वेदान्तकल्पतरुः
तदन्तरप्रतिपत्त्यधिकरणविषयाः
कल्पादौ नूनमाशा हरिरसृजदमूः कीर्तिविस्तारविज्ञः ।
श्रीमद् व्यासाश्रमस्य प्रतिवदनमधात्कर्णयुग्मं विरिञ्चिः ॥
श्रोतुं वाचस्पतेर्वाक् सरणिषु विततं कल्पवृक्षं निबन्धम् ।
भेजे वज्री सहस्रं चरितमभिनवं द्रष्टुमक्ष्यम्बुजानाम् ॥१॥
इदममलात्मनः - मत्सरपित्तनिदानां विदुषामरुचिं चिकित्सति प्रबलाम् ।
स्वगुणगणामृतवर्षैः कृतिरेषा कर्णरन्धगता ॥२॥
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥१॥
अविरोधेन वेदान्तवेद्यं ब्रह्म निरूपितम् ।
तत्प्राप्तिसाधनं ज्ञानं सोपायमिह चिन्त्यते ॥
हेतुहेतुमद्भावं विशदयति –
स्मृतिन्यायेति ।
स्मृतिन्यायश्रुतिभिः सह श्रुतीनां विरोधपरिहारेणेति योजना । अवान्तरसंगतिः पादसंगतिः । भाष्ये प्रसङ्गागतमिति देहात्मव्यतिरेकादिरुक्तः । पूर्वापरौ पूर्वोत्तरपक्षौ । भूमिकेति विषयः । भूतपरिष्वङ्गे प्राणानां नरकादिगमनाद्वैराग्यम् , न चेद् निराश्रयप्राणगत्यभावान्नेति चिन्ताप्रयोजनम् ।
करणेषु उपात्तेषु भूतानुपादानं व्याहतम् ; कार्यस्वीकारे तत्प्रकृतिस्वीकारस्यावश्यंभावादित्याशङ्क्याह –
अत्रेति ।
ननु भूतोपादानस्याश्रवणं तदभावगमकं न भवति ; सत्यपि प्रमेये प्रमाणानुदयसंभवादत आह –
न ह्यागमैकेति ।
नानाप्रमाणगम्ये हि वस्तुन्येकप्रमाणानुत्पत्तावपि प्रमाणान्तरप्रवृत्तिशङ्कया वस्तुसद्भावशङ्का स्यात् , न त्विहेत्यर्थः ।
अनग्निषु द्युलोकादिष्वग्नित्वस्यानाहुतित्वस्योपचारे निमित्तमाह –
इह हीति ।
यदि शरीरोत्पत्त्यवस्थामाहुतिजां पञ्चाहुतित्वेन प्रविभज्य तदाधारेषु द्युलोकादिष्वग्नित्वसंपादनं विधीयते , कथं तर्ह्यापः पुरुषवचस इति प्रश्ने आहुतावपूशब्दः? कथं वा प्रतिवचने श्रद्धां जुह्वतीति श्रद्धाशब्दः? अत आह –
अत्र सायमित्यादिना ।
श्रद्धापूर्वं हुते इत्यन्वयः ।
वक्ष्यमाणरूपकसिद्धार्थमाह –
आहवनीयाग्नीति ।
पञ्चाग्निविद्याश्रुतिमुदाहृत्य व्याचष्टे –
असौ वावेत्यादिना ।
आदित्यकार्यत्वाच्चेति ।
समिद्रूपादित्यकार्यत्वादहरर्चिः ; प्रसिद्धस्यार्चिषः समित्कार्यत्वादित्यर्थः । अधिदैवं यजमानप्राणा इत्यन्वयः ।
तन्निर्दिशति –
अग्न्यादिरूपा इति ।
ह्रादुनयो विस्फुलिङ्गा इति श्रुति व्याचष्टे –
गर्जितमिति ।
अग्निरूपा इत्यग्न्यादिरूपा इति द्रष्टव्यम् । स्वर्गे आराब्धो देहः सोमो राजा ।
यद्यपि श्रद्धा सोम इत्यादिराहुतिभेदः श्रूयते ; तथापि जीवस्य भूतपरिष्वङ्गसिद्ध्यर्थमाप एव तत्तदाकारपरिणतास्तथा तथा निर्दिश्यन्त इत्याह –
श्रद्धाख्या इति ।
प्रगे इति ।
प्रभाते इत्यर्थः ।
स्वरूपाभावमुपशममाशङ्क्याह –
प्रसन्नानामिति ।
श्रोत्रं शब्दश्रवणार्थं दिक्षु विप्रकीर्णमिव । उपमन्त्रणं संकेतः ।
श्रुत्यन्तरवशेनाह –
लोमानि वेति ।
तानि च गौह्यानि धूमोऽर्चिर्जन्यत्वादित्यर्थः । सुखलवविस्फुलिङ्गहेतुत्वाद् ग्राम्यकर्मणोऽङ्गारत्वम् । अप्समवायित्वाद्गर्भस्येति शेषः ।
अश्रुतत्वादिति सूत्रार्थमिह प्राप्तावसरं दर्शयति –
यद्यपीत्यादिना ।
कर्मिणां चन्द्रलोकारोहावरोहावाश्रित्य पञ्चाग्निदर्शनमुच्यते । तत्र दक्षिणमार्गे ‘‘तद्य इमे ग्राम इष्टाद्युपासते धूममभिसंभवन्ति’’ इत्युपक्रम्य ‘‘एष सोमो राजे’’ति चन्द्रलोकप्राप्तः पुरुषो निर्दिष्टः , पञ्चाग्निविद्यायामपि स्वर्गे लोके सोमो राजा भवतीति स एव निर्दिश्यते ।
सोमराजश्रुतिसाम्यात्स्वर्गाख्यस्थानसाम्याच्चेत्याह –
तथापीष्टादिकारिणामिति ।
श्रद्धां जुह्वतीत्यत्रापामिष्टादिकारिभिरन्वयमुक्त्वा एष सोमोराजेत्यत्र कर्तॄणां श्रद्धावाक्यावगताभिरद्भिः परिष्वङ्गमाह –
तथा हि या एवेति ।
अन्त्याहुत्यपेक्षया द्वितीया श्रद्धाहुतिः । अथ वा - पर्जन्याग्नौ द्वितीये द्वितीयस्यामाहुतौ होतव्यायां सोमभावं गता इत्यर्थः । अस्मिन्पक्षे प्रत्यवरोहसाम्यं वाक्यद्वये दर्शितम् । तथा हि – पञ्चाग्निविद्यायां पर्जन्यादिष्वग्निषु हुतस्य सोमराजस्य वृष्ठ्यन्नरेतोभाव आम्नायते । तथा दक्षिणमार्गेऽपि प्रत्यवरूढानां सोमराजानां तथाभावो वायोर्वृष्टिं ते पृथिवी प्राप्यान्नं भवन्तीत्यादिना । अतश्च श्रद्धावाक्ये कर्मिणां लाभ इत्यर्थः । चन्द्रलोकं प्राप्तस्ततश्चन्द्रभूयं चन्द्रभावममृतमयशरीरात्मतां गत इत्यर्थः ।
वाक्यद्वयस्थसोमराजशब्दयोरर्थभेदं शङ्कते –
ननु स्वतन्त्रा इति ।
श्रद्धावाक्ये आप एव सोमाख्यशरीरभावमाप्नुवन्तु , एष सोमो राजेत्यत्र तु अद्भिरपरिष्वक्त इन्द्रियमात्रोपहितश्चन्द्रलोकं गत्वा सोमशरीरं भुङ्क्तामित्यर्थः ।
उत्तरम् –
अयं दोष इति ।
येन रूपेणेति ।
अमृतमयशरीराभिमानित्वेनेत्यर्थः । क्रम आहुतिपरिणामलक्षण: ।
शब्दमात्रसाम्यमगमकं - बटोरप्यग्निशब्दाविशेषाद् ज्वलनाभेदप्रसङ्गादित्याशङ्क्याह –
तस्मादिति ।
अप्शब्दात्पुरुषवचस इति पुरुषशब्दाच्च केवलभूतगमनस्य पुरुषाधिष्ठितभूतगमनस्य च संशये सोमराजशब्दसाम्यं निर्णायकं भवति , माणवकस्य तु ज्वलनाद्भेदनिश्चयान्नाभेदापात इत्यर्थः ।
एवं हि सूक्ष्मेति ।
सूक्ष्मशरीरं भूतसूक्ष्माणीति ।
जलूकैव जलायुका । ननु - व्यापकस्यात्मन इह देहान्तराभिमानपूर्वकमेतद्देहत्यागः संभवति , तत्र किमिति दृष्टान्तश्रुतेरार्जवभङ्गः क्रियत इति - चेत् , तत्र वक्तव्यं - किं परमात्मन उक्तविधा देहान्तरप्राप्तिरुत जीवस्य ।
नाद्य इत्याह –
न तावदिति ।
जीवोऽपि स्वतन्त्र एव व्यापकः सन्नस्मिन्देहे वर्तमानो देहान्तरमभिमन्यते , उतौपाधिकः सन्नुपाधिव्याप्त्या ।
न प्रथम इत्याह –
परमात्मैव चेति ।
न द्वितीय इत्याह –
तस्य चेति ।
‘‘तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरत्येवमेवायं शरीर आत्माऽन्यमाक्रममाक्रम्यात्मानमुपसंहरती’’ति श्रुतौ प्रतिपत्तव्यदेहविषयभावनादीर्घीभाव उपमीयत इति भाष्ये उक्तम् ।
तत्र भाविदेहस्याननुभूतत्वात्स्मृतिहेतुभावनानुपपत्तेरयुक्तिमाशङ्क्य व्याचष्टे –
उत्पादनाया इति ।
प्राकृतकर्मारभ्य भाविदेहोत्पत्तिं यावत्कर्तृव्यापारस्य विततत्वाद् दीर्घीभावः । एतदुक्तं भवति – यथा जलूका तृणान्तरं प्राप्य तृणं मुञ्चति एवं संसार्यपि देहान्तरप्राप्त्यर्थ कर्म कृत्वा देहं त्यजतीति । शब्दादिज्ञानानि सुखादिज्ञानानि च षट् प्रवृत्तिविज्ञानानि । अहमित्यालयविज्ञानसन्तानस्य वृत्तिः कार्यम् ॥१॥
भाष्योक्तां देहे भूतत्रयकार्योपलब्धिं दर्शयति –
तेजस इत्यादिना ।
साम्यावस्थाः शरीरं दधतीति वातादयो धातवः ।
कथं त्रिधातुकत्वे शरीरस्य पञ्चभूतात्मकत्वमत आह –
अतो न स देह इति ।
वातान्वयाद् वाय्वारब्धत्वं कफपित्तान्वयादप्तेज आरब्धत्वम् अवकाशदानान्वयादाकाशारब्धत्वमित्यर्थः । अत्र नैयायिकादयो विवदन्ते – यदि देहः पञ्चभूतसमवायिकारणकः स्यात् , तर्हि द्रव्यं न स्यात् , पञ्चभूतसमवायिकारणकबहुत्ववत् । यदि च प्रत्यक्षाप्रत्यक्षसमवायिकारणकः स्यात् , तर्हि प्रत्यक्षो न स्यात् , तरुमरुत्संयोगवत् । तस्मान्न देहः पञ्चभूतसमवायिकारणकः द्रव्यत्वादाकाशवत् । नापि प्रत्यक्षाप्रत्यक्षसमवायिकारणकः प्रत्यक्षत्वाद्गन्धवत् । तोयाद्यारब्धत्वे च शैत्याद्युपलम्भप्रसङ्गः , तोयत्वादिजातिसंकरप्रसङ्गश्च - इति । तन्न ; त्र्यणुकादेरपि प्रत्यक्षत्वादिहेतोरप्रत्यक्षसमवायिकारणत्वाभावानुमानापातात् । शीतस्पर्शादिश्च शरीरे उद्भवाभिभवाभ्यां क्रमेणोपलभ्यत एव ।जातिसंकरश्चादूषणम् । यत्तु - मन्येत द्रव्यत्वादि पृथिवीत्वादिजातिं यद्यपि परिहरति व्यापकत्वात् ; तथापि पृथिवीत्वादि द्रव्यत्वादिजातिं न मुञ्चति ; व्याप्यत्वात्तादृग्जात्योश्चैकत्र समावेशो नेतरयोः । पृथिवीत्वादिजातिश्च परस्परपरिहारिणी , कुम्भे सलिलत्वाभावात् कुम्भसलिले च पृथिवीत्वाभावात् । परस्परपरिहारस्यासमावेशानिश्चायकत्वे च गोत्वाश्वत्वयोरप्यसमाविष्टत्वनिश्चयाभावप्रसङ्गः , उच्छिद्येत च तज्जातीयविरोधकथा । तथा चाप्तवचनावसिततुरगभावे तुरगत्वान्न स गौरित्याद्यनुमानपूर्वकव्यवहारविलयप्रसङ्ग - इति । तदपि न । काश्चित्परस्परं परिहरन्त्य क्वचिदपि न समाविशन्ति , काश्चित्तु जातयः क्वचित्परिहरन्ति क्वचित्समाविशन्ति च । समावेशश्च कियस्त्वेव देहादिष्वति निश्चित्य गोत्वादावप्युक्तरीत्योरेकामाप्तादिभ्यः परिच्छिद्य प्रवृत्त्युपपत्तेः । अपि चायमत्र प्रमाणार्थः । पृथिवीत्वजलत्वे नैकत्र समाविशतः , परस्परपरिहारित्वाद् गोत्वाश्वत्ववदिति । तत्र परस्परेति पृथिवीत्वसलिलत्वविवक्षायां साधनविकलो दृष्टान्तः । न हि गोत्वाश्वत्वे पृथिवीत्वं परिहरतः । गोत्वाश्वत्वविवक्षायामविशेषेण यत्किंचित्परस्परविवक्षायां च हेतोरनैकान्तिकता ; गुणत्वरूपत्वयोर्गोत्वाश्वत्वे त्यजतोर्यत्किंचित्परस्परात्मकस्तम्भकुम्बौ परिहरतोरप्येकत्र समावेशात् । तस्मात्प्रसिद्धिसामर्थ्याद्बाधकस्यानिरूपणात् पञ्चभूतमयः कायः श्रुतितोऽप्यनुमीयताम् । श्रूयते हि पृथिवीमय आपोमयो वायुमयस्तेजोमय आकाशमय इति । अत्र च देहद्वाराऽऽत्मनः पञ्चभूतमयत्वमुच्यते ; चक्षुर्मय इत्यादिवाक्यशेषात् । अनुमानमपि देवदत्तशरीरमेतज्जनकत्वे सत्यनुदकत्वातेजस्त्वावायुत्वानाकाशत्वात्यन्ताभाववत्समवायिकारणकं शरीरत्वाद्यज्ञदत्तशरीरवदिति । यद्यपि यज्ञदत्तशरीरमनुदकत्वादिमत् पृथिवीमात्रसमवायिकारणकं परेषां ; तथापि देवदत्तशरीरजनकत्वे सति अनुदकादिमज्जन्यं न भवति , तस्य देवदत्तशरीरजनकत्वाभावेन तद्विशिष्टानुदकादिमत्त्वरहितत्वात् । अतः साध्यप्रसिद्धिः । एतज्जनकत्वे सत्यनुदकत्वादिमत्त्वरहितजन्यत्वमनुदकत्वादिमत्त्वरहितजन्यत्वाद्वा स्यादेतज्जनकत्वरहितजन्यत्वाद्वा । द्वितीयो व्याहत इति प्रथमः स्यात्तथा चोदकत्वादिमद्भूतसमवायिकारणत्वसिद्धिरिति ॥२॥
ननु निराश्रया एव प्राणा गच्छन्तु वायुवदित्याशङ्क्याह –
जीवद्देहे इति ।
भवतु साश्रयत्वं , गतिस्त्वाश्रयस्यैव न प्राणानामिति , नेत्याह –
तदनुविधायिनः इति ।
न चेत्प्राणा गच्छन्ति स्थित्याधारदेशान्न वियुज्येरन् । तथा च देशान्तरगते देहे प्राणोपलब्धिर्न स्यादित्यर्थः ।
साश्रयप्राणोत्क्रान्तावाश्रयदर्शनप्रसङ्गमाशङ्क्याह –
सूक्ष्म इति ।
ननु कार्यवशाद्यः कश्चिदाश्रयः कल्प्यतां , कथं भूतसिद्धिरत आह –
भूतेन्द्रियमय इति ।
इन्द्रियग्रहणं मृतदेहतुल्यत्वव्यावृत्त्यर्थम् । जागरिते भूतमयदेहाश्रयत्वदर्शनादित्यर्थः । तर्हीन्द्रियाणि सन्त्वाश्रयो , नेत्याह – न हीति ॥३॥ तेषामपि परोपाधिगमनत्वेन प्राणगत्यनुपपादकत्वादित्यर्थः ।
नैव प्राणा गच्छन्तीति भाष्यं दृष्ट्वा प्राणानां गमनाभावेऽग्न्यादिगतिश्रुतिर्हेतुरुक्त इति कश्चिन्मन्येत , तच्चायुक्तम् ; श्रुतौ सत्यामवधारणानुपपत्तेः , अत आह –
शावितेऽपीति ।
अत्र श्रुतिद्वयविरोधादनध्यवसाय आशङ्क्यते । भाष्यं च प्राणा गच्छन्त्येवेति यत्तन्नेति व्याख्येयमित्यर्थः ।
परिहारभागं व्याचष्टे –
अत्र हीत्यादिना ।
तेषामपीति ।
वागादिगमनानामपीत्यर्थः ।
ननु संदिग्धं वस्तु प्रायदर्शनान्निर्णीयते गौणमुख्यग्रहणविषये च मुख्ये संप्रत्ययस्तत्र कथं वागादीनामग्न्यादिगतिश्रुतिः प्रायदर्शनमात्रान्मुख्यार्थात्प्रच्याव्यते , अत आह –
श्रुतिविरोधादिति ।
जीवेन सहोत्क्रान्त्यादिश्रुतिविरोधात्संदिह्यमानार्था वागादिगतिश्रुतिरतः प्रायदर्शनावकाश इत्यर्थः । भक्तिर्गुणयोगः । उपकारनिवृत्तिरुक्ता । भाष्ये इति शेषः । ।४॥
ता एव ह्युपपत्तेरिति सूत्रस्य (ब्र.अ.३.पा.१.सू.५४) परिहारभागं व्याचष्टे –
पञ्चम्यामाहुतावित्यादिना ।
पञ्चम्यामाहुतावपां पुरुषशब्दवाच्यत्वं यथा भवति , तथा किं वेत्थेति प्रश्ने पुरुषशब्दवाच्यत्वप्रकारमात्रमग्निविस्फुलिङ्गादिदृष्टिविशिष्टमज्ञातं पृच्छयते , वाक्यस्य विशेषणसंक्रान्तत्वात् । आपस्त्वग्निहोत्रादिफलप्राप्तिपुनरावृत्तिपर्यालोचनया शास्त्रान्तराद् ज्ञाता एव । तत्र प्रथमाद्याहुतिष्वप्याहुतिविशेषमजिज्ञासित्वा पञ्चम्याम् आहुतिविषयः प्रश्न एवमभिप्रायः यैव पञ्चम्याहुतिः सैव प्रथमादिस्थानेऽपि भवतीति । सति चैवं प्रश्नहृदये प्रथमाहुतौ अब्यतिरिक्ताहुत्यभिधानमसंबद्धं स्यादित्यर्थः । अप्शब्दस्य नित्यबहुवचनान्तत्वादनपां श्रद्धाया इति निर्देशः ।
अव्यतिरिक्तायाः श्रद्धायाः प्रथमाहुतित्वे परंपरया तज्जातस्य देहस्याब्वहुलत्वं न स्यादित्याह –
न चाप्येवमिति ।
ब्रह्मकार्यस्य तद्वेलक्षण्याभ्युपगमादौत्सर्गिकीत्युक्तम् ।
श्रद्धायामप्त्वोपचारापेक्षितं सबन्धमाह –
अत एवेति ।
आपो हास्मै श्रद्धां संनमन्त इति श्रुतौ कार्यकारणभावोऽवगम्यते इत्यर्थः ॥५॥ आहुत्यपूर्वरूपा आपो जीवं परिवेष्ट्य परलोकं नयन्तीत्यत्र संवादकत्वेन ते वा एते इत्यादिवाजसनेयिब्राह्मणं भाष्यकारेरुद्धाहृतम् । तदित्थम् - अग्निहोत्राहुती प्रक्रम्य जनकेन याज्ञवल्क्यं प्रति ‘‘न त्वेवैनयोस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकप्रत्युत्थायिनं वेत्थे’’त्यज्ञाने उद्भाविते तेन चानुमोदिते जनकः षट् प्रश्नान्निर्णिनाय । ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिं ते अन्तरिक्षं तर्पयतस्ते दिवमाविशतस्ते दिवमेवाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव शुक्रामाहुतिं ते दिवं तर्पयतस्ते तता आवर्तेते’’ इत्युपक्रम्य ‘‘पृथिवीं पुरुषं योषितं चाहवनीयत्वेनोपन्यस्य संवत्सरादींश्च समिदादित्वेन परिकल्प्य योषिदग्नेर्यः पुत्रो जायते स लोकं प्रत्यित्थायी’’ इति । तत्रैष षट् प्रश्नीनिर्णयः पञ्चाग्निविद्यायामद्भिः परिवेष्टितस्य जीवस्य न गमयितुमर्हतिः विद्याभेदात् । षट्प्रश्न्यां ह्याहवनीयसमिदाहुतय एव श्रूयन्ते , न तु धूमार्चिरङ्गाराः । अन्तरिक्षाग्निश्चाधिकः पर्जन्यश्च न श्रुत इति । तत्र सत्यपि विद्यान्यत्वे आहुतिगत्या गतिसाम्याद् दृष्टान्तत्वमित्यस्त्येव परिहारः ।
आचार्यस्तु प्रौढ्या विद्यैक्यमुपेत्याप्याह –
षट्प्रश्नीति ।
अग्निहोत्रे षट्सु उत्क्रान्त्यादिषु ये प्रश्नास्तेऽग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेषु समस्तेषु विषयेषु घटन्ते ; विस्फुलिङ्गादीनां तत्राप्युपसंहर्तव्यत्वात् , बहुसाम्ये सत्यल्पवैषम्यस्याकिंचित्करत्वात्पर्जन्याग्नेश्चाग्निहोत्रे स्वर्गात् पृथिवीप्राप्त्यभिधानेनार्थसिद्धेः । अन्तरिक्षाग्नेश्च पञ्चाग्निविद्यायां पृथिव्याः स्वर्गप्राप्त्यभिधानात् सामर्थ्यसिद्धेरित्यर्थः । यः समाहारः षण्णामुत्क्रान्त्यादीनामित्यर्थः । एवं च षडग्न्युपासनमिदम् । पञ्चाग्नीन्वेदेति त्ववान्तरसंख्याभिप्रायम् ; साम्यलिङ्गात् षष्ठाग्न्युपसंहारसिद्धौ प्रचयशिष्टप्राप्तसंख्यानुवादिपञ्चशब्दस्य दुर्बलस्य तद्व्यावर्तकत्वानुपपत्तेः । एवं विस्फुलिङ्गादिषु षट्प्रश्नानुपलम्भादुत्क्रान्त्यादिविषयाणा च विस्फुलिङ्गादिविषयत्वाभावात् श्रुत्यनिभिज्ञो वाचस्पतिरित्युपहासोऽनवसरः ॥६॥
भाष्यस्थश्रुतिं व्याचष्टे –
क्रियेति ।
सोमस्य यथेति शेषः । लोण्मध्यमैकवचनं सर्वविभत्त्यर्थेषु क्रियासमभिहाराख्यपौनःपुन्ये स्मर्यते । तेनाप्यायस्वेति आप्याय्येत्यर्थः । अपक्षीयस्वेति अपक्षपय्येत्यर्थः । यथा सोमं यज्ञे भक्षयन्त्येवं कर्मिणः पुरुषान् देवा इत्यर्थः ।
एतास्तत्र भक्षयन्तीति श्रुतौ एतान् शब्देन कर्मिणामभिधानं गृहीत्वा भाक्तत्वं भक्षणस्य सूत्रभाष्यकाराभ्यां वर्णितं , स्वयं तु सिद्धान्तानुसारेणाविरुद्धमर्थमाह –
सोममयाल्लोकानिति ।
युक्ततरश्चायमर्थः ; एष सोमो राजेति कर्माभिप्राप्यस्य प्राधान्येन प्रकृतत्वात् , विभूतिमनुभूयेति भोक्तृत्वनिर्देशः साक्षादन्नत्वेऽनुपपत्तिः ॥७॥ पञ्चम्यां त आहुतावापो यथा पुरुषशब्दवाच्या भवन्ति तं प्रकारं किं वेत्थेति श्वेतकेतुं प्रति प्रवाहणस्य राज्ञः प्रश्नः । तमात्मानम् । यत्र काले अस्य पुरुषस्य वागादयोऽग्न्यादिदेवान् गच्छन्ति क्वायं तदा पुरुषो भवतीति आर्तभागस्य याज्ञवल्क्यं प्रति प्रश्नः । अस्मै अधिकारिणे । श्रद्धां सन्नमन्ते आनयन्ति । अथोत्तरमार्गकथानन्तरम् । ग्रामे गृहाश्रमे स्थित्वा । इष्टं यागादिपूर्तवाप्यादिकरणं दत्तं दानम् । इत्येतान्युपासतेऽनुतिष्ठन्ति ये ते धूमं धूमाभिमानिनीं देवताम् अभिसंभवन्ति प्राप्नुवन्ति आकाशदेवतातो वायुमाप्नुवन्ति । असौ अमुकनामा स्वर्गाय लोकाय स्वाश्रयं हा गच्छतु एतदेवादित्यस्य रोहिताद्यमृतं दृष्ट्वैव वस्वादयो देवास्तृप्यन्तीति मधुविद्यायां श्रुतम् । अथ पित्रानन्दकथनानन्तरं जितः प्राप्तः श्राद्धादिकर्मभिः पितृलोको यैस्तेषां पितॄणां ये आनन्दाः स कर्मदेवानामेक आनन्दः । पित्रानन्दशतगुण आनन्दः कर्मदेवानां भवतीत्यर्थः । ये कर्मणेति कर्मदेवानां व्याख्यानम् ॥
इति प्रथमं तदन्तरप्रतिपत्त्यधिकरणम् ॥
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥
कर्मसमवायिनीनाम् अपां पञ्चम्यामाहुतौ पुंपरिणामहेतुमाश्रित्याद्भिः परिवेष्टितजीवगमनमुक्तं , तत्र स्वर्गादवरोहतः कर्मैव नास्ति कुतस्तत्समवायिन्य आपः? कुतस्तरां पुंपरिणामः? इत्याक्षेपसङ्गतिगर्भं पूर्वपक्षमाह –
यावत्संपातमित्यादिना ।
अत एव च कर्मणामैकभविकनयाद्विलय संभवे सम्यग्ज्ञानस्य नैष्फल्यं पूर्वपक्षे प्रयोजनम् ।
श्रुतिमुदाहृत्य व्याचष्टे –
यदिति ।
अन्तः फलम् ।
मुक्तिमप्याह –
प्रायणस्य चेति ।
एषां हेतूनां समस्तमेव कर्म स्वकीयं फलमुपभोजितवदित्युपरितनप्रतिज्ञयाऽन्वयः ।
ननु फलं दत्वापि कर्म तिष्ठतु , तत्राह –
स्वफलविरोधीति ।
लोके तथोपलम्भादित्यर्थः ।
नन्वसति कर्मणि निमित्ताभावात्कथामवरोहणमत आह –
आचारादिति ।
चरणादिति चेदिति सूत्रभागः पूर्वपक्ष इत्यर्थः । आचारे चाग्निहोत्रादिवन्नाब्बाहुल्यमिति पूर्वपक्षघटना ।
ननु यथाकारी यथाचारीत्युपक्रम्य साधुकारीत्युपसंहारात् करणाचरणयेरेकत्वमवगम्यतेऽत आह –
स्तां वेति ।
भवेतामित्यर्थः । कर्तारमनुशेतेऽनुगच्छतीत्यार्थानुशयः । जातिर्जन्म । स्मृतिश्चोपन्यस्ता । वर्णाश्रमा इत्याद्या भाष्ये इत्यर्थः ।
दृष्ट्श्चायं प्रतिप्राणीत्यादि भाष्यं व्याचष्टे –
अथ वेति ।
उपभोगवैचित्र्यं स्वर्गादवरोहतामिति कथमवगम्यतेऽत आह –
कपूयचरणा इति ।
यावत्पदस्येति ।
वाक्योपक्रमगतस्येत्यर्थः ।
यत्किंचेति पदस्येति ।
श्रुत्यन्तरगतस्येत्यर्थः ।
यावज्जीवमग्निहोत्रमित्यत्रत्ययावत्पदस्य सायंप्रातःकालावच्छिन्नजीवनविषयत्वेऽस्ति प्रमाणमिति दृष्टान्ते विशेषं शङ्कते –
सायंप्रातःकालविधानेति ।
ननु सायं जुहोति प्रातर्जुहोति इति अग्निहोत्रे विधीयतां कालः , स त्वङ्गत्वात् प्रधानासंकोचकः. तत्राह –
कालस्य चेति ।
कालस्य पुरुषानिष्पाद्यत्वात् सिद्धत्वेन निमित्तत्वं , ततश्च नैमित्तिकस्य कर्मणः संकोच इत्यर्थः ।
तदुपपत्तेरिति ।
यावत्संपातमित्यादेः स्वर्गे तदफलेष्टापूर्तविषयत्वोपपत्तेरित्यर्थः ।
असंजातविरोधस्योपक्रमगतयावच्छब्दस्य संजातविरोधोपसंहारगतरमणीयचरणश्रुत्या कथं संकोचः? इति शङ्कते –
तत्किमिति ।
स्वयमेव संकुचितार्था यावच्छ्रुतिस्तदपेक्षितविषये उपसंहारेण नीयत इति परिहरति –
नेत्युच्यत इत्यादिना ।
रमणीयचरणनिमित्तकोऽवरोह इति वदन्त्या श्रुत्याऽर्थात्तदितरभुक्तफालकार्मविषया यावच्छ्रुतिरिति विषयो दत्त इत्यर्थः ।
यावत्संपातमिति ।
किं तद् भोक्तृकृतं कर्मोच्यते , कर्ममात्रं वा ।
नाद्य इत्याह –
यावन्त इति ।
न द्वितीय इत्याह –
यावतां वेति ।
प्रथमाभावे हेतुः - चिरेति द्वितीयाभावे हेतुः –
पुरुषान्तरेति ।
पूर्वदर्शिताधिकरणपूर्वपक्षस्य तुच्छतामाह –
सकलेति ।
हेत्वभावे कार्यायोगात् कर्मरहितावरोहशङ्का न भवतीत्यर्थः ।
पित्रादिकर्मचरणाभ्यां तदुपपादनान्मन्यमानोक्तिः सिद्धान्त्युक्तसिद्धान्त एवैकदेशिनः पूर्वपक्ष इत्याह –
अनुपभुक्तकर्मवशादिति ।
अस्मिन्मते सौत्रदृष्टशब्दार्थमाह –
दृष्टानुसारादिति ।
ननूत्पत्तिकर्मशेषे तत्फलमपि स्वर्गे एव भोक्तव्यं , समस्तज्योतिष्टोमादेः स्वर्गार्थत्वेन विधानादत आह –
न चावशेषेति ।
तिष्ठासन् स्थातुमिच्छन् भुवि शेषफलभोग इत्यर्थः । हस्तिनां समूहो हास्तिकम् । अश्वानां समूहोऽश्वीयम् ।
तन्मूला चेति ।
दृष्टन्यायमूला लौकिकी कालिदासादिस्मृतिरित्यर्थः । वेदैर्गीतां सुकृतशकलैः स्वर्गीणां भूमिभागे भोगप्राप्तिं कथयति पुरीं वर्णयन् कालिदासः । स्वल्पीभूते सुचरितफले स्वर्गीणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ अथवा - ततः शेषेणेत्याद्यैव स्मृतिर्लौकिकी ।
अस्मिन्पक्षे तन्मूलेत्यस्य विवरणं –
लौकिकीति ।
लौकिकन्यायमूलेत्यर्थः ।शक्यते चास्याः स्मृतेर्वेदोऽनुमातुम् । गुडजिह्विका मधुरोक्तिः । नैव युक्तमित्युक्तेर्नैष्ठुर्यं स्यादिति ।
यत्तु स्वर्गसुखं भुवि भोक्तव्यमिति , तत्राह –
शब्दैकगम्येऽर्थे इति ।
भाण्डस्नेहवत् सामान्यतो दृष्टेन हि कर्मशेषोऽनुमितः , तस्य च भुवि भोगः कल्पितः , तत्सर्वं स्वर्गोद्देशेन यागविधिना विरुध्यते , भौमसुखस्य स्वर्गत्वायोगादित्यर्थः । अत एव स्मार्तः शेषशब्दोऽपि न भुक्तकर्मणः शेषं वक्ति , किंतु कर्मराशिमध्येऽनुपभुक्तं कर्मान्तरमिति ।
कविरपि दिवः खण्डमिवेति पुरमुपमिमानो भुवि भोगमाह –
प्रायणेनेति ।
पूर्वदेहावसानकालीनेनेत्यर्थः ।
युगपदेव तत्फलानि भुज्येरन्निति ।
इदानीमित्यर्थः ।
ननु युगपदभिव्यक्तान्यपि कर्माणि क्रमेण फलं ददतामत आह –
न चाभिव्यक्तमिति ।
ननु स्वर्गादिभुजः स्वर्गादिभोगानन्तरं परकर्मभिः संसरन्तु नेत्याह – न चेति ॥८॥
निरनुशया एवेति ।
अग्निहोत्रादिकर्मापूर्वरहिता इत्यर्थः ॥९॥
आचारस्य यागादिवद् न प्रधानकर्मत्वेन पुरुषार्थत्वमित्याह –
स्नानादिवदिति ।
ज्योतिष्टोमे श्रूयते - ‘‘तीर्थे स्नाति तीर्थमिव हि सजातानां भवती’’ति । दर्शपूर्णमासयोरप्याम्नायते ‘‘जञ्जभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू इति प्राणापानावात्मनि धत्ते’’ इति । तत्र तीर्थस्नानं जृम्भानिमित्तमन्त्रोच्चारणं च किं प्रकृतक्रतुधर्मः , उत शुद्धमनुष्यधर्मः , प्रकृतक्रतुयुक्तमनुष्यधर्मो वेति संदेहे न तावत्प्रकृतक्रतुधर्मत्वम् ; वाक्येन पुरुषधर्मत्वप्रतीतेः । प्रकरणाच्च वाक्यस्य बलवत्त्वात् । अत एव न प्रकृतक्रतुयुक्तपुरुषधर्मत्वम् ; दुर्बलस्य प्रकरणस्याविशेषकत्वात्तस्माच्छुद्धपुरुषधर्मत्वे प्राप्ते राद्धान्तितं शेषलक्षणे । न तावदिदं पुरुषं प्रति फलाय प्रधानकर्मत्वेन विधीयते ; फलकल्पनाप्रसङ्गात् , वाक्यशेषनिर्दिष्टस्य वर्तमानोपदिष्टत्वेन फलत्वानभिव्यक्तेः । गुणकर्म तु स्यात् । तच्च न पुरुषमात्रे विधातुं शक्यम् ; वैयर्थात् । अपूर्वसाधनांशे हि धर्मविधानम् अपूर्वसाधनत्वलक्षणा च न प्रकरणादृते इति दुर्बलस्यापि प्रकरणस्य वाक्येनानुज्ञातत्वात् प्रकृतक्रतुयुक्तमनुष्यधर्मत्वमेवेति । एवं यथा तीर्थस्नानादेः प्रकरणवाक्याभ्यां क्रत्वनुष्ठायिपुरुषधर्मत्वं , तथाऽऽचारस्याप्याचारहीनमिति वाक्यानुमितविधिवाक्याद् वेदार्थानुष्ठातृपुरुषधर्मत्वमित्यर्थः । अजहल्लक्षणामाह – सर्वोऽनुशय इति ॥१०॥
यथाकारी यथाचारीति करणाचरणभेदनिर्देशो ब्राह्मणपरिव्राजकन्यायेनेति भाष्योक्तमयुक्तम् ; ब्राह्मणत्वस्य यावत्पिण्डभावित्वेन जातित्वेऽपि परिव्राजकत्वस्य गार्हस्थ्याद्यवस्थायामभावेन जातित्वाभावात् करणचरणत्वयोश्चादृष्टत्वावान्तरजातित्वाद्दृष्टान्तासङ्गनादित्याशङ्क्याह –
गोबलीवर्देति ।
परापरजातिविषयगोबलीवर्दन्यायेऽनुवृत्तव्यावृत्तविषयत्वसाम्याद् ब्राह्मणपरिव्राजकशब्द उपचरित इत्यर्थः ॥११॥ तेषां कर्मिणां तददृष्टं यदा पर्यवैति परिगच्छति परिक्षीणं भवतितदा त आवर्तन्त इत्युत्तरवाक्येनान्वयः ।
प्राप्येति ।
यत्किंचिदिह लोके यः संसारी कर्म करोति तस्यान्तं फलं परलोके प्राप्य तस्माल्लोकात्पुनरस्मै लोकाय आ एति आगच्छति । पुनः शब्दात्पूर्वमप्यागत इति गम्यतेऽनादित्वात्संसारस्य । किमर्थमागमनं? कर्मणे कर्मानुष्ठानाय । तत्र तेष्वनुशयिषु मध्ये इह लोके ये पूर्वं रमणीयाचरणवन्त आसन् , ते तदनुरूपां ब्राह्मणादियोनिं शरीरमापद्येरन्निति यत् तद् अभ्याशः क्षिप्रम् अवश्यमेवेत्यर्थः । योनिशब्दः स्थानवचनः । कपूयचरणाः कुत्सिताचरणाः । वर्णा वर्णिनः । आश्रमा आश्रमिणः । विशिष्टदेशादयो मेधान्ता येषां ते तथा । संसारे मज्जमानस्य जन्तोः कदाचित्सुकृतं सुष्ठ्वभिमानपूर्वकं कृतं यत्कर्म तद्यावद् दुःखात्संसारान्मुच्यते तावत्कूटस्थमिव तिष्ठतीति योजना ॥११॥
इति द्वितीयं कृतात्ययाधिकरणम् ॥
अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥ इष्टादिकारिणां प्रतीतेरित्युक्तम् । तत्रेष्टादिकारित्वविशेषणवैयर्थ्यामाशङ्क्य परिह्रियते । प्रयोजनं त्वनिष्टादिकारिणां शुभमार्गेण गमनमात्रमपि नास्तीति प्रतिपादनेन वैराग्यजननम् ।
यत्किंचिद्यावच्छब्दयोश्चिरभुक्तादिकर्मविषयत्वादस्तु सङ्कोचः , ये के च सर्वशब्दानामर्थसङ्कोचे नास्ति हेतुरिति पूर्वपक्षमाह –
ये के चेति ।
हेतूनामेषामनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्त इति वक्ष्यमाणप्रतिज्ञया संबन्धः ।
न केवलं समाम्नानम् , उपपत्तिरप्यस्तीत्याह –
देहारम्भस्य चेति ।
कुतोऽनुपपत्तिरत आह –
पञ्चम्यामिति ।
नन्वाहुतिसंख्यानियम इष्टादिकारिविषय एवास्तु , नेत्याह –
तथा हीति ।
द्युशब्देन दिवि हुता श्रद्धा लक्ष्यते । श्रद्धा सोमेत्यर्थः ।
पुरुषवचसो भवन्तीति ।
साधारणपुरुषश्रुतिर्न सङ्कोचमर्हतीत्यर्थः ।
तर्हि यथोपात्तमनुष्येष्वेव सङ्कोच्यतां मनुष्यत्वं चेष्टादिकारिणामेवेति भ्रममपोहति –
न चैतदिति ।
दक्षिणोत्तरमार्गयोरेव श्रुताववगमादुत्तरस्य च ज्ञानिभिरेवावरुद्धत्वादनिष्टादिकारिणां चन्द्रप्राप्तिरेवेत्याह –
गमनागमनाय चेति ।
द्वयोरेव मार्गयोराम्नानादित्यस्यासिद्धिमाशङ्क्याह –
जायस्वेति ।
स्थानत्वं भोगायतनत्वम् । ननु ‘‘वेत्थ यथाऽसौ लोको न संपूर्यते’’ इत्यस्य प्रश्नस्य ‘‘ जायस्व म्रियस्वे’’ त्येतत्प्रतिवचनम् ।
अस्मिंचन्द्रलोकासंपूरणहेतुत्वेनोक्तस्थानस्य मार्गान्तरत्वं प्रतीयते , एकमार्गत्वे हि सर्वकर्मिणां चन्द्रलोको निबिडः स्यादित्यत आह –
चन्द्रलोकादिति ।
असंपूरणेन हि प्रतिवचनोपपत्तिः सा चन्द्रलोकादागत्येह श्वादिजन्मप्राप्त्यापि स्यादित्यर्थः ।
ननु पापिनां चन्द्रलोकगमनेन तत्र भोगः स्यात्ततश्चाकृताभ्यागमप्रसञ्जनमाशङ्क्याह –
अनन्यमार्गतयेति ।
पूर्वं तृतीयस्थानशब्दस्य मार्गपरत्वाभावः प्रतिपादितः ।
इदानीं न कतरेण च नेत्यस्य तृतीयस्थानसूचकत्वं निराकरोति –
न कतरेण च नेतीति ।
एतयोर्देवयानपितृयाणयोः कतरेण च न एकतरेणापि ये न गच्छन्ति तानि क्षुद्रभूतानि भवन्तीति निर्देशात् कीटादिप्राप्तिमार्गद्वयमुत्थितानामित्येतन्न मन्तव्यम् , वाक्यस्य चन्द्रलोकासंपूरणपरत्वादसंपूरणस्य च चन्द्रलोकादागतानां कीटादिप्राप्त्याप्युपपत्तेः कतरेणापि नेति निषेधो निन्दार्थ इत्यर्थः ।
तृतीयं स्थानमित्यत्र स्थानशब्दो यद्यपि शरीरे व्युत्पन्नत्वान्न मार्गमाह ; तथापि मार्गमुपक्रम्य तृतीयत्वेन निर्दिश्यमानस्य स्वार्थस्य मार्गत्वं गमयत्यवान्तरसंख्यानिवेशस्य साजात्यापेक्षत्वादिति सिद्धान्तयति –
सत्यमित्यादिना ।
असौ लोको न संपूर्यते इत्युदाहर्तव्ये न्यायसाम्यादसौ मार्ग इत्युक्तम् । तत्प्रतिपक्षं तस्य मार्गद्वयस्य प्रतिद्वन्दीभूतं मार्गमेवाचक्षीत न शरीरमित्यर्थः । यदि पितृयाणेनैवगत्वा आगत्य च प्राप्तस्य क्षुद्रजन्तुदेहग्रहणस्य तृतीयस्थानत्वं निर्दिश्येत , न तु मार्गान्तरस्य , तर्हि ‘‘तद्य इह रमणीयचरणा’’ इत्यत्रापि प्राप्यमाणशुभाशुभशरीरस्य तृतीयत्वनिर्देशः स्यान्न चास्ति ।
तस्मात्तृतीयस्थानशब्दो मार्गवाचीत्याह –
न हीष्टादिकारिण इत्यादिना ।
ननु ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव सर्वे गच्छन्तीति सर्वेषां चन्द्रगमनभुक्तमिति , सत्यम् ; तत्सामान्यवचनं तृतीयमार्गविषयविशेषवचनेन सङ्कोचनीयमित्याह –
तस्माद्ये वै के चेति ।
यदुक्तमाहुतावाप इत्याहुतिसंख्यानियमात् सर्वेषां स्वर्गगमनमिति , तत्राह –
स्वार्थविधानपरमिति ।
भास्करेण सुकृतिना दुष्कृतिभिः समानफलभाक्त्वमयुक्तमित्याशङ्क्यायां तन्निरसनेन पूर्वपक्षोपपादकतया सयमने त्वित्यादिसूत्राणि नीतानि । न भोगश्चन्द्रलोके दुष्कृतिनां , किंतु तद्द्वारा नरकं प्राप्यावरोहादिति विद्याकर्मणोरिति सूत्रादारभ्य सिद्धान्तो दर्शितः ।
तद्दूषयति –
अवरोहापादनतयेति ।
संयमने त्वनुभूयावरोह इत्युक्ते संयमनस्य श्रुतस्यावरोहापादानता शीघ्रमवगम्यते । तुशब्देन च चन्द्रापादानता वार्यते । परस्य तु भोगवैषम्यमर्थाद्गम्येत , चन्द्रमण्डलादवरोह इति चाध्याहारापेक्षा स्यादित्यर्थः ॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥
न सांपराय इति ।
सम्यगवश्यम्भावेन परा परस्ताद्देहपाताद् ईयते गम्यत इति संपरायः परलोकस्तत्प्राप्त्यर्थः साधनविशेषः सांपरायः । तं बालमविवेकिनं विशेषतो वित्तनिमित्तेन मोहेन मूढं छन्नदृष्टिमत एव प्रमादं कुर्वन्तं प्रति न भाति ; स न केवलमज्ञ एव , किं तु विपरीतदर्श्यपि , यतोऽयमेव लोकः स्त्र्यन्नपानादिरस्ति न पर इति मानीमननशीलः । अतस्तदनुरूपमाचरन्पुनःपुनर्जननमरणप्राप्त्यामेव समापद्यत इति मृत्योर्नचिकेतसं प्रति वचनम् । वैवस्वतं जनाना परलोकगताना संगमनं संगम्यं हविषा प्रीणयतेति । जीवजं जरायुजम् । अण्डजं हि किंचिद्वृश्चिकादि मातुरुदरं निर्भिद्य मृताज्जायते । उद्भिज्जं च किंचिद्वृक्षाद्यचेतनं पृथिव्याद्युद्भिद्य जायते । जरायुजं तु जीवतो जायत इति ॥
इति तृतीयं अनिष्टादिकार्यधिकरणम् ॥२१॥
साभाव्यापत्तिरुपपत्तेः ॥२२॥
अत्राकाशं वायुमिति कर्मत्वनिर्देशाद्धूमो भवतीत्यादि भवति श्रुतेश्च संशयः , तदाह –
यद्यपीति ।
युक्तं मार्ग प्रक्रम्य तृतीयत्वनिर्देशात्स्थानशब्दस्य मार्गलक्षणार्थत्वम् ; न तु भवतिश्रुतेः सादृश्यलक्षणार्थत्वेऽस्ति निमित्तमिति संगतिः ।
वायुमिति कर्मत्वेन निर्दिष्टस्य वायुर्भूत्वेति तादात्म्यवत्त्वेन परामर्शकवाक्यशेषान्निर्णयेन पूर्वपक्षमाह –
वायुर्भूत्वेत्यादेरिति ।
वाक्यशेषस्यासंभवदर्थत्वमाशङ्क्याह –
न चान्यस्येति ।
नन्दिकेश्वरो हि रुद्रमाराध्य मानुषशरीरेणैव देवदेहत्वेन परिणनाम । नहुषोऽपीन्द्रत्वं गतोऽगस्त्यशापादजगरत्वं जगाम । एवं हि श्रुतिर्भवति । इतरथा लक्षणा स्यादिति भाष्यं तदनुपपन्नं भवति ।
श्रुतेर्हि सादृश्यालम्बनत्वे माणवके इव वह्निश्रुतेः गौणतास्यान्न लक्षणेत्याशङ्क्याह –
गौण्यामिति ।
गौण्यामपि गुणस्य लक्षणाऽस्ति , लक्षणायां त्वभिधेयसंबन्धात् प्रवर्तमानायां संबन्धिवस्त्वन्तरपरत्वम् , न संबन्धपरत्वम् , गुणात् प्रवर्तमानायां तु गौण्यां वृत्तौ गुणपरत्वं न गुणयुक्तवस्तुपरत्वमिति विवेकः । स्वाभाव्यापत्तिरिति पाठे स्वसमो भावो येषां ते स्वभावास्तेषां भावः ।
स्वाभाव्यमिति समपदाध्याहारः स्यादतः साभाव्यापत्तिरिति युक्तः पाठस्तं व्याचष्टे –
समान इति ।
चन्द्रलोके उषित्वाऽथ तत्र प्रवृत्तफलकर्मक्षयानन्तरमेतमेव वक्ष्यमाणं पन्थानं पुनर्निवर्तन्ते , पुनः शब्दप्रयोगादनादौ संसारे पूर्वमपि चन्द्रमण्डलं गता निवृत्ताश्चेति गम्यते । कोऽसावध्वा यं प्रति निवर्तन्त इति , उच्यते – यथेतम् । यथागतम् । मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमिति गमनक्रमः । आगमनेऽप्याकाशनिर्देशाद् यथेतमिति प्रतीयते । आगमने पितृलोकाद्यसंकीर्तनादभ्रादिसंकीर्तनाच्चानेवमपीति गम्यतेऽतो यथेतमिति उपलक्षणम् । आकाशं प्रतिपद्यते , या आपश्चन्द्रमण्डले शरीरमारब्धवन्त्यस्ताः कर्मक्षये द्रुता आकाशगता आकाशसदृशा भवन्ति । तदुपहिता अनुशयिनोऽप्याकाशसमाना भवन्ति । आपो वायुना इतश्चामुतश्च नीयमाना वायुसमा भवन्ति । अनुशय्यपि तादृशो भवति । तदनन्तरं गमनकाले यो धूम आसीत् तत्तुल्यो भवति । ततः अपां भरणात् संभृतोदकमभ्रं तद् भवति । ततो जलसेचनान्मेधो वर्षणकर्ता संभवति । तद्भावं तत्सादृश्यमापद्य प्रवर्षति । वर्षधाराभिरनुशयी पृथिवीमापद्यत इत्यर्थः ॥२२॥
इति चतुर्थं साभाव्यापत्त्यधिकरणम् ।
नातिचरेण विशेषात् ॥२३॥ आकाशादिसादृश्यचिराचिरत्वविचारणात्संगतिः ।
स्यादेतत् - अतो वै खलु दुर्निष्प्रपततरमिति दुरुपसर्गतरप् प्रत्ययाभ्यां व्रीह्यादिप्राप्तिनिर्गमनस्यैव विलम्बितत्वप्रतीत्यन्यथानुपपत्त्याऽऽकाशादेर्वेगान्निष्क्रमणं प्रतीयते , ततः कथं तत्रापि चिरावस्थानेन पूर्वपक्षोऽत आह –
दुर्निष्प्रपतरमिति ।
दुःशब्दो ह्येकदेशलक्षणया दुःखं वक्ति , न तुव्यवधानात् विलम्बमित्यर्थः । उत्तराधिकरणेऽनुशयिनां दुःखनिषेधान्मन्यते इत्युक्तम् ।
एतदेव विवृण्वन् सिद्धान्तयति –
विनेति ।
न चैवमस्यानारम्भः ; अनुशयिनामाकाशादिप्रवर्षणान्तसादृश्यं चिरभावि अनुशयिसादृश्यरूपत्वाद् ब्रीह्यादिसादृश्यवदित्यनुमानस्य प्रागुक्तश्रुतार्थापत्त्या बाधार्थमधिकरणान्तरारम्भोपपत्तेरिति ॥२३॥
इति पञ्चमं नातिचिराधिकरणम् ॥
अन्याधिष्ठिते पूर्ववदभिलापात् ॥२४॥ अत्र जायन्त इति श्रुतेः कर्मपूर्वकत्वाश्रुतेश्च संशयो भवति ।
श्रुतेरुपचरितार्थत्वस्योक्तत्वात् पुनरुक्तिमाशङ्क्याह –
आकाशसारूप्यमिति ।
सर्वगताकाशसंयोगस्यासाध्यत्वात्सादृश्यं तेनोक्तमित्यर्थः । अन्यस्यान्यथाभावानुपपत्तेर्हि तत्रोपचार उक्तः , अत्र तु जायते इति शब्दस्य देहग्रहणे रूढत्वात्तदाशङ्क्यते , तच्चाविरुद्धमिति न गौणत्वावहमित्यर्थः । अस्मिन्प्रकरणे यन्मुख्यं जन्म तत्कर्मसाध्यं श्रुतं , यथा रमणीयचरणा इत्यादि ।
अत्र तु व्यापककर्मजत्वश्रुतिव्यावृत्त्या तद्व्याप्यमुख्यत्वव्यावृत्तिमाशङ्क्य हेत्वसिद्धिमाह –
न च रमणीयेत्यादिना ।
शरीरभावः शरीरत्वं तस्याभावादित्यर्थः ।
नन्विष्टादेर्विहितत्वात् पुण्यस्य कथं स्थावरशरीरप्राप्तिहेतुता? अत आह –
इष्टादेश्चेति ।
विहितत्वेऽपि तद्गतपशुहिंसोच्छिष्टसोमभक्षादेर्निषिद्धत्वाद् दुःखहेतुतेत्यर्थः । सामान्यविषयनिषेधशास्त्रस्य विशेषशास्त्रेण बाधनं स्यात् , कुतः ? तस्य ततो दुर्बलत्वादित्येतन्न च सांप्रतमिति योजना ।
सामान्यशास्त्रस्य दौर्बल्ये हेतुः –
सामान्यद्वारेणेति ।
विशेषशास्त्रप्राबल्ये हेतुः –
साक्षादिति ।
ननु क्रतुप्रकरणस्थहिंसाविधेर्हिंसागतक्रतुशेषत्वं विषयः , हिंसानिषेधस्य तद्गतानर्थफलत्वं गोचर इति विषयभेदाद्विधिनिषेधयोरविरोधश्चेत्तर्हि क्रतुमध्ये निषिद्धहिंसानुष्ठाने क्रतुवैगुण्यं स्यादित्याशङ्क्याह –
यथाहुरिति ।
कलञ्जभक्षणादिनिषेधानां पुरुषार्थत्वात्तदतिक्रमे पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम् । यथाविहितस्य तस्य सिद्धेः ।न हि क्रतुशेषः प्रतिषेधो यतस्तदतिलङ्घनात्क्रतुवैगुण्यं स्यादिति भट्टोक्तेरर्थः ।
एवं हि विहिताया अपि हिंसाया दुःखफलत्वं , यदि विधिनिषेधयोरेकविषयत्वं , तदेव नास्तीत्याह –
पुरुषार्थाया एवेति ।
क्रत्वर्थो हि प्रतिषेधः क्रत्वार्था हिंसा प्रतिषेधेत् ।
तत्र यद्ययं न हिंस्यादिति निषेधः क्रत्वार्थां हिंसा प्रतिषेधेत् , तर्ह्येव क्रत्वर्थः स्यात्तच्च नास्तीति वदिष्यन् निषेध्यनिषेधयोरेकार्थतामाह –
तथा हीति ।
यो हि यदर्थं प्रवृत्तो यस्माद्विषयाद् निवार्यते तन्निषेधोऽपि तदर्थ इत्यर्थः ।
तर्हि क्रत्वर्थहिंसाप्रतियोगिकोऽयं प्रतिषेधोऽत एव क्रत्वर्थश्चेत्याशङ्क्याह –
न चैतदिति ।
येन प्रकरणाम्नातत्वेनानृतवदनस्य क्रत्वर्थत्वेन तन्निषेधोऽपि क्रत्वर्थः स्याद् , येन च तेनैव प्रकरणाम्नातत्वेन पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वात्तन्निषेधस्यापि क्रत्वर्थत्वं भवेत् , तेन प्रकारेण न हिंस्यादित्येतत् कस्यचित्प्रकरणे न समाम्नातमित्यर्थः ।
नन्वाज्यभागौ भवेतां क्रत्वर्थौ , निषेधस्त्वभावार्थः कथं क्रत्वर्थः स्यादत आह –
एवं हि सतीति ।
पशुयागेऽतिदेशप्राप्ताज्यभागनिषेधे सति तद्वर्जनयुक्ताङ्गान्तरैर्भावार्थरूपैराज्यभागसाध्य उपकारो जन्यते न केवलनिषेधमात्रात् । अतश्च विकल्प आज्यभागतदभावयोः । फलभूमार्थिनस्त्वनुष्ठानम् । प्राभाकरास्तु पर्युदासमेतमाहुः । अत्र च पशुप्रकरण एवैतद्वाक्यमस्तीति कृत्वा प्रतिषेधत्वमस्योक्तम् । गुणोपसंहारे तु हानौ तूपायनेत्यधिकरणे(ब्र.अ.३.पा.३.सू.२६) दर्शपूर्णमासप्रकरणपठितस्य न तौ पशावित्यस्य पाशुकप्रकरणाभ्युपगतैतद्वाक्यसिद्धार्थानुवादित्वेनार्थवादत्वं वक्ष्यतीति न विरोध इति ।
अनृतवदननिषेधस्य क्रत्वर्थत्वेऽधिकरणमनुक्रम्यते –
दर्शपूर्णमासयोराम्नायते नानृतं वदेदिति ।
तत्रायं निषेधः क्रत्वर्थः पुरुषार्थो वेति संशयः , तदर्थं प्रतिषेध्या प्रवृत्तिः किमर्थेति च चिन्त्यते । यो हि यदर्थं प्रव्रृत्तः सन्निवार्यते स तदर्थमेव च निवार्यते । प्रवृत्तिकैमर्थ्यनिर्णयाय च आख्यातेन कर्ताऽभिधीयते न वेति च विचार्यते । अभिहिते हि कर्तरि तस्य प्रत्ययेन प्राधान्येनाभिहितत्वात् प्रवृत्तेः प्रयोजनाकाङ्क्षावेलायां श्रुतिसन्निधापितकर्त्रपेक्षितोपायत्वं प्रकरणबाधयाऽवगम्येत , अनिभिहिते तु बाधकश्रुत्यभावादर्थाच्च कर्तुः प्रवृत्ति प्रति गुणत्वेनैवावगतेः प्रकरणेन प्रवृत्तेः क्रत्वर्थताऽवधार्यते । तत्र पचति देवदत्त इत्याद्याख्यातैः कर्त्रवगमाद् लः कर्मणि चेति सूत्रगतचकारेण कर्तर्यपि लकारविधानाद् लकारादेशानां च तिवादीनां स्थानिवद्भावेन कर्तृवाचकत्वादाख्याताभिधेयः कर्तेति प्रापय्य राद्धान्तितं शेषलक्षणे । क्रत्वर्थोऽयं प्रतिषेधः , आख्यातेन कर्तुरनभिधानात् । या त्वाख्यातात्कर्तृप्रतीतिः सा आख्याताभिहितभावनया कर्तुरुपस्थापनादन्यथासिद्धा । सूत्रं त्वभिधेयत्वद्योत्यत्वयोरुदासीनम् । अपि च लः कर्मणीत्यभिधाय द्व्येकयोरिति सूत्रेण द्वित्वैकत्वयोरर्थयोर्द्विवचनैकवचनविधानात् कर्तृसंख्यैवाख्यातवाच्या न कर्ता । संख्येयकर्तृविवक्षायां हि द्व्येकेष्विति स्याद् ; द्वयोरेकस्य च कर्तॄणां बहुत्वात् । आख्यातेन कर्तुरानभिधानेऽनभिहिताधिकारविहिततृतीयापत्तेः पचति देवदत्तेनेति प्रयोगप्रसङ्गः । गम्यमानकर्तुः संख्याया अनेनाभिधाने करणादिसंख्यानामप्याख्यातेनाभिधानप्रसङ्गः । पच्यत इत्यत्रापि कर्तुर्गम्यमानत्वात्तत्संख्याभिधानापात इति चेद् , न , अनभिहितस्यापि कर्तुरितरकारकापेक्षया प्रधानत्वाद्भावनायाश्च तद्व्यापारत्वादाख्यातेन प्राधान्येन द्योतनादनभिहिताधिकारस्य च प्राधान्येन द्योतितत्वाभिप्रायत्वात् , करणादीनां पचतीत्याद्याख्यात्तैः प्राधान्येन ध्वनितत्वाभावात् , पच्यत इत्यादौ च कर्मप्राधान्येन कर्तृप्राधान्यस्याद्योतनात् । तस्मादाख्यातेन कर्तुरनभिधानात्सिद्धमनृतवदनप्रतिषेधस्य क्रत्वर्थत्वमिति ॥
ननु मा भूत् प्रकरणानाम्नानान्न हिंस्यादिति निषेधस्य क्रत्वर्थता , पुरुषार्थत्वं तु कथमवगम्यते? न हीह पुरुषस्तदर्थोवगम्यत इति तत्र पुरुषार्थप्रतीतिमुपपादयति –
तस्मादनारभ्याधीतेनेति ।
न हिंस्यादित्यनेनेति नञ् व्यतिरिक्तोपादानं विवक्षितम् । अत्र वाक्ये हिंस्यादिति भागेनाभिहितस्य पुरुषव्यापारस्य पुरुषार्थ एव भाव्य इत्यन्वयः ।
ननु हिंसैव भाव्या किं न स्यादत आह –
विध्युपहितस्येति ।
श्रेयःसाधनत्वविध्यवच्छिन्नत्वादित्यर्थः ।
न केवलमर्थविरोधो धात्वर्थभाव्यत्वे , अपि तु शब्दविरोधश्चेत्याह –
विधिविभक्तीति ।
हिंसैव कर्मक्रिया तद्भाव्यत्वपरित्यागेनेत्यर्थः ।
पुरुषप्रतीतिमुपपादयति –
आख्यातानभिहितस्यापीति ।
कर्त्रधिकरणे तु अनभिहितपुरुषस्याप्राधान्येन निषेधस्य प्रकरणवशात् क्रत्वर्थमुक्तम् , इह तु प्रकरणाभावादार्थिककर्तृशेषत्वमविरुद्धं निषेधस्य । एतच्च प्राचीनग्रन्थे अनारभ्याधीतेनेति पदेन द्योतितम् ।
ननु हिंस्यादिति विध्यंशेन यदि हिंसाश्रेयःसाधनमवगता , कथं तर्हि निषेधावकाशः? इत्याशङ्क्यानुवादत्वमाह –
केवलमिति ।
स्यादेतत् - हिंस्यादिति क्रतुपुरुषार्थसाधारणी हिंसाऽनूद्य निषिध्यतां , तथा चोभयार्थत्वं निषेधस्य वाक्येनावगम्यतामिति , नेत्याह –
क्रत्वर्थस्यापि चेति ।
हिंसाविषयस्य निषेधस्य रागप्राप्तहिंसाविषयत्वेन चरितार्थत्वेऽधिकारान्तरानुप्रविष्टक्रतुशेषहिंसानुवादतन्निषेधविषयत्वकल्पनायां गौरवं स्यादित्यर्थः ।
उभयनिषेधे च वाक्यभेदः स्यादित्याह –
न च स्वातन्त्र्येति ।
क्रत्वर्थनिषेधत्वे हि क्रत्वर्थत्वात् पारतन्त्र्यं स्यात् , पुरुषार्थनिषेधत्वे पुरुषार्थत्वात्स्वातन्त्र्यम् । तच्च वाक्यद्वयेन संबन्धद्वयबोधने भवेद् , न त्विहेत्यर्थः ।
विधिनिषेधयोर्विषयभेदमुक्तमुपसंहरति –
तस्मादिति ।
यदा च निषेधस्य रागप्राप्तार्थता , तदा इष्टादिकर्मणः पुण्यमात्ररूपत्वाद्व्रीह्यादिभावस्य कर्मजन्यत्वासंकीर्तनरूपो हेतुः सिद्ध इत्याह –
आकाशादिष्विवेति ।
अत्र भाष्यकारैर्न हिंस्यादित्युत्सर्गः , अग्नीषोमीयमालभेतेत्यपवाद इत्युक्तम् , तदयुक्तम् ; विशेषविधिविहितस्यार्थस्य सामान्यविधिनापि विषयीकारे ह्युत्सर्गापवादन्यायः । यथाऽऽहवनीये जुहोति पदे जुहोतीति होममात्रस्याहवनीयान्वयविधिना पदहोमस्यापि विषयीकारे पदहोमान्वयविशेषविधिना बाधात्तदितरपरत्वं सामान्यशास्त्रस्य ।
अत्र तु वर्णितेनन्यायेन निषेधस्योत्पत्तिसमय एव पुरुषार्थहिंसाविषयत्वान्न क्रत्वर्थहिंसानुप्रवेश इत्याशङ्क्याह –
अयमेवार्थ इति ।
एकस्य निषेधविधैः स्वविषयस्य क्रत्वर्थत्वेन पुरुषार्थत्वेन च विनियोगे विरोधात् सामान्यविषयत्वे च पुरुषार्थहिंसासु सावकाशस्य न क्रत्वर्थहिंसानिषेधविषयत्वं तदा ह्यधिकारान्तरानुप्रवेशित्वेन सापेक्षत्वं स्यादिति यो विषयनिष्कर्षः कृतोऽयमेवाविशेषप्रवृत्तत्वेनावभासमानशास्त्रस्य विशेषत्याजनलक्षणगुणसाम्यादुत्सर्गापवाद इत्युक्त इत्यर्थः । अवहन्तिना फलीकृतेषु=कण्डितेषु । तेऽनुशयिन इह लोके व्रीहियवा इत्येवंरूपेण जायन्ते । यो यो ह्युनुशयिभिः संश्लिष्टमन्नमत्ति स एव च यो रेतः सिञ्चति स्त्रियामृतुकाले तद्भूय एव तद्भाव एव तत्समानाकारतामित्यर्थः । भवति प्रतिपद्यते अनुशयी । तथा च मनुष्यान्मनुष्यो जायते पश्वादेश्च पश्वादिरिति ॥२४॥२५॥२६॥२७॥
इति षष्ठं अन्याधिष्ठिताधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलानन्दविरचिते वेदान्तकल्पतरौ तृतीयस्याध्यायस्य प्रथमः पादः ॥
संध्ये सृष्टिराह हि ॥१॥ कर्मफलस्य यातायातरूपत्वेन पूर्वं वैराग्यं निरूपितम् । इदानीं विरक्तस्य तत्त्वपदार्थविवेकार्थं द्वितीयः पाद आरभ्यते । तत्रापि न स्थानतोऽपी (ब्र.अ.३.पा.सू.११) त्यतः प्राक् त्वंपदार्थो विवेचितः , तत आरभ्य तत्पदार्थः । आद्याधिकरणस्य तात्पर्यमाह –
तस्यैवेति ।
यस्य पूर्वस्मिन्पादे जाग्रदवस्थायामिहलोकपरलोकसंचार उक्तः तस्यैवेत्यर्थः ।
प्रयोजनमाह –
स्वयंज्योतिष्ठ्वेति ।
जाग्रदवस्थायां ह्यादित्यादिसंकराद् दुर्विवेकमात्मनः स्वयंज्योतिष्ठ्वं , तत्र यदि स्वप्नोऽपि सत्यः स्यात् तदवस्थं दुर्विवेकत्वमिति तन्मिथ्यात्वामुच्यते । मनस्तु स्वप्ने सदपि दृश्यत्वान्नात्मभासकम् ।आदित्यादीनां दृश्यत्वाविशेषेऽपि स्वरूपतोऽपि व्यतिरेकसमर्थनार्थमर्थवती मिथ्यात्वचिन्ता । आरम्भणाधिकरणे (ब्र.अ.२.पा.१.सू.१४) समस्तभेदमिथ्यात्वोपपादनादजामित्वाय प्रपञ्चयते इत्युक्तिः ।
रथादिसर्गाम्नानाद्रथाद्यभावाम्नानाच्च संशयमाह –
किमिति ।
सर्वविकारमिथ्यात्वस्याधस्तात्साधनाद् न पूर्वपक्षिणो दृष्टान्तसिद्धिरित्याशङ्क्याह –
यद्यपीति ।
स्वप्नस्य व्यावहारिकत्वमस्ति न वेति चिन्त्यत इत्यर्थः । अनेन प्रपञ्च्यत इत्येतद्विवृतम् ।
द्वयोर्लोकस्थानयोः संधौ भवतीति संध्यमिति भाष्यं न युक्तं , स्वप्नस्येहैव लोकेऽनुभवादित्याशङ्क्याह –
ऐहलौकिकेति ।
यथा लोके ग्रामसंधिर्द्वौ ग्रामौ भजते , एवं स्वप्न उभौ लोकौ लक्षणतः स्पृशति , तत्र परलोकस्यैतल्लोकवर्तिचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्त्वं व्यापारविरहाच्चेदनैहलौकिकत्वं स्वप्नस्य , तर्ह्यैहलौकिकसुषुप्तेरप्यनैहलौकिकत्वं स्यादत आह –
रूपादिसाक्षात्कारोपजननादिति ।
चक्षुरादिशब्दो गोलकाभिप्रायः ; करणानां लोकद्वयेऽप्यविशेषात् ।
स्वप्नस्य परलोकलक्षणवत्त्वमुक्त्वा इहलोकलक्षणवत्त्वमाह –
पारलौकिकेति ।
अत्रापि पारलौकिकसुषुप्तेरपारलौकिकत्वव्यावृत्तये न च न रूपादीत्युक्तम् ।
संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हतीति भाष्यमयुक्तम् ; आरम्भणाधिकरणादौ सर्वकार्यमिथ्यात्वसमर्थनादत आह –
ब्रह्मात्मभावसाक्षात्कारादिति ।
स्वप्नसत्यत्वं वक्तुं न शक्यते इदंरजतादिबोधेष्विव बाधविरोधादित्याशङ्क्याह –
अयमभिसंधिरिति ।
ज्ञानं सर्वं यथार्थमिति पूर्वपक्ष इत्यर्थः ।
तर्हि स्वप्नोदाहरणमयुक्तं सर्वभ्रमेषु विप्रतिपत्तेरविशेषादत आह –
प्रकृतोपयोगितयेति ।
स्वप्रकाशित्वश्रुतौ प्रकृतमात्रायं पुरुषः स्वयंज्योतिर्भवतीति ।
बाधकत्वासिद्धिमुपपादयितुं पराभिमतबाधकत्वरूपमनुवदति –
समानगोचरे इति ।
समानगोचरविरुद्धार्थज्ञानयोरपि सत्प्रतिपक्षयोरिव न बाध्यबाधकत्वमित्यत उक्तं –
बलवदबलवत्त्वेति ।
तत्र तावदिदंरजतादिज्ञानानां नेदंरजतादिज्ञानानां च विरोधाभावमाह – नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिश्चय इत्यतः प्राक्तनेन ग्रन्थेन ।
नीलोत्पले रात्रौ रक्तत्वभ्रमो भवति तमुपपादयति –
एवमुत्पलमपीति ।
तस्मादपीति ।
अपिकारेण प्रागुक्तं विरोधाभावं समुच्चिनोति । विवादास्पदं प्रत्यया इति नियतलिङ्गत्वात्सामानाधिकरण्यम् । रथैर्युज्यन्त इति रथयोगा अश्वादयः । पथो रथमार्गान् ।
बहुश्रुतिसंवादादिति ।
बहुश्रुतयः स हि कर्तेत्याद्या उदाहृता भाष्ये । प्रमाणान्तरम् उक्तमनुमानं वक्ष्यमाणं प्राज्ञकर्तृकत्वहेतुकम् ।
भाक्तत्वेनेति ।
भक्तिः संकोचः ।
तमेवाह –
जाग्रदिति ।
बहुश्रुतिविरोधादित्येतत्स्पष्टयति –
अत एवेति ।
कर्तृश्रुतिः स हि कर्तेत्येषा बार्हदारण्यकी । शाखान्तरश्रुतिस्तु एष सुप्तेष्वित्याद्या कठशाखागता ।
अनुमानान्तरं वक्ष्यमाणमित्युक्तं तदाह –
प्राज्ञेति ।
हेतोरसिद्धिमाशङ्क्याह –
न च जीवकर्तृकत्वादिति ।
य एष सुप्तेष्विति वाक्यस्याधस्तात् प्राज्ञस्यैव परमात्मन एव प्रकृतत्वादित्यर्थः ।
विमतिपदं सत्यं स्वप्नत्वात् , संवादिस्वप्नवदित्याह –
अपि चेति ।
ब्राह्मणा अयनमाश्रयो यस्य स तथा । स्वयं तु ब्राह्मणाभास इत्यर्थः । तथाविधेनोक्तमपि स्वप्ने सत्यं भवति किं पुनरन्यदिति भावः । प्रियव्रतं प्रियव्रतनामानं कंचित् । उर्वरा सर्वसस्या भूः ॥१॥२॥
यदुक्तं क्षीरदधिवत्कालभेदेनैकस्य शुक्तिरजतात्मकत्वादविरोधो रजतशुक्तिज्ञानयोरिति , तत्राह –
न तावत्क्षीरस्येवेत्यादिना ।
ईश्वरस्य राजादेर्गृहे वस्तुतो यदीदं रजतं स्यात् , तर्हि , कालान्तरेऽपि शुक्तिर्न स्याद् , राजमन्दिरगतरजतकुम्भवदित्युक्तम् , इदानीं यदापि रजतत्वेनानुभूयते , तदैव पुरुषान्तरे विसंवादादपि न वास्तवं रजतत्वमित्याह –
न चेतरस्येति ।
अन्योऽनाकुलेन्द्रियस्तस्य शुक्तिभावं नानुभवतीत्येतन्नेति व्यतिरेकमुक्त्वाऽन्वयमाह –
प्रत्येति चेति ।
शुक्तिभावमित्यनुषङ्गः । शुक्तिरजतात्मकमेकमेव वस्तु ग्रहणसामग्रीभेदात्कदाचिच्छुक्तित्वेन ज्ञायते , कदाचिद्रजतत्वेन ज्ञायते ।
मा भूत्परिणाम इति यदुक्तं तद्दूषयति –
