत्रे स्वर्गात् पृथि­वी­प्रा­प्त्य­भि­धा­ने­ना­र्थ­सिद्धेः । अन्त­रि­क्षा­ग्नेश्च पञ्चा­ग्नि­वि­द्यायां पृथिव्याः स्वर्ग­प्रा­प्त्य­भि­धा­नात् साम­र्थ्य­सि­द्धे­रि­त्यर्थः । यः समाहारः षण्णा­मु­त्क्रा­न्त्या­दी­ना­मि­त्यर्थः । एवं च षड­ग्न्यु­पा­स­न­मि­दम् । पञ्चा­ग्नी­न्वे­देति त्ववा­न्त­र­सं­ख्या­भि­प्रा­यम् ; साम्यलिङ्गात् षष्ठा­ग्न्यु­प­सं­हा­र­सिद्धौ प्रच­य­शि­ष्ट­प्रा­प्त­सं­ख्या­नु­वा­दि­प­ञ्च­श­ब्दस्य दुर्बलस्य तद्व्या­व­र्त­क­त्वा­नु­प­पत्तेः । एवं विस्फु­लि­ङ्गा­दिषु षट्प्र­श्ना­नु­प­ल­म्भा­दु­त्क्रा­न्त्या­दि­वि­ष­याणा च विस्फु­लि­ङ्गा­दि­वि­ष­य­त्वा­भा­वात् श्रुत्यनिभिज्ञो वाच­स्प­ति­रि­त्यु­प­हा­सोऽ­न­व­सरः ॥६॥
भाष्यस्थश्रुतिं व्याचष्टे –
क्रियेति ।
सोमस्य यथेति शेषः । लोण्मध्यमैकवचनं सर्व­वि­भ­त्त्य­र्थेषु क्रिया­स­म­भि­हा­रा­ख्य­पौ­नः­पुन्ये स्मर्यते । तेनाप्यायस्वेति आप्या­य्ये­त्यर्थः । अपक्षीयस्वेति अप­क्ष­प­य्ये­त्यर्थः । यथा सोमं यज्ञे भक्षयन्त्येवं कर्मिणः पुरुषान् देवा इत्यर्थः ।
एतास्तत्र भक्षयन्तीति श्रुतौ एतान् शब्देन कर्मिणामभिधानं गृहीत्वा भाक्तत्वं भक्षणस्य सूत्र­भा­ष्य­का­राभ्यां वर्णितं , स्वयं तु सिद्धा­न्ता­नु­सा­रे­णा­वि­रु­द्ध­म­र्थ­माह –
सोम­म­या­ल्लो­का­निति ।
युक्त­त­र­श्चा­य­मर्थः ; एष सोमो राजेति कर्मा­भि­प्रा­प्यस्य प्राधान्येन प्रकृतत्वात् , विभूतिमनुभूयेति भोक्तृ­त्व­नि­र्देशः साक्षा­द­न्न­त्वेऽ­नु­प­पत्तिः ॥७॥ पञ्चम्यां त आहुतावापो यथा पुरुषशब्दवाच्या भवन्ति तं प्रकारं किं वेत्थेति श्वेतकेतुं प्रति प्रवाहणस्य राज्ञः प्रश्नः । तमात्मानम् । यत्र काले अस्य पुरुषस्य वागा­द­योऽ­ग्न्या­दि­दे­वान् गच्छन्ति क्वायं तदा पुरुषो भवतीति आर्तभागस्य याज्ञवल्क्यं प्रति प्रश्नः । अस्मै अधिकारिणे । श्रद्धां सन्नमन्ते आनयन्ति । अथो­त्त­र­मा­र्ग­क­था­न­न्त­रम् । ग्रामे गृहाश्रमे स्थित्वा । इष्टं यागा­दि­पू­र्त­वा­प्या­दि­क­रणं दत्तं दानम् । इत्ये­ता­न्यु­पा­स­तेऽ­नु­ति­ष्ठन्ति ये ते धूमं धूमाभिमानिनीं देवताम् अभिसंभवन्ति प्राप्नुवन्ति आकाशदेवतातो वायुमाप्नुवन्ति । असौ अमुकनामा स्वर्गाय लोकाय स्वाश्रयं हा गच्छतु एतदेवादित्यस्य रोहिताद्यमृतं दृष्ट्वैव वस्वादयो देवा­स्तृ­प्य­न्तीति मधुविद्यायां श्रुतम् । अथ पित्रा­न­न्द­क­थ­ना­न­न्तरं जितः प्राप्तः श्राद्धा­दि­क­र्मभिः पितृलोको यैस्तेषां पितॄणां ये आनन्दाः स कर्मदेवानामेक आनन्दः । पित्रानन्दशतगुण आनन्दः कर्मदेवानां भवतीत्यर्थः । ये कर्मणेति कर्मदेवानां व्याख्यानम् ॥
इति प्रथमं तद­न्त­र­प्र­ति­प­त्त्य­धि­क­र­णम् ॥

कृता­त्य­येऽ­नु­श­य­वान् दृष्ट­स्मृ­तिभ्यां यथेतमनेवं च ॥८॥
कर्म­स­म­वा­यि­नी­नाम् अपां पञ्चम्यामाहुतौ पुंप­रि­णा­म­हे­तु­मा­श्रि­त्याद्भिः परि­वे­ष्टि­त­जी­व­ग­म­न­मुक्तं , तत्र स्वर्गादवरोहतः कर्मैव नास्ति कुत­स्त­त्स­म­वा­यिन्य आपः? कुतस्तरां पुंपरिणामः? इत्या­क्षे­प­स­ङ्ग­ति­गर्भं पूर्वपक्षमाह –
याव­त्सं­पा­त­मि­त्या­दिना ।
अत एव च कर्म­णा­मै­क­भ­वि­क­न­या­द्वि­लय संभवे सम्यग्ज्ञानस्य नैष्फल्यं पूर्वपक्षे प्रयोजनम् ।
श्रुतिमुदाहृत्य व्याचष्टे –
यदिति ।
अन्तः फलम् ।
मुक्तिमप्याह –
प्रायणस्य चेति ।
एषां हेतूनां समस्तमेव कर्म स्वकीयं फल­मु­प­भो­जि­त­व­दि­त्यु­प­रि­त­न­प्र­ति­ज्ञ­याऽ­न्वयः ।
ननु फलं दत्वापि कर्म तिष्ठतु , तत्राह –
स्वफलविरोधीति ।
लोके तथो­प­ल­म्भा­दि­त्यर्थः ।
नन्वसति कर्मणि निमि­त्ता­भा­वा­त्क­था­म­व­रो­ह­ण­मत आह –
आचारादिति ।
चरणादिति चेदिति सूत्रभागः पूर्वपक्ष इत्यर्थः । आचारे चाग्नि­हो­त्रा­दि­व­न्ना­ब्बा­हु­ल्य­मिति पूर्वपक्षघटना ।
ननु यथाकारी यथा­चा­री­त्यु­प­क्रम्य साधु­का­री­त्यु­प­सं­हा­रात् कर­णा­च­र­ण­ये­रे­क­त्व­म­व­ग­म्य­तेऽत आह –
स्तां वेति ।
भवेतामित्यर्थः । कर्ता­र­म­नु­शे­तेऽ­नु­ग­च्छ­ती­त्या­र्था­नु­शयः । जातिर्जन्म । स्मृति­श्चो­प­न्यस्ता । वर्णाश्रमा इत्याद्या भाष्ये इत्यर्थः ।
दृष्ट्श्चायं प्रति­प्रा­णी­त्यादि भाष्यं व्याचष्टे –
अथ वेति ।
उपभोगवैचित्र्यं स्वर्गा­द­व­रो­ह­ता­मिति कथमवगम्यतेऽत आह –
कपूयचरणा इति ।
यावत्पदस्येति ।
वाक्यो­प­क्र­म­ग­त­स्ये­त्यर्थः ।
यत्किंचेति पदस्येति ।
श्रुत्य­न्त­र­ग­त­स्ये­त्यर्थः ।
याव­ज्जी­व­म­ग्नि­हो­त्र­मि­त्य­त्र­त्य­या­व­त्प­दस्य सायं­प्रा­तः­का­ला­व­च्छि­न्न­जी­व­न­वि­ष­य­त्वेऽस्ति प्रमाणमिति दृष्टान्ते विशेषं शङ्कते –
सायं­प्रा­तः­का­ल­वि­धा­नेति ।
ननु सायं जुहोति प्रातर्जुहोति इति अग्निहोत्रे विधीयतां कालः , स त्वङ्गत्वात् प्रधानासंकोचकः. तत्राह –
कालस्य चेति ।
कालस्य पुरु­षा­नि­ष्पा­द्य­त्वात् सिद्धत्वेन निमित्तत्वं , ततश्च नैमित्तिकस्य कर्मणः संकोच इत्यर्थः ।
तदुपपत्तेरिति ।
याव­त्सं­पा­त­मि­त्यादेः स्वर्गे तद­फ­ले­ष्टा­पू­र्त­वि­ष­य­त्वो­प­प­त्ते­रि­त्यर्थः ।
असं­जा­त­वि­रो­ध­स्यो­प­क्र­म­ग­त­या­व­च्छ­ब्दस्य संजा­त­वि­रो­धो­प­सं­हा­र­ग­त­र­म­णी­य­च­र­ण­श्रुत्या कथं संकोचः? इति शङ्कते –
तत्किमिति ।
स्वयमेव संकुचितार्था याव­च्छ्रु­ति­स्त­द­पे­क्षि­त­वि­षये उपसंहारेण नीयत इति परिहरति –
नेत्युच्यत इत्यादिना ।
रम­णी­य­च­र­ण­नि­मि­त्त­कोऽ­व­रोह इति वदन्त्या श्रुत्याऽ­र्था­त्त­दि­त­र­भु­क्त­फा­ल­का­र्म­वि­षया यावच्छ्रुतिरिति विषयो दत्त इत्यर्थः ।
यावत्संपातमिति ।
किं तद् भोक्तृकृतं कर्मोच्यते , कर्ममात्रं वा ।
नाद्य इत्याह –
यावन्त इति ।
न द्वितीय इत्याह –
यावतां वेति ।
प्रथमाभावे हेतुः - चिरेति द्वितीयाभावे हेतुः –
पुरुषान्तरेति ।
पूर्व­द­र्शि­ता­धि­क­र­ण­पू­र्व­प­क्षस्य तुच्छतामाह –
सकलेति ।
हेत्वभावे कार्यायोगात् कर्म­र­हि­ता­व­रो­ह­शङ्का न भवतीत्यर्थः ।
पित्रा­दि­क­र्म­च­र­णाभ्यां तदु­प­पा­द­ना­न्म­न्य­मा­नोक्तिः सिद्धा­न्त्यु­क्त­सि­द्धान्त एवैकदेशिनः पूर्वपक्ष इत्याह –
अनु­प­भु­क्त­क­र्म­व­शा­दिति ।
अस्मिन्मते सौत्र­दृ­ष्ट­श­ब्दा­र्थ­माह –
दृष्टा­नु­सा­रा­दिति ।
ननू­त्प­त्ति­क­र्म­शेषे तत्फलमपि स्वर्गे एव भोक्तव्यं , सम­स्त­ज्यो­ति­ष्टो­मादेः स्वर्गार्थत्वेन विधानादत आह –
न चावशेषेति ।
तिष्ठासन् स्थातुमिच्छन् भुवि शेषफलभोग इत्यर्थः । हस्तिनां समूहो हास्तिकम् । अश्वानां समूहोऽश्वीयम् ।
तन्मूला चेति ।
दृष्टन्यायमूला लौकिकी कालि­दा­सा­दि­स्मृ­ति­रि­त्यर्थः । वेदैर्गीतां सुकृतशकलैः स्वर्गीणां भूमिभागे भोगप्राप्तिं कथयति पुरीं वर्णयन् कालिदासः । स्वल्पीभूते सुचरितफले स्वर्गीणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्ति­म­त्ख­ण्ड­मे­कम् ॥ अथवा - ततः शेषेणेत्याद्यैव स्मृतिर्लौकिकी ।
अस्मिन्पक्षे तन्मूलेत्यस्य विवरणं –
लौकिकीति ।
लौकि­क­न्या­य­मू­ले­त्यर्थः ।शक्यते चास्याः स्मृते­र्वे­दोऽ­नु­मा­तुम् । गुडजिह्विका मधुरोक्तिः । नैव युक्त­मि­त्यु­क्ते­र्नै­ष्ठुर्यं स्यादिति ।
यत्तु स्वर्गसुखं भुवि भोक्तव्यमिति , तत्राह –
शब्दै­क­ग­म्येऽर्थे इति ।
भाण्डस्नेहवत् सामान्यतो दृष्टेन हि कर्मशेषोऽनुमितः , तस्य च भुवि भोगः कल्पितः , तत्सर्वं स्वर्गोद्देशेन यागविधिना विरुध्यते , भौमसुखस्य स्वर्ग­त्वा­यो­गा­दि­त्यर्थः । अत एव स्मार्तः शेषशब्दोऽपि न भुक्तकर्मणः शेषं वक्ति , किंतु कर्म­रा­शि­म­ध्येऽ­नु­प­भुक्तं कर्मान्तरमिति ।
कविरपि दिवः खण्डमिवेति पुरमुपमिमानो भुवि भोगमाह –
प्रायणेनेति ।
पूर्व­दे­हा­व­सा­न­का­ली­ने­ने­त्यर्थः ।
युगपदेव तत्फलानि भुज्येरन्निति ।
इदानीमित्यर्थः ।
ननु युग­प­द­भि­व्य­क्ता­न्यपि कर्माणि क्रमेण फलं ददतामत आह –
न चाभिव्यक्तमिति ।
ननु स्वर्गादिभुजः स्वर्गा­दि­भो­गा­न­न्तरं परकर्मभिः संसरन्तु नेत्याह – न चेति ॥८॥
निरनुशया एवेति ।
अग्नि­हो­त्रा­दि­क­र्मा­पू­र्व­र­हिता इत्यर्थः ॥९॥
आचारस्य यागादिवद् न प्रधानकर्मत्वेन पुरु­षा­र्थ­त्व­मि­त्याह –
स्नानादिवदिति ।
ज्योतिष्टोमे श्रूयते - ‘‘तीर्थे स्नाति तीर्थमिव हि सजातानां भवती’’ति । दर्श­पू­र्ण­मा­स­यो­र­प्या­म्ना­यते ‘‘जञ्ज­भ्य­मा­नोऽ­नु­ब्रू­या­न्मयि दक्षक्रतू इति प्राणा­पा­ना­वा­त्मनि धत्ते’’ इति । तत्र तीर्थस्नानं जृम्भा­नि­मि­त्त­म­न्त्रो­च्चा­रणं च किं प्रकृ­त­क्र­तु­धर्मः , उत शुद्ध­म­नु­ष्य­धर्मः , प्रकृ­त­क्र­तु­यु­क्त­म­नु­ष्य­धर्मो वेति संदेहे न ताव­त्प्र­कृ­त­क्र­तु­ध­र्म­त्वम् ; वाक्येन पुरु­ष­ध­र्म­त्व­प्र­तीतेः । प्रकरणाच्च वाक्यस्य बलवत्त्वात् । अत एव न प्रकृ­त­क्र­तु­यु­क्त­पु­रु­ष­ध­र्म­त्वम् ; दुर्बलस्य प्रक­र­ण­स्या­वि­शे­ष­क­त्वा­त्त­स्मा­च्छु­द्ध­पु­रु­ष­ध­र्मत्वे प्राप्ते राद्धान्तितं शेषलक्षणे । न तावदिदं पुरुषं प्रति फलाय प्रधानकर्मत्वेन विधीयते ; फल­क­ल्प­ना­प्र­स­ङ्गात् , वाक्य­शे­ष­नि­र्दि­ष्टस्य वर्त­मा­नो­प­दि­ष्ट­त्वेन फल­त्वा­न­भि­व्यक्तेः । गुणकर्म तु स्यात् । तच्च न पुरुषमात्रे विधातुं शक्यम् ; वैयर्थात् । अपूर्वसाधनांशे हि धर्मविधानम् अपू­र्व­सा­ध­न­त्व­ल­क्षणा च न प्रकरणादृते इति दुर्बलस्यापि प्रकरणस्य वाक्ये­ना­नु­ज्ञा­त­त्वात् प्रकृ­त­क्र­तु­यु­क्त­म­नु­ष्य­ध­र्म­त्व­मे­वेति । एवं यथा तीर्थस्नानादेः प्रक­र­ण­वा­क्याभ्यां क्रत्व­नु­ष्ठा­यि­पु­रु­ष­ध­र्मत्वं , तथाऽऽ­चा­र­स्या­प्या­चा­र­ही­न­मिति वाक्या­नु­मि­त­वि­धि­वा­क्याद् वेदा­र्था­नु­ष्ठा­तृ­पु­रु­ष­ध­र्म­त्व­मि­त्यर्थः । अजहल्लक्षणामाह – सर्वोऽनुशय इति ॥१०॥
यथाकारी यथाचारीति कर­णा­च­र­ण­भे­द­नि­र्देशो ब्राह्म­ण­प­रि­व्रा­ज­क­न्या­ये­नेति भाष्यो­क्त­म­यु­क्तम् ; ब्राह्मणत्वस्य याव­त्पि­ण्ड­भा­वि­त्वेन जातित्वेऽपि परिव्राजकत्वस्य गार्ह­स्थ्या­द्य­व­स्था­या­म­भा­वेन जातित्वाभावात् कर­ण­च­र­ण­त्व­यो­श्चा­दृ­ष्ट­त्वा­वा­न्त­र­जा­ति­त्वा­द्दृ­ष्टा­न्ता­स­ङ्ग­ना­दि­त्या­श­ङ्क्याह –
गोबलीवर्देति ।
परा­प­र­जा­ति­वि­ष­य­गो­ब­ली­व­र्द­न्या­येऽ­नु­वृ­त्त­व्या­वृ­त्त­वि­ष­य­त्व­सा­म्याद् ब्राह्म­ण­प­रि­व्रा­ज­क­शब्द उपचरित इत्यर्थः ॥११॥ तेषां कर्मिणां तददृष्टं यदा पर्यवैति परिगच्छति परिक्षीणं भवतितदा त आवर्तन्त इत्यु­त्त­र­वा­क्ये­ना­न्वयः ।
प्राप्येति ।
यत्किंचिदिह लोके यः संसारी कर्म करोति तस्यान्तं फलं परलोके प्राप्य तस्मा­ल्लो­का­त्पु­न­रस्मै लोकाय आ एति आगच्छति । पुनः शब्दा­त्पू­र्व­म­प्या­गत इति गम्य­तेऽ­ना­दि­त्वा­त्सं­सा­रस्य । किमर्थमागमनं? कर्मणे कर्मानुष्ठानाय । तत्र तेष्वनुशयिषु मध्ये इह लोके ये पूर्वं रमणीयाचरणवन्त आसन् , ते तदनुरूपां ब्राह्म­णा­दि­योनिं शरी­र­मा­प­द्ये­र­न्निति यत् तद् अभ्याशः क्षिप्रम् अव­श्य­मे­वे­त्यर्थः । योनिशब्दः स्थानवचनः । कपूयचरणाः कुत्सिताचरणाः । वर्णा वर्णिनः । आश्रमा आश्रमिणः । विशिष्टदेशादयो मेधान्ता येषां ते तथा । संसारे मज्जमानस्य जन्तोः कदाचित्सुकृतं सुष्ठ्व­भि­मा­न­पू­र्वकं कृतं यत्कर्म तद्यावद् दुःखा­त्सं­सा­रा­न्मु­च्यते तावत्कूटस्थमिव तिष्ठतीति योजना ॥११॥
इति द्वितीयं कृता­त्य­या­धि­क­र­णम् ॥

अनि­ष्टा­दि­का­रि­णा­मपि च श्रुतम् ॥१२॥ इष्टादिकारिणां प्रती­ते­रि­त्यु­क्तम् । तत्रे­ष्टा­दि­का­रि­त्व­वि­शे­ष­ण­वै­य­र्थ्या­मा­शङ्क्य परिह्रियते । प्रयोजनं त्वनि­ष्टा­दि­का­रिणां शुभमार्गेण गमनमात्रमपि नास्तीति प्रतिपादनेन वैराग्यजननम् ।
यत्किं­चि­द्या­व­च्छ­ब्द­यो­श्चि­र­भु­क्ता­दि­क­र्म­वि­ष­य­त्वा­दस्तु सङ्कोचः , ये के च सर्व­श­ब्दा­ना­म­र्थ­स­ङ्कोचे नास्ति हेतुरिति पूर्वपक्षमाह –
ये के चेति ।
हेतू­ना­मे­षा­म­नि­ष्टा­दि­का­रि­णा­मपि चन्द्रलोकगमने प्राप्त इति वक्ष्य­मा­ण­प्र­ति­ज्ञया संबन्धः ।
न केवलं समाम्नानम् , उप­प­त्ति­र­प्य­स्ती­त्याह –
देहारम्भस्य चेति ।
कुतोऽनुपपत्तिरत आह –
पञ्चम्यामिति ।
नन्वा­हु­ति­सं­ख्या­नि­यम इष्टादिकारिविषय एवास्तु , नेत्याह –
तथा हीति ।
द्युशब्देन दिवि हुता श्रद्धा लक्ष्यते । श्रद्धा सोमेत्यर्थः ।
पुरुषवचसो भवन्तीति ।
साधा­र­ण­पु­रु­ष­श्रु­तिर्न सङ्को­च­म­र्ह­ती­त्यर्थः ।
तर्हि यथो­पा­त्त­म­नु­ष्ये­ष्वेव सङ्कोच्यतां मनुष्यत्वं चेष्टा­दि­का­रि­णा­मे­वेति भ्रममपोहति –
न चैतदिति ।
दक्षि­णो­त्त­र­मा­र्ग­यो­रेव श्रुता­व­व­ग­मा­दु­त्त­रस्य च ज्ञानि­भि­रे­वा­व­रु­द्ध­त्वा­द­नि­ष्टा­दि­का­रिणां चन्द्र­प्रा­प्ति­रे­वे­त्याह –
गमनागमनाय चेति ।
द्वयोरेव मार्ग­यो­रा­म्ना­ना­दि­त्य­स्या­सि­द्धि­मा­श­ङ्क्याह –
जायस्वेति ।
स्थानत्वं भोगायतनत्वम् । ननु ‘‘वेत्थ यथाऽसौ लोको न संपूर्यते’’ इत्यस्य प्रश्नस्य ‘‘ जायस्व म्रियस्वे’’ त्येत­त्प्र­ति­व­च­नम् ।
अस्मिं­च­न्द्र­लो­का­सं­पू­र­ण­हे­तु­त्वे­नो­क्त­स्था­नस्य मार्गान्तरत्वं प्रतीयते , एकमार्गत्वे हि सर्वकर्मिणां चन्द्रलोको निबिडः स्यादित्यत आह –
चन्द्रलोकादिति ।
असंपूरणेन हि प्रति­व­च­नो­प­पत्तिः सा चन्द्र­लो­का­दा­ग­त्येह श्वादि­ज­न्म­प्रा­प्त्यापि स्यादित्यर्थः ।
ननु पापिनां चन्द्रलोकगमनेन तत्र भोगः स्यात्त­त­श्चा­कृ­ता­भ्या­ग­म­प्र­स­ञ्ज­न­मा­श­ङ्क्याह –
अनन्यमार्गतयेति ।
पूर्वं तृती­य­स्था­न­श­ब्दस्य मार्गपरत्वाभावः प्रतिपादितः ।
इदानीं न कतरेण च नेत्यस्य तृती­य­स्था­न­सू­च­कत्वं निराकरोति –
न कतरेण च नेतीति ।
एत­यो­र्दे­व­या­न­पि­तृ­या­णयोः कतरेण च न एकतरेणापि ये न गच्छन्ति तानि क्षुद्रभूतानि भवन्तीति निर्देशात् कीटा­दि­प्रा­प्ति­मा­र्ग­द्व­य­मु­त्थि­ता­ना­मि­त्ये­तन्न मन्तव्यम् , वाक्यस्य चन्द्र­लो­का­सं­पू­र­ण­प­र­त्वा­द­सं­पू­र­णस्य च चन्द्र­लो­का­दा­ग­तानां कीटा­दि­प्रा­प्त्या­प्यु­प­पत्तेः कतरेणापि नेति निषेधो निन्दार्थ इत्यर्थः ।
तृतीयं स्थानमित्यत्र स्थानशब्दो यद्यपि शरीरे व्युत्प­न्न­त्वान्न मार्गमाह ; तथापि मार्गमुपक्रम्य तृतीयत्वेन निर्दिश्यमानस्य स्वार्थस्य मार्गत्वं गम­य­त्य­वा­न्त­र­सं­ख्या­नि­वे­शस्य साजा­त्या­पे­क्ष­त्वा­दिति सिद्धान्तयति –
सत्यमित्यादिना ।
असौ लोको न संपूर्यते इत्युदाहर्तव्ये न्यायसाम्यादसौ मार्ग इत्युक्तम् । तत्प्रतिपक्षं तस्य मार्गद्वयस्य प्रति­द्व­न्दी­भूतं मार्गमेवाचक्षीत न शरीरमित्यर्थः । यदि पितृ­या­णे­नै­व­गत्वा आगत्य च प्राप्तस्य क्षुद्र­ज­न्तु­दे­ह­ग्र­ह­णस्य तृतीयस्थानत्वं निर्दिश्येत , न तु मार्गान्तरस्य , तर्हि ‘‘तद्य इह रमणीयचरणा’’ इत्यत्रापि प्राप्य­मा­ण­शु­भा­शु­भ­श­री­रस्य तृती­य­त्व­नि­र्देशः स्यान्न चास्ति ।
तस्मा­त्तृ­ती­य­स्था­न­शब्दो मार्गवाचीत्याह –
न हीष्टादिकारिण इत्यादिना ।
ननु ये वै के चास्मा­ल्लो­का­त्प्र­यन्ति चन्द्रमसमेव सर्वे गच्छन्तीति सर्वेषां चन्द्र­ग­म­न­भु­क्त­मिति , सत्यम् ; तत्सामान्यवचनं तृती­य­मा­र्ग­वि­ष­य­वि­शे­ष­व­च­नेन सङ्को­च­नी­य­मि­त्याह –
तस्माद्ये वै के चेति ।
यदुक्तमाहुतावाप इत्या­हु­ति­सं­ख्या­नि­य­मात् सर्वेषां स्वर्गगमनमिति , तत्राह –
स्वार्थ­वि­धा­न­प­र­मिति ।
भास्करेण सुकृतिना दुष्कृतिभिः समा­न­फ­ल­भा­क्त्व­म­यु­क्त­मि­त्या­श­ङ्क्यायां तन्निरसनेन पूर्व­प­क्षो­प­पा­द­क­तया सयमने त्वित्या­दि­सू­त्राणि नीतानि । न भोगश्चन्द्रलोके दुष्कृतिनां , किंतु तद्द्वारा नरकं प्राप्या­व­रो­हा­दिति विद्या­क­र्म­णो­रिति सूत्रादारभ्य सिद्धान्तो दर्शितः ।
तद्दूषयति –
अवरोहापादनतयेति ।
संयमने त्वनुभूयावरोह इत्युक्ते संयमनस्य श्रुत­स्या­व­रो­हा­पा­दा­नता शीघ्रमवगम्यते । तुशब्देन च चन्द्रापादानता वार्यते । परस्य तु भोग­वै­ष­म्य­म­र्था­द्ग­म्येत , चन्द्र­म­ण्ड­ला­द­व­रोह इति चाध्या­हा­रा­पेक्षा स्यादित्यर्थः ॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥
न सांपराय इति ।
सम्य­ग­व­श्य­म्भा­वेन परा पर­स्ता­द्दे­ह­पा­ताद् ईयते गम्यत इति संपरायः पर­लो­क­स्त­त्प्रा­प्त्यर्थः साधनविशेषः सांपरायः । तं बालमविवेकिनं विशेषतो वित्तनिमित्तेन मोहेन मूढं छन्नदृष्टिमत एव प्रमादं कुर्वन्तं प्रति न भाति ; स न केवलमज्ञ एव , किं तु विपरीतदर्श्यपि , यतोऽयमेव लोकः स्त्र्यन्न­पा­ना­दि­रस्ति न पर इति मानीमननशीलः । अत­स्त­द­नु­रू­प­मा­च­र­न्पु­नः­पु­न­र्ज­न­न­म­र­ण­प्रा­प्त्या­मेव समापद्यत इति मृत्यो­र्न­चि­के­तसं प्रति वचनम् । वैवस्वतं जनाना परलोकगताना संगमनं संगम्यं हविषा प्रीणयतेति । जीवजं जरायुजम् । अण्डजं हि किंचि­द्वृ­श्चि­कादि मातुरुदरं निर्भिद्य मृताज्जायते । उद्भिज्जं च किंचि­द्वृ­क्षा­द्य­चे­तनं पृथि­व्या­द्यु­द्भिद्य जायते । जरायुजं तु जीवतो जायत इति ॥
इति तृतीयं अनि­ष्टा­दि­का­र्य­धि­क­र­णम् ॥२१॥

साभा­व्या­प­त्ति­रु­प­पत्तेः ॥२२॥
अत्राकाशं वायुमिति कर्म­त्व­नि­र्दे­शा­द्धूमो भवतीत्यादि भवति श्रुतेश्च संशयः , तदाह –
यद्यपीति ।
युक्तं मार्ग प्रक्रम्य तृती­य­त्व­नि­र्दे­शा­त्स्था­न­श­ब्दस्य मार्ग­ल­क्ष­णा­र्थ­त्वम् ; न तु भवतिश्रुतेः सादृ­श्य­ल­क्ष­णा­र्थ­त्वेऽस्ति निमित्तमिति संगतिः ।
वायुमिति कर्मत्वेन निर्दिष्टस्य वायुर्भूत्वेति तादा­त्म्य­व­त्त्वेन परा­म­र्श­क­वा­क्य­शे­षा­न्नि­र्ण­येन पूर्वपक्षमाह –
वायु­र्भू­त्वे­त्या­दे­रिति ।
वाक्य­शे­ष­स्या­सं­भ­व­द­र्थ­त्व­मा­श­ङ्क्याह –
न चान्यस्येति ।
नन्दिकेश्वरो हि रुद्रमाराध्य मानुषशरीरेणैव देवदेहत्वेन परिणनाम । नहु­षोऽ­पी­न्द्रत्वं गतोऽ­ग­स्त्य­शा­पा­द­ज­ग­रत्वं जगाम । एवं हि श्रुतिर्भवति । इतरथा लक्षणा स्यादिति भाष्यं तदनुपपन्नं भवति ।
श्रुतेर्हि सादृ­श्या­ल­म्ब­नत्वे माणवके इव वह्निश्रुतेः गौणतास्यान्न लक्ष­णे­त्या­श­ङ्क्याह –
गौण्यामिति ।
गौण्यामपि गुणस्य लक्षणाऽस्ति , लक्षणायां त्वभि­धे­य­सं­ब­न्धात् प्रवर्तमानायां संब­न्धि­व­स्त्व­न्त­र­प­र­त्वम् , न संबन्धपरत्वम् , गुणात् प्रवर्तमानायां तु गौण्यां वृत्तौ गुणपरत्वं न गुण­यु­क्त­व­स्तु­प­र­त्व­मिति विवेकः । स्वाभा­व्या­प­त्ति­रिति पाठे स्वसमो भावो येषां ते स्वभावास्तेषां भावः ।
स्वाभाव्यमिति समपदाध्याहारः स्यादतः साभा­व्या­प­त्ति­रिति युक्तः पाठस्तं व्याचष्टे –
समान इति ।
चन्द्रलोके उषित्वाऽथ तत्र प्रवृ­त्त­फ­ल­क­र्म­क्ष­या­न­न्त­र­मे­त­मेव वक्ष्यमाणं पन्थानं पुनर्निवर्तन्ते , पुनः शब्द­प्र­यो­गा­द­नादौ संसारे पूर्वमपि चन्द्रमण्डलं गता निवृत्ताश्चेति गम्यते । कोऽसावध्वा यं प्रति निवर्तन्त इति , उच्यते – यथेतम् । यथागतम् । मासेभ्यः पितृलोकं पितृ­लो­का­दा­का­श­मा­का­शा­च्च­न्द्र­मिति गमनक्रमः । आग­म­नेऽ­प्या­का­श­नि­र्दे­शाद् यथेतमिति प्रतीयते । आगमने पितृ­लो­का­द्य­सं­की­र्त­ना­द­भ्रा­दि­सं­की­र्त­ना­च्चा­ने­व­म­पीति गम्यतेऽतो यथेतमिति उपलक्षणम् । आकाशं प्रतिपद्यते , या आप­श्च­न्द्र­म­ण्डले शरी­र­मा­र­ब्ध­व­न्त्यस्ताः कर्मक्षये द्रुता आकाशगता आकाशसदृशा भवन्ति । तदुपहिता अनु­श­यि­नोऽ­प्या­का­श­स­माना भवन्ति । आपो वायुना इतश्चामुतश्च नीयमाना वायुसमा भवन्ति । अनुशय्यपि तादृशो भवति । तदनन्तरं गमनकाले यो धूम आसीत् तत्तुल्यो भवति । ततः अपां भरणात् संभृतोदकमभ्रं तद् भवति । ततो जलसेचनान्मेधो वर्षणकर्ता संभवति । तद्भावं तत्सा­दृ­श्य­मा­पद्य प्रवर्षति । वर्ष­धा­रा­भि­र­नु­शयी पृथिवीमापद्यत इत्यर्थः ॥२२॥
इति चतुर्थं साभा­व्या­प­त्त्य­धि­क­र­णम् ।

नातिचरेण विशेषात् ॥२३॥ आका­शा­दि­सा­दृ­श्य­चि­रा­चि­र­त्व­वि­चा­र­णा­त्सं­गतिः ।
स्यादेतत् - अतो वै खलु दुर्नि­ष्प्र­प­त­त­र­मिति दुरुपसर्गतरप् प्रत्ययाभ्यां व्रीह्या­दि­प्रा­प्ति­नि­र्ग­म­न­स्यैव विल­म्बि­त­त्व­प्र­ती­त्य­न्य­था­नु­प­प­त्त्याऽऽ­का­शा­दे­र्वे­गा­न्नि­ष्क्र­मणं प्रतीयते , ततः कथं तत्रापि चिरावस्थानेन पूर्वपक्षोऽत आह –
दुर्नि­ष्प्र­प­त­र­मिति ।
दुःशब्दो ह्येकदेशलक्षणया दुःखं वक्ति , न तुव्यवधानात् विलम्बमित्यर्थः । उत्त­रा­धि­क­र­णेऽ­नु­श­यिनां दुःख­नि­षे­धा­न्म­न्यते इत्युक्तम् ।
एतदेव विवृण्वन् सिद्धान्तयति –
विनेति ।
न चैवमस्यानारम्भः ; अनु­श­यि­ना­मा­का­शा­दि­प्र­व­र्ष­णा­न्त­सा­दृश्यं चिरभावि अनु­श­यि­सा­दृ­श्य­रू­प­त्वाद् ब्रीह्या­दि­सा­दृ­श्य­व­दि­त्य­नु­मा­नस्य प्रागु­क्त­श्रु­ता­र्था­पत्त्या बाधा­र्थ­म­धि­क­र­णा­न्त­रा­र­म्भो­प­प­त्ते­रिति ॥२३॥
इति पञ्चमं नातिचिराधिकरणम् ॥

अन्याधिष्ठिते पूर्ववदभिलापात् ॥२४॥ अत्र जायन्त इति श्रुतेः कर्म­पू­र्व­क­त्वा­श्रु­तेश्च संशयो भवति ।
श्रुते­रु­प­च­रि­ता­र्थ­त्व­स्यो­क्त­त्वात् पुन­रु­क्ति­मा­श­ङ्क्याह –
आकाशसारूप्यमिति ।
सर्व­ग­ता­का­श­सं­यो­ग­स्या­सा­ध्य­त्वा­त्सा­दृश्यं तेनो­क्त­मि­त्यर्थः । अन्य­स्या­न्य­था­भा­वा­नु­प­प­त्तेर्हि तत्रोपचार उक्तः , अत्र तु जायते इति शब्दस्य देहग्रहणे रूढ­त्वा­त्त­दा­श­ङ्क्यते , तच्चा­वि­रु­द्ध­मिति न गौण­त्वा­व­ह­मि­त्यर्थः । अस्मिन्प्रकरणे यन्मुख्यं जन्म तत्कर्मसाध्यं श्रुतं , यथा रमणीयचरणा इत्यादि ।
अत्र तु व्याप­क­क­र्म­ज­त्व­श्रु­ति­व्या­वृत्त्या तद्व्या­प्य­मु­ख्य­त्व­व्या­वृ­त्ति­मा­शङ्क्य हेत्वसिद्धिमाह –
न च रमणीयेत्यादिना ।
शरीरभावः शरीरत्वं तस्या­भा­वा­दि­त्यर्थः ।
नन्वि­ष्टा­दे­र्वि­हि­त­त्वात् पुण्यस्य कथं स्थाव­र­श­री­र­प्रा­प्ति­हे­तुता? अत आह –
इष्टादेश्चेति ।
विहितत्वेऽपि तद्ग­त­प­शु­हिं­सो­च्छि­ष्ट­सो­म­भ­क्षा­दे­र्नि­षि­द्ध­त्वाद् दुःख­हे­तु­ते­त्यर्थः । सामा­न्य­वि­ष­य­नि­षे­ध­शा­स्त्रस्य विशेषशास्त्रेण बाधनं स्यात् , कुतः ? तस्य ततो दुर्ब­ल­त्वा­दि­त्ये­तन्न च सांप्रतमिति योजना ।
सामा­न्य­शा­स्त्रस्य दौर्बल्ये हेतुः –
सामा­न्य­द्वा­रे­णेति ।
विशे­ष­शा­स्त्र­प्रा­बल्ये हेतुः –
साक्षादिति ।
ननु क्रतु­प्र­क­र­ण­स्थ­हिं­सा­वि­धे­र्हिं­सा­ग­त­क्र­तु­शे­षत्वं विषयः , हिंसानिषेधस्य तद्ग­ता­न­र्थ­फ­लत्वं गोचर इति विष­य­भे­दा­द्वि­धि­नि­षे­ध­यो­र­वि­रो­ध­श्चे­त्तर्हि क्रतुमध्ये निषि­द्ध­हिं­सा­नु­ष्ठाने क्रतुवैगुण्यं स्यादि­त्या­श­ङ्क्याह –
यथाहुरिति ।
कल­ञ्ज­भ­क्ष­णा­दि­नि­षे­धानां पुरु­षा­र्थ­त्वा­त्त­द­ति­क्रमे पुरुषस्यैव प्रत्यवायो न क्रतो­र्वै­गु­ण्यम् । यथाविहितस्य तस्य सिद्धेः ।न हि क्रतुशेषः प्रतिषेधो यत­स्त­द­ति­ल­ङ्घ­ना­त्क्र­तु­वै­गुण्यं स्यादिति भट्टोक्तेरर्थः ।
एवं हि विहिताया अपि हिंसाया दुःखफलत्वं , यदि विधि­नि­षे­ध­यो­रे­क­वि­ष­यत्वं , तदेव नास्तीत्याह –
पुरुषार्थाया एवेति ।
क्रत्वर्थो हि प्रतिषेधः क्रत्वार्था हिंसा प्रतिषेधेत् ।
तत्र यद्ययं न हिंस्यादिति निषेधः क्रत्वार्थां हिंसा प्रतिषेधेत् , तर्ह्येव क्रत्वर्थः स्यात्तच्च नास्तीति वदिष्यन् निषे­ध्य­नि­षे­ध­यो­रे­का­र्थ­ता­माह –
तथा हीति ।
यो हि यदर्थं प्रवृत्तो यस्माद्विषयाद् निवार्यते तन्निषेधोऽपि तदर्थ इत्यर्थः ।
तर्हि क्रत्व­र्थ­हिं­सा­प्र­ति­यो­गि­कोऽयं प्रतिषेधोऽत एव क्रत्व­र्थ­श्चे­त्या­श­ङ्क्याह –
न चैतदिति ।
येन प्रक­र­णा­म्ना­त­त्वे­ना­नृ­त­व­द­नस्य क्रत्वर्थत्वेन तन्निषेधोऽपि क्रत्वर्थः स्याद् , येन च तेनैव प्रक­र­णा­म्ना­त­त्वेन पशौ निषि­द्ध­यो­रा­ज्य­भा­गयोः क्रत्व­र्थ­त्वा­त्त­न्नि­षे­ध­स्यापि क्रत्वर्थत्वं भवेत् , तेन प्रकारेण न हिंस्या­दि­त्ये­तत् कस्यचित्प्रकरणे न समा­म्ना­त­मि­त्यर्थः ।
नन्वाज्यभागौ भवेतां क्रत्वर्थौ , निषे­ध­स्त्व­भा­वार्थः कथं क्रत्वर्थः स्यादत आह –
एवं हि सतीति ।
पशु­या­गेऽ­ति­दे­श­प्रा­प्ता­ज्य­भा­ग­नि­षेधे सति तद्व­र्ज­न­यु­क्ता­ङ्गा­न्त­रै­र्भा­वा­र्थ­रू­पै­रा­ज्य­भा­ग­साध्य उपकारो जन्यते न केव­ल­नि­षे­ध­मा­त्रात् । अतश्च विकल्प आज्यभागतदभावयोः । फल­भू­मा­र्थि­न­स्त्व­नु­ष्ठा­नम् । प्राभाकरास्तु पर्यु­दा­स­मे­त­माहुः । अत्र च पशुप्रकरण एवै­त­द्वा­क्य­म­स्तीति कृत्वा प्रति­षे­ध­त्व­म­स्यो­क्तम् । गुणोपसंहारे तु हानौ तूपा­य­ने­त्य­धि­क­रणे(ब्र.अ.३.पा.३.सू.२६) दर्श­पू­र्ण­मा­स­प्र­क­र­ण­प­ठि­तस्य न तौ पशावित्यस्य पाशु­क­प्र­क­र­णा­भ्यु­प­ग­तै­त­द्वा­क्य­सि­द्धा­र्था­नु­वा­दि­त्वे­ना­र्थ­वा­दत्वं वक्ष्यतीति न विरोध इति ।
अनृतवदननिषेधस्य क्रत्व­र्थ­त्वेऽ­धि­क­र­ण­म­नु­क्र­म्यते –
दर्श­पू­र्ण­मा­स­यो­रा­म्ना­यते नानृतं वदेदिति ।
तत्रायं निषेधः क्रत्वर्थः पुरुषार्थो वेति संशयः , तदर्थं प्रतिषेध्या प्रवृत्तिः किमर्थेति च चिन्त्यते । यो हि यदर्थं प्रव्रृत्तः सन्निवार्यते स तदर्थमेव च निवार्यते । प्रवृ­त्ति­कै­म­र्थ्य­नि­र्ण­याय च आख्यातेन कर्ताऽभिधीयते न वेति च विचार्यते । अभिहिते हि कर्तरि तस्य प्रत्ययेन प्राधा­न्ये­ना­भि­हि­त­त्वात् प्रवृत्तेः प्रयो­ज­ना­का­ङ्क्षा­वे­लायां श्रुति­स­न्नि­धा­पि­त­क­र्त्र­पे­क्षि­तो­पा­यत्वं प्रक­र­ण­बा­ध­याऽ­व­ग­म्येत , अनिभिहिते तु बाध­क­श्रु­त्य­भा­वा­द­र्थाच्च कर्तुः प्रवृत्ति प्रति गुण­त्वे­नै­वा­व­गतेः प्रकरणेन प्रवृत्तेः क्रत्व­र्थ­ताऽ­व­धा­र्यते । तत्र पचति देवदत्त इत्या­द्या­ख्यातैः कर्त्रवगमाद् लः कर्मणि चेति सूत्रगतचकारेण कर्तर्यपि लकारविधानाद् लकारादेशानां च तिवादीनां स्थानिवद्भावेन कर्तृ­वा­च­क­त्वा­दा­ख्या­ता­भि­धेयः कर्तेति प्रापय्य राद्धान्तितं शेषलक्षणे । क्रत्वर्थोऽयं प्रतिषेधः , आख्यातेन कर्तुरनभिधानात् । या त्वाख्या­ता­त्क­र्तृ­प्र­तीतिः सा आख्या­ता­भि­हि­त­भा­व­नया कर्तु­रु­प­स्था­प­ना­द­न्य­था­सिद्धा । सूत्रं त्वभि­धे­य­त्व­द्यो­त्य­त्व­यो­रु­दा­सी­नम् । अपि च लः कर्मणीत्यभिधाय द्व्येकयोरिति सूत्रेण द्वित्वै­क­त्व­यो­र­र्थ­यो­र्द्वि­व­च­नै­क­व­च­न­वि­धा­नात् कर्तृ­सं­ख्यै­वा­ख्या­त­वाच्या न कर्ता । संख्ये­य­क­र्तृ­वि­व­क्षायां हि द्व्येकेष्विति स्याद् ; द्वयोरेकस्य च कर्तॄणां बहुत्वात् । आख्यातेन कर्तु­रा­न­भि­धा­नेऽ­न­भि­हि­ता­धि­का­र­वि­हि­त­तृ­ती­या­पत्तेः पचति देवदत्तेनेति प्रयोगप्रसङ्गः । गम्यमानकर्तुः संख्याया अनेनाभिधाने कर­णा­दि­सं­ख्या­ना­म­प्या­ख्या­ते­ना­भि­धा­न­प्र­सङ्गः । पच्यत इत्यत्रापि कर्तु­र्ग­म्य­मा­न­त्वा­त्त­त्सं­ख्या­भि­धा­ना­पात इति चेद् , न , अनभिहितस्यापि कर्तु­रि­त­र­का­र­का­पे­क्षया प्रधा­न­त्वा­द्भा­व­ना­याश्च तद्व्या­पा­र­त्वा­दा­ख्या­तेन प्राधान्येन द्योत­ना­द­न­भि­हि­ता­धि­का­रस्य च प्राधान्येन द्योति­त­त्वा­भि­प्रा­य­त्वात् , करणादीनां पच­ती­त्या­द्या­ख्यात्तैः प्राधान्येन ध्वनि­त­त्वा­भा­वात् , पच्यत इत्यादौ च कर्मप्राधान्येन कर्तृ­प्रा­धा­न्य­स्या­द्यो­त­नात् । तस्मादाख्यातेन कर्तु­र­न­भि­धा­ना­त्सि­द्ध­म­नृ­त­व­द­न­प्र­ति­षे­धस्य क्रत्व­र्थ­त्व­मिति ॥
ननु मा भूत् प्रक­र­णा­ना­म्ना­नान्न हिंस्यादिति निषेधस्य क्रत्वर्थता , पुरुषार्थत्वं तु कथमवगम्यते? न हीह पुरु­ष­स्त­द­र्थो­व­ग­म्यत इति तत्र पुरु­षा­र्थ­प्र­ती­ति­मु­प­पा­द­यति –
तस्मा­द­ना­र­भ्या­धी­ते­नेति ।
न हिंस्या­दि­त्य­ने­नेति नञ् व्यति­रि­क्तो­पा­दानं विवक्षितम् । अत्र वाक्ये हिंस्यादिति भागेनाभिहितस्य पुरुषव्यापारस्य पुरुषार्थ एव भाव्य इत्यन्वयः ।
ननु हिंसैव भाव्या किं न स्यादत आह –
विध्यु­प­हि­त­स्येति ।
श्रेयः­सा­ध­न­त्व­वि­ध्य­व­च्छि­न्न­त्वा­दि­त्यर्थः ।
न केवलमर्थविरोधो धात्व­र्थ­भा­व्यत्वे , अपि तु शब्द­वि­रो­ध­श्चे­त्याह –
विधिविभक्तीति ।
हिंसैव कर्मक्रिया तद्भा­व्य­त्व­प­रि­त्या­गे­ने­त्यर्थः ।
पुरु­ष­प्र­ती­ति­मु­प­पा­द­यति –
आख्या­ता­न­भि­हि­त­स्या­पीति ।
कर्त्रधिकरणे तु अन­भि­हि­त­पु­रु­ष­स्या­प्रा­धा­न्येन निषेधस्य प्रकरणवशात् क्रत्व­र्थ­मु­क्तम् , इह तु प्रक­र­णा­भा­वा­दा­र्थि­क­क­र्तृ­शे­ष­त्व­म­वि­रुद्धं निषेधस्य । एतच्च प्राचीनग्रन्थे अना­र­भ्या­धी­ते­नेति पदेन द्योतितम् ।
ननु हिंस्यादिति विध्यंशेन यदि हिंसा­श्रे­यः­सा­ध­न­म­व­गता , कथं तर्हि निषेधावकाशः? इत्या­श­ङ्क्या­नु­वा­द­त्व­माह –
केवलमिति ।
स्यादेतत् - हिंस्यादिति क्रतु­पु­रु­षा­र्थ­सा­धा­रणी हिंसाऽनूद्य निषिध्यतां , तथा चोभयार्थत्वं निषेधस्य वाक्ये­ना­व­ग­म्य­ता­मिति , नेत्याह –
क्रत्वर्थस्यापि चेति ।
हिंसाविषयस्य निषेधस्य राग­प्रा­प्त­हिं­सा­वि­ष­य­त्वेन चरि­ता­र्थ­त्वेऽ­धि­का­रा­न्त­रा­नु­प्र­वि­ष्ट­क्र­तु­शे­ष­हिं­सा­नु­वा­द­त­न्नि­षे­ध­वि­ष­य­त्व­क­ल्प­नायां गौरवं स्यादित्यर्थः ।
उभयनिषेधे च वाक्यभेदः स्यादित्याह –
न च स्वातन्त्र्येति ।
क्रत्व­र्थ­नि­षे­धत्वे हि क्रत्वर्थत्वात् पारतन्त्र्यं स्यात् , पुरु­षा­र्थ­नि­षे­धत्वे पुरु­षा­र्थ­त्वा­त्स्वा­त­न्त्र्यम् । तच्च वाक्यद्वयेन संबन्धद्वयबोधने भवेद् , न त्विहेत्यर्थः ।
विधि­नि­षे­ध­यो­र्वि­ष­य­भे­द­मु­क्त­मु­प­सं­ह­रति –
तस्मादिति ।
यदा च निषेधस्य राग­प्रा­प्ता­र्थता , तदा इष्टादिकर्मणः पुण्य­मा­त्र­रू­प­त्वा­द्व्री­ह्या­दि­भा­वस्य कर्म­ज­न्य­त्वा­सं­की­र्त­न­रूपो हेतुः सिद्ध इत्याह –
आकाशादिष्विवेति ।
अत्र भाष्यकारैर्न हिंस्या­दि­त्यु­त्सर्गः , अग्नी­षो­मी­य­मा­ल­भे­ते­त्य­प­वाद इत्युक्तम् , तदयुक्तम् ; विशे­ष­वि­धि­वि­हि­त­स्या­र्थस्य सामान्यविधिनापि विषयीकारे ह्युत्स­र्गा­प­वा­द­न्यायः । यथाऽऽहवनीये जुहोति पदे जुहोतीति होम­मा­त्र­स्या­ह­व­नी­या­न्व­य­वि­धिना पदहोमस्यापि विषयीकारे पद­हो­मा­न्व­य­वि­शे­ष­वि­धिना बाधा­त्त­दि­त­र­प­रत्वं सामा­न्य­शा­स्त्रस्य ।
अत्र तु वर्णितेनन्यायेन निषे­ध­स्यो­त्प­त्ति­स­मय एव पुरु­षा­र्थ­हिं­सा­वि­ष­य­त्वान्न क्रत्व­र्थ­हिं­सा­नु­प्र­वेश इत्याशङ्क्याह –
अयमेवार्थ इति ।
एकस्य निषेधविधैः स्वविषयस्य क्रत्वर्थत्वेन पुरुषार्थत्वेन च विनियोगे विरोधात् सामान्यविषयत्वे च पुरु­षा­र्थ­हिं­सासु सावकाशस्य न क्रत्व­र्थ­हिं­सा­नि­षे­ध­वि­ष­यत्वं तदा ह्यधि­का­रा­न्त­रा­नु­प्र­वे­शि­त्वेन सापेक्षत्वं स्यादिति यो विषयनिष्कर्षः कृतोऽ­य­मे­वा­वि­शे­ष­प्र­वृ­त्त­त्वे­ना­व­भा­स­मा­न­शा­स्त्रस्य विशे­ष­त्या­ज­न­ल­क्ष­ण­गु­ण­सा­म्या­दु­त्स­र्गा­प­वाद इत्युक्त इत्यर्थः । अवहन्तिना फली­कृ­ते­षु=क­ण्डि­तेषु । तेऽनुशयिन इह लोके व्रीहियवा इत्येवंरूपेण जायन्ते । यो यो ह्युनुशयिभिः संश्लि­ष्ट­म­न्न­मत्ति स एव च यो रेतः सिञ्चति स्त्रिया­मृ­तु­काले तद्भूय एव तद्भाव एव तत्स­मा­ना­का­र­ता­मि­त्यर्थः । भवति प्रतिपद्यते अनुशयी । तथा च मनु­ष्या­न्म­नुष्यो जायते पश्वादेश्च पश्वादिरिति ॥२४॥२५॥२६॥२७॥
इति षष्ठं अन्या­धि­ष्ठि­ता­धि­क­र­णम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­प­र­म­हं­स­प­रि­व्रा­ज­क­भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ तृती­य­स्या­ध्या­यस्य प्रथमः पादः ॥

संध्ये सृष्टिराह हि ॥१॥ कर्मफलस्य यातायातरूपत्वेन पूर्वं वैराग्यं निरूपितम् । इदानीं विरक्तस्य तत्त्व­प­दा­र्थ­वि­वे­कार्थं द्वितीयः पाद आरभ्यते । तत्रापि न स्थानतोऽपी (ब्र.अ.३.पा.सू.११) त्यतः प्राक् त्वंपदार्थो विवेचितः , तत आरभ्य तत्पदार्थः । आद्याधिकरणस्य तात्पर्यमाह –
तस्यैवेति ।
यस्य पूर्वस्मिन्पादे जाग्र­द­व­स्था­या­मि­ह­लो­क­प­र­लो­क­सं­चार उक्तः तस्यैवेत्यर्थः ।
प्रयोजनमाह –
स्वयं­ज्यो­ति­ष्ठ्वेति ।
जाग्रदवस्थायां ह्यादि­त्या­दि­सं­क­राद् दुर्वि­वे­क­मा­त्मनः स्वयं­ज्यो­तिष्ठ्वं , तत्र यदि स्वप्नोऽपि सत्यः स्यात् तदवस्थं दुर्वि­वे­क­त्व­मिति तन्मि­थ्या­त्वा­मु­च्यते । मनस्तु स्वप्ने सदपि दृश्य­त्वा­न्ना­त्म­भा­स­कम् ।आदित्यादीनां दृश्य­त्वा­वि­शे­षेऽपि स्वरूपतोऽपि व्यति­रे­क­स­म­र्थ­ना­र्थ­म­र्थ­वती मिथ्यात्वचिन्ता । आरम्भणाधिकरणे (ब्र.अ.२.पा.१.सू.१४) सम­स्त­भे­द­मि­थ्या­त्वो­प­पा­द­ना­द­जा­मि­त्वाय प्रपञ्चयते इत्युक्तिः ।
रथा­दि­स­र्गा­म्ना­ना­द्र­था­द्य­भा­वा­म्ना­नाच्च संशयमाह –
किमिति ।
सर्व­वि­का­र­मि­थ्या­त्व­स्या­ध­स्ता­त्सा­ध­नाद् न पूर्वपक्षिणो दृष्टा­न्त­सि­द्धि­रि­त्या­श­ङ्क्याह –
यद्यपीति ।
स्वप्नस्य व्याव­हा­रि­क­त्व­मस्ति न वेति चिन्त्यत इत्यर्थः । अनेन प्रपञ्च्यत इत्येतद्विवृतम् ।
द्वयो­र्लो­क­स्था­नयोः संधौ भवतीति संध्यमिति भाष्यं न युक्तं , स्वप्नस्येहैव लोकेऽ­नु­भ­वा­दि­त्या­श­ङ्क्याह –
ऐहलौकिकेति ।
यथा लोके ग्रामसंधिर्द्वौ ग्रामौ भजते , एवं स्वप्न उभौ लोकौ लक्षणतः स्पृशति , तत्र पर­लो­क­स्यै­त­ल्लो­क­व­र्ति­च­क्षु­रा­द्य­ज­न्य­रू­पा­दि­सा­क्षा­त्का­र­वत्त्वं व्यापा­र­वि­र­हा­च्चे­द­नै­ह­लौ­कि­कत्वं स्वप्नस्य , तर्ह्यै­ह­लौ­कि­क­सु­षु­प्ते­र­प्य­नै­ह­लौ­कि­कत्वं स्यादत आह –
रूपा­दि­सा­क्षा­त्का­रो­प­ज­न­ना­दिति ।
चक्षुरादिशब्दो गोलकाभिप्रायः ; करणानां लोक­द्व­येऽ­प्य­वि­शे­षात् ।
स्वप्नस्य पर­लो­क­ल­क्ष­ण­व­त्त्व­मुक्त्वा इह­लो­क­ल­क्ष­ण­व­त्त्व­माह –
पारलौकिकेति ।
अत्रापि पार­लौ­कि­क­सु­षु­प्ते­र­पा­र­लौ­कि­क­त्व­व्या­वृ­त्तये न च न रूपादीत्युक्तम् ।
संध्ये स्थाने तथ्यरूपैव सृष्टि­र्भ­वि­तु­म­र्ह­तीति भाष्यमयुक्तम् ; आरम्भणाधिकरणादौ सर्व­का­र्य­मि­थ्या­त्व­स­म­र्थ­ना­दत आह –
ब्रह्मा­त्म­भा­व­सा­क्षा­त्का­रा­दिति ।
स्वप्नसत्यत्वं वक्तुं न शक्यते इदं­र­ज­ता­दि­बो­धे­ष्विव बाध­वि­रो­धा­दि­त्या­श­ङ्क्याह –
अयमभिसंधिरिति ।
ज्ञानं सर्वं यथार्थमिति पूर्वपक्ष इत्यर्थः ।
तर्हि स्वप्नो­दा­ह­र­ण­म­युक्तं सर्वभ्रमेषु विप्र­ति­प­त्ते­र­वि­शे­षा­दत आह –
प्रकृ­तो­प­यो­गि­त­येति ।
स्वप्र­का­शि­त्व­श्रुतौ प्रकृतमात्रायं पुरुषः स्वयं­ज्यो­ति­र्भ­व­तीति ।
बाध­क­त्वा­सि­द्धि­मु­प­पा­द­यितुं परा­भि­म­त­बा­ध­क­त्व­रू­प­म­नु­व­दति –
समानगोचरे इति ।
समा­न­गो­च­र­वि­रु­द्धा­र्थ­ज्ञा­न­यो­रपि सत्प्र­ति­प­क्ष­यो­रिव न बाध्य­बा­ध­क­त्व­मि­त्यत उक्तं –
बलवदबलवत्त्वेति ।
तत्र ताव­दि­दं­र­ज­ता­दि­ज्ञा­नानां नेदं­र­ज­ता­दि­ज्ञा­नानां च विरोधाभावमाह – नापि पूर्वो­त्त­र­यो­र्ब­ल­व­द­ब­ल­व­त्त्व­नि­श्चय इत्यतः प्राक्तनेन ग्रन्थेन ।
नीलोत्पले रात्रौ रक्तत्वभ्रमो भवति तमुपपादयति –
एवमुत्पलमपीति ।
तस्मादपीति ।
अपिकारेण प्रागुक्तं विरोधाभावं समुच्चिनोति । विवादास्पदं प्रत्यया इति निय­त­लि­ङ्ग­त्वा­त्सा­मा­ना­धि­क­र­ण्यम् । रथैर्युज्यन्त इति रथयोगा अश्वादयः । पथो रथमार्गान् ।
बहु­श्रु­ति­सं­वा­दा­दिति ।
बहुश्रुतयः स हि कर्तेत्याद्या उदाहृता भाष्ये । प्रमाणान्तरम् उक्तमनुमानं वक्ष्यमाणं प्राज्ञ­क­र्तृ­क­त्व­हे­तु­कम् ।
भाक्तत्वेनेति ।
भक्तिः संकोचः ।
तमेवाह –
जाग्रदिति ।
बहु­श्रु­ति­वि­रो­धा­दि­त्ये­त­त्स्प­ष्ट­यति –
अत एवेति ।
कर्तृश्रुतिः स हि कर्तेत्येषा बार्हदारण्यकी । शाखा­न्त­र­श्रु­तिस्तु एष सुप्ते­ष्वि­त्याद्या कठशाखागता ।
अनुमानान्तरं वक्ष्य­मा­ण­मि­त्युक्तं तदाह –
प्राज्ञेति ।
हेतो­र­सि­द्धि­मा­श­ङ्क्याह –
न च जीव­क­र्तृ­क­त्वा­दिति ।
य एष सुप्तेष्विति वाक्य­स्या­ध­स्तात् प्राज्ञस्यैव परमात्मन एव प्रकृ­त­त्वा­दि­त्यर्थः ।
विमतिपदं सत्यं स्वप्नत्वात् , संवा­दि­स्व­प्न­व­दि­त्याह –
अपि चेति ।
ब्राह्मणा अयनमाश्रयो यस्य स तथा । स्वयं तु ब्राह्मणाभास इत्यर्थः । तथाविधेनोक्तमपि स्वप्ने सत्यं भवति किं पुनरन्यदिति भावः । प्रियव्रतं प्रियव्रतनामानं कंचित् । उर्वरा सर्वसस्या भूः ॥१॥२॥
यदुक्तं क्षीर­द­धि­व­त्का­ल­भे­दे­नै­कस्य शुक्ति­र­ज­ता­त्म­क­त्वा­द­वि­रोधो रज­त­शु­क्ति­ज्ञा­न­यो­रिति , तत्राह –
न ताव­त्क्षी­र­स्ये­वे­त्या­दिना ।
ईश्वरस्य राजादेर्गृहे वस्तुतो यदीदं रजतं स्यात् , तर्हि , कालान्तरेऽपि शुक्तिर्न स्याद् , राज­म­न्दि­र­ग­त­र­ज­त­कु­म्भ­व­दि­त्यु­क्तम् , इदानीं यदापि रज­त­त्वे­ना­नु­भू­यते , तदैव पुरुषान्तरे विसंवादादपि न वास्तवं रजतत्वमित्याह –
न चेतरस्येति ।
अन्योऽ­ना­कु­ले­न्द्रि­य­स्तस्य शुक्तिभावं नानु­भ­व­ती­त्ये­त­न्नेति व्यति­रे­क­मु­क्त्वाऽ­न्व­य­माह –
प्रत्येति चेति ।
शुक्ति­भा­व­मि­त्य­नु­षङ्गः । शुक्ति­र­ज­ता­त्म­क­मे­क­मेव वस्तु ग्रह­ण­सा­म­ग्री­भे­दा­त्क­दा­चि­च्छु­क्ति­त्वेन ज्ञायते , कदाचिद्रजतत्वेन ज्ञायते ।
मा भूत्परिणाम इति यदुक्तं तद्दूषयति –
न चोभयरूपमिति ।
इष्ट­प्र­स­ङ्ग­ता­मा­श­ङ्क्याह –
न मरीचिभिरिति ।
तृष्णजः पिपासोः । स्वपि­तृ­षो­र्न­जि­ङिति तृषेर्नजिङ् प्रत्ययः । उदन्या पिपासा ।
ननु मा कुर्वन्तु मरी­च­य­स्तो­य­सा­ध्या­म­र्थ­क्रियां , सन्तु च तोयं , का बाधा ? तोयस्य द्व्यात्म­क­त्वा­दि­त्या­श­ङ्क्याह –
न च तोयमेवेति ।
पिपा­सो­प­श­म­क­मु­द­क­मि­त्यै­क­रू­प्यस्य सति संभवे न प्रयो­ज­क­द्वै­विध्यं कल्प्यमित्यर्थः ।
अकल्पने च व्याप­क­व्या­वृत्त्या व्याप्य­व्या­वृ­त्ति­म­प्याह –
तदर्थेति ।
ननु न कल्प्यते , किन्तु दृश्यते इत्याशङ्क्य प्रयो­ज­क­द्वै­वि­ध्या­भ्यु­प­ग­मे­नापि परिहरति –
अपि चेति ।
मरीचिषु तोय­म­व­भा­स­मा­न­म­र्थ­क्रि­या­या­म­स­म­र्थ­मिति भासेत समर्थमिति वा , नाद्य इत्याह –
असमर्थविधेति ।
असमर्थस्य विधा प्रकारस्तं पतति प्राप्नोति तथोक्तम् । यथा मरीचीन् शुद्धानित्यर्थः ।
पूर्वं क्षीरस्येव दधि न रजतस्य शुक्तिः परिणाम इत्यर्थं दूषणमभाणि , संप्रति प्रतीतिरपि तथा नास्तीत्याह –
न च क्षीर­द­धि­प्र­त्य­य­व­दिति ।
आचार्यादौ न परिणामः किं त्वपे­क्षा­मा­त्रम् । एवं तावत् ज्ञानद्वयस्य विरु­द्धा­र्थ­त्व­वि­ष­य­त्व­मु­क्तम् । अथ यदुक्तं बाध्यबाधकभावो न ज्ञान­यो­र्नि­र्णी­यते ; स्वगो­च­र­शू­र­त्वाद् द्वयोरिति तत्र स्वगो­च­र­शू­र­त्वेऽ­प्य­र्था­द्वि­रो­ध­मु­प­रि­ष्टा­द्व­क्ष्यति ।
इदानीं बाध्यबाधकभावं निगमयति –
तत्रापीति ।
परं शुक्ति­ज्ञा­न­म­बा­धि­त्वैव पूर्वं रजतज्ञानं जायते , कुतः ? पर­स्या­गा­मि­त्वाद् भवि­ष्य­त्त्वा­द­प्रा­प्ते­स्त­न्नि­षे­धस्य पूर्वेण कर्तु­म­श­क्य­त्वा­दि­त्यर्थः ।
ननु तर्हि पूर्वमपि परेण न बाध्यते , स्ववि­ष­य­शू­र­त्वा­दु­भ­यो­रिति , तत्राह –
पूर्वं पुनरिति ।
सत्यं तथापि पूर्व­प्र­ती­ता­र्था­भा­व­बो­धि­त्वात् तस्य बाधकमित्यर्थः ।
स्ववि­ष­य­शू­र­त्वेऽपि अर्थाद्विरोधं वक्ष्य­ती­त्य­वा­दिष्म , तमाह –
न च वर्त­मा­न­र­ज­ता­व­भा­सी­त्या­दिना ।
वर्त­मा­न­र­ज­ता­व­भासि विज्ञानमत एवास्य रजतस्य भवि­ष्य­त्ता­म­गो­च­र­यद् भविष्यता शुक्तिप्रत्ययेन स्वसमयवर्तिनीं शुक्तिं गोचरयता न बाध्यते , कुतः ? कालभेदेन विरो­धा­भा­वा­दि­त्ये­तन्न च युक्तमिति योजना ।
अत्र हेतुमाह –
मा नामेति ।
अस्य रजतस्य भविष्यत्तां मा ज्ञासीन्नाम मा प्रकाशयतु नाम ।
उप­का­र­भा­व­हे­तु­मि­वेति ।
इदं रजतमुपकारकं रज­त­त्वा­त्सं­म­त­व­दिति यथेत्यर्थः । विनाशं प्रत्येति वस्तु येन स विनाशप्रत्ययो विनाशः कारणम् । रज­त­ज्ञा­न­का­ल­मा­रभ्य याव­च्छु­क्ति­ज्ञा­न­कालं रज­त­वि­ना­श­हे­त्व­द­र्श­नात् स्थायित्वे शुक्ति­त्व­र­ज­त­यो­रे­क­दै­कत्र विरोधादर्थाद् बाध्यबाधकत्वं ज्ञान­यो­रि­त्यर्थः । अनु­मा­ना­नु­गृ­ही­त­प्र­त्य­क्षेण गृह्यमाणं रजतं चिरस्थायीति गृह्यते इति व्याख्यास्यति । तेन तद्रजतं भवि­ष्य­च्छु­क्ति­का­ज्ञा­नस्य यः कालः तं व्याप्नोतीति वार्तिकार्थः ।
ननु यथा प्रत्य­भि­ज्ञा­प्र­त्यक्षं काला­न्त­र­व­र्तिनीं तत्तां गृह्णाति , एवं रजतप्रत्यक्षमपि भविष्यत्तां रजतस्य ग्रहीष्यति , अत आह –
न च प्रत्यभिज्ञेति ।
अत्य­न्ता­भ्या­स­व­शे­नेति सूक्ष्म­का­ल­व्य­व­धा­ना­ग­णने हेतुः । परि­च्छे­दा­न­न्त­र­क्षणे अनुमानस्य प्रत्यक्षं प्रति सहकारित्वात्तदा च तस्य विन­श्य­त्त्वा­द्वि­न­श्य­द­व­स्थ­त्वोक्तिः । एतत्सूक्ष्मतरं काल­व्य­व­धा­न­म­वि­वे­च­यन्तः सौगता अनुमानगम्योऽपि संतानोऽनुगतरूपः प्रत्य­क्षा­ध्या­व­सेयः स्वल­क्ष­ण­ग्र­ह­णा­द­ध्यु­प­र्य­व­सेय इत्या­हु­रि­त्यर्थः ।
इदं­र­ज­ता­दि­भ्र­माणां बाधमुपपाद्य प्रकृते योजयति –
एतेनेति ।
स्वप्नस्य य आख्यातो ब्राह्म­णा­भा­स­स्तेन सह जागरणे गत्वा आख्याते त्वया ममै­त­दु­क्त­मि­त्य­भि­धाने तेन च नेत्युक्ते विंस­वा­दा­त्त­त्रापि स्वप्ने न सत्यत्वमिति शेषः ।
भाष्यमुपादाय व्याचष्टे –
रजन्यामिति ।
भारतवर्षे वासरमिति भार­त­ग्र­ह­ण­व्य­व­च्छे­द्य­माह –
रजनीति ।
भारतवर्षे यो रज­नी­स­म­य­स्त­स्मि­न्न­पी­त्यर्थः । केतुमालमिति मेरोः पश्चिमदेशः ॥३॥
ननु कुञ्ज­रा­रो­हा­दि­द­र्शनं स्वप्ने सूचकं तच्च सत्यमिति कथं मिथ्याभूतस्य स्वप्नस्य सूचकत्वं सूत्रे उच्यते ? तत्राह –
तच्च स्वरूपेणेति ।
विष­या­वि­शे­षि­त­रू­पेण ज्ञानमात्ररूपेण सत् । तच्च न सूचकम् । यतः कुतश्चिज् ज्ञानाद्यस्य कस्यचित् सूचनप्रसङ्गात् । असत्तु दृश्यं तस्मात्तदुपहितं दर्शनं सूचकम् । तच्च मिथ्यैवेत्यर्थः । यदि सूचकत्वं स्वप्नस्योपेयते तर्ह्य­र्थ­क्रि­या­का­रि­त्व­म­ह­त्त्व­सं­यो­गात् जाग्रद्वद् ब्रह्म­सा­क्षा­त्का­रा­द­र्वा­ग­बाधः स्यात् ।
अतश्च पूर्वापरविरोध इत्याशङ्क्याह –
अत एवेति ।
अस्ति मिथ्या­भू­त­ख्या­द्यु­प­हि­त­स्यापि स्वप्नदर्शनस्य व्यावहारिकं सत्त्वम् । अत एवाद्राक्षं स्वप्नमहमिति मिथ्यार्थोपहितं स्वप्न­द­र्श­न­म­नु­म­न्यते । युक्तया तु तस्य मिथ्या­र्थो­प­हि­त­त्वा­न्मि­थ्या­त्व­मु­च्यते । अर्थस्तु स्वाप्नो मिथ्या , न च व्यावहारिकमपि सत्त्वं तस्यास्तीति न पूर्वापरविरोध इत्यर्थः । स्वप्नः सत्यः , प्राज्ञ­क­र्तृ­क­त्वा­दि­त्य­नु­मिते न चास्माभिरिति भाष्येण स्वप्नस्य प्राज्ञ­क­र्तृ­क­त्व­म­भ्यु­नु­ज्ञा­यते तत्र हेतुस्वीकारे हेतु­म­त्स­त्य­त्व­मपि स्यादि­त्या­श­ङ्क्याह – प्राज्ञ­व्या­पा­र­त्वे­नेति ॥४॥
तस्या­भि­ध्या­ना­त्तृ­तीयं देहभेदे विश्वै­श्व­र्य­मिति भाष्यो­दा­हृ­त­श्रुतौ तृती­य­श­ब्दा­र्थ­माह –
बन्धमोक्षयोरिति ।
सगु­ण­ब्र­ह्मो­पा­स­न­फ­ल­मी­श्व­र­सा­युज्यं हि न बन्धो दुःखाभावान्न मोक्षो भेदा­श्र­य­त्वा­द­तोऽ­न्त­रा­ल­व­र्ती­त्यर्थः ।
कृतोपपादनमिति ।
प्रथमसूत्रे हि स्वप्र­का­श­स्या­प्य­वि­द्या­वि­ष­य­त्व­स­म­र्थ­नात् जीव­स्यै­श्व­र्य­ति­रो­धा­नम् अवि­द्या­दे­र्मि­थ्या­त्वेन तत्त्व­सा­क्षा­त्का­रा­न्नि­वृ­त्ते­र­भि­व्य­क्तिश्च समर्थितेति अध्यासात्मकश्च देहयोगः समर्थित इत्यर्थः ॥५॥६॥ सुप्तेषु प्राणेषु य एष साक्षी जागर्ति , न स्वपिति । कथं न स्वपित्यत आह – कामं कामं तं तमभिप्रेतं विषयं निर्मिमाणो जागर्ति यस्तदेव शुक्रं शुद्धममृतं ब्रह्मोच्यते ।
वृणीष्वेति ।
नचिकेतसं प्रति मृत्युवचनम् । काम्य­पु­त्रा­दीनां काम­भा­जं­प्र­का­म­भा­ज­म­ति­श­य­भा­जम् । तद् ब्रह्म कश्चित् कश्चिदपि नात्येति उशब्द एवार्थे । नात्ये­त्ये­वे­त्यर्थः । अथो स्वयं­ज्यो­ति­ष्ट्व­क­थ­ना­न­न्त­रम् । अन्ये आहुः । अस्यात्मनो जागरितदेश एवैष यः स्वप्नः ।
अत्र हेतुमाह –
यानि हि जाग्रत्पुरुषः पश्यति तान्येव सुप्तोपि पश्यतीति ।
बहीष्कुलायादिति ।
स्वप्नावस्थायां प्राणेन रक्षन्नवरं कुलायं कुत्सितं नीडं शरीरं तस्मा­त्कु­ला­या­द्व­हि­श्च­रित्वा तस्मि­न्न­भि­मा­न­म­कृ­त्वे­त्यर्थः । स आत्मा यत्र कामं यत्र कामो भवति तत्र विषये ईयते गच्छति । स्वप्नया स्वप्न­रू­प­याऽ­न्तः­क­र­ण­वृ­त्त्ये­त्यर्थः । स्वयमात्मा जाग्रद्देहं विहत्य निश्चे­ष्ट­मा­पाद्य । देहव्यापारो ह्यात्मभोगार्थः भोगार्थं कर्मणश्चात्मा कर्ता , तदा च जाग्र­द्भो­ग­प्र­द­क­र्मो­प­रमे सति देहपातादात्मा विह­न्ते­त्यु­च्यते । तथा स्वप्न­दे­ह­म­दृ­ष्ट­द्वारा स्वयं निर्माय स्वेन भासा वास­ना­ज­न्य­ज्ञा­नेन युक्तः स्वेन ज्योतिषा तत्सा­क्षि­चि­त्प्र­का­शेन इत्थंभूतः प्रस्वपिति वास­ना­म­यी­र्वृत्तीः पश्यन्नास्त इत्यर्थः । देव­मी­श्व­र­म­ह­म­स्मीति ज्ञात्वा साक्षात्कृत्य सर्व­पा­शा­ना­म­वि­द्या­दि­ब­न्धा­ना­म­प­हा­नि­र्भ­वति ।
क्षीणैः क्लेशै­र्ज­न्म­म­र­ण­यो­र्हे­त्व­भा­वात् प्रहाणिरिति निर्गु­ण­वि­द्या­फ­ल­मुक्त्वा सगु­णो­पा­स्ति­फ­ल­माह –
तस्येति ।
तृतीयत्वं विश्वै­श्व­र्य­स्यो­प­पा­दितं । देहभेदे देहवियोगे सति विश्वैश्वर्यं भवतीत्यर्थः । तत्र च भोगान् भुक्त्वा ब्रह्म­वि­द्या­भि­व्यक्तौ केवलोऽद्वितीय आप्तकामः प्राप्त­प­र­मा­न­न्दः­प­रा­न­न्दात्मा भवतीति क्रम­मु­क्ति­रुक्ता । भाष्येऽ­र­णि­नि­हि­ता­ग्न्यु­दा­ह­र­ण­म­र­ण्यो­र्नि­हितो जातवेदा इत्या­दि­शा­स्त्र­दृ­ष्ठ्य­पेक्षं लोक­दृ­ष्ठ्य­पेक्षं भस्म­च्छ­न्नो­दा­ह­र­णम् ॥१॥
इति प्रथमं संध्याधिकरणम् ॥३॥

