वेदान्तकल्पतरुः
आवृत्त्यधिकरणविषयाः
आवृत्तिरसकृदुपदेशात्॥१॥
तृतीये चिन्तितं सर्वं साक्षाच्छ्रुत्युक्तसाधनम् ।
फलार्थापत्तिसंसिद्धमावृत्त्याद्यत्र चिन्त्यते॥
आत्मेति तु विरोधपरिहारफलं, तस्य चात्र प्रस्तावे कारणं वक्ष्यते । न प्रतीक इत्यादि त्वधिकरणत्रयमत्र प्रासङ्गिकम्, तस्माद्भवत्येवायमभिप्रायश्चतुर्थे तृतीयशेषानुवर्तनस्येति । फलाध्यायं व्याख्यास्यन् फलावसरे श्रोतॄणामुत्साहजननाय स्वकृतेरकलङ्कतां ब्रुवन् दुर्जनान् शिक्षयति, सत्पुरुषांश्चाभिनन्दति –
नाभ्यर्थ्या इति ।
इह ग्रन्थे श्रवणार्थममत्सरिणः सज्जना नाभ्यर्थनीयाः ।
अत्र हेतुमाह –
स्वयमिति ।
ते हि ग्रन्थगुणान्दृष्ट्वा स्वयमेव प्रवृत्ता भवन्ति , इतरे तु मत्सरिणः श्रवणाय प्रवर्तयितुं न शक्याः ।
अशक्यत्वे हेतुमाह –
मत्सरेति ।
मत्सर एव पित्तं हृदयतापकत्वात् तन्निमित्तमचिकित्स्यं चिकित्साऽनर्हमरोचकं सत्कविभणितिष्वरुच्यापादकं धातुवैषम्यं येषां ते न शक्या इत्यर्थः । केषांचिद्विरलपापानां मात्सर्यं विवेकोपदेशेन शक्यं चिकित्सितुम्, इदं तु न तथेत्युक्तम् अचिकित्स्यमिति ।
आचार्यस्य शिष्यः सनातननामा तत्कृतां स्तुतिं तत्प्रीत्यर्थं प्रबन्धमधिरोपयति –
शङ्के इति ।
संप्रति सान्द्रतपःस्थितेषु निरन्तरतपोनिष्ठेषु निमित्तेष्वधुना स्वाराज्यसौख्यं वहन्निन्द्रो मम राज्यं तपसा हरिष्यतीति य उद्वेगस्तं निर्विशङ्कं निर्विशङ्को यथा भवति तथा कथमपि नाभ्येष्यतीति शङ्के मन्ये ।
उद्वेगाप्राप्तौ हेतुमाह –
यदिति ।
यस्माद्वाचस्पतिमिश्रनिर्मितं संक्षिप्तं बह्वर्थं यद्व्याख्यानं तन्मात्रेण स्फुटन्प्रकटीभवन् यो वेदान्तार्थस्तद्विषयविवेकेन साक्षात्कारेण वञ्चितोऽपहृतो भवः स्वर्गादिसंसारो येषां ते तथोक्ताः । तेऽमी तपस्विनः स्वर्गेऽपि निःस्पृहा इति यद्यस्मात्तस्माच्छङ्क इत्यन्वयः ।
विषयक्रमेणेति ।
अध्यायविषययोः साधनफलयोः क्रमेणेत्यर्थः ।
ननु ज्ञानार्थत्वाद् दृष्टफलेषु गान्धर्वशास्त्रश्रवणादिवदविधेयेषु श्रवणादिषु यावत्फलमावृत्तिसिद्धौ कथं सकृत्प्रयोगशङ्का? अत आह –
मुक्तिलक्षणस्येति ।
पूर्ववादी मुक्त्यर्थत्वात् श्रवणादीनामदृष्टार्थत्वं विधेयत्वं च मन्यते, विधिषु चाऽऽवृत्त्यश्रवणात्सकृत्प्रयोगशङ्केत्यर्थः । श्रवणादयोऽहंग्रहोपास्तयश्च निर्विशेषसविशेषब्रह्मसाक्षात्कारफला इहोदाहरणम् ।
तत्र श्रवणादिषु सकृत्प्रयोगमुक्त्वाऽहंग्रहोपास्तिष्वप्याह –
यत्र पुनरिति ।
अत्र किं विद्याया मुक्तिसाधनत्वमदृष्टमित्युच्यते, श्रवणादेर्वा विद्यासाधनत्वम् ।
नाद्य इत्याह –
यद्यपीति ।
जीवन्मुक्तेर्दृष्टत्वाद्यद्यपिकारः । अहिविभ्रमस्य रज्जुतत्त्वसाक्षात्कारेण समुच्छेदस्येवाविद्याया विद्योत्पादेन समुच्छेदस्योपपत्तिसिद्धत्वादिति योजना ।