न चोभयरूपमिति ।
इष्टप्रसङ्गतामाशङ्क्याह –
न मरीचिभिरिति ।
तृष्णजः पिपासोः । स्वपितृषोर्नजिङिति तृषेर्नजिङ् प्रत्ययः । उदन्या पिपासा ।
ननु मा कुर्वन्तु मरीचयस्तोयसाध्यामर्थक्रियां , सन्तु च तोयं , का बाधा ? तोयस्य द्व्यात्मकत्वादित्याशङ्क्याह –
न च तोयमेवेति ।
पिपासोपशमकमुदकमित्यैकरूप्यस्य सति संभवे न प्रयोजकद्वैविध्यं कल्प्यमित्यर्थः ।
अकल्पने च व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिमप्याह –
तदर्थेति ।
ननु न कल्प्यते , किन्तु दृश्यते इत्याशङ्क्य प्रयोजकद्वैविध्याभ्युपगमेनापि परिहरति –
अपि चेति ।
मरीचिषु तोयमवभासमानमर्थक्रियायामसमर्थमिति भासेत समर्थमिति वा , नाद्य इत्याह –
असमर्थविधेति ।
असमर्थस्य विधा प्रकारस्तं पतति प्राप्नोति तथोक्तम् । यथा मरीचीन् शुद्धानित्यर्थः ।
पूर्वं क्षीरस्येव दधि न रजतस्य शुक्तिः परिणाम इत्यर्थं दूषणमभाणि , संप्रति प्रतीतिरपि तथा नास्तीत्याह –
न च क्षीरदधिप्रत्ययवदिति ।
आचार्यादौ न परिणामः किं त्वपेक्षामात्रम् । एवं तावत् ज्ञानद्वयस्य विरुद्धार्थत्वविषयत्वमुक्तम् । अथ यदुक्तं बाध्यबाधकभावो न ज्ञानयोर्निर्णीयते ; स्वगोचरशूरत्वाद् द्वयोरिति तत्र स्वगोचरशूरत्वेऽप्यर्थाद्विरोधमुपरिष्टाद्वक्ष्यति ।
इदानीं बाध्यबाधकभावं निगमयति –
तत्रापीति ।
परं शुक्तिज्ञानमबाधित्वैव पूर्वं रजतज्ञानं जायते , कुतः ? परस्यागामित्वाद् भविष्यत्त्वादप्राप्तेस्तन्निषेधस्य पूर्वेण कर्तुमशक्यत्वादित्यर्थः ।
ननु तर्हि पूर्वमपि परेण न बाध्यते , स्वविषयशूरत्वादुभयोरिति , तत्राह –
पूर्वं पुनरिति ।
सत्यं तथापि पूर्वप्रतीतार्थाभावबोधित्वात् तस्य बाधकमित्यर्थः ।
स्वविषयशूरत्वेऽपि अर्थाद्विरोधं वक्ष्यतीत्यवादिष्म , तमाह –
न च वर्तमानरजतावभासीत्यादिना ।
वर्तमानरजतावभासि विज्ञानमत एवास्य रजतस्य भविष्यत्तामगोचरयद् भविष्यता शुक्तिप्रत्ययेन स्वसमयवर्तिनीं शुक्तिं गोचरयता न बाध्यते , कुतः ? कालभेदेन विरोधाभावादित्येतन्न च युक्तमिति योजना ।
अत्र हेतुमाह –
मा नामेति ।
अस्य रजतस्य भविष्यत्तां मा ज्ञासीन्नाम मा प्रकाशयतु नाम ।
उपकारभावहेतुमिवेति ।
इदं रजतमुपकारकं रजतत्वात्संमतवदिति यथेत्यर्थः । विनाशं प्रत्येति वस्तु येन स विनाशप्रत्ययो विनाशः कारणम् । रजतज्ञानकालमारभ्य यावच्छुक्तिज्ञानकालं रजतविनाशहेत्वदर्शनात् स्थायित्वे शुक्तित्वरजतयोरेकदैकत्र विरोधादर्थाद् बाध्यबाधकत्वं ज्ञानयोरित्यर्थः । अनुमानानुगृहीतप्रत्यक्षेण गृह्यमाणं रजतं चिरस्थायीति गृह्यते इति व्याख्यास्यति । तेन तद्रजतं भविष्यच्छुक्तिकाज्ञानस्य यः कालः तं व्याप्नोतीति वार्तिकार्थः ।
ननु यथा प्रत्यभिज्ञाप्रत्यक्षं कालान्तरवर्तिनीं तत्तां गृह्णाति , एवं रजतप्रत्यक्षमपि भविष्यत्तां रजतस्य ग्रहीष्यति , अत आह –
न च प्रत्यभिज्ञेति ।
अत्यन्ताभ्यासवशेनेति सूक्ष्मकालव्यवधानागणने हेतुः । परिच्छेदानन्तरक्षणे अनुमानस्य प्रत्यक्षं प्रति सहकारित्वात्तदा च तस्य विनश्यत्त्वाद्विनश्यदवस्थत्वोक्तिः । एतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगता अनुमानगम्योऽपि संतानोऽनुगतरूपः प्रत्यक्षाध्यावसेयः स्वलक्षणग्रहणादध्युपर्यवसेय इत्याहुरित्यर्थः ।
इदंरजतादिभ्रमाणां बाधमुपपाद्य प्रकृते योजयति –
एतेनेति ।
स्वप्नस्य य आख्यातो ब्राह्मणाभासस्तेन सह जागरणे गत्वा आख्याते त्वया ममैतदुक्तमित्यभिधाने तेन च नेत्युक्ते विंसवादात्तत्रापि स्वप्ने न सत्यत्वमिति शेषः ।
भाष्यमुपादाय व्याचष्टे –
रजन्यामिति ।
भारतवर्षे वासरमिति भारतग्रहणव्यवच्छेद्यमाह –
रजनीति ।
भारतवर्षे यो रजनीसमयस्तस्मिन्नपीत्यर्थः । केतुमालमिति मेरोः पश्चिमदेशः ॥३॥
ननु कुञ्जरारोहादिदर्शनं स्वप्ने सूचकं तच्च सत्यमिति कथं मिथ्याभूतस्य स्वप्नस्य सूचकत्वं सूत्रे उच्यते ? तत्राह –
तच्च स्वरूपेणेति ।
विषयाविशेषितरूपेण ज्ञानमात्ररूपेण सत् । तच्च न सूचकम् । यतः कुतश्चिज् ज्ञानाद्यस्य कस्यचित् सूचनप्रसङ्गात् । असत्तु दृश्यं तस्मात्तदुपहितं दर्शनं सूचकम् । तच्च मिथ्यैवेत्यर्थः । यदि सूचकत्वं स्वप्नस्योपेयते तर्ह्यर्थक्रियाकारित्वमहत्त्वसंयोगात् जाग्रद्वद् ब्रह्मसाक्षात्कारादर्वागबाधः स्यात् ।
अतश्च पूर्वापरविरोध इत्याशङ्क्याह –
अत एवेति ।
अस्ति मिथ्याभूतख्याद्युपहितस्यापि स्वप्नदर्शनस्य व्यावहारिकं सत्त्वम् । अत एवाद्राक्षं स्वप्नमहमिति मिथ्यार्थोपहितं स्वप्नदर्शनमनुमन्यते । युक्तया तु तस्य मिथ्यार्थोपहितत्वान्मिथ्यात्वमुच्यते । अर्थस्तु स्वाप्नो मिथ्या , न च व्यावहारिकमपि सत्त्वं तस्यास्तीति न पूर्वापरविरोध इत्यर्थः । स्वप्नः सत्यः , प्राज्ञकर्तृकत्वादित्यनुमिते न चास्माभिरिति भाष्येण स्वप्नस्य प्राज्ञकर्तृकत्वमभ्युनुज्ञायते तत्र हेतुस्वीकारे हेतुमत्सत्यत्वमपि स्यादित्याशङ्क्याह – प्राज्ञव्यापारत्वेनेति ॥४॥
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यमिति भाष्योदाहृतश्रुतौ तृतीयशब्दार्थमाह –
बन्धमोक्षयोरिति ।
सगुणब्रह्मोपासनफलमीश्वरसायुज्यं हि न बन्धो दुःखाभावान्न मोक्षो भेदाश्रयत्वादतोऽन्तरालवर्तीत्यर्थः ।
कृतोपपादनमिति ।
प्रथमसूत्रे हि स्वप्रकाशस्याप्यविद्याविषयत्वसमर्थनात् जीवस्यैश्वर्यतिरोधानम् अविद्यादेर्मिथ्यात्वेन तत्त्वसाक्षात्कारान्निवृत्तेरभिव्यक्तिश्च समर्थितेति अध्यासात्मकश्च देहयोगः समर्थित इत्यर्थः ॥५॥६॥ सुप्तेषु प्राणेषु य एष साक्षी जागर्ति , न स्वपिति । कथं न स्वपित्यत आह – कामं कामं तं तमभिप्रेतं विषयं निर्मिमाणो जागर्ति यस्तदेव शुक्रं शुद्धममृतं ब्रह्मोच्यते ।
वृणीष्वेति ।
नचिकेतसं प्रति मृत्युवचनम् । काम्यपुत्रादीनां कामभाजंप्रकामभाजमतिशयभाजम् । तद् ब्रह्म कश्चित् कश्चिदपि नात्येति उशब्द एवार्थे । नात्येत्येवेत्यर्थः । अथो स्वयंज्योतिष्ट्वकथनानन्तरम् । अन्ये आहुः । अस्यात्मनो जागरितदेश एवैष यः स्वप्नः ।
अत्र हेतुमाह –
यानि हि जाग्रत्पुरुषः पश्यति तान्येव सुप्तोपि पश्यतीति ।
बहीष्कुलायादिति ।
स्वप्नावस्थायां प्राणेन रक्षन्नवरं कुलायं कुत्सितं नीडं शरीरं तस्मात्कुलायाद्वहिश्चरित्वा तस्मिन्नभिमानमकृत्वेत्यर्थः । स आत्मा यत्र कामं यत्र कामो भवति तत्र विषये ईयते गच्छति । स्वप्नया स्वप्नरूपयाऽन्तःकरणवृत्त्येत्यर्थः । स्वयमात्मा जाग्रद्देहं विहत्य निश्चेष्टमापाद्य । देहव्यापारो ह्यात्मभोगार्थः भोगार्थं कर्मणश्चात्मा कर्ता , तदा च जाग्रद्भोगप्रदकर्मोपरमे सति देहपातादात्मा विहन्तेत्युच्यते । तथा स्वप्नदेहमदृष्टद्वारा स्वयं निर्माय स्वेन भासा वासनाजन्यज्ञानेन युक्तः स्वेन ज्योतिषा तत्साक्षिचित्प्रकाशेन इत्थंभूतः प्रस्वपिति वासनामयीर्वृत्तीः पश्यन्नास्त इत्यर्थः । देवमीश्वरमहमस्मीति ज्ञात्वा साक्षात्कृत्य सर्वपाशानामविद्यादिबन्धानामपहानिर्भवति ।
क्षीणैः क्लेशैर्जन्ममरणयोर्हेत्वभावात् प्रहाणिरिति निर्गुणविद्याफलमुक्त्वा सगुणोपास्तिफलमाह –
तस्येति ।
तृतीयत्वं विश्वैश्वर्यस्योपपादितं । देहभेदे देहवियोगे सति विश्वैश्वर्यं भवतीत्यर्थः । तत्र च भोगान् भुक्त्वा ब्रह्मविद्याभिव्यक्तौ केवलोऽद्वितीय आप्तकामः प्राप्तपरमानन्दःपरानन्दात्मा भवतीति क्रममुक्तिरुक्ता । भाष्येऽरणिनिहिताग्न्युदाहरणमरण्योर्निहितो जातवेदा इत्यादिशास्त्रदृष्ठ्यपेक्षं लोकदृष्ठ्यपेक्षं भस्मच्छन्नोदाहरणम् ॥१॥
इति प्रथमं संध्याधिकरणम् ॥३॥
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥७॥ जीवस्य स्वप्रभवत्वाय स्वप्नमिथ्यात्वमीरितम् । अथास्य ब्रह्मभावाय सुषुप्तिः क्वेति चिन्त्यते ॥
आसु तदा नाडीषु इत्यादिसप्तमीनिर्देशात् ताभिः प्रत्यवत्सृप्येत्यासिदमुच्चयनिर्देशाच्च संशयमाह –
तत्र किमिति ।
प्रयोजनमाह –
एतदत इति ।
वस्तुतो ब्रह्मण एव सतो जीवस्य तद्वैपरीत्यं भ्रमः ।तद्यपि निवृत्तेऽपि सुषुप्तौ विपर्यासे नाडीषु पुरीतति वा तिष्ठेद् , न तु ब्रह्मतादात्म्यं भजेत जीवस्तदा ब्रह्मभावे विपरीतज्ञाननिवृत्तिरप्रयोजिका स्यादित्यर्थः ।
ननु दण्डायमानभावरूपाज्ञाननिवृत्तौ ब्रह्मभावः , सुषुप्तौ तु नाड्यादिस्थस्य तदनिवृत्तमिति न ब्रह्मभावः ततो नाड्यादेः सुषुप्तिस्थानत्वाभावचिन्ता निष्प्रयोजनेत्याशङ्क्याह –
अविद्यानिवृत्तावपीति ।
यावद्यावद्धि प्रतिबन्धनिवृत्तिस्तावत्तावद् ब्रह्मभावोप्याविर्भवेत् । तत्र यदि मिथ्याज्ञाननिवृत्तौ न ब्रह्म भावः श्रुत्योच्येत , तर्ह्यज्ञाननिवृत्तावपि न ब्रह्मभाव इति श्रुतेराशयः स्यात् । ततो ब्रह्मभावाय कारणान्तरं स्याद् नाञ्जानमिथ्याज्ञाननिवृत्ती इत्यर्थः ।
तर्हि तदेव कारणान्तरं ज्ञानमस्तु , नेत्याह –
तच्चेति ।
कर्म ह्यभूतप्रादुर्भावफलं , ज्ञानं त्वविद्यानिवृत्तिमात्रफलमित्यर्थः । विपरीतज्ञाननिवृत्तिरविद्यानिवृत्तेरप्युपलक्षणम् , न तु विपरीतज्ञानमेवाविद्येति भ्रमितव्यम् ; समूलकाषमविद्याया अकाषादित्युपरितनग्रन्थे मूलशब्देन भावरूपाऽविद्याया अभिधानात् ।
तर्ह्यविद्यानिवृत्तिद्वारेण ब्रह्मभावं ज्ञानमभिव्यनक्तु , नेत्याह –
विपरीतज्ञाननिवृत्तेरिति ।
चशब्देनाविद्यानिवृत्तेरप्यप्रयोजकत्वादित्यर्थः ।
मात्रयेति ।
स्तोकप्रतिबन्धनिवृत्तिरूपेणेत्यर्थः । तया विपरीतज्ञाननिवृत्त्या तावत्तदवस्थानो ब्रह्मभावावस्थानो भवति जीवस्तावच्छब्देन न सर्वात्मना तदवस्थानो मूलाविद्यायाः स्थितत्वादित्यर्थः ।
लौकिकं विकल्पोदाहरणमुक्त्वा वैदिकमाह –
यथा निरपेक्षा इति ।
निरपेक्षा इति समुच्चयासंभवार्थम् ।
आयतनश्रुत्या चेति ।
सदायतना इत्यत्रत्यायतनस्य सप्तम्यर्थत्वादित्यर्थः ।
सिद्धान्तबीजमाशङ्क्याह –
यत्रापीति ।
नन्वत्र प्राणप्राप्तिः प्रतीयते , कथं नाडीब्रह्मसमुच्चयः ? तत्राह –
प्राणशब्दमिति ।
पदार्थमुक्त्वा प्रस्तुतवाक्यमेव योजयति –
अथास्मिन् प्राण इति ।
इतिवचनाद्यत्रापि नाडीब्रह्मणोः समुच्चयश्रवणमिति योजना ।
तथापीति ।
तत्रापीत्यर्थः । यत्रापीत्युपक्रमात् ।
निरपेक्षसप्तमीश्रुतिभ्यां यदि नाडीपुरीततोर्निरपेक्षमाधारत्वं , का तर्हि समुच्चयश्रवणस्य गतिः ? अत आह –
इयांस्त्विति ।
नाड्यस्तावत् , स्वतन्त्रा एवाधारः , पुरीतद् ब्रह्मप्राप्ती तु नाडीद्वारा भवतः परस्परं चानपेक्षे , तत्र समुच्चयश्रवणाभावात् कदाचिच्च नाडीनां पुरीतद्ब्रह्मसमुच्चयेऽपि कदाचिदनपेक्षस्थानत्वाद्विकल्पसिद्धिरित्यर्थः । बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवतीति पृष्ठाख्यस्तोत्रसाधनत्वेन बृहद्रथन्तरयोर्विधानाद्विकल्पः । एवमेषोऽष्टदोष इति(१) व्रीह्यनुष्ठानपक्षे यवशास्त्रस्य प्रातीतप्रामाण्यपरित्यागः (२) अप्रतीताप्रामाण्यस्वीकारः , तथा प्रयोगान्तरे (३) यवेषु उपादीयमानेषु यवशास्त्रस्य प्राक् स्वीकृताप्रामाण्यत्यागः (४) परित्यक्तप्रामाण्योपादानमिति यवशास्त्रे चत्वारो दोषाः ; एवं यवानुष्ठानपक्षेऽपि व्रीहिशास्त्रे चत्वार इत्यष्टदोषदुष्टो विकल्पः ।
ननु यदि व्रीहियवौ द्वौ विहितौ , तर्ह्याग्नेयादिवत्समुच्चय , किं न स्यादित्याशङ्कां निराकुर्वन् ‘गतिरन्या न विद्यते’ इत्येतत्प्रपञ्चयति –
प्रकृतक्रतुसाधनीभूतेत्यादिना ।
मा भूद्वाक्यद्वयसामर्थ्यात् समुच्चय: , अङ्गसहितप्रधानानुष्ठापकप्रयोगवचनो व्रीहियवौ समुच्चाययतु , तत्राह –
न चैताविति ।
ननु मा मिश्येतां व्रीहियवावुभयविध्यर्थवत्त्वायैकस्मिन्नेव प्रयोगे व्रीहिभिरेकवारं यवैरप्यपरवारमिज्यतामिति गत्यन्तरमाशङ्क्याह –
न चाङ्गानुरोधेनेति ।
प्रकृतौ बृहद्रथन्तरे पृष्ठस्तोत्रसाधनत्वेन विहिते विकल्प्येते , विकृतौ गोसवाख्यैकाहेऽतिदेशेन प्राप्नुतः । तत्रापि विकल्पप्राप्तौ गोसवे उभे बृहद्रथन्तरे कुर्यादित्यङ्गभूतद्बृहद्रथन्तरसाहित्यवचनात् पृष्ठस्तोत्रमावर्तते , बृहतैकवारं रथन्तरेणैकवारमिति । एवमिहाङ्गभूतव्रीहियवानुरोधेन प्रधानाग्नेययागस्याभ्यासो न युक्तः ।
कारणमाह –
अश्रुत इति ।
तत्र ह्युभे कुर्यादित्यङ्गसाहित्यश्रवणात्तस्य च प्रधानस्तोत्रावृत्तिव्यतिरेकेणासंभवात्तात्पर्यवृत्त्या प्रधानाभ्यासः श्रुतः , नैवमत्र व्रीहियवाभ्यां यजेतेति श्रवणमस्ति , येनावृत्तिः स्यादित्यर्थः ।
एवं सत्यङ्गविधिमात्रात्प्राधानावृत्तिः प्रकल्प्या , सा चायुक्तेत्याह –
अङ्गानुरोधेन चेति ।
न हि स्थालानि संपन्नानीति भुक्तवतापि पुनर्भोक्तव्यमेवमिहापीत्यर्थः ।
ननु साहित्याश्रवणेऽप्यङ्गानुरोधेन प्रधानाभ्यासो दृश्यते , यथा सोमेन यजेतेति श्रुतस्य सोमयागस्यैन्द्रवायवं गृह्णाति मैत्रावरुणं गृह्णात्याश्विनं गृह्णातीत्यादिग्रहणरूपाङ्गानुरोधेनावृत्तिरित्याशङ्क्याह –
न चाङ्गभूतेति ।
ननु कथमत्र प्रधानस्याङ्गानुरोधेनाऽवृत्तिः ? यावतैन्द्रवायवादिवाक्येभ्य एव द्रव्यदेवतासंबन्धाभिधानात्तद्द्वाराऽनु मितयागा विधीयन्ते , सोमेन यजेतेति तु तेषां यागानां समुदायानुवाद इत्याशङ्क्याह –
सोमेन यजेतेति हीति ।
इदमत्राकूतम् - न समुदायानुवादत्वम् सोमवाक्यस्य ; प्रत्यभिज्ञानाभावात् , ऐन्द्रवायवादिशब्दा हि रसमभिदधति ; सोममभिषुणोति सोमं प्लावयतीत्यादिवाक्यै रसस्य प्रस्तुतत्वात् । सोमशब्दश्च लतापरः , ततश्च लताविशिष्टयागविधिरयं कथमनुवादकः स्यात् ? प्रत्यक्षे च यागविधावानुमानिकविधिकल्पनाऽनुपपन्न । तस्मात्सोमेन यजेतेत्येवापूर्वविधिः , इतराणि त्विन्द्रवाय्वादिविशिष्टग्रहणाख्यसंस्कारविधायकानीति द्वितीये निरूपितमिति ।
भवत्वपूर्वविधिस्तथापि कथमावृत्तिसिद्धिः ? सोमवाक्यविहितसोमयागे इन्द्रवाय्वादिदेवता विकल्पेन विधीयन्तां , नेत्याह –
तत्र चेत्यादिना ।
एवं ह्यत्र विकल्पः स्याद् , यदीमानि देवताविधानानि द्रव्यं वा सर्वं सकृत् त्युक्तं शक्यम् । न तावद् द्रव्यस्य सकृत् त्यागसंभवो दशमुष्टीर्मिमीते इति विधेः सोमस्य विपुलत्वात् । न च दशापि मुष्टयो लतारूपेण व्यज्यन्ते ; अभिषुणोत्यभिप्लावयति गालयतीत्यर्थ इत्यादिना रसभावेन यागोपयोगावगमात् , तस्य च नियतपरिमाणोदककलशजलैः सेकात् ।
न च सर्वोऽपि रसः सकृत् त्यज्येत , नानादेवतोद्देशेन गृह्यमाणत्वादित्याह –
इन्द्रवाय्वादीति ।
ननु प्रतीन्द्रवाय्वादिकं ग्रहणानि विकल्प्यन्तां , तत्राह –
प्रादेशमात्रेष्विति ।
प्रादेशमात्रेण हि पात्रेण एकैकेनेद्रवाय्वादिभ्यो रसो गृह्यते , न चैकस्मिन्पात्रे कृत्स्नो रसः संमातीत्यर्थः ।
ग्रहणानीत्यस्य व्याख्यानं –
पृथक्वल्पनानीति ।
एवं द्रव्यस्य सकृत्त्यागासम्भवमभिधाय देवताविध्यसंभवमाह –
न तु सोमयागोद्देशेनेति ।
एषु हि वाक्येषु गृह्णातीति ग्रहणान्वयो देवतानामवगम्यते , अतः कथं यागे देवताविधिरित्यर्थः । ग्रहणमात्रे त्वपर्यवसानादर्थाद्देवताना यागान्वयः ।
दशमुष्ठ्यादिग्रन्थं स्वयमेव व्याचष्टे –
न च प्रादेशमात्रमित्यादिना ।
प्रादेशमात्रे ऊर्ध्वत्वप्रतीतिः तर्ह्येव घटते , यदि विस्तारः प्रादेशादूनस्तिर्यक् प्रसारे ह्यूर्ध्वत्वं न स्यात् , ततोऽल्पत्वविशेषणद्वयेनोक्तं –
तुल्यार्थतयेति ।
एकसोमसंस्कारप्रयोजनतयेत्यर्थः ।
लिङ्गदर्शनान्याह –
अत एवेति ।
विकल्पे ह्येक एव प्रयोगः स्यादित्यर्थः ।
समुच्चये सत्युपपद्यमानं क्रमं दर्शयति –
आश्विन इति ।
दशाना ग्रहाणां मध्ये आश्विनो ग्रहणकाले दशमत्वेन गृह्यते , होमकाले तृतीयत्वेन हूयत इत्येतद् विकल्पे सति न युज्यते ; एकत्वेन दशमत्वाद्ययोगात् । तथा विकल्पे सति ग्रहणकाले ग्रहणामैन्द्रवायवाग्रत्वमैन्द्रवायवप्राथम्यवत्त्वं न स्यादेकत्वे प्रथमचरमभावायोगादित्यर्थः ।
नन्वेवमपि ग्रहणान्यावर्तन्तां कथं यागावृस्तिस्तत्र श्रुत्याद्यभावाद् , यतोऽङ्गानुरोधेन प्रधानावृत्तिः स्यादित्याशङ्क्य सामर्थ्यमाह –
तेषां चेति ।
कांचन देवतामिति ।
इन्द्र वाय्वादिनां मध्ये एकामित्यर्थः ।
इह त्विति ।
व्रीहियववाक्ये इत्यर्थः । व्रीहियवसमुच्चये हि यागाभ्यासकल्पना स्यात् , तत्र च प्रमाणाभावादित्यर्थः ।
न केवलं व्रीहियवसमुच्चये प्रमाणाभावः , प्रमाणविरोधोऽपीत्याह –
पुरोडाशस्य चेति ।
पुरोडाशचोदनयैवौषधिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते व्रीहयोऽपि पक्षे प्राप्तास्तत्राप्राप्तांशपूरणार्था व्रीहिश्रुतिर्वीहिभिरेवेति नियमयेत्तत्र यवसमुच्चये व्रीहिश्रुतिबाधः स्याद् , एवं यवश्रुतेरपि नियमार्थत्वाद् व्रीहिसमुच्चये तद्बाध इत्यर्थः ।
एकार्थतयेति ।
एकपुरोडाशार्थतयेत्यर्थः ।
एवं गत्यन्तराभावाद्व्रीहियवयोर्विकल्पमुक्त्वा प्रकृते गत्यन्तरसद्भावाद्विकल्पाभावमाह –
न तु नाडीत्यादिना ।
भाष्ये समुच्चयश्रुत्यनुरोधादसमुच्चयश्रुतिर्नेयेति प्रतिज्ञामात्रमिव भाति , ततोऽभिप्रायं स्फोरयति –
सापेक्षश्रुत्यनुरोधेनेति ।
निरपेक्षता ह्यपेक्षाभाव उत्सर्गः , तस्य सापेक्षताऽपवादिकेत्यर्थः ।
न विकल्प इति ।
विकल्पफलकोऽभ्युच्चय इत्यर्थः ।
एवं तावत्तुल्यबलश्रुत्यभावान्न नाड्यादीनां विकल्प इत्युक्तम् , इदानीमतुल्यार्थत्वाच्च न विकल्प इत्याह –
अभ्युपेत्येत्यादिना ।
जीवोपाधिरन्तःकरणादिर्नाडीपुरीततोराश्रितः , जीवस्तु न क्वापीति कथमाधारत्वेन तुल्यार्थतेत्यथः ।
ननु सर्वदा जीवस्य ब्रह्माभेदे सुषुप्तौ किमित्याधारत्वोपचारस्तत्राह –
उपाधीनामसमुदाचारादिति ।
अव्यक्तेरित्यर्थः ।
ननु तादात्म्यादुपाध्युपशान्तेश्च यथा सुषुप्तौ जीवस्य ब्रह्माश्रयत्वोपचार एवं जीवोपाध्याधारत्वात्सुषुप्तौ नाड्यादेर्जीवाश्रयत्वोपचारोऽस्तु , तत औपचारिकाश्रयत्वेन तुल्यार्थत्वमत आह –
सुषुप्तदशारम्भायेति ।
सुषुप्तिप्राक्काले उपाधिद्वारेण जीवस्य नाड्याश्रयत्वमुपचरितुं शक्यम् , तेन सुषुप्तौ उपाधीनां लीनत्वादित्यर्थः ।
न समप्रधानतयेति ।
समप्रधानत्वे हि नाडीपुरितद्द्ब्रह्मसु त्रिष्वपि जीवस्थानं स्यात् , तदा च्च न ब्रह्मभाव इति समप्राधान्यं निरस्तम् , तन्निरासश्च विकल्पनिरासोपलक्षणार्थमित्यर्थः । नीतार्थं गतार्थम् ।
तद्यत्रैतदिति ।
नाडीष्वादित्यरश्मीनां प्रवेशः पूर्ववाक्य उक्तस्तत्तत्रैवं सति यत्र यस्मिन् काले एतत् स्वप्नं सुप्तः कुर्वन् ओदनपाकं पचतीतिवत् स्वापस्य द्विप्रकारत्वात् सुषुप्तसिद्ध्यर्थं विशेषणम् ।
समस्त इति ।
उपसहृतसर्वकरण इत्यर्थः । विषयसंपर्कजनितकालुष्याभावात् संप्रसन्नः सन् स्वप्नं न विजानाति तदा आसु रश्मिपूर्णासु नाडीषु सृप्तः प्रविष्टो भवतीत्यर्थः ।
सुषुप्तमुत्थाप्य तदागमनावधिमजातशत्रुर्गार्ग्यं प्रति पप्रच्छ –
कुत एतदागादिति ।
एतदागमनं कुत आगात् कृतवानित्यर्थः ॥७॥८॥
इति द्वितीयं तदभावाधिकरणम् ॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥९॥ आत्यन्तिकत्वेनोत्सृष्टा संत्संपत्तिः पुरोदिता । तस्या अविद्याशेषत्वमपवाद इहोच्यते ॥ अथवाऽतः प्रबोधोऽस्मादिति सुषुप्त्यनन्तरं ब्रह्मणः प्रबोधश्रवणात् तदात्मनैव सुषुप्तस्तिष्ठतीत्युक्तं , ततः प्रबोधः तत्संपत्तिं न गमयति सुषुप्तादन्यस्य प्रबोधसंभवेन सुषुप्तस्य नाडीपुरीततोरवस्थानसंभवादित्याक्षिप्यते । अत्र भास्करेण भाष्यकारमतेऽधिकरणानारम्भ उक्तः - येषामीश्वर एव साक्षात्संसारीति दर्शनं न तेषां पूर्वपक्षोऽवकल्पते । नापि सिद्धान्तः ; ईश्वरस्य सुषुप्त्युत्थानादेरदर्शनात् ।
कल्पितस्य च जीवस्य स्वाप्नजीववदुत्थानाद्यसंभवात् - इति , तत्सिद्धान्तानबोधजृम्भितमित्याह –
यद्यपीश्वरादिति ।
अवस्थात्रयानुगामि व्यावहारिकसत्त्वोपेताविद्योपहितजीवस्य स्वप्नकल्पितजीववैलक्षण्यात्स एवोतिष्ठत्त्वन्यो वेति चिन्ता संभवतीत्यर्थः । अत्र पूर्वपक्षोपसंहारभाष्यं - तस्मात्स एवेश्वरोऽन्यो वा जीवः प्रतिबुध्यत इति । तत्र स एवेत्ययुक्तम् ; अनियमेनात्र पूर्वपक्षणात् , स एवोत्तिष्ठतीत्यस्य सिद्धान्तत्वात् ।
अतीतानन्तरभाष्ये च न स एव पुनरुत्थातुमर्हतीत्यभिहितत्वादत आह –
स एवेतीति ।
स एवेत्येतत् पूर्वपक्षत्वेन दुःसंपादमिति यतस्तस्माद्वाशब्दसमनार्थ एवकारः । तथा च स वाऽन्यो वेति व्याख्येयो ग्रन्थ इत्यर्थः ।
ईश्वरो वेति पक्षोपि न स्थिरपूर्वपक्ष इत्याह –
ईश्वरो वेतीति ।
जीववच्चेतनत्वादीश्वरोत्थानसंभावना ।
विमर्शावसर इति ।
किं य एव सत्संपन्नः स एव प्रतिबुध्यते उत स एवाऽन्यो वेति संदेहभाष्ये इत्यर्थः ।
ननु स्मृतिमात्रस्यापि सुप्तोत्थितजीवैक्यगमकत्वमस्ति , न ह्यन्यदृष्टमन्य स्मरति , स्मरति चात्र सुषुप्तो जाग्रद्दृष्टमतः सूत्रे अनुस्मृतीत्यनुशब्दो व्यर्थ इत्याशङ्क्याह –
यद्धि द्व्यहादीति ।
द्वे अहनी द्व्यहः । यत एव सूत्रेऽनुस्मृतिः प्रत्यभिज्ञा , अत एव सोऽहमस्मीति प्रत्यभिज्ञोदाहृता भाष्ये इत्यर्थः ।
भाष्यगतश्रुतिमुदाहृत्य व्याचष्टे –
अयनमिति ।
इणो धातोर्घञि कृते आय इति रूपम् । बुद्धान्ताय बुद्धमध्याय जाग्रदवस्थायै ।
प्रतियोनीति ।
योनिशब्दः स्थानवचनः सन् शरीरमाह –
अनाद्यनिर्वाच्येति ।
अनाद्यनिर्वाच्याया अविद्याया य उपधाने भेदः संबन्धविशेषः स एवोपाधिः , तेन कल्पितो जीव इत्यर्थः ।
यद्यौपाधिको जीवस्तर्हि सुषुप्तावुपाधिनाशान्न पश्यतीत्यत आह –
उपाध्युद्भवेति ।
सुषुप्तादावन्तःकरणाद्युपाधिरभिभूतो भवति , संस्कारात्मनाऽवतिष्ठते , न तु सर्वात्मना न पश्यतीत्यर्थः ।
ननु जाग्रदादावन्तःकरणादि सुषुप्तौ तद्वासनेत्युपाधिभेदाज्जीवभेदः स्याद् , अतः कथं तस्यैव जीवस्योत्थानमत आह –
तस्य चेति ।
अविद्या भ्रान्तिज्ञानं तद्वासना चोपाधी अवच्छेदकौ मृद इव घटशरावादि यस्य सोऽविद्यातद्वासनोपाधिदण्डायमानोऽविद्यालक्षणः , तस्यानादितया कार्यकारणात्मकभ्रमतत्संस्कारभावेन प्रवहतः प्रकृतिविकारयोरभेदान् परिणममानस्य सुविवेकतया तदुपहितो जीवोनादिकालेऽपि सुविवेको ब्रह्मासंकीर्णः सन् सुषुप्त्याद्यवस्था अनुभवतीत्यर्थः । अत एव यथाश्रुतग्रन्थार्थग्राहिभिः कैश्चिद्वाचस्पतिमते सुषुप्तौ भ्रमसंस्कार उपाधिर्जाग्रत्यन्तःकरणादीत्युपाधिभेदादुपहितजीवभेदप्रसङ्गः , संस्कारस्य च सुषुप्तौ न सांकर्यवारकत्वम् । न हि घटसंस्कारो घटाकाशं व्यवस्थापयतीत्याक्षेपौ कृतावनकाशौ ॥
अहरहर्गच्छन्त्य इति ।
अहरहरिति वीप्सा एकस्यैव गत्यागती दर्शयति । ये प्राणिनः सुषुप्ते सत्संपन्नास्त इह जागरिते व्याघ्रो वेत्यादि यद्यद् भवन्ति – उभवन् , त एव सुषुप्तादागत्य भवन्ति ॥९॥
इति तृतीयं कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥
मुग्धेऽर्धसंपत्तिः परिशेषात् ॥१०॥
पूर्वत्र प्रत्यभिज्ञानात् स एवोतिष्ठतीत्युक्तम् , तर्हि विशेषविज्ञानाभावविशेषेणैक्यप्रत्यभिज्ञानात् सुषुप्तिरेव मुग्धिरिति पूर्वपक्षमाह –
विशेषविज्ञानाभावादित्यादिना ।
विकारान्तरे करालवदनत्वादौ सत्यपीत्यर्थः ।
यदि ज्ञानाभावसाम्येन सुप्तिमुग्ध्योरभेदः , तर्हि स्वप्नजागरितयोरपि विशेषविज्ञानसाम्यादभेदः स्यादिति प्रतिबन्दीमाह –
न हीति ।
अथ सत्यप्यप्रयोजकसाम्ये प्रयोजकभेदात् स्वप्नजागरितयोर्भेदः , तर्हि सुषुप्तिमोहयोरप्यविशिष्ट इत्याह –
बाह्येन्द्रियेत्यादिना ।
प्रयोजनभेदमाह –
श्रमापनुत्त्यर्था हीति ।
ननु शरीरपरित्यागार्थश्चेन्मोहस्तर्हि मुग्धः सर्व शरीरं त्यजेदत आह –
यद्यपीति ।
सत्येव मोहे मृतिरित्यस्ति व्याप्तिः , सैव कारणत्वोपयोगिनी , न तु सति भवत्येवेति स्थिरकारणस्वीकारादित्यर्थः ।
यदुक्तं सुखमहमस्वाप्सं दुःखमहमस्वाप्समित्यादिवैलक्षण्यात् सुषुप्तस्यापि भेदप्रसङ्ग इति , तत्राह –
सुषुप्तस्य त्विति ।
निमित्तादीनि श्रमादीन्युक्तान्येव ।
तत्प्रविलयावेति ।
अद्वयब्रह्मात्मत्वप्रतीतिसमये विचारेण तत्प्रविलयायेत्यर्थः ॥१०॥
इति चतुर्थं मुग्धाधिकरणम् ॥
न स्थानतोऽपि हि परस्योभयलिङ्गं सर्वत्र हि ॥११॥
अत्र कश्चिद् - भिन्नाभिन्ने ब्रह्मण्यभिन्नरूपमात्रं चिन्तनीयमित्यनेनाधिकरणेन विचार्यते , न तु भेदो निषिध्यते इति – वदति । तस्य भ्रान्तिज्ञानं ब्रह्मणि स्यात् , नहि रूपरसाध्यात्मके घटे रूपवानेवेति ज्ञानमभ्रान्तं भवति । भिन्नरूपमदृष्ट्वाऽभिन्नरूपं द्रष्टव्यमिति चेत् , तर्हि तस्य भिन्नाकारस्य ज्ञेयत्वेन ब्रह्मण्यनन्तर्भावाद् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपरोधः । भेदस्य चानुपास्यतायां भिन्नाभिन्ने ब्रह्मणि समन्वयनिरूपणं निष्फलम् । ज्ञानार्थो हि समन्वयः । तस्माद् - उपाधितोऽपि भेदस्य मायामात्रत्ववर्णनात् । निर्विशेषमिह ब्रह्मयाथात्म्यं प्रतिपद्यते ॥
प्रपञ्चलिङ्गानामिति ।
प्रपञ्चो लिङ्गं सविशेषब्रह्मणस्तद्याभिः प्रकाश्यते ताः प्रपञ्चलिङ्गाः ।
तस्य चेति ।
निष्प्रपञ्चब्रह्मण इत्यर्थः ।
सिद्धान्तात्पूर्वपक्षस्य विशेषमाह –
न चेति ।
ननु परोपाधिकं किंचित्सत्यं यथा चक्षुरादीनामप्रमाकरणत्वं किंचिन्मिथ्या यथा स्फटिकलौहित्यं तत्र सविशेषनिर्विशेषत्वयोर्यदन्यतरपक्षोपाधिकं तत्सत्यमेवेति कुतो निर्णयः ? तत्राह –
उभयलिङ्गकशास्त्रप्रामाण्यादिति ।
सविशेषतायामपीति ।
पृथिव्याद्युपाधिकसविशेषतायां सत्यामपि यश्चायमस्यां पृथिव्यां सश्चायमध्यात्ममिति तामनूद्यायमेव स इत्यद्वैतप्रतिपादकत्वादित्यर्थः ।
ननु पृथिव्याद्युपाधिकभेद एकत्वं च प्रतीयतामत आह –
एकत्वनानात्वयोश्चेति ।
भवतु तर्हि नानात्वमेव प्रतिपाद्यं , नेत्याह –
एकत्वाङ्गत्वेनैवेति ।
तदेव साधयति –
नानात्वस्येति ।
व्यावहारिकप्रमाणसिद्धभेदानुवादेन पारमार्थिकाभेदप्रतिपादनपरा श्रुतिरित्यर्थः ।
जीवब्रह्मणोरेकत्वमपि सत्त्वाद्यात्मना सिद्धमिति , तत्राह –
एकत्वस्य चेति ।
उपाधिनिषेधेनैकत्वस्यासिद्धेर्विधेयत्वोपपत्तेः - प्रतिपाद्यत्वोपपत्तेरित्यर्थः ।
ननु भवतु निर्गुणब्रह्मसन्निधिसमाम्नातभेदश्रुतीनां निषेध्यभेदानुवादकत्वमेकत्वस्य प्रतिपाद्यत्वाद् , उपासनाप्रकरणपठितभेदश्रुतीनां तु भेदपरत्वमस्तु , एकत्वस्य तत्राप्रतिपादनादत आह –
आकारवद्ब्रह्मेति ।
उपास्तिपरत्वान्न भेदप्रमापकत्वमित्यर्थः ।
ननु द्वा सुपर्णेत्याद्याः श्रुतयः सन्ति भेदप्रतिपादनपरास्तत्राह –
कासांचिच्चेति ।
अस्यां तावद् ऋचि बुध्द्युपाध्यकर्तृत्वनिषेधेन निर्विशेषः प्रत्यगात्मा प्रतिपाद्यते इति पैङ्ग्युपनिषद्व्याख्यातम् । एवमन्यत्रापि द्रष्टव्यम् ॥११॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥
एकदेशिमते द्वितीयाधिकरणे वचनव्यक्तीराह –
किं सल्लक्षणमेवेति ।
एवकारो बोधाद्भेदव्यवच्छेदार्थः । बोधलक्षणमेवेत्यत्र तु बोधस्य सत्ताया भेदव्यावृत्त्यर्थः । ततश्च बोधात्मिका सत्ता सत्तात्मको वा बोधो ब्रह्मेति सिद्धान्तपक्षः प्रदर्शितः । सच्छ्रुतेः सदेवेदमित्याद्याया अवैयर्थ्यार्धं सत्तावच्च ब्रह्म मन्तव्यमित्यर्थः । तदेतदधिकरणवचनम् । अनेन अत्र केचिदित्यादिभाष्येणेत्यर्थः ।
अत्र पूर्वपक्षानुत्थानमाह –
सत्ताप्रकाशयोरिति ।
प्रकाशवच्च ब्रह्मेत्युक्ते किं सत्ताप्रकाशयोरभेद उत भेदः ।
आद्ये सिद्धान्त एवेति न पूर्वपक्षत्वमित्याह –
नोभयलक्षणत्वमिति ।
ब्रह्मण इति शेषः ।
द्वितीये गतार्थत्वमित्याह –
भेद इति ।
शङ्कितो भेदः स्वनिराकारणाय नाधिकरणान्तरं प्रयोजयतीत्यर्थः । पूर्वाभ्युपगमविरोधप्रसङ्गादिति भाष्यार्थोऽपि हेतुः पूर्वपक्षानुत्थान एव ; पूर्वाधिकरणसिद्धान्ते स्थिते तद्विरोधेन पूर्वपक्षानुत्थानादित्यर्थः । यश्च सत्ताप्रकाशयोरेकत्वं कृत्वा सद्बोधात्मकं ब्रह्मेति सिद्धान्तः सोऽप्ययुक्तः ; तथा सद्बोधशब्दयोः पर्यायत्वप्रसङ्गात् ।
कथं तर्हि सिद्धान्ते अखण्डत्वसिद्धिः ? अत आह –
परमार्थतस्त्विति ।
अनिर्वाच्यभेदाभ्युपगमात्र पर्यायता । परमार्थतस्तु ब्रह्मणो लक्ष्यस्याभेद एव , यथा प्रकृष्टप्रकाशश्चन्द्र इत्यत्र प्रकर्षप्रकाशाभ्यां लक्ष्यमाणचन्द्रस्यैकत्वं तद्वदित्यर्थः । प्रपञ्चितं चैतदस्माभिर्जन्मादिसूत्रे (ब्र.अ.१.पा.सू.२) ।
भाष्यमुपादाय व्याचष्टे –
सर्वेषां चेति ।
प्रयाजनियोगानामपि समिधो यजतीत्याद्याख्याताभिहितानां दर्शपूर्णमासनियोगाद्भेदाद्भाष्यायोगमाशङ्क्याह –
अधिकाराभिप्रायमिति ।
अधिकारः परमापूर्वं तदेकमिति तदपेक्षयैकनियोगत्वम् । अनुबन्धोनियोगावच्छेदको धात्वर्थः । स हि प्रयाजादावाग्नेयादौ च द्रव्यदेवतादिभेदाद् भिन्न इति । कुरु प्रपञ्चप्रविलयमिति प्रवर्तितो न शक्नोति प्रबिलयं कर्तुम् , प्रवर्तस्वात्मज्ञाने इति प्रवर्तितश्च न शक्नोत्यात्मज्ञानं कर्तुमित्यपि द्रष्ठव्यम् ।
अयं ज्ञातव्योऽर्थ इति विधिद्वारेणैव वाक्यस्य विवक्षितार्थत्वमित्याशङ्क्याह –
न चास्येति ।
अधिकारिणः इत्यर्थः ।
मा भूच्छाब्दज्ञाने विधिः , शब्दादेव तस्योत्पत्तिः ध्याने साक्षात्कारे वाऽस्तु तत्राह –
न चेति ।
जर्तिलेति ।
दशमे स्थितम् - ‘‘न चेदन्यं प्रकल्पयेत्प्रक्लृप्तौ चार्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च’’ (जै.अ.१०.पा.८.सू.७) अग्निहोत्रं प्रकृत्याधीयते – जर्तिलयवाग्वा जुहुयाद् गवीधुकयवाग्वा वा जुहुयाद् न ग्राम्यान्पशून् हिनस्ति नारण्याननाहुतिर्वै जर्तिलाश्च गवीधुकाश्च पयसाऽग्निहोत्रं जुहुयादिति । तत्र किं जर्तिलगवीधुकवाक्ये विधि , अनाहुतिरिति च प्रतिषेधः , पयसेति च विध्यन्तरम् । उत पयसेत्येव विधिरितरस्तदर्थोऽर्थवाद इति । तत्र अनाहुतिरिति निन्दाया निषेधशेषत्वेन विधिशेषत्वायोगान्निषेधं परिकल्प्य विधिनिषेधसमावेशाद्विकल्प इति प्राप्ते सिद्धान्तः । अनाहुतिरित्येतन्निषेधं प्रकल्पयेद् यद्यन्यं विधिं स्वशेषित्वेन न कल्पयेत् । कल्पयति त्विदं पयसेति विधिं स्वशेषित्वेन । प्रक्लृप्तौ चार्थवादः स्यात् । विध्येकवाक्यता हि प्रत्यक्षवाक्यभेदापादिकां प्रतिषेधकल्पना वारयति । किं च कल्पितेऽपि प्रतिषेधे विकल्पः स्यात् । जर्तिलगवीधुकयवागूभ्यां होतव्यं न होतव्यमिति । तत्र प्रतिषेधकल्पनस्यानर्थक्यम् ; होमार्थत्वेन जर्तिलगवीधुकपयसां विधिभिरेव विकल्पसिद्धेः ।
ननु निन्दायाः प्रतिषेधशेषत्वात् कथं विधिशेषत्वमत उक्तं –
परसामर्थ्याच्चेति ।
परेण पयोहोमविधिना एकवाक्यत्वसामर्थ्याच्चेत्यर्थः । इह हि ग्राम्यारण्यपशुहिंसाविरहाज्जर्तिलगवीधुकहोमः प्रशस्ततया कीर्त्यते । तदनु ततो पयोहोमस्य प्रशस्ततरत्वार्थमनाहुतिवाक्येन जर्तिलगवीधुकहोमौ निन्द्येते तस्मादर्थवाद इति ॥ निष्प्रपञ्चमुक्तम् एकदेशिनाऽपि न स्थानतोऽपी (ब्र.अ.३.पा.२.सू.११) त्याद्यधिकरणे इत्यर्थः ।
नियोज्य आकाशादिप्रपञ्चान्तर्भूतो ब्रह्मैव वा ब्रह्मण औपाधिकावच्छेदो वेति विकल्पान् क्रमेण निरस्यति –
स चेत्यादिना ।
त्वया विज्ञाते ब्रह्मणि तज्ज्ञानेन प्रपञ्चप्रविलयः साध्य इति वक्तव्यम् । तदा च ज्ञानजन्मानन्तरमेव नियोज्यस्योच्छिन्नत्वन्नियोगासिद्धिरित्यर्थः ।
तत्त्वप्रतिपादनस्य ज्ञानोत्पत्तावव्श्यापेक्षणीयत्वमुक्त्वा विधौ तदभावमाह –
न च ज्ञानाधान इति ।
साध्यानुबन्धभेदादिति ।द्वेधा हि प्राभाकराणां शास्त्रभेदः , साध्यभेदादनुबन्धभेदाच्च । तत्र साध्यं सप्तविधम् - उत्पत्तिप्राप्तिसंस्कृतिविकृतिकरणोपकारकरणावान्तरव्यापाराधिकाररूपम् । संयवनस्य पिण्ड उत्पाद्यः । दोहनस्य पयः प्राप्यम् । प्रोक्षणस्य व्रीहयः सत्कार्याः । अवघातस्य त एव विकार्याः । प्रयाजादीनां दर्शपूर्णमासादिकरणानि प्रत्युपकारः साध्यः । आग्नेयादीनां प्रत्येकं करणावान्तरव्यापाररूपाण्यपूर्वाणि साध्यानि । सर्वेषा चैषामधिकारापूर्वं परमसाध्यमिति । तैः साध्यैर्नियोगाः पिष्टं संयौतीत्यादिशास्त्राणि भिद्यन्ते । तथा द्रव्यदेवतादिरूपभेदाद्धात्वर्थभेदस्ततश्च नियोगावच्छेदकधात्वर्थात्मकविषयभेद इति । अस्यां पृथिव्यामधिदैवं यस्तेजोमयश्चिन्मात्रस्वरूपोऽमृतमयोऽमृतस्वरूपः पुरुषो यश्चायमध्यात्मं शरीरे भवः शारीरस्तावुभावपि सर्वेषां भूतानां मधु उपकारकौ तयोश्च सर्वाणि भूतानि मध्वित्यनुषज्यते । चशब्दादियं पृथिवी सर्वेषां भूतानां मद्वित्युपक्रमाच्च सोऽधिदैवाध्यात्मवच्छिन्नः पुरुषोऽयमेव योऽयमात्म सर्वकारणभूत इत्यर्थः । शास्त्राचार्यसंस्कृतमनसैवेदं ब्रह्माप्तव्यं ज्ञातव्यम् । ज्ञाते त्विह ब्रह्मणि किंचन किंचिदपि न नास्ति । यस्त्वविद्यया नानेव आभासं नानारूपं पश्यति स मृत्योर्मरणान्मृत्युं मरणं गच्छति । पुनःपुनर्म्रियते इत्यर्थः । यो भोक्ता जीवस्तं भोग्य शब्दादिप्रेरितारमीश्वरं च मत्वा विचार्य त्रिविधमेतद्ब्रह्म प्रोक्तम् । ब्रह्ममिति च्छान्दसम् । ब्रह्म मे तु मामितिवद् मे मम तद्द्ब्रह्म प्रोक्तमिति वा ।
तदेतदिति ।
तद् ब्रह्म सर्वकारणमेतदेवात्मरूपं तद्द्ब्रह्म विशेष्यते । पूर्वं कारणं तस्य न विद्यते इत्यपूर्वम् । स्वयं कार्यं न भवतीत्यर्थः । परं कार्यमस्य न विद्यते इत्यनपरम् । स्वयं च न कार्णमित्यर्थः । एवंविधमेतज्जातीयमन्यदस्य नास्तीति अनन्तरं तथा एवंविधं बाह्यं विजातीयमस्य च नास्तीत्यबाह्यम् ।
एवं तावदपूर्वादिलक्षणं ब्रह्मानूद्यात्मत्वं विहितम् , संप्रत्यात्मानुवादेन ब्रह्मत्वं विदधाति –
अयमिति ।
य आत्माऽयं ब्रह्मेत्यर्थः । स आत्मा किंलक्षणोऽत आह – सर्वानुभूः साक्षिरूपेण सर्वमनुभवतीति सर्वानुभूः । अधीह्यध्यापय भो भगवन् । आदिरस्य विद्यत इत्यादिमत्तद् न भवतीत्यनादिमत् सत् कारणम् असत्कार्यं च तद्रूपेण ब्रह्म नोच्यते । पुरः पुराणि । द्विपदो द्विपदोपलक्षितानि शरीराणि चक्रे । पुरः पुरस्ताच्चक्षुराद्यभिव्यक्तेः पूर्वमेव स च ईश्वरः पक्षी लिङ्गशरीरस्य तैत्तरीयादौ पक्षपुच्छादिसंपादनात् पक्षीति लिङ्गशरीरमुच्यते , तदभिमानी भूत्वा पुरः सृष्टानि शरीराणि पुरुष आविशत् प्रविष्ट इति ॥२१॥
इति पञ्चममुभयलिंगाधिकरणम् ॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥ निषेधश्रुतिभिर्ब्रह्म निर्विशेषं निरूपितम् । तासां ब्रह्मनिषेद्धृत्वमिहाशङ्क्य निरस्यते ॥ अथवा - सन्मात्रं ब्रह्म सामान्यं तद्विशेषानपेक्षते । निषेधेषु निषेद्धेषु नास्ति ब्रह्मेति शङ्क्यते ॥
श्रुतिगतवावशब्दार्थमाह –
द्वे एवेति ।
समुच्चये सत्येवकारो विरुध्यते तन्मात्रावधारणस्य तदितरसमुच्चयस्य च विरोधादित्याशङ्क्याह –
समुच्चीयमानावधारणमिति ।
सर्वदा द्वे अपि रूपे मिलिते एवेत्यर्थ एवकार इत्यर्थः । एषा अत्र श्रुतिः - द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येषः रसः , अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्सत्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एव एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इति ।
अस्यां श्रुतौ तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चेत्येतद्व्याचष्टे –
पृथिव्यप्तेजांसीति ।
मूर्च्छनं स्थूलीभावः ।
तत्र हेतुः –
इतरेतरानुप्रविष्टावयवमिति ।
पटादेर्हि तन्त्वाद्यवयवा इतरेतरमनुप्रविष्टा दृश्यन्ते , ततश्च तन्त्वाद्यवस्थातः स्थूलाश्च । यद्यपि वायोरपीदं तुल्यम् ; तथापि प्रत्यक्षेणानुग्रहणादनादरः श्रुतेः , यदिति गच्छदित्यर्थः । ततश्चैकत्रैव च न तिष्ठतीति व्यापीत्यर्थः । त्यच्छब्दः सर्वनामतच्छब्दसमानार्थः । त्यदिति वक्तव्ये त्यमिति छान्दसम् ।
यद्यपि पञ्चभूतकार्यं हिरण्यगर्भः ; तथाप्यमूर्तभूतद्वयस्य हिरण्यगर्भस्य च रसरसिभावे सामान्यहेतुः श्रुतिगतहिशब्देन विवक्षितस्तं दर्शयति –
नित्यपरोक्षतेति ।
रसत्वमत्र कार्यत्वम् ।
एवमधिदैवतं हिरण्यगर्भमधिकृत्य मूर्तामूर्तव्यवस्थामुक्त्वाऽऽध्यात्मिकविषयां श्रुतिमथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश इत्याद्यामुदाहरति –
अथाध्यात्ममित्यादिना ।
यश्चायमन्तरात्मन्नन्तःशरीरे आकाशस्तस्मात्प्राणाच्च यदन्यत्तन्मूर्तमिति श्रुतियोजनामभिप्रेत्योक्तं –
यदन्यत् प्राणान्तराकाशाभ्यामिति ।
आध्यात्मिकत्वसिद्ध्यर्थमाह –
शरीरारम्भकमिति ।
चक्षुरिति गोलकमात्रम् ।
ननु चैतन्यव्याप्तं लिङ्गशरीरं स्थूलशरीरे सर्वत्र वर्तते , तत्र कथं दक्षिणमक्ष्याधारत्वेनोक्तमत आह –
लिङ्गस्य हीति ।
लिङ्ग्यतेऽनुमीयते इति लिङ्गम् ।
अनुमानप्रकारमाह –
करणात्मकस्येति ।
रूपाद्युपलब्धिभिः क्रियाभिः करणत्वेनानुमीयत इत्यर्थः । आध्यात्मिकचक्षुरादेराधिदैविकहिरण्यगर्भादित्यादिव्यष्टित्वाद्धिरण्यगर्भस्येत्युक्तम् । अथवा - अनुग्राहकत्वेन हिरण्यगर्भस्य चक्षुष्यप्यवस्थानमुक्तं विशेषावस्थानमदृष्टमपि शास्त्रीयमस्तीत्यर्थः ।
ब्रह्मण औपाधिकयोरिति ।
ब्रह्मण उपाधिरज्ञानं तत्र भवत इत्यौपाधिके तयोरित्यर्थः ।
कार्यकरणभावेनेति ।
कार्य शरीरं , करणमिन्द्रियम् ।
सत्यशब्दवाच्ययोरिति ।
सदिति त्यमिति च शब्दवाच्ययोरित्यर्थः ।
एवं मूर्तामूर्ते प्रतिषेध्ये दर्शयित्वा वासनामयं रूपं निषेध्यं दर्शयति –
अथेदानीमिति ।
मूर्तामूर्तविषयानुभवजनितवासनाजन्यविज्ञानविषय इत्यर्थः । तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा पाण्डवाविकमित्यादिदृष्टान्तैरुपमां दर्शयतीत्यर्थः । महारजनं हरिद्रा तया रक्तं माहारजनम् ।
नन्वनुद्भूतरूपं लिङ्गशरीरं , तस्य कथं हारिद्रादिरूपतुल्यरूपसंभवः ? अत आह –
एतदुक्तं भवतीति ।
वासनाजन्यभ्रान्तिवशाद्रूपाध्यासयोग्यः कोऽप्याकारो लिङ्गशरीरैक्येनारोप्यते , तन्निष्ठाः स्वप्ने रूपभेदाः प्रकाशन्त इति प्रतिषेध्यं रूपं प्रदर्श्य प्रतिषेधावधिभूतं रूपि ब्रह्म दर्शयति श्रुतिरित्याह –
तदेवमिति ।
सत्यरूपमिति ।
व्यावहारिकसत्यं ब्रह्मणो रूपमित्यर्थः । अथात आदेश इत्यत्रान्तःशब्दार्थमाह – यत इति तदुक्तिहेतुकमित्यन्तेन ।
मध्ये अथशब्दार्थमाह –
तस्यानन्तरमिति ।
सत्यसत्यस्येति ।
व्यावहारिकस्य सत्यस्य प्रपञ्चस्य यः सत्य आत्मा तस्येत्यर्थः ।
न ह्येतस्मादिति नेत्यपरमस्तीत्युत्तरवाक्यं व्याचष्टे –
ननु किमेतावदेवेति ।
इति नेत्यादिष्टादेतस्मादन्यत्परमुत्कृष्टं न ह्यस्तीति वाक्ययोजना दर्शिता । एवंशब्दस्यार्थ एवार्थो यस्य स एवमर्थस्तेन । इतिना इतिशब्देनेत्यर्थः ।
तदवच्छेदकत्वेनेति ।
कस्य रूपद्वयमित्यपेक्षायां ब्रह्मण इत्येवंरूपेण विशेषणत्वेनेत्यर्थः । अथ सवासनं रूपद्वयमित्यत्रापि प्रतिषिध्यत इत्यनुषङ्गः ।
ब्रह्मप्रतिषेधेन पूर्वपक्षस्यानुत्थानमाशङ्क्याह –
यद्यपीत्यादिना ।
सद्बोधरूपमिति ।
बोधत्वेन रूपेण विशेषात्मकत्वमुक्तं , सदिति सामान्यात्मत्वम् ।तच्च सवासनमूर्तामूर्तसाधारणत्वेन व्यक्तीकृतम् । निर्विशेषं यत्तत्सामान्यं न भवेदिति योजना ।
उपासनाविधानवदिति ।
यथा नाम ब्रह्मेत्युपासीतेत्यादावब्रह्मणि ब्रह्मत्वेनोपासना विधीयते , एवमसत्येवास्तीत्युपलब्धिदृष्टिर्विधीयते , इतिशब्दशिरस्कत्वाविशेषादित्यर्थः ।
तत्प्रशंसार्थमिति ।
अस्तित्वदृष्टिविधिप्रशंसार्थमसन्नेव स भवति असद्द्ब्रह्मेति वेद चेदित्यसद्भावज्ञाननिन्देत्यर्थः । संभन्त्स्यते संबद्धो भविष्यति ।
कंचिद्धर्मिणमनाश्रित्य निषेधायोगात्पक्षान्तरमाह –
अथवेति ।
ननु षष्ठ्यन्तशब्दादुपसर्जनत्वेन प्रस्तुतं ब्रह्म कथं निषेधेन संबध्यते ? तत्राह –
योग्यत्वादिति ।
अप्रमितत्वमेव निषेधयोग्यत्वम् ।
ननु विशेषाणां निषेधे सामान्यस्याप्ययोगाच्छून्यवादप्रसङ्ग इत्याशङ्क्य सामान्यविशेषभावो ब्रह्मगतोऽसिद्ध इत्याह –
उपाधय इति ।
शोणो लोहितः । कर्क ईषल्लोहितः । निर्विशेषं सामान्यं न भवेदित्युक्तं , तत्र निषेधेन निषेध्यसत्ता निषिध्यते , सा किमर्थस्वभावभूता उत प्रमाणसंबन्धात्मिका ।
द्वावपि पक्षौ नेत्याह –
अभावोऽप्रतीतिर्वेति ।
शशविषाणायमानता शशविषाणतुल्यता ।
ननु न वयं विशेषात्मजगन्निषेधेनार्थाद् ब्रह्मनिषेधं ब्रूमः , किंतु रूपद्वयवत् सन्निधानाविशेषाद्द्ब्रह्मणोऽपीतिशब्देन प्रतिषेध्यत्वेनोपात्तत्वात्साक्षादुभयनिषेधमित्यत आह –
न चेतीति ।
भावमनाश्रित्याश्रयत्वेनानुपादाय प्रतिषेधो नोपपद्यते इति , प्रतिषेधसत्ताया आश्रयापेक्षां व्यतिरेकमुखेनोक्त्वाऽन्वयमुखेनाप्याह –
किंचिद्धीति ।
प्रतीतावप्यभावस्याश्रयापेक्षामाह –
न ह्यनाश्रय इति ।
वेदान्तेषु ब्रह्मप्रतिपादनस्य निषेध्यसमर्पकतायाः पूर्वपक्षे उक्तत्वाद् ब्रह्म ते ब्रवाणीत्याद्युपक्रमविरोधादित्याभाष्योक्तहेतुना शङ्कितान्यथासिद्धीना सिद्धवद्ब्रह्मप्रतिषेधवारकत्वायोगं मत्वा भाष्येऽर्थात्सूचितं हेतुं विवृणोति –
युक्तमित्यादिना ।
नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यत इति यत्तद्युक्तमित्यर्थः । किं भ्रमसिद्धं ब्रह्म प्रतिषिध्यते , उत प्रत्यक्षादिसिद्धम् , आहो शास्त्रसिद्धम् ।
नाद्य इत्याह –
ब्रह्म त्विति ।
सद्रूपत्वेन निर्वचनीयत्वादित्यर्थः ।
न द्वितीय इत्याह –
नापीति ।
तृतीयमनूद्य दूषयति –
तस्मादिति ।
ननु शास्त्रप्रमितेऽपि प्रतिषेधः प्रमाणवान् भवेद् , विधिप्रतिषेधयोस्तुल्यबलत्वेन विकल्पसंभवादित्याशङ्क्याह –
न च पर्युदासेति ।
पर्युदासाधिकरणं गुणोपसंहारे ‘हानौ तूपायनशब्दशेषत्वा ‘ (व्या.सू.अ.३.पा.३.सू २६) दित्यत्र स्वयमेवानुक्रमिष्यति , तत्रैव तत्पूर्वपक्षोऽपि द्रष्टव्यः । तत्र यथा विधिप्राप्तस्य यागेषु येयजामहकरणस्य सर्वात्मना नानूयाजेष्विति प्रतिषेधेन वारयितुमशक्यत्वाद् अनुयाजेषु येयजामहविकल्पः , एवमत्र सत्त्वासत्त्वयोर्न विकल्पः , वस्तुनि तदयोगात् । पुरुषप्रवृत्तिनिवृत्त्योः प्रागेव तस्यैकरूपत्वेन सिद्धत्वादित्यर्थः ।
यच्च वाङ्मनसागोचरत्वेन प्रमाणविरोधाभावाद् ब्रह्मणः प्रतिषेध इत्युक्तं , तन्न ; तथा सति योग्यप्राप्त्या निषेधायोगादित्याह –
न चासत्यादिति ।
अयं हि निषेधः सन्निहितप्रपञ्चविषयत्वेन निराकाङ्क्षो न दूरस्थेन ब्रह्मणा संबध्यते । यद्यपि ब्रह्मणोऽपि सन्निधानमविशिष्टं , बृहदारण्यके एतन्निषेधं प्रति ; तथापि षष्ठ्यन्तत्वेनोपसर्जनत्वान्न तस्य निषेधेन संबन्ध इति वक्ष्यति प्रधानं प्रकृतमिति ग्रन्थेन ।
सन्निहितमपि प्रपञ्चं प्रमाणाविरोधादुपेक्ष्य प्रतिषेधो दूरस्थं ब्रह्माकाङ्क्षतीतुआशङ्क्याह –
यच्चेति ।
ब्रह्मनिषेधेऽप्यस्ति प्रमाणाविरोधः , वेदान्तानां तत्र प्रमाणत्वादित्याह –
प्रतिपादयन्ति वेदान्ता इति ।
अनुपपत्तेरिति ।
शास्त्रप्रमितनिषेधे हि विकल्पः स्यात्तस्य च वस्तुन्यनुपपत्तिरित्युक्तम् इत्यर्थः ।
अधस्तादिति ।
नापि ब्रह्मप्रतिषेध उपपद्यत इति भाष्य इत्यर्थः ।
तर्हि तेनैव बाङ्मनसातीतत्वमपीति भाष्यं पुनरुक्तमित्याशङ्क्याह –
इदानीं त्विति ।
तेन भाष्येण शास्त्रप्रमितस्य निषेधानुपपत्तिरुक्ता , अनेन तु निषेद्धुमिष्टस्य प्रतिपादनवैयर्थ्यम् । अत्र लिङ्गं भाष्ये प्रक्षालनाद्धीति न्यायोदाहरणमित्यर्थः ।
प्रक्रियाशब्दस्य व्याख्या –
उपक्रम इति ।
वाङ्मनसगोचरत्वे निषिद्धे तथैव मनसि स्थिरीकृते स्वयंज्योतिरात्मा स्फुरतीत्युपक्रमत्वम् । प्रधानं प्रकृतमिति प्रकर्षेण कृतं प्रकाशितं प्रकृतं प्रकर्षः प्राधान्यमित्यर्थः । न ब्रह्मेत्यत्र प्रधानं प्रकृत्तमित्यनुषङ्गः ।
सूत्रे ततःशब्दादुपर्यन्यदित्यध्याहरति –
ततोऽन्यदिति ।
इतरथा हि ब्रवीतीत्युक्ते किं ब्रवीतीति न ज्ञायेतेति ।
ततःशब्दार्थमाह –
नेति नेतीति प्रतिषेधादिति ।
प्रतिषेधादभावादन्यद्भावरूपं ब्रह्म ब्रवीतीत्यर्थः ।
प्रतिषेधादन्यद्वस्तु ब्रुवाणं वाक्यमुदाहरति –
निर्वचनं न ह्येतस्मादितीति ।
नेति नेतीति प्रतिषेधनिबन्धनरूपं न ह्येतस्मादिति वाक्यमित्यर्थः ।
अस्य वाक्यस्यार्थद्वैविध्यमुपादायाभावादन्यप्रतिपादकतामुक्तामुपपादयति –
अस्येति ।
न ह्येतस्मादित्येतद्व्याचष्टे –
इति नेति ।
इत्यादिष्टादिति ।
नेति नेत्येवंरूपेणादिष्टाद् ब्रह्मणोऽन्यन्नास्ति , परम् अप्रतिषिद्धं ब्रह्म त्वस्तीत्यर्थः ।
धेयप्रत्ययः स्वार्थिक इत्याह –
नामेति ।
स्थूलशरीरापेक्षया प्राणप्रधानस्य लिङ्गशरीरस्य स्थायित्वात् सत्यत्वमुच्यत इत्याह –
माहारजनादीति ।
महारजनादीनिरूपाण्युपहितानि निक्षिप्तानि यस्मिस्तथोक्तम् । उपमितमिति पाठो यद्यस्ति तदा सुगमम् ।
इतरापेक्षयेति ।
स्थूलशरीरापेक्षयेत्यर्थः । तदिति तस्मादर्थे ॥२३॥२४॥२५॥२६॥
अहिकुण्डलसूत्रस्य (ब्र.अ.३.पा.२.सू.२७) प्रकाशाश्रयवद्वेति (ब्र.अ.३.पा.२.सू.२८) सूत्रस्य च भेदाभेदविषयत्वसाम्यात्पौनरुक्त्यमाशङ्क्याह –
विषयभेदादिति ।
अहिरेकः कुण्डलभोगादयः परस्परं भिन्ना इति भेदाभेदौ भिन्नविषयौ , तदिदमुक्तं कुण्डलादीत्यादिशब्देन । सवितरि तु प्रकाशस्य गुणस्य द्रव्यस्य च परस्परं भेदाऽभेदौ न च वस्त्वन्तरापेक्षयेत्येकविषयत्वम् ।
एकविषयत्वे हेतुमाह –
सर्वदेति ।
विरोधे हि विषयव्यवस्था सदाऽनुभूयमानत्वादविरोध इत्येकविषयत्वमित्यर्थः ॥२७॥२८॥
भेदाभेदौ भिन्नविषयापिति पक्षं दूषयति –
यस्य मतमिति ।
न तावदेवं भेदाभेदौ निर्वक्तुं शक्यौ ; कुण्डलादयो भिन्ना अहिश्चानुयायी एक इति अत्यन्तभेदवादिभिरपि तथेष्टत्वात् । तस्मादेकस्य वस्तुनो द्वाब्यामाकाराभ्यां भेदाभेदौ इति निरूवणीयम् । तत्राहित्वमनुवृत्ताकारः कुंडलत्वं व्यावृत्ताकारः । तदात्मना चेत्तदुभयाश्रयस्य वस्तुनो भेदाभेदाविष्येते , तदा तावकारौ वस्तुनो भिन्नो चेत्तर्ह्यहित्वकुण्डलत्वे परस्परम् भिन्ने वस्तुनि समवेते इति वक्तव्यं , न तु वस्तुनस्तदात्मना भेदाऽभेदावित्यर्थः । अहित्वेनेत्याद्यास्तृतीया इत्थम्भावार्थाः ।
प्रकाशाश्रयवद्भेदाभेदौ निषेधति –
न चेति ।
भावाभावयोर्हि स्वाभाविको विरोधस्तदनुषङ्गादन्यत्रेति स्थितिः ।
तत्र भेदतदभावयोर्यद्यविरोधः , तदा क्वापि विरोधो न स्यादित्याह –
परस्परविरुद्धयोरिति ।
ननु सवितृप्रकाशगतभेदाभेदयोः सहानुभवादविरोध इत्युक्तम् इति , तत्राह – न चेति ॥२९॥३०॥ आत्मा न चक्षुषा गृह्यते नापि वाचा शब्दोच्चारणद्वारेणाभिधीयते । नान्यैर्देवैरिन्द्रियैर्गृह्यते तपसा कृच्छ्रादिना कर्मणाऽग्निहोत्रादिना न गृह्यते , इति नेति नेतीति य आत्मा व्याख्यातः , स एषोऽगृह्योऽग्राह्यः , यस्मान्न हि गृह्यते ग्रहणायोग्यः प्रत्यगात्मत्वादित्यर्थः । स्वयंभूरिश्वरः । खानि खं श्रोत्रमाकाशारब्धत्वात्तदुपलक्षितानि सर्वेन्द्रियाणि , पराञ्चि बहिर्विषयाणि यथा भवन्ति तथा , व्यतृणद्धिंसितवान् तस्माद्धेतोः पराडेव पश्यति सर्वो लोकः , नान्तरात्मन् अन्तरात्मनि विषये न पश्यति । कश्चित्तु धीमान् विवेकी प्रत्यगात्मानमैक्षत् ईक्षितवान् , आवृत्तचक्षुरुपरतेन्द्रियः । किमर्थम् - अमृतत्वमिच्छन् । ज्ञायतेऽर्थोऽनेनेति ज्ञानमन्तःकरणं तस्य प्रसादो रागादिराहित्यं तेनविशुद्धसत्त्वः प्रत्यक्प्रवणान्तःकरणस्ततस्तु विशुद्धसत्त्वाद्धेतोः , तमात्मानं निष्कलं निरवयवं ध्यायमानः पश्यति ।स्मृतौ योगात्मन इति योगगम्यात्मन इत्यर्थः । परात्कारणात्परं दिव्यं स्वप्रकाशं यः सर्वान्तरः सर्वाधिष्ठानभूतः , एष त आत्मा स्वरूपम् ॥
इति षष्ठं प्रकृतैतावत्त्वाधिकरणम् ॥
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥३१॥ नेति नेत्यपूर्वमनपरमेकमेवाद्वितीयमित्यादिवाक्यैरद्वितीयत्वं ब्रह्मणः साधितम् ।
कथमिह ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमाशङ्क्यते ? न च सेतुशब्दादाशङ्का ; द्युभ्वाद्यधिकरणे (ब्र.सू.अ.१.पा.३.सू.१) तस्य नीतत्वादित्याशङ्कामुद्भाव्य निरस्यति –
यद्यपीति ।