तदभावो नाडीषु तच्छ्रु­ते­रा­त्मनि च ॥७॥ जीवस्य स्वप्रभवत्वाय स्वप्न­मि­थ्या­त्व­मी­रि­तम् । अथास्य ब्रह्मभावाय सुषुप्तिः क्वेति चिन्त्यते ॥
आसु तदा नाडीषु इत्या­दि­स­प्त­मी­नि­र्दे­शात् ताभिः प्रत्य­व­त्सृ­प्ये­त्या­सि­द­मु­च्च­य­नि­र्दे­शाच्च संशयमाह –
तत्र किमिति ।
प्रयोजनमाह –
एतदत इति ।
वस्तुतो ब्रह्मण एव सतो जीवस्य तद्वैपरीत्यं भ्रमः ।तद्यपि निवृत्तेऽपि सुषुप्तौ विपर्यासे नाडीषु पुरीतति वा तिष्ठेद् , न तु ब्रह्म­ता­दात्म्यं भजेत जीवस्तदा ब्रह्मभावे विप­री­त­ज्ञा­न­नि­वृ­त्ति­र­प्र­यो­जिका स्यादित्यर्थः ।
ननु दण्डा­य­मा­न­भा­व­रू­पा­ज्ञा­न­नि­वृत्तौ ब्रह्मभावः , सुषुप्तौ तु नाड्यादिस्थस्य तदनिवृत्तमिति न ब्रह्मभावः ततो नाड्यादेः सुषु­प्ति­स्था­न­त्वा­भा­व­चिन्ता निष्प्र­यो­ज­ने­त्या­श­ङ्क्याह –
अवि­द्या­नि­वृ­त्ता­व­पीति ।
यावद्यावद्धि प्रति­ब­न्ध­नि­वृ­त्ति­स्ता­व­त्ता­वद् ब्रह्म­भा­वो­प्या­वि­र्भ­वेत् । तत्र यदि मिथ्या­ज्ञा­न­नि­वृत्तौ न ब्रह्म भावः श्रुत्योच्येत , तर्ह्य­ज्ञा­न­नि­वृ­त्ता­वपि न ब्रह्मभाव इति श्रुतेराशयः स्यात् । ततो ब्रह्मभावाय कारणान्तरं स्याद् नाञ्जा­न­मि­थ्या­ज्ञा­न­नि­वृत्ती इत्यर्थः ।
तर्हि तदेव कारणान्तरं ज्ञानमस्तु , नेत्याह –
तच्चेति ।
कर्म ह्यभू­त­प्रा­दु­र्भा­व­फलं , ज्ञानं त्ववि­द्या­नि­वृ­त्ति­मा­त्र­फ­ल­मि­त्यर्थः । विप­री­त­ज्ञा­न­नि­वृ­त्ति­र­वि­द्या­नि­वृ­त्ते­र­प्यु­प­ल­क्ष­णम् , न तु विप­री­त­ज्ञा­न­मे­वा­वि­द्येति भ्रमितव्यम् ; समू­ल­का­ष­म­वि­द्याया अका­षा­दि­त्यु­प­रि­त­न­ग्रन्थे मूलशब्देन भाव­रू­पाऽ­वि­द्याया अभिधानात् ।
तर्ह्य­वि­द्या­नि­वृ­त्ति­द्वा­रेण ब्रह्मभावं ज्ञान­म­भि­व्य­नक्तु , नेत्याह –
विप­री­त­ज्ञा­न­नि­वृ­त्ते­रिति ।
चश­ब्दे­ना­वि­द्या­नि­वृ­त्ते­र­प्य­प्र­यो­ज­क­त्वा­दि­त्यर्थः ।
मात्रयेति ।
स्तोक­प्र­ति­ब­न्ध­नि­वृ­त्ति­रू­पे­णे­त्यर्थः । तया विप­री­त­ज्ञा­न­नि­वृत्त्या तावत्तदवस्थानो ब्रह्म­भा­वा­व­स्थानो भवति जीव­स्ता­व­च्छ­ब्देन न सर्वात्मना तदवस्थानो मूलाविद्यायाः स्थित­त्वा­दि­त्यर्थः ।
लौकिकं विक­ल्पो­दा­ह­र­ण­मुक्त्वा वैदिकमाह –
यथा निरपेक्षा इति ।
निरपेक्षा इति समु­च्च­या­सं­भ­वा­र्थम् ।
आयतनश्रुत्या चेति ।
सदायतना इत्य­त्र­त्या­य­त­नस्य सप्त­म्य­र्थ­त्वा­दि­त्यर्थः ।
सिद्धा­न्त­बी­ज­मा­श­ङ्क्याह –
यत्रापीति ।
नन्वत्र प्राणप्राप्तिः प्रतीयते , कथं नाडी­ब्र­ह्म­स­मु­च्चयः ? तत्राह –
प्राणशब्दमिति ।
पदार्थमुक्त्वा प्रस्तु­त­वा­क्य­मेव योजयति –
अथास्मिन् प्राण इति ।
इति­व­च­ना­द्य­त्रापि नाडीब्रह्मणोः समु­च्च­य­श्र­व­ण­मिति योजना ।
तथापीति ।
तत्रापीत्यर्थः । यत्रा­पी­त्यु­प­क्र­मात् ।
निर­पे­क्ष­स­प्त­मी­श्रु­तिभ्यां यदि नाडी­पु­री­त­तो­र्नि­र­पे­क्ष­मा­धा­रत्वं , का तर्हि समुच्चयश्रवणस्य गतिः ? अत आह –
इयांस्त्विति ।
नाड्यस्तावत् , स्वतन्त्रा एवाधारः , पुरीतद् ब्रह्मप्राप्ती तु नाडीद्वारा भवतः परस्परं चानपेक्षे , तत्र समु­च्च­य­श्र­व­णा­भा­वात् कदाचिच्च नाडीनां पुरी­त­द्ब्र­ह्म­स­मु­च्च­येऽपि कदा­चि­द­न­पे­क्ष­स्था­न­त्वा­द्वि­क­ल्प­सि­द्धि­रि­त्यर्थः । बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवतीति पृष्ठा­ख्य­स्तो­त्र­सा­ध­न­त्वेन बृह­द्र­थ­न्त­र­यो­र्वि­धा­ना­द्वि­कल्पः । एवमेषोऽष्टदोष इति(१) व्रीह्य­नु­ष्ठा­न­पक्षे यवशास्त्रस्य प्राती­त­प्रा­मा­ण्य­प­रि­त्यागः (२) अप्र­ती­ता­प्रा­मा­ण्य­स्वी­कारः , तथा प्रयोगान्तरे (३) यवेषु उपादीयमानेषु यवशास्त्रस्य प्राक् स्वीकृ­ता­प्रा­मा­ण्य­त्यागः (४) परि­त्य­क्त­प्रा­मा­ण्यो­पा­दा­न­मिति यवशास्त्रे चत्वारो दोषाः ; एवं यवा­नु­ष्ठा­न­प­क्षेऽपि व्रीहिशास्त्रे चत्वार इत्य­ष्ट­दो­ष­दुष्टो विकल्पः ।
ननु यदि व्रीहियवौ द्वौ विहितौ , तर्ह्या­ग्ने­या­दि­व­त्स­मु­च्चय , किं न स्यादि­त्या­शङ्कां निराकुर्वन् ‘गतिरन्या न विद्यते’ इत्ये­त­त्प्र­प­ञ्च­यति –
प्रकृ­त­क्र­तु­सा­ध­नी­भू­ते­त्या­दिना ।
मा भूद्वा­क्य­द्व­य­सा­म­र्थ्यात् समुच्चय: , अङ्ग­स­हि­त­प्र­धा­ना­नु­ष्ठा­प­क­प्र­यो­ग­व­चनो व्रीहियवौ समुच्चाययतु , तत्राह –
न चैताविति ।
ननु मा मिश्येतां व्रीहि­य­वा­वु­भ­य­वि­ध्य­र्थ­व­त्त्वा­यै­क­स्मि­न्नेव प्रयोगे व्रीहिभिरेकवारं यवै­र­प्य­प­र­वा­र­मि­ज्य­ता­मिति गत्य­न्त­र­मा­श­ङ्क्याह –
न चाङ्गा­नु­रो­धे­नेति ।
प्रकृतौ बृहद्रथन्तरे पृष्ठ­स्तो­त्र­सा­ध­न­त्वेन विहिते विकल्प्येते , विकृतौ गोस­वा­ख्यै­का­हेऽ­ति­दे­शेन प्राप्नुतः । तत्रापि विकल्पप्राप्तौ गोसवे उभे बृहद्रथन्तरे कुर्या­दि­त्य­ङ्ग­भू­त­द्बृ­ह­द्र­थ­न्त­र­सा­हि­त्य­व­च­नात् पृष्ठ­स्तो­त्र­मा­व­र्तते , बृहतैकवारं रथ­न्त­रे­णै­क­वा­र­मिति । एव­मि­हा­ङ्ग­भू­त­व्री­हि­य­वा­नु­रो­धेन प्रधा­ना­ग्ने­य­या­ग­स्या­भ्यासो न युक्तः ।
कारणमाह –
अश्रुत इति ।
तत्र ह्युभे कुर्या­दि­त्य­ङ्ग­सा­हि­त्य­श्र­व­णा­त्तस्य च प्रधा­न­स्तो­त्रा­वृ­त्ति­व्य­ति­रे­के­णा­सं­भ­वा­त्ता­त्प­र्य­वृत्त्या प्रधानाभ्यासः श्रुतः , नैवमत्र व्रीहियवाभ्यां यजेतेति श्रवणमस्ति , येनावृत्तिः स्यादित्यर्थः ।
एवं सत्य­ङ्ग­वि­धि­मा­त्रा­त्प्रा­धा­ना­वृत्तिः प्रकल्प्या , सा चायुक्तेत्याह –
अङ्गानुरोधेन चेति ।
न हि स्थालानि संपन्नानीति भुक्तवतापि पुन­र्भो­क्त­व्य­मे­व­मि­हा­पी­त्यर्थः ।
ननु साहि­त्या­श्र­व­णेऽ­प्य­ङ्गा­नु­रो­धेन प्रधानाभ्यासो दृश्यते , यथा सोमेन यजेतेति श्रुतस्य सोम­या­ग­स्यै­न्द्र­वा­यवं गृह्णाति मैत्रावरुणं गृह्णा­त्या­श्विनं गृह्णा­ती­त्या­दि­ग्र­ह­ण­रू­पा­ङ्गा­नु­रो­धे­ना­वृ­त्ति­रि­त्या­श­ङ्क्याह –
न चाङ्गभूतेति ।
ननु कथमत्र प्रधा­न­स्या­ङ्गा­नु­रो­धे­नाऽ­वृत्तिः ? याव­तै­न्द्र­वा­य­वा­दि­वा­क्येभ्य एव द्रव्य­दे­व­ता­सं­ब­न्धा­भि­धा­ना­त्त­द्द्वा­राऽनु मितयागा विधीयन्ते , सोमेन यजेतेति तु तेषां यागानां समुदायानुवाद इत्याशङ्क्याह –
सोमेन यजेतेति हीति ।
इदमत्राकूतम् - न समु­दा­या­नु­वा­द­त्वम् सोमवाक्यस्य ; प्रत्य­भि­ज्ञा­ना­भा­वात् , ऐन्द्र­वा­य­वा­दि­शब्दा हि रसमभिदधति ; सोममभिषुणोति सोमं प्लाव­य­ती­त्या­दि­वाक्यै रसस्य प्रस्तुतत्वात् । सोमशब्दश्च लतापरः , ततश्च लता­वि­शि­ष्ट­या­ग­वि­धि­रयं कथमनुवादकः स्यात् ? प्रत्यक्षे च याग­वि­धा­वा­नु­मा­नि­क­वि­धि­क­ल्प­नाऽ­नु­प­पन्न । तस्मात्सोमेन यजे­ते­त्ये­वा­पू­र्व­विधिः , इतराणि त्विन्द्र­वा­य्वा­दि­वि­शि­ष्ट­ग्र­ह­णा­ख्य­सं­स्का­र­वि­धा­य­का­नीति द्वितीये निरूपितमिति ।
भव­त्व­पू­र्व­वि­धि­स्त­थापि कथ­मा­वृ­त्ति­सिद्धिः ? सोम­वा­क्य­वि­हि­त­सो­म­यागे इन्द्र­वा­य्वा­दि­दे­वता विकल्पेन विधीयन्तां , नेत्याह –
तत्र चेत्यादिना ।
एवं ह्यत्र विकल्पः स्याद् , यदीमानि देवताविधानानि द्रव्यं वा सर्वं सकृत् त्युक्तं शक्यम् । न तावद् द्रव्यस्य सकृत् त्यागसंभवो दश­मु­ष्टी­र्मि­मीते इति विधेः सोमस्य विपुलत्वात् । न च दशापि मुष्टयो लतारूपेण व्यज्यन्ते ; अभि­षु­णो­त्य­भि­प्ला­व­यति गालयतीत्यर्थ इत्यादिना रसभावेन यागोपयोगावगमात् , तस्य च निय­त­प­रि­मा­णो­द­क­क­ल­श­जलैः सेकात् ।
न च सर्वोऽपि रसः सकृत् त्यज्येत , नाना­दे­व­तो­द्दे­शेन गृह्य­मा­ण­त्वा­दि­त्याह –
इन्द्र­वा­य्वा­दीति ।
ननु प्रती­न्द्र­वा­य्वा­दिकं ग्रहणानि विकल्प्यन्तां , तत्राह –
प्रादे­श­मा­त्रे­ष्विति ।
प्रादेशमात्रेण हि पात्रेण एकै­के­ने­द्र­वा­य्वा­दिभ्यो रसो गृह्यते , न चैकस्मिन्पात्रे कृत्स्नो रसः संमातीत्यर्थः ।
ग्रहणानीत्यस्य व्याख्यानं –
पृथक्वल्पनानीति ।
एवं द्रव्यस्य सकृ­त्त्या­गा­स­म्भ­व­म­भि­धाय देव­ता­वि­ध्य­सं­भ­व­माह –
न तु सोम­या­गो­द्दे­शे­नेति ।
एषु हि वाक्येषु गृह्णातीति ग्रहणान्वयो देवतानामवगम्यते , अतः कथं यागे देव­ता­वि­धि­रि­त्यर्थः । ग्रहणमात्रे त्वप­र्य­व­सा­ना­द­र्था­द्दे­व­ताना यागान्वयः ।
दश­मु­ष्ठ्या­दि­ग्रन्थं स्वयमेव व्याचष्टे –
न च प्रादे­श­मा­त्र­मि­त्या­दिना ।
प्रादेशमात्रे ऊर्ध्व­त्व­प्र­तीतिः तर्ह्येव घटते , यदि विस्तारः प्रादे­शा­दू­न­स्ति­र्यक् प्रसारे ह्यूर्ध्वत्वं न स्यात् , ततोऽ­ल्प­त्व­वि­शे­ष­ण­द्व­ये­नोक्तं –
तुल्यार्थतयेति ।
एक­सो­म­सं­स्का­र­प्र­यो­ज­न­त­ये­त्यर्थः ।
लिङ्ग­द­र्श­ना­न्याह –
अत एवेति ।
विकल्पे ह्येक एव प्रयोगः स्यादित्यर्थः ।
समुच्चये सत्युपपद्यमानं क्रमं दर्शयति –
आश्विन इति ।
दशाना ग्रहाणां मध्ये आश्विनो ग्रहणकाले दशमत्वेन गृह्यते , होमकाले तृतीयत्वेन हूयत इत्येतद् विकल्पे सति न युज्यते ; एकत्वेन दश­म­त्वा­द्य­यो­गात् । तथा विकल्पे सति ग्रहणकाले ग्रह­णा­मै­न्द्र­वा­य­वा­ग्र­त्व­मै­न्द्र­वा­य­व­प्रा­थ­म्य­वत्त्वं न स्यादेकत्वे प्रथ­म­च­र­म­भा­वा­यो­गा­दि­त्यर्थः ।
नन्वेवमपि ग्रह­णा­न्या­व­र्तन्तां कथं यागा­वृ­स्ति­स्तत्र श्रुत्या­द्य­भा­वाद् , यतोऽङ्गानुरोधेन प्रधानावृत्तिः स्यादि­त्या­शङ्क्य सामर्थ्यमाह –
तेषां चेति ।
कांचन देवतामिति ।
इन्द्र वाय्वादिनां मध्ये एकामित्यर्थः ।
इह त्विति ।
व्रीहियववाक्ये इत्यर्थः । व्रीहि­य­व­स­मु­च्चये हि यागाभ्यासकल्पना स्यात् , तत्र च प्रमा­णा­भा­वा­दि­त्यर्थः ।
न केवलं व्रीहि­य­व­स­मु­च्चये प्रमाणाभावः , प्रमा­ण­वि­रो­धोऽ­पी­त्याह –
पुरोडाशस्य चेति ।
पुरो­डा­श­चो­द­न­यै­वौ­ष­धि­द्रव्ये यस्मि­न्क­स्मिं­श्चि­त्प्राप्ते व्रीहयोऽपि पक्षे प्राप्ता­स्त­त्रा­प्रा­प्तां­श­पू­र­णार्था व्रीहि­श्रु­ति­र्वी­हि­भि­रे­वेति नियमयेत्तत्र यवसमुच्चये व्रीहि­श्रु­ति­बाधः स्याद् , एवं यवश्रुतेरपि नियमार्थत्वाद् व्रीहिसमुच्चये तद्बाध इत्यर्थः ।
एकार्थतयेति ।
एक­पु­रो­डा­शा­र्थ­त­ये­त्यर्थः ।
एवं गत्य­न्त­रा­भा­वा­द्व्री­हि­य­व­यो­र्वि­क­ल्प­मुक्त्वा प्रकृते गत्य­न्त­र­स­द्भा­वा­द्वि­क­ल्पा­भा­व­माह –
न तु नाडीत्यादिना ।
भाष्ये समु­च्च­य­श्रु­त्य­नु­रो­धा­द­स­मु­च्च­य­श्रु­ति­र्ने­येति प्रति­ज्ञा­मा­त्र­मिव भाति , ततोऽभिप्रायं स्फोरयति –
सापे­क्ष­श्रु­त्य­नु­रो­धे­नेति ।
निरपेक्षता ह्यपेक्षाभाव उत्सर्गः , तस्य सापे­क्ष­ताऽ­प­वा­दि­के­त्यर्थः ।
न विकल्प इति ।
विक­ल्प­फ­ल­कोऽ­भ्यु­च्चय इत्यर्थः ।
एवं ताव­त्तु­ल्य­ब­ल­श्रु­त्य­भा­वान्न नाड्यादीनां विकल्प इत्युक्तम् , इदा­नी­म­तु­ल्या­र्थ­त्वाच्च न विकल्प इत्याह –
अभ्यु­पे­त्ये­त्या­दिना ।
जीवो­पा­धि­र­न्तः­क­र­णा­दि­र्ना­डी­पु­री­त­तो­रा­श्रितः , जीवस्तु न क्वापीति कथमाधारत्वेन तुल्या­र्थ­ते­त्यथः ।
ननु सर्वदा जीवस्य ब्रह्माभेदे सुषुप्तौ किमि­त्या­धा­र­त्वो­प­चा­र­स्त­त्राह –
उपा­धी­ना­म­स­मु­दा­चा­रा­दिति ।
अव्य­क्ते­रि­त्यर्थः ।
ननु तादा­त्म्या­दु­पा­ध्यु­प­शा­न्तेश्च यथा सुषुप्तौ जीवस्य ब्रह्मा­श्र­य­त्वो­प­चार एवं जीवो­पा­ध्या­धा­र­त्वा­त्सु­षुप्तौ नाड्या­दे­र्जी­वा­श्र­य­त्वो­प­चा­रोऽस्तु , तत औप­चा­रि­का­श्र­य­त्वेन तुल्यार्थत्वमत आह –
सुषु­प्त­द­शा­र­म्भा­येति ।
सुषु­प्ति­प्रा­क्काले उपाधिद्वारेण जीवस्य नाड्या­श्र­य­त्व­मु­प­च­रितुं शक्यम् , तेन सुषुप्तौ उपाधीनां लीन­त्वा­दि­त्यर्थः ।
न समप्रधानतयेति ।
समप्रधानत्वे हि नाडी­पु­रि­त­द्द्ब्र­ह्मसु त्रिष्वपि जीवस्थानं स्यात् , तदा च्च न ब्रह्मभाव इति समप्राधान्यं निरस्तम् , तन्निरासश्च विक­ल्प­नि­रा­सो­प­ल­क्ष­णा­र्थ­मि­त्यर्थः । नीतार्थं गतार्थम् ।
तद्यत्रैतदिति ।
नाडी­ष्वा­दि­त्य­र­श्मीनां प्रवेशः पूर्ववाक्य उक्त­स्त­त्त­त्रैवं सति यत्र यस्मिन् काले एतत् स्वप्नं सुप्तः कुर्वन् ओदनपाकं पचतीतिवत् स्वापस्य द्विप्र­का­र­त्वात् सुषु­प्त­सि­द्ध्यर्थं विशेषणम् ।
समस्त इति ।
उपसहृतसर्वकरण इत्यर्थः । विष­य­सं­प­र्क­ज­नि­त­का­लु­ष्या­भा­वात् संप्रसन्नः सन् स्वप्नं न विजानाति तदा आसु रश्मिपूर्णासु नाडीषु सृप्तः प्रविष्टो भवतीत्यर्थः ।
सुषु­प्त­मु­त्थाप्य तदा­ग­म­ना­व­धि­म­जा­त­श­त्रु­र्गार्ग्यं प्रति पप्रच्छ –
कुत एतदागादिति ।
एतदागमनं कुत आगात् कृतवानित्यर्थः ॥७॥८॥
इति द्वितीयं तदभावाधिकरणम् ॥

स एव तु कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्यः ॥९॥ आत्य­न्ति­क­त्वे­नो­त्सृष्टा संत्संपत्तिः पुरोदिता । तस्या अवि­द्या­शे­ष­त्व­म­प­वाद इहोच्यते ॥ अथवाऽतः प्रबो­धोऽ­स्मा­दिति सुषुप्त्यनन्तरं ब्रह्मणः प्रबोधश्रवणात् तदात्मनैव सुषु­प्त­स्ति­ष्ठ­ती­त्युक्तं , ततः प्रबोधः तत्संपत्तिं न गमयति सुषुप्तादन्यस्य प्रबोधसंभवेन सुषुप्तस्य नाडी­पु­री­त­तो­र­व­स्था­न­सं­भ­वा­दि­त्या­क्षि­प्यते । अत्र भास्करेण भाष्य­का­र­म­तेऽ­धि­क­र­णा­ना­रम्भ उक्तः - येषामीश्वर एव साक्षा­त्सं­सा­रीति दर्शनं न तेषां पूर्व­प­क्षोऽ­व­क­ल्पते । नापि सिद्धान्तः ; ईश्वरस्य सुषु­प्त्यु­त्था­ना­दे­र­द­र्श­नात् ।
कल्पितस्य च जीवस्य स्वाप्न­जी­व­व­दु­त्था­ना­द्य­सं­भ­वात् - इति , तत्सि­द्धा­न्ता­न­बो­ध­जृ­म्भि­त­मि­त्याह –
यद्यपीश्वरादिति ।
अव­स्था­त्र­या­नु­गामि व्याव­हा­रि­क­स­त्त्वो­पे­ता­वि­द्यो­प­हि­त­जी­वस्य स्वप्न­क­ल्पि­त­जी­व­वै­ल­क्ष­ण्यात्स एवो­ति­ष्ठ­त्त्वन्यो वेति चिन्ता संभवतीत्यर्थः । अत्र पूर्व­प­क्षो­प­सं­हा­र­भाष्यं - तस्मात्स एवेश्वरोऽन्यो वा जीवः प्रतिबुध्यत इति । तत्र स एवेत्ययुक्तम् ; अनियमेनात्र पूर्वपक्षणात् , स एवो­त्ति­ष्ठ­ती­त्यस्य सिद्धान्तत्वात् ।
अती­ता­न­न्त­र­भाष्ये च न स एव पुन­रु­त्था­तु­म­र्ह­ती­त्य­भि­हि­त­त्वा­दत आह –
स एवेतीति ।
स एवेत्येतत् पूर्वपक्षत्वेन दुःसंपादमिति यत­स्त­स्मा­द्वा­श­ब्द­स­म­नार्थ एवकारः । तथा च स वाऽन्यो वेति व्याख्येयो ग्रन्थ इत्यर्थः ।
ईश्वरो वेति पक्षोपि न स्थिरपूर्वपक्ष इत्याह –
ईश्वरो वेतीति ।
जीव­व­च्चे­त­न­त्वा­दी­श्व­रो­त्था­न­सं­भा­वना ।
विमर्शावसर इति ।
किं य एव सत्संपन्नः स एव प्रतिबुध्यते उत स एवाऽन्यो वेति संदेहभाष्ये इत्यर्थः ।
ननु स्मृति­मा­त्र­स्यापि सुप्तो­त्थि­त­जी­वै­क्य­ग­म­क­त्व­मस्ति , न ह्यन्यदृष्टमन्य स्मरति , स्मरति चात्र सुषुप्तो जाग्रद्दृष्टमतः सूत्रे अनु­स्मृ­ती­त्य­नु­शब्दो व्यर्थ इत्याशङ्क्याह –
यद्धि द्व्यहादीति ।
द्वे अहनी द्व्यहः । यत एव सूत्रेऽ­नु­स्मृतिः प्रत्यभिज्ञा , अत एव सोऽहमस्मीति प्रत्य­भि­ज्ञो­दा­हृता भाष्ये इत्यर्थः ।
भाष्य­ग­त­श्रु­ति­मु­दा­हृत्य व्याचष्टे –
अयनमिति ।
इणो धातोर्घञि कृते आय इति रूपम् । बुद्धान्ताय बुद्धमध्याय जाग्रदवस्थायै ।
प्रतियोनीति ।
योनिशब्दः स्थानवचनः सन् शरीरमाह –
अना­द्य­नि­र्वा­च्येति ।
अना­द्य­नि­र्वा­च्याया अविद्याया य उपधाने भेदः संबन्धविशेषः स एवोपाधिः , तेन कल्पितो जीव इत्यर्थः ।
यद्यौपाधिको जीवस्तर्हि सुषु­प्ता­वु­पा­धि­ना­शान्न पश्यतीत्यत आह –
उपाध्युद्भवेति ।
सुषु­प्ता­दा­व­न्तः­क­र­णा­द्यु­पा­धि­र­भि­भूतो भवति , संस्का­रा­त्म­नाऽ­व­ति­ष्ठते , न तु सर्वात्मना न पश्यतीत्यर्थः ।
ननु जाग्र­दा­दा­व­न्तः­क­र­णादि सुषुप्तौ तद्वा­स­ने­त्यु­पा­धि­भे­दा­ज्जी­व­भेदः स्याद् , अतः कथं तस्यैव जीवस्योत्थानमत आह –
तस्य चेति ।
अविद्या भ्रान्तिज्ञानं तद्वासना चोपाधी अवच्छेदकौ मृद इव घटशरावादि यस्य सोऽवि­द्या­त­द्वा­स­नो­पा­धि­द­ण्डा­य­मा­नोऽ­वि­द्या­ल­क्षणः , तस्यानादितया कार्य­का­र­णा­त्म­क­भ्र­म­त­त्सं­स्का­र­भा­वेन प्रवहतः प्रकृ­ति­वि­का­र­यो­र­भे­दान् परिणममानस्य सुविवेकतया तदुपहितो जीवोनादिकालेऽपि सुविवेको ब्रह्मासंकीर्णः सन् सुषु­प्त्या­द्य­वस्था अनुभवतीत्यर्थः । अत एव यथा­श्रु­त­ग्र­न्था­र्थ­ग्रा­हिभिः कैश्चि­द्वा­च­स्प­ति­मते सुषुप्तौ भ्रमसंस्कार उपा­धि­र्जा­ग्र­त्य­न्तः­क­र­णा­दी­त्यु­पा­धि­भे­दा­दु­प­हि­त­जी­व­भे­द­प्र­सङ्गः , संस्कारस्य च सुषुप्तौ न सांक­र्य­वा­र­क­त्वम् । न हि घटसंस्कारो घटाकाशं व्यव­स्था­प­य­ती­त्या­क्षेपौ कृतावनकाशौ ॥
अहरहर्गच्छन्त्य इति ।
अहरहरिति वीप्सा एकस्यैव गत्यागती दर्शयति । ये प्राणिनः सुषुप्ते सत्संपन्नास्त इह जागरिते व्याघ्रो वेत्यादि यद्यद् भवन्ति – उभवन् , त एव सुषुप्तादागत्य भवन्ति ॥९॥
इति तृतीयं कर्मा­नु­स्मृ­ति­श­ब्द­वि­ध्य­धि­क­र­णम् ॥

मुग्धेऽ­र्ध­सं­पत्तिः परिशेषात् ॥१०॥
पूर्वत्र प्रत्य­भि­ज्ञा­नात् स एवो­ति­ष्ठ­ती­त्यु­क्तम् , तर्हि विशे­ष­वि­ज्ञा­ना­भा­व­वि­शे­षे­णै­क्य­प्र­त्य­भि­ज्ञा­नात् सुषुप्तिरेव मुग्धिरिति पूर्वपक्षमाह –
विशे­ष­वि­ज्ञा­ना­भा­वा­दि­त्या­दिना ।
विकारान्तरे करालवदनत्वादौ सत्यपीत्यर्थः ।
यदि ज्ञाना­भा­व­सा­म्येन सुप्ति­मु­ग्ध्यो­र­भेदः , तर्हि स्वप्न­जा­ग­रि­त­यो­रपि विशे­ष­वि­ज्ञा­न­सा­म्या­द­भेदः स्यादिति प्रतिबन्दीमाह –
न हीति ।
अथ सत्य­प्य­प्र­यो­ज­क­साम्ये प्रयोजकभेदात् स्वप्न­जा­ग­रि­त­यो­र्भेदः , तर्हि सुषु­प्ति­मो­ह­यो­र­प्य­वि­शिष्ट इत्याह –
बाह्ये­न्द्रि­ये­त्या­दिना ।
प्रयोजनभेदमाह –
श्रमा­प­नु­त्त्यर्था हीति ।
ननु शरी­र­प­रि­त्या­गा­र्थ­श्चे­न्मो­ह­स्तर्हि मुग्धः सर्व शरीरं त्यजेदत आह –
यद्यपीति ।
सत्येव मोहे मृतिरित्यस्ति व्याप्तिः , सैव कारणत्वोपयोगिनी , न तु सति भवत्येवेति स्थिर­का­र­ण­स्वी­का­रा­दि­त्यर्थः ।
यदुक्तं सुखमहमस्वाप्सं दुःख­म­ह­म­स्वा­प्स­मि­त्या­दि­वै­ल­क्ष­ण्यात् सुषुप्तस्यापि भेदप्रसङ्ग इति , तत्राह –
सुषुप्तस्य त्विति ।
निमित्तादीनि श्रमा­दी­न्यु­क्ता­न्येव ।
तत्प्रविलयावेति ।
अद्व­य­ब्र­ह्मा­त्म­त्व­प्र­ती­ति­स­मये विचारेण तत्प्र­वि­ल­या­ये­त्यर्थः ॥१०॥
इति चतुर्थं मुग्धाधिकरणम् ॥

न स्थानतोऽपि हि परस्योभयलिङ्गं सर्वत्र हि ॥११॥
अत्र कश्चिद् - भिन्नाभिन्ने ब्रह्म­ण्य­भि­न्न­रू­प­मात्रं चिन्त­नी­य­मि­त्य­ने­ना­धि­क­र­णेन विचार्यते , न तु भेदो निषिध्यते इति – वदति । तस्य भ्रान्तिज्ञानं ब्रह्मणि स्यात् , नहि रूपरसाध्यात्मके घटे रूपवानेवेति ज्ञानमभ्रान्तं भवति । भिन्न­रू­प­म­दृ­ष्ट्वाऽ­भि­न्न­रूपं द्रष्टव्यमिति चेत् , तर्हि तस्य भिन्नाकारस्य ज्ञेयत्वेन ब्रह्म­ण्य­न­न्त­र्भा­वाद् एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञो­प­रोधः । भेदस्य चानुपास्यतायां भिन्नाभिन्ने ब्रह्मणि समन्वयनिरूपणं निष्फलम् । ज्ञानार्थो हि समन्वयः । तस्माद् - उपाधितोऽपि भेदस्य माया­मा­त्र­त्व­व­र्ण­नात् । निर्विशेषमिह ब्रह्म­या­थात्म्यं प्रतिपद्यते ॥
प्रप­ञ्च­लि­ङ्गा­ना­मिति ।
प्रपञ्चो लिङ्गं सवि­शे­ष­ब्र­ह्म­ण­स्त­द्याभिः प्रकाश्यते ताः प्रपञ्चलिङ्गाः ।
तस्य चेति ।
निष्प्र­प­ञ्च­ब्र­ह्मण इत्यर्थः ।
सिद्धा­न्ता­त्पू­र्व­प­क्षस्य विशेषमाह –
न चेति ।
ननु परोपाधिकं किंचित्सत्यं यथा चक्षु­रा­दी­ना­म­प्र­मा­क­र­णत्वं किंचिन्मिथ्या यथा स्फटिकलौहित्यं तत्र सवि­शे­ष­नि­र्वि­शे­ष­त्व­यो­र्य­द­न्य­त­र­प­क्षो­पा­धिकं तत्सत्यमेवेति कुतो निर्णयः ? तत्राह –
उभ­य­लि­ङ्ग­क­शा­स्त्र­प्रा­मा­ण्या­दिति ।
सविशेषतायामपीति ।
पृथि­व्या­द्यु­पा­धि­क­स­वि­शे­ष­तायां सत्यामपि यश्चायमस्यां पृथिव्यां सश्चा­य­म­ध्या­त्म­मिति तामनूद्यायमेव स इत्य­द्वै­त­प्र­ति­पा­द­क­त्वा­दि­त्यर्थः ।
ननु पृथि­व्या­द्यु­पा­धि­क­भेद एकत्वं च प्रतीयतामत आह –
एक­त्व­ना­ना­त्व­यो­श्चेति ।
भवतु तर्हि नानात्वमेव प्रतिपाद्यं , नेत्याह –
एक­त्वा­ङ्ग­त्वे­नै­वेति ।
तदेव साधयति –
नानात्वस्येति ।
व्याव­हा­रि­क­प्र­मा­ण­सि­द्ध­भे­दा­नु­वा­देन पार­मा­र्थि­का­भे­द­प्र­ति­पा­द­न­परा श्रुतिरित्यर्थः ।
जीव­ब्र­ह्म­णो­रे­क­त्व­मपि सत्त्वा­द्या­त्मना सिद्धमिति , तत्राह –
एकत्वस्य चेति ।
उपा­धि­नि­षे­धे­नै­क­त्व­स्या­सि­द्धे­र्वि­धे­य­त्वो­प­पत्तेः - प्रति­पा­द्य­त्वो­प­प­त्ते­रि­त्यर्थः ।
ननु भवतु निर्गु­ण­ब्र­ह्म­स­न्नि­धि­स­मा­म्ना­त­भे­द­श्रु­तीनां निषे­ध्य­भे­दा­नु­वा­द­क­त्व­मे­क­त्वस्य प्रति­पा­द्य­त्वाद् , उपा­स­ना­प्र­क­र­ण­प­ठि­त­भे­द­श्रु­तीनां तु भेदपरत्वमस्तु , एकत्वस्य तत्रा­प्र­ति­पा­द­ना­दत आह –
आका­र­व­द्ब्र­ह्मेति ।
उपा­स्ति­प­र­त्वान्न भेद­प्र­मा­प­क­त्व­मि­त्यर्थः ।
ननु द्वा सुप­र्णे­त्याद्याः श्रुतयः सन्ति भेद­प्र­ति­पा­द­न­प­रा­स्त­त्राह –
कासांचिच्चेति ।
अस्यां तावद् ऋचि बुध्द्यु­पा­ध्य­क­र्तृ­त्व­नि­षे­धेन निर्विशेषः प्रत्यगात्मा प्रतिपाद्यते इति पैङ्ग्यु­प­नि­ष­द्व्या­ख्या­तम् । एवमन्यत्रापि द्रष्टव्यम् ॥११॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥
एकदेशिमते द्वितीयाधिकरणे वचनव्यक्तीराह –
किं सल्लक्षणमेवेति ।
एवकारो बोधा­द्भे­द­व्य­व­च्छे­दार्थः । बोध­ल­क्ष­ण­मे­वे­त्यत्र तु बोधस्य सत्ताया भेद­व्या­वृ­त्त्यर्थः । ततश्च बोधात्मिका सत्ता सत्तात्मको वा बोधो ब्रह्मेति सिद्धान्तपक्षः प्रदर्शितः । सच्छ्रुतेः सदे­वे­द­मि­त्या­द्याया अवैयर्थ्यार्धं सत्तावच्च ब्रह्म मन्त­व्य­मि­त्यर्थः । तदेतदधिकरणवचनम् । अनेन अत्र केचि­दि­त्या­दि­भा­ष्ये­णे­त्यर्थः ।
अत्र पूर्व­प­क्षा­नु­त्था­न­माह –
सत्ता­प्र­का­श­यो­रिति ।
प्रकाशवच्च ब्रह्मेत्युक्ते किं सत्ता­प्र­का­श­यो­र­भेद उत भेदः ।
आद्ये सिद्धान्त एवेति न पूर्व­प­क्ष­त्व­मि­त्याह –
नोभ­य­ल­क्ष­ण­त्व­मिति ।
ब्रह्मण इति शेषः ।
द्वितीये गता­र्थ­त्व­मि­त्याह –
भेद इति ।
शङ्कितो भेदः स्वनिराकारणाय नाधिकरणान्तरं प्रयो­ज­य­ती­त्यर्थः । पूर्वा­भ्यु­प­ग­म­वि­रो­ध­प्र­स­ङ्गा­दिति भाष्यार्थोऽपि हेतुः पूर्व­प­क्षा­नु­त्थान एव ; पूर्वा­धि­क­र­ण­सि­द्धान्ते स्थिते तद्विरोधेन पूर्व­प­क्षा­नु­त्था­ना­दि­त्यर्थः । यश्च सत्ता­प्र­का­श­यो­रे­कत्वं कृत्वा सद्बोधात्मकं ब्रह्मेति सिद्धान्तः सोऽप्ययुक्तः ; तथा सद्बोधशब्दयोः पर्या­य­त्व­प्र­स­ङ्गात् ।
कथं तर्हि सिद्धान्ते अखण्डत्वसिद्धिः ? अत आह –
पर­मा­र्थ­त­स्त्विति ।
अनि­र्वा­च्य­भे­दा­भ्यु­प­ग­मात्र पर्यायता । परमार्थतस्तु ब्रह्मणो लक्ष्यस्याभेद एव , यथा प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इत्यत्र प्रक­र्ष­प्र­का­शाभ्यां लक्ष्य­मा­ण­च­न्द्र­स्यै­कत्वं तद्वदित्यर्थः । प्रपञ्चितं चैत­द­स्मा­भि­र्ज­न्मा­दि­सूत्रे (ब्र.अ.१.पा.सू.२) ।
भाष्यमुपादाय व्याचष्टे –
सर्वेषां चेति ।
प्रया­ज­नि­यो­गा­ना­मपि समिधो यज­ती­त्या­द्या­ख्या­ता­भि­हि­तानां दर्श­पू­र्ण­मा­स­नि­यो­गा­द्भे­दा­द्भा­ष्या­यो­ग­मा­श­ङ्क्याह –
अधि­का­रा­भि­प्रा­य­मिति ।
अधिकारः परमापूर्वं तदेकमिति तद­पे­क्ष­यै­क­नि­यो­ग­त्वम् । अनु­ब­न्धो­नि­यो­गा­व­च्छे­दको धात्वर्थः । स हि प्रया­जा­दा­वा­ग्ने­यादौ च द्रव्य­दे­व­ता­दि­भे­दाद् भिन्न इति । कुरु प्रप­ञ्च­प्र­वि­ल­य­मिति प्रवर्तितो न शक्नोति प्रबिलयं कर्तुम् , प्रव­र्त­स्वा­त्म­ज्ञाने इति प्रवर्तितश्च न शक्नो­त्या­त्म­ज्ञानं कर्तुमित्यपि द्रष्ठव्यम् ।
अयं ज्ञातव्योऽर्थ इति विधिद्वारेणैव वाक्यस्य विव­क्षि­ता­र्थ­त्व­मि­त्या­श­ङ्क्याह –
न चास्येति ।
अधिकारिणः इत्यर्थः ।
मा भूच्छाब्दज्ञाने विधिः , शब्दादेव तस्योत्पत्तिः ध्याने साक्षात्कारे वाऽस्तु तत्राह –
न चेति ।
जर्तिलेति ।
दशमे स्थितम् - ‘‘न चेदन्यं प्रक­ल्प­ये­त्प्र­क्लृप्तौ चार्थवादः स्यादा­न­र्थ­क्या­त्प­र­सा­म­र्थ्याच्च’’ (जै.अ.१०.पा.८.सू.७) अग्निहोत्रं प्रकृत्याधीयते – जर्तिलयवाग्वा जुहुयाद् गवीधुकयवाग्वा वा जुहुयाद् न ग्राम्यान्पशून् हिनस्ति नार­ण्या­न­ना­हु­तिर्वै जर्तिलाश्च गवीधुकाश्च पयसाऽग्निहोत्रं जुहुयादिति । तत्र किं जर्ति­ल­ग­वी­धु­क­वाक्ये विधि , अनाहुतिरिति च प्रतिषेधः , पयसेति च विध्यन्तरम् । उत पयसेत्येव विधि­रि­त­र­स्त­द­र्थोऽ­र्थ­वाद इति । तत्र अनाहुतिरिति निन्दाया निषेधशेषत्वेन विधि­शे­ष­त्वा­यो­गा­न्नि­षेधं परिकल्प्य विधि­नि­षे­ध­स­मा­वे­शा­द्वि­कल्प इति प्राप्ते सिद्धान्तः । अना­हु­ति­रि­त्ये­त­न्नि­षेधं प्रकल्पयेद् यद्यन्यं विधिं स्वशेषित्वेन न कल्पयेत् । कल्पयति त्विदं पयसेति विधिं स्वशेषित्वेन । प्रक्लृप्तौ चार्थवादः स्यात् । विध्येकवाक्यता हि प्रत्य­क्ष­वा­क्य­भे­दा­पा­दिकां प्रतिषेधकल्पना वारयति । किं च कल्पितेऽपि प्रतिषेधे विकल्पः स्यात् । जर्ति­ल­ग­वी­धु­क­य­वा­गूभ्यां होतव्यं न होतव्यमिति । तत्र प्रति­षे­ध­क­ल्प­न­स्या­न­र्थ­क्यम् ; होमार्थत्वेन जर्ति­ल­ग­वी­धु­क­प­यसां विधिभिरेव विकल्पसिद्धेः ।
ननु निन्दायाः प्रति­षे­ध­शे­ष­त्वात् कथं विधिशेषत्वमत उक्तं –
पर­सा­म­र्थ्या­च्चेति ।
परेण पयोहोमविधिना एक­वा­क्य­त्व­सा­म­र्थ्या­च्चे­त्यर्थः । इह हि ग्राम्या­र­ण्य­प­शु­हिं­सा­वि­र­हा­ज्ज­र्ति­ल­ग­वी­धु­क­होमः प्रशस्ततया कीर्त्यते । तदनु ततो पयोहोमस्य प्रश­स्त­त­र­त्वा­र्थ­म­ना­हु­ति­वा­क्येन जर्ति­ल­ग­वी­धु­क­होमौ निन्द्येते तस्मादर्थवाद इति ॥ निष्प्र­प­ञ्च­मु­क्तम् एकदेशिनाऽपि न स्थानतोऽपी (ब्र.अ.३.पा.२.सू.११) त्याद्यधिकरणे इत्यर्थः ।
नियोज्य आका­शा­दि­प्र­प­ञ्चा­न्त­र्भूतो ब्रह्मैव वा ब्रह्मण औपाधिकावच्छेदो वेति विकल्पान् क्रमेण निरस्यति –
स चेत्यादिना ।
त्वया विज्ञाते ब्रह्मणि तज्ज्ञानेन प्रपञ्चप्रविलयः साध्य इति वक्तव्यम् । तदा च ज्ञान­ज­न्मा­न­न्त­र­मेव नियो­ज्य­स्यो­च्छि­न्न­त्व­न्नि­यो­गा­सि­द्धि­रि­त्यर्थः ।
तत्त्व­प्र­ति­पा­द­नस्य ज्ञानो­त्प­त्ता­व­व्श्या­पे­क्ष­णी­य­त्व­मुक्त्वा विधौ तदभावमाह –
न च ज्ञानाधान इति ।
साध्या­नु­ब­न्ध­भे­दा­दिति ।द्वेधा हि प्राभाकराणां शास्त्रभेदः , साध्य­भे­दा­द­नु­ब­न्ध­भे­दाच्च । तत्र साध्यं सप्तविधम् - उत्प­त्ति­प्रा­प्ति­सं­स्कृ­ति­वि­कृ­ति­क­र­णो­प­का­र­क­र­णा­वा­न्त­र­व्या­पा­रा­धि­का­र­रू­पम् । संयवनस्य पिण्ड उत्पाद्यः । दोहनस्य पयः प्राप्यम् । प्रोक्षणस्य व्रीहयः सत्कार्याः । अवघातस्य त एव विकार्याः । प्रयाजादीनां दर्श­पू­र्ण­मा­सा­दि­क­र­णानि प्रत्युपकारः साध्यः । आग्नेयादीनां प्रत्येकं कर­णा­वा­न्त­र­व्या­पा­र­रू­पा­ण्य­पू­र्वाणि साध्यानि । सर्वेषा चैषा­म­धि­का­रा­पूर्वं परमसाध्यमिति । तैः साध्यैर्नियोगाः पिष्टं संयौ­ती­त्या­दि­शा­स्त्राणि भिद्यन्ते । तथा द्रव्य­दे­व­ता­दि­रू­प­भे­दा­द्धा­त्व­र्थ­भे­द­स्त­तश्च नियो­गा­व­च्छे­द­क­धा­त्व­र्था­त्म­क­वि­ष­य­भेद इति । अस्यां पृथिव्यामधिदैवं यस्ते­जो­म­य­श्चि­न्मा­त्र­स्व­रू­पोऽ­मृ­त­म­योऽ­मृ­त­स्व­रूपः पुरुषो यश्चायमध्यात्मं शरीरे भवः शारी­र­स्ता­वु­भा­वपि सर्वेषां भूतानां मधु उपकारकौ तयोश्च सर्वाणि भूतानि मध्वि­त्य­नु­ष­ज्यते । चशब्दादियं पृथिवी सर्वेषां भूतानां मद्वि­त्यु­प­क्र­माच्च सोऽधि­दै­वा­ध्या­त्म­व­च्छिन्नः पुरुषोऽयमेव योऽयमात्म सर्वकारणभूत इत्यर्थः । शास्त्रा­चा­र्य­सं­स्कृ­त­म­न­सै­वेदं ब्रह्माप्तव्यं ज्ञातव्यम् । ज्ञाते त्विह ब्रह्मणि किंचन किंचिदपि न नास्ति । यस्त्वविद्यया नानेव आभासं नानारूपं पश्यति स मृत्यो­र्म­र­णा­न्मृत्युं मरणं गच्छति । पुनः­पु­न­र्म्रि­यते इत्यर्थः । यो भोक्ता जीवस्तं भोग्य शब्दा­दि­प्रे­रि­ता­र­मी­श्वरं च मत्वा विचार्य त्रिवि­ध­मे­त­द्ब्रह्म प्रोक्तम् । ब्रह्ममिति च्छान्दसम् । ब्रह्म मे तु मामितिवद् मे मम तद्द्ब्रह्म प्रोक्तमिति वा ।
तदेतदिति ।
तद् ब्रह्म सर्व­का­र­ण­मे­त­दे­वा­त्म­रूपं तद्द्ब्रह्म विशेष्यते । पूर्वं कारणं तस्य न विद्यते इत्यपूर्वम् । स्वयं कार्यं न भवतीत्यर्थः । परं कार्यमस्य न विद्यते इत्यनपरम् । स्वयं च न कार्णमित्यर्थः । एवं­वि­ध­मे­त­ज्जा­ती­य­म­न्य­दस्य नास्तीति अनन्तरं तथा एवंविधं बाह्यं विजातीयमस्य च नास्ती­त्य­बा­ह्यम् ।
एवं ताव­द­पू­र्वा­दि­ल­क्षणं ब्रह्मा­नू­द्या­त्मत्वं विहितम् , संप्र­त्या­त्मा­नु­वा­देन ब्रह्मत्वं विदधाति –
अयमिति ।
य आत्माऽयं ब्रह्मेत्यर्थः । स आत्मा किंलक्षणोऽत आह – सर्वानुभूः साक्षिरूपेण सर्वमनुभवतीति सर्वानुभूः । अधीह्यध्यापय भो भगवन् । आदिरस्य विद्यत इत्यादिमत्तद् न भवतीत्यनादिमत् सत् कारणम् असत्कार्यं च तद्रूपेण ब्रह्म नोच्यते । पुरः पुराणि । द्विपदो द्विप­दो­प­ल­क्षि­तानि शरीराणि चक्रे । पुरः पुर­स्ता­च्च­क्षु­रा­द्य­भि­व्यक्तेः पूर्वमेव स च ईश्वरः पक्षी लिङ्गशरीरस्य तैत्तरीयादौ पक्ष­पु­च्छा­दि­सं­पा­द­नात् पक्षीति लिङ्ग­श­री­र­मु­च्यते , तदभिमानी भूत्वा पुरः सृष्टानि शरीराणि पुरुष आविशत् प्रविष्ट इति ॥२१॥
इति पञ्च­म­मु­भ­य­लिं­गा­धि­क­र­णम् ॥

प्रकृ­तै­ता­वत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥ निषे­ध­श्रु­ति­भि­र्ब्रह्म निर्विशेषं निरूपितम् । तासां ब्रह्म­नि­षे­द्धृ­त्व­मि­हा­शङ्क्य निरस्यते ॥ अथवा - सन्मात्रं ब्रह्म सामान्यं तद्वि­शे­षा­न­पे­क्षते । निषेधेषु निषेद्धेषु नास्ति ब्रह्मेति शङ्क्यते ॥
श्रुति­ग­त­वा­व­श­ब्दा­र्थ­माह –
द्वे एवेति ।
समुच्चये सत्येवकारो विरुध्यते तन्मा­त्रा­व­धा­र­णस्य तदितरसमुच्चयस्य च विरो­धा­दि­त्या­श­ङ्क्याह –
समु­च्ची­य­मा­ना­व­धा­र­ण­मिति ।
सर्वदा द्वे अपि रूपे मिलिते एवेत्यर्थ एवकार इत्यर्थः । एषा अत्र श्रुतिः - द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च तदेतन्मूर्तं यद­न्य­द्वा­यो­श्चा­न्त­रि­क्षा­च्चै­त­न्म­र्त्य­मे­त­त्स्थि­त­मे­त­त्स­त्त­स्यै­तस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येषः रसः , अथामूर्तं वायु­श्चा­न्त­रिक्षं चैत­द­मृ­त­मे­त­द्य­दे­त­त्सत्यं तस्यै­त­स्या­मू­र्त­स्यै­त­स्या­मृ­त­स्यै­तस्य यत एतस्य त्यस्यैष रसो य एव एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इति ।
अस्यां श्रुतौ तदेतन्मूर्तं यद­न्य­द्वा­यो­श्चा­न्त­रि­क्षा­च्चे­त्ये­त­द्व्या­चष्टे –
पृथि­व्य­प्ते­जां­सीति ।
मूर्च्छनं स्थूलीभावः ।
तत्र हेतुः –
इत­रे­त­रा­नु­प्र­वि­ष्टा­व­य­व­मिति ।
पटादेर्हि तन्त्वाद्यवयवा इत­रे­त­र­म­नु­प्र­विष्टा दृश्यन्ते , ततश्च तन्त्वा­द्य­व­स्थातः स्थूलाश्च । यद्यपि वायोरपीदं तुल्यम् ; तथापि प्रत्य­क्षे­णा­नु­ग्र­ह­णा­द­ना­दरः श्रुतेः , यदिति गच्छदित्यर्थः । ततश्चैकत्रैव च न तिष्ठतीति व्यापीत्यर्थः । त्यच्छब्दः सर्व­ना­म­त­च्छ­ब्द­स­मा­नार्थः । त्यदिति वक्तव्ये त्यमिति छान्दसम् ।
यद्यपि पञ्चभूतकार्यं हिरण्यगर्भः ; तथा­प्य­मू­र्त­भू­त­द्व­यस्य हिरण्यगर्भस्य च रसरसिभावे सामान्यहेतुः श्रुति­ग­त­हि­श­ब्देन विवक्षितस्तं दर्शयति –
नित्यपरोक्षतेति ।
रसत्वमत्र कार्यत्वम् ।
एवमधिदैवतं हिर­ण्य­ग­र्भ­म­धि­कृत्य मूर्ता­मू­र्त­व्य­व­स्था­मु­क्त्वाऽऽ­ध्या­त्मि­क­वि­षयां श्रुति­म­था­ध्या­त्म­मि­द­मेव मूर्तं यद­न्य­त्प्रा­णाच्च यश्चा­य­म­न्त­रा­त्म­न्ना­काश इत्या­द्या­मु­दा­ह­रति –
अथा­ध्या­त्म­मि­त्या­दिना ।
यश्चा­य­म­न्त­रा­त्म­न्न­न्तः­श­रीरे आका­श­स्त­स्मा­त्प्रा­णाच्च यद­न्य­त्त­न्मू­र्त­मिति श्रुति­यो­ज­ना­म­भि­प्रे­त्योक्तं –
यदन्यत् प्राणा­न्त­रा­का­शा­भ्या­मिति ।
आध्या­त्मि­क­त्व­सि­द्ध्य­र्थ­माह –
शरीरारम्भकमिति ।
चक्षुरिति गोलकमात्रम् ।
ननु चैतन्यव्याप्तं लिङ्गशरीरं स्थूलशरीरे सर्वत्र वर्तते , तत्र कथं दक्षि­ण­म­क्ष्या­धा­र­त्वे­नो­क्त­मत आह –
लिङ्गस्य हीति ।
लिङ्ग्य­तेऽ­नु­मी­यते इति लिङ्गम् ।
अनुमानप्रकारमाह –
करणात्मकस्येति ।
रूपा­द्यु­प­ल­ब्धिभिः क्रियाभिः करणत्वेनानुमीयत इत्यर्थः । आध्या­त्मि­क­च­क्षु­रा­दे­रा­धि­दै­वि­क­हि­र­ण्य­ग­र्भा­दि­त्या­दि­व्य­ष्टि­त्वा­द्धि­र­ण्य­ग­र्भ­स्ये­त्यु­क्तम् । अथवा - अनुग्राहकत्वेन हिरण्यगर्भस्य चक्षु­ष्य­प्य­व­स्था­न­मुक्तं विशे­षा­व­स्था­न­म­दृ­ष्ट­मपि शास्त्री­य­म­स्ती­त्यर्थः ।
ब्रह्मण औपाधिकयोरिति ।
ब्रह्मण उपाधिरज्ञानं तत्र भवत इत्यौपाधिके तयोरित्यर्थः ।
कार्य­क­र­ण­भा­वे­नेति ।
कार्य शरीरं , करणमिन्द्रियम् ।
सत्य­श­ब्द­वा­च्य­यो­रिति ।
सदिति त्यमिति च शब्द­वा­च्य­यो­रि­त्यर्थः ।
एवं मूर्तामूर्ते प्रतिषेध्ये दर्शयित्वा वासनामयं रूपं निषेध्यं दर्शयति –
अथेदानीमिति ।
मूर्ता­मू­र्त­वि­ष­या­नु­भ­व­ज­नि­त­वा­स­ना­ज­न्य­वि­ज्ञा­न­वि­षय इत्यर्थः । तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा पाण्ड­वा­वि­क­मि­त्या­दि­दृ­ष्टा­न्तै­रु­पमां दर्शयतीत्यर्थः । महारजनं हरिद्रा तया रक्तं माहारजनम् ।
नन्वनुद्भूतरूपं लिङ्गशरीरं , तस्य कथं हारि­द्रा­दि­रू­प­तु­ल्य­रू­प­सं­भवः ? अत आह –
एतदुक्तं भवतीति ।
वास­ना­ज­न्य­भ्रा­न्ति­व­शा­द्रू­पा­ध्या­स­योग्यः कोऽप्याकारो लिङ्ग­श­री­रै­क्ये­ना­रो­प्यते , तन्निष्ठाः स्वप्ने रूपभेदाः प्रकाशन्त इति प्रतिषेध्यं रूपं प्रदर्श्य प्रति­षे­धा­व­धि­भूतं रूपि ब्रह्म दर्शयति श्रुतिरित्याह –
तदेवमिति ।
सत्यरूपमिति ।
व्यावहारिकसत्यं ब्रह्मणो रूपमित्यर्थः । अथात आदेश इत्य­त्रा­न्तः­श­ब्दा­र्थ­माह – यत इति तदु­क्ति­हे­तु­क­मि­त्य­न्तेन ।
मध्ये अथशब्दार्थमाह –
तस्यानन्तरमिति ।
सत्यसत्यस्येति ।
व्यावहारिकस्य सत्यस्य प्रपञ्चस्य यः सत्य आत्मा तस्येत्यर्थः ।
न ह्येतस्मादिति नेत्य­प­र­म­स्ती­त्यु­त्त­र­वाक्यं व्याचष्टे –
ननु किमेतावदेवेति ।
इति नेत्या­दि­ष्टा­दे­त­स्मा­द­न्य­त्प­र­मु­त्कृष्टं न ह्यस्तीति वाक्ययोजना दर्शिता । एवंशब्दस्यार्थ एवार्थो यस्य स एवमर्थस्तेन । इतिना इति­श­ब्दे­ने­त्यर्थः ।
तद­व­च्छे­द­क­त्वे­नेति ।
कस्य रूप­द्व­य­मि­त्य­पे­क्षायां ब्रह्मण इत्येवंरूपेण विशे­ष­ण­त्वे­ने­त्यर्थः । अथ सवासनं रूप­द्व­य­मि­त्य­त्रापि प्रतिषिध्यत इत्यनुषङ्गः ।
ब्रह्म­प्र­ति­षे­धेन पूर्व­प­क्ष­स्या­नु­त्था­न­मा­श­ङ्क्याह –
यद्यपीत्यादिना ।
सद्बोधरूपमिति ।
बोधत्वेन रूपेण विशे­षा­त्म­क­त्व­मुक्तं , सदिति सामा­न्या­त्म­त्वम् ।तच्च सवा­स­न­मू­र्ता­मू­र्त­सा­धा­र­ण­त्वेन व्यक्तीकृतम् । निर्विशेषं यत्तत्सामान्यं न भवेदिति योजना ।
उपा­स­ना­वि­धा­न­व­दिति ।
यथा नाम ब्रह्मे­त्यु­पा­सी­ते­त्या­दा­व­ब्र­ह्मणि ब्रह्म­त्वे­नो­पा­सना विधीयते , एव­म­स­त्ये­वा­स्ती­त्यु­प­ल­ब्धि­दृ­ष्टि­र्वि­धी­यते , इति­श­ब्द­शि­र­स्क­त्वा­वि­शे­षा­दि­त्यर्थः ।
तत्प्र­शं­सा­र्थ­मिति ।
अस्ति­त्व­दृ­ष्टि­वि­धि­प्र­शं­सा­र्थ­म­स­न्नेव स भवति असद्द्ब्रह्मेति वेद चेदि­त्य­स­द्भा­व­ज्ञा­न­नि­न्दे­त्यर्थः । संभन्त्स्यते संबद्धो भविष्यति ।
कंचि­द्ध­र्मि­ण­म­ना­श्रित्य निषे­धा­यो­गा­त्प­क्षा­न्त­र­माह –
अथवेति ।
ननु षष्ठ्य­न्त­श­ब्दा­दु­प­स­र्ज­न­त्वेन प्रस्तुतं ब्रह्म कथं निषेधेन संबध्यते ? तत्राह –
योग्यत्वादिति ।
अप्रमितत्वमेव निषेधयोग्यत्वम् ।
ननु विशेषाणां निषेधे सामा­न्य­स्या­प्य­यो­गा­च्छू­न्य­वा­द­प्र­सङ्ग इत्याशङ्क्य सामा­न्य­वि­शे­ष­भावो ब्रह्मगतोऽसिद्ध इत्याह –
उपाधय इति ।
शोणो लोहितः । कर्क ईषल्लोहितः । निर्विशेषं सामान्यं न भवेदित्युक्तं , तत्र निषेधेन निषेध्यसत्ता निषिध्यते , सा किम­र्थ­स्व­भा­व­भूता उत प्रमा­ण­सं­ब­न्धा­त्मिका ।
द्वावपि पक्षौ नेत्याह –
अभा­वोऽ­प्र­ती­ति­र्वेति ।
शशविषाणायमानता शशविषाणतुल्यता ।
ननु न वयं विशे­षा­त्म­ज­ग­न्नि­षे­धे­ना­र्थाद् ब्रह्मनिषेधं ब्रूमः , किंतु रूपद्वयवत् सन्नि­धा­ना­वि­शे­षा­द्द्ब्र­ह्म­णोऽ­पी­ति­श­ब्देन प्रति­षे­ध्य­त्वे­नो­पा­त्त­त्वा­त्सा­क्षा­दु­भ­य­नि­षे­ध­मि­त्यत आह –
न चेतीति ।
भाव­म­ना­श्रि­त्या­श्र­य­त्वे­ना­नु­पा­दाय प्रतिषेधो नोपपद्यते इति , प्रतिषेधसत्ताया आश्रयापेक्षां व्यति­रे­क­मु­खे­नो­क्त्वाऽ­न्व­य­मु­खे­ना­प्याह –
किंचिद्धीति ।
प्रती­ता­व­प्य­भा­व­स्या­श्र­या­पे­क्षा­माह –
न ह्यनाश्रय इति ।
वेदान्तेषु ब्रह्म­प्र­ति­पा­द­नस्य निषे­ध्य­स­म­र्प­क­तायाः पूर्वपक्षे उक्तत्वाद् ब्रह्म ते ब्रवा­णी­त्या­द्यु­प­क्र­म­वि­रो­धा­दि­त्या­भा­ष्यो­क्त­हे­तुना शङ्कि­ता­न्य­था­सि­द्धीना सिद्ध­व­द्ब्र­ह्म­प्र­ति­षे­ध­वा­र­क­त्वा­योगं मत्वा भाष्येऽ­र्था­त्सू­चितं हेतुं विवृणोति –
युक्तमित्यादिना ।
नैस­र्गि­का­वि­द्या­प्राप्तः प्रपञ्चः प्रतिषिध्यत इति यत्त­द्यु­क्त­मि­त्यर्थः । किं भ्रमसिद्धं ब्रह्म प्रतिषिध्यते , उत प्रत्य­क्षा­दि­सि­द्धम् , आहो शास्त्रसिद्धम् ।
नाद्य इत्याह –
ब्रह्म त्विति ।
सद्रूपत्वेन निर्व­च­नी­य­त्वा­दि­त्यर्थः ।
न द्वितीय इत्याह –
नापीति ।
तृतीयमनूद्य दूषयति –
तस्मादिति ।
ननु शास्त्र­प्र­मि­तेऽपि प्रतिषेधः प्रमाणवान् भवेद् , विधि­प्र­ति­षे­ध­यो­स्तु­ल्य­ब­ल­त्वेन विक­ल्प­सं­भ­वा­दि­त्या­श­ङ्क्याह –
न च पर्युदासेति ।
पर्युदासाधिकरणं गुणोपसंहारे ‘हानौ तूपा­य­न­श­ब्द­शे­षत्वा ‘ (व्या.सू.अ.३.पा.३.सू २६) दित्यत्र स्वय­मे­वा­नु­क्र­मि­ष्यति , तत्रैव तत्पू­र्व­प­क्षोऽपि द्रष्टव्यः । तत्र यथा विधिप्राप्तस्य यागेषु येयजामहकरणस्य सर्वात्मना नानूयाजेष्विति प्रतिषेधेन वार­यि­तु­म­श­क्य­त्वाद् अनुयाजेषु येयजामहविकल्पः , एवमत्र सत्त्वा­स­त्त्व­योर्न विकल्पः , वस्तुनि तदयोगात् । पुरु­ष­प्र­वृ­त्ति­नि­वृत्त्योः प्रागेव तस्यैकरूपत्वेन सिद्ध­त्वा­दि­त्यर्थः ।
यच्च वाङ्म­न­सा­गो­च­र­त्वेन प्रमा­ण­वि­रो­धा­भा­वाद् ब्रह्मणः प्रतिषेध इत्युक्तं , तन्न ; तथा सति योग्यप्राप्त्या निषे­धा­यो­गा­दि­त्याह –
न चासत्यादिति ।
अयं हि निषेधः सन्नि­हि­त­प्र­प­ञ्च­वि­ष­य­त्वेन निराकाङ्क्षो न दूरस्थेन ब्रह्मणा संबध्यते । यद्यपि ब्रह्मणोऽपि सन्नि­धा­न­म­वि­शिष्टं , बृहदारण्यके एतन्निषेधं प्रति ; तथापि षष्ठ्य­न्त­त्वे­नो­प­स­र्ज­न­त्वान्न तस्य निषेधेन संबन्ध इति वक्ष्यति प्रधानं प्रकृतमिति ग्रन्थेन ।
सन्निहितमपि प्रपञ्चं प्रमा­णा­वि­रो­धा­दु­पेक्ष्य प्रतिषेधो दूरस्थं ब्रह्मा­का­ङ्क्ष­ती­तु­आ­श­ङ्क्याह –
यच्चेति ।
ब्रह्म­नि­षे­धेऽ­प्यस्ति प्रमाणाविरोधः , वेदान्तानां तत्र प्रमा­ण­त्वा­दि­त्याह –
प्रतिपादयन्ति वेदान्ता इति ।
अनुपपत्तेरिति ।
शास्त्र­प्र­मि­त­नि­षेधे हि विकल्पः स्यात्तस्य च वस्तु­न्य­नु­प­प­त्ति­रि­त्यु­क्तम् इत्यर्थः ।
अधस्तादिति ।
नापि ब्रह्मप्रतिषेध उपपद्यत इति भाष्य इत्यर्थः ।
तर्हि तेनैव बाङ्म­न­सा­ती­त­त्व­म­पीति भाष्यं पुन­रु­क्त­मि­त्या­श­ङ्क्याह –
इदानीं त्विति ।
तेन भाष्येण शास्त्र­प्र­मि­तस्य निषे­धा­नु­प­प­त्ति­रुक्ता , अनेन तु निषे­द्धु­मि­ष्टस्य प्रति­पा­द­न­वै­य­र्थ्यम् । अत्र लिङ्गं भाष्ये प्रक्षा­ल­ना­द्धीति न्यायो­दा­ह­र­ण­मि­त्यर्थः ।
प्रक्रि­या­श­ब्दस्य व्याख्या –
उपक्रम इति ।
वाङ्मनसगोचरत्वे निषिद्धे तथैव मनसि स्थिरीकृते स्वयं­ज्यो­ति­रात्मा स्फुर­ती­त्यु­प­क्र­म­त्वम् । प्रधानं प्रकृतमिति प्रकर्षेण कृतं प्रकाशितं प्रकृतं प्रकर्षः प्राधा­न्य­मि­त्यर्थः । न ब्रह्मेत्यत्र प्रधानं प्रकृ­त्त­मि­त्य­नु­षङ्गः ।
सूत्रे ततः­श­ब्दा­दु­प­र्य­न्य­दि­त्य­ध्या­ह­रति –
ततोऽन्यदिति ।
इतरथा हि ब्रवीतीत्युक्ते किं ब्रवीतीति न ज्ञायेतेति ।
ततःशब्दार्थमाह –
नेति नेतीति प्रतिषेधादिति ।
प्रति­षे­धा­द­भा­वा­द­न्य­द्भा­व­रूपं ब्रह्म ब्रवीतीत्यर्थः ।
प्रति­षे­धा­द­न्य­द्वस्तु ब्रुवाणं वाक्यमुदाहरति –
निर्वचनं न ह्येतस्मादितीति ।
नेति नेतीति प्रति­षे­ध­नि­ब­न्ध­न­रूपं न ह्येतस्मादिति वाक्यमित्यर्थः ।
अस्य वाक्य­स्या­र्थ­द्वै­वि­ध्य­मु­पा­दा­या­भा­वा­द­न्य­प्र­ति­पा­द­क­ता­मु­क्ता­मु­प­पा­द­यति –
अस्येति ।
न ह्येत­स्मा­दि­त्ये­त­द्व्या­चष्टे –
इति नेति ।
इत्यादिष्टादिति ।
नेति नेत्ये­वं­रू­पे­णा­दि­ष्टाद् ब्रह्म­णोऽ­न्य­न्नास्ति , परम् अप्रतिषिद्धं ब्रह्म त्वस्तीत्यर्थः ।
धेयप्रत्ययः स्वार्थिक इत्याह –
नामेति ।
स्थूल­श­री­रा­पे­क्षया प्राणप्रधानस्य लिङ्गशरीरस्य स्थायित्वात् सत्यत्वमुच्यत इत्याह –
माहारजनादीति ।
महा­र­ज­ना­दी­नि­रू­पा­ण्यु­प­हि­तानि निक्षिप्तानि यस्मिस्तथोक्तम् । उपमितमिति पाठो यद्यस्ति तदा सुगमम् ।
इतरापेक्षयेति ।
स्थूल­श­री­रा­पे­क्ष­ये­त्यर्थः । तदिति तस्मादर्थे ॥२३॥२४॥२५॥२६॥
अहि­कु­ण्ड­ल­सू­त्रस्य (ब्र.अ.३.पा.२.सू.२७) प्रका­शा­श्र­य­व­द्वेति (ब्र.अ.३.पा.२.सू.२८) सूत्रस्य च भेदा­भे­द­वि­ष­य­त्व­सा­म्या­त्पौ­न­रु­क्त्य­मा­श­ङ्क्याह –
विषयभेदादिति ।
अहिरेकः कुण्डलभोगादयः परस्परं भिन्ना इति भेदाभेदौ भिन्नविषयौ , तदिदमुक्तं कुण्ड­ला­दी­त्या­दि­श­ब्देन । सवितरि तु प्रकाशस्य गुणस्य द्रव्यस्य च परस्परं भेदाऽभेदौ न च वस्त्व­न्त­रा­पे­क्ष­ये­त्ये­क­वि­ष­य­त्वम् ।
एकविषयत्वे हेतुमाह –
सर्वदेति ।
विरोधे हि विषयव्यवस्था सदाऽ­नु­भू­य­मा­न­त्वा­द­वि­रोध इत्ये­क­वि­ष­य­त्व­मि­त्यर्थः ॥२७॥२८॥
भेदाभेदौ भिन्नविषयापिति पक्षं दूषयति –
यस्य मतमिति ।
न तावदेवं भेदाभेदौ निर्वक्तुं शक्यौ ; कुण्डलादयो भिन्ना अहिश्चानुयायी एक इति अत्य­न्त­भे­द­वा­दि­भि­रपि तथेष्टत्वात् । तस्मादेकस्य वस्तुनो द्वाब्या­मा­का­राभ्यां भेदाभेदौ इति निरूवणीयम् । तत्रा­हि­त्व­म­नु­वृ­त्ता­कारः कुंडलत्वं व्यावृत्ताकारः । तदात्मना चेत्त­दु­भ­या­श्र­यस्य वस्तुनो भेदा­भे­दा­वि­ष्येते , तदा तावकारौ वस्तुनो भिन्नो चेत्त­र्ह्य­हि­त्व­कु­ण्ड­लत्वे परस्परम् भिन्ने वस्तुनि समवेते इति वक्तव्यं , न तु वस्तु­न­स्त­दा­त्मना भेदाऽ­भे­दा­वि­त्यर्थः । अहि­त्वे­ने­त्या­द्या­स्तृ­तीया इत्थम्भावार्थाः ।
प्रका­शा­श्र­य­व­द्भे­दा­भेदौ निषेधति –
न चेति ।
भावाभावयोर्हि स्वाभाविको विरो­ध­स्त­द­नु­ष­ङ्गा­द­न्य­त्रेति स्थितिः ।
तत्र भेद­त­द­भा­व­यो­र्य­द्य­वि­रोधः , तदा क्वापि विरोधो न स्यादित्याह –
पर­स्प­र­वि­रु­द्ध­यो­रिति ।
ननु सवि­तृ­प्र­का­श­ग­त­भे­दा­भे­दयोः सहानुभवादविरोध इत्युक्तम् इति , तत्राह – न चेति ॥२९॥३०॥ आत्मा न चक्षुषा गृह्यते नापि वाचा शब्दो­च्चा­र­ण­द्वा­रे­णा­भि­धी­यते । नान्यै­र्दे­वै­रि­न्द्रि­यै­र्गृ­ह्यते तपसा कृच्छ्रादिना कर्म­णाऽ­ग्नि­हो­त्रा­दिना न गृह्यते , इति नेति नेतीति य आत्मा व्याख्यातः , स एषोऽ­गृ­ह्योऽ­ग्राह्यः , यस्मान्न हि गृह्यते ग्रहणायोग्यः प्रत्य­गा­त्म­त्वा­दि­त्यर्थः । स्वयंभूरिश्वरः । खानि खं श्रोत्र­मा­का­शा­र­ब्ध­त्वा­त्त­दु­प­ल­क्षि­तानि सर्वेन्द्रियाणि , पराञ्चि बहिर्विषयाणि यथा भवन्ति तथा , व्यतृ­ण­द्धिं­सि­त­वान् तस्माद्धेतोः पराडेव पश्यति सर्वो लोकः , नान्तरात्मन् अन्तरात्मनि विषये न पश्यति । कश्चित्तु धीमान् विवेकी प्रत्य­गा­त्मा­न­मै­क्षत् ईक्षितवान् , आवृ­त्त­च­क्षु­रु­प­र­ते­न्द्रियः । किमर्थम् - अमृतत्वमिच्छन् । ज्ञाय­तेऽ­र्थोऽ­ने­नेति ज्ञानमन्तःकरणं तस्य प्रसादो रागादिराहित्यं तेन­वि­शु­द्ध­सत्त्वः प्रत्य­क्प्र­व­णा­न्तः­क­र­ण­स्त­तस्तु विशु­द्ध­स­त्त्वा­द्धेतोः , तमात्मानं निष्कलं निरवयवं ध्यायमानः पश्यति ।स्मृतौ योगात्मन इति योगगम्यात्मन इत्यर्थः । परात्कारणात्परं दिव्यं स्वप्रकाशं यः सर्वान्तरः सर्वा­धि­ष्ठा­न­भूतः , एष त आत्मा स्वरूपम् ॥
इति षष्ठं प्रकृ­तै­ता­व­त्त्वा­धि­क­र­णम् ॥

परमतः सेतू­न्मा­न­सं­ब­न्ध­भे­द­व्य­प­दे­शेभ्यः ॥३१॥ नेति नेत्य­पू­र्व­म­न­प­र­मे­क­मे­वा­द्वि­ती­य­मि­त्या­दि­वा­क्यै­र­द्वि­ती­यत्वं ब्रह्मणः साधितम् ।
कथमिह ब्रह्म­व्य­ति­रि­क्त­व­स्त्व­स्ति­त्व­मा­श­ङ्क्यते ? न च सेतु­श­ब्दा­दा­शङ्का ; द्युभ्वा­द्य­धि­क­रणे (ब्र.सू.अ.१.पा.३.सू.१) तस्य नीत­त्वा­दि­त्या­श­ङ्का­मु­द्भाव्य निरस्यति –
यद्यपीति ।
द्युभ्वा­द्य­धि­क­रणे हि सेतुशब्दस्य पूर्व­प­क्षेऽ­प्य­मु­ख्या­र्थ­त्वा­द्वि­ध­र­ण­त्व­मर्थ आश्रितः , इह तून्मा­न­सं­ब­न्ध­भे­द­व्य­प­दे­शाना पूर्वपक्षे मुख्या­र्थ­ला­भा­त्तेषां वक्ष्यमाणा गतीरजानतः पूर्वपक्ष इत्यर्थः ।
तदिदमुक्तं –
सेत्वा­दि­श्रु­ती­ना­मिति ।
आदिशब्देन न केवलं सेतु­श्रु­ति­स्त­दाद्या अन्या अपि सन्त्य­नि­र्णी­तार्था इत्यर्थः । पूर्वं च प्रति­षे­धा­द­न्यस्य ब्रह्मणः श्रुत्यो­क्त­त्वा­दस्ति ब्रह्मे­त्यु­क्तम् । अस्मिन् ब्रह्म­व्य­ति­रि­क्त­स्यापि श्रुत्यो­क्त­त्वाद् ब्रह्म­व्य­ति­रि­क्त­म­स्तीति प्रत्यवस्थीयते । जाङ्गलं वातभूयिष्ठम् इति वैद्यो­क्त­त्वा­द्वा­त­ब­हु­ल­देशो जाङ्गलम् ।
भाष्ये –
तुल्य­न्या­य­त्वा­त्स्थ­ल­मा­त्र­मु­क्त­मि­त्याह – स्थलमिति ।
उन्मा­न­व्य­प­दे­श­वि­व­र­णार्थं ब्रह्म चतुष्पादित्यादि भाष्यं , तच्छा­न्दो­ग्य­श्रु­त्यु­क्त­षो­ड­श­क­ल­वि­द्या­सं­ब­न्धि­पा­द­श­फो­दा­ह­र­णेन व्याचष्टे –
प्रका­श­व­दि­त्या­दिना ।
गवां हि पादेषु पुरतो द्वौ खुरौ पृष्ठतश्च द्वे पार्ष्ण्यौ भवतः । तत्र पुरतोऽर्धं पश्चादर्धं च शफशब्देनोच्यते । ततोऽष्टाशफम् । एकैकस्मिन् पादे कलाचतुष्टयमिति षोडशकलम् ।
पादस्य प्रका­श­व­त्त्व­स­मा­ख्यायां हेतुमाह –
एतदुपासनायामिति ।
प्रका­श­वा­न्भ­व­तीति फलश्रुतिं व्याचष्टे –
मुख्य इति ।
कीर्तिमान् हि सर्वत्र मुख्यो भवतीत्यर्थः ।
प्राण इति ।
प्राण इह घ्राणेन्द्रियम् ; तस्य प्राणसहचरस्य गान्ध­ग्रा­ह­क­त्वात् ।
मन आय­त­न­मा­श्रि­त्येति ।
गन्धा­दि­वि­ष­य­ज्ञा­ना­श्र­य­मा­श्रि­त्यै­ते­ना­धि­ष्ठि­तानि भूत्वेत्यर्थः । अतः पर­म­न्य­द­मि­त­म­स्तीति भाष्यं , तदनुपपन्नमिव ; अन्यत्वे सत्य­मि­त­त्वा­नु­प­पत्तेः ।
अत उचितशङ्कां कृत्वा अवतारयति –
स्यादे­त­द­स्ति­चे­दिति ।
अस्ति चेद­न्य­दि­त्य­नु­षङ्गः । परिसंख्याय गणयित्वा ।
भाष्ये गम्यते इति पदं व्याचष्टे –
प्रमाणसिद्धमिति ।
संख्या­तु­म­श­क्यानि वस्तूनि ब्रह्मणोऽन्यानि सन्तीति भाष्यार्थमाह –
न त्वेतावदिति ।
अथ य एषोऽन्तरादित्य इत्यथ य एषोक्षणीति च भेदव्यपदेशं व्याचष्टे –
आधारत इति ।
तस्यैतस्य तदेव रूपं यदमुष्य रूप­मि­त्या­दि­भे­द­व्य­प­देशं व्याकरोति –
अतिदेशात् इति ।
ये वाऽमु­ष्मा­त्प­राञ्चो लोका इत्या­दि­भे­द­व्य­प­देशं व्याख्याति – अवधितश्चेति ॥३१॥
न केवलं जगत उपादानत्वेन ब्रह्म धारकम् , किंतु निय­न्तृ­त्वे­ना­पी­त्याह –
तन्मर्यादानाम् चेति ।
अतिचपला अनियतचेष्ठाः स्थूलाश्च बलवन्तश्च कल्लो­ला­स्त­र­ङ्गा­स्तेषां मालास्ताभिः कलिलः क्षोभितो जलनिधिः स इलापरिमण्डलं भूमण्डलमवगिलेद् प्रसेद् यदि ब्रह्मभुवं न धारयेदित्यर्थः । यदि च ब्रह्म जगन्न धारयेत् , तर्हि स्फूर्जन्त्यो दीप्यमाना ज्वालारूपा जटा यस्य स व वाग्निर्वा जग­द्भ­स्मा­सा­द्भा­व­येत् कुर्यादिति । अकाण्डमिति । अनवसरो यथा भवति तथा अकाले इत्यर्थः । प्रलयकालो हि विघटनावसरः ॥३२॥
पादवदिति सूत्रा­व­य­व­व्या­ख्या­नार्थं भाष्यं - यथा मन आका­श­यो­र­ध्या­त्म­म­धि­दैवं चेत्यादि , तद्व्याचष्टे –
मनस इत्यादिना ।
ब्रह्म­प्र­ती­क­स्ये­त्ये­तस्य व्याख्यानम् –
आरो­पि­त­ब्र­ह्म­भा­व­स्येति ।
प्राण इति घ्राणमुक्तम् ।
वागादीनां मनःपादत्वे हेतुमाह –
मनो हीति ।
संच­र­ण­सा­धा­र­ण­त­येति ।
संचर्यत एभिरिति संचरणाः । तद्रूपत्वेन प्रसि­द्ध­पा­द­सा­धा­र­ण­तया वागादयो मनसः पादा इति ।
आध्यात्मिकं मन­श्च­तु­ष्पा­द्व्या­ख्या­या­धि­दै­वि­क­मा­काशं चतुष्पादं व्याचष्टे –
आका­श­स्ये­त्या­दिना ।
भाष्ये कार्षापण इति षोडशपणाः कपर्दक उक्ताः । ताम्नकर्षमितः क्रय­सा­ध­न­मु­द्रा­वि­शेषो वा । सौधं इर्म्यं तस्य जालं गवाक्षं तन्मा­र्ग­नि­वे­शिन्यः ॥३३॥ यः संबन्धः स एकीभाव इति कथं­चि­त्क­स्मा­द्व्या­ख्या­यत इत्यर्थः ।
ननु स्वरूपसंबन्धः समवायोऽपि संभवति , कथं जीवस्य ब्रह्म­ता­दा­त्म्य­सि­द्धि­रत आह –
स्वभावश्चेदिति ।
अनेन संबधत्वेन संबन्धभावेन स्वभावश्चेत् स्पृष्टः स्वभावसंबन्ध इति चेदुच्यत इत्यर्थः । ततः स्वाभाविकः संब­न्ध­स्ता­दा­त्म्या­ना­ति­रि­च्यते ; सम दित्युक्तं तर्कयादे इत्यर्थः ॥३४॥३५॥३६॥
भास्करेणानेन सर्वगतत्वमिति सूत्रं प्रस­ङ्गा­दा­त्म­स­र्व­ग­त­त्व­प्र­ति­पा­द­कम् , नात्र पूर्वपक्षाशङ्का निरस्यत इत्युक्तम् , तत्सू­त्रा­भि­प्रा­या­न­व­बो­धा­दिति दर्श­य­न्ना­श­ङ्का­माह –
ब्रह्मा­द्वै­त­सि­द्धा­व­पीति ।
ब्रह्म­व्य­ति­रि­क्त­व­स्त्व­भावे सर्वाभावादेव सर्व­सं­ब­न्धा­त्म­क­स­र्व­ग­त­त्वा­सि­द्धि­र­त­श्चा­का­श­वत् सर्वगत इत्या­दि­श्रु­ति­वि­रोधः । तस्मा­त्स­र्व­ग­त­त्वार्थं ब्रह्मा­ति­रि­क्त­व­स्त्व­पे­क्ष­णा­त्प­र­मत इति पूर्वपक्ष उन्मज्जतीति शङ्का । न वास्तवं सर्वगतत्वं किंतु प्रपञ्चेन मिथ्या­ता­दा­त्म्य­मि­त्याह – अद्वैते इति ॥३७॥
इति सप्तमं पराधिकरणम् ॥

फलमत उपपत्तेः ॥३८॥ ब्रह्म­व्य­ति­रि­क्त­व­स्तुनि निषिद्धे फलदातृत्वमपि ब्रह्मणो न स्यादि­त्या­शङ्क्य व्यव­हा­र­त­स्त­त्स­म­र्थ्यते । सत्यपि सर्वगतत्वेन समानन्यायत्वे कर्मण एव फल­मि­त्या­श­ङ्का­नि­रा­सा­या­रम्भः । एतच्चेति ब्रह्मण उपा­धि­व­शा­दी­क्ष­ण­क­र्तृ­त्वम् । तपसेति मन्त्र ईक्षत्यधिकरणे व्याख्यातः । तेन फल­दा­त­त्व­म­प्यौ­पा­धि­क­मु­प­पा­दि­त­मि­त्यर्थः ।
भाष्य­स्थ­मि­ष्ट­पदं व्याचष्टे –
इष्टं फलमित्यादिना ।
अवी­चि­र्न­र­क­वि­शेषः ।
वैष­म्य­नै­र्घृ­ण्य­प्र­स­ङ्ग­मी­श्व­रस्य परिहरति –
कर्म­भि­रा­रा­धि­ता­दिति ।
यदि कर्म स्वान­न्त­र­का­ल­मा­र­भेत , तर्ह्यु­प­ल­भ्ये­ते­त्या­श­ङ्क्याह –
उपात्तमपीति ।
स्वरूपेण सदपि कथं फलमिति योजना ।
भुज्यमाननपि फलं विष­या­न्त­र­व्या­स­ङ्गान्न दृश्यत इत्याशङ्क्याह –
तीव्रतमे इति ।
प्रत्य­क्षा­ग­मा­भ्या­मिति ।
यः सर्वाणि भूतान्यन्तरो यमयतीत्यागमः ॥३८॥ अन्नमा सम­न्ता­द्द­दा­ती­त्य­न्नादः ।
अत्र भगवता भाष्यकारेण विधि­श्रु­ते­र्वि­ष­य­भा­वो­प­ग­मा­दि­त्या­दि­भा­ष्येण कर्मण एव फलमिति पूर्वपक्षघटनाय स्वर्ग­का­मा­धि­क­र­ण­सि­द्धान्तः संचिक्षिपे , तन्नि­व­र्त्या­मा­श­ङ्का­मा­द­र्श­यं­स्त­द­धि­क­र­ण­पू­र्व­प­क्ष­माह –
नन्वित्यादिना ।
धात्व­र्थ­नि­ष्पा­दकः कर्तृव्यापारो भावना , सैव क्रिये­त्य­न्ये­षाम् ।
तत्र पूर्व­स्मि­न्पक्षे स्वर्गा­द्य­न­पे­क्षा­माह –
तथा हीति ।
यागादीनामेव क्रियात्वे तेषां धातुभिरेव प्रतीतेः प्रत्य­य­पौ­न­रु­क्त्य­मा­श­ङ्क्याह – पूर्वापरीभूता इति यजेतेत्यत्र हि यजिना प्रकृत्या याग एव प्रतीयते । प्रत्ययसहितेन तु तेन स एव पूर्वापरीभूतो नाना­क्ष­ण­व्या­स­क्तोऽ­भि­धी­यते ।
पूर्वा­प­री­भू­तत्वं यजत इत्या­दि­व­र्त­मा­ना­प­दे­शे­ष्व­प्य­स्तीति लिङ्गादिषु वेशेषमाह –
साध्यस्वभावा इति ।
द्वितीयपक्षे तादृ­श­भा­व­ना­भाव्यः किं स्वर्गादिरेव ? किं वा यागादिरपि ? न प्रथम इत्याह –
तथाप्यसाविति ।
प्रत्ययार्थभूता भावना धात्व­र्था­ति­रिक्ता यद्यपि स्वातिरिक्तं भाव्य­मा­का­ङ्क्षते ; तथापि धात्वर्थ एवस्या भाव्यः , तस्य यजे­ते­त्ये­क­प­द­श्रुत्या साध्य­त्व­प्र­तीतेः । अत एव च पूर्वावगतेः न स्वर्गः । तस्य भिन्न­प­दो­पा­त्तस्य वाक्येन साध्यत्वस्य प्रत्ये­त­व्य­त्वाद् , वाक्यस्य च लिङ्ग­श्रु­ति­क­ल्प­ना­पे­क्षस्य चरमभावित्वात् । किं च पुरु­ष­वि­शे­ष­ण­स्व­र्गस्य न यागेन संबन्धः , उपसर्जनस्य पदा­न्त­रे­णा­स­ब­न्धा­दि­त्यर्थः ।
न द्वितीय इत्याह –
न केवलमिति ।
यागादयो न साध्या­न्त­र­म­पे­क्षन्ते इत्येतन्न केवलं शब्दतः , अपि तु वस्तु­त­श्चे­त्यर्थः ।
वस्तु­सा­म­र्थ्य­मेव दर्शयति –
पुरु­ष­प्र­य­त्न­स्येति ।
यदि स्वर्गो न साध्यः , कथं तर्हि स्वर्गो यागेन संबध्यतेऽत आह –
स्वर्गा­दे­स्त्विति ।
प्रीतिसाधनं चन्दनादि स्वर्गः । तस्य सिद्धत्वात् साध्यक्रियां प्रति साधनत्वेनान्वय इत्यर्थः ।
उक्तेऽर्थे स्वर्ग­का­मा­धि­क­र­ण­पू­र्व­प­क्ष­सू­त्र­मु­दा­ह­रति –
द्रव्याणामिति ।
यदि यागादेर्न स्वर्गा­दि­सा­ध­न­त्वम् , कथं तर्हि पुरुषाः प्रव­र्ते­र­न्न­प्र­व­र्त­मा­नेषु वा तेषु कथं शास्त्राणां प्रामाण्यमत आह –
तथा च कर्मण इत्यादिना ।
कथं कर्मविधीनां ब्रह्म­ज्ञा­न­प­र­त्व­मत आह –
भेदप्रपञ्चेति ।
अप्रविलापिते हि प्रपञ्चे ब्रह्माद्वैतं प्रत्ये­तु­म­श­क्य­मिति ।
ननु स्वर्गकामवाक्य आकाशादिलयो न भात्यत आह –
क्वचिदिति ।
अनुक्ते स्वर्गसाध्यत्वे देहा­ति­रि­क्ता­त्मा­प्र­तीतिः , उक्ते च वाक्यस्य तत्परत्वं स्यादि­त्या­श­ङ्क्याह –
आपातत इति ।
आपातप्रतीतोऽपि तथाऽस्तु देव­ता­वि­ग्र­हा­दि­व­दत आह –
तत्रेति ।
निराकृतस्य कथं प्रप­ञ्च­प्र­वि­ल­य­प्र­मि­त्य­र्थ­त्व­मत आह –
असतोऽपीति ।
असन्नपि प्रमित्यर्थो वपोत्खननादिरिव प्राश­स्त्य­प्र­मि­त्यर्थ इति भावः ।
स्वर्गकामवाक्ये देहा­त्म­भा­वो­प­ल­क्षि­त­ज­ड­प्र­प­ञ्च­वि­ल­य­मुक्त्वा गोदोहनवाक्ये दर्श­पू­र्ण­मा­सा­धि­का­रिण एव गोदो­ह­नेऽ­प्य­धि­का­रा­व­ग­मा­दु­भ­य­त्रा­धि­का­रि­भे­द­प्र­वि­ला­प­न­द्वारा तदु­प­ल­क्षि­ता­त्म­भेदः प्रविलाप्यत इत्याह –
गोदोहनेनेति ।
एवं प्रवृ­त्ति­वि­ष­य­ज­ड­प्र­प­ञ्चस्य स्वरूपेण प्रविलयं , प्रवृ­त्ति­क­र्तु­श्चे­त­नस्य भेद­मा­त्र­प्र­वि­लयं चाभिधाय प्रवृत्तेः प्रविलयमाह –
निषेधवाक्यानीति ।
साक्षादेव प्रवृ­त्ति­नि­षे­धे­ना­त्म­ज्ञा­नो­प­यो­गी­नी­त्य­ध्या­हारः ।
विधिवाक्यानीति ।
ऐहि­क­फ­ला­नी­त्यर्थः । पारलौकिकफलानां देहा­त्म­भा­व­प्र­वि­ल­या­र्थ­त्व­स्यो­क्त­त्वात् साग्र­ह­णी­ष्ठ्या­दि­प्र­वृ­त्ति­प­राणि न भवन्ति ; स्वर्गकामपदवद् ग्राम­का­म­प­द­स्यापि फल­स­म­र्प­क­त्वा­यो­गा­दि­त्यर्थः ।
सेवा­दि­दृ­ष्टो­पा­य­प्र­ति­षे­धा­र्था­नीति ।
सेवा­दि­वि­ष­य­प्र­वृ­त्तिर्हि सांग्र­ह­ण्या­म­नु­ष्ठी­य­मा­नायां न भवतीत्यर्थः ।
एवं मुख्या­र्थ­प­रि­ग्रहे बाधकप्रदर्शनेन विधीनां प्रप­ञ्च­ल­या­र्थ­त्व­मु­क्त­मि­दानीं लक्षणास्वीकारे प्रयोजनमाह –
तथा चेति ।
ननु यदि न कर्मणां फलसाधनत्वम् , कथं तर्हि जगद्वैचित्र्यम् ? अत आह –
अनादिविचित्रेति ।
कथं तर्हि विधिरिति ।
त्वयाऽपि सांग्र­ह­ण्या­दीनां दृष्टा­र्थ­प्र­वृ­त्ति­प­रि­सं­ख्या­य­कत्वं ब्रुवता विधिर्न त्यक्तः । तथा च फला­र्थि­नोऽ­धि­का­रि­णोऽ­भावे विधित्वं न स्यादित्यर्थः ।
वायू­द­का­दि­व­द्विधेः प्रव­र्त­क­त्व­मि­त्ये­त­त्त­वद् निषेधन् स्वर्ग­का­मा­धि­क­र­ण­सि­द्धान्तं दर्शयति –
उपदेशो हीत्यादिना ।
ननु भवतूपदेशो विधिः , कथं तस्य फलसाधनविषयता ? अत आह –
उपदेशश्चेति ।
नियोज्यः प्रवर्त्यः पुरुषस्तदीयं प्रयोजनं साध्यं यस्य कर्मणः तन्नि­यो­ज्य­प्र­यो­ज­नम् ।
ननु नियो­क्तृ­पु­रु­ष­प्र­यो­ज­न­सा­धनं यथाऽऽज्ञादौ बोध्यते , एवमुपदेशेऽपि किं न स्यादत आह –
न त्वज्ञादिरिव नियोक्तृप्रयोजन इति ।
उपदेश इत्यनुषङ्गः । उत्तमनियोक्तृका ह्याज्ञा यथा गामानयेति । अनु­त्त­म­नि­यो­क्तृ­काऽ­भ्य­र्थना यथा मम पुत्रमध्यापयेति । उभयत्रापि प्रवर्तयितुः प्रयोजनसाधनं बोध्यते , नैवमुपदेशे ।
तत्र हेतुमाह –
तत्रा­भि­प्रा­य­स्येति ।
प्रवर्तयिता स्वस्य हितं भवत्विति यत्र प्रवर्तयति तत्रा­ज्ञा­दि­स्त­द­भि­प्रा­य­वि­शेषः प्रवर्तकः । अपौरुषेये वेदे तस्या­सं­भ­वा­न्नि­यो­ज्य­प्र­यो­ज­न­सा­ध­न­मु­प­दि­श्यत इत्यर्थः । न च वाच्यमुपदेशोऽपि नियो­ज्य­प्र­यो­ज­न­सा­ध­न­वि­ष­योऽ­भि­प्रा­य­वि­शेष इति कथमसावपौरुषेये वेदे संभवतीति ; यतः परस्य स्वस्य वा प्रयो­ज­न­म­न­भि­सं­धा­यापि गोपा­ला­दे­र्मा­र्गा­द्यु­प­दे­ष्टृत्वं भूतार्थविषयं दृश्यते ।
ननु नियो­ज्य­प्र­यो­ज­न­सा­ध­न­वि­ष­य­त्व­म­नु­ज्ञा­या­मपि दृश्यते , यथेच्छसि तथा कुर्वित्यादौ , तत्राह –
अस्य चेति ।
अनुज्ञायां हि प्रवृत्तस्य प्रवर्तनमुपदेशे त्वप्रवृत्तस्य तत­श्चा­प्र­वृ­त्त­प्र­व­र्त­कत्वे सतीति विशे­ष­ण­वि­षि­ष्ट­नि­यो­ज्य­प्र­यो­ज­न­सा­ध­न­वि­ष­य­त्व­मु­प­दे­श­स्यैव लक्षणमिति न्यायकणिकायाम् उप­पा­दि­त­मि­त्यर्थः । नियो­ज्य­प्र­यो­ज­ने­त्या­दे­र्व्या­ख्या­नम् – अनु­ष्ठा­त्र­पे­क्षि­ते­त्यादि ।
प्राभा­क­रा­भि­म­त­नि­यो­ज्य­व्या­वृ­त्त्यर्थं सिद्धा­न्त­सू­त्र­गतं तादर्थ्यादिति पदं व्याचष्टे –
अनु­ष्ठा­त्र­पे­क्षि­तो­पा­य­ता­र­हि­तेति ।
तादर्थ्यात् तादर्थ्ये सति पूर्व­प­क्षो­क्त­प्र­व­र्त­ना­मा­त्रा­र्थत्वे सतीत्यर्थः ।
यदुक्तं साक्षा­द्भा­व­ना­भाव्यो यागादिः , स च दुःखरूप इत्य­प्र­वृ­त्ति­रिति , तत्राह –
न चैत इति ।
विधिविषयीकृत भावनायाः श्रेयः­सा­ध­न­त्वात् स्वर्ग एवोद्देश्यो न तु यागादयः । यदि स्युस्त­र्ह्य­प्र­वृ­त्ति­वि­ष­यता तेषां स्यात् , तच्च नास्ति ; यागादीनां भावनां प्रत्य­नी­प्सि­त­क­र्म­ता­मा­त्र­त्वा­दि­त्यर्थः ।
यागादीनां भाव­नो­द्दे­श्य­त्वा­भावे हेतुः –
दुःखत्वेन कर्मणामिति ।
यस्त्व­र्गा­दे­र्भा­वनां प्रति व्यवधानान्न भाव्य­त्व­मि­त्युक्तं , तत्राह –
स्वर्गादीनां त्विति ।
सर्वो हि कामनानन्तरं प्रवर्तते , ततश्च स्वर्गा­दे­र्भा­व­नायाः पूर्व­रू­प­का­म­ना­वि­ष­य­त्वा­द­ति­त­रा­म­व्य­व­धा­न­मि­त्यर्थः ।
यच्च द्रव्यत्वात् स्वर्गादेः क्रिया­शे­ष­त्व­मिति , तत्राह –
प्रीत्या­त्म­क­त्वा­च्चेति ।
एषां हेतूनां स्वर्ग­का­मा­दे­र­धि­कार इति वक्ष्य­मा­ण­प्र­ति­ज्ञायां संबन्धः । प्रीतौ हि रूढः स्वर्गशब्द इति तच्छेषा क्रिया इत्यर्थः ।
यत्तु सुब­न्त­प­दा­भि­धे­य­त्वा­त्सि­द्ध­रू­प­तेति , तन्न ; तथापि काम­प­दा­त्सा­ध्य­त्व­प्र­ती­ति­रि­त्य­भि­प्रे­त्याह –
नामेति ।
यदपि पुरु­ष­वि­शे­ष­ण­त्वा­त्स्व­र्गा­देर्न भाव्यत्वमिति , तत्राह –
पुरु­ष­वि­शे­ष­णा­ना­म­पीति ।
भाव­ना­क्षि­प्त­क­र्त्र­नु­वा­देन विशे­ष­ण­भू­त­स्व­र्ग­परं स्वर्गकामपदं स्वर्गं भाव्यत्वेन समर्पयतीत्यर्थः ।
यत्तु यागादेः स्वर्गादेश्च भाव्यत्वेन वाक्यभेद इति , तत्राह –
फला­र्थ­प्र­वृ­त्तेति ।
फलार्थं प्रवर्तस्य पुरुषस्य या भावना तया भाष्यत्व लक्षणेनेति प्रथमग्रन्थे विग्रहः । फलार्थ या प्रवृत्ता भावना तया भाव्य­त्व­रू­प­स्येति द्वितीयग्रन्थे । ततश्च यागादेः साध्य­त्व­म­न्य­त्सा­ध­यि­तुम् , स्वर्गादेस्तु स्वत इति स्वत­न्त्र­सा­ध्य­द्व­या­भा­वान्न वाक्यभेद इत्युक्तं भवति ।
ननु यागादीर्न करणं स्याद् , भाव­ना­भा­व्य­त्वा­त्स्व­र्ग­व­दिति , तत्राह –
भाव­ना­भा­व्य­त्व­मा­त्र­स्येति ।
परश्वादेरपि तथा­भा­वा­द्व्या­पा­रा­वि­ष्ट­रू­पेण साध्य­त्वा­दि­त्यर्थः । स्वर्गादीनां त्विति ग्रन्थेन भावनां प्रति स्वर्गा­दी­ना­म­व्य­व­धा­ना­ति­शय उक्तः ।
इदानीं व्यव­धा­न­म­ङ्गी­कृ­त्या­प्यु­द्दे­श्य­त्वेन साध्यत्व आका­ङ्क्षा­ति­श­य­माह –
फलस्य साक्षादिति ।
तदुद्देश्यतया लक्षणेन फलस्य सर्वत्र व्यापितया व्यापि­त्वे­ना­व­स्था­ना­दिति योजना । व्यापि­त्व­नि­र्देशो लक्ष­ण­स्या­व्या­प्त्य­ति­व्या­प्ति­प­रि­हा­रार्थः । न चाधिकाराभावे इति । स्वर्ग­भो­क्तृ­र्या­गा­धि­का­रा­न्य­था­नु­प­पत्त्या हि देहा­त्म­त्वा­भा­वा­व­ग­ति­रि­त्यर्थः । संपातः आपातः ।
यच्च प्रप­ञ्च­प्र­वि­ल­या­दि­ल­क्ष­णायां प्रयोजनं शास्त्र­त्व­सि­द्धि­रिति , तत्राह –
न चैतावतेत्यादिना ।
सर्वपारिषदतया सर्व­प­रि­ष­त्प्र­सि­द्ध­तया ।
यदि प्राभाकरा मन्वीरन् , असति व्यापारवति न व्यापार इति , तान्प्रत्याह –
अस­त्स्व­प्या­ग्ने­या­दि­ष्विति ।
तेषामपि मते आग्ने­या­दि­वा­क्यै­र्यागा एव विधीयन्ते नापूर्वाणि । अधि­का­र­वा­क्य­स­न्नि­धि­स­मा­म्ना­ता­ना­मा­ग्ने­या­दि­वा­क्या­ना­म­धि­का­रा­पू­र्वा­नु­वा­द­क­त्व­श­ङ्कायां कुण्ठितशक्तीनां द्रागि­त्ये­वा­पू­र्वा­न्त­र­प्र­त्य­या­ज­न­क­त्वा­त्तेश्च परमापूर्वे जन­यि­त­व्येऽ­वा­न्त­र­व्या­पारा जन्यमाना असत्स्वपि व्यापारवत्सु भवतीत्यर्थः ।
अथ लौकिको वदेत् , तत्राह –
असत्यपीति ।
सापेक्षेश्वरात् फल­सि­द्धे­र्व­क्ष्य­मा­ण­त्वा­द­वि­चि­त्र­स्येति भाष्या­यो­ग­मा­श­ङ्क्याह –
केवलादितीति ।
तर्हि कर्मा­पे­क्ष­त्व­पक्षो निर्दोष इति कथं पूर्वपक्षावकाशः ? तत्राह –
कर्मभिर्वेति ।
कंचिच्छुभं कारयति कंचिदशुभमिति वैषम्यप्रसङ्गः इत्यर्थः ॥४०॥
कर्मादि चेत­ना­धि­ष्ठि­त­म­चे­त­न­त्वाद् मृद्व­दि­त्य­नु­मा­नस्य जीवैः सिद्ध­सा­ध­न­त्व­मा­श­ङ्क्याह –
न चैतन्यमात्रमिति ।
कर्म स्वरूपं तस्य च शुभस्य सुखमितरस्य दुःखमित्येवं सामान्यविनियोगः । आदिशब्देन ज्योति­ष्टो­मा­त्स्वर्ग इत्या­दि­वि­शे­ष­वि­नि­योग उच्यते । फल­सि­द्धि­पू­र्व­क्षणे कर्म­स्व­रू­पा­दि­सा­क्षा­त्का­र­व­द­धि­ष्ठि­त­म­स्माभिः साध्यत इति न सिद्ध­सा­ध­न­मि­त्यर्थः । आगमप्रमिते संभा­व­ना­मा­त्रा­भि­धा­ना­त्प­त्यु­र­सा­म­ञ्जस्या (व्या.सू.अ.२.पा.२.सू.३७) दित्य­त्रो­क्त­ख­ण्ड­ना­ना­म­न­व­काशः । दुर्गेषु यो जनानां निवेशनार्थं भूमिकाविशेषो रच्य­तेऽ­सा­व­ट्टालः । निरटङ्कि निष्टङ्कितं निर्णी­त­मि­त्यर्थः ।
नन्वी­श्व­र­श्चे­त्फलं ददाति , किं कर्मभिरत आह –
लौकिकश्चेश्वर इति ।
ईश्वरस्य कर्मा­पे­क्षा­मुक्त्वा कर्म­णा­मी­श्व­रा­पे­क्षा­मुक्तां स्मारयति –
तदिह केवलं कर्मेति ।
न केवलं कर्मा­धि­ष्ठा­न­त्वा­दी­श्व­र­सि­द्धि­रपि तु कर्म­भि­री­श्व­र­प्र­सा­दस्य साध्य­त्वा­च्चे­त्याह –
तथा देवपूजात्मक इति ।
न प्रसा­द­य­न्नि­ति=अ­प्र­सा­द­य­न्नि­त्यर्थः । नशब्दोऽयं प्रतिषेधवचनः । विरोधनं द्रोहः ।
ननु प्रधानयागेन परमेश्वरः प्रसीदतु , अङ्गानुष्ठानं तर्हि किमर्थमत आह –
यथा च परमापूर्व इति ।
अत्र भास्करेण प्रलेपे –
भाष्य­का­र­न­तेऽ­न्त­र्या­मि­व्या­पारः फलोत्पादकः , स च सन्निधिमात्ररूप इति नित्यः , सर्व­जी­व­सा­धा­र­ण­श्चातो न तस्यै­कै­क­नी­व­क­र्मभिः साध्यत्वमिति , तं भाष्य­व्या­ख्या­ने­ना­नु­गृ­ह्णाति – ये पुनरिति ।
अवि­द्यो­पा­धि­व­शा­दी­श्व­र­स्या­नित्यः प्रतिजीवं कर्म­सा­ध्य­श्चा­नु­ग्र­होऽ­स्ती­त्यर्थः ॥४१॥
इत्यष्टमं फलाधिकरणम् ॥
इति श्रीप­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्या­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­द­म­ला­न­न्दस्य व्यासा­श्र­मा­प­र­ना­म­धे­यस्य कृतौ वेदान्तकल्पतरौ तृती­य­स्या­ध्या­यस्य द्वितीयः पादः ॥