तत्र हेतुः –
विद्योत्पादविरोधितयेति ।
अविद्या विद्यानिवर्त्या अनिर्वाच्यत्वादहिविभ्रमवदित्यनुमानम् ।
न द्वितीय इत्याह –
अन्वयव्यतिरेकाभ्यां चेति ।
इवकारो लोकसिद्धत्वादित्यत उपरि नेतव्यः । गान्धर्वशास्त्रादौ श्रवणाद्यभ्यासस्य साक्षात्कारजनकत्वेनन्वयव्यतिरेकाभ्यां लोकसिद्धत्वात्तद्वदुक्तविशेषणचैतन्यात्मकाहमित्यपरोक्षानुभवस्यापि श्रवणाद्यभ्याससाधनत्वेनानुमानादित्यर्थः । ब्रह्मसाक्षात्कारः, श्रवणाद्यभ्याससाध्य शास्त्रार्थसाक्षात्कारत्वात्, षड्जादिसाक्षात्कारवदित्यनुमानम् ।
ननु विधिप्रत्ययदर्शनाद् अदृष्टार्थत्वमस्तु, तत्राह –
न चेति ।
प्राप्तार्थत्वात् ‘‘विष्णुरुपांशु यष्टव्य’’ इत्यादाविवानुवादकत्वमित्यर्थः ।
ननु दृष्टफलान्यपि श्रवणादीनि अक्षसन्निकर्षादिवदनावृत्तान्येन साक्षात्कारं जनयन्तु, तत्राह –
न चैतानीति ।
सकृच्छ्रवणादिफलादर्शनादित्यर्थः ।
ननु साक्षात्कार एव किमर्थं, धर्मादाविव परोक्षज्ञानमेवास्तु, तत्राह –
न चात्रासाक्षात्कारेति ।
एवं दृष्टफलभूतब्रह्मसाक्षात्कारोपदेशेन श्रवणाद्यनेकोपायोपदेशलिङ्गात् फलसिद्ध्यर्थं प्रत्येकमपि श्रवणादि अभ्यसनीयमिति प्रतिपादितम् ।
अथ यदुक्तमुपासीतेत्यादिषु सकृदुपदेशादनावृत्तिरिति, तत्राह –
ध्यानोपासनयोश्चेति॥१॥२॥
अहंग्रहोपास्तिषु यस्य स्यादद्धेति वचनादुपासनसाध्य उपास्यसाक्षात्कारः प्रतीयतेऽतस्तत्रावृत्तिरर्थवती, न निर्गुणब्रह्मसाक्षात्कारे इत्याह –
साध्ये हीति ।
भाष्ये - आत्मभूतमिति प्रत्ययस्यात्मभूतमित्यर्थः । स्वप्रकाशत्वाद् ब्रह्मणो ब्रह्मविषय इति तु ब्रह्मविषयव्यवहारजनक इत्यर्थो न तु तत्कर्मक इति; तथा सत्यात्मभूतत्वविरोधात् ।
न च जीवस्यात्मभूतमिति व्याख्यानमुचितम् ; अध्याहारप्रसङ्गात् प्रत्ययस्यात्मभूतमिति व्याख्यायां त्वनुषङ्ग एव स्यात्स चाध्याहाराद्वर इति ब्रह्मसाक्षात्कारो ब्रह्मस्वरूपमित्यङ्गीकृत्यावृत्तौ दूषितायां सिद्धान्ती वृत्तिरूपसाक्षात्कारमादाय शङ्कते इत्याह –
आक्षेप्तारमिति ।
ननु स्वरूपप्रकाशेन ब्रह्मप्रथनसिद्धौ किमावृत्त्या? अत आह –
न च ब्रह्मात्मभूत इति ।
नाविद्योदीयेतेति भ्रान्त्यभिप्रायम् ।
पूर्वोक्ताक्षेपेणेति ।
वृत्तिरूपसाक्षात्कारं प्रमामुपेत्य तस्यामप्यावृत्त्याक्षेपेणेत्यर्थः ।
तमेवाह –
न खल्विति ।
तादृश इति तादृक् शब्दात् षष्ठी ।
यदि वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीति नोत्पादयेदिति भाष्ये ब्रह्मात्मत्वप्रतीतिः साक्षात्कारः, परोक्षप्रतीत्युत्पत्तेरेव तदभावाभिधानानुपपत्तेरित्याह –
साक्षात्कारमिति ।