द्युभ्वाद्यधिकरणे हि सेतुशब्दस्य पूर्वपक्षेऽप्यमुख्यार्थत्वाद्विधरणत्वमर्थ आश्रितः , इह तून्मानसंबन्धभेदव्यपदेशाना पूर्वपक्षे मुख्यार्थलाभात्तेषां वक्ष्यमाणा गतीरजानतः पूर्वपक्ष इत्यर्थः ।
तदिदमुक्तं –
सेत्वादिश्रुतीनामिति ।
आदिशब्देन न केवलं सेतुश्रुतिस्तदाद्या अन्या अपि सन्त्यनिर्णीतार्था इत्यर्थः । पूर्वं च प्रतिषेधादन्यस्य ब्रह्मणः श्रुत्योक्तत्वादस्ति ब्रह्मेत्युक्तम् । अस्मिन् ब्रह्मव्यतिरिक्तस्यापि श्रुत्योक्तत्वाद् ब्रह्मव्यतिरिक्तमस्तीति प्रत्यवस्थीयते । जाङ्गलं वातभूयिष्ठम् इति वैद्योक्तत्वाद्वातबहुलदेशो जाङ्गलम् ।
भाष्ये –
तुल्यन्यायत्वात्स्थलमात्रमुक्तमित्याह – स्थलमिति ।
उन्मानव्यपदेशविवरणार्थं ब्रह्म चतुष्पादित्यादि भाष्यं , तच्छान्दोग्यश्रुत्युक्तषोडशकलविद्यासंबन्धिपादशफोदाहरणेन व्याचष्टे –
प्रकाशवदित्यादिना ।
गवां हि पादेषु पुरतो द्वौ खुरौ पृष्ठतश्च द्वे पार्ष्ण्यौ भवतः । तत्र पुरतोऽर्धं पश्चादर्धं च शफशब्देनोच्यते । ततोऽष्टाशफम् । एकैकस्मिन् पादे कलाचतुष्टयमिति षोडशकलम् ।
पादस्य प्रकाशवत्त्वसमाख्यायां हेतुमाह –
एतदुपासनायामिति ।
प्रकाशवान्भवतीति फलश्रुतिं व्याचष्टे –
मुख्य इति ।
कीर्तिमान् हि सर्वत्र मुख्यो भवतीत्यर्थः ।
प्राण इति ।
प्राण इह घ्राणेन्द्रियम् ; तस्य प्राणसहचरस्य गान्धग्राहकत्वात् ।
मन आयतनमाश्रित्येति ।
गन्धादिविषयज्ञानाश्रयमाश्रित्यैतेनाधिष्ठितानि भूत्वेत्यर्थः । अतः परमन्यदमितमस्तीति भाष्यं , तदनुपपन्नमिव ; अन्यत्वे सत्यमितत्वानुपपत्तेः ।
अत उचितशङ्कां कृत्वा अवतारयति –
स्यादेतदस्तिचेदिति ।
अस्ति चेदन्यदित्यनुषङ्गः । परिसंख्याय गणयित्वा ।
भाष्ये गम्यते इति पदं व्याचष्टे –
प्रमाणसिद्धमिति ।
संख्यातुमशक्यानि वस्तूनि ब्रह्मणोऽन्यानि सन्तीति भाष्यार्थमाह –
न त्वेतावदिति ।
अथ य एषोऽन्तरादित्य इत्यथ य एषोक्षणीति च भेदव्यपदेशं व्याचष्टे –
आधारत इति ।
तस्यैतस्य तदेव रूपं यदमुष्य रूपमित्यादिभेदव्यपदेशं व्याकरोति –
अतिदेशात् इति ।
ये वाऽमुष्मात्पराञ्चो लोका इत्यादिभेदव्यपदेशं व्याख्याति – अवधितश्चेति ॥३१॥
न केवलं जगत उपादानत्वेन ब्रह्म धारकम् , किंतु नियन्तृत्वेनापीत्याह –
तन्मर्यादानाम् चेति ।
अतिचपला अनियतचेष्ठाः स्थूलाश्च बलवन्तश्च कल्लोलास्तरङ्गास्तेषां मालास्ताभिः कलिलः क्षोभितो जलनिधिः स इलापरिमण्डलं भूमण्डलमवगिलेद् प्रसेद् यदि ब्रह्मभुवं न धारयेदित्यर्थः । यदि च ब्रह्म जगन्न धारयेत् , तर्हि स्फूर्जन्त्यो दीप्यमाना ज्वालारूपा जटा यस्य स व वाग्निर्वा जगद्भस्मासाद्भावयेत् कुर्यादिति । अकाण्डमिति । अनवसरो यथा भवति तथा अकाले इत्यर्थः । प्रलयकालो हि विघटनावसरः ॥३२॥
पादवदिति सूत्रावयवव्याख्यानार्थं भाष्यं - यथा मन आकाशयोरध्यात्ममधिदैवं चेत्यादि , तद्व्याचष्टे –
मनस इत्यादिना ।
ब्रह्मप्रतीकस्येत्येतस्य व्याख्यानम् –
आरोपितब्रह्मभावस्येति ।
प्राण इति घ्राणमुक्तम् ।
वागादीनां मनःपादत्वे हेतुमाह –
मनो हीति ।
संचरणसाधारणतयेति ।
संचर्यत एभिरिति संचरणाः । तद्रूपत्वेन प्रसिद्धपादसाधारणतया वागादयो मनसः पादा इति ।
आध्यात्मिकं मनश्चतुष्पाद्व्याख्यायाधिदैविकमाकाशं चतुष्पादं व्याचष्टे –
आकाशस्येत्यादिना ।
भाष्ये कार्षापण इति षोडशपणाः कपर्दक उक्ताः । ताम्नकर्षमितः क्रयसाधनमुद्राविशेषो वा । सौधं इर्म्यं तस्य जालं गवाक्षं तन्मार्गनिवेशिन्यः ॥३३॥ यः संबन्धः स एकीभाव इति कथंचित्कस्माद्व्याख्यायत इत्यर्थः ।
ननु स्वरूपसंबन्धः समवायोऽपि संभवति , कथं जीवस्य ब्रह्मतादात्म्यसिद्धिरत आह –
स्वभावश्चेदिति ।
अनेन संबधत्वेन संबन्धभावेन स्वभावश्चेत् स्पृष्टः स्वभावसंबन्ध इति चेदुच्यत इत्यर्थः । ततः स्वाभाविकः संबन्धस्तादात्म्यानातिरिच्यते ; सम दित्युक्तं तर्कयादे इत्यर्थः ॥३४॥३५॥३६॥
भास्करेणानेन सर्वगतत्वमिति सूत्रं प्रसङ्गादात्मसर्वगतत्वप्रतिपादकम् , नात्र पूर्वपक्षाशङ्का निरस्यत इत्युक्तम् , तत्सूत्राभिप्रायानवबोधादिति दर्शयन्नाशङ्कामाह –
ब्रह्माद्वैतसिद्धावपीति ।
ब्रह्मव्यतिरिक्तवस्त्वभावे सर्वाभावादेव सर्वसंबन्धात्मकसर्वगतत्वासिद्धिरतश्चाकाशवत् सर्वगत इत्यादिश्रुतिविरोधः । तस्मात्सर्वगतत्वार्थं ब्रह्मातिरिक्तवस्त्वपेक्षणात्परमत इति पूर्वपक्ष उन्मज्जतीति शङ्का । न वास्तवं सर्वगतत्वं किंतु प्रपञ्चेन मिथ्यातादात्म्यमित्याह – अद्वैते इति ॥३७॥
इति सप्तमं पराधिकरणम् ॥
फलमत उपपत्तेः ॥३८॥ ब्रह्मव्यतिरिक्तवस्तुनि निषिद्धे फलदातृत्वमपि ब्रह्मणो न स्यादित्याशङ्क्य व्यवहारतस्तत्समर्थ्यते । सत्यपि सर्वगतत्वेन समानन्यायत्वे कर्मण एव फलमित्याशङ्कानिरासायारम्भः । एतच्चेति ब्रह्मण उपाधिवशादीक्षणकर्तृत्वम् । तपसेति मन्त्र ईक्षत्यधिकरणे व्याख्यातः । तेन फलदातत्वमप्यौपाधिकमुपपादितमित्यर्थः ।
भाष्यस्थमिष्टपदं व्याचष्टे –
इष्टं फलमित्यादिना ।
अवीचिर्नरकविशेषः ।
वैषम्यनैर्घृण्यप्रसङ्गमीश्वरस्य परिहरति –
कर्मभिराराधितादिति ।
यदि कर्म स्वानन्तरकालमारभेत , तर्ह्युपलभ्येतेत्याशङ्क्याह –
उपात्तमपीति ।
स्वरूपेण सदपि कथं फलमिति योजना ।
भुज्यमाननपि फलं विषयान्तरव्यासङ्गान्न दृश्यत इत्याशङ्क्याह –
तीव्रतमे इति ।
प्रत्यक्षागमाभ्यामिति ।
यः सर्वाणि भूतान्यन्तरो यमयतीत्यागमः ॥३८॥ अन्नमा समन्ताद्ददातीत्यन्नादः ।
अत्र भगवता भाष्यकारेण विधिश्रुतेर्विषयभावोपगमादित्यादिभाष्येण कर्मण एव फलमिति पूर्वपक्षघटनाय स्वर्गकामाधिकरणसिद्धान्तः संचिक्षिपे , तन्निवर्त्यामाशङ्कामादर्शयंस्तदधिकरणपूर्वपक्षमाह –
नन्वित्यादिना ।
धात्वर्थनिष्पादकः कर्तृव्यापारो भावना , सैव क्रियेत्यन्येषाम् ।
तत्र पूर्वस्मिन्पक्षे स्वर्गाद्यनपेक्षामाह –
तथा हीति ।
यागादीनामेव क्रियात्वे तेषां धातुभिरेव प्रतीतेः प्रत्ययपौनरुक्त्यमाशङ्क्याह – पूर्वापरीभूता इति यजेतेत्यत्र हि यजिना प्रकृत्या याग एव प्रतीयते । प्रत्ययसहितेन तु तेन स एव पूर्वापरीभूतो नानाक्षणव्यासक्तोऽभिधीयते ।
पूर्वापरीभूतत्वं यजत इत्यादिवर्तमानापदेशेष्वप्यस्तीति लिङ्गादिषु वेशेषमाह –
साध्यस्वभावा इति ।
द्वितीयपक्षे तादृशभावनाभाव्यः किं स्वर्गादिरेव ? किं वा यागादिरपि ? न प्रथम इत्याह –
तथाप्यसाविति ।
प्रत्ययार्थभूता भावना धात्वर्थातिरिक्ता यद्यपि स्वातिरिक्तं भाव्यमाकाङ्क्षते ; तथापि धात्वर्थ एवस्या भाव्यः , तस्य यजेतेत्येकपदश्रुत्या साध्यत्वप्रतीतेः । अत एव च पूर्वावगतेः न स्वर्गः । तस्य भिन्नपदोपात्तस्य वाक्येन साध्यत्वस्य प्रत्येतव्यत्वाद् , वाक्यस्य च लिङ्गश्रुतिकल्पनापेक्षस्य चरमभावित्वात् । किं च पुरुषविशेषणस्वर्गस्य न यागेन संबन्धः , उपसर्जनस्य पदान्तरेणासबन्धादित्यर्थः ।
न द्वितीय इत्याह –
न केवलमिति ।
यागादयो न साध्यान्तरमपेक्षन्ते इत्येतन्न केवलं शब्दतः , अपि तु वस्तुतश्चेत्यर्थः ।
वस्तुसामर्थ्यमेव दर्शयति –
पुरुषप्रयत्नस्येति ।
यदि स्वर्गो न साध्यः , कथं तर्हि स्वर्गो यागेन संबध्यतेऽत आह –
स्वर्गादेस्त्विति ।
प्रीतिसाधनं चन्दनादि स्वर्गः । तस्य सिद्धत्वात् साध्यक्रियां प्रति साधनत्वेनान्वय इत्यर्थः ।
उक्तेऽर्थे स्वर्गकामाधिकरणपूर्वपक्षसूत्रमुदाहरति –
द्रव्याणामिति ।
यदि यागादेर्न स्वर्गादिसाधनत्वम् , कथं तर्हि पुरुषाः प्रवर्तेरन्नप्रवर्तमानेषु वा तेषु कथं शास्त्राणां प्रामाण्यमत आह –
तथा च कर्मण इत्यादिना ।
कथं कर्मविधीनां ब्रह्मज्ञानपरत्वमत आह –
भेदप्रपञ्चेति ।
अप्रविलापिते हि प्रपञ्चे ब्रह्माद्वैतं प्रत्येतुमशक्यमिति ।
ननु स्वर्गकामवाक्य आकाशादिलयो न भात्यत आह –
क्वचिदिति ।
अनुक्ते स्वर्गसाध्यत्वे देहातिरिक्तात्माप्रतीतिः , उक्ते च वाक्यस्य तत्परत्वं स्यादित्याशङ्क्याह –
आपातत इति ।
आपातप्रतीतोऽपि तथाऽस्तु देवताविग्रहादिवदत आह –
तत्रेति ।
निराकृतस्य कथं प्रपञ्चप्रविलयप्रमित्यर्थत्वमत आह –
असतोऽपीति ।
असन्नपि प्रमित्यर्थो वपोत्खननादिरिव प्राशस्त्यप्रमित्यर्थ इति भावः ।
स्वर्गकामवाक्ये देहात्मभावोपलक्षितजडप्रपञ्चविलयमुक्त्वा गोदोहनवाक्ये दर्शपूर्णमासाधिकारिण एव गोदोहनेऽप्यधिकारावगमादुभयत्राधिकारिभेदप्रविलापनद्वारा तदुपलक्षितात्मभेदः प्रविलाप्यत इत्याह –
गोदोहनेनेति ।
एवं प्रवृत्तिविषयजडप्रपञ्चस्य स्वरूपेण प्रविलयं , प्रवृत्तिकर्तुश्चेतनस्य भेदमात्रप्रविलयं चाभिधाय प्रवृत्तेः प्रविलयमाह –
निषेधवाक्यानीति ।
साक्षादेव प्रवृत्तिनिषेधेनात्मज्ञानोपयोगीनीत्यध्याहारः ।
विधिवाक्यानीति ।
ऐहिकफलानीत्यर्थः । पारलौकिकफलानां देहात्मभावप्रविलयार्थत्वस्योक्तत्वात् साग्रहणीष्ठ्यादिप्रवृत्तिपराणि न भवन्ति ; स्वर्गकामपदवद् ग्रामकामपदस्यापि फलसमर्पकत्वायोगादित्यर्थः ।
सेवादिदृष्टोपायप्रतिषेधार्थानीति ।
सेवादिविषयप्रवृत्तिर्हि सांग्रहण्यामनुष्ठीयमानायां न भवतीत्यर्थः ।
एवं मुख्यार्थपरिग्रहे बाधकप्रदर्शनेन विधीनां प्रपञ्चलयार्थत्वमुक्तमिदानीं लक्षणास्वीकारे प्रयोजनमाह –
तथा चेति ।
ननु यदि न कर्मणां फलसाधनत्वम् , कथं तर्हि जगद्वैचित्र्यम् ? अत आह –
अनादिविचित्रेति ।
कथं तर्हि विधिरिति ।
त्वयाऽपि सांग्रहण्यादीनां दृष्टार्थप्रवृत्तिपरिसंख्यायकत्वं ब्रुवता विधिर्न त्यक्तः । तथा च फलार्थिनोऽधिकारिणोऽभावे विधित्वं न स्यादित्यर्थः ।
वायूदकादिवद्विधेः प्रवर्तकत्वमित्येतत्तवद् निषेधन् स्वर्गकामाधिकरणसिद्धान्तं दर्शयति –
उपदेशो हीत्यादिना ।
ननु भवतूपदेशो विधिः , कथं तस्य फलसाधनविषयता ? अत आह –
उपदेशश्चेति ।
नियोज्यः प्रवर्त्यः पुरुषस्तदीयं प्रयोजनं साध्यं यस्य कर्मणः तन्नियोज्यप्रयोजनम् ।
ननु नियोक्तृपुरुषप्रयोजनसाधनं यथाऽऽज्ञादौ बोध्यते , एवमुपदेशेऽपि किं न स्यादत आह –
न त्वज्ञादिरिव नियोक्तृप्रयोजन इति ।
उपदेश इत्यनुषङ्गः । उत्तमनियोक्तृका ह्याज्ञा यथा गामानयेति । अनुत्तमनियोक्तृकाऽभ्यर्थना यथा मम पुत्रमध्यापयेति । उभयत्रापि प्रवर्तयितुः प्रयोजनसाधनं बोध्यते , नैवमुपदेशे ।
तत्र हेतुमाह –
तत्राभिप्रायस्येति ।
प्रवर्तयिता स्वस्य हितं भवत्विति यत्र प्रवर्तयति तत्राज्ञादिस्तदभिप्रायविशेषः प्रवर्तकः । अपौरुषेये वेदे तस्यासंभवान्नियोज्यप्रयोजनसाधनमुपदिश्यत इत्यर्थः । न च वाच्यमुपदेशोऽपि नियोज्यप्रयोजनसाधनविषयोऽभिप्रायविशेष इति कथमसावपौरुषेये वेदे संभवतीति ; यतः परस्य स्वस्य वा प्रयोजनमनभिसंधायापि गोपालादेर्मार्गाद्युपदेष्टृत्वं भूतार्थविषयं दृश्यते ।
ननु नियोज्यप्रयोजनसाधनविषयत्वमनुज्ञायामपि दृश्यते , यथेच्छसि तथा कुर्वित्यादौ , तत्राह –
अस्य चेति ।
अनुज्ञायां हि प्रवृत्तस्य प्रवर्तनमुपदेशे त्वप्रवृत्तस्य ततश्चाप्रवृत्तप्रवर्तकत्वे सतीति विशेषणविषिष्टनियोज्यप्रयोजनसाधनविषयत्वमुपदेशस्यैव लक्षणमिति न्यायकणिकायाम् उपपादितमित्यर्थः । नियोज्यप्रयोजनेत्यादेर्व्याख्यानम् – अनुष्ठात्रपेक्षितेत्यादि ।
प्राभाकराभिमतनियोज्यव्यावृत्त्यर्थं सिद्धान्तसूत्रगतं तादर्थ्यादिति पदं व्याचष्टे –
अनुष्ठात्रपेक्षितोपायतारहितेति ।
तादर्थ्यात् तादर्थ्ये सति पूर्वपक्षोक्तप्रवर्तनामात्रार्थत्वे सतीत्यर्थः ।
यदुक्तं साक्षाद्भावनाभाव्यो यागादिः , स च दुःखरूप इत्यप्रवृत्तिरिति , तत्राह –
न चैत इति ।
विधिविषयीकृत भावनायाः श्रेयःसाधनत्वात् स्वर्ग एवोद्देश्यो न तु यागादयः । यदि स्युस्तर्ह्यप्रवृत्तिविषयता तेषां स्यात् , तच्च नास्ति ; यागादीनां भावनां प्रत्यनीप्सितकर्मतामात्रत्वादित्यर्थः ।
यागादीनां भावनोद्देश्यत्वाभावे हेतुः –
दुःखत्वेन कर्मणामिति ।
यस्त्वर्गादेर्भावनां प्रति व्यवधानान्न भाव्यत्वमित्युक्तं , तत्राह –
स्वर्गादीनां त्विति ।
सर्वो हि कामनानन्तरं प्रवर्तते , ततश्च स्वर्गादेर्भावनायाः पूर्वरूपकामनाविषयत्वादतितरामव्यवधानमित्यर्थः ।
यच्च द्रव्यत्वात् स्वर्गादेः क्रियाशेषत्वमिति , तत्राह –
प्रीत्यात्मकत्वाच्चेति ।
एषां हेतूनां स्वर्गकामादेरधिकार इति वक्ष्यमाणप्रतिज्ञायां संबन्धः । प्रीतौ हि रूढः स्वर्गशब्द इति तच्छेषा क्रिया इत्यर्थः ।
यत्तु सुबन्तपदाभिधेयत्वात्सिद्धरूपतेति , तन्न ; तथापि कामपदात्साध्यत्वप्रतीतिरित्यभिप्रेत्याह –
नामेति ।
यदपि पुरुषविशेषणत्वात्स्वर्गादेर्न भाव्यत्वमिति , तत्राह –
पुरुषविशेषणानामपीति ।
भावनाक्षिप्तकर्त्रनुवादेन विशेषणभूतस्वर्गपरं स्वर्गकामपदं स्वर्गं भाव्यत्वेन समर्पयतीत्यर्थः ।
यत्तु यागादेः स्वर्गादेश्च भाव्यत्वेन वाक्यभेद इति , तत्राह –
फलार्थप्रवृत्तेति ।
फलार्थं प्रवर्तस्य पुरुषस्य या भावना तया भाष्यत्व लक्षणेनेति प्रथमग्रन्थे विग्रहः । फलार्थ या प्रवृत्ता भावना तया भाव्यत्वरूपस्येति द्वितीयग्रन्थे । ततश्च यागादेः साध्यत्वमन्यत्साधयितुम् , स्वर्गादेस्तु स्वत इति स्वतन्त्रसाध्यद्वयाभावान्न वाक्यभेद इत्युक्तं भवति ।
ननु यागादीर्न करणं स्याद् , भावनाभाव्यत्वात्स्वर्गवदिति , तत्राह –
भावनाभाव्यत्वमात्रस्येति ।
परश्वादेरपि तथाभावाद्व्यापाराविष्टरूपेण साध्यत्वादित्यर्थः । स्वर्गादीनां त्विति ग्रन्थेन भावनां प्रति स्वर्गादीनामव्यवधानातिशय उक्तः ।
इदानीं व्यवधानमङ्गीकृत्याप्युद्देश्यत्वेन साध्यत्व आकाङ्क्षातिशयमाह –
फलस्य साक्षादिति ।
तदुद्देश्यतया लक्षणेन फलस्य सर्वत्र व्यापितया व्यापित्वेनावस्थानादिति योजना । व्यापित्वनिर्देशो लक्षणस्याव्याप्त्यतिव्याप्तिपरिहारार्थः । न चाधिकाराभावे इति । स्वर्गभोक्तृर्यागाधिकारान्यथानुपपत्त्या हि देहात्मत्वाभावावगतिरित्यर्थः । संपातः आपातः ।
यच्च प्रपञ्चप्रविलयादिलक्षणायां प्रयोजनं शास्त्रत्वसिद्धिरिति , तत्राह –
न चैतावतेत्यादिना ।
सर्वपारिषदतया सर्वपरिषत्प्रसिद्धतया ।
यदि प्राभाकरा मन्वीरन् , असति व्यापारवति न व्यापार इति , तान्प्रत्याह –
असत्स्वप्याग्नेयादिष्विति ।
तेषामपि मते आग्नेयादिवाक्यैर्यागा एव विधीयन्ते नापूर्वाणि । अधिकारवाक्यसन्निधिसमाम्नातानामाग्नेयादिवाक्यानामधिकारापूर्वानुवादकत्वशङ्कायां कुण्ठितशक्तीनां द्रागित्येवापूर्वान्तरप्रत्ययाजनकत्वात्तेश्च परमापूर्वे जनयितव्येऽवान्तरव्यापारा जन्यमाना असत्स्वपि व्यापारवत्सु भवतीत्यर्थः ।
अथ लौकिको वदेत् , तत्राह –
असत्यपीति ।
सापेक्षेश्वरात् फलसिद्धेर्वक्ष्यमाणत्वादविचित्रस्येति भाष्यायोगमाशङ्क्याह –
केवलादितीति ।
तर्हि कर्मापेक्षत्वपक्षो निर्दोष इति कथं पूर्वपक्षावकाशः ? तत्राह –
कर्मभिर्वेति ।
कंचिच्छुभं कारयति कंचिदशुभमिति वैषम्यप्रसङ्गः इत्यर्थः ॥४०॥
कर्मादि चेतनाधिष्ठितमचेतनत्वाद् मृद्वदित्यनुमानस्य जीवैः सिद्धसाधनत्वमाशङ्क्याह –
न चैतन्यमात्रमिति ।
कर्म स्वरूपं तस्य च शुभस्य सुखमितरस्य दुःखमित्येवं सामान्यविनियोगः । आदिशब्देन ज्योतिष्टोमात्स्वर्ग इत्यादिविशेषविनियोग उच्यते । फलसिद्धिपूर्वक्षणे कर्मस्वरूपादिसाक्षात्कारवदधिष्ठितमस्माभिः साध्यत इति न सिद्धसाधनमित्यर्थः । आगमप्रमिते संभावनामात्राभिधानात्पत्युरसामञ्जस्या (व्या.सू.अ.२.पा.२.सू.३७) दित्यत्रोक्तखण्डनानामनवकाशः । दुर्गेषु यो जनानां निवेशनार्थं भूमिकाविशेषो रच्यतेऽसावट्टालः । निरटङ्कि निष्टङ्कितं निर्णीतमित्यर्थः ।
नन्वीश्वरश्चेत्फलं ददाति , किं कर्मभिरत आह –
लौकिकश्चेश्वर इति ।
ईश्वरस्य कर्मापेक्षामुक्त्वा कर्मणामीश्वरापेक्षामुक्तां स्मारयति –
तदिह केवलं कर्मेति ।
न केवलं कर्माधिष्ठानत्वादीश्वरसिद्धिरपि तु कर्मभिरीश्वरप्रसादस्य साध्यत्वाच्चेत्याह –
तथा देवपूजात्मक इति ।
न प्रसादयन्निति=अप्रसादयन्नित्यर्थः । नशब्दोऽयं प्रतिषेधवचनः । विरोधनं द्रोहः ।
ननु प्रधानयागेन परमेश्वरः प्रसीदतु , अङ्गानुष्ठानं तर्हि किमर्थमत आह –
यथा च परमापूर्व इति ।
अत्र भास्करेण प्रलेपे –
भाष्यकारनतेऽन्तर्यामिव्यापारः फलोत्पादकः , स च सन्निधिमात्ररूप इति नित्यः , सर्वजीवसाधारणश्चातो न तस्यैकैकनीवकर्मभिः साध्यत्वमिति , तं भाष्यव्याख्यानेनानुगृह्णाति – ये पुनरिति ।
अविद्योपाधिवशादीश्वरस्यानित्यः प्रतिजीवं कर्मसाध्यश्चानुग्रहोऽस्तीत्यर्थः ॥४१॥
इत्यष्टमं फलाधिकरणम् ॥
इति श्रीपरमहंसपरिव्राजकाचार्यानुभवानन्दपूज्यपादशिष्यभगवदमलानन्दस्य व्यासाश्रमापरनामधेयस्य कृतौ वेदान्तकल्पतरौ तृतीयस्याध्यायस्य द्वितीयः पादः ॥
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥ द्वितीये पादे तत्त्वंपदार्थौ परिशोधितौ , इदानीमपुनरुक्तापेक्षितपदार्थोपसंहारेण सगुणनिर्गुणब्रह्मवाक्यानामर्थोऽवधार्यते । सगुणवाक्यार्थचिन्ता तु तद्विद्यानां सत्त्वशुद्धिद्वारा निर्गुणविद्योपयोगात् । पदार्थोपसंहारेण वाक्यार्थावधारणार्थं च सगुणविद्यानामभेदचिन्ता , भेदचिन्ता तु तदपवादत्वेन । निर्गुणविद्यायां तु विद्याभेदादैक्यं सिद्धमेवेति तन्न विचार्यते । गुणोपसंहारस्तु आनन्दादय इत्याद्यधिकरणै (व्या.सू.अ.३.पा.३ सू.११) र्लक्ष्याखण्डवाक्यार्थसिद्ध्यर्थवाक्यार्थोपसंहाररूपो वर्णयिष्यते । तदेतत्सर्वमभिसंधायाह –
पूर्वेणेति ।
अत्राक्षेपभाष्यं - ‘ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितमेकरसं सैन्धवधनवदवधारितमित्या’दि , तदनुपपन्नमिव ; सगुणब्रह्मणो नानारसत्वेन तद्विज्ञानभेदाभेदचिन्तायाः संभवात् ।
अत आह –
निरुपाधीति ।
पूर्वापरादिभेदरहितमेकरसमिति च विशेषणद्वयस्यापुनरुक्तमर्थमाह –
सावयवस्य हीत्यादिना ।
अवयविनि ह्यवयवाः पूर्वापरभावेन वर्तन्ते अतस्तन्निषेधात्सावयवत्वनिषेधः । एकरसमित्यनेकधर्मवत्त्वनिषेध इत्यर्थः । स्वभावो धर्मः ।
भाष्यगतधनशब्दार्थमाह –
कठिनमिति ।
अच्छिद्रत्वात् रसान्तररहितमित्यर्थः ।
अवयवभेदं धर्मभेदं च निरस्यापेक्षिकभेदमाशङ्क्य तन्निषेध एकरूपत्वविशेषणेन क्रियत इत्याह –
नन्वेकमपीत्यादिना ।
भाष्ये एकत्वादित्यनेन प्राङ् निषिद्धावयवधर्मभेदे निषेधानुवादः ।
नन्वनेकरूपाणि ज्ञानानीत्यत्र रूपग्रहणं व्यर्थम् , अनेकानीत्येवोच्यताम् , अत आह –
एकस्मिन् गोचर इति ।
ननु ज्ञानस्य गुणस्य कथमनेकरूपत्वप्राप्तिरत आह –
रूपमाकार इति ।
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्या (जै.सू.अ.२.पा.४.सू.८) दिति शाखान्तराधिकरणपूर्वपक्षसूत्रम् । तत्र निन्देति उदितहोमानुदितहोमनिन्दोच्यते । ‘‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रं दिवा कीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषा’’ मित्यनुदितहोमनिन्दा । ‘‘यथाऽतिथये प्रदुतायान्नं हरेयुस्तादृक् तद्यदुदिते जुह्वती’’ त्युदितहोमनिन्दा । प्रद्रुताय निर्गतायेत्यर्थः । ततश्च एकस्य विरुद्धकालद्वयासम्भवात्कर्मभेदः । प्रायाश्चित्तमुदितानुदितहोमव्यतिक्रमे । तत्र निन्दाप्रायश्चित्ते वेदान्तगतविद्यासु न स्त इति नोदाह्रियेते ।
इतरे ये नामादयो भेदहेतवस्तदुपन्यासार्थं नाम्नस्तावदित्यादिभाष्यं , तद्व्याचष्टे –
अस्त्यथैष ज्योतिरित्यादिना ।
ननु यजेतेति प्रकृतव्योतिष्टोमानुवादोऽनुपपन्नः ; नाम्नैव तद्बुद्धिविच्छेदादत आह –
ज्योतिरितीति ।
ज्योतिरिति हि प्रातिपदिकमात्रम् , न त्वस्य नामत्वमभिव्यक्तम् । एतेनेत्यमुमनुकृष्य यजेतेत्याख्यातवाच्यकर्मसामानाधिकरण्यात्तु नामत्वाभिव्यक्तिः । तथा चाख्यातपारतन्त्र्याद्यद्याख्यातं कर्म विदधीत , तर्हि नामापि तद्वदेदथ त्वनुवदेत्तर्हि नामापि तदनुवदिष्यतीत्यप्रयोजकमिह नाम भेदाभेदयोः । ततश्चाख्यातार्थ एव चिन्त्य इत्यर्थः । उक्तं हि – प्रायेणाख्यातसम्बन्धि नामेष्टं पारतन्त्र्यभाक् । तस्यैव प्रथमं तेन भेदाभेदनिमित्ततः ॥ इति । ज्योतिरिति कर्मसामानाधिकरण्येन कर्मनामव्यवस्थापनादित्यादिहेतूनां सहस्रदक्षिणागुणविधानार्थोऽयमनुवाद इति वक्ष्यमाणप्रतिज्ञया संबन्धः ।
अथ शब्दस्य चेति ।
आनन्तर्यं हि पूर्ववृत्तापेक्षं गुणविधिपक्षे चाश्रयदानार्थमस्ति ज्योतिष्टोमापेक्षा न कर्मान्तरत्वे । न हि क्रतुः क्रत्वन्तरमपेक्षत इत्यर्थः ।
ननु द्वादशशतं दक्षिणेति ज्योतिष्टोमे द्वादशशतं गावो दक्षिणा तद्विरुद्धं सहस्रदक्षिणाविधानमित्यत आह –
द्वादशशतेति ।
उत्पत्तिः कर्मस्वरूपज्ञापनं तन्मध्ये विहितमुत्पत्तिशिष्टं , कर्मस्वरूपज्ञापनोत्तरकालविहितमुत्पन्नशिष्टम् । तत्र द्वादशशतं दक्षिणा यद्युत्पत्तौ श्रूयेत , तर्हि बलवत्त्वात् सहस्रदक्षिणां बाधेत , न त्वेवमस्त्युभयोरपि कर्मज्ञापनोत्तरकालं श्रुतत्वादित्यर्थः । अन्यायश्चानेकार्थत्वमिति न्यायादिति दृष्टान्तोक्तिरियम् । यथाऽनेकार्थत्वमेकस्य शब्दस्यान्याय एवमेकस्यार्थस्यान्याय्यमनेकशब्दत्वमित्यपि न्यायस्ततो ज्योतिष्टोमज्योतिःशब्दौ नैकस्य कर्मणो वाचकावित्यर्थः ।
ननु वसन्तवाक्ये ज्योतिष्टोमवाक्ये च ज्योतिर्ज्योतिष्टोमशब्दयोरेकार्थत्वादनेकशब्दत्वमपि क्वचिदाश्रितमत आह –
उत्सर्गत इति ।
असम्बद्धार्थपदव्यवायादिति पूर्वेणासम्बद्धार्थवता ज्योतिः पदेन व्यवधानादित्यर्थः ।
यत्तु वसन्तादिवाक्ये ज्योतिःशब्द एकदेशान्तरलक्षणार्थे दृष्ट एवमत्रापीति , तत्राह –
न चैकत्रेति ।
वसन्तादिवाक्ये हि ज्योतिषा यजेतेत्याख्याततन्त्रा संज्ञा , आख्यातं च कालादिविधिसंक्रान्तमिति पूर्वकर्मानुवदेत् , एषा तु प्रथमान्तत्वादतत्तन्त्रेति प्रकृतकर्मबुद्धिं विच्छिनतीत्यर्थः ।
यत्तु ज्योतिरिति प्रातिपदिकमुच्चार्यैतेनेति परामृश्य यजेतेति विधानाद् नामधेयं ज्योतिःशब्द इति , तदोमिति ब्रूमः ; तस्यैव नाम्नः कर्मान्तरवाचकत्वादित्याह –
भेदेऽपि चेति ।
अपिचेति समुच्चये । यथा नामधेयत्वमेवं भेदोऽपि प्रथममुल्लिखित इत्यर्थः ।
ननु कठेन प्रणीतत्वादध्यपितत्वाद्वा काठकमुच्यते , न विद्या प्रणीयते , तस्या अशाब्दत्वादत आह –
प्रणयनं चेति ।
प्रणयनं शिष्येभ्यो नयनमुपदेशः स ज्ञानेऽपि अविशिष्ट इत्यर्थः ।
ज्योतिःसंज्ञायाः सकाशात् काठकत्वादिसंज्ञाया भेदकत्वातिशयमाह –
तथा चेति ।
ज्योतिष्टोमस्य सन्निधो श्रुतत्वात्तदनुवादकत्वेन तन्नामैकदेशत्वेन च संभाव्यमानमपि ज्योतिरिति नाम यदा कर्मभेदकं , तदा शाखान्तरस्थत्वेन दूरस्थं संपूर्णं च काठकादिनामातितरां ज्ञानभेदकमित्यर्थः । अतत्प्रतीकभूतेति च्छेदः ।
तथा रूपभेदोऽपीत्यादिभाष्यमुपात्तं , तद्व्याचष्टे –
इदमाम्नायत इत्यादिना ।
नन्विह सिद्धानुवादमात्रं स आमिक्षेति प्रतीयते , न विधिः , तत्र कथं कर्मभेदाभेदचिन्तावकाशः ? तत्राह –
द्रव्यदेवतेति ।
वाजिनं गुणो विधीयत इति ।
यद्यप्यत्र वाजिनं देवता च गुणो विधीयते इति वक्तुं शक्यम् ; तथापि प्राप्ते कर्मण्यनेकगुणविध्यसंभवाद् द्रव्यमात्रविधिरुक्तः । वाजिपदेन तु विश्वेदेवा अभिधीयन्ते इति वक्ष्यति , सिद्धान्ते तु विशिष्टविधित्वादप्राप्तं कर्मानेकगुणविशिष्टं विधातुं शक्यमिति मत्वा द्रव्यदेवतान्तरविशिष्टमपूर्वकर्म विधीयते इत्युक्तम् ।
विशिष्टविधौ कर्म विधातव्यम् , विशेषणभूतं द्रव्यं देवता चेति गौरवमित्याह –
विधिगौरवेति ।
यदाऽऽमिक्षायागाद्वाजिनयागः कर्मान्तरं विधीयते , तदा तत्तावत् कल्प्यं तच्चान्यपूर्वं च कल्पनीयमित्याह –
कर्मान्तरापूर्वान्तरेति ।
ननु वैश्वदेव्यामिक्षेत्यत्र यागविधिप्रतीतिसमय एवाऽऽमिक्षा यागान्विता प्रतीयते , वाजिनं तु वाक्यान्तरेणाऽत उत्पत्तिशिष्टामिक्षाऽवरुद्धे कर्मणि वाजिनं दुर्बलमवकाशमलभमानं कर्मान्तरं गमयतीत्याशङ्क्याह –
न चोत्पत्तिशिष्टेति ।
किमिति न युक्तमत आह –
उभयोरपीति ।
अयमभिप्रायः - अत्र ह्यामिक्षायां वाजिने वा न प्रत्यक्षं विधिमुपलभामहे , न्यायबलात्तु कल्पयेमहि । तत्र वैश्वदेवीवाक्ये आमिक्षाविश्वेदेवसंबन्धः प्रतीयते , वाजिनवाक्ये तु वाजिनां तेषामेव विश्वेषां देवानां वाजिनस्य च संबन्धः । तत्र देवतैक्याद् द्रव्यद्वयस्य सहत्यागकल्पनया द्रव्यद्वययुक्तैकयागविधिरनुमीयते । तत्र कुत उत्पत्तिशिष्टत्वमामिक्षायाः ? कुतो वा वाजिनस्योत्पन्नशिष्टत्वमिति ? नन्वामिक्षावरुद्धयागस्य प्रथमं प्रत्यक्षविध्यभावेऽपि विश्वेदेवानां श्रौत आमिक्षासंबन्धः , तेषां पुनर्वाजिपदाभिधेयानां वाजिभ्यो वाजिनमिति वाक्यीयो वाजिनसम्बन्धः , स च श्रौतसम्बन्धाद्दुर्बल इति न विश्वे देवा वाजिनेन सम्बध्यन्ते ।
तत्र कर्मान्तरं वाजिभ्यो वाजिनमिति पदद्वयात्मकवाक्यगम्यं विधीयते , अत आह –
न च वैश्वदेवीत्यत्रेति ।
वैश्वदेव्यामिक्षेति पदद्वयात्मकवाक्यादेव विश्वेषां देवानामामिक्षासंबन्धः एवं वाजिनसंबन्धोऽपि तेषां वाजिभ्यो वाजिनमिति पदद्वयात्मकवाक्यगम्य इति तुल्यतेत्यर्थः ।
ननु वैश्वदेवीति तद्धितान्तपदश्रुतिमात्रादामिक्षासंबन्धो विश्वेषां देवानाम् अवगम्यत इत्याशङ्क्य तथा सत्यामिक्षापदवैयर्थ्यं स्यादित्याह –
नो खल्विति ।
ननु विश्वे देवा देवता अस्या इति तद्धितार्थः अस्या इति शब्देन च सन्निहिताऽऽमिक्षैवोच्यते , अतः श्रौतः एवामिक्षासंबन्धस्तत्राह –
अस्तु वेति ।
तत्संबन्धिनो विश्वान् देवानुपलक्षयतीति ।
उपलक्षितेषु चामिक्षासंबद्धेषु विश्वेषु देवेषु यत्फलिष्यति तत्ततश्चामिक्षासंबन्धोपजीवनेनेत्युपरितनग्रन्थे वक्ष्यति ।
ननु वाजिभ्य इति इन्प्रत्ययान्तं पदमामिक्षासंबन्धिनो विश्वेदेवानुपलक्षयितुं न शक्नोति , अधिकरणान्तरविरोधादित्याशङ्कते –
यद्यपीति ।
दशमे स्थितम् - विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना । (जै.सू.अ.१०.पा.४.सू.२३) दर्शपूर्णमासयोर्देवतापदान्याग्नेयादीनि सन्ति , सन्ति चाग्नेरभिधानानि लोकेऽग्निः पावक इत्यादीनि । तत्र संदेहः किं हविःप्रदानसमये येन केनचिदग्निवाचकपदेनाग्निरुद्देश्यः , उत विधिगताग्निपदेनैवेति । तत्रार्थरूपत्वाद्देवतात्वस्य तस्य च येन केनचिद्वाचकेन निर्देशसंभवादनियम इति प्राप्ते राद्धान्तः । सत्यमर्थात्मकं देवतात्वम् तत्तु न स्वर्गवासित्वादि संभवति ; मासेभ्यः स्वाहेत्यादौ मासादेरदेवतात्वप्रसङ्गात् , किंतु त्यज्यमानहविः प्रत्युद्देश्यत्वम् । उद्देशश्च हविः प्रति प्राधान्येन निर्देशः तत्राग्नेय इति विधिगतस्यैव मन्त्रत्वे देवताप्रकाशकत्वे भावो देवतात्वं हविस्त्यागकालेऽपि स्यात् ; तद्दितवर्त्यग्निशब्देन हविः प्रत्यग्नेः प्राधान्येन निर्देशाद्धविस्त्यागकालेऽपि तेनैव स निर्देश्यः । शब्दान्तरेण निर्देशे देवतात्वं न स्यात्तस्माद्विधिशब्दस्यैव मन्त्रत्वे देवताप्रकाशकत्वे भावः स्यात्तेन हि देवतामुद्दिश्य हविषश्चोदनेति । तत्र शब्दभेदेऽपि देवतैक्ये एतदधिकरणविरोध इत्यर्थः । यदि च शब्दभेदेऽपि देवतैक्यं , तर्हि सौर्त्यं चरुं निर्वपेदु ब्रह्मवर्चसकामः , आदित्यं चरुं निर्वपेदिति च सौर्यादित्यचर्वोरेकदेवतात्वं स्यादित्यर्थः ।
न चैतयोरेकदेवतात्वमेष्टुं शक्यम् ; सूर्याय जुष्टं निर्वपामीति , आदित्याय जुष्टं निर्वपामीति च सर्वसंमतानुष्ठानविरोधादिति आशङ्क्य परिहरति –
तथापीत्यादिना ।
तदस्यास्तीत्यर्थे हीनिप्रत्ययः स्मर्यते , अस्येति च सर्वनाम , तेन विश्वेदेवपदसन्निहितानां परामर्शान्न शब्दान्यत्वप्रयुक्तं देवतान्यत्वमित्यर्थः ।
आमिक्षासंबद्धविश्वदेवोपलक्षणे फलं वक्ष्यतीत्युक्तं , तत्राह –
ततश्चेति ।
वाक्येनैवामिक्षासंबन्धोपजीवनेन वाजिनविधानान्न वाजिनसंबद्धयाऽऽमिक्षया बाधितुं शक्यते ; श्रौतात्संबन्धाद्वाक्यीयः संबन्धो दुर्बल इति न्यायादवगन्तव्यम् । स च न्यायो वचनेन बाधिष्यत इत्यभिप्रायः । द्रव्यद्वयेन युक्तमेकं कर्म विधीयत इति यदवादिष्म वाजिनामिक्षयोः सहत्याग इति , तदिदमुत्थितम् ।
एवं च यत् संदेहप्रदर्शनावसरे उक्तं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते इति तदापातप्रतिभानमादायाभिहितमिति विश्वेषां देवानामामिक्षासंबन्धस्य श्रौतत्वाद् वाजिनसंबन्धस्य च वाक्यीयत्वात् श्रुतिबलीयस्त्वन्यायमादाय सिद्धान्तयति –
स्यादेतदेवमित्यादिना ।
ननु तद्धित आमिक्षाविशिष्टान्विश्वान्देवानभिधत्ताम् , अथवा तेषामामिक्षासंबन्धमभिवदतु , यद्वा विश्वेषां देवानां यत्संबन्धिमात्रं तद्वा वक्तु , तथा च कुतोऽस्यामिक्षावाचकत्वमत आह – न तु विश्वेषु देवेष्वित्यादिना । अत्र सर्वत्र हेतुरुक्त एव सन्निहितविशेषस्य सर्वनामार्थत्वादिति ।
अथ यदुक्तं वैश्वदेवीपदादामिक्षाप्रतीतावामिक्षापदवैयर्थ्यमिति , तदनुभाषते –
नन्वेवं सतीति ।
उत्तरमाह –
तद्धितान्तस्येति ।
नात्र वैश्वदेवीपद एकस्मिन्नर्थे पर्यवसिते आमिक्षापदेन चापरस्मिन्नभिहिते तयोर्वैशिष्ठ्यं पदद्वयसमभिव्याहारादवगम्यते , किन्तु नामसन्निहितावलम्बिनः सर्वनाम्नोऽर्थः क इत्यज्ञायमान आमिक्षापदेन समर्प्यते , अतश्च यथाऽयं घट इत्युक्तेऽयमिति पदस्य सन्निहितावलम्बिनो विषयसन्निधापकप्रत्यक्षापेक्षायामपि न श्रुतित्वहानिरित्येवं तद्धितस्यापीत्यर्थः ।
एतदेव स्फुटीकरोति –
अवसिताभिधानं हीति ।
अवसिताभिधानत्वं नाम परिपूर्णविषयलाभः ।
द्वयं हि सर्वत्रापाद्यमभिमतविघातोऽनभिमतप्रसरश्चेति ।तत्रानभिमतप्रसरं वारयति –
कुत आमिक्षापदानपेक्ष इति ।
अभिमतविघातोऽपि नास्तीत्याह –
कुतो वेति ।
नन्वेवमामिक्षापदसापेक्षवैश्वदेवीपदादामिक्षासंबन्धो विश्वेषां देवानां गम्यते , तर्हि द्वे अपि पदे मिलित्वा प्रमाणं स्यात् , तथा च वाक्यत्वम् ।
अथ सत्यामप्यामिक्षापदापेक्षायां वैश्वदेवीपदमेव तत्र प्रमाणं , तर्ह्यामिक्षापदमेव किं न स्यादत आह –
अतश्चेति ।
यदिति द्वितीयान्तः शब्दः पदमिति च प्रथमान्तः । आमिक्षेत्युक्ते हि न क्वाप्यपेक्षाऽवभासते , वैश्वदेवीत्युक्ते त्वस्ति कासावित्यपेक्षा , अतो वैश्वदेवीपदमेव साकाङ्क्षमर्थमभिदधत् प्रमानम् , आमिक्षापदं तु तदीयार्थाभिधानकथंभावाकाङ्क्षापरिपूरकमितिकर्तव्यभावमनुभवतीति विनिगमकहेतुबलात् वैश्वदेवीपदमेव प्रमाणम् । ततश्च श्रुतित्वाद्वाक्यापेक्षया तत् प्रथमभावि , ततः पदान्तरापेक्षं वैश्वदेवीपदं यदामिक्षाविश्वदेवसंबन्धरूपं वस्त्वभिधत्ते ; तदुक्तप्रकारेण प्रमाणभूतप्रथमभाविवैश्वदेवीपदावगम्यत्वात् श्रौतं , ततश्च बलवदित्यर्थः ।
एतत्प्रकरवैपरीत्यं वाजिनविश्वदेवसंबन्धे दर्शयस्तस्य वाक्यीयतामाह –
यत्त्विति ।
वाजिभ्य इति वाजिनमिति च पदे पर्यवसिताभिधाने । यद्यपि वाजिपदं वैश्वदेवसापेक्षम् ; तथापि न वाजिनपदापेक्षम् । ततश्च पर्यवसिताभिधानाभ्यां पदाभ्यां यावभिहितौ पदार्थौ वाजिवाजिनरूपौ तदवगम्यं यद्विश्वदेववाजिनसंबन्धरूपं वस्तु तदामिक्षाविश्वदेवसंबन्धाच्चरमभावि , अतो वाक्यगम्यत्वेन दुर्बलमित्यर्थः ।
कर्मान्तरविधौ हेत्वन्तरमाह –
एवं चेति ।
पूर्वपक्षे हि विकल्पः समुच्चयो वा वक्तव्यः , स चायुक्तः ; नित्यवदवगतसाधनभावाया आमिक्षाया विकल्पायोगात् , अनपेक्षावगतसाधनभावायाश्च तस्याः समुच्चयायोगादित्यर्थः । नित्यमेवेति वक्तव्ये मृदूक्त्या वतिप्रयोगः ।
यत्तूक्तं वचनेनैव श्रुतिबलीयस्त्वन्याय (जै.सू.अ.३.पा.३.सू.१४) बाध इति तत्राह –
न चाश्वत्वे इति ।
विश्वे देवा इत्ययं शब्दो यस्याः सा तथोक्ता तां वैश्वदेवशब्दाम् । द्रव्यवचनादामिक्षाद्रव्यं प्रत्युपसर्जनभूतामवगतामेवं सति कर्मान्तरविधिपक्षे नोपलक्षयिष्यति उपलक्षणे हि नोपसर्जनन्यायबाधः स्यादित्यर्थः ।
ननूपसर्जनभूता अपि विश्वे देवा वाजिन इति तद्धितान्तर्वर्तिसर्वनाम्ना परामृश्यन्तां , सर्वनाम्नः सन्निहितगोचरत्वादत आह –
प्रकृतं हीति ।
यत्तु कर्मान्तरविधिपक्षे विधिगौरवमपूर्वकल्पनागौरवं चेति , तत्राह –
प्रामाणिके चेति ।
तत्त्वविषयत्वाद् यथार्थविपयत्वात् ।
एवं गुणात्कर्मभेदे व्यवस्थितमुदाहरणं दृष्टान्तमुक्त्वाऽत्रत्यपूर्वपक्षे गुणाज्ज्ञानभेदं दार्ष्टान्तिकमाह –
एवमिहापीति ।
अस्ति चात्रेति ।
भाष्येऽन्येषां शाखिनां शिरोव्रतस्यासत्त्वं नोक्तमतोऽध्याहरति –
अन्येषामिति ।
शिरस्यङ्गारपात्रधारणं शिरोव्रतम् । अभ्यासाधिकरणस्य (जै.सू.अ.२.पा.२.सू.२) शब्दान्तराधिकरणेन प्रत्युदाहरणलक्षणां सङ्गतिमाह ।
धात्वर्थानुबन्धेनेति ।
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । यजति ददाति जुहोति इत्यत्र किं यजत्यादय एकां भावनां विशिंषन्ति , उत प्रतिधात्वर्थ भावनाभेद इति संदेहे भावनायाः प्रत्ययार्थस्य प्रधानत्वात्तस्मिन् गुणभूतधात्वर्थानां समुच्चय इत्येकभावनाविशेषकत्वेन प्राप्ते राद्धान्तः - नियमेन धातुप्रत्यययोरन्विताभिधायित्वात् प्रत्ययस्य च ‘धातो’रिति सूत्रेण विवक्षितैकवचनेनैकन्मादेव धातोर्विधानादेकधात्वर्थानुरक्ता भावनाऽभिहिता , सा न धात्वर्थान्तरेण संबध्यते ; तत्संबन्धस्योत्पत्तिशिष्टत्वात् । यत्र पदान्तरोपात्तं प्रधानं तत्र भवति गुणानां समुच्चयः क्रये इवारुण्यादीनाम् । तस्मादपुनरुक्तधात्वात्मकशब्दान्तरे कर्मभेदो भावनाभेदः कृतानुबन्धत्वादुत्पत्त्यैव कृतधात्वर्थसबन्धत्वाद्भावनाया इत्यर्थः । धात्वर्थ एवानुबन्धोऽवच्छेदकः ।
ननु समिधो यजतीत्यादावैकभावनाविधाने एकत्र विधिरपरत्रानुवाद इति वक्तव्यं , तत्र को विधिरिति न ज्ञायतेऽत आह –
प्रथमभाविना वाक्येनेति ।
विपरिवर्तमाना बुद्धाविति शेषः । ततश्च प्रत्यभिज्ञायमानेत्यर्थः ।
विध्यनुवादाविनिगमेन सिद्धान्तमाह –
परस्परानपेक्षाणिति ।
एषां बोधकत्वे क्रमो न प्रयोजक इत्यर्थः ।
ननु पाठक्रमानादरणे कथं प्रयाजादीनां पाठानुष्ठानक्रमसिद्धिस्तत्राह –
परस्परापेक्षाणामिति ।
प्रयाजां ह्येकं करणोपकारं कुर्वन्तीति परस्परापेक्षाः । अतस्तेषामेककरणोपकारजनकतय एकवाक्यत्वे संभूयकारित्वे सति पाठक्रमोऽनुष्ठाने प्रयोजकः स्यादित्यर्थः । तद्वाक्यानि स्वार्थबोधने परस्परं नापेक्षन्ते इति न क्रमापेक्षा । यत एकत्वं पाठक्रमान्नियम्येतेत्यर्थः ।
ननु धात्वैक्यादितरेतरत्र च प्रत्यभिज्ञानमुक्तमत आह –
कथं चिदिति ।
समिदादिनामभिः कर्मभेदप्रतीतेः प्रत्यभिज्ञैव नास्तीति कथंचिदित्युक्तम् । आख्यातस्य हि सर्वत्र विधित्वमुत्सर्गः , स च बलवदपवादकेन बाधनीयः । न च इहैतदस्तीत्यर्थः ।
किं तद्बलवदपवादकं ? तदाह –
गुणश्रवणेहीति ।
यत्र हि वाक्ये गुणाः श्रूयते तत्र गुणविशिष्टकर्मविधाने विशेषणं विशेष्यं च विधातव्यं , तदा विधिगौरवं स्यात् । तत्र हि गुणमात्रविधानप्रत्युक्तलाघवाय विधिना विशेष्यकर्मणोऽनुवादोऽपेक्ष्यते , तदपेक्षायां बुद्धिसन्निधानस्योपकार इत्यर्थः ।
उदाहरति –
यथेति ।
ननु समिदादिवाक्यं नाभ्यासात् कर्मभेदे उदाहरणं , समिदादिगुणाद्भेदप्रतीतेरत आह –
न चात्रेति ।
समिधोऽग्न आज्यस्य व्यन्त्वित्यादिमन्त्रैरेव समिदादिदेवतासंबन्धसिद्धेस्तत्प्रख्यशास्त्रेः (जै.सू.अ.१.पा.४.सू.४) समिदादीनि नामधेयानीत्यर्थः ।
अङ्गीकृत्य गुणवचनत्वमाह –
अगृह्यामाणेति ।
केन वचनेन विहितमिति किंवचनविहितम् । किंवचनविहितं च तत् किंकर्म चेति किंवचनविहितकिंकर्म । तदनुवादेन कस्य वाक्यस्य गुणविधित्वमिति न विनिगम्यते इत्यर्थः । न चाग्नेयादिकर्मसु गुणविधिः ;तेषामुत्पत्तिशिष्टाग्न्याद्यविरोधादिति ।
यदि नामधेयानि समिदादीनि तर्हि नाम्न एव भेदो नाभ्यासादत आह –
न चापूर्वमिति ।
पूर्वकर्मानन्वयीत्यर्थः ।
अनन्वयित्वा हेतुः –
विधानाऽसंबद्धमिति ।
ननु ज्योतिरादेरपि विधिना संबन्धोऽसिद्धः ।
एतेनेत्यनुकृष्य यजेतेति विधिसंबन्धावगमादत आह –
प्रथममिति ।
ज्योतिरित्यादिनाम हि प्रथमं विधानेनासंबद्धमवगतं , पश्चात् तस्य विधिसंबन्धः । स च विधास्यमानकर्मनामधेयत्वेनाप्यविरुद्धः , समिदादि तु प्रथममेव विधिसंबद्धमिति न पूर्वकर्मबुद्धिविच्छेदकमित्यर्थः ।
तस्य देवतेति ।
तस्य पुरुषकृतस्य कृते त्यागस्यासेचनाधिकस्य प्रक्षेपाधिकस्य होमस्यावच्छेद्यो यः पुरुषप्रयत्न एकस्यां शाखायां चोद्यते स एव शाखान्तरे चोद्यते यथेत्यर्थः ।
दार्ष्टान्तिकमाह –
एवमिति ।
शाखान्तराधिकरणेनास्यापौनरुक्तयं सूत्रभाष्याभ्यामुक्तमुपपादयति –
युक्तमिति ।
शाखान्तराधिकरणे हि एकस्यां शाखायाम् अग्नीषोमीयस्यैकादशकपालत्वमपरस्यां द्वादशकपालत्वमिति रूपभेदात् कर्मभेदः शङ्कितः , सिद्धान्ते तु तयोर्विकल्प इत्युक्तम् । तद्युक्तम् । कपालसंख्ययोरुत्पन्नशिष्टयोरुत्पत्तावैकरूप्येणावगम्यमानकर्मप्रत्यभिज्ञाऽवाधकत्वेन कर्मभेदकत्वाभावात् । अग्निगतपञ्चसंख्यायास्तु उत्पत्तिशिष्टत्वाद् वाजिनवद् भेदकत्वमिति शङ्कोत्थानादगतार्थत्वमित्यर्थः । अग्निहोत्रस्येत्यशुद्धः पाठः अग्निहोत्रे कपालाभावात् । अथवा - अग्नौ होत्रं इति अग्नीषोमीय एवोच्यते । एकादशकपालत्वादेरुत्पन्नशिष्टत्वमिति वदता वाचस्पतिना कस्यांचिच्छाखायाम् अग्नीषोमीयो भवतीति केवलोत्पत्तिवाक्यं दृष्टमिति गम्यते । इतरथाऽग्नीषोमीयमेकादशकपालमित्यादौ संख्ययोरुत्पत्तिशिष्टत्वादिति ।
उत्पत्तिशिष्टा पञ्चसंख्यैव न षट्संख्या षष्ठस्यग्नेरनूद्यमानत्वादिति परिहरति –
पञ्चैवेति ।
सांपादिका उपास्याः । संपद्व्यतिरेकाय उपास्तिव्यतिरेकाय । अग्निरेवाग्निरित्यादिना मुख्याग्निसमिदादेरनुवादादुपास्यत्वव्यावृत्तिर्बोध्यत इत्यर्थः । एवं षष्ठाग्नेरनुवाद्यत्वमङ्गीकृत्य परिहारः उक्तः ।
इदानीं षडप्यग्नयः शाखाद्वयेऽप्युपास्याः , पञ्चसंख्या त्वमुख्यानग्नीन् योषिदादीनवच्छेत्तुमित्यभिप्रेत्याह –
अथा वा छान्दोग्यानामिति ।
छन्दोगेन दृष्टां शाखामधीयते इति छान्दोग्याः । इदानीं पञ्चसंख्या उपास्याग्निविशेषणत्वेन न विधीयते , किं त्वनूद्यते ।
अग्नयस्तु पञ्च शाखाद्वयेऽप्यविशेषेणोपास्यतया विधीयन्ते , अधिकस्तु षष्ठोऽग्निर्विकल्प्यते इति परिहरति –
अथ वा भवतु वाजसनेयिनामित्यादिना ।
प्रचयशिष्टेति ।
एकैकशोऽग्निषु विहितेषु तेषां प्रचयेनार्थात् ज्ञातेत्यर्थः ।
सांपादिकानिति ।
समारोप्याग्निभावानित्यर्थः ।
उत्पत्तिशिष्टत्व इति ।
प्राणगताधिकसंख्यादेरिति शेषः । असिद्ध इति च्छेदः ॥२॥॥३॥
दर्शयति चेति सूत्रं पूरयति –
विध्यैकत्वमिति ।
ननु सर्वे वेदा यत्पदमामनन्तीति वाक्यं वेद्यैक्यद्वारेण विद्यैक्यदर्शकं निर्गुणब्रह्मविषयं , कथमनेन सगुणविद्यैक्यसिद्धिः ? अत आह –
यत्रापीति ।
तत्प्रायपठितानामिति ।
निर्गुणविद्यासन्निधिपठितानामित्यर्थः । अग्न्यः श्रेष्ठः ।
ननु विद्यानामशब्दात्मकत्वात् कठादिप्रोक्तत्वाभावेऽपि कठाद्यनुष्ठितत्वात् काठकादिसंज्ञा किं न स्यादत आह –
न च काठादीति ।
अध्ययनं हि प्रतिशास्त्रं त्वरादिभिर्भिद्येत , न त्वनुष्ठानमिथर्थः ।
ननु किं कठप्रोक्तत्वादिनिमित्तानुसरणेन विद्यायां ग्रन्थे च काठकादिशब्दा रूढा भवन्तु , तत्राह –
न च कठप्रोक्ततेति ।
ग्रन्थे अवयवार्थयोगसंभवे ग्रन्थे रूढिर्न कल्पनीया ; ग्रन्थसंबन्धाद्विद्यायां च वृत्तिसंभवे तत्रापि रूढिर्न कल्पनीयेत्यर्थः ।
अङ्गीकृत्यापि काठकादिसंज्ञानां विद्याभिधायकत्वमप्रयोजकत्वमाह –
न च तद्भेदाभेदाविति ।
यदि काठकादिसंज्ञानां भेदाद्विद्या भिद्येत , तर्हि एकशाखागतदहरषोडशकलादिविद्यानामैक्यं प्रसज्येत , तच्च मा भूद् ; अयुक्तं हि तद् ; नानाधब्दादिभेदा (ब्र.अ.३.पा.३.सू.५८) दित्यत्र तन्निषेधादित्यर्थः ।
नित्यानित्यसंयोगविरोधाच्च संज्ञानां न विद्याभेदकत्वमित्याह –
कठादिपुरुषेति ।
यश्च तत्तच्छाखास्वोंकारसर्वात्म्यादो ब्रह्मविद्यासमाप्तिव्यपदेशोऽध्येतॄणां सोऽपि तत्तदंशसमाप्त्यभिप्रायस्ततो न शाखान्तरे विद्याया भेदक इत्याह –
समाप्तिश्चेति ।
शाखान्तराधिकरणेनास्य पौनरुक्तयमाशङ्क्याह – कंचिदिति श्लोकेन । पञ्चाग्निविद्यायामग्निगतपञ्चत्वषट्त्वसंख्ययोरुत्पत्तिशिष्टत्वं विशेषः , स च प्रागेव परिहृत इति । वक्ष्यमाणावर्थौ गुणोपसंहारानुपसंहारौ । रेतः प्रजननेन्द्रियं प्रजापतिः प्रजननम् ।
गुणविशिष्टतदुपास्तेः फलमाह –
प्रजायते हीति ।
तं यजमानं प्रेतं दिष्टं परलोकाय कर्मभिरादिष्टमितो ग्रामादग्नये अग्न्यर्थं हरन्ति नयन्त्यृत्विजः । शिरस्यङ्गारपूर्णपात्रधारणं शिरोव्रतम् । एतं ह्येवात्मानं बह्वृचा ॠग्वेदिनो महत्युक्थे शस्त्रविशेषे मीमांसन्ते । महाव्रते क्रतुविशेषे । महद्भयं भयहेतुर्वज्रमुद्यतं यथा तथा ब्रह्मेत्यर्थः । एषोऽधिकृतः पुरुष एतस्मिन्नात्मनि उद् अपि अरमल्पम् अन्तरं भेदम् । अल्पमपि भेदं यदा कुरुते , अथ तदा तस्य भयं भवति । तत्त्वेव ब्रह्मशब्देन विदुषो ज्ञातवतोऽमन्वानस्य अतर्कयतो मननमकुर्वतो भयं भयहेतुः ॥४॥
इति प्रथमं सर्ववेदान्तप्रत्ययाधिकरणम् ॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥५॥ सर्वशाखासु विद्यैक्ये सिद्धे गुण्याकृष्टगुणानामुपसंहारसिद्धेरधिकरणानारम्भ इत्याशङ्क्याह –
भवत्विति ।
करणं हि विद्याऽङ्गमाकाङ्क्षते , आकाङ्क्षा च सन्निधिसमाम्नातैः अङ्गैः शान्तेति न शाखान्तरीयाङ्गापेक्षेत्यर्थः ।
यद्यपेक्षा स्यात्तत्राह –
अपेक्षणे चेति ।
साकाङ्क्षस्य प्रयोगविधेरनुष्ठापकत्वासंभवातन्निराकाङ्क्षत्वाय सर्वमङ्गजातमेकस्यामेव शाखायां विधीयेतेत्यर्थः ।
ननु सर्वशाखासु विद्यैक्ये सति शाखान्तरगततदीयाङ्गाननुष्ठानेऽखण्डकरणोपकारासिद्धेरनुपकृता विद्या न श्रेयस्करी स्यादत आह –
तस्माद्यथा नैमित्तिकमिति ।
ननु नित्यकर्मणि यावज्जीवमित्यादिनियतनिमित्तवशाच्छक्याङ्गानुष्ठानमात्रेण परिपूर्णोपकारः कल्प्यते , उपासनासु तु स्वशाखाधीतैरेवाङ्गैः परिपूर्णोपकारकल्पनायां को हेतुरत आह –
अङ्गान्तराविधानादेवेति ।
गृहमेधीयेति ।
अस्ति चातुर्मास्येषु गृहमेधीयो मरूभ्द्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदन इति । तत्रेदमामनन्त्याज्यभागौ यजतीति । तत्र संदेहः किमयमतिदेशप्राप्तयोराज्यभागयोरानुवादः , उताङ्गान्तरपरिसंख्या । अथवाऽतिदेशेनाज्यभागावेव प्राप्येते इत्येतदनेन वचनेन ज्ञाप्यते , किंवा सर्वाङ्गेभ्यो य उपकारः स आज्यभागाभ्यामेवाङ्गान्तरानपेक्षाभ्यां भवतीत्युपकारावच्छेद इति । अन्येऽपि पक्षाः प्रथमे काण्डे समाशङ्क्य निरस्तास्ते तु विस्तरभयान्न लिख्यन्ते । तत्रानुवादमात्रस्य वैफल्यात्परिसंख्यायाश्च प्रतिषेधविषयत्वादङ्गान्तरप्रतिषेधस्य च वाक्यादप्रतीतेः कल्पनायां चाज्यभागवाक्यस्य स्वार्थत्यागप्रसङ्गात् प्राप्तस्य चाङ्गान्तरस्य प्रतिषेधे प्रापकप्रमाणबाधापातात् । तदेवं स्वार्थहानिरस्वार्थकल्पनं प्राप्तबाधश्चेति त्रिदोषीप्रसङ्गात् । अतिदेशस्य च विकृत्यपेक्षितप्राकृताखण्डकरणोपकारातिदेशद्वारेणोपकारजनकपदार्थान् विकृतौ प्रापयतो युगपदेव सर्वाङ्गविषयत्वेन प्रवृत्तेराशुभावमात्रविषयत्वकल्पनस्यायोगादुपकारावच्छेद एवेति दशमे सिद्धान्तितम् । एतन्न्यायेनेह नोपकारावच्छेदो युज्यते ।
कुतः ? इत्यत आह –
न हीति ।
हृहमेधीये हि न्याये विकृतिकर्मैव गृहमेधीयः आज्यभागातिरिक्तमङ्गग्रामं स्वोपकाराय नापेक्षते , प्रकृतिस्त्वपेक्षते । अत्र पुनरेकमेव विज्ञानं शाखान्तरीयाङ्गमेतच्छाखिभिरनुष्ठीयमानं सन्नापेक्षते , शाखान्तरीभिरनुष्ठीयमानं सदपेक्षते । एतच्च विरुद्धमित्यर्थः ।
यच्चोक्तं यथा नैमित्तिकं कर्मेत्यादि , तत्राप्याह –
नैमित्तिके त्विति ।
यावज्जीवनिमित्तानुरोधात् प्रधानकर्तव्यत्वं नित्यमवगतं सर्वाङ्गोपसहारस्य च सर्वदा पुंसा संपादयितुमशक्यत्वाच्छक्यमात्राङ्गानुष्ठानादेव सकलाङ्गसाध्योपकारसिद्धिरित्युपकारस्यावच्छेदः । अशक्याङ्गेभ्योऽवच्छिद्य शक्येष्ववस्थापनं युज्यते , न तु तथेह शाखान्तरीयाङ्गोपसंहारस्याशक्यत्वम् । अशक्तेः प्रथमाधिकरणे निरस्तत्वात् । न चोपास्तीनां नित्यत्वावगतिः काम्यत्वादित्यर्थः ।
पूर्वमेकस्यैकस्मिन्विषयेऽपेक्षाऽनपेक्षयोर्विरोधाद् गृहमेधीयन्यायासंभव उक्तः , इदानीं वैषम्यान्तरेण प्रकृते तदसंभवमाह –
प्राकृतेति ।
चोदकोऽतिदेशः । तेन प्राकृत उपकारपिण्डो गृहमेधाय प्राप्यते तद्द्वारा च तज्जनकानि सकलप्राकृताङ्गानि । तत्राज्यभागावपि तन्मध्ये प्राप्नुत इति प्राप्तयोः पुनर्वचनात् सकलाङ्गजन्योपकारस्य तन्मात्रजन्यत्वेनावच्छेदः स्यादिह तु स्वशाखागताङ्गानां वचनाद्विना न प्राप्तिरिति तद्विधायकमेव वचनं नेतरपरिसंख्यायकमित्यर्थः । अनेन गृहमेधीयपूर्वपक्षगतपरिसंख्यापक्षोऽपि व्युदस्तः ।
तन्मात्रविधिपक्षस्यापि गृहमेधीयपूर्वपक्षगतस्यात्रासंभवमाह –
न च तदुपकारेति ।
तच्छब्देन प्राकृतमङ्गं परामृशति । आज्यभागतदितराङ्गसाध्ये उपकारस्तोमेऽतिदेशप्राप्तेऽप्याज्यभागविधानाद्धि तत्रातिदेशस्य तन्मात्रविधानपरत्वं कल्पितं , न त्विह विद्यासु स्वपरशाखागतधर्मसाध्योपकारपिण्डस्यास्तिकश्चिदतिदेशः , यस्य तत्प्राप्तधर्मस्य स्वशाखायां विधानात् स्वशाखागतधर्ममात्रविधायकत्वं कल्प्येतेत्यर्थः । तत्त्वेन एकत्वेन ।
बलवति बाधके इति ।
प्राप्तौ पुनर्विधानमेव बलवद् बाधकम् ॥५॥
इति द्वितीयं उपसंहाराधिकरणम् ॥
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥ चोदनाद्यविशेषादित्यस्यापवादार्थमिदमधिकरणम् । भाष्ये वाजसनेयिशाखागतमुद्गीथब्राह्मणं छान्दोग्यगत उद्गीथाध्यायश्च विषयत्वेनोदाहृतः । तत्र वाजसनेयिब्राह्मणं तावद्व्याचष्टे –
द्वया इत्यादिना ।
‘‘द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरात् यज्ञ उद्गीथेनात्ययामेति ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति तेभ्यो वागुदगायत्ते विदुरनेन वैत उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन् अथ हेममासन्यं प्राणमूचुस्त्वन्न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेने’’ त्याद्यभिधाय ‘‘तमभिद्रुत्य पाप्मनाऽविध्यन्त्सन्स यथाऽश्मानमृत्वा लोष्टो विध्वंसतैवं हैव विधंसमाना विश्वञ्चो विनेशु’’रिति श्रुतिः । तत्र प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः । तदपत्यानीन्द्रियवृत्तयः प्राजापत्याः ।
असुराणां ज्यायस्त्वं वृद्धत्वं श्रुत्युक्तमुपपादयति –
यतोऽमी इति ।
कानीयसाः कनीयांसो देवाः ।
कनिष्ठत्वमुपपादयति –
अज्ञानपूर्वकत्वादिति ।
अनादि ह्यज्ञानं तत्त्वज्ञानं चरमभावि । अतस्तज्जन्यप्रवृत्तिरूपाणां देवानां कनिष्ठत्वमित्यर्थः ।
अस्पर्धन्तेत्येतद्व्याचष्टे –
तदस्येत्यादिना ।
प्राणस्येत्येतच्छ्रुतिगतप्रजापतिशब्दस्य व्याख्यानम् । प्राणप्रधानस्य क्षेत्रज्ञस्येत्यर्थः ।हन्तेत्यनुमतौ । यद्यनुमतिरस्ति सर्वेषामस्माकमसुरजये , तर्ह्यसुरानत्ययामातीत्यासुरान् देवभावमाप्नुवामेत्यर्थः । यज्ञो ज्योतिष्टोमः । सोऽसुराणां विध्वंसकत्वादाभिचारिकः । वाक् प्राणेत्यत्र प्राणो घ्राणेन्द्रियम् ।
निन्दित्वेति ।
तान्येव वागादीनीत्यर्थाल्लभ्यते ।
प्राणमात्रस्य संवादकर्तृत्वायोगाद्देवता लक्ष्यत इत्याह –
प्राणाभिमानेति ।
एष इति मुख्यप्राणस्य विशेषणं घ्राणव्यावृत्त्यर्थम् । अभिद्रुत्याधिगम्य । अविध्यंस्ताडितवन्तः । अविध्यन्त्सन्निति श्रुतिपदं तत्र सन्प्रत्ययमुपेक्ष्य प्रकृतिमात्रमुदाहृतम् । लोष्टः पांसुपिण्डः । स चान्यो वा दुर्बलः काष्ठादिरित्यर्थः । वाशब्दः श्रुतावविद्यमानोऽपि न्यायलभ्यत्वादुपन्यस्तः ।
उद्गीथकर्तृत्वम् , उद्गानक्रियारूपत्वं च शाखाभेदेन श्रूयमाणं न विद्याभेदकम् , एकस्यां शाखायां विधैक्यसंप्रतिपत्तावपि तद्दर्शनादित्याह –
न केवलं शाखान्तरे इति ।