सर्व­वे­दा­न्त­प्र­त्ययं चोद­ना­द्य­वि­शे­षात् ॥१॥ द्वितीये पादे तत्त्वंपदार्थौ परिशोधितौ , इदा­नी­म­पु­न­रु­क्ता­पे­क्षि­त­प­दा­र्थो­प­सं­हा­रेण सगु­ण­नि­र्गु­ण­ब्र­ह्म­वा­क्या­ना­म­र्थोऽ­व­धा­र्यते । सगु­ण­वा­क्या­र्थ­चिन्ता तु तद्विद्यानां सत्त्व­शु­द्धि­द्वारा निर्गु­ण­वि­द्यो­प­यो­गात् । पदार्थोपसंहारेण वाक्या­र्था­व­धा­र­णार्थं च सगु­ण­वि­द्या­ना­म­भे­द­चिन्ता , भेदचिन्ता तु तदपवादत्वेन । निर्गु­ण­वि­द्यायां तु विद्या­भे­दा­दैक्यं सिद्धमेवेति तन्न विचार्यते । गुणोपसंहारस्तु आनन्दादय इत्याद्यधिकरणै (व्या.सू.अ.३.पा.३ सू.११) र्लक्ष्या­ख­ण्ड­वा­क्या­र्थ­सि­द्ध्य­र्थ­वा­क्या­र्थो­प­सं­हा­र­रूपो वर्णयिष्यते । तदे­त­त्स­र्व­म­भि­सं­धा­याह –
पूर्वेणेति ।
अत्रा­क्षे­प­भाष्यं - ‘ननु विज्ञेयं ब्रह्म पूर्वा­प­रा­दि­भे­द­र­हि­त­मे­क­रसं सैन्ध­व­ध­न­व­द­व­धा­रि­त­मित्या’दि , तदनुपपन्नमिव ; सगुणब्रह्मणो नानारसत्वेन तद्वि­ज्ञा­न­भे­दा­भे­द­चि­न्तायाः संभवात् ।
अत आह –
निरुपाधीति ।
पूर्वा­प­रा­दि­भे­द­र­हि­त­मे­क­र­स­मिति च विशे­ष­ण­द्व­य­स्या­पु­न­रु­क्त­म­र्थ­माह –
सावयवस्य हीत्यादिना ।
अवयविनि ह्यवयवाः पूर्वापरभावेन वर्तन्ते अत­स्त­न्नि­षे­धा­त्सा­व­य­व­त्व­नि­षेधः । एक­र­स­मि­त्य­ने­क­ध­र्म­व­त्त्व­नि­षेध इत्यर्थः । स्वभावो धर्मः ।
भाष्य­ग­त­ध­न­श­ब्दा­र्थ­माह –
कठिनमिति ।
अच्छिद्रत्वात् रसा­न्त­र­र­हि­त­मि­त्यर्थः ।
अवयवभेदं धर्मभेदं च निर­स्या­पे­क्षि­क­भे­द­मा­शङ्क्य तन्निषेध एक­रू­प­त्व­वि­शे­ष­णेन क्रियत इत्याह –
नन्वे­क­म­पी­त्या­दिना ।
भाष्ये एकत्वादित्यनेन प्राङ् निषि­द्धा­व­य­व­ध­र्म­भेदे निषेधानुवादः ।
नन्वनेकरूपाणि ज्ञानानीत्यत्र रूपग्रहणं व्यर्थम् , अने­का­नी­त्ये­वो­च्य­ताम् , अत आह –
एकस्मिन् गोचर इति ।
ननु ज्ञानस्य गुणस्य कथ­म­ने­क­रू­प­त्व­प्रा­प्ति­रत आह –
रूपमाकार इति ।
नाम­रू­प­ध­र्म­वि­शे­ष­पु­न­रु­क्ति­नि­न्दा­श­क्ति­स­मा­प्ति­व­च­न­प्रा­य­श्चि­त्ता­न्या­र्थ­द­र्श­ना­च्छा­खा­न्तरे कर्मभेदः स्या (जै.सू.अ.२.पा.४.सू.८) दिति शाखा­न्त­रा­धि­क­र­ण­पू­र्व­प­क्ष­सू­त्रम् । तत्र निन्देति उदि­त­हो­मा­नु­दि­त­हो­म­नि­न्दो­च्यते । ‘‘प्रातः प्रातरनृतं ते वदन्ति पुरो­द­या­ज्जु­ह्वति येऽग्निहोत्रं दिवा कीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषा’’ मित्य­नु­दि­त­हो­म­निन्दा । ‘‘यथाऽतिथये प्रदुतायान्नं हरेयुस्तादृक् तद्यदुदिते जुह्वती’’ त्युदि­त­हो­म­निन्दा । प्रद्रुताय निर्ग­ता­ये­त्यर्थः । ततश्च एकस्य विरु­द्ध­का­ल­द्व­या­स­म्भ­वा­त्क­र्म­भेदः । प्राया­श्चि­त्त­मु­दि­ता­नु­दि­त­हो­म­व्य­ति­क्रमे । तत्र निन्दा­प्रा­य­श्चित्ते वेदा­न्त­ग­त­वि­द्यासु न स्त इति नोदाह्रियेते ।
इतरे ये नामादयो भेद­हे­त­व­स्त­दु­प­न्या­सार्थं नाम्न­स्ता­व­दि­त्या­दि­भाष्यं , तद्व्याचष्टे –
अस्त्यथैष ज्योति­रि­त्या­दिना ।
ननु यजेतेति प्रकृ­त­व्यो­ति­ष्टो­मा­नु­वा­दोऽ­नु­प­पन्नः ; नाम्नैव तद्बु­द्धि­वि­च्छे­दा­दत आह –
ज्योतिरितीति ।
ज्योतिरिति हि प्राति­प­दि­क­मा­त्रम् , न त्वस्य नाम­त्व­म­भि­व्य­क्तम् । एते­ने­त्य­मु­म­नु­कृष्य यजे­ते­त्या­ख्या­त­वा­च्य­क­र्म­सा­मा­ना­धि­क­र­ण्यात्तु नाम­त्वा­भि­व्यक्तिः । तथा चाख्या­त­पा­र­त­न्त्र्या­द्य­द्या­ख्यातं कर्म विदधीत , तर्हि नामापि तद्वदेदथ त्वनुवदेत्तर्हि नामापि तद­नु­व­दि­ष्य­ती­त्य­प्र­यो­ज­क­मिह नाम भेदाभेदयोः । ततश्चाख्यातार्थ एव चिन्त्य इत्यर्थः । उक्तं हि – प्राये­णा­ख्या­त­स­म्बन्धि नामेष्टं पारतन्त्र्यभाक् । तस्यैव प्रथमं तेन भेदा­भे­द­नि­मि­त्ततः ॥ इति । ज्योतिरिति कर्म­सा­मा­ना­धि­क­र­ण्येन कर्म­ना­म­व्य­व­स्था­प­ना­दि­त्या­दि­हे­तूनां सह­स्र­द­क्षि­णा­गु­ण­वि­धा­ना­र्थोऽ­य­म­नु­वाद इति वक्ष्य­मा­ण­प्र­ति­ज्ञया संबन्धः ।
अथ शब्दस्य चेति ।
आनन्तर्यं हि पूर्व­वृ­त्ता­पेक्षं गुणविधिपक्षे चाश्र­य­दा­ना­र्थ­मस्ति ज्योति­ष्टो­मा­पेक्षा न कर्मान्तरत्वे । न हि क्रतुः क्रत्व­न्त­र­म­पे­क्षत इत्यर्थः ।
ननु द्वादशशतं दक्षिणेति ज्योतिष्टोमे द्वादशशतं गावो दक्षिणा तद्विरुद्धं सह­स्र­द­क्षि­णा­वि­धा­न­मि­त्यत आह –
द्वादशशतेति ।
उत्पत्तिः कर्म­स्व­रू­प­ज्ञा­पनं तन्मध्ये विहि­त­मु­त्प­त्ति­शिष्टं , कर्म­स्व­रू­प­ज्ञा­प­नो­त्त­र­का­ल­वि­हि­त­मु­त्प­न्न­शि­ष्टम् । तत्र द्वादशशतं दक्षिणा यद्युत्पत्तौ श्रूयेत , तर्हि बलवत्त्वात् सहस्रदक्षिणां बाधेत , न त्वेव­म­स्त्यु­भ­यो­रपि कर्म­ज्ञा­प­नो­त्त­र­कालं श्रुत­त्वा­दि­त्यर्थः । अन्या­य­श्चा­ने­का­र्थ­त्व­मिति न्यायादिति दृष्टा­न्तो­क्ति­रि­यम् । यथाऽ­ने­का­र्थ­त्व­मे­कस्य शब्दस्यान्याय एव­मे­क­स्या­र्थ­स्या­न्या­य्य­म­ने­क­श­ब्द­त्व­मि­त्यपि न्यायस्ततो ज्योति­ष्टो­म­ज्यो­तिः­शब्दौ नैकस्य कर्मणो वाचकावित्यर्थः ।
ननु वसन्तवाक्ये ज्योति­ष्टो­म­वाक्ये च ज्योति­र्ज्यो­ति­ष्टो­म­श­ब्द­यो­रे­का­र्थ­त्वा­द­ने­क­श­ब्द­त्व­मपि क्वचिदाश्रितमत आह –
उत्सर्गत इति ।
अस­म्ब­द्धा­र्थ­प­द­व्य­वा­या­दिति पूर्वे­णा­स­म्ब­द्धा­र्थ­वता ज्योतिः पदेन व्यव­धा­ना­दि­त्यर्थः ।
यत्तु वसन्तादिवाक्ये ज्योतिःशब्द एक­दे­शा­न्त­र­ल­क्ष­णार्थे दृष्ट एवमत्रापीति , तत्राह –
न चैकत्रेति ।
वसन्तादिवाक्ये हि ज्योतिषा यजे­ते­त्या­ख्या­त­तन्त्रा संज्ञा , आख्यातं च काला­दि­वि­धि­सं­क्रा­न्त­मिति पूर्व­क­र्मा­नु­व­देत् , एषा तु प्रथ­मा­न्त­त्वा­द­त­त्त­न्त्रेति प्रकृ­त­क­र्म­बुद्धिं विच्छि­न­ती­त्यर्थः ।
यत्तु ज्योतिरिति प्राति­प­दि­क­मु­च्चा­र्यै­ते­नेति परामृश्य यजेतेति विधानाद् नामधेयं ज्योतिःशब्द इति , तदोमिति ब्रूमः ; तस्यैव नाम्नः कर्मा­न्त­र­वा­च­क­त्वा­दि­त्याह –
भेदेऽपि चेति ।
अपिचेति समुच्चये । यथा नामधेयत्वमेवं भेदोऽपि प्रथममुल्लिखित इत्यर्थः ।
ननु कठेन प्रणी­त­त्वा­द­ध्य­पि­त­त्वाद्वा काठकमुच्यते , न विद्या प्रणीयते , तस्या अशाब्दत्वादत आह –
प्रणयनं चेति ।
प्रणयनं शिष्येभ्यो नयनमुपदेशः स ज्ञानेऽपि अविशिष्ट इत्यर्थः ।
ज्योतिः­सं­ज्ञायाः सकाशात् काठ­क­त्वा­दि­सं­ज्ञाया भेदकत्वातिशयमाह –
तथा चेति ।
ज्योतिष्टोमस्य सन्निधो श्रुत­त्वा­त्त­द­नु­वा­द­क­त्वेन तन्ना­मै­क­दे­श­त्वेन च संभाव्यमानमपि ज्योतिरिति नाम यदा कर्मभेदकं , तदा शाखा­न्त­र­स्थ­त्वेन दूरस्थं संपूर्णं च काठ­का­दि­ना­मा­ति­तरां ज्ञान­भे­द­क­मि­त्यर्थः । अत­त्प्र­ती­क­भू­तेति च्छेदः ।
तथा रूप­भे­दोऽ­पी­त्या­दि­भा­ष्य­मु­पात्तं , तद्व्याचष्टे –
इदमाम्नायत इत्यादिना ।
नन्विह सिद्धा­नु­वा­द­मात्रं स आमिक्षेति प्रतीयते , न विधिः , तत्र कथं कर्म­भे­दा­भे­द­चि­न्ता­व­काशः ? तत्राह –
द्रव्यदेवतेति ।
वाजिनं गुणो विधीयत इति ।
यद्यप्यत्र वाजिनं देवता च गुणो विधीयते इति वक्तुं शक्यम् ; तथापि प्राप्ते कर्म­ण्य­ने­क­गु­ण­वि­ध्य­सं­भ­वाद् द्रव्य­मा­त्र­वि­धि­रुक्तः । वाजिपदेन तु विश्वेदेवा अभिधीयन्ते इति वक्ष्यति , सिद्धान्ते तु विशि­ष्ट­वि­धि­त्वा­द­प्राप्तं कर्मा­ने­क­गु­ण­वि­शिष्टं विधातुं शक्यमिति मत्वा द्रव्य­दे­व­ता­न्त­र­वि­शि­ष्ट­म­पू­र्व­कर्म विधीयते इत्युक्तम् ।
विशिष्टविधौ कर्म विधातव्यम् , विशेषणभूतं द्रव्यं देवता चेति गौरवमित्याह –
विधिगौरवेति ।
यदाऽऽ­मि­क्षा­या­गा­द्वा­जि­न­यागः कर्मान्तरं विधीयते , तदा तत्तावत् कल्प्यं तच्चान्यपूर्वं च कल्पनीयमित्याह –
कर्मा­न्त­रा­पू­र्वा­न्त­रेति ।
ननु वैश्व­दे­व्या­मि­क्षे­त्यत्र याग­वि­धि­प्र­ती­ति­स­मय एवाऽऽमिक्षा यागान्विता प्रतीयते , वाजिनं तु वाक्यान्तरेणाऽत उत्प­त्ति­शि­ष्टा­मि­क्षाऽ­व­रुद्धे कर्मणि वाजिनं दुर्ब­ल­म­व­का­श­म­ल­भ­मानं कर्मान्तरं गम­य­ती­त्या­श­ङ्क्याह –
न चोत्प­त्ति­शि­ष्टेति ।
किमिति न युक्तमत आह –
उभयोरपीति ।
अयमभिप्रायः - अत्र ह्यामिक्षायां वाजिने वा न प्रत्यक्षं विधिमुपलभामहे , न्यायबलात्तु कल्पयेमहि । तत्र वैश्वदेवीवाक्ये आमि­क्षा­वि­श्वे­दे­व­सं­बन्धः प्रतीयते , वाजिनवाक्ये तु वाजिनां तेषामेव विश्वेषां देवानां वाजिनस्य च संबन्धः । तत्र देवतैक्याद् द्रव्यद्वयस्य सहत्यागकल्पनया द्रव्य­द्व­य­यु­क्तै­क­या­ग­वि­धि­र­नु­मी­यते । तत्र कुत उत्प­त्ति­शि­ष्ट­त्व­मा­मि­क्षायाः ? कुतो वा वाजि­न­स्यो­त्प­न्न­शि­ष्ट­त्व­मिति ? नन्वा­मि­क्षा­व­रु­द्ध­या­गस्य प्रथमं प्रत्य­क्ष­वि­ध्य­भा­वेऽपि विश्वेदेवानां श्रौत आमिक्षासंबन्धः , तेषां पुन­र्वा­जि­प­दा­भि­धे­यानां वाजिभ्यो वाजिनमिति वाक्यीयो वाजिनसम्बन्धः , स च श्रौत­स­म्ब­न्धा­द्दु­र्बल इति न विश्वे देवा वाजिनेन सम्बध्यन्ते ।
तत्र कर्मान्तरं वाजिभ्यो वाजिनमिति पद­द्व­या­त्म­क­वा­क्य­गम्यं विधीयते , अत आह –
न च वैश्व­दे­वी­त्य­त्रेति ।
वैश्व­दे­व्या­मि­क्षेति पद­द्व­या­त्म­क­वा­क्या­देव विश्वेषां देवा­ना­मा­मि­क्षा­सं­बन्धः एवं वाजिनसंबन्धोऽपि तेषां वाजिभ्यो वाजिनमिति पद­द्व­या­त्म­क­वा­क्य­गम्य इति तुल्यतेत्यर्थः ।
ननु वैश्वदेवीति तद्धि­ता­न्त­प­द­श्रु­ति­मा­त्रा­दा­मि­क्षा­सं­बन्धो विश्वेषां देवानाम् अवगम्यत इत्याशङ्क्य तथा सत्या­मि­क्षा­प­द­वै­यर्थ्यं स्यादित्याह –
नो खल्विति ।
ननु विश्वे देवा देवता अस्या इति तद्धितार्थः अस्या इति शब्देन च सन्नि­हि­ताऽऽ­मि­क्षै­वो­च्यते , अतः श्रौतः एवा­मि­क्षा­सं­ब­न्ध­स्त­त्राह –
अस्तु वेति ।
तत्संबन्धिनो विश्वान् देवा­नु­प­ल­क्ष­य­तीति ।
उपलक्षितेषु चामि­क्षा­सं­ब­द्धेषु विश्वेषु देवेषु यत्फलिष्यति तत्त­त­श्चा­मि­क्षा­सं­ब­न्धो­प­जी­व­ने­ने­त्यु­प­रि­त­न­ग्रन्थे वक्ष्यति ।
ननु वाजिभ्य इति इन्प्रत्ययान्तं पद­मा­मि­क्षा­सं­ब­न्धिनो विश्वे­दे­वा­नु­प­ल­क्ष­यितुं न शक्नोति , अधि­क­र­णा­न्त­र­वि­रो­धा­दि­त्या­श­ङ्कते –
यद्यपीति ।
दशमे स्थितम् - विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना । (जै.सू.अ.१०.पा.४.सू.२३) दर्श­पू­र्ण­मा­स­यो­र्दे­व­ता­प­दा­न्या­ग्ने­या­दीनि सन्ति , सन्ति चाग्नेरभिधानानि लोकेऽग्निः पावक इत्यादीनि । तत्र संदेहः किं हविःप्रदानसमये येन केन­चि­द­ग्नि­वा­च­क­प­दे­ना­ग्नि­रु­द्देश्यः , उत विधि­ग­ता­ग्नि­प­दे­नै­वेति । तत्रा­र्थ­रू­प­त्वा­द्दे­व­ता­त्वस्य तस्य च येन केनचिद्वाचकेन निर्दे­श­सं­भ­वा­द­नि­यम इति प्राप्ते राद्धान्तः । सत्यमर्थात्मकं देवतात्वम् तत्तु न स्वर्ग­वा­सि­त्वादि संभवति ; मासेभ्यः स्वाहेत्यादौ मासा­दे­र­दे­व­ता­त्व­प्र­स­ङ्गात् , किंतु त्यज्यमानहविः प्रत्यु­द्दे­श्य­त्वम् । उद्देशश्च हविः प्रति प्राधान्येन निर्देशः तत्राग्नेय इति विधिगतस्यैव मन्त्रत्वे देव­ता­प्र­का­श­कत्वे भावो देवतात्वं हवि­स्त्या­ग­का­लेऽपि स्यात् ; तद्दि­त­व­र्त्य­ग्नि­श­ब्देन हविः प्रत्यग्नेः प्राधान्येन निर्दे­शा­द्ध­वि­स्त्या­ग­का­लेऽपि तेनैव स निर्देश्यः । शब्दान्तरेण निर्देशे देवतात्वं न स्यात्त­स्मा­द्वि­धि­श­ब्द­स्यैव मन्त्रत्वे देव­ता­प्र­का­श­कत्वे भावः स्यात्तेन हि देवतामुद्दिश्य हविषश्चोदनेति । तत्र शब्दभेदेऽपि देवतैक्ये एतदधिकरणविरोध इत्यर्थः । यदि च शब्दभेदेऽपि देवतैक्यं , तर्हि सौर्त्यं चरुं निर्वपेदु ब्रह्मवर्चसकामः , आदित्यं चरुं निर्वपेदिति च सौर्या­दि­त्य­च­र्वो­रे­क­दे­व­तात्वं स्यादित्यर्थः ।
न चैत­यो­रे­क­दे­व­ता­त्व­मेष्टुं शक्यम् ; सूर्याय जुष्टं निर्वपामीति , आदित्याय जुष्टं निर्वपामीति च सर्व­सं­म­ता­नु­ष्ठा­न­वि­रो­धा­दिति आशङ्क्य परिहरति –
तथापीत्यादिना ।
तद­स्या­स्ती­त्यर्थे हीनिप्रत्ययः स्मर्यते , अस्येति च सर्वनाम , तेन विश्वे­दे­व­प­द­स­न्नि­हि­तानां परामर्शान्न शब्दा­न्य­त्व­प्र­युक्तं देव­ता­न्य­त्व­मि­त्यर्थः ।
आमि­क्षा­सं­ब­द्ध­वि­श्व­दे­वो­प­ल­क्षणे फलं वक्ष्य­ती­त्युक्तं , तत्राह –
ततश्चेति ।
वाक्ये­नै­वा­मि­क्षा­सं­ब­न्धो­प­जी­व­नेन वाजिनविधानान्न वाजि­न­सं­ब­द्ध­याऽऽ­मि­क्षया बाधितुं शक्यते ; श्रौता­त्सं­ब­न्धा­द्वा­क्यीयः संबन्धो दुर्बल इति न्याया­द­व­ग­न्त­व्यम् । स च न्यायो वचनेन बाधिष्यत इत्यभिप्रायः । द्रव्यद्वयेन युक्तमेकं कर्म विधीयत इति यदवादिष्म वाजिनामिक्षयोः सहत्याग इति , तदिदमुत्थितम् ।
एवं च यत् संदे­ह­प्र­द­र्श­ना­व­सरे उक्तं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते इति तदा­पा­त­प्र­ति­भा­न­मा­दा­या­भि­हि­त­मिति विश्वेषां देवा­ना­मा­मि­क्षा­सं­ब­न्धस्य श्रौतत्वाद् वाजिनसंबन्धस्य च वाक्यीयत्वात् श्रुति­ब­ली­य­स्त्व­न्या­य­मा­दाय सिद्धान्तयति –
स्यादे­त­दे­व­मि­त्या­दिना ।
ननु तद्धित आमि­क्षा­वि­शि­ष्टा­न्वि­श्वा­न्दे­वा­न­भि­ध­त्ताम् , अथवा तेषा­मा­मि­क्षा­सं­ब­न्ध­म­भि­व­दतु , यद्वा विश्वेषां देवानां यत्सं­ब­न्धि­मात्रं तद्वा वक्तु , तथा च कुतोऽ­स्या­मि­क्षा­वा­च­क­त्व­मत आह – न तु विश्वेषु देवे­ष्वि­त्या­दिना । अत्र सर्वत्र हेतुरुक्त एव सन्नि­हि­त­वि­शे­षस्य सर्व­ना­मा­र्थ­त्वा­दिति ।
अथ यदुक्तं वैश्व­दे­वी­प­दा­दा­मि­क्षा­प्र­ती­ता­वा­मि­क्षा­प­द­वै­य­र्थ्य­मिति , तदनुभाषते –
नन्वेवं सतीति ।
उत्तरमाह –
तद्धि­ता­न्त­स्येति ।
नात्र वैश्वदेवीपद एकस्मिन्नर्थे पर्यवसिते आमिक्षापदेन चाप­र­स्मि­न्न­भि­हिते तयोर्वैशिष्ठ्यं पद­द्व­य­स­म­भि­व्या­हा­रा­द­व­ग­म्यते , किन्तु नाम­स­न्नि­हि­ता­व­ल­म्बिनः सर्वनाम्नोऽर्थः क इत्यज्ञायमान आमिक्षापदेन समर्प्यते , अतश्च यथाऽयं घट इत्युक्तेऽयमिति पदस्य सन्नि­हि­ता­व­ल­म्बिनो विष­य­स­न्नि­धा­प­क­प्र­त्य­क्षा­पे­क्षा­या­मपि न श्रुति­त्व­हा­नि­रि­त्येवं तद्धि­त­स्या­पी­त्यर्थः ।
एतदेव स्फुटीकरोति –
अवसिताभिधानं हीति ।
अवसिताभिधानत्वं नाम परि­पू­र्ण­वि­ष­य­लाभः ।
द्वयं हि सर्व­त्रा­पा­द्य­म­भि­म­त­वि­घा­तोऽ­न­भि­म­त­प्र­स­र­श्चेति ।त­त्रा­न­भि­म­त­प्र­सरं वारयति –
कुत आमि­क्षा­प­दा­न­पेक्ष इति ।
अभिमतविघातोऽपि नास्तीत्याह –
कुतो वेति ।
नन्वे­व­मा­मि­क्षा­प­द­सा­पे­क्ष­वै­श्व­दे­वी­प­दा­दा­मि­क्षा­सं­बन्धो विश्वेषां देवानां गम्यते , तर्हि द्वे अपि पदे मिलित्वा प्रमाणं स्यात् , तथा च वाक्यत्वम् ।
अथ सत्या­म­प्या­मि­क्षा­प­दा­पे­क्षायां वैश्वदेवीपदमेव तत्र प्रमाणं , तर्ह्या­मि­क्षा­प­द­मेव किं न स्यादत आह –
अतश्चेति ।
यदिति द्वितीयान्तः शब्दः पदमिति च प्रथमान्तः । आमिक्षेत्युक्ते हि न क्वाप्य­पे­क्षाऽ­व­भा­सते , वैश्व­दे­वी­त्युक्ते त्वस्ति कासावित्यपेक्षा , अतो वैश्वदेवीपदमेव साका­ङ्क्ष­म­र्थ­म­भि­द­धत् प्रमानम् , आमिक्षापदं तु तदी­या­र्था­भि­धा­न­क­थं­भा­वा­का­ङ्क्षा­प­रि­पू­र­क­मि­ति­क­र्त­व्य­भा­व­म­नु­भ­व­तीति विनि­ग­म­क­हे­तु­ब­लात् वैश्वदेवीपदमेव प्रमाणम् । ततश्च श्रुति­त्वा­द्वा­क्या­पे­क्षया तत् प्रथमभावि , ततः पदान्तरापेक्षं वैश्वदेवीपदं यदा­मि­क्षा­वि­श्व­दे­व­सं­ब­न्ध­रूपं वस्त्वभिधत्ते ; तदुक्तप्रकारेण प्रमा­ण­भू­त­प्र­थ­म­भा­वि­वै­श्व­दे­वी­प­दा­व­ग­म्य­त्वात् श्रौतं , ततश्च बलवदित्यर्थः ।
एत­त्प्र­क­र­वै­प­रीत्यं वाजि­न­वि­श्व­दे­व­सं­बन्धे दर्शयस्तस्य वाक्यीयतामाह –
यत्त्विति ।
वाजिभ्य इति वाजिनमिति च पदे पर्यवसिताभिधाने । यद्यपि वाजिपदं वैश्व­दे­व­सा­पे­क्षम् ; तथापि न वाजिनपदापेक्षम् । ततश्च पर्य­व­सि­ता­भि­धा­नाभ्यां पदाभ्यां यावभिहितौ पदार्थौ वाजिवाजिनरूपौ तदवगम्यं यद्वि­श्व­दे­व­वा­जि­न­सं­ब­न्ध­रूपं वस्तु तदा­मि­क्षा­वि­श्व­दे­व­सं­ब­न्धा­च्च­र­म­भावि , अतो वाक्यगम्यत्वेन दुर्बलमित्यर्थः ।
कर्मान्तरविधौ हेत्वन्तरमाह –
एवं चेति ।
पूर्वपक्षे हि विकल्पः समुच्चयो वा वक्तव्यः , स चायुक्तः ; नित्य­व­द­व­ग­त­सा­ध­न­भा­वाया आमिक्षाया विकल्पायोगात् , अन­पे­क्षा­व­ग­त­सा­ध­न­भा­वा­याश्च तस्याः समु­च्च­या­यो­गा­दि­त्यर्थः । नित्यमेवेति वक्तव्ये मृदूक्त्या वतिप्रयोगः ।
यत्तूक्तं वचनेनैव श्रुति­ब­ली­य­स्त्व­न्याय (जै.सू.अ.३.पा.३.सू.१४) बाध इति तत्राह –
न चाश्वत्वे इति ।
विश्वे देवा इत्ययं शब्दो यस्याः सा तथोक्ता तां वैश्वदेवशब्दाम् । द्रव्य­व­च­ना­दा­मि­क्षा­द्रव्यं प्रत्यु­प­स­र्ज­न­भू­ता­म­व­ग­ता­मेवं सति कर्मा­न्त­र­वि­धि­पक्षे नोपलक्षयिष्यति उपलक्षणे हि नोप­स­र्ज­न­न्या­य­बाधः स्यादित्यर्थः ।
ननूपसर्जनभूता अपि विश्वे देवा वाजिन इति तद्धि­ता­न्त­र्व­र्ति­स­र्व­नाम्ना परामृश्यन्तां , सर्वनाम्नः सन्नि­हि­त­गो­च­र­त्वा­दत आह –
प्रकृतं हीति ।
यत्तु कर्मा­न्त­र­वि­धि­पक्षे विधि­गौ­र­व­म­पू­र्व­क­ल्प­ना­गौ­रवं चेति , तत्राह –
प्रामाणिके चेति ।
तत्त्व­वि­ष­य­त्वाद् यथा­र्थ­वि­प­य­त्वात् ।
एवं गुणात्कर्मभेदे व्यव­स्थि­त­मु­दा­ह­रणं दृष्टा­न्त­मु­क्त्वाऽ­त्र­त्य­पू­र्व­पक्षे गुणाज्ज्ञानभेदं दार्ष्टा­न्ति­क­माह –
एवमिहापीति ।
अस्ति चात्रेति ।
भाष्येऽन्येषां शाखिनां शिरो­व्र­त­स्या­सत्त्वं नोक्त­म­तोऽ­ध्या­ह­रति –
अन्येषामिति ।
शिर­स्य­ङ्गा­र­पा­त्र­धा­रणं शिरोव्रतम् । अभ्यासाधिकरणस्य (जै.सू.अ.२.पा.२.सू.२) शब्दा­न्त­रा­धि­क­र­णेन प्रत्यु­दा­ह­र­ण­ल­क्षणां सङ्गतिमाह ।
धात्व­र्था­नु­ब­न्धे­नेति ।
शब्दान्तरे कर्मभेदः कृता­नु­ब­न्ध­त्वात् । यजति ददाति जुहोति इत्यत्र किं यजत्यादय एकां भावनां विशिंषन्ति , उत प्रतिधात्वर्थ भावनाभेद इति संदेहे भावनायाः प्रत्ययार्थस्य प्रधा­न­त्वा­त्त­स्मिन् गुण­भू­त­धा­त्व­र्थानां समुच्चय इत्ये­क­भा­व­ना­वि­शे­ष­क­त्वेन प्राप्ते राद्धान्तः - नियमेन धातु­प्र­त्य­य­यो­र­न्वि­ता­भि­धा­यि­त्वात् प्रत्ययस्य च ‘धातो’रिति सूत्रेण विव­क्षि­तै­क­व­च­ने­नै­क­न्मा­देव धातो­र्वि­धा­ना­दे­क­धा­त्व­र्था­नु­रक्ता भावनाऽभिहिता , सा न धात्वर्थान्तरेण संबध्यते ; तत्सं­ब­न्ध­स्यो­त्प­त्ति­शि­ष्ट­त्वात् । यत्र पदान्तरोपात्तं प्रधानं तत्र भवति गुणानां समुच्चयः क्रये इवारुण्यादीनाम् । तस्मा­द­पु­न­रु­क्त­धा­त्वा­त्म­क­श­ब्दा­न्तरे कर्मभेदो भावनाभेदः कृता­नु­ब­न्ध­त्वा­दु­त्प­त्त्यैव कृत­धा­त्व­र्थ­स­ब­न्ध­त्वा­द्भा­व­नाया इत्यर्थः । धात्वर्थ एवा­नु­ब­न्धोऽ­व­च्छे­दकः ।
ननु समिधो यज­ती­त्या­दा­वै­क­भा­व­ना­वि­धाने एकत्र विधि­र­प­र­त्रा­नु­वाद इति वक्तव्यं , तत्र को विधिरिति न ज्ञायतेऽत आह –
प्रथमभाविना वाक्येनेति ।
विपरिवर्तमाना बुद्धाविति शेषः । ततश्च प्रत्य­भि­ज्ञा­य­मा­ने­त्यर्थः ।
विध्य­नु­वा­दा­वि­नि­ग­मेन सिद्धान्तमाह –
पर­स्प­रा­न­पे­क्षा­णिति ।
एषां बोधकत्वे क्रमो न प्रयोजक इत्यर्थः ।
ननु पाठक्रमानादरणे कथं प्रयाजादीनां पाठा­नु­ष्ठा­न­क्र­म­सि­द्धि­स्त­त्राह –
पर­स्प­रा­पे­क्षा­णा­मिति ।
प्रयाजां ह्येकं करणोपकारं कुर्वन्तीति परस्परापेक्षाः । अत­स्ते­षा­मे­क­क­र­णो­प­का­र­ज­न­क­तय एकवाक्यत्वे संभूयकारित्वे सति पाठ­क्र­मोऽ­नु­ष्ठाने प्रयोजकः स्यादित्यर्थः । तद्वाक्यानि स्वार्थबोधने परस्परं नापेक्षन्ते इति न क्रमापेक्षा । यत एकत्वं पाठ­क्र­मा­न्नि­य­म्ये­ते­त्यर्थः ।
ननु धात्वै­क्या­दि­त­रे­त­रत्र च प्रत्य­भि­ज्ञा­न­मु­क्त­मत आह –
कथं चिदिति ।
समिदादिनामभिः कर्मभेदप्रतीतेः प्रत्यभिज्ञैव नास्तीति कथं­चि­दि­त्यु­क्तम् । आख्यातस्य हि सर्वत्र विधि­त्व­मु­त्सर्गः , स च बलवदपवादकेन बाधनीयः । न च इहै­त­द­स्ती­त्यर्थः ।
किं तद्बलवदपवादकं ? तदाह –
गुणश्रवणेहीति ।
यत्र हि वाक्ये गुणाः श्रूयते तत्र गुण­वि­शि­ष्ट­क­र्म­वि­धाने विशेषणं विशेष्यं च विधातव्यं , तदा विधिगौरवं स्यात् । तत्र हि गुण­मा­त्र­वि­धा­न­प्र­त्यु­क्त­ला­घ­वाय विधिना विशे­ष्य­क­र्म­णोऽ­नु­वा­दोऽ­पे­क्ष्यते , तदपेक्षायां बुद्धि­स­न्नि­धा­न­स्यो­प­कार इत्यर्थः ।
उदाहरति –
यथेति ।
ननु समिदादिवाक्यं नाभ्यासात् कर्मभेदे उदाहरणं , समि­दा­दि­गु­णा­द्भे­द­प्र­ती­ते­रत आह –
न चात्रेति ।
समिधोऽग्न आज्यस्य व्यन्त्वि­त्या­दि­म­न्त्रै­रेव समि­दा­दि­दे­व­ता­सं­ब­न्ध­सि­द्धे­स्त­त्प्र­ख्य­शास्त्रेः (जै.सू.अ.१.पा.४.सू.४) समिदादीनि नाम­धे­या­नी­त्यर्थः ।
अङ्गीकृत्य गुणवचनत्वमाह –
अगृह्यामाणेति ।
केन वचनेन विहितमिति किंवचनविहितम् । किंवचनविहितं च तत् किंकर्म चेति किंव­च­न­वि­हि­त­किं­कर्म । तदनुवादेन कस्य वाक्यस्य गुणविधित्वमिति न विनिगम्यते इत्यर्थः । न चाग्ने­या­दि­क­र्मसु गुणविधिः ;तेषा­मु­त्प­त्ति­शि­ष्टा­ग्न्या­द्य­वि­रो­धा­दिति ।
यदि नामधेयानि समिदादीनि तर्हि नाम्न एव भेदो नाभ्यासादत आह –
न चापूर्वमिति ।
पूर्व­क­र्मा­न­न्व­यी­त्यर्थः ।
अनन्वयित्वा हेतुः –
विधा­नाऽ­सं­ब­द्ध­मिति ।
ननु ज्योतिरादेरपि विधिना संबन्धोऽसिद्धः ।
एतेनेत्यनुकृष्य यजेतेति विधि­सं­ब­न्धा­व­ग­मा­दत आह –
प्रथममिति ।
ज्योति­रि­त्या­दि­नाम हि प्रथमं विधा­ने­ना­सं­ब­द्ध­म­व­गतं , पश्चात् तस्य विधिसंबन्धः । स च विधा­स्य­मा­न­क­र्म­ना­म­धे­य­त्वे­ना­प्य­वि­रुद्धः , समिदादि तु प्रथममेव विधिसंबद्धमिति न पूर्व­क­र्म­बु­द्धि­वि­च्छे­द­क­मि­त्यर्थः ।
तस्य देवतेति ।
तस्य पुरुषकृतस्य कृते त्याग­स्या­से­च­ना­धि­कस्य प्रक्षेपाधिकस्य होम­स्या­व­च्छेद्यो यः पुरुषप्रयत्न एकस्यां शाखायां चोद्यते स एव शाखान्तरे चोद्यते यथेत्यर्थः ।
दार्ष्टा­न्ति­क­माह –
एवमिति ।
शाखा­न्त­रा­धि­क­र­णे­ना­स्या­पौ­न­रु­क्तयं सूत्र­भा­ष्या­भ्या­मु­क्त­मु­प­पा­द­यति –
युक्तमिति ।
शाखान्तराधिकरणे हि एकस्यां शाखायाम् अग्नी­षो­मी­य­स्यै­का­द­श­क­पा­ल­त्व­म­प­रस्यां द्वाद­श­क­पा­ल­त्व­मिति रूपभेदात् कर्मभेदः शङ्कितः , सिद्धान्ते तु तयोर्विकल्प इत्युक्तम् । तद्युक्तम् । कपा­ल­सं­ख्य­यो­रु­त्प­न्न­शि­ष्ट­यो­रु­त्प­त्ता­वै­क­रू­प्ये­णा­व­ग­म्य­मा­न­क­र्म­प्र­त्य­भि­ज्ञाऽ­वा­ध­क­त्वेन कर्म­भे­द­क­त्वा­भा­वात् । अग्नि­ग­त­प­ञ्च­सं­ख्या­यास्तु उत्प­त्ति­शि­ष्ट­त्वाद् वाजिनवद् भेदकत्वमिति शङ्को­त्था­ना­द­ग­ता­र्थ­त्व­मि­त्यर्थः । अग्नि­हो­त्र­स्ये­त्य­शुद्धः पाठः अग्निहोत्रे कपालाभावात् । अथवा - अग्नौ होत्रं इति अग्नीषोमीय एवोच्यते । एका­द­श­क­पा­ल­त्वा­दे­रु­त्प­न्न­शि­ष्ट­त्व­मिति वदता वाचस्पतिना कस्यां­चि­च्छा­खा­याम् अग्नीषोमीयो भवतीति केव­लो­त्प­त्ति­वाक्यं दृष्टमिति गम्यते । इत­र­थाऽ­ग्नी­षो­मी­य­मे­का­द­श­क­पा­ल­मि­त्यादौ संख्य­यो­रु­त्प­त्ति­शि­ष्ट­त्वा­दिति ।
उत्पत्तिशिष्टा पञ्चसंख्यैव न षट्संख्या षष्ठ­स्य­ग्ने­र­नू­द्य­मा­न­त्वा­दिति परिहरति –
पञ्चैवेति ।
सांपादिका उपास्याः । संपद्व्यतिरेकाय उपा­स्ति­व्य­ति­रे­काय । अग्नि­रे­वा­ग्नि­रि­त्या­दिना मुख्या­ग्नि­स­मि­दा­दे­र­नु­वा­दा­दु­पा­स्य­त्व­व्या­वृ­त्ति­र्बो­ध्यत इत्यर्थः । एवं षष्ठा­ग्ने­र­नु­वा­द्य­त्व­म­ङ्गी­कृत्य परिहारः उक्तः ।
इदानीं षडप्यग्नयः शाखा­द्व­येऽ­प्यु­पास्याः , पञ्चसंख्या त्वमु­ख्या­न­ग्नीन् योषि­दा­दी­न­व­च्छे­त्तु­मि­त्य­भि­प्रे­त्याह –
अथा वा छान्दो­ग्या­ना­मिति ।
छन्दोगेन दृष्टां शाखामधीयते इति छान्दोग्याः । इदानीं पञ्चसंख्या उपा­स्या­ग्नि­वि­शे­ष­ण­त्वेन न विधीयते , किं त्वनूद्यते ।
अग्नयस्तु पञ्च शाखा­द्व­येऽ­प्य­वि­शे­षे­णो­पा­स्य­तया विधीयन्ते , अधिकस्तु षष्ठोऽ­ग्नि­र्वि­क­ल्प्यते इति परिहरति –
अथ वा भवतु वाज­स­ने­यि­ना­मि­त्या­दिना ।
प्रचयशिष्टेति ।
एकैकशोऽग्निषु विहितेषु तेषां प्रचयेनार्थात् ज्ञातेत्यर्थः ।
सांपादिकानिति ।
समा­रो­प्या­ग्नि­भा­वा­नि­त्यर्थः ।
उत्प­त्ति­शि­ष्टत्व इति ।
प्राण­ग­ता­धि­क­सं­ख्या­दे­रिति शेषः । असिद्ध इति च्छेदः ॥२॥॥३॥
दर्शयति चेति सूत्रं पूरयति –
विध्यैकत्वमिति ।
ननु सर्वे वेदा यत्पदमामनन्तीति वाक्यं वेद्यै­क्य­द्वा­रेण विद्यैक्यदर्शकं निर्गु­ण­ब्र­ह्म­वि­षयं , कथमनेन सगु­ण­वि­द्यै­क्य­सिद्धिः ? अत आह –
यत्रापीति ।
तत्प्रा­य­प­ठि­ता­ना­मिति ।
निर्गु­ण­वि­द्या­स­न्नि­धि­प­ठि­ता­ना­मि­त्यर्थः । अग्न्यः श्रेष्ठः ।
ननु विद्या­ना­म­श­ब्दा­त्म­क­त्वात् कठा­दि­प्रो­क्त­त्वा­भा­वेऽपि कठा­द्य­नु­ष्ठि­त­त्वात् काठकादिसंज्ञा किं न स्यादत आह –
न च काठादीति ।
अध्ययनं हि प्रतिशास्त्रं त्वरा­दि­भि­र्भि­द्येत , न त्वनु­ष्ठा­न­मि­थर्थः ।
ननु किं कठ­प्रो­क्त­त्वा­दि­नि­मि­त्ता­नु­स­र­णेन विद्यायां ग्रन्थे च काठकादिशब्दा रूढा भवन्तु , तत्राह –
न च कठप्रोक्ततेति ।
ग्रन्थे अव­य­वा­र्थ­यो­ग­सं­भवे ग्रन्थे रूढिर्न कल्पनीया ; ग्रन्थ­सं­ब­न्धा­द्वि­द्यायां च वृत्तिसंभवे तत्रापि रूढिर्न कल्पनीयेत्यर्थः ।
अङ्गीकृत्यापि काठ­का­दि­सं­ज्ञानां विद्या­भि­धा­य­क­त्व­म­प्र­यो­ज­क­त्व­माह –
न च तद्भेदाभेदाविति ।
यदि काठ­का­दि­सं­ज्ञानां भेदाद्विद्या भिद्येत , तर्हि एक­शा­खा­ग­त­द­ह­र­षो­ड­श­क­ला­दि­वि­द्या­ना­मैक्यं प्रसज्येत , तच्च मा भूद् ; अयुक्तं हि तद् ; नानाधब्दादिभेदा (ब्र.अ.३.पा.३.सू.५८) दित्यत्र तन्नि­षे­धा­दि­त्यर्थः ।
नित्या­नि­त्य­सं­यो­ग­वि­रो­धाच्च संज्ञानां न विद्या­भे­द­क­त्व­मि­त्याह –
कठादिपुरुषेति ।
यश्च तत्त­च्छा­खा­स्वों­का­र­स­र्वा­त्म्यादो ब्रह्म­वि­द्या­स­मा­प्ति­व्य­प­दे­शोऽ­ध्ये­तॄणां सोऽपि तत्त­दं­श­स­मा­प्त्य­भि­प्रा­य­स्ततो न शाखान्तरे विद्याया भेदक इत्याह –
समाप्तिश्चेति ।
शाखा­न्त­रा­धि­क­र­णे­नास्य पौन­रु­क्त­य­मा­श­ङ्क्याह – कंचिदिति श्लोकेन । पञ्चा­ग्नि­वि­द्या­या­म­ग्नि­ग­त­प­ञ्च­त्व­ष­ट्त्व­सं­ख्य­यो­रु­त्प­त्ति­शि­ष्टत्वं विशेषः , स च प्रागेव परिहृत इति । वक्ष्यमाणावर्थौ गुणो­प­सं­हा­रा­नु­प­सं­हारौ । रेतः प्रजननेन्द्रियं प्रजापतिः प्रजननम् ।
गुण­वि­शि­ष्ट­त­दु­पास्तेः फलमाह –
प्रजायते हीति ।
तं यजमानं प्रेतं दिष्टं परलोकाय कर्म­भि­रा­दि­ष्ट­मितो ग्रामादग्नये अग्न्यर्थं हरन्ति नयन्त्यृत्विजः । शिर­स्य­ङ्गा­र­पू­र्ण­पा­त्र­धा­रणं शिरोव्रतम् । एतं ह्येवात्मानं बह्वृचा ॠग्वेदिनो महत्युक्थे शस्त्रविशेषे मीमांसन्ते । महाव्रते क्रतुविशेषे । महद्भयं भय­हे­तु­र्व­ज्र­मु­द्यतं यथा तथा ब्रह्मेत्यर्थः । एषोऽधिकृतः पुरुष एतस्मिन्नात्मनि उद् अपि अरमल्पम् अन्तरं भेदम् । अल्पमपि भेदं यदा कुरुते , अथ तदा तस्य भयं भवति । तत्त्वेव ब्रह्मशब्देन विदुषो ज्ञात­व­तोऽ­म­न्वा­नस्य अतर्कयतो मननमकुर्वतो भयं भयहेतुः ॥४॥
इति प्रथमं सर्व­वे­दा­न्त­प्र­त्य­या­धि­क­र­णम् ॥

उप­सं­हा­रोऽ­र्था­भे­दा­द्वि­धि­शे­ष­व­त्स­माने च ॥५॥ सर्वशाखासु विद्यैक्ये सिद्धे गुण्या­कृ­ष्ट­गु­णा­ना­मु­प­सं­हा­र­सि­द्धे­र­धि­क­र­णा­ना­रम्भ इत्याशङ्क्याह –
भवत्विति ।
करणं हि विद्याऽ­ङ्ग­मा­का­ङ्क्षते , आकाङ्क्षा च सन्नि­धि­स­मा­म्नातैः अङ्गैः शान्तेति न शाखा­न्त­री­या­ङ्गा­पे­क्षे­त्यर्थः ।
यद्यपेक्षा स्यात्तत्राह –
अपेक्षणे चेति ।
साकाङ्क्षस्य प्रयो­ग­वि­धे­र­नु­ष्ठा­प­क­त्वा­सं­भ­वा­त­न्नि­रा­का­ङ्क्ष­त्वाय सर्व­म­ङ्ग­जा­त­मे­क­स्या­मेव शाखायां विधीयेतेत्यर्थः ।
ननु सर्वशाखासु विद्यैक्ये सति शाखा­न्त­र­ग­त­त­दी­या­ङ्गा­न­नु­ष्ठा­नेऽ­ख­ण्ड­क­र­णो­प­का­रा­सि­द्धे­र­नु­प­कृता विद्या न श्रेयस्करी स्यादत आह –
तस्माद्यथा नैमित्तिकमिति ।
ननु नित्यकर्मणि याव­ज्जी­व­मि­त्या­दि­नि­य­त­नि­मि­त्त­व­शा­च्छ­क्या­ङ्गा­नु­ष्ठा­न­मा­त्रेण परिपूर्णोपकारः कल्प्यते , उपासनासु तु स्वशा­खा­धी­तै­रे­वाङ्गैः परि­पू­र्णो­प­का­र­क­ल्प­नायां को हेतुरत आह –
अङ्गा­न्त­रा­वि­धा­ना­दे­वेति ।
गृहमेधीयेति ।
अस्ति चातुर्मास्येषु गृहमेधीयो मरूभ्द्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदन इति । तत्रे­द­मा­म­न­न्त्या­ज्य­भागौ यजतीति । तत्र संदेहः किम­य­म­ति­दे­श­प्रा­प्त­यो­रा­ज्य­भा­ग­यो­रा­नु­वादः , उता­ङ्गा­न्त­र­प­रि­संख्या । अथ­वाऽ­ति­दे­शे­ना­ज्य­भा­गा­वेव प्राप्येते इत्येतदनेन वचनेन ज्ञाप्यते , किंवा सर्वाङ्गेभ्यो य उपकारः स आज्य­भा­गा­भ्या­मे­वा­ङ्गा­न्त­रा­न­पे­क्षाभ्यां भव­ती­त्यु­प­का­रा­व­च्छेद इति । अन्येऽपि पक्षाः प्रथमे काण्डे समाशङ्क्य निरस्तास्ते तु विस्तरभयान्न लिख्यन्ते । तत्रा­नु­वा­द­मा­त्रस्य वैफ­ल्या­त्प­रि­सं­ख्या­याश्च प्रति­षे­ध­वि­ष­य­त्वा­द­ङ्गा­न्त­र­प्र­ति­षे­धस्य च वाक्यादप्रतीतेः कल्पनायां चाज्य­भा­ग­वा­क्यस्य स्वार्थ­त्या­ग­प्र­स­ङ्गात् प्राप्तस्य चाङ्गान्तरस्य प्रतिषेधे प्राप­क­प्र­मा­ण­बा­धा­पा­तात् । तदेवं स्वार्थ­हा­नि­र­स्वा­र्थ­क­ल्पनं प्राप्त­बा­ध­श्चेति त्रिदो­षी­प्र­स­ङ्गात् । अतिदेशस्य च विकृ­त्य­पे­क्षि­त­प्रा­कृ­ता­ख­ण्ड­क­र­णो­प­का­रा­ति­दे­श­द्वा­रे­णो­प­का­र­ज­न­क­प­दा­र्थान् विकृतौ प्रापयतो युगपदेव सर्वा­ङ्ग­वि­ष­य­त्वेन प्रवृ­त्ते­रा­शु­भा­व­मा­त्र­वि­ष­य­त्व­क­ल्प­न­स्या­यो­गा­दु­प­का­रा­व­च्छेद एवेति दशमे सिद्धान्तितम् । एतन्न्यायेनेह नोपकारावच्छेदो युज्यते ।
कुतः ? इत्यत आह –
न हीति ।
हृहमेधीये हि न्याये विकृतिकर्मैव गृहमेधीयः आज्य­भा­गा­ति­रि­क्त­म­ङ्ग­ग्रामं स्वोपकाराय नापेक्षते , प्रकृ­ति­स्त्व­पे­क्षते । अत्र पुनरेकमेव विज्ञानं शाखा­न्त­री­या­ङ्ग­मे­त­च्छा­खि­भि­र­नु­ष्ठी­य­मानं सन्नापेक्षते , शाखा­न्त­री­भि­र­नु­ष्ठी­य­मानं सदपेक्षते । एतच्च विरु­द्ध­मि­त्यर्थः ।
यच्चोक्तं यथा नैमित्तिकं कर्मेत्यादि , तत्राप्याह –
नैमित्तिके त्विति ।
याव­ज्जी­व­नि­मि­त्ता­नु­रो­धात् प्रधा­न­क­र्त­व्यत्वं नित्यमवगतं सर्वा­ङ्गो­प­स­हा­रस्य च सर्वदा पुंसा संपा­द­यि­तु­म­श­क्य­त्वा­च्छ­क्य­मा­त्रा­ङ्गा­नु­ष्ठा­ना­देव सक­ला­ङ्ग­सा­ध्यो­प­का­र­सि­द्धि­रि­त्यु­प­का­र­स्या­व­च्छेदः । अश­क्या­ङ्गे­भ्योऽ­व­च्छिद्य शक्ये­ष्व­व­स्था­पनं युज्यते , न तु तथेह शाखा­न्त­री­या­ङ्गो­प­सं­हा­र­स्या­श­क्य­त्वम् । अशक्तेः प्रथमाधिकरणे निरस्तत्वात् । न चोपास्तीनां नित्यत्वावगतिः काम्य­त्वा­दि­त्यर्थः ।
पूर्व­मे­क­स्यै­क­स्मि­न्वि­ष­येऽ­पे­क्षाऽ­न­पे­क्ष­यो­र्वि­रो­धाद् गृह­मे­धी­य­न्या­या­सं­भव उक्तः , इदानीं वैषम्यान्तरेण प्रकृते तदसंभवमाह –
प्राकृतेति ।
चोदकोऽतिदेशः । तेन प्राकृत उपकारपिण्डो गृहमेधाय प्राप्यते तद्द्वारा च तज्जनकानि सक­ल­प्रा­कृ­ता­ङ्गानि । तत्राज्यभागावपि तन्मध्ये प्राप्नुत इति प्राप्तयोः पुनर्वचनात् सक­ला­ङ्ग­ज­न्यो­प­का­रस्य तन्मा­त्र­ज­न्य­त्वे­ना­व­च्छेदः स्यादिह तु स्वशा­खा­ग­ता­ङ्गानां वचनाद्विना न प्राप्तिरिति तद्विधायकमेव वचनं नेत­र­प­रि­सं­ख्या­य­क­मि­त्यर्थः । अनेन गृह­मे­धी­य­पू­र्व­प­क्ष­ग­त­प­रि­सं­ख्या­प­क्षोऽपि व्युदस्तः ।
तन्मा­त्र­वि­धि­प­क्ष­स्यापि गृह­मे­धी­य­पू­र्व­प­क्ष­ग­त­स्या­त्रा­सं­भ­व­माह –
न च तदुपकारेति ।
तच्छब्देन प्राकृतमङ्गं परामृशति । आज्य­भा­ग­त­दि­त­रा­ङ्ग­साध्ये उप­का­र­स्तो­मेऽ­ति­दे­श­प्रा­प्तेऽ­प्या­ज्य­भा­ग­वि­धा­नाद्धि तत्रातिदेशस्य तन्मा­त्र­वि­धा­न­प­रत्वं कल्पितं , न त्विह विद्यासु स्वप­र­शा­खा­ग­त­ध­र्म­सा­ध्यो­प­का­र­पि­ण्ड­स्या­स्ति­क­श्चि­द­ति­देशः , यस्य तत्प्रा­प्त­ध­र्मस्य स्वशाखायां विधानात् स्वशा­खा­ग­त­ध­र्म­मा­त्र­वि­धा­य­कत्वं कल्प्ये­ते­त्यर्थः । तत्त्वेन एकत्वेन ।
बलवति बाधके इति ।
प्राप्तौ पुनर्विधानमेव बलवद् बाधकम् ॥५॥
इति द्वितीयं उपसंहाराधिकरणम् ॥

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥ चोद­ना­द्य­वि­शे­षा­दि­त्य­स्या­प­वा­दा­र्थ­मि­द­म­धि­क­र­णम् । भाष्ये वाज­स­ने­यि­शा­खा­ग­त­मु­द्गी­थ­ब्रा­ह्मणं छान्दोग्यगत उद्गीथाध्यायश्च विष­य­त्वे­नो­दा­हृतः । तत्र वाज­स­ने­यि­ब्रा­ह्मणं तावद्व्याचष्टे –
द्वया इत्यादिना ।
‘‘द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोके­ष्व­स्प­र्धन्त ते ह देवा ऊचु­र्ह­न्ता­सु­रात् यज्ञ उद्गी­थे­ना­त्य­या­मेति ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति तेभ्यो वागुदगायत्ते विदुरनेन वैत उद्गा­त्राऽ­त्ये­ष्य­न्तीति तमभिद्रुत्य पाप्मनाविध्यन् अथ हेममासन्यं प्राण­मू­चु­स्त्वन्न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेने’’ त्याद्यभिधाय ‘‘तमभिद्रुत्य पाप्म­नाऽ­वि­ध्य­न्त्सन्स यथाऽश्मानमृत्वा लोष्टो विध्वंसतैवं हैव विधंसमाना विश्वञ्चो विनेशु’’रिति श्रुतिः । तत्र प्रजापतिः कर्म­ज्ञा­ना­धि­कृतः पुरुषः । तद­प­त्या­नी­न्द्रि­य­वृ­त्तयः प्राजापत्याः ।
असुराणां ज्यायस्त्वं वृद्धत्वं श्रुत्यु­क्त­मु­प­पा­द­यति –
यतोऽमी इति ।
कानीयसाः कनीयांसो देवाः ।
कनि­ष्ठ­त्व­मु­प­पा­द­यति –
अज्ञा­न­पू­र्व­क­त्वा­दिति ।
अनादि ह्यज्ञानं तत्त्वज्ञानं चरमभावि । अत­स्त­ज्ज­न्य­प्र­वृ­त्ति­रू­पाणां देवानां कनि­ष्ठ­त्व­मि­त्यर्थः ।
अस्प­र्ध­न्ते­त्ये­त­द्व्या­चष्टे –
तदस्येत्यादिना ।
प्राण­स्ये­त्ये­त­च्छ्रु­ति­ग­त­प्र­जा­प­ति­श­ब्दस्य व्याख्यानम् । प्राणप्रधानस्य क्षेत्र­ज्ञ­स्ये­त्यर्थः ।हन्तेत्यनुमतौ । यद्यनुमतिरस्ति सर्वे­षा­म­स्मा­क­म­सु­र­जये , तर्ह्य­सु­रा­न­त्य­या­मा­ती­त्या­सु­रान् देव­भा­व­मा­प्नु­वा­मे­त्यर्थः । यज्ञो ज्योतिष्टोमः । सोऽसुराणां विध्वं­स­क­त्वा­दा­भि­चा­रिकः । वाक् प्राणेत्यत्र प्राणो घ्राणेन्द्रियम् ।
निन्दित्वेति ।
तान्येव वागा­दी­नी­त्य­र्था­ल्ल­भ्यते ।
प्राणमात्रस्य संवा­द­क­र्तृ­त्वा­यो­गा­द्दे­वता लक्ष्यत इत्याह –
प्राणाभिमानेति ।
एष इति मुख्यप्राणस्य विशेषणं घ्राण­व्या­वृ­त्त्य­र्थम् । अभि­द्रु­त्या­धि­गम्य । अवि­ध्यं­स्ता­डि­त­वन्तः । अवि­ध्य­न्त्स­न्निति श्रुतिपदं तत्र सन्प्र­त्य­य­मु­पेक्ष्य प्रकृ­ति­मा­त्र­मु­दा­हृ­तम् । लोष्टः पांसुपिण्डः । स चान्यो वा दुर्बलः काष्ठा­दि­रि­त्यर्थः । वाशब्दः श्रुता­व­वि­द्य­मा­नोऽपि न्याय­ल­भ्य­त्वा­दु­प­न्यस्तः ।
उद्गी­थ­क­र्तृ­त्वम् , उद्गा­न­क्रि­या­रू­पत्वं च शाखाभेदेन श्रूयमाणं न विद्याभेदकम् , एकस्यां शाखायां विधै­क्य­सं­प्र­ति­प­त्ता­वपि तद्द­र्श­ना­दि­त्याह –
न केवलं शाखान्तरे इति ।
एवं कर्तृ­क्रि­या­त्व­नि­र्दे­वै­षम्यं परिहृत्य सक­ल­भ­क्ति­नि­र्देशो वाजसनेयके , भक्त­ये­क­दे­श­प्र­ण­व­नि­र्दे­श­श्छा­न्दोग्ये इति वैषम्यं परिहरति – बहुतररूपेति ॥६॥ रस­त­मा­दि­गु­णो­प­व्या­ख्या­न­मो­ङ्का­रस्य कृत्वेति शेषः । एतच्च भाष्य­प्र­ती­को­पा­दा­नम् । एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधय ओषधीनां पुरुषो रसः पुरुषस्य वाग् रसो वाच ॠग्रसः , ॠचः सामरसः साम्न उद्गीथो रसः स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ इति श्रुतिः ।
एत­च्छ्रु­ति­व्या­ख्या­नेन भाष्यो­क्त­र­स­त­मा­दि­गु­ण­योगं विवृणोति –
तथा हीति ।
यस्य यजमानस्य पुरस्तात् पूर्वं हविरुप्तं देवतार्थं सङ्कल्पितं भवति चन्द्रमाश्च पश्चादभ्युदेति स चतु­र्द­श्या­म­मा­व­स्या­भ्र­म­वान् मध्यमादिभावेन त्रेधा­भू­ता­स्त­ण्डु­ला­न­ग्न्या­दिभ्यो दर्शदेवताभ्यः सकाशाद्विभजेद् । विभज्य च दात्र­ग्न्या­दि­दे­व­ताभ्यो निर्व­पे­दि­त्यर्थः । दधन् दधनि । श्रुते दुग्धे ।
तेष्वेव कर्मस्विति ।
आग्ने­या­दि­ष्वि­त्यर्थः ।
कालापराधं विवरीतुं यथाकालमनुष्ठानं दर्शयति –
एष तावदिति ।
अभितः सन्निधौ उदितश्चन्द्रो यस्य स यजमानोऽभ्युदितः ।
अत्र सिद्धान्ते दर्शकर्मण्येव देव­ता­प­न­य­मा­त्र­मि­त्य­स्मिन् प्रयोजनमाह –
अमा­वा­स्या­या­मे­वेति ।
तस्यैव कर्म­णो­नु­व­र्त­मा­नत्वे हि स्वदेवतायुक्तं तत्परिसमापनीयं ततश्चतुर्दश्यां निरुप्तहविषा देवतान्तरेभ्यो नैमि­त्ति­क­प्र­योगं परिसमाप्य पुन­र­मा­व­स्या­या­मे­वा­ग्न्या­दिभ्यो दर्शदेवताभ्यो हविर्निरुप्य प्रतिपदि दर्शः प्रवर्तयितव्यः । दर्शलोपे तु प्राय­श्चि­त्त­भू­त­मिदं कर्मा­मा­वा­स्यायां कृत्वो­प­र­न्त­व्य­मिति चिन्ता­प्र­यो­ज­न­मि­त्यर्थः ।
पूर्वपक्षमाह –
हवि­र्भा­गे­त्या­दिना ।
उत्प­त्ति­शि­ष्ट­दे­व­ता­व­रुद्धे कर्मणि देव­ता­न्त­रा­न­व­का­शात् कर्मा­न्त­र­त्व­मि­त्ये­व­मर्थं हवि­र्वि­भा­ग­मा­त्र­श्र­व­णा­दिति संग्रहवाक्यं , प्राप्ते कर्म­ण्य­ने­क­गु­ण­विधौ वाक्य­भे­द­प्र­स­ङ्गात् कर्मा­न्त­र­त्व­मि­त्ये­व­म­भि­प्रायं चरु­वि­धा­न­सा­म­र्थ्या­च्चेति द्वितीयं संग्रहवाक्यम् ।
तत्राद्यं विभजते –
यदि हीत्यादिना ।
पूर्व­दे­व­ता­भ्योऽ­ग्न्या­दिभ्यो हवींषि विभजेदिति वाक्येन विहिते उत्प­त्ति­शि­ष्ट­दे­व­ता­व­रो­धस्य वाक्येनैव वारितत्वात् पूर्वकर्मणि देव­ता­न्त­र­नि­वे­श­सं­भवे सति न कर्मान्तरत्वं स्यात् । हवि­र्मा­त्र­वि­भा­ग­वि­धाने तूत्प­त्ति­शि­ष्ट­दे­व­ता­व­रो­धाद् वाजिनेज्यावत् कर्मा­न्त­र­त्व­मि­त्यर्थः ।
द्वितीयं संग्रहं विवृणोति –
अपि चेति ।
ननु कर्मान्तविधौ प्रार­ब्ध­द­र्श­प्र­यो­गस्य का गतिस्तत्राह –
दर्शस्तु लुप्यते इति ।
कर्मान्तरमिति प्रतिज्ञाय हेतुमाह –
पूर्वदेवतात इति ।
उत्प­त्ति­शि­ष्ट­दे­व­ता­व­रोधं परिहृत्य वाक्यभेदं परिहरति –
चर्वर्थस्येति ।
वाक्या­न्त­र­प्रा­प्त­मिति ।
ये मध्यमा इत्यादिवाक्यैः प्राप्त­मि­त्यर्थः ।
ननु विभ­जे­दि­त्ये­ता­व­न्मा­त्र­विधौ कस्मादिति न ज्ञायते , तत्राह –
तत्र च वाक्यान्तरेति ।
ये मध्य­मा­दि­वा­क्यै­र्दे­व­ता­न्त­रेषु तत्प्र­ति­यो­गि­नीनां देवतानामेव बुद्धिस्थानां विभा­ग­प्र­ति­यो­गित्वं गम्यते इत्यर्थः ।
ननु तण्डुलानामेव देवताभ्यो विभा­ग­श्र­व­णा­द्द­धि­प­य­सोर्न पूर्वदेवतातो विभा­गोऽ­व­ग­तोऽ­त­स्त­यो­रु­त्प­त्ता­वैन्द्रं दध्य­मा­वा­स्या­या­मैन्द्रं पयोऽ­मा­वा­स्या­या­मि­ती­न्द्र­दे­व­ता­व­रु­द्ध­योर्न देवतान्तरावकाश इति कर्मभेद एव स्यादत आह –
तण्डुलानिति त्वविवक्षितमिति ।
हविर्मात्रं विभागविषयः । तस्य तण्डुलत्वेन विशेषणे विशि­ष्टो­द्दे­शा­द्वा­क्य­भेदः स्यादित्यर्थः ।
हविरुभयत्ववदिति ।
दर्श­पू­र्ण­मा­स­यो­रा­म्ना­यते –
यस्योभयम् हवि­रा­र्ति­मा­र्च्छे­दैन्द्रं पञ्चशरावमोदनं निर्वपेदिति ।
उभयं दधिपयः । तत्र श्रुत­त्वा­द्ध­वि­र्व­दु­भ­य­त्व­मपि निमि­त्ता­न्त­र्भू­त­मिति प्रापय्य षष्ठे राद्धान्तितम् । अवि­व­क्षि­त­मु­भ­य­त्वम् । तद्विवक्षयां हि विशि­ष्टो­द्दे­श­ना­द्वाक्यं भिद्येत – हविरार्तौ निर्वपेदुभयर्तौ चेति , विध्या­वृ­त्ति­प्र­स­ङ्गात् । ननु तर्हि हवि­र­प्य­वि­व­क्षितं स्याद्ध­वि­र्वि­शि­ष्टा­र्ते­रु­द्दे­श्यत्वे वाक्य­भे­द­ता­द­व­स्थ्यात् ; न ; आर्तिमात्रस्य सर्वदा सर्वेषां संभवेन निमि­त्त­त्वा­प­र्य­व­सा­नात् । तत्पर्यवसानस्य हि मृष्यामहे हविषा विशेषणम् । उभयत्वं तु पर्यवसिते निमित्ते विशेषणं भवि­द्वि­ध्य­ना­का­ङ्क्षितं वाक्यं भिद्यादिति तन्न मृष्यामः ।
तस्मा­द­वि­व­क्षि­त­मु­भ­य­त्व­मिति ।
ननु शक्नुवन्तु वाक्यानि तस्मिन् कर्मणि देवतान्तरं विधातुं , तस्यै­व­त्व­बु­द्धि­स्थ­त्वा­त्कथं तत्र देवताविधिरत आह –
द्रव्यमुखेनेति ।
पूर्वोक्तं सिद्धा­न्त­प्र­यो­जनं निगमयति –
ततश्चेति ।
एव­मु­त्प­त्ति­शि­ष्ट­दे­व­ता­व­रोधं परिहृत्य वाक्य­भे­द­प्र­सङ्गं परिहरति –
न च दधनि चरुमित्यादिना ।
प्राकृतकर्मणि तण्डुलादयः पाकान्ताः पुरो­डा­श­सा­म­र्थ्या­त्सिद्धाः । दधिपयसी च स्वत एव सिद्धे ।
कथ­मे­ता­व­ताऽ­धि­क­र­ण­च­र्व­र्थयोः प्राप्तिरत आह –
तत्राभ्युदयेति ।
दध्न­स्त­ण्डु­लानां पयसस्तण्डुलानां च साहित्यं ये मध्य­मा­दि­वा­क्या­व­ग­ता­दे­क­दे­व­ता­क­त्वा­त्सि­द्धम् ।
तदिदमुक्तं –
दधियुक्तानां पयोयुक्तानां चेति ।
नन्वेवमपि दधि­प­य­सो­स्त­ण्डु­लानां च मिश्रणमेव भवति , कथ­म­धि­क­र­णा­र्थ­ला­भ­स्त­त्राह –
न च प्रभूतेति ।
त्र्यधिकगवां दोह­वि­धा­ना­द्द­धि­प­यसोः प्रभूतत्वम् । अत­श्चा­ल्पा­स्त­ण्डु­लान् प्रत्याधारत्वं सप्तम्यर्थो दधिपयसोः सिद्धः ।
ननु पुरोडाशनिवृत्तौ पाकोऽपि निवर्ततां , तथा च कथं चरुसिद्धिरत आह –
अनि­वृ­त्ति­स्त्विति ।
साध­न­वि­शे­षा­श्रि­त­त्वा­द्ध­र्माणां तण्डुलेष्वपि पाका­नु­वृ­त्ति­र्व्रीहि धर्मा­णा­मि­वा­व­धा­ता­दीनां यवेष्वित्यर्थः ।
प्रकृताधिकारेति ।
प्रकृतस्य दर्श­पू­र्ण­मा­स­क­र्मणो द्रव्य­द्वा­रे­णा­धि­का­रा­व­ग­मात् संब­न्धा­व­ग­मा­द­गत्या वाक्यभेदस्य न्याय्य­त्वा­दि­त्यर्थः । वत्सा­न­पा­कु­र्या­द्गो­दे­शा­द्दे­शा­न्तरं नयेत् । इतरथा हि ते सर्वे सर्वं दुग्धं पिबेयुरिति ।
भवतु पर­स्मा­त्स्व­र­प्रा­णादेः परो वराच्च तस्मादेव वरीयान् वरतर उद्गीथः कथमनन्तस्तत्राह –
परमात्मरूपेति ।
पर­मा­त्म­दृ­ष्ठ्य­ध्या­सा­त्त­द्रू­प­सं­पत्तिः ।
ननु ‘‘का साम्नो गतिः कारणं , स्वर इति होवाच स्वरस्य का गतिरिति प्राण’’ इती­त्यु­प­क्र­म्यास्य लोकस्य का गति­रि­त्य­न­न्ता­काशं निर्दिश्याकाशो ह्येवैभ्यो ज्याया­नि­त्या­दि­नाऽऽ­का­श­स्यैव परो­व­री­य­स्त्वा­दि­गु­ण­योगं दर्शयति । तत्कथं पर­मा­त्म­दृ­ष्ठ्य­ध्यास उद्गीथेऽत आह –
पर­मा­त्म­दृ­ष्ठि­मिति ।
आकाशस्तल्लिङ्गा (ब्र.अ.१.पा.१.सू.२२) दित्युक्तं न प्रस्म­र्त­व्य­मि­त्यर्थः ॥७॥८॥ तत् तत्र देवादुरसंग्रहे ह किल देवा उद्गीथम् उद्गी­था­व­य­वो­ङ्का­रम् आज­ह्नु­रा­हृ­त­वन्तः । तस्य केव­ल­स्या­ह­र­णा­यो­गात् तदाश्रयं ज्योतिष्टोमादि आहृतवन्त इत्यर्थः । अनेन कर्मणा एता­न­सु­रा­न­भि­भ­वि­ष्याम इति स उद्गाता वाचा प्राणेन च वागु­प­स­र्ज­न­प्रा­प्ना­णे­नो­द्गानं कृतवान् ॥
इति तृती­य­म­न्य­था­त्वा­धि­क­र­णम् ॥

व्याप्तेश्च समञ्जसम् ॥९॥ ओमित्येतदक्षरम् उद्गीथमिति वाक्ये ओंका­र­स्यो­द्गी­थेन विशेषणमर्थं सिद्धवत्कृत्य प्रक­म­भे­दा­द्वि­द्या­भेदो दर्शितः , इदानीं स एवा­र्थ­श्चि­न्त्यते । भाष्ये भेद­बु­द्धा­व­नु­व­र्त­मा­ना­या­म­न्य­त­र­बु­द्धि­र­ध्यास इत्य­ध्या­स­ल­क्ष­ण­मु­क्तम् ।
तदयुक्तम् ; स्मृतिरूप इत्य­त्रा­वि­वे­क­पू­र्व­क­त्वस्य वर्णितत्वादत आह –
गौणी बुद्धिरध्यास इति ।
उक्तानीति ।
भाष्ये यथाश्रुतान्येव ग्राह्याणि न व्याख्या­ना­पे­क्षा­णी­त्यर्थः ।
उद्गी­थो­ङ्का­र­श­ब्द­यो­रै­कार्थ्ये पर्या­य­त्वा­त्स­ह­प्र­यो­गा­दे­क­त्व­प­क्षा­नु­त्था­न­मा­श­ङ्क्याह –
ऐकार्थेऽपीति ।
भाष्यमुपादत्ते – इदमुच्यत इतीति शब्दो द्रष्टव्यः ।
ओंकारस्य शब्दविशेषस्य कथं वेदव्याप्तिरत आह –
प्रत्यनुवाकमिति ।
यजुर्वेदे अध्ययनप्रवचनयोः प्रत्य­नु­वा­क­मु­प­क्र­म­स­माप्तौ चोङ्कार उच्चार्यते , ऋग्वेदे तु प्रत्यृचम् ।
अत एव सामवेदेऽपि ऋगध्यूढत्वात् साम्न इति सर्ववेदे व्यापक कारः , प्रतिवेदंच स्वरादिभेदाद् भिद्यते ।त­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मु­द्गी­थ­वि­शे­ष­ण­मि­त्याह –
किंगतोऽयमिति ।
विशेषणे च प्रयोजनमाह –
तत्त­दा­प्त्या­दीति ।
आदिशब्देन समृ­द्धि­र­स­त­म­त्वादि गृह्यते । आप्तिः कामप्रापकत्वम् । अधिक्रियते प्रतिपाद्यते ।
ननु संभवे व्यभिचारे च विशेषणमर्थवत् , तत्र सर्व­वे­द­व्या­प­क­त्वा­द्वि­शे­ष्य­स्यो­ङ्का­रस्य भवतु विशेषणेन व्यभिचारः , संभवस्तु विशेष्ये ओंकारे विशे­ष­ण­स्यो­द्गी­थ­त्वस्य नोपपद्यते ; उद्गीथशब्दस्य सक­ल­भ­क्ति­वा­चि­त्वाद् भक्तित्वस्य च भक्तयवयवे ओंका­रेऽ­नु­प­प­त्ते­रत आह –
उद्गीथपदेनेति ।
स्यादेतत् – उद्गीथशब्दस्य किमि­त्य­व­य­व­ल­क्ष­णा­र्थ­त्वम् ? औंकारशब्दस्य एवो­द्गी­थ­भ­क्ति­नी­म­व­य­विनीं लक्षयतु , तदापि शब्दयोः सामा­ना­धि­क­र­ण्य­सं­भ­वा­दत आह –
न पुनरोंकारेणेति ।
खल्वे­त­स्यै­वा­क्ष­र­स्यो­प­व्या­ख्यानं भवति ; आपयिता ह वै कामानां भवति य एतदेवं विद्वा­न­क्ष­र­मु­द्गी­थ­मु­पास्ते इत्यादिना प्रण­व­स्यै­वा­प्त्या­दि­गु­ण­वि­शि­ष्टस्य तादृ­क्फ­ल­वि­शि­ष्टस्य चोप­व्या­ख्या­स्य­मा­न­त्वात् , प्रधाने न लक्ष­णा­नु­प­प­त्ते­रु­द्गी­थ­शब्द एव लाक्षणिक इत्यर्थः । ओंकारेण भक्तिलक्षणायां वैयर्थ्यं च स्याद् , उद्गीथपदेन भक्तिविशेस्यैव व्यभि­चा­रा­भा­वा­दि­त्यपि द्रष्टव्यम् । निरूढा चेयं लक्षणा न सांप्रतिकी स्यादित्यर्थः । इयं च वक्ष्य­मा­ण­न्या­येन गौण्येव लक्ष­णे­त्यु­क्तेति ।
ननु किमिति फलकल्पना ? आप्त्यादिफलस्य श्रुतत्वादत आह –
आप्त्या­दि­गु­ण­केति ।
ओंकार उद्गी­थ­दृ­ष्टे­स्त­स्मि­न्ना­प्त्या­दि­गु­ण­दृ­ष्टे­स्त­स्मि­न्ना­प्त्या­दि­दृ­ष्टे­श्चो­पा­स्य­रू­प­भे­दा­द्भेद इत्यर्थः ।
सिद्धान्ते फलकल्पनां वारयति –
उद्गीथसंबन्धीति ।
उद्गी­थ­भ­क्ति­सं­ब­न्धिनः प्रण­व­स्यो­पा­स­नाया अधि­का­र­प्र­ति­पा­दनं , तत्परे तु वाक्ये न फलकल्पनादोषः । आप्त्या­दि­दृ­ष्टी­र्वि­धा­तु­मो­मि­त्ये­त­द­क्ष­र­मिति वाक्येन विशि­ष्ट­प्र­ण­व­स­म­र्प­णेन पृथ­गु­पा­स­न­वि­ध्य­भा­वा­दा­प्त्या­दि­गु­ण­वि­शि­ष्ट­प्र­ण­वो­पा­स्ते­श्चा­प­यिता ह वै कामानां भवतीत्यादिना फल­श्र­व­णा­च्चे­त्यर्थः । विषयतया ओंकार उद्गी­थ­दृ­ष्टि­विधौ हि गौण्यु­द्गी­थ­श­ब्दस्य वृत्तिः स्यात् । उद्गीथ दृष्टिविषयत्वं च गुणः । तत­श्चो­द्गी­थ­दृ­ष्टि­दृ­ष्ट­त्वा­दो­ङ्कार उद्गीथ इत्यर्थः संपद्यते । न पुन­रु­द्गी­थे­नो­ङ्का­र­ल­क्षणा तथा सति दृष्टि­वि­ध्य­सिध्देः । सिद्धान्ते त्वव­य­वि­व­च­ने­नो­द्गी­थ­श­ब्दे­ना­व­य­व­ल­क्षणा ।
ततः किं जातमत आह –
गौण्या वृत्तेरिति ।
वाच्यमर्थं विहाय यद्वस्तु लक्ष्यते तन्मा­त्र­प­र­त्व­ल­क्ष­णा­याम् इत्य­व्य­व­धा­न­मुक्त्वा गौण्या लक्ष­णी­या­र्थ­द्वा­राऽ­र्था­न्तरे शब्दस्य वृत्ते­र्व्य­व­धा­न­माह –
गौर्वाहीक इति ।
लक्षणायामपीति ।
भाष्ये पूर्वपक्षेऽपि लक्षणाऽभ्युपगमो न युक्तः , तत्र गौणी वृत्ति­रि­त्यु­क्त­त्वा­दत आह –
गौण्यपीति ।
लक्षणा गुणविषयावयव एकदेशो यस्याः साः तथोक्ता ।
एवमध्यासपक्षं दूष­यि­त्वै­क­त्व­पक्षं दूषयति –
यद्यपीति ।
वैश्व­दे­व्या­दि­शब्दे लक्ष्यैक्येऽपि वाच्यभेदान्न पर्यायत्वं , तव तु वाच्या­भे­दा­त्प­र्या­य­त्व­मि­त्यर्थः । ननु पर्यायत्वेऽपि करि­सि­न्धु­रा­दि­श­ब्दानां सहप्रयोग उक्तस्तत्राह – न च व्याख्यानमिति ॥९॥
इति चतुर्थं व्याप्त्य­धि­क­र­णम् ॥