केवलवाक्यमावर्त्यमानमपि न साक्षात्कारं जनयतीत्युक्ते युक्तिसहकृतं जनयिष्यति संस्कार इवाक्षसहितः प्रत्यभिज्ञाम्, अतो वाक्येनैकवारं प्रत्यये कृते युक्त्याऽपि तत्करणादावृत्तिसिद्धिरिति शङ्कते इत्याह –
न केवलमिति ।
एवमपि वाक्ययुक्त्योः प्रत्येकमावृत्तिः सिद्धान्तिसंमता न सिध्यतीति दूषयतीत्याह –
आक्षेप्तेति ।
इदानीं मा भूद्वाक्यमावृत्तिसहकृतं साक्षात्कारस्य कारणम्, मा च युक्तिसहकृतं वाक्यम्, युक्तिवाक्ये त्वावृत्तिसहिते साक्षात्कारकारणे इति शङ्कत इत्याह –
पुनः शङ्कत इति ।
दृढभूमिर्दृढ आश्रयः फलं साधयितुमित्यर्थः । यद्यप्यभ्यासमिति शास्त्रयुक्ती साक्षात्कारं कुरुत इति शङ्कितं, तथाप्यन्यतरोपकृतावन्यतरत्करणमिति वक्तव्यं, करणप्रयुक्तं च प्रतीतेरापरोक्ष्यं यथा प्रत्यभिज्ञायाम् ।
तत्र किं शास्त्रयुक्त्योः करणत्वं भावनाया वेति विकल्प्य दूषयति –
स खल्वयमित्यादिना ।
भावनाप्रकर्षस्य पर्यन्तोऽवधिः काष्ठा तज्जमित्यर्थः ।
पूर्ववादिना शास्त्रयुक्त्योः परोक्षज्ञानजनकत्वादावृत्तयोरनावृत्तयोर्वा न साक्षात्कारहेतुतेति उक्तं, सांप्रतमुपेत्यापि तयोरपरोक्षप्रमाकरणभावमभ्यासवैफल्यमभिधीयत इत्याहाऽऽक्षेप्ता –
आक्षेपान्तरमिति ।
आतश्चेति ।
अवश्यं चेत्यर्थः । अपरोक्षप्रमोत्पत्त्यर्थं आवृत्त्याक्षेपः किमावृत्त्युपकार्यभूतप्रमाणाभावादुत साक्षात्कारयोग्य प्रमेयाभावात् ।
न प्रथम; मनस एव सोपाधिकात्मन्यहंप्रत्ययरूपसाक्षात्कारणतया क्लृप्तशक्तेः शास्त्रयुत्तयभ्यासवासितस्य जीवयाथात्म्यब्रह्मसाक्षात्कारकरणत्वसंभवादित्याह –
सत्यमित्यादिना ।
भावनाभावसाक्षात्कारस्यान्यत्रेव भ्रमत्वमाशङ्क्य प्रमेयस्यापरोक्ष्याद् विसंवादाभावेन वैषम्यं वदन्परिहरति –
सा चेत्यादिना ।
एतेन - द्वितीयो विकल्पः परास्तः ।
तदानीमिति ।
अनुमितिभावनाकाले इत्यर्थः ।
ननु जीवस्वरूपस्य सदातनम् आपरोक्ष्यं भवतु, तद्याथात्म्यस्य तु ब्रह्मस्वभावस्य नित्यशुद्धत्वादेः परोक्षत्वात्तद्भावनाभिः साक्षात्कृतिर्भ्रमः स्यादत आह –
न हीति ।
तर्ह्युपाधिविरहो जीवादन्य इति परोक्षः स्यादतो निरुपाधिब्रह्मापरोक्षप्रतीतिर्भ्रमः स्यान्नेत्याह –
न चेति ।
परमार्थप्रतियोगिको ह्यभावः परमार्थः स नाधिकरणाद्भिद्यते ; कुम्भाभाव इव भूतलात्, अत एव प्रतियोगिप्रमाणमेवाभावेऽपि प्रमाणमिति केचिद् मन्वते । इह चोपाधीनां मिथ्यात्वात्तत्प्रतियोगिकोऽभावोऽपि नास्ति वास्तवः । न चैवमभावानवस्था ; यथा हि भवतां घटो न भवति घटान्योन्याभाव इत्यत्र नान्योन्याभावान्तरमस्ति, न च भावाभावयोरैक्यम्, एवमस्माकमुपाध्यभावो ब्रह्मणि निषिध्यते, न च भावान्तरप्रसङ्ग इति ।
एवं हृदि निधायार्थमिष्टसिद्धिकृतो जगुः ।