एवं कर्तृक्रियात्वनिर्देवैषम्यं परिहृत्य सकलभक्तिनिर्देशो वाजसनेयके , भक्तयेकदेशप्रणवनिर्देशश्छान्दोग्ये इति वैषम्यं परिहरति – बहुतररूपेति ॥६॥ रसतमादिगुणोपव्याख्यानमोङ्कारस्य कृत्वेति शेषः । एतच्च भाष्यप्रतीकोपादानम् । एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधय ओषधीनां पुरुषो रसः पुरुषस्य वाग् रसो वाच ॠग्रसः , ॠचः सामरसः साम्न उद्गीथो रसः स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ इति श्रुतिः ।
एतच्छ्रुतिव्याख्यानेन भाष्योक्तरसतमादिगुणयोगं विवृणोति –
तथा हीति ।
यस्य यजमानस्य पुरस्तात् पूर्वं हविरुप्तं देवतार्थं सङ्कल्पितं भवति चन्द्रमाश्च पश्चादभ्युदेति स चतुर्दश्याममावस्याभ्रमवान् मध्यमादिभावेन त्रेधाभूतास्तण्डुलानग्न्यादिभ्यो दर्शदेवताभ्यः सकाशाद्विभजेद् । विभज्य च दात्रग्न्यादिदेवताभ्यो निर्वपेदित्यर्थः । दधन् दधनि । श्रुते दुग्धे ।
तेष्वेव कर्मस्विति ।
आग्नेयादिष्वित्यर्थः ।
कालापराधं विवरीतुं यथाकालमनुष्ठानं दर्शयति –
एष तावदिति ।
अभितः सन्निधौ उदितश्चन्द्रो यस्य स यजमानोऽभ्युदितः ।
अत्र सिद्धान्ते दर्शकर्मण्येव देवतापनयमात्रमित्यस्मिन् प्रयोजनमाह –
अमावास्यायामेवेति ।
तस्यैव कर्मणोनुवर्तमानत्वे हि स्वदेवतायुक्तं तत्परिसमापनीयं ततश्चतुर्दश्यां निरुप्तहविषा देवतान्तरेभ्यो नैमित्तिकप्रयोगं परिसमाप्य पुनरमावस्यायामेवाग्न्यादिभ्यो दर्शदेवताभ्यो हविर्निरुप्य प्रतिपदि दर्शः प्रवर्तयितव्यः । दर्शलोपे तु प्रायश्चित्तभूतमिदं कर्मामावास्यायां कृत्वोपरन्तव्यमिति चिन्ताप्रयोजनमित्यर्थः ।
पूर्वपक्षमाह –
हविर्भागेत्यादिना ।
उत्पत्तिशिष्टदेवतावरुद्धे कर्मणि देवतान्तरानवकाशात् कर्मान्तरत्वमित्येवमर्थं हविर्विभागमात्रश्रवणादिति संग्रहवाक्यं , प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदप्रसङ्गात् कर्मान्तरत्वमित्येवमभिप्रायं चरुविधानसामर्थ्याच्चेति द्वितीयं संग्रहवाक्यम् ।
तत्राद्यं विभजते –
यदि हीत्यादिना ।
पूर्वदेवताभ्योऽग्न्यादिभ्यो हवींषि विभजेदिति वाक्येन विहिते उत्पत्तिशिष्टदेवतावरोधस्य वाक्येनैव वारितत्वात् पूर्वकर्मणि देवतान्तरनिवेशसंभवे सति न कर्मान्तरत्वं स्यात् । हविर्मात्रविभागविधाने तूत्पत्तिशिष्टदेवतावरोधाद् वाजिनेज्यावत् कर्मान्तरत्वमित्यर्थः ।
द्वितीयं संग्रहं विवृणोति –
अपि चेति ।
ननु कर्मान्तविधौ प्रारब्धदर्शप्रयोगस्य का गतिस्तत्राह –
दर्शस्तु लुप्यते इति ।
कर्मान्तरमिति प्रतिज्ञाय हेतुमाह –
पूर्वदेवतात इति ।
उत्पत्तिशिष्टदेवतावरोधं परिहृत्य वाक्यभेदं परिहरति –
चर्वर्थस्येति ।
वाक्यान्तरप्राप्तमिति ।
ये मध्यमा इत्यादिवाक्यैः प्राप्तमित्यर्थः ।
ननु विभजेदित्येतावन्मात्रविधौ कस्मादिति न ज्ञायते , तत्राह –
तत्र च वाक्यान्तरेति ।
ये मध्यमादिवाक्यैर्देवतान्तरेषु तत्प्रतियोगिनीनां देवतानामेव बुद्धिस्थानां विभागप्रतियोगित्वं गम्यते इत्यर्थः ।
ननु तण्डुलानामेव देवताभ्यो विभागश्रवणाद्दधिपयसोर्न पूर्वदेवतातो विभागोऽवगतोऽतस्तयोरुत्पत्तावैन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामितीन्द्रदेवतावरुद्धयोर्न देवतान्तरावकाश इति कर्मभेद एव स्यादत आह –
तण्डुलानिति त्वविवक्षितमिति ।
हविर्मात्रं विभागविषयः । तस्य तण्डुलत्वेन विशेषणे विशिष्टोद्देशाद्वाक्यभेदः स्यादित्यर्थः ।
हविरुभयत्ववदिति ।
दर्शपूर्णमासयोराम्नायते –
यस्योभयम् हविरार्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेदिति ।
उभयं दधिपयः । तत्र श्रुतत्वाद्धविर्वदुभयत्वमपि निमित्तान्तर्भूतमिति प्रापय्य षष्ठे राद्धान्तितम् । अविवक्षितमुभयत्वम् । तद्विवक्षयां हि विशिष्टोद्देशनाद्वाक्यं भिद्येत – हविरार्तौ निर्वपेदुभयर्तौ चेति , विध्यावृत्तिप्रसङ्गात् । ननु तर्हि हविरप्यविवक्षितं स्याद्धविर्विशिष्टार्तेरुद्देश्यत्वे वाक्यभेदतादवस्थ्यात् ; न ; आर्तिमात्रस्य सर्वदा सर्वेषां संभवेन निमित्तत्वापर्यवसानात् । तत्पर्यवसानस्य हि मृष्यामहे हविषा विशेषणम् । उभयत्वं तु पर्यवसिते निमित्ते विशेषणं भविद्विध्यनाकाङ्क्षितं वाक्यं भिद्यादिति तन्न मृष्यामः ।
तस्मादविवक्षितमुभयत्वमिति ।
ननु शक्नुवन्तु वाक्यानि तस्मिन् कर्मणि देवतान्तरं विधातुं , तस्यैवत्वबुद्धिस्थत्वात्कथं तत्र देवताविधिरत आह –
द्रव्यमुखेनेति ।
पूर्वोक्तं सिद्धान्तप्रयोजनं निगमयति –
ततश्चेति ।
एवमुत्पत्तिशिष्टदेवतावरोधं परिहृत्य वाक्यभेदप्रसङ्गं परिहरति –
न च दधनि चरुमित्यादिना ।
प्राकृतकर्मणि तण्डुलादयः पाकान्ताः पुरोडाशसामर्थ्यात्सिद्धाः । दधिपयसी च स्वत एव सिद्धे ।
कथमेतावताऽधिकरणचर्वर्थयोः प्राप्तिरत आह –
तत्राभ्युदयेति ।
दध्नस्तण्डुलानां पयसस्तण्डुलानां च साहित्यं ये मध्यमादिवाक्यावगतादेकदेवताकत्वात्सिद्धम् ।
तदिदमुक्तं –
दधियुक्तानां पयोयुक्तानां चेति ।
नन्वेवमपि दधिपयसोस्तण्डुलानां च मिश्रणमेव भवति , कथमधिकरणार्थलाभस्तत्राह –
न च प्रभूतेति ।
त्र्यधिकगवां दोहविधानाद्दधिपयसोः प्रभूतत्वम् । अतश्चाल्पास्तण्डुलान् प्रत्याधारत्वं सप्तम्यर्थो दधिपयसोः सिद्धः ।
ननु पुरोडाशनिवृत्तौ पाकोऽपि निवर्ततां , तथा च कथं चरुसिद्धिरत आह –
अनिवृत्तिस्त्विति ।
साधनविशेषाश्रितत्वाद्धर्माणां तण्डुलेष्वपि पाकानुवृत्तिर्व्रीहि धर्माणामिवावधातादीनां यवेष्वित्यर्थः ।
प्रकृताधिकारेति ।
प्रकृतस्य दर्शपूर्णमासकर्मणो द्रव्यद्वारेणाधिकारावगमात् संबन्धावगमादगत्या वाक्यभेदस्य न्याय्यत्वादित्यर्थः । वत्सानपाकुर्याद्गोदेशाद्देशान्तरं नयेत् । इतरथा हि ते सर्वे सर्वं दुग्धं पिबेयुरिति ।
भवतु परस्मात्स्वरप्राणादेः परो वराच्च तस्मादेव वरीयान् वरतर उद्गीथः कथमनन्तस्तत्राह –
परमात्मरूपेति ।
परमात्मदृष्ठ्यध्यासात्तद्रूपसंपत्तिः ।
ननु ‘‘का साम्नो गतिः कारणं , स्वर इति होवाच स्वरस्य का गतिरिति प्राण’’ इतीत्युपक्रम्यास्य लोकस्य का गतिरित्यनन्ताकाशं निर्दिश्याकाशो ह्येवैभ्यो ज्यायानित्यादिनाऽऽकाशस्यैव परोवरीयस्त्वादिगुणयोगं दर्शयति । तत्कथं परमात्मदृष्ठ्यध्यास उद्गीथेऽत आह –
परमात्मदृष्ठिमिति ।
आकाशस्तल्लिङ्गा (ब्र.अ.१.पा.१.सू.२२) दित्युक्तं न प्रस्मर्तव्यमित्यर्थः ॥७॥८॥ तत् तत्र देवादुरसंग्रहे ह किल देवा उद्गीथम् उद्गीथावयवोङ्कारम् आजह्नुराहृतवन्तः । तस्य केवलस्याहरणायोगात् तदाश्रयं ज्योतिष्टोमादि आहृतवन्त इत्यर्थः । अनेन कर्मणा एतानसुरानभिभविष्याम इति स उद्गाता वाचा प्राणेन च वागुपसर्जनप्राप्नाणेनोद्गानं कृतवान् ॥
इति तृतीयमन्यथात्वाधिकरणम् ॥
व्याप्तेश्च समञ्जसम् ॥९॥ ओमित्येतदक्षरम् उद्गीथमिति वाक्ये ओंकारस्योद्गीथेन विशेषणमर्थं सिद्धवत्कृत्य प्रकमभेदाद्विद्याभेदो दर्शितः , इदानीं स एवार्थश्चिन्त्यते । भाष्ये भेदबुद्धावनुवर्तमानायामन्यतरबुद्धिरध्यास इत्यध्यासलक्षणमुक्तम् ।
तदयुक्तम् ; स्मृतिरूप इत्यत्राविवेकपूर्वकत्वस्य वर्णितत्वादत आह –
गौणी बुद्धिरध्यास इति ।
उक्तानीति ।
भाष्ये यथाश्रुतान्येव ग्राह्याणि न व्याख्यानापेक्षाणीत्यर्थः ।
उद्गीथोङ्कारशब्दयोरैकार्थ्ये पर्यायत्वात्सहप्रयोगादेकत्वपक्षानुत्थानमाशङ्क्याह –
ऐकार्थेऽपीति ।
भाष्यमुपादत्ते – इदमुच्यत इतीति शब्दो द्रष्टव्यः ।
ओंकारस्य शब्दविशेषस्य कथं वेदव्याप्तिरत आह –
प्रत्यनुवाकमिति ।
यजुर्वेदे अध्ययनप्रवचनयोः प्रत्यनुवाकमुपक्रमसमाप्तौ चोङ्कार उच्चार्यते , ऋग्वेदे तु प्रत्यृचम् ।
अत एव सामवेदेऽपि ऋगध्यूढत्वात् साम्न इति सर्ववेदे व्यापक कारः , प्रतिवेदंच स्वरादिभेदाद् भिद्यते ।तद्विशेषप्रतिपत्त्यर्थमुद्गीथविशेषणमित्याह –
किंगतोऽयमिति ।
विशेषणे च प्रयोजनमाह –
तत्तदाप्त्यादीति ।
आदिशब्देन समृद्धिरसतमत्वादि गृह्यते । आप्तिः कामप्रापकत्वम् । अधिक्रियते प्रतिपाद्यते ।
ननु संभवे व्यभिचारे च विशेषणमर्थवत् , तत्र सर्ववेदव्यापकत्वाद्विशेष्यस्योङ्कारस्य भवतु विशेषणेन व्यभिचारः , संभवस्तु विशेष्ये ओंकारे विशेषणस्योद्गीथत्वस्य नोपपद्यते ; उद्गीथशब्दस्य सकलभक्तिवाचित्वाद् भक्तित्वस्य च भक्तयवयवे ओंकारेऽनुपपत्तेरत आह –
उद्गीथपदेनेति ।
स्यादेतत् – उद्गीथशब्दस्य किमित्यवयवलक्षणार्थत्वम् ? औंकारशब्दस्य एवोद्गीथभक्तिनीमवयविनीं लक्षयतु , तदापि शब्दयोः सामानाधिकरण्यसंभवादत आह –
न पुनरोंकारेणेति ।
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ; आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यादिना प्रणवस्यैवाप्त्यादिगुणविशिष्टस्य तादृक्फलविशिष्टस्य चोपव्याख्यास्यमानत्वात् , प्रधाने न लक्षणानुपपत्तेरुद्गीथशब्द एव लाक्षणिक इत्यर्थः । ओंकारेण भक्तिलक्षणायां वैयर्थ्यं च स्याद् , उद्गीथपदेन भक्तिविशेस्यैव व्यभिचाराभावादित्यपि द्रष्टव्यम् । निरूढा चेयं लक्षणा न सांप्रतिकी स्यादित्यर्थः । इयं च वक्ष्यमाणन्यायेन गौण्येव लक्षणेत्युक्तेति ।
ननु किमिति फलकल्पना ? आप्त्यादिफलस्य श्रुतत्वादत आह –
आप्त्यादिगुणकेति ।
ओंकार उद्गीथदृष्टेस्तस्मिन्नाप्त्यादिगुणदृष्टेस्तस्मिन्नाप्त्यादिदृष्टेश्चोपास्यरूपभेदाद्भेद इत्यर्थः ।
सिद्धान्ते फलकल्पनां वारयति –
उद्गीथसंबन्धीति ।
उद्गीथभक्तिसंबन्धिनः प्रणवस्योपासनाया अधिकारप्रतिपादनं , तत्परे तु वाक्ये न फलकल्पनादोषः । आप्त्यादिदृष्टीर्विधातुमोमित्येतदक्षरमिति वाक्येन विशिष्टप्रणवसमर्पणेन पृथगुपासनविध्यभावादाप्त्यादिगुणविशिष्टप्रणवोपास्तेश्चापयिता ह वै कामानां भवतीत्यादिना फलश्रवणाच्चेत्यर्थः । विषयतया ओंकार उद्गीथदृष्टिविधौ हि गौण्युद्गीथशब्दस्य वृत्तिः स्यात् । उद्गीथ दृष्टिविषयत्वं च गुणः । ततश्चोद्गीथदृष्टिदृष्टत्वादोङ्कार उद्गीथ इत्यर्थः संपद्यते । न पुनरुद्गीथेनोङ्कारलक्षणा तथा सति दृष्टिविध्यसिध्देः । सिद्धान्ते त्ववयविवचनेनोद्गीथशब्देनावयवलक्षणा ।
ततः किं जातमत आह –
गौण्या वृत्तेरिति ।
वाच्यमर्थं विहाय यद्वस्तु लक्ष्यते तन्मात्रपरत्वलक्षणायाम् इत्यव्यवधानमुक्त्वा गौण्या लक्षणीयार्थद्वाराऽर्थान्तरे शब्दस्य वृत्तेर्व्यवधानमाह –
गौर्वाहीक इति ।
लक्षणायामपीति ।
भाष्ये पूर्वपक्षेऽपि लक्षणाऽभ्युपगमो न युक्तः , तत्र गौणी वृत्तिरित्युक्तत्वादत आह –
गौण्यपीति ।
लक्षणा गुणविषयावयव एकदेशो यस्याः साः तथोक्ता ।
एवमध्यासपक्षं दूषयित्वैकत्वपक्षं दूषयति –
यद्यपीति ।
वैश्वदेव्यादिशब्दे लक्ष्यैक्येऽपि वाच्यभेदान्न पर्यायत्वं , तव तु वाच्याभेदात्पर्यायत्वमित्यर्थः । ननु पर्यायत्वेऽपि करिसिन्धुरादिशब्दानां सहप्रयोग उक्तस्तत्राह – न च व्याख्यानमिति ॥९॥
इति चतुर्थं व्याप्त्यधिकरणम् ॥
सर्वाभेदादन्यत्रेमे ॥१०॥
ओंकारस्य सर्वस्य प्राप्तावुद्गीथमिति विशेषणादन्यव्यावृत्तिवदेवं विद्वानित्येवंशब्दात्संनिहितावलम्बनादसन्निहितस्य विद्यैक्यद्वाराऽनुमानात् प्राप्नुवतो वसिष्ठत्वादेर्व्यावृत्तिरिति पूर्वपक्षमाह –
एवंशब्दस्येति ।
ननु कौषीतकिवाक्यं , वसिष्ठत्वादिमत्प्राणविषयं , श्रैष्ठ्यादिगुणकप्राणोपास्तिपरत्वाद् , वाजसनेयिवाक्यवदित्यनुमानाद्वसिष्ठत्वादिकमपि सन्निहितमिति नेत्याह –
साक्षादिति ।
अशाब्दस्य शाब्देनाऽनन्वयात् । न हि गामानयेति वाक्यार्थे प्रत्यक्षदृष्टोघटोऽन्वेतीति । फलविधिपरे एवं विद्वानिति वाक्येऽन्यव्यावृत्तिपरत्वमेवंशब्दस्य न युक्तम् ; वाक्यभेदप्रसङ्गादिति केशवोक्तमयुक्तम् ; व्यावृत्तिपरेऽपि वाक्ये विद्यैक्यद्वारप्राप्तशाखान्तरीयफलसंबन्धानुवादात् कुतो वाक्यभेदः ? सत्यम् , अशाब्दं शाब्दे नान्वेति सन्निधिमात्रमभिदधतस्त्वेवंशब्दस्य शाखान्तरीयमपि वसिष्ठत्वादिकं गुणिद्वारेण सन्निहितमभिधेयमिति भवति शाब्दम् ।
अतश्च वाक्यार्थेऽन्वेतीति सिद्धान्तयति –
सत्यमित्यादिना ।
एवं च सिद्धान्ते सन्निहितसमस्तधर्मपरामर्शिन एवंशब्दस्यानुवादकत्वात् फलपरत्वमेव कौषीतकिवाक्यस्येति वेदितव्यम् । जुह्वोपस्थापितक्रतुः सन्निहितः , स च जुह्वपदस्य लक्ष्य इति नाशाब्द इत्यर्थः ।
उपास्यफलप्रत्यभिज्ञानादिति ।
उपास्यप्राणस्य प्रत्यभिज्ञानात्तदाप्तिलक्षणफलस्य प्रत्यभिज्ञानाच्चेत्यर्थः ।
भाष्ये कौषीतकीब्राह्मणगतेनैवंशब्देन वाजसनेयिब्राह्मणगतगुणपरामर्शाभावाङ्गीकारो न युक्तः ; उक्तप्रकारेण तत्परामर्शस्यापि संभवादत आह –
तथापीति ।
शाखान्तरीयगुणोपसंहारेऽपि स्वशाखागतगुणस्वीकारात्कथं श्रुतहानिप्रसक्तिर्यतो भाष्ये निषिध्यतेऽत आह –
केवलस्येति ।
केवला हि स्वशाखायां श्रुतास्तेषां कैवल्यहानिरश्रुतोपसंहारे सतीति शङ्केत्यर्थः ॥१०॥ निःश्रेयसं श्रैष्ठ्यं तस्यादानं निर्धारणं प्रस्तूयत इत्यर्थः । अहंश्रेयसे आत्मश्रेष्ठत्वाय । यथा प्राणो वागादिभ्यः श्रेष्ठस्तथा उ । तथा उशब्दोऽप्यर्थः । एवं विद्वानपि प्राणे श्रैष्ठ्यं विदित्वा उपास्यप्राणात्मत्वप्राप्त्या श्रैष्ठ्यादिगुणान्वितो भवति ॥
इति पञ्चमं सर्वाभेदाधिकरणम् ॥१०॥
आनन्दादयः प्रधानस्य ॥११॥ प्राणस्य सविशेषत्वाद्युक्तः शाखान्तरीयवसिष्ठत्वाद्युपसंहारः , ब्रह्मणस्तु निर्विशेषत्वात् स्वशाखागतधर्मैरेव प्रमितिसिद्धेर्नानन्दाद्युपसंहार इति प्रत्यवस्थानात्सङ्गतिः । ननु वेद्यब्रह्मैक्याद् गुणोपसंहार उत्सर्गप्राप्तः ।
न चात्रापवादकमेवंशब्दवत् किंचिदुपलभ्यते तत्किमर्थमधिकरणमारभ्यते ? अत आह –
गुणविधानस्येति ।
यद्यानन्दादयो ब्रह्मैक्यात्सर्वशाखासूपसंह्रियेरन् , तर्हि संयद्वामत्वादयः किमिति नोपसंहृता इति प्रतिबन्द्याशङ्कायां संयद्वामत्वादय उपासनार्थं विधेया विधिप्रयुक्तापूर्वस्य चानिर्ज्ञातपरिमाणत्वादपूर्वप्रयुक्तधर्माणां यथाविधि व्यवस्था , सत्यज्ञानादयस्तु वस्तुतत्त्वप्रमित्यर्था इति यत्र यत्र वस्तुतत्त्वप्रतिपत्तिस्तत्र तत्र नेतव्या इति विशेषप्रदर्शनेन प्रतिबन्दीं परिहर्तुमयमारम्भ इत्यर्थः । शिष्टं स्पष्टार्थम् । यत्तु - निर्विशेषे पदान्तरवैयर्थ्यादनुपसंहारः – इति , तत्रोच्यते ; सत्यज्ञानानन्दानन्तात्मत्वपदार्था इतरेतरं विशेषणविशेष्यभूता विरुद्धानृतजडदुःखपरिच्छेदानात्मताभ्रान्तीर्व्यावर्तयन्तः सत्तादिपरापरसामान्याधारभूतामेकामानन्दव्यक्तिं लक्षयन्ति सद् द्रव्यं कुम्भ इति पदानीव कुम्भव्यक्तिम् । एतादृशब्रह्मसिद्धिश्च नैकस्मात्पदात्तन्मात्रप्रयोगे विरोधाभावाल्लक्षणाया अनुत्थानात्प्रयोक्तव्ये च पदान्तरे यावन्त्यो भ्रान्तयः संभाव्यन्ते , तन्निरसनसमर्थपदवृन्दं प्रयोक्तव्यमिति समारोपितभ्रमनिरसनसमर्थं पदार्थवृन्दं सर्वत्रोपसंहर्तव्यमिति ॥११॥१२॥१३॥
इति षष्ठमानन्दाद्यधिकरणम् ॥
आध्यानाय प्रयोजनाभावात् ॥१४॥ विद्याभेदाभेदप्रसङ्गेन वाक्यभेदाभेदचिन्ता । तन्निबन्धनविद्याभेदाभेदाचिन्तनाद्वा पादसंगतिः । ब्रह्मस्वभावभूतोपसंहार्यधर्मचिन्तानन्तरमस्वभावस्यानुपसंहार्यस्याप्यर्थादिपरत्वरूपधर्मस्य ब्रह्मप्रतिपत्त्युपायत्वचिन्तनादवान्तरसंगतिः । विगतज्वरत्वं प्रतितिष्ठत्यर्थं संबध्यते । शतं सहस्रमित्यादिभिर्मन्वन्तरमेव विशेष्यते । सूक्ष्मशब्दादिभूतध्यायिनो भौतिकाः । करणाभिमान्यादित्यादिदेवताध्यायिन आभिमानिकाः । अन्तःकरणध्यायिनो बौद्धाः । दृष्टप्रयोजने संभवत्यदृष्टकल्पनाऽनुपपत्तेः पुरुषपरत्वार्थत्वमितरेषामित्याह – तदत्रेति ॥१४॥
फलवत्तरत्वं तात्पर्यलिङ्गपुरुषपरत्वेऽभिधायमानमानान्तरानधिगतत्वलक्षणमपूर्वत्वं तात्पर्यलिङ्गमाह –
अनधिगतार्थेति ।
अचेतनायाः श्रुतेरभिप्रायायोगाद् भाष्ये आशयशब्दो गौण इत्याह –
आशयातिशय इवेति ।
किंचार्थादिपरत्वे वाक्यभेदेन प्रतिपादिते प्रकरणोत्कर्षः स्यान्निर्गुणविद्यायां तदनुयोगात्पुरुषपरत्वमात्रप्रतिपादने चैकवाक्यत्वं लभ्यत इत्याह –
किं च श्रुत्यन्तरेति ।
एतत्प्रकरणस्थं सोऽध्वन इति वाक्यमेव श्रुत्यन्तरम् ॥१५॥
इति सप्तममाध्यानाधिकरणम् ॥
आत्मगृहीतिरितरवदुत्तरात् ॥१६॥ पूर्वत्र वाक्यभेदप्रसङ्गादर्थादिपरत्वं निरस्तं , तर्हि हिरण्यगर्भे सकलस्य वाक्यस्यान्वयेन वाक्यभेदाभावात्तत्परत्वं वाक्यस्यात्राशङ्कते ।
ननु - एक एवाग्र आसीदिति प्रागुत्पत्तेरात्मैकत्वावधारणादैक्षतेतीक्षितृत्वश्रवणाच्च परमेश्वरे गम्यमाने कथं हिरण्यगर्भशङ्का ? अत आह –
श्रुतिस्मृत्योरिति ।
आत्मा वेति वाक्यं , हिरण्यगर्भपरं महाभूतसृष्ठ्यविषयत्वे सति लोकसृष्टिविषयत्वात् , ‘‘आत्मैवेदमग्र आसीत्पुरुषविधः’’ ‘‘स वै शरीरी प्रथम’’ इति च वाक्यवदित्यनुमानात्तु लिङ्गद्वयमन्यथा नियमित्यर्थः । लोकसृष्टिरुपलभ्यमानाऽवान्तरेश्वरकार्या सती एकत्वावधारणादिकमवान्तरेश्वरसंबन्धितया गमयतीति योजना ।
अनुमानस्य श्रुतिस्मृत्योरित्यादिनाऽन्वयव्याप्तिरुक्ता , इदानीं व्यतिरेकव्याप्तिमाह –
परमेश्वरसर्गस्येति ।
पारमेश्वरलिङ्गद्वयस्यान्यथानयनप्रकारमेव दर्शयति –
अस्ति हीति ।
संदंशन्यायं वक्तुं पूर्ववाक्यमनुसंधत्ते –
अपि चैतस्मिन्निति ।
अथातो रेतसः सृष्टिः प्रजापते रेतो देवा इत्यादिना प्रजापतिकर्तृका सृष्टिरुक्तेत्यर्थः ।
उत्तरवाक्यमालोचयति –
अपि च ताभ्य इति ।
अत्रापि दृष्ट इति ।
आत्मैवेदमग्र आसीत्पुरुषविध इति वाक्ये दृष्ट इत्यर्थः । आत्मैवेति पदं यस्य तस्य भावस्तत्त्वम् ।
महाभूताविषयत्वे सति लोकसृष्टिविषयत्वादिति हेतोर्विशेषणासिद्धिमाह –
न च महाभूतसृष्टीति ।
इहापि महाभूतानि सृष्ट्वेति कल्पनीयमिति । अनेन सिद्धान्ते महाभूतसर्गोपसंहारात्पादसङ्गतिः । सूत्रितसर्गस्य महाभूतादित्वं यच्छ्रुत्यन्तरे श्रुतं तस्मिन् शैथिल्यं नादरणीयं , किं तु तस्येहोपसंहारः कार्य इत्यर्थः । औपयिकत्वमुपयोगित्वम् ।
महाभूतानुपसंहारेऽपि परमात्मा प्रत्येतुं शक्य इत्याह –
न च लोकसर्गोऽपीति ।
अत्रैवोक्तमिति ।
अस्मिन्नेव शास्त्रे संज्ञामूर्तिक्लृप्त्या (ब्र.अ.२.पा.४.सू.२०) द्यधिकरणेष्वित्यर्थः ।
उपरिष्टाच्चेति ।
एष ब्रह्मैष इन्द्र इत्यादिवाक्ये इत्यर्थः । इदं जगदग्रे सृष्टेः प्रागात्मा एक एवासीत् । एवकारास्तु सत्यप्यात्मतादात्म्ये इदानीमिव विशेषावस्थाया निषेधार्थः । मिषन्निमेषव्यापारवच्चेतनं तच्चामिषतोऽप्युपलक्षणम् । ईक्षत ऐक्षत । आडभावः छान्दसः । कथमीक्षितवान् । लोकान् नु सृजै स्रक्ष्यामीति । लोका एवोच्यन्ते अम्भ इत्यादिना ।
अम्भःप्रभृतीन् स्वयमेव श्रुतिर्व्याचष्टे – ‘‘अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आप’’ इति । अदस्तदम्भः यत्परेण दिवं दिवः परस्ताद्वर्तते तस्य च परस्ताद्वर्तमानस्य द्यौः प्रतिष्ठा आश्रयः साऽप्यम्भःशब्दवाच्या दिवमारभ्योपरितनलोकाश्चान्दमसैरम्भोभिरभिव्याप्तत्वादम्भ उच्यन्ते इत्यर्थः । अन्तरिक्षलोकः सवितृमरीचिव्याप्तत्वान्मरीचय इत्यर्थः । स्थानभेदापेक्षया बहुवचनम् । म्रियन्तेऽस्मिन् भूतानीति पृथिवीलोको मरः , याः पृथिव्याः अधस्तात्ता आपः पातालानि । तेषामब्बाहुल्याद्विधेयापेक्षया स्त्रीलिङ्गत्वम् । आत्मा हिरण्यगर्भः पुरुषविधः पुरुषप्रकारः शिरःपाण्यादिमान्प्रजापतेः रेतःकार्यं देवाः । प्रजापतिः कार्यकारणाधिष्ठात्रीरग्न्याद्या देवता वागादिभिः सह सृष्टवान् । ताश्च तं प्रति भोगसिद्ध्यर्थं शरीरमयाचन्त । स च ताभ्यो गां गोशरीरमानीतवान् । तथाऽश्वशरीरं पुरुषशरीरं च । ततस्ता देवताः सोऽब्रवीद् यथायतनं यथाचक्षुरादिस्थानम् अस्मिन् शरीरे प्रविशतेति । स ईश्वर एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया द्वारा ब्रह्मरन्ध्रसंज्ञया शरीरं प्रापद्यत प्राप्तवान् । स शरीरे प्रविष्ट ईश्वर एतमेव शरीरान्तर्गतं स्वात्मानं ब्रह्म ततमं तकार एको लुप्तो द्रष्टव्यः । तततमं व्याप्ततमं यद् ब्रह्म तद्रूपेणैतमात्मानम् अपश्यदित्यर्थः । यः शरीरे प्रविष्टः परमेश्वर एष एव ब्रह्म परमात्मा प्रजापतिर्हिरण्यगर्भोऽप्येष एव प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत्प्रज्ञानेत्रम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितम् ।लोकोऽपि भूरादिप्रज्ञानेत्रः प्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रतिष्ठाऽधिष्ठानम् । तच्च प्रज्ञानं ब्रह्म ॥१६॥१७॥
पूर्ववर्णके विद्यैक्यगुणोपसंहारानिरूपणात्पादसङ्गतिसिद्ध्यर्थं वर्णकान्तरमारभते –
अपरः कल्प इति ।
कल्पः प्रकारः ।
पूर्वत्र वाक्यैक्यबलादर्थादिपरत्वमविवक्षित्वा विध्यैक्यमुक्तम् , अत्र तु भिन्नार्थोपक्रमेण वाक्यभेदाद्विद्याभेद इति पूर्वपक्षयति –
तत्र सच्छब्दस्येति ।
उपक्रमभेदाद्भिन्नार्थत्वमिति ।
आत्मोपक्रमवाजसनेयिवाक्याद् भिन्नार्थत्वमित्यर्थः ।
ननु स आत्मेत्युपसंहारादुपक्रमस्याप्यात्मपरत्वमस्तु , नेत्याह –
स आत्मेति ।
असंजातविरोधोपक्रमात्संजातविरोध उपसंहारः सत्तासामान्ये परमात्मदृष्ठ्यध्यासपरत्वेन नेतव्य इत्यर्थः ।
नन्वद्वयब्रह्मात्मत्वपरत्वाभावे वाक्यस्य कथमेकविज्ञानात्सर्वविज्ञानप्रतिज्ञा सदुपक्रमादप्यादौ निर्दिष्टा घटते ? अत आह –
तद्विज्ञानेन चेति ।
ननु छान्दोग्ये उपक्रम एवात्मपरः ; आत्मान एव सत्त्वेन सच्छब्दस्याकाशशब्दवद्व्यक्तिवाचित्वेनासन्दिग्धार्थत्वात् , तत्र किमित्युपसंहारगतात्मतादात्म्यपरामर्शो भाष्यकारैराश्रितः ? अत आह –
अस्तु तावदिति ।
आत्मैव सन्नित्येतदस्तु तावदिति योजना । अभ्युपेत्यापि सच्छब्दस्य सामान्यवचनत्वं तादात्म्योपदेशादिति हेतुमाहेत्यर्थः ।
सच्छब्दस्य सामान्यवचनत्वेऽभ्युपेते वाक्यशेषस्य निर्णायकत्वमाह –
सच्छब्दस्येति ।
सदेवेत्येतद्वाक्यमात्मन्येव व्यवस्थाप्यत इत्यर्थः ।
ननु क्वचिदुपक्रमादुपसंहारोऽपि निर्णीयते , यथा वेदोपक्रमादृगादिशब्दानां वेदपरत्वं , तद्वदिह किं न स्यादत अह –
नीतार्थेति ।
निर्णीतार्थेत्यर्थः ।
अदृष्टफलकल्पनाप्रसङ्गाच्च न सत्तायामात्मसंपत्तिरित्याह –
अपि चेति ।
किंचास्तु नामोपक्रमादुपसंहारनिर्णयः , सदुपक्रमादपि प्राक्तनादेकविज्ञानहेतुकसर्वविज्ञानात्परमात्मपरत्वं वाक्यस्येत्याह –
न चेति ।
वर्णकद्वयप्रयोजनं विभजते –
अत्र च पूर्वस्मिन्निति ।
पूर्ववर्णकगतपूर्वपक्षे ऎतरेयकवाक्यं हिरण्यगर्भोपास्तिपरम् । तत्सिद्धान्ते तु तद्वाक्यं ब्रह्मभावनापरं ब्रह्मत्वप्रतिपादनद्वारेणार्थात् तद्भावनायां पुरुषप्रवृत्तिहेतुरित्यर्थः । अस्मिंस्तु वर्णके पूर्वपक्षे छान्दोग्यवाक्यं सत्तासामान्ये ब्रह्मत्वसंपत्त्यर्थं , वाजसनेयिवाक्यं त्वात्मनो ब्रह्मत्वगोचरमिति विद्याभेदः । सिद्धान्ते द्वे अपि वाक्ये प्रत्यग्ब्रह्मैक्यगोचरे इति भेदोऽनन्तरोक्तत्वात् ज्ञायत एवेति नोक्तः । श्रुतिद्वयेऽपि विद्यैक्ये सदात्मभ्यामुपक्रमः । कृतः किमिति तत्रोचुराचार्या न्यायसंग्रहे ?॥ तद्यथा - तत्त्वंपदयोः श्रौतसामानाधिकरण्यस्य वाच्यार्थे भेदादनुपपत्तौ तत्परिहाराय लक्षणाऽऽश्रीयते । तत्र लक्ष्यमाणावपि तत्त्वमर्थौ यदि भेदेनैव लक्ष्येते , तर्हि तत्रापि लक्षणान्तरं स्यादित्यनवस्था स्यात् , सा मा भूदिति लक्ष्यमाणार्थैक्यमेव युक्तम् । ततस्त्वंपदार्थो ब्रह्मपर्यन्तस्तत्पदार्थोऽपि प्रत्यगात्मपर्यन्तो लक्षणीयः । तथा च वाजसनेयिवाक्यं त्वमर्थं तदर्थपर्यन्तं लक्षयति , छान्दोग्यवाक्यं तु तदर्थं त्वमर्थपर्यन्तं लक्षयतीत्यर्थैक्याद्विद्यैक्यमिति ॥१६॥१७॥
इत्यष्टममात्मगृहीत्यधिकरणम् ॥
कार्याख्यानादपूर्वम् ॥१८॥ सन्दिग्धसदुपक्रमस्य वाक्यशेषान्निर्णयवदशिष्यन्त आचामन्तीत्यादेर्वर्तमानापदेशत्वेन विधित्वसन्देहे सत्यशिष्यन्नाचामेदित्यादिवाक्यशेषादाचमनविधिपरत्वं निर्णयमिति पूर्वपक्षणात्सङ्गतिः ।
अनशब्दस्य प्राणवृत्तौ योगमाह –
अननमिति ।
अननं चेष्टां करोतीत्यन इत्यर्थः ।
‘अनग्नं कुर्वन्तो मन्यन्ते’ इति श्रुतौ मन्यतेर्ज्ञानार्थत्वाद् भाष्ये चिन्तनत्वेन व्याख्याय निर्देशो न युक्तः ; चिन्तनशब्दस्य ध्यानवाचित्वादित्याशङ्क्याह –
तद्ध्यानपर्यन्तमिति ।
अनग्नतावदस्य स्तुत्यर्थत्वेनोपपत्तौ सत्यां वाक्यभेदकल्पनानुपपत्तेरुभयविधित्वमशक्यशङ्कमित्यभिप्रेत्याह –
खुररवमात्रेणेति ।
यथा ह्यनिर्णीयैव खुरशब्दमात्रेणाश्वो धावतीत्युच्यते एवमिदमपीत्यर्थः ।
सिद्धान्तबीजमाशङ्क्य पैहरति –
यद्यपीति ।
अनृतवदनप्रतिषेधे इति स्मार्ते इति च द्वे सप्तम्यावनादरार्थे । सत्यपि स्मार्तेऽनृतवदनप्रतिषेधे तमनादृत्य यथा नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गत्वेनार्थवांस्तथाऽऽचमनविधिरपि प्राणोपास्त्यङ्गत्वेनार्थवानित्यर्थः ।
स्मार्तोऽनृतवदनप्रतिषेधः पुरुषार्थत्वाज्ज्योतिष्टोमे न प्राप्नोतीति ज्योतिष्टोमे पृथक्प्रतिषेधोऽर्थवान् , आचमनविधिस्तु स्मार्तो ‘द्विजो नित्यमुपस्पृशे’दित्यादिः कलकर्मगोचरः प्राणोपासनेऽपि प्राप्नोतीति तदङ्गाचमनविषयत्वे श्रुतेरनुवादकत्वं स्यादित्याह –
क्रत्वर्थपुरुषार्थयोरित्यादिना ।
ननु नित्यश्रुत्यर्थानुवादित्वमनित्यायाः स्मृतेः किं न स्यादत आह –
न च स्मार्तस्येति ।
स्मृत्यनुमितश्रुतेर्व्यापकविषयत्वात्तत्सिद्धार्थानुवादिनी श्रुतिः स्मृत्यपेक्षयाऽप्यनुवादिनी स्यादित्यर्थः । अत एवाचमनस्यान्यतः प्राप्तत्वादाचमनवासोदृष्ट्योरुभयोरपि न विधानमित्यर्थः ।
प्रथमपक्षं निराकृत्य पुनरपि मध्यमे पक्षेऽधिकं दूषणं वक्तुं न चायमित्यादिभाष्यं व्याचष्टे –
स्तोतव्याभाव इत्यादिना ।
आचमनपर्यालोचनयाऽनग्नता वादो न स्तुत्यर्थ इत्युक्तम् , अनग्नतासङ्कल्पपर्यालोचनयाप्येवमेवेत्याह –
अपि च मानान्तरेति ।
स्तावकः स्तुतिहेतुरित्यर्थः ।
आचमनस्यान्यतः प्राप्तिमुक्तां निगमयति –
न चाचमनमिति ।
प्राणविद्याङ्गत्वेन यदा आचमनं विधीयते , न त्वनूद्यते , तदा नैमित्तिके नित्याधिकारस्य प्रसङ्गसिद्धेरावृत्त्यनाक्षेपाच्छुद्ध्यर्थत्वं प्राणविद्योपकारार्थत्वं चेत्युभयार्थत्वमाचमनस्य स्यात् ।
सिद्धान्ते त्वाचमनानुवादेन वासोदृष्टेर्विधानान्नायं प्रसङ्गः ; दृष्टेः शुद्ध्यर्थाचमनसंबन्धस्यानुवादसामर्थ्यसिद्धेरकल्प्यत्वादित्येवमर्थपरत्वेन भाष्यं व्याचष्टे –
अपि चैकस्य कर्मण इति ।
परिधानार्थता चेति भाष्ये परिधानशब्दः परिदधतीति श्रुतिगतपरिधानं वदन्नुपकारपरः ।
अशब्दत्वान्न सर्वान्नाभ्यवहारश्चोद्यत इति भाष्योक्तमयुक्तम् , सर्वान्नदृष्टेरपि सिद्धान्तसंमताया अश्रुतत्वादित्याशङ्क्याह –
अशब्दत्वं चेति ।
शब्दं दृश्यं शब्दप्रकाशितं ज्ञेयं प्राणस्य सर्वान्नत्वं तन्नान्तरीयकत्वेन दृष्टिर्ज्ञप्तिशब्देन क्रियमाणोपलभ्यते , अभ्यवहारस्तु न क्रियतेऽपीति न बुद्धिस्थ इति वैषम्यमित्यर्थः ।
कथंचिद्योग्यतामात्रेणेति ।
प्राणस्य समस्तमन्नं श्रुतं प्राणविच्च तदात्मनि , तेनापि सर्वमन्नमभ्यवहर्तव्यमिति योग्यतामात्रेणेत्यर्थः ।
प्रायेणेति ।
माध्यन्दिनानां विधिदर्शनात्प्रायशब्दः ॥१८॥
इति नवमं कार्याख्यानाधिकरणम् ॥
समान एवं चोभेदात् ॥१९॥
पूर्वत्र प्राप्ताचमनानुवादेनानग्नताचिन्तनं विधेयमित्युक्तम् , इह तु वाक्ययोः कस्य विधित्वं कस्य वानुवादत्वमित्यनिश्चयाद् द्वयोरपि विद्याविधित्वमिति पूर्वपक्षमाह –
इहेति ।
अभ्यासाधिकरणन्यायमेव प्रकृते योजयति –
द्वयोरिति ।
निर्गुणे हि कर्मणि विहिते तदनु गुणो विधीयते , यथाऽग्निहोत्रं जुहोतीति विहितनिर्गुणकर्मानुवादेन दध्ना जुहोतीति दधिगुणः ।
शाण्डिल्यविद्याविध्योस्तूभयोरपि सगुणत्वान्नान्यतरस्यानुवादतेत्याह –
न च गुणान्तरेति ।
सगुणत्वेऽपि द्वयोर्वाक्ययोरन्यतरस्यानुवादत्वं भवति , यथा’’ऽऽग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवती’’ति कालद्वयान्विताग्नेयविध्यन्तर्भावात् ‘‘यदाग्नेयोष्टाकपालोऽमावास्यायां भवति’’ इत्येककालाग्नेयवाक्यस्यानुवादता , न तथेह वाक्यद्वयार्थयोरितरेतरत्रान्तर्भाव इति गमयितुं गुणान्तरेत्यन्तरशब्दः । अग्निरहस्ये हि ‘‘स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमाकाशात्मानम् कामरूपिणं मनोजवसं सत्यसकल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वा दिशोऽनुसंभूतं सर्वमिदमभ्यात्तमवाक्यनादरं” “यथा व्रीहिर्वा यवो वा’’ इत्यादयो बहुतरा गुणा आम्नाताः , आरण्यके तु ‘मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी’ इत्यादयः स्तोकाः । तत्र विशित्वादयो नाग्निरहस्ये , कामरूपित्वादयश्च नारण्यकेऽत इतरेतरानन्तर्भावान्नानुवादतेत्यर्थः ।
अपि चैकमार्गेण विधित्वेऽधिका एव गुणाः श्रूयेरन् , न तु समाना मनोमयत्वादयः , अतोऽप्युभयत्र विद्याविधिरित्याह –
समानगुणानभिधानेति ।
पूर्वपक्षं निरस्यति –
नेति ।
सिद्धान्तं प्रतिजानीते –
ऎककर्म्यमिति ।
ऎकविद्यमित्यर्थः ।
एकविद्यात्वे हेतुमाह –
एकत्वेनेति ।
उभयत्र मनोमयत्वादिगुणविशिष्टपुरुषप्रत्यभिज्ञानादित्यर्थः ।
ननु समानासमानगुणवत्तयोभयोरपि वाक्ययोरतुल्यत्वात् क्व विद्याविधिः ? क्व वा गुणविधिरिति ? न ज्ञायते , अत आह –
न चागृह्यमाणेति ।
हस्तिनां समूहो हास्तिकम् । अश्वानां समूहोऽश्वीयम् । शक्तियष्टिधनुःकृपाणप्रासाः प्रहरणानि येषां ते तथोक्ताः । ऋग्वेदे यजुर्वेदे च श्रूयमाणज्योतिष्टॊमस्य तावदेकत्र विधिरन्यत्र गुणविध्यर्थमनुवाद इति स्थिते क्व विधानमित्यनिर्णयप्राप्तौ यजुर्वेदे दीक्षणीयाद्यङ्गभूयस्त्वेन तत्रैव विधीयत इति सिद्धान्तितं भेदलक्षणे । एवमत्रापि धर्मभूयस्त्वादग्निरहस्ये विद्याविधिनिर्णय इत्यर्थः । यत्तु केशवेनोक्तं - सिद्धे कर्मण उत्पत्त्यैक्ये प्रयोगविधिः क्वेति वीक्षायामङ्गभूयस्त्वेन प्रयोगविधिस्तत्र निर्णीतः , अत्र पुनर्विद्योत्पत्त्यैक्यमेव न सिद्धमिति मुधा भूयस्त्वन्यायोपन्यासः - इति । तन्न ; यतोऽत्रापि प्रत्यभिज्ञया विद्यैक्ये सिद्धे क्वोत्पत्तिरिति निर्णीयते । न च - अङ्गभूयस्त्वं प्रयोगविधिनिर्णायकं नोत्पत्तिविधिनिर्णायकमिति – वाच्यम् ; उत्पत्तेः प्रयोगाऽविनाभूतत्वेन प्रयोगगमकादङ्गभूयस्त्वादुत्पत्तेरप्यनुमातुं युक्तत्वादिति ।
अनुवादमात्रस्यापीति ।
आग्नेयैककालत्वादिविषयस्येत्यर्थः । भाः प्रकाशात्मकाः सत्यः परमार्थः तस्मिन्मनोमयपदप्रकृतिभूतमनःशब्देन प्रस्तुते हृदयेऽन्तर्यथा व्रीह्यादिस्तथा तावत्प्रमाणः पुरुष आस्ते । स एव सर्वस्य वशीत्यादिलक्षणः ॥१९॥
इति दशमं समानाधिकरणम् ॥
संबन्धादेवमन्यत्रापि ॥२०॥ ‘आप एवेदमग्र आसुः ता आपः सत्यमसृजन्त’ ।
सत्यमिति ।
हिरण्यगर्भ उच्यते । तच्च सत्यं ब्रह्म महद् इत्युपक्रम्य तत्रैवं सति यत्तत्सत्यं हिरण्यगर्भाख्यं सोऽसावादित्यापेक्षया पुल्लिङ्गप्रयोगः । क आदित्यः ? किं मण्डलमेव ? न । किं तर्हि ? ‘य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुष’ इति तस्यैव सत्यस्य ब्रह्मणोऽधिदैवतमध्यात्मं चादित्यचाक्षुषपुरुषरूपेणावस्थानमुक्त्वा ‘तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्निति’ इतरेतरव्यतिषक्तत्वमुक्त्वाऽऽदित्यपुरुषस्य य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः , भुव इति बाहू , सुवरिति प्रतिष्ठा , पादावित्यर्धः , इति व्याहृतिशरीरत्वमुक्त्वा तस्योपनिषदहरित्यादित्यपुरुषस्याहर्नामत्वमुक्तम् । अनन्तरं योऽयं दक्षिणेऽक्षन् पुरुषस्तस्यापि भूरिति शिर इत्यादिना व्याहृतिशरीरत्वमुक्त्वा तस्योपनिषदहमित्यहंनामत्वमुक्तम् ।
उपनिषदिति ।
देवतामुपनिगमयतीति देवताप्रकाशकं रहस्यं नाम भण्यते । अहःशब्दः प्रकाशवचनः । अहंशब्दः प्रत्यगात्मत्ववाची । एते उपनिषदौ सत्यस्य ब्रह्मणः स्थानभेदेन व्यवस्थयाऽनुचिन्तनीये , उत द्वे अप्युभयत्रेति स्थानभेदात्सत्यब्रह्मैक्याच्च संशये संगतिगर्भं पूर्वपक्षमाह-यद्येकस्यामपीति ।
ननु तस्योपनिषदहमिति चादित्यमण्डलाक्षिस्थानविशिष्टस्य सत्यब्रह्मणः परामर्शात्कथमुपनिषदोः संकर इति सिद्धान्ताशयमाशङ्क्याह –
तस्येति चेति ।
तस्येति शब्दस्य प्रकृतपरामर्शित्वात्स्थानावच्छिन्नस्य च प्रकृतत्वादुपनिषदोर्मिथोऽसंकर इति हि सिद्धान्ताशय इत्यर्थः ।
एवमनूदितसिद्धान्ताशयं दूषयति –
सत्यस्य चेति ।
सत्यं प्रकृतावलम्बि सर्वनाम , प्रकृतमिति च प्राधान्येन पूर्वमवगतमुच्यते , अतः सत्यं ब्रह्मैव प्रधानं परामृश्यते , न गुणभूतः स्थानविशेषः । नापि तद्वैशिष्ठ्यम् ; तस्यापि स्वरूपधर्मत्वेनोपसर्जनत्वात् , तथा च सत्यस्यैक्यादुपनिषदोः संकरः इत्यर्थः ।
पूर्ववदिति ।
शाण्डिल्यविद्यावदित्यर्थः ॥२०॥
सत्यं न गुणभूतं स्थानमात्रं तच्छब्देन परामृश्यते , नापि तद्वैशिष्ठ्यं धर्मः , किं तु स्थानविशिष्टं ब्रह्मैव ; य एष एतस्मिन्मण्डले पुरुष इति तथैव प्रकृतत्वात् , तथा च विशिष्टस्य विशिष्टान्तरेऽननुगमान्नोभयत्रोभयत्रोभयनामचिन्तनमिति सिद्धान्तयति –
सत्यं यत्रेत्यादिना ।
तत्त्वे हीति ।
विशिष्टयोरेकत्वेऽन्तरादित्येऽन्तरक्षिणीत्युपदिष्टहिरण्मयपुरुषयोरेकत्वाद् रूपाद्यतिदेशो न स्यादतिदेशस्य भिन्नाधिष्ठानत्वादित्यर्थः । ।२१॥२२॥
इत्येकादशं संबन्धाधिकरणम् ॥
संभृतिद्युव्याप्त्यपि चातः ॥२३॥ यद्यपि वैश्वानरषोडशकलादिविद्यानामितरेतरमाधिदैविकविभूतिप्रत्यभिज्ञानं ब्रह्मसंबन्धप्रत्यभिज्ञानं चाविशिष्टम् ; तथापि तासु नेतरेतरगुणोपसंहारः शङ्क्यते , तासां प्रत्यक्षविधिविहितत्वेन भेदनिश्चयात्संभृत्यादीनां त्वश्रुतविधिकत्वात्परिशिष्टोपदेशात्मकखिलग्रन्थशिष्टत्वाच्चोपनिषदुदितविद्याशेषत्वमाशङ्क्यते । ज्येष्ठा ज्येष्ठानि । छन्दसि बहुवचनस्य डादेशः । ब्रह्मज्येष्ठानि वीर्याणि पराक्रमविशेषाः । अन्यैर्हि पुरुषैः सहायानपेक्ष्य विक्रमाः संभ्रियन्ते । तेन तत्पराक्रमाणां न त एव नियतपूर्वभावित्वरूपकारणत्वेन ज्येष्ठाः , किं तु तत्सहकारिणोऽपि । ब्रह्मवीर्याणां तु ब्रह्मैव ज्येष्ठमनन्यापेक्षं ब्रह्म जगज्जन्मादि करोतीत्यर्थः । किंचान्येषां पराक्रममाणानां बलवद्भिर्मध्ये भङ्गोऽपि भवति , तेन ते स्ववीर्यानि न संबिभ्रति , ब्रह्मवीर्याणि तु ब्रह्मणा संभृतानि अविघ्नेन संभृतानीत्यर्थः । तच्च ज्येष्ठं ब्रह्म अग्ने इन्द्रादिजन्मनः प्रागेव दिवं स्वर्गमाततान व्याप्तवद् नित्यमेव विश्वव्यापकमित्यर्थः ।
देशतोऽपरिच्छेदमुक्त्वा कालतोऽप्याह –
ब्रह्म भूतानामिति ।
जज्ञ इत्यस्योत्पत्तिवचनत्वं व्यावर्तयति –
आसेति ।
पूर्वाधिकरणे स्थानविशेषादनुपसंहार उक्तः । तस्यातिदेशोऽयम् ।
अस्याधिकाशङ्कामाह –
यद्यपीत्यादिना ।
आयतनभेदपरिग्रहेणेति ।
हृदयाद्यायतनं मा भूदायतनविशेषावरोधाच्छाण्डिल्यादिविद्यासु संभृत्यादीनामुपसंहारस्त्रैलोक्यात्मकविषयासु विद्यासु आयतनाभावात् तासूपसंहारो भविष्यतीत्यभ्यधिकाशङ्कान्तरमाह –
षोडशकलाद्यासु चेति ।
एकस्यां विद्यायां ये गुणा असाधारणास्ते यद्यन्यत्रापि श्रूयन्ते , तत्र विद्यैक्यं गुणोपसंहारश्च , यथाऽग्निरहस्ये बृहदारण्यके च मनोमयत्वाद्यसाधारणगुणप्रत्यभिज्ञानाद्विद्यैक्यं न तु साधारणगुणमात्रश्रवणं विद्यैक्यगमकमतिप्रसङ्गात् ।
तत्र किं संभृत्यादिविद्यायाः शाण्डिल्यादिविद्यानां चासाधारणगुणसाम्यादेकत्वमुत साधारणगुणसाम्यादथ वोभयत्र ब्रह्ममात्रप्रत्यभिज्ञानात् , नाद्य इत्याह –
मिथः समानेति ।
समानगुणेत्यसाधारणगुणसाम्यं विवक्षितम् । शाण्डिल्यादिविद्यागतगुणश्रवणं नास्तीत्यप्यसाधारणगुणाभिप्रायम् ।
द्वितीयं प्रत्याह –
या तु काचिदिति ।
द्युव्याप्त्यादिगुणास्तु यद्यपि संभृत्यादिविद्यायां शाण्डिल्यादिविद्यायां च समाः ; तथापि तेषां वैश्वानरषोडशकलादिविद्यास्वपि साधारण्येन तासामपीतरेतरमैक्यापादकत्वेनातिप्रसङ्गित्वान्न विद्यैक्यबोधनद्वारेण संभृत्यादिगुणकर्षकत्वं , किं तु शाण्डिल्यादिविद्याप्रकरणपठितत्वात्तावन्मात्रमेव शाण्डिल्यादिविद्यासु स्वीकर्तव्यमित्यर्थः ।
तत्रैतत्प्रत्यभिज्ञानाभावादिति ।
संभृत्यादिप्रत्यभिज्ञानाभावादित्यर्थः । इत्युक्तम् । संभृतिद्युव्याप्तीति सूत्रेणेति शेषः ।
तृतीयं प्रत्याह –
ब्रह्माश्रयत्वेन त्विति ।
तदिदमुक्तमिति ।
आधिदैविकविभूतेः साधारण्यात्संभृत्याद्यनाकर्षकत्वम् ब्रह्मप्रत्यभिज्ञायाश्चातिप्रसक्तत्वं चेत्यर्थः । तत्रापि आधिदैविकविभूतेर्बहुविद्यासाधारणत्वेनाऽसाधारणसंभृत्यादेः सकाशाद्व्यावृत्तत्वात्तदनाकर्षकत्वं संभ्रुत्यादयस्त्विति भाष्येणोक्तम् । न च ब्रह्मसंबन्धमात्रेणेत्यादिना च ब्रह्मप्रत्यभिज्ञाया अप्रयोजकत्वमुक्तमिति विवेकः ।
संभृतिद्युव्याप्तीत्येतत्सूत्रपदं प्रगृह्यत्वभावाय द्वन्द्वैकवद्भावेन व्याचष्टे –
तस्मादिति ।
अत इति सूत्रपदेन पूर्वाधिकरणोक्तस्थानभेदो न परामृश्यते ; तस्य षोडशकलादिविद्यास्वभावेनाव्यापकत्वात् , किं तु यथा तत्रादित्यविशिष्टब्रह्मणोऽक्षिविशिष्टब्रह्मणश्चाप्रत्यभिज्ञानमुक्तमेवमिहाप्यसाधारणगुणप्रत्यभिज्ञाऽभावोऽस्त्यसावत इति निर्दिश्यत इत्याह –
प्रत्यभिज्ञानाभावादिति ।
प्रत्यक्षविध्यभावेऽपि प्रत्यभिज्ञानवर्जनात् । कल्पयित्वा विधिं विद्या खिलोक्तापीह भेदित ॥१॥२३॥
इति द्वादशं संभृत्यधिकरणम् ॥
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२४॥ छान्दोग्यशाखाविशेषे तावदेका विद्याऽधिगता, पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनम् , चतुश्चत्वारिंशद्वर्षाणि माध्यन्दिनम् , अष्टाचत्वारिंशत् तृतीयं सवनम् । यदशिशिषति पिपासति यद्रमते साऽस्य दीक्षा अथ यद्धसति जक्षति तत् स्तुतशस्त्रे , शब्दवत्त्वसामान्यादिति दीक्षादिकल्पना । तं चेदेतस्मिन्वयसि किं चिद् व्याध्याद्युपतपेत्स ब्रूयात् प्राणा वा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेत्यादिराशीः । सोन्तवेलायामेतत्त्रयं प्रतिपद्येताऽक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रप्रयोगः । तैत्तिरीयके तु पठ्यते ‘‘तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युः’’ इति विषयविवेको भाष्यटीकयोर्व्याख्यानार्थं दर्शितः । अत्र तैत्तिरीयगतयोर्विदुषो यज्ञस्येति षष्ठ्योः सामानाधिकरण्यवैयधिकरण्याऽनवधारणात्संदेहः ।
असाधारणगुणप्रत्यभिज्ञानाभावात्संभृत्यादौ विद्याभेद उक्तः , इह त्वसाधारणगुणप्रत्यभिज्ञानाद्विद्यैक्यमिति पूर्वपक्षयति –
पुरुषयज्ञत्वमिति ।
पुरुषस्य यज्ञत्वं पुरुषयज्ञत्वं पुरुषे यज्ञत्वसंपत्तिस्तस्या अविशेषादित्यर्थः । तैत्तिरीयके पुरुषयज्ञत्वसंपत्तिरसिद्धा , विदुषो यज्ञस्येति विद्वत्संबन्धियज्ञप्रतीतेः ।
न चैते षष्ठ्यौ समानाधिकरणे ; आत्मा यजमान इति विदुष आत्मनो यजमानत्वनिर्देशाद् , एकस्य च यज्ञत्वयजमानत्वविरोधादत आह –
न च विदुष इति ।
यज्ञस्यात्मेत्यत्रात्मशब्दस्य स्वरूपवचनत्वे सति यत्फलितं तदाह –
यज्ञस्य स्वरूपमिति ।
पुरुषस्यैव यदा यज्ञत्वं संपाद्यते , तदा तत्स्वरूपमेव यजमान इति न विरोध इत्यर्थः ।
अत एव - विद्वद्यज्ञयोश्चेतनाचेतनत्वाद्विदुषो यज्ञस्येति षष्ठ्योः सामानाधिकरण्यानुपपत्तिरिति चोद्यं - निरस्तम् ; पुरुषैक्येन संपादितस्य यज्ञस्य चेतनत्वेन विद्वत्त्वसंभवादित्याह –
तस्य चेति ।
आत्मा यजमान इत्यनेन यज्ञस्वरूपं यजमान इत्युच्यत इत्यभिहितं , तत्किं मुख्यमुत गौणं , न प्रथम इत्याह –
न हि यज्ञस्वरूपमिति ।
न केवलं यज्ञस्वरूपस्य मुख्ययजमानत्वासंभवः , विदुषो यज्ञस्येति षष्ठ्योश्च न मुख्यसामानाधिकरण्यसंभव इत्याह –
चेतनाऽचेतनयोश्चेति ।
विद्वान् हि चेतनस्तस्याऽचेतनयज्ञैक्यायोग इत्यर्थः ।
वैयधिकरण्यपक्षे तु षष्ठ्योरुपपत्तिमाह –
आत्मनस्त्वित्यादिना ।
यजमान आत्मेत्यात्मोद्देशेन यजमानत्वं विहितम् ।
द्वितीयपक्षमाशङ्कते –
इतरथेति ।
दूषयति –
न च सत्यामिति ।
पुरुषाङ्गेषु पत्न्यादिकल्पनात्पुरुषे यज्ञत्वकल्पनसंभव इति केशवो वक्ति । तस्यैतं ग्रन्थं व्याचक्षीत अवयवेषु स्वगत्या संपत्तिराश्रिता , पुरुषे तु षष्ठ्योर्वैयधिकरण्येन मुख्यार्थः संभवति ।
अपि च तस्यैवं विदुष इति भाष्यमुपादाय व्याचष्टे –
अनुवादश्रुतौ सत्यामिति ।
विद्वत्संबन्धियज्ञानुवादेन तस्य विद्वदङ्गैरङ्गकल्पनादेकवाक्यता न प्रतीयते । तव तु विद्वान् यज्ञस्तस्य चात्मादयो यजमानादय इति विध्यावृत्त्या वाक्यभेद इत्यर्थः । तस्मान्न्यासमेषां तपसामतिरिक्तमाहुरिति ॐमित्यात्मानं युञ्जीतेति च ससंन्यासात्मविद्या प्रक्रान्ता ॥२४॥
इति त्रयोदशं पुरुषविद्याधिकरणम् ॥
वेधाद्यर्थभेदात् ॥२५॥ अन्यत्रानुपसंहारसिद्ध्यर्थं मन्त्रकर्मणाम् । सन्निधौ श्रूयमाणानां विद्याङ्गत्वं निरस्यते ॥२॥ पूर्वत्रात्मविद्यासन्निधौ श्रवणात्तैत्तिरीयशाखागतः पुरुषयज्ञो विद्याङ्गमिति स्वीकृत्यायुर्वृद्धिफलविद्याया भेद उक्तः ।
तर्हि प्रवर्ग्यादीनामपि विद्यासन्निध्यविशेषाद्विद्याङ्गत्वमिति पूर्वपक्षमाह –
सफला हीति ।
ननु मा भूदाकाङ्क्षालक्षणं प्रकरणं , सन्निधिलक्षणं तु तत्किं न स्यादत आह –
न चाऽसति सामान्यसंबन्धे इति ।
काम्येष्टीनां काम्ययाज्याकाण्डस्य च समाख्यैक्यात्सिद्धे हि सामान्यसंबन्धे प्रथमेष्टेः प्रथमो मन्त्रो द्वितीयाया द्वितीय इति सन्निधेर्विशेषसंबन्धो दृष्टः , न तु सन्निधिमात्रं विनियोजकमित्यर्थः ।
अङ्गप्रधानयोरितरेतराकाङ्क्षालक्षणप्रकरणाऽनुपलम्भेऽप्यङ्गाकाङ्क्षया प्रधानस्याप्याकाङ्क्षामुत्थाप्य प्रकरणव्यक्तेः सामान्यसंबन्धसिद्धौ सन्निधेर्विद्याविशेषाङ्गत्वं मन्त्रकर्मविशेषाणामिति पूर्वपक्षमुपपादयति –
मा नामेति ।
रक्तपटन्यायेति ।
यथा पटो भवतीति वाक्यस्यानाकाङ्क्षत्वेऽपि सहोच्चारितरक्तपदस्याकाङ्क्षयेतरस्याप्याकाङ्क्षामुत्थाप्य रक्तः पटो भवतीति वाक्यपर्यवसानमेवमिहापीति ।
नन्वेवमुभयसंबन्धेऽपि कस्याङ्गत्वमत आह –
तत्रापीति ।
कल्पनास्पदं कल्पनालम्बनम् । अवरोहात् उत्तरान्निवर्तनादित्यर्थः । पिण्डपितृयज्ञाधिकरणं समन्वयसूत्रेऽनुक्रान्तम् ।
सन्निधिसामर्थ्यान्मन्त्रादीनां विद्याङ्गत्वविध्यनुमानं भाष्योक्तमुपपादयति –
इदं खल्विति ।
आकाङ्क्षोत्थापनात्प्रकरणव्यक्तिमुक्त्वा विद्यावाक्यस्य मन्त्रकर्मवाक्ययोश्चैकविशिष्टार्थबोधकत्वेन वाक्यैकवाक्यत्वकल्पनामाह –
उत्थाप्य चेति ।
वाक्याल्लिङ्गकल्पनामाह –
असमर्थस्य चेति ।
सामर्थ्यमात्रेणाप्यशाब्दस्यान्वयानुपपत्तेर्लिङ्गबलाच्छ्रुतिकल्पनामाह –
न च सत्यपीति ।
अविनियुक्तमिति च्छेदः । असौ सन्निधिरकस्माद्विना विषयेणाश्रयितुं न युक्त इति भाष्यार्थः । लोकवेदयोरविशिष्टस्तु वाक्यार्थः , तत्र मन्त्राणमनुष्ठेयार्थप्रकाशकत्वेनार्थवत्त्वं वक्तव्यं नाविवक्षितार्थत्वमिति सूत्रार्थः ।
प्रवर्ग्यादीनामन्यार्थत्वेन विनियोगं भाष्योक्तमुपपादयति –
यद्यपि चेति ।
नन्वेवमपि उपसत्संबन्धोऽस्तु प्रवर्ग्यस्य , कथं कर्मसंबन्धस्तत्राह –
उपसदामिति ।
यत्रोपसदस्तत्र कर्मणि प्रवर्ग्य इति वाक्येन सामान्यतोऽवगतं कर्म , विशेषेण तु केनास्य संबन्धः ? किं प्रकृतिविकृतिभ्यामुत प्रकृत्यैवेति । केवलविकृतिप्रवेशस्त्वनाशङ्क्यः ; प्रकृतावुपसदां प्रत्यक्षत्वेन तत्परित्यागकारणाभावात् ।
तत्र निर्णयमाह –
यद्यपीति ।
कर्मोपस्थापिका उपसदः प्रकृतावेव प्रत्यक्षाः , विकृतौ त्वतिदेशद्वारेणानुमानिका इति प्रकृतावेव प्रवर्ग्यनिवेश इत्यर्थः ।
आस्तामुपसदां प्रत्यक्षत्वाप्रत्यक्षत्वचिन्ता , अनारभ्याधीतत्वादेव प्रवर्ग्यस्य प्रकृतावेव निवेशः सिद्यतीत्याह –
अपि चेति ।
चोदकेन अतिदेशेन । शेषलक्षणे स्थितम् - तत्सर्वार्थमविशेषात् (जै.ब्र.अ ३ पा.३.सू.३५) । अनारभ्य कंचित्क्रतुमधीयते ‘यस्य खादिरः स्रुवो भवति छन्दसामेव रसेनावद्यति यस्य पर्णमयी जुहू’रित्यादि । तत्र किं खादिरत्वादि प्रकृतौ विकृतौ च निविशत उत प्रकृतावेवेति विशये तत् खादिरतादि सर्वार्थम् ; प्रकृत्यर्थं अप्रकरणात् । न हि कस्यचित्प्रकरणे इदं श्रुतम् । तत्र क्रतुमात्रनियतस्रुवादिद्वारेण वाक्यात् सर्वार्थमिति प्राप्ते – राद्धान्तः - प्रकृतौ वाऽद्विरुक्तत्वात् (ब्र.अ.३पा.३.सू.३५) प्रकृतिविकृतिगामित्वे हि खादिरतादेः विकृतावतिदेशतोऽनारभ्याधीतादप्यस्मादुपदेशात् प्राप्तेर्द्विरुक्तत्वं स्यात् , तच्चायुक्तमतिदेशतः प्राप्तौ प्राप्तप्रापणवैयर्थ्यात् । न चोपदेशतः प्राप्त्याऽतिदेशवैयर्थ्यमाशङ्क्यम् ; यतोऽयमुपदेशोऽतिदेशमन्तरेण न प्रवर्तितुमर्हति । तथा ह्ययं प्राप्तस्रुवाद्यनुवादेन खादिरत्वादिधर्ममात्रं विकृतौ विदधेद्विदध्याद् धर्मविशिष्टस्रुवादिविधानस्य गौरवादेवानुपपत्तेः । न चातिदेशेन विना विकृतौ स्रुवादिप्राप्तिः । तस्माद् द्विरुक्तत्वालाभाय प्रकृतावेव निवेश इति । एवमिहाप्यनारभ्याधीतत्वात्प्रवर्ग्यस्य प्रकृतौ विहितस्य सतोऽतिदेशेन विकृतावप्युपसदां प्राप्तिसिद्धेरद्विरुक्तत्वलाभाय प्रकृतौ वेति न्यायात् ज्योतिष्टोमे एवोपसदा सह विधानं युक्तमित्यर्थः । उपसद्वदुपसदा सहेति च निर्देश उपसदां तुल्ययोगक्षेमत्वं न प्रवर्ग्यसंबन्धविशेषहेतुत्वमिति ज्ञापनार्थः ।
ननु तर्हि सन्निधिवाक्याभ्यामुभयार्थत्वमस्तु , तत्राह –
सन्निधानादिति ।
नन्वेवमपि हृदयपदमात्रस्य विद्यायामङ्गत्वेन समवेतार्थप्रकाशकत्वेन सामर्थ्यं न पदान्तराणामत आह –
यथाऽग्नय इति ।
समवेतहृदयादिविशेषणीभूतस्वार्थप्रकाशकत्वद्वारा तद्विशिष्टसमवेतार्थप्रकाशकत्वादितरपदानामपि समवेतार्थत्वमिथर्थः ।
भाष्यकारैर्वाक्येन ज्योतिष्टोमे विनियुक्तस्यापि प्रवर्ग्यस्य सन्निधानाद्विद्यास्वपि विनियोगः बृहस्पतिसवस्येव स्वतन्त्राधिकारविहितस्य वाजपेये विनियोग इत्युक्तम् , तदयुक्तम् ; वाक्यात् सन्निधेर्दुर्बलत्वस्योक्तत्वादित्याशङ्क्याह –
यद्यपीति ।
प्रबलस्यापि वाक्यस्य न सन्निधिबाधकत्वम् ; विरोधाभावात् ; न हि बलवानित्येव राजा साधुजनान् बाधते । तदिह सन्निधिर्न वाक्यगम्यं ज्योतिष्टोमसंबन्धं प्रत्याचष्टे , अपि तु तमनुमत्यैव लिङ्गत्वमपि गमयति , इत्युभयाङ्गत्वं प्रवर्ग्यस्येत्यर्थः । तदनेन श्रुतिलिङ्गाधिकरण (ब्र.अ.३ पा.३ सू.७) मप्याक्षिप्तम् ।
ननु वाजपेयेनेत्यत्र न बृहस्पतिसवस्य वाजपेयाङ्गत्वं बोध्यते , किंतु कस्मिन् काले बृहस्पतिसवः कर्तव्य इत्यपेक्षायां वाजपेयानुष्ठानोत्तरकालता ; इष्ट्वेति क्त्वाप्रत्ययेन कालाभिधानादत आह –
अत्र हीति ।
अत्र हि पूर्वकालताऽभिधानमङ्गत्वेऽप्यविरुद्धम् । बृहस्पतिसवस्य वाजपेयोत्तराङ्गत्वात् , तत्र ‘‘धातुसंबन्धे प्रत्यया’’ इत्यधिकारविहितः समानकर्तृकत्ववाची च क्त्वाप्रत्ययो न कालमात्रविधौ घटत इत्यर्थः । क्त्वः क्त्वाप्रत्ययस्य । धातुसंबन्धे इत्युक्तेऽर्थाद् धात्वर्थान्तरसंबन्धो लभ्यते । धातोरित्येकत्वाधिकाराद्धातुस्वरूपसंबन्धे धातुद्वयापत्तेः । ततश्च धातुद्वयोपरि प्रत्ययविध्यनुपपत्त्या धातुशब्देन धात्वर्थलक्षणात् । एकस्य च धात्वर्थस्य स्वेन संबन्धायोगेन धात्वर्थान्तरलाभाच्चेति । समानकर्तृकत्वादेकप्रयोगतां तावदुपपादयति तत एवाङ्गाङ्गित्वसिद्ध्यर्थम् कथं च समान इति । कथं च समानः कर्ता स्यादेकप्रयोगतामन्तरेणेति शेषः ।
व्यतिरेकमुक्त्वाऽन्वयमाह –
यदीति ।
यद्येकः प्रयोगो भवेत्तर्ह्येव समानः कर्ता स्यादित्यनुषङ्गः ।
ननु भिन्नप्रयोगत्वेऽपि क्रिययोः कर्तृत्वाधिष्ठानपुरुषैक्यात् क्त्वाप्रत्ययोपपत्तिस्तत्राह –
प्रयोगाविष्टं हीति ।
करोतीति हि कर्ता भवति । अधिष्ठानलक्षणायां तु सैव दोष इत्यर्थः ।
धात्वर्थान्तरसंबन्धोऽपि प्रयोगैक्यगमकः , एकप्रयोगत्वमन्तरेण क्रिययोरसाधारणसंबन्धानिरूपणादित्याह –