सर्वा­भे­दा­द­न्य­त्रेमे ॥१०॥
ओंकारस्य सर्वस्य प्राप्ता­वु­द्गी­थ­मिति विशे­ष­णा­द­न्य­व्या­वृ­त्ति­व­देवं विद्वा­नि­त्ये­वं­श­ब्दा­त्सं­नि­हि­ता­व­ल­म्ब­ना­द­स­न्नि­हि­तस्य विद्यै­क्य­द्वा­राऽ­नु­मा­नात् प्राप्नुवतो वसि­ष्ठ­त्वा­दे­र्व्या­वृ­त्ति­रिति पूर्वपक्षमाह –
एवंशब्दस्येति ।
ननु कौषीतकिवाक्यं , वसि­ष्ठ­त्वा­दि­म­त्प्रा­ण­वि­षयं , श्रैष्ठ्या­दि­गु­ण­क­प्रा­णो­पा­स्ति­प­र­त्वाद् , वाज­स­ने­यि­वा­क्य­व­दि­त्य­नु­मा­ना­द्व­सि­ष्ठ­त्वा­दि­क­मपि सन्निहितमिति नेत्याह –
साक्षादिति ।
अशाब्दस्य शाब्दे­नाऽ­न­न्व­यात् । न हि गामानयेति वाक्यार्थे प्रत्य­क्ष­दृ­ष्टो­घ­टोऽ­न्वे­तीति । फलविधिपरे एवं विद्वानिति वाक्येऽ­न्य­व्या­वृ­त्ति­प­र­त्व­मे­वं­श­ब्दस्य न युक्तम् ; वाक्य­भे­द­प्र­स­ङ्गा­दिति केश­वो­क्त­म­यु­क्तम् ; व्यावृ­त्ति­प­रेऽपि वाक्ये विद्यै­क्य­द्वा­र­प्रा­प्त­शा­खा­न्त­री­य­फ­ल­सं­ब­न्धा­नु­वा­दात् कुतो वाक्यभेदः ? सत्यम् , अशाब्दं शाब्दे नान्वेति सन्नि­धि­मा­त्र­म­भि­द­ध­त­स्त्वे­वं­श­ब्दस्य शाखान्तरीयमपि वसिष्ठत्वादिकं गुणिद्वारेण सन्नि­हि­त­म­भि­धे­य­मिति भवति शाब्दम् ।
अतश्च वाक्या­र्थेऽ­न्वे­तीति सिद्धान्तयति –
सत्यमित्यादिना ।
एवं च सिद्धान्ते सन्नि­हि­त­स­म­स्त­ध­र्म­प­रा­म­र्शिन एवंशब्दस्यानुवादकत्वात् फलपरत्वमेव कौषी­त­कि­वा­क्य­स्येति वेदितव्यम् । जुह्वो­प­स्था­पि­त­क्रतुः सन्निहितः , स च जुह्वपदस्य लक्ष्य इति नाशाब्द इत्यर्थः ।
उपा­स्य­फ­ल­प्र­त्य­भि­ज्ञा­ना­दिति ।
उपास्यप्राणस्य प्रत्य­भि­ज्ञा­ना­त्त­दा­प्ति­ल­क्ष­ण­फ­लस्य प्रत्य­भि­ज्ञा­ना­च्चे­त्यर्थः ।
भाष्ये कौषी­त­की­ब्रा­ह्म­ण­ग­ते­नै­वं­श­ब्देन वाज­स­ने­यि­ब्रा­ह्म­ण­ग­त­गु­ण­प­रा­म­र्शा­भा­वा­ङ्गी­कारो न युक्तः ; उक्तप्रकारेण तत्प­रा­म­र्श­स्यापि संभवादत आह –
तथापीति ।
शाखा­न्त­री­य­गु­णो­प­सं­हा­रेऽपि स्वशा­खा­ग­त­गु­ण­स्वी­का­रा­त्कथं श्रुत­हा­नि­प्र­स­क्ति­र्यतो भाष्ये निषिध्यतेऽत आह –
केवलस्येति ।
केवला हि स्वशाखायां श्रुतास्तेषां कैव­ल्य­हा­नि­र­श्रु­तो­प­सं­हारे सतीति शङ्केत्यर्थः ॥१०॥ निःश्रेयसं श्रैष्ठ्यं तस्यादानं निर्धारणं प्रस्तूयत इत्यर्थः । अहंश्रेयसे आत्म­श्रे­ष्ठ­त्वाय । यथा प्राणो वागादिभ्यः श्रेष्ठस्तथा उ । तथा उशब्दोऽप्यर्थः । एवं विद्वानपि प्राणे श्रैष्ठ्यं विदित्वा उपा­स्य­प्रा­णा­त्म­त्व­प्राप्त्या श्रैष्ठ्या­दि­गु­णा­न्वितो भवति ॥
इति पञ्चमं सर्वा­भे­दा­धि­क­र­णम् ॥१०॥

आनन्दादयः प्रधानस्य ॥११॥ प्राणस्य सवि­शे­ष­त्वा­द्युक्तः शाखा­न्त­री­य­व­सि­ष्ठ­त्वा­द्यु­प­सं­हारः , ब्रह्मणस्तु निर्विशेषत्वात् स्वशा­खा­ग­त­ध­र्मै­रेव प्रमि­ति­सि­द्धे­र्ना­न­न्दा­द्यु­प­सं­हार इति प्रत्य­व­स्था­ना­त्स­ङ्गतिः । ननु वेद्य­ब्र­ह्मै­क्याद् गुणोपसंहार उत्सर्गप्राप्तः ।
न चात्रा­प­वा­द­क­मे­वं­श­ब्द­वत् किंचिदुपलभ्यते तत्कि­म­र्थ­म­धि­क­र­ण­मा­र­भ्यते ? अत आह –
गुणविधानस्येति ।
यद्यानन्दादयो ब्रह्मै­क्या­त्स­र्व­शा­खा­सू­प­सं­ह्रि­ये­रन् , तर्हि संयद्वामत्वादयः किमिति नोपसंहृता इति प्रति­ब­न्द्या­श­ङ्कायां संयद्वामत्वादय उपासनार्थं विधेया विधि­प्र­यु­क्ता­पू­र्वस्य चानि­र्ज्ञा­त­प­रि­मा­ण­त्वा­द­पू­र्व­प्र­यु­क्त­ध­र्माणां यथाविधि व्यवस्था , सत्य­ज्ञा­ना­द­यस्तु वस्तु­त­त्त्व­प्र­मि­त्यर्था इति यत्र यत्र वस्तु­त­त्त्व­प्र­ति­प­त्ति­स्तत्र तत्र नेतव्या इति विशेषप्रदर्शनेन प्रतिबन्दीं परि­ह­र्तु­म­य­मा­रम्भ इत्यर्थः । शिष्टं स्पष्टार्थम् । यत्तु - निर्विशेषे पदा­न्त­र­वै­य­र्थ्या­द­नु­प­सं­हारः – इति , तत्रोच्यते ; सत्य­ज्ञा­ना­न­न्दा­न­न्ता­त्म­त्व­प­दार्था इतरेतरं विशे­ष­ण­वि­शे­ष्य­भूता विरु­द्धा­नृ­त­ज­ड­दुः­ख­प­रि­च्छे­दा­ना­त्म­ता­भ्रा­न्ती­र्व्या­व­र्त­यन्तः सत्ता­दि­प­रा­प­र­सा­मा­न्या­धा­र­भू­ता­मे­का­मा­न­न्द­व्यक्तिं लक्षयन्ति सद् द्रव्यं कुम्भ इति पदानीव कुम्भव्यक्तिम् । एता­दृ­श­ब्र­ह्म­सि­द्धिश्च नैक­स्मा­त्प­दा­त्त­न्मा­त्र­प्र­योगे विरो­धा­भा­वा­ल्ल­क्ष­णाया अनु­त्था­ना­त्प्र­यो­क्तव्ये च पदान्तरे यावन्त्यो भ्रान्तयः संभाव्यन्ते , तन्नि­र­स­न­स­म­र्थ­प­द­वृन्दं प्रयोक्तव्यमिति समा­रो­पि­त­भ्र­म­नि­र­स­न­स­मर्थं पदार्थवृन्दं सर्व­त्रो­प­सं­ह­र्त­व्य­मिति ॥११॥१२॥१३॥
इति षष्ठ­मा­न­न्दा­द्य­धि­क­र­णम् ॥

आध्यानाय प्रयोजनाभावात् ॥१४॥ विद्या­भे­दा­भे­द­प्र­स­ङ्गेन वाक्य­भे­दा­भे­द­चिन्ता । तन्नि­ब­न्ध­न­वि­द्या­भे­दा­भे­दा­चि­न्त­नाद्वा पादसंगतिः । ब्रह्म­स्व­भा­व­भू­तो­प­सं­हा­र्य­ध­र्म­चि­न्ता­न­न्त­र­म­स्व­भा­व­स्या­नु­प­सं­हा­र्य­स्या­प्य­र्था­दि­प­र­त्व­रू­प­ध­र्मस्य ब्रह्म­प्र­ति­प­त्त्यु­पा­य­त्व­चि­न्त­ना­द­वा­न्त­र­सं­गतिः । विगतज्वरत्वं प्रति­ति­ष्ठ­त्यर्थं संबध्यते । शतं सह­स्र­मि­त्या­दि­भि­र्म­न्व­न्त­र­मेव विशेष्यते । सूक्ष्म­श­ब्दा­दि­भू­त­ध्या­यिनो भौतिकाः । कर­णा­भि­मा­न्या­दि­त्या­दि­दे­व­ता­ध्या­यिन आभिमानिकाः । अन्तः­क­र­ण­ध्या­यिनो बौद्धाः । दृष्टप्रयोजने संभ­व­त्य­दृ­ष्ट­क­ल्प­नाऽ­नु­प­पत्तेः पुरु­ष­प­र­त्वा­र्थ­त्व­मि­त­रे­षा­मि­त्याह – तदत्रेति ॥१४॥
फलवत्तरत्वं तात्प­र्य­लि­ङ्ग­पु­रु­ष­प­र­त्वेऽ­भि­धा­य­मा­न­मा­ना­न्त­रा­न­धि­ग­त­त्व­ल­क्ष­ण­म­पू­र्वत्वं तात्प­र्य­लि­ङ्ग­माह –
अनधिगतार्थेति ।
अचेतनायाः श्रुते­र­भि­प्रा­या­यो­गाद् भाष्ये आशयशब्दो गौण इत्याह –
आशयातिशय इवेति ।
किंचा­र्था­दि­प­रत्वे वाक्यभेदेन प्रतिपादिते प्रकरणोत्कर्षः स्यान्नि­र्गु­ण­वि­द्यायां तद­नु­यो­गा­त्पु­रु­ष­प­र­त्व­मा­त्र­प्र­ति­पा­दने चैकवाक्यत्वं लभ्यत इत्याह –
किं च श्रुत्यन्तरेति ।
एतत्प्रकरणस्थं सोऽध्वन इति वाक्यमेव श्रुत्यन्तरम् ॥१५॥
इति सप्त­म­मा­ध्या­ना­धि­क­र­णम् ॥

आत्म­गृ­ही­ति­रि­त­र­व­दु­त्त­रात् ॥१६॥ पूर्वत्र वाक्य­भे­द­प्र­स­ङ्गा­द­र्था­दि­प­रत्वं निरस्तं , तर्हि हिरण्यगर्भे सकलस्य वाक्यस्यान्वयेन वाक्य­भे­दा­भा­वा­त्त­त्प­रत्वं वाक्य­स्या­त्रा­श­ङ्कते ।
ननु - एक एवाग्र आसीदिति प्रागु­त्प­त्ते­रा­त्मै­क­त्वा­व­धा­र­णा­दै­क्ष­ते­ती­क्षि­तृ­त्व­श्र­व­णाच्च परमेश्वरे गम्यमाने कथं हिरण्यगर्भशङ्का ? अत आह –
श्रुति­स्मृ­त्यो­रिति ।
आत्मा वेति वाक्यं , हिरण्यगर्भपरं महा­भू­त­सृ­ष्ठ्य­वि­ष­यत्वे सति लोक­सृ­ष्टि­वि­ष­य­त्वात् , ‘‘आत्मैवेदमग्र आसी­त्पु­रु­ष­विधः’’ ‘‘स वै शरीरी प्रथम’’ इति च वाक्य­व­दि­त्य­नु­मा­नात्तु लिङ्गद्वयमन्यथा नियमित्यर्थः । लोक­सृ­ष्टि­रु­प­ल­भ्य­मा­नाऽ­वा­न्त­रे­श्व­र­कार्या सती एक­त्वा­व­धा­र­णा­दि­क­म­वा­न्त­रे­श्व­र­सं­ब­न्धि­तया गमयतीति योजना ।
अनुमानस्य श्रुति­स्मृ­त्यो­रि­त्या­दि­नाऽ­न्व­य­व्या­प्ति­रुक्ता , इदानीं व्यति­रे­क­व्या­प्ति­माह –
पर­मे­श्व­र­स­र्ग­स्येति ।
पार­मे­श्व­र­लि­ङ्ग­द्व­य­स्या­न्य­था­न­य­न­प्र­का­र­मेव दर्शयति –
अस्ति हीति ।
संदंशन्यायं वक्तुं पूर्व­वा­क्य­म­नु­सं­धत्ते –
अपि चैतस्मिन्निति ।
अथातो रेतसः सृष्टिः प्रजापते रेतो देवा इत्यादिना प्रजापतिकर्तृका सृष्टि­रु­क्ते­त्यर्थः ।
उत्त­र­वा­क्य­मा­लो­च­यति –
अपि च ताभ्य इति ।
अत्रापि दृष्ट इति ।
आत्मैवेदमग्र आसीत्पुरुषविध इति वाक्ये दृष्ट इत्यर्थः । आत्मैवेति पदं यस्य तस्य भावस्तत्त्वम् ।
महाभूताविषयत्वे सति लोक­सृ­ष्टि­वि­ष­य­त्वा­दिति हेतो­र्वि­शे­ष­णा­सि­द्धि­माह –
न च महाभूतसृष्टीति ।
इहापि महाभूतानि सृष्ट्वेति कल्पनीयमिति । अनेन सिद्धान्ते महा­भू­त­स­र्गो­प­सं­हा­रा­त्पा­द­स­ङ्गतिः । सूत्रितसर्गस्य महाभूतादित्वं यच्छ्रुत्यन्तरे श्रुतं तस्मिन् शैथिल्यं नादरणीयं , किं तु तस्येहोपसंहारः कार्य इत्यर्थः । औप­यि­क­त्व­मु­प­यो­गि­त्वम् ।
महा­भू­ता­नु­प­सं­हा­रेऽपि परमात्मा प्रत्येतुं शक्य इत्याह –
न च लोकसर्गोऽपीति ।
अत्रैवोक्तमिति ।
अस्मिन्नेव शास्त्रे संज्ञा­मू­र्ति­क्लृप्त्या (ब्र.अ.२.पा.४.सू.२०) द्यधि­क­र­णे­ष्वि­त्यर्थः ।
उपरिष्टाच्चेति ।
एष ब्रह्मैष इन्द्र इत्यादिवाक्ये इत्यर्थः । इदं जगदग्रे सृष्टेः प्रागात्मा एक एवासीत् । एवकारास्तु सत्य­प्या­त्म­ता­दात्म्ये इदानीमिव विशेषावस्थाया निषेधार्थः । मिष­न्नि­मे­ष­व्या­पा­र­व­च्चे­तनं तच्चा­मि­ष­तोऽ­प्यु­प­ल­क्ष­णम् । ईक्षत ऐक्षत । आडभावः छान्दसः । कथमीक्षितवान् । लोकान् नु सृजै स्रक्ष्यामीति । लोका एवोच्यन्ते अम्भ इत्यादिना ।
अम्भःप्रभृतीन् स्वयमेव श्रुति­र्व्या­चष्टे – ‘‘अदोऽम्भः परेण दिवं द्यौः प्रति­ष्ठाऽ­न्त­रिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आप’’ इति । अदस्तदम्भः यत्परेण दिवं दिवः परस्ताद्वर्तते तस्य च पर­स्ता­द्व­र्त­मा­नस्य द्यौः प्रतिष्ठा आश्रयः साऽप्य­म्भः­श­ब्द­वाच्या दिव­मा­र­भ्यो­प­रि­त­न­लो­का­श्चा­न्द­म­सै­र­म्भो­भि­र­भि­व्या­प्त­त्वा­दम्भ उच्यन्ते इत्यर्थः । अन्तरिक्षलोकः सवि­तृ­म­री­चि­व्या­प्त­त्वा­न्म­री­चय इत्यर्थः । स्थान­भे­दा­पे­क्षया बहुवचनम् । म्रिय­न्तेऽ­स्मिन् भूतानीति पृथिवीलोको मरः , याः पृथिव्याः अधस्तात्ता आपः पातालानि । तेषा­म­ब्बा­हु­ल्या­द्वि­धे­या­पे­क्षया स्त्रीलि­ङ्ग­त्वम् । आत्मा हिरण्यगर्भः पुरुषविधः पुरुषप्रकारः शिरः­पा­ण्या­दि­मा­न्प्र­जा­पतेः रेतःकार्यं देवाः । प्रजापतिः कार्य­का­र­णा­धि­ष्ठा­त्री­र­ग्न्याद्या देवता वागादिभिः सह सृष्टवान् । ताश्च तं प्रति भोगसिद्ध्यर्थं शरीरमयाचन्त । स च ताभ्यो गां गोशरीरमानीतवान् । तथाऽश्वशरीरं पुरुषशरीरं च । ततस्ता देवताः सोऽब्रवीद् यथायतनं यथा­च­क्षु­रा­दि­स्था­नम् अस्मिन् शरीरे प्रविशतेति । स ईश्वर एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया द्वारा ब्रह्म­र­न्ध्र­सं­ज्ञया शरीरं प्रापद्यत प्राप्तवान् । स शरीरे प्रविष्ट ईश्वर एतमेव शरीरान्तर्गतं स्वात्मानं ब्रह्म ततमं तकार एको लुप्तो द्रष्टव्यः । तततमं व्याप्ततमं यद् ब्रह्म तद्रू­पे­णै­त­मा­त्मा­नम् अपश्यदित्यर्थः । यः शरीरे प्रविष्टः परमेश्वर एष एव ब्रह्म परमात्मा प्रजा­प­ति­र्हि­र­ण्य­ग­र्भोऽ­प्येष एव प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत्प्र­ज्ञा­ने­त्रम् । प्रज्ञाने तस्मि­न्ने­वा­धि­ष्ठाने प्रतिष्ठितम् ।लोकोऽपि भूरा­दि­प्र­ज्ञा­नेत्रः प्रज्ञा­नि­य­न्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रति­ष्ठाऽ­धि­ष्ठा­नम् । तच्च प्रज्ञानं ब्रह्म ॥१६॥१७॥
पूर्ववर्णके विद्यै­क्य­गु­णो­प­सं­हा­रा­नि­रू­प­णा­त्पा­द­स­ङ्ग­ति­सि­द्ध्यर्थं वर्ण­का­न्त­र­मा­र­भते –
अपरः कल्प इति ।
कल्पः प्रकारः ।
पूर्वत्र वाक्यै­क्य­ब­ला­द­र्था­दि­प­र­त्व­म­वि­व­क्षित्वा विध्यै­क्य­मु­क्तम् , अत्र तु भिन्ना­र्थो­प­क्र­मेण वाक्य­भे­दा­द्वि­द्या­भेद इति पूर्वपक्षयति –
तत्र सच्छब्दस्येति ।
उप­क्र­म­भे­दा­द्भि­न्ना­र्थ­त्व­मिति ।
आत्मो­प­क्र­म­वा­ज­स­ने­यि­वा­क्याद् भिन्ना­र्थ­त्व­मि­त्यर्थः ।
ननु स आत्मे­त्यु­प­सं­हा­रा­दु­प­क्र­म­स्या­प्या­त्म­प­र­त्व­मस्तु , नेत्याह –
स आत्मेति ।
असं­जा­त­वि­रो­धो­प­क्र­मा­त्सं­जा­त­वि­रोध उपसंहारः सत्तासामान्ये पर­मा­त्म­दृ­ष्ठ्य­ध्या­स­प­र­त्वेन नेतव्य इत्यर्थः ।
नन्व­द्व­य­ब्र­ह्मा­त्म­त्व­प­र­त्वा­भावे वाक्यस्य कथ­मे­क­वि­ज्ञा­ना­त्स­र्व­वि­ज्ञा­न­प्र­तिज्ञा सदु­प­क्र­मा­द­प्यादौ निर्दिष्टा घटते ? अत आह –
तद्विज्ञानेन चेति ।
ननु छान्दोग्ये उपक्रम एवात्मपरः ; आत्मान एव सत्त्वेन सच्छ­ब्द­स्या­का­श­श­ब्द­व­द्व्य­क्ति­वा­चि­त्वे­ना­स­न्दि­ग्धा­र्थ­त्वात् , तत्र किमि­त्यु­प­सं­हा­र­ग­ता­त्म­ता­दा­त्म्य­प­रा­मर्शो भाष्य­का­रै­रा­श्रितः ? अत आह –
अस्तु तावदिति ।
आत्मैव सन्नित्येतदस्तु तावदिति योजना । अभ्युपेत्यापि सच्छब्दस्य सामान्यवचनत्वं तादा­त्म्यो­प­दे­शा­दिति हेतुमाहेत्यर्थः ।
सच्छब्दस्य सामा­न्य­व­च­न­त्वेऽ­भ्यु­पेते वाक्यशेषस्य निर्णायकत्वमाह –
सच्छब्दस्येति ।
सदे­वे­त्ये­त­द्वा­क्य­मा­त्म­न्येव व्यवस्थाप्यत इत्यर्थः ।
ननु क्वचि­दु­प­क्र­मा­दु­प­सं­हा­रोऽपि निर्णीयते , यथा वेदो­प­क्र­मा­दृ­गा­दि­श­ब्दानां वेदपरत्वं , तद्वदिह किं न स्यादत अह –
नीतार्थेति ।
निर्णी­ता­र्थे­त्यर्थः ।
अदृ­ष्ट­फ­ल­क­ल्प­ना­प्र­स­ङ्गाच्च न सत्ता­या­मा­त्म­सं­प­त्ति­रि­त्याह –
अपि चेति ।
किंचास्तु नामो­प­क्र­मा­दु­प­सं­हा­र­नि­र्णयः , सदुपक्रमादपि प्राक्त­ना­दे­क­वि­ज्ञा­न­हे­तु­क­स­र्व­वि­ज्ञा­ना­त्प­र­मा­त्म­प­रत्वं वाक्यस्येत्याह –
न चेति ।
वर्ण­क­द्व­य­प्र­यो­जनं विभजते –
अत्र च पूर्वस्मिन्निति ।
पूर्व­व­र्ण­क­ग­त­पू­र्व­पक्षे ऎतरेयकवाक्यं हिर­ण्य­ग­र्भो­पा­स्ति­प­रम् । तत्सिद्धान्ते तु तद्वाक्यं ब्रह्मभावनापरं ब्रह्म­त्व­प्र­ति­पा­द­न­द्वा­रे­णा­र्थात् तद्भावनायां पुरु­ष­प्र­वृ­त्ति­हे­तु­रि­त्यर्थः । अस्मिंस्तु वर्णके पूर्वपक्षे छान्दोग्यवाक्यं सत्तासामान्ये ब्रह्म­त्व­सं­प­त्त्यर्थं , वाजसनेयिवाक्यं त्वात्मनो ब्रह्म­त्व­गो­च­र­मिति विद्याभेदः । सिद्धान्ते द्वे अपि वाक्ये प्रत्य­ग्ब्र­ह्मै­क्य­गो­चरे इति भेदोऽ­न­न्त­रो­क्त­त्वात् ज्ञायत एवेति नोक्तः । श्रुतिद्वयेऽपि विद्यैक्ये सदा­त्म­भ्या­मु­प­क्रमः । कृतः किमिति तत्रोचुराचार्या न्यायसंग्रहे ?॥ तद्यथा - तत्त्वंपदयोः श्रौत­सा­मा­ना­धि­क­र­ण्यस्य वाच्यार्थे भेदादनुपपत्तौ तत्परिहाराय लक्षणाऽऽश्रीयते । तत्र लक्ष्यमाणावपि तत्त्वमर्थौ यदि भेदेनैव लक्ष्येते , तर्हि तत्रापि लक्षणान्तरं स्यादित्यनवस्था स्यात् , सा मा भूदिति लक्ष्य­मा­णा­र्थै­क्य­मेव युक्तम् । ततस्त्वंपदार्थो ब्रह्म­प­र्य­न्त­स्त­त्प­दा­र्थोऽपि प्रत्य­गा­त्म­प­र्यन्तो लक्षणीयः । तथा च वाजसनेयिवाक्यं त्वमर्थं तदर्थपर्यन्तं लक्षयति , छान्दोग्यवाक्यं तु तदर्थं त्वमर्थपर्यन्तं लक्ष­य­ती­त्य­र्थै­क्या­द्वि­द्यै­क्य­मिति ॥१६॥१७॥
इत्य­ष्ट­म­मा­त्म­गृ­ही­त्य­धि­क­र­णम् ॥

कार्या­ख्या­ना­द­पू­र्वम् ॥१८॥ सन्दि­ग्ध­स­दु­प­क्र­मस्य वाक्य­शे­षा­न्नि­र्ण­य­व­द­शि­ष्यन्त आचा­म­न्ती­त्या­दे­र्व­र्त­मा­ना­प­दे­श­त्वेन विधित्वसन्देहे सत्य­शि­ष्य­न्ना­चा­मे­दि­त्या­दि­वा­क्य­शे­षा­दा­च­म­न­वि­धि­प­रत्वं निर्णयमिति पूर्व­प­क्ष­णा­त्स­ङ्गतिः ।
अनशब्दस्य प्राणवृत्तौ योगमाह –
अननमिति ।
अननं चेष्टां करोतीत्यन इत्यर्थः ।
‘अनग्नं कुर्वन्तो मन्यन्ते’ इति श्रुतौ मन्य­ते­र्ज्ञा­ना­र्थ­त्वाद् भाष्ये चिन्तनत्वेन व्याख्याय निर्देशो न युक्तः ; चिन्तनशब्दस्य ध्यान­वा­चि­त्वा­दि­त्या­श­ङ्क्याह –
तद्ध्या­न­प­र्य­न्त­मिति ।
अनग्नतावदस्य स्तुत्य­र्थ­त्वे­नो­प­पत्तौ सत्यां वाक्य­भे­द­क­ल्प­ना­नु­प­प­त्ते­रु­भ­य­वि­धि­त्व­म­श­क्य­श­ङ्क­मि­त्य­भि­प्रे­त्याह –
खुररवमात्रेणेति ।
यथा ह्यनिर्णीयैव खुर­श­ब्द­मा­त्रे­णाश्वो धावतीत्युच्यते एवमिदमपीत्यर्थः ।
सिद्धा­न्त­बी­ज­मा­शङ्क्य पैहरति –
यद्यपीति ।
अनृ­त­व­द­न­प्र­ति­षेधे इति स्मार्ते इति च द्वे सप्त­म्या­व­ना­द­रार्थे । सत्यपि स्मार्तेऽ­नृ­त­व­द­न­प्र­ति­षेधे तमनादृत्य यथा नानृतं वदेदिति प्रतिषेधो ज्योति­ष्टो­मा­ङ्ग­त्वे­ना­र्थ­वां­स्त­थाऽऽ­च­म­न­वि­धि­रपि प्राणो­पा­स्त्य­ङ्ग­त्वे­ना­र्थ­वा­नि­त्यर्थः ।
स्मार्तोऽ­नृ­त­व­द­न­प्र­ति­षेधः पुरु­षा­र्थ­त्वा­ज्ज्यो­ति­ष्टोमे न प्राप्नोतीति ज्योतिष्टोमे पृथ­क्प्र­ति­षे­धोऽ­र्थ­वान् , आचमनविधिस्तु स्मार्तो ‘द्विजो नित्य­मु­प­स्पृ­शे’दि­त्यादिः कलकर्मगोचरः प्राणोपासनेऽपि प्राप्नोतीति तद­ङ्गा­च­म­न­वि­ष­यत्वे श्रुते­र­नु­वा­द­कत्वं स्यादित्याह –
क्रत्व­र्थ­पु­रु­षा­र्थ­यो­रि­त्या­दिना ।
ननु नित्य­श्रु­त्य­र्था­नु­वा­दि­त्व­म­नि­त्यायाः स्मृतेः किं न स्यादत आह –
न च स्मार्तस्येति ।
स्मृत्य­नु­मि­त­श्रु­ते­र्व्या­प­क­वि­ष­य­त्वा­त्त­त्सि­द्धा­र्था­नु­वा­दिनी श्रुतिः स्मृत्य­पे­क्ष­याऽ­प्य­नु­वा­दिनी स्यादित्यर्थः । अत एवाचमनस्यान्यतः प्राप्त­त्वा­दा­च­म­न­वा­सो­दृ­ष्ट्यो­रु­भ­यो­रपि न विधानमित्यर्थः ।
प्रथमपक्षं निराकृत्य पुनरपि मध्यमे पक्षेऽधिकं दूषणं वक्तुं न चाय­मि­त्या­दि­भाष्यं व्याचष्टे –
स्तोतव्याभाव इत्यादिना ।
आच­म­न­प­र्या­लो­च­न­याऽ­न­ग्नता वादो न स्तुत्यर्थ इत्युक्तम् , अन­ग्न­ता­स­ङ्क­ल्प­प­र्या­लो­च­न­या­प्ये­व­मे­वे­त्याह –
अपि च मानान्तरेति ।
स्तावकः स्तुति­हे­तु­रि­त्यर्थः ।
आचमनस्यान्यतः प्राप्तिमुक्तां निगमयति –
न चाचमनमिति ।
प्राण­वि­द्या­ङ्ग­त्वेन यदा आचमनं विधीयते , न त्वनूद्यते , तदा नैमित्तिके नित्याधिकारस्य प्रस­ङ्ग­सि­द्धे­रा­वृ­त्त्य­ना­क्षे­पा­च्छु­द्ध्य­र्थत्वं प्राण­वि­द्यो­प­का­रा­र्थत्वं चेत्यु­भ­या­र्थ­त्व­मा­च­म­नस्य स्यात् ।
सिद्धान्ते त्वाचमनानुवादेन वासो­दृ­ष्टे­र्वि­धा­ना­न्नायं प्रसङ्गः ; दृष्टेः शुद्ध्य­र्था­च­म­न­सं­ब­न्ध­स्या­नु­वा­द­सा­म­र्थ्य­सि­द्धे­र­क­ल्प्य­त्वा­दि­त्ये­व­म­र्थ­प­र­त्वेन भाष्यं व्याचष्टे –
अपि चैकस्य कर्मण इति ।
परिधानार्थता चेति भाष्ये परिधानशब्दः परिदधतीति श्रुतिगतपरिधानं वदन्नुपकारपरः ।
अशब्दत्वान्न सर्वा­न्ना­भ्य­व­हा­र­श्चो­द्यत इति भाष्यो­क्त­म­यु­क्तम् , सर्वा­न्न­दृ­ष्टे­रपि सिद्धा­न्त­सं­म­ताया अश्रु­त­त्वा­दि­त्या­श­ङ्क्याह –
अशब्दत्वं चेति ।
शब्दं दृश्यं शब्दप्रकाशितं ज्ञेयं प्राणस्य सर्वान्नत्वं तन्ना­न्त­री­य­क­त्वेन दृष्टि­र्ज्ञ­प्ति­श­ब्देन क्रिय­मा­णो­प­ल­भ्यते , अभ्यवहारस्तु न क्रियतेऽपीति न बुद्धिस्थ इति वैषम्यमित्यर्थः ।
कथं­चि­द्यो­ग्य­ता­मा­त्रे­णेति ।
प्राणस्य समस्तमन्नं श्रुतं प्राणविच्च तदात्मनि , तेनापि सर्व­म­न्न­म­भ्य­व­ह­र्त­व्य­मिति योग्य­ता­मा­त्रे­णे­त्यर्थः ।
प्रायेणेति ।
माध्यन्दिनानां विधि­द­र्श­ना­त्प्रा­य­शब्दः ॥१८॥
इति नवमं कार्या­ख्या­ना­धि­क­र­णम् ॥

समान एवं चोभेदात् ॥१९॥
पूर्वत्र प्राप्ता­च­म­ना­नु­वा­दे­ना­न­ग्न­ता­चि­न्तनं विधे­य­मि­त्यु­क्तम् , इह तु वाक्ययोः कस्य विधित्वं कस्य वानु­वा­द­त्व­मि­त्य­नि­श्च­याद् द्वयोरपि विद्या­वि­धि­त्व­मिति पूर्वपक्षमाह –
इहेति ।
अभ्या­सा­धि­क­र­ण­न्या­य­मेव प्रकृते योजयति –
द्वयोरिति ।
निर्गुणे हि कर्मणि विहिते तदनु गुणो विधीयते , यथाऽग्निहोत्रं जुहोतीति विहि­त­नि­र्गु­ण­क­र्मा­नु­वा­देन दध्ना जुहोतीति दधिगुणः ।
शाण्डि­ल्य­वि­द्या­वि­ध्यो­स्तू­भ­यो­रपि सगु­ण­त्वा­न्ना­न्य­त­र­स्या­नु­वा­द­ते­त्याह –
न च गुणान्तरेति ।
सगुणत्वेऽपि द्वयो­र्वा­क्य­यो­र­न्य­त­र­स्या­नु­वा­दत्वं भवति , यथा’’ऽऽ­ग्ने­योऽ­ष्टा­क­पा­लोऽ­मा­वा­स्यायां पौर्णमास्यां चाच्युतो भवती’’ति काल­द्व­या­न्वि­ता­ग्ने­य­वि­ध्य­न्त­र्भा­वात् ‘‘यदा­ग्ने­यो­ष्टा­क­पा­लोऽ­मा­वा­स्यायां भवति’’ इत्ये­क­का­ला­ग्ने­य­वा­क्य­स्या­नु­वा­दता , न तथेह वाक्य­द्व­या­र्थ­यो­रि­त­रे­त­र­त्रा­न्त­र्भाव इति गमयितुं गुणा­न्त­रे­त्य­न्त­र­शब्दः । अग्निरहस्ये हि ‘‘स आत्मानमुपासीत मनोमयं प्राणशरीरं भारू­प­मा­का­शा­त्मा­नम् कामरूपिणं मनोजवसं सत्यसकल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वा दिशोऽनुसंभूतं सर्व­मि­द­म­भ्या­त्त­म­वा­क्य­ना­दरं” “यथा व्रीहिर्वा यवो वा’’ इत्यादयो बहुतरा गुणा आम्नाताः , आरण्यके तु ‘मनोमयोऽयं पुरुषो भाः सत्य­स्त­स्मि­न्न­न्त­र्हृ­दये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी’ इत्यादयः स्तोकाः । तत्र विशित्वादयो नाग्निरहस्ये , काम­रू­पि­त्वा­द­यश्च नारण्यकेऽत इत­रे­त­रा­न­न्त­र्भा­वा­न्ना­नु­वा­द­ते­त्यर्थः ।
अपि चैकमार्गेण विधित्वेऽधिका एव गुणाः श्रूयेरन् , न तु समाना मनोमयत्वादयः , अतोऽप्युभयत्र विद्या­वि­धि­रि­त्याह –
समा­न­गु­णा­न­भि­धा­नेति ।
पूर्वपक्षं निरस्यति –
नेति ।
सिद्धान्तं प्रतिजानीते –
ऎककर्म्यमिति ।
ऎक­वि­द्य­मि­त्यर्थः ।
एकविद्यात्वे हेतुमाह –
एकत्वेनेति ।
उभयत्र मनो­म­य­त्वा­दि­गु­ण­वि­शि­ष्ट­पु­रु­ष­प्र­त्य­भि­ज्ञा­ना­दि­त्यर्थः ।
ननु समा­ना­स­मा­न­गु­ण­व­त्त­यो­भ­यो­रपि वाक्य­यो­र­तु­ल्य­त्वात् क्व विद्याविधिः ? क्व वा गुणविधिरिति ? न ज्ञायते , अत आह –
न चागृह्यमाणेति ।
हस्तिनां समूहो हास्तिकम् । अश्वानां समूहोऽश्वीयम् । शक्ति­य­ष्टि­ध­नुः­कृ­पा­ण­प्रासाः प्रहरणानि येषां ते तथोक्ताः । ऋग्वेदे यजुर्वेदे च श्रूय­मा­ण­ज्यो­ति­ष्टॊ­मस्य तावदेकत्र विधिरन्यत्र गुण­वि­ध्य­र्थ­म­नु­वाद इति स्थिते क्व विधा­न­मि­त्य­नि­र्ण­य­प्राप्तौ यजुर्वेदे दीक्ष­णी­या­द्य­ङ्ग­भू­य­स्त्वेन तत्रैव विधीयत इति सिद्धान्तितं भेदलक्षणे । एवमत्रापि धर्म­भू­य­स्त्वा­द­ग्नि­र­हस्ये विद्या­वि­धि­नि­र्णय इत्यर्थः । यत्तु केशवेनोक्तं - सिद्धे कर्मण उत्पत्त्यैक्ये प्रयोगविधिः क्वेति वीक्षा­या­म­ङ्ग­भू­य­स्त्वेन प्रयो­ग­वि­धि­स्तत्र निर्णीतः , अत्र पुन­र्वि­द्यो­त्प­त्त्यै­क्य­मेव न सिद्धमिति मुधा भूय­स्त्व­न्या­यो­प­न्यासः - इति । तन्न ; यतोऽत्रापि प्रत्यभिज्ञया विद्यैक्ये सिद्धे क्वोत्पत्तिरिति निर्णीयते । न च - अङ्गभूयस्त्वं प्रयो­ग­वि­धि­नि­र्णा­यकं नोत्प­त्ति­वि­धि­नि­र्णा­य­क­मिति – वाच्यम् ; उत्पत्तेः प्रयो­गाऽ­वि­ना­भू­त­त्वेन प्रयो­ग­ग­म­का­द­ङ्ग­भू­य­स्त्वा­दु­त्प­त्ते­र­प्य­नु­मातुं युक्तत्वादिति ।
अनु­वा­द­मा­त्र­स्या­पीति ।
आग्ने­यै­क­का­ल­त्वा­दि­वि­ष­य­स्ये­त्यर्थः । भाः प्रकाशात्मकाः सत्यः परमार्थः तस्मि­न्म­नो­म­य­प­द­प्र­कृ­ति­भू­त­म­नः­श­ब्देन प्रस्तुते हृदयेऽन्तर्यथा व्रीह्यादिस्तथा तावत्प्रमाणः पुरुष आस्ते । स एव सर्वस्य वशीत्यादिलक्षणः ॥१९॥
इति दशमं समानाधिकरणम् ॥

संब­न्धा­दे­व­म­न्य­त्रापि ॥२०॥ ‘आप एवेदमग्र आसुः ता आपः सत्यमसृजन्त’ ।
सत्यमिति ।
हिरण्यगर्भ उच्यते । तच्च सत्यं ब्रह्म महद् इत्युपक्रम्य तत्रैवं सति यत्तत्सत्यं हिरण्यगर्भाख्यं सोऽसा­वा­दि­त्या­पे­क्षया पुल्लि­ङ्ग­प्र­योगः । क आदित्यः ? किं मण्डलमेव ? न । किं तर्हि ? ‘य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुष’ इति तस्यैव सत्यस्य ब्रह्म­णोऽ­धि­दै­व­त­म­ध्यात्मं चादि­त्य­चा­क्षु­ष­पु­रु­ष­रू­पे­णा­व­स्था­न­मुक्त्वा ‘तावे­ता­व­न्यो­न्य­स्मि­न्प्र­ति­ष्ठितौ रश्मि­भि­रे­षोऽ­स्मि­न्प्र­ति­ष्ठितः प्राणै­र­य­म­मु­ष्मि­न्निति’ इत­रे­त­र­व्य­ति­ष­क्त­त्व­मु­क्त्वाऽऽ­दि­त्य­पु­रु­षस्य य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः , भुव इति बाहू , सुवरिति प्रतिष्ठा , पादावित्यर्धः , इति व्याहृ­ति­श­री­र­त्व­मुक्त्वा तस्यो­प­नि­ष­द­ह­रि­त्या­दि­त्य­पु­रु­ष­स्या­ह­र्ना­म­त्व­मु­क्तम् । अनन्तरं योऽयं दक्षिणेऽक्षन् पुरुषस्तस्यापि भूरिति शिर इत्यादिना व्याहृ­ति­श­री­र­त्व­मुक्त्वा तस्यो­प­नि­ष­द­ह­मि­त्य­हं­ना­म­त्व­मु­क्तम् ।
उपनिषदिति ।
देव­ता­मु­प­नि­ग­म­य­तीति देवताप्रकाशकं रहस्यं नाम भण्यते । अहःशब्दः प्रकाशवचनः । अहंशब्दः प्रत्य­गा­त्म­त्व­वाची । एते उपनिषदौ सत्यस्य ब्रह्मणः स्थानभेदेन व्यव­स्थ­याऽ­नु­चि­न्त­नीये , उत द्वे अप्युभयत्रेति स्थान­भे­दा­त्स­त्य­ब्र­ह्मै­क्याच्च संशये संगतिगर्भं पूर्व­प­क्ष­मा­ह-य­द्ये­क­स्या­म­पीति ।
ननु तस्योपनिषदहमिति चादि­त्य­म­ण्ड­ला­क्षि­स्था­न­वि­शि­ष्टस्य सत्यब्रह्मणः परा­म­र्शा­त्क­थ­मु­प­नि­षदोः संकर इति सिद्धा­न्ता­श­य­मा­श­ङ्क्याह –
तस्येति चेति ।
तस्येति शब्दस्य प्रकृ­त­प­रा­म­र्शि­त्वा­त्स्था­ना­व­च्छि­न्नस्य च प्रकृ­त­त्वा­दु­प­नि­ष­दो­र्मि­थोऽ­सं­कर इति हि सिद्धान्ताशय इत्यर्थः ।
एव­म­नू­दि­त­सि­द्धा­न्ता­शयं दूषयति –
सत्यस्य चेति ।
सत्यं प्रकृतावलम्बि सर्वनाम , प्रकृतमिति च प्राधान्येन पूर्व­म­व­ग­त­मु­च्यते , अतः सत्यं ब्रह्मैव प्रधानं परामृश्यते , न गुणभूतः स्थानविशेषः । नापि तद्वैशिष्ठ्यम् ; तस्यापि स्वरू­प­ध­र्म­त्वे­नो­प­स­र्ज­न­त्वात् , तथा च सत्य­स्यै­क्या­दु­प­नि­षदोः संकरः इत्यर्थः ।
पूर्ववदिति ।
शाण्डि­ल्य­वि­द्या­व­दि­त्यर्थः ॥२०॥
सत्यं न गुणभूतं स्थानमात्रं तच्छब्देन परामृश्यते , नापि तद्वैशिष्ठ्यं धर्मः , किं तु स्थानविशिष्टं ब्रह्मैव ; य एष एतस्मिन्मण्डले पुरुष इति तथैव प्रकृतत्वात् , तथा च विशिष्टस्य विशि­ष्टा­न्त­रेऽ­न­नु­ग­मा­न्नो­भ­य­त्रो­भ­य­त्रो­भ­य­ना­म­चि­न्त­न­मिति सिद्धान्तयति –
सत्यं यत्रेत्यादिना ।
तत्त्वे हीति ।
विशि­ष्ट­यो­रे­क­त्वेऽ­न्त­रा­दि­त्येऽ­न्त­र­क्षि­णी­त्यु­प­दि­ष्ट­हि­र­ण्म­य­पु­रु­ष­यो­रे­क­त्वाद् रूपाद्यतिदेशो न स्यादतिदेशस्य भिन्ना­धि­ष्ठा­न­त्वा­दि­त्यर्थः । ।२१॥२२॥
इत्येकादशं संबन्धाधिकरणम् ॥

संभृ­ति­द्यु­व्या­प्त्यपि चातः ॥२३॥ यद्यपि वैश्वा­न­र­षो­ड­श­क­ला­दि­वि­द्या­ना­मि­त­रे­त­र­मा­धि­दै­वि­क­वि­भू­ति­प्र­त्य­भि­ज्ञानं ब्रह्म­सं­ब­न्ध­प्र­त्य­भि­ज्ञानं चाविशिष्टम् ; तथापि तासु नेत­रे­त­र­गु­णो­प­सं­हारः शङ्क्यते , तासां प्रत्य­क्ष­वि­धि­वि­हि­त­त्वेन भेद­नि­श्च­या­त्सं­भृ­त्या­दीनां त्वश्रु­त­वि­धि­क­त्वा­त्प­रि­शि­ष्टो­प­दे­शा­त्म­क­खि­ल­ग्र­न्थ­शि­ष्ट­त्वा­च्चो­प­नि­ष­दु­दि­त­वि­द्या­शे­ष­त्व­मा­श­ङ्क्यते । ज्येष्ठा ज्येष्ठानि । छन्दसि बहुवचनस्य डादेशः । ब्रह्म­ज्ये­ष्ठानि वीर्याणि पराक्रमविशेषाः । अन्यैर्हि पुरुषैः सहायानपेक्ष्य विक्रमाः संभ्रियन्ते । तेन तत्पराक्रमाणां न त एव निय­त­पू­र्व­भा­वि­त्व­रू­प­का­र­ण­त्वेन ज्येष्ठाः , किं तु तत्सहकारिणोऽपि । ब्रह्मवीर्याणां तु ब्रह्मैव ज्येष्ठ­म­न­न्या­पेक्षं ब्रह्म जगज्जन्मादि करोतीत्यर्थः । किंचान्येषां पराक्रममाणानां बलवद्भिर्मध्ये भङ्गोऽपि भवति , तेन ते स्ववीर्यानि न संबिभ्रति , ब्रह्मवीर्याणि तु ब्रह्मणा संभृतानि अविघ्नेन संभृतानीत्यर्थः । तच्च ज्येष्ठं ब्रह्म अग्ने इन्द्रादिजन्मनः प्रागेव दिवं स्वर्गमाततान व्याप्तवद् नित्यमेव विश्व­व्या­प­क­मि­त्यर्थः ।
देश­तोऽ­प­रि­च्छे­द­मुक्त्वा कालतोऽप्याह –
ब्रह्म भूतानामिति ।
जज्ञ इत्य­स्यो­त्प­त्ति­व­च­नत्वं व्यावर्तयति –
आसेति ।
पूर्वाधिकरणे स्थान­वि­शे­षा­द­नु­प­सं­हार उक्तः । तस्यातिदेशोऽयम् ।
अस्या­धि­का­श­ङ्का­माह –
यद्यपीत्यादिना ।
आय­त­न­भे­द­प­रि­ग्र­हे­णेति ।
हृदयाद्यायतनं मा भूदा­य­त­न­वि­शे­षा­व­रो­धा­च्छा­ण्डि­ल्या­दि­वि­द्यासु संभृ­त्या­दी­ना­मु­प­सं­हा­र­स्त्रै­लो­क्या­त्म­क­वि­ष­यासु विद्यासु आयतनाभावात् तासूपसंहारो भवि­ष्य­ती­त्य­भ्य­धि­का­श­ङ्का­न्त­र­माह –
षोडशकलाद्यासु चेति ।
एकस्यां विद्यायां ये गुणा असाधारणास्ते यद्यन्यत्रापि श्रूयन्ते , तत्र विद्यैक्यं गुणोपसंहारश्च , यथाऽग्निरहस्ये बृहदारण्यके च मनो­म­य­त्वा­द्य­सा­धा­र­ण­गु­ण­प्र­त्य­भि­ज्ञा­ना­द्वि­द्यैक्यं न तु साधा­र­ण­गु­ण­मा­त्र­श्र­वणं विद्यै­क्य­ग­म­क­म­ति­प्र­स­ङ्गात् ।
तत्र किं संभृ­त्या­दि­वि­द्यायाः शाण्डि­ल्या­दि­वि­द्यानां चासा­धा­र­ण­गु­ण­सा­म्या­दे­क­त्व­मुत साधा­र­ण­गु­ण­सा­म्या­दथ वोभयत्र ब्रह्म­मा­त्र­प्र­त्य­भि­ज्ञा­नात् , नाद्य इत्याह –
मिथः समानेति ।
समा­न­गु­णे­त्य­सा­धा­र­ण­गु­ण­साम्यं विवक्षितम् । शाण्डि­ल्या­दि­वि­द्या­ग­त­गु­ण­श्र­वणं नास्ती­त्य­प्य­सा­धा­र­ण­गु­णा­भि­प्रा­यम् ।
द्वितीयं प्रत्याह –
या तु काचिदिति ।
द्युव्या­प्त्या­दि­गु­णास्तु यद्यपि संभृ­त्या­दि­वि­द्यायां शाण्डि­ल्या­दि­वि­द्यायां च समाः ; तथापि तेषां वैश्वा­न­र­षो­ड­श­क­ला­दि­वि­द्या­स्वपि साधारण्येन तासा­म­पी­त­रे­त­र­मै­क्या­पा­द­क­त्वे­ना­ति­प्र­स­ङ्गि­त्वान्न विद्यै­क्य­बो­ध­न­द्वा­रेण संभृ­त्या­दि­गु­ण­क­र्ष­कत्वं , किं तु शाण्डि­ल्या­दि­वि­द्या­प्र­क­र­ण­प­ठि­त­त्वा­त्ता­व­न्मा­त्र­मेव शाण्डि­ल्या­दि­वि­द्यासु स्वीक­र्त­व्य­मि­त्यर्थः ।
तत्रै­त­त्प्र­त्य­भि­ज्ञा­ना­भा­वा­दिति ।
संभृ­त्या­दि­प्र­त्य­भि­ज्ञा­ना­भा­वा­दि­त्यर्थः । इत्युक्तम् । संभृ­ति­द्यु­व्या­प्तीति सूत्रेणेति शेषः ।
तृतीयं प्रत्याह –
ब्रह्मा­श्र­य­त्वेन त्विति ।
तदिदमुक्तमिति ।
आधिदैविकविभूतेः साधा­र­ण्या­त्सं­भृ­त्या­द्य­ना­क­र्ष­क­त्वम् ब्रह्म­प्र­त्य­भि­ज्ञा­या­श्चा­ति­प्र­स­क्तत्वं चेत्यर्थः । तत्रापि आधि­दै­वि­क­वि­भू­ते­र्ब­हु­वि­द्या­सा­धा­र­ण­त्वे­नाऽ­सा­धा­र­ण­सं­भृ­त्यादेः सका­शा­द्व्या­वृ­त्त­त्वा­त्त­द­ना­क­र्ष­कत्वं संभ्रु­त्या­द­य­स्त्विति भाष्येणोक्तम् । न च ब्रह्म­सं­ब­न्ध­मा­त्रे­णे­त्या­दिना च ब्रह्म­प्र­त्य­भि­ज्ञाया अप्र­यो­ज­क­त्व­मु­क्त­मिति विवेकः ।
संभृ­ति­द्यु­व्या­प्ती­त्ये­त­त्सू­त्र­पदं प्रगृ­ह्य­त्व­भा­वाय द्वन्द्वै­क­व­द्भा­वेन व्याचष्टे –
तस्मादिति ।
अत इति सूत्रपदेन पूर्वा­धि­क­र­णो­क्त­स्था­न­भेदो न परामृश्यते ; तस्य षोड­श­क­ला­दि­वि­द्या­स्व­भा­वे­ना­व्या­प­क­त्वात् , किं तु यथा तत्रा­दि­त्य­वि­शि­ष्ट­ब्र­ह्म­णोऽ­क्षि­वि­शि­ष्ट­ब्र­ह्म­ण­श्चा­प्र­त्य­भि­ज्ञा­न­मु­क्त­मे­व­मि­हा­प्य­सा­धा­र­ण­गु­ण­प्र­त्य­भि­ज्ञाऽ­भा­वोऽ­स्त्य­सा­वत इति निर्दिश्यत इत्याह –
प्रत्य­भि­ज्ञा­ना­भा­वा­दिति ।
प्रत्य­क्ष­वि­ध्य­भा­वेऽपि प्रत्य­भि­ज्ञा­न­व­र्ज­नात् । कल्पयित्वा विधिं विद्या खिलोक्तापीह भेदित ॥१॥२३॥
इति द्वादशं संभृत्यधिकरणम् ॥

पुरु­ष­वि­द्या­या­मिव चेत­रे­षा­म­ना­म्ना­नात् ॥२४॥ छान्दो­ग्य­शा­खा­वि­शेषे तावदेका विद्याऽधिगता, पुरुषो वाव यज्ञस्तस्य यानि चतु­र्विं­श­ति­व­र्षाणि तत्प्रातःसवनम् , चतु­श्च­त्वा­रिं­श­द्व­र्षाणि माध्यन्दिनम् , अष्टा­च­त्वा­रिं­शत् तृतीयं सवनम् । यदशिशिषति पिपासति यद्रमते साऽस्य दीक्षा अथ यद्धसति जक्षति तत् स्तुतशस्त्रे , शब्द­व­त्त्व­सा­मा­न्या­दिति दीक्षादिकल्पना । तं चेदेतस्मिन्वयसि किं चिद् व्याध्या­द्यु­प­त­पेत्स ब्रूयात् प्राणा वा वसव इदं मे प्रातःसवनं माध्यन्दिनं सव­न­म­नु­स­न्त­नु­ते­त्या­दि­राशीः । सोन्त­वे­ला­या­मे­त­त्त्रयं प्रति­प­द्ये­ताऽ­क्षि­त­म­स्य­च्यु­त­मसि प्राणसंशितमसीति मन्त्रप्रयोगः । तैत्तिरीयके तु पठ्यते ‘‘तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशु­स्त­पोऽ­ग्नि­र्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षु­र­ध्वर्युः’’ इति विषयविवेको भाष्य­टी­क­यो­र्व्या­ख्या­नार्थं दर्शितः । अत्र तैत्ति­री­य­ग­त­यो­र्वि­दुषो यज्ञस्येति षष्ठ्योः सामा­ना­धि­क­र­ण्य­वै­य­धि­क­र­ण्याऽ­न­व­धा­र­णा­त्सं­देहः ।
असा­धा­र­ण­गु­ण­प्र­त्य­भि­ज्ञा­ना­भा­वा­त्सं­भृ­त्यादौ विद्याभेद उक्तः , इह त्वसा­धा­र­ण­गु­ण­प्र­त्य­भि­ज्ञा­ना­द्वि­द्यै­क्य­मिति पूर्वपक्षयति –
पुरु­ष­य­ज्ञ­त्व­मिति ।
पुरुषस्य यज्ञत्वं पुरुषयज्ञत्वं पुरुषे यज्ञ­त्व­सं­प­त्ति­स्तस्या अवि­शे­षा­दि­त्यर्थः । तैत्तिरीयके पुरु­ष­य­ज्ञ­त्व­सं­प­त्ति­र­सिद्धा , विदुषो यज्ञस्येति विद्व­त्सं­ब­न्धि­य­ज्ञ­प्र­तीतेः ।
न चैते षष्ठ्यौ समानाधिकरणे ; आत्मा यजमान इति विदुष आत्मनो यज­मा­न­त्व­नि­र्दे­शाद् , एकस्य च यज्ञ­त्व­य­ज­मा­न­त्व­वि­रो­धा­दत आह –
न च विदुष इति ।
यज्ञ­स्या­त्मे­त्य­त्रा­त्म­श­ब्दस्य स्वरूपवचनत्वे सति यत्फलितं तदाह –
यज्ञस्य स्वरूपमिति ।
पुरुषस्यैव यदा यज्ञत्वं संपाद्यते , तदा तत्स्वरूपमेव यजमान इति न विरोध इत्यर्थः ।
अत एव - विद्व­द्य­ज्ञ­यो­श्चे­त­ना­चे­त­न­त्वा­द्वि­दुषो यज्ञस्येति षष्ठ्योः सामा­ना­धि­क­र­ण्या­नु­प­प­त्ति­रिति चोद्यं - निरस्तम् ; पुरुषैक्येन संपादितस्य यज्ञस्य चेतनत्वेन विद्व­त्त्व­सं­भ­वा­दि­त्याह –
तस्य चेति ।
आत्मा यजमान इत्यनेन यज्ञस्वरूपं यजमान इत्युच्यत इत्यभिहितं , तत्किं मुख्यमुत गौणं , न प्रथम इत्याह –
न हि यज्ञस्वरूपमिति ।
न केवलं यज्ञस्वरूपस्य मुख्य­य­ज­मा­न­त्वा­सं­भवः , विदुषो यज्ञस्येति षष्ठ्योश्च न मुख्य­सा­मा­ना­धि­क­र­ण्य­सं­भव इत्याह –
चेत­नाऽ­चे­त­न­यो­श्चेति ।
विद्वान् हि चेत­न­स्त­स्याऽ­चे­त­न­य­ज्ञै­क्या­योग इत्यर्थः ।
वैयधिकरण्यपक्षे तु षष्ठ्यो­रु­प­प­त्ति­माह –
आत्म­न­स्त्वि­त्या­दिना ।
यजमान आत्मे­त्या­त्मो­द्दे­शेन यजमानत्वं विहितम् ।
द्विती­य­प­क्ष­मा­श­ङ्कते –
इतरथेति ।
दूषयति –
न च सत्यामिति ।
पुरुषाङ्गेषु पत्न्या­दि­क­ल्प­ना­त्पु­रुषे यज्ञ­त्व­क­ल्प­न­सं­भव इति केशवो वक्ति । तस्यैतं ग्रन्थं व्याचक्षीत अवयवेषु स्वगत्या संपत्तिराश्रिता , पुरुषे तु षष्ठ्यो­र्वै­य­धि­क­र­ण्येन मुख्यार्थः संभवति ।
अपि च तस्यैवं विदुष इति भाष्यमुपादाय व्याचष्टे –
अनुवादश्रुतौ सत्यामिति ।
विद्व­त्सं­ब­न्धि­य­ज्ञा­नु­वा­देन तस्य विद्व­द­ङ्गै­र­ङ्ग­क­ल्प­ना­दे­क­वा­क्यता न प्रतीयते । तव तु विद्वान् यज्ञस्तस्य चात्मादयो यजमानादय इति विध्यावृत्त्या वाक्यभेद इत्यर्थः । तस्मा­न्न्या­स­मेषां तप­सा­म­ति­रि­क्त­मा­हु­रिति ॐमित्यात्मानं युञ्जीतेति च ससं­न्या­सा­त्म­विद्या प्रक्रान्ता ॥२४॥
इति त्रयोदशं पुरु­ष­वि­द्या­धि­क­र­णम् ॥

वेधा­द्य­र्थ­भे­दात् ॥२५॥ अन्य­त्रा­नु­प­सं­हा­र­सि­द्ध्यर्थं मन्त्रकर्मणाम् । सन्निधौ श्रूयमाणानां विद्याङ्गत्वं निरस्यते ॥२॥ पूर्व­त्रा­त्म­वि­द्या­स­न्निधौ श्रव­णा­त्तै­त्ति­री­य­शा­खा­गतः पुरुषयज्ञो विद्याङ्गमिति स्वीकृ­त्या­यु­र्वृ­द्धि­फ­ल­वि­द्याया भेद उक्तः ।
तर्हि प्रव­र्ग्या­दी­ना­मपि विद्या­स­न्नि­ध्य­वि­शे­षा­द्वि­द्या­ङ्ग­त्व­मिति पूर्वपक्षमाह –
सफला हीति ।
ननु मा भूदा­का­ङ्क्षा­ल­क्षणं प्रकरणं , सन्निधिलक्षणं तु तत्किं न स्यादत आह –
न चाऽसति सामान्यसंबन्धे इति ।
काम्येष्टीनां काम्य­या­ज्या­का­ण्डस्य च समा­ख्यै­क्या­त्सिद्धे हि सामान्यसंबन्धे प्रथमेष्टेः प्रथमो मन्त्रो द्वितीयाया द्वितीय इति सन्नि­धे­र्वि­शे­ष­सं­बन्धो दृष्टः , न तु सन्निधिमात्रं विनि­यो­ज­क­मि­त्यर्थः ।
अङ्ग­प्र­धा­न­यो­रि­त­रे­त­रा­का­ङ्क्षा­ल­क्ष­ण­प्र­क­र­णाऽ­नु­प­ल­म्भेऽ­प्य­ङ्गा­का­ङ्क्षया प्रधा­न­स्या­प्या­का­ङ्क्षा­मु­त्थाप्य प्रकरणव्यक्तेः सामा­न्य­सं­ब­न्ध­सिद्धौ सन्नि­धे­र्वि­द्या­वि­शे­षा­ङ्गत्वं मन्त्र­क­र्म­वि­शे­षा­णा­मिति पूर्व­प­क्ष­मु­प­पा­द­यति –
मा नामेति ।
रक्तपटन्यायेति ।
यथा पटो भवतीति वाक्य­स्या­ना­का­ङ्क्ष­त्वेऽपि सहो­च्चा­रि­त­र­क्त­प­द­स्या­का­ङ्क्ष­ये­त­र­स्या­प्या­का­ङ्क्षा­मु­त्थाप्य रक्तः पटो भवतीति वाक्य­प­र्य­व­सा­न­मे­व­मि­हा­पीति ।
नन्वे­व­मु­भ­य­सं­ब­न्धेऽपि कस्याङ्गत्वमत आह –
तत्रापीति ।
कल्पनास्पदं कल्पनालम्बनम् । अवरोहात् उत्त­रा­न्नि­व­र्त­ना­दि­त्यर्थः । पिण्ड­पि­तृ­य­ज्ञा­धि­क­रणं सम­न्व­य­सू­त्रेऽ­नु­क्रा­न्तम् ।
सन्नि­धि­सा­म­र्थ्या­न्म­न्त्रा­दीनां विद्या­ङ्ग­त्व­वि­ध्य­नु­मानं भाष्यो­क्त­मु­प­पा­द­यति –
इदं खल्विति ।
आका­ङ्क्षो­त्था­प­ना­त्प्र­क­र­ण­व्य­क्ति­मुक्त्वा विद्यावाक्यस्य मन्त्र­क­र्म­वा­क्य­यो­श्चै­क­वि­शि­ष्टा­र्थ­बो­ध­क­त्वेन वाक्यै­क­वा­क्य­त्व­क­ल्प­ना­माह –
उत्थाप्य चेति ।
वाक्या­ल्लि­ङ्ग­क­ल्प­ना­माह –
असमर्थस्य चेति ।
साम­र्थ्य­मा­त्रे­णा­प्य­शा­ब्द­स्या­न्व­या­नु­प­प­त्ते­र्लि­ङ्ग­ब­ला­च्छ्रु­ति­क­ल्प­ना­माह –
न च सत्यपीति ।
अविनियुक्तमिति च्छेदः । असौ सन्नि­धि­र­क­स्मा­द्विना विषयेणाश्रयितुं न युक्त इति भाष्यार्थः । लोक­वे­द­यो­र­वि­शि­ष्टस्तु वाक्यार्थः , तत्र मन्त्रा­ण­म­नु­ष्ठे­या­र्थ­प्र­का­श­क­त्वे­ना­र्थ­वत्त्वं वक्तव्यं नावि­व­क्षि­ता­र्थ­त्व­मिति सूत्रार्थः ।
प्रव­र्ग्या­दी­ना­म­न्या­र्थ­त्वेन विनियोगं भाष्यो­क्त­मु­प­पा­द­यति –
यद्यपि चेति ।
नन्वेवमपि उप­स­त्सं­ब­न्धोऽस्तु प्रवर्ग्यस्य , कथं कर्म­सं­ब­न्ध­स्त­त्राह –
उपसदामिति ।
यत्रोपसदस्तत्र कर्मणि प्रवर्ग्य इति वाक्येन सामान्यतोऽवगतं कर्म , विशेषेण तु केनास्य संबन्धः ? किं प्रकृ­ति­वि­कृ­ति­भ्या­मुत प्रकृत्यैवेति । केव­ल­वि­कृ­ति­प्र­वे­श­स्त्व­ना­शङ्क्यः ; प्रकृतावुपसदां प्रत्यक्षत्वेन तत्प­रि­त्या­ग­का­र­णा­भा­वात् ।
तत्र निर्णयमाह –
यद्यपीति ।
कर्मोपस्थापिका उपसदः प्रकृतावेव प्रत्यक्षाः , विकृतौ त्वति­दे­श­द्वा­रे­णा­नु­मा­निका इति प्रकृतावेव प्रवर्ग्यनिवेश इत्यर्थः ।
आस्तामुपसदां प्रत्य­क्ष­त्वा­प्र­त्य­क्ष­त्व­चिन्ता , अना­र­भ्या­धी­त­त्वा­देव प्रवर्ग्यस्य प्रकृतावेव निवेशः सिद्यतीत्याह –
अपि चेति ।
चोदकेन अतिदेशेन । शेषलक्षणे स्थितम् - तत्स­र्वा­र्थ­म­वि­शे­षात् (जै.ब्र.अ ३ पा.३.सू.३५) । अनारभ्य कंचि­त्क्र­तु­म­धी­यते ‘यस्य खादिरः स्रुवो भवति छन्दसामेव रसेनावद्यति यस्य पर्णमयी जुहू’रित्यादि । तत्र किं खादिरत्वादि प्रकृतौ विकृतौ च निविशत उत प्रकृतावेवेति विशये तत् खादिरतादि सर्वार्थम् ; प्रकृत्यर्थं अप्रकरणात् । न हि कस्यचित्प्रकरणे इदं श्रुतम् । तत्र क्रतु­मा­त्र­नि­य­त­स्रु­वा­दि­द्वा­रेण वाक्यात् सर्वार्थमिति प्राप्ते – राद्धान्तः - प्रकृतौ वाऽद्वि­रु­क्त­त्वात् (ब्र.अ.३पा.३.सू.३५) प्रकृ­ति­वि­कृ­ति­गा­मित्वे हि खादिरतादेः विकृ­ता­व­ति­दे­श­तोऽ­ना­र­भ्या­धी­ता­द­प्य­स्मा­दु­प­दे­शात् प्राप्ते­र्द्वि­रु­क्तत्वं स्यात् , तच्चा­यु­क्त­म­ति­दे­शतः प्राप्तौ प्राप्त­प्रा­प­ण­वै­य­र्थ्यात् । न चोपदेशतः प्राप्त्याऽ­ति­दे­श­वै­य­र्थ्य­मा­श­ङ्क्यम् ; यतोऽ­य­मु­प­दे­शोऽ­ति­दे­श­म­न्त­रेण न प्रव­र्ति­तु­म­र्हति । तथा ह्ययं प्राप्त­स्रु­वा­द्य­नु­वा­देन खादि­र­त्वा­दि­ध­र्म­मात्रं विकृतौ विद­धे­द्वि­द­ध्याद् धर्म­वि­शि­ष्ट­स्रु­वा­दि­वि­धा­नस्य गौर­वा­दे­वा­नु­प­पत्तेः । न चातिदेशेन विना विकृतौ स्रुवा­दि­प्राप्तिः । तस्माद् द्विरु­क्त­त्वा­ला­भाय प्रकृतावेव निवेश इति । एव­मि­हा­प्य­ना­र­भ्या­धी­त­त्वा­त्प्र­व­र्ग्यस्य प्रकृतौ विहितस्य सतोऽतिदेशेन विकृ­ता­व­प्यु­प­सदां प्राप्ति­सि­द्धे­र­द्वि­रु­क्त­त्व­ला­भाय प्रकृतौ वेति न्यायात् ज्योतिष्टोमे एवोपसदा सह विधानं युक्तमित्यर्थः । उपसद्वदुपसदा सहेति च निर्देश उपसदां तुल्य­यो­ग­क्षे­मत्वं न प्रव­र्ग्य­सं­ब­न्ध­वि­शे­ष­हे­तु­त्व­मिति ज्ञापनार्थः ।
ननु तर्हि सन्नि­धि­वा­क्या­भ्या­मु­भ­या­र्थ­त्व­मस्तु , तत्राह –
सन्निधानादिति ।
नन्वेवमपि हृदयपदमात्रस्य विद्या­या­म­ङ्ग­त्वेन सम­वे­ता­र्थ­प्र­का­श­क­त्वेन सामर्थ्यं न पदान्तराणामत आह –
यथाऽग्नय इति ।
सम­वे­त­हृ­द­या­दि­वि­शे­ष­णी­भू­त­स्वा­र्थ­प्र­का­श­क­त्व­द्वारा तद्वि­शि­ष्ट­स­म­वे­ता­र्थ­प्र­का­श­क­त्वा­दि­त­र­प­दा­ना­मपि सम­वे­ता­र्थ­त्व­मि­थर्थः ।
भाष्य­का­रै­र्वा­क्येन ज्योतिष्टोमे विनियुक्तस्यापि प्रवर्ग्यस्य सन्नि­धा­ना­द्वि­द्या­स्वपि विनियोगः बृहस्पतिसवस्येव स्वत­न्त्रा­धि­का­र­वि­हि­तस्य वाजपेये विनियोग इत्युक्तम् , तदयुक्तम् ; वाक्यात् सन्नि­धे­र्दु­र्ब­ल­त्व­स्यो­क्त­त्वा­दि­त्या­श­ङ्क्याह –
यद्यपीति ।
प्रबलस्यापि वाक्यस्य न सन्नि­धि­बा­ध­क­त्वम् ; विरोधाभावात् ; न हि बलवानित्येव राजा साधुजनान् बाधते । तदिह सन्निधिर्न वाक्यगम्यं ज्योति­ष्टो­म­सं­बन्धं प्रत्याचष्टे , अपि तु तमनुमत्यैव लिङ्गत्वमपि गमयति , इत्युभयाङ्गत्वं प्रव­र्ग्य­स्ये­त्यर्थः । तदनेन श्रुति­लि­ङ्गा­धि­क­रण (ब्र.अ.३ पा.३ सू.७) मप्याक्षिप्तम् ।
ननु वाजपेयेनेत्यत्र न बृहस्पतिसवस्य वाजपेयाङ्गत्वं बोध्यते , किंतु कस्मिन् काले बृहस्पतिसवः कर्तव्य इत्यपेक्षायां वाज­पे­या­नु­ष्ठा­नो­त्त­र­का­लता ; इष्ट्वेति क्त्वाप्रत्ययेन कालाभिधानादत आह –
अत्र हीति ।
अत्र हि पूर्व­का­ल­ताऽ­भि­धा­न­म­ङ्ग­त्वेऽ­प्य­वि­रु­द्धम् । बृहस्पतिसवस्य वाज­पे­यो­त्त­रा­ङ्ग­त्वात् , तत्र ‘‘धातुसंबन्धे प्रत्यया’’ इत्यधिकारविहितः समा­न­क­र्तृ­क­त्व­वाची च क्त्वाप्रत्ययो न कालमात्रविधौ घटत इत्यर्थः । क्त्वः क्त्वाप्र­त्य­यस्य । धातुसंबन्धे इत्यु­क्तेऽ­र्थाद् धात्व­र्था­न्त­र­सं­बन्धो लभ्यते । धातो­रि­त्ये­क­त्वा­धि­का­रा­द्धा­तु­स्व­रू­प­सं­बन्धे धातुद्वयापत्तेः । ततश्च धातुद्वयोपरि प्रत्य­य­वि­ध्य­नु­प­पत्त्या धातुशब्देन धात्व­र्थ­ल­क्ष­णात् । एकस्य च धात्वर्थस्य स्वेन संबन्धायोगेन धात्व­र्था­न्त­र­ला­भा­च्चेति । समा­न­क­र्तृ­क­त्वा­दे­क­प्र­यो­गतां तावदुपपादयति तत एवा­ङ्गा­ङ्गि­त्व­सि­द्ध्य­र्थम् कथं च समान इति । कथं च समानः कर्ता स्यादे­क­प्र­यो­ग­ता­म­न्त­रे­णेति शेषः ।
व्यति­रे­क­मु­क्त्वाऽ­न्व­य­माह –
यदीति ।
यद्येकः प्रयोगो भवेत्तर्ह्येव समानः कर्ता स्यादि­त्य­नु­षङ्गः ।
ननु भिन्न­प्र­यो­ग­त्वेऽपि क्रिययोः कर्तृ­त्वा­धि­ष्ठा­न­पु­रु­षै­क्यात् क्त्वाप्र­त्य­यो­प­प­त्ति­स्त­त्राह –
प्रयोगाविष्टं हीति ।
करोतीति हि कर्ता भवति । अधि­ष्ठा­न­ल­क्ष­णायां तु सैव दोष इत्यर्थः ।
धात्व­र्था­न्त­र­सं­ब­न्धोऽपि प्रयोगैक्यगमकः , एक­प्र­यो­ग­त्व­म­न्त­रेण क्रिय­यो­र­सा­धा­र­ण­सं­ब­न्धा­नि­रू­प­णा­दि­त्याह –
धात्व­र्था­न्त­रेति ।
भव­त्वे­क­प्र­यो­गत्वं , ततः किं जातमत आह –
न चेति ।
प्रधानभेदे हि स्वत­न्त्र­त्वा­त्प्र­योगो भिद्येतेत्यर्थः । संबन्ध एकप्रयोगतां गमयतीत्युक्तम् ।
इदानीं स एव साक्षा­द्गु­ण­प्र­धा­न­भावं च गमयतीत्याह –
संबन्धश्चेति ।
ननु भव­त्व­ङ्गा­ङ्गित्वं वाज­पे­य­बृ­ह­स्प­ति­स­वयोः , कस्य त्वङ्गत्वं ? कस्य वाङ्गित्वम् ? अत आह –
तत्रापीति ।
प्रकरणिनो वाजपेयस्य प्रधा­न­त्वा­द­ङ्गि­त्वम् , बृहस्पतिसवस्य तु परप्रकरणे श्रूय­मा­ण­स्या­ङ्ग­त्व­मि­त्यर्थः । नन्वेवं मीमांसकानां मुद्राभेदः कृतः । तथा हि – यदि बृहस्पतिसवेन यजेतेत्येतत् प्रक­र­णा­न्त­र­स्थ­बृ­ह­स्प­ति­स­व­वि­प­रि­वृ­त्त्य­र्थम् , कस्तर्हि वाज­पे­या­ङ्ग­त्व­विधिः ? अथ विधिः , कथं प्रक­र­णा­न्त­र­स्थ­बृ­ह­स्प­ति­स­व­स्येह सन्निधिः ? न चैकमेव वाक्यं दूरस्थमपि कर्म सन्नि­धा­प­य­त्य­न्या­ङ्ग­त्वेन च विधत्त इति युज्यते । तस्मा­त्प्र­क­र­णा­न्तरे कौण्ड­पा­यि­न­व­त्क­र्मा­न्तरं बृहस्पतिसवः । बृहस्पतिसवनाम तु प्रसि­द्ध­बृ­ह­स्प­ति­स­व­ध­र्मा­ति­दे­शा­र्थम् । तथा च तद्धर्मकं कर्मान्तरमेव वाजपेयाङ्गत्वेन विधीयते इति मतद्वयेऽपि संमतम् । एवं च कथं विनि­यु­क्त­वि­नि­यो­ग­शङ्का ? सत्यम् ; अभ्युपेत्यवाद एषः । व्यव­स्थि­तो­दा­ह­र­ण­मिह खादिरत्वादिः ।
यदि साधिकारयोरपि कर्मणोः क्त्वाश्रु­त्याऽ­ङ्गा­ङ्गि­भावः , तर्ह्यतिप्रसङ्ग इत्याशङ्क्य विशेषप्रदर्शनेन परिहरति –
न च दर्शेति ।
वाजपेयप्रकरणे समाम्नानाद्धि बृह­स्प­ति­स­व­स्या­ङ्ग­त्वम् , इदं तु वाक्य­म­ना­र­भ्या­धी­त­मिति नाङ्गा­ङ्गि­त्व­बो­ध­क­मि­त्यर्थः ।
ननु क्वचि­त्सो­म­या­ग­प्र­क­रणे इदं वाक्यं श्रुतम् , अतः सोमाङ्गता दर्श­पू­र्ण­मा­स­यो­रिति , नेत्याह –
यदि त्विति ।
अना­र­भ्या­धी­त­वा­क्यार्थ एव तत्राप्यनूद्यत इत्यर्थः ।
अनुवादे लाभमाह –
तथा सतीति ।
अधिकरणं त्वत्र­त्य­म­स्माभिः प्रथ­म­सू­त्रेऽ­नु­क्रा­न्तम् ।
ननु यद्य­प्ये­क­प­द­स­म­वे­ता­र्थता बहु­प­द­स­म­वे­ता­र्थ­ताया दुर्बला ; तथापि विद्या­स­न्नि­ध्य­नु­गृ­हीता हृद­य­मि­त्ये­क­प­द­स­म­वे­ता­र्थता विद्याङ्गत्वं मन्त्रस्य गमयिष्यतीत्यत आह –
न च सन्नि­ध्यु­प­गृ­ही­ता­स्विति ।
मन्त्र­म­व­स्था­प­य­ती­त्य­त्रै­क­प­द­स­म­वे­ता­र्थ­ते­त्य­नु­षङ्गः । हृदयपदं विद्यायामभिचारे च समवेतार्थमिति साधारणम् , इतराणि तु पदानि विद्या­या­म­स­म­वे­ता­र्थानि , समवेतार्थानि त्वभिचारेऽतः कांस्य­भो­जि­न्या­येन हृद­य­प­द­मि­त­र­प­दा­नु­रो­धे­ना­भि­चा­र­मेव मन्त्रं गमयतीत्यर्थः ।
यत्त्वे­क­प­द­स­म­वे­ता­र्थ­ताया अस्ति सन्नि­धि­र­नु­ग्रा­हक इति , तन्न ; बहु­प­द­स­म­वे­ता­र्थ­तायाः सन्निधेरपि प्रबलेन वाक्ये­ना­नु­गृ­ही­त­त्वा­दि­त्याह –
इत­र­प­दै­क­वा­क्य­ता­प­न्न­स्येति ।
इत­र­प­दै­क­वा­क्य­ता­प­न्न­स्याऽत एव वाक्य­प्र­मा­णा­नु­गृ­ही­त­स्या­भि­चा­रेऽपि समवेतार्थस्य हृद­य­प­द­स्या­भि­चा­रा­त्क­र्म­णोऽ­न्यत्र सन्निधिना चाल­यि­तु­म­श­क्य­त्वा­दिति योजना ।
यत्तु वाक्य­लि­ङ्गा­भ्या­म­न्यत्र विनियुक्तयोरपि मन्त्रकर्मणोः सन्नि­धा­ना­द्वि­द्या­या­मपि तदविरोधेन विनि­यो­ग­सं­भ­वा­दु­भ­या­र्थ­त्व­मि­त्युक्तं , तदनूद्य परिहरति –
कस्मा­त्पु­न­रि­त्या­दिना ।
श्रुति­लि­ङ्ग­यो­रिति ।
यत्र ह्येक एव शेष एकेन प्रमा­णे­नै­क­शे­षिणा संबद्धत्वेन बोधितः स एव प्रमाणान्तरेण शेष्य­न्त­रा­र्थ­त्वेन बोध्यते , तत्रैकेनैव संबन्धे शेषस्य निरा­का­ङ्क्ष­त्वा­द­प­र­सं­बन्धो विरुध्यते । तदनयोः प्रमाणयोः पर­स्प­र­वि­ष­या­प­हा­रेण भवितव्यम् । अत एक­शे­ष­वि­ष­य­यो­र्भि­न्न­शे­षि­सं­ब­न्ध­बो­धिनोः प्रमा­ण­यो­र्बा­ध्य­बा­ध­कत्वे स्थिते तदर्थे किं बलीय इति चिन्ता क्रियते श्रुति­लि­ङ्ग­सू­त्रे­णे­त्यर्थः । अत एव विनि­यु­क्त­वि­नि­यो­गेऽपि वैषम्यमुक्तम् । तत्र हि तुल्य­ब­ल­त्वा­त्प्र­मा­ण­यो­रु­भ­या­र्थ­त्व­मिति । ननु नेदं श्रुति­लि­ङ्ग­वि­रो­धो­दा­ह­र­णम् । तथा हि – किमैन्द्र्या गार्हपत्यमिति द्विती­या­तृ­ती­या­श्रुत्योः पदा­न्त­रा­न­पे­क्ष­यो­र्म­न्त्र­ग­ते­न्द्र­प्र­का­श­न­सा­म­र्थ्येन विरोध उच्यते ? किंवा पदा­न्त­रै­र्वा­क्या­ना­प­न्नयोः ? प्रथ­म­क­ल्पा­नु­प­प­त्ति­मा­श­ङ्कते – यद्यपीति ।
द्वितीया हि गार्हपत्यः किंचि­त्प्र­ति­शे­षीति वक्ति , तच्च कांचि­दा­ग्ने­यी­मृचं प्रति शेषित्वेऽपि चरितार्थमिति नैन्द्र्या इन्द्र­प्र­का­श­न­सा­मर्थ्यं बाधेत , ऐन्द्र्येति च तृतीयैन्द्र्याः किंचित्प्रति शेषत्वमाह , तच्च तस्या इन्द्रं प्रति शेष­त्वेऽ­प्य­वि­रु­द्ध­मि­त्यर्थः ।
द्विती­य­क­ल्पा­नु­प­प­त्ति­मा­श­ङ्कते –
पदान्तरेति ।
वाक्य­लि­ङ्ग­यो­र्लि­ङ्गस्य बल­व­त्त्वा­द्वा­क्य­स्यैव बाधा स्यादित्यर्थः ।
परिहरति –
तथापीति ।
श्रुत्योरेव लिङ्गेन विरोध इति वक्तुं श्रुति­वा­क्य­यो­र­भि­धे­य­भे­द­माह –
द्विती­ये­त्या­दिना ।
ऐन्द्र्येति तृतीयया क्रिया­या­मैन्द्री शेषित्वेन बोधिता । गार्हपत्यमिति द्वितीयया गार्हपत्यः शेषत्वेन बोधितः , शेषशेषिभावश्च विनियोग इति ।
श्रुति विनियोगे निरपेक्षे चेत्तर्हि वाक्येन किं बोध्यतेऽत आह –
सोऽयमिति ।
ऐन्द्र्या­दि­प­दा­र्थ­वि­शि­ष्टो­प­स्था­न­क­र्त­व्यता हि वाक्यार्थः । तेनैन्द्र्या यत्सामान्येन क्रियां प्रति शेषत्वमवगतं गार्ह­प­त्य­क­र्म­को­प­स्थाने , यच्च गार्हपत्यस्य कर्मत्वं तदै­न्द्री­क­र­णो­प­स्थान इति सामा­न्या­व­ग­त­सं­बन्धो वाक्यी­य­वि­शे­ष­ण­वि­शे­ष्य­भा­व­ब­ला­द्वि­शे­षेऽ­व­स्था­प्यते । न चैवं - वाक्यस्यैव लिङ्गेन विरोधो न श्रुतेरिति – वाच्यम् ; यतो यदि गार्हपत्यमिति द्वितीया सप्तम्यर्थं लक्षयेत् , सप्तम्यर्थश्च सामीप्यं , तदा नैव लिङ्गस्य का चित् क्षतिः ; गार्हपत्यसमीपे स्थित्वे­न्द्र­स्यै­वो­प­स्था­न­सं­भ­वात् । यदि तु द्विती­ये­प्सि­त­त­मतां न मुञ्चति , तदैव विरोध इति श्रुतिरेव लिङ्गविरोधः ।
ननु श्रुतिमात्रमपि लिङ्गेन न विरुध्यते इत्युक्तम् , अत आह –
तस्मादिति ।
न ह्येकं पदं कदा­चि­त्प्र­यु­ज्यते ; वैयर्थ्यात् । अतः प्रतिनियतौ श्रुति­वा­क्य­सं­बन्धौ । तत्र श्रुतिरेवं वदति वाक्यगम्यस्य विशे­ष­ण­वि­शे­ष्य­भा­व­स्यै­वं­विधं शेषशेषित्वमिति । एवं च श्रौतेन शेषशेषिभावेन लिङ्गस्य विरोध इत्यर्थः । नन्वेवं श्रौतस्य शेष­शे­षि­भा­व­स्यायं विशे­ष्य­वि­शे­ष­ण­भाव इति वाक्येन बोधनात्तस्य च लिङ्गेन विरोधाद् लिङ्ग­वा­क्य­वि­रो­धो­दा­ह­र­ण­मिदं किं न स्यात् ; उच्यते स्वार्थबोधे श्रुतेः शीघ्र­प्र­वृ­त्ते­र्लि­ङ्ग­वि­रो­ध्य­र्थ­तया द्रागित्येव बोधित इति तद्वि­रो­ध­त्वे­नै­वो­दा­ह्रि­यत इति । ’यथा तदाहुः - शीघ्र­प्र­वृ­त्त­त्वा­ल्लि­ङ्गा­दे­र्बा­धिका श्रुतिः । तथैव विनियोगेऽपि सैव पूर्वं प्रवर्तते ॥’ इति ।
एवमुदाहरणं परि­शो­ध्या­धि­क­र­ण­मा­र­च­यति –
किं लिङ्गा­नु­गु­ण्ये­ने­त्या­दिना ।
प्रभवति समर्थः ।
प्रमाणान्तरं वृद्धव्यवहार इत्याह –
विदितपदेति ।
लिङ्ग­बा­ध­क­त्वे­नोक्ता तृतीया श्रुतिः । तदी­य­प्रा­ति­प­दि­क­मै­न्द्री­त्येवं रूपं तद्धितान्तं शब्दत इत्युक्तम् ।
इन्द्र­स्ये­य­मि­ती­न्द्र­शे­ष­त्वे­नै­ता­मृचं बोधयतीत्याह –
शब्दाच्चेति ।
दारु दहतीति दारुदहनः । दहनोऽग्निः । ऐन्द्र्या गार्हपत्ये यो विनियोगः स काष्ठ­दा­ह­क­स्याग्नेः सलिलदाहे विनियोग इव विरुद्ध इत्यर्थः ।
उपस्थापयितव्य इति ।
प्रकाशयितव्य इत्यर्थः । ॠचः प्रका­श­न­व्य­ति­रे­केण कार्याभावात् ।
यदि सामर्थ्यज्ञानं नापेक्षते श्रुतिः , तर्हि योग्यतावधारणं व्यर्थं स्यादित्यग्निना सिञ्चेदित्यपि प्रमाणं स्यादत आह –
अवगते त्विति ।
यथा स्फोटे जाते वह्ने­र्दा­ह­श­क्ति­र्ज्ञा­यते , न तु दाहकत्वं वह्नेः शक्ति­ज्ञा­ना­पे­क्ष­मेवं श्रुतेः शेषत्वे ज्ञातेऽ­न­न्त­र­मर्थे तादृशी शक्तिः कल्प्यते । अतो नार्थ­ग­त­सा­म­र्थ्य­ज्ञानं विनि­यो­ग­का­र­ण­मि­त्यर्थः । तदिति तस्मादर्थे ।
ननु यदि विनि­यो­गो­त्त­र­का­ल­म­र्थ­सा­मर्थ्यं विनि­यो­ग­नि­र्वा­हाय कल्प्यते , तर्हि तदैन्द्र्या गार्ह­प­त्य­प्र­का­शने नास्तीति कथं विनि­यो­ग­नि­र्वा­ह­स्त­त्राह –
श्रुति­वि­नि­यो­गा­दिति ।
मन्त्रो ह्यभ्रान्तया श्रुत्या विनियुज्यते । तत्र यदि मुक्यं सामर्थ्यं न दृश्यते , तर्हि प्रथ­मा­व­ग­त­वि­नि­यो­ग­स्या­सं­जा­त­वि­रो­ध­त्वा­त्तस्य च साम­र्थ्य­क­ल्प­क­त्वेन तदनुगुणं गौणमपि सामर्थ्यं मन्त्रे कल्पनीयम् ।
तच्चोक्तं संदेहावसरे –
प्रभवति हि स्वोचि­ता­या­मि­त्या­दि­नेति ।
एवं श्रुत्य­न­पे­क्ष­त्व­परं श्लोकस्य पूर्वार्धं व्याख्याय लिङ्गस्य सापेक्षत्वेन दौर्ब­ल्य­प्र­ति­पा­दकं द्वितीयार्धं व्याचष्टे –
लिङ्गं त्वित्यादिना ।
तस्य त्विति ।
मन्त्र­स्ये­त्यर्थः । अग्नि­च­य­न­प्र­क­र­णा­म्ना­न­सा­म­र्थ्या­दि­त्यर्थः ।
तद­न्य­था­नु­प­प­त्त्येति ।
इन्द्र­स्व­रू­पा­भि­धा­ना­न्य­था­नु­प­प­त्त्ये­त्यर्थः ।
ननु यथा प्रत्य­क्षे­णा­ग्नि­र्बो­ध्यते तथानुमानेनाऽपि , एवं लिङ्ग­श्रु­तिभ्यां मन्त्र­स्येन्द्रे गार्हपत्ये च विनियोगो बोध्यताम् , तथा च तुल्यबलत्वमत आह –
श्रौता­द्वि­नि­यो­गा­दिति ।
अर्थ­वि­प्र­क­र्षा­दिति ।
शब्द­प्र­का­शि­ता­र्थेन सहा­र्थि­क­स्या­र्थस्य विप्रकर्षात् संब­न्धा­यो­ग्य­त्वा­दा­का­ङ्क्षि­त­वि­नि­यो­ग­प्र­का­शिका श्रुति­रै­न्द्र्येन्द्रं प्रका­श­ये­दि­त्ये­वं­रूपा कल्प­यि­तु­मु­चि­ते­त्यर्थः । नियोग आज्ञा । अनुयोग आक्षेपः । प्रक्रा­न्त­व्या­पारः प्रतिपत्तेति शेषः । प्रथमां मुख्यवृत्तिं यद्य­ज­ह­ति­ष्ठे­त्तर्हि प्रसह्य जघन्ययाऽपि वृत्त्या नेयमित्यर्थः ॥
कल्पयाम्यन्त उपस्तरण इति ।
घृतस्य धारया सुशेवं कल्पयामीति लिङ्गादुपस्तरणं प्रतीयत इत्यर्थः । आसादनं स्थापनम् ।
उभयत्र कृत्स्न­म­न्त्र­प्र­यो­गस्य प्रमा­ण­भू­त­मे­क­वा­क्य­त्व­मेव दर्शयति –
एतदपेक्षो हीति ।
एक­वा­क्य­ता­पू­र्वकं साम­र्थ्य­क­ल्प­ना­ल्लि­ङ्ग­स्यो­प­जीव्यं वाक्यं लिङ्गाद्बलवदिति सोदाहरणमाह –
इह हीत्यादिना ।
यत्त­त्प­द­स­म­भि­व्या­हारो विभ­ज्य­मा­न­सा­का­ङ्क्षत्वे हेतुः । विभज्यमानत्वे सति साकाङ्क्षत्वं चैकवाक्यत्वे हेतुः । आह हि परमर्षि ’’ रथैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्या’’ (जै.अ.२ पा.१ सू.४६) दिति ।
साका­ङ्क्ष­त्वा­दि­त्युक्ते प्रकृ­ति­प्र­त्य­य­यो­र­प्ये­क­वा­क्यता स्यात्त­न्नि­वृ­त्त्यर्थं –
विभज्यमानेति ।
न हि प्रकृ­ति­प्र­त्य­य­यो­र्वि­भागो विद्यते । विभज्यमानत्वेन पद­त्वा­प­त्ति­र्वि­व­क्षिता । तावत्युक्ते ‘‘भगो वां विभज्यत्वर्यमा वां विभ­ज­त्वि’’त्यादौ निर­पे­क्ष­वि­भा­गेऽपि वाक्यत्वं स्यात् । तत्र हि प्रतिपदं विभ­ज­त्वि­त्य­न्व­या­न्नि­रा­का­ङ्क्ष­त्वम् , तन्नि­वृ­त्त्यर्थं साका­ङ्क्ष­त्व­वि­शे­ष­णम् । अर्थै­क­त्व­वि­शे­ष­णस्य तु ‘‘स्योनं ते’’ इतीदमेव व्यावर्त्यम् । अत्र च वाक्य­भे­दोऽ­द्या­प्य­सिद्ध इति तन्नोपन्यस्तम् । ‘‘देवस्यत्वे’’ ति मन्त्रे हि ‘‘अग्नये निर्व­पा­मी’’ति­प­दा­ति­रि­क्त­प­दानां न निर्वापे समवेतार्थत्वम् । एवमन्यत्रापि कर्मणि तेषां न सम­वे­ता­र्थ­तो­प­ल­भ्यते , तेनागतीनां तेषां सम­वे­ता­र्था­ग्नि­नि­र्व­पा­मि­प­दा­भ्या­मे­क­वा­क्यतां कल्पयित्वा तदनुरोधेन जघन्ययाऽपि वृत्त्याऽ­र्था­भि­धा­न­सा­मर्थ्यं कल्प्यताम् ।
मन्त्र­भा­ग­यो­स्त्व­न­यो­रु­प­स्त­र­णा­सा­द­ना­र्थयोः पृथ­ग­र्था­भि­धा­न­सा­म­र्थ्य­स्यै­क­वा­क्य­ता­म­न­पे­क्ष्यै­वा­र्थ­प्र­ती­ति­का­र्य­व­शेन सिद्धत्वान्न वाक्यपूर्वकत्वं लिङ्गस्येति सिद्धान्तयति –
भवेदेतदेवमिति ।
प्रयो­ज­नै­क­त्वे­नेति ।
विशि­ष्टै­का­र्थ­प्र­मितिः प्रयोजनम् । प्रधा­न­मे­क­म­र्थ­मि­त्य­त्रै­क­शब्दः प्रयुक्तः , तत्र ‘‘स्योनं ते’’ इत्यस्य वाक्य­भे­द­प्र­ति­पा­द­नात् एकस्मिन्वाक्ये पदार्थानां बहु­त्वा­दे­का­र्थ­त्वम् । अयु­क्त­मि­त्या­शङ्क्य विशि­ष्टा­र्था­भि­प्रा­येण प्रधा­न­मि­त्यु­क्तम् ।
ननु भावनैव प्रधानं कथमुपस्तरणादेः प्रधान्यमत आह –
अनु­ष्ठे­या­र्थ­श्चेति ।
मन्त्रा­व­य­वा­व­वि­नि­युज्य हि नाऽवयविरूपं वाक्यं विनियोक्तुं शक्यते । अत­श्चै­क­वा­क्य­त्व­वा­दि­नाऽ­व्य­व­यवौ विनियोज्यौ , तयोश्च मिलि­त­यो­र्नै­का­र्थ­प्र­का­शनं सिद्धमिति । यत्र तु ‘‘देवस्य त्वे’’त्यादा­वि­वै­क­वा­क्य­ता­व­शेन कथं­चि­त्सा­म­र्थ्य­म­नु­मे­यम् , तत्रोपस्तरणे पूर्वभागार्थे उत्तरो मन्त्रभागो भङ्क्त्वा व्याख्येयः । पुरोडाशासादने चोत्तरभागार्थे पूर्वः । एवं याव­दे­क­वा­क्य­ता­व­शेन साम­र्थ्य­म­नु­मी­यते ताव­त्पू­र्व­स्यो­त्त­रस्य च मन्त्र­भा­ग­स्यै­कै­क­स्मि­न्न­प­स्त­रणे पुरोडाशासादने चार्थ­प्र­ती­ति­का­र्य­व­शेन प्रतीतं यत्सामर्थ्यं तन्म­न्त्र­भा­ग­द्व­यस्य विनियोजिकां श्रुतिं पूर्वे­णो­प­स्तृ­णु­या­दु­त्त­रेण पुरो­डा­श­मा­सा­द­ये­दि­त्ये­वं­रूपां कल्पयति ।
ततः किं जातमत आह –
तथा चेति ।
एकं विनियोगं कर्तुं वाक्यलिङ्गयोः सह प्रस्थि­त­यो­र्वाक्ये लिङ्गं कल्प­यि­तु­मु­प­क्रा­न्त­वति एकै­क­म­न्त्र­भा­ग­गतं लिङ्गं वाक्य­क­ल्प्य­लि­ङ्गा­दपि विनियोगफलं प्रति प्रत्यासन्नां श्रुतिं कल्पयति । वाक्यकल्पिते च लिङ्गे श्रुतिं कल्प­यि­तु­मु­प­क्रान्ते लिङ्गकल्पिता श्रुति­र्वि­नि­योगं गृह्णाति , गृहीते च तया तस्मिन् वाक्येन लिङ्ग­द्वा­र­क­ल्पिता श्रुति­रे­क­सो­पा­ना­न्त­रि­त­त्वा­त्फ­ल­म­न­वाप्य विलीयते । आह चात्र निद­र्श­न­मा­चा­र्य­सु­न्द­र­पाण्ड्यः – निःश्रे­ण्या­रो­ह­ण­प्राप्यं प्राप्ति­मा­त्रो­प­पादि च । एकमेव फलं प्राप्तु­मु­भा­वा­रो­हतो यदा ॥१॥ एक­सो­पा­न­व­र्त्येको भूमि­ष्ठ­श्चा­प­र­स्तयोः । उभयोश्च जवस्तुल्यः प्रतिबन्धश्च नान्तरा ॥२॥ विरोधिनोस्तदैको हि तत्फलं प्राप्नु­या­त्तयोः । प्रथमेन गृही­तेऽ­स्मि­न्प­श्चि­मोऽ­व­त­रे­न्मुधा ॥३॥ इति । एवमुत्तरत्रापि द्रष्टव्यम् । यदि लिङ्गाभ्यां मन्त्र­भा­ग­यो­र­र्थ­भे­देन वाक्यं भङ्क्त्वा विनियोगस्तर्हि देवस्य त्वेत्यत्रापि लिङ्गाद्वाक्यं भङ्क्त्वा भेदेन विनियोगः स्यात् ।
तथाचात्रापि सम­वे­ता­र्थ­स­द­ना­दि­प­दा­ति­रि­क्त­प­दानां मन्त्र­भा­गा­भ्या­मे­क­वा­क्यता न स्यादत आह –
यत्र त्विति ।
यत्र विरोधकं पृथक् कर्म­स­म­वे­ता­र्थ­प्र­का­श­न­सा­मर्थ्यं नास्ति , तत्र समवेतार्थेनैकेन पदेन द्वाभ्यां त्रिभिर्वा पदैर्यैकवाक्यता सा क्वापि कर्म­ण्य­स­म­वे­ता­र्थानां पदान्तराणां वैय­र्थ्य­प­रि­हा­राय स्वानुसारेण सामर्थ्यं कल्पयतीति भवति तत्र वाक्यस्य विनियोजकत्वं न त्वत्र , पृथक् कर्म­व­र्ति­प­दा­र्थ­प्र­का­श­ना­दि­त्यर्थः । उक्तं च - ‘पदान्तराणि यत्रार्थं वदेयुः कर्मवर्तिनम् । तत्रैवमितरेषां तु वाक्य­म­प्य­ग­ते­र्व­रम्’॥ इति । एवमिति । लिङ्गा­द्वा­क्य­भङ्ग इत्यर्थः ॥
प्रक­र­ण­वा­क्य­यो­र्वि­रो­ध­मु­दा­हर्तुं वाक्यलक्षणमाह –
अत्र चेति ।
प्रकरणलक्षणमाह –
लब्धेति ।
कार्या­न्त­रा­पे­क्षा­व­शेन प्रकरणत्वं शब­र­स्वा­मि­सं­म­त­मि­त्याह –
कर्तव्याया इति ।
प्रधा­न­वा­क्य­स्या­ङ्ग­वा­क्या­का­ङ्क्षा­मु­क्त्वाऽ­ङ्ग­वा­क्यानां प्रधा­न­वा­क्या­का­ङ्क्षा­माह –
समिदादीति ।
सन्नि­हि­त­क­र­णो­प­कारे संभवति न विश्व­जि­न्न्या­येन (जै.सू.अ.४ पा.३ सू.१५) स्वर्गकल्पना , नापि दर्श­पू­र्ण­मा­स­फ­ल­स्व­र्ग­स्या­नु­षङ्गः ; प्रयाजादेः फला­का­ङ्क्षा­या­मपि स्वर्ग­स्या­ना­का­ङ्क्ष­त्वा­दि­त्याह –
अनुषङ्गतो वेति ।
करणोपकारस्य सिद्धत्वादेव यज्ञ­व­र्म­क­र­णा­द्या­र्थ­वा­दिकं फलं सत्रन्यायेन न कल्प्यमित्याह –
अर्थवादतो वेति ।
निर्वारयितुं चरितार्थीकर्तुं । निर्वृण्वन्ति कृतार्थीभवन्ति । निर्वारयन्ति । स्वकृतोपकारेण प्रधानं दर्श­पू­र्ण­मा­सा­दी­त्यर्थः ।
उक्ता­मि­त­रे­त­रा­पेक्षां सदृ­ष्टा­न्त­मु­प­सं­ह­रति –
सोऽयमिति ।
‘‘अग्निरिदं हविरजुषतावीवृधत महोज्ययोऽकृत प्रजापतिरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत अग्नीषोमाविदं हविरजुषतावीवृधत महो ज्यायोऽक्राताम् । इन्द्राग्नी इदं हवि­र­जु­षे­ता­म­वी­वृ­धेतां महो ज्यायोऽक्राताम् । इन्द्र इदं हविरजुषतावीवृधत महो ज्यायोऽकृते’’ति सूक्तवाकनिगदः । देव­ता­सं­बो­ध­न­प्र­धानः पदसमूहो निगद इत्याख्यायते । तत्राग्निः पौर्ण­मा­स्य­मा­वा­स्ययोः साधारणः । प्रजापतिः पौर्ण­मा­स्या­मे­वो­पां­शु­या­जस्य । ‘‘नाऽसोमयाजी सन्न­ये’’दि­त्य­सो­म­या­जिनः सान्ना­य्या­भा­वात् । अमा­वा­स्य­यो­र्द­धि­प­य­सो­र­भावे ऐन्द्रा­ग्न­मे­का­द­श­क­पाल विहितं तस्य देवतेन्द्राग्नी ।
इदमाह –
तत्र हीति ।
एकत्र सहपाठेऽपि लिङ्गा­दु­त्कृ­ष्ठे­ने­न्द्रा­ग्नि­प­दे­नै­क­वा­क्य­ता­प­न्नोऽ­वी­वृ­धे­ता­मि­त्या­दि­म­न्त्र­शेषो यत्रा­मा­वा­स्या­या­मि­न्द्रा­ग्नि­पदं नीतं तत्र नीये­तो­ते­न्द्रा­ग्नि­प­द­मा­त्र­म­मा­वा­स्यायां नीत्वा वाक्यशेष उभयत्र पौर्ण­मा­स्य­मा­वा­स्ययोः प्रयोक्तव्य इति संदेहस्य प्रापकमाह –
तत्र यदीति ।
फलवती भावना प्रधाना सती इतिकर्तव्यत्वं सन्नि­धि­प­ठि­त­स्या­पा­द­य­ती­त्यर्थः ।
आकाङ्क्षात्मकं हि प्रकरणं न श्रुतिरिव विनियोगमभिधत्ते , किं तु विनि­यो­ज्य­प­दा­र्थ­शक्तिं प्रमा­णा­न्त­र­प्र­मि­ता­म­पे­क्षते , एवं च सति विनियोज्यस्य मन्त्र­वा­क्य­शे­षस्य वाक्येनान्यत्र विनि­यु­क्त­त्वान्न प्रकरणेन कृत्स्ना­र्थ­त्वेन विनियोग इत्याह –
भवेदेतदेवमिति ।
विपक्षे दण्डमाह –
अन्यथेति ।
द्वाद­शो­प­स­त्ता­धि­क­रणं ज्योतिर्दर्शना (व्या.सू.अ. १ पा. ३. सू.४०) दित्य­त्रा­नु­क्रा­न्तम् । पूषा­द्य­नु­म­न्त्र­ण­म­न्त्राश्च तत्रैवोदाहृताः ।
यद्यदेवेति ।
विनियोजकं प्रमाणमित्यर्थः ।
एकवाक्यतेति ।
वाक्यै­क­वा­क्य­ते­त्यर्थः ।
यावदितरत्र सामर्थ्यमिति ।
वाक्य­द्व­यै­क­वा­क्य­ताया कल्पितायाम् अन्य­था­नु­प­पत्त्या वाक्य­द्व­या­र्थ­यो­रि­त­रे­त­रो­प­का­र्यो­प­का­र­क­त्व­सा­मर्थ्यं कल्प्यत इत्यर्थः ॥ नाने­ष्टि­प­शु­सो­म­स­मु­दायो राजसूयः । तत्राभिषेचनीयः सोमयागविशेषः । शुनःशेपः किल ॠषिपुत्रो हरि­श्च­न्द्र­पु­त्रेण पुरुषमेधार्थं पशुत्वेन क्रीतः । स वरुणाय स्वस्यालम्भे कर्तुमारब्धे वरुणं तुष्टाव । स च तुष्ट एनं रक्षेत्याख्यानं बह्वृचब्राह्मणे पठ्यते । अक्ष­द्यू­ता­दि­क­म­भि­षे­च­नी­य­स­न्निधौ श्रुत­मा­दि­श­ब्दार्थः । यद्या­का­ङ्क्षा­मा­त्रा­त्प­दानां संबन्धः , तर्ह्यानय प्रासादमिति पदद्वयव्यवहितेन पश्येत्यनेनापि गामि­त्य­स्या­भि­सं­बन्धः स्यात् , आनयेत्यनेन तु सन्नि­धा­ना­त्स­बन्ध उपपन्न । तस्मा­न्ना­का­ङ्क्षा­मात्रं संब­न्ध­हे­तु­रि­त्यर्थः ।
अत्र विकल्पेन पूर्वपक्षं वक्ष्यन् सन्निधेरपि केवलस्य न संबन्धे हेतुत्वमित्याह –
न चेति ।
अयमेतीति वाक्ये राज्ञः इत्येतत्पदं पुत्र­प­द­स्यो­प­रि­ष्टा­त्पु­रु­ष­प­दस्य चाध­स्ता­द्दृ­श्यते । यदि सन्निधिमात्रं संबन्धकारणं तर्हि राज्ञ इति पदस्य पुत्रपदेन वा सबन्धः - राज्ञः पुत्र इति , किं वा पुरुषपदेन - राज्ञः पुरुष इत्यविनिश्चयः स्यादित्यर्थः ।
एवमनिश्चये सत्या­का­ङ्क्षायां निर्णयमाह –
तस्मादिति ।
अन्तिके यदुपनिपतितमिति ।
पितृसमर्पकं राजपदमित्यर्थः ।
यदि राज्ञ इति पदस्य पुरु­ष­प­दे­ना­स­बन्धः , तर्हि तेनासंबद्धस्य पुरुषपदस्य केन संबन्धस्तत्राह –
किं त्विति ।
ननु प्रक­र­णा­द्रा­ज­सू­या­र्थत्वं क्रमा­द­भि­षे­च­नी­या­र्थत्वं च किं न स्यादत आह –
समु­च्च­याऽ­सं­भ­वा­च्चेति ।
अभिषेचनीयस्यापि राज­सू­य­म­ध्य­पा­ति­त्वा­त्त­द­र्थ­म­प्य­नु­ष्ठि­त­मा­ख्या­नादि राजसूयाङ्गमपि भवति ; पृथक् प्रयो­गाऽ­न­पे­क्ष­णाद् न समुच्चय इत्यर्थः । न चैवं चिन्ता­वै­य­र्थ्यम् ; अभि­षे­च­नी­या­र्थ­त्वे­ना­नु­ष्ठि­तस्य पवि­त्रा­द्य­व­य­वा­न्त­रा­नु­प­का­र­क­त्वा­द­व­य­वि­रा­ज­सू­या­र्थस्य तदी­य­स­र्वा­व­य­वा­र्थ­त्वो­प­प­त्ते­स्त­त्सि­द्धये राज­सू­या­ङ्ग­त्व­स्या­प्यु­पा­ख्या­ना­दे­श्चि­न्त­नी­य­त्वा­दिति । पवित्रः सोमयागविशेषः । क्षत्रस्य धृतिरिष्टि । प्रधानस्य कथम्भावे कथं भावना निष्पद्यत इत्य­पे­क्षा­या­मि­ति­क­र्त­व्य­ता­का­ङ्क्षा­या­मि­त्यर्थः । एत­स्या­म­व­स्था­या­म­नि­र्ज्ञा­त­फलं यदेतत्कर्म पठ्यते तस्य प्रकरणिनं प्रत्यङ्गता भवति , निर्ज्ञातफलस्य गोदो­ह­ना­दे­र्वाऽ­ङ्गता , तस्य फल­व­त्त्वे­ना­का­ङ्क्षाऽ­नु­द­या­दि­त्यर्थः ।
प्रधा­न­स्या­का­ङ्क्षा­या­म­नु­व­र्त­मा­ना­या­मा­म्ना­त­स्या­सं­बद्धैः पदै­र्व्य­व­धा­ना­भा­वा­द्रा­ज­सू­या­ङ्ग­त्व­मु­क्त्वाऽ­भि­षे­च­नीयं प्रति सन्नि­धे­र्दु­र्ब­ल­त्वा­द­न­ङ्ग­त्व­माह –
अभिषेचनीयस्य त्विति ।
निरा­का­ङ्क्ष­स्येति प्रकरणानुत्थाने हेतुः ।
ननु यथाऽभिषेचनीयस्य सन्नि­धि­व­शा­त्प्र­क­र­ण­क­ल्पना , एवं राजसूयस्यापि प्रक­र­णा­त्सं­निधिः कल्प्य इति तुल्य­त्व­मु­भ­यो­रि­त्या­श­ङ्क्याह –
प्रकरणिनश्चेति ।
सर्व­व्या­प­क­त्वा­द्रा­ज­सू­य­स्या­भि­षे­च­नी­य­स्यापि तदा­त्म­क­त्वा­त्सं­नि­धि­सि­द्धि­रि­त्यर्थः । पौरोडाशिककाण्डे आग्नेयादीनां कर्मणां क्रमे मन्त्राः श्रुताः , तत्राऽ­मा­व­स्यि­क­सा­न्ना­य्य­क्रमे शुन्धध्वमिति मन्त्रः समाम्नात इत्यर्थः ।
यदुक्तं समाख्याश्रुतिः साक्षा­त्पु­रो­डा­श­पा­त्र­म­न्त्र­सं­ब­न्ध­बो­धि­नीति , तत्राह –
समाख्या न तावदिति ।
यौगिकशब्देन हि विशिष्टं द्रव्यमुच्यते , न संबन्धः ; तद्वाचकत्वे हि संबन्धिनौ संबन्धश्चेति त्रयो वाच्याः प्रसज्येरन् । अतः सबन्ध आनुमानिक इत्यर्थः ।
आनुमानिकोऽपि संबन्धो न विशेषस्य साक्षा­त्सि­द्ध्यति , काण्ड­मा­त्र­वि­ष­य­त्वा­दि­त्याह –
न तु साक्षादिति ।
अपि च भवतु समाख्या श्रुतिः , सा श्रुत्या च संबन्धः वक्तुं , नासौ विशेषरूपो विनियोगः ।
स चेह विचार्यते , अतः संब­न्ध­मा­त्रा­भि­धा­नेऽपि नापे­क्षि­त­सि­द्धि­रि­त्याह –
न चासाविति ।
ननु यथा शौनः­शे­पो­पा­ख्या­ना­दि­क­म­भि­षे­च­नी­य­स­न्नि­धि­बा­धेन प्रक­र­णा­त्स­म­स्त­रा­ज­सू­याङ्गं निर्णी­त­मे­व­म­त्रापि सान्नाय्यक्रमं बाधित्वा सम­स्त­द­र्श­पू­र्ण­मा­सा­र्थ­त्व­मेव मन्त्रस्यास्तु , वृथा क्रमसमाख्ययोः प्राब­ल्य­दौ­र्ब­ल्य­चि­न्त­न­मत आह –
तत्रापि चेति ।
सामान्यतो दर्श­पू­र्ण­मा­स­प्र­क­र­णे­ना­पा­दि­त­मै­द­मर्त्यं यस्य स मन्त्रः , तथोक्तस्य यथा आरादुपकारतया शोनः­शे­पो­पा­ख्या­नादेः प्रकृ­त­मा­त्रा­र्थ­त्व­मेवं प्रकृ­त­मा­त्र­सं­ब­न्धा­नु­प­प­त्ति­रि­त्यर्थः ।
मन्त्रस्य दृष्टार्थत्वेन सन्नि­प­त्यो­प­का­र­क­त्व­माह –
मन्त्रस्येति ।
ननु दृष्टार्थत्वेन स्थाना­द­र्थ­वि­शे­ष­स­बन्धे प्रकरणं बाधितं स्यादत आह –
यं कंचिदिति ।
पदा­र्थ­श­क्त्य­पे­क्ष­त्वा­त्प्र­क­र­णस्य मन्त्रस्य क्वचिदेव प्रकाशनशक्तौ तन्मा­त्रो­प­का­र­क­त्वे­नापि प्रकरणस्वीकारो भवतीत्यर्थः । तदेवं प्रक­र­णा­पे­क्षि­त­वि­शे­ष­सं­बन्धः स्थानेन वा बोधनीयः समाख्यया वेति संदेहे निर्णयमाह – सान्नाय्यक्रम इति ।असन्निहितयोः संबन्धायोगात् संब­न्ध­सि­द्ध्यर्थं सन्नि­धि­मु­प­क­ल्प­य­ती­त्यर्थः ।
वैदिकेनेति ।
पौरो­डा­शि­क­स­माख्या हि पाठकैः कृता , सान्ना­य्य­पा­त्र­म­न्त्र­योस्तु क्रमो वेदेनैव कृत इत्यर्थः । आकाङ्क्षा कल्प्यते सान्ना­य्य­पा­त्र­म­न्त्र­यो­रि­त्यर्थः ।
यावच्च क्लृप्तेनेति ।
पुरो­डा­श­पा­त्र­म­न्त्र­यो­रि­त्यर्थः । एवमुत्तरत्र योज्यम् ।
अधि­क­र­ण­प­ञ्च­कार्थं वृद्धोक्त्या संकलयति –
एकेति ।
लिङ्गस्यैकया श्रुत्या श्रुत्यर्थं विनियोगं प्रति अन्तरयो व्यवधानं प्रतीयते । वाक्यस्य द्वाभ्यां लिङ्ग­श्रु­तिभ्यां , प्रकरणस्य वाक्य­लि­ङ्ग­श्रु­तिभिः तिसृभिः स्थानस्य प्रक­र­ण­वा­क्य­लि­ङ्ग­श्रु­ति­भि­श्च­त­सृभिः , समाख्यायाः स्थान­प्र­क­र­ण­वा­क्य­लि­ङ्ग­श्रु­तिभिः पञ्चभिः श्रुत्यर्थं प्रत्यन्तरयः प्रतीयते इत्यर्थः ।
सौकर्यार्थं बाध्यबाधकभावमपि विभज्यते –
बाधिकैवेति ।
मध्यमानां तु लिङ्गा­दी­ना­मु­त्त­रा­पे­क्षया बाधकत्वं पूर्वापेक्षया बाध्यत्वम् । तद्यथा - लिङ्गं वाक्यस्य बाधकं तदेव श्रुते­र्बा­ध्य­मि­त्या­दीति । निघ्नाः परवशीताः ।
एवं श्रुत्यादिषु बलाबले निरूप्य प्रस्तुते लिङ्गा­त्स­न्नि­धि­बाधे उप­यु­क्त­मु­दा­ह­र­ण­माह –
तस्मादिति ।
यः सोमं पिबति स इतरान् प्रत्यनुज्ञा याचते ते चानुज्ञा ददति । तत्रा­नु­ज्ञा­प­न­म­नु­ज्ञा­या­च­नम् , अनु­ज्ञे­त्य­नु­ज्ञा­न­दा­नम् । उपह्वयस्व अनु­जा­नी­ही­त्यर्थः । उपहूतः अनु­ज्ञा­तोऽ­सी­त्यर्थः । देश­सा­मा­न्या­त्पा­ठ­क्र­मा­दि­त्यर्थः ।
लिङ्गेनेति ।
आदौ ह्यनुज्ञापनं पश्चादनुज्ञेति लोकसिद्धम् । तत्रोपहूत इति मन्त्रो यद्यपि प्रथ­म­प­ठि­त­त्वा­द­नु­ज्ञा­पने प्राप्तः ; तथापि लिङ्गा­द­नु­ज्ञायां शेषत्वेन प्रतिपाद्यते । उपह्वयस्वेति च मन्त्रो यद्यपि चर­म­प­ठि­त­त्वा­द­नु­ज्ञायां प्राप्तः ; तथा­प्य­नु­ज्ञा­या­च­न­प्र­का­श­न­सा­म­र्थ्या­त्त­च्छे­ष­त्वेन प्रतिपाद्यते इत्यर्थः ।
प्रथ­म­त­न्त्रो­क्त­स्मा­र­णस्य प्रयो­ज­न­मा­श­ङ्का­न्त­र­नि­वृ­त्ति­रि­त्याह –
तथापीत्यादिना ।
विनि­यु­क्त­वि­नि­योगो न वस्तुनि विरुध्यते ; दध्ना जुहोति दध्ने­न्द्रि­य­का­मस्य जुहोतीत्येकस्य दध्न उभ­या­र्थ­त्व­द­र्श­नात् , अथ प्रतीतौ विरोधः अन्य­शे­ष­स्या­न्य­शे­ष­त्व­वि­रो­धा­द्य­द्दे­व­द­त्तीयं तद्यज्ञदत्तशेष इतिवत् , तर्ह्य­धि­ष्ठा­न­ल­क्ष­णया सोऽपि विरोधः शमयिष्यत इति चेद्विद्यायां मन्त्रस्य विनियोगेऽपि तत्तुल्यमित्याह –
स विद्यायामिति ।
न चैवमैन्द्र्या अपीन्द्रे गार्हपत्ये च विनियोगशङ्का ; एकस्मिन्प्रयोगे मन्त्रा­वृ­त्ति­प्र­स­ङ्गा­दिति । बृह­स्प­ति­स­वो­दा­ह­रणं तु कृत्वा चिन्त­ये­त्यु­क्त­मेव । अस्य पुनः स्मार­ण­स्या­भ्य­धि­का­श­ङ्के­त्यर्थः ।
प्रथमतन्त्रे हि श्रुत्या­दि­भि­र्लि­ङ्गा­दीनां बाध उक्तः , अत्र तु लिङ्गात् क्रमस्य बाधो नोच्यते , किंतु शीघ्रं लिङ्गेनान्यत्र विनियुक्ते मन्त्रे विलम्बेन क्रमस्य परिच्छेदकत्वमेव नास्तीति प्रतिपाद्यते तत्र क्रम­स्या­प­रि­च्छे­द­कत्वे ज्ञाते कुतो विनि­यु­क्त­वि­नि­यो­ग­श­ङ्के­त्याह –
नेहेति ।
श्लोकं विवृणोति –
प्रकरणेति ।
यद्यपि प्रथमेऽपि काण्डे लिङ्गादीनां श्रुत्या­दि­भि­र­प्रा­प्त­बाध एव दर्शितः ; तथापि तत्र दुर्बलप्रमाणात् प्राप्तिः शङ्कितुं शक्यते । गार्हपत्यस्य इन्द्रस्य च स्वस्व­प्र­का­श­क­त्वेन मन्त्रा­का­ङ्क्ष­त्वात् । इह तु विद्याया निरा­का­ङ्क्ष­त्वाद् मन्त्रकर्मणां चान्यत्र विनियुक्तत्वेन रक्त­प­ट­न्या­या­भा­वाच्च प्राप्तिरेव नास्तीति वैषम्यम् । भाष्ये बृहस्पतिसवस्य तुल्य­ब­ल­प्र­मा­ण­द्व­या­दु­भ­या­र्थत्वे स्थिते प्रवर्ग्यस्यापि बृहस्पतिसवेन तुल्य­त्वा­श­ङ्कायां सन्नि­धे­र्दु­र्ब­ल­त्वा­द­तु­ल्यत्वं प्रतिपादनीयम् ।
तथा च सति अपि­च­श­ब्दा­नु­प­प­त्ति­रि­त्या­शङ्क्य नाभ्यु­च्चा­यार्थः सः , किं त्वेत­दु­प­प­त्ति­सा­हित्यं पूर्वो­क्त­न्या­यस्य वदतीत्याह –
तुल्यबलतयेति ।
प्रमा­ण­यो­स्तु­ल्य­ब­ल­तया बृहस्पतिसवेन प्रवर्ग्यस्य या तुल्यताशङ्का तद­पा­क­र­ण­द्वा­रे­णे­त्यर्थः । बृह­स्प्त­ति­स­व­स्येति षष्ठी चन्द्रस्य तुल्यं मुख­मि­ति­व­त्तु­ल्या­र्थ­यो­ग­नि­ब­न्धना । अभिधातुं पदेऽ­न्य­स्मि­न्न­न­पेक्षो रवः श्रुतिः । सर्वभावगता शक्ति­र्लि­ङ्ग­मि­त्य­भि­धी­यते ॥ संहत्यार्थं ब्रुवन् वृन्दं पदानां वाक्यमुच्यते । प्रधा­न­वा­क्य­म­ङ्गो­क्त्या­काङ्क्षं प्रकरणं मतम् ॥ स्थानं समानदेशत्वं समाख्या यौगिको रवः । इति श्रुत्या­दि­ल­क्ष्योक्तं मीमां­सा­बु­द्धि­पा­रगैः ॥२५॥ अभि­चा­र­क­र्म­दे­व­ता­म­भि­चा­र­कर्ता प्रार्थयते हे देव मद्रिपोः सर्वमङ्गं प्रविध्य दारय हृदयं च दारय धमनीः सिराः प्रवृञ्ज विभज त्रोटय शिरश्च अभितो विदारय । एवं मद्रिपुस्त्रिधा विपृक्तो विश्लिष्टो भवत्वित्यर्थः । हरि­रि­न्द्र­नी­ल­स्त­द्व­न्नी­लोऽ­सी­तीन्द्रः संबोध्यते । मित्र आदित्यः । शं सुखम् करत् भूयादिति विद्या­र्थ्या­शास्ते । अग्निष्टोमो ब्रह्म स यस्मिन्नहनि क्रियते तदपि ब्रह्मात एव तद­ह­र­ह­र्नि­र्वर्त्यं कर्म य उपयन्ति अनितिष्ठन्ति ते ब्रह्मणैव साधनेन ब्रह्मा­प­र­मु­प­यन्ति प्राप्नुवन्ति , ते चामृतत्वं परं ब्रह्म चाप्नुवन्ति । पुत्रस्य दीर्घा­यु­ष्ठ्व­सि­द्धये छान्दोग्ये त्रैलोक्यं कोशत्वेन परि­क­ल्प्यो­पा­स­न­मु­क्तम् । तत्रायं पितुः प्रार्थ­ना­मन्त्रः । अमुनेति पुत्रस्य त्रिर्नाम गृह्णाति । अमुना डित्थानाम्ना सह भूरितीमं लोकं प्रपद्य इत्यर्थः ॥
इति चतुर्दशं वेधाद्यधिकरणम् ॥

हानौ तूपा­य­न­श­ब्द­शे­ष­त्वात् कुशा­च्छ­न्द­स्तु­त्यु­प­गा­न­व­त्त­दु­क्तम् ॥२६॥ यथा विद्यासन्निधौ श्रुतस्यापि मन्त्रा­दे­र्वि­द्या­या­म­सा­म­र्थ्या­द­नु­प­सं­हारः , एवं हानसन्निधौ श्रुत­स्या­प्यु­पा­य­नस्य तदन्तरेणापि हानसंभवेन हानो­प­पा­द­न­सा­म­र्थ्या­भा­वा­द­नु­प­सं­हार इति प्रापय्य प्रतिविधीयते । उपायनमित्यस्य व्याख्या­न­मु­पा­दा­न­मिति । सगु­ण­नि­र्गु­ण­त्वे­नेति । कौषी­त­कि­शा­खा­ग­त­प­र्य­ङ्क­विद्या हि सगुणेति ।
यद्यपि सगुणविद्यायां हान­स­न्नि­धा­वु­पा­यनं श्रुतम् ; तथापि निर्गु­ण­वि­द्यास्थं हानं तदाक्षिपति , तदन्तरेण तदनुपपत्तेरिति शङ्कते –
ननु यथेति ।
कर्तृभेदो नानावश्यकत्वे प्रयोजकः ; पर­क­र्तृ­क­हा­न­नि­य­तेन स्वक­र्तृ­को­पा­य­ने­ना­ने­का­न्ता­दि­त्यर्थः ।
यदुक्तं विद्या­भे­दा­द­नु­प­सं­हार इति , तत्राह –
कर्मान्तर इति ।
अश्व­रो­मा­दि­व­द्वि­धू­त­यो­रिति योजना ।
यदप्युक्तं हाने उपायनं नावश्यकमिति , तत्राह –
न ताव­त्प्रा­य­श्चि­त्ते­नेति ।
न केव­ल­म­श्व­रो­म­दृ­ष्टा­न्तात् सुकृ­ता­दि­वि­ल­या­भावः , किं तु विधूय प्रमुच्येति श्रुति­भ्या­म­पी­त्याह –
न च नष्ट इति ।
शब्द­स­न्नि­धि­कृ­तोऽपि विशेष इति । हानोपायनशब्दयोः कौषीतकिशाखायां सन्निधिरस्ति तत्कृतो विशेष इत्यर्थः ।
यद्य­श्व­रो­म­दृ­ष्टा­न्ता­द्वि­धू­तयोः सुकृतदुष्कृतयोः पर­त्रा­व­स्था­न­सा­पे­क्ष­त्वा­द­न्यत्र हानसन्निधौ श्रुतमुपायनं केव­ल­हा­न­श्र­व­णेऽ­प्य­पे­क्षि­त­त्वा­दा­या­तीति व्याख्यायते , कथं तर्हि भाष्यकारः स्तुति­प्र­क­र्ष­ला­भा­येति स्तुति­प्र­क­र्ष­मु­पा­य­नो­प­सं­हा­र­क­ल्पकं प्रमाणमाचष्टे ? अत आह –
स्तुति­प्र­क­र्ष­स्त्विति ।
स्तुतिर्हि विद्यायाः कार्या , सा च केव­ल­श्रु­त­हा­ने­ना­प्यु­प­प­द्यते । एवं हि प्रक­र्षोऽ­पे­क्ष्येत यद्यप्रकर्षे स्तुतिर्न स्यात्तच्च नास्ति , तस्मा­त्प्र­मा­णा­सि­द्ध­स्यो­पा­य­नो­प­सं­हा­रस्य प्रयोजनं भाष्ये उक्तमित्यर्थः ।
भाष्ये केनापि प्रकारेण पुरुषान्तरे सुकृ­त­दु­ष्कृ­त­यो­र­स­ङ्क्रा­न्ति­र­ङ्गी­कृ­तेति भाति , तच्चायुक्तम् ; फलद्वारेण सङ्क्रा­न्ति­सं­भ­वा­दि­त्या­श­ङ्क्याह –
यद्यपीति ।
वैश्वा­न­री­ये­ष्ठ्य­धि­क­रणं द्विती­य­सू­त्रेऽ­नु­क्रा­न्तम् । भाष्ये अतीवशब्दः सुकृ­ता­दि­स्व­रू­प­परः । स्तुत्य­र्थ­त्वा­च्चेति भाष्यस्य चान्यत्र विद्या­सा­म­र्थ्या­त्सु­कृ­त­दु­ष्कृ­त­फ­ल­सं­चा­र­रू­प­मो­क्षा­भि­धा­नेन विद्या­स्तु­त्य­त्वा­दि­त्यर्थः ।
गुणो­प­सं­हा­र­वि­व­क्षा­या­मु­पा­य­ना­र्थ­शै­वा­नु­वृत्तिं ब्रूयादिति भाष्येऽ­प्यु­पा­य­ना­र्थ­श­ब्देन सुकृ­त­दु­ष्कृ­त­स्व­रू­पो­पा­यनं विवक्षितं फलत उपा­य­न­स्यो­क्त­त्वा­दि­त्य­भि­प्रे­त्याह –
न स्वरूपत इति ।
संचार इत्य­भि­प्रा­य­मि­ती­ति­श­ब्दोऽ­ध्या­ह­र्तव्यः ।
स्तुतिगुणेति ।
स्तुत्युपयोगी गुणः सुकृतदुष्कृतयोः परत्र संचारः , तदुपसंहारो विचारितो यद्यपि स नोपास्य इत्यर्थः ।
कुशशब्दो हि न स्त्रीलिङ्गः ; अस्त्री कुश­मि­त्य­म­र­सिं­हे­ना­नु­शि­ष्ट­त्वाद् , अतस्तदविरोधेन सूत्रेण पदं छिनत्ति –
आच्छन्द इति ।
आडु­प­स­र्ग­स्या­र्थ­माह –
आच्छादनादिति ।
अनुष्ठातारं पापा­दा­च्छा­द­य­तीति आच्छन्द इत्यर्थः । श्रूयते हि छादयन्ति हि वा एनं छन्दांसि पापत्कर्मण इति । अत्र समिधः कुशा इत्युच्यन्ते । औदुम्बरा इति विशे­ष­णा­त्स­मि­द्वाची कुशाशब्दोऽन्य एव स्त्रीलिङ्ग इति लिङ्गा­न­भि­ज्ञा­ना­द्वा­च­स्पतिः पदं चिच्छेदेति – केचित् । तदतिमन्दम् ; अने­क­श­ब्द­त्व­स्या­न्या­य्य­त्वात् । कुशसंबन्धात् समित्सु कुशशब्दस्य तु लाक्ष­णि­क­त्वो­प­पत्तेः , यज्ञसंबन्धादिव गार्हपत्ये इन्द्रशब्दस्य । यदि तु कस्यां­चि­छ्रु­ता­वौ­दु­म्बर्य इति प्रयोगः स्यात्तर्हि स छान्दसो भवेद्भाष्ये च तस्या­नु­का­र­मा­त्रम् । तस्मात् - पद­वा­क्य­प्र­मा­णाब्धेः परं पारमुपेयुषः । वाच­स्प­ते­रि­य­त्य­र्थेऽ­प्य­बोध इति साहसम् ॥१॥
विक­ल्प­प­रि­हा­रार्थं वाक्यस्य पर्यु­दा­सा­र्थ­त्व­माह –
तदेतदिति ।
अष्टदोषा विकल्पस्य , तदभावो नाडीषु इत्यत्र दर्शिताः ।
पर्यु­दा­सा­धि­क­र­ण­वि­ष­य­माह –
एवमिति ।
‘‘आश्रावयेति चतुरक्षरम् अस्तु श्रौषडिति चतुरक्षरं यजेति द्व्याक्षरं येयजामहे इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै’’ इति सप्तदशाक्षरो मन्त्रगणः प्रजापतित्वेन स्तूयते ; प्रजापतेरपि सप्त­द­श­क­लि­ङ्ग­श­री­र­स­म­ष्टि­रू­प­त्वात् । यज्ञे यज्ञेऽ­न्वा­य­त्तोऽ­नु­गत इत्यनारभ्यवादेन वाक्येन सर्वयज्ञेषु मन्त्रगणो विनियुक्तः । तत्र यदि नानु­या­जे­ष्वि­त्ययं प्रतिषेधः तर्हि विधि­प्र­ति­षे­ध­स­न्नि­पा­ता­द्वि­कल्पः स्यात् ।
अथ पर्युदासः ततो विधेरेव वाक्यशेषः सन्न­नु­या­जा­ति­रि­क्त­या­गेषु येयजामहविधिपरः स्यात् , तदर्थं संशयमाह –
तत्रेति ।
ननु प्रतिषेधेऽपि कथं विकल्पप्राप्तिः ? प्रतिषेधेस्य प्रतिषेध्यं प्रति प्रबलत्वाद् भुज­ङ्गा­या­ङ्गु­लिर्न देयेतिवदिति शङ्कां निरा­कु­र्व­न्पू­र्व­प­क्ष­माह –
मा भूदित्यादिना ।
अर्थप्राप्तस्य भ्रम­गृ­ही­त­वि­ष­य­सौ­न्द­र्य­सा­म­र्थ्यात् प्राप्तस्य शास्त्रीयेण निषेधेन विकल्पो मा भूत् ।
अत्र कारणमाह –
दृष्टं हीति ।
तात्का­लि­क­श्रे­यः­सा­ध­नत्वं प्रत्यक्षबोधितं , प्रतिषेधेन तु काला­न्त­री­य­दु­रि­त­हे­तुत्वं ज्ञाप्यत इति विषयभेदेन तुल्या­र्थो­प­नि­पा­ता­भा­वान्न विकल्प इत्यर्थः ।
तर्हि कथं बाध्य­बा­ध­क­भा­व­स्त­त्राह –
आयत्यां भविष्यत्काले दुःखतो बिभ्यतमिति ।
यदिदानीं प्रवृत्तस्य सुखं दृश्यते तत्तुल्यमेव चेद्दुःखं कालान्तरे भवेत् , तर्हि व्यर्थोऽयं प्रतिषेधः ; प्रवृ­त्ते­र्दुः­ख­क­र­त्व­व­न्नि­वृ­त्ते­रपि सुखविगमे हेतुत्वात् । ततश्च दृष्टा­त्सु­खा­द­धिकं दुःखमस्तीति प्रतिषेधेन गमिते सत्यास्तिकानां प्रवृ­त्ते­रु­प­र­मात् प्रतिषेधस्य फलतो बाध­क­त्व­मि­त्यर्थः ।
ननु कथं षोड­शि­ग्र­ह­णा­ग्र­ह­ण­यो­र्वि­कल्पः ? अकरणेऽपि क्रतूपकारसिद्धौ करणवैयर्थ्यादत आह –
तत्र हीति ।
उप­का­र­भू­मा­र्थि­नोऽ­नु­ष्ठा­न­मु­प­का­र­मा­त्रा­र्थि­नोऽ­न­नु­ष्ठा­न­मिति विकल्प इत्यर्थः ।
शास्त्री­य­वि­धि­नि­षे­ध­यो­स्तु­ल्य­ब­ल­त्व­मि­त्यत्र जैमिनीयं सुत्रमुदाहरति –
तथाऽऽहेति ।
तुल्य­हे­तु­त्वा­दिति प्रति­षे­ध्य­प्राप्तेः प्रतिषेधस्य च तुल्य­प्र­मा­ण­क­त्वा­दि­त्यर्थः । तदेव दर्शयति – उभयं प्रवृ­त्ति­त­त्प्र­ति­षे­ध­रूपं शब्दलक्षणं शब्द­प्र­मा­ण­क­मि­त्यर्थः ।
शास्त्री­य­त्वेऽपि विधिनिषेधयोः सामा­न्य­वि­शे­ष­वि­ष­य­त्वे­ना­तु­ल्य­ब­ल­व­त्व­मा­श­ङ्क्याह –
न च वाच्यमिति ।
यजतिषु यागेषु येयजामहकरणं यागसामान्यं यावद्विषयीकरोति ताव­न्नि­षे­धोऽ­नु­याजे यागविशेष एव येय­जा­म­हा­नु­ष्ठानं निषेधति ।
निषिद्धे च विधेः सामान्यद्वारा विशे­ष­सं­क्रा­न्ति­र्नि­रु­ध्यते इति न च वाच्यम् ; कुतः ? अत आह –
यत इति ।
विध्योर्हि सामा­न्य­वि­शे­ष­वि­ष­य­यो­र्वि­धि­र्ब­ल­वान् ; परस्परं निरपेक्षत्वाद् , निषेधस्तु विधिप्राप्तं निषेधद् विशेषविषयोऽपि न विधेरधिकबलः ; प्राप्ति­सा­पे­क्ष­त्वेन विध्यु­प­जी­वि­त्वा­दि­त्यर्थः ।
तर्हि विधिरेव निषे­धे­नो­प­जी­व्य­त्वा­त्प्र­बलः स्यात् , तथा च कथं विक­ल्पा­व­का­श­स्त­त्राह –
न च सापेक्षतयेति ।
अन­न्य­ग­ति­क­त्वा­न्नि­षे­धस्य विधिना तुल्यबलत्वं कल्प्यमित्यर्थः ।
ननु नान­न्य­ग­ति­त्व­म­र्थ­वा­द­त्वेन गति­सं­भ­वा­दि­त्या­श­ङ्क्याह –
न च न ताविति ।
तावाज्यभागौ पशौ न करोति इति दर्शपूर्णमासयोः श्रूयते । तथा क्वचि­त्प­शु­प्र­क­र­णेऽपि । पशुप्रकरणस्थं तु वाक्य­म­ति­दे­श­वाक्यं प्रति शेषत्वेन पर्युदासः यत्प्र­कृ­ति­व­त्पशौ कर्तव्यं तदा­ज्य­भा­ग­व­र्ज­मिति । दर्श­पू­र्ण­मा­स­प्र­क­र­ण­गतं तु वाक्यं ज्योति­ष्टो­म­ग­त­द्वा­द­शो­प­स­त्ता­वा­क्य­वत् पशु­ग­ता­ज्य­भा­गा­भा­वा­नु­वा­द­द्वा­रे­णा­र्थ­वादः । पशावप्याज्यभागौ न क्रियेते । तौ पुन­र्द­र्श­पू­र्ण­मा­सयोः क्रियेते । तस्मात्प्रशस्तौ दर्श­पू­र्ण­मा­सा­विति । नैवमिहार्थवादः ।
हेतुमाह –
असमवेतेति ।
उदाहरणे तु समवेतार्थत्वेन वैषम्यमाह –
पशौ हीति ।
उप­प­द्य­तेऽ­र्थ­वा­द­ते­त्य­नु­षङ्गः ।
अस­म­वे­ता­र्थ­त्वा­दि­त्ये­त­द्वि­वृ­णोति –
न चात्रेति ।
अस्तु तर्हि पर्युदासत्वं गतिर्नेत्याह –
न च पर्युदास इति ।
नानु­या­जे­ष्वि­त्ययं यदि पर्युदासः स्यात्तदा सुबन्तेन नञो योगात्समासः स्यात्का­त्या­य­नेन समासनियमस्य स्मृत­त्वा­दि­त्यर्थः ।
न हि तत्रान्येति ।
विधि­नि­षे­ध­यो­रु­भ­यो­रपि विशे­ष­नि­ष्ठ­त्वान्न पर्युदाससंभव इत्यर्थः ।
ननु पर्युदासेऽपि किमिति न विकल्पः स्यात् ? अनु­या­ज­व­र्जि­ते­ष्वि­त्युक्ते येय­जा­म­ह­स्या­नु­या­ज­वि­च्छे­द­प्र­तीतेः सामान्यविधिना च संब­न्ध­प्र­ती­ते­रिति शङ्कते –
किमत इति ।
परिहरति –
एतदिति ।
अनु­या­ज­व्य­ति­रि­क्ते­ष्वि­त्युक्ते के त इति न ज्ञायन्ते ततोऽपर्यवसितं वाक्यं येऽनुयाजादन्ये ते यागा इति पर्यवसातुं पूर्व­वा­क्य­म­पे­क्षते , न पृथक् पर्यवस्यतीति न विकल्प इत्यर्थः ।
नन्व­नु­या­ज­व­र्जि­ते­ष्वि­त्युक्ते वर्ज­ना­भि­धा­ना­न्नि­षे­ध­त्व­मिति , नेत्याह –
तथा चेति ।
पूर्ववाक्ये येयजामहं प्रति शेषत्वेन बोधितानां यागा­ना­म­न­नु­या­जत्वं विशे­ष­ण­म­ज्ञा­त­म­नेन ज्ञाप्यत इति विधिशेषत्वान्न प्रति­षे­ध­ते­त्यर्थः ॥
अमृर्तयोः सुकृ­त­दु­ष्कृ­त­यो­श्चा­ल­नाऽ­नु­प­पत्तेः पूर्व­प­क्षा­स­म्भ­व­मा­शङ्क्य सिद्धान्तेऽपि साम्यमाह –
यथा हीति ।
ननूपायनं च विधूननं च यत्र कौषीतक्यादौ श्रूयते , तत्रो­पा­य­न­सि­द्ध्यर्थं हानमन्यत्र सञ्चार इति वक्तव्यं , तद्व­द­न्य­त्रा­प्यस्तु , तत्राह –
यत्र विधूननमात्रमिति ।
ननु विधूननशब्दस्य लाक्ष­णि­क­त्वा­वि­शेषे किमिति फला­र­म्भा­च्चा­ल­न­मेव लक्ष्यते ? न पुनरन्यत्र संचार इति , तत्राह –
कल्पनागौरवेति ।
अमूर्तयोः सुकृतदुष्कृतयोः स्वाश्र­या­द­प­स­र­ण­म­न्यत्र चावस्थानमिति विरु­द्धा­र्थ­द्व­य­ल­क्ष­णात् स्वाश्र­य­स्थ­यो­रेव तयोः फलात् प्रधावनं लघु­त्वा­ल्ल­क्ष­णी­य­मि­त्यर्थः ।
उपायनसन्निधौ श्रुतौ विधू­न­न­श­ब्द­स्ता­व­त्त्यागं लक्षयति , ततोऽन्यत्रापि केव­ल­वि­धू­न­न­श­ब्द­श्रुतौ प्रवृत्तत्वात् सैव लक्षणा बुद्धिस्था भवतीति न स्वफ­ला­च्चा­ल­न­ल­क्षणा , तस्या निवृ­त्त­त्वा­दि­त्याह –
यत्र तावदिति ।
ननु क्वचिद्येन शब्देन योऽर्थो लक्षितः स एव तस्या­न्य­त्रा­प्यर्थ इति न नियतं , न ह्यग्निरधीत इत्यत्र माणवको लक्षित इत्य­ग्नि­र्ज्व­ल­ती­त्य­त्रापि तदर्थता , अत आह –
एवं हीति ।
यदि केव­ल­वि­धू­न­न­श­ब्द­श्र­वणे चालनमर्थो लभ्येत , तर्हि प्रयोगान्तरे प्राप्तो लाक्षणिकार्थो न परिगृह्येत , न त्वेतदस्तीति प्राप्तत्याग एव लक्ष्यत इत्यर्थः ।
नन्वस्मिन्पक्षे कल्प­ना­गौ­र­व­मु­क्त­मत आह –
न च प्रामाणिकमिति ।
प्रवृत्तस्य लक्ष्यार्थस्य प्रयोगान्तरेऽपि बुद्धौ सन्निधानं प्रमाणं , तत आयातं प्रामाणिकम् ।
ननु चालने मुख्यो विधू­न­न­श­ब्द­स्त्यागे तु गौण इति , नेत्याह –
प्राचुर्येणेति ।
अवधूत इत्यादौ त्यागे धुनोतेः प्रयो­ग­द­र्श­ना­दि­त्यर्थः । अश्वो यथा जीर्णानि रोमाणि विधुनुते त्यजत्येवं पापं विधूय यथा चन्द्रो राहो­र्मु­खा­त्प्र­मुच्य भास्वरो भवति ; एवं धूत्वा शरीरं स्वच्छो भूत्वा ब्रह्म­लो­क­म­भि­स­म्भ­वामि प्राप्नो­मी­त्य­न्वयः । कृतः सिद्धः न पुन­र­पू­र्व­पु­ण्यो­प­च­येन साध्य आत्मा यस्य स कृतात्मा कृतकृत्य इत्यर्थः । ब्रह्मैव लोको ब्रह्मलोकः ॥२‍६॥
इति पञ्चदशं हान्यधिकरणम् ॥

सांपराये तर्त­व्या­भा­वा­त्तथा ह्यन्ये ॥२७॥ सिद्धं कृत्वा विद्यायाः कर्म­क्ष­य­हे­तुत्वं हान­स­न्नि­धा­वु­पा­य­नो­प­सं­हार उक्तः , इदानीं तदेवासिद्धं मार्गमध्ये श्रूयमाणस्य कर्मक्षयस्य विद्या­हे­तु­क­त्वा­भा­वा­दि­त्या­श­ङ्क्यते । अग्निहोत्रं जुहोतीत्यत्र पाठादर्थो बलीयानत एव श्रुतिरतिबलीयसी अर्थादपि तस्याः प्रब­ल­त्वा­दि­त्यर्थः ।
ताण्डिनां श्रुतिविरोधं परिहरति –
अर्धपथेऽपीति ।
विधूय पापमिति हि ब्रह्म­लो­क­प्राप्तेः प्राक्का­ल­तो­च्यते , सा चार्धपथे विधू­न­नेऽ­प्यु­प­प­द्यत इत्यर्थः ।
एवं शाट्यानिनामिति ।
अर्धपथ एवो­पा­य­न­सं­भ­वा­दि­त्यर्थः ।
ननु जीवत एव विधूननोपायने , न ; एवं श्रुत्य­भा­वा­दि­त्याह –
न हि तत्रेति ।
सर्व­ना­म­श्रु­ते­र­न्य­था­सि­द्धि­म­भि­धा­स्य­न्पा­ठ­क्र­म­भ­ञ्ज­क­म­र्थ­क्रमं तावदाह –
विद्या­सा­म­र्थ्ये­त्या­दिना ।
यवा­गू­पा­क­स्या­ग्नि­हो­त्रा­त्पू­र्व­का­लत्वे सामर्थ्यं होमस्य द्रव्या­पे­क्ष­त्वे­ना­व­ग­तम् ।
विद्यायाः पापक्षयहेतुत्वे किं प्रमाणमित्यत आह –
यमनियमादीति ।
श्रवणात् कौषी­त­कि­शा­खा­या­मिति शेषः ।
यमा­द्य­ङ्ग­स­हि­ताया विद्याया उत्त­र­मा­र्ग­द्वा­रेण ब्रह्म­लो­क­प्रा­प्ति­हे­तु­त्व­मस्तु , तावता कथं पाप­क्ष­य­हे­तु­त्व­मत आह –
अप्रक्षीणेति ।
तदनुपपत्तेः । ब्रह्म­लो­क­मा­र्ग­प्रा­प्त्य­नु­प­प­त्ते­रि­त्यर्थः ।
तादृशीति ।
यमा­दि­स­हि­ते­त्यर्थः ।
कथमेकस्या विद्याया उभयार्थत्वमत आह –
क्षपितेति ।
ब्रह्म­लो­क­प्रा­प­णा­र्थ­मेव पापक्षयं करोतीत्यर्थः ।
तच्छ­ब्द­श्रु­ति­वि­रो­ध­मु­क्त­म­नूद्य निराचष्टे –
ननु न पाठेत्यादिना ।
प्रधा­न­रू­प­प­रा­म­र्शि­त्वा­त्स­र्व­नाम्नो विद्यैव परामृश्यते , नान­न्त­र­नि­र्दि­ष्टोऽपि विर­जा­न­द्य­ति­क्रमः । अभ्युपेत्य तु समा­न­श्रु­ति­रि­त्यु­क्तम् ॥२७॥
शङ्का­ग्र­न्थो­क्त­दृ­ष्टा­न्ता­द्वै­ष­म्य­माह –
विद्याफलमपीति ।
अजनित्वा देव­भा­वे­ना­नु­त्प­द्ये­त्यर्थः । स्याज्जीवत एवेत्यत्र ग्रन्थच्छेदः ।
असङ्गतिरुक्तेति ।
विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते इति ग्रन्थे उक्ता याऽसङ्गतिः सा स्यादित्यर्थः ।
भास्करमतमनुवदति –
ये त्विति ।
छन्दः संकल्पः ।
विदुषि यः शुभं संकल्पयति तस्य तदीयं शुभं भवति अशुभं संकल्पयतस्तदीयं पापमित्यर्थतया छन्दत इत्येतत्पदं तन्मतेन व्याख्या­यो­भ­या­वि­रो­ध­पदं व्याचष्टे –
श्रुति­स्मृ­त्यो­रिति ।
‘ते नः कृतादकृतादेनसो देवासः पिपृत स्वस्तये’ इति श्रुति­र्भा­स्क­रो­दा­हृता । ते यूयं देवासो देवाः नः अस्मानद्य कृता­त्स्व­कृ­ता­द­कृ­ता­द­न्य­कृ­ता­दे­नसः पापात्पिपृत पालयत स्वस्तये क्षेमायेति श्रुतेरर्थः । अन्यकृतादपि भय­श्रु­ते­र­स्त्य­न्य­कृ­तस्य कर्मणोऽन्यत्र प्राप्तिरिति । ‘‘प्रियेषु त्वेषु सुकृतमप्रियेषु च दुष्कृतम् । “विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम्’’ इति मनुस्मृतिः ।
ननु श्रुति­स्मृ­ति­भ्या­मपि कथममूर्तयोः सुकृ­त­दु­ष्कृ­त­यो­रा­श्र­या­न्त­र­सं­चा­र­स्त­त्राह –
न त्वत्रेति ।एतद्व्याख्यानं दूषयति – तेषामिति ।
अयं हि विचारो भवन्नपि हानौ त्वित्यधिकरणे संगच्छते , नात्र ; ततः शङ्को­त्त­र­त्वे­ना­स्म­त्कृ­त­मेव व्याख्यानं भद्रम् । तस्य प्रियाः सुकृ­त­मु­प­य­न्त्य­प्रिया दुष्कृतमिति तद­धि­क­र­णो­दा­हृ­त­वा­क्या­देव निर्णीते वृथा च वाक्या­न्त­रो­दा­ह­र­णम् । यस्तु केशवेनास्य विचारस्यैवं तदधिकरणसङ्गम उक्तः । विद्व­द्व­र्ति­सु­कृ­त­दु­ष्कृ­ता­क­र्ष­ण­हे­तु­र्ज­नानां विदुषि शुभाशुभसंकल्पो जीवत्येव च विदुषि युक्तः ; ततश्च जीवदवस्थायामेव विदुषः कर्महानं नार्धपथ इति । सोऽसाधुः ; मार्गमध्यगतमपि विद्वांसं प्रति जनानां प्रीत्य­प्री­ति­सं­भ­वा­त्त­दापि सुकृ­ता­दि­सं­क्र­मो­प­प­त्ते­रि­त्यास्तां तावत् ॥२८॥
इति षोडशं सांपरायाधिकरणम् ॥

गते­र­र्थ­व­त्त्व­मु­भ­य­थाऽ­न्यथा हि विरोधः ॥२९॥
विद्यो­द­य­स­म­न­न्त­र­क्षण एव कर्मदहनमिति प्रसङ्गागतं निरूप्य प्रस्तु­त­गु­णो­प­सं­हा­र­चि­न्ताया अप­वा­द­क­त्वे­ना­धि­क­रणं संबन्धयन् पूर्वपक्षयति –
यथेत्यादिना ।
मोक्षा­र्थ­म­र्चि­रा­द्य­पेक्षा विद्यो­त्प­त्त्यर्थं वा , विदुषोऽपि द्वैतदर्शनेन यत्ना­न्त­रा­पे­क्ष­णाद्वा ।
नाद्यः ; विद्ययैव मोक्ष­श्र­व­णा­दि­त्याह –
विद्वा­नि­त्या­दिना ।
अन्यायमप्याह –
भ्रमनिबन्धन इति ।
द्वितीयं प्रत्याह –
न च विद्यो­त्पा­दा­येति ।
न तृतीय इत्याह –
यदि परमिति ।
भोगा­दा­र­ब्ध­क­र्म­क्षये द्वैत­द­र्श­नो­प­र­म­सि­द्धेर्न मार्गा­पे­क्षे­त्यर्थः ।
उक्तमर्थं निगमयति –
इति श्रुति­दृ­ष्ट­वि­रो­धा­दिति ।
श्रुति­र्नि­र­ञ्जनः परममिति । दृष्टं न्यायः ।
भास्करमतमाह –
ये त्विति ।
विदुषः पुण्यमपि निवर्तते चेद् भोग­प्र­यो­ज­का­भा­वाद् गतिर्वृथा स्यादित्यर्थः ।
अन्यथा हि विरोध इति सूत्रभागं तन्मतेन योजयति –
यदि पुनरिति ।
पुण्य­क्ष­येऽ­प्यु­पा­स्ते­र्भो­ग­प्र­यो­जि­काया विद्य­मा­न­त्वा­दा­श­ङ्का­नु­त्था­नेन दूषयति – तैरिति ॥२९॥ ।३०॥
इति सप्तदशं गते­र­र्थ­व­त्त्वा­धि­क­र­णम् ॥

अनियमः सर्वासामविरोधः शब्दा­नु­मा­ना­भ्याम् ॥३१॥ सगु­ण­नि­र्गु­ण­वि­द्यासु गति­भा­वाऽ­भा­व­व्या­व­स्था­व­त्स­गु­णा­स्वपि व्यव­स्था­प्राप्तौ तद­प­वा­दा­र्थ­मा­र­भ्यते ।
ननु ब्रह्म­लो­क­प्रा­प्ते­र्ग­त्य­पे­क्ष­त्वा­त्त­त्फ­लासु सकलसगुणविद्यासु लिङ्गा­द्ग­ति­सिद्धेः कथं प्रकरणेन दुर्बलेन गतिव्यवस्था शङ्क्यते ? तत्राह –
प्रकरणं हीति ।
लिङ्गस्य सामा­न्य­सं­ब­न्ध­सा­पे­क्ष­त्वा­त्प्र­कृते च तद­भा­वा­द­वि­नि­यो­ज­कत्वे प्रक­र­णा­द्व्य­व­स्थे­त्यर्थः ।
यदि पञ्चा­ग्नि­वि­द्यासु श्रुतापि गति­र्वि­द्या­न्तरे संचार्येत , ततोऽतिप्रसङ्ग इत्याह –
यदि त्विति ।
प्रक­र­ण­स्या­नि­या­म­कत्वे यत्र क्वचिच्छ्रुतं सर्वत्र श्रुतिमेवेति दर्श­पू­र्ण­मा­स­वि­कृ­तिषु सौर्यादिषु ज्योति­ष्टो­म­वि­कृ­तिषु द्वादशाहादिषु च प्राकृ­त­ध­र्मा­णा­म­ति­दे­शतः प्राप्तिर्न स्यात्सर्वेषां सर्व­त्रौ­प­दे­शि­क­त्व­प्र­स­ङ्गा­दि­त्याह –
न च तेषामिति ।
अति­प्र­स­ङ्गा­न्त­र­माह –
न च दर्विहोमस्येति ।
‘‘यदेकया जुहु­या­द्द­र्वि­होमं कुर्यादि’’ति श्रूयते । यत्रैकया ऋचा जुहुयाद् होतुमारभेत , तत्र दर्विहोमं कुर्यादित्यर्थः । ये होमाः कुत­श्चि­त्प्र­कृ­ते­र्धर्मं न गृह्णन्ति , न च केभ्य­श्चि­त्स्व­धर्मं प्रयच्छन्ति , तेषां दर्विहोम इति नाम , तेषु नाऽऽरा­दु­प­का­र­क­म­ङ्ग­मस्ति । तत्र दर्विहोमा धर्मग्राहिणो न वेति संदेहे उत्प­त्ता­व­श्रु­त­दे­व­ता­त्म­काऽ­व्य­क्त­त्वेन सोमयागसाम्यात् तद्वि­कृ­ति­त्वा­त्त­द्ध­र्म­प्रा­प्ता­व­ष्टमे सिद्धान्तितम् - अग्निहोत्रं जुहोतीत्यादेरिव दर्विहोमस्य होमत्वात् सोमस्य च यागत्वाद् वैषम्येण न प्रकृ­ति­वि­कृ­ति­भावः । अव्यक्तत्वं च सति यागत्वे विशे­ष­सं­ब­न्ध­नि­मित्तं न याग­हो­म­त्व­रू­पा­त्य­न्त­वै­ल­क्षण्ये प्रकृ­ति­वि­कृ­ति­भा­व­म­व­ग­म­यि­तु­म­र्हति । अस्तु तर्हि नारि­ष्ट­हो­म­प्र­कृ­ति­कत्वं दर्विहोमानाम् ? तदपि न ; न ताव­द­ग्नि­हो­त्रस्य नारि­ष्ट­प्र­कृ­ति­क­त्व­मु­भ­य­त्रापि कति­प­य­ध­र्म­स­द्भा­वे­ना­गृ­ह्य­मा­ण­वि­शे­ष­त्वात् । नच होमान्तराणां नारि­ष्ट­प्र­कृ­ति­क­त्वम् ; तेषां नारि­ष्ट­प्र­कृ­ति­क­त्व­म­ग्नि­हो­त्र­प्र­कृ­ति­कत्वं वेत्य­वि­नि­ग­म­प्र­स­ङ्गात् । तस्मादपूर्वो दर्विहोम इति । तदे­व­म­प्र­कृ­ति­वि­कृ­ति­भू­तस्य दर्वि­हो­म­स्या­ध­र्म­कत्वं सिध्यति । प्रक­र­ण­स्या­नि­या­म­कत्वे यत्र क्वापि श्रुतस्य दर्वि­हो­म­शे­ष­त्वा­प­त्ते­रि­त्यर्थः ।
अपि च प्रक­र­ण­स्याऽ­नि­या­म­कत्वे सर्वे धर्माः सर्वकर्मणां स्युः , तथा चाश­क्या­नु­ष्ठा­न­ते­त्याह –
न च सर्वधर्मेति ।
ननु प्रक­र­ण­स्या­नि­या­म­क­त्वेऽपि श्रुत्यादिभिः शेषशेषिभावावगमः स्यादत आह –
न चैवं सतीति ।
श्रुत्यादयो हि द्विप्रकाराः केचित्सामान्येन प्रवर्तन्ते यथा व्रीहीन् प्रोक्षतीति , केचिद्विशेषतो यथेन्द्र्या गार्हपत्यमिति ।
आद्येष्वाह –
तेषामपीति ।
इत­र­थाऽऽ­न­र्थ­क्या­दि­त्यर्थः ।
द्वितीयेष्वाह –
यत्रापीति ।
विशेषतस्तु श्रुति­वि­नि­यु­क्त­स्यापि धर्मस्य प्रक­र­णा­न­पे­क्षा­या­मा­न­र्थ­क्य­मेव स्यात् । न ह्यैन्द्र्या गार्ह­प­त्य­प्र­का­श­न­मा­त्रेण किंचित्फलं लभ्यमित्यर्थः । यत्र स्वयमेव प्रकरणं विनियोजकं यथा प्रयाजादिषु , तत्र विनियोगाय यत्र श्रुत्यादीनि विनियोजकानि तत्र विनि­यो­ग­नि­र्वा­हाय प्रक­र­ण­म­व­श्या­भ्यु­पे­य­मि­त्यर्थः ।
प्रकरणस्य वाक्या­द्बा­ध­मा­श­ङ्क्याह –
न च ये चेति ।
छान्दो­ग्य­स्थ­प­ञ्चा­ग्नि­वि­द्या­वा­क्य­ग­त­श्र­द्धा­त­प­सो­र्वा­क्या­न्त­र­व­शेन विद्या­ल­क्ष­णा­र्थत्वं व्याख्याय वाक्येन प्रकरणबाधया सर्व­स­गु­णा­हं­ग्र­ह­वि­द्या­ना­म­र्चि­रा­दि­द्वारा ब्रह्म­लो­क­प्रा­प्ति­सा­ध­न­त्व­मु­क्तम् , इदानीं वाज­स­ने­य­क­ग­त­प­ञ्चा­ग्नि­वि­द्यायां साक्षा­त्स­त्य­ब्र­ह्मो­पा­स­न­स्या­र्चि­रा­दि­प्रा­प्ति­सा­ध­न­त्व­प्र­ती­ते­र­प्ये­व­मे­वे­त्याह –
तथान्यत्रापीति ।
ननु सत्यशब्देन फलाऽ­व्य­भि­चा­रा­त्प­ञ्चा­ग्नय एवोच्यन्ताम् , अत आह –
पञ्चाग्निविदां चेति ।
न केवलं लौकि­क­स­त्य­स्या­पे­क्षि­क­त्वाद् ब्रह्मणश्च निर­ङ्कु­श­स­त्य­त्वा­त्स­त्य­मु­पा­सत इति ब्रह्मोपासनाया ग्रहणमपि तु पञ्चा­ग्नि­वि­द्या­स­न्नि­धा­ना­द­पी­त्याह –
विद्या­सा­ह­च­र्या­च्चेति ।
दक्षि­णो­त्त­र­मा­र्ग­ही­ना­नाम’’थ य एतौ पन्थानौ न विदु’’रि­त्य­धो­ग­ति­श्र­व­णा­द्वि­द्या­न्त­र­शी­लानां मार्ग­द्व­येऽ­न्त­र्भा­व­श्चे­त्त­र्ह्यु­पा­स­कानां दक्षि­ण­मा­र्ग­प्रा­प्ति­र­स्तीति , नेत्याह –
तत्रापि च योग्यतयेति ।
विद्यया तदारोहन्तीति विद्यादेवयानयोः सबन्धुं योग्यतयेत्यर्थः ।
यत्तु प्रक­र­ण­स्या­नि­या­म­कत्वे दूषणजातमुक्तं , तद­न­ङ्गी­का­र­प­रा­स्त­मि­त्याह –
भवेत्प्रकरणमिति ।
वाक्य­बा­धि­त­वि­ष­या­द­न्यत्र प्रकरणस्य नियामकत्वमिष्यत इत्यर्थः । श्रौतं वाक्यं ये चेमेऽरण्ये श्रद्धा सत्यमुपासत इत्यादि , स्मार्ते शुक्लकृष्णे गती ह्येते इत्यादि । विद्या­न्त­रे­ष्वपि देवयानः पन्था अस्तीति शेषः ।
यत्तूक्तमेकस्य श्रुतस्य मार्गस्य सर्व­त्रो­प­सं­हा­र­श्चे­त्त­र्ह्यु­प­को­स­ल­वि­द्यायां पञ्चा­ग्नि­वि­द्यायां चानेकत्र मार्गो­क्ति­वै­य­र्थ्य­मिति , तत्राह –
असकृदिति ।
उभ­य­त्रा­नु­चि­न्तनं भाष्योक्तं प्रयोजनम् ॥३१॥ यत्र यस्मिन्प्राप्ते कामाः क्षुद्रविषयाः परागता निवृत्ता भवन्ति तद् ब्रह्मलोकाख्यं स्थानं विद्य­याऽऽ­रो­हन्ति तत्र च स्थाने दक्षिणा दक्षिणमार्गगा न यन्ति । तप­स्वि­नोऽ­प्य­वि­द्वांसो न यन्ति , ये एत­त्प­ञ्चा­ग्नि­रूपं विदुः ये चारण्ये स्थित्वा इमे वनस्थादयः श्रद्धां कृत्वा सत्यमवितथं परं ब्रह्मोपासते , उभ­येऽ­प्य­र्चि­रा­दि­मार्गं प्राप्नुवन्तीति शेषः । एतौ पन्थानौ दक्षिणोत्तरौ ये न विदु­रे­त­त्प्रा­प्ति­सा­धनं नानु­ति­ष्ठ­न्ती­त्यर्थः । ते कीटादयो भवन्ति , कीटा गोमयादिसंभवाः । पतङ्गाः शलभाः । दन्दशूकः सर्पः ॥
इत्य­ष्टा­द­श­म­नि­य­मा­धि­क­र­णम् ॥

याव­द­धि­का­र­म­व­स्थि­ति­रा­धि­का­रि­का­णाम् ॥३२॥ निर्गु­ण­वि­द्यायां गतिंप्रतिषिध्य सगुणविद्यायां गति­प्र­यो­ज­कै­श्व­र्य­वि­शे­ष­द­र्श­ना­द्ग­ति­र­र्थ­व­ती­त्यु­क्तम् । सगुणासु च गतेः सार्वत्रिकत्वं वर्णितम् । इदानीं निर्गुणविद्याया अपि मोक्ष­हे­तु­त्वाऽ­नु­प­प­त्ते­रै­श्व­र्य­फ­लत्वं वक्तव्यम् , ऎश्वर्यविशेषश्च न गतिमन्तरेणेति सगुणास्विति विशेषणं च व्यर्थ­मि­त्य­भि­हि­त­व्य­व­स्था­क्षे­पेण प्रत्यवस्थीयते ।
तत्रो­प­रि­त­न­क­ति­प­या­धि­क­र­णानां तात्पर्यमाह –
सगुणायामिति ।
अपु­न­रा­वृ­त्ति­र्हीति ।
पुन­र्दे­हा­नु­पा­दा­न­मि­त्यर्थः । ननु पुन­र्दे­हा­नु­पा­दानं नापवर्गः , किंत्विदानीं प्रवृ­त्त­फ­ल­क­र्म­ज­न्य­भा­वि­दे­ह­सं­ब­न्धा­भावः ।
वसिष्ठादीनां च सोऽस्तीति कथं नापवर्ग इत्याशङ्क्याह –
न च तावदेवेति ।
भाविदेहस्य सर्व­स्या­प्र­वृ­त्त­फ­ल­क­र्म­ज­न्य­त्वा­द्व­सि­ष्ठा­दयो यदि देहान्तरं गृह्णी­यु­स्त­र्ह्य­प्र­वृ­त्त­फ­ल­क­र्म­ज­न्य­दे­ह­त्वा­न्मुक्त्वा न स्युः । अतश्च यदि प्रवृत्तफलं कर्ममात्रं प्रती­क्षे­रं­स्तर्हि वसि­ष्ठा­दि­दे­ह­मा­त्रा­र­म्भकं प्रती­क्षे­र­न्निति देहा­न्त­र­ग्र­ह­णा­नु­प­प­त्ति­रि­त्यर्थः ।
यच्च वसिष्ठादीनां प्रार­ब्ध­क­र्म­प्र­ती­क्षा­या­म­स्म­दा­दि­वि­द्व­न्नि­द­र्शनं , तद­प्य­सि­द्ध­मि­त्याह –
न च तावदिति ।
विद्याकर्मणोः सुष्ट्वनुष्ठानं विद्या­क­र्म­स्व­नु­ष्ठा­नम् । प्रतिबन्धापगमे गुरुत्वं न न हेतुरपि तु हेतुरेवेत्यर्थः । सेतुभेदेन हेतुनाऽपि निम्नदेशमापो नाभिसर्पन्तीति न ,अपि तु अभि­स­र्प­न्त्ये­वे­त्यर्थः । आवर्जितो वशीकृतः । ध्रियते प्रतिबध्यते । प्रार­ब्ध­म­धि­का­र­ल­क्षणं फलं याभ्यां विद्याकर्मभ्यां ते प्रार­ब्धा­धि­का­र­ल­क्ष­ण­फले विद्याकर्मणी इत्येको बहुव्रीहिः तादृशे विद्याकर्मणि यस्य स प्रार­ब्धा­धि­का­र­ल­क्ष­ण­फ­ल­वि­द्या­कर्मा पुरुष इत्यपरः । सौभ­रि­व­द्यु­ग­प­त्क्र­मेण वेति प्रवृत्तफलादेव कर्मणो नाना­दे­ह­प्रा­प्ति­रुक्ता । मुक्तो जीवन्मुक्तः ।
अना­भो­गा­त्मि­क­येति ।
अवि­स्ता­रा­त्मि­कया । प्रख्यया प्रतीत्या दृढाभिमानेन रहितयेत्यर्थः । विहरति चेष्टते ।
सकृ­त्प्र­वृ­त्त­मिति भाष्ये किमर्थं प्रवृत्तः कर्मसमूह इति न ज्ञायतेऽतः पूरयति –
अधिकारेति ।
ननु प्रवृत्तफलं कर्माशयं भोगे­ना­ति­वा­ह­यन्तु , अप्रवृत्तफलानां तु कथं निवृत्तिरत आह –
प्रार­ब्ध­वि­पा­कानि त्विति ।
व्यपगतानि निवृत्तानि ।
तत्र हेतुः –
ज्ञानेनैवेति ।
जाति­स्म­र­स्या­धि­का­रि­क­पु­रु­षा­द्वै­ष­म्य­माह –
यो हीति ।
परित्याज्यते परित्यक्तत्वेन क्रियते ।पू­र्व­ज­न्मा­नु­भू­त­स्येति कर्मणि षष्ठी ।
स जन्मवानिति ।
जातोऽ­ह­मि­त्य­बा­धि­ता­भि­मा­न­वा­नि­त्यर्थः ।
आधि­का­रि­क­पु­रु­षस्य जाति­स्म­रा­द्वै­ष­म्य­माह –
गृहादिवेति ।
बाधितदेहाभिमान इति प्रदर्शनार्थं गृहोदाहरणम् ।
व्युद्येति भाष्यपदमुपादाय व्याचष्टे –
विवादं कृत्वेति ।
व्यतिरेकमाहेति ।
प्रवृत्तफलमेव कर्म भोगेन क्षप­य­न्त्या­धि­का­रिका इत्युक्तं , तस्य व्यति­रे­क­मु­प­न्यस्य दूषयतीत्यर्थः ।
प्रवृ­त्त­फ­लाऽ­ने­क­क­र्म­ज­न्य­फ­ल­भो­ग­स्या­धि­का­रि­ष्व­पी­ष्ट­त्वा­त्क­र्मा­न्त­र­शब्दं व्याख्याति –
अप्रारब्धेति ।
त्वं तदसि वर्तस इति ब्रह्मात्मत्वं जीवस्य वर्तत इत्यु­क्तेऽ­नु­भ­वा­रू­ढत्वं ब्रह्मा­त्म­त्वस्य न प्रती­त्य­तेऽ­र्थ­स­त्ता­मा­त्र­स्यो­क्त­त्वा­दि­त्या­श­ङ्कायाः परिहारमाह –
वर्त­मा­ना­प­दे­श­स्येति ।
स्वप्रकाशं ब्रह्मात्मत्वमत उपदिष्टे तस्मिन्ननुभवेन भाव्यम् ; अज्ञानस्य प्रति­ब­न्ध­क­स्या­प­नी­त­त्वात् । न चेदनुभूयेत , तर्हि तदिदानीं नास्तीति मृतस्त्वं तद् भविष्यसि इत्यध्याहार्यम् । अतोऽ­ध्या­हा­र­भ­याद् वर्तमानापदेश उत्तमाधिकारिणं प्रत्य­नु­भ­व­प­र्य­न्त­ता­मपि गमयतीत्यर्थः ॥ अथ आधि­का­रि­कै­श्व­र्य­प्रा­प­क­क­र्म­क्ष­या­न­न्तरं ततः पदादूर्ध्वः विलक्षणः सन् साक्षादेत्य उद्गम्य नैवोदेता नास्त­मे­ताऽऽ­दित्यः किं तर्ह्येकल एव मध्ये स्वात्मनि स्थाता ॥३२॥
इत्येकोनर्विशं याव­द­धि­का­रा­धि­क­र­णम् ॥