धात्वर्थान्तरेति ।
भवत्वेकप्रयोगत्वं , ततः किं जातमत आह –
न चेति ।
प्रधानभेदे हि स्वतन्त्रत्वात्प्रयोगो भिद्येतेत्यर्थः । संबन्ध एकप्रयोगतां गमयतीत्युक्तम् ।
इदानीं स एव साक्षाद्गुणप्रधानभावं च गमयतीत्याह –
संबन्धश्चेति ।
ननु भवत्वङ्गाङ्गित्वं वाजपेयबृहस्पतिसवयोः , कस्य त्वङ्गत्वं ? कस्य वाङ्गित्वम् ? अत आह –
तत्रापीति ।
प्रकरणिनो वाजपेयस्य प्रधानत्वादङ्गित्वम् , बृहस्पतिसवस्य तु परप्रकरणे श्रूयमाणस्याङ्गत्वमित्यर्थः । नन्वेवं मीमांसकानां मुद्राभेदः कृतः । तथा हि – यदि बृहस्पतिसवेन यजेतेत्येतत् प्रकरणान्तरस्थबृहस्पतिसवविपरिवृत्त्यर्थम् , कस्तर्हि वाजपेयाङ्गत्वविधिः ? अथ विधिः , कथं प्रकरणान्तरस्थबृहस्पतिसवस्येह सन्निधिः ? न चैकमेव वाक्यं दूरस्थमपि कर्म सन्निधापयत्यन्याङ्गत्वेन च विधत्त इति युज्यते । तस्मात्प्रकरणान्तरे कौण्डपायिनवत्कर्मान्तरं बृहस्पतिसवः । बृहस्पतिसवनाम तु प्रसिद्धबृहस्पतिसवधर्मातिदेशार्थम् । तथा च तद्धर्मकं कर्मान्तरमेव वाजपेयाङ्गत्वेन विधीयते इति मतद्वयेऽपि संमतम् । एवं च कथं विनियुक्तविनियोगशङ्का ? सत्यम् ; अभ्युपेत्यवाद एषः । व्यवस्थितोदाहरणमिह खादिरत्वादिः ।
यदि साधिकारयोरपि कर्मणोः क्त्वाश्रुत्याऽङ्गाङ्गिभावः , तर्ह्यतिप्रसङ्ग इत्याशङ्क्य विशेषप्रदर्शनेन परिहरति –
न च दर्शेति ।
वाजपेयप्रकरणे समाम्नानाद्धि बृहस्पतिसवस्याङ्गत्वम् , इदं तु वाक्यमनारभ्याधीतमिति नाङ्गाङ्गित्वबोधकमित्यर्थः ।
ननु क्वचित्सोमयागप्रकरणे इदं वाक्यं श्रुतम् , अतः सोमाङ्गता दर्शपूर्णमासयोरिति , नेत्याह –
यदि त्विति ।
अनारभ्याधीतवाक्यार्थ एव तत्राप्यनूद्यत इत्यर्थः ।
अनुवादे लाभमाह –
तथा सतीति ।
अधिकरणं त्वत्रत्यमस्माभिः प्रथमसूत्रेऽनुक्रान्तम् ।
ननु यद्यप्येकपदसमवेतार्थता बहुपदसमवेतार्थताया दुर्बला ; तथापि विद्यासन्निध्यनुगृहीता हृदयमित्येकपदसमवेतार्थता विद्याङ्गत्वं मन्त्रस्य गमयिष्यतीत्यत आह –
न च सन्निध्युपगृहीतास्विति ।
मन्त्रमवस्थापयतीत्यत्रैकपदसमवेतार्थतेत्यनुषङ्गः । हृदयपदं विद्यायामभिचारे च समवेतार्थमिति साधारणम् , इतराणि तु पदानि विद्यायामसमवेतार्थानि , समवेतार्थानि त्वभिचारेऽतः कांस्यभोजिन्यायेन हृदयपदमितरपदानुरोधेनाभिचारमेव मन्त्रं गमयतीत्यर्थः ।
यत्त्वेकपदसमवेतार्थताया अस्ति सन्निधिरनुग्राहक इति , तन्न ; बहुपदसमवेतार्थतायाः सन्निधेरपि प्रबलेन वाक्येनानुगृहीतत्वादित्याह –
इतरपदैकवाक्यतापन्नस्येति ।
इतरपदैकवाक्यतापन्नस्याऽत एव वाक्यप्रमाणानुगृहीतस्याभिचारेऽपि समवेतार्थस्य हृदयपदस्याभिचारात्कर्मणोऽन्यत्र सन्निधिना चालयितुमशक्यत्वादिति योजना ।
यत्तु वाक्यलिङ्गाभ्यामन्यत्र विनियुक्तयोरपि मन्त्रकर्मणोः सन्निधानाद्विद्यायामपि तदविरोधेन विनियोगसंभवादुभयार्थत्वमित्युक्तं , तदनूद्य परिहरति –
कस्मात्पुनरित्यादिना ।
श्रुतिलिङ्गयोरिति ।
यत्र ह्येक एव शेष एकेन प्रमाणेनैकशेषिणा संबद्धत्वेन बोधितः स एव प्रमाणान्तरेण शेष्यन्तरार्थत्वेन बोध्यते , तत्रैकेनैव संबन्धे शेषस्य निराकाङ्क्षत्वादपरसंबन्धो विरुध्यते । तदनयोः प्रमाणयोः परस्परविषयापहारेण भवितव्यम् । अत एकशेषविषययोर्भिन्नशेषिसंबन्धबोधिनोः प्रमाणयोर्बाध्यबाधकत्वे स्थिते तदर्थे किं बलीय इति चिन्ता क्रियते श्रुतिलिङ्गसूत्रेणेत्यर्थः । अत एव विनियुक्तविनियोगेऽपि वैषम्यमुक्तम् । तत्र हि तुल्यबलत्वात्प्रमाणयोरुभयार्थत्वमिति । ननु नेदं श्रुतिलिङ्गविरोधोदाहरणम् । तथा हि – किमैन्द्र्या गार्हपत्यमिति द्वितीयातृतीयाश्रुत्योः पदान्तरानपेक्षयोर्मन्त्रगतेन्द्रप्रकाशनसामर्थ्येन विरोध उच्यते ? किंवा पदान्तरैर्वाक्यानापन्नयोः ? प्रथमकल्पानुपपत्तिमाशङ्कते – यद्यपीति ।
द्वितीया हि गार्हपत्यः किंचित्प्रतिशेषीति वक्ति , तच्च कांचिदाग्नेयीमृचं प्रति शेषित्वेऽपि चरितार्थमिति नैन्द्र्या इन्द्रप्रकाशनसामर्थ्यं बाधेत , ऐन्द्र्येति च तृतीयैन्द्र्याः किंचित्प्रति शेषत्वमाह , तच्च तस्या इन्द्रं प्रति शेषत्वेऽप्यविरुद्धमित्यर्थः ।
द्वितीयकल्पानुपपत्तिमाशङ्कते –
पदान्तरेति ।
वाक्यलिङ्गयोर्लिङ्गस्य बलवत्त्वाद्वाक्यस्यैव बाधा स्यादित्यर्थः ।
परिहरति –
तथापीति ।
श्रुत्योरेव लिङ्गेन विरोध इति वक्तुं श्रुतिवाक्ययोरभिधेयभेदमाह –
द्वितीयेत्यादिना ।
ऐन्द्र्येति तृतीयया क्रियायामैन्द्री शेषित्वेन बोधिता । गार्हपत्यमिति द्वितीयया गार्हपत्यः शेषत्वेन बोधितः , शेषशेषिभावश्च विनियोग इति ।
श्रुति विनियोगे निरपेक्षे चेत्तर्हि वाक्येन किं बोध्यतेऽत आह –
सोऽयमिति ।
ऐन्द्र्यादिपदार्थविशिष्टोपस्थानकर्तव्यता हि वाक्यार्थः । तेनैन्द्र्या यत्सामान्येन क्रियां प्रति शेषत्वमवगतं गार्हपत्यकर्मकोपस्थाने , यच्च गार्हपत्यस्य कर्मत्वं तदैन्द्रीकरणोपस्थान इति सामान्यावगतसंबन्धो वाक्यीयविशेषणविशेष्यभावबलाद्विशेषेऽवस्थाप्यते । न चैवं - वाक्यस्यैव लिङ्गेन विरोधो न श्रुतेरिति – वाच्यम् ; यतो यदि गार्हपत्यमिति द्वितीया सप्तम्यर्थं लक्षयेत् , सप्तम्यर्थश्च सामीप्यं , तदा नैव लिङ्गस्य का चित् क्षतिः ; गार्हपत्यसमीपे स्थित्वेन्द्रस्यैवोपस्थानसंभवात् । यदि तु द्वितीयेप्सिततमतां न मुञ्चति , तदैव विरोध इति श्रुतिरेव लिङ्गविरोधः ।
ननु श्रुतिमात्रमपि लिङ्गेन न विरुध्यते इत्युक्तम् , अत आह –
तस्मादिति ।
न ह्येकं पदं कदाचित्प्रयुज्यते ; वैयर्थ्यात् । अतः प्रतिनियतौ श्रुतिवाक्यसंबन्धौ । तत्र श्रुतिरेवं वदति वाक्यगम्यस्य विशेषणविशेष्यभावस्यैवंविधं शेषशेषित्वमिति । एवं च श्रौतेन शेषशेषिभावेन लिङ्गस्य विरोध इत्यर्थः । नन्वेवं श्रौतस्य शेषशेषिभावस्यायं विशेष्यविशेषणभाव इति वाक्येन बोधनात्तस्य च लिङ्गेन विरोधाद् लिङ्गवाक्यविरोधोदाहरणमिदं किं न स्यात् ; उच्यते स्वार्थबोधे श्रुतेः शीघ्रप्रवृत्तेर्लिङ्गविरोध्यर्थतया द्रागित्येव बोधित इति तद्विरोधत्वेनैवोदाह्रियत इति । ’यथा तदाहुः - शीघ्रप्रवृत्तत्वाल्लिङ्गादेर्बाधिका श्रुतिः । तथैव विनियोगेऽपि सैव पूर्वं प्रवर्तते ॥’ इति ।
एवमुदाहरणं परिशोध्याधिकरणमारचयति –
किं लिङ्गानुगुण्येनेत्यादिना ।
प्रभवति समर्थः ।
प्रमाणान्तरं वृद्धव्यवहार इत्याह –
विदितपदेति ।
लिङ्गबाधकत्वेनोक्ता तृतीया श्रुतिः । तदीयप्रातिपदिकमैन्द्रीत्येवं रूपं तद्धितान्तं शब्दत इत्युक्तम् ।
इन्द्रस्येयमितीन्द्रशेषत्वेनैतामृचं बोधयतीत्याह –
शब्दाच्चेति ।
दारु दहतीति दारुदहनः । दहनोऽग्निः । ऐन्द्र्या गार्हपत्ये यो विनियोगः स काष्ठदाहकस्याग्नेः सलिलदाहे विनियोग इव विरुद्ध इत्यर्थः ।
उपस्थापयितव्य इति ।
प्रकाशयितव्य इत्यर्थः । ॠचः प्रकाशनव्यतिरेकेण कार्याभावात् ।
यदि सामर्थ्यज्ञानं नापेक्षते श्रुतिः , तर्हि योग्यतावधारणं व्यर्थं स्यादित्यग्निना सिञ्चेदित्यपि प्रमाणं स्यादत आह –
अवगते त्विति ।
यथा स्फोटे जाते वह्नेर्दाहशक्तिर्ज्ञायते , न तु दाहकत्वं वह्नेः शक्तिज्ञानापेक्षमेवं श्रुतेः शेषत्वे ज्ञातेऽनन्तरमर्थे तादृशी शक्तिः कल्प्यते । अतो नार्थगतसामर्थ्यज्ञानं विनियोगकारणमित्यर्थः । तदिति तस्मादर्थे ।
ननु यदि विनियोगोत्तरकालमर्थसामर्थ्यं विनियोगनिर्वाहाय कल्प्यते , तर्हि तदैन्द्र्या गार्हपत्यप्रकाशने नास्तीति कथं विनियोगनिर्वाहस्तत्राह –
श्रुतिविनियोगादिति ।
मन्त्रो ह्यभ्रान्तया श्रुत्या विनियुज्यते । तत्र यदि मुक्यं सामर्थ्यं न दृश्यते , तर्हि प्रथमावगतविनियोगस्यासंजातविरोधत्वात्तस्य च सामर्थ्यकल्पकत्वेन तदनुगुणं गौणमपि सामर्थ्यं मन्त्रे कल्पनीयम् ।
तच्चोक्तं संदेहावसरे –
प्रभवति हि स्वोचितायामित्यादिनेति ।
एवं श्रुत्यनपेक्षत्वपरं श्लोकस्य पूर्वार्धं व्याख्याय लिङ्गस्य सापेक्षत्वेन दौर्बल्यप्रतिपादकं द्वितीयार्धं व्याचष्टे –
लिङ्गं त्वित्यादिना ।
तस्य त्विति ।
मन्त्रस्येत्यर्थः । अग्निचयनप्रकरणाम्नानसामर्थ्यादित्यर्थः ।
तदन्यथानुपपत्त्येति ।
इन्द्रस्वरूपाभिधानान्यथानुपपत्त्येत्यर्थः ।
ननु यथा प्रत्यक्षेणाग्निर्बोध्यते तथानुमानेनाऽपि , एवं लिङ्गश्रुतिभ्यां मन्त्रस्येन्द्रे गार्हपत्ये च विनियोगो बोध्यताम् , तथा च तुल्यबलत्वमत आह –
श्रौताद्विनियोगादिति ।
अर्थविप्रकर्षादिति ।
शब्दप्रकाशितार्थेन सहार्थिकस्यार्थस्य विप्रकर्षात् संबन्धायोग्यत्वादाकाङ्क्षितविनियोगप्रकाशिका श्रुतिरैन्द्र्येन्द्रं प्रकाशयेदित्येवंरूपा कल्पयितुमुचितेत्यर्थः । नियोग आज्ञा । अनुयोग आक्षेपः । प्रक्रान्तव्यापारः प्रतिपत्तेति शेषः । प्रथमां मुख्यवृत्तिं यद्यजहतिष्ठेत्तर्हि प्रसह्य जघन्ययाऽपि वृत्त्या नेयमित्यर्थः ॥
कल्पयाम्यन्त उपस्तरण इति ।
घृतस्य धारया सुशेवं कल्पयामीति लिङ्गादुपस्तरणं प्रतीयत इत्यर्थः । आसादनं स्थापनम् ।
उभयत्र कृत्स्नमन्त्रप्रयोगस्य प्रमाणभूतमेकवाक्यत्वमेव दर्शयति –
एतदपेक्षो हीति ।
एकवाक्यतापूर्वकं सामर्थ्यकल्पनाल्लिङ्गस्योपजीव्यं वाक्यं लिङ्गाद्बलवदिति सोदाहरणमाह –
इह हीत्यादिना ।
यत्तत्पदसमभिव्याहारो विभज्यमानसाकाङ्क्षत्वे हेतुः । विभज्यमानत्वे सति साकाङ्क्षत्वं चैकवाक्यत्वे हेतुः । आह हि परमर्षि ’’ रथैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्या’’ (जै.अ.२ पा.१ सू.४६) दिति ।
साकाङ्क्षत्वादित्युक्ते प्रकृतिप्रत्यययोरप्येकवाक्यता स्यात्तन्निवृत्त्यर्थं –
विभज्यमानेति ।
न हि प्रकृतिप्रत्यययोर्विभागो विद्यते । विभज्यमानत्वेन पदत्वापत्तिर्विवक्षिता । तावत्युक्ते ‘‘भगो वां विभज्यत्वर्यमा वां विभजत्वि’’त्यादौ निरपेक्षविभागेऽपि वाक्यत्वं स्यात् । तत्र हि प्रतिपदं विभजत्वित्यन्वयान्निराकाङ्क्षत्वम् , तन्निवृत्त्यर्थं साकाङ्क्षत्वविशेषणम् । अर्थैकत्वविशेषणस्य तु ‘‘स्योनं ते’’ इतीदमेव व्यावर्त्यम् । अत्र च वाक्यभेदोऽद्याप्यसिद्ध इति तन्नोपन्यस्तम् । ‘‘देवस्यत्वे’’ ति मन्त्रे हि ‘‘अग्नये निर्वपामी’’तिपदातिरिक्तपदानां न निर्वापे समवेतार्थत्वम् । एवमन्यत्रापि कर्मणि तेषां न समवेतार्थतोपलभ्यते , तेनागतीनां तेषां समवेतार्थाग्निनिर्वपामिपदाभ्यामेकवाक्यतां कल्पयित्वा तदनुरोधेन जघन्ययाऽपि वृत्त्याऽर्थाभिधानसामर्थ्यं कल्प्यताम् ।
मन्त्रभागयोस्त्वनयोरुपस्तरणासादनार्थयोः पृथगर्थाभिधानसामर्थ्यस्यैकवाक्यतामनपेक्ष्यैवार्थप्रतीतिकार्यवशेन सिद्धत्वान्न वाक्यपूर्वकत्वं लिङ्गस्येति सिद्धान्तयति –
भवेदेतदेवमिति ।
प्रयोजनैकत्वेनेति ।
विशिष्टैकार्थप्रमितिः प्रयोजनम् । प्रधानमेकमर्थमित्यत्रैकशब्दः प्रयुक्तः , तत्र ‘‘स्योनं ते’’ इत्यस्य वाक्यभेदप्रतिपादनात् एकस्मिन्वाक्ये पदार्थानां बहुत्वादेकार्थत्वम् । अयुक्तमित्याशङ्क्य विशिष्टार्थाभिप्रायेण प्रधानमित्युक्तम् ।
ननु भावनैव प्रधानं कथमुपस्तरणादेः प्रधान्यमत आह –
अनुष्ठेयार्थश्चेति ।
मन्त्रावयवावविनियुज्य हि नाऽवयविरूपं वाक्यं विनियोक्तुं शक्यते । अतश्चैकवाक्यत्ववादिनाऽव्यवयवौ विनियोज्यौ , तयोश्च मिलितयोर्नैकार्थप्रकाशनं सिद्धमिति । यत्र तु ‘‘देवस्य त्वे’’त्यादाविवैकवाक्यतावशेन कथंचित्सामर्थ्यमनुमेयम् , तत्रोपस्तरणे पूर्वभागार्थे उत्तरो मन्त्रभागो भङ्क्त्वा व्याख्येयः । पुरोडाशासादने चोत्तरभागार्थे पूर्वः । एवं यावदेकवाक्यतावशेन सामर्थ्यमनुमीयते तावत्पूर्वस्योत्तरस्य च मन्त्रभागस्यैकैकस्मिन्नपस्तरणे पुरोडाशासादने चार्थप्रतीतिकार्यवशेन प्रतीतं यत्सामर्थ्यं तन्मन्त्रभागद्वयस्य विनियोजिकां श्रुतिं पूर्वेणोपस्तृणुयादुत्तरेण पुरोडाशमासादयेदित्येवंरूपां कल्पयति ।
ततः किं जातमत आह –
तथा चेति ।
एकं विनियोगं कर्तुं वाक्यलिङ्गयोः सह प्रस्थितयोर्वाक्ये लिङ्गं कल्पयितुमुपक्रान्तवति एकैकमन्त्रभागगतं लिङ्गं वाक्यकल्प्यलिङ्गादपि विनियोगफलं प्रति प्रत्यासन्नां श्रुतिं कल्पयति । वाक्यकल्पिते च लिङ्गे श्रुतिं कल्पयितुमुपक्रान्ते लिङ्गकल्पिता श्रुतिर्विनियोगं गृह्णाति , गृहीते च तया तस्मिन् वाक्येन लिङ्गद्वारकल्पिता श्रुतिरेकसोपानान्तरितत्वात्फलमनवाप्य विलीयते । आह चात्र निदर्शनमाचार्यसुन्दरपाण्ड्यः – निःश्रेण्यारोहणप्राप्यं प्राप्तिमात्रोपपादि च । एकमेव फलं प्राप्तुमुभावारोहतो यदा ॥१॥ एकसोपानवर्त्येको भूमिष्ठश्चापरस्तयोः । उभयोश्च जवस्तुल्यः प्रतिबन्धश्च नान्तरा ॥२॥ विरोधिनोस्तदैको हि तत्फलं प्राप्नुयात्तयोः । प्रथमेन गृहीतेऽस्मिन्पश्चिमोऽवतरेन्मुधा ॥३॥ इति । एवमुत्तरत्रापि द्रष्टव्यम् । यदि लिङ्गाभ्यां मन्त्रभागयोरर्थभेदेन वाक्यं भङ्क्त्वा विनियोगस्तर्हि देवस्य त्वेत्यत्रापि लिङ्गाद्वाक्यं भङ्क्त्वा भेदेन विनियोगः स्यात् ।
तथाचात्रापि समवेतार्थसदनादिपदातिरिक्तपदानां मन्त्रभागाभ्यामेकवाक्यता न स्यादत आह –
यत्र त्विति ।
यत्र विरोधकं पृथक् कर्मसमवेतार्थप्रकाशनसामर्थ्यं नास्ति , तत्र समवेतार्थेनैकेन पदेन द्वाभ्यां त्रिभिर्वा पदैर्यैकवाक्यता सा क्वापि कर्मण्यसमवेतार्थानां पदान्तराणां वैयर्थ्यपरिहाराय स्वानुसारेण सामर्थ्यं कल्पयतीति भवति तत्र वाक्यस्य विनियोजकत्वं न त्वत्र , पृथक् कर्मवर्तिपदार्थप्रकाशनादित्यर्थः । उक्तं च - ‘पदान्तराणि यत्रार्थं वदेयुः कर्मवर्तिनम् । तत्रैवमितरेषां तु वाक्यमप्यगतेर्वरम्’॥ इति । एवमिति । लिङ्गाद्वाक्यभङ्ग इत्यर्थः ॥
प्रकरणवाक्ययोर्विरोधमुदाहर्तुं वाक्यलक्षणमाह –
अत्र चेति ।
प्रकरणलक्षणमाह –
लब्धेति ।
कार्यान्तरापेक्षावशेन प्रकरणत्वं शबरस्वामिसंमतमित्याह –
कर्तव्याया इति ।
प्रधानवाक्यस्याङ्गवाक्याकाङ्क्षामुक्त्वाऽङ्गवाक्यानां प्रधानवाक्याकाङ्क्षामाह –
समिदादीति ।
सन्निहितकरणोपकारे संभवति न विश्वजिन्न्यायेन (जै.सू.अ.४ पा.३ सू.१५) स्वर्गकल्पना , नापि दर्शपूर्णमासफलस्वर्गस्यानुषङ्गः ; प्रयाजादेः फलाकाङ्क्षायामपि स्वर्गस्यानाकाङ्क्षत्वादित्याह –
अनुषङ्गतो वेति ।
करणोपकारस्य सिद्धत्वादेव यज्ञवर्मकरणाद्यार्थवादिकं फलं सत्रन्यायेन न कल्प्यमित्याह –
अर्थवादतो वेति ।
निर्वारयितुं चरितार्थीकर्तुं । निर्वृण्वन्ति कृतार्थीभवन्ति । निर्वारयन्ति । स्वकृतोपकारेण प्रधानं दर्शपूर्णमासादीत्यर्थः ।
उक्तामितरेतरापेक्षां सदृष्टान्तमुपसंहरति –
सोऽयमिति ।
‘‘अग्निरिदं हविरजुषतावीवृधत महोज्ययोऽकृत प्रजापतिरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत अग्नीषोमाविदं हविरजुषतावीवृधत महो ज्यायोऽक्राताम् । इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् । इन्द्र इदं हविरजुषतावीवृधत महो ज्यायोऽकृते’’ति सूक्तवाकनिगदः । देवतासंबोधनप्रधानः पदसमूहो निगद इत्याख्यायते । तत्राग्निः पौर्णमास्यमावास्ययोः साधारणः । प्रजापतिः पौर्णमास्यामेवोपांशुयाजस्य । ‘‘नाऽसोमयाजी सन्नये’’दित्यसोमयाजिनः सान्नाय्याभावात् । अमावास्ययोर्दधिपयसोरभावे ऐन्द्राग्नमेकादशकपाल विहितं तस्य देवतेन्द्राग्नी ।
इदमाह –
तत्र हीति ।
एकत्र सहपाठेऽपि लिङ्गादुत्कृष्ठेनेन्द्राग्निपदेनैकवाक्यतापन्नोऽवीवृधेतामित्यादिमन्त्रशेषो यत्रामावास्यायामिन्द्राग्निपदं नीतं तत्र नीयेतोतेन्द्राग्निपदमात्रममावास्यायां नीत्वा वाक्यशेष उभयत्र पौर्णमास्यमावास्ययोः प्रयोक्तव्य इति संदेहस्य प्रापकमाह –
तत्र यदीति ।
फलवती भावना प्रधाना सती इतिकर्तव्यत्वं सन्निधिपठितस्यापादयतीत्यर्थः ।
आकाङ्क्षात्मकं हि प्रकरणं न श्रुतिरिव विनियोगमभिधत्ते , किं तु विनियोज्यपदार्थशक्तिं प्रमाणान्तरप्रमितामपेक्षते , एवं च सति विनियोज्यस्य मन्त्रवाक्यशेषस्य वाक्येनान्यत्र विनियुक्तत्वान्न प्रकरणेन कृत्स्नार्थत्वेन विनियोग इत्याह –
भवेदेतदेवमिति ।
विपक्षे दण्डमाह –
अन्यथेति ।
द्वादशोपसत्ताधिकरणं ज्योतिर्दर्शना (व्या.सू.अ. १ पा. ३. सू.४०) दित्यत्रानुक्रान्तम् । पूषाद्यनुमन्त्रणमन्त्राश्च तत्रैवोदाहृताः ।
यद्यदेवेति ।
विनियोजकं प्रमाणमित्यर्थः ।
एकवाक्यतेति ।
वाक्यैकवाक्यतेत्यर्थः ।
यावदितरत्र सामर्थ्यमिति ।
वाक्यद्वयैकवाक्यताया कल्पितायाम् अन्यथानुपपत्त्या वाक्यद्वयार्थयोरितरेतरोपकार्योपकारकत्वसामर्थ्यं कल्प्यत इत्यर्थः ॥ नानेष्टिपशुसोमसमुदायो राजसूयः । तत्राभिषेचनीयः सोमयागविशेषः । शुनःशेपः किल ॠषिपुत्रो हरिश्चन्द्रपुत्रेण पुरुषमेधार्थं पशुत्वेन क्रीतः । स वरुणाय स्वस्यालम्भे कर्तुमारब्धे वरुणं तुष्टाव । स च तुष्ट एनं रक्षेत्याख्यानं बह्वृचब्राह्मणे पठ्यते । अक्षद्यूतादिकमभिषेचनीयसन्निधौ श्रुतमादिशब्दार्थः । यद्याकाङ्क्षामात्रात्पदानां संबन्धः , तर्ह्यानय प्रासादमिति पदद्वयव्यवहितेन पश्येत्यनेनापि गामित्यस्याभिसंबन्धः स्यात् , आनयेत्यनेन तु सन्निधानात्सबन्ध उपपन्न । तस्मान्नाकाङ्क्षामात्रं संबन्धहेतुरित्यर्थः ।
अत्र विकल्पेन पूर्वपक्षं वक्ष्यन् सन्निधेरपि केवलस्य न संबन्धे हेतुत्वमित्याह –
न चेति ।
अयमेतीति वाक्ये राज्ञः इत्येतत्पदं पुत्रपदस्योपरिष्टात्पुरुषपदस्य चाधस्ताद्दृश्यते । यदि सन्निधिमात्रं संबन्धकारणं तर्हि राज्ञ इति पदस्य पुत्रपदेन वा सबन्धः - राज्ञः पुत्र इति , किं वा पुरुषपदेन - राज्ञः पुरुष इत्यविनिश्चयः स्यादित्यर्थः ।
एवमनिश्चये सत्याकाङ्क्षायां निर्णयमाह –
तस्मादिति ।
अन्तिके यदुपनिपतितमिति ।
पितृसमर्पकं राजपदमित्यर्थः ।
यदि राज्ञ इति पदस्य पुरुषपदेनासबन्धः , तर्हि तेनासंबद्धस्य पुरुषपदस्य केन संबन्धस्तत्राह –
किं त्विति ।
ननु प्रकरणाद्राजसूयार्थत्वं क्रमादभिषेचनीयार्थत्वं च किं न स्यादत आह –
समुच्चयाऽसंभवाच्चेति ।
अभिषेचनीयस्यापि राजसूयमध्यपातित्वात्तदर्थमप्यनुष्ठितमाख्यानादि राजसूयाङ्गमपि भवति ; पृथक् प्रयोगाऽनपेक्षणाद् न समुच्चय इत्यर्थः । न चैवं चिन्तावैयर्थ्यम् ; अभिषेचनीयार्थत्वेनानुष्ठितस्य पवित्राद्यवयवान्तरानुपकारकत्वादवयविराजसूयार्थस्य तदीयसर्वावयवार्थत्वोपपत्तेस्तत्सिद्धये राजसूयाङ्गत्वस्याप्युपाख्यानादेश्चिन्तनीयत्वादिति । पवित्रः सोमयागविशेषः । क्षत्रस्य धृतिरिष्टि । प्रधानस्य कथम्भावे कथं भावना निष्पद्यत इत्यपेक्षायामितिकर्तव्यताकाङ्क्षायामित्यर्थः । एतस्यामवस्थायामनिर्ज्ञातफलं यदेतत्कर्म पठ्यते तस्य प्रकरणिनं प्रत्यङ्गता भवति , निर्ज्ञातफलस्य गोदोहनादेर्वाऽङ्गता , तस्य फलवत्त्वेनाकाङ्क्षाऽनुदयादित्यर्थः ।
प्रधानस्याकाङ्क्षायामनुवर्तमानायामाम्नातस्यासंबद्धैः पदैर्व्यवधानाभावाद्राजसूयाङ्गत्वमुक्त्वाऽभिषेचनीयं प्रति सन्निधेर्दुर्बलत्वादनङ्गत्वमाह –
अभिषेचनीयस्य त्विति ।
निराकाङ्क्षस्येति प्रकरणानुत्थाने हेतुः ।
ननु यथाऽभिषेचनीयस्य सन्निधिवशात्प्रकरणकल्पना , एवं राजसूयस्यापि प्रकरणात्संनिधिः कल्प्य इति तुल्यत्वमुभयोरित्याशङ्क्याह –
प्रकरणिनश्चेति ।
सर्वव्यापकत्वाद्राजसूयस्याभिषेचनीयस्यापि तदात्मकत्वात्संनिधिसिद्धिरित्यर्थः । पौरोडाशिककाण्डे आग्नेयादीनां कर्मणां क्रमे मन्त्राः श्रुताः , तत्राऽमावस्यिकसान्नाय्यक्रमे शुन्धध्वमिति मन्त्रः समाम्नात इत्यर्थः ।
यदुक्तं समाख्याश्रुतिः साक्षात्पुरोडाशपात्रमन्त्रसंबन्धबोधिनीति , तत्राह –
समाख्या न तावदिति ।
यौगिकशब्देन हि विशिष्टं द्रव्यमुच्यते , न संबन्धः ; तद्वाचकत्वे हि संबन्धिनौ संबन्धश्चेति त्रयो वाच्याः प्रसज्येरन् । अतः सबन्ध आनुमानिक इत्यर्थः ।
आनुमानिकोऽपि संबन्धो न विशेषस्य साक्षात्सिद्ध्यति , काण्डमात्रविषयत्वादित्याह –
न तु साक्षादिति ।
अपि च भवतु समाख्या श्रुतिः , सा श्रुत्या च संबन्धः वक्तुं , नासौ विशेषरूपो विनियोगः ।
स चेह विचार्यते , अतः संबन्धमात्राभिधानेऽपि नापेक्षितसिद्धिरित्याह –
न चासाविति ।
ननु यथा शौनःशेपोपाख्यानादिकमभिषेचनीयसन्निधिबाधेन प्रकरणात्समस्तराजसूयाङ्गं निर्णीतमेवमत्रापि सान्नाय्यक्रमं बाधित्वा समस्तदर्शपूर्णमासार्थत्वमेव मन्त्रस्यास्तु , वृथा क्रमसमाख्ययोः प्राबल्यदौर्बल्यचिन्तनमत आह –
तत्रापि चेति ।
सामान्यतो दर्शपूर्णमासप्रकरणेनापादितमैदमर्त्यं यस्य स मन्त्रः , तथोक्तस्य यथा आरादुपकारतया शोनःशेपोपाख्यानादेः प्रकृतमात्रार्थत्वमेवं प्रकृतमात्रसंबन्धानुपपत्तिरित्यर्थः ।
मन्त्रस्य दृष्टार्थत्वेन सन्निपत्योपकारकत्वमाह –
मन्त्रस्येति ।
ननु दृष्टार्थत्वेन स्थानादर्थविशेषसबन्धे प्रकरणं बाधितं स्यादत आह –
यं कंचिदिति ।
पदार्थशक्त्यपेक्षत्वात्प्रकरणस्य मन्त्रस्य क्वचिदेव प्रकाशनशक्तौ तन्मात्रोपकारकत्वेनापि प्रकरणस्वीकारो भवतीत्यर्थः । तदेवं प्रकरणापेक्षितविशेषसंबन्धः स्थानेन वा बोधनीयः समाख्यया वेति संदेहे निर्णयमाह – सान्नाय्यक्रम इति ।असन्निहितयोः संबन्धायोगात् संबन्धसिद्ध्यर्थं सन्निधिमुपकल्पयतीत्यर्थः ।
वैदिकेनेति ।
पौरोडाशिकसमाख्या हि पाठकैः कृता , सान्नाय्यपात्रमन्त्रयोस्तु क्रमो वेदेनैव कृत इत्यर्थः । आकाङ्क्षा कल्प्यते सान्नाय्यपात्रमन्त्रयोरित्यर्थः ।
यावच्च क्लृप्तेनेति ।
पुरोडाशपात्रमन्त्रयोरित्यर्थः । एवमुत्तरत्र योज्यम् ।
अधिकरणपञ्चकार्थं वृद्धोक्त्या संकलयति –
एकेति ।
लिङ्गस्यैकया श्रुत्या श्रुत्यर्थं विनियोगं प्रति अन्तरयो व्यवधानं प्रतीयते । वाक्यस्य द्वाभ्यां लिङ्गश्रुतिभ्यां , प्रकरणस्य वाक्यलिङ्गश्रुतिभिः तिसृभिः स्थानस्य प्रकरणवाक्यलिङ्गश्रुतिभिश्चतसृभिः , समाख्यायाः स्थानप्रकरणवाक्यलिङ्गश्रुतिभिः पञ्चभिः श्रुत्यर्थं प्रत्यन्तरयः प्रतीयते इत्यर्थः ।
सौकर्यार्थं बाध्यबाधकभावमपि विभज्यते –
बाधिकैवेति ।
मध्यमानां तु लिङ्गादीनामुत्तरापेक्षया बाधकत्वं पूर्वापेक्षया बाध्यत्वम् । तद्यथा - लिङ्गं वाक्यस्य बाधकं तदेव श्रुतेर्बाध्यमित्यादीति । निघ्नाः परवशीताः ।
एवं श्रुत्यादिषु बलाबले निरूप्य प्रस्तुते लिङ्गात्सन्निधिबाधे उपयुक्तमुदाहरणमाह –
तस्मादिति ।
यः सोमं पिबति स इतरान् प्रत्यनुज्ञा याचते ते चानुज्ञा ददति । तत्रानुज्ञापनमनुज्ञायाचनम् , अनुज्ञेत्यनुज्ञानदानम् । उपह्वयस्व अनुजानीहीत्यर्थः । उपहूतः अनुज्ञातोऽसीत्यर्थः । देशसामान्यात्पाठक्रमादित्यर्थः ।
लिङ्गेनेति ।
आदौ ह्यनुज्ञापनं पश्चादनुज्ञेति लोकसिद्धम् । तत्रोपहूत इति मन्त्रो यद्यपि प्रथमपठितत्वादनुज्ञापने प्राप्तः ; तथापि लिङ्गादनुज्ञायां शेषत्वेन प्रतिपाद्यते । उपह्वयस्वेति च मन्त्रो यद्यपि चरमपठितत्वादनुज्ञायां प्राप्तः ; तथाप्यनुज्ञायाचनप्रकाशनसामर्थ्यात्तच्छेषत्वेन प्रतिपाद्यते इत्यर्थः ।
प्रथमतन्त्रोक्तस्मारणस्य प्रयोजनमाशङ्कान्तरनिवृत्तिरित्याह –
तथापीत्यादिना ।
विनियुक्तविनियोगो न वस्तुनि विरुध्यते ; दध्ना जुहोति दध्नेन्द्रियकामस्य जुहोतीत्येकस्य दध्न उभयार्थत्वदर्शनात् , अथ प्रतीतौ विरोधः अन्यशेषस्यान्यशेषत्वविरोधाद्यद्देवदत्तीयं तद्यज्ञदत्तशेष इतिवत् , तर्ह्यधिष्ठानलक्षणया सोऽपि विरोधः शमयिष्यत इति चेद्विद्यायां मन्त्रस्य विनियोगेऽपि तत्तुल्यमित्याह –
स विद्यायामिति ।
न चैवमैन्द्र्या अपीन्द्रे गार्हपत्ये च विनियोगशङ्का ; एकस्मिन्प्रयोगे मन्त्रावृत्तिप्रसङ्गादिति । बृहस्पतिसवोदाहरणं तु कृत्वा चिन्तयेत्युक्तमेव । अस्य पुनः स्मारणस्याभ्यधिकाशङ्केत्यर्थः ।
प्रथमतन्त्रे हि श्रुत्यादिभिर्लिङ्गादीनां बाध उक्तः , अत्र तु लिङ्गात् क्रमस्य बाधो नोच्यते , किंतु शीघ्रं लिङ्गेनान्यत्र विनियुक्ते मन्त्रे विलम्बेन क्रमस्य परिच्छेदकत्वमेव नास्तीति प्रतिपाद्यते तत्र क्रमस्यापरिच्छेदकत्वे ज्ञाते कुतो विनियुक्तविनियोगशङ्केत्याह –
नेहेति ।
श्लोकं विवृणोति –
प्रकरणेति ।
यद्यपि प्रथमेऽपि काण्डे लिङ्गादीनां श्रुत्यादिभिरप्राप्तबाध एव दर्शितः ; तथापि तत्र दुर्बलप्रमाणात् प्राप्तिः शङ्कितुं शक्यते । गार्हपत्यस्य इन्द्रस्य च स्वस्वप्रकाशकत्वेन मन्त्राकाङ्क्षत्वात् । इह तु विद्याया निराकाङ्क्षत्वाद् मन्त्रकर्मणां चान्यत्र विनियुक्तत्वेन रक्तपटन्यायाभावाच्च प्राप्तिरेव नास्तीति वैषम्यम् । भाष्ये बृहस्पतिसवस्य तुल्यबलप्रमाणद्वयादुभयार्थत्वे स्थिते प्रवर्ग्यस्यापि बृहस्पतिसवेन तुल्यत्वाशङ्कायां सन्निधेर्दुर्बलत्वादतुल्यत्वं प्रतिपादनीयम् ।
तथा च सति अपिचशब्दानुपपत्तिरित्याशङ्क्य नाभ्युच्चायार्थः सः , किं त्वेतदुपपत्तिसाहित्यं पूर्वोक्तन्यायस्य वदतीत्याह –
तुल्यबलतयेति ।
प्रमाणयोस्तुल्यबलतया बृहस्पतिसवेन प्रवर्ग्यस्य या तुल्यताशङ्का तदपाकरणद्वारेणेत्यर्थः । बृहस्प्ततिसवस्येति षष्ठी चन्द्रस्य तुल्यं मुखमितिवत्तुल्यार्थयोगनिबन्धना । अभिधातुं पदेऽन्यस्मिन्ननपेक्षो रवः श्रुतिः । सर्वभावगता शक्तिर्लिङ्गमित्यभिधीयते ॥ संहत्यार्थं ब्रुवन् वृन्दं पदानां वाक्यमुच्यते । प्रधानवाक्यमङ्गोक्त्याकाङ्क्षं प्रकरणं मतम् ॥ स्थानं समानदेशत्वं समाख्या यौगिको रवः । इति श्रुत्यादिलक्ष्योक्तं मीमांसाबुद्धिपारगैः ॥२५॥ अभिचारकर्मदेवतामभिचारकर्ता प्रार्थयते हे देव मद्रिपोः सर्वमङ्गं प्रविध्य दारय हृदयं च दारय धमनीः सिराः प्रवृञ्ज विभज त्रोटय शिरश्च अभितो विदारय । एवं मद्रिपुस्त्रिधा विपृक्तो विश्लिष्टो भवत्वित्यर्थः । हरिरिन्द्रनीलस्तद्वन्नीलोऽसीतीन्द्रः संबोध्यते । मित्र आदित्यः । शं सुखम् करत् भूयादिति विद्यार्थ्याशास्ते । अग्निष्टोमो ब्रह्म स यस्मिन्नहनि क्रियते तदपि ब्रह्मात एव तदहरहर्निर्वर्त्यं कर्म य उपयन्ति अनितिष्ठन्ति ते ब्रह्मणैव साधनेन ब्रह्मापरमुपयन्ति प्राप्नुवन्ति , ते चामृतत्वं परं ब्रह्म चाप्नुवन्ति । पुत्रस्य दीर्घायुष्ठ्वसिद्धये छान्दोग्ये त्रैलोक्यं कोशत्वेन परिकल्प्योपासनमुक्तम् । तत्रायं पितुः प्रार्थनामन्त्रः । अमुनेति पुत्रस्य त्रिर्नाम गृह्णाति । अमुना डित्थानाम्ना सह भूरितीमं लोकं प्रपद्य इत्यर्थः ॥
इति चतुर्दशं वेधाद्यधिकरणम् ॥
हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥२६॥ यथा विद्यासन्निधौ श्रुतस्यापि मन्त्रादेर्विद्यायामसामर्थ्यादनुपसंहारः , एवं हानसन्निधौ श्रुतस्याप्युपायनस्य तदन्तरेणापि हानसंभवेन हानोपपादनसामर्थ्याभावादनुपसंहार इति प्रापय्य प्रतिविधीयते । उपायनमित्यस्य व्याख्यानमुपादानमिति । सगुणनिर्गुणत्वेनेति । कौषीतकिशाखागतपर्यङ्कविद्या हि सगुणेति ।
यद्यपि सगुणविद्यायां हानसन्निधावुपायनं श्रुतम् ; तथापि निर्गुणविद्यास्थं हानं तदाक्षिपति , तदन्तरेण तदनुपपत्तेरिति शङ्कते –
ननु यथेति ।
कर्तृभेदो नानावश्यकत्वे प्रयोजकः ; परकर्तृकहाननियतेन स्वकर्तृकोपायनेनानेकान्तादित्यर्थः ।
यदुक्तं विद्याभेदादनुपसंहार इति , तत्राह –
कर्मान्तर इति ।
अश्वरोमादिवद्विधूतयोरिति योजना ।
यदप्युक्तं हाने उपायनं नावश्यकमिति , तत्राह –
न तावत्प्रायश्चित्तेनेति ।
न केवलमश्वरोमदृष्टान्तात् सुकृतादिविलयाभावः , किं तु विधूय प्रमुच्येति श्रुतिभ्यामपीत्याह –
न च नष्ट इति ।
शब्दसन्निधिकृतोऽपि विशेष इति । हानोपायनशब्दयोः कौषीतकिशाखायां सन्निधिरस्ति तत्कृतो विशेष इत्यर्थः ।
यद्यश्वरोमदृष्टान्ताद्विधूतयोः सुकृतदुष्कृतयोः परत्रावस्थानसापेक्षत्वादन्यत्र हानसन्निधौ श्रुतमुपायनं केवलहानश्रवणेऽप्यपेक्षितत्वादायातीति व्याख्यायते , कथं तर्हि भाष्यकारः स्तुतिप्रकर्षलाभायेति स्तुतिप्रकर्षमुपायनोपसंहारकल्पकं प्रमाणमाचष्टे ? अत आह –
स्तुतिप्रकर्षस्त्विति ।
स्तुतिर्हि विद्यायाः कार्या , सा च केवलश्रुतहानेनाप्युपपद्यते । एवं हि प्रकर्षोऽपेक्ष्येत यद्यप्रकर्षे स्तुतिर्न स्यात्तच्च नास्ति , तस्मात्प्रमाणासिद्धस्योपायनोपसंहारस्य प्रयोजनं भाष्ये उक्तमित्यर्थः ।
भाष्ये केनापि प्रकारेण पुरुषान्तरे सुकृतदुष्कृतयोरसङ्क्रान्तिरङ्गीकृतेति भाति , तच्चायुक्तम् ; फलद्वारेण सङ्क्रान्तिसंभवादित्याशङ्क्याह –
यद्यपीति ।
वैश्वानरीयेष्ठ्यधिकरणं द्वितीयसूत्रेऽनुक्रान्तम् । भाष्ये अतीवशब्दः सुकृतादिस्वरूपपरः । स्तुत्यर्थत्वाच्चेति भाष्यस्य चान्यत्र विद्यासामर्थ्यात्सुकृतदुष्कृतफलसंचाररूपमोक्षाभिधानेन विद्यास्तुत्यत्वादित्यर्थः ।
गुणोपसंहारविवक्षायामुपायनार्थशैवानुवृत्तिं ब्रूयादिति भाष्येऽप्युपायनार्थशब्देन सुकृतदुष्कृतस्वरूपोपायनं विवक्षितं फलत उपायनस्योक्तत्वादित्यभिप्रेत्याह –
न स्वरूपत इति ।
संचार इत्यभिप्रायमितीतिशब्दोऽध्याहर्तव्यः ।
स्तुतिगुणेति ।
स्तुत्युपयोगी गुणः सुकृतदुष्कृतयोः परत्र संचारः , तदुपसंहारो विचारितो यद्यपि स नोपास्य इत्यर्थः ।
कुशशब्दो हि न स्त्रीलिङ्गः ; अस्त्री कुशमित्यमरसिंहेनानुशिष्टत्वाद् , अतस्तदविरोधेन सूत्रेण पदं छिनत्ति –
आच्छन्द इति ।
आडुपसर्गस्यार्थमाह –
आच्छादनादिति ।
अनुष्ठातारं पापादाच्छादयतीति आच्छन्द इत्यर्थः । श्रूयते हि छादयन्ति हि वा एनं छन्दांसि पापत्कर्मण इति । अत्र समिधः कुशा इत्युच्यन्ते । औदुम्बरा इति विशेषणात्समिद्वाची कुशाशब्दोऽन्य एव स्त्रीलिङ्ग इति लिङ्गानभिज्ञानाद्वाचस्पतिः पदं चिच्छेदेति – केचित् । तदतिमन्दम् ; अनेकशब्दत्वस्यान्याय्यत्वात् । कुशसंबन्धात् समित्सु कुशशब्दस्य तु लाक्षणिकत्वोपपत्तेः , यज्ञसंबन्धादिव गार्हपत्ये इन्द्रशब्दस्य । यदि तु कस्यांचिछ्रुतावौदुम्बर्य इति प्रयोगः स्यात्तर्हि स छान्दसो भवेद्भाष्ये च तस्यानुकारमात्रम् । तस्मात् - पदवाक्यप्रमाणाब्धेः परं पारमुपेयुषः । वाचस्पतेरियत्यर्थेऽप्यबोध इति साहसम् ॥१॥
विकल्पपरिहारार्थं वाक्यस्य पर्युदासार्थत्वमाह –
तदेतदिति ।
अष्टदोषा विकल्पस्य , तदभावो नाडीषु इत्यत्र दर्शिताः ।
पर्युदासाधिकरणविषयमाह –
एवमिति ।
‘‘आश्रावयेति चतुरक्षरम् अस्तु श्रौषडिति चतुरक्षरं यजेति द्व्याक्षरं येयजामहे इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै’’ इति सप्तदशाक्षरो मन्त्रगणः प्रजापतित्वेन स्तूयते ; प्रजापतेरपि सप्तदशकलिङ्गशरीरसमष्टिरूपत्वात् । यज्ञे यज्ञेऽन्वायत्तोऽनुगत इत्यनारभ्यवादेन वाक्येन सर्वयज्ञेषु मन्त्रगणो विनियुक्तः । तत्र यदि नानुयाजेष्वित्ययं प्रतिषेधः तर्हि विधिप्रतिषेधसन्निपाताद्विकल्पः स्यात् ।
अथ पर्युदासः ततो विधेरेव वाक्यशेषः सन्ननुयाजातिरिक्तयागेषु येयजामहविधिपरः स्यात् , तदर्थं संशयमाह –
तत्रेति ।
ननु प्रतिषेधेऽपि कथं विकल्पप्राप्तिः ? प्रतिषेधेस्य प्रतिषेध्यं प्रति प्रबलत्वाद् भुजङ्गायाङ्गुलिर्न देयेतिवदिति शङ्कां निराकुर्वन्पूर्वपक्षमाह –
मा भूदित्यादिना ।
अर्थप्राप्तस्य भ्रमगृहीतविषयसौन्दर्यसामर्थ्यात् प्राप्तस्य शास्त्रीयेण निषेधेन विकल्पो मा भूत् ।
अत्र कारणमाह –
दृष्टं हीति ।
तात्कालिकश्रेयःसाधनत्वं प्रत्यक्षबोधितं , प्रतिषेधेन तु कालान्तरीयदुरितहेतुत्वं ज्ञाप्यत इति विषयभेदेन तुल्यार्थोपनिपाताभावान्न विकल्प इत्यर्थः ।
तर्हि कथं बाध्यबाधकभावस्तत्राह –
आयत्यां भविष्यत्काले दुःखतो बिभ्यतमिति ।
यदिदानीं प्रवृत्तस्य सुखं दृश्यते तत्तुल्यमेव चेद्दुःखं कालान्तरे भवेत् , तर्हि व्यर्थोऽयं प्रतिषेधः ; प्रवृत्तेर्दुःखकरत्ववन्निवृत्तेरपि सुखविगमे हेतुत्वात् । ततश्च दृष्टात्सुखादधिकं दुःखमस्तीति प्रतिषेधेन गमिते सत्यास्तिकानां प्रवृत्तेरुपरमात् प्रतिषेधस्य फलतो बाधकत्वमित्यर्थः ।
ननु कथं षोडशिग्रहणाग्रहणयोर्विकल्पः ? अकरणेऽपि क्रतूपकारसिद्धौ करणवैयर्थ्यादत आह –
तत्र हीति ।
उपकारभूमार्थिनोऽनुष्ठानमुपकारमात्रार्थिनोऽननुष्ठानमिति विकल्प इत्यर्थः ।
शास्त्रीयविधिनिषेधयोस्तुल्यबलत्वमित्यत्र जैमिनीयं सुत्रमुदाहरति –
तथाऽऽहेति ।
तुल्यहेतुत्वादिति प्रतिषेध्यप्राप्तेः प्रतिषेधस्य च तुल्यप्रमाणकत्वादित्यर्थः । तदेव दर्शयति – उभयं प्रवृत्तितत्प्रतिषेधरूपं शब्दलक्षणं शब्दप्रमाणकमित्यर्थः ।
शास्त्रीयत्वेऽपि विधिनिषेधयोः सामान्यविशेषविषयत्वेनातुल्यबलवत्वमाशङ्क्याह –
न च वाच्यमिति ।
यजतिषु यागेषु येयजामहकरणं यागसामान्यं यावद्विषयीकरोति तावन्निषेधोऽनुयाजे यागविशेष एव येयजामहानुष्ठानं निषेधति ।
निषिद्धे च विधेः सामान्यद्वारा विशेषसंक्रान्तिर्निरुध्यते इति न च वाच्यम् ; कुतः ? अत आह –
यत इति ।
विध्योर्हि सामान्यविशेषविषययोर्विधिर्बलवान् ; परस्परं निरपेक्षत्वाद् , निषेधस्तु विधिप्राप्तं निषेधद् विशेषविषयोऽपि न विधेरधिकबलः ; प्राप्तिसापेक्षत्वेन विध्युपजीवित्वादित्यर्थः ।
तर्हि विधिरेव निषेधेनोपजीव्यत्वात्प्रबलः स्यात् , तथा च कथं विकल्पावकाशस्तत्राह –
न च सापेक्षतयेति ।
अनन्यगतिकत्वान्निषेधस्य विधिना तुल्यबलत्वं कल्प्यमित्यर्थः ।
ननु नानन्यगतित्वमर्थवादत्वेन गतिसंभवादित्याशङ्क्याह –
न च न ताविति ।
तावाज्यभागौ पशौ न करोति इति दर्शपूर्णमासयोः श्रूयते । तथा क्वचित्पशुप्रकरणेऽपि । पशुप्रकरणस्थं तु वाक्यमतिदेशवाक्यं प्रति शेषत्वेन पर्युदासः यत्प्रकृतिवत्पशौ कर्तव्यं तदाज्यभागवर्जमिति । दर्शपूर्णमासप्रकरणगतं तु वाक्यं ज्योतिष्टोमगतद्वादशोपसत्तावाक्यवत् पशुगताज्यभागाभावानुवादद्वारेणार्थवादः । पशावप्याज्यभागौ न क्रियेते । तौ पुनर्दर्शपूर्णमासयोः क्रियेते । तस्मात्प्रशस्तौ दर्शपूर्णमासाविति । नैवमिहार्थवादः ।
हेतुमाह –
असमवेतेति ।
उदाहरणे तु समवेतार्थत्वेन वैषम्यमाह –
पशौ हीति ।
उपपद्यतेऽर्थवादतेत्यनुषङ्गः ।
असमवेतार्थत्वादित्येतद्विवृणोति –
न चात्रेति ।
अस्तु तर्हि पर्युदासत्वं गतिर्नेत्याह –
न च पर्युदास इति ।
नानुयाजेष्वित्ययं यदि पर्युदासः स्यात्तदा सुबन्तेन नञो योगात्समासः स्यात्कात्यायनेन समासनियमस्य स्मृतत्वादित्यर्थः ।
न हि तत्रान्येति ।
विधिनिषेधयोरुभयोरपि विशेषनिष्ठत्वान्न पर्युदाससंभव इत्यर्थः ।
ननु पर्युदासेऽपि किमिति न विकल्पः स्यात् ? अनुयाजवर्जितेष्वित्युक्ते येयजामहस्यानुयाजविच्छेदप्रतीतेः सामान्यविधिना च संबन्धप्रतीतेरिति शङ्कते –
किमत इति ।
परिहरति –
एतदिति ।
अनुयाजव्यतिरिक्तेष्वित्युक्ते के त इति न ज्ञायन्ते ततोऽपर्यवसितं वाक्यं येऽनुयाजादन्ये ते यागा इति पर्यवसातुं पूर्ववाक्यमपेक्षते , न पृथक् पर्यवस्यतीति न विकल्प इत्यर्थः ।
नन्वनुयाजवर्जितेष्वित्युक्ते वर्जनाभिधानान्निषेधत्वमिति , नेत्याह –
तथा चेति ।
पूर्ववाक्ये येयजामहं प्रति शेषत्वेन बोधितानां यागानामननुयाजत्वं विशेषणमज्ञातमनेन ज्ञाप्यत इति विधिशेषत्वान्न प्रतिषेधतेत्यर्थः ॥
अमृर्तयोः सुकृतदुष्कृतयोश्चालनाऽनुपपत्तेः पूर्वपक्षासम्भवमाशङ्क्य सिद्धान्तेऽपि साम्यमाह –
यथा हीति ।
ननूपायनं च विधूननं च यत्र कौषीतक्यादौ श्रूयते , तत्रोपायनसिद्ध्यर्थं हानमन्यत्र सञ्चार इति वक्तव्यं , तद्वदन्यत्राप्यस्तु , तत्राह –
यत्र विधूननमात्रमिति ।
ननु विधूननशब्दस्य लाक्षणिकत्वाविशेषे किमिति फलारम्भाच्चालनमेव लक्ष्यते ? न पुनरन्यत्र संचार इति , तत्राह –
कल्पनागौरवेति ।
अमूर्तयोः सुकृतदुष्कृतयोः स्वाश्रयादपसरणमन्यत्र चावस्थानमिति विरुद्धार्थद्वयलक्षणात् स्वाश्रयस्थयोरेव तयोः फलात् प्रधावनं लघुत्वाल्लक्षणीयमित्यर्थः ।
उपायनसन्निधौ श्रुतौ विधूननशब्दस्तावत्त्यागं लक्षयति , ततोऽन्यत्रापि केवलविधूननशब्दश्रुतौ प्रवृत्तत्वात् सैव लक्षणा बुद्धिस्था भवतीति न स्वफलाच्चालनलक्षणा , तस्या निवृत्तत्वादित्याह –
यत्र तावदिति ।
ननु क्वचिद्येन शब्देन योऽर्थो लक्षितः स एव तस्यान्यत्राप्यर्थ इति न नियतं , न ह्यग्निरधीत इत्यत्र माणवको लक्षित इत्यग्निर्ज्वलतीत्यत्रापि तदर्थता , अत आह –
एवं हीति ।
यदि केवलविधूननशब्दश्रवणे चालनमर्थो लभ्येत , तर्हि प्रयोगान्तरे प्राप्तो लाक्षणिकार्थो न परिगृह्येत , न त्वेतदस्तीति प्राप्तत्याग एव लक्ष्यत इत्यर्थः ।
नन्वस्मिन्पक्षे कल्पनागौरवमुक्तमत आह –
न च प्रामाणिकमिति ।
प्रवृत्तस्य लक्ष्यार्थस्य प्रयोगान्तरेऽपि बुद्धौ सन्निधानं प्रमाणं , तत आयातं प्रामाणिकम् ।
ननु चालने मुख्यो विधूननशब्दस्त्यागे तु गौण इति , नेत्याह –
प्राचुर्येणेति ।
अवधूत इत्यादौ त्यागे धुनोतेः प्रयोगदर्शनादित्यर्थः । अश्वो यथा जीर्णानि रोमाणि विधुनुते त्यजत्येवं पापं विधूय यथा चन्द्रो राहोर्मुखात्प्रमुच्य भास्वरो भवति ; एवं धूत्वा शरीरं स्वच्छो भूत्वा ब्रह्मलोकमभिसम्भवामि प्राप्नोमीत्यन्वयः । कृतः सिद्धः न पुनरपूर्वपुण्योपचयेन साध्य आत्मा यस्य स कृतात्मा कृतकृत्य इत्यर्थः । ब्रह्मैव लोको ब्रह्मलोकः ॥२६॥
इति पञ्चदशं हान्यधिकरणम् ॥
सांपराये तर्तव्याभावात्तथा ह्यन्ये ॥२७॥ सिद्धं कृत्वा विद्यायाः कर्मक्षयहेतुत्वं हानसन्निधावुपायनोपसंहार उक्तः , इदानीं तदेवासिद्धं मार्गमध्ये श्रूयमाणस्य कर्मक्षयस्य विद्याहेतुकत्वाभावादित्याशङ्क्यते । अग्निहोत्रं जुहोतीत्यत्र पाठादर्थो बलीयानत एव श्रुतिरतिबलीयसी अर्थादपि तस्याः प्रबलत्वादित्यर्थः ।
ताण्डिनां श्रुतिविरोधं परिहरति –
अर्धपथेऽपीति ।
विधूय पापमिति हि ब्रह्मलोकप्राप्तेः प्राक्कालतोच्यते , सा चार्धपथे विधूननेऽप्युपपद्यत इत्यर्थः ।
एवं शाट्यानिनामिति ।
अर्धपथ एवोपायनसंभवादित्यर्थः ।
ननु जीवत एव विधूननोपायने , न ; एवं श्रुत्यभावादित्याह –
न हि तत्रेति ।
सर्वनामश्रुतेरन्यथासिद्धिमभिधास्यन्पाठक्रमभञ्जकमर्थक्रमं तावदाह –
विद्यासामर्थ्येत्यादिना ।
यवागूपाकस्याग्निहोत्रात्पूर्वकालत्वे सामर्थ्यं होमस्य द्रव्यापेक्षत्वेनावगतम् ।
विद्यायाः पापक्षयहेतुत्वे किं प्रमाणमित्यत आह –
यमनियमादीति ।
श्रवणात् कौषीतकिशाखायामिति शेषः ।
यमाद्यङ्गसहिताया विद्याया उत्तरमार्गद्वारेण ब्रह्मलोकप्राप्तिहेतुत्वमस्तु , तावता कथं पापक्षयहेतुत्वमत आह –
अप्रक्षीणेति ।
तदनुपपत्तेः । ब्रह्मलोकमार्गप्राप्त्यनुपपत्तेरित्यर्थः ।
तादृशीति ।
यमादिसहितेत्यर्थः ।
कथमेकस्या विद्याया उभयार्थत्वमत आह –
क्षपितेति ।
ब्रह्मलोकप्रापणार्थमेव पापक्षयं करोतीत्यर्थः ।
तच्छब्दश्रुतिविरोधमुक्तमनूद्य निराचष्टे –
ननु न पाठेत्यादिना ।
प्रधानरूपपरामर्शित्वात्सर्वनाम्नो विद्यैव परामृश्यते , नानन्तरनिर्दिष्टोऽपि विरजानद्यतिक्रमः । अभ्युपेत्य तु समानश्रुतिरित्युक्तम् ॥२७॥
शङ्काग्रन्थोक्तदृष्टान्ताद्वैषम्यमाह –
विद्याफलमपीति ।
अजनित्वा देवभावेनानुत्पद्येत्यर्थः । स्याज्जीवत एवेत्यत्र ग्रन्थच्छेदः ।
असङ्गतिरुक्तेति ।
विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते इति ग्रन्थे उक्ता याऽसङ्गतिः सा स्यादित्यर्थः ।
भास्करमतमनुवदति –
ये त्विति ।
छन्दः संकल्पः ।
विदुषि यः शुभं संकल्पयति तस्य तदीयं शुभं भवति अशुभं संकल्पयतस्तदीयं पापमित्यर्थतया छन्दत इत्येतत्पदं तन्मतेन व्याख्यायोभयाविरोधपदं व्याचष्टे –
श्रुतिस्मृत्योरिति ।
‘ते नः कृतादकृतादेनसो देवासः पिपृत स्वस्तये’ इति श्रुतिर्भास्करोदाहृता । ते यूयं देवासो देवाः नः अस्मानद्य कृतात्स्वकृतादकृतादन्यकृतादेनसः पापात्पिपृत पालयत स्वस्तये क्षेमायेति श्रुतेरर्थः । अन्यकृतादपि भयश्रुतेरस्त्यन्यकृतस्य कर्मणोऽन्यत्र प्राप्तिरिति । ‘‘प्रियेषु त्वेषु सुकृतमप्रियेषु च दुष्कृतम् । “विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम्’’ इति मनुस्मृतिः ।
ननु श्रुतिस्मृतिभ्यामपि कथममूर्तयोः सुकृतदुष्कृतयोराश्रयान्तरसंचारस्तत्राह –
न त्वत्रेति ।एतद्व्याख्यानं दूषयति – तेषामिति ।
अयं हि विचारो भवन्नपि हानौ त्वित्यधिकरणे संगच्छते , नात्र ; ततः शङ्कोत्तरत्वेनास्मत्कृतमेव व्याख्यानं भद्रम् । तस्य प्रियाः सुकृतमुपयन्त्यप्रिया दुष्कृतमिति तदधिकरणोदाहृतवाक्यादेव निर्णीते वृथा च वाक्यान्तरोदाहरणम् । यस्तु केशवेनास्य विचारस्यैवं तदधिकरणसङ्गम उक्तः । विद्वद्वर्तिसुकृतदुष्कृताकर्षणहेतुर्जनानां विदुषि शुभाशुभसंकल्पो जीवत्येव च विदुषि युक्तः ; ततश्च जीवदवस्थायामेव विदुषः कर्महानं नार्धपथ इति । सोऽसाधुः ; मार्गमध्यगतमपि विद्वांसं प्रति जनानां प्रीत्यप्रीतिसंभवात्तदापि सुकृतादिसंक्रमोपपत्तेरित्यास्तां तावत् ॥२८॥
इति षोडशं सांपरायाधिकरणम् ॥
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥२९॥
विद्योदयसमनन्तरक्षण एव कर्मदहनमिति प्रसङ्गागतं निरूप्य प्रस्तुतगुणोपसंहारचिन्ताया अपवादकत्वेनाधिकरणं संबन्धयन् पूर्वपक्षयति –
यथेत्यादिना ।
मोक्षार्थमर्चिराद्यपेक्षा विद्योत्पत्त्यर्थं वा , विदुषोऽपि द्वैतदर्शनेन यत्नान्तरापेक्षणाद्वा ।
नाद्यः ; विद्ययैव मोक्षश्रवणादित्याह –
विद्वानित्यादिना ।
अन्यायमप्याह –
भ्रमनिबन्धन इति ।
द्वितीयं प्रत्याह –
न च विद्योत्पादायेति ।
न तृतीय इत्याह –
यदि परमिति ।
भोगादारब्धकर्मक्षये द्वैतदर्शनोपरमसिद्धेर्न मार्गापेक्षेत्यर्थः ।
उक्तमर्थं निगमयति –
इति श्रुतिदृष्टविरोधादिति ।
श्रुतिर्निरञ्जनः परममिति । दृष्टं न्यायः ।
भास्करमतमाह –
ये त्विति ।
विदुषः पुण्यमपि निवर्तते चेद् भोगप्रयोजकाभावाद् गतिर्वृथा स्यादित्यर्थः ।
अन्यथा हि विरोध इति सूत्रभागं तन्मतेन योजयति –
यदि पुनरिति ।
पुण्यक्षयेऽप्युपास्तेर्भोगप्रयोजिकाया विद्यमानत्वादाशङ्कानुत्थानेन दूषयति – तैरिति ॥२९॥ ।३०॥
इति सप्तदशं गतेरर्थवत्त्वाधिकरणम् ॥
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥३१॥ सगुणनिर्गुणविद्यासु गतिभावाऽभावव्यावस्थावत्सगुणास्वपि व्यवस्थाप्राप्तौ तदपवादार्थमारभ्यते ।
ननु ब्रह्मलोकप्राप्तेर्गत्यपेक्षत्वात्तत्फलासु सकलसगुणविद्यासु लिङ्गाद्गतिसिद्धेः कथं प्रकरणेन दुर्बलेन गतिव्यवस्था शङ्क्यते ? तत्राह –
प्रकरणं हीति ।
लिङ्गस्य सामान्यसंबन्धसापेक्षत्वात्प्रकृते च तदभावादविनियोजकत्वे प्रकरणाद्व्यवस्थेत्यर्थः ।
यदि पञ्चाग्निविद्यासु श्रुतापि गतिर्विद्यान्तरे संचार्येत , ततोऽतिप्रसङ्ग इत्याह –
यदि त्विति ।
प्रकरणस्यानियामकत्वे यत्र क्वचिच्छ्रुतं सर्वत्र श्रुतिमेवेति दर्शपूर्णमासविकृतिषु सौर्यादिषु ज्योतिष्टोमविकृतिषु द्वादशाहादिषु च प्राकृतधर्माणामतिदेशतः प्राप्तिर्न स्यात्सर्वेषां सर्वत्रौपदेशिकत्वप्रसङ्गादित्याह –
न च तेषामिति ।
अतिप्रसङ्गान्तरमाह –
न च दर्विहोमस्येति ।
‘‘यदेकया जुहुयाद्दर्विहोमं कुर्यादि’’ति श्रूयते । यत्रैकया ऋचा जुहुयाद् होतुमारभेत , तत्र दर्विहोमं कुर्यादित्यर्थः । ये होमाः कुतश्चित्प्रकृतेर्धर्मं न गृह्णन्ति , न च केभ्यश्चित्स्वधर्मं प्रयच्छन्ति , तेषां दर्विहोम इति नाम , तेषु नाऽऽरादुपकारकमङ्गमस्ति । तत्र दर्विहोमा धर्मग्राहिणो न वेति संदेहे उत्पत्तावश्रुतदेवतात्मकाऽव्यक्तत्वेन सोमयागसाम्यात् तद्विकृतित्वात्तद्धर्मप्राप्तावष्टमे सिद्धान्तितम् - अग्निहोत्रं जुहोतीत्यादेरिव दर्विहोमस्य होमत्वात् सोमस्य च यागत्वाद् वैषम्येण न प्रकृतिविकृतिभावः । अव्यक्तत्वं च सति यागत्वे विशेषसंबन्धनिमित्तं न यागहोमत्वरूपात्यन्तवैलक्षण्ये प्रकृतिविकृतिभावमवगमयितुमर्हति । अस्तु तर्हि नारिष्टहोमप्रकृतिकत्वं दर्विहोमानाम् ? तदपि न ; न तावदग्निहोत्रस्य नारिष्टप्रकृतिकत्वमुभयत्रापि कतिपयधर्मसद्भावेनागृह्यमाणविशेषत्वात् । नच होमान्तराणां नारिष्टप्रकृतिकत्वम् ; तेषां नारिष्टप्रकृतिकत्वमग्निहोत्रप्रकृतिकत्वं वेत्यविनिगमप्रसङ्गात् । तस्मादपूर्वो दर्विहोम इति । तदेवमप्रकृतिविकृतिभूतस्य दर्विहोमस्याधर्मकत्वं सिध्यति । प्रकरणस्यानियामकत्वे यत्र क्वापि श्रुतस्य दर्विहोमशेषत्वापत्तेरित्यर्थः ।
अपि च प्रकरणस्याऽनियामकत्वे सर्वे धर्माः सर्वकर्मणां स्युः , तथा चाशक्यानुष्ठानतेत्याह –
न च सर्वधर्मेति ।
ननु प्रकरणस्यानियामकत्वेऽपि श्रुत्यादिभिः शेषशेषिभावावगमः स्यादत आह –
न चैवं सतीति ।
श्रुत्यादयो हि द्विप्रकाराः केचित्सामान्येन प्रवर्तन्ते यथा व्रीहीन् प्रोक्षतीति , केचिद्विशेषतो यथेन्द्र्या गार्हपत्यमिति ।
आद्येष्वाह –
तेषामपीति ।
इतरथाऽऽनर्थक्यादित्यर्थः ।
द्वितीयेष्वाह –
यत्रापीति ।
विशेषतस्तु श्रुतिविनियुक्तस्यापि धर्मस्य प्रकरणानपेक्षायामानर्थक्यमेव स्यात् । न ह्यैन्द्र्या गार्हपत्यप्रकाशनमात्रेण किंचित्फलं लभ्यमित्यर्थः । यत्र स्वयमेव प्रकरणं विनियोजकं यथा प्रयाजादिषु , तत्र विनियोगाय यत्र श्रुत्यादीनि विनियोजकानि तत्र विनियोगनिर्वाहाय प्रकरणमवश्याभ्युपेयमित्यर्थः ।
प्रकरणस्य वाक्याद्बाधमाशङ्क्याह –
न च ये चेति ।
छान्दोग्यस्थपञ्चाग्निविद्यावाक्यगतश्रद्धातपसोर्वाक्यान्तरवशेन विद्यालक्षणार्थत्वं व्याख्याय वाक्येन प्रकरणबाधया सर्वसगुणाहंग्रहविद्यानामर्चिरादिद्वारा ब्रह्मलोकप्राप्तिसाधनत्वमुक्तम् , इदानीं वाजसनेयकगतपञ्चाग्निविद्यायां साक्षात्सत्यब्रह्मोपासनस्यार्चिरादिप्राप्तिसाधनत्वप्रतीतेरप्येवमेवेत्याह –
तथान्यत्रापीति ।
ननु सत्यशब्देन फलाऽव्यभिचारात्पञ्चाग्नय एवोच्यन्ताम् , अत आह –
पञ्चाग्निविदां चेति ।
न केवलं लौकिकसत्यस्यापेक्षिकत्वाद् ब्रह्मणश्च निरङ्कुशसत्यत्वात्सत्यमुपासत इति ब्रह्मोपासनाया ग्रहणमपि तु पञ्चाग्निविद्यासन्निधानादपीत्याह –
विद्यासाहचर्याच्चेति ।
दक्षिणोत्तरमार्गहीनानाम’’थ य एतौ पन्थानौ न विदु’’रित्यधोगतिश्रवणाद्विद्यान्तरशीलानां मार्गद्वयेऽन्तर्भावश्चेत्तर्ह्युपासकानां दक्षिणमार्गप्राप्तिरस्तीति , नेत्याह –
तत्रापि च योग्यतयेति ।
विद्यया तदारोहन्तीति विद्यादेवयानयोः सबन्धुं योग्यतयेत्यर्थः ।
यत्तु प्रकरणस्यानियामकत्वे दूषणजातमुक्तं , तदनङ्गीकारपरास्तमित्याह –
भवेत्प्रकरणमिति ।
वाक्यबाधितविषयादन्यत्र प्रकरणस्य नियामकत्वमिष्यत इत्यर्थः । श्रौतं वाक्यं ये चेमेऽरण्ये श्रद्धा सत्यमुपासत इत्यादि , स्मार्ते शुक्लकृष्णे गती ह्येते इत्यादि । विद्यान्तरेष्वपि देवयानः पन्था अस्तीति शेषः ।
यत्तूक्तमेकस्य श्रुतस्य मार्गस्य सर्वत्रोपसंहारश्चेत्तर्ह्युपकोसलविद्यायां पञ्चाग्निविद्यायां चानेकत्र मार्गोक्तिवैयर्थ्यमिति , तत्राह –
असकृदिति ।
उभयत्रानुचिन्तनं भाष्योक्तं प्रयोजनम् ॥३१॥ यत्र यस्मिन्प्राप्ते कामाः क्षुद्रविषयाः परागता निवृत्ता भवन्ति तद् ब्रह्मलोकाख्यं स्थानं विद्ययाऽऽरोहन्ति तत्र च स्थाने दक्षिणा दक्षिणमार्गगा न यन्ति । तपस्विनोऽप्यविद्वांसो न यन्ति , ये एतत्पञ्चाग्निरूपं विदुः ये चारण्ये स्थित्वा इमे वनस्थादयः श्रद्धां कृत्वा सत्यमवितथं परं ब्रह्मोपासते , उभयेऽप्यर्चिरादिमार्गं प्राप्नुवन्तीति शेषः । एतौ पन्थानौ दक्षिणोत्तरौ ये न विदुरेतत्प्राप्तिसाधनं नानुतिष्ठन्तीत्यर्थः । ते कीटादयो भवन्ति , कीटा गोमयादिसंभवाः । पतङ्गाः शलभाः । दन्दशूकः सर्पः ॥
इत्यष्टादशमनियमाधिकरणम् ॥
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥३२॥ निर्गुणविद्यायां गतिंप्रतिषिध्य सगुणविद्यायां गतिप्रयोजकैश्वर्यविशेषदर्शनाद्गतिरर्थवतीत्युक्तम् । सगुणासु च गतेः सार्वत्रिकत्वं वर्णितम् । इदानीं निर्गुणविद्याया अपि मोक्षहेतुत्वाऽनुपपत्तेरैश्वर्यफलत्वं वक्तव्यम् , ऎश्वर्यविशेषश्च न गतिमन्तरेणेति सगुणास्विति विशेषणं च व्यर्थमित्यभिहितव्यवस्थाक्षेपेण प्रत्यवस्थीयते ।