अक्षरधियां त्ववरोधः सामा­न्य­त­द्भा­वा­भ्या­मौ­प­स­द­व­त्त­दु­क्तम् ॥३३॥ पूर्व­त्रा­धि­का­रिणां प्रारब्धकर्मण एव शरी­रा­न्त­रा­र­म्भ­सं­भ­वेन कर्मान्तरस्य निमि­त्त­ते­त्यु­क्तम् , एवमिहापि तत्त­त्प्र­क­र­ण­प­ठि­त­नि­षे­धेभ्य एवोपलक्षणतया सर्व­प्र­प­ञ्च­नि­षे­ध­सि­द्धेर्न शाखा­न्त­री­य­नि­षे­धानां तत्र ब्रह्म­प्र­मि­ति­हे­तु­त्व­मि­त्या­श­ङ्क्यते । अक्षरस्य धियोऽक्षरधियः ।
अक्षरे धर्मिणि प्रप­ञ्च­प्र­ति­षे­ध­धिय इत्यर्थे सूत्रपदं व्याचष्टे –
अक्ष­र­वि­ष­या­णा­मिति ।
प्रति­षे­ध­सा­मा­न्या­दिति ।
प्रतिषेधानां भूम­नि­व­र्त­क­त्व­सा­मा­न्या­दि­त्यर्थः ।
तस्यैवैष प्रपञ्च इति ।
अस्यार्थः - भवेद् ब्रह्म­स्व­रू­प­त्वा­दा­न­न्दा­द्यु­प­सं­हृतिः । निषे­धा­ना­म­ना­त्म­त्वा­न्नो­प­सं­हा­र­सं­भवः ॥१॥ आनन्त्याच्च निषेध्यानां तन्निषेधधियामपि । असंख्येयतयैकत्र कथं शक्योपसंहृतिः ॥२॥ स्थाली­पु­ला­क­व­त्किं­चि­न्नि­षे­धे­ना­न्य­ल­क्षणे । यथाश्रुतेन तत्सि­द्धे­रु­प­सं­ह­रणं वृथा ॥३॥ इत्या­श­ङ्का­नि­वृ­त्त्य­र्थ­मे­त­द­धि­क­र­णम् ॥
निवृ­त्ति­प्र­का­रस्तु - प्रतिषेधा अना­त्मा­नोऽ­प्या­त्म­ल­क्ष­णतां गताः । आत्म­प्र­मि­ति­सि­द्ध्यर्थं संया­स्य­न्त्य­श्रु­त­स्थले ॥४॥ न च निषे­धा­न­न्त्या­द­नु­प­सं­हारः ; प्रपञ्चो हि निषेध्योऽत्र भूतं वा भौतिकानि वा । इन्द्रियाणि शरीरं वाऽविद्या वा विश्वकारणम् ॥५॥ एषां परिमितत्वेन निषेधपरिमेयतः । साकाङ्क्षेषु निषेधेषु गच्छेयुः पूर्तये परे ॥६॥ तत्रा­प्य­स्थू­ल­वा­क्य­प­रि­पूर्णो निषेधः ; अस्थू­ल­मि­त्या­द्य­दी­र्घ­मि­त्य­न्तेन शरीरनिषेधात् , अतम इत्य­वि­द्या­नि­षे­धात् ; अबा­ह्य­म­ना­का­श­मिति भूतनिषेधात् , अच­क्षु­ष्क­मि­त्या­दि­ने­न्द्रि­य­नि­षे­धात् , अन्यत्र त्वस्मादुपसंहार इति सूचयितुं भगवता सूत्र­का­रे­णा­क्ष­र­धि­या­मि­त्यु­क्तम् । भाष्य­का­रे­णौ­प­स­द­व­दिति सूत्रो­क्त­दृ­ष्टा­न्त­वि­व­र­णाय जाम­द­ग्न्या­ही­न­ग­त­मन्त्रा उदाहृताः । त एव गुणा मुख्या­धि­क­र­ण­वि­षया इति च सूचितम् । प्रधा­न­क­र्म­त्वा­च्चा­ङ्गा­ना­मिति तत्रैव सूत्रयोजनात् ।
शाबरतन्त्रे चान्य­दु­दा­हृ­त­मिति विरोधमाशङ्क्याह –
यद्यपीति ।
वार­व­न्ता­दि­प­द­वन्ति सामानि वारवन्तीयादीनि वार­य­न्ती­या­दे­र्वे­द­सं­योग इति वेदसंयोगे सिद्धे तत्रत्येनैव स्वरेण स्वरवत्त्वं च सिद्ध्य­ती­त्य­भि­प्रायः । विनि­यु­ज्य­मा­न­त्वस्य मुख्यत्वेनेति । तद्धि फल­स­न्नि­क­र्षा­न्मु­ख्य­मिति ।
ननु सर्वेषां विधी­ना­मु­त्प­त्ति­वि­नि­यो­गा­धि­का­र­प्र­यो­गा­त्म­क­त्वा­त्कथं विधीनां शेष­शे­षि­त्व­मि­त्य­त्राह –
एतदुक्तमिति ।
विधित्वं हि अपे­क्षि­तो­पा­य­त्व­रू­पम् । तत्रा­नु­ष्ठे­य­भा­वा­र्थ­ज्ञा­ना­दु­त्प­त्ति­रस्ति । अस्ति च किंचि­त्प्र­ति­शे­ष­त्वा­द्वि­नि­योगः । अस्ति च फलसाधने स्वामित्वं पुरुषस्याधिकारः अस्ति चानु­ष्ठे­य­त्व­बो­धात् प्रयोग इत्यु­त्प­त्ति­वि­धा­वपि विद्यते चातूरूप्यमिति ।
ऐदंपर्यभेदे हेतुमाह –
एकस्यैव हि विधेरिति ।
विधे­र्वि­ध्य­र्थस्य उत्पत्त्यादिषु मध्ये यद्ये­क­म­प्रा­प्त­मि­त­राणि प्राप्तानि , तर्हि तदेव रूपं वाक्ये­नो­ल्लि­ख्यते नेतराण्यन्यतः प्राप्तेः । यदि सर्वा­ण्य­न्य­तोऽ­प्रा­प्तानि , तर्ह्यगत्या सर्वा­ण्यु­ल्लि­ख्यन्ते इत्यर्थः ।
प्रकृते तु विनि­यो­गा­दे­र­न्यतः प्राप्ते­रु­त्प­त्ति­मा­त्र­प­र­त्व­मि­त्याह –
तत्रेति ।
समी­हि­ता­र्था­प्र­ति­ल­म्भा­दिति ।
समीहितशेषः समीहितार्थः । भावप्रधानो निर्देशः । हितसाधनत्वं तद­प्र­ति­ल­म्भा­दि­त्यर्थः ।
तदर्थान्येवेति ।
विनि­यो­ग­वा­क्या­र्था­न्ये­वे­त्यर्थः ।
भवतु साम्नः सामवेदे उत्प­त्ति­र्य­जु­र्वेदे च विनियोगस्ततः किं जातमत आह –
तत्र येन वाक्येनेति ।
येन वाक्येन सामानि विनियुज्यन्ते तस्यैव तद्वा­क्य­प्र­का­शि­त­त्व­कृ­तस्य उपांशुस्वरस्य ग्रहणं युक्तम् । तस्य साध­न­त्व­सं­स्प­र्शात् , विनियोगदशायां हि साम्नां साधनत्वं ज्ञायते नोत्पत्तिदशायां , साधनत्वं च प्रधानम् । उत्प­त्ति­वा­क्य­प्र­का­शि­त­त्व­नि­मित्तः स्वरः साम­रू­प­मा­त्र­सं­स्पर्शी , उत्प­त्ति­वा­क्यस्य रूप­मा­त्र­प्र­का­श­क­त्वा­दि­त्यर्थः ॥३३॥
इति विंश­म­क्ष­र­ध्य­धि­क­र­णम् ॥

इयदामननात् ॥३४॥
पुन­रु­क्ति­मा­श­ङ्क्याह –
गुहामिति ।
पूर्वत्र प्रति­पा­द्य­ब्र­ह्म­प्र­त्य­भि­ज्ञा­ना­द्वि­द्यै­क्येऽ­क्ष­र­धि­या­मु­प­सं­हारः उक्तः , इह तु प्रति­पा­द्य­भे­दा­द्वि­द्या­भेद इत्याह –
एकत्रेति ।
सिद्धोऽर्थः प्रपञ्च्यत इत्युक्तम् , तमेव प्रप­ञ्च­प्र­का­र­माह –
न च सृष्टीति ।
यथा ‘‘सृष्टी­रु­प­प­द­धाती’’ति सृष्ट्य­सृ­ष्टि­म­न्त्र­के­ष्ट­का­स­मू­ह­ल­क्ष­णया सर्वसमूहिपरो भवति , एवं पिबच्छब्दोऽपि पिबदपिबत्पर इत्यर्थः । सृष्ट्यधिकरणं गुहा­प्र­वि­ष्टा­धि­क­रणे (ब्र.अ.१ पा.२ सू.११)ऽनु­क्रा­न्तम् । ननु ‘यः सेतु­री­जा­ना­ना­म­क्षरं ब्रह्म यत्पर’मिति वाक्यशेषे पर­मा­त्म­प्र­ति­पा­द­ना­त्त­स्यैव जीव­द्वि­ती­य­त्वा­द­भो­क्तृ­त्वाच्च पिबन्तावित्यत्र भोक्त्रभोक्तारौ प्रतिपाद्येते ।
तथा च छत्रिन्यायेन पिब­न्ता­वि­त्ये­त­ल्ला­क्ष­णि­क­मिति , नेत्याह –
न च वाक्य­शे­षा­नु­रो­धा­दिति ।
ननु ‘‘अन्यत्र धर्मादि’’ति प्रकरणात् पिबन्तावित्यत्र जीवद्वितीयः परमात्म प्रतीयते इति , नेत्याह –
प्रकरणस्येति ।
उत्पत्तौ प्रथमप्रतीतौ । वस्तु­प्र­ती­त्य­न­न्तरं प्रतीतौ हि न संख्याया वस्त्वै­क्य­ग­म­कत्वं स्यादिति । न वयं वाक्यशेषाद्वा केव­ला­त्प्र­क­र­णाद्वा पिबन्तावित्यस्य लाक्षणिकत्वं ब्रूमः , किं तु उभाभ्याम् । तथा च सन्द­र्भ­स्यै­क­वा­क्य­त्वा­व­ग­मात् जीव­प­र­मा­त्म­प­र­त्वम् ।
तथा च तन्मध्यपतितं पिब­न्ता­वि­त्ये­त­दपि लाक्षणिकमित्याह –
सा चोप­क्र­मो­प­सं­हा­रेति ।
उपां­शु­या­जा­धि­क­रणं समन्वयसूत्रे (ब्र.अ.१.पा.१. सू.४)ऽनु­क्रा­न्तम् । पिब­द­पि­ब­तो­र्य­त्स­मूहि तत्परं केवलं लक्ष­णी­य­मि­त्यर्थः । पिबच्छब्दोऽपि पिबदपिबतोः समूहं लक्षयति तद्द्वारा च समूहिनाविति । त्रिष्वपीति । मुण्ड­क­क­ठ­व­ल्ली­श्वे­ता­श्व­त­रेषु ॥३४॥
इत्ये­क­विं­श­मि­य­द­धि­क­र­णम् ॥

अन्तरा भूत­ग्रा­म­व­त्स्वा­त्मनः ॥३५॥ बृहदारण्यके पञ्चमेऽध्याये ‘‘अथ हैनं याज्ञ­व­ल्क्य­मु­ष­स्त­श्चा­क्रा­यणः पप्रच्छ यत् साक्षा­द­प­रो­क्षाद् ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याच­क्ष्वे’’त्यु­प­क्र­म­मेकं ब्राह्मणम् । ‘‘अथ हैनं कहोलः कौषीतकेयः पप्रच्छ यदेव साक्षी­दि’’त्या­द्य­प­रम् । उषस्त इति नामतः । चक्रस्यापत्यं चाक्रः । चाक्रस्यापत्यं चक्रस्य युवा चाक्रायणः । कहोल इत्यपि नामतः । कुषीतकस्यापत्यं कौषीतकः । तस्यापत्यं कुषीतकस्य युवा कौषीतकेयः । घटादीनां हि वृत्ति­क­र्म­त्वे­ना­प­रो­त्वम् , ब्रह्म तु साक्षात्स्वत एवा­प­रो­क्षा­द­प­रो­क्ष­मि­त्यर्थः ।
तदेव ब्रह्म प्रत्य­गा­त्मे­त्याह –
य आत्मेति ।
स च सर्वान्तरः ; ब्रह्मणि सिद्धस्य सर्वा­न्त­र­त्व­स्या­त्मनि निर्देशादात्मनि स्थितस्य चापरोक्षत्वस्य ब्रह्मणि संकी­र्त­ना­दु­भ­यो­रे­कत्वं सुदृढीकृतम् ।
अत्रा­भ्या­सा­त्स­र्वा­न्त­र­त्व­प्र­त्य­भि­ज्ञा­नाच्च संशयमाह –
किमस्ति भेद इति ।
पूर्वत्र पिबन्तावित्यस्य लाक्ष­णि­क­त्व­मु­पा­दाय मन्त्रद्वयेऽपि भोक्त्र­भो­क्तृ­प­र­त्वे­ना­र्थै­क्या­द्वि­द्यै­क्य­मु­क्तम् , इह त्वर्थैक्येऽपि न विद्यै­क्य­म­भ्या­सा­दिति पूर्वपक्षमाह –
भेद एवेति ।
न चेह तथास्तीति ।
यदेव साक्षा­दि­त्ये­व­कारो यत्सा­क्षा­द­प­रो­क्षा­देव न कदाचिदपि परोक्षमित्येवं योज्यत इति मन्यते , सिद्धान्ते तु व्यव­हि­ता­न्व­य­प्र­स­ङ्गा­न्नेयं साध्वी योजनेति प्रक्रा­न्त­स्यै­वा­नु­वृ­त्त्यर्थ एवकार इत्युक्तं भाष्ये ।
नन्व­प­रो­क्ष­त्वा­दि­रू­प­वि­द्यै­क्य­प्र­त्य­भि­ज्ञाने कथं विद्या­भे­द­स्त­त्राह –
तेनेति ।
उषस्तिब्राह्मणे कार्यकारणविरहः प्रतिपाद्यः ; प्राणेन प्राणि­ती­त्या­दि­नि­र्दे­शात् । कहो­ल­ब्रा­ह्म­णेऽ­श­ना­या­दि­वि­रहः । अयं चाभ्या­स­सि­द्धो­पा­स­न­भे­द­नि­र्वा­हक उपाधिः समिदादीनामिव देवतादिः ।
प्रश्न­प्र­ति­व­च­ना­लो­च­ने­नेति ।
तन्मे व्याचक्ष्वेति हि प्रवृ­त्ति­रु­प­ल­भ्यते । प्रतिवचनस्य च न दृष्टे­र्द्र­ष्टारं पश्ये­रि­त्य­वि­ष­य­व­स्तु­प्र­ति­पा­द­न­प­रत्वं दृश्यते न तूष­स्ति­प­र­त्व­मिति ।
ननु सिद्ध­व­स्तु­प्र­ति­पा­द­न­प­र­त्वेऽ­प्य­भ्या­स­वै­य­र्थ्यस्य का गतिरिति परिचोद्यं परिहरति –
किमत इत्यादिना ।
समिधो यजति इत्यादौ विधेः प्रवृ­त्त्यु­त्पा­द­क­त्वात् ज्ञाते च स्वत एव प्रवृ­त्ते­र्वि­धि­वै­य­र्थ्या­द­ज्ञातं वस्तु ज्ञाप्यम् , सिद्ध­व­स्तु­ज्ञा­पनं तु प्राप्तेप्यर्थे श्रोतुरादरार्थं पुनः पुनः कृतमपि प्रमि­त्य­ति­श­य­फ­ल­त्वा­द­दु­ष्ट­मि­त्यर्थः । पितृभ्यां मातापितृभ्याम् । ननु यद्य­स्मि­न्न­धि­क­र­णेऽ­भ्या­सा­द्वि­द्या­भेद इति पूर्वः पक्षः । तर्ह्य­न्त­रा­म्ना­ना­वि­शे­षा­दिति सिद्धान्ते हेतुर्न वक्तव्यः ।
अर्थै­क्य­स्या­भ्या­स­सा­ध­क­त्वेन पूर्व­प­क्षा­नु­गु­ण्या­दत आह –
उभाभ्यामपीति ।
प्रथमं सूत्रं पूर्व­प­क्षै­क­दे­शि­म­त­नि­रा­सार्थं , साक्षा­त्पू­र्व­प­क्ष­सि­द्धान्तौ तून्नीतौ भाष्य­टी­का­भ्या­म­व­ग­न्त­व्या­वि­त्यर्थः । तथा च पूर्व­प­क्ष­भा­ष्य­म­भ्या­स­सा­म­र्थ्या­दि­त्यादि वस्तुस्वरूपं त्वित्यादिका च सिद्धान्तटीका । तत्र वस्तुस्वरूपं त्वित्या­दि­नाऽ­भ्या­स­हे­तो­र­न्य­था­सि­द्धि­रुक्ता । न च सर्वथा पौन­रु­क्त्य­मि­त्या­दि­ना­भ्यास एवा­सि­द्धोऽ­र्थ­भे­दा­दि­त्यु­क्तम् ॥३५॥
नन्वेकविधेऽपि तत्त्व­म­सी­ति­व­त्पु­नः­श्रु­त्यु­प­प­त्तेर्न द्विती­य­सू­त्र­ग­त­श­ङ्का­भा­ग­स्यो­त्था­न­मि­त्या­श­ङ्क्याह –
अस्य त्विति ।
भूय एव मा भग­वा­न्वि­ज्ञा­प­य­त्विति वाक्यात् , तत्र विद्यैक्यं नात्र तदिति पूर्व­प­क्षा­भि­प्रायो दर्शित इत्यर्थः । यदेव साक्षा­दि­त्ये­व­का­रा­द­त्रापि वद्यैक्यमिति भगवता भाष्यकारेण प्रतिपादितं , तत् स्फुटमिति न व्याख्यायत इत्याह – सुगममन्यदिति ॥३६॥
इति द्वाविं­श­म­न्त­र­त्वा­धि­क­र­णम् ॥

व्यतिहारो विशिंषन्ति हीतरवत् ॥३७॥
पूर्वत्र विद्यै­क्येऽ­प्य­भ्यास आदरार्थ इत्युक्ते अयमपि तथेत्यभिसंधाय पूर्वपक्षमाह –
उत्कृष्टस्येति ।
ननु वच­न­व­शा­दु­भ­य­त्रो­भ­य­चि­न्त­ना­श्र­यणे एकत्वदृढीकारः पूर्व­प­क्षा­भि­म­त­स्त्व­याऽ­पीष्टः स्यादत आह –
अन्वा­च­य­शि­ष्ट­मिति ।
पश्चा­त्प्र­ती­त­मि­त्यर्थः । जीव­ता­दा­त्म्य­स्या­नेन प्रक­र­णे­ना­नु­चि­न्त्य­मा­न­त्वा­दिति भाष्यम् । तस्यार्थः - जीव­ता­दा­त्म्य­स्ये­श्वरे शास्त्रा­दा­रो­प्यो­पा­स्य­त्वा­न्ने­श्व­र­स्यो­त्क­र्ष­नि­वृ­त्ति­रिति ॥३७॥
इति त्रयो­विं­शं­व्य­ति­हा­रा­धि­क­र­णम् ॥

सैव हि सत्यादयः ॥३८॥ पूर्वत्र जीव­ब्र­ह्म­णो­रि­त­रे­त­रा­त्म­त्व­नि­र्दे­श­भे­दाद् द्विरूपा मतिः कर्त­व्ये­त्यु­क्तम् , एवमिहापि ‘‘जयतीमान् लोकान् हन्ति पाप्मानमि’’ति च फल­नि­र्दे­श­भे­दा­द्वि­द्या­भेद इति प्रत्य­व­स्था­ना­त्स­ङ्गतिः ।
सत्यविद्यां सना­मा­क्ष­रो­पा­सनां विधा­ये­त्या­द्य­र्थतो विषयप्रदर्शकं भाष्यं श्रुत्युदाहरणेन व्याचष्टे –
तद्वै­त­दि­त्या­दिना ।
पूर्वोक्तस्येति ।
वाजसनेयक एव ‘‘एष प्रजा­प­ति­र्य­द्धृ­द­य­मे­तद् ब्रह्मे’’ त्यादिना पूर्व­वा­क्ये­नो­क्त­स्ये­त्यर्थः । हृदयाख्यं ब्रह्मैकेन तदा तच्छब्देन परामृशति । वैका­र­स्यो­प­रि­त­नेन द्वितीयेन तच्छब्देन यत्तस्य ब्रह्म­ण­स्त­दे­त­द­क्षरं हृदयमित्यादिना हृद­य­ना­मा­क्ष­रो­पा­स­नादिः प्रकार उक्तस्तमपि परामृशतीति द्रष्टव्यम् ।
तदेतद्व्याचष्टे –
अग्र इति ।
प्रथमजं भौतिकानां मध्ये प्रथमजातम् । यथा प्रजा­प­ति­र्लो­का­न­ज­यद् एवमुपासकोऽपीति इत्थंशब्दार्थः ।
तद्य­त्प­दा­भ्या­मिति ।
एकस्य तच्छब्दस्य यच्छब्देन सह सङ्गतिरुक्ता , द्विती­य­स्त­च्छ­ब्द­स्त­त्र­श­ब्द­स­मा­नार्थः । तत्रैवं हृदयात्मत्वे ब्रह्मणः सिद्ध इत्यर्थः । अनुबन्धाभेदेऽपि धात्व­र्था­भे­देऽपि स्वर्गकामो यजेत यावज्जीवं यजेतेति शास्त्र­यो­र्नि­त्य­का­म्य­वि­ष­ययोः साध्यभेदेन यथा भेदः, एव­मु­पा­स्यै­क­त्वेऽपि सत्यविद्ययोः फलभेदेन भेद इत्यर्थः ।
उपा­स्यै­क्या­द्वि­द्यै­क्य­मौ­त्स­र्गिकं तावदाह –
एकैवेति ।
फल­भे­द­म­प­वा­द­क­मा­श­ङ्क्याह –
न च फलभेद इति ।
किं ‘‘जयतीमान् लोकानि’’त्यनेन प्रधा­नो­पा­स­न­वि­ध्यु­द्देशे फलवति संजाते “हन्ति पाप्मानमि’’ति गुण­भू­ता­ह­र­हं­ना­मो­प­नि­ब­द्धस्य फलनिर्देशस्य विद्या­भे­द­क­त्व­मु­च्यते , उत प्रधा­न­त­द­ङ्गा­ना­म­र्थ­वा­दात् रात्रि­स­त्र­न्या­येन फल­क­ल्प­ना­मा­श्रित्य प्रथमं प्रत्याह –
तस्येति ।
अङ्गानां प्रधा­ना­न्व­य­द्वा­रेण फल­सं­ब­न्ध­सि­द्धे­र­र्थ­वा­द­ग­तानि गुणफलानि प्रया­जा­दि­फ­ल­व­दु­पे­क्ष्यन्त इत्यर्थः ।
द्वितीयेऽपि फलभेदस्य न विद्या­भे­द­क­त्व­मि­त्याह –
यदि पुनरिति ।
एवं कामपदाभावेन पुरुषस्य कर्म­ण्यै­श्व­र्य­रू­पा­धि­का­रा­श्र­व­णा­दि­त्यर्थः । अमुकं फलं प्रधा­न­स्ये­त्य­गृ­ह्य­मा­ण­वि­शे­ष­त्वा­द्वा­क्य­शे­ष­ग­त­स­र्व­फ­ल­का­म­स्या­धि­का­र­क­ल्प­ने­त्यर्थः । संवलितो मिलितः । एतदुक्तं भवति – विहितानां फला­का­ङ्क्षा­वि­शे­षा­द­र्थ­वा­दा­त्फ­ल­क­ल्प­ना­वि­शे­षाच्च यत्किं­चि­द­र्थ­वा­द­गतं सत् फलं सर्वमेकीकृत्य गुण­वि­शि­ष्ट­गु­णिनः फलत्वेन कल्पनीयमिति ।
‘‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाती’’ति जातेष्टौ पुत्र­ज­न्म­नि­मि­त्त­पु­त्र­पू­त­त्वा­दि­सं­व­लि­तोऽ­धि­कारो दृष्टान्तितः । अधिकरणं त्वत्रत्यं द्विती­य­सू­त्रेऽ­नु­क्रा­न्तम् ।
उपास्याभेदादिति ।
अक्ष्या­दि­त्य­ग­त­त्व­मु­पा­स्य­पु­रु­ष­स्य­भेदः ।
अनु­ब­न्धा­भे­देऽ­पीति ।
अक्ष्या­दि­त्य­पु­रु­ष­वि­ष­यो­पा­स­न­रू­प­वि­ध्य­व­च्छे­द­का­नु­ब­न्धा­भे­देऽ­पी­त्यर्थः ।
साध्यभेदादिति ।
कर्म­स­मृ­द्धि­लो­क­ज­या­दि­फ­ल­भे­दा­दि­त्यर्थः । अनेनैकदेशिमते पूर्वपक्ष एव दूषणत्वेन योजिता इति ॥३८॥
इति चतुर्विंशं सत्याद्यधिकरणम् ॥

कामादीतरत्र तत्र चायतनादिभ्यः ॥३९॥ पूर्वत्र तद्यत्सत्यमिति प्रकृताकर्षणेन रूपा­भे­दा­द्गु­णो­प­सं­हार उक्तः , इह तु क्वचि­दा­का­श­स्यो­पा­स्यत्वं क्वचि­त्त­दा­श्रि­तस्य ज्ञेयत्वमिति रूप­भे­दा­द्गु­णा­नु­प­सं­हारः ।
अधि­क­र­णा­ना­र­म्भ­मा­श­ङ्कते –
छान्दोग्येति ।
आशङ्कां विवृणोति –
तथा हीति ।
परिहरति –
तथापीति ।
स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येय­त्वे­नो­क्ता­ना­मपि गुणानां निर्गु­ण­वि­द्या­या­मु­प­पन्नः स्तुत्य­र्थ­त्वे­ना­न्व­य­श्चे­त्तर्हि निर्गु­ण­वि­द्या­ग­त­व­शि­त्वा­दीनां सगुणविद्यासु कथमन्वयः ? तं प्रकारमाह –
सगुणायांचेति ।
ध्येयत्वं त्वपू­र्व­वि­ध्ये­क­गम्यं यत्र च वशित्वादयः श्रूयन्ते न तत्रैषां ध्येयत्वेन विधा­न­मि­त्य­न्यत्र गतानामपि न ध्येयत्वम् , स्तुत्यर्थत्वम् तु स्यात्तदपि न शब्दत एषां तत्र नयनमपेक्षते , सत्य­का­म­त्वा­दि­सा­म­र्थ्या­देव सर्वे­श्व­र­त्वा­दि­सिद्धेः । अतोऽ­न्त­र्भा­व­मा­त्र­मु­प­सं­हार इत्यर्थः । यस्तु सर्वापि विद्या सगुणेति मन्यमान इह साक्षाद् गुणोपसंहारमाह , तस्य न स्थानतोऽपी (ब्र.३.पा.२ सू.११ अ.) त्यधिकरणं व्याचक्षीत ।
एकत्रेति ।
य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्छेते इत्य­त्रा­का­शा­धा­र­त्वस्य श्रवणादित्यर्थः । आकाश आधारो यस्य तस्य भावस्तत्त्वम् ।
अपरत्रेति ।
दह­रोऽ­स्मि­न्न­न्त­रा­काश इत्यत्र गुणवत आका­शा­त्म­त्व­गु­ण­श्र­व­णा­दि­त्यर्थः ।
छान्दोग्ये आत्मै­वा­का­शा­त्म­त्वे­नोक्तः , बृहदारण्यके तु हृद­य­पु­ण्ड­री­का­न्त­र्व­र्ति­भौ­ति­क­द­ह­रा­का­शा­श्रित आत्मा वशित्वादिगुणक उक्त इति न रूपभेद इत्याह –
आकाशशब्देनेति ।
नन्वात्मोच्यतां , सगु­ण­नि­र्गु­ण­त्वेन तु भेदात्कथं गुणोपसंहार इति , तत्रा­धि­क­र­णा­र­म्भ­स­म­र्थ­ना­व­स­रोक्तं परिहारं स्मारयति – सगुणेति ॥३९॥
इति पञ्चविंशं कामाद्यधिकरणम् ॥

आदरादलोपः ॥४०॥ उपास्तिलोपेऽपि स्तुत्यर्थत्वेन गुणलोपवत् ‘‘पूर्वोऽ­ति­थिभ्य’’ इत्या­दि­स्तु­त्यु­प­प­त्त्यर्थं भोजनलोपेऽपि प्राणा­ग्नि­हो­त्र­लोप इत्य­वा­न्त­र­स­ङ्गतिः ।
पादसङ्गतिमाह –
अस्तीति ।
पूर्वभोजनमिति ।
तद्यद्भक्तं प्रथममिति वाक्यविहितं प्राणा­ग्नि­हो­त्र­मि­त्यर्थः ।
पदकर्मेति ।
‘‘एकहायन्या क्रीणाती’’ति प्रकृत्य श्रूयते ‘‘षट् पदा­न्य­नु­नि­ष्का­मति सप्तमं पदमञ्जलिना गृह्णाति यर्हि हविर्धाने प्राची प्रव­र्त­ये­यु­स्तर्हि तेना­क्ष­मु­पा­ञ्ज्या’’दिति ।सोमक्रयार्थं नीयमानाया एकहायन्याः षट्प­दा­न्य­नु­ग­च्छे­द­ध्वर्युः । सप्त­म­प­द­बि­म्ब­ग­त­पां­सू­न­ञ्ज­लिना गृह्णीयाद् , गृहीत्वा स्थाप­ये­त्पु­न­र्य­स्मिन् दिवसे हविर्धाने शकटे द्वे प्राङ्मुखे प्रव­र्त­ये­यु­स्तदा तेन पांशुनाऽक्षं रथ­स्या­ञ्जे­ल्लि­म्पे­दि­त्यर्थः । तत्र संशयः - यदे­त­द­क्षा­भ्य­ञ्जनं सप्तमपदसाध्यं तद­र्थ­म­प्ये­क­हा­य­नी­न­य­नम् । अतश्च तेनापि प्रयुज्यते , उत क्रयार्थमेव , ततश्च तेनैव प्रयुज्यते इति तत्र द्वयो­र­प्ये­क­हा­य­नी­न­य­न­सा­ध्य­त्वा­त्क­स्य­चि­दपि वाक्यतो विशे­ष­सं­ब­न्धाऽ­न­व­ग­मात् सन्नि­ध्य­वि­शे­षा­च्चो­भ­या­र्थत्वं प्रापय्य चतुर्थे सिद्धान्तितम् । यद्यपि क्रयनयनयोर्न साक्षादस्ति वाक्यकृतः सबन्धः ; तथा­प्ये­क­हा­य­नी­द्वारा विद्यते । सा हि तृतीयया क्रया­र्थाऽ­व­सी­यते । यदर्था च सा तदर्थमेव तत्संस्कारार्थ नयनमित्यस्ति क्रय­न­य­न­यो­र्वि­शे­ष­सं­बन्धः । नैवमस्ति पदकर्मणा नयनस्य विशेषसंबन्धः । तस्मा­त्क्र­या­र्थ­मेव नयनमिति ।
तदिदमाह –
यथेत्यादिना ।
सोमक्रयार्था चासौ नीयमाना चासावेकहायनी च तस्याः सप्त­म­प­द­पां­सु­ग्र­ह­ण­मि­त्यर्थः ।
ताव­च्छ­ब्दे­ना­स्थि­रत्वं पूर्वपक्षस्य नोच्यत इत्याह –
तावच्छब्द इति ।
स्वामिभोजनस्य त्वति­थि­भो­ज­ना­दु­त्तरः कालः , तं कालमतीत्य प्राक्काले प्राणा­ग्नि­हो­त्रस्य श्रवणात् भोजनलोपेऽपि प्राणा­ग्नि­हो­त्र­क­र्त­व्य­ताऽ­व­ग­म्यत इत्याह –
जाबाला हीति ।
नन्व­त्रा­श­न­मा­त्रस्य भोजनकालादपकर्ष प्रतीयते , न प्राणा­ग्नि­हो­त्र­स्ये­त्यत आह –
अश्रीयादिति चेति ।
‘अग्नि­हो­त्र­मु­पा­सत’ इति वच­ना­द­ति­थि­रू­प­भू­तानि प्रति उप­जी­व्य­म­ग्नि­होत्रं श्रुतम् , एवं सति अति­थि­भो­ज­न­रू­पा­ग्नि­हो­त्रा­त्प्रा­गु­च्य­मा­न­म­श­न­म­प्य­ग्नि­हो­त्र­मेव ; अग्निहोत्रेण सम­भि­व्या­हा­रा­दे­क­वा­क्य­त्व­प्र­ती­ते­रि­त्यर्थः ।
एवं विधि­ब­ला­त्प्रा­णा­ग्नि­हो­त्रस्य भोजनकालादपनयनं प्रद­र्श्या­द­रा­दिति सूत्रसूचितं वाक्य­शे­ष­मे­त­स्या­र्थस्य स्तावकं दर्शयति –
तदेवं सतीति ।
ननु भाष्ये भोज­न­श­ब्दा­त्प्रा­णा­ग्नि­हो­त्रा­दरो न प्रतीयतेऽत आह –
स्वामिनः प्राणा­ग्नि­हो­त्र­मिति ।
अति­थि­प्रा­णा­ग्नि­हो­त्रा­त्पूर्वं स्वीय­प्रा­णा­ग्नि­होत्रं कुर्यादितरथा पूर्वमतिथिभ्यो भोजनदाने स्वाग्नि­हो­त्र­हो­मेन परा­ग्नि­हो­त्र­क­र­ण­मि­वा­युक्तं कृतं स्यादित्यादरः स्वामी यदा भुङ्क्ते तदैव ।
तथा च कथं भोजनलोपे प्राणा­हु­त्या­प­त्ति­रिति शङ्कते –
नन्वा­द्रि­य­ता­मिति ।
कर्तर्ययं प्रयोगः । अतिथिभोजनस्य पुरस्ताद्विहितं स्वामि­भो­ज­न­मि­त्य­ध्या­हारः ।
दूष­ण­प­र­भा­ष्य­स्या­भि­प्रा­य­माह –
यथा हीति ।
कौण्ड­पा­य­ने­प्यु­प­स­दा­दि­ध­र्मोऽ­स्तीति – द्रव्य­दे­व­ता­रू­पे­त्युक्तं । यागस्य रूपं द्रव्यदेवते , ते एव धर्मान्तरं द्रव्य­दे­व­ता­रू­प­ध­र्मा­न्तरं । प्रक­र­णा­न्त­रा­धि­क­रणं धर्मा­ति­दे­शा­धि­क­रणं च प्रथ­म­सू­त्रेऽ­नु­क्रा­न्तम् ।
ननु विधीयतां भक्तद्रव्यकता , तथापि भक्ता­भा­वेऽ­ग्नि­होत्रं लुप्येतेति , नेत्याह –
न चैतावतेति ।
अत्र हेतुमाह –
उक्तमिति ।
मा भूत् भोजनमाश्रित्य विधा­ना­द्भो­ज­न­प्र­यु­क्तत्वं प्राणा­ग्नि­हो­त्रस्य , भोज­ना­र्थ­भ­क्तै­क­दे­श­द्र­व्या­श्रि­त­त्वा­द्भो­ज­न­प्र­यु­क्तत्वं किं न स्यादत आह –
न चैकदेशेति ।
‘‘मध्या­त्पू­र्वा­र्धाच्च द्विर्ह­वि­षोऽ­व­द्य­त्यु­त्त­रा­र्धाच्च स्विष्टकृते समवद्यती’’ति श्रूयते । स्विष्टकृन्नाम देवताविशेषः । तन्नाम्ना यागोपि प्रतीयते । तत्र स्विष्टकृत किमु­त्त­रा­र्ध­पु­रो­डा­शयोः प्रयोजकः , किं वा यदङ्के अञ्जनं करोति चक्षुरेव भ्रातृव्यस्येति फल­श्रु­ति­प्र­यु­क्त­पु­रो­डा­शो­प­जी­वीति संदेहे अग्न्या­द्य­र्थस्य हविषो देव­ता­न्त­रा­व­रु­द्ध­त्वा­त्स्वि­ष्ट­कृ­द­र्थ­म­न्य­द्धविः कृत्वाऽवद्यतीति प्राप्ते राद्धान्तः - कस्यो­त्त­रा­र्धा­दिति नित्या­पे­क्ष­त्वा­त्स्व­वाक्ये च संब­न्धि­नि­र्दे­शा­द­ग्न्या­दि­प्र­यु­क्त­स्यैव हविषः प्रकृ­त­त्वा­त्त­स्यो­त्त­रा­र्धा­दि­त्य­व­ग­मा­द­प्र­यो­जकः स्विष्टकृत् । अन्यार्थस्यापि हविषो वच­ना­द­न्या­र्थ­त्व­म­वि­रु­द्ध­मिति । तद्व­द­प्र­यो­ज­कत्वं प्राणा­ग्नि­हो­त्रस्य ।
ततश्च भोज­न­प्र­यु­क्त­त्व­मि­त्ये­त­त्त­त्रा­स्ती­त्यत्र हेतुमाह –
एक­दे­श­द्र­व्य­सा­ध­न­स्या­पीति ।
एकदेशो द्रव्यं साधनं यस्य यागस्य तस्यापि द्रव्यं प्रति प्रयोजकत्वं स्यादित्यर्थः ।
तत्रोदाहरणमाह –
यथेति ।
दर्श­पू­र्ण­मा­स­यो­रा­म्ना­यते – ‘जाघन्या पत्नीः संयाजयन्ति’ इति । पत्न्यो नाम देवताविशेषाः । जघ­न­प्र­दे­शा­द­वत्तो मांसखण्डो जाघनी ।
तत्रै­क­दे­श­द्र­व्य­त्वा­त्प­र­प्र­त्यु­क्त­कृ­त­प्र­यो­ज­ना­ग्नी­षो­मी­य­प­शु­जा­घ­नी­प्र­ति­प­त्ति­क­र्म­त्वा­त्प­त्नी­सं­या­जानां प्रक­र­णो­त्क­र्ष­मा­शङ्क्य सिद्धान्तितं शेषलक्षणे , तं प्रकारमाह –
स हि नामेति ।
उक्त­म­ग्नि­हो­त्र­सा­धनं भक्तं भोज­ना­ङ्ग­भ­क्त­ज्ञानं विनापि जाघनीवज्ज्ञातुं शक्यमित्यर्थः ।
दृष्टान्तं साधयति –
तस्मादिति ।
जाघ­नी­त्ये­ता­व­न्मात्रं श्रूयते , न तु पशोरिति । तस्मा­त्प्रा­णि­मा­त्रस्य जाघनी पशुज्ञानं विनापि ज्ञातुं शक्येत्यर्थः । आग्नी­षो­मी­य­या­ग­प्र­यु­क्त­त्वा­त्प­र­प्र­युक्तः पशुरग्नीषोमीयः , तदुपजीवनं चान्तरेण जाघनीज्ञानात् तत्सा­ध्य­दा­र्श­पौ­र्ण­मा­सि­क­प­त्नी­सं­यो­जे­ष्वा­ज्येन सह जाघनी विकल्प्यते न तूत्कृष्यत इत्यर्थः ।
हिंसापि न कार्येत्याह –
खण्डश इति ।
मन्यते पूर्वपक्षीति ।
तद्धोमीयमिति तच्छ­ब्दा­र्था­न­भि­ज्ञ­त्वा­न्म­न्य­ते­र्ग्र­ह­णम् ।
नन्वेवं भक्तस्यैव भोजनबहिर्भूतस्य सम्भवे कथमद्भिरिति प्रति­नि­धि­र्भाष्ये उक्तोऽत आह –
अद्भिरिति ।
अग्नि­हो­त्रा­दि­नि­त्य­क­र्मसु श्रुत­व्री­ह्या­द्य­लाभे कर्मोत्सर्गे प्राप्ते नित्या­ना­म­नि­त्यानां च प्रार­ब्धा­ना­म­व­श्य­क­र्त­व्य­त्वा­व­ग­मात् श्रुतद्रव्यैः प्रतिनिहितैश्च क्रियमाणस्य प्रयो­ग­स्या­वि­शि­ष्ट­त्वेन प्रत्य­भि­ज्ञा­ना­त्प्र­ति­नि­धा­यापि कर्म कर्तव्यमिति षष्ठे सिद्धान्तितम् ॥ भाष्यो­दा­हृ­त­म­प्य­धि­क­रणं लिख्यते – सन्त्य­ग्न्या­धाने पवमानेष्टयः ‘‘अग्नये पवमानाय पुरो­डा­श­म­ष्टा­क­पालं निर्व­पे­दि’’त्याद्याः । तासु प्रकृ­ते­र्द­र्श­पू­र्ण­मा­सा­द’’ग्नि­हो­त्र­ह­वण्या हवींषि निर्वपेदि’’ति विहितो हवि­र्नि­र्वा­पोऽ­ति­दे­शेन प्राप्नोति । आधानकाले चाग्नि­हो­त्रा­भा­वा­न्ना­ग्नि­हो­त्र­ह­वणी । तत­स्त­द्वि­शि­ष्ट­त्वेन श्रुतस्य निर्वापस्य तल्लो­पा­ल्लो­प­प्राप्तौ दशमे सिद्धान्तितम् । गुणलोपे च मुख्यस्य (जै.अ.१०.पा.२.सू.६३) । विकृतौ हि कार्यद्वारा पदार्था प्राप्नुवन्ति , तेन हविः - संस्कारार्थं निर्वापः प्रथमं प्राप्तः , तद्द्वारेण च तद­ङ्ग­म­ग्नि­हो­त्र­ह­वणी पश्चा­त्प्रा­प्नोति , ततो निरपेक्षा प्राप्तिः । प्रधानभूतश्च निर्वा­पोऽ­ङ्ग­लो­पेऽपि कर्तव्य इति गुणलोपेऽपि मुख्यस्य प्रयोग इति ।
भक्तं वेति ।
भोज­ना­न­ङ्ग­मि­त्यर्थः । ननु तद्यद्भक्तमिति वाक्योक्तस्य तद्धो­मी­य­मि­त्य­त्र­त्य­त­च्छ­ब्देन परामर्शेऽपि न भोज­ना­ङ्ग­भ­क्त­प­रा­म­र्श­सिद्धिः ।
तद्भक्तमिति वाक्य­स्याऽ­न्या­र्थ­त्वा­दि­त्यु­क्त­म­नूद्य निरस्यति –
यच्चो­क्त­मि­त्या­दिना ।
विध्यु­द्दे­श­ग­त­स्येति ।
विध्ये­क­वा­क्य­ता­पन्नो ह्यग्नि­हो­त्र­शब्दो गौणः सन् कर्तव्यसादृश्यं वक्तुं शक्तः ; कर्त­व्या­र्थ­वि­शे­ष­ण­प­र­त्वात् । अर्थवादगतस्तु सिद्धमर्थं विशिंषन् सिद्धमेव सादृश्यं वक्तीत्यर्थः ।
कृष्णलचराविति ।
‘‘प्राजापत्यं चरुं निर्व­पे­च्छ­त­कृ­ष्ण­ल­मा­यु­ष्कामः’’ इति श्रूयते । कृष्णलो नाम परिमाणविशेषवान् सुवर्णमणिः । तत्रा­ति­दे­श­प्राप्ता अवघातादयो द्वाराभावेऽपि पाकवत्कर्तव्याः । अचरौ चरु­श­ब्द­स्या­ग्नि­हो­त्र­श­ब्द­व­द्ध­र्मा­ति­दे­श­क­त्वा­दिति प्रापय्य दशमे सिद्धान्तितम् । कृष्णा­ला­ञ्छ्र­प­ये­दिति श्रौतः पाको द्वाराभावेऽपि कर्तव्यः । अत एव चरुशब्दोऽपि पाक­यो­गा­द्वि­भ­क्त­त्वाच्च सिद्धसादृश्यपरः ; सत्यां गतौ विधौ गौणत्वायोगात् ।
तस्मा­न्ना­व­घा­तादि प्राप्तिरिति ।
सोऽय­म­ति­दे­श­प्रा­प्ता­व­घा­ता­दि­बाधो गत्यभावात् स्वीक्रियते , प्रकृते तु भोज­ना­र्थ­भ­क्ता­नु­वा­दा­दस्ति गतिरित्यर्थः । कामिन्यां सिद्धं यत्कुचवदनादि तदसता चक्रवाकादिरूपेण संपाद्यते रूप्यत इत्यर्थः ।
यदा चैवं भोज­ना­र्थ­भ­क्ता­श्रि­तत्वं प्राणा­ग्नि­हो­त्रस्य तच्छ­ब्दा­त्सिद्धं , तदा ‘‘पूर्वोऽ­ति­थि­भ्योऽ­श्रि­त्या’’दि­त्या­द्या­द­र­द­र्शनं न भोजनकालादपकृष्य काला­न्त­रेऽ­ग्नि­हो­त्र­वि­धि­परं , किं तु यदा स्वामी भुङ्क्ते तदा भोजनस्य स्वकालादपकर्षेण तदा­श्रि­त­प्रा­णा­ग्नि­हो­त्र­स्या­प­क­र्ष­क­मि­त्याह –
तद्भोजनपक्ष इति ।
यदा च प्राथम्यात्मको धर्मः सत्येव भोजने विहितस्तदा धर्म्यपि प्राणा­ग्नि­होत्रं सत्येव भोजने स्यात् ।
तथा च या श्रुति­र्ध­र्म­लोपं न सहते सा नतरां धर्मिलोपं सहेतेति तन्निरस्तम् , अनित्यत्वेऽपि तदु­प­प­त्ते­रि­त्याह –
यस्मिन्पक्ष इति ।
ननु स्वामिभोजनस्य स्वकालादपकर्ष एव युक्तः , शास्त्रा­न्त­र­वि­रो­धात् । अतः प्राणा­ग्नि­हो­त्र­स्यैव भोजनकालादपकर्ष इत्याशङ्क्य परिहरति – नन्वित्यादिना ॥४१॥
इति षड्विं­श­मा­द­रा­धि­क­र­णम् ॥

तन्नि­र्धा­र­णा­नि­य­म­स्त­द्दृष्टेः पृथ­ग्ध्य­प्र­ति­बन्धः फलम् ॥४२॥ अनि­त्य­भो­ज­ना­श्रि­त­प्रा­णा­ग्नि­हो­त्र­वद् नित्य­क­र्मा­ङ्गा­श्रि­तो­पा­स्तीनां नित्यत्वमिति ।
पूर्वपक्षमाह –
यथेत्यादिना ।
कर्मा­ङ्गा­श्रि­त­स्यापि गोदो­ह­न­व­द­नि­त्य­त्व­मा­श­ङ्क्या­ना­र­भ्या­धी­त­त्वा­दु­पा­स्तीनां वाक्यात् क्रतुसंबन्ध एव सिध्यति , न फलसंबन्ध इति वक्तुं पर्णमयी , तामुदाहरति –
यस्येति ।
ननु साक्षा­त्फ­ल­व­त्त्व­सं­भवे किमिति क्रतु­प्र­वे­शा­त्फ­ल­क­ल्पना ? अत आह –
सिद्धवर्तमानेति ।
रात्रिसत्रे ह्यगत्या विपरिणामः , इह त्वस्ति कर्माङ्गत्वं गतिरित्यर्थः ।
सम­स्त­का­मा­वा­प­क­त्व­ल­क्ष­णेति ।
‘‘आपयिता ह वै कामानां भव­ती’’त्ये­त­दि­त्यर्थः ।
पूर्वपक्षे प्रयो­ज­न­मु­पा­स­नानां कर्मा­ङ्गा­श्रि­तो­पा­स्तीनां नित्यत्वमित्याह –
एवं चेति ।
चतुर्थे स्थितम् –
द्रव्य­सं­स्का­रेति ।
‘‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति’’ इत्यनारभ्य किंचिद्द्रव्ये फलमधीयते । ज्योति­ष्टो­म­प्र­क­र­णेऽस्ति संस्कारे फलश्रुतिः -’‘ यदङ्क्ते अञ्जनं करोति चक्षुरेव भ्रातृव्यस्य वङ्क्ते’’ इति । कर्मणि च फलं श्रूयते - ‘‘यत्प्र­या­जा­नू­याजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते वर्म वा यजमानस्य भ्रातृ­व्य­भि­भूत्यै’’ इति । तत्र संशयः । किमिमे फलविधय उत क्रत्वर्थेषु पर्णतादिषु फलार्थवादा इति ।
तत्र ‘‘खादिरं वीर्यकामस्य यूपं कुर्या’’दि­त्या­दि­व­त्फ­ल­वि­धयः , क्रतू­प­का­र­द्वा­रेण व्यव­हि­त­फ­लो­पा­दा­ना­द्व­र­म­व्य­व­हि­त­श्रु­त­फ­लस्य साध्य­त्व­वि­प­रि­णाम इति फलविधित्वे प्राप्ते राद्धान्तः पर्ण­तो­दा­ह­र­ण­मा­श्रि­त्या­चा­र्येण प्रदर्श्यते –
युक्तं पर्ण­ता­या­मि­त्या­दिना ।
तत्रै­ता­व­त्स­र्वो­दा­ह­र­ण­शे­ष­त्वेन वक्तव्यम् ।
रात्रि­स­त्रा­णा­म­गत्या विपरिणाम आश्रितः , इह तु क्रतूपकारस्य सिद्धत्वान्न विपरिणाम इति पर्णता किं साक्षा­त्फ­ल­सा­ध­न­मुत क्रिया­द्र­व्य­मा­श्रित्य ? नाद्य इत्याह –
न हीति ।
उत्पत्तिमत इति ।
साक्षा­दु­त्प­त्ति­मत इति , साक्षा­दु­त्पत्तिः क्रियाया इति क्रियात इत्यर्थः ।
यत्तु - पूर्वपक्षे उक्तं खादिरतावत् पर्णतायाः फले विधिरिति , तन्निरस्यन् द्वितीयं प्रत्याह –
नापीति ।
खादिरतायां यथा प्रकृ­त­क्र­तु­सं­ब­न्ध­वान् यूप आश्रयः , एवं तदाश्रयस्तस्याः पर्णतायाः प्रकृते नास्ति ; तस्या अना­र­भ्या­धी­त­त्वा­दि­त्यर्थः । खादिरतायाः प्रत्य­क्ष­वि­धि­श्र­व­णात् साक्ष­त्क­र्म­प­द­यु­क्त­फ­ल­श्र­व­णाच्च युक्तः फले विधिरित्यपि द्रष्टव्यम् ।
क्रत्व­ङ्ग­वि­शि­ष्टो­पा­स्ति­क्रि­याणां फलसाधनत्वेन प्रधा­न­क­र्म­त्व­मु­क्तम् , तदाक्षिपति –
नन्विति ।
ॐका­र­स्ये­त्यु­क्त­मिति ।
व्याप्ते­श्चा­स­म­ञ्जस (ब्र.अ.३ पा.३ सू.९) मित्य­त्रे­त्यर्थः ।
न चानु­प­यो­ग­मी­प्सि­त­मिति ।
अन्यार्थे विनियुक्तं द्रव्यं फल­व­त्त्वा­दी­प्सि­तम् , ईप्सितं च संस्कार्यं , नत्वो­ङ्का­रोऽ­नु­प­यु­क्त­त्वा­दि­त्यर्थः । या तु कर्माङ्गेष्वपि द्वितीया ‘‘लोकेषु पञ्चविधं सामो­पा­सी­ते’’त्याद्या , सा सप्त­म्य­र्थे­त्या­दि­त्या­दि­म­तय (ब्र.अ.४ पा.१ सू.६) इत्यत्र वक्ष्यते ।
अत्र भाष्यं - न चेदं फल­श्र­व­ण­म­र्थ­वा­द­मात्रं युक्तं प्रतिपत्तुम् ; तथा हि गुणवाद आपद्येत फलोपदेशे तु मुख्य­वा­दो­प­प­त्ति­रिति , तदनुपपन्नमिव ; वर्त­मा­ना­प­दे­श­त्वे­नो­पा­स­न­फ­लेषु साध्य­त्व­वि­प­रि­णा­मा­त्म­क­ल­क्ष­णा­श्र­य­णा­दत आह –
अर्थवादमात्रत्व इति ।
वर्त­मा­ना­प­दे­शा­द्वि­प­रि­णा­म­म­न्त­रेण फलसिद्धौ विरोधमाह –
अत एवेति ।
प्रया­जा­दी­ना­म­फ­लत्वं यत्प्रथमे काण्डे पारा­र्थ्ये­नोक्तं , तदिहापि स्वीकृतं तद्व­र्त­मा­ना­प­दे­शस्य फलपरत्वे सति न शक्यं निर्वो­ढु­मि­त्यर्थः ॥ तेनो­ङ्का­रे­णो­भा­वपि कर्म कुरुतः , यश्चै­त­द­क्ष­र­मे­व­मा­प्त्या­दि­गु­णकं वेद यश्च न वेद ।
दृष्टं हि हरीतकीं भक्ष­य­तो­स्त­द्र­स­ज्ञे­त­र­यो­र्वि­रे­चकं फलमिति पूर्वपक्षयित्वा सिद्धान्तमाह –
नाना त्विति ।
कर्मा­ङ्गों­का­र­मा­त्र­ज्ञा­ना­दा­प्त्या­दि­म­दो­ङ्का­र­वि­ज्ञानं नानैव भिन्नम् । ततोऽ­ङ्गा­धि­क्यात् फलाधिक्यं युक्तम् । दृष्टो हि मणिविक्रये वणि­क्छ­ब­र­यो­र्ज्ञा­नाऽ­ज्ञा­न­कृतः फलभेदः । तस्माद्यदेव कर्म विद्य­यो­द्नी­था­दि­वि­ष­यया श्रद्ध­याऽऽ­स्ति­क्य­बुध्द्या उपनिषदा तत्त­द्दे­व­ता­ध्या­नेन करोति तदेव कर्म वीर्यवत्तरं भवति ॥४२॥
इति सप्तविंशं तन्नि­र्धा­र­णा­धि­क­र­णम् ॥

प्रदानवदेव तदुक्तम् ॥४३॥
पूर्वत्र फलभेदात् कर्माङ्गानां तद्व­द्धो­पा­स­नानां च नित्या­नि­त्य­त्व­रूपः प्रयोगभेद उक्तः , इह तु वायु­प्रा­ण­यो­स्त­त्त्वा­भे­दा­त्त­त्प्रा­प्ति­ल­क्ष­ण­फ­लै­क्या­च्चो­पा­स­न­प्र­यो­गै­क्य­मि­त्य­भि­प्रेत्य पूर्वपक्षमाह –
तदिति ।
उत्पन्नेति ।
उत्पन्नया उपासनया गुणानां संयोग इत्यर्थः ।सं­व­र्ग­वि­द्यायां हि ‘‘अन्नवानन्नादो भवति य एवं वेद’’ इति विधेः पृथ­गु­त्प­त्ति­रस्ति । वाज­स­ने­य­केऽ­प्यस्ति एकमेव व्रतं चरेदिति । तथो­प­क्र­मो­प­सं­हा­रेति । ‘‘अथेममेव नाप्नोद् मृत्युर्योऽयं मध्यमः प्राणः’’ इत्युपक्रम्य प्राणद्वारा एष सूर्य उदेतीत्युपसंहार इति ॥ यदु­क्त­म­ध्या­त्मा­दि­वि­भा­ग­स्यो­त्प­न्न­शि­ष्ट­त्वान्न विद्या­भे­द­क­त्व­मिति ।
सत्यं न विद्याभेदं ब्रूमः , किंत्वेकस्यामेव विद्यायां ध्येयभेदात् प्रयोगभेदं , यथाऽ­ग्नि­हो­त्रा­भेदे उत्प­न्न­शि­ष्टै­र्द­ध्या­दिभिः क्रियमाणाः प्रयोगा भिद्यन्त एवमिहेत्याह –
अग्नि­हो­त्र­स्ये­वेति ।
अग्निहोत्रस्य दधि­त­ण्डु­ला­दि­व­दा­ध्या­नस्य कृते आध्यानार्थमयं पृथगुपदेश इति योजना । इवकारो धर्मिण उपमार्थो वत्कारो धर्मस्य । वायोर्यद्यपि परिच्छिन्नत्वम् ; तथा­प्य­ग्न्या­दी­न­पे­क्ष्या­प­रि­च्छि­न्न­त्व­मस्ति , कारणत्वेन ततोऽपि बहु­का­ल­व्या­पि­त्वात् ।
अतो भाष्योक्तं वाय्वा­न­न्त्य­मु­प­प­न्न­मि­त्याह –
वायुः खल्विति ।
संवृणुते संहरति ।
देव­ता­का­ण्डा­धि­क­र­णस्य प्रधा­न­भे­द­वि­ष­यस्य पूर्वपक्षं सिद्धान्तं चाह –
मिलि­ता­ना­मि­त्या­दिना ।
त्रिपु­रो­डा­शेष्टौ हि प्रथ­म­पु­रो­डा­श­प्र­दाने या याज्या सा पुनःप्रयोगेऽनु वाक्या , या च पूर्वमनुवाक्या सा पश्चाद्याज्या भवति ।
व्यत्या­स­म­न्वा­हे­त्य­ने­ना­भि­हितं तत्प्रयोगभेदे घटते ; एकस्या ऋच एकस्मिन्प्रयोगे याज्या­नु­वा­क्या­त्व­वि­रो­धा­दि­त्याह –
याज्या­नु­वा­क्या­व्य­त्या­सेति ।
अध्वर्युणा यजेति प्रैषे कृते प्रयुज्यमाना ऋग्याज्या , अनुब्रूहीति प्रैषान्तरं प्रयु­ज्य­मा­नाऽ­नु­वाक्या । याज्ञिका हि अस्यामिष्टौ युगपदवदानं कुर्वन्ति , तद्विधीयते सर्वे­षा­म­भि­ग­म­य­न्न­व­द्य­तीति ।
तत्र हेतुः –
अछम्बट्कारमिति ।
अव्य­र्थ­त्वा­ये­त्यर्थः । एकार्थे ह्यवत्ते शेषो यागानर्हः स्यात् , युगपत् सर्वार्थमवदाने त्वव्यर्थत्वं स्यादिति ।
तथाविधस्यैवेति ।
व्यत्य­स्त­या­ज्या­नु­वा­क्या­कस्य प्रयो­ग­भे­द­म­न्त­रे­णा­नु­प­प­द्य­मा­नस्य विव­क्षि­त­त्वा­दि­त्यर्थः ।
प्राण्यादिति ।
प्राणने प्राप्ते प्राण्यादपानने प्राप्तेऽ­पा­न्या­त्प्रा­णा­पा­ना­दि­नि­रो­धनं न कुर्यादित्यर्थः । महा­त्म­नोऽ­ग्न्या­दीन् महात्मन इति द्विती­या­ब­हु­व­च­नम् । चतुरः चतुः­सं­ख्या­न­ग्नि­सू­र्य­दि­क्च­न्द्रान् अन्यांश्च वाक्च­क्षुः­श्रो­त्र­म­नो­ल­क्ष­णा­र्थान् । कः प्रजापतिः प्राणात्मकः । स जगार जीर्णवान् । तेन व्रतेन । उ इत्ययं निपातोऽप्यर्थः । स च सायुज्यं सलो­क­ता­म­पी­त्यु­परि संबद्ध्यते । एतस्यै एतस्या देवतायाः सायुज्यं समानदेहतां सालोक्यं समानलोकतां च जयति प्राप्नो­ती­त्यर्थः । सायु­ज्य­मु­त्कृ­ष्टो­पास्तेः फलं सालोक्यं मन्दोपासनायाः ॥४३॥
इत्यष्टाविंशं प्रदानाधिकरणम् ॥

लिङ्ग­भू­य­स्त्वा­त्तद्धि बलीयस्तदपि ॥४४॥ पूर्व­त्रै­क­प्र­यो­गा­सं­भ­वा­द्वा­यु­प्राणौ प्रयोगभेदेन ध्येया­वि­त्यु­क्तम् , इह तु मनश्चिदादीनां कर्मा­ङ्ग­त्वे­नै­क­प्र­यो­ग­त्व­मा­श­ङ्क्यते ।
लिङ्गविरोधे दुर्बलेन प्रकरणेन पूर्व­प­क्षा­नु­त्था­न­मा­श­ङ्क्याह –
तत्र यद्यपीत्यादिना ।
स्वातन्त्र्येण प्रमा­णा­न्त­रा­न­पे­क्षया मनश्चिदादीनां न स्वात­न्त्र्य­प्रा­प­का­णी­त्यर्थः ।
ननु स्वात­न्त्र्ये­णा­प्य­र्थस्य विनियोजकं लिङ्गं दृष्टम् ; यथा शब्दार्थयोः साम­र्थ्य­मि­त्या­शङ्क्य प्रकृतलिङ्गस्य ततो वैषम्यमित्याह –
न चेत्यादिना ।
लिङ्गं हि द्विविधं साम­र्थ्य­रू­प­म­न्या­र्थ­द­र्शनं चेति । सामर्थ्यं च द्विविधं शब्दगतमर्थगतं च ।
शब्दगतमुदाहरति –
यथा पूषेति ।
‘‘पूष्णोऽहं देवयज्यये’’ त्यादिमन्त्रः ।
अर्थगतमुदाहरति –
यथा चेति ।
तथेत्यत्र ग्रन्थच्छेदः । विरोद्धरि विरोधकर्तरि ।
श्रुति­वा­क्याभ्यां प्रकरणस्य विरोधमाशङ्क्याह –
न च ते हैत इत्यादिना ।
पूर्व­त­न्त्र­सि­द्ध­मा­न­स­ग्र­हा­धि­क­र­ण­मु­दा­ह­रति – द्वादशाहे इत्यादिना । त्वां समुद्रमनया रसया पृथिव्या पात्रेण प्रजापतिदेवताकं मनोग्रहं ध्यान­म­य­ग्र­ह­मा­पाद्य गृह्णामीत्यर्थः । निर्धूतानि । नितरां प्रक्षालितानि अत एव गतरसानि रस­व­त्ता­पा­द­क­स­ह­का­रि­म­त्त्वेन द्वादशाहस्य श्रूय­मा­ण­त्वा­दि­त्यर्थः । ‘‘पत्नी­सं­या­जा­न्ता­न्य­हानि संतिष्ठन्त’’ इति वचनाद् द्वाद­शा­हा­न्त­र्ग­ता­ना­मह्नां पत्नी­स­या­जा­न्त­त्वम् । अवयुज्य एकदेशं विभज्य । देव­द­त्त­स्या­ङ्गिनो दीर्घैः केशैः स्तुतिः ।
ननु विसर्गशब्दस्य समा­प्ति­व­च­न­त्वा­त्क­थम् अङ्ग­त्व­बो­ध­क­त्व­मत आह –
अन्त इति ।
श्रुत्य­न्त­र­ब­ले­नेति ।
प्रद­र्श­ना­र्थ­मे­तत् । एत­च्छ्रु­ति­ब­ले­नापि भाष्यमुपपन्नम् ; दशरात्रस्य द्वाद­शा­ह­वि­कृ­ति­त्वात् । तत्क्र­मे­णा­ह­र्ध­र्मे­ष्व­ति­दे­श­प्रा­प्तेषु दश­रा­त्र­ग­त­श­मा­ह­न्यपि द्वाद­शा­हा­न्त­र्व­र्ति­द­श­मा­ह­र­ङ्गस्य मानसस्य प्राप्तिरिति विविधानि वाक्यानि यत्र न सन्ति मान­स­त्वा­त्त­द­वि­वा­क्य­मिति नामार्थः ॥४४॥४५॥
वचनानि त्विति ।
एत­ज्ज्यो­ति­श्च­र­णा­भि­धाना (ब्र.अ.१ पा.१ सू.२४) दित्य­त्रा­नु­क्रा­न्तम् ।
ननु फलार्थस्यापि क्रत्व­ङ्गा­श्रि­त­त्वा­दे­क­प्र­यो­गत्वं दृष्ट­मि­त्या­श­ङ्क्याह –
न चास्येति ।
मनो­वृ­त्ति­ष्व­ग्नि­त्व­दृ­ष्टि­वि­धे­रि­त्यर्थः । ‘‘षट्त्रिंशतं सहस्राण्यात्मनो वृत्ती­र­ग्नी­न­प­श्यद् मन’’ इति श्रुतिरिति ।
ननु निपातानां प्राप्ता­र्थ­द्यो­त­कत्वं दृश्यते , एवमेवकारस्यापि इत्याशङ्क्याह –
न चैवमिति ।
क्रिया­नु­प्र­वे­श­मात्रं पूर्वपक्षिणो विवक्षितं , तच्च दूषितम् , स यदि विकल्पं ब्रूयात् , तर्हि स दूषत इत्याह –
तद­तु­ल्य­का­र्य­त्वे­नेति ।
दृष्टश्चेति सौत्रपदसूचितं द्विती­य­ग­त­म­वे­ष्ठ्य­धि­क­रण (जै.अ.२ पा.३ सू.३) मनुक्रमति –
अस्तीत्यादिना ।
बार्हस्पत्यं चरु­मा­ग्ने­यै­न्द्र­पु­रो­डा­श­यो­र्मध्ये निधायेत्यर्थः । यदि ब्राह्म­णा­द­य­स्त्र­योऽ­प्य­वे­ष्ठ्या­म­न्यतः प्राप्तास्तर्हि यदि ब्राह्मण इत्या­दि­प्रा­प्ता­र्थ­त्वा­न्नि­मि­त्तार्था , अप्राप्तौ तु तत्क­र्तृ­क­या­ग­वि­धि­रिति ।
तत्र प्राप्ति­प्र­का­र­माह –
अत्र यदीत्यादिना ।
यदि राज्यस्य कर्ता राजा , तर्हि त्रयाणां वर्णानां राज्य­क­र्तृ­त्वा­द्रा­ज­सूये च प्राप्तत्वेन तदङ्गावेष्टावपि प्राप्ते­र्नि­मि­त्ता­र्थत्वं ब्राह्मण इत्या­दे­रि­त्यर्थः ।
अप्रा­प्ति­प्र­का­र­माह –
अथ त्विति ।
पिकनेमेति ।
येषां शब्दानाम् आर्येषु न प्रसिद्धोऽर्थः पिकनेमादीनां , तेषां किं निग­मा­दि­भ्योऽर्थः कल्पनीय उत म्लेच्छप्रसिद्ध एव ग्राह्य इति संदेहे शास्त्र­स्थ­त्वा­न्नि­ग­मा­दि­प्र­सिद्ध एव ग्राह्यो म्लेच्छ­प्र­सि­द्धे­रा­र्या­णा­म­र्थ­प्र­ति­पत्तौ विप्ल­व­प्र­स­ङ्गा­दिति प्राप्ते – समु­दा­य­प्र­सि­द्धे­र­व­य­व­प्र­सि­द्धितो बलवत्त्वाद् पिकादीनि पदानि यद्रूपाणि वेदे दृश्यन्ते तद्रूपाणामेव तेषां म्लेच्छै­र­र्थ­वि­शे­षेषु प्रयु­ज्य­मा­न­त्वात् तदर्थसंबन्धे च पदानां बाधाभावाद् विप्लु­ति­श­ङ्का­नु­त्था­नाद् म्लेच्छप्रसिद्ध एवार्थो ग्राह्यः । पिकः कोकिलः । नेमोऽर्धम् । तामरसं पद्ममिति प्रमाणलक्षणे स्थितम् । एवं यथा म्लेच्छ­प्र­सिद्धिः पिका­दि­श­ब्दा­र्था­व­धा­र­ण­का­र­णम् , एवमान्ध्राणां म्लेच्छादीनामेव क्षत्रियत्वजातौ । राज­श­ब्द­प्र­सिद्धिः राज­श­ब्दा­र्था­व­धा­र­ण­का­र­ण­मि­त्यर्थः ।
एवं संदेहे प्रदर्श्य पूर्वपक्षमाह –
नैमि­त्ति­का­नी­त्या­दिना ।
राज्य­क­र्तृ­मात्रे राजशब्द आर्यै­र्म्ले­च्छैश्च प्रयुज्यते इत्यविवादम् । राज्यमकुर्वति तु क्षत्रि­य­जा­ति­मात्रे आर्याराजशब्दं न प्रयुञ्जते , म्लेच्छास्तु प्रयुञ्जते इति विप्रतिपत्तिः । तत्रा­वि­प्र­ति­प­त्ति­स्थले विरोधाभावाद् राज्यस्य कर्ता राजेति त्रैवर्णिकानां राजत्वादेवेष्टौ प्राप्तिः । प्राप्तौ च सत्यां निमित्तार्थत्वं ‘‘यदि ब्राह्मण’’ इत्यादेः स्यादित्याह – राज्यस्य कर्तेत्यारभ्य तेना­वि­प्र­ति­प­त्ते­रि­त्य­न्तेन । या तु क्षत्रियमात्र राजशब्दप्रयोगे म्लेच्छा­ना­मार्यैः सह विप्रतिपत्तिः , तत्र शास्त्र­स­हि­ता­र्य­प्र­सिध्द्या तद्वि­ही­न­म्ले­च्छ­प्र­सि­द्धि­बा­धान्न जातिमात्रं राजशब्दार्थः , किंतु राज्यकर्तैव ।
अतश्च निमित्तार्थत्वं सुस्थमित्याह –
विप्र­ति­प­त्ता­विति ।
यववराहवदिति ।
‘‘यव­म­य­श्च­रु­र्भ­वति वाराही उपा­न­हा­वि’’त्यत्र यव­व­रा­ह­श­ब्द­यो­र्म्लेच्छैः प्रिय­ङ्गु­वा­य­सयोः प्रयो­गा­दा­र्यैश्च दीर्घशूकसूकरयोः प्रयोगादुभयोश्च प्रयो­ग­यो­र­ना­दि­त्वेन तुल्यबलत्वाद् विकल्पेनाभिधानं प्राप्तम् ।
तदुक्तं प्रमाणलक्षणे –
‘‘समा विप्रतिपत्तिः स्यात्’’ (जै.अ.१ पा.३ सू.८) इति ।
अभि­धा­न­वि­प्र­ति­प­त्ति­स्तु­ल्ये­त्यर्थः । सिद्धान्तस्तु - शास्त्रस्था वा तन्नि­मि­त्त­त्वात् । (जै.अ.१ पा.३ सू.९) यवमय इत्यस्य हि वाक्यशेषे ‘‘यदान्या ओषधयो म्लायन्त्यथैते मोद­मा­ना­स्ति­ष्ठन्ती’’ति श्रूयते । यवा­श्चा­न्यौ­ष­धि­म्लानौ मोदन्ते न प्रियङ्गवः । उक्तं हि – ‘‘फाल्गुने ह्यौषधीनां हि जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥ प्रियङ्गवः शर­त्प­क्वा­स्ता­व­द्ग­च्छन्ति हि क्षयम् । यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ॥ तदा नान्यौ­ष­धि­म्लानिः सर्वासामेव मोदनात्’’॥ इति । ‘‘वाराही उपानहौ’’ इत्यस्य च वाक्यशेषे ‘‘वराहं गावोऽ­नु­धा­वन्ती’’ति श्रूयते । सूकरं च गावोऽनुधावन्ति न काकम् । तस्मा­द्य­व­व­रा­ह­श­ब्द­यो­र्दी­र्घ­शू­क­सू­क­रा­व­र्था­विति । ननु म्लेच्छ­प्र­सि­द्धि­मा­त्रेण क्षत्रियजाती राजशब्दार्थ इति न ब्रूमः , किंतु ‘‘गुण­व­च­न­ब्रा­ह्म­णा­दिभ्यः कर्मणि’’ चेति पाणिनिना गुणवचनेभ्यः शुक्ला­दि­श­ब्देभ्यो ब्राह्म­णा­दि­श­ब्दे­भ्यश्च ष्यञ् प्रत्य­य­स्म­र­णा­द्राज्ञः कर्म राज्यमिति सिद्ध्यति ।
ततश्च क्षत्रियो राजे­त्य­प्रा­प्ति­र्ब्रा­ह्म­णा­दीनां राजसूय इति सिद्धा­न्ति­म­त­मा­श­ङ्क्याह पूर्ववादी –
बलवदार्येति ।
प्रयोगमूला हि पाणि­नि­स्मृ­ति­रा­र्य­प्र­यो­ग­वि­रोधे चातन्मूला म्लेच्छ­प्र­यो­ग­मूला स्यात् । अतो मूलबाधेन बाध्येत्यर्थः ।
नखनकुलादिवदिति ।
खं न भवति इति नखं , कुलं न भवतीति नकुलमित्यत्र रूढावेव शब्दौ यथा व्युत्पाद्येते , एवं राजशब्द इत्यर्थः । पाणिनिर्हि ; नभ्रा­ण्न­पा­न्न­वे­दा­ना­स­त्या­न­मु­चि­न­कु­ल­न­ख­न­पुं­स­क­न­क्ष­त्र­न­क्र­ना­केषु प्रकृत्ये’’ति नखादिशब्दानां नञ् समासमङ्गीकृत्य नलो­पा­भा­व­सि­द्ध्यर्थं प्रकृतिभावं सस्मार ।
यदुक्तं यव­व­रा­हा­दि­श­ब्दे­ष्विव राजशब्देऽपि क्षत्रि­य­मा­त्र­वि­ष­य­त्व­गो­चरा म्लेच्छ­प्र­सि­द्धि­रा­र्य­प्र­सिध्द्या बाध्येति , तत्राह –
रूपत इति ।
अना­दि­वृ­द्ध­व्य­व­हा­र­रू­ढ­त्वा­दा­र्य­म्ले­च्छ­प्र­यो­गयोः स्वरूपतस्तावन्न विशेषोऽस्ति , यवादिशब्देषु तु वैदि­क­वा­क्य­शे­षा­नु­गृ­ही­ता­र्य­प्र­सि­द्धे­र्ब­ल­व­त्त्व­मुक्तं , राजशब्दे त्वार्य­प्र­सि­द्धे­र्नास्ति वेदानुग्रह इति द्वयोः प्रसि­ध्द्यो­र­वि­शेष इत्यर्थः ।
एव­म­वि­शे­ष­मुक्त्वा म्लेच्छ­प्र­सिद्धे राजशब्दविषये विशेषमाह –
वैदि­क­वा­क्य­शे­ष­व­दिति ।
प्रयोगो हि नानादेशेषु नाना­पु­रु­षै­र्वि­र­च्यते इति संभवद्विप्लवः । स्मृतिस्तु शिष्टपरिगृहीता व्यवस्थिता । ततश्च तद­नु­गृ­ही­त­म्ले­च्छ­प्र­योग आर्यप्रयोगाद् बलीयानित्यर्थः । उक्तं हि – ‘‘आचा­र­यो­र्वि­रो­धेन संदेहे सति निर्णयः । सनिबन्धनया स्मृत्या बली­य­स्त्वा­द­वा­प्यते’’ इति ।
अनादिरिति ।
मुख्येत्यर्थः ।
गोगाव्यादीति ।
गावीशब्दो ह्यशत्तया प्रयुक्तो न गोशब्दस्य गौणत्वमापादयति , एवमिदमपीत्यर्थः ।
तत्किं राज्यकर्तरि राजशब्दप्रयोगः सर्वथा त्याज्यः ? नेत्याह –
तस्मादिति ।
तदेवं यथा क्षत्रियकर्तृके राजसूये ब्राह्म­णा­दे­र­न­धि­का­रा­द­वेष्टेः प्रक­र­णा­दु­त्कर्षः , एवं मनश्चिदादीनामपि क्रिया­प्र­क­र­णा­ल्लि­ङ्गा­दि­भि­रु­त्कर्ष इत्याह –
क्षत्रि­य­स्यै­वा­धि­का­रा­दिति ।
ननु ब्राह्म­णा­दि­वा­क्या­ना­म­प्रा­प्त­ब्रा­ह्म­णा­दि­प्रा­प­कत्वे यदिशब्दविरोध उक्त इति , तत्राह –
अन्वयानुरोधीति ।
अन्वयः प्राप्तिः । यदिशब्दो हि निपातः । निपा­ता­श्चो­त्स­र्गतः प्राप्ति­म­पे­क्षन्ते । अप्राप्ते चार्थे वाक्या­द्ग­म्य­माने यदिशब्दो भञ्जनीय इत्यर्थः । तदाहुः भट्टाचार्याः - ‘‘यदि­श­ब्द­प­रि­त्यागो रुच्य­ध्या­हा­र­क­ल्पना । व्यवधानेन सबन्धो हेतुहेतुमतोश्च लिङ्’’ इति शेषः । यदि रोचयेत फलं मे स्यादिति , तर्हि ‘‘ब्राह्मणो यजेते’’ति रुच्य­ध्या­हा­र­क­ल्प­नान्न विधि­त्व­क्ष­ति­रि­त्यर्थः ।
व्यवधानेन संबन्ध इति ।
यदि बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाऽ­भि­घा­र­ये­द­भि­घा­र­यि­तु­मि­च्छे­दिति कामप्रवेदने लिङ् । अर्थात्तु विधिः । एकस्मिन् वाक्ये विधिद्वयायोगात् , तर्हि ब्राह्मणो यजेतेति विधिरेवेत्यर्थः ।
हेतुहेतुमतोरिति ।
यदि ब्राह्म­ण­य­ज­न­मा­हु­त्य­भि­घा­रणे हेतु­स्त­दाऽऽ­हु­त्य­भि­घा­र­ण­मेवं कर्त­व्य­मि­त्यर्थः । अत्रैको लिङ् हेतुमत्त्वे अपरो विधौ । तत्राप्येकस्य विधिरर्थादपरस्य श्रौत इति ।
नन्वि­द­म­धि­क­र­ण­म­ना­र­म्भ­णी­यम् ; फलाभावात् , अवेष्टिं प्रकृ­त्यै­त­याऽ­न्ना­द्य­कामं याजयेदिति पृथ­ग­धि­का­र­श्र­व­णात् , त्रयाणां वर्णा­ना­म­वे­ष्टा­व­धि­का­र­सिद्धौ यदि ब्राह्मण इत्या­दे­र्नि­मि­त्ता­र्थ­ताया दुर्वारत्वात् , अत आह –
इयं चेति ।
ननु ‘‘राजा राजसूयेन स्वाराज्यकामो यजेते’’ति वाक्ये राजपदं कर्तृसमर्पकम् ; स्वारा­ज्य­का­म­स्यो­द्दे­श्य­त्वेन तद्व्या­व­र्त­कत्वे वाक्य­भे­द­प्र­स­ङ्गात् , तथा च प्रकृतयागमात्रे राज­वि­धे­र­न्ना­द्य­का­मा­धि­का­रेऽपि राज­प­दा­नु­वृ­त्ते­र्ब्रा­ह्म­णा­दी­ना­म­प्रा­प्त­त्वेन निमि­त्ता­र्थ­त्वा­सं­भ­वा­त्कथं कृत्वा­चि­न्ताऽऽ­श्रिता ? न ह्यधि­का­र­वा­क्या­न्त­र­गतं राज­प­द­म­धि­का­र­वा­क्या­न्तरे राजानं विधातुं क्षमम् । यद्युच्येत राज­सू­य­म­ध्य­स्था­या­स्ता­व­द­वेष्टेः राजकर्तृकत्वं सिद्धम् । एवं सत्येतयेति साङ्गेष्टेः परामर्शेन फले विधा­ना­द­धि­का­रा­न्त­रेऽपि राज­क­र्तृ­के­ष्टि­लाभ इति , तदपि न ; उत्पन्नमात्रं हि कर्म फले विधेयं नाङ्गविशिष्टम् ; अङ्गविशिष्टस्य फल­सं­ब­न्धेऽ­ङ्गानां फल­व­द­ङ्ग­भा­वा­भा­व­प्र­स­ङ्गात् ।
तस्मात्सूक्तं कृत्वाचिन्तेति ।
ननु भाष्य­का­रै­रे­का­द­श­ग­त­म­धि­क­र­ण­मु­दा­हृतं , टीकाकृता द्वितीयगतं , तत्र कोऽभिप्रायः । तं वक्ष्यामः । तद­र्थ­मे­का­द­शा­धि­क­र­ण­म­नु­क्र­म्यते । अवेष्टौ चैकतन्त्र्यं स्याल्लि­ङ्ग­द­र्श­नात् । (ब्र.९.अ.११.पा.४) राज­सू­येऽ­वे­ष्टि­रा­म्ना­यते – ‘‘आग्ने­योऽ­ष्टा­क­पालो हिरण्यं दक्षिणा बार्ह­स्प­त्य­श्चरुः शितिपृष्ठो दक्षिणे’’ इति ।
तत्रा­ग्ने­या­दि­ह­विः­ष्व­ङ्गानां तन्त्रेण प्रयोग उतावृत्त्येति संशयः । तत्र बार्हस्पत्यं मध्ये निधायेति लिङ्गदर्शनात् प्रयोगभेदे च मध्ये निधा­ना­सं­भ­वा­दे­त­याऽ­न्ना­द्य­का­म­मि­त्ये­क­व­च­ना­च्चै­क­त­न्त्र्य­मे­क­स्मिन् प्रयोगेऽङ्गानां तन्त्रेण भावः सकृदनुष्ठानमिति पूर्वपक्षं कृत्वा राद्धान्तितम् - अन्ना­द्य­का­म­प्र­यो­गेऽ­वे­ष्टे­रिदं , लिङ्गदर्शनादिति न क्रत्व­र्थ­प्र­योगे , तस्य तु दक्षि­णा­भे­दा­द्भेद इत्य­ङ्गा­वृ­त्ति­रेव । तत्र क्रत्व­र्था­या­म­वेष्टौ इदं लिङ्ग­द­र्श­ना­दि­क­मि­त्या­श­ङ्का­नि­रा­सार्थं क्रत्व­र्था­या­मिति चेदिति सूत्रम् । काम्यायां ‘‘यदि ब्राह्मण’’ इत्यादिना वर्ण­मा­त्र­सं­यो­गात् , तस्यां च मध्य­नि­धा­ना­दि­प्र­ती­तेर्न राज­मा­त्र­क­र्तृ­क­क्र­त्व­र्थेष्टौ तत्प्रा­प्ति­रि­त्यर्थः । तत्र वर्ण­सं­यो­गा­दि­हेतोः क्रत्व­र्थे­ष्टा­वपि गतत्वेन विरु­द्ध­त्व­मा­शङ्क्य तत्परिहारार्थं द्विती­या­धि­क­र­णा­नु­क्र­म­ण­मिति । एकप्रयोगत्वं लिङ्गस्य क्रत्व­र्थे­ष्टा­व­स­म्भवं काम्येष्टौ च संभवं वदता तेन सूत्रेण काम्येष्टेः क्रत्व­र्थे­ष्टि­वै­ल­क्ष­ण्य­सू­च­न­द्वा­रे­णा­र्थात् प्रक­र­णो­त्क­र्षोऽपि गमित इति भाष्य­का­र­स्यै­त­त्सू­त्रो­दा­ह­रणं नासङ्गतम् ॥४७॥४८॥४९॥५०॥५१॥५२॥ पुरु­षा­यु­ष­स्या­हानि षट्त्रि­श­त्स­ह­स्राणि तैरवच्छिन्ना मनोवृत्तयः प्रत्य­हो­रा­त्र­मे­कैका भूत्वा षट् त्रिंशत्सहस्रा भवन्ति । ता एता­व­त्सं­ख्या­के­ष्टका ममाऽग्नित्वेन सम्पाद्यन्ते षट्त्रिंशत् सह­स्रा­णी­त्या­दिना मन एवात्मनः संब­न्धि­भू­ता­न­ग्नी­न­र्क्या­न्व­र्ण­व्य­त्य­ये­ना­र्च्या­न्पू­ज्या­न­प­श्य­दि­त्यर्थः । मनसा चीयन्त इति मनश्चितः सुखा­दि­प्र­त्य­य­रूपाः । एवं वागादिवृत्तयो वागा­दि­भि­श्ची­य­मा­न­त्वा­द्वा­गा­दि­चितः । प्राणशब्देन घ्राण­मु­क्त­मि­न्द्रि­या­धि­का­रार् । कर्मशब्देन वाग­ति­रि­क्त­क­र्मे­न्द्रि­याणि । प्रती­न्द्रि­य­वृ­त्त्यै­कै­क­म­ग्नी­च­यनं सम्पाद्यम् ।
अत एव भाष्यं पृथगग्नीनिति ।
तेषा­मे­वा­ग्नी­ना­मेव सा कृतिः सङ्क­ल्प­मा­त्र­मि­त्यर्थः । ग्रह­णा­सा­द­ने­त्यादि भाष्यम् ॥ तत्र ग्रहणं सोमस्य पात्रे उपादानम् । आसादनं स्थापनम् । हवनानन्तरं हुत­शे­षो­पा­दा­न­मा­ह­र­णम् । पश्चादृत्विजां भक्ष­णा­र्थ­म­न्यो­न्य­म­नु­ज्ञा­क­र­ण­मु­प­ह्वा­नम् । ते अग्नयो मनसैव आधीयन्त आहिताः । अचीयन्त चिताः । एष्वग्निषु ग्रहा अगृह्यन्त गृहीताः । अस्तुवत स्तोत्र कृतवन्त उद्गातारः । अशंसन् शंसनं कृतवन्तो होतारः । किं बहुना ? यत्किंचिद्यज्ञे कर्म क्रियते आरादुपकारकं , यच्च यज्ञीयं यज्ञ­नि­ष्प­त्त्य­र्थ­त्वेन यज्ञार्थं सन्नि­प­त्यो­प­का­र­मि­त्यर्थः । तन्मनसैवाक्रियत कृतमित्यर्थः । योऽग्निश्चितः सोऽयमेव लोक इति चितेऽग्नौ पृथि­वी­दृ­ष्टि­र्वि­धी­यते ॥
इत्येकोनत्रिंशं लिङ्ग­भू­य­स्त्वा­धि­क­र­णम् ॥