तत्रोपरितनकतिपयाधिकरणानां तात्पर्यमाह –
सगुणायामिति ।
अपुनरावृत्तिर्हीति ।
पुनर्देहानुपादानमित्यर्थः । ननु पुनर्देहानुपादानं नापवर्गः , किंत्विदानीं प्रवृत्तफलकर्मजन्यभाविदेहसंबन्धाभावः ।
वसिष्ठादीनां च सोऽस्तीति कथं नापवर्ग इत्याशङ्क्याह –
न च तावदेवेति ।
भाविदेहस्य सर्वस्याप्रवृत्तफलकर्मजन्यत्वाद्वसिष्ठादयो यदि देहान्तरं गृह्णीयुस्तर्ह्यप्रवृत्तफलकर्मजन्यदेहत्वान्मुक्त्वा न स्युः । अतश्च यदि प्रवृत्तफलं कर्ममात्रं प्रतीक्षेरंस्तर्हि वसिष्ठादिदेहमात्रारम्भकं प्रतीक्षेरन्निति देहान्तरग्रहणानुपपत्तिरित्यर्थः ।
यच्च वसिष्ठादीनां प्रारब्धकर्मप्रतीक्षायामस्मदादिविद्वन्निदर्शनं , तदप्यसिद्धमित्याह –
न च तावदिति ।
विद्याकर्मणोः सुष्ट्वनुष्ठानं विद्याकर्मस्वनुष्ठानम् । प्रतिबन्धापगमे गुरुत्वं न न हेतुरपि तु हेतुरेवेत्यर्थः । सेतुभेदेन हेतुनाऽपि निम्नदेशमापो नाभिसर्पन्तीति न ,अपि तु अभिसर्पन्त्येवेत्यर्थः । आवर्जितो वशीकृतः । ध्रियते प्रतिबध्यते । प्रारब्धमधिकारलक्षणं फलं याभ्यां विद्याकर्मभ्यां ते प्रारब्धाधिकारलक्षणफले विद्याकर्मणी इत्येको बहुव्रीहिः तादृशे विद्याकर्मणि यस्य स प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुष इत्यपरः । सौभरिवद्युगपत्क्रमेण वेति प्रवृत्तफलादेव कर्मणो नानादेहप्राप्तिरुक्ता । मुक्तो जीवन्मुक्तः ।
अनाभोगात्मिकयेति ।
अविस्तारात्मिकया । प्रख्यया प्रतीत्या दृढाभिमानेन रहितयेत्यर्थः । विहरति चेष्टते ।
सकृत्प्रवृत्तमिति भाष्ये किमर्थं प्रवृत्तः कर्मसमूह इति न ज्ञायतेऽतः पूरयति –
अधिकारेति ।
ननु प्रवृत्तफलं कर्माशयं भोगेनातिवाहयन्तु , अप्रवृत्तफलानां तु कथं निवृत्तिरत आह –
प्रारब्धविपाकानि त्विति ।
व्यपगतानि निवृत्तानि ।
तत्र हेतुः –
ज्ञानेनैवेति ।
जातिस्मरस्याधिकारिकपुरुषाद्वैषम्यमाह –
यो हीति ।
परित्याज्यते परित्यक्तत्वेन क्रियते ।पूर्वजन्मानुभूतस्येति कर्मणि षष्ठी ।
स जन्मवानिति ।
जातोऽहमित्यबाधिताभिमानवानित्यर्थः ।
आधिकारिकपुरुषस्य जातिस्मराद्वैषम्यमाह –
गृहादिवेति ।
बाधितदेहाभिमान इति प्रदर्शनार्थं गृहोदाहरणम् ।
व्युद्येति भाष्यपदमुपादाय व्याचष्टे –
विवादं कृत्वेति ।
व्यतिरेकमाहेति ।
प्रवृत्तफलमेव कर्म भोगेन क्षपयन्त्याधिकारिका इत्युक्तं , तस्य व्यतिरेकमुपन्यस्य दूषयतीत्यर्थः ।
प्रवृत्तफलाऽनेककर्मजन्यफलभोगस्याधिकारिष्वपीष्टत्वात्कर्मान्तरशब्दं व्याख्याति –
अप्रारब्धेति ।
त्वं तदसि वर्तस इति ब्रह्मात्मत्वं जीवस्य वर्तत इत्युक्तेऽनुभवारूढत्वं ब्रह्मात्मत्वस्य न प्रतीत्यतेऽर्थसत्तामात्रस्योक्तत्वादित्याशङ्कायाः परिहारमाह –
वर्तमानापदेशस्येति ।
स्वप्रकाशं ब्रह्मात्मत्वमत उपदिष्टे तस्मिन्ननुभवेन भाव्यम् ; अज्ञानस्य प्रतिबन्धकस्यापनीतत्वात् । न चेदनुभूयेत , तर्हि तदिदानीं नास्तीति मृतस्त्वं तद् भविष्यसि इत्यध्याहार्यम् । अतोऽध्याहारभयाद् वर्तमानापदेश उत्तमाधिकारिणं प्रत्यनुभवपर्यन्ततामपि गमयतीत्यर्थः ॥ अथ आधिकारिकैश्वर्यप्रापककर्मक्षयानन्तरं ततः पदादूर्ध्वः विलक्षणः सन् साक्षादेत्य उद्गम्य नैवोदेता नास्तमेताऽऽदित्यः किं तर्ह्येकल एव मध्ये स्वात्मनि स्थाता ॥३२॥
इत्येकोनर्विशं यावदधिकाराधिकरणम् ॥
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३३॥ पूर्वत्राधिकारिणां प्रारब्धकर्मण एव शरीरान्तरारम्भसंभवेन कर्मान्तरस्य निमित्ततेत्युक्तम् , एवमिहापि तत्तत्प्रकरणपठितनिषेधेभ्य एवोपलक्षणतया सर्वप्रपञ्चनिषेधसिद्धेर्न शाखान्तरीयनिषेधानां तत्र ब्रह्मप्रमितिहेतुत्वमित्याशङ्क्यते । अक्षरस्य धियोऽक्षरधियः ।
अक्षरे धर्मिणि प्रपञ्चप्रतिषेधधिय इत्यर्थे सूत्रपदं व्याचष्टे –
अक्षरविषयाणामिति ।
प्रतिषेधसामान्यादिति ।
प्रतिषेधानां भूमनिवर्तकत्वसामान्यादित्यर्थः ।
तस्यैवैष प्रपञ्च इति ।
अस्यार्थः - भवेद् ब्रह्मस्वरूपत्वादानन्दाद्युपसंहृतिः । निषेधानामनात्मत्वान्नोपसंहारसंभवः ॥१॥ आनन्त्याच्च निषेध्यानां तन्निषेधधियामपि । असंख्येयतयैकत्र कथं शक्योपसंहृतिः ॥२॥ स्थालीपुलाकवत्किंचिन्निषेधेनान्यलक्षणे । यथाश्रुतेन तत्सिद्धेरुपसंहरणं वृथा ॥३॥ इत्याशङ्कानिवृत्त्यर्थमेतदधिकरणम् ॥
निवृत्तिप्रकारस्तु - प्रतिषेधा अनात्मानोऽप्यात्मलक्षणतां गताः । आत्मप्रमितिसिद्ध्यर्थं संयास्यन्त्यश्रुतस्थले ॥४॥ न च निषेधानन्त्यादनुपसंहारः ; प्रपञ्चो हि निषेध्योऽत्र भूतं वा भौतिकानि वा । इन्द्रियाणि शरीरं वाऽविद्या वा विश्वकारणम् ॥५॥ एषां परिमितत्वेन निषेधपरिमेयतः । साकाङ्क्षेषु निषेधेषु गच्छेयुः पूर्तये परे ॥६॥ तत्राप्यस्थूलवाक्यपरिपूर्णो निषेधः ; अस्थूलमित्याद्यदीर्घमित्यन्तेन शरीरनिषेधात् , अतम इत्यविद्यानिषेधात् ; अबाह्यमनाकाशमिति भूतनिषेधात् , अचक्षुष्कमित्यादिनेन्द्रियनिषेधात् , अन्यत्र त्वस्मादुपसंहार इति सूचयितुं भगवता सूत्रकारेणाक्षरधियामित्युक्तम् । भाष्यकारेणौपसदवदिति सूत्रोक्तदृष्टान्तविवरणाय जामदग्न्याहीनगतमन्त्रा उदाहृताः । त एव गुणा मुख्याधिकरणविषया इति च सूचितम् । प्रधानकर्मत्वाच्चाङ्गानामिति तत्रैव सूत्रयोजनात् ।
शाबरतन्त्रे चान्यदुदाहृतमिति विरोधमाशङ्क्याह –
यद्यपीति ।
वारवन्तादिपदवन्ति सामानि वारवन्तीयादीनि वारयन्तीयादेर्वेदसंयोग इति वेदसंयोगे सिद्धे तत्रत्येनैव स्वरेण स्वरवत्त्वं च सिद्ध्यतीत्यभिप्रायः । विनियुज्यमानत्वस्य मुख्यत्वेनेति । तद्धि फलसन्निकर्षान्मुख्यमिति ।
ननु सर्वेषां विधीनामुत्पत्तिविनियोगाधिकारप्रयोगात्मकत्वात्कथं विधीनां शेषशेषित्वमित्यत्राह –
एतदुक्तमिति ।
विधित्वं हि अपेक्षितोपायत्वरूपम् । तत्रानुष्ठेयभावार्थज्ञानादुत्पत्तिरस्ति । अस्ति च किंचित्प्रतिशेषत्वाद्विनियोगः । अस्ति च फलसाधने स्वामित्वं पुरुषस्याधिकारः अस्ति चानुष्ठेयत्वबोधात् प्रयोग इत्युत्पत्तिविधावपि विद्यते चातूरूप्यमिति ।
ऐदंपर्यभेदे हेतुमाह –
एकस्यैव हि विधेरिति ।
विधेर्विध्यर्थस्य उत्पत्त्यादिषु मध्ये यद्येकमप्राप्तमितराणि प्राप्तानि , तर्हि तदेव रूपं वाक्येनोल्लिख्यते नेतराण्यन्यतः प्राप्तेः । यदि सर्वाण्यन्यतोऽप्राप्तानि , तर्ह्यगत्या सर्वाण्युल्लिख्यन्ते इत्यर्थः ।
प्रकृते तु विनियोगादेरन्यतः प्राप्तेरुत्पत्तिमात्रपरत्वमित्याह –
तत्रेति ।
समीहितार्थाप्रतिलम्भादिति ।
समीहितशेषः समीहितार्थः । भावप्रधानो निर्देशः । हितसाधनत्वं तदप्रतिलम्भादित्यर्थः ।
तदर्थान्येवेति ।
विनियोगवाक्यार्थान्येवेत्यर्थः ।
भवतु साम्नः सामवेदे उत्पत्तिर्यजुर्वेदे च विनियोगस्ततः किं जातमत आह –
तत्र येन वाक्येनेति ।
येन वाक्येन सामानि विनियुज्यन्ते तस्यैव तद्वाक्यप्रकाशितत्वकृतस्य उपांशुस्वरस्य ग्रहणं युक्तम् । तस्य साधनत्वसंस्पर्शात् , विनियोगदशायां हि साम्नां साधनत्वं ज्ञायते नोत्पत्तिदशायां , साधनत्वं च प्रधानम् । उत्पत्तिवाक्यप्रकाशितत्वनिमित्तः स्वरः सामरूपमात्रसंस्पर्शी , उत्पत्तिवाक्यस्य रूपमात्रप्रकाशकत्वादित्यर्थः ॥३३॥
इति विंशमक्षरध्यधिकरणम् ॥
इयदामननात् ॥३४॥
पुनरुक्तिमाशङ्क्याह –
गुहामिति ।
पूर्वत्र प्रतिपाद्यब्रह्मप्रत्यभिज्ञानाद्विद्यैक्येऽक्षरधियामुपसंहारः उक्तः , इह तु प्रतिपाद्यभेदाद्विद्याभेद इत्याह –
एकत्रेति ।
सिद्धोऽर्थः प्रपञ्च्यत इत्युक्तम् , तमेव प्रपञ्चप्रकारमाह –
न च सृष्टीति ।
यथा ‘‘सृष्टीरुपपदधाती’’ति सृष्ट्यसृष्टिमन्त्रकेष्टकासमूहलक्षणया सर्वसमूहिपरो भवति , एवं पिबच्छब्दोऽपि पिबदपिबत्पर इत्यर्थः । सृष्ट्यधिकरणं गुहाप्रविष्टाधिकरणे (ब्र.अ.१ पा.२ सू.११)ऽनुक्रान्तम् । ननु ‘यः सेतुरीजानानामक्षरं ब्रह्म यत्पर’मिति वाक्यशेषे परमात्मप्रतिपादनात्तस्यैव जीवद्वितीयत्वादभोक्तृत्वाच्च पिबन्तावित्यत्र भोक्त्रभोक्तारौ प्रतिपाद्येते ।
तथा च छत्रिन्यायेन पिबन्तावित्येतल्लाक्षणिकमिति , नेत्याह –
न च वाक्यशेषानुरोधादिति ।
ननु ‘‘अन्यत्र धर्मादि’’ति प्रकरणात् पिबन्तावित्यत्र जीवद्वितीयः परमात्म प्रतीयते इति , नेत्याह –
प्रकरणस्येति ।
उत्पत्तौ प्रथमप्रतीतौ । वस्तुप्रतीत्यनन्तरं प्रतीतौ हि न संख्याया वस्त्वैक्यगमकत्वं स्यादिति । न वयं वाक्यशेषाद्वा केवलात्प्रकरणाद्वा पिबन्तावित्यस्य लाक्षणिकत्वं ब्रूमः , किं तु उभाभ्याम् । तथा च सन्दर्भस्यैकवाक्यत्वावगमात् जीवपरमात्मपरत्वम् ।
तथा च तन्मध्यपतितं पिबन्तावित्येतदपि लाक्षणिकमित्याह –
सा चोपक्रमोपसंहारेति ।
उपांशुयाजाधिकरणं समन्वयसूत्रे (ब्र.अ.१.पा.१. सू.४)ऽनुक्रान्तम् । पिबदपिबतोर्यत्समूहि तत्परं केवलं लक्षणीयमित्यर्थः । पिबच्छब्दोऽपि पिबदपिबतोः समूहं लक्षयति तद्द्वारा च समूहिनाविति । त्रिष्वपीति । मुण्डककठवल्लीश्वेताश्वतरेषु ॥३४॥
इत्येकविंशमियदधिकरणम् ॥
अन्तरा भूतग्रामवत्स्वात्मनः ॥३५॥ बृहदारण्यके पञ्चमेऽध्याये ‘‘अथ हैनं याज्ञवल्क्यमुषस्तश्चाक्रायणः पप्रच्छ यत् साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वे’’त्युपक्रममेकं ब्राह्मणम् । ‘‘अथ हैनं कहोलः कौषीतकेयः पप्रच्छ यदेव साक्षीदि’’त्याद्यपरम् । उषस्त इति नामतः । चक्रस्यापत्यं चाक्रः । चाक्रस्यापत्यं चक्रस्य युवा चाक्रायणः । कहोल इत्यपि नामतः । कुषीतकस्यापत्यं कौषीतकः । तस्यापत्यं कुषीतकस्य युवा कौषीतकेयः । घटादीनां हि वृत्तिकर्मत्वेनापरोत्वम् , ब्रह्म तु साक्षात्स्वत एवापरोक्षादपरोक्षमित्यर्थः ।
तदेव ब्रह्म प्रत्यगात्मेत्याह –
य आत्मेति ।
स च सर्वान्तरः ; ब्रह्मणि सिद्धस्य सर्वान्तरत्वस्यात्मनि निर्देशादात्मनि स्थितस्य चापरोक्षत्वस्य ब्रह्मणि संकीर्तनादुभयोरेकत्वं सुदृढीकृतम् ।
अत्राभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशयमाह –
किमस्ति भेद इति ।
पूर्वत्र पिबन्तावित्यस्य लाक्षणिकत्वमुपादाय मन्त्रद्वयेऽपि भोक्त्रभोक्तृपरत्वेनार्थैक्याद्विद्यैक्यमुक्तम् , इह त्वर्थैक्येऽपि न विद्यैक्यमभ्यासादिति पूर्वपक्षमाह –
भेद एवेति ।
न चेह तथास्तीति ।
यदेव साक्षादित्येवकारो यत्साक्षादपरोक्षादेव न कदाचिदपि परोक्षमित्येवं योज्यत इति मन्यते , सिद्धान्ते तु व्यवहितान्वयप्रसङ्गान्नेयं साध्वी योजनेति प्रक्रान्तस्यैवानुवृत्त्यर्थ एवकार इत्युक्तं भाष्ये ।
नन्वपरोक्षत्वादिरूपविद्यैक्यप्रत्यभिज्ञाने कथं विद्याभेदस्तत्राह –
तेनेति ।
उषस्तिब्राह्मणे कार्यकारणविरहः प्रतिपाद्यः ; प्राणेन प्राणितीत्यादिनिर्देशात् । कहोलब्राह्मणेऽशनायादिविरहः । अयं चाभ्याससिद्धोपासनभेदनिर्वाहक उपाधिः समिदादीनामिव देवतादिः ।
प्रश्नप्रतिवचनालोचनेनेति ।
तन्मे व्याचक्ष्वेति हि प्रवृत्तिरुपलभ्यते । प्रतिवचनस्य च न दृष्टेर्द्रष्टारं पश्येरित्यविषयवस्तुप्रतिपादनपरत्वं दृश्यते न तूषस्तिपरत्वमिति ।
ननु सिद्धवस्तुप्रतिपादनपरत्वेऽप्यभ्यासवैयर्थ्यस्य का गतिरिति परिचोद्यं परिहरति –
किमत इत्यादिना ।
समिधो यजति इत्यादौ विधेः प्रवृत्त्युत्पादकत्वात् ज्ञाते च स्वत एव प्रवृत्तेर्विधिवैयर्थ्यादज्ञातं वस्तु ज्ञाप्यम् , सिद्धवस्तुज्ञापनं तु प्राप्तेप्यर्थे श्रोतुरादरार्थं पुनः पुनः कृतमपि प्रमित्यतिशयफलत्वाददुष्टमित्यर्थः । पितृभ्यां मातापितृभ्याम् । ननु यद्यस्मिन्नधिकरणेऽभ्यासाद्विद्याभेद इति पूर्वः पक्षः । तर्ह्यन्तराम्नानाविशेषादिति सिद्धान्ते हेतुर्न वक्तव्यः ।
अर्थैक्यस्याभ्याससाधकत्वेन पूर्वपक्षानुगुण्यादत आह –
उभाभ्यामपीति ।
प्रथमं सूत्रं पूर्वपक्षैकदेशिमतनिरासार्थं , साक्षात्पूर्वपक्षसिद्धान्तौ तून्नीतौ भाष्यटीकाभ्यामवगन्तव्यावित्यर्थः । तथा च पूर्वपक्षभाष्यमभ्याससामर्थ्यादित्यादि वस्तुस्वरूपं त्वित्यादिका च सिद्धान्तटीका । तत्र वस्तुस्वरूपं त्वित्यादिनाऽभ्यासहेतोरन्यथासिद्धिरुक्ता । न च सर्वथा पौनरुक्त्यमित्यादिनाभ्यास एवासिद्धोऽर्थभेदादित्युक्तम् ॥३५॥
नन्वेकविधेऽपि तत्त्वमसीतिवत्पुनःश्रुत्युपपत्तेर्न द्वितीयसूत्रगतशङ्काभागस्योत्थानमित्याशङ्क्याह –
अस्य त्विति ।
भूय एव मा भगवान्विज्ञापयत्विति वाक्यात् , तत्र विद्यैक्यं नात्र तदिति पूर्वपक्षाभिप्रायो दर्शित इत्यर्थः । यदेव साक्षादित्येवकारादत्रापि वद्यैक्यमिति भगवता भाष्यकारेण प्रतिपादितं , तत् स्फुटमिति न व्याख्यायत इत्याह – सुगममन्यदिति ॥३६॥
इति द्वाविंशमन्तरत्वाधिकरणम् ॥
व्यतिहारो विशिंषन्ति हीतरवत् ॥३७॥
पूर्वत्र विद्यैक्येऽप्यभ्यास आदरार्थ इत्युक्ते अयमपि तथेत्यभिसंधाय पूर्वपक्षमाह –
उत्कृष्टस्येति ।
ननु वचनवशादुभयत्रोभयचिन्तनाश्रयणे एकत्वदृढीकारः पूर्वपक्षाभिमतस्त्वयाऽपीष्टः स्यादत आह –
अन्वाचयशिष्टमिति ।
पश्चात्प्रतीतमित्यर्थः । जीवतादात्म्यस्यानेन प्रकरणेनानुचिन्त्यमानत्वादिति भाष्यम् । तस्यार्थः - जीवतादात्म्यस्येश्वरे शास्त्रादारोप्योपास्यत्वान्नेश्वरस्योत्कर्षनिवृत्तिरिति ॥३७॥
इति त्रयोविंशंव्यतिहाराधिकरणम् ॥
सैव हि सत्यादयः ॥३८॥ पूर्वत्र जीवब्रह्मणोरितरेतरात्मत्वनिर्देशभेदाद् द्विरूपा मतिः कर्तव्येत्युक्तम् , एवमिहापि ‘‘जयतीमान् लोकान् हन्ति पाप्मानमि’’ति च फलनिर्देशभेदाद्विद्याभेद इति प्रत्यवस्थानात्सङ्गतिः ।
सत्यविद्यां सनामाक्षरोपासनां विधायेत्याद्यर्थतो विषयप्रदर्शकं भाष्यं श्रुत्युदाहरणेन व्याचष्टे –
तद्वैतदित्यादिना ।
पूर्वोक्तस्येति ।
वाजसनेयक एव ‘‘एष प्रजापतिर्यद्धृदयमेतद् ब्रह्मे’’ त्यादिना पूर्ववाक्येनोक्तस्येत्यर्थः । हृदयाख्यं ब्रह्मैकेन तदा तच्छब्देन परामृशति । वैकारस्योपरितनेन द्वितीयेन तच्छब्देन यत्तस्य ब्रह्मणस्तदेतदक्षरं हृदयमित्यादिना हृदयनामाक्षरोपासनादिः प्रकार उक्तस्तमपि परामृशतीति द्रष्टव्यम् ।
तदेतद्व्याचष्टे –
अग्र इति ।
प्रथमजं भौतिकानां मध्ये प्रथमजातम् । यथा प्रजापतिर्लोकानजयद् एवमुपासकोऽपीति इत्थंशब्दार्थः ।
तद्यत्पदाभ्यामिति ।
एकस्य तच्छब्दस्य यच्छब्देन सह सङ्गतिरुक्ता , द्वितीयस्तच्छब्दस्तत्रशब्दसमानार्थः । तत्रैवं हृदयात्मत्वे ब्रह्मणः सिद्ध इत्यर्थः । अनुबन्धाभेदेऽपि धात्वर्थाभेदेऽपि स्वर्गकामो यजेत यावज्जीवं यजेतेति शास्त्रयोर्नित्यकाम्यविषययोः साध्यभेदेन यथा भेदः, एवमुपास्यैकत्वेऽपि सत्यविद्ययोः फलभेदेन भेद इत्यर्थः ।
उपास्यैक्याद्विद्यैक्यमौत्सर्गिकं तावदाह –
एकैवेति ।
फलभेदमपवादकमाशङ्क्याह –
न च फलभेद इति ।
किं ‘‘जयतीमान् लोकानि’’त्यनेन प्रधानोपासनविध्युद्देशे फलवति संजाते “हन्ति पाप्मानमि’’ति गुणभूताहरहंनामोपनिबद्धस्य फलनिर्देशस्य विद्याभेदकत्वमुच्यते , उत प्रधानतदङ्गानामर्थवादात् रात्रिसत्रन्यायेन फलकल्पनामाश्रित्य प्रथमं प्रत्याह –
तस्येति ।
अङ्गानां प्रधानान्वयद्वारेण फलसंबन्धसिद्धेरर्थवादगतानि गुणफलानि प्रयाजादिफलवदुपेक्ष्यन्त इत्यर्थः ।
द्वितीयेऽपि फलभेदस्य न विद्याभेदकत्वमित्याह –
यदि पुनरिति ।
एवं कामपदाभावेन पुरुषस्य कर्मण्यैश्वर्यरूपाधिकाराश्रवणादित्यर्थः । अमुकं फलं प्रधानस्येत्यगृह्यमाणविशेषत्वाद्वाक्यशेषगतसर्वफलकामस्याधिकारकल्पनेत्यर्थः । संवलितो मिलितः । एतदुक्तं भवति – विहितानां फलाकाङ्क्षाविशेषादर्थवादात्फलकल्पनाविशेषाच्च यत्किंचिदर्थवादगतं सत् फलं सर्वमेकीकृत्य गुणविशिष्टगुणिनः फलत्वेन कल्पनीयमिति ।
‘‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाती’’ति जातेष्टौ पुत्रजन्मनिमित्तपुत्रपूतत्वादिसंवलितोऽधिकारो दृष्टान्तितः । अधिकरणं त्वत्रत्यं द्वितीयसूत्रेऽनुक्रान्तम् ।
उपास्याभेदादिति ।
अक्ष्यादित्यगतत्वमुपास्यपुरुषस्यभेदः ।
अनुबन्धाभेदेऽपीति ।
अक्ष्यादित्यपुरुषविषयोपासनरूपविध्यवच्छेदकानुबन्धाभेदेऽपीत्यर्थः ।
साध्यभेदादिति ।
कर्मसमृद्धिलोकजयादिफलभेदादित्यर्थः । अनेनैकदेशिमते पूर्वपक्ष एव दूषणत्वेन योजिता इति ॥३८॥
इति चतुर्विंशं सत्याद्यधिकरणम् ॥
कामादीतरत्र तत्र चायतनादिभ्यः ॥३९॥ पूर्वत्र तद्यत्सत्यमिति प्रकृताकर्षणेन रूपाभेदाद्गुणोपसंहार उक्तः , इह तु क्वचिदाकाशस्योपास्यत्वं क्वचित्तदाश्रितस्य ज्ञेयत्वमिति रूपभेदाद्गुणानुपसंहारः ।
अधिकरणानारम्भमाशङ्कते –
छान्दोग्येति ।
आशङ्कां विवृणोति –
तथा हीति ।
परिहरति –
तथापीति ।
स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येयत्वेनोक्तानामपि गुणानां निर्गुणविद्यायामुपपन्नः स्तुत्यर्थत्वेनान्वयश्चेत्तर्हि निर्गुणविद्यागतवशित्वादीनां सगुणविद्यासु कथमन्वयः ? तं प्रकारमाह –
सगुणायांचेति ।
ध्येयत्वं त्वपूर्वविध्येकगम्यं यत्र च वशित्वादयः श्रूयन्ते न तत्रैषां ध्येयत्वेन विधानमित्यन्यत्र गतानामपि न ध्येयत्वम् , स्तुत्यर्थत्वम् तु स्यात्तदपि न शब्दत एषां तत्र नयनमपेक्षते , सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वादिसिद्धेः । अतोऽन्तर्भावमात्रमुपसंहार इत्यर्थः । यस्तु सर्वापि विद्या सगुणेति मन्यमान इह साक्षाद् गुणोपसंहारमाह , तस्य न स्थानतोऽपी (ब्र.३.पा.२ सू.११ अ.) त्यधिकरणं व्याचक्षीत ।
एकत्रेति ।
य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते इत्यत्राकाशाधारत्वस्य श्रवणादित्यर्थः । आकाश आधारो यस्य तस्य भावस्तत्त्वम् ।
अपरत्रेति ।
दहरोऽस्मिन्नन्तराकाश इत्यत्र गुणवत आकाशात्मत्वगुणश्रवणादित्यर्थः ।
छान्दोग्ये आत्मैवाकाशात्मत्वेनोक्तः , बृहदारण्यके तु हृदयपुण्डरीकान्तर्वर्तिभौतिकदहराकाशाश्रित आत्मा वशित्वादिगुणक उक्त इति न रूपभेद इत्याह –
आकाशशब्देनेति ।
नन्वात्मोच्यतां , सगुणनिर्गुणत्वेन तु भेदात्कथं गुणोपसंहार इति , तत्राधिकरणारम्भसमर्थनावसरोक्तं परिहारं स्मारयति – सगुणेति ॥३९॥
इति पञ्चविंशं कामाद्यधिकरणम् ॥
आदरादलोपः ॥४०॥ उपास्तिलोपेऽपि स्तुत्यर्थत्वेन गुणलोपवत् ‘‘पूर्वोऽतिथिभ्य’’ इत्यादिस्तुत्युपपत्त्यर्थं भोजनलोपेऽपि प्राणाग्निहोत्रलोप इत्यवान्तरसङ्गतिः ।
पादसङ्गतिमाह –
अस्तीति ।
पूर्वभोजनमिति ।
तद्यद्भक्तं प्रथममिति वाक्यविहितं प्राणाग्निहोत्रमित्यर्थः ।
पदकर्मेति ।
‘‘एकहायन्या क्रीणाती’’ति प्रकृत्य श्रूयते ‘‘षट् पदान्यनुनिष्कामति सप्तमं पदमञ्जलिना गृह्णाति यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्या’’दिति ।सोमक्रयार्थं नीयमानाया एकहायन्याः षट्पदान्यनुगच्छेदध्वर्युः । सप्तमपदबिम्बगतपांसूनञ्जलिना गृह्णीयाद् , गृहीत्वा स्थापयेत्पुनर्यस्मिन् दिवसे हविर्धाने शकटे द्वे प्राङ्मुखे प्रवर्तयेयुस्तदा तेन पांशुनाऽक्षं रथस्याञ्जेल्लिम्पेदित्यर्थः । तत्र संशयः - यदेतदक्षाभ्यञ्जनं सप्तमपदसाध्यं तदर्थमप्येकहायनीनयनम् । अतश्च तेनापि प्रयुज्यते , उत क्रयार्थमेव , ततश्च तेनैव प्रयुज्यते इति तत्र द्वयोरप्येकहायनीनयनसाध्यत्वात्कस्यचिदपि वाक्यतो विशेषसंबन्धाऽनवगमात् सन्निध्यविशेषाच्चोभयार्थत्वं प्रापय्य चतुर्थे सिद्धान्तितम् । यद्यपि क्रयनयनयोर्न साक्षादस्ति वाक्यकृतः सबन्धः ; तथाप्येकहायनीद्वारा विद्यते । सा हि तृतीयया क्रयार्थाऽवसीयते । यदर्था च सा तदर्थमेव तत्संस्कारार्थ नयनमित्यस्ति क्रयनयनयोर्विशेषसंबन्धः । नैवमस्ति पदकर्मणा नयनस्य विशेषसंबन्धः । तस्मात्क्रयार्थमेव नयनमिति ।
तदिदमाह –
यथेत्यादिना ।
सोमक्रयार्था चासौ नीयमाना चासावेकहायनी च तस्याः सप्तमपदपांसुग्रहणमित्यर्थः ।
तावच्छब्देनास्थिरत्वं पूर्वपक्षस्य नोच्यत इत्याह –
तावच्छब्द इति ।
स्वामिभोजनस्य त्वतिथिभोजनादुत्तरः कालः , तं कालमतीत्य प्राक्काले प्राणाग्निहोत्रस्य श्रवणात् भोजनलोपेऽपि प्राणाग्निहोत्रकर्तव्यताऽवगम्यत इत्याह –
जाबाला हीति ।
नन्वत्राशनमात्रस्य भोजनकालादपकर्ष प्रतीयते , न प्राणाग्निहोत्रस्येत्यत आह –
अश्रीयादिति चेति ।
‘अग्निहोत्रमुपासत’ इति वचनादतिथिरूपभूतानि प्रति उपजीव्यमग्निहोत्रं श्रुतम् , एवं सति अतिथिभोजनरूपाग्निहोत्रात्प्रागुच्यमानमशनमप्यग्निहोत्रमेव ; अग्निहोत्रेण समभिव्याहारादेकवाक्यत्वप्रतीतेरित्यर्थः ।
एवं विधिबलात्प्राणाग्निहोत्रस्य भोजनकालादपनयनं प्रदर्श्यादरादिति सूत्रसूचितं वाक्यशेषमेतस्यार्थस्य स्तावकं दर्शयति –
तदेवं सतीति ।
ननु भाष्ये भोजनशब्दात्प्राणाग्निहोत्रादरो न प्रतीयतेऽत आह –
स्वामिनः प्राणाग्निहोत्रमिति ।
अतिथिप्राणाग्निहोत्रात्पूर्वं स्वीयप्राणाग्निहोत्रं कुर्यादितरथा पूर्वमतिथिभ्यो भोजनदाने स्वाग्निहोत्रहोमेन पराग्निहोत्रकरणमिवायुक्तं कृतं स्यादित्यादरः स्वामी यदा भुङ्क्ते तदैव ।
तथा च कथं भोजनलोपे प्राणाहुत्यापत्तिरिति शङ्कते –
नन्वाद्रियतामिति ।
कर्तर्ययं प्रयोगः । अतिथिभोजनस्य पुरस्ताद्विहितं स्वामिभोजनमित्यध्याहारः ।
दूषणपरभाष्यस्याभिप्रायमाह –
यथा हीति ।
कौण्डपायनेप्युपसदादिधर्मोऽस्तीति – द्रव्यदेवतारूपेत्युक्तं । यागस्य रूपं द्रव्यदेवते , ते एव धर्मान्तरं द्रव्यदेवतारूपधर्मान्तरं । प्रकरणान्तराधिकरणं धर्मातिदेशाधिकरणं च प्रथमसूत्रेऽनुक्रान्तम् ।
ननु विधीयतां भक्तद्रव्यकता , तथापि भक्ताभावेऽग्निहोत्रं लुप्येतेति , नेत्याह –
न चैतावतेति ।
अत्र हेतुमाह –
उक्तमिति ।
मा भूत् भोजनमाश्रित्य विधानाद्भोजनप्रयुक्तत्वं प्राणाग्निहोत्रस्य , भोजनार्थभक्तैकदेशद्रव्याश्रितत्वाद्भोजनप्रयुक्तत्वं किं न स्यादत आह –
न चैकदेशेति ।
‘‘मध्यात्पूर्वार्धाच्च द्विर्हविषोऽवद्यत्युत्तरार्धाच्च स्विष्टकृते समवद्यती’’ति श्रूयते । स्विष्टकृन्नाम देवताविशेषः । तन्नाम्ना यागोपि प्रतीयते । तत्र स्विष्टकृत किमुत्तरार्धपुरोडाशयोः प्रयोजकः , किं वा यदङ्के अञ्जनं करोति चक्षुरेव भ्रातृव्यस्येति फलश्रुतिप्रयुक्तपुरोडाशोपजीवीति संदेहे अग्न्याद्यर्थस्य हविषो देवतान्तरावरुद्धत्वात्स्विष्टकृदर्थमन्यद्धविः कृत्वाऽवद्यतीति प्राप्ते राद्धान्तः - कस्योत्तरार्धादिति नित्यापेक्षत्वात्स्ववाक्ये च संबन्धिनिर्देशादग्न्यादिप्रयुक्तस्यैव हविषः प्रकृतत्वात्तस्योत्तरार्धादित्यवगमादप्रयोजकः स्विष्टकृत् । अन्यार्थस्यापि हविषो वचनादन्यार्थत्वमविरुद्धमिति । तद्वदप्रयोजकत्वं प्राणाग्निहोत्रस्य ।
ततश्च भोजनप्रयुक्तत्वमित्येतत्तत्रास्तीत्यत्र हेतुमाह –
एकदेशद्रव्यसाधनस्यापीति ।
एकदेशो द्रव्यं साधनं यस्य यागस्य तस्यापि द्रव्यं प्रति प्रयोजकत्वं स्यादित्यर्थः ।
तत्रोदाहरणमाह –
यथेति ।
दर्शपूर्णमासयोराम्नायते – ‘जाघन्या पत्नीः संयाजयन्ति’ इति । पत्न्यो नाम देवताविशेषाः । जघनप्रदेशादवत्तो मांसखण्डो जाघनी ।
तत्रैकदेशद्रव्यत्वात्परप्रत्युक्तकृतप्रयोजनाग्नीषोमीयपशुजाघनीप्रतिपत्तिकर्मत्वात्पत्नीसंयाजानां प्रकरणोत्कर्षमाशङ्क्य सिद्धान्तितं शेषलक्षणे , तं प्रकारमाह –
स हि नामेति ।
उक्तमग्निहोत्रसाधनं भक्तं भोजनाङ्गभक्तज्ञानं विनापि जाघनीवज्ज्ञातुं शक्यमित्यर्थः ।
दृष्टान्तं साधयति –
तस्मादिति ।
जाघनीत्येतावन्मात्रं श्रूयते , न तु पशोरिति । तस्मात्प्राणिमात्रस्य जाघनी पशुज्ञानं विनापि ज्ञातुं शक्येत्यर्थः । आग्नीषोमीययागप्रयुक्तत्वात्परप्रयुक्तः पशुरग्नीषोमीयः , तदुपजीवनं चान्तरेण जाघनीज्ञानात् तत्साध्यदार्शपौर्णमासिकपत्नीसंयोजेष्वाज्येन सह जाघनी विकल्प्यते न तूत्कृष्यत इत्यर्थः ।
हिंसापि न कार्येत्याह –
खण्डश इति ।
मन्यते पूर्वपक्षीति ।
तद्धोमीयमिति तच्छब्दार्थानभिज्ञत्वान्मन्यतेर्ग्रहणम् ।
नन्वेवं भक्तस्यैव भोजनबहिर्भूतस्य सम्भवे कथमद्भिरिति प्रतिनिधिर्भाष्ये उक्तोऽत आह –
अद्भिरिति ।
अग्निहोत्रादिनित्यकर्मसु श्रुतव्रीह्याद्यलाभे कर्मोत्सर्गे प्राप्ते नित्यानामनित्यानां च प्रारब्धानामवश्यकर्तव्यत्वावगमात् श्रुतद्रव्यैः प्रतिनिहितैश्च क्रियमाणस्य प्रयोगस्याविशिष्टत्वेन प्रत्यभिज्ञानात्प्रतिनिधायापि कर्म कर्तव्यमिति षष्ठे सिद्धान्तितम् ॥ भाष्योदाहृतमप्यधिकरणं लिख्यते – सन्त्यग्न्याधाने पवमानेष्टयः ‘‘अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदि’’त्याद्याः । तासु प्रकृतेर्दर्शपूर्णमासाद’’ग्निहोत्रहवण्या हवींषि निर्वपेदि’’ति विहितो हविर्निर्वापोऽतिदेशेन प्राप्नोति । आधानकाले चाग्निहोत्राभावान्नाग्निहोत्रहवणी । ततस्तद्विशिष्टत्वेन श्रुतस्य निर्वापस्य तल्लोपाल्लोपप्राप्तौ दशमे सिद्धान्तितम् । गुणलोपे च मुख्यस्य (जै.अ.१०.पा.२.सू.६३) । विकृतौ हि कार्यद्वारा पदार्था प्राप्नुवन्ति , तेन हविः - संस्कारार्थं निर्वापः प्रथमं प्राप्तः , तद्द्वारेण च तदङ्गमग्निहोत्रहवणी पश्चात्प्राप्नोति , ततो निरपेक्षा प्राप्तिः । प्रधानभूतश्च निर्वापोऽङ्गलोपेऽपि कर्तव्य इति गुणलोपेऽपि मुख्यस्य प्रयोग इति ।
भक्तं वेति ।
भोजनानङ्गमित्यर्थः । ननु तद्यद्भक्तमिति वाक्योक्तस्य तद्धोमीयमित्यत्रत्यतच्छब्देन परामर्शेऽपि न भोजनाङ्गभक्तपरामर्शसिद्धिः ।
तद्भक्तमिति वाक्यस्याऽन्यार्थत्वादित्युक्तमनूद्य निरस्यति –
यच्चोक्तमित्यादिना ।
विध्युद्देशगतस्येति ।
विध्येकवाक्यतापन्नो ह्यग्निहोत्रशब्दो गौणः सन् कर्तव्यसादृश्यं वक्तुं शक्तः ; कर्तव्यार्थविशेषणपरत्वात् । अर्थवादगतस्तु सिद्धमर्थं विशिंषन् सिद्धमेव सादृश्यं वक्तीत्यर्थः ।
कृष्णलचराविति ।
‘‘प्राजापत्यं चरुं निर्वपेच्छतकृष्णलमायुष्कामः’’ इति श्रूयते । कृष्णलो नाम परिमाणविशेषवान् सुवर्णमणिः । तत्रातिदेशप्राप्ता अवघातादयो द्वाराभावेऽपि पाकवत्कर्तव्याः । अचरौ चरुशब्दस्याग्निहोत्रशब्दवद्धर्मातिदेशकत्वादिति प्रापय्य दशमे सिद्धान्तितम् । कृष्णालाञ्छ्रपयेदिति श्रौतः पाको द्वाराभावेऽपि कर्तव्यः । अत एव चरुशब्दोऽपि पाकयोगाद्विभक्तत्वाच्च सिद्धसादृश्यपरः ; सत्यां गतौ विधौ गौणत्वायोगात् ।
तस्मान्नावघातादि प्राप्तिरिति ।
सोऽयमतिदेशप्राप्तावघातादिबाधो गत्यभावात् स्वीक्रियते , प्रकृते तु भोजनार्थभक्तानुवादादस्ति गतिरित्यर्थः । कामिन्यां सिद्धं यत्कुचवदनादि तदसता चक्रवाकादिरूपेण संपाद्यते रूप्यत इत्यर्थः ।
यदा चैवं भोजनार्थभक्ताश्रितत्वं प्राणाग्निहोत्रस्य तच्छब्दात्सिद्धं , तदा ‘‘पूर्वोऽतिथिभ्योऽश्रित्या’’दित्याद्यादरदर्शनं न भोजनकालादपकृष्य कालान्तरेऽग्निहोत्रविधिपरं , किं तु यदा स्वामी भुङ्क्ते तदा भोजनस्य स्वकालादपकर्षेण तदाश्रितप्राणाग्निहोत्रस्यापकर्षकमित्याह –
तद्भोजनपक्ष इति ।
यदा च प्राथम्यात्मको धर्मः सत्येव भोजने विहितस्तदा धर्म्यपि प्राणाग्निहोत्रं सत्येव भोजने स्यात् ।
तथा च या श्रुतिर्धर्मलोपं न सहते सा नतरां धर्मिलोपं सहेतेति तन्निरस्तम् , अनित्यत्वेऽपि तदुपपत्तेरित्याह –
यस्मिन्पक्ष इति ।
ननु स्वामिभोजनस्य स्वकालादपकर्ष एव युक्तः , शास्त्रान्तरविरोधात् । अतः प्राणाग्निहोत्रस्यैव भोजनकालादपकर्ष इत्याशङ्क्य परिहरति – नन्वित्यादिना ॥४१॥
इति षड्विंशमादराधिकरणम् ॥
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥४२॥ अनित्यभोजनाश्रितप्राणाग्निहोत्रवद् नित्यकर्माङ्गाश्रितोपास्तीनां नित्यत्वमिति ।
पूर्वपक्षमाह –
यथेत्यादिना ।
कर्माङ्गाश्रितस्यापि गोदोहनवदनित्यत्वमाशङ्क्यानारभ्याधीतत्वादुपास्तीनां वाक्यात् क्रतुसंबन्ध एव सिध्यति , न फलसंबन्ध इति वक्तुं पर्णमयी , तामुदाहरति –
यस्येति ।
ननु साक्षात्फलवत्त्वसंभवे किमिति क्रतुप्रवेशात्फलकल्पना ? अत आह –
सिद्धवर्तमानेति ।
रात्रिसत्रे ह्यगत्या विपरिणामः , इह त्वस्ति कर्माङ्गत्वं गतिरित्यर्थः ।
समस्तकामावापकत्वलक्षणेति ।
‘‘आपयिता ह वै कामानां भवती’’त्येतदित्यर्थः ।
पूर्वपक्षे प्रयोजनमुपासनानां कर्माङ्गाश्रितोपास्तीनां नित्यत्वमित्याह –
एवं चेति ।
चतुर्थे स्थितम् –
द्रव्यसंस्कारेति ।
‘‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति’’ इत्यनारभ्य किंचिद्द्रव्ये फलमधीयते । ज्योतिष्टोमप्रकरणेऽस्ति संस्कारे फलश्रुतिः -’‘ यदङ्क्ते अञ्जनं करोति चक्षुरेव भ्रातृव्यस्य वङ्क्ते’’ इति । कर्मणि च फलं श्रूयते - ‘‘यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते वर्म वा यजमानस्य भ्रातृव्यभिभूत्यै’’ इति । तत्र संशयः । किमिमे फलविधय उत क्रत्वर्थेषु पर्णतादिषु फलार्थवादा इति ।
तत्र ‘‘खादिरं वीर्यकामस्य यूपं कुर्या’’दित्यादिवत्फलविधयः , क्रतूपकारद्वारेण व्यवहितफलोपादानाद्वरमव्यवहितश्रुतफलस्य साध्यत्वविपरिणाम इति फलविधित्वे प्राप्ते राद्धान्तः पर्णतोदाहरणमाश्रित्याचार्येण प्रदर्श्यते –
युक्तं पर्णतायामित्यादिना ।
तत्रैतावत्सर्वोदाहरणशेषत्वेन वक्तव्यम् ।
रात्रिसत्राणामगत्या विपरिणाम आश्रितः , इह तु क्रतूपकारस्य सिद्धत्वान्न विपरिणाम इति पर्णता किं साक्षात्फलसाधनमुत क्रियाद्रव्यमाश्रित्य ? नाद्य इत्याह –
न हीति ।
उत्पत्तिमत इति ।
साक्षादुत्पत्तिमत इति , साक्षादुत्पत्तिः क्रियाया इति क्रियात इत्यर्थः ।
यत्तु - पूर्वपक्षे उक्तं खादिरतावत् पर्णतायाः फले विधिरिति , तन्निरस्यन् द्वितीयं प्रत्याह –
नापीति ।
खादिरतायां यथा प्रकृतक्रतुसंबन्धवान् यूप आश्रयः , एवं तदाश्रयस्तस्याः पर्णतायाः प्रकृते नास्ति ; तस्या अनारभ्याधीतत्वादित्यर्थः । खादिरतायाः प्रत्यक्षविधिश्रवणात् साक्षत्कर्मपदयुक्तफलश्रवणाच्च युक्तः फले विधिरित्यपि द्रष्टव्यम् ।
क्रत्वङ्गविशिष्टोपास्तिक्रियाणां फलसाधनत्वेन प्रधानकर्मत्वमुक्तम् , तदाक्षिपति –
नन्विति ।
ॐकारस्येत्युक्तमिति ।
व्याप्तेश्चासमञ्जस (ब्र.अ.३ पा.३ सू.९) मित्यत्रेत्यर्थः ।
न चानुपयोगमीप्सितमिति ।
अन्यार्थे विनियुक्तं द्रव्यं फलवत्त्वादीप्सितम् , ईप्सितं च संस्कार्यं , नत्वोङ्कारोऽनुपयुक्तत्वादित्यर्थः । या तु कर्माङ्गेष्वपि द्वितीया ‘‘लोकेषु पञ्चविधं सामोपासीते’’त्याद्या , सा सप्तम्यर्थेत्यादित्यादिमतय (ब्र.अ.४ पा.१ सू.६) इत्यत्र वक्ष्यते ।
अत्र भाष्यं - न चेदं फलश्रवणमर्थवादमात्रं युक्तं प्रतिपत्तुम् ; तथा हि गुणवाद आपद्येत फलोपदेशे तु मुख्यवादोपपत्तिरिति , तदनुपपन्नमिव ; वर्तमानापदेशत्वेनोपासनफलेषु साध्यत्वविपरिणामात्मकलक्षणाश्रयणादत आह –
अर्थवादमात्रत्व इति ।
वर्तमानापदेशाद्विपरिणाममन्तरेण फलसिद्धौ विरोधमाह –
अत एवेति ।
प्रयाजादीनामफलत्वं यत्प्रथमे काण्डे पारार्थ्येनोक्तं , तदिहापि स्वीकृतं तद्वर्तमानापदेशस्य फलपरत्वे सति न शक्यं निर्वोढुमित्यर्थः ॥ तेनोङ्कारेणोभावपि कर्म कुरुतः , यश्चैतदक्षरमेवमाप्त्यादिगुणकं वेद यश्च न वेद ।
दृष्टं हि हरीतकीं भक्षयतोस्तद्रसज्ञेतरयोर्विरेचकं फलमिति पूर्वपक्षयित्वा सिद्धान्तमाह –
नाना त्विति ।
कर्माङ्गोंकारमात्रज्ञानादाप्त्यादिमदोङ्कारविज्ञानं नानैव भिन्नम् । ततोऽङ्गाधिक्यात् फलाधिक्यं युक्तम् । दृष्टो हि मणिविक्रये वणिक्छबरयोर्ज्ञानाऽज्ञानकृतः फलभेदः । तस्माद्यदेव कर्म विद्ययोद्नीथादिविषयया श्रद्धयाऽऽस्तिक्यबुध्द्या उपनिषदा तत्तद्देवताध्यानेन करोति तदेव कर्म वीर्यवत्तरं भवति ॥४२॥
इति सप्तविंशं तन्निर्धारणाधिकरणम् ॥
प्रदानवदेव तदुक्तम् ॥४३॥
पूर्वत्र फलभेदात् कर्माङ्गानां तद्वद्धोपासनानां च नित्यानित्यत्वरूपः प्रयोगभेद उक्तः , इह तु वायुप्राणयोस्तत्त्वाभेदात्तत्प्राप्तिलक्षणफलैक्याच्चोपासनप्रयोगैक्यमित्यभिप्रेत्य पूर्वपक्षमाह –
तदिति ।
उत्पन्नेति ।
उत्पन्नया उपासनया गुणानां संयोग इत्यर्थः ।संवर्गविद्यायां हि ‘‘अन्नवानन्नादो भवति य एवं वेद’’ इति विधेः पृथगुत्पत्तिरस्ति । वाजसनेयकेऽप्यस्ति एकमेव व्रतं चरेदिति । तथोपक्रमोपसंहारेति । ‘‘अथेममेव नाप्नोद् मृत्युर्योऽयं मध्यमः प्राणः’’ इत्युपक्रम्य प्राणद्वारा एष सूर्य उदेतीत्युपसंहार इति ॥ यदुक्तमध्यात्मादिविभागस्योत्पन्नशिष्टत्वान्न विद्याभेदकत्वमिति ।
सत्यं न विद्याभेदं ब्रूमः , किंत्वेकस्यामेव विद्यायां ध्येयभेदात् प्रयोगभेदं , यथाऽग्निहोत्राभेदे उत्पन्नशिष्टैर्दध्यादिभिः क्रियमाणाः प्रयोगा भिद्यन्त एवमिहेत्याह –
अग्निहोत्रस्येवेति ।
अग्निहोत्रस्य दधितण्डुलादिवदाध्यानस्य कृते आध्यानार्थमयं पृथगुपदेश इति योजना । इवकारो धर्मिण उपमार्थो वत्कारो धर्मस्य । वायोर्यद्यपि परिच्छिन्नत्वम् ; तथाप्यग्न्यादीनपेक्ष्यापरिच्छिन्नत्वमस्ति , कारणत्वेन ततोऽपि बहुकालव्यापित्वात् ।
अतो भाष्योक्तं वाय्वानन्त्यमुपपन्नमित्याह –
वायुः खल्विति ।
संवृणुते संहरति ।
देवताकाण्डाधिकरणस्य प्रधानभेदविषयस्य पूर्वपक्षं सिद्धान्तं चाह –
मिलितानामित्यादिना ।
त्रिपुरोडाशेष्टौ हि प्रथमपुरोडाशप्रदाने या याज्या सा पुनःप्रयोगेऽनु वाक्या , या च पूर्वमनुवाक्या सा पश्चाद्याज्या भवति ।
व्यत्यासमन्वाहेत्यनेनाभिहितं तत्प्रयोगभेदे घटते ; एकस्या ऋच एकस्मिन्प्रयोगे याज्यानुवाक्यात्वविरोधादित्याह –
याज्यानुवाक्याव्यत्यासेति ।
अध्वर्युणा यजेति प्रैषे कृते प्रयुज्यमाना ऋग्याज्या , अनुब्रूहीति प्रैषान्तरं प्रयुज्यमानाऽनुवाक्या । याज्ञिका हि अस्यामिष्टौ युगपदवदानं कुर्वन्ति , तद्विधीयते सर्वेषामभिगमयन्नवद्यतीति ।
तत्र हेतुः –
अछम्बट्कारमिति ।
अव्यर्थत्वायेत्यर्थः । एकार्थे ह्यवत्ते शेषो यागानर्हः स्यात् , युगपत् सर्वार्थमवदाने त्वव्यर्थत्वं स्यादिति ।
तथाविधस्यैवेति ।
व्यत्यस्तयाज्यानुवाक्याकस्य प्रयोगभेदमन्तरेणानुपपद्यमानस्य विवक्षितत्वादित्यर्थः ।
प्राण्यादिति ।
प्राणने प्राप्ते प्राण्यादपानने प्राप्तेऽपान्यात्प्राणापानादिनिरोधनं न कुर्यादित्यर्थः । महात्मनोऽग्न्यादीन् महात्मन इति द्वितीयाबहुवचनम् । चतुरः चतुःसंख्यानग्निसूर्यदिक्चन्द्रान् अन्यांश्च वाक्चक्षुःश्रोत्रमनोलक्षणार्थान् । कः प्रजापतिः प्राणात्मकः । स जगार जीर्णवान् । तेन व्रतेन । उ इत्ययं निपातोऽप्यर्थः । स च सायुज्यं सलोकतामपीत्युपरि संबद्ध्यते । एतस्यै एतस्या देवतायाः सायुज्यं समानदेहतां सालोक्यं समानलोकतां च जयति प्राप्नोतीत्यर्थः । सायुज्यमुत्कृष्टोपास्तेः फलं सालोक्यं मन्दोपासनायाः ॥४३॥
इत्यष्टाविंशं प्रदानाधिकरणम् ॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥ पूर्वत्रैकप्रयोगासंभवाद्वायुप्राणौ प्रयोगभेदेन ध्येयावित्युक्तम् , इह तु मनश्चिदादीनां कर्माङ्गत्वेनैकप्रयोगत्वमाशङ्क्यते ।
लिङ्गविरोधे दुर्बलेन प्रकरणेन पूर्वपक्षानुत्थानमाशङ्क्याह –
तत्र यद्यपीत्यादिना ।
स्वातन्त्र्येण प्रमाणान्तरानपेक्षया मनश्चिदादीनां न स्वातन्त्र्यप्रापकाणीत्यर्थः ।
ननु स्वातन्त्र्येणाप्यर्थस्य विनियोजकं लिङ्गं दृष्टम् ; यथा शब्दार्थयोः सामर्थ्यमित्याशङ्क्य प्रकृतलिङ्गस्य ततो वैषम्यमित्याह –
न चेत्यादिना ।
लिङ्गं हि द्विविधं सामर्थ्यरूपमन्यार्थदर्शनं चेति । सामर्थ्यं च द्विविधं शब्दगतमर्थगतं च ।
शब्दगतमुदाहरति –
यथा पूषेति ।
‘‘पूष्णोऽहं देवयज्यये’’ त्यादिमन्त्रः ।
अर्थगतमुदाहरति –
यथा चेति ।
तथेत्यत्र ग्रन्थच्छेदः । विरोद्धरि विरोधकर्तरि ।
श्रुतिवाक्याभ्यां प्रकरणस्य विरोधमाशङ्क्याह –
न च ते हैत इत्यादिना ।
पूर्वतन्त्रसिद्धमानसग्रहाधिकरणमुदाहरति – द्वादशाहे इत्यादिना । त्वां समुद्रमनया रसया पृथिव्या पात्रेण प्रजापतिदेवताकं मनोग्रहं ध्यानमयग्रहमापाद्य गृह्णामीत्यर्थः । निर्धूतानि । नितरां प्रक्षालितानि अत एव गतरसानि रसवत्तापादकसहकारिमत्त्वेन द्वादशाहस्य श्रूयमाणत्वादित्यर्थः । ‘‘पत्नीसंयाजान्तान्यहानि संतिष्ठन्त’’ इति वचनाद् द्वादशाहान्तर्गतानामह्नां पत्नीसयाजान्तत्वम् । अवयुज्य एकदेशं विभज्य । देवदत्तस्याङ्गिनो दीर्घैः केशैः स्तुतिः ।
ननु विसर्गशब्दस्य समाप्तिवचनत्वात्कथम् अङ्गत्वबोधकत्वमत आह –
अन्त इति ।
श्रुत्यन्तरबलेनेति ।
प्रदर्शनार्थमेतत् । एतच्छ्रुतिबलेनापि भाष्यमुपपन्नम् ; दशरात्रस्य द्वादशाहविकृतित्वात् । तत्क्रमेणाहर्धर्मेष्वतिदेशप्राप्तेषु दशरात्रगतशमाहन्यपि द्वादशाहान्तर्वर्तिदशमाहरङ्गस्य मानसस्य प्राप्तिरिति विविधानि वाक्यानि यत्र न सन्ति मानसत्वात्तदविवाक्यमिति नामार्थः ॥४४॥४५॥
वचनानि त्विति ।
एतज्ज्योतिश्चरणाभिधाना (ब्र.अ.१ पा.१ सू.२४) दित्यत्रानुक्रान्तम् ।
ननु फलार्थस्यापि क्रत्वङ्गाश्रितत्वादेकप्रयोगत्वं दृष्टमित्याशङ्क्याह –
न चास्येति ।
मनोवृत्तिष्वग्नित्वदृष्टिविधेरित्यर्थः । ‘‘षट्त्रिंशतं सहस्राण्यात्मनो वृत्तीरग्नीनपश्यद् मन’’ इति श्रुतिरिति ।
ननु निपातानां प्राप्तार्थद्योतकत्वं दृश्यते , एवमेवकारस्यापि इत्याशङ्क्याह –
न चैवमिति ।
क्रियानुप्रवेशमात्रं पूर्वपक्षिणो विवक्षितं , तच्च दूषितम् , स यदि विकल्पं ब्रूयात् , तर्हि स दूषत इत्याह –
तदतुल्यकार्यत्वेनेति ।
दृष्टश्चेति सौत्रपदसूचितं द्वितीयगतमवेष्ठ्यधिकरण (जै.अ.२ पा.३ सू.३) मनुक्रमति –
अस्तीत्यादिना ।
बार्हस्पत्यं चरुमाग्नेयैन्द्रपुरोडाशयोर्मध्ये निधायेत्यर्थः । यदि ब्राह्मणादयस्त्रयोऽप्यवेष्ठ्यामन्यतः प्राप्तास्तर्हि यदि ब्राह्मण इत्यादिप्राप्तार्थत्वान्निमित्तार्था , अप्राप्तौ तु तत्कर्तृकयागविधिरिति ।
तत्र प्राप्तिप्रकारमाह –
अत्र यदीत्यादिना ।
यदि राज्यस्य कर्ता राजा , तर्हि त्रयाणां वर्णानां राज्यकर्तृत्वाद्राजसूये च प्राप्तत्वेन तदङ्गावेष्टावपि प्राप्तेर्निमित्तार्थत्वं ब्राह्मण इत्यादेरित्यर्थः ।
अप्राप्तिप्रकारमाह –
अथ त्विति ।
पिकनेमेति ।
येषां शब्दानाम् आर्येषु न प्रसिद्धोऽर्थः पिकनेमादीनां , तेषां किं निगमादिभ्योऽर्थः कल्पनीय उत म्लेच्छप्रसिद्ध एव ग्राह्य इति संदेहे शास्त्रस्थत्वान्निगमादिप्रसिद्ध एव ग्राह्यो म्लेच्छप्रसिद्धेरार्याणामर्थप्रतिपत्तौ विप्लवप्रसङ्गादिति प्राप्ते – समुदायप्रसिद्धेरवयवप्रसिद्धितो बलवत्त्वाद् पिकादीनि पदानि यद्रूपाणि वेदे दृश्यन्ते तद्रूपाणामेव तेषां म्लेच्छैरर्थविशेषेषु प्रयुज्यमानत्वात् तदर्थसंबन्धे च पदानां बाधाभावाद् विप्लुतिशङ्कानुत्थानाद् म्लेच्छप्रसिद्ध एवार्थो ग्राह्यः । पिकः कोकिलः । नेमोऽर्धम् । तामरसं पद्ममिति प्रमाणलक्षणे स्थितम् । एवं यथा म्लेच्छप्रसिद्धिः पिकादिशब्दार्थावधारणकारणम् , एवमान्ध्राणां म्लेच्छादीनामेव क्षत्रियत्वजातौ । राजशब्दप्रसिद्धिः राजशब्दार्थावधारणकारणमित्यर्थः ।
एवं संदेहे प्रदर्श्य पूर्वपक्षमाह –
नैमित्तिकानीत्यादिना ।
राज्यकर्तृमात्रे राजशब्द आर्यैर्म्लेच्छैश्च प्रयुज्यते इत्यविवादम् । राज्यमकुर्वति तु क्षत्रियजातिमात्रे आर्याराजशब्दं न प्रयुञ्जते , म्लेच्छास्तु प्रयुञ्जते इति विप्रतिपत्तिः । तत्राविप्रतिपत्तिस्थले विरोधाभावाद् राज्यस्य कर्ता राजेति त्रैवर्णिकानां राजत्वादेवेष्टौ प्राप्तिः । प्राप्तौ च सत्यां निमित्तार्थत्वं ‘‘यदि ब्राह्मण’’ इत्यादेः स्यादित्याह – राज्यस्य कर्तेत्यारभ्य तेनाविप्रतिपत्तेरित्यन्तेन । या तु क्षत्रियमात्र राजशब्दप्रयोगे म्लेच्छानामार्यैः सह विप्रतिपत्तिः , तत्र शास्त्रसहितार्यप्रसिध्द्या तद्विहीनम्लेच्छप्रसिद्धिबाधान्न जातिमात्रं राजशब्दार्थः , किंतु राज्यकर्तैव ।
अतश्च निमित्तार्थत्वं सुस्थमित्याह –
विप्रतिपत्ताविति ।
यववराहवदिति ।
‘‘यवमयश्चरुर्भवति वाराही उपानहावि’’त्यत्र यववराहशब्दयोर्म्लेच्छैः प्रियङ्गुवायसयोः प्रयोगादार्यैश्च दीर्घशूकसूकरयोः प्रयोगादुभयोश्च प्रयोगयोरनादित्वेन तुल्यबलत्वाद् विकल्पेनाभिधानं प्राप्तम् ।
तदुक्तं प्रमाणलक्षणे –
‘‘समा विप्रतिपत्तिः स्यात्’’ (जै.अ.१ पा.३ सू.८) इति ।
अभिधानविप्रतिपत्तिस्तुल्येत्यर्थः । सिद्धान्तस्तु - शास्त्रस्था वा तन्निमित्तत्वात् । (जै.अ.१ पा.३ सू.९) यवमय इत्यस्य हि वाक्यशेषे ‘‘यदान्या ओषधयो म्लायन्त्यथैते मोदमानास्तिष्ठन्ती’’ति श्रूयते । यवाश्चान्यौषधिम्लानौ मोदन्ते न प्रियङ्गवः । उक्तं हि – ‘‘फाल्गुने ह्यौषधीनां हि जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥ प्रियङ्गवः शरत्पक्वास्तावद्गच्छन्ति हि क्षयम् । यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ॥ तदा नान्यौषधिम्लानिः सर्वासामेव मोदनात्’’॥ इति । ‘‘वाराही उपानहौ’’ इत्यस्य च वाक्यशेषे ‘‘वराहं गावोऽनुधावन्ती’’ति श्रूयते । सूकरं च गावोऽनुधावन्ति न काकम् । तस्माद्यववराहशब्दयोर्दीर्घशूकसूकरावर्थाविति । ननु म्लेच्छप्रसिद्धिमात्रेण क्षत्रियजाती राजशब्दार्थ इति न ब्रूमः , किंतु ‘‘गुणवचनब्राह्मणादिभ्यः कर्मणि’’ चेति पाणिनिना गुणवचनेभ्यः शुक्लादिशब्देभ्यो ब्राह्मणादिशब्देभ्यश्च ष्यञ् प्रत्ययस्मरणाद्राज्ञः कर्म राज्यमिति सिद्ध्यति ।
ततश्च क्षत्रियो राजेत्यप्राप्तिर्ब्राह्मणादीनां राजसूय इति सिद्धान्तिमतमाशङ्क्याह पूर्ववादी –
बलवदार्येति ।
प्रयोगमूला हि पाणिनिस्मृतिरार्यप्रयोगविरोधे चातन्मूला म्लेच्छप्रयोगमूला स्यात् । अतो मूलबाधेन बाध्येत्यर्थः ।
नखनकुलादिवदिति ।
खं न भवति इति नखं , कुलं न भवतीति नकुलमित्यत्र रूढावेव शब्दौ यथा व्युत्पाद्येते , एवं राजशब्द इत्यर्थः । पाणिनिर्हि ; नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्ये’’ति नखादिशब्दानां नञ् समासमङ्गीकृत्य नलोपाभावसिद्ध्यर्थं प्रकृतिभावं सस्मार ।
यदुक्तं यववराहादिशब्देष्विव राजशब्देऽपि क्षत्रियमात्रविषयत्वगोचरा म्लेच्छप्रसिद्धिरार्यप्रसिध्द्या बाध्येति , तत्राह –
रूपत इति ।
अनादिवृद्धव्यवहाररूढत्वादार्यम्लेच्छप्रयोगयोः स्वरूपतस्तावन्न विशेषोऽस्ति , यवादिशब्देषु तु वैदिकवाक्यशेषानुगृहीतार्यप्रसिद्धेर्बलवत्त्वमुक्तं , राजशब्दे त्वार्यप्रसिद्धेर्नास्ति वेदानुग्रह इति द्वयोः प्रसिध्द्योरविशेष इत्यर्थः ।
एवमविशेषमुक्त्वा म्लेच्छप्रसिद्धे राजशब्दविषये विशेषमाह –
वैदिकवाक्यशेषवदिति ।
प्रयोगो हि नानादेशेषु नानापुरुषैर्विरच्यते इति संभवद्विप्लवः । स्मृतिस्तु शिष्टपरिगृहीता व्यवस्थिता । ततश्च तदनुगृहीतम्लेच्छप्रयोग आर्यप्रयोगाद् बलीयानित्यर्थः । उक्तं हि – ‘‘आचारयोर्विरोधेन संदेहे सति निर्णयः । सनिबन्धनया स्मृत्या बलीयस्त्वादवाप्यते’’ इति ।
अनादिरिति ।
मुख्येत्यर्थः ।
गोगाव्यादीति ।
गावीशब्दो ह्यशत्तया प्रयुक्तो न गोशब्दस्य गौणत्वमापादयति , एवमिदमपीत्यर्थः ।
तत्किं राज्यकर्तरि राजशब्दप्रयोगः सर्वथा त्याज्यः ? नेत्याह –
तस्मादिति ।
तदेवं यथा क्षत्रियकर्तृके राजसूये ब्राह्मणादेरनधिकारादवेष्टेः प्रकरणादुत्कर्षः , एवं मनश्चिदादीनामपि क्रियाप्रकरणाल्लिङ्गादिभिरुत्कर्ष इत्याह –
क्षत्रियस्यैवाधिकारादिति ।
ननु ब्राह्मणादिवाक्यानामप्राप्तब्राह्मणादिप्रापकत्वे यदिशब्दविरोध उक्त इति , तत्राह –
अन्वयानुरोधीति ।
अन्वयः प्राप्तिः । यदिशब्दो हि निपातः । निपाताश्चोत्सर्गतः प्राप्तिमपेक्षन्ते । अप्राप्ते चार्थे वाक्याद्गम्यमाने यदिशब्दो भञ्जनीय इत्यर्थः । तदाहुः भट्टाचार्याः - ‘‘यदिशब्दपरित्यागो रुच्यध्याहारकल्पना । व्यवधानेन सबन्धो हेतुहेतुमतोश्च लिङ्’’ इति शेषः । यदि रोचयेत फलं मे स्यादिति , तर्हि ‘‘ब्राह्मणो यजेते’’ति रुच्यध्याहारकल्पनान्न विधित्वक्षतिरित्यर्थः ।
व्यवधानेन संबन्ध इति ।
यदि बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाऽभिघारयेदभिघारयितुमिच्छेदिति कामप्रवेदने लिङ् । अर्थात्तु विधिः । एकस्मिन् वाक्ये विधिद्वयायोगात् , तर्हि ब्राह्मणो यजेतेति विधिरेवेत्यर्थः ।
हेतुहेतुमतोरिति ।
यदि ब्राह्मणयजनमाहुत्यभिघारणे हेतुस्तदाऽऽहुत्यभिघारणमेवं कर्तव्यमित्यर्थः । अत्रैको लिङ् हेतुमत्त्वे अपरो विधौ । तत्राप्येकस्य विधिरर्थादपरस्य श्रौत इति ।
नन्विदमधिकरणमनारम्भणीयम् ; फलाभावात् , अवेष्टिं प्रकृत्यैतयाऽन्नाद्यकामं याजयेदिति पृथगधिकारश्रवणात् , त्रयाणां वर्णानामवेष्टावधिकारसिद्धौ यदि ब्राह्मण इत्यादेर्निमित्तार्थताया दुर्वारत्वात् , अत आह –
इयं चेति ।
ननु ‘‘राजा राजसूयेन स्वाराज्यकामो यजेते’’ति वाक्ये राजपदं कर्तृसमर्पकम् ; स्वाराज्यकामस्योद्देश्यत्वेन तद्व्यावर्तकत्वे वाक्यभेदप्रसङ्गात् , तथा च प्रकृतयागमात्रे राजविधेरन्नाद्यकामाधिकारेऽपि राजपदानुवृत्तेर्ब्राह्मणादीनामप्राप्तत्वेन निमित्तार्थत्वासंभवात्कथं कृत्वाचिन्ताऽऽश्रिता ? न ह्यधिकारवाक्यान्तरगतं राजपदमधिकारवाक्यान्तरे राजानं विधातुं क्षमम् । यद्युच्येत राजसूयमध्यस्थायास्तावदवेष्टेः राजकर्तृकत्वं सिद्धम् । एवं सत्येतयेति साङ्गेष्टेः परामर्शेन फले विधानादधिकारान्तरेऽपि राजकर्तृकेष्टिलाभ इति , तदपि न ; उत्पन्नमात्रं हि कर्म फले विधेयं नाङ्गविशिष्टम् ; अङ्गविशिष्टस्य फलसंबन्धेऽङ्गानां फलवदङ्गभावाभावप्रसङ्गात् ।
तस्मात्सूक्तं कृत्वाचिन्तेति ।
ननु भाष्यकारैरेकादशगतमधिकरणमुदाहृतं , टीकाकृता द्वितीयगतं , तत्र कोऽभिप्रायः । तं वक्ष्यामः । तदर्थमेकादशाधिकरणमनुक्रम्यते । अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनात् । (ब्र.९.अ.११.पा.४) राजसूयेऽवेष्टिराम्नायते – ‘‘आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणा बार्हस्पत्यश्चरुः शितिपृष्ठो दक्षिणे’’ इति ।
तत्राग्नेयादिहविःष्वङ्गानां तन्त्रेण प्रयोग उतावृत्त्येति संशयः । तत्र बार्हस्पत्यं मध्ये निधायेति लिङ्गदर्शनात् प्रयोगभेदे च मध्ये निधानासंभवादेतयाऽन्नाद्यकाममित्येकवचनाच्चैकतन्त्र्यमेकस्मिन् प्रयोगेऽङ्गानां तन्त्रेण भावः सकृदनुष्ठानमिति पूर्वपक्षं कृत्वा राद्धान्तितम् - अन्नाद्यकामप्रयोगेऽवेष्टेरिदं , लिङ्गदर्शनादिति न क्रत्वर्थप्रयोगे , तस्य तु दक्षिणाभेदाद्भेद इत्यङ्गावृत्तिरेव । तत्र क्रत्वर्थायामवेष्टौ इदं लिङ्गदर्शनादिकमित्याशङ्कानिरासार्थं क्रत्वर्थायामिति चेदिति सूत्रम् । काम्यायां ‘‘यदि ब्राह्मण’’ इत्यादिना वर्णमात्रसंयोगात् , तस्यां च मध्यनिधानादिप्रतीतेर्न राजमात्रकर्तृकक्रत्वर्थेष्टौ तत्प्राप्तिरित्यर्थः । तत्र वर्णसंयोगादिहेतोः क्रत्वर्थेष्टावपि गतत्वेन विरुद्धत्वमाशङ्क्य तत्परिहारार्थं द्वितीयाधिकरणानुक्रमणमिति । एकप्रयोगत्वं लिङ्गस्य क्रत्वर्थेष्टावसम्भवं काम्येष्टौ च संभवं वदता तेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिवैलक्षण्यसूचनद्वारेणार्थात् प्रकरणोत्कर्षोऽपि गमित इति भाष्यकारस्यैतत्सूत्रोदाहरणं नासङ्गतम् ॥४७॥४८॥४९॥५०॥५१॥५२॥ पुरुषायुषस्याहानि षट्त्रिशत्सहस्राणि तैरवच्छिन्ना मनोवृत्तयः प्रत्यहोरात्रमेकैका भूत्वा षट् त्रिंशत्सहस्रा भवन्ति । ता एतावत्संख्याकेष्टका ममाऽग्नित्वेन सम्पाद्यन्ते षट्त्रिंशत् सहस्राणीत्यादिना मन एवात्मनः संबन्धिभूतानग्नीनर्क्यान्वर्णव्यत्ययेनार्च्यान्पूज्यानपश्यदित्यर्थः । मनसा चीयन्त इति मनश्चितः सुखादिप्रत्ययरूपाः । एवं वागादिवृत्तयो वागादिभिश्चीयमानत्वाद्वागादिचितः । प्राणशब्देन घ्राणमुक्तमिन्द्रियाधिकारार् । कर्मशब्देन वागतिरिक्तकर्मेन्द्रियाणि । प्रतीन्द्रियवृत्त्यैकैकमग्नीचयनं सम्पाद्यम् ।
अत एव भाष्यं पृथगग्नीनिति ।
तेषामेवाग्नीनामेव सा कृतिः सङ्कल्पमात्रमित्यर्थः । ग्रहणासादनेत्यादि भाष्यम् ॥ तत्र ग्रहणं सोमस्य पात्रे उपादानम् । आसादनं स्थापनम् । हवनानन्तरं हुतशेषोपादानमाहरणम् । पश्चादृत्विजां भक्षणार्थमन्योन्यमनुज्ञाकरणमुपह्वानम् । ते अग्नयो मनसैव आधीयन्त आहिताः । अचीयन्त चिताः । एष्वग्निषु ग्रहा अगृह्यन्त गृहीताः । अस्तुवत स्तोत्र कृतवन्त उद्गातारः । अशंसन् शंसनं कृतवन्तो होतारः । किं बहुना ? यत्किंचिद्यज्ञे कर्म क्रियते आरादुपकारकं , यच्च यज्ञीयं यज्ञनिष्पत्त्यर्थत्वेन यज्ञार्थं सन्निपत्योपकारमित्यर्थः । तन्मनसैवाक्रियत कृतमित्यर्थः । योऽग्निश्चितः सोऽयमेव लोक इति चितेऽग्नौ पृथिवीदृष्टिर्विधीयते ॥
इत्येकोनत्रिंशं लिङ्गभूयस्त्वाधिकरणम् ॥
एक आत्मनः शरीरे भावात् ॥५३॥
प्रमाणलक्षणोपयोगितयेति ।
‘‘यज्ञायुधी यजमानः स्वर्ग लोकं यातीति वाक्यस्य देहातिरिक्तात्माभावादप्रामाण्यप्राप्तौ तत्परिहारेण प्रथमाध्यायोपयोगितयेत्यर्थः ।
अत एवेति भाष्यगतातःशब्दं पूरयति –
यत इहेति ।
वक्ष्यतीति भविष्यत्प्रयोगः पूर्वकाण्डापेक्षः । इतः पूर्वकाण्डे नयनमपकर्षस्तस्योद्धारो निवृत्तिः कृतेत्यर्थः । मनश्चिदादीनां पुरुषार्थत्वमनुपपन्नं देहव्यतिरिक्तस्य तत्फलभोक्तुरभावादित्याक्षेपलक्षण पूर्वाधिकरणसङ्गतिः ।
तामाहेत्याह –
पूर्वाधिकरणेति ।
ननु न भूतानामेकैकस्य चैतन्यमुपलभ्यते ; घटादेरदर्शनात् , नापि मिलितानां ;वह्नितमोऽयसि दृतिवायुसमाध्माते सलिलकणाभ्युक्षिते भूतचतुष्टयमेलनेऽपि चैतन्यानुपलम्भात् ।
तत्र भूतसंघाते शरीरे कथं चैतन्यसंभावना ? अतः पूर्वपक्षाभाव इत्याशङ्क्याह –
यद्यपि समस्तेति ।
देहो न चेतनः भूतत्वाद् घटवदित्यनुमानस्य च प्रत्यक्षबाधं वक्ष्यत्यहमिति चानुभव इत्यादिना । अतश्च बाधितविषये पक्षेतरस्याप्युपाधित्वाद्देहत्वमुपाधिरुन्नीयत इत्यर्थः ।
तथाविधोदाहरणेन प्रतिबन्दीलक्षणेन प्रतिकूलतर्कपराहतिं चानुमानस्य दर्शयति –
न हीति ।
किण्वं नाम मदिरारम्भकद्रव्यविशेषः । यदि समस्तव्यस्तविकल्पेन देहस्य चैतन्यमपह्नूयेत , तर्हि मदिरायां मदकरणत्वमपह्नुतं स्यादित्यर्थः ।
नन्वहमिति प्रत्यक्षे देहाश्रित आत्मा भासतेऽतः कथं देहोऽचेतन इत्यनुमानस्य बाधस्तत्राह –
न त्विति ।
स देहोऽधिष्ठानमाश्रयो यस्य स तदधिष्ठानः कुण्ड इव दधीति वैधर्म्यदृष्टान्तः । यथा कुण्डे दध्याश्रितं तदतिरिक्तं प्रतीयते , नैवमात्मा देहाश्रितोऽहमिति प्रतीयत इत्यर्थः ।
अत्र हेतुमाह –
अत एवेति ।
यत एव देहातिरिक्त आत्माऽहमनुभवे न प्रतीयते अत एवाहमस्य देहधर्मैः स्थौल्यादिभिरहं स्थूलो गच्छामीत्यादिरूपेण सामानाधिकरण्योपपत्तिः । न ह्याश्रितस्य वस्तुन आश्रयधर्मैस्तादात्म्यं संभवति । तस्माद्देहधर्मैस्तादात्म्यानुभवादहंप्रत्ययविषयस्यात्मनो देह एवात्मेत्यर्थः ।
यच्च देहव्यतिरिक्तात्मवादिनोच्यते देहाश्रितात्मगता एव ज्ञानादय आश्रयभूततत्तद्देहतादात्म्येन प्रतीयन्तेऽहं पश्यामीत्यादिव्यवहारसमय इति , तदयुक्तमित्याह –
न जातु दधीति ।
यथा दधिसमानाधिकरणानि दध्ना तादात्म्यप्रतीतियोग्यानि शैत्यादीनि दध्याश्रितकुण्डैकाधिकरण्यं तादात्म्यं नानुभवन्ति , एवमात्माश्रिता ज्ञानादयो न देहतादात्म्येन प्रतीयेरन् , यदि देह आत्मानं प्रत्याश्रयः । प्रतीयन्ते च । तस्मान्न देह आत्माश्रयः किं त्वात्मैवेत्यर्थः । अयमत्र प्रयोगः - ज्ञानं देहधर्मस्तादात्म्येनोपलब्धत्वाद्देहरूपवदिति ।
एवं देहव्यतिरिक्तात्मानुमानस्य बाधमुपाधिं सत्प्रतिपक्षतां चोक्त्वा शङ्कितव्यभिचारत्वमाह –
न चाप्रत्यक्षमित्यादिना ।
अप्रत्यक्षमात्मतत्त्वं प्रत्यक्षाविषय इत्यर्थः ।
न खल्वप्रत्यक्षमिति ।
प्रत्यक्षातिरिक्तमित्यर्थः ।
देशकालादीति ।
भावानामग्न्यादीनामनुमानेन भूमादिलिङ्गेन प्रसिद्धिरतिदुर्बला । कुतो देशकालावस्थादिस्वरूपाणां भेदेन वस्तुशक्तिषु भिन्नासु सतीषु व्याप्तिग्रहणदेशादावग्नेर्धूमजननशक्तिरासीदनुमानदेशादौ सा नास्तीति शङ्कयाऽग्नेर्धूमजनकत्वाभावस्यापि संभवेन धूमस्याग्निव्यभिचाराशङ्कोत्थानादित्यर्थः ।
मा भूदनुमानाद्देहातिरिक्तात्मसिद्धिरागमादिभ्यस्तु स्यादिति , नेत्याह –
यदा चेत्यादिना ।
उपलब्ध्या साक्षात्काररूपया साध्यः प्रमेयो नान्तरीयकभावः । नान्तरेण व्यापकं लिङ्गं भवतीत्येवंभावो व्याप्यत्वं यस्य लिङ्गस्य तल्लिङ्गं तथोक्तं तस्य यदा इयं गतिर्व्यभिचारशङ्का , तदा कैव कथा तद्धीनस्येत्यर्थः । अङ्गुल्यग्रे हस्तियूथादौ शब्दस्य दृष्टव्यभिचारत्वम् , अर्थापत्तेः शक्त्याद्यत्यन्तपरोक्षार्थगोचरत्वेन दृष्टव्याप्तेर्लिङ्गाद्वैधर्म्यमुक्तम् । गोसदृशं गवयं दृष्ट्वा गौरनेन सदृशीत्युपमानं प्रवर्तते । तत्सर्वात्मना सादृश्ये प्रवर्तेतैकदेशेन वा ।
नाद्य इत्याह –
सर्वसारूप्य इति ।
तत्त्वात्तस्यैव तेन सर्वसारूप्याद्भेदे कस्यचिदपि वैसादृश्यस्य भावान्नोपमानसंभव इत्यर्थः ।
न द्वितीय इत्याह –
एकदेशेति ।
सूत्रे प्रतिज्ञैव हेतुगर्भा । एकेदेहव्यतिरिक्तस्यात्मनोऽभावं मन्यन्त इत्युक्ते आत्मनि तदुपलम्भकप्रमाणाभावादभावप्रमाणस्यैवात्माभावसाधकत्वमित्यर्थादवगतेरिति स्वेन व्याख्यातम् ।
शरीरे भावादित्यपरो हेतुः स भाष्यकृद्भिर्व्याख्यात इत्याह –
सौत्रस्त्विति ।
प्राणचेष्टेत्यादि भाष्यं सौत्रहेतुविवरणपरं , तत्र चेष्टेति क्रियामात्रं देहस्यात्मत्वसाधकं न भवति ; घटादावपि तद्भावादित्याशङ्क्य व्याचष्टे –
हिताहितेति ।
अन्तःशरीराश्रया इति ।
देहाभ्यन्तरप्रदेशस्य परिणामा इत्यर्थः ।
नन्वन्तःशरीरप्रदेशाश्रितत्वमिच्छादीनामप्रत्यक्षमपि यथा कल्प्यते , एवमात्माश्रितत्वमपि कल्प्यतामत आह –
शरीरातिरिक्त आत्मनीति ।
अत्यन्ताप्रमितात्माश्रितत्वकल्पनाद्वरं प्रमितदेहस्याभ्यन्तरप्रदेशे इच्छादयः सन्तीति कल्पनमित्यर्थः ॥५३॥
अनुमानादिप्रमाणानामसिद्धिमुक्तां तावत्परिहरति –
नाप्रत्यक्षमित्यादिना ।
अनुमानादीनामप्रामाण्यं प्रत्यक्षेण वाऽवगम्यते अनुमानादिभिर्वा ।
नाद्य इत्याह –
प्रत्यक्षं हीति ।
इदं प्रत्यक्षमियतो लिङ्गस्वरूपतद्व्यभिचारतदप्रामाण्यादिपरिच्छेदान् कर्तुं न समर्थमित्यर्थः ।
द्वितीये व्याघात इत्याह –
तस्मादिति ।
प्रमाणान्तराभ्युपगमे तदप्रामाण्योक्तिर्व्याहतेत्यर्थः ।
व्याघातान्तरमाह –
अपि चेति ।
प्रतिपन्नः संप्रतिपत्तिमान् पुमान् । तं विहायाप्रतिपत्तिप्रतिपत्तिसंदेहवन्तः पुमांसः प्रेक्षावद्भिः प्रतिपाद्यन्ते व्युत्पाद्यन्त इत्यर्थः । इत्थंभावोऽप्रतिपत्तिमत्त्वादयः ।
एवं प्रतिज्ञाव्याघातं कथाप्रवृत्तिव्याघातं चोक्त्वा लोकयात्राविरोधमाह –
अपि च पशवोऽपीत्यादिना ।
शष्पं बालतृणम् । आश्यानमीषत् शुष्कम् । इष्टानिष्टसाधनम् अविद्वान् पशोरपि पशुरित्यर्थः । अनुमानगोचरश्चासौ प्रवृत्तिगोचरश्चेष्टानिष्टसाधनत्वम् । तत्र प्रत्यक्षं न हि प्रभवतीति योजना । अयमोदनः क्षुन्निवर्तकः ओदनत्वात् प्राग् भुक्तौदनवदित्याद्यनुमानाद्धि इष्टाऽनिष्टसाधनत्वावगमः , ततःप्रवृत्तिरनिष्टसाधनत्वानुमानाच्च निवृत्तिरिति । एवं विपक्षे व्याघातदण्डमापाद्याऽनुमानप्रामाण्यं स्वीकारितम् ।
शब्दप्रामाण्यमपि तथैव स्वीकारयति –
न च परप्रत्यायनायेति ।
मूकत्वं नास्तिकस्य शब्दप्रामाण्यानिष्टेरापन्नम् । प्रवृत्तिनिवृत्तिविरहोऽनुमानप्रामाण्यविरहादापन्न इति विभागः ।
यत्तूक्तमदृष्टव्याप्तिकाऽर्थापत्तिरत्यन्तपरोक्षार्थविषयत्वादप्रमाणमिति , तत्राह –
अत्यन्तेति ।
यद्यपि न व्याप्तिदर्शनमस्ति , अर्थस्यात्यन्तपरोक्षत्वात् ; तथाप्यन्यथानुपपद्यमानस्फोटादिकार्यरूपार्थजन्याऽर्थापत्तिः शक्त्यादिविषयोदेष्यतीति भावः ।
यच्च सर्वसादृश्यकिंचित्सादृश्याभ्यामुपमानदूषणमभाणि , तन्निराकरोति –
भूयःसामान्येति ।
न सर्वात्मना सादृश्यज्ञानमुपमानसामग्री ; नापि किंचिन्मात्रसादृश्यज्ञानम् , अपि तु बहुतरसामान्ययोगज्ञानम् । तच्च गोगवयादेरेवेति नातिप्रसङ्ग इत्यर्थः । प्रत्यक्षं प्रत्यभिज्ञा , सा च जाग्रत्स्वप्नदेहयोर्योगव्याघ्रमनुष्यदेहयोश्च भेदेप्यभिद्यमानमहंप्रत्ययालम्बनं शरीराद्भिनत्तीत्यर्थः । इत्युक्तं प्रथमसूत्रे इत्यर्थः ।
एवमनुमानादिप्रामाण्यं सामान्यतः समर्थ्योभयसंमतप्रत्यक्षेण च देहव्यतिरेकमात्मन उक्त्वाऽनुमानादपि व्यतिरेकं सूत्रव्याख्यानेन दर्शयति –
सूत्रयोजना त्वित्यादिना ।
इह हि सूत्रकारेणेदमुक्तम् । यस्य ज्ञानं धर्मः स तावदात्मा , देहस्य च न ज्ञानं धर्मः ; देहभावेऽपि मृतावस्यायां ज्ञानाभावादिति ।
तदयुक्तम् ; अयावद्देहभाविनोऽपि संयोगादेर्देहधर्मत्वेनानेकान्तादत आह –
चैतन्यादिरिति ।
चैतन्यं हि स्वाश्रयस्याष्टद्रव्येभ्यो व्यावर्तकसामान्यवत्त्वाद्विशेषगुणाः । इदं च लक्षणं तर्कपादोक्तयुक्तिनिष्पीडनासहमपि देहात्मप्रत्ययवद्व्यवहाराङ्गत्वादभ्युपेयते ।
अस्तु विशेषगुणश्चैतन्यं , ततः किं जातमत आह –
तथा चेति ।
यदा नित्यस्यात्मनश्चैतन्यमनित्यविशेषगुणस्तदाऽनैकान्तिकत्वमाशङ्क्य भूतविशेषगुण इत्युक्तम् । सिद्धान्तेऽप्यन्तःकरणवृत्तिप्रतिबिम्बितचैतन्यस्य प्रतिबिम्बभूतात्मन्यध्यस्तत्वेन तदाश्रितत्वाद् विशेषगुणत्वव्यवहारे न काचित् क्षतिः । शब्दस्य च स्थायित्वाद्यावदाकाशभावित्वमिष्यत एवेति न तेनापि व्यभिचार इति । तदयं प्रयोगः - ज्ञानं , न देहविशेषगुणः , अयावद्देहभावित्वाद् घटवदिति ।
नन्वेवमपि प्राणचेष्टादीनां विशेषगुणत्वाभावेनायावद्देहभाविनामपि देहदर्मत्वसंभवात्कथं देहव्यतिरिक्तात्मगमकत्वमत आह –
एवमिति ।
प्राणादयो नास्य समवायित्वेनात्मानं कल्पयन्ति , किं तु निमित्तत्वेनेत्यर्थः ।
तस्यापि देहाश्रयत्वानुपपत्तेरिति ।
अदृष्टमपि हि विशेषगुणः , तच्चेद्देहस्य , तर्हि भूतविशेषगुणत्वाद्यावदाश्रयमनुवर्तेतेति मृतावस्थायामपि भावान्न प्राणाद्यभावोपपादकं स्यादित्यर्थः ।
विमताः, न देवदत्तदेहविशेषगुणाः , गुणत्वे सति देवदत्तेतरप्रत्यक्षत्वरहितत्वाद् , घटवदित्यनुमानमाह –
स्वपरप्रत्यक्षा हीति ।
यद्यपि घटादयः परप्रत्यक्षाः ; तथापि गुणत्वे सति न परप्रत्यक्षाः । तेषां गुणत्वाभावाद्विशेषणाभावेऽपि विशिष्टाभावादिति न साधनविकलता । देहगतगुरुत्वादौ पराप्रत्यक्षेऽनैकान्तिकत्वपरिहारार्थं प्रतिज्ञायां विशेषग्रहणम् । यथाश्रुतस्तु ग्रन्थो न घटत एव ; इच्छादयो न देहविशेषगुणाः स्वपराप्रत्यक्षत्वादित्युक्ते इच्छाद्यतिरिक्तस्वपराप्रत्यक्षपदार्थस्य परेषामसिद्धत्वेन दृष्टान्ताभावाद् , वैधर्म्यमात्रस्य च व्याप्तिरहितस्यासादकत्वादिति ।
यदुक्तं पूर्वपक्षिणा भूतेष्वयावद्भूतभाव्यपि चैतन्यं देहाकारपरिणतेषु स्यान्मदशक्तिवदिति , तदपि न सिद्ध्यति ; चैतन्यस्य भूतविशेषगुणत्वेन यावद्देहभावित्वानुमानवद्यावद्भूतभावित्वानुमानाद् , मदशक्तेश्च विशेषगुणत्वाभावेन दृष्टान्तवैधर्म्यादित्याह –
तत्र यद्यपीति ।
पराप्रत्यक्षत्वेन हि चेतन्यस्य भूतविशेषगुणत्वमनन्तरमेव प्रतिषिद्धं , तदभ्युपेत्याप्ययं वाद इति सूचनार्थं यद्यपीत्युक्तम् । मदशक्तेः किण्वादिषु अयावदाश्रयभावित्वमभ्युपेत्य दृष्टान्तवैषम्यमुक्तम् ।
इदानीं मदशक्तिवच्चैतन्यस्य परिणामधर्मत्वमभ्युपेत्याप्याह –
अपि च मदशक्तिरिति ।
मात्रया एकदेशेन । यथा विहङ्गमा हस्तमात्रमपि देशमतिपतितुमतिक्रमितुं नोत्सहन्ते , एवं नानाचेतनाधिष्ठितं शरीरमपि न किंचित्कर्तुमुत्सहेतेत्यर्थः ।
किमात्मकमिति भाष्ये प्रश्नो न क्रियते ; देहधर्मत्वेन चैतन्यस्य तन्मते प्रसिद्धत्वात् ; नाप्याक्षेपः ; देहधर्मत्वनिरासेन तस्यापि जातत्वादत आह –
दूषणान्तरमिति ।
पूर्वं हि देहभावेऽप्यभावान्न देहधर्मश्चैतन्यमित्युक्तम् , इदानीं देहधर्मस्य रूपादिवद्देहसाक्षित्वायोगाच्चैतन्यात्मकत्वमेवानुपपन्नमिति दूषणान्तरमभिधातुं प्रथमं तावल्लौकायतिकस्य भूतचतुष्टयातिरिक्तं चैतन्यं नास्तीत्याक्षेपः क्रियत इत्यर्थः ।
स एवेति ।
आक्षेप्तेत्यर्थः । देवदत्तचैतन्यं , न देवदत्तदेहधर्मः , तद्ग्राहकत्वाद् यज्ञदत्तचैतन्यवदित्यनुमानम् ।
कालातीतत्वं च देहधर्मग्राहिणोऽनुमानस्याह –
उपलब्धिग्राहिण एवेति ।
उपलब्धेरात्मत्वसिद्ध्यर्थं भेदो निराक्रियते । तत्रोपलब्धेर्भेदः स्वाभाविक औपाधिको वा ।
नाद्य इत्याह –
आजानत इति ।
स्वभावत इत्यर्थः ।
न द्वितीय इत्याह –
न चेति ।
अध्यासभाष्ये ह्युपलब्धिव्यतिरेकेण विषयाणां प्रकाशो न संभवतीत्युक्तम् । ततश्च विषया एव न सन्ति , कैरुपाधिभिरुपलब्धिर्भिद्येतेत्यर्थः ।
विषयाणां परस्परभेदाभावादपि न तदुपाधिक उपलब्धिभेद इत्याह –
न च विषयभेदग्राहि प्रमाणमस्तीति ।
उपलब्धिव्यतिरिक्तविषयस्य सद्भावे प्रमाणाभावाद्विषयस्वरूपं दुर्लभम् । विषयाणामन्योन्यभेदग्राहिप्रमाणाभावाद्भेदः सुदुर्लभ इत्यर्थः । ब्रह्मतत्त्वसमीक्षायां ब्रह्मसिद्धिटीकायाम् । प्रत्यक्षं वस्तुसत्तामेव बोधयति , न भेदं ; वित्तेः क्रमवद्व्यापारायोगात् । न च मानान्तराद्भेदसिद्धिः , प्रतियोगिभेदसिध्द्योः परस्पराश्रयत्वाद् , इत्याद्युक्तम् ।
ननु विषयाभावे उपलब्धेऽनुपलब्धृत्वमपि न स्यादित्याशङ्क्य उपलब्धेरिष्टप्रसङ्गतामाह –
तेनेति ।
भाष्येऽहमद्राक्षमित्यहङ्कारावच्छिन्नाया उपलब्धेः प्रत्यभिज्ञयैकत्वं समर्थ्यते , न शुद्धा इत्याह –
तत्राविद्यादशायामिति ।
ननु निश्चेष्टेऽपि देहे तस्मिन्सत्येव स्वप्ने उपलब्धिदर्शनादनुपयोगवर्णनं भाष्येऽनुपपन्नमित्याशङ्क्याह –
यो हीति ।
तस्मादित्यनन्तरमुक्तार्थोपसंहारो न क्रियते , तस्याव्यापकत्वादित्याह – प्रकृतमिति ॥५४॥
इति त्रिंशमैकात्म्याधिकरणम् ॥
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥
उद्गीथादीनां सर्वशाखास्वेकत्वात् कथमुपासनव्यवस्था शङ्क्यते ? अत आह –
स्वरादिति ।
उद्गीथादिश्रुतेर्बलीयस्त्वात्तस्याश्च सामान्यविषयत्वेन प्राकरणिकविशेषाकाङ्क्षत्वाच्च संशयमाह –
यस्मिन्निति ।
यथा शरीरात्मनोर्भेदादात्मधर्माणां शरीरे न संभवः , एवमेकशाखागतोद्गीथधर्माणां न भिन्नान्यशाखागतोद्गीथादौ प्राप्तिः , अथवा - विद्याचित एवेत्येवकारश्रुत्या मनश्चिदादीनां क्रियाप्रकरणं भग्नमत्र तद्गीथादिसामान्यश्रुतेः प्रकरणोपनीतविशेषाकाङ्क्षत्वेन बाधकत्वादुपास्तीनां व्यवस्थेति सङ्गतिद्वयमभिप्रेत्य पूर्वपक्षमाह –
ओमित्यादिना ।
ननु सामान्यश्रुतिबाधेन कथं सन्निधेः स्थानात् स्वशाखागतविशेष उपासननियम: ? इत्याशङ्क्याह –
न चैवमिति ।
उद्गीथमुपासीतेत्यत्रोद्गीथश्रुतेरुद्गीथसामान्यं वाच्यम् , उद्गीथव्यक्तिर्लक्ष्या ; स्वशाखागतोद्गीथव्यत्तयुपादाने च सामान्यस्य प्रतिव्यक्ति समाप्तेः सामान्यविशेषौ द्वावपि श्रुत्यर्थौ गृहीतौ , तत्र कथं श्रुतिबाध इत्यर्थः ।
श्रुतिसमर्पितमर्थं बाधेतेति ।
सन्निधिरिति शेषः । शाखान्तरीयस्वीकारेऽपि स्वशाखागतयोस्तयोः स्वीकरणादिति योजना ।
भट्टोक्तिमाह –
यथाहुरिति ।
पटं शुक्लमानयेतीह प्रयोगे पटपदेन श्रुतपटत्वजातिलक्षितां च शुक्लपटव्यक्तिं गृहीत्वा कृष्णादिपटव्यक्त्यन्तरं यदि मुञ्चामस्तत्र तदा का श्रुतिरस्माभिः पीड्यते ? न कापीत्यर्थः ॥ दृष्टान्ते पटमिति सामान्यश्रुतेः संकोचो न सन्निधिमात्रादपि तु शुक्लमिति सन्निहितविशेषश्रुतिबलेन । दार्ष्टान्तिके तूपासनविधावुद्गीथादिसन्निदिमात्रं , न तु स्वरादिभिन्नममुकमुद्गीथमुपासीतेति विशेषविषया श्रुतिर्विद्यते ।
इतश्च दुर्बलं सन्निधिमपबाध्य सामान्यश्रुत्या सर्वशाखासूपासनोपसंहार इति सिद्धान्तमाह –
युक्तमित्यादिना ।
ननु वाक्याच्छ्रुतेर्बलीयस्त्वाच्छुक्लश्रुतिबलाद्या काचिच्छ्रुक्लव्यक्तिः प्रतीयतां , पटशब्दाच्च पटमात्रं , किमिति सामान्यश्रुतेः संकोचस्तत्राह –
विशिष्टार्थप्रत्यायनेति ।
व्यवहारार्थं हि वाक्यप्रयोगः , व्यवहारश्च विशिष्टार्थविषयः , न पदार्थमात्रविषयः , तस्य नित्यत्वेन प्रवृत्त्ययोग्यत्वात् , अतो विशिष्टार्तप्रत्ययः पदप्रयोगस्य प्रयोजनम् इत्यर्थः ।
यद्येवं किमर्थं तर्हि पदैः पदार्थाः स्मार्यन्ते ? अत आह –
नच स्वार्थमिति ।
द्वारं पदार्थस्मारणं वाक्यार्थबोधनायेत्यर्थः ।
यदि स्वप्रयोजकं स्वोद्देश्यं वाक्यार्थप्रत्ययमपबाधेत पदार्थस्मरणं , तर्हि स्वयमेव न स्याद् , वैयर्थ्यप्रसङ्गादित्याह –
मा च बाधीति ।
मा बाधि चेत्यन्वयः । बाधितं च प्रसज्येत तच्च मा भूदयुक्तमित्यर्थः । तदेवमानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायेन वाक्यवशवर्तित्वमेवंविधस्थले श्रुतीनाम् । तत्र विशिष्टार्थप्रत्ययाय सन्निहितविशेषश्रुतिवशात् सामान्यश्रुतेः संकोच इत्युक्तं भवति ।
एवं दृष्टान्ते सामान्यश्रुतेः संकोचमुपपाद्य दार्ष्टान्तिके तदभावमाह –
इह त्वित्यादिना ।
अमुकमुद्ग्थमुपासीतेत्यश्रवणादुद्गीथमात्रविशिष्टोपासनकर्तव्यता वाक्यार्थः , स चोद्गीथपदेन सामान्यमात्रपर्यवसितेनापि कर्तुं शक्यत इति न श्रुतिसंकोच इत्यर्थः ।
अपबाधितुमर्हतीति ।
श्रुतिमिति शेषः । यदुक्तं सन्निहितव्यक्त्युपादनेऽपि न सामान्यश्रुतेः पीडेति , तत्राह – श्रुतिसामान्येति ॥५५॥ एकशाखाङ्गत्वस्योद्गीथोपासनस्यान्यशाखागतोद्गीथसंबन्धे सन्निधिविरोधमङ्गीकृत्य श्रुत्या सन्निधिबाध उक्तः , इदानीं विरोध एव नास्त्यन्यत्रापि दर्शनादित्याह – विरुद्धमितीति ॥५६॥ लोकेषु पृथिव्यादिषु लोकशब्दो लोकालोकेषु लाक्षणिकः । पृथिव्यादिदृष्ठ्या पञ्चविधं सामोपासीतेत्यर्थः । पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमिति । उक्थं कर्माङ्गभूतशस्त्रमिति यत्प्रजा वदन्ति । तदिदमेव येयं पृथिवीत्युक्ते पृथिवीदृष्टिविधिः प्रयाजो हेमन्तशिशिरस्योरेकीकरणेन पञ्चसंख्या ऋतव एव । ततश्चैकसवत्सरसंबन्ध्यृतुसामान्यात्समा न चैकत्र होतव्याः । छागादेर्होमार्थमनुवाक्यां पठ हे होतरित्यध्वर्युप्रैषः । यो जात एव बाल एवस्सन् प्रथमो गुणैः श्रेष्ठः मनस्वान् विवेकवान् स जनास इन्द्र इति शेषः । जनास इति हे जना इत्यर्थः ॥
इत्येकत्रिंशमङ्गावबद्धाधिकरणम् ॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥५७॥ सैव हि सत्यादय (ब्र.अ.३ पा.३ सू.३८) इत्यत्र तद्यत्तत्सत्यमिति तच्छब्देन प्रकृतपरामर्शाद् विद्यैक्यमुक्तम् । अत्र तद्वदभेदहेत्वभावादगतार्थत्वम् । पूर्वत्रोद्गीथादिश्रुत्या सन्निधिं बाधित्वोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहार उक्तः ।
एवमत्रापि व्यस्तोपासनस्य विधिश्रुतेः फलश्रुतेश्च समस्तोपासनसन्निधानप्राप्तस्तुत्यर्थत्वं बाधित्वा विधेयत्वमित्याह –
तत्र दिवमेवेति ।
उभयथाऽप्युपासनं कर्तव्यमिति शेषः ।
व्यस्तोपासनफलश्रवणस्य समस्तोपासनस्तुत्यर्थत्वेनान्यथासिद्धिमाशङ्क्याह –
न चेत्यादिना ।
न चेत्यस्यैवमत्रापि न च भवितुमर्हतीति वक्ष्यमाणेनान्वयः ॥
यथा वैश्वानरीयेष्टाविति ।
‘‘वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते’’ इत्युपक्रम्य ‘‘यदष्टाकपालो भवति ब्रह्मवर्चसेन पुत्रं पुनाती’’त्यादिना कपालविशेषेषु फलविशेषानाम्नाय ‘‘द्वादशकपालो भवति यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्वी’’त्यादि समामनन्ति । तत्र यद्यपि द्वादशत्वेऽष्टत्वादीनां वस्तुतोऽन्तर्भावः ; तथापि न परिच्छेदकत्वम् । तस्मादप्राप्तत्वाद्वैश्वानरेष्टावष्टाकपालत्वादिगुणविधानमिति प्रापय्य राद्धान्तितं प्रमाणलक्षणे । उत्पत्तिशिष्टाद्वादशत्वावरोधान्न प्रकृतकर्मण्यष्टत्वादिगुणविधिः । अपि च ‘‘पुत्रे जाते द्वादशकपाल’’मिति , तेनैकं वाक्यं द्वादशकपालविधिपरम् , अष्टत्वादीनि तु वस्तुतः प्राप्तान्यनूद्यन्ते स्तुत्यर्थमिति क्लृप्तविधस्तावकत्वेन वर्तमानापदेशानामेकवाक्यत्वे च संभवति न वाक्यभेदेन विधिकल्पनम् ।
तस्मादप्यष्टत्वादीना स्तुत्यर्थत्वमत्याह –
तत्र हीति ।
वैश्वानरेष्टौ हि द्वादशकपाले विधेः प्रत्यक्षत्वाद्यदष्टाकपालो भवतीत्यादीनां वर्तमानपदेशानां च तत्स्तुत्यर्थत्वं युक्तम् , वैश्वानरोपासने तु समस्ते व्यस्ते च विधेः कल्पनीयत्वादेवं कामशब्दस्य क्वाप्यश्रवणात्फलत्वकल्पनायाश्चाविशेषात्सर्वत्र विधिकल्पनमित्याह –
इह त्विति ।
तर्हि ‘‘मूर्धा ते व्यपतिष्यदि’’त्यादिव्यस्तोपासननिन्दा किमर्था ? अत आह –
निन्दायाश्चेति ।
येन हि यावज्जीवं समस्तोपासनं संकल्पपूर्वं कर्तुं प्रारब्धं तस्य तथाविधसमस्तोपासनप्रारम्भे सति व्यस्तोपासननिन्दोपपत्तिरित्यर्थः ।
अत्रोदाहरणमाह –
श्याम इति ।
‘‘श्यामः श्वा आहुतिमभ्यवहरति तस्य योऽनुदिते जुहोति , शबलः श्वा आहुतिमभ्यवहरति य उदिते जुहोति’’ इति उदिताऽनुदितहोमयोर्निन्दायामपि वाक्यान्तरेण तयोर्विहितत्वादुदितहोमप्रारम्भेऽनुदितहोमनिन्दा , एवमनुदितहोमप्रारम्भे तत्त्योगे च उदितहोमनिन्दा । तदाहाक्षपादः - अभ्युपेत्य कालभेदे दोषवचनादिति । कालभेदे कालान्यत्वकरणे इत्यर्थः ।
उपक्रमोपसंहारयोरेकविद्याविषयत्वेनैकवाक्यत्वावगमान्न व्यस्तोपासनविधिरिति सिद्धान्तयति –
समस्तोपासनस्यैवेत्यादिना ।
उपक्रममाह –
वैश्वानरविद्यानिर्णयायेति ।
व्यस्तोपास्त्यभिज्ञानामेव समस्तविषयजिज्ञासादर्शनादुपक्रमस्य समस्तोपास्तिपरत्वमित्यर्थः ।
उपसंहारमाह –
तत्र कैकेय इति ।
सुतं कण्डितं सोमद्रव्यम् । प्रसुतमासमन्तात्सुतत्वमवस्थाभेदः । सोमयागसंपत्तिस्तव कुले दृश्यत इति यावत् । सुतं सोमरूपं प्रसुतमभ्यस्तम् आसुतं विकृतिषु ॥५७॥
इति द्वात्रिंशं भूमज्यायस्त्वाधिकरणम् ॥
नाना शब्दादिभेदात् ॥५८॥
नन्विहैव विद्यानां भेदनिरूपणे प्राक् तदसिद्धेर्गुणोपसंहारचिन्तनमसंगतमित्याशङ्क्याह –
सिद्धं कृत्वेति ।
अधिकरणानारम्भमाशङ्कमानो रूपभेदाद् विद्याभेद इति सदृष्टान्तमाह –
ननु यथेत्यादिना ।
अपूर्वसाधनं पुरुषप्रवृत्तिरपूर्वभावना ।
धात्वर्थेनेति ।
यजेतेत्यादौ प्रत्ययार्थभूतभावनाया धात्वर्थेन यागादिना निरूप्यमाणत्वादित्यर्थः । कार्यरूपाणां साध्यरूपाणाम् । ब्रह्मणः सर्वत्रविद्यास्वभेदादित्यन्वयः । तत्र हेतुर्गुणानां गुणिनश्च ब्रह्मणः सिद्धत्वात् । दुश्च्यवनधर्मा इन्द्रसमानधर्म । यदि वस्तुनिष्ठान्युपासनानि , तर्हि त्वदुक्तमेव दूषणं भवेन्न तु वस्तुनिष्ठानीति शेषः । तद्विषयां वस्तुविषयाम् । उपासनाभावनां उपासनानुष्ठानम् ।
उपासकप्रवृत्तेरुपासनाधीननिरूपणत्वेऽप्यभेदमाशङ्कते –
यद्यपि चेति ।
अस्येश्वरादेः कस्यचिदपि षोडशकलादेः कदाचित्तत्तदुपास्तिसमये केनचित्सत्यकामत्वादिसंयद्वामत्वादिना च रूपेणोपासनविषयभाव इत्यर्थः ।
ननु सत्यकामत्वादिगुणानामुपास्यत्वेन कार्यरूपत्वाच्चकोरेक्षणत्वादिभ्यो वैषम्येऽपि न विद्याभेदकत्वम् ; गुणिन एकत्वाद् , गुणानां चोपसर्जनत्वादत आह –
न च तत्तद्गुणतयेति ।
तृतीयेयमित्थंभावे । तत्तद्गुणवत्त्वरूपेण यान्युपासनानि विहितानि तानि गुणभेदाद् न भिद्यन्ते इति न, अपि तु भिद्यन्त एव ; छत्रचामरादिगुणभेदेन राजोपास्तीनां भेददर्शनादित्यर्थः ।
ननु गुणभेदेऽपि कर्मैक्यवदुपासनैक्यं किं न स्यादत आह –
न चाग्निहोत्रमिवेति ।
इवकारो दृष्टान्ते धर्म्यर्थो , वत्कारो गुणार्थः । अग्निहोत्रे दध्यादिदशद्रव्याणामुत्पन्नशिष्टत्वान्न कर्मभेदकत्वमुपास्तीनां तूत्पत्तिशिष्टगुणभेदाद्भेदः , आमिक्षावाजिनभेदादिव कर्मभेद इत्यर्थः ।
अशक्तेश्च न सर्वोपासनैक्यमित्याह –
न च समस्तेति ।
केचित्खलु गुणा इति । सत्यकामत्वादया दहरविद्यायां शाण्डिल्यविद्यायां च समा इति । एवंरूपभेदात्तदनुरक्तोपासनावच्छिन्ना भावनाभिधायिशब्दभेदाद् गुणानां पौनरुत्तयादशक्तेश्च विद्याभेदो दर्शितः । अन्यदपि पूर्णामसंवर्तिनीं श्रियं लभते सर्वेष्वात्मस्वन्नमत्तीत्यादिफलभेदादिक द्रष्टव्यम् । तदुक्तं सूत्रे –शब्दादिभेदादिति ॥५८॥
इति त्रयस्त्रिंशं शब्दादिभेदाधिकरणम् ॥
विकल्पोऽविशिष्टफलत्वात् ॥५९॥ विद्याभेदादिचिन्तानन्तरम् अहंग्रहपतीकाङ्गावबद्धोपास्तीनामनुष्ठानप्रकारोऽधिकरणत्रयेण निरूप्यते ।
अहंग्रहोपास्तीनां यथाकाममनुष्ठानमिति पूर्वपक्षयिष्यन् समुच्चयनियमेन किमिति न पूर्वपक्षः क्रियते ? भिन्नाधिकाराणामपि दर्शादीनां समुच्चयनियमदर्शनादित्याशङ्कते तावत् –
अग्निहोत्रेति ।
पृथगधिकारणामपि समुच्चयो नियमवान् दृष्टः , यथाऽग्निहोत्रदर्शादेरित्यर्थः ।
परिहरति –
तेषां नित्यत्वादित्यादिना ।
यस्याद्धा साक्षात्स्यादुपास्यं न च विचिकित्सा संशयोऽस्ति प्राप्नुयाम् अहं फलं न वेति । तस्य ब्रह्मप्राप्तिर्भवेदित्यर्थः । साक्षात्कारेण अहंग्रहोपास्यदेवो भूत्वा देवानप्येति प्राप्नोति ॥५९॥
इति चतुस्त्रिंशं विकल्पाधिकरणम् ॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६०॥
प्रतीकोपास्तीनामुपास्तित्वादहंग्रहोपास्तिवद्विकल्पनियममाशङ्क्याहंग्रहासु साक्षात्कारसाधनत्वमुपाधिमाह –
यास्त्विति ।
यो वायुं दिशां वत्सं वेद स नित्यमवियुक्तवत्सोपासनान्न पुत्ररोदं पुत्रनिमित्तरोदनं करोति जीवत्पुत्रो भवतीत्यर्थः ॥६०॥
इति पञ्चत्रिंशं काम्याधिकरणम् ॥
अङ्गेषु यथाश्रयभावः ॥६१॥
ननु तन्निर्धारणानियम (व्या.सू.अ.३ पा.३ सू.४२) इत्यत्राङ्गावबद्धोपासनानां पृथक् फलत्वादनित्यत्वमुक्तं , तत्कथमिदानीमाश्रयवन्नित्यतया शङ्क्यते ? अत आह –
उपासनास्वित्यादिना ।
नन्वङ्गं प्रयुङ्क्ते प्रयोगविधिः , काम्यफलसाधनत्वे चोपास्तीनामनङ्गत्वात् कथं तासां प्रयोगवचनपरिग्रहस्तत्राह –
यद्यपि काम्य इति ।
तत्तत्फलोद्देशेनेति ।
काम्यमानफलोद्देशेनेत्यर्थः ।
ननु क्रत्वर्थाश्रिता उपासनाः फले विधीयन्ते , एतावता कथं तासां समुच्चयसिद्धिरत आह –
एवं चेति ।
साङ्गं प्रधानं युगपत्कर्तव्यमित्याश्रयाणां क्रत्वङ्गानां समुच्चयनियमः प्रयोगवचनेन कृतः । तन्नियमेनाश्रितानामप्युपासनानां समुच्चयनियमो युक्तः । कुतः ? आश्रयतन्त्रत्वादाश्रितानामिति योजना ।
ननु फलकामनायां सत्यामुपासना अनुष्ठीयन्ते , कथमासां क्रत्वङ्गैः सह नित्यं समुच्चित्यानुष्ठानम् ? नित्याऽनित्यसंयोगविरोधाद् , अत आह –
स च प्रयोगवचन इति ।
उपास्तीनां क्रत्वङ्गसमुच्चयसिद्ध्यर्थं फलकामना अपि प्रयोगविधिरेवानुष्ठापयतीत्यर्थः । कामनाया अविधेयत्वान्न प्रयोगविधिप्रयोज्यत्वमिति वक्ष्यमाणमभिप्रेत्य मन्वानस्येत्युक्तम् ।
प्रयोगविधिः फलकामनानामवश्यं भावमाक्षिपतीत्येतद्दूषयति –
यथाविहितेति ।
यः पदार्थो यथा विहितः यश्च पदार्थो यथोद्दिष्टः सिद्धवद्गृहीतः तदनुरोधी प्रयोगवचनो न पदार्थस्वभावं नित्यत्वादिकमन्यथा करोति , कित्वन्यतः प्रमितपदार्थस्वभावमनुसरतीत्यर्थः ।
ततः किं जातमत आह –
तत्रेति ।
क्रत्वर्थानामुद्गीथादीनां यथाऽन्यन्नित्यं फलं परामर्शमन्तरेणाम्नायते , तद्वदाम्नानादित्यर्थः ।
ननु विश्वजिदादौ फलाश्रवणेऽपि फलं कल्प्यते , तद्वदिह किं न स्यादत आह –
तथाभावस्य चेति ।
फलवत्संनिधावाम्नातत्वेन फलकल्पनानुपपत्तेस्थथाभावस्य संभवादेतानुद्गीथादीन्नियमेन समुच्चिनोतु प्रयोगवचन इत्यर्थः । ननु विध्युपाधित्वादुद्देशोऽपि समुच्चयेन प्रवर्ततां ।
नेत्याह –
मानान्तरानुसारीति ।
सिद्धवद्ब्रह्मणं ह्युद्देशस्य लक्षणं , मानान्तराप्रमितावुद्देश्यत्वव्याघात इत्यर्थः ।
उपसंहरति –
तस्मात्कामानामिति ।
सत्यप्युपासनाश्रयाणां नित्यत्वे उपासनानां कामावबद्धानामनित्यत्वमिति प्रतिज्ञा । अस्यां हेतुः - नित्यानित्यसंयोगविरोधादिति । उद्गीथादीनां हि नित्यः क्रतुसंयोगः , उपासनानामनित्यः फलसंयोगः । एतौ चेतरेतरविरुद्धौ , उद्गीथादीनां च नित्यत्वानित्यत्वे इतरेतरविरुद्धौ धर्मावापादयत इत्यर्थः ।
नन्वाश्रयतन्त्रत्वादाश्रितोपासननित्यत्वमुक्तं , ततश्च समुच्चयनियमे उपास्तीनां प्रयोगविध्याक्षिप्ते तदर्थं कामानां नित्यत्वमप्याक्षेप्यमिति , तत्राह –
इदमेव चेति ।
यथा धूमस्याग्नितन्त्रत्वेऽपि न यावदग्न्यनुवृत्तिः , किंतु सत्येवाग्नौ भवनमेवं सत्येवाश्रये भवनं तत्तन्त्रता , इतश्चानित्यानामप्याश्रयतन्त्रत्वोपपत्तेर्न तत्सिद्ध्यर्थं कामानां नित्यत्वं प्रयोगविधिनाऽऽक्षेप्यमित्यर्थः ॥६१॥६२॥
एवमधिकरणस्यार्थमुक्त्वा ग्रन्थसंयोजनां करोति –
अपिर्भिन्नक्रम इत्यादिना ।
भिन्नक्रमत्वमभिनयेन दर्शयति –
दुरुद्गीथमपीति ।
एवं हि योजिते यथा प्रशंसाधिक्यं लभ्यते , न तथा होतृषदनादपीति योजित इति वेदान्तरोदितं प्रणवः स्ववेदे चोद्गीथं तयोरेकत्वज्ञानमथ खलु य उद्गीथः स प्रणवः यः प्रणवः स उद्गीथः इत्युपासनं , तत्सामर्थ्यादुद्गाता स्वकर्मण्यद्गातृवत्क्षतं स्वरादिप्रमादरूपं जातं , तद्धोतृकृतसम्यक् शस्त्रशंसनं हेतुं कृत्वा समादधाति ऋग्वेदादिव्यापिनः प्रणवस्य स्ववेदगतोद्गीथस्य चैकत्वस्य तेन चिन्तितत्वादित्येतमर्थं होतृषदनाद्धैवापीत्यादिश्रुतेर्दर्शयति –
वेदान्तरोदितेत्यादिना ।
दुरुद्गीथमेव व्याचष्टे वेदान्तरोदिते चेति । ऋग्वेदापेक्षया सामवेदो वेदान्तरम् ।
एवं वाक्यं योजयित्वा तस्मिन् समुच्चयलिङ्गदर्शनत्वघटकं भाष्यमवतारयति –
एवं ब्रुवन्निति ।
अन्वयमुखेनेति ।
आश्रयसाधारण्ये आश्रितसाधारण्यमन्वयः , स आश्रयसाधारण्याभावे आश्रितसाधारण्याभावरूपव्यतिरेकव्याख्यया भाष्ये दृढीकृत इत्यर्थः । चमसं चोन्नीयोद्धृत्य स्तोत्रकरणार्थमुपाकरोति प्रैषति ।
एवं विदिति ।
ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिज्ञत्वं ब्रह्मण एवंवित्त्वम् ॥६३॥६४॥६५॥६६॥
इति षट्त्रिंशं यथाश्रयभावाधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकामलानन्दविरचिते वेदान्तकल्पतरौ तृतीयाध्यायस्य तृतीयः पादः ॥
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥१॥ पूर्वं परापरब्रह्मविद्यानां गुणोपसंहारनिरूपणेन परिमाणमवधारितम्, इह तासां कर्मनिरपेक्षाणामेव पुरुषार्थसाधनत्वं निरूप्यते । तत्र कर्मानपेक्षाणाममूषां का नु नामेतिकर्तव्यता, न हि तामन्तरेण करणत्वम्, इत्याकाङ्क्षायां यज्ञादयः शमादयः श्रवणादयश्च विद्योत्पत्त्युपयोगिन्य इतिकर्तव्यताश्च निरूप्यन्ते ।
ननु फलभेदाभेदावन्तरेण न विद्याभेदाभेदौ, न च तावन्तरेण गुणोपसंहारानुपसंहारौ, ततः प्रागेव विद्यानां पुरुषार्थसाधनत्वस्य सिद्धत्वात् किं पुनरारम्भेणात आह –
स्थितं कृत्वेति ।
फलभेदेन हि विद्याभेदम् उपपाद्य तदसिद्धिशङ्कायां स उपपादनीय इत्यर्थः । अत एव सङ्गतिश्चापरा दर्शिता ।औपनिषदात्मज्ञानस्याक्रत्वर्थत्वे पूर्वपक्षसिद्धान्तयोः फले उक्ते ते तूपलक्षणे । उपासनावाक्यानां पूर्वपक्षे कर्मापेक्षितकर्तृस्तावकत्वं सिद्धान्ते तु सगुणैश्वर्यफलोपासनाविधायकत्वमित्यपि द्रष्टव्यम् ।
ननूपनिषत्सु कर्तृभोक्तृत्वातिरिक्तमपि ब्रह्मात्मत्वमात्मन उपदिश्यते, तद्विषयज्ञानस्य कथं कर्मोपयोगस्तत्राह –
यदा चेत्यादिना ।
यावन्मात्रं क्रत्वपेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं चेत्यस्यातो नित्यत्वमपीत्यनेन संबोध्यमानस्य तावन्मात्रमुपनिषत्सु विवक्षितमित्युपरितनेनान्वयः ।
ननु कर्तृत्वभोक्तृत्वे देहस्यापि घटेते, अतो न नित्यत्वापेक्षा, नतरां देहव्यतिरिक्तात्मज्ञानापेक्षाऽत आह –
न चैतदिति ।
केषांचित्पूर्वपक्षशङ्काबीजानाम्, इत्युक्तं, तान्येवाह –
तत्र यद्यपीत्यादिना ।
तत्र सिद्धान्ती यद्वदति न प्रकरणादात्मज्ञानं कर्माङ्गमिति, तदनुवदति –
प्रोक्षणादिवदिति ।
यच्च न वाक्यादात्मज्ञानं क्रत्वङ्गमिति वदति; तदप्यनुवदति –
यद्यपि च कर्तृमात्रमिति ।
येन कर्तृमात्रेणात्मज्ञानमव्यभिचरितक्रतुसंबन्धजुहूद्वारेण पर्णतावद्वाक्येनेव क्रतुसंबन्धमापद्येत, तत्कर्तृमात्रं नाव्यभिचरितक्रतुसंबन्धमिति योजना ।
एवं सिद्धान्त्यभिप्रायमनूद्य पूर्ववादी दूषयति –
तथापीति ।
देहातिरिक्तस्यात्मनो वैदिकैः कर्मभिरव्यभिचारसिद्ध्यर्थं लौकिककर्मस्वनुपयोगमाह –
न तादृशस्येति ।
वैदिकैः कर्मभिस्तस्य हेतुत्वेन सबन्धमाह –
आमुष्मिकफलानां त्विति ।
यथा धूमोऽग्निमव्यभिचारादनुस्मारयति, एवमौपनिषदः पुरुषोऽपि कर्मभिरव्यभिचारात्तान्यनुसारयन् वर्तत इत्यर्थः ।यद्यपि हेतौ सति कार्यं भवत्येवेति न व्याप्तिः; तथापि व्यतिरिक्त आत्मनि ज्ञाते पारलौकिकसाधनेच्छादिरूपा काऽपि प्रवृत्तिर्भवत्येवेति ।
व्याप्यव्यतिरेकविज्ञानमनुस्मारितेषु च देहातिरिक्तात्मनां कर्मस्वात्मा द्रष्टव्य इति वाक्येनात्मज्ञानं क्रतुशेषत्वं नीयत इत्याह –
वाक्येनैवेति ।
ननु फलवतो ज्ञानस्य कथं क्रत्वर्थत्वमत आह –
अर्थवाद इति ।
आत्मज्ञानफलश्रुतिर्न फलपरा परार्थफलश्रुतित्वाद् अञ्जनादिफलश्रुतिवदित्यनुमानम् ।
अदृष्टद्वारेणात्मज्ञानस्य कर्माङ्गत्वमाह –
औपनिषदात्मज्ञानेति ।
आचाराद्यन्यार्थदर्शनं प्रापकसापेक्षत्वान्न स्वतन्त्रमित्याह –
एतदुपोद्बलनार्थमिति ।
तच्छ्रुतेरित्यादीनि सूत्राणि लिङ्गपराणि व्याचष्टे –
न केवलमित्यादिना ।
विद्यायाः कर्मभिः सह कर्त्रनुगमस्य समप्राधान्येऽपि संभवात् प्रकृतकर्मशेषत्वप्रतिज्ञया सहासंगतिमाशङ्क्याह –
तच्च यद्यपीति ।
उक्तया युक्तयेति ।
आत्मज्ञानस्य दृष्टाऽदृष्टद्वारेण कर्मसूपयोगेनेत्यर्थः ।
शुद्धबुद्धाद्येव वेदान्तप्रतिपाद्यं, न कर्तृत्वादीत्यत्र विनिगमकमाह –
अनधिगतार्थेति ।
शब्दस्य प्रमाणान्तरसिद्धानुवादेनानधिगतार्थबोधनस्वरसता हि प्रसिद्धेति योजना ।
परार्थे फलश्रुतित्वादिति पूर्वोक्तहेतोर्विशेषणासिद्धिमाह –
तथा चौपनिषदात्मज्ञानस्येति ।
तदव्यभिचारस्तु ततश्च क्रतुशेषतेति यदेतत्पुनः, किमङ्ग स्याद्? न स्यादेवेत्यर्थः ।
यदि परमात्मतत्त्वमेवोपनिषदामर्थः, तर्हि प्रियादिसंसूचितजीवस्य द्रष्टव्यत्वं किमित्युपदिश्यते? अत आह –
अत एवेति ।
भोक्तृर्द्रष्टृत्वव्यपदेशेनासंसारिब्रह्मणा दर्शनार्हेण तस्यात्यन्ताभेदः प्रतिपाद्यते, तथा च व्याख्यातमवस्थितेरिति काशकृत्स्न(ब्र.सु.अ १ पा.४ सू.२२) इत्यत्र ॥८॥ एवं तावद् - ब्रह्मज्ञानं न कर्माङ्गं फलवत्त्वात् ज्योतिष्टोमवदिति प्रतिपाद्यवाक्यकृतकर्मसंबन्धो वारितः, आचारादिलिङ्गदर्शनानां प्रतिलिङ्गमुपन्यस्तम् ।
तुल्यं तु दर्शनमिति, तत्र तु शब्देनाकर्माङ्गत्वलिङ्गदर्शनस्य प्राबल्यं विशेष उक्तस्तद्दर्शयति –
तत्र कर्माङ्गत्वेति ।
अन्यथासिद्धिरुक्तेति ।
यक्षमाणो ह वै भगवन्तोऽहमस्मि इत्येतल्लिङ्गदर्शनं वैश्वानरविद्याविषयमित्यादिभाष्येणेति शेषः ।
‘‘यदेव विद्यया करोती’’ति श्रुत्या विद्यायाः कर्माङ्गत्वमाशङ्कितं पूर्वपक्षे, तस्या अप्युद्गीथविद्याविषयत्वेनान्यथासिद्धिरुक्ता असार्वत्रिकीति सूत्रेण, तत्रास्याः श्रुतेः सर्वविषयत्वशङ्कां परोक्तां परिहरति –
व्याप्तिरपीति ।
असंसार्यात्मप्रतिपादनस्य सूत्रद्वयेऽप्यविशेषात्पुनरुक्तिमाशङ्क्याह – अधिकोपदेशादित्यनेनेति ॥ वैदेहो विदेहदेशानां राजा बहुदक्षिणेन विश्वजिदादिना ईजे इष्टवान् । हे भगवन्तो यक्ष्यमाणो यागं करिष्यन् अस्मि तं द्रष्टुं वसन्तु भगवन्त इति वैश्वानरविद्यां ग्रहीतुमागतानुद्दालकादीन् प्रति अश्वपतिराजवचनम् । गुरोः कर्मातिशेषेण गुरुशुश्रूषावशिष्टेन कालेन यथाविधि वेदमधीत्याचार्यकुलादभिसमावृत्य कुटुम्बे गार्हस्थ्ये तिष्ठन् वेदमधीयानो ब्रह्मलोकमाप्नोतीति शेषः । शतं समाः यावदायुर्जिजीविषेत् जीवितुमिच्छेत्, तत्कुर्वन्नेव कर्माणि वर्तेत । एवं वर्तमाने त्वयि नरे नराभिमानिनि अज्ञे कर्माशुभं न लिप्यते कर्मणा त्वं न लिप्यस इत्यर्थः । इतः प्रकारादन्यथा प्रकारान्तरं नास्ति यतो न कर्मलेपः स्यादित्यर्थः । येषां नायमपरोक्ष आत्मा अयं लोकः प्रत्यक्षफलं ते वयं किं प्रजया करिष्याम इति निश्चित्याग्निहोत्रं न जुहवांचक्रुरित्यर्थः ॥९॥१०॥११॥१२॥१३॥१४॥१५॥१६॥१७॥
इति प्रथमं पुरुषार्थाधिकरणम् ॥
परामर्शं जैमिनिरचोदना चापवदति हि ॥१८॥
पूर्वाधिकरणावान्तरसूत्रेणाक्षेपलक्षणा सङ्गतिमाह –
सिद्ध इति ।
अपि चापवदति हीति भाष्यव्याख्यानार्थो निन्दोपन्यासः । पूर्वं तु निन्दति हि प्रत्यक्षा श्रुतिरित्यादिः सूत्रव्याख्यानार्थ इति भेदः ॥१८॥
भवत्वन्यार्थ इति ।
‘‘ॐ कार एवेदं सर्वम्’’ इति प्रणवाख्यस्य ब्रह्मणः प्रस्तुतत्वात् तत्संस्थत्वप्रशंसार्थो भवतु नाम ‘‘त्रयो धर्मस्कन्धा’’ इत्यादिः परामर्श इत्यर्थः ॥२८॥
निवीतमिति ।
एतज्ज्योतिर्दर्शना (ब्र.अ.१ पा.३ सू.४०) दित्यत्रानुक्रान्तम् ॥ एवं तावदनुवादत्वमङ्गीकृत्यानुवादसामर्थ्याच्छास्त्रान्तरं परिकल्प्य तस्मादाश्रमान्तरप्रमितिरुपपादिता ॥१९॥
इदानीं नानुवादत्वं किं तर्हि? अपूर्वार्थप्रतीतेरत्रैव वाक्ये विधिः कल्प्यते इत्याह भगवान्सूत्रकारः –
विधिर्वेति ।
तत्र वाक्यभेदप्रसङ्गात्तदनुपपत्तिमाशङ्क्याह –
यद्यपीत्यादिना ।
विधेयार्थैक्ये ह्यानुवादस्य विधिस्तुत्यर्थत्वेनैकवाक्यत्वम्, अत्रत्वप्राप्तार्थद्वयप्रतिभानाद्विधेयभेदे सति नैकवाक्यत्वसंभव इत्यर्थः । अधस्तादित्यादि महापितृयज्ञे दिष्टगताग्निहोत्रे च श्रूयते । तत्रो’’परि हि देवेभ्यो धारयती’’त्येषोऽनुवादः, वर्तमानापदेशात्, हिशब्दाच्च । आचाराच्चोपरि समिधः प्राप्तर्हविषो ह्यभ्यर्हितद्रव्यत्वात् प्रच्छादनं येनकेनचित्प्राप्नोति । तत्र स्रुग्दण्डे समिधमुपसंगृह्यानुद्रवतीति वाक्यान्तरप्राप्ता समिन्नियम्यते । तस्मादनुवाद इति प्राप्ते – न समिद्धविःप्रच्छादने क्षमेत्यप्राप्ता, स्रुग्दण्डे इति च हविषः प्राग्देशे धारणं प्राप्तं न हविष उपरि । तस्मादप्राप्तेर्भङ्क्त्वा हिशब्दं पञ्चमलकारस्वीकारेण च विधिरिति शेषलक्षणे सिद्धान्तितम् । एवं तावच्चतुर्णामाश्रमाणामिहानुवादः ।
तस्मात्सामर्थ्यादन्यत्र विधिरिहैव विधिरिति पक्षद्वयमुक्त्वेदानीं वाक्यान्तरप्राप्ताश्रमान्तराणामनुवादेन ब्रह्मसंस्थता स्तूयते, स्तुतिसामर्थ्याच्च सैव विधीयत इति पक्षान्तरमाह –
संप्रतीति ।
ब्रह्मसंस्थताविधावपि न पारिव्राज्यसिद्धिः; त्रयाणामपि गृहस्थादीनां ब्रह्मसंस्थत्वसंभवादिति प्रकृतासंगतिमाशङ्क्याह –
अत्रावान्तरेति ।
समधिकशौचं चतुर्गुणम् । अष्टानां ग्रासानां समूहोऽष्टग्रासी ।
ननु भवतु यौगिकं ब्रह्मसंस्थपदं, योगस्तु परिव्राज्येवेत्याशङ्क्याह –
न च गृहस्थादेरिति ।
स्यादेतत् - त्रयो धर्मस्कन्धा इत्युपक्रमात् ‘‘सर्व एव’’ इत्यत्र त एव त्रय एतच्छब्देन परामृश्यन्ते ।
तत्र तपःशब्देन परिव्राजकस्यापि ग्रहणे चत्वार आश्रमा मध्ये उक्ता इति त्रित्वेनोपक्रमस्तत्परामर्शश्च न घटेत अत आह –
तपसा चेति ।
नन्वेते पुण्यलोका इति पुण्यभाजां बहुवचनेन निर्देशाद् ब्रह्मसंस्थोऽमृतत्वमेतीति अमृतत्वभाज एकवचनेन निर्देशात् त्रय आश्रमिणः पुण्यलोकभाजश्चतुर्थ आश्रमी ब्रह्मसंस्थ इति गम्यते, तत्कथं चतुर्णां ब्रह्मसंस्थत्वमत आह –
एते च त्रय इति ।
परिव्राजोऽपि वनस्थेऽन्तर्भावमुक्तमभिप्रेत्य त्रय इति निर्देशः ।
ननु पुण्यलोकभाजामेवामृतत्वभाक्त्वं विरुद्धमित्याशङ्क्याह –
न च येषामिति ।
ब्रह्मणि संस्था निष्ठाऽस्येतीह समासः सर्वनामार्थे वर्तते, सर्वनाम च प्रकृतग्राहीति प्रकृतः सर्व एव ब्रह्मसंस्थोऽस्मत्पक्षे लभ्यते । तव त्वप्रकृतः परिव्राट् ब्रह्मसंस्थः तथा च समासान्तर्वर्तिसर्वनामश्रुतिविरोध इत्यर्थः ।
यथाग्नेय्येति ।
ज्योतिष्टोमे प्रथममाग्नेयादयो मन्त्रा ‘‘अग्न आयाहि वीतये’’ इत्येवमादयो विशेषत आम्नाताः, स्तोत्रादिसाधनत्वेन विनियुक्ताश्च । पुनरा ‘‘ग्नेय्याग्नीध्नमुपतिष्ठते’’ इति सामान्येनाग्नेयीमात्रमाग्नीध्नोपस्थाने विनियुज्यते । तत्र संशयः - किमप्रकृतैवाग्नेयी विनियुज्यते, उताविशेषेण या काचिदग्निलिङ्गवती प्रकृताऽप्रकृता च, उत प्रकृतैवेति ।
तत्राग्नेय्येति श्रुतेरविशेषात् सर्वाग्नेयी विनियुज्यतेऽथ वा विनियुक्तविनियोगानुपपत्तेरप्रकृतेवेति पूर्वपक्षमाशङ्क्य शेषलक्षणे स्थितं सिद्धान्तमाह –
प्रकृतैवेति ।
अप्रकृताग्नेयीग्रहणे हि तस्या ज्योतिष्टोमेन सामान्यसबन्ध आग्नीध्नेण विशेषसंबन्धश्च विधातव्यः प्रकृतग्रहणे तु तस्या आग्नेय्याः क्रतुना सामान्यसंबन्धसिद्धेर्विशेषसंबन्धमात्रविधाने लाघवं स्यादित्यर्थः ।
आद्यं पूर्वपक्षं निषेधयति –
न च विनियुक्तेति ।
यद्यपि स्तोत्राद्यर्थमाग्नेयी प्रकृता; तथापि न तस्याः पारार्थ्यमनेन विनियोगेन गृह्यते, अनपेक्षितत्वात् । आग्नेयीस्वरूपमात्रं त्वपेक्षितत्वाद् गृह्यते । यदि पुनराग्नेय्यनेनैव वाक्येनोद्दिश्य विधीयते, तदाऽसौ परार्थत्वेनैव प्रतीता तथैवोद्दिश्यमाना, अन्यत्र च विनियुज्यमाना विनियुक्तविनियोगविरोधमावहेत्, न त्वेवम्; विधीयमानत्वादस्या इत्यर्थः ।
यत्तूक्तं सामान्यश्रुतिविरोध इति, तत्राह –
तावता चेति ।
आग्नेयीशब्दस्य यौगिकत्वात् सन्निहितव्यक्तिपरत्वमेव । अग्निदेवताकत्वलक्षणो हि योगो व्यक्तावेव घटते, न सामान्यमात्रे; तद्धितान्तर्वर्त्यस्याशब्दस्य सन्निहितवचनत्वादित्यर्थः ।
ननु व्यक्त्यपेक्षत्वेऽप्याग्नेयीशब्दस्य न प्रकृतव्यक्तिर्ग्रहीतुं शक्यतेन्यार्थप्रयुक्तत्वेन गतरसत्वादत आह –
न च यातयामतयेति ।
वाचःस्तोमः क्रतुविशेषः । तत्र ‘‘सर्वा ऋचः सर्वाणि सामानि सर्वाणि यंजूषि वाचःस्तोमे परिप्लवं शंसन्ती’’ति विनियोगेऽपि मन्त्राणां प्राप्तात्मिकार्थेषु विनियोगवदिहापि स्यादित्यर्थः । परिप्लुत्य परिप्लुत्य यदृच्छया मन्त्राणां शंसनं परिप्लवः ।
आग्नेयीन्यायं प्रकृते योजयति –
तथेहापीति ।
इह हि वाक्ये उपक्रमे यज्ञोऽध्ययनं दानमिति गृहस्थानामसाधारणधर्मो निर्दिष्टस्तप इति वनस्थानाम् आचार्यकुलवास इति ब्रह्मचारिणां तथा सत्युपसंहारेऽपि ब्रह्मसंस्थत्वेनैव साधारणधर्मेण यतीनां ग्रहणं युक्तं, न तपसा तस्य गतिष्वसाधारणत्वाभावादित्याह –
यथोपक्रान्तमिति ।
यथोपक्रान्तमित्याद्युचितमित्यन्तं संग्रहवाक्यम् ।
अपि च तप:शब्देन परिव्राजकग्रहणे त्रय इति चत्वार आश्रमा निर्देष्टव्याः, चतुष्ट्वावच्छिन्नेषु न तेषु त्रित्वमयुक्तमित्याह –
यत्संख्याकाश्चेति ।
इदमप्युचितमित्यन्तं संग्रहवाक्यमेव ।
आद्यं संग्रहं व्यतिरेकमुखेन विवृणोति –
असाधारणेत्यादिना ।
असाधारणेन यज्ञादिना उपक्रमः, साधारणेन तपसा चोपसंहारः । तावेतौ न श्लिष्यते न सङ्गच्छेते इत्यर्थः ।
तपसः संन्यासिवनस्थयोः साधारणत्वमङ्गीकृत्य दूषणमुक्तम्, इदानीं साधारण्यमेव नास्ति; तस्य वनस्थासाधारणत्वात्, तथा च तपसा परिव्राजकस्य ग्रहणं नैव प्राप्नोतीत्याह –
न च तपो नामेति ।
ग्रीष्मे पञ्चाग्निमध्यावस्थानादि हि तपो नाष्टग्रासनियमादि । तथा सति द्वात्रिंशद्भासादिनियमेन गृहस्थादेरपि तपस्वित्वप्रसङ्गादित्यर्थः ।
यच्चोक्त समधिकशौचं तप इति, तत्राधिकमप्याह –
न च शौचेति ।
एवमाद्यं संग्रहं विभज्य द्वितीयं विभजते –
सिद्धसंख्याभेदेष्विति ।
अवस्थाविशेषापेक्षयैकस्यैव पुण्यलोकामृतत्वप्राप्तिव्यपदेशभेदस्य पूर्वपक्ष उपपादितत्वाद् भाष्यायोगमाशङ्क्याह –
त्रय एत इतीत्यादिना ।
त्रय इत्येते इति च पदे तावत्समानाधिकरणे । ततश्च ये त्रय इत्युक्तास्त एवैत इति पराम्रष्टव्याः । तत्र त्रय इति भिक्षुं विहाय यदि गृहस्थादय उच्यन्त , तदा वक्तव्यं तपःशब्देन भक्तिर्गृह्यते वा, न वेति । यदि तु गृह्येत ततस्तापसेन भिक्षुणा सह सर्वेषामेत इति शब्देन प्रकृतपरामृष्टत्वादेतच्छब्दसमानार्थवृत्तिना त्रय इति शब्देन भिक्षुवर्जं त्रयो वक्तुमशक्या इत्यर्थः ।
अथ तपःशब्देन भिक्षुः संगृह्यते, त्रय इति शब्देन च भिक्षुसहिता निर्देश्यन्ते, तत्राह –
भिक्षुसंग्रहे चेति ।
तदा ह्येतच्छब्दपरामृष्टानां त्रयाणां पुण्यलोकभाक्त्वाभिधानाद् भिक्षोरपि पुण्यलोकभाक्त्वं स्यात्, तच्चायुक्तम्; तस्य ब्रह्मसंस्थत्वनियमादित्यर्थः ।
अथ ब्रह्मसंस्थस्यैव पुण्यलोकभाक्त्वमपि स्यात्तत्राह –
तेन तस्यैवेति ।
वाक्यवैरूप्यमाह –
त्रिषु चेति ।
गृहस्थादीनामनित्यत्वाद् ब्रह्मसंस्थायाः, सदा ब्रह्मसंस्थोऽमृतत्वमेतीति योजनीयम् । एवं वाक्यवैरूप्यमित्यर्थः । एवं च भाष्यमपि साध्याहारे योजने उक्तदोषं हृदि कृत्वा यथाश्रुतार्थोपपादने फलभेदव्यपदेशं हेतुमाहेति व्याख्यातं भवति । यदिह केशवो वक्ति – मा भूत्तपःशब्देन भिक्षोर्ग्रहणं, ब्रह्मसंस्थपदस्य तु प्रकृतमात्रप्रवृत्तौ को विरोधः? भिक्षोश्च योगार्थाविशेषाद् ब्रह्मसंस्थस्य सतोऽमृतत्वं भविष्यति ।
न च भिक्षोरपि नित्या ब्रह्मसंस्था ; संन्यासाद् ब्रह्मणः स्थानमिति फलान्तराम्नानात् - इति, तदत एवापास्तम् । यदा तदेति वाक्यवैरूप्यादेव । न च संन्यासस्योद्देश्यं फलं ब्रह्मलोकः, काम्यकर्मवतः संन्यासित्वव्याघातात् । लोकैषणाव्युत्थितस्य हि संन्यासो विधीयते । तस्मात्सन्यासाद् ब्रह्मण इत्यानुषङ्गिकफलाभिप्रायं प्राप्य पुण्यकृताल्लोकानित्यादि वदतो भिक्षोर्नित्या ब्रह्मसंस्थेति । भवत्येव वैरूप्यमिति । सिद्धान्तिनाऽपि योगस्येष्टत्वाद् रूढिमारोप्य पूर्वपक्ष आभासस्तं स्मारयतीत्यर्थः ।
आग्नेयीन्यायेन ब्रह्मसंस्थशब्दस्य प्रकृतसर्वगोचरत्वस्योक्तत्वात्कथं त्रयाणां ब्रह्मसंस्थत्वासंभवः? अत आह –
सत्यमिति ।
दर्शितश्चात्राऽसंभव इति ।
वैरूप्यादिनेत्यर्थः ।
एवं प्रकृतपरामर्शित्वं ब्रह्मसंस्थशब्दस्य व्युदस्य यौगिकार्थस्य भिक्षावेव संभवं भाष्योक्तमुपपादयति –
एष हीत्यादिना ।
संपूर्वस्तिष्ठतिर्हि समाप्तिवचनः । अन्यनिष्ठताया ब्रह्मणि समाप्तिर्न स्याद्, अन्यत्रापि व्यासक्तत्वादित्यर्थः । स्वाभावेन स्वस्य विरोधाद्धेतोस्तं व्यवच्छिन्दन्तीति योजना । भास्करस्तु न्यास एवात्यरेचयदिति तैत्तिरीयके ब्रह्माभिधीयते; न्यास इति ब्रह्मेति निर्वचनात् ।
तथा च संन्यासे प्रमाणत्वेन वचनोदाहरणं भाष्यकारस्य न युक्तमिति वदति, तं श्रुतिव्याख्यानेनानुकम्पते –
सर्वसङ्गेत्यादिना ।
अत्र हि श्रुतौ ‘‘सत्यं पर’’मित्यादिना सत्यादितपांसि प्रक्रम्य तेभ्यः परत्वेन संन्यासः श्रूयते । तत्र ब्रह्मा परमात्मा पर उत्कृष्टः संन्यासोऽपीतरसाधनेभ्यः पर इत्यस्मात्साम्याद् ब्रह्मत्वेन स्तूयते इत्यर्थः ।
ब्रह्मपरतयेति ।
ब्रह्मणि तात्पर्येणेत्यर्थः ।
ब्रह्मज्ञानपरिपाकाङ्गत्वाच्चेति भाष्यं, तदनुपपन्नमिव ; अनधिकृतविषयत्वेऽपि संन्यासस्य तान् प्रत्येव विद्यापरिपाकाङ्गत्वसंभवादित्याशङ्क्य व्याचष्टे –
शब्दजनितस्येति ।