एक आत्मनः शरीरे भावात् ॥५३॥
प्रमा­ण­ल­क्ष­णो­प­यो­गि­त­येति ।
‘‘यज्ञायुधी यजमानः स्वर्ग लोकं यातीति वाक्यस्य देहा­ति­रि­क्ता­त्मा­भा­वा­द­प्रा­मा­ण्य­प्राप्तौ तत्परिहारेण प्रथ­मा­ध्या­यो­प­यो­गि­त­ये­त्यर्थः ।
अत एवेति भाष्यगतातःशब्दं पूरयति –
यत इहेति ।
वक्ष्यतीति भविष्यत्प्रयोगः पूर्व­का­ण्डा­पेक्षः । इतः पूर्वकाण्डे नय­न­म­प­क­र्ष­स्त­स्यो­द्धारो निवृत्तिः कृतेत्यर्थः । मनश्चिदादीनां पुरु­षा­र्थ­त्व­म­नु­प­पन्नं देह­व्य­ति­रि­क्तस्य तत्फ­ल­भो­क्तु­र­भा­वा­दि­त्या­क्षे­प­ल­क्षण पूर्वा­धि­क­र­ण­स­ङ्गतिः ।
तामाहेत्याह –
पूर्वाधिकरणेति ।
ननु न भूतानामेकैकस्य चैतन्यमुपलभ्यते ; घटादेरदर्शनात् , नापि मिलितानां ;वह्नितमोऽयसि दृति­वा­यु­स­मा­ध्माते सलि­ल­क­णा­भ्यु­क्षिते भूत­च­तु­ष्ट­य­मे­ल­नेऽपि चैत­न्या­नु­प­ल­म्भात् ।
तत्र भूतसंघाते शरीरे कथं चैतन्यसंभावना ? अतः पूर्वपक्षाभाव इत्याशङ्क्याह –
यद्यपि समस्तेति ।
देहो न चेतनः भूतत्वाद् घट­व­दि­त्य­नु­मा­नस्य च प्रत्यक्षबाधं वक्ष्यत्यहमिति चानुभव इत्यादिना । अतश्च बाधितविषये पक्षे­त­र­स्या­प्यु­पा­धि­त्वा­द्दे­ह­त्व­मु­पा­धि­रु­न्नी­यत इत्यर्थः ।
तथाविधोदाहरणेन प्रति­ब­न्दी­ल­क्ष­णेन प्रति­कू­ल­त­र्क­प­रा­हतिं चानुमानस्य दर्शयति –
न हीति ।
किण्वं नाम मदि­रा­र­म्भ­क­द्र­व्य­वि­शेषः । यदि सम­स्त­व्य­स्त­वि­क­ल्पेन देहस्य चैतन्यमपह्नूयेत , तर्हि मदिरायां मद­क­र­ण­त्व­म­प­ह्नुतं स्यादित्यर्थः ।
नन्वहमिति प्रत्यक्षे देहाश्रित आत्मा भासतेऽतः कथं देहोऽचेतन इत्यनुमानस्य बाधस्तत्राह –
न त्विति ।
स देहोऽ­धि­ष्ठा­न­मा­श्रयो यस्य स तदधिष्ठानः कुण्ड इव दधीति वैध­र्म्य­दृ­ष्टान्तः । यथा कुण्डे दध्याश्रितं तदतिरिक्तं प्रतीयते , नैवमात्मा देहा­श्रि­तोऽ­ह­मिति प्रतीयत इत्यर्थः ।
अत्र हेतुमाह –
अत एवेति ।
यत एव देहातिरिक्त आत्माऽहमनुभवे न प्रतीयते अत एवाहमस्य देहधर्मैः स्थौल्यादिभिरहं स्थूलो गच्छा­मी­त्या­दि­रू­पेण सामा­ना­धि­क­र­ण्यो­प­पत्तिः । न ह्याश्रितस्य वस्तुन आश्र­य­ध­र्मै­स्ता­दात्म्यं संभवति । तस्मा­द्दे­ह­ध­र्मै­स्ता­दा­त्म्या­नु­भ­वा­द­हं­प्र­त्य­य­वि­ष­य­स्या­त्मनो देह एवात्मेत्यर्थः ।
यच्च देह­व्य­ति­रि­क्ता­त्म­वा­दि­नो­च्यते देहा­श्रि­ता­त्म­गता एव ज्ञानादय आश्र­य­भू­त­त­त्त­द्दे­ह­ता­दा­त्म्येन प्रतीयन्तेऽहं पश्या­मी­त्या­दि­व्य­व­हा­र­स­मय इति , तदयुक्तमित्याह –
न जातु दधीति ।
यथा दधि­स­मा­ना­धि­क­र­णानि दध्ना तादा­त्म्य­प्र­ती­ति­यो­ग्यानि शैत्यादीनि दध्या­श्रि­त­कु­ण्डै­का­धि­क­रण्यं तादात्म्यं नानुभवन्ति , एवमात्माश्रिता ज्ञानादयो न देहतादात्म्येन प्रतीयेरन् , यदि देह आत्मानं प्रत्याश्रयः । प्रतीयन्ते च । तस्मान्न देह आत्माश्रयः किं त्वात्मै­वे­त्यर्थः । अयमत्र प्रयोगः - ज्ञानं देह­ध­र्म­स्ता­दा­त्म्ये­नो­प­ल­ब्ध­त्वा­द्दे­ह­रू­प­व­दिति ।
एवं देह­व्य­ति­रि­क्ता­त्मा­नु­मा­नस्य बाधमुपाधिं सत्प्रतिपक्षतां चोक्त्वा शङ्कि­त­व्य­भि­चा­र­त्व­माह –
न चाप्र­त्य­क्ष­मि­त्या­दिना ।
अप्र­त्य­क्ष­मा­त्म­तत्त्वं प्रत्यक्षाविषय इत्यर्थः ।
न खल्व­प्र­त्य­क्ष­मिति ।
प्रत्य­क्षा­ति­रि­क्त­मि­त्यर्थः ।
देशकालादीति ।
भावा­ना­म­ग्न्या­दी­ना­म­नु­मा­नेन भूमादिलिङ्गेन प्रसि­द्धि­र­ति­दु­र्बला । कुतो देश­का­ला­व­स्था­दि­स्व­रू­पाणां भेदेन वस्तुशक्तिषु भिन्नासु सतीषु व्याप्ति­ग्र­ह­ण­दे­शा­दा­व­ग्ने­र्धू­म­ज­न­न­श­क्ति­रा­सी­द­नु­मा­न­दे­शादौ सा नास्तीति शङ्क­याऽ­ग्ने­र्धू­म­ज­न­क­त्वा­भा­व­स्यापि संभवेन धूम­स्या­ग्नि­व्य­भि­चा­रा­श­ङ्को­त्था­ना­दि­त्यर्थः ।
मा भूद­नु­मा­ना­द्दे­हा­ति­रि­क्ता­त्म­सि­द्धि­रा­ग­मा­दि­भ्यस्तु स्यादिति , नेत्याह –
यदा चेत्यादिना ।
उपलब्ध्या साक्षा­त्का­र­रू­पया साध्यः प्रमेयो नान्तरीयकभावः । नान्तरेण व्यापकं लिङ्गं भवतीत्येवंभावो व्याप्यत्वं यस्य लिङ्गस्य तल्लिङ्गं तथोक्तं तस्य यदा इयं गति­र्व्य­भि­चा­र­शङ्का , तदा कैव कथा तद्धी­न­स्ये­त्यर्थः । अङ्गुल्यग्रे हस्तियूथादौ शब्दस्य दृष्ट­व्य­भि­चा­र­त्वम् , अर्थापत्तेः शक्त्या­द्य­त्य­न्त­प­रो­क्षा­र्थ­गो­च­र­त्वेन दृष्ट­व्या­प्ते­र्लि­ङ्गा­द्वै­ध­र्म्य­मु­क्तम् । गोसदृशं गवयं दृष्ट्वा गौरनेन सदृशीत्युपमानं प्रवर्तते । तत्सर्वात्मना सादृश्ये प्रव­र्ते­तै­क­दे­शेन वा ।
नाद्य इत्याह –
सर्वसारूप्य इति ।
तत्त्वात्तस्यैव तेन सर्व­सा­रू­प्या­द्भेदे कस्यचिदपि वैसादृश्यस्य भावा­न्नो­प­मा­न­सं­भव इत्यर्थः ।
न द्वितीय इत्याह –
एकदेशेति ।
सूत्रे प्रतिज्ञैव हेतुगर्भा । एके­दे­ह­व्य­ति­रि­क्त­स्या­त्म­नोऽ­भावं मन्यन्त इत्युक्ते आत्मनि तदु­प­ल­म्भ­क­प्र­मा­णा­भा­वा­द­भा­व­प्र­मा­ण­स्यै­वा­त्मा­भा­व­सा­ध­क­त्व­मि­त्य­र्था­द­व­ग­ते­रिति स्वेन व्याख्यातम् ।
शरीरे भावादित्यपरो हेतुः स भाष्य­कृ­द्भि­र्व्या­ख्यात इत्याह –
सौत्रस्त्विति ।
प्राण­चे­ष्टे­त्यादि भाष्यं सौत्र­हे­तु­वि­व­र­ण­परं , तत्र चेष्टेति क्रियामात्रं देह­स्या­त्म­त्व­सा­धकं न भवति ; घटादावपि तद्भा­वा­दि­त्या­शङ्क्य व्याचष्टे –
हिताहितेति ।
अन्तःशरीराश्रया इति ।
देहा­भ्य­न्त­र­प्र­दे­शस्य परिणामा इत्यर्थः ।
नन्व­न्तः­श­री­र­प्र­दे­शा­श्रि­त­त्व­मि­च्छा­दी­ना­म­प्र­त्य­क्ष­मपि यथा कल्प्यते , एव­मा­त्मा­श्रि­त­त्व­मपि कल्प्यतामत आह –
शरीरातिरिक्त आत्मनीति ।
अत्य­न्ता­प्र­मि­ता­त्मा­श्रि­त­त्व­क­ल्प­ना­द्वरं प्रमि­त­दे­ह­स्या­भ्य­न्त­र­प्र­देशे इच्छादयः सन्तीति कल्पनमित्यर्थः ॥५३॥
अनु­मा­ना­दि­प्र­मा­णा­ना­म­सि­द्धि­मुक्तां तावत्परिहरति –
नाप्र­त्य­क्ष­मि­त्या­दिना ।
अनु­मा­ना­दी­ना­म­प्रा­माण्यं प्रत्यक्षेण वाऽवगम्यते अनुमानादिभिर्वा ।
नाद्य इत्याह –
प्रत्यक्षं हीति ।
इदं प्रत्यक्षमियतो लिङ्ग­स्व­रू­प­त­द्व्य­भि­चा­र­त­द­प्रा­मा­ण्या­दि­प­रि­च्छे­दान् कर्तुं न समर्थमित्यर्थः ।
द्वितीये व्याघात इत्याह –
तस्मादिति ।
प्रमा­णा­न्त­रा­भ्यु­प­गमे तद­प्रा­मा­ण्यो­क्ति­र्व्या­ह­ते­त्यर्थः ।
व्याघातान्तरमाह –
अपि चेति ।
प्रतिपन्नः संप्र­ति­प­त्ति­मान् पुमान् । तं विहा­या­प्र­ति­प­त्ति­प्र­ति­प­त्ति­सं­दे­ह­वन्तः पुमांसः प्रेक्षावद्भिः प्रतिपाद्यन्ते व्युत्पाद्यन्त इत्यर्थः । इत्थं­भा­वोऽ­प्र­ति­प­त्ति­म­त्त्वा­दयः ।
एवं प्रति­ज्ञा­व्या­घातं कथा­प्र­वृ­त्ति­व्या­घातं चोक्त्वा लोक­या­त्रा­वि­रो­ध­माह –
अपि च पशवोऽपीत्यादिना ।
शष्पं बालतृणम् । आश्यानमीषत् शुष्कम् । इष्टा­नि­ष्ट­सा­ध­नम् अविद्वान् पशोरपि पशुरित्यर्थः । अनु­मा­न­गो­च­र­श्चासौ प्रवृ­त्ति­गो­च­र­श्चे­ष्टा­नि­ष्ट­सा­ध­न­त्वम् । तत्र प्रत्यक्षं न हि प्रभवतीति योजना । अयमोदनः क्षुन्निवर्तकः ओदनत्वात् प्राग् भुक्तौ­द­न­व­दि­त्या­द्य­नु­मा­नाद्धि इष्टाऽ­नि­ष्ट­सा­ध­न­त्वा­व­गमः , ततः­प्र­वृ­त्ति­र­नि­ष्ट­सा­ध­न­त्वा­नु­मा­नाच्च निवृत्तिरिति । एवं विपक्षे व्याघा­त­द­ण्ड­मा­पा­द्याऽ­नु­मा­न­प्रा­माण्यं स्वीकारितम् ।
शब्द­प्रा­मा­ण्य­मपि तथैव स्वीकारयति –
न च पर­प्र­त्या­य­ना­येति ।
मूकत्वं नास्तिकस्य शब्द­प्रा­मा­ण्या­नि­ष्टे­रा­प­न्नम् । प्रवृ­त्ति­नि­वृ­त्ति­वि­र­होऽ­नु­मा­न­प्रा­मा­ण्य­वि­र­हा­दा­पन्न इति विभागः ।
यत्तू­क्त­म­दृ­ष्ट­व्या­प्ति­काऽ­र्था­प­त्ति­र­त्य­न्त­प­रो­क्षा­र्थ­वि­ष­य­त्वा­द­प्र­मा­ण­मिति , तत्राह –
अत्यन्तेति ।
यद्यपि न व्याप्ति­द­र्श­न­मस्ति , अर्थ­स्या­त्य­न्त­प­रो­क्ष­त्वात् ; तथा­प्य­न्य­था­नु­प­प­द्य­मा­न­स्फो­टा­दि­का­र्य­रू­पा­र्थ­ज­न्याऽ­र्था­पत्तिः शक्त्या­दि­वि­ष­यो­दे­ष्य­तीति भावः ।
यच्च सर्व­सा­दृ­श्य­किं­चि­त्सा­दृ­श्या­भ्या­मु­प­मा­न­दू­ष­ण­म­भाणि , तन्निराकरोति –
भूयःसामान्येति ।
न सर्वात्मना सादृ­श्य­ज्ञा­न­मु­प­मा­न­सा­मग्री ; नापि किंचि­न्मा­त्र­सा­दृ­श्य­ज्ञा­नम् , अपि तु बहु­त­र­सा­मा­न्य­यो­ग­ज्ञा­नम् । तच्च गोगवयादेरेवेति नातिप्रसङ्ग इत्यर्थः । प्रत्यक्षं प्रत्यभिज्ञा , सा च जाग्र­त्स्व­प्न­दे­ह­यो­र्यो­ग­व्या­घ्र­म­नु­ष्य­दे­ह­योश्च भेदे­प्य­भि­द्य­मा­न­म­हं­प्र­त्य­या­ल­म्बनं शरी­रा­द्भि­न­त्ती­त्यर्थः । इत्युक्तं प्रथमसूत्रे इत्यर्थः ।
एव­म­नु­मा­ना­दि­प्रा­माण्यं सामान्यतः सम­र्थ्यो­भ­य­सं­म­त­प्र­त्य­क्षेण च देह­व्य­ति­रे­क­मा­त्मन उक्त्वाऽ­नु­मा­ना­दपि व्यतिरेकं सूत्र­व्या­ख्या­नेन दर्शयति –
सूत्रयोजना त्वित्यादिना ।
इह हि सूत्र­का­रे­णे­द­मु­क्तम् । यस्य ज्ञानं धर्मः स तावदात्मा , देहस्य च न ज्ञानं धर्मः ; देहभावेऽपि मृतावस्यायां ज्ञानाभावादिति ।
तदयुक्तम् ; अया­व­द्दे­ह­भा­वि­नोऽपि संयो­गा­दे­र्दे­ह­ध­र्म­त्वे­ना­ने­का­न्ता­दत आह –
चैतन्यादिरिति ।
चैतन्यं हि स्वाश्र­य­स्या­ष्ट­द्र­व्येभ्यो व्याव­र्त­क­सा­मा­न्य­व­त्त्वा­द्वि­शे­ष­गुणाः । इदं च लक्षणं तर्क­पा­दो­क्त­यु­क्ति­नि­ष्पी­ड­ना­स­ह­मपि देहा­त्म­प्र­त्य­य­व­द्व्य­व­हा­रा­ङ्ग­त्वा­द­भ्यु­पे­यते ।
अस्तु विशे­ष­गु­ण­श्चै­तन्यं , ततः किं जातमत आह –
तथा चेति ।
यदा नित्य­स्या­त्म­न­श्चै­त­न्य­म­नि­त्य­वि­शे­ष­गु­ण­स्त­दाऽ­नै­का­न्ति­क­त्व­मा­शङ्क्य भूतविशेषगुण इत्युक्तम् । सिद्धा­न्तेऽ­प्य­न्तः­क­र­ण­वृ­त्ति­प्र­ति­बि­म्बि­त­चै­त­न्यस्य प्रति­बि­म्ब­भू­ता­त्म­न्य­ध्य­स्त­त्वेन तदाश्रितत्वाद् विशे­ष­गु­ण­त्व­व्य­व­हारे न काचित् क्षतिः । शब्दस्य च स्थायि­त्वा­द्या­व­दा­का­श­भा­वि­त्व­मि­ष्यत एवेति न तेनापि व्यभिचार इति । तदयं प्रयोगः - ज्ञानं , न देहविशेषगुणः , अया­व­द्दे­ह­भा­वि­त्वाद् घटवदिति ।
नन्वेवमपि प्राण­चे­ष्टा­दीनां विशे­ष­गु­ण­त्वा­भा­वे­ना­या­व­द्दे­ह­भा­वि­ना­मपि देह­द­र्म­त्व­सं­भ­वा­त्कथं देह­व्य­ति­रि­क्ता­त्म­ग­म­क­त्व­मत आह –
एवमिति ।
प्राणादयो नास्य सम­वा­यि­त्वे­ना­त्मानं कल्पयन्ति , किं तु निमि­त्त­त्वे­ने­त्यर्थः ।
तस्यापि देहा­श्र­य­त्वा­नु­प­प­त्ते­रिति ।
अदृष्टमपि हि विशेषगुणः , तच्चेद्देहस्य , तर्हि भूत­वि­शे­ष­गु­ण­त्वा­द्या­व­दा­श्र­य­म­नु­व­र्ते­तेति मृतावस्थायामपि भावान्न प्राणा­द्य­भा­वो­प­पा­दकं स्यादित्यर्थः ।
विमताः, न देव­द­त्त­दे­ह­वि­शे­ष­गुणाः , गुणत्वे सति देव­द­त्ते­त­र­प्र­त्य­क्ष­त्व­र­हि­त­त्वाद् , घट­व­दि­त्य­नु­मा­न­माह –
स्वपरप्रत्यक्षा हीति ।
यद्यपि घटादयः परप्रत्यक्षाः ; तथापि गुणत्वे सति न परप्रत्यक्षाः । तेषां गुण­त्वा­भा­वा­द्वि­शे­ष­णा­भा­वेऽपि विशि­ष्टा­भा­वा­दिति न साधनविकलता । देहगतगुरुत्वादौ परा­प्र­त्य­क्षेऽ­नै­का­न्ति­क­त्व­प­रि­हा­रार्थं प्रतिज्ञायां विशेषग्रहणम् । यथाश्रुतस्तु ग्रन्थो न घटत एव ; इच्छादयो न देहविशेषगुणाः स्वप­रा­प्र­त्य­क्ष­त्वा­दि­त्युक्ते इच्छा­द्य­ति­रि­क्त­स्व­प­रा­प्र­त्य­क्ष­प­दा­र्थस्य परे­षा­म­सि­द्ध­त्वेन दृष्टा­न्ता­भा­वाद् , वैध­र्म्य­मा­त्रस्य च व्याप्ति­र­हि­त­स्या­सा­द­क­त्वा­दिति ।
यदुक्तं पूर्वपक्षिणा भूते­ष्व­या­व­द्भू­त­भा­व्यपि चैतन्यं देहाकारपरिणतेषु स्यान्म­द­श­क्ति­व­दिति , तदपि न सिद्ध्यति ; चैतन्यस्य भूत­वि­शे­ष­गु­ण­त्वेन याव­द्दे­ह­भा­वि­त्वा­नु­मा­न­व­द्या­व­द्भू­त­भा­वि­त्वा­नु­मा­नाद् , मदशक्तेश्च विशे­ष­गु­ण­त्वा­भा­वेन दृष्टा­न्त­वै­ध­र्म्या­दि­त्याह –
तत्र यद्यपीति ।
परा­प्र­त्य­क्ष­त्वेन हि चेतन्यस्य भूत­वि­शे­ष­गु­ण­त्व­म­न­न्त­र­मेव प्रतिषिद्धं , तद­भ्यु­पे­त्या­प्ययं वाद इति सूचनार्थं यद्यपीत्युक्तम् । मदशक्तेः किण्वादिषु अया­व­दा­श्र­य­भा­वि­त्व­म­भ्यु­पेत्य दृष्टा­न्त­वै­ष­म्य­मु­क्तम् ।
इदानीं मद­श­क्ति­व­च्चै­त­न्यस्य परि­णा­म­ध­र्म­त्व­म­भ्यु­पे­त्या­प्याह –
अपि च मदशक्तिरिति ।
मात्रया एकदेशेन । यथा विहङ्गमा हस्तमात्रमपि देश­म­ति­प­ति­तु­म­ति­क्र­मितुं नोत्सहन्ते , एवं नाना­चे­त­ना­धि­ष्ठितं शरीरमपि न किंचि­त्क­र्तु­मु­त्स­हे­ते­त्यर्थः ।
किमात्मकमिति भाष्ये प्रश्नो न क्रियते ; देहधर्मत्वेन चैतन्यस्य तन्मते प्रसिद्धत्वात् ; नाप्याक्षेपः ; देह­ध­र्म­त्व­नि­रा­सेन तस्यापि जातत्वादत आह –
दूषणान्तरमिति ।
पूर्वं हि देह­भा­वेऽ­प्य­भा­वान्न देह­ध­र्म­श्चै­त­न्य­मि­त्यु­क्तम् , इदानीं देहधर्मस्य रूपा­दि­व­द्दे­ह­सा­क्षि­त्वा­यो­गा­च्चै­त­न्या­त्म­क­त्व­मे­वा­नु­प­प­न्न­मिति दूष­णा­न्त­र­म­भि­धातुं प्रथमं ताव­ल्लौ­का­य­ति­कस्य भूत­च­तु­ष्ट­या­ति­रिक्तं चैतन्यं नास्ती­त्या­क्षेपः क्रियत इत्यर्थः ।
स एवेति ।
आक्षे­प्ते­त्यर्थः । देवदत्तचैतन्यं , न देवदत्तदेहधर्मः , तद्ग्राहकत्वाद् यज्ञ­द­त्त­चै­त­न्य­व­दि­त्य­नु­मा­नम् ।
कालातीतत्वं च देह­ध­र्म­ग्रा­हि­णोऽ­नु­मा­न­स्याह –
उपलब्धिग्राहिण एवेति ।
उप­ल­ब्धे­रा­त्म­त्व­सि­द्ध्यर्थं भेदो निराक्रियते । तत्रो­प­ल­ब्धे­र्भेदः स्वाभाविक औपाधिको वा ।
नाद्य इत्याह –
आजानत इति ।
स्वभावत इत्यर्थः ।
न द्वितीय इत्याह –
न चेति ।
अध्यासभाष्ये ह्युप­ल­ब्धि­व्य­ति­रे­केण विषयाणां प्रकाशो न संभवतीत्युक्तम् । ततश्च विषया एव न सन्ति , कैरु­पा­धि­भि­रु­प­ल­ब्धि­र्भि­द्ये­ते­त्यर्थः ।
विषयाणां पर­स्प­र­भे­दा­भा­वा­दपि न तदुपाधिक उपलब्धिभेद इत्याह –
न च विषयभेदग्राहि प्रमाणमस्तीति ।
उप­ल­ब्धि­व्य­ति­रि­क्त­वि­ष­यस्य सद्भावे प्रमा­णा­भा­वा­द्वि­ष­य­स्व­रूपं दुर्लभम् । विष­या­णा­म­न्यो­न्य­भे­द­ग्रा­हि­प्र­मा­णा­भा­वा­द्भेदः सुदुर्लभ इत्यर्थः । ब्रह्म­त­त्त्व­स­मी­क्षायां ब्रह्म­सि­द्धि­टी­का­याम् । प्रत्यक्षं वस्तुसत्तामेव बोधयति , न भेदं ; वित्तेः क्रम­व­द्व्या­पा­रा­यो­गात् । न च माना­न्त­रा­द्भे­द­सिद्धिः , प्रति­यो­गि­भे­द­सिध्द्योः पर­स्प­रा­श्र­य­त्वाद् , इत्याद्युक्तम् ।
ननु विषयाभावे उप­ल­ब्धेऽ­नु­प­ल­ब्धृ­त्व­मपि न स्यादि­त्या­शङ्क्य उप­ल­ब्धे­रि­ष्ट­प्र­स­ङ्ग­ता­माह –
तेनेति ।
भाष्येऽ­ह­म­द्रा­क्ष­मि­त्य­ह­ङ्का­रा­व­च्छि­न्नाया उपलब्धेः प्रत्य­भि­ज्ञ­यै­कत्वं समर्थ्यते , न शुद्धा इत्याह –
तत्रा­वि­द्या­द­शा­या­मिति ।
ननु निश्चेष्टेऽपि देहे तस्मिन्सत्येव स्वप्ने उप­ल­ब्धि­द­र्श­ना­द­नु­प­यो­ग­व­र्णनं भाष्येऽ­नु­प­प­न्न­मि­त्या­श­ङ्क्याह –
यो हीति ।
तस्मा­दि­त्य­न­न्त­र­मु­क्ता­र्थो­प­सं­हारो न क्रियते , तस्या­व्या­प­क­त्वा­दि­त्याह – प्रकृतमिति ॥५४॥
इति त्रिंश­मै­का­त्म्या­धि­क­र­णम् ॥

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥
उद्गीथादीनां सर्व­शा­खा­स्वे­क­त्वात् कथ­मु­पा­स­न­व्य­वस्था शङ्क्यते ? अत आह –
स्वरादिति ।
उद्गी­था­दि­श्रु­ते­र्ब­ली­य­स्त्वा­त्त­स्याश्च सामा­न्य­वि­ष­य­त्वेन प्राक­र­णि­क­वि­शे­षा­का­ङ्क्ष­त्वाच्च संशयमाह –
यस्मिन्निति ।
यथा शरी­रा­त्म­नो­र्भे­दा­दा­त्म­ध­र्माणां शरीरे न संभवः , एव­मे­क­शा­खा­ग­तो­द्गी­थ­ध­र्माणां न भिन्ना­न्य­शा­खा­ग­तो­द्गी­थादौ प्राप्तिः , अथवा - विद्याचित एवे­त्ये­व­का­र­श्रुत्या मनश्चिदादीनां क्रियाप्रकरणं भग्नमत्र तद्गी­था­दि­सा­मा­न्य­श्रुतेः प्रक­र­णो­प­नी­त­वि­शे­षा­का­ङ्क्ष­त्वेन बाध­क­त्वा­दु­पा­स्तीनां व्यवस्थेति सङ्ग­ति­द्व­य­म­भि­प्रेत्य पूर्वपक्षमाह –
ओमित्यादिना ।
ननु सामा­न्य­श्रु­ति­बा­धेन कथं सन्निधेः स्थानात् स्वशाखागतविशेष उपासननियम: ? इत्याशङ्क्याह –
न चैवमिति ।
उद्गी­थ­मु­पा­सी­ते­त्य­त्रो­द्गी­थ­श्रु­ते­रु­द्गी­थ­सा­मान्यं वाच्यम् , उद्गी­थ­व्य­क्ति­र्लक्ष्या ; स्वशा­खा­ग­तो­द्गी­थ­व्य­त्त­यु­पा­दाने च सामान्यस्य प्रतिव्यक्ति समाप्तेः सामान्यविशेषौ द्वावपि श्रुत्यर्थौ गृहीतौ , तत्र कथं श्रुतिबाध इत्यर्थः ।
श्रुति­स­म­र्पि­त­मर्थं बाधेतेति ।
सन्निधिरिति शेषः । शाखा­न्त­री­य­स्वी­का­रेऽपि स्वशा­खा­ग­त­यो­स्तयोः स्वीकरणादिति योजना ।
भट्टोक्तिमाह –
यथाहुरिति ।
पटं शुक्लमानयेतीह प्रयोगे पटपदेन श्रुत­प­ट­त्व­जा­ति­ल­क्षितां च शुक्लपटव्यक्तिं गृहीत्वा कृष्णा­दि­प­ट­व्य­क्त्य­न्तरं यदि मुञ्चामस्तत्र तदा का श्रुतिरस्माभिः पीड्यते ? न कापीत्यर्थः ॥ दृष्टान्ते पटमिति सामान्यश्रुतेः संकोचो न सन्नि­धि­मा­त्रा­दपि तु शुक्लमिति सन्नि­हि­त­वि­शे­ष­श्रु­ति­ब­लेन । दार्ष्टान्तिके तूपा­स­न­वि­धा­वु­द्गी­था­दि­स­न्नि­दि­मात्रं , न तु स्वरा­दि­भि­न्न­म­मु­क­मु­द्गी­थ­मु­पा­सी­तेति विशेषविषया श्रुतिर्विद्यते ।
इतश्च दुर्बलं सन्निधिमपबाध्य सामान्यश्रुत्या सर्व­शा­खा­सू­पा­स­नो­प­सं­हार इति सिद्धान्तमाह –
युक्तमित्यादिना ।
ननु वाक्या­च्छ्रु­ते­र्ब­ली­य­स्त्वा­च्छु­क्ल­श्रु­ति­ब­लाद्या काचि­च्छ्रु­क्ल­व्यक्तिः प्रतीयतां , पटशब्दाच्च पटमात्रं , किमिति सामान्यश्रुतेः संकोचस्तत्राह –
विशि­ष्टा­र्थ­प्र­त्या­य­नेति ।
व्यवहारार्थं हि वाक्यप्रयोगः , व्यवहारश्च विशि­ष्टा­र्थ­वि­षयः , न पदा­र्थ­मा­त्र­वि­षयः , तस्य नित्यत्वेन प्रवृ­त्त्य­यो­ग्य­त्वात् , अतो विशि­ष्टा­र्त­प्र­त्ययः पदप्रयोगस्य प्रयोजनम् इत्यर्थः ।
यद्येवं किमर्थं तर्हि पदैः पदार्थाः स्मार्यन्ते ? अत आह –
नच स्वार्थमिति ।
द्वारं पदार्थस्मारणं वाक्या­र्थ­बो­ध­ना­ये­त्यर्थः ।
यदि स्वप्रयोजकं स्वोद्देश्यं वाक्या­र्थ­प्र­त्य­य­म­प­बा­धेत पदार्थस्मरणं , तर्हि स्वयमेव न स्याद् , वैय­र्थ्य­प्र­स­ङ्गा­दि­त्याह –
मा च बाधीति ।
मा बाधि चेत्यन्वयः । बाधितं च प्रसज्येत तच्च मा भूद­यु­क्त­मि­त्यर्थः । तदे­व­मा­न­र्थ­क्य­प्र­ति­ह­तानां विपरीतं बलाबलमिति न्यायेन वाक्य­व­श­व­र्ति­त्व­मे­वं­वि­ध­स्थले श्रुतीनाम् । तत्र विशि­ष्टा­र्थ­प्र­त्य­याय सन्नि­हि­त­वि­शे­ष­श्रु­ति­व­शात् सामान्यश्रुतेः संकोच इत्युक्तं भवति ।
एवं दृष्टान्ते सामान्यश्रुतेः संकोचमुपपाद्य दार्ष्टान्तिके तदभावमाह –
इह त्वित्यादिना ।
अमु­क­मु­द्ग्थ­मु­पा­सी­ते­त्य­श्र­व­णा­दु­द्गी­थ­मा­त्र­वि­शि­ष्टो­पा­स­न­क­र्त­व्यता वाक्यार्थः , स चोद्गीथपदेन सामा­न्य­मा­त्र­प­र्य­व­सि­ते­नापि कर्तुं शक्यत इति न श्रुतिसंकोच इत्यर्थः ।
अप­बा­धि­तु­म­र्ह­तीति ।
श्रुतिमिति शेषः । यदुक्तं सन्नि­हि­त­व्य­क्त्यु­पा­द­नेऽपि न सामान्यश्रुतेः पीडेति , तत्राह – श्रुति­सा­मा­न्येति ॥५५॥ एक­शा­खा­ङ्ग­त्व­स्यो­द्गी­थो­पा­स­न­स्या­न्य­शा­खा­ग­तो­द्गी­थ­सं­बन्धे सन्नि­धि­वि­रो­ध­म­ङ्गी­कृत्य श्रुत्या सन्निधिबाध उक्तः , इदानीं विरोध एव नास्त्य­न्य­त्रापि दर्शनादित्याह – विरुद्धमितीति ॥५६॥ लोकेषु पृथिव्यादिषु लोकशब्दो लोकालोकेषु लाक्षणिकः । पृथि­व्या­दि­दृष्ठ्या पञ्चविधं सामो­पा­सी­ते­त्यर्थः । पृथिवी हिङ्कारोऽग्निः प्रस्ता­वोऽ­न्त­रि­क्ष­मु­द्गीथ आदित्यः प्रतिहारो द्यौर्निधनमिति । उक्थं कर्मा­ङ्ग­भू­त­श­स्त्र­मिति यत्प्रजा वदन्ति । तदिदमेव येयं पृथिवीत्युक्ते पृथि­वी­दृ­ष्टि­विधिः प्रयाजो हेम­न्त­शि­शि­र­स्यो­रे­की­क­र­णेन पञ्चसंख्या ऋतव एव । तत­श्चै­क­स­व­त्स­र­सं­ब­न्ध्यृ­तु­सा­मा­न्या­त्समा न चैकत्र होतव्याः । छागा­दे­र्हो­मा­र्थ­म­नु­वाक्यां पठ हे होत­रि­त्य­ध्व­र्यु­प्रैषः । यो जात एव बाल एवस्सन् प्रथमो गुणैः श्रेष्ठः मनस्वान् विवेकवान् स जनास इन्द्र इति शेषः । जनास इति हे जना इत्यर्थः ॥
इत्ये­क­त्रिं­श­म­ङ्गा­व­ब­द्धा­धि­क­र­णम् ॥

भूम्नः क्रतु­व­ज्ज्या­यस्त्वं तथा हि दर्शयति ॥५७॥ सैव हि सत्यादय (ब्र.अ.३ पा.३ सू.३८) इत्यत्र तद्य­त्त­त्स­त्य­मिति तच्छब्देन प्रकृ­त­प­रा­म­र्शाद् विद्यै­क्य­मु­क्तम् । अत्र तद्व­द­भे­द­हे­त्व­भा­वा­द­ग­ता­र्थ­त्वम् । पूर्व­त्रो­द्गी­था­दि­श्रुत्या सन्निधिं बाधि­त्वो­द्गी­था­द्यु­पा­स्तीनां सर्व­शा­खा­सू­प­सं­हार उक्तः ।
एवमत्रापि व्यस्तोपासनस्य विधिश्रुतेः फलश्रुतेश्च सम­स्तो­पा­स­न­स­न्नि­धा­न­प्रा­प्त­स्तु­त्य­र्थत्वं बाधित्वा विधेयत्वमित्याह –
तत्र दिवमेवेति ।
उभयथाऽप्युपासनं कर्तव्यमिति शेषः ।
व्यस्तो­पा­स­न­फ­ल­श्र­व­णस्य सम­स्तो­पा­स­न­स्तु­त्य­र्थ­त्वे­ना­न्य­था­सि­द्धि­मा­श­ङ्क्याह –
न चेत्यादिना ।
न चेत्य­स्यै­व­म­त्रापि न च भवितुमर्हतीति वक्ष्य­मा­णे­ना­न्वयः ॥
यथा वैश्वा­न­री­ये­ष्टा­विति ।
‘‘वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते’’ इत्युपक्रम्य ‘‘यदष्टाकपालो भवति ब्रह्मवर्चसेन पुत्रं पुना­ती’’त्या­दिना कपालविशेषेषु फलविशेषानाम्नाय ‘‘द्वादशकपालो भवति यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्वी’’त्यादि समामनन्ति । तत्र यद्यपि द्वाद­श­त्वेऽ­ष्ट­त्वा­दीनां वस्तु­तोऽ­न्त­र्भावः ; तथापि न परिच्छेदकत्वम् । तस्मा­द­प्रा­प्त­त्वा­द्वै­श्वा­न­रे­ष्टा­व­ष्टा­क­पा­ल­त्वा­दि­गु­ण­वि­धा­न­मिति प्रापय्य राद्धान्तितं प्रमाणलक्षणे । उत्प­त्ति­शि­ष्टा­द्वा­द­श­त्वा­व­रो­धान्न प्रकृ­त­क­र्म­ण्य­ष्ट­त्वा­दि­गु­ण­विधिः । अपि च ‘‘पुत्रे जाते द्वाद­श­क­पा­ल’’मिति , तेनैकं वाक्यं द्वाद­श­क­पा­ल­वि­धि­प­रम् , अष्टत्वादीनि तु वस्तुतः प्राप्ता­न्य­नू­द्यन्ते स्तुत्यर्थमिति क्लृप्त­वि­ध­स्ता­व­क­त्वेन वर्त­मा­ना­प­दे­शा­ना­मे­क­वा­क्यत्वे च संभवति न वाक्यभेदेन विधिकल्पनम् ।
तस्मा­द­प्य­ष्ट­त्वा­दीना स्तुत्य­र्थ­त्व­म­त्याह –
तत्र हीति ।
वैश्वानरेष्टौ हि द्वादशकपाले विधेः प्रत्य­क्ष­त्वा­द्य­द­ष्टा­क­पालो भवतीत्यादीनां वर्तमानपदेशानां च तत्स्तु­त्य­र्थत्वं युक्तम् , वैश्वानरोपासने तु समस्ते व्यस्ते च विधेः कल्पनीयत्वादेवं कामशब्दस्य क्वाप्य­श्र­व­णा­त्फ­ल­त्व­क­ल्प­ना­या­श्चा­वि­शे­षा­त्स­र्वत्र विधि­क­ल्प­न­मि­त्याह –
इह त्विति ।
तर्हि ‘‘मूर्धा ते व्यप­ति­ष्य­दि’’त्या­दि­व्य­स्तो­पा­स­न­निन्दा किमर्था ? अत आह –
निन्दायाश्चेति ।
येन हि यावज्जीवं समस्तोपासनं संकल्पपूर्वं कर्तुं प्रारब्धं तस्य तथा­वि­ध­स­म­स्तो­पा­स­न­प्रा­रम्भे सति व्यस्तो­पा­स­न­नि­न्दो­प­प­त्ति­रि­त्यर्थः ।
अत्रोदाहरणमाह –
श्याम इति ।
‘‘श्यामः श्वा आहुतिमभ्यवहरति तस्य योऽनुदिते जुहोति , शबलः श्वा आहुतिमभ्यवहरति य उदिते जुहोति’’ इति उदि­ताऽ­नु­दि­त­हो­म­यो­र्नि­न्दा­या­मपि वाक्यान्तरेण तयो­र्वि­हि­त­त्वा­दु­दि­त­हो­म­प्रा­र­म्भेऽ­नु­दि­त­हो­म­निन्दा , एव­म­नु­दि­त­हो­म­प्रा­रम्भे तत्त्योगे च उदितहोमनिन्दा । तदाहाक्षपादः - अभ्युपेत्य कालभेदे दोषवचनादिति । कालभेदे कालान्यत्वकरणे इत्यर्थः ।
उप­क्र­मो­प­सं­हा­र­यो­रे­क­वि­द्या­वि­ष­य­त्वे­नै­क­वा­क्य­त्वा­व­ग­मान्न व्यस्तो­पा­स­न­वि­धि­रिति सिद्धान्तयति –
सम­स्तो­पा­स­न­स्यै­वे­त्या­दिना ।
उपक्रममाह –
वैश्वा­न­र­वि­द्या­नि­र्ण­या­येति ।
व्यस्तो­पा­स्त्य­भि­ज्ञा­ना­मेव सम­स्त­वि­ष­य­जि­ज्ञा­सा­द­र्श­ना­दु­प­क्र­मस्य सम­स्तो­पा­स्ति­प­र­त्व­मि­त्यर्थः ।
उपसंहारमाह –
तत्र कैकेय इति ।
सुतं कण्डितं सोमद्रव्यम् । प्रसु­त­मा­स­म­न्ता­त्सु­त­त्व­म­व­स्था­भेदः । सोम­या­ग­सं­प­त्ति­स्तव कुले दृश्यत इति यावत् । सुतं सोमरूपं प्रसुतमभ्यस्तम् आसुतं विकृतिषु ॥५७॥
इति द्वात्रिंशं भूम­ज्या­य­स्त्वा­धि­क­र­णम् ॥

नाना शब्दादिभेदात् ॥५८॥
नन्विहैव विद्यानां भेदनिरूपणे प्राक् तद­सि­द्धे­र्गु­णो­प­सं­हा­र­चि­न्त­न­म­सं­ग­त­मि­त्या­श­ङ्क्याह –
सिद्धं कृत्वेति ।
अधि­क­र­णा­ना­र­म्भ­मा­श­ङ्क­मानो रूपभेदाद् विद्याभेद इति सदृष्टान्तमाह –
ननु यथेत्यादिना ।
अपूर्वसाधनं पुरु­ष­प्र­वृ­त्ति­र­पू­र्व­भा­वना ।
धात्वर्थेनेति ।
यजेतेत्यादौ प्रत्य­या­र्थ­भू­त­भा­व­नाया धात्वर्थेन यागादिना निरू­प्य­मा­ण­त्वा­दि­त्यर्थः । कार्यरूपाणां साध्यरूपाणाम् । ब्रह्मणः सर्व­त्र­वि­द्या­स्व­भे­दा­दि­त्य­न्वयः । तत्र हेतुर्गुणानां गुणिनश्च ब्रह्मणः सिद्धत्वात् । दुश्च्यवनधर्मा इन्द्रसमानधर्म । यदि वस्तु­नि­ष्ठा­न्यु­पा­स­नानि , तर्हि त्वदुक्तमेव दूषणं भवेन्न तु वस्तुनिष्ठानीति शेषः । तद्विषयां वस्तुविषयाम् । उपासनाभावनां उपासनानुष्ठानम् ।
उपा­स­क­प्र­वृ­त्ते­रु­पा­स­ना­धी­न­नि­रू­प­ण­त्वेऽ­प्य­भे­द­मा­श­ङ्कते –
यद्यपि चेति ।
अस्येश्वरादेः कस्यचिदपि षोडशकलादेः कदा­चि­त्त­त्त­दु­पा­स्ति­स­मये केन­चि­त्स­त्य­का­म­त्वा­दि­सं­य­द्वा­म­त्वा­दिना च रूपे­णो­पा­स­न­वि­ष­य­भाव इत्यर्थः ।
ननु सत्य­का­म­त्वा­दि­गु­णा­ना­मु­पा­स्य­त्वेन कार्य­रू­प­त्वा­च्च­को­रे­क्ष­ण­त्वा­दिभ्यो वैषम्येऽपि न विद्याभेदकत्वम् ; गुणिन एकत्वाद् , गुणानां चोपसर्जनत्वादत आह –
न च तत्तद्गुणतयेति ।
तृती­ये­य­मि­त्थं­भावे । तत्त­द्गु­ण­व­त्त्व­रू­पेण यान्युपासनानि विहितानि तानि गुणभेदाद् न भिद्यन्ते इति न, अपि तु भिद्यन्त एव ; छत्र­चा­म­रा­दि­गु­ण­भे­देन राजोपास्तीनां भेद­द­र्श­ना­दि­त्यर्थः ।
ननु गुणभेदेऽपि कर्मै­क्य­व­दु­पा­स­नैक्यं किं न स्यादत आह –
न चाग्नि­हो­त्र­मि­वेति ।
इवकारो दृष्टान्ते धर्म्यर्थो , वत्कारो गुणार्थः । अग्निहोत्रे दध्या­दि­द­श­द्र­व्या­णा­मु­त्प­न्न­शि­ष्ट­त्वान्न कर्म­भे­द­क­त्व­मु­पा­स्तीनां तूत्प­त्ति­शि­ष्ट­गु­ण­भे­दा­द्भेदः , आमि­क्षा­वा­जि­न­भे­दा­दिव कर्मभेद इत्यर्थः ।
अशक्तेश्च न सर्वो­पा­स­नै­क्य­मि­त्याह –
न च समस्तेति ।
केचित्खलु गुणा इति । सत्यकामत्वादया दहरविद्यायां शाण्डि­ल्य­वि­द्यायां च समा इति । एवं­रू­प­भे­दा­त्त­द­नु­र­क्तो­पा­स­ना­व­च्छिन्ना भाव­ना­भि­धा­यि­श­ब्द­भे­दाद् गुणानां पौन­रु­त्त­या­द­श­क्तेश्च विद्याभेदो दर्शितः । अन्यदपि पूर्णा­म­सं­व­र्तिनीं श्रियं लभते सर्वे­ष्वा­त्म­स्व­न्न­म­त्ती­त्या­दि­फ­ल­भे­दा­दिक द्रष्टव्यम् । तदुक्तं सूत्रे –शब्दा­दि­भे­दा­दिति ॥५८॥
इति त्रयस्त्रिंशं शब्दा­दि­भे­दा­धि­क­र­णम् ॥

विक­ल्पोऽ­वि­शि­ष्ट­फ­ल­त्वात् ॥५९॥ विद्या­भे­दा­दि­चि­न्ता­न­न्त­रम् अहं­ग्र­ह­प­ती­का­ङ्गा­व­ब­द्धो­पा­स्ती­ना­म­नु­ष्ठा­न­प्र­का­रोऽ­धि­क­र­ण­त्र­येण निरूप्यते ।
अहं­ग्र­हो­पा­स्तीनां यथा­का­म­म­नु­ष्ठा­न­मिति पूर्व­प­क्ष­यि­ष्यन् समुच्चयनियमेन किमिति न पूर्वपक्षः क्रियते ? भिन्ना­धि­का­रा­णा­मपि दर्शादीनां समु­च्च­य­नि­य­म­द­र्श­ना­दि­त्या­श­ङ्कते तावत् –
अग्निहोत्रेति ।
पृथगधिकारणामपि समुच्चयो नियमवान् दृष्टः , यथाऽ­ग्नि­हो­त्र­द­र्शा­दे­रि­त्यर्थः ।
परिहरति –
तेषां नित्य­त्वा­दि­त्या­दिना ।
यस्याद्धा साक्षा­त्स्या­दु­पास्यं न च विचिकित्सा संशयोऽस्ति प्राप्नुयाम् अहं फलं न वेति । तस्य ब्रह्म­प्रा­प्ति­र्भ­वे­दि­त्यर्थः । साक्षात्कारेण अहं­ग्र­हो­पा­स्य­देवो भूत्वा देवानप्येति प्राप्नोति ॥५९॥
इति चतुस्त्रिंशं विकल्पाधिकरणम् ॥

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्व­हे­त्व­भा­वात् ॥६०॥
प्रती­को­पा­स्ती­ना­मु­पा­स्ति­त्वा­द­हं­ग्र­हो­पा­स्ति­व­द्वि­क­ल्प­नि­य­म­मा­श­ङ्क्या­हं­ग्र­हासु साक्षा­त्का­र­सा­ध­न­त्व­मु­पा­धि­माह –
यास्त्विति ।
यो वायुं दिशां वत्सं वेद स नित्य­म­वि­यु­क्त­व­त्सो­पा­स­नान्न पुत्ररोदं पुत्र­नि­मि­त्त­रो­दनं करोति जीवत्पुत्रो भवतीत्यर्थः ॥६०॥
इति पञ्चत्रिंशं काम्याधिकरणम् ॥

अङ्गेषु यथाश्रयभावः ॥६१॥
ननु तन्नि­र्धा­र­णा­नि­यम (व्या.सू.अ.३ पा.३ सू.४२) इत्य­त्रा­ङ्गा­व­ब­द्धो­पा­स­नानां पृथक् फल­त्वा­द­नि­त्य­त्व­मुक्तं , तत्क­थ­मि­दा­नी­मा­श्र­य­व­न्नि­त्य­तया शङ्क्यते ? अत आह –
उपा­स­ना­स्वि­त्या­दिना ।
नन्वङ्गं प्रयुङ्क्ते प्रयोगविधिः , काम्यफलसाधनत्वे चोपा­स्ती­ना­म­न­ङ्ग­त्वात् कथं तासां प्रयो­ग­व­च­न­प­रि­ग्र­ह­स्त­त्राह –
यद्यपि काम्य इति ।
तत्त­त्फ­लो­द्दे­शे­नेति ।
काम्य­मा­न­फ­लो­द्दे­शे­ने­त्यर्थः ।
ननु क्रत्व­र्था­श्रिता उपासनाः फले विधीयन्ते , एतावता कथं तासां समुच्चयसिद्धिरत आह –
एवं चेति ।
साङ्गं प्रधानं युग­प­त्क­र्त­व्य­मि­त्या­श्र­याणां क्रत्वङ्गानां समुच्चयनियमः प्रयोगवचनेन कृतः । तन्नि­य­मे­ना­श्रि­ता­ना­म­प्यु­पा­स­नानां समुच्चयनियमो युक्तः । कुतः ? आश्र­य­त­न्त्र­त्वा­दा­श्रि­ता­ना­मिति योजना ।
ननु फलकामनायां सत्यामुपासना अनुष्ठीयन्ते , कथमासां क्रत्वङ्गैः सह नित्यं समु­च्चि­त्या­नु­ष्ठा­नम् ? नित्याऽ­नि­त्य­सं­यो­ग­वि­रो­धाद् , अत आह –
स च प्रयोगवचन इति ।
उपास्तीनां क्रत्व­ङ्ग­स­मु­च्च­य­सि­द्ध्यर्थं फलकामना अपि प्रयो­ग­वि­धि­रे­वा­नु­ष्ठा­प­य­ती­त्यर्थः । कामनाया अविधेयत्वान्न प्रयो­ग­वि­धि­प्र­यो­ज्य­त्व­मिति वक्ष्य­मा­ण­म­भि­प्रेत्य मन्वा­न­स्ये­त्यु­क्तम् ।
प्रयोगविधिः फलकामनानामवश्यं भाव­मा­क्षि­प­ती­त्ये­त­द्दू­ष­यति –
यथाविहितेति ।
यः पदार्थो यथा विहितः यश्च पदार्थो यथोद्दिष्टः सिद्धवद्गृहीतः तदनुरोधी प्रयोगवचनो न पदार्थस्वभावं नित्य­त्वा­दि­क­म­न्यथा करोति , कित्वन्यतः प्रमि­त­प­दा­र्थ­स्व­भा­व­म­नु­स­र­ती­त्यर्थः ।
ततः किं जातमत आह –
तत्रेति ।
क्रत्व­र्था­ना­मु­द्गी­था­दीनां यथाऽन्यन्नित्यं फलं परा­म­र्श­म­न्त­रे­णा­म्ना­यते , तद्व­दा­म्ना­ना­दि­त्यर्थः ।
ननु विश्वजिदादौ फलाश्रवणेऽपि फलं कल्प्यते , तद्वदिह किं न स्यादत आह –
तथाभावस्य चेति ।
फल­व­त्सं­नि­धा­वा­म्ना­त­त्वेन फल­क­ल्प­ना­नु­प­प­त्ते­स्थ­था­भा­वस्य संभ­वा­दे­ता­नु­द्गी­था­दी­न्नि­य­मेन समुच्चिनोतु प्रयोगवचन इत्यर्थः । ननु विध्यु­पा­धि­त्वा­दु­द्दे­शोऽपि समुच्चयेन प्रवर्ततां ।
नेत्याह –
माना­न्त­रा­नु­सा­रीति ।
सिद्ध­व­द्ब्र­ह्मणं ह्युद्देशस्य लक्षणं , माना­न्त­रा­प्र­मि­ता­वु­द्दे­श्य­त्व­व्या­घात इत्यर्थः ।
उपसंहरति –
तस्मा­त्का­मा­ना­मिति ।
सत्य­प्यु­पा­स­ना­श्र­याणां नित्यत्वे उपासनानां कामा­व­ब­द्धा­ना­म­नि­त्य­त्व­मिति प्रतिज्ञा । अस्यां हेतुः - नित्या­नि­त्य­सं­यो­ग­वि­रो­धा­दिति । उद्गीथादीनां हि नित्यः क्रतुसंयोगः , उपासनानामनित्यः फलसंयोगः । एतौ चेतरेतरविरुद्धौ , उद्गीथादीनां च नित्य­त्वा­नि­त्यत्वे इतरेतरविरुद्धौ धर्मावापादयत इत्यर्थः ।
नन्वा­श्र­य­त­न्त्र­त्वा­दा­श्रि­तो­पा­स­न­नि­त्य­त्व­मुक्तं , ततश्च समुच्चयनियमे उपास्तीनां प्रयो­ग­वि­ध्या­क्षिप्ते तदर्थं कामानां नित्य­त्व­म­प्या­क्षे­प्य­मिति , तत्राह –
इदमेव चेति ।
यथा धूम­स्या­ग्नि­त­न्त्र­त्वेऽपि न याव­द­ग्न्य­नु­वृत्तिः , किंतु सत्येवाग्नौ भवनमेवं सत्येवाश्रये भवनं तत्तन्त्रता , इत­श्चा­नि­त्या­ना­म­प्या­श्र­य­त­न्त्र­त्वो­प­प­त्तेर्न तत्सिद्ध्यर्थं कामानां नित्यत्वं प्रयो­ग­वि­धि­नाऽऽ­क्षे­प्य­मि­त्यर्थः ॥६१॥६२॥
एव­म­धि­क­र­ण­स्या­र्थ­मुक्त्वा ग्रन्थसंयोजनां करोति –
अपिर्भिन्नक्रम इत्यादिना ।
भिन्न­क्र­म­त्व­म­भि­न­येन दर्शयति –
दुरुद्गीथमपीति ।
एवं हि योजिते यथा प्रशंसाधिक्यं लभ्यते , न तथा होतृषदनादपीति योजित इति वेदान्तरोदितं प्रणवः स्ववेदे चोद्गीथं तयो­रे­क­त्व­ज्ञा­न­मथ खलु य उद्गीथः स प्रणवः यः प्रणवः स उद्गीथः इत्युपासनं , तत्सा­म­र्थ्या­दु­द्गाता स्वक­र्म­ण्य­द्गा­तृ­व­त्क्षतं स्वरा­दि­प्र­मा­द­रूपं जातं , तद्धो­तृ­कृ­त­स­म्यक् शस्त्रशंसनं हेतुं कृत्वा समादधाति ऋग्वे­दा­दि­व्या­पिनः प्रणवस्य स्ववे­द­ग­तो­द्गी­थस्य चैकत्वस्य तेन चिन्ति­त­त्वा­दि­त्ये­त­मर्थं होतृ­ष­द­ना­द्धै­वा­पी­त्या­दि­श्रु­ते­र्द­र्श­यति –
वेदा­न्त­रो­दि­ते­त्या­दिना ।
दुरुद्गीथमेव व्याचष्टे वेदान्तरोदिते चेति । ऋग्वेदापेक्षया सामवेदो वेदान्तरम् ।
एवं वाक्यं योजयित्वा तस्मिन् समु­च्च­य­लि­ङ्ग­द­र्श­न­त्व­घ­टकं भाष्यमवतारयति –
एवं ब्रुवन्निति ।
अन्वयमुखेनेति ।
आश्रयसाधारण्ये आश्रि­त­सा­धा­र­ण्य­म­न्वयः , स आश्र­य­सा­धा­र­ण्या­भावे आश्रि­त­सा­धा­र­ण्या­भा­व­रू­प­व्य­ति­रे­क­व्या­ख्यया भाष्ये दृढीकृत इत्यर्थः । चमसं चोन्नीयोद्धृत्य स्तोत्र­क­र­णा­र्थ­मु­पा­क­रोति प्रैषति ।
एवं विदिति ।
ऋग्वे­दा­दि­वि­हि­ता­ङ्ग­लोपे व्याहृ­ति­हो­म­प्रा­य­श्चि­त्ता­दि­ज्ञत्वं ब्रह्मण एवंवित्त्वम् ॥६३॥६४॥६५॥६६॥
इति षट्त्रिंशं यथा­श्र­य­भा­वा­धि­क­र­णम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ तृतीयाध्यायस्य तृतीयः पादः ॥

पुरुषार्थोऽतः शब्दादिति बादरायणः ॥१॥ पूर्वं परा­प­र­ब्र­ह्म­वि­द्यानां गुणो­प­सं­हा­र­नि­रू­प­णेन परि­मा­ण­म­व­धा­रि­तम्, इह तासां कर्म­नि­र­पे­क्षा­णा­मेव पुरु­षा­र्थ­सा­ध­नत्वं निरूप्यते । तत्र कर्मा­न­पे­क्षा­णा­म­मूषां का नु नामे­ति­क­र्त­व्यता, न हि तामन्तरेण करणत्वम्, इत्या­का­ङ्क्षायां यज्ञादयः शमादयः श्रवणादयश्च विद्यो­त्प­त्त्यु­प­यो­गिन्य इतिकर्तव्यताश्च निरूप्यन्ते ।
ननु फल­भे­दा­भे­दा­व­न्त­रेण न विद्याभेदाभेदौ, न च तावन्तरेण गुणो­प­सं­हा­रा­नु­प­सं­हारौ, ततः प्रागेव विद्यानां पुरु­षा­र्थ­सा­ध­न­त्वस्य सिद्धत्वात् किं पुनरारम्भेणात आह –
स्थितं कृत्वेति ।
फलभेदेन हि विद्याभेदम् उपपाद्य तद­सि­द्धि­श­ङ्कायां स उपपादनीय इत्यर्थः । अत एव सङ्गतिश्चापरा दर्शिता ।औ­प­नि­ष­दा­त्म­ज्ञा­न­स्या­क्र­त्व­र्थत्वे पूर्व­प­क्ष­सि­द्धा­न्तयोः फले उक्ते ते तूपलक्षणे । उपासनावाक्यानां पूर्वपक्षे कर्मा­पे­क्षि­त­क­र्तृ­स्ता­व­कत्वं सिद्धान्ते तु सगु­णै­श्व­र्य­फ­लो­पा­स­ना­वि­धा­य­क­त्व­मि­त्यपि द्रष्टव्यम् ।
ननूपनिषत्सु कर्तृ­भो­क्तृ­त्वा­ति­रि­क्त­मपि ब्रह्मा­त्म­त्व­मा­त्मन उपदिश्यते, तद्विषयज्ञानस्य कथं कर्मो­प­यो­ग­स्त­त्राह –
यदा चेत्यादिना ।
यावन्मात्रं क्रत्वपेक्षितं कर्तृ­त्व­मा­मु­ष्मि­क­फ­लो­प­भो­क्तृत्वं चेत्यस्यातो नित्य­त्व­म­पी­त्य­नेन संबोध्यमानस्य ताव­न्मा­त्र­मु­प­नि­षत्सु विव­क्षि­त­मि­त्यु­प­रि­त­ने­ना­न्वयः ।
ननु कर्तृ­त्व­भो­क्तृत्वे देहस्यापि घटेते, अतो न नित्य­त्वा­पेक्षा, नतरां देह­व्य­ति­रि­क्ता­त्म­ज्ञा­ना­पे­क्षाऽत आह –
न चैतदिति ।
केषां­चि­त्पू­र्व­प­क्ष­श­ङ्का­बी­जा­नाम्, इत्युक्तं, तान्येवाह –
तत्र यद्यपीत्यादिना ।
तत्र सिद्धान्ती यद्वदति न प्रक­र­णा­दा­त्म­ज्ञानं कर्माङ्गमिति, तदनुवदति –
प्रोक्ष­णा­दि­व­दिति ।
यच्च न वाक्या­दा­त्म­ज्ञानं क्रत्वङ्गमिति वदति; तदप्यनुवदति –
यद्यपि च कर्तृमात्रमिति ।
येन कर्तृ­मा­त्रे­णा­त्म­ज्ञा­न­म­व्य­भि­च­रि­त­क्र­तु­सं­ब­न्ध­जु­हू­द्वा­रेण पर्ण­ता­व­द्वा­क्ये­नेव क्रतु­सं­ब­न्ध­मा­प­द्येत, तत्कर्तृमात्रं नाव्य­भि­च­रि­त­क्र­तु­सं­ब­न्ध­मिति योजना ।
एवं सिद्धा­न्त्य­भि­प्रा­य­म­नूद्य पूर्ववादी दूषयति –
तथापीति ।
देहा­ति­रि­क्त­स्या­त्मनो वैदिकैः कर्म­भि­र­व्य­भि­चा­र­सि­द्ध्यर्थं लौकि­क­क­र्म­स्व­नु­प­यो­ग­माह –
न तादृशस्येति ।
वैदिकैः कर्मभिस्तस्य हेतुत्वेन सबन्धमाह –
आमुष्मिकफलानां त्विति ।
यथा धूमोऽ­ग्नि­म­व्य­भि­चा­रा­द­नु­स्मा­र­यति, एवमौपनिषदः पुरुषोऽपि कर्म­भि­र­व्य­भि­चा­रा­त्ता­न्य­नु­सा­र­यन् वर्तत इत्यर्थः ।यद्यपि हेतौ सति कार्यं भवत्येवेति न व्याप्तिः; तथापि व्यतिरिक्त आत्मनि ज्ञाते पार­लौ­कि­क­सा­ध­ने­च्छा­दि­रूपा काऽपि प्रवृ­त्ति­र्भ­व­त्ये­वेति ।
व्याप्य­व्य­ति­रे­क­वि­ज्ञा­न­म­नु­स्मा­रि­तेषु च देहा­ति­रि­क्ता­त्मनां कर्मस्वात्मा द्रष्टव्य इति वाक्ये­ना­त्म­ज्ञानं क्रतुशेषत्वं नीयत इत्याह –
वाक्येनैवेति ।
ननु फलवतो ज्ञानस्य कथं क्रत्वर्थत्वमत आह –
अर्थवाद इति ।
आत्म­ज्ञा­न­फ­ल­श्रु­तिर्न फलपरा परा­र्थ­फ­ल­श्रु­ति­त्वाद् अञ्ज­ना­दि­फ­ल­श्रु­ति­व­दि­त्य­नु­मा­नम् ।
अदृ­ष्ट­द्वा­रे­णा­त्म­ज्ञा­नस्य कर्माङ्गत्वमाह –
औप­नि­ष­दा­त्म­ज्ञा­नेति ।
आचा­रा­द्य­न्या­र्थ­द­र्शनं प्राप­क­सा­पे­क्ष­त्वान्न स्वत­न्त्र­मि­त्याह –
एत­दु­पो­द्ब­ल­ना­र्थ­मिति ।
तच्छ्रु­ते­रि­त्या­दीनि सूत्राणि लिङ्गपराणि व्याचष्टे –
न केवलमित्यादिना ।
विद्यायाः कर्मभिः सह कर्त्रनुगमस्य समप्राधान्येऽपि संभवात् प्रकृ­त­क­र्म­शे­ष­त्व­प्र­ति­ज्ञया सहा­सं­ग­ति­मा­श­ङ्क्याह –
तच्च यद्यपीति ।
उक्तया युक्तयेति ।
आत्मज्ञानस्य दृष्टाऽ­दृ­ष्ट­द्वा­रेण कर्म­सू­प­यो­गे­ने­त्यर्थः ।
शुद्ध­बु­द्धा­द्येव वेदा­न्त­प्र­ति­पाद्यं, न कर्तृ­त्वा­दी­त्यत्र विनिगमकमाह –
अनधिगतार्थेति ।
शब्दस्य प्रमा­णा­न्त­र­सि­द्धा­नु­वा­दे­ना­न­धि­ग­ता­र्थ­बो­ध­न­स्व­र­सता हि प्रसिद्धेति योजना ।
परार्थे फल­श्रु­ति­त्वा­दिति पूर्वो­क्त­हे­तो­र्वि­शे­ष­णा­सि­द्धि­माह –
तथा चौप­नि­ष­दा­त्म­ज्ञा­न­स्येति ।
तदव्यभिचारस्तु ततश्च क्रतुशेषतेति यदेतत्पुनः, किमङ्ग स्याद्? न स्यादेवेत्यर्थः ।
यदि पर­मा­त्म­त­त्त्व­मे­वो­प­नि­ष­दा­मर्थः, तर्हि प्रिया­दि­सं­सू­चि­त­जी­वस्य द्रष्टव्यत्वं किमि­त्यु­प­दि­श्यते? अत आह –
अत एवेति ।
भोक्तृ­र्द्र­ष्टृ­त्व­व्य­प­दे­शे­ना­सं­सा­रि­ब्र­ह्मणा दर्शनार्हेण तस्या­त्य­न्ता­भेदः प्रतिपाद्यते, तथा च व्याख्या­त­म­व­स्थि­ते­रिति काश­कृत्स्न(ब्र.सु.अ १ पा.४ सू.२२) इत्यत्र ॥८॥ एवं तावद् - ब्रह्मज्ञानं न कर्माङ्गं फलवत्त्वात् ज्योति­ष्टो­म­व­दिति प्रति­पा­द्य­वा­क्य­कृ­त­क­र्म­सं­बन्धो वारितः, आचा­रा­दि­लि­ङ्ग­द­र्श­नानां प्रति­लि­ङ्ग­मु­प­न्य­स्तम् ।
तुल्यं तु दर्शनमिति, तत्र तु शब्दे­ना­क­र्मा­ङ्ग­त्व­लि­ङ्ग­द­र्श­नस्य प्राबल्यं विशेष उक्त­स्त­द्द­र्श­यति –
तत्र कर्माङ्गत्वेति ।
अन्य­था­सि­द्धि­रु­क्तेति ।
यक्षमाणो ह वै भगवन्तोऽहमस्मि इत्ये­त­ल्लि­ङ्ग­द­र्शनं वैश्वा­न­र­वि­द्या­वि­ष­य­मि­त्या­दि­भा­ष्ये­णेति शेषः ।
‘‘यदेव विद्यया करोती’’ति श्रुत्या विद्यायाः कर्मा­ङ्ग­त्व­मा­श­ङ्कितं पूर्वपक्षे, तस्या अप्यु­द्गी­थ­वि­द्या­वि­ष­य­त्वे­ना­न्य­था­सि­द्धि­रुक्ता असार्वत्रिकीति सूत्रेण, तत्रास्याः श्रुतेः सर्व­वि­ष­य­त्व­शङ्कां परोक्तां परिहरति –
व्याप्तिरपीति ।
असं­सा­र्या­त्म­प्र­ति­पा­द­नस्य सूत्र­द्व­येऽ­प्य­वि­शे­षा­त्पु­न­रु­क्ति­मा­श­ङ्क्याह – अधि­को­प­दे­शा­दि­त्य­ने­नेति ॥ वैदेहो विदेहदेशानां राजा बहुदक्षिणेन विश्वजिदादिना ईजे इष्टवान् । हे भगवन्तो यक्ष्यमाणो यागं करिष्यन् अस्मि तं द्रष्टुं वसन्तु भगवन्त इति वैश्वानरविद्यां ग्रही­तु­मा­ग­ता­नु­द्दा­ल­का­दीन् प्रति अश्वपतिराजवचनम् । गुरोः कर्मातिशेषेण गुरु­शु­श्रू­षा­व­शि­ष्टेन कालेन यथाविधि वेद­म­धी­त्या­चा­र्य­कु­ला­द­भि­स­मा­वृत्य कुटुम्बे गार्हस्थ्ये तिष्ठन् वेदमधीयानो ब्रह्म­लो­क­मा­प्नो­तीति शेषः । शतं समाः याव­दा­यु­र्जि­जी­वि­षेत् जीवितुमिच्छेत्, तत्कुर्वन्नेव कर्माणि वर्तेत । एवं वर्तमाने त्वयि नरे नराभिमानिनि अज्ञे कर्माशुभं न लिप्यते कर्मणा त्वं न लिप्यस इत्यर्थः । इतः प्रकारादन्यथा प्रकारान्तरं नास्ति यतो न कर्मलेपः स्यादित्यर्थः । येषां नायमपरोक्ष आत्मा अयं लोकः प्रत्यक्षफलं ते वयं किं प्रजया करिष्याम इति निश्चि­त्या­ग्नि­होत्रं न जुह­वां­च­क्रु­रि­त्यर्थः ॥९॥१०॥११॥१२॥१३॥१४॥१५॥१६॥१७॥
इति प्रथमं पुरु­षा­र्था­धि­क­र­णम् ॥

परामर्शं जैमिनिरचोदना चापवदति हि ॥१८॥
पूर्वा­धि­क­र­णा­वा­न्त­र­सू­त्रे­णा­क्षे­प­ल­क्षणा सङ्गतिमाह –
सिद्ध इति ।
अपि चापवदति हीति भाष्य­व्या­ख्या­नार्थो निन्दोपन्यासः । पूर्वं तु निन्दति हि प्रत्यक्षा श्रुतिरित्यादिः सूत्र­व्या­ख्या­नार्थ इति भेदः ॥१८॥
भवत्वन्यार्थ इति ।
‘‘ॐ कार एवेदं सर्वम्’’ इति प्रणवाख्यस्य ब्रह्मणः प्रस्तुतत्वात् तत्सं­स्थ­त्व­प्र­शं­सार्थो भवतु नाम ‘‘त्रयो धर्मस्कन्धा’’ इत्यादिः परामर्श इत्यर्थः ॥२८॥
निवीतमिति ।
एत­ज्ज्यो­ति­र्द­र्शना (ब्र.अ.१ पा.३ सू.४०) दित्य­त्रा­नु­क्रा­न्तम् ॥ एवं ताव­द­नु­वा­द­त्व­म­ङ्गी­कृ­त्या­नु­वा­द­सा­म­र्थ्या­च्छा­स्त्रा­न्तरं परिकल्प्य तस्मा­दा­श्र­मा­न्त­र­प्र­मि­ति­रु­प­पा­दिता ॥१९॥
इदानीं नानुवादत्वं किं तर्हि? अपू­र्वा­र्थ­प्र­ती­ते­र­त्रैव वाक्ये विधिः कल्प्यते इत्याह भगवान्सूत्रकारः –
विधिर्वेति ।
तत्र वाक्य­भे­द­प्र­स­ङ्गा­त्त­द­नु­प­प­त्ति­मा­श­ङ्क्याह –
यद्यपीत्यादिना ।
विधेयार्थैक्ये ह्यानुवादस्य विधि­स्तु­त्य­र्थ­त्वे­नै­क­वा­क्य­त्वम्, अत्र­त्व­प्रा­प्ता­र्थ­द्व­य­प्र­ति­भा­ना­द्वि­धे­य­भेदे सति नैकवाक्यत्वसंभव इत्यर्थः । अधस्तादित्यादि महापितृयज्ञे दिष्ट­ग­ता­ग्नि­होत्रे च श्रूयते । तत्रो’’परि हि देवेभ्यो धार­य­ती’’त्ये­षोऽ­नु­वादः, वर्त­मा­ना­प­दे­शात्, हिशब्दाच्च । आचाराच्चोपरि समिधः प्राप्तर्हविषो ह्यभ्य­र्हि­त­द्र­व्य­त्वात् प्रच्छादनं येन­के­न­चि­त्प्रा­प्नोति । तत्र स्रुग्दण्डे समि­ध­मु­प­सं­गृ­ह्या­नु­द्र­व­तीति वाक्या­न्त­र­प्राप्ता समिन्नियम्यते । तस्मादनुवाद इति प्राप्ते – न समि­द्ध­विः­प्र­च्छा­दने क्षमे­त्य­प्राप्ता, स्रुग्दण्डे इति च हविषः प्राग्देशे धारणं प्राप्तं न हविष उपरि । तस्मा­द­प्रा­प्ते­र्भङ्क्त्वा हिशब्दं पञ्च­म­ल­का­र­स्वी­का­रेण च विधिरिति शेषलक्षणे सिद्धान्तितम् । एवं ताव­च्च­तु­र्णा­मा­श्र­मा­णा­मि­हा­नु­वादः ।
तस्मा­त्सा­म­र्थ्या­द­न्यत्र विधिरिहैव विधिरिति पक्ष­द्व­य­मु­क्त्वे­दानीं वाक्या­न्त­र­प्रा­प्ता­श्र­मा­न्त­रा­णा­म­नु­वा­देन ब्रह्मसंस्थता स्तूयते, स्तुति­सा­म­र्थ्याच्च सैव विधीयत इति पक्षान्तरमाह –
संप्रतीति ।
ब्रह्म­सं­स्थ­ता­वि­धा­वपि न पारि­व्रा­ज्य­सिद्धिः; त्रयाणामपि गृहस्थादीनां ब्रह्म­सं­स्थ­त्व­सं­भ­वा­दिति प्रकृ­ता­सं­ग­ति­मा­श­ङ्क्याह –
अत्रावान्तरेति ।
समधिकशौचं चतुर्गुणम् । अष्टानां ग्रासानां समूहोऽष्टग्रासी ।
ननु भवतु यौगिकं ब्रह्मसंस्थपदं, योगस्तु परि­व्रा­ज्ये­वे­त्या­श­ङ्क्याह –
न च गृहस्थादेरिति ।
स्यादेतत् - त्रयो धर्मस्कन्धा इत्युपक्रमात् ‘‘सर्व एव’’ इत्यत्र त एव त्रय एतच्छब्देन परामृश्यन्ते ।
तत्र तपःशब्देन परिव्राजकस्यापि ग्रहणे चत्वार आश्रमा मध्ये उक्ता इति त्रित्वे­नो­प­क्र­म­स्त­त्प­रा­म­र्शश्च न घटेत अत आह –
तपसा चेति ।
नन्वेते पुण्यलोका इति पुण्यभाजां बहुवचनेन निर्देशाद् ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मे­तीति अमृतत्वभाज एकवचनेन निर्देशात् त्रय आश्रमिणः पुण्य­लो­क­भा­ज­श्च­तुर्थ आश्रमी ब्रह्मसंस्थ इति गम्यते, तत्कथं चतुर्णां ब्रह्म­सं­स्थ­त्व­मत आह –
एते च त्रय इति ।
परिव्राजोऽपि वन­स्थेऽ­न्त­र्भा­व­मु­क्त­म­भि­प्रेत्य त्रय इति निर्देशः ।
ननु पुण्य­लो­क­भा­जा­मे­वा­मृ­त­त्व­भाक्त्वं विरु­द्ध­मि­त्या­श­ङ्क्याह –
न च येषामिति ।
ब्रह्मणि संस्था निष्ठाऽस्येतीह समासः सर्वनामार्थे वर्तते, सर्वनाम च प्रकृतग्राहीति प्रकृतः सर्व एव ब्रह्म­सं­स्थोऽ­स्म­त्पक्षे लभ्यते । तव त्वप्रकृतः परिव्राट् ब्रह्मसंस्थः तथा च समा­सा­न्त­र्व­र्ति­स­र्व­ना­म­श्रु­ति­वि­रोध इत्यर्थः ।
यथाग्नेय्येति ।
ज्योतिष्टोमे प्रथ­म­मा­ग्ने­या­दयो मन्त्रा ‘‘अग्न आयाहि वीतये’’ इत्येवमादयो विशेषत आम्नाताः, स्तोत्रा­दि­सा­ध­न­त्वेन विनियुक्ताश्च । पुनरा ‘‘ग्नेय्या­ग्नी­ध्न­मु­प­ति­ष्ठते’’ इति सामा­न्ये­ना­ग्ने­यी­मा­त्र­मा­ग्नी­ध्नो­प­स्थाने विनियुज्यते । तत्र संशयः - किम­प्र­कृ­तै­वा­ग्नेयी विनियुज्यते, उताविशेषेण या काचि­द­ग्नि­लि­ङ्ग­वती प्रकृताऽप्रकृता च, उत प्रकृतैवेति ।
तत्राग्नेय्येति श्रुतेरविशेषात् सर्वाग्नेयी विनियुज्यतेऽथ वा विनि­यु­क्त­वि­नि­यो­गा­नु­प­प­त्ते­र­प्र­कृ­ते­वेति पूर्व­प­क्ष­मा­शङ्क्य शेषलक्षणे स्थितं सिद्धान्तमाह –
प्रकृतैवेति ।
अप्र­कृ­ता­ग्ने­यी­ग्र­हणे हि तस्या ज्योतिष्टोमेन सामान्यसबन्ध आग्नीध्नेण विशेषसंबन्धश्च विधातव्यः प्रकृतग्रहणे तु तस्या आग्नेय्याः क्रतुना सामा­न्य­सं­ब­न्ध­सि­द्धे­र्वि­शे­ष­सं­ब­न्ध­मा­त्र­वि­धाने लाघवं स्यादित्यर्थः ।
आद्यं पूर्वपक्षं निषेधयति –
न च विनियुक्तेति ।
यद्यपि स्तोत्रा­द्य­र्थ­मा­ग्नेयी प्रकृता; तथापि न तस्याः पारार्थ्यमनेन विनियोगेन गृह्यते, अनपेक्षितत्वात् । आग्ने­यी­स्व­रू­प­मात्रं त्वपे­क्षि­त­त्वाद् गृह्यते । यदि पुन­रा­ग्ने­य्य­ने­नैव वाक्येनोद्दिश्य विधीयते, तदाऽसौ परार्थत्वेनैव प्रतीता तथै­वो­द्दि­श्य­माना, अन्यत्र च विनियुज्यमाना विनि­यु­क्त­वि­नि­यो­ग­वि­रो­ध­मा­व­हेत्, न त्वेवम्; विधी­य­मा­न­त्वा­दस्या इत्यर्थः ।
यत्तूक्तं सामा­न्य­श्रु­ति­वि­रोध इति, तत्राह –
तावता चेति ।
आग्नेयीशब्दस्य यौगिकत्वात् सन्नि­हि­त­व्य­क्ति­प­र­त्व­मेव । अग्नि­दे­व­ता­क­त्व­ल­क्षणो हि योगो व्यक्तावेव घटते, न सामान्यमात्रे; तद्धि­ता­न्त­र्व­र्त्य­स्या­श­ब्दस्य सन्नि­हि­त­व­च­न­त्वा­दि­त्यर्थः ।
ननु व्यक्त्य­पे­क्ष­त्वेऽ­प्या­ग्ने­यी­श­ब्दस्य न प्रकृ­त­व्य­क्ति­र्ग्र­हीतुं शक्य­ते­न्या­र्थ­प्र­यु­क्त­त्वेन गतरसत्वादत आह –
न च यातयामतयेति ।
वाचःस्तोमः क्रतुविशेषः । तत्र ‘‘सर्वा ऋचः सर्वाणि सामानि सर्वाणि यंजूषि वाचःस्तोमे परिप्लवं शंसन्ती’’ति विनियोगेऽपि मन्त्राणां प्राप्ता­त्मि­का­र्थेषु विनियोगवदिहापि स्यादित्यर्थः । परिप्लुत्य परिप्लुत्य यदृच्छया मन्त्राणां शंसनं परिप्लवः ।
आग्नेयीन्यायं प्रकृते योजयति –
तथेहापीति ।
इह हि वाक्ये उपक्रमे यज्ञोऽध्ययनं दानमिति गृह­स्था­ना­म­सा­धा­र­ण­धर्मो निर्दिष्टस्तप इति वनस्थानाम् आचार्यकुलवास इति ब्रह्मचारिणां तथा सत्युपसंहारेऽपि ब्रह्म­सं­स्थ­त्वे­नैव साधारणधर्मेण यतीनां ग्रहणं युक्तं, न तपसा तस्य गति­ष्व­सा­धा­र­ण­त्वा­भा­वा­दि­त्याह –
यथोपक्रान्तमिति ।
यथो­प­क्रा­न्त­मि­त्या­द्यु­चि­त­मि­त्यन्तं संग्रहवाक्यम् ।
अपि च तप:शब्देन परिव्राजकग्रहणे त्रय इति चत्वार आश्रमा निर्देष्टव्याः, चतु­ष्ट्वा­व­च्छि­न्नेषु न तेषु त्रित्व­म­यु­क्त­मि­त्याह –
यत्सं­ख्या­का­श्चेति ।
इद­म­प्यु­चि­त­मि­त्यन्तं संग्रहवाक्यमेव ।
आद्यं संग्रहं व्यतिरेकमुखेन विवृणोति –
असा­धा­र­णे­त्या­दिना ।
असाधारणेन यज्ञादिना उपक्रमः, साधारणेन तपसा चोपसंहारः । तावेतौ न श्लिष्यते न सङ्गच्छेते इत्यर्थः ।
तपसः संन्या­सि­व­न­स्थयोः साधा­र­ण­त्व­म­ङ्गी­कृत्य दूषणमुक्तम्, इदानीं साधारण्यमेव नास्ति; तस्य वन­स्था­सा­धा­र­ण­त्वात्, तथा च तपसा परिव्राजकस्य ग्रहणं नैव प्राप्नोतीत्याह –
न च तपो नामेति ।
ग्रीष्मे पञ्चा­ग्नि­म­ध्या­व­स्था­नादि हि तपो नाष्ट­ग्रा­स­नि­य­मादि । तथा सति द्वात्रिं­श­द्भा­सा­दि­नि­य­मेन गृहस्थादेरपि तप­स्वि­त्व­प्र­स­ङ्गा­दि­त्यर्थः ।
यच्चोक्त समधिकशौचं तप इति, तत्राधिकमप्याह –
न च शौचेति ।
एवमाद्यं संग्रहं विभज्य द्वितीयं विभजते –
सिद्ध­सं­ख्या­भे­दे­ष्विति ।
अव­स्था­वि­शे­षा­पे­क्ष­यै­क­स्यैव पुण्य­लो­का­मृ­त­त्व­प्रा­प्ति­व्य­प­दे­श­भे­दस्य पूर्वपक्ष उपपादितत्वाद् भाष्या­यो­ग­मा­श­ङ्क्याह –
त्रय एत इतीत्यादिना ।
त्रय इत्येते इति च पदे ताव­त्स­मा­ना­धि­क­रणे । ततश्च ये त्रय इत्युक्तास्त एवैत इति पराम्रष्टव्याः । तत्र त्रय इति भिक्षुं विहाय यदि गृहस्थादय उच्यन्त , तदा वक्तव्यं तपःशब्देन भक्तिर्गृह्यते वा, न वेति । यदि तु गृह्येत ततस्तापसेन भिक्षुणा सह सर्वेषामेत इति शब्देन प्रकृ­त­प­रा­मृ­ष्ट­त्वा­दे­त­च्छ­ब्द­स­मा­ना­र्थ­वृ­त्तिना त्रय इति शब्देन भिक्षुवर्जं त्रयो वक्तुमशक्या इत्यर्थः ।
अथ तपःशब्देन भिक्षुः संगृह्यते, त्रय इति शब्देन च भिक्षुसहिता निर्देश्यन्ते, तत्राह –
भिक्षुसंग्रहे चेति ।
तदा ह्येत­च्छ­ब्द­प­रा­मृ­ष्टानां त्रयाणां पुण्य­लो­क­भा­क्त्वा­भि­धा­नाद् भिक्षोरपि पुण्य­लो­क­भाक्त्वं स्यात्, तच्चायुक्तम्; तस्य ब्रह्म­सं­स्थ­त्व­नि­य­मा­दि­त्यर्थः ।
अथ ब्रह्म­सं­स्थ­स्यैव पुण्य­लो­क­भा­क्त्व­मपि स्यात्तत्राह –
तेन तस्यैवेति ।
वाक्यवैरूप्यमाह –
त्रिषु चेति ।
गृह­स्था­दी­ना­म­नि­त्य­त्वाद् ब्रह्म­सं­स्थायाः, सदा ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मे­तीति योजनीयम् । एवं वाक्य­वै­रू­प्य­मि­त्यर्थः । एवं च भाष्यमपि साध्याहारे योजने उक्तदोषं हृदि कृत्वा यथा­श्रु­ता­र्थो­प­पा­दने फलभेदव्यपदेशं हेतुमाहेति व्याख्यातं भवति । यदिह केशवो वक्ति – मा भूत्तपःशब्देन भिक्षोर्ग्रहणं, ब्रह्म­सं­स्थ­प­दस्य तु प्रकृ­त­मा­त्र­प्र­वृत्तौ को विरोधः? भिक्षोश्च योगा­र्था­वि­शे­षाद् ब्रह्मसंस्थस्य सतोऽमृतत्वं भविष्यति ।
न च भिक्षोरपि नित्या ब्रह्मसंस्था ; संन्यासाद् ब्रह्मणः स्थानमिति फला­न्त­रा­म्ना­नात् - इति, तदत एवापास्तम् । यदा तदेति वाक्य­वै­रू­प्या­देव । न च संन्या­स­स्यो­द्देश्यं फलं ब्रह्मलोकः, काम्यकर्मवतः संन्या­सि­त्व­व्या­घा­तात् । लोकै­ष­णा­व्यु­त्थि­तस्य हि संन्यासो विधीयते । तस्मा­त्स­न्या­साद् ब्रह्मण इत्या­नु­ष­ङ्गि­क­फ­ला­भि­प्रायं प्राप्य पुण्य­कृ­ता­ल्लो­का­नि­त्यादि वदतो भिक्षोर्नित्या ब्रह्मसंस्थेति । भवत्येव वैरूप्यमिति । सिद्धान्तिनाऽपि योग­स्ये­ष्ट­त्वाद् रूढिमारोप्य पूर्वपक्ष आभासस्तं स्मारयतीत्यर्थः ।
आग्नेयीन्यायेन ब्रह्म­सं­स्थ­श­ब्दस्य प्रकृ­त­स­र्व­गो­च­र­त्व­स्यो­क्त­त्वा­त्कथं त्रयाणां ब्रह्म­सं­स्थ­त्वा­सं­भवः? अत आह –
सत्यमिति ।
दर्शि­त­श्चा­त्राऽ­सं­भव इति ।
वैरू­प्या­दि­ने­त्यर्थः ।
एवं प्रकृ­त­प­रा­म­र्शित्वं ब्रह्म­सं­स्थ­श­ब्दस्य व्युदस्य यौगिकार्थस्य भिक्षावेव संभवं भाष्यो­क्त­मु­प­पा­द­यति –
एष हीत्यादिना ।
संपू­र्व­स्ति­ष्ठ­तिर्हि समाप्तिवचनः । अन्यनिष्ठताया ब्रह्मणि समाप्तिर्न स्याद्, अन्यत्रापि व्यास­क्त­त्वा­दि­त्यर्थः । स्वाभावेन स्वस्य विरो­धा­द्धे­तोस्तं व्यव­च्छि­न्द­न्तीति योजना । भास्करस्तु न्यास एवात्यरेचयदिति तैत्तिरीयके ब्रह्माभिधीयते; न्यास इति ब्रह्मेति निर्वचनात् ।
तथा च संन्यासे प्रमाणत्वेन वचनोदाहरणं भाष्यकारस्य न युक्तमिति वदति, तं श्रुति­व्या­ख्या­ने­ना­नु­क­म्पते –
सर्व­स­ङ्गे­त्या­दिना ।
अत्र हि श्रुतौ ‘‘सत्यं पर’’मित्यादिना सत्यादितपांसि प्रक्रम्य तेभ्यः परत्वेन संन्यासः श्रूयते । तत्र ब्रह्मा परमात्मा पर उत्कृष्टः संन्या­सोऽ­पी­त­र­सा­ध­नेभ्यः पर इत्य­स्मा­त्सा­म्याद् ब्रह्मत्वेन स्तूयते इत्यर्थः ।
ब्रह्मपरतयेति ।
ब्रह्मणि तात्प­र्ये­णे­त्यर्थः ।
ब्रह्म­ज्ञा­न­प­रि­पा­का­ङ्ग­त्वा­च्चेति भाष्यं, तदनुपपन्नमिव ; अन­धि­कृ­त­वि­ष­य­त्वेऽपि संन्यासस्य तान् प्रत्येव विद्या­प­रि­पा­का­ङ्ग­त्व­सं­भ­वा­दि­त्या­शङ्क्य व्याचष्टे –
शब्दजनितस्येति ।
संन्यासस्य कर्मा­न­धि­कृ­त­वि­ष­य­त्व­क­ल्पनं हि स्वप्र­यु­क्ता­धि­का­र्य­लाभ स्याद्, ब्रह्म­सा­क्षा­त्का­र­का­मस्य तदधिकारिणः सत्त्वान्नैवं कल्प­नी­य­मि­त्यर्थः ॥ ये तु शिखा­य­ज्ञो­प­वी­त­त्या­ग­रूपां पार­म­हं­स्य­वृत्तिं न मन्यन्ते, ते न पश्यन्ति प्रत्यक्षां घण्टिकस्थानेषु पठ्य­मा­ना­मा­थ­र्वणीं श्रुतिं ‘‘सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः’’ इति । न चात्र सशिखं शिखासहितं यथा भवति तथेति शिखारक्षणं शङ्क्यम् ; ‘‘अग्नेरिव शिखा न्याया यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञान­य­ज्ञो­प­वी­तिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥’‘ इत्या­दि­वा­क्य­शेषे बाह्यशिखां व्यावर्त्य ज्ञानस्यैव शिखा­त्वा­दि­सं­पा­द­नात् । न च -एतद् द्वित्रि­दि­न­जी­व­ना­व­शे­ष­सि­द्ध­पु­रु­ष­वि­षयं न साधकविषयमिति – साम्प्रतम्; ‘‘आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्यान­नि­र्म­थ­ना­भ्या­सा­द्देवं पश्येन्निगूढवत् ॥’‘ इति वाक्यशेषे ध्यानविधानात्, सिद्धं प्रति तद्वैयर्थ्यात् । महार्णवे च यतिधर्मप्रकरणे यम­स्मृ­ति­रु­दा­हृता, सापि तैर्न दृष्टा; एकवासा अवासा वा एकदृष्टिरलोलुपः । एक एव चरेन्नित्यं वर्षास्वेकत्र संवसेत् ॥ इति । न च त्रिद­ण्डि­ना­म­वा­स­स्त्व­सं­भवः, परमहंसस्य तु सर्वत्यागादस्ति सम्भवः । इदमपि साधकविषयवचनम्; सिद्धं प्रति विधि­वै­य­र्थ्या­दिति । यदिह केशवः प्रललाप - बहिः सूत्र­मि­त्य­न्त­र्या­मिणो बाह्यो हिर­ण्य­ग­र्भोऽ­भि­धी­यते, नोपवीतम्’ हृदि प्राणाः प्रतिष्ठिता इति प्राण­प्र­क्र­मात्, वाक्ये च संन्या­स­वि­ध्य­श्र­व­णात्, परमात्मना चोपवीतकार्यस्य सव्या­प­स­व्या­दे­र­क­र­णा­दु­प­वी­त­का­र्यस्य तस्मि­न्न­ति­दे­शा­यो­गाच्च न तन्नि­ष्ठा­ब­ला­दु­प­वी­त­त्या­ग­सं­भवः । कुश­का­र्य­ह­वि­र्धा­र­ण­क­रणे हि शरमयबर्हिषा तद्बाध इष्यते – इति, तन्न; सूत्र­सा­दृ­श्य­रू­प­गु­ण­ल­क्ष­णा­द्वा­रेण हिरण्यगर्भे सूत्र­श­ब्द­वृ­त्ति­क­ल्प­नायां गौरवप्रसङ्गात् । सूत्र­वि­का­रो­प­वी­त­ल­क्ष­णायां च सन्नि­क­र्षा­त्त्रि­वृ­त्सूत्रं च तद्विदुरिति चोप­क्र­म­ग­त­हृ­च्छ­ब्दोक्तं ब्रह्म तच्छब्देन परामृश्य त्रिसू­त्र­ता­सं­पा­द­नात् तन्निष्ठाबलेन तित्या­ज­यि­षि­त­सू­त्र­स्यापि त्रिसू­त्र­त्वा­व­धा­र­णात् । ‘‘धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशु­चि­र्भ­वेदि’’ति च यज्ञो­प­वी­त­सा­ध्यो­च्छि­ष्टा­शु­चि­त्व­नि­वृ­त्ते­रा­न्त­र­सू­त्रेण संपादनेन त्याज्यसूत्रस्य यज्ञो­प­वी­त­त्वा­व­धा­र­णात् । एते­ना­ति­दे­शा­नु­प­पत्तिः पराणुन्ना । तथोपसंहारेऽपि ‘‘ज्ञान­य­ज्ञो­प­वी­तिनः इदं यज्ञोपवीतं तु परमं यत्परायणम् स विद्वा­न्य­ज्ञो­प­वीती स्यात्स यज्ञस्तं यज्वानं विदु’’रि­त्या­दि­भि­र्य­ज्ञो­प­वी­त­मेव घुष्यते । यत्तु प्राण­प्र­क­र­णा­दिति, तन्न; ततोऽपि प्रागेव सहि­र­ण्य­ग­र्भ­स­म­स्त­ज­ग­द­धि­ष्ठा­नस्य ब्रह्मणो हृच्छब्देन प्रक्रा­न्त­त्वात् । यच्च संन्या­सा­श्र­व­णा­दिति, तदपि न; वाक्यशेषे ‘‘बहिःसूत्रं त्यजे­द्वि­द्वा­न्यो­ग­मु­त्त­म­मा­स्थितः’’ इति योगं सम्यग्ज्ञानं कर्तुं प्रवृत्तस्य साधनत्वेन सूत्रत्यागस्य विहितत्वात्, सर्व­श्रु­ति­स्मृ­तिषु च संन्यासस्यैव ज्ञाने साध­न­त्व­प्र­सिद्धेः, त्याग­सं­न्या­स­श­ब्द­यो­श्चै­का­र्थ­त्वा­दिति । अयं च यज्ञो­प­वी­ता­दि­त्यागः पर­म­हं­स­य­ति­वि­शे­ष­वि­षये पर्यु­दा­सोऽ­प­र­म­हंसो यज्ञोपवीतादि धारयेदिति, न निषेधः; नित्य­वि­धि­भि­र्नि­वृत्तेः प्रत्यवायं कल्पयित्वा यज्ञो­प­वी­ता­दि­धा­र­ण­प्र­वृ­त्ते­र्वि­हि­त­त्वात् । तत्र कथं निषेधेन निवृत्तिबोधः क्रियेत? न च - प्रवृत्तौ प्रत्यवायं परिकल्प्य निषेधो निवर्तयतीति – वाच्यम्; तथा सति प्रवृ­त्ते­र­प्राप्त्या निषे­ध­स्यै­वा­नु­दये सर्व­ना­श­प्र­स­ङ्गात् । तस्मा­त्प­र्यु­दासः । यदि मन्येत परमहंसानामपि पराशरेण यज्ञोपवीतादि विहितं “तत्र परमहंसा नाम त्रिद­ण्ड­ज­ल­प­वि­त्र­य­ज्ञो­प­वी­त­शि­क्या­न्त­र्वा­स­धा­रिण’’ इत्यादिना, ततश्च न पर्युदास इति, तन्न; अस्य वचनस्य व्यव­ह्रि­य­मा­ण­प­रा­श­र­स्मृ­ता­व­द­र्श­नात् । कल्पने च सशि­ख­मि­त्या­दि­प्र­त्य­क्ष­श्रु­ति­वि­रोधे बुद्धा­दि­स्मृ­ति­वद् बाधात् । भवन्ति च स्मृतयः - ‘‘त्रिदण्डं कुण्डिकां चैव सूत्रं चाथ कपालिकाम् । जन्तूनां वारणं वस्त्रं सर्वं भिक्षुः परित्यजेत् ॥ कौपी­ना­च्छा­द­नार्थं तु वासोऽर्थस्य परिग्रहम् । कुर्यात् परमहंसस्तु दण्डमेकं तथैव च ॥ ‘‘ इति विष्णुः । काण्वायनश्च - ‘‘तत्र परमहंसा नाम त्रिद­ण्ड­क­म­ण्ड­लु­शि­क्य­ज­ल­प­वि­त्र­पा­त्र­पा­दु­का­श­न­शि­खा­य­ज्ञो­प­वी­त­क­पा­लानां त्यागिनो न तेषां धर्माधर्मौ न सत्यं नापि चानृतं सर्वसहाः सर्वसमाः सम­लो­ष्टा­श्म­का­ञ्चना यथो­प­प­न्न­भै­क्षा­हा­रा­श्चा­तु­र्वर्ण्यं भैक्षचर्यं चरन्त आत्मानं मोक्षयन्त’’ इति । विष्णु­का­ण्वा­य­न­स्मृ­त्योश्च शिष्ट­प­रि­गृ­ही­त­यो­र­ना­प्त­प्र­णी­तत्वं शङ्कमानस्य स्वकी­य­ब्रा­ह्म­ण­त्वेऽ­प्य­ना­श्वासः स्यात् । स्मरति स्म भगवान्व्यासः -’‘यज्ञोपवीतं कर्माङ्गं वद­न्त्यु­त्त­म­बु­द्धयः । उप­कु­र्वा­ण­का­त्पूर्वं यतो लोके न दृश्यते ॥ यावत्कर्माणि कुरुते तावदस्यैव धारणा । तस्मादस्य परित्यागः क्रियते कर्मभिः सह ॥ अग्नि­हो­त्र­वि­नाशे तु जुह्वादीनि यथा त्यजेत् । यथा च मेखलादीनि गृह­स्था­श्र­म­वा­ञ्छया ॥ पत्नीयोक्त्रं यथेष्ठ्यन्ते सोमान्ते च यथा ग्रहान् । तद्व­द्य­ज्ञो­प­वी­तस्य त्यागमिच्छन्ति योगिनः ॥’‘ इति । महाभारतेऽपि –’‘एकदण्डी त्रिदण्डी वा शिखी मुण्डित एव वा । काषा­य­मा­त्र­सा­रोऽपि यतिः पूज्यो युधिष्ठिरः “॥ तथा - “जटाऽ­जि­न­ध­रा­श्चान्ये पङ्कदिग्धा जितेन्द्रियाः । मुण्डा निस्तन्तवश्चापि वस­न्त्य­र्था­र्थिनः पृथक् “॥ इति राज­ध­र्म­प्र­शं­सा­र्थ­मु­त्त­मा­श्र­म­प­रा­मर्शः । लैङ्गेऽपि पुराणे – “निकृत्य स्वशिखां केशानुपवीतं विसृज्य च । पञ्च­भि­र्जु­हु­या­दप्सु भूः स्वाहेति च वा क्रमात् “॥ इति । पद्मपुराणेऽपि – “ ततो व्रतानां पर­म­हं­स­व्र­त­म­नु­त्त­मम् । तेभ्यो ददौ दिवौकोभ्यः सतामप्यविरोधि यत् ॥ पठ्यते यजुश्शाखायां महत्पैतामहं व्रतम् । परं ब्रह्मोदितं तद्व­दा­ग­मा­चा­र­चे­ष्ठि­तम् ॥ ब्रह्मा­र­ध­न­मु­ख्यानां व्रतिनां तीव्रतेजसाम् । भृगु­वृ­द्ध्या­प­या­मास वेदोक्तं परं हितम् ॥ एवं व्रतधाराः सर्वे वसन्ति स्माऽरेश्वराः । हंसव्रतधारा भूत्वा ध्यायमानाः परं पदम् ॥ हित्वा शिखां सोपवीतां विधिना परमेण ते । कालेन महताध्यानादेवं ज्ञानात्मतां गताः ॥ ये चात्र हंसव्रतिनो नियताः संयतेन्द्रियाः । एवं भिक्षां तु भुञ्जाना ध्यायमानाः परं पदम् ॥ दण्डहस्तास्तु सञ्जात भिक्षा­व्र­त­स­म­न्विताः । त्यक्त्वा शिखां सोपवीतां दण्ड एकः करे धृतः ॥ हसव्रतं परं प्रोक्तं पुरा चीर्णं मया चिरम् । व्रतानां परमं गुह्यं पवित्रं पापनाशनम् ॥ हंसव्रतं द्विष­न्मो­हा­त्पा­पे­ना­च्छा­दितो नरः । न स मुच्येत पापेन कल्पकोटिशतैरपि ॥ तस्मा­द्धं­स­व्र­तानां तु न हन्यान्न च दूषयेत् ॥ भिक्षां परमहंसानां यतीनां यः प्रयच्छति ॥ विमुक्तः सर्वपापेभ्यो नासौ दुर्ग­ति­मा­प्नु­यात् । शिखां यज्ञोपवीतं च त्यक्त्वा चरति यो व्रतम् ॥ हंसव्रती स विज्ञेयो मोक्षकामी भवेच्च सः । शिखायज्ञोपवीतेन त्यक्तेनासौ कथं द्विजः ॥ निन्द्यते देवलोकेषु पूजितो देवदानवैः । दुष्टं विशिष्टमथवा हंसरतधरं नरम् ॥ न पृशेदङ्गमङ्गेन देवरूपः स वै द्विजः” ॥ इति । पराक्रान्तं चात्र बहु­भि­रा­चा­र्यै­रिति न विस्तीर्यते ॥२०॥
इति द्वितीयं परामर्शाधिकरणम् ।