संन्यासस्य कर्मानधिकृतविषयत्वकल्पनं हि स्वप्रयुक्ताधिकार्यलाभ स्याद्, ब्रह्मसाक्षात्कारकामस्य तदधिकारिणः सत्त्वान्नैवं कल्पनीयमित्यर्थः ॥ ये तु शिखायज्ञोपवीतत्यागरूपां पारमहंस्यवृत्तिं न मन्यन्ते, ते न पश्यन्ति प्रत्यक्षां घण्टिकस्थानेषु पठ्यमानामाथर्वणीं श्रुतिं ‘‘सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः’’ इति । न चात्र सशिखं शिखासहितं यथा भवति तथेति शिखारक्षणं शङ्क्यम् ; ‘‘अग्नेरिव शिखा न्याया यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥’‘ इत्यादिवाक्यशेषे बाह्यशिखां व्यावर्त्य ज्ञानस्यैव शिखात्वादिसंपादनात् । न च -एतद् द्वित्रिदिनजीवनावशेषसिद्धपुरुषविषयं न साधकविषयमिति – साम्प्रतम्; ‘‘आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥’‘ इति वाक्यशेषे ध्यानविधानात्, सिद्धं प्रति तद्वैयर्थ्यात् । महार्णवे च यतिधर्मप्रकरणे यमस्मृतिरुदाहृता, सापि तैर्न दृष्टा; एकवासा अवासा वा एकदृष्टिरलोलुपः । एक एव चरेन्नित्यं वर्षास्वेकत्र संवसेत् ॥ इति । न च त्रिदण्डिनामवासस्त्वसंभवः, परमहंसस्य तु सर्वत्यागादस्ति सम्भवः । इदमपि साधकविषयवचनम्; सिद्धं प्रति विधिवैयर्थ्यादिति । यदिह केशवः प्रललाप - बहिः सूत्रमित्यन्तर्यामिणो बाह्यो हिरण्यगर्भोऽभिधीयते, नोपवीतम्’ हृदि प्राणाः प्रतिष्ठिता इति प्राणप्रक्रमात्, वाक्ये च संन्यासविध्यश्रवणात्, परमात्मना चोपवीतकार्यस्य सव्यापसव्यादेरकरणादुपवीतकार्यस्य तस्मिन्नतिदेशायोगाच्च न तन्निष्ठाबलादुपवीतत्यागसंभवः । कुशकार्यहविर्धारणकरणे हि शरमयबर्हिषा तद्बाध इष्यते – इति, तन्न; सूत्रसादृश्यरूपगुणलक्षणाद्वारेण हिरण्यगर्भे सूत्रशब्दवृत्तिकल्पनायां गौरवप्रसङ्गात् । सूत्रविकारोपवीतलक्षणायां च सन्निकर्षात्त्रिवृत्सूत्रं च तद्विदुरिति चोपक्रमगतहृच्छब्दोक्तं ब्रह्म तच्छब्देन परामृश्य त्रिसूत्रतासंपादनात् तन्निष्ठाबलेन तित्याजयिषितसूत्रस्यापि त्रिसूत्रत्वावधारणात् । ‘‘धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेदि’’ति च यज्ञोपवीतसाध्योच्छिष्टाशुचित्वनिवृत्तेरान्तरसूत्रेण संपादनेन त्याज्यसूत्रस्य यज्ञोपवीतत्वावधारणात् । एतेनातिदेशानुपपत्तिः पराणुन्ना । तथोपसंहारेऽपि ‘‘ज्ञानयज्ञोपवीतिनः इदं यज्ञोपवीतं तु परमं यत्परायणम् स विद्वान्यज्ञोपवीती स्यात्स यज्ञस्तं यज्वानं विदु’’रित्यादिभिर्यज्ञोपवीतमेव घुष्यते । यत्तु प्राणप्रकरणादिति, तन्न; ततोऽपि प्रागेव सहिरण्यगर्भसमस्तजगदधिष्ठानस्य ब्रह्मणो हृच्छब्देन प्रक्रान्तत्वात् । यच्च संन्यासाश्रवणादिति, तदपि न; वाक्यशेषे ‘‘बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः’’ इति योगं सम्यग्ज्ञानं कर्तुं प्रवृत्तस्य साधनत्वेन सूत्रत्यागस्य विहितत्वात्, सर्वश्रुतिस्मृतिषु च संन्यासस्यैव ज्ञाने साधनत्वप्रसिद्धेः, त्यागसंन्यासशब्दयोश्चैकार्थत्वादिति । अयं च यज्ञोपवीतादित्यागः परमहंसयतिविशेषविषये पर्युदासोऽपरमहंसो यज्ञोपवीतादि धारयेदिति, न निषेधः; नित्यविधिभिर्निवृत्तेः प्रत्यवायं कल्पयित्वा यज्ञोपवीतादिधारणप्रवृत्तेर्विहितत्वात् । तत्र कथं निषेधेन निवृत्तिबोधः क्रियेत? न च - प्रवृत्तौ प्रत्यवायं परिकल्प्य निषेधो निवर्तयतीति – वाच्यम्; तथा सति प्रवृत्तेरप्राप्त्या निषेधस्यैवानुदये सर्वनाशप्रसङ्गात् । तस्मात्पर्युदासः । यदि मन्येत परमहंसानामपि पराशरेण यज्ञोपवीतादि विहितं “तत्र परमहंसा नाम त्रिदण्डजलपवित्रयज्ञोपवीतशिक्यान्तर्वासधारिण’’ इत्यादिना, ततश्च न पर्युदास इति, तन्न; अस्य वचनस्य व्यवह्रियमाणपराशरस्मृतावदर्शनात् । कल्पने च सशिखमित्यादिप्रत्यक्षश्रुतिविरोधे बुद्धादिस्मृतिवद् बाधात् । भवन्ति च स्मृतयः - ‘‘त्रिदण्डं कुण्डिकां चैव सूत्रं चाथ कपालिकाम् । जन्तूनां वारणं वस्त्रं सर्वं भिक्षुः परित्यजेत् ॥ कौपीनाच्छादनार्थं तु वासोऽर्थस्य परिग्रहम् । कुर्यात् परमहंसस्तु दण्डमेकं तथैव च ॥ ‘‘ इति विष्णुः । काण्वायनश्च - ‘‘तत्र परमहंसा नाम त्रिदण्डकमण्डलुशिक्यजलपवित्रपात्रपादुकाशनशिखायज्ञोपवीतकपालानां त्यागिनो न तेषां धर्माधर्मौ न सत्यं नापि चानृतं सर्वसहाः सर्वसमाः समलोष्टाश्मकाञ्चना यथोपपन्नभैक्षाहाराश्चातुर्वर्ण्यं भैक्षचर्यं चरन्त आत्मानं मोक्षयन्त’’ इति । विष्णुकाण्वायनस्मृत्योश्च शिष्टपरिगृहीतयोरनाप्तप्रणीतत्वं शङ्कमानस्य स्वकीयब्राह्मणत्वेऽप्यनाश्वासः स्यात् । स्मरति स्म भगवान्व्यासः -’‘यज्ञोपवीतं कर्माङ्गं वदन्त्युत्तमबुद्धयः । उपकुर्वाणकात्पूर्वं यतो लोके न दृश्यते ॥ यावत्कर्माणि कुरुते तावदस्यैव धारणा । तस्मादस्य परित्यागः क्रियते कर्मभिः सह ॥ अग्निहोत्रविनाशे तु जुह्वादीनि यथा त्यजेत् । यथा च मेखलादीनि गृहस्थाश्रमवाञ्छया ॥ पत्नीयोक्त्रं यथेष्ठ्यन्ते सोमान्ते च यथा ग्रहान् । तद्वद्यज्ञोपवीतस्य त्यागमिच्छन्ति योगिनः ॥’‘ इति । महाभारतेऽपि –’‘एकदण्डी त्रिदण्डी वा शिखी मुण्डित एव वा । काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिरः “॥ तथा - “जटाऽजिनधराश्चान्ये पङ्कदिग्धा जितेन्द्रियाः । मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् “॥ इति राजधर्मप्रशंसार्थमुत्तमाश्रमपरामर्शः । लैङ्गेऽपि पुराणे – “निकृत्य स्वशिखां केशानुपवीतं विसृज्य च । पञ्चभिर्जुहुयादप्सु भूः स्वाहेति च वा क्रमात् “॥ इति । पद्मपुराणेऽपि – “ ततो व्रतानां परमहंसव्रतमनुत्तमम् । तेभ्यो ददौ दिवौकोभ्यः सतामप्यविरोधि यत् ॥ पठ्यते यजुश्शाखायां महत्पैतामहं व्रतम् । परं ब्रह्मोदितं तद्वदागमाचारचेष्ठितम् ॥ ब्रह्मारधनमुख्यानां व्रतिनां तीव्रतेजसाम् । भृगुवृद्ध्यापयामास वेदोक्तं परं हितम् ॥ एवं व्रतधाराः सर्वे वसन्ति स्माऽरेश्वराः । हंसव्रतधारा भूत्वा ध्यायमानाः परं पदम् ॥ हित्वा शिखां सोपवीतां विधिना परमेण ते । कालेन महताध्यानादेवं ज्ञानात्मतां गताः ॥ ये चात्र हंसव्रतिनो नियताः संयतेन्द्रियाः । एवं भिक्षां तु भुञ्जाना ध्यायमानाः परं पदम् ॥ दण्डहस्तास्तु सञ्जात भिक्षाव्रतसमन्विताः । त्यक्त्वा शिखां सोपवीतां दण्ड एकः करे धृतः ॥ हसव्रतं परं प्रोक्तं पुरा चीर्णं मया चिरम् । व्रतानां परमं गुह्यं पवित्रं पापनाशनम् ॥ हंसव्रतं द्विषन्मोहात्पापेनाच्छादितो नरः । न स मुच्येत पापेन कल्पकोटिशतैरपि ॥ तस्माद्धंसव्रतानां तु न हन्यान्न च दूषयेत् ॥ भिक्षां परमहंसानां यतीनां यः प्रयच्छति ॥ विमुक्तः सर्वपापेभ्यो नासौ दुर्गतिमाप्नुयात् । शिखां यज्ञोपवीतं च त्यक्त्वा चरति यो व्रतम् ॥ हंसव्रती स विज्ञेयो मोक्षकामी भवेच्च सः । शिखायज्ञोपवीतेन त्यक्तेनासौ कथं द्विजः ॥ निन्द्यते देवलोकेषु पूजितो देवदानवैः । दुष्टं विशिष्टमथवा हंसरतधरं नरम् ॥ न पृशेदङ्गमङ्गेन देवरूपः स वै द्विजः” ॥ इति । पराक्रान्तं चात्र बहुभिराचार्यैरिति न विस्तीर्यते ॥२०॥
इति द्वितीयं परामर्शाधिकरणम् ।
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥२१॥ पूर्वत्रानुष्ठेयसाम्यश्रुतेराश्रमान्तरं विधेयमित्युक्तम्, इह तु रसतमत्वादीनामङ्गाश्रितत्वेनेयमेव जुहूरित्यादिस्तुतिसामान्यात् स्तुत्यर्थत्वमिति पूर्वः पक्षः ॥ यदा रसतमत्वादि नाऽङ्गनिष्ठमपि स्तुतिः । तदा किमङ्ग वक्तव्यमनङ्गात्मधियः फलम् ॥ इति सिद्धान्ते । ननु रसतमत्वादिभिः किमुद्गीथादिविधिः स्तूयते, उत उपास्तिविधिः । नाद्यः; उद्गीथादिविधेः कर्मप्रकरणस्थत्वेन व्यवधानात्तेनैकवाक्यत्वानुपपत्तेः ।
न द्वितीयः; उपास्यविषयसमर्पणेन विध्यन्वयसंभवे लक्षणया स्तुत्यर्थत्वायोगादित्याशङ्क्याह –
यद्यत्रेत्यादिना ।
अव्यभिचरितविधिसंबन्धेनेति ।
अव्यभिचरितोद्गीथादिविषयविधिना संबन्धो यस्य तेनोद्गीथादिनोपस्थापित उद्गीथादिविधिः स एष इत्यादिना स्तूयते, यथा जुहोपस्थापितक्रतुना पर्णमयता संबध्यत इत्यर्थः ।
ननु विशेषणविशेष्यभावेन समभिव्याहारात् स्तुतिर्भवति वायुक्षेपिष्ठादौ , नेह व्यवधानादिति, तत्राह –
न हीति ।
अनुषङ्गातिदेशेति ।
‘‘चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनातु अच्छिद्रेण पवित्रेणे’त्यत्रान्ते श्रुतोऽच्छिद्रेणेत्येषोऽर्थवादः प्रतिमन्त्रमनुषज्यते । वैश्वदेवे ‘‘आग्नेयमष्टाकपालं निर्वपती’’त्यादिहविःषु श्रुता अर्थवादा वरुणप्रघासादिष्वतिदिश्यन्ते । ‘‘एतद्ब्राह्मणानि पञ्च हवींषि येतद्ब्राह्मणानीतराणी’’ति । एवमत्र व्यवधानेऽपि श्रुतत्वेनैकवाक्यता स्यादित्यर्थः ।
सन्निहितविध्यभावाङ्गीकारेणाद्यपक्षमुपपाद्य द्वितीयं कल्पमवलम्ब्यापि पूर्वपक्षं घटयति –
यदि त्विति ।
विधिनैव पुरुषप्रवृत्तिसिद्धेः स्तुतिर्व्यर्थेति शङ्कित्वा परिहरति स्माचार्यशबरस्वामी । सत्यं विनापि तेन सिध्येत्प्रामाण्यम्, अस्ति तु तत्स्तुतिपदमिति । तस्य व्याख्या प्रभाकरगुरुणा कृता - अस्ति तु तदित्येतद्भाष्यमतिरेके विधिव्यतिरेकेण स्तुतिपदसद्भावे परिहार इति । एवं वदतैतत्सूचितं केवलविधिश्रवणे नास्ति स्तुत्यपेक्षा, यथा ‘‘वसन्ताया कपिञ्जलानालभते’’ इत्यादौ । स्तुतिपदे तु सत्यस्ति तदपेक्षा, यथा लोके पटो भवतीत्येतावति वाक्ये नास्ति पदान्तरापेक्षा । ‘रक्तः पट’ इत्यत्र तु रक्तपदस्याकाङ्क्षया वाक्यस्याप्याकाङ्क्षोत्थाप्यते, तद्वदिति ।
तदेतदाह –
यथाहुरिति ।
नन्वर्थवादाश्रवणेऽप्यनुषङ्गादिभिस्तत्समभिव्याहार उक्तः, तत्राह –
अत एवेति ।
यत एव विधेरेव प्रवर्तकत्वमत एव । अतिदेशे तु वचनाद्व्यवहितार्थवादसंबन्धो न त्विह तदस्ति;अनुषङ्गेऽप्यर्थवादस्य साकाङ्क्षत्वात् । अच्छिद्रेण पवित्रेणेत्युक्ते पुनात्वित्येतस्मिन्नपेक्षादर्शनात्, क्वचित्तु पठितव्यः सन्नन्ते पठित इति, न त्विह रसतमत्वादेः प्रदेशान्तरस्थोद्गीथादिविध्यपेक्षास्ति; उपासनविधिविषयसमर्पकत्वस्यानन्तरमेव वक्ष्यमाणत्वात् । तस्मादनुषङ्गादिदृष्टान्तेनार्थवादप्राप्त्यभिधानमसमञ्जसं वैषम्यादित्यर्थः ।
केवलस्य श्रुतस्य विधेरनपेक्षत्वमुपपादयति –
न हीति ।
कर्मविधेरिति ।
कर्माङ्गविधेरिति वक्तव्येऽङ्गस्तुतिरप्यङ्गिन एवेति कर्मविधेरित्युक्तम् ।
ननु भाष्योदाहृतन्यायवित्स्मरणे पञ्च विधिलक्षणान्युक्तानीति प्रतिभाति, तच्चायुक्तम् ; न हि धात्वर्थभेदे कारकभेदे वा विधिलक्षणं भिद्यते, इत्याशङ्क्य तदभिप्रायं विवरिष्यन् विधिलक्षणं तावदाह –
भावनायाः खल्विति ।
ननु विधौ स्मृतलिङ्गादेरेव न हन्यादिति निषेधेष्वपि प्रयोगात्कथं प्रत्ययस्य विधिवाचकत्वनियमस्तत्राह –
निषेधश्चेति ।
निषेधवाक्यगतैरपि लिङ्गादिप्रत्ययैर्विध्यर्थोऽनूद्य नञा निषिध्यते इति नास्ति व्यभिचार इत्यर्थः ।
ननु शब्द एव विधिर्नियोगादिर्वा, नेत्याह –
एतच्चेति ।
एवं विधिलक्षणमुपस्थाप्य वार्तिकार्थमुपपादयति –
क्रिया चेत्यादिना ।
कृश्च भूश्चास्तिश्च कृभ्वस्तयस्तान् कृभ्वस्तीनुदाहृतवानित्यर्थः । यद्यपि धातवः शतशः सन्ति; तथापि डुकृञ् करणे, भू सत्तायाम्, अस भुवीति त्रय एव धातवो भावनासामान्यवाचिन उदाहृताः सर्वत्र व्याप्त्यर्थम् । एतद्धातुगतप्रत्य - यैश्च सकलभावनानुगतश्रेयः साधनत्वरूपो विधिरभिधीयते, न तु प्रतिधातु प्रतिप्रत्ययं च भावनाभेद इत्यर्थ । कर्तव्यमित्यस्य कृदन्तत्वेन द्रव्याभिधायित्वाद् द्रव्यं प्रत्युपसर्जनभूतभावना प्रतीयत इत्यर्थः । यद्यपि भवतिरस्तिश्च प्रयोज्यव्यापारवाचिनौ, भावना च प्रयोजकव्यापारः; तथाप्यवस्थान्तरविशिष्टत्वेन भाव्यत्वादस्ति भावना । तथा च दण्डी भवेदित्यादिना दण्डित्वादिरूपेण भाव्यत्वमनन्तरमेव वक्ष्यति ।
एवं करोतिधातौ कारकभेदेऽपि भावनैक्यमभिधाय भवत्यस्त्योरपि तदाह –
एवमिति ।
अस्तेर्भ्वादेशात् तुल्यवदुदाहरणम् । अत्रापि दण्डि भवेदित्याक्षिप्तकर्तृका भावनोदाहृता । भवितव्यमिति धात्वर्थोपसर्जनभूता भावना । भूयेतेत्याक्षिप्तकर्मिका भावना ।
एकधात्वर्थविषया इति ।
एको धात्वर्थो भवत्यर्थोऽस्त्यर्थो वा विषयो यासां तास्तथा दण्डित्वाद्यवस्थान्तरस्य यद्भवनं सत्ता च तद्विषयास्तदवच्छिन्ना भावना उदाहर्तव्या इत्यर्थः ।
विध्युपहिता इति ।
श्रेयःसाधनत्वविशिष्टा इत्यर्थः ।
ननु भवतिरस्तिश्च पर्यायौ, भू सत्तायाम् अस् भुवीति च परस्परं व्याख्यानादत आह –
भवतिश्चैष इति ।
कश्चित्प्राप्त्यर्थोऽपि भवतिरस्ति तदर्थमेष इत्युक्तम् । जन्मवचनो भवतिरस्तिस्तु जनिफलभूत एवार्थसद्भाववचन इत्यर्थः । एषां भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुरुषः पुरुषस्य वाग् वाच ऋग् ऋचः साम साम्न उद्गीथो रस इत्युपक्रम्य श्रूयते स एष रसानां पृथिव्यादीनां रसतमः परमः परमात्मप्रतीकत्वात् परस्य ब्रह्मणोऽर्धं स्थानं तदर्हतीति परार्ध्यः । परब्रह्मवदुपास्य इत्यर्थः । पृथिव्याद्यपेक्षयाऽष्टमः कोऽसौ य उद्गीथः प्रणव इत्यर्थः । ॥२१॥२२॥
इति तृतीयं स्तुतिमात्राधिकरणम् ॥
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥ पूर्वत्रोद्गीथादिस्तुत्यर्थत्वादुपास्यविषयसमर्पकत्वं रसतमत्वादेर्ज्याय इत्युक्तम्, तर्ह्याख्यानानामपि विद्यास्तुत्यर्थत्वात् सकाशात्परिप्लवप्रयोगशेषत्वं ज्यायोऽनुष्ठानपर्यवसानसंभवादिति संगतिः ।
ननु ‘‘यस्याश्विने शस्यमाने सूर्यो नाभ्युदियादपि सर्वा दाशतयीरनुब्रूयादि’’ति सर्वासामृचामाश्विनग्रहशंसने सर्वश्रुत्या विनियुक्तानामपि प्रातिस्विकार्थेषु विनियोगादाख्यानानां पारिप्लवे विद्यायां च विनियोगः किं न स्यादत आह –
न च सर्वा इति ।
ऐन्ध्रा गार्हपत्यमिति प्रातिस्विकविनियोगानां सर्वा दाशतयीरिति समुदायविनियोगस्य च श्रौतत्वेन तुल्यत्वात् प्रातिस्विकविनियोगं सहते सर्वशब्दः, क्वचित्समानस्य सकृत्प्रवृत्तस्य प्रातिस्विकविनियोगस्यावकुण्ठनाभावाल्लिङ्गादिभिर्मन्त्रविनियोगाविघातकत्वमित्यर्थः ।
अश्वमेधे हि प्रथमेऽहनि मनुर्वैवस्वतो राजेत्याह द्वितीयेऽहनि यमो वैवस्वतो राजेत्याह तृतीयेऽहनि वरुण आदित्य इत्याद्याख्यानविशेषो वाक्यशेषे विनियुज्यते, तद्बलादुपक्रमस्य संकोचमाह –
नैषामिति ।
ननूपक्रमे ‘‘सर्वं शंसती’’त्यभिधाय पुनः ‘‘पारिप्लवमाचक्षीते’’ति उपसंहारगतेर्विशेषः सर्वशब्दानुसारेण उपलक्षणार्थत्वेन व्याख्यायातामत आह –
इतरथेति ।
प्रथमं ‘‘सर्वाण्याख्यानानि पारिप्लवे शंसन्ती’’त्यभिधाय पुनः ‘‘पारिप्लवमाचक्षीतेति’’ विधाय ततो मनुर्वैवस्वत इत्यादि पठ्यते, तत्र पुनर्विधानं वाक्यशेषगताख्याननियमार्थमितरथा वैयर्थ्यात्सर्वशब्दोऽपि वाक्यशेषगताख्यानानामपि मध्य एकद्व्याद्यभिधायोपरमं व्यावर्तयितुमिति तस्यार्थवत्ता ।
अत्र पुनर्विधिश्रुत्याऽवच्छेदिकया सर्वश्रुतौ भग्नदर्पायां निर्भयः सन्निधिर्विद्यास्वेवौपनिषदाख्यानानि विनियुञ्जीतेत्याह –
तथा चेति ।
अनेन द्वितीयं सूत्रं योजितम् । सोऽरोदीदित्यादीनां विध्येकवाक्यतां यथा विधिसन्निधिरवगमयेदेवमाख्यानानां विद्यासन्निधिर्विद्यैकवाक्यतां गमयतीति योजना । अवधीयन्त इति कर्मकर्तरि । तन्रोपाख्यायिका कथापरो ग्रन्थः ॥२३॥२४॥
इति चतुर्थं पारिप्लवाधिकरणम् ॥
अत एवचाग्नीन्धनाद्यनपेक्षा ॥२५॥ ब्रह्मविद्या मोक्षे कर्माणीतिकर्तव्यतात्वेनापेक्षते । यज्ञेनेति विविदिषायां विनियुक्तयज्ञादीनां विषयसौन्दर्यलभ्यायां तस्यामनन्वयादिच्छाविषयज्ञानसाध्ये मोक्षेऽन्वय इति पूर्वः पक्षः ॥ अस्मिन्पक्षे यज्ञेनेत्यादिकरणविभक्तिबाधः स्यात् । न हि मोक्षसाधनमिच्छासाधनं, भवति तु ज्ञानेच्छाजनकान्तःकरणशुद्धिहेतुत्वेन ज्ञानेच्छाहेतुत्वं साधनसाधनस्यापि साधनत्वानपायात्, काष्ठैः पचतीत्यत्र पाकसाधनज्वालाजनककाष्ठानां पाकहेतुत्वदर्शनादिति सिद्धान्तः ।
अत्र भाष्यमत एव विद्यायाः पुरुषार्थहेतुत्वात्कर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति, तदयुक्तम्; न हि पुरुषार्थहेतुत्वं कर्मापेक्षाविरोधि आग्नेयादिष्वदर्शनादतः पुरुषार्थाधिकरणप्रयोजननिरूपकत्वमस्याधिकरणस्य न युक्तम् इत्याशङ्क्य भाष्यं व्याचष्टे –
विद्याया इति ।
विद्यायाः क्रत्वर्थत्वे स्वार्थः क्रतूपकारः ।
तदा चोपक्रियमाणक्रतावसत्युपकारजननायोगात् क्रतुरपेक्षितव्य इत्युक्त्वा मोक्षार्थत्वेऽनपेक्षामाह –
यदा त्विति ।
अविद्यास्तमये मोक्षे नास्ति कर्मापेक्षेति भावः । स्वसिद्धौ नापेक्षितव्यानीति न, अपित्वपेक्षितव्यानीत्यर्थः । अधिकविवक्षयेति भाष्यं व्याचष्टे – एतच्चेति ॥२५॥
इति पञ्चममग्नीन्धनाधिकरणम् ॥
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥२६॥
पूर्वत्र ब्रह्मविद्या, न स्वफले कर्मापेक्षा, प्रमात्वात् संमतवदित्युक्तम्, तर्हि सा स्वोत्पत्तावपि न तदपेक्षा, अत एव तद्वदेवेति पूर्वपक्षमाह –
यथेति ।
अत्रागमविरोधमाशङ्क्याह –
न चेति ।
अपि चानेन वाक्येनेच्छा विधीयते, इष्यमाणज्ञानं वा । नाद्यः, विषयसौन्दर्यलभ्यायां तस्यां विध्ययोगात् ।
न द्वितीय इत्याह –
अपि चेत्यादिना ।
अत एव न तत्साधनत्वेन यज्ञादिविधानम् ।
ननु पञ्चम्यपि प्रतिपत्तिरपेक्ष्यतामित्याशङ्क्य फलपर्यवसानान्नेत्याह –
नान्तरीयकं हीति ।
यथाऽतिसुन्दरेऽपि गुडादौ धातुदोषादरुचिः, एवं ब्रह्मज्ञानेऽपि पापादरुचिर्भवेत्तत्र धातुसाम्यार्थमौषधिविधिवत् ब्रह्मज्ञानरोचकयज्ञादिविधिरर्थवानिति सिद्धान्तयति –
उत्पत्तौ ज्ञानस्येति ।
ननु कर्माणां ज्ञानोत्पत्त्यर्थत्वे यावज्ज्ञानोत्पत्ति कर्मानुष्ठातव्यं, न ज्ञानार्थः संन्यास इति, अत आह –
तत्रापीत्यादिना ।
चित्तस्य प्रत्यक् प्रावण्यं कर्मफलं दृष्ट्वा कर्मत्याग उपपन्न इत्यर्थः । ग्रन्थास्त्वेते प्रथमसूत्रे व्याख्याताः ।
ननु ब्रह्मैवोपदिश्यतां, तत्र ज्ञानं स्वत एव जायेत , किं विविदिषया, नेत्याह –
विविदिषुः खल्विति ।
अतिसूक्ष्मत्वाद् ब्रह्मात्मत्वस्य मनःसमाधानाद्यनुष्ठेयं , तद् रुचौ सत्यामनुष्ठीयते नेतरथेत्यर्थः ।
एवं ज्ञानोत्पत्त्युपयोगं कर्मणां प्रदर्श्यफलेऽनुपयोगमाह –
न च निर्विचिकित्समिति ।
फलं हि शब्दज्ञानस्य भावना, तस्याश्च साक्षात्कारस्तस्य चापवर्गः त्रिष्वपि कर्मानपेक्षा, शब्दज्ञानेन च कर्माधिकारहेतोर्ब्राह्मणत्वादेर्बाधितत्वात्तदुत्तरकालं कर्मण एवाभावादित्यर्थः ।
भास्करोक्तमपवदति –
तस्मादिति ।
यच्च तेनैवोक्तं ज्ञानात्कर्मणो बाधे भिक्षाटनाद्यपि बाध्येतेति, तत्राह –
दृष्टार्थेष्विति ।
असक्तस्य अनासक्तस्य । एते च ग्रन्थाः प्रथमसूत्रे एवोपपादितार्था इति । अधिकारे निवृत्तेऽप्यश्रद्धायामधःपातः स्यादिति केशवोक्तमसाधु; शास्त्रकृतत्वादश्रद्धाया इति ।
अपरमपि भास्करोक्तं निरस्यति –
अतश्चेति ।
ननु शमादेरपि ज्ञानोत्पत्तिहेतुत्वात्कर्मवन्न ज्ञानानन्तरमनुवृत्तिरिति ब्रह्मविदः कोपाद्यापत्तिरत आह –
शमादीनां त्विति ।
अवस्थास्वाभाव्यादिति ।
परमशान्तं ब्रह्मास्मीति पश्यतः स्वभावादेव शमादि स्यान्न यत्नसाध्यमित्यर्थः ॥२६॥२७॥
इति षष्ठं सर्वापेक्षाधिकरणम् ॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥२८॥ यथा पूर्वत्र विविदिषन्तीति वर्तमानापदेशेऽप्यपूर्वत्वात्पञ्चमलकारेण विधिः कल्पितः, एवमत्रापि ‘‘न ह वा अस्यानन्नं जग्धं भवती’’ति वर्तमानापदेशेऽप्यपूर्वत्वाद्विधिरिति प्रत्यवस्थानात् संगतिः ।
सर्वेन्द्रियाणां प्राणेन सह संवादे यच्छ्रूयते तद्दर्शयति –
एष किलेति ।
इन्द्रियाणि किल वयमेव श्रेष्ठानि इत्यभ्यमन्यन्त । विवादशमनाय च प्रजापतिनोक्तानि युष्माकं मध्ये यस्मिन्नुत्क्रान्ते शरीरं पतेत् स श्रेष्ठ इति । तत इन्द्रियेष्वेकैकश उत्क्रान्तेषु शरीरं नापतत् । प्राणोत्क्रान्तौ त्वपतत् । ततः प्राणः श्रेष्ठ इत्यवधृते सतीन्द्रियाणि तेनावजितानि । तानि प्राण उवाचेत्यर्थः ।
यदाह तद्दर्शयति –
किं मेऽन्नमिति ।
पराजितैर्हि विजयिने करो दीयते, एवमिहापि सर्वप्राणिभिरद्यमानमन्नमिन्द्रियाणि प्राणाय प्रददुः । अतः सर्वत्रान्नादः प्राण इत्यर्थः ।
आख्यायिकया विवक्षितमर्थमाह –
तदनेनेति ।
प्राणस्य सर्वन्नमिति निर्देशात्तथैवोपासनाविधिः कल्पनीय इत्यर्थः ।
एतद्विद्याङ्गतयेति ।
एतस्याः प्राणविद्याया अङ्गतयेत्यर्थः ।
तत्र यद्यपीति ।
यदवादिष्म पञ्चमलकारकल्पनात्सङ्गतिरिति । तदित उत्थितम् । प्रवृत्तिविशेषकरणतालाभे प्रयोजने विधिप्रतिपत्तिरित्यर्थः । उपमन्त्रयते स हिङ्कार इत्यादिना ग्राम्यव्यापारगतचेष्टासु हिङ्कारादिदृष्टिर्विहिता । सा वामदेव्यविद्या । उपमन्त्रणं सङ्केतकरणम् ।
अशक्तेरिति ।
सर्वान्नस्य पुंसाऽत्तुमसामर्थ्यादित्यर्थः । अपि च ‘‘नानन्नं भवति’’ इत्यत्र भवतिमात्रं श्रूयते ।
तत्र भावयतिः कल्पनीयः, कल्पयित्वा च तं विधिरपि कल्प्य इत्याह –
कल्पनीयत्वादिति ।
कल्पना न नोपपद्यते; क्लृप्तसामान्यविषयनिषेधशास्त्रेण बाधात् ।
क्लृप्तो हि विशेषविधिः सामान्यनिषेधं बाधेत, न कल्प्य इत्यभिप्रेत्याह –
शास्त्रान्तरेति ।
कस्तर्हि शास्त्रार्थस्तमाह –
प्राणस्येति ।
अशक्तिरित्येतद्विवृणोति –
न तावदिति ।
कौलेयकः श्वा । इभो हस्ती । तद्भक्ष्यं वटकाष्ठम् । करभ उष्ट्रः । तद्भक्ष्यौ शमीकरीरौ । कण्टकी वृक्षविशेषः यस्य वल्लीप्रायाः शाखा भवन्ति ।
कल्पनीयत्वादित्येतद्व्याचष्ते –
न चात्र लिङ् इवेति ।
लिङः सकाशाद्यथा विधिप्रतीतिरेवमत्र स्फुटतरा नास्ति; पञ्चमलकारद्योतकस्याडादेरश्रवणादित्यर्थः ।
ननु पर्णमयीत्वादाविव विधिः कल्प्यातामत आह –
न च कल्पनीय इति ।
सर्वमन्नं भवतीत्यस्मादनीयेऽनुवादत्वादनदनीये त्वशक्ये विध्ययोगात् शक्ये कलञ्जादौ निषेधशास्त्रेण वैपरीत्यपरिच्छेदादपूर्वार्थत्वाभावादित्यर्थः ।
शास्त्रान्तरविरोधत इत्येतद् व्याचष्टे –
न च सत्यां गताविति ।
प्रवृत्तस्येति ।
क्लृप्तत्वात्परिच्छेत्तुमप्रवृत्तस्येत्यर्थः ।
यदुक्तं प्रवृत्तिविशेषकरत्वाद्विधिरिति, तत्राह –
शक्यत्वे चेति ।
ननु सूत्रं प्राणविदः सर्वान्नभक्षणं न वारयति, न हि प्राणात्यये सर्वान्नानुमतिमात्रेण अन्यत्र तद्वारणं कर्तुं शक्यमत आह –
प्राणात्यय इति चेति ।
तद्दर्शनादिति सूत्रभागं व्याचष्टे –
तत्रोपाख्यानाच्चेति ।
ननूपाख्याने सामान्यशास्त्रबाधको विधिर्न श्रूयतेऽत आह –
स्फुटतरेति ।
जीवितात्ययमापन्नो मद्यं नित्यं ब्राह्मणो वर्जयेदित्याद्या स्फुटतरविधिस्मृतिः ।
ननु तर्हि स्मृत्या जीवितात्यये किं सुराऽपि भक्षणीया, नेत्याह –
सुरावर्जमिति ।
‘‘सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामि’’ति मरणान्तिकप्रायश्चित्तदर्शनाद् मरणप्रसङ्गेऽपि सा न भक्ष्येत्यर्थः । उष्णामित्यग्निवत्तप्तामित्यर्थः ।
प्राणात्ययोऽपि किञ्चिद्विषय एव, नेत्याह –
विद्वांसमिति ।
चाक्रायणोपाख्यानाद्विद्वांसं प्रति विधानाद् विधिस्मृतेश्च साधारण्याद् अविद्वांसं प्रत्यपि विधानात् प्राणत्यय एव विद्वदविदुषोः सर्वान्नत्वमिति योजना । हस्तिपको हस्तिपालः ।
छान्दोग्यश्रुतिगतमुपाख्यानमर्थतो दर्शयति –
स हीति ।
एवमाख्यानमनुवर्ण्य भाष्यस्थां श्रुतिं व्याचष्टे –
मटचीति ।
मटच्यो नाम रक्तवर्णाः क्षुद्रपक्षिविशेषाः । तैर्हतेषु कुरुदेशसस्येषु अशनायया बुभुक्षया ग्लायन् ग्लानि प्राप्त इत्यर्थः ।
मद्यं नित्यं ब्राह्मण इति ।
वर्जयेदिति शेषः ॥२८॥२९॥३०॥३१॥
इति सप्तमं सर्वान्नानुमत्यधिकरणम् ॥
विहितत्वाच्चाश्रमकर्मापि ॥३२॥
यथा शास्त्रान्तरविरोधात्सर्वान्नत्ववचनं स्तुतिरेवं यज्ञादीनां नित्यत्वश्रुतिविरोधाद्विद्यार्थत्ववचनं स्तुतिरिति सङ्गतिमभिप्रेत्य पूर्वपक्षमाह –
नित्यानि हीत्यादिना ।
तस्मादनध्यावसाय एवेति ।
अध्यवसाये वा विविदिषन्ति इत्यस्य स्तुत्यर्थत्वं भवतीत्याशयः ।
ननु वाचनिकविनियोगभेदात्खादिरादेर्वीर्याद्यर्थत्वं क्रत्वर्थत्वं च प्रथमतन्त्रे सिद्धं, तद्वदत्र किं न स्यादत आह –
एतेनेति ।
वास्तवविरोधेनेत्यर्थः ।
विधिव्यतिरेकेण स्वभावत एव नित्यमनित्यं वा यद्वस्तु व्यवस्थितं तदन्यथा कर्तुं न शक्यते, यत्त्वसिद्धरूपं विधितः कर्तव्यमित्यध्यवसाय यथाविधि निष्पाद्यते, तस्य रूपं विधित एव ज्ञातव्यम्, विधितश्चाग्निहोत्रादेरावश्यकत्वप्रतीतेर्न विरोध इत्याह –
सिद्धे हीति ।
निमित्तेन जीवितेन नित्यं सर्वदा संसारिणामीहित इष्ट उपात्तदुरितक्षयः प्रयोजनं यस्य तत्तथोक्तम् । अनेन फलवत्त्वेऽपि नित्यत्वं कर्मण उपपादितम् । विद्याङ्गतया चेत्यत्र कर्तव्यमित्यनुषङ्गः । ननु विरक्ताधिकाराय विद्याया नित्यसमीहितफलत्वाभावात्तदङ्गत्वेनानुष्ठीयमानस्य नित्यत्वं न स्यात्, ततश्च विविदिषार्थत्वेन कर्म कुर्वतः प्रत्यवायपरिहाराय नित्यप्रयोगोऽपि पृथक्वर्तव्यः ।
न चेन्नित्यप्रयोगस्यैवानित्यत्वं स्यादिति, नेत्याह –
विद्यायाः कादाचित्कतयेति ।
यथा स्वर्गार्थोऽग्निहोत्रप्रयोगो नित्यप्रयोगं विकृत्य प्रयोगस्योभयत्राविशेषान्नित्यविधेः प्रयोजकत्वं बाधित्वा निविशते, यथा वा ‘‘यदि राजन्यं वैश्यं वा याजयेत स यदि सोमं बिभक्षयिषेद् न्यग्रोधस्तिभीराहृतः ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेदि’’ति नैमित्तिकः फलचमसप्रयोगो नित्यं सोमप्रयोगं विकृत्य निविशते; काम्यनैमित्तिकाभ्यां नित्यकार्यसिद्धेः ।यादृशो नित्यः प्रयोगः करणार्थत्वेन विहितस्तादृशस्येतरत्र प्रत्यभिज्ञानाच्च न पुनःप्रयोगावृत्तिः । नापि नित्यप्रयोगस्यानित्यतापत्तिरेवमत्रापीत्यर्थः । न्यग्रोधस्कन्धादधोविलम्बिन्यो जटाः स्तिभ्यः ।
कार्यस्येति ।
कर्तव्यस्येत्यर्थः ।
सत्सुकर्मस्विति ।
विद्याकारणत्वेनानुष्ठितेषु कर्मसु सत्सु उत्पन्ना विद्यैव स्वकार्येऽविद्यानिवृत्तिलक्षणे व्याप्रियत इत्यर्थः । भारवाहकत्वं गर्दभ्या एव, पुत्राणां तु भारवहनकाले सत्त्वमात्रम्, न तु वाहकत्वमिति दृष्टान्तवार्तिकाथः ।
ग्राहकेति ।
ग्राहकेण प्रयोगविधिनाऽऽत्मीयत्वेन स्वीकारपूर्वकत्वादित्यर्थः ।
ग्राहकं दर्शयति –
विधेश्चेति ।
अविहिते च ज्ञाने विध्यभावादेव कर्मणां विद्यां प्रत्यङ्गत्वेन प्रयोगविधिग्रहणानुपपत्तेरित्यर्थः ।
ननु तर्हि विद्या विधीयतां, नेत्याह –
चतसृणामपीति ।
एका हि प्रतिपत्तिः साङ्गाध्ययनप्रसवा, अन्या तु शास्त्रश्रवणजा, अपरा ध्यानरूपा, चतुर्थी साक्षात्कृतिः । तासां चतसृणामपि ब्रह्मविषयप्रतिपत्तीनां विधानानुपपत्तिरित्युक्तमित्यर्थः ॥३३॥
ननु ‘‘यावज्जीवमग्निहोत्रं जुहुयादिग्निहोत्रं जुहुयात्स्वर्गकाम’’ इति वाक्ययोरेकप्रकरणे श्रवणाद्युक्त एकस्य कर्मणः काम्यत्वेन नित्यत्वेन च विनियोगः, यज्ञादिवाक्यस्य तु भिन्नप्रकरणत्वान्न विनियोगान्तरहेतुत्वम्, किंतु कर्मान्तरविधायकत्वमेवेति, नेत्याह –
न हि प्रकरणान्तरमिति ।
यत्र कर्मैव धातुनोपादायाख्यातेन विधीयते तत्र कर्मविधायकत्वस्वभावमपरित्यजन् विधिः कर्मान्तरं विदध्यात्, विविदिषावाक्ये तु न यज्ञादिधात्वर्थे विधिः श्रूयते, किं तु विविदिषायां यज्ञादयस्त्वन्यत्रैवोत्पन्ना आख्यातापरतन्त्रैर्यज्ञादिशब्दैरनूद्यन्ते । तत्र फलभूतविविदिषायां विध्ययोगादयं विधिर्यज्ञादीस्तस्यां विनियुञ्जानो न यज्ञादीन् भिनत्तीत्यर्थः ।
यदि प्रदेशान्तरोत्पन्नकर्मानुवादेन विविदिषासंबन्धविधिः स्यात्तर्हि कौण्डपायिनामयनेऽपि नित्याग्निहोत्रानुवादेन मासविधिरापद्येत, तत्राह –
न च तत्रापीति ।
ननु होम एव साक्षाद्विधिश्रवणेऽपि ‘‘यदाहवनीये जुह्वति’’ इत्यत्र होमानुवादेनाहवनीयविधिर्दृष्टः, एवमत्रापि होमानुवादेन कालविधिः किं न स्यादत आह –
कालस्येति ।
पुरुषानुष्ठेयविषयो हि विधिरनुष्ठेयं कालं न विदधाति, किंतु तस्मिन्कर्म विदधाति, आहवनीयस्य तु उपादेयत्वाद् युक्तं प्रदेशान्तरसिद्धकर्मानुवादेन विधानमित्यर्थः ।
ननु कालोऽ पि विधीयते यदग्नेयोऽष्टाकपालोऽमावास्यायामित्यादौ, तत्राह –
काले हीति ।
तत्राप्यमावास्यादिकाले कर्मैव विधीयते इत्यर्थः ।
सायं जुहोतीत्यादौ कालोऽपि विधीयते, होमस्याग्निहोत्रं जुहोतीत्यनेनैव विहितस्यानुवादादत उक्तम् –
उत्सर्ग इति ।
अन्यतः कर्मप्राप्तिरुत्सर्गस्यापवादिका, सा च सायमग्निहोत्रमित्यत्र संदिग्धा विशिष्टविधिसंभवात्तथा चोत्सर्गोऽनपोदित इत्यर्थः ।
स्मृतिरुक्तेति ।
भाष्ये इति शेषः ॥३४॥३५॥
इत्यष्टममाश्रमकर्माधिकरणम् ॥
अन्तरा चापि तु तद्दृष्टेः ॥३६॥
आश्रमकर्मसापेक्षैव विद्या फलप्रदेति वदन्प्रष्टव्यः किं फले अपेक्षा, उतोत्पत्तौ, नाद्य इत्याह –
न खलु विद्येति ।
द्वितीयमाशङ्क्य परिहरति –
ननु यथेत्यादिना ।
प्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोतीति भाष्यमयुक्तम्, अप्रतिषिद्धानामपि केषांचिद् विद्योदयादर्शनादत आह –
प्रतिषेधो विधात इति ।
विघातः प्रतिबन्धः, तदभावादनुष्ठितसाधनस्य विद्योत्पद्यत इत्यर्थः । स्मृतौ मैत्र इत्यहिंसको ब्राह्मणः । ततश्च जपमात्रत्तस्य पुरुषार्थसिद्धिरित्यर्थः ॥३६॥३७॥३८॥३९॥
इति नवमं विधुराधिकरणम् ॥
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥४०॥ यदा नाश्रमकर्मापि विद्यासाधनं, तदा आरूढपतितस्य पूर्वाश्रमप्रस्थितस्य कर्म किमु वक्तव्यमिति सङ्गतिः ।
पूर्वकर्मस्वनुष्ठानचिकीर्षयेत्यादिभाष्यं व्याचष्टे –
पूर्वधर्मेष्वित्यादिना ।
अरण्यमिति ।यत्पदमाश्रमस्ततो नैनमियात्पुनस्ततो नेयान्नवर्तेतेत्यर्थः ॥४०॥
इति दशमं तद्भूताधिकरणम् ॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१॥ प्रत्यवरोहोऽशास्त्रीय इत्युक्तम्, स यदि क्रियते, तर्हि किमस्ति प्रायश्चित्तं न वेति चिन्त्यते ।
ब्रह्मचारित्वान्निष्ठिकस्यापि नैऋतालम्भप्राप्तेः पूर्वपक्षाभावमाशङ्क्याह –
प्रायश्चित्तमिति ।
अवकीर्णिपशुश्च तद्वदिति ।
उपनयनहोमा आहवनीये कार्या ‘‘यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीतो भवती’’त्याहवनीयस्य सर्वहोमार्थत्वादिति प्रापय्य षष्ठे सिद्धान्तितम् । आधानं हि ‘‘जातपुत्र आदधीते’’ति वचनात् कृतदारस्य विहितम् । उपनयनकाले च दाराभावादाधानमप्राप्तकालम् । तदभावाच्चाहवनीयाभावः । तस्माल्लौकिकेऽग्नाविति एवमवकीर्णिपशुरपीत्यर्थः ॥४१॥ श्रुतिस्तावदुपदिशति साक्षादित्यन्वयः ।
ननु प्रायश्चित्तसद्भावश्रुतिः सामान्यविषया, तदभावविषया स्मृतिस्तु नैष्ठिकविशेषविषया प्रबलेति, नेत्याह –
प्रायश्चित्तमिति ।
श्रुते नैष्ठिके प्रायश्चित्तं बोधयितुं सामान्यमेकमेव व्यवधानं स्मृतेस्तु तस्मिस्तदभावं बोधयितुं निषेधकल्पना, ततस्तन्मूलश्रुतिकल्पनेति व्यवधानद्वयम्, अतो दुर्बला स्मृतिः श्रुत्यनुसारेण नेतव्येत्यर्थः ।
यत्नगौरवार्थं प्रायश्चित्तनिषेधश्चेत्तत्किं यत्नगौरवं तदाह –
कृतनिर्णेजनैरिति ।
संख्यानं संप्रतिपत्तिः संव्यवहारः अन्यैर्व्यवहर्तृभिरवकीर्णिनि व्यवहाराभावे यत्नगौरवं कर्तव्यमिति स्मृत्यर्थ इति भावः । समा विप्रतिपत्तिः स्या(जै.सू.अ.१ पा.३ सू,८) दिति यववराहाधिकरणपूर्वपक्षसूत्रम् ।यववराहशब्दार्थावधारणे आर्याणां म्लेच्छानां च विप्रतिपत्तिः समेत्यर्थः । एष दृष्टान्तः ।
प्रकृते दार्ष्टान्तिके योजयति –
आचार्याणामिति ।
शास्त्रस्था वा तन्निमित्तत्वा(जै.सू.अ.१ पा.३.सू.१९) दिति सिद्धान्तसूत्रं, तद्योजयति –
शास्त्रस्था येति ।
यववराहाधिकरणं लिङ्गभूयस्त्वा (व्या.सू.अ.३ पा ३ सू.४४) दित्यत्रानुक्रान्तम् ।
ननु प्रायश्चित्ताभावप्रसिद्धिरपि स्मृतिमूलैवेति नेत्याह –
उपपादितं चेति ।
विप्रकृष्टार्थायाः स्मृतेः सकाशात् सन्निकृष्टार्थश्रुतेर्बलीयस्त्वात् प्रायश्चित्तभावप्रसिद्धेस्तन्मूलत्वमुपपादितम् इत्यर्थः ।।४२॥
इति एकादशमाधिकारिकाधिकरणम् ॥
बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥
उत नेतीति ।
चिन्त्यते इति शेषः ।
सङ्गतिगर्भं पूर्वपक्षमाह –
तत्रेति ।
कृतप्रायश्चित्तानामवकीर्णिनां संव्यवहार्यत्वे तैः सह कृतं श्रवणादिकं विद्यासाधनं न वेति चिन्ताप्रयोजनम् । सर्वपातकमिह परत्र वाऽशुद्धिं जनयति ।
तत्र नैष्ठिकादीनामाश्रमच्युतेर्बहुनिन्दादर्शनात् तज्जन्यपापापूर्वे प्रायश्चित्तेन नुवर्तेतेति; निमित्तनिवृत्तावपि कार्यानुवृत्तेर्बहुलमुपलम्भादित्यभिप्रेत्य सिद्धान्तमाह –
निषिद्धेत्यादिना ।
निषिद्धकर्मत्रितयात्तदनुष्ठानजन्यमेनः पापापूर्वं लोकद्वयेऽप्यशुद्धिं तावदापादयति । तच्च द्वैधिं द्विप्रकारकम् ।
तदेव दर्शयति –
कस्य चिदित्यादिना ।
यत्याद्याश्रमच्युतेरैहलौकिकाशुध्द्यापादकत्वे दृष्टान्तमाह –
यथा स्त्रीबालादिति ।
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संपिबेत् ॥ इति मनुवचनम् । न संपिबेत् अन्योन्यं गृहे भोजनादिसंव्यवहारं न कुर्यादित्यर्थः । मनुवचनव्याख्यानरूपं याज्ञवल्कीयवचनम् - प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतोऽव्यवहार्यस्तु वचनादिह जायते । इति ।
तत्राव्यवहार्य इत्यकारप्रश्लेषं कृत्वा व्याख्यायोदाहरति –
तथा चेति ।
अज्ञानकृतं यदेनो भवेद्यच्च कामतः कृतं तदुभयं प्रायश्चित्तैरपैतीत्येवमर्थतया व्याचष्टे –
कामतः कृतमपीति ।
कामतः कृतब्रह्मवधादिग्रहणं बालवधाद्युपलक्षणार्थं मत्वा श्लोकशेषं व्याचष्टे –
बालघ्नादिस्त्विति ।
वचनादित्युक्तं, किं तदित्यत आह – वचनमिति ॥४३॥
इति द्वादशं बहिरधिकरणम् ॥
स्वामिनः फलश्रुतेरित्यात्रेयः ॥४४॥ पूर्वत्र कृतप्रायश्चित्तः संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयवचनेन बाधः कृतः , एवमिहाप्याश्रयाङ्गानुष्ठातुरेवाश्रितोपास्तिकर्तृत्वमित्युत्सर्गो वर्षति हास्मै य उपास्त इत्यादिवचनात् फलभाज एव यजमानस्य साधने कर्तृत्वप्रतिपादकाद् बाध्यत इति संङ्गतिः । पतितैर्व्यवहारे हि कदाचित्स्युस्त ऋत्विजः । आर्त्विज्यत्वादुपास्तीनां तत्संपर्कं ततस्त्यजेत् ॥ इति प्रकृतोपयोगः ।
शास्त्रपौनरुक्त्यमाशङ्क्याह –
प्रथमे काण्डे इति ।
ज्योतिष्टोमादिप्रकरणेषु श्रुतानि ‘‘यदि कामयेत वर्षेत्पर्जन्य इति नीचैः सदो मिनुयात् ।’‘ सदः सभामण्डलम् । तद् नीचैर्निर्मिमीतेत्यर्थः । इत्यादीन्यङ्गफलान्यृत्विग्गामीनि । याजुर्वेदिकत्वेनाध्वर्यवसमाख्यानादृत्विजि सन्निहिते ‘‘यदि कामयेते’’ति वाक्येन तस्यैव फलसंबन्धबोधनादिति प्राप्ते राद्धान्तः । यथा त्र्ययं नाश्नीयादित्यादि तपः सत्यप्याध्वर्यवसमाख्याने याजमानम् ; तपसः प्रधानफलसिद्ध्यर्थत्वात्, प्रधानफलस्य च याजमानत्वात्, तथा कामोऽङ्गफलमपि यजमानगामि । कुतः? अर्थसंयोगात् । यजेतेत्यात्मनेपदेन प्रधानफलस्य यजमानसंबन्धबोधनादिति । अत्राङ्गफलस्य याजमानत्वनिर्देशोऽङ्गस्य तदाश्रितोपास्तेश्चार्थादृत्विक्वर्तृकत्वमवगमयतीति पुनरुक्तिशङ्का, सा न कार्या; ऋत्विक्वर्तृकत्वस्य सिद्धवत्कारादित्यर्थः ।
एवंजातीयकानीति ।
सदःकरणादिक्रत्वङ्गजातीयानीत्यर्थः । चकार उपासनानि इत्यस्योपरि नेतव्यः ।
उपासनानीति ।
तथाकाम (जै.अ.३ पा.८ सू.१३) इत्यधिकरणेऽङ्गानामृत्विक्वर्तृकत्वं न चिन्तितं, किंतु तदाश्रितोपास्तीनामित्यर्थः । यदपि शास्त्रफलं प्रयोक्तरी(जै.अ.३ पा.७.सू.१८) त्यधिकरणेऽन्यो वा स्यात्परिक्रयाम्नना (जै.अ.३ पा. ७ सू.२०) दित्यङ्गानामृत्विक्वर्तृकत्वमभिहितं, न तेनापि पुनरुक्तिरुपास्तीनामनङ्गत्वादिति । न चैवं गोदोहनादेरपि याजमानत्वशङ्का; अप्प्रणयनादेरङ्गस्यावश्यमृत्विङ्निर्वर्त्यत्वात्तदाश्रितद्रव्यस्याव्यापाररूपस्य पृथक् प्रयोगायोगाद् । उपास्तीनां तु क्रियात्वाद्भवति पृथक् प्रयोगः । शक्यते ह्युद्गीथाद्यङ्गेषु ऋत्विग्भिरनुष्ठीयमानेषु यजमानेन तेष्वादित्यादिदृष्टिरध्यसितुमिति ।
ननु ‘‘वर्षति’’ हास्मै पर्जन्यः वर्षयति चान्यार्थमयं य एवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते’’ इत्यादौ कथं याजमानत्वशङ्का? न - हीह यजमानपदमस्ति, अत आह –
तत्रोपासकानामित्यादिना ।
कर्मणीश्वरोऽधिकारी, तस्यैव फलम्, इह चोपासनकर्तुः फलश्रवणादधिकारी यजमान एवोपासनकर्तेति गम्यते इत्यर्थः ।
ननु कर्तुः फलश्रवणं तस्य याजमानत्वं न गमयितुमर्हति, ‘‘आत्मनो वा यजमानाय वा यं कामं कामयते तमागायति आगानेन संपादयती’’त्यादावृत्विजोऽपि फलश्रवणादत आह –
वचनाच्चेति ।
औत्सर्गिकन्यायस्य वचनमपवादकमसत्यपवादे फलं यजमानस्यैवेत्यर्थः । यजमानस्योपासनम्; उपासकस्य सतः फलश्रुतेः ।
तत्र दृष्टान्तः –
फलवदिति ।
ननु ‘‘तमुद्गीथं बको नामतो दाल्भस्यापत्यं दाल्भ्यो विदांचकार उपासितवान् स ह नैमिषीयाणां सत्रिणामुद्गाता बभूवेत्यृत्विजोऽप्युपासनकर्तृत्वं श्रूयते, तच्च लिङ्गं सर्वार्त्विज्यमुपास्तीनां गमयति, तत्राह –
तं हेति ।
अन्यार्थदर्शनं हीदमन्यतः सिद्धं विषमीकुर्याद्, इह त्वन्यतः सिद्धिर्नास्ति, तत उपासनफलभाजो यजमानस्यैव कर्तृत्वमिति न्यायं न बाधेतेत्यर्थः ॥४४॥ ननु ‘‘तस्मै हि परिक्रीयते’’ इति सिद्धान्तहेतुरसिद्धः, अङ्गाश्रितोपास्तीनां याजमानत्वे विप्रतिपन्नं प्रति तदर्थमृत्विक् परिक्रयस्यासिद्धेः, न च - अङ्गकर्तॄणामृत्विजां तदाश्रितोपास्तिपर्यन्तं परिक्रयः सन्निधानादिति – वाच्यम् ; यत्र हि तेषां कर्तृत्वं प्रमितं तदर्थं ते परिक्रेतव्यः, न तु सन्निहितार्थम्; अन्यथाऽङ्गसन्निहितपश्वादिद्रव्यसिद्ध्यर्थमपि तत्परिक्रयप्रसङ्गात् ।
तस्मान्न हेतुवचनार्थं पश्यामोऽत आह –
उपाख्यानात्तवदिति ।
‘‘तं ह बक’’ इत्याद्युपाख्यानं तच्च वाक्यशेषगत – त्वान्निर्णायकं न प्रापकमपेक्षते, यस्त्वन्यत्र न्यायबाध उक्तस्तत्परिहारपरत्वेन ‘‘तस्मै हि परिक्रीयत’’ इति सूत्रावयवं व्याचष्टे – न चेत्यादिना ।
तेन यजमानेन स ऋत्विक् परिक्रीतः संस्तद्गामिने फलाय घटते संपादयितुं युज्यते इत्यर्थः । एतदुक्तं भवति – यजमानगामिता फलस्य साक्षात्तत्कर्तृकत्वे परिक्रीतर्त्विक्वर्तृकत्वे चोपास्तीनां संभवति, ततः सा कांस्यभोजिन्यायेन लिङ्गदर्शनमनुग्रहीतुं परिक्रयद्वारकं कर्तृत्वमाश्रयतीति ।
एवं च लिङ्गदर्शनादृत्विक्कर्तृकत्वेऽङ्गोपास्तीनां सिद्धे तदर्थमपि ऋत्विक् परिक्रीयत इति सूत्रावयवो व्याख्यातः । एतच्च सर्वं तथा चेत्यादिभाष्यादुत्थितमिति परार्थत्वादिति भाष्येणर्त्विग्द्वारा कर्तृत्वाद्यजमानस्य फलमित्युक्त्वाऽन्यत्रेत्यनेन सति वचने ऋत्विजोऽपीत्युक्तम् ।
व्यसनितामात्रेणेति ।
फलिन एव कर्तृत्वमिति न्यायस्योभयथा संभवे यजमानमात्रकर्तृकत्वविषयः पुरुषस्याग्रहो व्यसनिता । यस्मादाधिदैविकमादित्यपुरुषमाध्यात्मिकं चाक्षुषपुरुषमुपासीत उद्गाता तदुभयात्मको भूत्वा सर्वान् लोकान् आप्नोति तस्मादेवंविदुद्गाता यजमानं ब्रूयात् ते किं कामं फलमागायान्यागानेन संपादयानि । समर्थो हि स फलसंपादने इत्यर्थः ॥४५॥४६॥
इति त्रयोदशं स्वाम्यधिकरणम् ॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४७॥ यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वैषणाभ्यो व्युत्थाय भिक्षाचर्यमाचरन्ति तस्मादधुनातनोऽपि ब्राह्मणः पण्डाऽध्ययनजा ब्रह्मधीस्तद्वान् पण्डितः, तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य बाल्येन ज्ञानबलभावेन युक्तितोऽसंभावनानिरासरूपमननेन वा शुद्धहृदयत्वेन वा तिष्ठासेत् स्थातुमिच्छेद्, ‘‘बाल्यं च पाण्डित्यं च निर्विद्ये’’त्यादिरनुवाद उक्तदार्ढ्यार्थः । मुनिर्मननशीलो निदिध्यासकः स्याद् मौनादन्यद् बाल्यं पाण्डित्यममौनं मौनं च निदिध्यासनं निर्विद्याथ ब्राह्मणः ब्रह्माहमित्यवगच्छतीति ब्राह्मणः साक्षात्कृतब्रह्मा भवतीत्यर्थः । पूर्वत्र ‘‘तं ह बक’’ इति वाक्यशेषादङ्गोपासनमृत्विक्वर्तृकमित्युक्तम् । एवमिहाप्यथ ब्राह्मण इति विधिविधुरवाक्यशेषादथ मुनिरित्येषोऽपि न विधिरिति सङ्गतिः ।
ननु बाल्येनेत्युपक्रमे विधिश्रुतेर्मौनेऽपि विधिरस्तु, नेत्याह –
यत्र हीति ।
यद्यत्रापि विधेयत्वं स्यात्तर्हि विधिः श्रूयेत बाल्यवदतः श्रोतव्यत्वे सत्यश्रवणाद् विध्यभावो गम्यत इत्यर्थः ।
प्रशंसार्थमिति ।
यदा पाण्डित्यशब्देन मौनस्य प्राप्तिस्तदेत्थं विधीयमानस्य बाल्यस्य प्रशंसा । न हि पाण्डित्यं स्वरूपेण ज्ञानं भवत्यपि तु बाल्येऽनुष्ठितेऽनन्तरं मौनापरपर्यायं पाण्डित्यं कृतं भवेत्, तस्माद्बाल्यं प्रशस्तं भवेदिति । यदा तु मौनस्योत्तमाश्रमस्य विध्यन्तरप्राप्तस्यानुवादः, तदा बाल्यमात्रानुष्ठानवानुत्तमाश्रमित्वेन स्तूयते इति व्यक्ता स्तुतिः ।
सिद्धान्तमाह –
भवेदित्यादिना ।
अनुवादित्वं मौनशब्दस्य परिहृत्य विध्यश्रवणादविधेयत्वम् ; उक्तं परिहरति –
एवं चेति ।
तत्र तावत् ‘‘अमुनिरिति’’ साकाङ्क्षत्वान्निर्देशस्य तिष्ठासेद् इति विधिरनुषज्यते । मौनं निर्विद्येति संपाद्यत्वं च विधेयत्वं गम यतीत्यर्थः ।
साक्षात्कारवतो विद्यातिशयस्य सिद्धत्वाद्विधिवैयर्थ्यमाशङ्क्याह –
विद्यातिशय इति ।
विद्यावत इत्यत्र विद्याशब्देन विद्यातिशयो विवक्षित इत्यर्थः । उत्पन्नो विद्यातिशयो यस्य स तथोक्तः । विधिर्हि प्रधानमुपक्रम्याङ्गपर्यन्तः, ततः प्रधानविधिर्विध्यादिर्न पुनर्विधिव्यतिरिक्तः कश्चिदादिशब्दार्थ इत्यर्थः ।
समिदादेर्विध्यन्तत्वे हेतुः –
प्रधानविधेरिति ।
अतोऽङ्गस्य विध्यन्तत्वप्रसिद्धिः प्रधानविधेर्विध्यादित्वं गमयतीत्यर्थः । अपूर्वत्वाद्विधिरास्थेय इति समन्वयसूत्रे निदिध्यासनादेर्वस्त्ववगमवैशद्यं प्रत्यन्वयव्यतिरेकसिद्धत्वादविधेयत्वमुक्तम्, इह त्वन्वयव्यतिरेकसिद्धत्वेऽपि शाब्दज्ञानात् कृतकृत्यतां मन्वानो यदि कश्चित् ज्ञानातिशयरूपे निदिध्यासने न प्रवर्तेत, तं प्रत्यप्राप्तं तद्विधीयते इत्युच्यते । अत एव श्रुतिः ‘‘तत्त्वेव भयं विदुषोऽमन्वानस्ये’’ति । अथवा पाण्डित्यादिशब्दान्तरादप्राप्तिरपूर्वत्वं विधित्वं चार्थवादस्यैव सतो वाक्यस्य प्रसंसाद्वारेण प्रवृत्त्यतिशयकरत्वम् ।
अत एव समन्वयसूत्रे भाष्यं –
विधिच्छायानि वचनानीति ।
अपि च - नात्रापूर्वविधिः प्राप्तेरनन्योपायतो न च । नियमः परिसंख्या वा श्रवणादिषु संभवेत् ॥ अवघातो हि दलनाद्युपायान्तरसंभवे च सति पाक्षिक्यामप्राप्तौ तत्परिपूरणेन नियम्यते । ‘‘इमामगृभ्णन् रशनामृतस्ये’’ति मन्त्रश्चागृभ्णन्नित्यादानलिङ्गाद् रशनाशब्दाच्चाश्वगर्दभरशनयोरुभयत्र प्राप्तौ ‘‘अश्वाभिधानीमादत्त’’ इति गर्दभरशनातो व्यावर्त्यते, न तु श्रवणादिसाध्ये ब्रह्मसाक्षात्कारेऽस्त्युपायान्तरसंभवो यतः श्रवणादेर्नियमः परिसंख्या वा स्यात् । न च ब्रह्मसाक्षात्कारव्यक्तावुपायान्तरासंभवादपूर्वविधित्वमाशङ्कनीयम्; यतः सामान्योपाधावन्वयव्यतिरेकौ निवेशेते, न व्यक्तौ; इतरथाऽवघातव्यक्तिसाध्यतण्डुलव्यक्तावुपायान्तरासंभवपरिज्ञानादपूर्वविधित्वप्रसङ्गात् । यत्तु वार्तिककृद्भिरुक्तम् - ‘‘सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् । श्रोतस्य इत्यतः प्राह वेदान्तावरुरुत्सया ॥’‘ इति । प्रमाणफलं साक्षात्कारं प्रति सर्वमानप्राप्तौ वेदान्ता नियम्यन्ते इत्यत्रापि प्रमाणनियम उक्तो न श्रवणनियमः । न च स एव विधेर्विषयः; सन्निधानादेव वेदान्तलाभात् । एतेन पुराणादिप्राप्तौ वेदान्तनियमं व्याचक्षीत । तस्मान्न वाचस्पतेः पूर्वापरव्याहतभाषिता नापि सूत्रभाष्यानभिज्ञतेति ॥४७॥
कस्मात्पुनर्गार्हस्थ्येनेति ।
तेनोपसंहारे हि न ततः पर आश्रम इति द्योतितं भवति । तच्चानुपपन्नं बाल्यप्रधान आश्रमान्तरे सतीत्यर्थः ॥४७॥
वृत्तिर्वानप्रस्थानामिति ।
वैखानसा औदुम्बरा वालखिल्याः फेनपाश्चेति वानप्रस्थवृत्तिभेदाः । गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारिवृत्तयः ॥४९॥
इति चतुर्दशं सहकार्यन्तरविध्यधिकरणम् ॥
अनाविष्कुर्वन्नन्वयात् ॥५०॥
ननु भावशुद्धिरपि बालचरितं भवति तन्मात्रमेव गृह्यतामत आह –
यावद् बालचरितश्रुतेरिति ।
यावदस्ति बालचरितं तावतः सर्वस्य बाल्येनेति श्रुतेरवगमान्न सङ्कोचः कार्य इत्यर्थः ।
अपि च यथा पूर्वत्र मौनशब्दस्य ज्ञानातिशये प्रसिद्धिमाश्रित्याप्राप्तमौनविधिराश्रितः, एवमत्रापि बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तदेव बाल्यं न हि शुद्धभावेऽपि तपस्विनि बालशब्दं वृद्धाः प्रयुञ्जत इत्यभिप्रेत्याह –
कामचारेति ।
भावशुद्धिरूपं तदेवेति ।
यद्यपि केवलायां भावशुद्धौ बाल्यशब्दोन प्रसिद्धः; तथापि कामचारादिमति बाले भावशुद्धिरस्ति, तावन्मात्रपरतया बाल्यशब्दः सङ्कोच्यत इत्यर्थः ।
सङ्कोचे च कारणं शेषिविध्यनुग्रह एकमुक्तम्, अपरं चाह –
एवं चेति ।
शास्त्रान्तरबाधनं यदन्याय्यं तदेवं सति न भविष्यतीति योजना ॥५०॥
इति पञ्चदशमनाविष्काराधिकरणम् ॥
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥५१॥
संशयं प्रदर्श्य पूर्वपक्षाभावमाशङ्कते –
यद्यपीति ।
विघ्नोपशमेनेति ।
श्रवणादौ पुरुषप्रवृत्तौ पापरूपो यो विघ्नस्तदुपशमेनेत्यर्थः । यज्ञादीनां श्रवणादिघटकत्वाद् घटितेषु श्रवणादिषु विद्ययाऽवश्यं भवितव्यमित्यैहिकत्वनियम इति भावः । तदात्वे तत्काले साधनानुष्ठानानन्तरक्षणे भवं तादात्विकम् । श्रवणादिस्वरूपनिष्पत्तये यथा सत्त्वशुद्धिविघ्ननिरासौ कर्तव्यौ, एवं श्रवणादिभिर्विद्योत्पत्तये च तैस्तौ कर्तव्यौ, तत्र यज्ञादिभिः सत्त्वशुध्द्याद्युत्पत्तावपि विरोधिकर्मान्तरैः प्रारब्धफलैः प्रतिबन्धाप्रतिबन्धौ संभाव्येते; ‘‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्यु’’रिति श्रुतेः । न चैवं प्रतिबन्धकनिवर्तकस्यापि प्रतिबन्धकान्तराभ्युपगमे तन्निवृत्त्यर्थमपि कर्मान्तरमनुष्ठेयमित्यनवस्था; यज्ञादिप्रतिबन्धकस्य पाप्मनो भोगद्वारेण प्रतिबन्धकत्वाद्भोगनिवृत्तौ तत्क्षये यज्ञादिभिः सत्त्वशुध्द्याद्यारम्भसंभवात् ।
अतश्चानियतफलयज्ञादिसापेक्षत्वाच्छ्रवणादेरविधेयस्याप्यनियतफलत्वमिति सिद्धान्तयति –
यत एवेति ।
एवं - विधिसामर्थ्यमाश्रित्य ब्रुवन्नामुत्रिकं फलम् । श्रवणादेः कथंकारं वाचस्पतिर्न त्रेपे इति कैश्चित्कृत उपालम्भ एतद्ग्रन्थार्थालोचनेऽनवकाशः परावृत्त्य तत्रैव धावति ।
न च - दृष्टफलस्यामुष्मिकफलत्वमदृष्टापेक्षत्वं चानुपपन्नमिति – सांप्रतम्; प्राग्भवीयगान्धर्वादिशास्त्राभ्यासस्येह षड्जादिवैशद्यहेतुभावस्य देवताप्रणिधानाद्यपेक्षितायाश्चोपलम्भादिति ।
‘‘शृण्वन्तोऽपि बहवो यं न विद्युरि’’त्यत्र हेतुरित्युच्यते –
आश्चर्य इति ।
यथावदस्मात्मनो वक्ताऽऽश्चर्यः अद्भुतवत्कश्चिदेव भवति, सम्यगाचार्यस्य सम्पत्तावपि तस्माच्छ्रुत्वा लब्धा साक्षात्कर्ताऽऽश्चर्यः । आस्तां साक्षात्कारः कुशलेनाचार्येणानुशिष्टोऽपि शास्त्रतः परोक्षवृत्त्या ज्ञाताऽप्याश्चर्य एवेत्यर्थः ॥४१॥
इति षोडशमैहिकाधिकरणम् ॥
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥४२॥
ब्रह्मोपासनापरिपाकलब्धजन्मनीति ।
परिपाकेन लब्धं जन्म यस्याः सा विद्या ब्रह्मोपासनापरिपाकलब्धजन्मा तस्यामित्यर्थः ।
ननु विद्यावतोऽपि शरीरस्य धारणात्कथं मुक्तिः? तत्राह –
सत्यप्यारब्धेति ।
रूपतः स्वरूपतो निकर्षोत्कर्षौ स्यातामिति । तथा च सातिशयत्वात्कर्मसाध्यत्वमिति पुरुषार्थोऽत इत्यस्याक्षेप इत्यर्थः । मोक्षः, सातिशयः, विलम्बिताऽविलम्बित साधनसाध्यत्वात्, कर्मफलवदित्यनुमानम् ।
अनुमानान्तरमाह –
अपि चेति ।
तत्र तत्र साधकेष्वैकरूप्यं स्यान्न कर्मणा वर्धते नो कनीयानित्यादिश्रुतेरित्यर्थः ।
उपपत्तेश्चेत्युक्तं, तामेवाह –
साध्यं हीति ।
मा भूत्स्वरूपावस्थानलक्षणायां मुक्तौ सातिशयत्वमनर्थनिवृत्तिलक्षणायां तु स्याद्, नेत्याह –
न च सवासनेति ।
विरोधिकार्योदय एव पूर्वप्रध्वंस इति मतमाश्रित्य । क्लेशादिक्षयो विद्याजन्मेति सामानाधिकरण्यम् । विद्याजन्मरूपोऽविद्याध्वंस एकरूपः । निवर्त्यविशेषोपाधिकस्तु तस्यापि विशेष इत्यर्थः ।
तर्हि स एवास्तु, तत्राह –
न च सावशेष इति ।
यदुक्तं साधनविशेषान्मोक्षे विशेष इति, तत्राह –
न च चिराचिरोत्पादेति ।
साधनविद्याचिराचिरत्वाभ्यां मोक्षे न विशेषानुमानम्; एतज्जन्मजन्मान्तरानुष्ठितयागसाध्यस्वर्गवदविशेषसंभवात्, स्वाभाविकस्तु विद्यायामपि नास्ति विशेषः । अतोऽस्मिन्पक्षे हेतोरसिद्धिः, वेद्यब्रह्मण एकरूपत्वश्रुत्या विद्याया अप्येकरूपत्वेन श्रुतेरित्यर्थः ।
द्वितीयेऽनुमाने सगुणविषयत्वमुपाधिमाह –
सगुणविद्यायास्त्विति ।
तत्कार्यस्येति ।
विद्याकार्यस्येत्यर्थः ।
कालातीतत्वं चाह –
न चात्रेति ।
मोक्षेऽप्युपेयविशेषणं भेदाभेदविकल्पासहत्वं युक्तिः ॥५२॥
इति सप्तदशं मुक्तिफलानियमाधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ तृतीयाध्यायस्य चतुर्थः पादः ॥