स्तुति­मा­त्र­मु­पा­दा­ना­दिति चेन्ना­पू­र्व­त्वात् ॥२१॥ पूर्व­त्रा­नु­ष्ठे­य­सा­म्य­श्रु­ते­रा­श्र­मा­न्तरं विधे­य­मि­त्यु­क्तम्, इह तु रस­त­म­त्वा­दी­ना­म­ङ्गा­श्रि­त­त्वे­ने­य­मेव जुहू­रि­त्या­दि­स्तु­ति­सा­मा­न्यात् स्तुत्य­र्थ­त्व­मिति पूर्वः पक्षः ॥ यदा रसतमत्वादि नाऽङ्गनिष्ठमपि स्तुतिः । तदा किमङ्ग वक्त­व्य­म­न­ङ्गा­त्म­धियः फलम् ॥ इति सिद्धान्ते । ननु रसतमत्वादिभिः किमु­द्गी­था­दि­विधिः स्तूयते, उत उपास्तिविधिः । नाद्यः; उद्गीथादिविधेः कर्म­प्र­क­र­ण­स्थ­त्वेन व्यव­धा­ना­त्ते­नै­क­वा­क्य­त्वा­नु­प­पत्तेः ।
न द्वितीयः; उपा­स्य­वि­ष­य­स­म­र्प­णेन विध्यन्वयसंभवे लक्षणया स्तुत्य­र्थ­त्वा­यो­गा­दि­त्या­श­ङ्क्याह –
यद्य­त्रे­त्या­दिना ।
अव्य­भि­च­रि­त­वि­धि­सं­ब­न्धे­नेति ।
अव्य­भि­च­रि­तो­द्गी­था­दि­वि­ष­य­वि­धिना संबन्धो यस्य तेनो­द्गी­था­दि­नो­प­स्था­पित उद्गीथादिविधिः स एष इत्यादिना स्तूयते, यथा जुहो­प­स्था­पि­त­क्र­तुना पर्णमयता संबध्यत इत्यर्थः ।
ननु विशे­ष­ण­वि­शे­ष्य­भा­वेन समभिव्याहारात् स्तुतिर्भवति वायु­क्षे­पि­ष्ठादौ , नेह व्यवधानादिति, तत्राह –
न हीति ।
अनु­ष­ङ्गा­ति­दे­शेति ।
‘‘चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनातु अच्छिद्रेण पवि­त्रे­णे’त्य­त्रान्ते श्रुतोऽ­च्छि­द्रे­णे­त्ये­षोऽ­र्थ­वादः प्रति­म­न्त्र­म­नु­ष­ज्यते । वैश्वदेवे ‘‘आग्ने­य­म­ष्टा­क­पालं निर्व­प­ती’’त्या­दि­ह­विःषु श्रुता अर्थवादा वरु­ण­प्र­घा­सा­दि­ष्व­ति­दि­श्यन्ते । ‘‘एत­द्ब्रा­ह्म­णानि पञ्च हवींषि येत­द्ब्रा­ह्म­णा­नी­त­राणी’’ति । एवमत्र व्यवधानेऽपि श्रुत­त्वे­नै­क­वा­क्यता स्यादित्यर्थः ।
सन्नि­हि­त­वि­ध्य­भा­वा­ङ्गी­का­रे­णा­द्य­प­क्ष­मु­प­पाद्य द्वितीयं कल्पमवलम्ब्यापि पूर्वपक्षं घटयति –
यदि त्विति ।
विधिनैव पुरु­ष­प्र­वृ­त्ति­सिद्धेः स्तुति­र्व्य­र्थेति शङ्कित्वा परिहरति स्माचा­र्य­श­ब­र­स्वामी । सत्यं विनापि तेन सिध्ये­त्प्रा­मा­ण्यम्, अस्ति तु तत्स्तुतिपदमिति । तस्य व्याख्या प्रभाकरगुरुणा कृता - अस्ति तु तदि­त्ये­त­द्भा­ष्य­म­ति­रेके विधिव्यतिरेकेण स्तुतिपदसद्भावे परिहार इति । एवं वदतैतत्सूचितं केवलविधिश्रवणे नास्ति स्तुत्यपेक्षा, यथा ‘‘वसन्ताया कपि­ञ्ज­ला­ना­ल­भते’’ इत्यादौ । स्तुतिपदे तु सत्यस्ति तदपेक्षा, यथा लोके पटो भवतीत्येतावति वाक्ये नास्ति पदान्तरापेक्षा । ‘रक्तः पट’ इत्यत्र तु रक्त­प­द­स्या­का­ङ्क्षया वाक्य­स्या­प्या­का­ङ्क्षो­त्था­प्यते, तद्वदिति ।
तदेतदाह –
यथाहुरिति ।
नन्व­र्थ­वा­दा­श्र­व­णेऽ­प्य­नु­ष­ङ्गा­दि­भि­स्त­त्स­म­भि­व्या­हार उक्तः, तत्राह –
अत एवेति ।
यत एव विधेरेव प्रवर्तकत्वमत एव । अतिदेशे तु वच­ना­द्व्य­व­हि­ता­र्थ­वा­द­सं­बन्धो न त्विह तद­स्ति;अ­नु­ष­ङ्गेऽ­प्य­र्थ­वा­दस्य साकाङ्क्षत्वात् । अच्छिद्रेण पवि­त्रे­णे­त्युक्ते पुना­त्वि­त्ये­त­स्मि­न्न­पे­क्षा­द­र्श­नात्, क्वचित्तु पठितव्यः सन्नन्ते पठित इति, न त्विह रसतमत्वादेः प्रदे­शा­न्त­र­स्थो­द्गी­था­दि­वि­ध्य­पे­क्षास्ति; उपा­स­न­वि­धि­वि­ष­य­स­म­र्प­क­त्व­स्या­न­न्त­र­मेव वक्ष्यमाणत्वात् । तस्मा­द­नु­ष­ङ्गा­दि­दृ­ष्टा­न्ते­ना­र्थ­वा­द­प्रा­प्त्य­भि­धा­न­म­स­म­ञ्जसं वैष­म्या­दि­त्यर्थः ।
केवलस्य श्रुतस्य विधे­र­न­पे­क्ष­त्व­मु­प­पा­द­यति –
न हीति ।
कर्मविधेरिति ।
कर्मा­ङ्ग­वि­धे­रिति वक्त­व्येऽ­ङ्ग­स्तु­ति­र­प्य­ङ्गिन एवेति कर्म­वि­धे­रि­त्यु­क्तम् ।
ननु भाष्यो­दा­हृ­त­न्या­य­वि­त्स्म­रणे पञ्च विधि­ल­क्ष­णा­न्यु­क्ता­नीति प्रतिभाति, तच्चायुक्तम् ; न हि धात्वर्थभेदे कारकभेदे वा विधिलक्षणं भिद्यते, इत्याशङ्क्य तदभिप्रायं विवरिष्यन् विधिलक्षणं तावदाह –
भावनायाः खल्विति ।
ननु विधौ स्मृत­लि­ङ्गा­दे­रेव न हन्यादिति निषेधेष्वपि प्रयोगात्कथं प्रत्ययस्य विधि­वा­च­क­त्व­नि­य­म­स्त­त्राह –
निषेधश्चेति ।
निषे­ध­वा­क्य­ग­तै­रपि लिङ्गा­दि­प्र­त्य­यै­र्वि­ध्य­र्थोऽ­नूद्य नञा निषिध्यते इति नास्ति व्यभिचार इत्यर्थः ।
ननु शब्द एव विधि­र्नि­यो­गा­दिर्वा, नेत्याह –
एतच्चेति ।
एवं विधि­ल­क्ष­ण­मु­प­स्थाप्य वार्ति­का­र्थ­मु­प­पा­द­यति –
क्रिया चेत्यादिना ।
कृश्च भूश्चास्तिश्च कृभ्वस्तयस्तान् कृभ्व­स्ती­नु­दा­हृ­त­वा­नि­त्यर्थः । यद्यपि धातवः शतशः सन्ति; तथापि डुकृञ् करणे, भू सत्तायाम्, अस भुवीति त्रय एव धातवो भाव­ना­सा­मा­न्य­वा­चिन उदाहृताः सर्वत्र व्याप्त्यर्थम् । एत­द्धा­तु­ग­त­प्रत्य - यैश्च सक­ल­भा­व­ना­नु­ग­त­श्रेयः साधनत्वरूपो विधिरभिधीयते, न तु प्रतिधातु प्रतिप्रत्ययं च भावनाभेद इत्यर्थ । कर्तव्यमित्यस्य कृदन्तत्वेन द्रव्या­भि­धा­यि­त्वाद् द्रव्यं प्रत्यु­प­स­र्ज­न­भू­त­भा­वना प्रतीयत इत्यर्थः । यद्यपि भवतिरस्तिश्च प्रयो­ज्य­व्या­पा­र­वा­चिनौ, भावना च प्रयो­ज­क­व्या­पारः; तथा­प्य­व­स्था­न्त­र­वि­शि­ष्ट­त्वेन भाव्यत्वादस्ति भावना । तथा च दण्डी भवेदित्यादिना दण्डि­त्वा­दि­रू­पेण भाव्य­त्व­म­न­न्त­र­मेव वक्ष्यति ।
एवं करोतिधातौ कारकभेदेऽपि भावनैक्यमभिधाय भवत्यस्त्योरपि तदाह –
एवमिति ।
अस्ते­र्भ्वा­दे­शात् तुल्यवदुदाहरणम् । अत्रापि दण्डि भवे­दि­त्या­क्षि­प्त­क­र्तृका भावनोदाहृता । भवितव्यमिति धात्व­र्थो­प­स­र्ज­न­भूता भावना । भूये­ते­त्या­क्षि­प्त­क­र्मिका भावना ।
एकधात्वर्थविषया इति ।
एको धात्वर्थो भव­त्य­र्थोऽ­स्त्यर्थो वा विषयो यासां तास्तथा दण्डि­त्वा­द्य­व­स्था­न्त­रस्य यद्भवनं सत्ता च तद्वि­ष­या­स्त­द­व­च्छिन्ना भावना उदाहर्तव्या इत्यर्थः ।
विध्युपहिता इति ।
श्रेयः­सा­ध­न­त्व­वि­शिष्टा इत्यर्थः ।
ननु भवतिरस्तिश्च पर्यायौ, भू सत्तायाम् अस् भुवीति च परस्परं व्याख्यानादत आह –
भवतिश्चैष इति ।
कश्चि­त्प्रा­प्त्य­र्थोऽपि भवतिरस्ति तदर्थमेष इत्युक्तम् । जन्मवचनो भवतिरस्तिस्तु जनिफलभूत एवार्थसद्भाववचन इत्यर्थः । एषां भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुरुषः पुरुषस्य वाग् वाच ऋग् ऋचः साम साम्न उद्गीथो रस इत्युपक्रम्य श्रूयते स एष रसानां पृथिव्यादीनां रसतमः परमः पर­मा­त्म­प्र­ती­क­त्वात् परस्य ब्रह्मणोऽर्धं स्थानं तदर्हतीति परार्ध्यः । पर­ब्र­ह्म­व­दु­पास्य इत्यर्थः । पृथि­व्या­द्य­पे­क्ष­याऽ­ष्टमः कोऽसौ य उद्गीथः प्रणव इत्यर्थः । ॥२१॥२२॥
इति तृतीयं स्तुति­मा­त्रा­धि­क­र­णम् ॥

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥ पूर्व­त्रो­द्गी­था­दि­स्तु­त्य­र्थ­त्वा­दु­पा­स्य­वि­ष­य­स­म­र्प­कत्वं रस­त­म­त्वा­दे­र्ज्याय इत्युक्तम्, तर्ह्या­ख्या­ना­ना­मपि विद्या­स्तु­त्य­र्थ­त्वात् सका­शा­त्प­रि­प्ल­व­प्र­यो­ग­शे­षत्वं ज्यायोऽ­नु­ष्ठा­न­प­र्य­व­सा­न­सं­भ­वा­दिति संगतिः ।
ननु ‘‘यस्याश्विने शस्यमाने सूर्यो नाभ्युदियादपि सर्वा दाश­त­यी­र­नु­ब्रू­यादि’’ति सर्वा­सा­मृ­चा­मा­श्वि­न­ग्र­ह­शं­सने सर्वश्रुत्या विनियुक्तानामपि प्राति­स्वि­का­र्थेषु विनि­यो­गा­दा­ख्या­नानां पारिप्लवे विद्यायां च विनियोगः किं न स्यादत आह –
न च सर्वा इति ।
ऐन्ध्रा गार्हपत्यमिति प्राति­स्वि­क­वि­नि­यो­गानां सर्वा दाशतयीरिति समु­दा­य­वि­नि­यो­गस्य च श्रौतत्वेन तुल्यत्वात् प्राति­स्वि­क­वि­नि­योगं सहते सर्वशब्दः, क्वचित्समानस्य सकृ­त्प्र­वृ­त्तस्य प्राति­स्वि­क­वि­नि­यो­ग­स्या­व­कु­ण्ठ­ना­भा­वा­ल्लि­ङ्गा­दि­भि­र्म­न्त्र­वि­नि­यो­गा­वि­घा­त­क­त्व­मि­त्यर्थः ।
अश्वमेधे हि प्रथमेऽहनि मनुर्वैवस्वतो राजेत्याह द्वितीयेऽहनि यमो वैवस्वतो राजेत्याह तृतीयेऽहनि वरुण आदित्य इत्या­द्या­ख्या­न­वि­शेषो वाक्यशेषे विनियुज्यते, तद्ब­ला­दु­प­क्र­मस्य संकोचमाह –
नैषामिति ।
ननूपक्रमे ‘‘सर्वं शंसती’’त्यभिधाय पुनः ‘‘पारि­प्ल­व­मा­च­क्षीते’’ति उप­सं­हा­र­ग­ते­र्वि­शेषः सर्व­श­ब्दा­नु­सा­रेण उप­ल­क्ष­णा­र्थ­त्वेन व्याख्यायातामत आह –
इतरथेति ।
प्रथमं ‘‘सर्वा­ण्या­ख्या­नानि पारिप्लवे शंस­न्ती’’त्य­भि­धाय पुनः ‘‘पारि­प्ल­व­मा­च­क्षी­तेति’’ विधाय ततो मनुर्वैवस्वत इत्यादि पठ्यते, तत्र पुनर्विधानं वाक्य­शे­ष­ग­ता­ख्या­न­नि­य­मा­र्थ­मि­त­रथा वैय­र्थ्या­त्स­र्व­श­ब्दोऽपि वाक्य­शे­ष­ग­ता­ख्या­ना­ना­मपि मध्य एक­द्व्या­द्य­भि­धा­यो­प­रमं व्याव­र्त­यि­तु­मिति तस्यार्थवत्ता ।
अत्र पुन­र्वि­धि­श्रु­त्याऽ­व­च्छे­दि­कया सर्वश्रुतौ भग्नदर्पायां निर्भयः सन्नि­धि­र्वि­द्या­स्वे­वौ­प­नि­ष­दा­ख्या­नानि विनि­यु­ञ्जी­ते­त्याह –
तथा चेति ।
अनेन द्वितीयं सूत्रं योजितम् । सोऽरो­दी­दि­त्या­दीनां विध्येकवाक्यतां यथा विधि­स­न्नि­धि­र­व­ग­म­ये­दे­व­मा­ख्या­नानां विद्या­स­न्नि­धि­र्वि­द्यै­क­वा­क्यतां गमयतीति योजना । अवधीयन्त इति कर्मकर्तरि । तन्रोपाख्यायिका कथापरो ग्रन्थः ॥२३॥२४॥
इति चतुर्थं पारि­प्ल­वा­धि­क­र­णम् ॥

अत एव­चा­ग्नी­न्ध­ना­द्य­न­पेक्षा ॥२५॥ ब्रह्मविद्या मोक्षे कर्मा­णी­ति­क­र्त­व्य­ता­त्वे­ना­पे­क्षते । यज्ञेनेति विविदिषायां विनि­यु­क्त­य­ज्ञा­दीनां विष­य­सौ­न्द­र्य­ल­भ्यायां तस्या­म­न­न्व­या­दि­च्छा­वि­ष­य­ज्ञा­न­साध्ये मोक्षेऽन्वय इति पूर्वः पक्षः ॥ अस्मिन्पक्षे यज्ञे­ने­त्या­दि­क­र­ण­वि­भ­क्ति­बाधः स्यात् । न हि मोक्ष­सा­ध­न­मि­च्छा­सा­धनं, भवति तु ज्ञाने­च्छा­ज­न­का­न्तः­क­र­ण­शु­द्धि­हे­तु­त्वेन ज्ञाने­च्छा­हे­तुत्वं साधनसाधनस्यापि साध­न­त्वा­न­पा­यात्, काष्ठैः पचतीत्यत्र पाक­सा­ध­न­ज्वा­ला­ज­न­क­का­ष्ठानां पाक­हे­तु­त्व­द­र्श­ना­दिति सिद्धान्तः ।
अत्र भाष्यमत एव विद्यायाः पुरु­षा­र्थ­हे­तु­त्वा­त्क­र्माणि विद्यया स्वार्थसिद्धौ नापे­क्षि­त­व्या­नीति, तदयुक्तम्; न हि पुरु­षा­र्थ­हे­तुत्वं कर्मा­पे­क्षा­वि­रोधि आग्ने­या­दि­ष्व­द­र्श­ना­दतः पुरु­षा­र्था­धि­क­र­ण­प्र­यो­ज­न­नि­रू­प­क­त्व­म­स्या­धि­क­र­णस्य न युक्तम् इत्याशङ्क्य भाष्यं व्याचष्टे –
विद्याया इति ।
विद्यायाः क्रत्वर्थत्वे स्वार्थः क्रतूपकारः ।
तदा चोप­क्रि­य­मा­ण­क्र­ता­व­स­त्यु­प­का­र­ज­न­ना­यो­गात् क्रतु­र­पे­क्षि­तव्य इत्युक्त्वा मोक्षा­र्थ­त्वेऽ­न­पे­क्षा­माह –
यदा त्विति ।
अविद्यास्तमये मोक्षे नास्ति कर्मापेक्षेति भावः । स्वसिद्धौ नापे­क्षि­त­व्या­नीति न, अपि­त्व­पे­क्षि­त­व्या­नी­त्यर्थः । अधिकविवक्षयेति भाष्यं व्याचष्टे – एतच्चेति ॥२५॥
इति पञ्च­म­म­ग्नी­न्ध­ना­धि­क­र­णम् ॥

सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वत् ॥२६॥
पूर्वत्र ब्रह्मविद्या, न स्वफले कर्मापेक्षा, प्रमात्वात् संम­त­व­दि­त्यु­क्तम्, तर्हि सा स्वोत्पत्तावपि न तदपेक्षा, अत एव तद्वदेवेति पूर्वपक्षमाह –
यथेति ।
अत्रा­ग­म­वि­रो­ध­मा­श­ङ्क्याह –
न चेति ।
अपि चानेन वाक्येनेच्छा विधीयते, इष्यमाणज्ञानं वा । नाद्यः, विष­य­सौ­न्द­र्य­ल­भ्यायां तस्यां विध्ययोगात् ।
न द्वितीय इत्याह –
अपि चेत्यादिना ।
अत एव न तत्साधनत्वेन यज्ञादिविधानम् ।
ननु पञ्चम्यपि प्रति­प­त्ति­र­पे­क्ष्य­ता­मि­त्या­शङ्क्य फल­प­र्य­व­सा­ना­न्ने­त्याह –
नान्तरीयकं हीति ।
यथाऽ­ति­सु­न्द­रेऽपि गुडादौ धातुदोषादरुचिः, एवं ब्रह्मज्ञानेऽपि पापा­द­रु­चि­र्भ­वे­त्तत्र धातु­सा­म्या­र्थ­मौ­ष­धि­वि­धि­वत् ब्रह्म­ज्ञा­न­रो­च­क­य­ज्ञा­दि­वि­धि­र­र्थ­वा­निति सिद्धान्तयति –
उत्पत्तौ ज्ञानस्येति ।
ननु कर्माणां ज्ञानो­त्प­त्त्य­र्थत्वे याव­ज्ज्ञा­नो­त्पत्ति कर्मा­नु­ष्ठा­तव्यं, न ज्ञानार्थः संन्यास इति, अत आह –
तत्रापीत्यादिना ।
चित्तस्य प्रत्यक् प्रावण्यं कर्मफलं दृष्ट्वा कर्मत्याग उपपन्न इत्यर्थः । ग्रन्थास्त्वेते प्रथमसूत्रे व्याख्याताः ।
ननु ब्रह्मै­वो­प­दि­श्यतां, तत्र ज्ञानं स्वत एव जायेत , किं विविदिषया, नेत्याह –
विविदिषुः खल्विति ।
अति­सू­क्ष्म­त्वाद् ब्रह्मा­त्म­त्वस्य मनः­स­मा­धा­ना­द्य­नु­ष्ठेयं , तद् रुचौ सत्यामनुष्ठीयते नेतरथेत्यर्थः ।
एवं ज्ञानो­त्प­त्त्यु­प­योगं कर्मणां प्रद­र्श्य­फ­लेऽ­नु­प­यो­ग­माह –
न च निर्वि­चि­कि­त्स­मिति ।
फलं हि शब्दज्ञानस्य भावना, तस्याश्च साक्षा­त्का­र­स्तस्य चापवर्गः त्रिष्वपि कर्मानपेक्षा, शब्दज्ञानेन च कर्मा­धि­का­र­हे­तो­र्ब्रा­ह्म­ण­त्वा­दे­र्बा­धि­त­त्वा­त्त­दु­त्त­र­कालं कर्मण एवा­भा­वा­दि­त्यर्थः ।
भास्क­रो­क्त­म­प­व­दति –
तस्मादिति ।
यच्च तेनैवोक्तं ज्ञानात्कर्मणो बाधे भिक्षाटनाद्यपि बाध्येतेति, तत्राह –
दृष्टा­र्थे­ष्विति ।
असक्तस्य अनासक्तस्य । एते च ग्रन्थाः प्रथमसूत्रे एवोपपादितार्था इति । अधिकारे निवृ­त्तेऽ­प्य­श्र­द्धा­या­म­धः­पातः स्यादिति केशवोक्तमसाधु; शास्त्र­कृ­त­त्वा­द­श्र­द्धाया इति ।
अपरमपि भास्करोक्तं निरस्यति –
अतश्चेति ।
ननु शमादेरपि ज्ञानो­त्प­त्ति­हे­तु­त्वा­त्क­र्म­वन्न ज्ञाना­न­न्त­र­म­नु­वृ­त्ति­रिति ब्रह्मविदः कोपाद्यापत्तिरत आह –
शमादीनां त्विति ।
अव­स्था­स्वा­भा­व्या­दिति ।
परमशान्तं ब्रह्मास्मीति पश्यतः स्वभावादेव शमादि स्यान्न यत्न­सा­ध्य­मि­त्यर्थः ॥२६॥२७॥
इति षष्ठं सर्वा­पे­क्षा­धि­क­र­णम् ॥

सर्वा­न्ना­नु­म­तिश्च प्राणात्यये तद्दर्शनात् ॥२८॥ यथा पूर्वत्र विविदिषन्तीति वर्त­मा­ना­प­दे­शेऽ­प्य­पू­र्व­त्वा­त्प­ञ्च­म­ल­का­रेण विधिः कल्पितः, एवमत्रापि ‘‘न ह वा अस्यानन्नं जग्धं भवती’’ति वर्त­मा­ना­प­दे­शेऽ­प्य­पू­र्व­त्वा­द्वि­धि­रिति प्रत्यवस्थानात् संगतिः ।
सर्वे­न्द्रि­याणां प्राणेन सह संवादे यच्छ्रूयते तद्दर्शयति –
एष किलेति ।
इन्द्रियाणि किल वयमेव श्रेष्ठानि इत्यभ्यमन्यन्त । विवादशमनाय च प्रजा­प­ति­नो­क्तानि युष्माकं मध्ये यस्मि­न्नु­त्क्रान्ते शरीरं पतेत् स श्रेष्ठ इति । तत इन्द्रि­ये­ष्वे­कै­कश उत्क्रान्तेषु शरीरं नापतत् । प्राणो­त्क्रान्तौ त्वपतत् । ततः प्राणः श्रेष्ठ इत्यवधृते सतीन्द्रियाणि तेनावजितानि । तानि प्राण उवाचेत्यर्थः ।
यदाह तद्दर्शयति –
किं मेऽन्नमिति ।
पराजितैर्हि विजयिने करो दीयते, एवमिहापि सर्व­प्रा­णि­भि­र­द्य­मा­न­म­न्न­मि­न्द्रि­याणि प्राणाय प्रददुः । अतः सर्वत्रान्नादः प्राण इत्यर्थः ।
आख्यायिकया विवक्षितमर्थमाह –
तदनेनेति ।
प्राणस्य सर्वन्नमिति निर्दे­शा­त्त­थै­वो­पा­स­ना­विधिः कल्पनीय इत्यर्थः ।
एत­द्वि­द्या­ङ्ग­त­येति ।
एतस्याः प्राणविद्याया अङ्गतयेत्यर्थः ।
तत्र यद्यपीति ।
यदवादिष्म पञ्च­म­ल­का­र­क­ल्प­ना­त्स­ङ्ग­ति­रिति । तदित उत्थितम् । प्रवृ­त्ति­वि­शे­ष­क­र­ण­ता­लाभे प्रयोजने विधि­प्र­ति­प­त्ति­रि­त्यर्थः । उपमन्त्रयते स हिङ्कार इत्यादिना ग्राम्य­व्या­पा­र­ग­त­चे­ष्टासु हिङ्का­रा­दि­दृ­ष्टि­र्वि­हिता । सा वामदेव्यविद्या । उपमन्त्रणं सङ्केतकरणम् ।
अशक्तेरिति ।
सर्वान्नस्य पुंसाऽ­त्तु­म­सा­म­र्थ्या­दि­त्यर्थः । अपि च ‘‘नानन्नं भवति’’ इत्यत्र भवतिमात्रं श्रूयते ।
तत्र भावयतिः कल्पनीयः, कल्पयित्वा च तं विधिरपि कल्प्य इत्याह –
कल्पनीयत्वादिति ।
कल्पना न नोपपद्यते; क्लृप्त­सा­मा­न्य­वि­ष­य­नि­षे­ध­शा­स्त्रेण बाधात् ।
क्लृप्तो हि विशेषविधिः सामान्यनिषेधं बाधेत, न कल्प्य इत्यभिप्रेत्याह –
शास्त्रान्तरेति ।
कस्तर्हि शास्त्रा­र्थ­स्त­माह –
प्राणस्येति ।
अश­क्ति­रि­त्ये­त­द्वि­वृ­णोति –
न तावदिति ।
कौलेयकः श्वा । इभो हस्ती । तद्भक्ष्यं वटकाष्ठम् । करभ उष्ट्रः । तद्भक्ष्यौ शमीकरीरौ । कण्टकी वृक्षविशेषः यस्य वल्लीप्रायाः शाखा भवन्ति ।
कल्प­नी­य­त्वा­दि­त्ये­त­द्व्या­चष्ते –
न चात्र लिङ् इवेति ।
लिङः सकाशाद्यथा विधि­प्र­ती­ति­रे­व­मत्र स्फुटतरा नास्ति; पञ्च­म­ल­का­र­द्यो­त­क­स्या­डा­दे­र­श्र­व­णा­दि­त्यर्थः ।
ननु पर्ण­म­यी­त्वा­दा­विव विधिः कल्प्यातामत आह –
न च कल्पनीय इति ।
सर्वमन्नं भव­ती­त्य­स्मा­द­नी­येऽ­नु­वा­द­त्वा­द­न­द­नीये त्वशक्ये विध्ययोगात् शक्ये कलञ्जादौ निषेधशास्त्रेण वैप­री­त्य­प­रि­च्छे­दा­द­पू­र्वा­र्थ­त्वा­भा­वा­दि­त्यर्थः ।
शास्त्रा­न्त­र­वि­रो­धत इत्येतद् व्याचष्टे –
न च सत्यां गताविति ।
प्रवृत्तस्येति ।
क्लृप्त­त्वा­त्प­रि­च्छे­त्तु­म­प्र­वृ­त्त­स्ये­त्यर्थः ।
यदुक्तं प्रवृ­त्ति­वि­शे­ष­क­र­त्वा­द्वि­धि­रिति, तत्राह –
शक्यत्वे चेति ।
ननु सूत्रं प्राणविदः सर्वान्नभक्षणं न वारयति, न हि प्राणात्यये सर्वा­न्ना­नु­म­ति­मा­त्रेण अन्यत्र तद्वारणं कर्तुं शक्यमत आह –
प्राणात्यय इति चेति ।
तद्दर्शनादिति सूत्रभागं व्याचष्टे –
तत्रो­पा­ख्या­ना­च्चेति ।
ननूपाख्याने सामा­न्य­शा­स्त्र­बा­धको विधिर्न श्रूयतेऽत आह –
स्फुटतरेति ।
जीवि­ता­त्य­य­मा­पन्नो मद्यं नित्यं ब्राह्मणो वर्ज­ये­दि­त्याद्या स्फुट­त­र­वि­धि­स्मृतिः ।
ननु तर्हि स्मृत्या जीवितात्यये किं सुराऽपि भक्षणीया, नेत्याह –
सुरावर्जमिति ।
‘‘सुरापस्य ब्राह्म­ण­स्यो­ष्णा­मा­सि­ञ्चेयुः सुरामि’’ति मर­णा­न्ति­क­प्रा­य­श्चि­त्त­द­र्श­नाद् मरणप्रसङ्गेऽपि सा न भक्ष्येत्यर्थः । उष्णा­मि­त्य­ग्नि­व­त्त­प्ता­मि­त्यर्थः ।
प्राणात्ययोऽपि किञ्चिद्विषय एव, नेत्याह –
विद्वांसमिति ।
चाक्रा­य­णो­पा­ख्या­ना­द्वि­द्वांसं प्रति विधानाद् विधिस्मृतेश्च साधारण्याद् अविद्वांसं प्रत्यपि विधानात् प्राणत्यय एव विद्वदविदुषोः सर्वान्नत्वमिति योजना । हस्तिपको हस्तिपालः ।
छान्दो­ग्य­श्रु­ति­ग­त­मु­पा­ख्या­न­म­र्थतो दर्शयति –
स हीति ।
एव­मा­ख्या­न­म­नु­वर्ण्य भाष्यस्थां श्रुतिं व्याचष्टे –
मटचीति ।
मटच्यो नाम रक्तवर्णाः क्षुद्र­प­क्षि­वि­शेषाः । तैर्हतेषु कुरुदेशसस्येषु अशनायया बुभुक्षया ग्लायन् ग्लानि प्राप्त इत्यर्थः ।
मद्यं नित्यं ब्राह्मण इति ।
वर्जयेदिति शेषः ॥२८॥२९॥३०॥३१॥
इति सप्तमं सर्वा­न्ना­नु­म­त्य­धि­क­र­णम् ॥

विहि­त­त्वा­च्चा­श्र­म­क­र्मापि ॥३२॥
यथा शास्त्रा­न्त­र­वि­रो­धा­त्स­र्वा­न्न­त्व­व­चनं स्तुतिरेवं यज्ञादीनां नित्य­त्व­श्रु­ति­वि­रो­धा­द्वि­द्या­र्थ­त्व­व­चनं स्तुतिरिति सङ्ग­ति­म­भि­प्रेत्य पूर्वपक्षमाह –
नित्यानि हीत्यादिना ।
तस्मादनध्यावसाय एवेति ।
अध्यवसाये वा विविदिषन्ति इत्यस्य स्तुत्यर्थत्वं भवतीत्याशयः ।
ननु वाच­नि­क­वि­नि­यो­ग­भे­दा­त्खा­दि­रा­दे­र्वी­र्या­द्य­र्थत्वं क्रत्वर्थत्वं च प्रथमतन्त्रे सिद्धं, तद्वदत्र किं न स्यादत आह –
एतेनेति ।
वास्त­व­वि­रो­धे­ने­त्यर्थः ।
विधिव्यतिरेकेण स्वभावत एव नित्यमनित्यं वा यद्वस्तु व्यवस्थितं तदन्यथा कर्तुं न शक्यते, यत्त्वसिद्धरूपं विधितः कर्त­व्य­मि­त्य­ध्य­व­साय यथाविधि निष्पाद्यते, तस्य रूपं विधित एव ज्ञातव्यम्, विधि­त­श्चा­ग्नि­हो­त्रा­दे­रा­व­श्य­क­त्व­प्र­ती­तेर्न विरोध इत्याह –
सिद्धे हीति ।
निमित्तेन जीवितेन नित्यं सर्वदा संसारिणामीहित इष्ट उपा­त्त­दु­रि­त­क्षयः प्रयोजनं यस्य तत्तथोक्तम् । अनेन फलवत्त्वेऽपि नित्यत्वं कर्मण उपपादितम् । विद्याङ्गतया चेत्यत्र कर्त­व्य­मि­त्य­नु­षङ्गः । ननु विरक्ताधिकाराय विद्याया नित्य­स­मी­हि­त­फ­ल­त्वा­भा­वा­त्त­द­ङ्ग­त्वे­ना­नु­ष्ठी­य­मा­नस्य नित्यत्वं न स्यात्, ततश्च विवि­दि­षा­र्थ­त्वेन कर्म कुर्वतः प्रत्य­वा­य­प­रि­हा­राय नित्यप्रयोगोऽपि पृथक्वर्तव्यः ।
न चेन्नि­त्य­प्र­यो­ग­स्यै­वा­नि­त्यत्वं स्यादिति, नेत्याह –
विद्यायाः कादाचित्कतयेति ।
यथा स्वर्गा­र्थोऽ­ग्नि­हो­त्र­प्र­योगो नित्यप्रयोगं विकृत्य प्रयो­ग­स्यो­भ­य­त्रा­वि­शे­षा­न्नि­त्य­विधेः प्रयोजकत्वं बाधित्वा निविशते, यथा वा ‘‘यदि राजन्यं वैश्यं वा याजयेत स यदि सोमं बिभक्षयिषेद् न्यग्रो­ध­स्ति­भी­रा­हृतः ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेदि’’ति नैमित्तिकः फलचमसप्रयोगो नित्यं सोमप्रयोगं विकृत्य निविशते; काम्य­नै­मि­त्ति­काभ्यां नित्य­का­र्य­सिद्धेः ।यादृशो नित्यः प्रयोगः करणार्थत्वेन विहि­त­स्ता­दृ­श­स्ये­त­रत्र प्रत्य­भि­ज्ञा­नाच्च न पुनः­प्र­यो­गा­वृत्तिः । नापि नित्य­प्र­यो­ग­स्या­नि­त्य­ता­प­त्ति­रे­व­म­त्रा­पी­त्यर्थः । न्यग्रो­ध­स्क­न्धा­द­धो­वि­ल­म्बिन्यो जटाः स्तिभ्यः ।
कार्यस्येति ।
कर्त­व्य­स्ये­त्यर्थः ।
सत्सुकर्मस्विति ।
विद्या­का­र­ण­त्वे­ना­नु­ष्ठि­तेषु कर्मसु सत्सु उत्पन्ना विद्यैव स्वका­र्येऽ­वि­द्या­नि­वृ­त्ति­ल­क्षणे व्याप्रियत इत्यर्थः । भारवाहकत्वं गर्दभ्या एव, पुत्राणां तु भारवहनकाले सत्त्वमात्रम्, न तु वाहकत्वमिति दृष्टा­न्त­वा­र्ति­काथः ।
ग्राहकेति ।
ग्राहकेण प्रयो­ग­वि­धि­नाऽऽ­त्मी­य­त्वेन स्वीका­र­पू­र्व­क­त्वा­दि­त्यर्थः ।
ग्राहकं दर्शयति –
विधेश्चेति ।
अविहिते च ज्ञाने विध्यभावादेव कर्मणां विद्यां प्रत्यङ्गत्वेन प्रयो­ग­वि­धि­ग्र­ह­णा­नु­प­प­त्ते­रि­त्यर्थः ।
ननु तर्हि विद्या विधीयतां, नेत्याह –
चतसृणामपीति ।
एका हि प्रतिपत्तिः साङ्गा­ध्य­य­न­प्र­सवा, अन्या तु शास्त्रश्रवणजा, अपरा ध्यानरूपा, चतुर्थी साक्षात्कृतिः । तासां चतसृणामपि ब्रह्म­वि­ष­य­प्र­ति­प­त्तीनां विधा­ना­नु­प­प­त्ति­रि­त्यु­क्त­मि­त्यर्थः ॥३३॥
ननु ‘‘याव­ज्जी­व­म­ग्नि­होत्रं जुहु­या­दि­ग्नि­होत्रं जुहु­या­त्स्व­र्ग­काम’’ इति वाक्य­यो­रे­क­प्र­क­रणे श्रवणाद्युक्त एकस्य कर्मणः काम्यत्वेन नित्यत्वेन च विनियोगः, यज्ञादिवाक्यस्य तु भिन्न­प्र­क­र­ण­त्वान्न विनि­यो­गा­न्त­र­हे­तु­त्वम्, किंतु कर्मा­न्त­र­वि­धा­य­क­त्व­मे­वेति, नेत्याह –
न हि प्रकरणान्तरमिति ।
यत्र कर्मैव धातु­नो­पा­दा­या­ख्या­तेन विधीयते तत्र कर्म­वि­धा­य­क­त्व­स्व­भा­व­म­प­रि­त्य­जन् विधिः कर्मान्तरं विदध्यात्, विविदिषावाक्ये तु न यज्ञा­दि­धा­त्वर्थे विधिः श्रूयते, किं तु विविदिषायां यज्ञा­द­य­स्त्व­न्य­त्रै­वो­त्पन्ना आख्या­ता­प­र­त­न्त्रै­र्य­ज्ञा­दि­श­ब्दै­र­नू­द्यन्ते । तत्र फल­भू­त­वि­वि­दि­षायां विध्ययोगादयं विधि­र्य­ज्ञा­दी­स्तस्यां विनियुञ्जानो न यज्ञादीन् भिनत्तीत्यर्थः ।
यदि प्रदे­शा­न्त­रो­त्प­न्न­क­र्मा­नु­वा­देन विवि­दि­षा­सं­ब­न्ध­विधिः स्यात्तर्हि कौण्ड­पा­यि­ना­म­य­नेऽपि नित्या­ग्नि­हो­त्रा­नु­वा­देन मास­वि­धि­रा­प­द्येत, तत्राह –
न च तत्रापीति ।
ननु होम एव साक्षा­द्वि­धि­श्र­व­णेऽपि ‘‘यदाहवनीये जुह्वति’’ इत्यत्र होमा­नु­वा­दे­ना­ह­व­नी­य­वि­धि­र्दृष्टः, एवमत्रापि होमानुवादेन कालविधिः किं न स्यादत आह –
कालस्येति ।
पुरु­षा­नु­ष्ठे­य­वि­षयो हि विधिरनुष्ठेयं कालं न विदधाति, किंतु तस्मिन्कर्म विदधाति, आहवनीयस्य तु उपादेयत्वाद् युक्तं प्रदे­शा­न्त­र­सि­द्ध­क­र्मा­नु­वा­देन विधानमित्यर्थः ।
ननु कालोऽ पि विधीयते यद­ग्ने­योऽ­ष्टा­क­पा­लोऽ­मा­वा­स्या­या­मि­त्यादौ, तत्राह –
काले हीति ।
तत्रा­प्य­मा­वा­स्या­दि­काले कर्मैव विधीयते इत्यर्थः ।
सायं जुहोतीत्यादौ कालोऽपि विधीयते, होम­स्या­ग्नि­होत्रं जुहोतीत्यनेनैव विहि­त­स्या­नु­वा­दा­दत उक्तम् –
उत्सर्ग इति ।
अन्यतः कर्म­प्रा­प्ति­रु­त्स­र्ग­स्या­प­वा­दिका, सा च साय­म­ग्नि­हो­त्र­मि­त्यत्र संदिग्धा विशि­ष्ट­वि­धि­सं­भ­वा­त्तथा चोत्स­र्गोऽ­न­पो­दित इत्यर्थः ।
स्मृतिरुक्तेति ।
भाष्ये इति शेषः ॥३४॥३५॥
इत्य­ष्ट­म­मा­श्र­म­क­र्मा­धि­क­र­णम् ॥

अन्तरा चापि तु तद्दृष्टेः ॥३६॥
आश्र­म­क­र्म­सा­पे­क्षैव विद्या फलप्रदेति वदन्प्रष्टव्यः किं फले अपेक्षा, उतोत्पत्तौ, नाद्य इत्याह –
न खलु विद्येति ।
द्वितीयमाशङ्क्य परिहरति –
ननु यथेत्यादिना ।
प्रति­षे­धा­भा­व­मा­त्रे­णा­प्य­र्थि­न­म­धि­क­रो­तीति भाष्यमयुक्तम्, अप्र­ति­षि­द्धा­ना­मपि केषांचिद् विद्यो­द­या­द­र्श­ना­दत आह –
प्रतिषेधो विधात इति ।
विघातः प्रतिबन्धः, तद­भा­वा­द­नु­ष्ठि­त­सा­ध­नस्य विद्योत्पद्यत इत्यर्थः । स्मृतौ मैत्र इत्यहिंसको ब्राह्मणः । ततश्च जपमात्रत्तस्य पुरु­षा­र्थ­सि­द्धि­रि­त्यर्थः ॥३६॥३७॥३८॥३९॥
इति नवमं विधुराधिकरणम् ॥

तद्भूतस्य तु नातद्भावो जैमिनेरपि निय­मा­त्त­द्रू­पा­भा­वेभ्यः ॥४०॥ यदा नाश्रमकर्मापि विद्यासाधनं, तदा आरूढपतितस्य पूर्वा­श्र­म­प्र­स्थि­तस्य कर्म किमु वक्तव्यमिति सङ्गतिः ।
पूर्व­क­र्म­स्व­नु­ष्ठा­न­चि­की­र्ष­ये­त्या­दि­भाष्यं व्याचष्टे –
पूर्व­ध­र्मे­ष्वि­त्या­दिना ।
अरण्यमिति ।य­त्प­द­मा­श्र­म­स्ततो नैन­मि­या­त्पु­न­स्ततो नेया­न्न­व­र्ते­ते­त्यर्थः ॥४०॥
इति दशमं तद्भूताधिकरणम् ॥

न चाधिकारिकमपि पत­ना­नु­मा­ना­त्त­द­यो­गात् ॥४१॥ प्रत्य­व­रो­होऽ­शा­स्त्रीय इत्युक्तम्, स यदि क्रियते, तर्हि किमस्ति प्रायश्चित्तं न वेति चिन्त्यते ।
ब्रह्म­चा­रि­त्वा­न्नि­ष्ठि­क­स्यापि नैऋ­ता­ल­म्भ­प्राप्तेः पूर्व­प­क्षा­भा­व­मा­श­ङ्क्याह –
प्राय­श्चि­त्त­मिति ।
अवकीर्णिपशुश्च तद्वदिति ।
उपनयनहोमा आहवनीये कार्या ‘‘यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीतो भव­ती’’त्या­ह­व­नी­यस्य सर्व­हो­मा­र्थ­त्वा­दिति प्रापय्य षष्ठे सिद्धान्तितम् । आधानं हि ‘‘जातपुत्र आदधीते’’ति वचनात् कृतदारस्य विहितम् । उपनयनकाले च दारा­भा­वा­दा­धा­न­म­प्रा­प्त­का­लम् । तद­भा­वा­च्चा­ह­व­नी­या­भावः । तस्मा­ल्लौ­कि­केऽ­ग्ना­विति एव­म­व­की­र्णि­प­शु­र­पी­त्यर्थः ॥४१॥ श्रुति­स्ता­व­दु­प­दि­शति साक्षा­दि­त्य­न्वयः ।
ननु प्राय­श्चि­त्त­स­द्भा­व­श्रुतिः सामान्यविषया, तदभावविषया स्मृतिस्तु नैष्ठि­क­वि­शे­ष­वि­षया प्रबलेति, नेत्याह –
प्राय­श्चि­त्त­मिति ।
श्रुते नैष्ठिके प्रायश्चित्तं बोधयितुं सामान्यमेकमेव व्यवधानं स्मृतेस्तु तस्मिस्तदभावं बोधयितुं निषेधकल्पना, तत­स्त­न्मू­ल­श्रु­ति­क­ल्प­नेति व्यवधानद्वयम्, अतो दुर्बला स्मृतिः श्रुत्यनुसारेण नेतव्येत्यर्थः ।
यत्नगौरवार्थं प्राय­श्चि­त्त­नि­षे­ध­श्चे­त्तत्किं यत्नगौरवं तदाह –
कृत­नि­र्णे­ज­नै­रिति ।
संख्यानं संप्रतिपत्तिः संव्यवहारः अन्यै­र्व्य­व­ह­र्तृ­भि­र­व­की­र्णिनि व्यवहाराभावे यत्नगौरवं कर्तव्यमिति स्मृत्यर्थ इति भावः । समा विप्रतिपत्तिः स्या(जै.सू.अ.१ पा.३ सू,८) दिति यव­व­रा­हा­धि­क­र­ण­पू­र्व­प­क्ष­सू­त्रम् ।य­व­व­रा­ह­श­ब्दा­र्था­व­धा­रणे आर्याणां म्लेच्छानां च विप्रतिपत्तिः समेत्यर्थः । एष दृष्टान्तः ।
प्रकृते दार्ष्टान्तिके योजयति –
आचार्याणामिति ।
शास्त्रस्था वा तन्नि­मि­त्तत्वा(जै.सू.अ.१ पा.३.सू.१९) दिति सिद्धा­न्त­सूत्रं, तद्योजयति –
शास्त्रस्था येति ।
यववराहाधिकरणं लिङ्गभूयस्त्वा (व्या.सू.अ.३ पा ३ सू.४४) दित्य­त्रा­नु­क्रा­न्तम् ।
ननु प्राय­श्चि­त्ता­भा­व­प्र­सि­द्धि­रपि स्मृतिमूलैवेति नेत्याह –
उपपादितं चेति ।
विप्र­कृ­ष्टा­र्थायाः स्मृतेः सकाशात् सन्नि­कृ­ष्टा­र्थ­श्रु­ते­र्ब­ली­य­स्त्वात् प्राय­श्चि­त्त­भा­व­प्र­सि­द्धे­स्त­न्मू­ल­त्व­मु­प­पा­दि­तम् इत्यर्थः ।।४२॥
इति एका­द­श­मा­धि­का­रि­का­धि­क­र­णम् ॥

बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥
उत नेतीति ।
चिन्त्यते इति शेषः ।
सङ्गतिगर्भं पूर्वपक्षमाह –
तत्रेति ।
कृत­प्रा­य­श्चि­त्ता­ना­म­व­की­र्णिनां संव्यवहार्यत्वे तैः सह कृतं श्रवणादिकं विद्यासाधनं न वेति चिन्ताप्रयोजनम् । सर्वपातकमिह परत्र वाऽशुद्धिं जनयति ।
तत्र नैष्ठि­का­दी­ना­मा­श्र­म­च्यु­ते­र्ब­हु­नि­न्दा­द­र्श­नात् तज्ज­न्य­पा­पा­पूर्वे प्रायश्चित्तेन नुवर्तेतेति; निमि­त्त­नि­वृ­त्ता­वपि कार्या­नु­वृ­त्ते­र्ब­हु­ल­मु­प­ल­म्भा­दि­त्य­भि­प्रेत्य सिद्धान्तमाह –
निषि­द्धे­त्या­दिना ।
निषि­द्ध­क­र्म­त्रि­त­या­त्त­द­नु­ष्ठा­न­ज­न्य­मेनः पापापूर्वं लोक­द्व­येऽ­प्य­शुद्धिं तावदापादयति । तच्च द्वैधिं द्विप्रकारकम् ।
तदेव दर्शयति –
कस्य चिदित्यादिना ।
यत्या­द्या­श्र­म­च्यु­ते­रै­ह­लौ­कि­का­शु­ध्द्या­पा­द­कत्वे दृष्टान्तमाह –
यथा स्त्रीबालादिति ।
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संपिबेत् ॥ इति मनुवचनम् । न संपिबेत् अन्योन्यं गृहे भोज­ना­दि­सं­व्य­व­हारं न कुर्यादित्यर्थः । मनु­व­च­न­व्या­ख्या­न­रूपं याज्ञ­व­ल्की­य­व­च­नम् - प्राय­श्चि­त्तै­र­पै­त्येनो यदज्ञानकृतं भवेत् । काम­तोऽ­व्य­व­हा­र्यस्तु वचनादिह जायते । इति ।
तत्राव्यवहार्य इत्य­का­र­प्र­श्लेषं कृत्वा व्याख्या­यो­दा­ह­रति –
तथा चेति ।
अज्ञानकृतं यदेनो भवेद्यच्च कामतः कृतं तदुभयं प्राय­श्चि­त्तै­र­पै­ती­त्ये­व­म­र्थ­तया व्याचष्टे –
कामतः कृतमपीति ।
कामतः कृत­ब्र­ह्म­व­धा­दि­ग्र­हणं बाल­व­धा­द्यु­प­ल­क्ष­णार्थं मत्वा श्लोकशेषं व्याचष्टे –
बाल­घ्ना­दि­स्त्विति ।
वचनादित्युक्तं, किं तदित्यत आह – वचनमिति ॥४३॥
इति द्वादशं बहिरधिकरणम् ॥

स्वामिनः फल­श्रु­ते­रि­त्या­त्रेयः ॥४४॥ पूर्वत्र कृत­प्रा­य­श्चित्तः संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयवचनेन बाधः कृतः , एव­मि­हा­प्या­श्र­या­ङ्गा­नु­ष्ठा­तु­रे­वा­श्रि­तो­पा­स्ति­क­र्तृ­त्व­मि­त्यु­त्सर्गो वर्षति हास्मै य उपास्त इत्यादिवचनात् फलभाज एव यजमानस्य साधने कर्तृ­त्व­प्र­ति­पा­द­काद् बाध्यत इति संङ्गतिः । पतितैर्व्यवहारे हि कदाचित्स्युस्त ऋत्विजः । आर्त्वि­ज्य­त्वा­दु­पा­स्तीनां तत्संपर्कं ततस्त्यजेत् ॥ इति प्रकृतोपयोगः ।
शास्त्र­पौ­न­रु­क्त्य­मा­श­ङ्क्याह –
प्रथमे काण्डे इति ।
ज्योति­ष्टो­मा­दि­प्र­क­र­णेषु श्रुतानि ‘‘यदि कामयेत वर्षेत्पर्जन्य इति नीचैः सदो मिनुयात् ।’‘ सदः सभामण्डलम् । तद् नीचै­र्नि­र्मि­मी­ते­त्यर्थः । इत्या­दी­न्य­ङ्ग­फ­ला­न्यृ­त्वि­ग्गा­मीनि । याजु­र्वे­दि­क­त्वे­ना­ध्व­र्य­व­स­मा­ख्या­ना­दृ­त्विजि सन्निहिते ‘‘यदि कामयेते’’ति वाक्येन तस्यैव फल­सं­ब­न्ध­बो­ध­ना­दिति प्राप्ते राद्धान्तः । यथा त्र्ययं नाश्नी­या­दि­त्यादि तपः सत्य­प्या­ध्व­र्य­व­स­मा­ख्याने याजमानम् ; तपसः प्रधा­न­फ­ल­सि­द्ध्य­र्थ­त्वात्, प्रधानफलस्य च याजमानत्वात्, तथा कामोऽङ्गफलमपि यजमानगामि । कुतः? अर्थसंयोगात् । यजे­ते­त्या­त्म­ने­प­देन प्रधानफलस्य यज­मा­न­सं­ब­न्ध­बो­ध­ना­दिति । अत्राङ्गफलस्य याज­मा­न­त्व­नि­र्दे­शोऽ­ङ्गस्य तदा­श्रि­तो­पा­स्ते­श्चा­र्था­दृ­त्वि­क्व­र्तृ­क­त्व­म­व­ग­म­य­तीति पुनरुक्तिशङ्का, सा न कार्या; ऋत्वि­क्व­र्तृ­क­त्वस्य सिद्ध­व­त्का­रा­दि­त्यर्थः ।
एवंजातीयकानीति ।
सदः­क­र­णा­दि­क्र­त्व­ङ्ग­जा­ती­या­नी­त्यर्थः । चकार उपासनानि इत्यस्योपरि नेतव्यः ।
उपासनानीति ।
तथाकाम (जै.अ.३ पा.८ सू.१३) इत्य­धि­क­र­णेऽ­ङ्गा­ना­मृ­त्वि­क्व­र्तृ­कत्वं न चिन्तितं, किंतु तदा­श्रि­तो­पा­स्ती­ना­मि­त्यर्थः । यदपि शास्त्रफलं प्रयो­क्तरी(जै.अ.३ पा.७.सू.१८) त्यधिकरणेऽन्यो वा स्यात्प­रि­क्र­या­म्नना (जै.अ.३ पा. ७ सू.२०) दित्य­ङ्गा­ना­मृ­त्वि­क्व­र्तृ­क­त्व­म­भि­हितं, न तेनापि पुन­रु­क्ति­रु­पा­स्ती­ना­म­न­ङ्ग­त्वा­दिति । न चैवं गोदोहनादेरपि याजमानत्वशङ्का; अप्प्र­ण­य­ना­दे­र­ङ्ग­स्या­व­श्य­मृ­त्वि­ङ्नि­र्व­र्त्य­त्वा­त्त­दा­श्रि­त­द्र­व्य­स्या­व्या­पा­र­रू­पस्य पृथक् प्रयोगायोगाद् । उपास्तीनां तु क्रिया­त्वा­द्भ­वति पृथक् प्रयोगः । शक्यते ह्युद्गी­था­द्य­ङ्गेषु ऋत्वि­ग्भि­र­नु­ष्ठी­य­मा­नेषु यजमानेन तेष्वा­दि­त्या­दि­दृ­ष्टि­र­ध्य­सि­तु­मिति ।
ननु ‘‘वर्षति’’ हास्मै पर्जन्यः वर्षयति चान्यार्थमयं य एवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते’’ इत्यादौ कथं याजमानत्वशङ्का? न - हीह यजमानपदमस्ति, अत आह –
तत्रो­पा­स­का­ना­मि­त्या­दिना ।
कर्म­णी­श्व­रोऽ­धि­कारी, तस्यैव फलम्, इह चोपासनकर्तुः फलश्रवणादधिकारी यजमान एवोपासनकर्तेति गम्यते इत्यर्थः ।
ननु कर्तुः फलश्रवणं तस्य याजमानत्वं न गमयितुमर्हति, ‘‘आत्मनो वा यजमानाय वा यं कामं कामयते तमागायति आगानेन संपा­द­य­ती’’त्या­दा­वृ­त्वि­जोऽपि फलश्रवणादत आह –
वचनाच्चेति ।
औत्स­र्गि­क­न्या­यस्य वच­न­म­प­वा­द­क­म­स­त्य­प­वादे फलं यज­मा­न­स्यै­वे­त्यर्थः । यज­मा­न­स्यो­पा­स­नम्; उपासकस्य सतः फलश्रुतेः ।
तत्र दृष्टान्तः –
फलवदिति ।
ननु ‘‘तमुद्गीथं बको नामतो दाल्भस्यापत्यं दाल्भ्यो विदांचकार उपासितवान् स ह नैमिषीयाणां सत्रिणामुद्गाता बभू­वे­त्यृ­त्वि­जोऽ­प्यु­पा­स­न­क­र्तृत्वं श्रूयते, तच्च लिङ्गं सर्वा­र्त्वि­ज्य­मु­पा­स्तीनां गमयति, तत्राह –
तं हेति ।
अन्यार्थदर्शनं हीदमन्यतः सिद्धं विषमीकुर्याद्, इह त्वन्यतः सिद्धिर्नास्ति, तत उपासनफलभाजो यजमानस्यैव कर्तृत्वमिति न्यायं न बाधेतेत्यर्थः ॥४४॥ ननु ‘‘तस्मै हि परिक्रीयते’’ इति सिद्धा­न्त­हे­तु­र­सिद्धः, अङ्गा­श्रि­तो­पा­स्तीनां याजमानत्वे विप्रतिपन्नं प्रति तदर्थमृत्विक् परि­क्र­य­स्या­सिद्धेः, न च - अङ्ग­क­र्तॄ­णा­मृ­त्विजां तदा­श्रि­तो­पा­स्ति­प­र्यन्तं परिक्रयः सन्निधानादिति – वाच्यम् ; यत्र हि तेषां कर्तृत्वं प्रमितं तदर्थं ते परिक्रेतव्यः, न तु सन्निहितार्थम्; अन्य­थाऽ­ङ्ग­स­न्नि­हि­त­प­श्वा­दि­द्र­व्य­सि­द्ध्य­र्थ­मपि तत्प­रि­क्र­य­प्र­स­ङ्गात् ।
तस्मान्न हेतुवचनार्थं पश्यामोऽत आह –
उपा­ख्या­ना­त्त­व­दिति ।
‘‘तं ह बक’’ इत्या­द्यु­पा­ख्यानं तच्च वाक्यशेषगत – त्वान्निर्णायकं न प्रापकमपेक्षते, यस्त्वन्यत्र न्यायबाध उक्त­स्त­त्प­रि­हा­र­प­र­त्वेन ‘‘तस्मै हि परिक्रीयत’’ इति सूत्रावयवं व्याचष्टे – न चेत्यादिना ।
तेन यजमानेन स ऋत्विक् परिक्रीतः संस्तद्गामिने फलाय घटते संपादयितुं युज्यते इत्यर्थः । एतदुक्तं भवति – यजमानगामिता फलस्य साक्षा­त्त­त्क­र्तृ­कत्वे परि­क्री­त­र्त्वि­क्व­र्तृ­कत्वे चोपास्तीनां संभवति, ततः सा कांस्य­भो­जि­न्या­येन लिङ्ग­द­र्श­न­म­नु­ग्र­हीतुं परिक्रयद्वारकं कर्तृ­त्व­मा­श्र­य­तीति ।
एवं च लिङ्ग­द­र्श­ना­दृ­त्वि­क्क­र्तृ­क­त्वेऽ­ङ्गो­पा­स्तीनां सिद्धे तदर्थमपि ऋत्विक् परिक्रीयत इति सूत्रावयवो व्याख्यातः । एतच्च सर्वं तथा चेत्या­दि­भा­ष्या­दु­त्थि­त­मिति परार्थत्वादिति भाष्ये­ण­र्त्वि­ग्द्वारा कर्तृ­त्वा­द्य­ज­मा­नस्य फल­मि­त्यु­क्त्वाऽ­न्य­त्रे­त्य­नेन सति वचने ऋत्वि­जोऽ­पी­त्यु­क्तम् ।
व्यस­नि­ता­मा­त्रे­णेति ।
फलिन एव कर्तृत्वमिति न्यायस्योभयथा संभवे यज­मा­न­मा­त्र­क­र्तृ­क­त्व­वि­षयः पुरुषस्याग्रहो व्यसनिता । यस्मा­दा­धि­दै­वि­क­मा­दि­त्य­पु­रु­ष­मा­ध्या­त्मिकं चाक्षु­ष­पु­रु­ष­मु­पा­सीत उद्गाता तदुभयात्मको भूत्वा सर्वान् लोकान् आप्नोति तस्मा­दे­वं­वि­दु­द्गाता यजमानं ब्रूयात् ते किं कामं फल­मा­गा­या­न्या­गा­नेन संपादयानि । समर्थो हि स फलसंपादने इत्यर्थः ॥४५॥४६॥
इति त्रयोदशं स्वाम्यधिकरणम् ॥

सह­का­र्य­न्त­र­विधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४७॥ यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वैषणाभ्यो व्युत्थाय भिक्षा­च­र्य­मा­च­रन्ति तस्मा­द­धु­ना­त­नोऽपि ब्राह्मणः पण्डाऽध्ययनजा ब्रह्म­धी­स्त­द्वान् पण्डितः, तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य बाल्येन ज्ञानबलभावेन युक्ति­तोऽ­सं­भा­व­ना­नि­रा­स­रू­प­म­न­नेन वा शुद्धहृदयत्वेन वा तिष्ठासेत् स्थातुमिच्छेद्, ‘‘बाल्यं च पाण्डित्यं च निर्वि­द्ये’’त्या­दि­र­नु­वाद उक्त­दा­र्ढ्यार्थः । मुनिर्मननशीलो निदिध्यासकः स्याद् मौनादन्यद् बाल्यं पाण्डित्यममौनं मौनं च निदिध्यासनं निर्विद्याथ ब्राह्मणः ब्रह्मा­ह­मि­त्य­व­ग­च्छ­तीति ब्राह्मणः साक्षा­त्कृ­त­ब्रह्मा भवतीत्यर्थः । पूर्वत्र ‘‘तं ह बक’’ इति वाक्य­शे­षा­द­ङ्गो­पा­स­न­मृ­त्वि­क्व­र्तृ­क­मि­त्यु­क्तम् । एवमिहाप्यथ ब्राह्मण इति विधि­वि­धु­र­वा­क्य­शे­षा­दथ मुनिरित्येषोऽपि न विधिरिति सङ्गतिः ।
ननु बाल्ये­ने­त्यु­प­क्रमे विधि­श्रु­ते­र्मौ­नेऽपि विधिरस्तु, नेत्याह –
यत्र हीति ।
यद्यत्रापि विधेयत्वं स्यात्तर्हि विधिः श्रूयेत बाल्यवदतः श्रोतव्यत्वे सत्यश्रवणाद् विध्यभावो गम्यत इत्यर्थः ।
प्रशंसार्थमिति ।
यदा पाण्डित्यशब्देन मौनस्य प्राप्ति­स्त­देत्थं विधीयमानस्य बाल्यस्य प्रशंसा । न हि पाण्डित्यं स्वरूपेण ज्ञानं भवत्यपि तु बाल्येऽ­नु­ष्ठि­तेऽ­न­न्तरं मौनापरपर्यायं पाण्डित्यं कृतं भवेत्, तस्माद्बाल्यं प्रशस्तं भवेदिति । यदा तु मौन­स्यो­त्त­मा­श्र­मस्य विध्य­न्त­र­प्रा­प्त­स्या­नु­वादः, तदा बाल्य­मा­त्रा­नु­ष्ठा­न­वा­नु­त्त­मा­श्र­मि­त्वेन स्तूयते इति व्यक्ता स्तुतिः ।
सिद्धान्तमाह –
भवेदित्यादिना ।
अनुवादित्वं मौनशब्दस्य परिहृत्य विध्य­श्र­व­णा­द­वि­धे­य­त्वम् ; उक्तं परिहरति –
एवं चेति ।
तत्र तावत् ‘‘अमुनिरिति’’ साका­ङ्क्ष­त्वा­न्नि­र्दे­शस्य तिष्ठासेद् इति विधिरनुषज्यते । मौनं निर्विद्येति संपाद्यत्वं च विधेयत्वं गम यतीत्यर्थः ।
साक्षात्कारवतो विद्यातिशयस्य सिद्ध­त्वा­द्वि­धि­वै­य­र्थ्य­मा­श­ङ्क्याह –
विद्यातिशय इति ।
विद्यावत इत्यत्र विद्याशब्देन विद्यातिशयो विवक्षित इत्यर्थः । उत्पन्नो विद्यातिशयो यस्य स तथोक्तः । विधिर्हि प्रधा­न­मु­प­क्र­म्या­ङ्ग­प­र्यन्तः, ततः प्रधा­न­वि­धि­र्वि­ध्या­दिर्न पुन­र्वि­धि­व्य­ति­रिक्तः कश्चि­दा­दि­श­ब्दार्थ इत्यर्थः ।
समि­दा­दे­र्वि­ध्य­न्तत्वे हेतुः –
प्रधानविधेरिति ।
अतोऽङ्गस्य विध्य­न्त­त्व­प्र­सिद्धिः प्रधा­न­वि­धे­र्वि­ध्या­दित्वं गमयतीत्यर्थः । अपू­र्व­त्वा­द्वि­धि­रा­स्थेय इति समन्वयसूत्रे निदि­ध्या­स­ना­दे­र्व­स्त्व­व­ग­म­वै­शद्यं प्रत्य­न्व­य­व्य­ति­रे­क­सि­द्ध­त्वा­द­वि­धे­य­त्व­मु­क्तम्, इह त्वन्व­य­व्य­ति­रे­क­सि­द्ध­त्वेऽपि शाब्दज्ञानात् कृतकृत्यतां मन्वानो यदि कश्चित् ज्ञानातिशयरूपे निदिध्यासने न प्रवर्तेत, तं प्रत्यप्राप्तं तद्विधीयते इत्युच्यते । अत एव श्रुतिः ‘‘तत्त्वेव भयं विदु­षोऽ­म­न्वा­नस्ये’’ति । अथवा पाण्डि­त्या­दि­श­ब्दा­न्त­रा­द­प्रा­प्ति­र­पू­र्वत्वं विधित्वं चार्थवादस्यैव सतो वाक्यस्य प्रसंसाद्वारेण प्रवृ­त्त्य­ति­श­य­क­र­त्वम् ।
अत एव समन्वयसूत्रे भाष्यं –
विधिच्छायानि वचनानीति ।
अपि च - नात्रा­पू­र्व­विधिः प्राप्ते­र­न­न्यो­पा­यतो न च । नियमः परिसंख्या वा श्रवणादिषु संभवेत् ॥ अवघातो हि दल­ना­द्यु­पा­या­न्त­र­सं­भवे च सति पाक्षि­क्या­म­प्राप्तौ तत्परिपूरणेन नियम्यते । ‘‘इमामगृभ्णन् रशनामृतस्ये’’ति मन्त्र­श्चा­गृ­भ्ण­न्नि­त्या­दा­न­लि­ङ्गाद् रश­ना­श­ब्दा­च्चा­श्व­ग­र्द­भ­र­श­न­यो­रु­भ­यत्र प्राप्तौ ‘‘अश्वा­भि­धा­नी­मा­दत्त’’ इति गर्दभरशनातो व्यावर्त्यते, न तु श्रवणादिसाध्ये ब्रह्म­सा­क्षा­त्का­रेऽ­स्त्यु­पा­या­न्त­र­सं­भवो यतः श्रवणादेर्नियमः परिसंख्या वा स्यात् । न च ब्रह्म­सा­क्षा­त्का­र­व्य­क्ता­वु­पा­या­न्त­रा­सं­भ­वा­द­पू­र्व­वि­धि­त्व­मा­श­ङ्क­नी­यम्; यतः सामा­न्यो­पा­धा­व­न्व­य­व्य­ति­रेकौ निवेशेते, न व्यक्तौ; इत­र­थाऽ­व­घा­त­व्य­क्ति­सा­ध्य­त­ण्डु­ल­व्य­क्ता­वु­पा­या­न्त­रा­सं­भ­व­प­रि­ज्ञा­ना­द­पू­र्व­वि­धि­त्व­प्र­स­ङ्गात् । यत्तु वार्ति­क­कृ­द्भि­रु­क्तम् - ‘‘सर्व­मा­न­प्र­सक्तौ च सर्व­मा­न­फ­ला­श्र­यात् । श्रोतस्य इत्यतः प्राह वेदा­न्ता­व­रु­रु­त्सया ॥’‘ इति । प्रमाणफलं साक्षात्कारं प्रति सर्वमानप्राप्तौ वेदान्ता नियम्यन्ते इत्यत्रापि प्रमाणनियम उक्तो न श्रवणनियमः । न च स एव विधेर्विषयः; सन्निधानादेव वेदान्तलाभात् । एतेन पुरा­णा­दि­प्राप्तौ वेदान्तनियमं व्याचक्षीत । तस्मान्न वाचस्पतेः पूर्वा­प­र­व्या­ह­त­भा­षिता नापि सूत्र­भा­ष्या­न­भि­ज्ञ­तेति ॥४७॥
कस्मा­त्पु­न­र्गा­र्ह­स्थ्ये­नेति ।
तेनोपसंहारे हि न ततः पर आश्रम इति द्योतितं भवति । तच्चानुपपन्नं बाल्यप्रधान आश्रमान्तरे सतीत्यर्थः ॥४७॥
वृत्ति­र्वा­न­प्र­स्था­ना­मिति ।
वैखानसा औदुम्बरा वालखिल्याः फेनपाश्चेति वान­प्र­स्थ­वृ­त्ति­भेदाः । गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्म­चा­रि­वृ­त्तयः ॥४९॥
इति चतुर्दशं सह­का­र्य­न्त­र­वि­ध्य­धि­क­र­णम् ॥

अना­वि­ष्कु­र्व­न्न­न्व­यात् ॥५०॥
ननु भावशुद्धिरपि बालचरितं भवति तन्मात्रमेव गृह्यतामत आह –
यावद् बाल­च­रि­त­श्रु­ते­रिति ।
यावदस्ति बालचरितं तावतः सर्वस्य बाल्येनेति श्रुतेरवगमान्न सङ्कोचः कार्य इत्यर्थः ।
अपि च यथा पूर्वत्र मौनशब्दस्य ज्ञानातिशये प्रसि­द्धि­मा­श्रि­त्या­प्रा­प्त­मौ­न­वि­धि­रा­श्रितः, एवमत्रापि बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तदेव बाल्यं न हि शुद्धभावेऽपि तपस्विनि बालशब्दं वृद्धाः प्रयुञ्जत इत्यभिप्रेत्याह –
कामचारेति ।
भावशुद्धिरूपं तदेवेति ।
यद्यपि केवलायां भावशुद्धौ बाल्यशब्दोन प्रसिद्धः; तथापि कामचारादिमति बाले भावशुद्धिरस्ति, तावन्मात्रपरतया बाल्यशब्दः सङ्कोच्यत इत्यर्थः ।
सङ्कोचे च कारणं शेषिविध्यनुग्रह एकमुक्तम्, अपरं चाह –
एवं चेति ।
शास्त्रा­न्त­र­बा­धनं यदन्याय्यं तदेवं सति न भविष्यतीति योजना ॥५०॥
इति पञ्च­द­श­म­ना­वि­ष्का­रा­धि­क­र­णम् ॥

ऐहि­क­म­प्य­प्र­स्तु­त­प्र­ति­बन्धे तद्दर्शनात् ॥५१॥
संशयं प्रदर्श्य पूर्व­प­क्षा­भा­व­मा­श­ङ्कते –
यद्यपीति ।
विघ्नोपशमेनेति ।
श्रवणादौ पुरुषप्रवृत्तौ पापरूपो यो विघ्न­स्त­दु­प­श­मे­ने­त्यर्थः । यज्ञादीनां श्रव­णा­दि­घ­ट­क­त्वाद् घटितेषु श्रवणादिषु विद्ययाऽवश्यं भवि­त­व्य­मि­त्यै­हि­क­त्व­नि­यम इति भावः । तदात्वे तत्काले साध­ना­नु­ष्ठा­ना­न­न्त­र­क्षणे भवं तादात्विकम् । श्रव­णा­दि­स्व­रू­प­नि­ष्प­त्तये यथा सत्त्व­शु­द्धि­वि­घ्न­नि­रासौ कर्तव्यौ, एवं श्रव­णा­दि­भि­र्वि­द्यो­त्प­त्तये च तैस्तौ कर्तव्यौ, तत्र यज्ञादिभिः सत्त्व­शु­ध्द्या­द्यु­त्प­त्ता­वपि विरो­धि­क­र्मा­न्तरैः प्रारब्धफलैः प्रति­ब­न्धा­प्र­ति­बन्धौ संभाव्येते; ‘‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्यु’’रिति श्रुतेः । न चैवं प्रति­ब­न्ध­क­नि­व­र्त­क­स्यापि प्रति­ब­न्ध­का­न्त­रा­भ्यु­प­गमे तन्नि­वृ­त्त्य­र्थ­मपि कर्मा­न्त­र­म­नु­ष्ठे­य­मि­त्य­न­वस्था; यज्ञा­दि­प्र­ति­ब­न्ध­कस्य पाप्मनो भोगद्वारेण प्रति­ब­न्ध­क­त्वा­द्भो­ग­नि­वृत्तौ तत्क्षये यज्ञादिभिः सत्त्व­शु­ध्द्या­द्या­र­म्भ­सं­भ­वात् ।
अत­श्चा­नि­य­त­फ­ल­य­ज्ञा­दि­सा­पे­क्ष­त्वा­च्छ्र­व­णा­दे­र­वि­धे­य­स्या­प्य­नि­य­त­फ­ल­त्व­मिति सिद्धान्तयति –
यत एवेति ।
एवं - विधि­सा­म­र्थ्य­मा­श्रित्य ब्रुव­न्ना­मु­त्रिकं फलम् । श्रवणादेः कथंकारं वाचस्पतिर्न त्रेपे इति कैश्चित्कृत उपालम्भ एत­द्ग्र­न्था­र्था­लो­च­नेऽ­न­व­काशः परावृत्त्य तत्रैव धावति ।
न च - दृष्ट­फ­ल­स्या­मु­ष्मि­क­फ­ल­त्व­म­दृ­ष्टा­पे­क्षत्वं चानुपपन्नमिति – सांप्रतम्; प्राग्भ­वी­य­गा­न्ध­र्वा­दि­शा­स्त्रा­भ्या­स­स्येह षड्जा­दि­वै­श­द्य­हे­तु­भा­वस्य देव­ता­प्र­णि­धा­ना­द्य­पे­क्षि­ता­या­श्चो­प­ल­म्भा­दिति ।
‘‘शृण्वन्तोऽपि बहवो यं न विद्यु­रि’’त्यत्र हेतुरित्युच्यते –
आश्चर्य इति ।
यथावदस्मात्मनो वक्ताऽऽश्चर्यः अद्भु­त­व­त्क­श्चि­देव भवति, सम्यगाचार्यस्य सम्पत्तावपि तस्माच्छ्रुत्वा लब्धा साक्षा­त्क­र्ताऽऽ­श्चर्यः । आस्तां साक्षात्कारः कुश­ले­ना­चा­र्ये­णा­नु­शि­ष्टोऽपि शास्त्रतः परोक्षवृत्त्या ज्ञाताऽ­प्या­श्चर्य एवेत्यर्थः ॥४१॥
इति षोड­श­मै­हि­का­धि­क­र­णम् ॥

एवं मुक्ति­फ­ला­नि­य­म­स्त­द­व­स्था­व­धृ­ते­स्त­द­व­स्था­व­धृतेः ॥४२॥
ब्रह्मो­पा­स­ना­प­रि­पा­क­ल­ब्ध­ज­न्म­नीति ।
परिपाकेन लब्धं जन्म यस्याः सा विद्या ब्रह्मो­पा­स­ना­प­रि­पा­क­ल­ब्ध­जन्मा तस्यामित्यर्थः ।
ननु विद्यावतोऽपि शरीरस्य धारणात्कथं मुक्तिः? तत्राह –
सत्यप्यारब्धेति ।
रूपतः स्वरूपतो निकर्षोत्कर्षौ स्यातामिति । तथा च साति­श­य­त्वा­त्क­र्म­सा­ध्य­त्व­मिति पुरुषार्थोऽत इत्यस्याक्षेप इत्यर्थः । मोक्षः, सातिशयः, विल­म्बि­ताऽ­वि­ल­म्बित साध­न­सा­ध्य­त्वात्, कर्म­फ­ल­व­दि­त्य­नु­मा­नम् ।
अनुमानान्तरमाह –
अपि चेति ।
तत्र तत्र साध­के­ष्वै­क­रूप्यं स्यान्न कर्मणा वर्धते नो कनी­या­नि­त्या­दि­श्रु­ते­रि­त्यर्थः ।
उप­प­त्ते­श्चे­त्युक्तं, तामेवाह –
साध्यं हीति ।
मा भूत्स्व­रू­पा­व­स्था­न­ल­क्ष­णायां मुक्तौ साति­श­य­त्व­म­न­र्थ­नि­वृ­त्ति­ल­क्ष­णायां तु स्याद्, नेत्याह –
न च सवासनेति ।
विरोधिकार्योदय एव पूर्वप्रध्वंस इति मतमाश्रित्य । क्लेशादिक्षयो विद्याजन्मेति सामानाधिकरण्यम् । विद्या­ज­न्म­रू­पोऽ­वि­द्या­ध्वंस एकरूपः । निव­र्त्य­वि­शे­षो­पा­धि­कस्तु तस्यापि विशेष इत्यर्थः ।
तर्हि स एवास्तु, तत्राह –
न च सावशेष इति ।
यदुक्तं साध­न­वि­शे­षा­न्मोक्षे विशेष इति, तत्राह –
न च चिरा­चि­रो­त्पा­देति ।
साध­न­वि­द्या­चि­रा­चि­र­त्वाभ्यां मोक्षे न विशेषानुमानम्; एत­ज्ज­न्म­ज­न्मा­न्त­रा­नु­ष्ठि­त­या­ग­सा­ध्य­स्व­र्ग­व­द­वि­शे­ष­सं­भ­वात्, स्वाभाविकस्तु विद्यायामपि नास्ति विशेषः । अतोऽस्मिन्पक्षे हेतोरसिद्धिः, वेद्यब्रह्मण एक­रू­प­त्व­श्रुत्या विद्याया अप्येकरूपत्वेन श्रुतेरित्यर्थः ।
द्वितीयेऽनुमाने सगु­ण­वि­ष­य­त्व­मु­पा­धि­माह –
सगु­ण­वि­द्या­या­स्त्विति ।
तत्कार्यस्येति ।
विद्या­का­र्य­स्ये­त्यर्थः ।
कालातीतत्वं चाह –
न चात्रेति ।
मोक्षेऽ­प्यु­पे­य­वि­शे­षणं भेदा­भे­द­वि­क­ल्पा­स­हत्वं युक्तिः ॥५२॥
इति सप्तदशं मुक्ति­फ­ला­नि­य­मा­धि­क­र­णम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ तृतीयाध्यायस्य चतुर्थः पादः ॥