आत्मैवाज्ञानहानिर्वा तदाऽप्यात्मैव शिष्यते॥
इति॥
नन्वेवमपि यथा संसारदशायां जीवरूपं चकास्ति, तथैव यदि मोक्षेऽपि तर्हि शास्त्रीयज्ञानवैयर्थ्यं स्यादिति, नेत्याह –
तस्मादिति ।
षड्जादयो हि गान्धर्वशास्त्रश्रवणात्प्रागप्यविकलानधिकाः श्रोत्रेणापरोक्षमीक्ष्यन्ते, ते त्वितरेतरविवेकेनानवधारिता ऐक्येन च समारोप्यमाणा न तथा हर्षविशेषमुपजनयन्त्यविवेकिनां यथा शास्त्रीयलक्षणैर्विविञ्चताम् । तस्माद्यथा तत्र प्रकाशमानेष्विव षड्जादिषु समारोपितमविवेकं निषेधतः शास्त्रस्योपयोगः, एवमत्रापि समारोपितोपाधिकृतस्वप्रकाशानुभवगतमभिभवं व्युदस्यतां वेदान्तानामित्यर्थः । एतदुक्तं भवति - अविकलानधिकेऽवभासमानेऽपि वस्तुनि येन क्रमेणारोपः प्रवृत्तस्तद्विपरीताकारप्रमाणवृत्त्युदयव्यतिरेकेण न भ्रमो निवर्तते, यथा देवदत्ते तदैक्ये चाभिज्ञासिद्धेऽप्यन्योऽयमन्यः स इत्यारोपः सोऽयमित्याकारप्रत्यभिज्ञया विना न निवर्तत इति॥
षड्जमध्यमगान्धारनिषादर्षभधैवताः ।
पञ्चमश्चेति सप्तैते तन्त्रीकण्ठोद्भवाः स्वराः॥
ग्रामः स्वराणां समूहः । मूर्च्छना तु तेषामारोहावरोहौ ।
भाष्ये – सर्वथैवानर्थक्यं कंचित्प्रति नोच्यते ; सम्यग् ज्ञानोपायस्य नियतत्वात्, कित्विह जन्मन्यावृत्त्यनुष्ठानवैयर्थ्यमित्याह –
प्राग्भवीयेति ।
पूर्वपक्षावसरे हि वाक्यमावर्त्यमानमपि नापरोक्षज्ञानं जनयतीत्युक्तं, नावृत्तावपि तदनुपपत्तेरित्यादिभाष्येण, तदेवानूद्य न हि दृष्ट इत्यादिभाष्येण परोक्षार्थवाक्यदृष्टान्तेन परिह्रियते । तदसङ्गतमिव प्रतिभाति ; तत्र वाक्यात्साक्षात्कारोत्पत्तिप्रकारस्य स्वेनैवोपपादितत्वादेतावानाक्षेपः परिशिष्यते, यः प्रथमश्रवणे प्रमित्यतिशयो न भवति, स आवृत्तावपि न स्यादिति ।
तस्य कैमुतिकन्यायेन परिहारभाष्यार्थमाह –
यत्र परोक्षेत्यादिना ।
वाक्याभ्यासानभ्यासाभ्यामेकजातीयपरोक्षज्ञाने जन्यमानेऽप्यावृत्तेरतिशयकरत्वे दृष्टे सत्यपरोक्षज्ञानातिशयाऽऽवृत्तिरिति नानुपपन्नम्, अपि तु सुतरामुपपन्नमिति भाष्यार्थः ।
वाक्यमात्रस्येति ।
परोक्षार्थस्येत्यर्थः ।वाक्यार्थसाक्षात्कारार्थमावृत्त्युपयोगमुक्त्वा तत्त्वंपदार्थविवेकद्वारेण वाक्यमात्रात् परोक्षज्ञानोत्पादनेऽप्यावृत्त्युपयोग उच्यत इत्याह –
अत्यन्तदुर्ग्रहेति ।
क्रमवती प्रतीतिर्यस्य स वाक्यार्थस्तथोक्तः । संसृष्टत्वं नानात्वं च ययोर्न स्तस्तौ पदार्थावसंसृष्टनानात्वौ तौ च यस्य तद्द्ब्रह्मासंसृष्टनानात्वपदार्थकमिति । तत्किमिति । येयं पदार्थविवेकपूर्वकं वाक्यजन्यताप्रतीतिरियमेव स्यात्, किमात्मनि नान्या, तथा सतीयं साक्षात्प्रतीतिरात्मनि न स्यात् । कुतः? अस्याः साक्षात्प्रतितेरिन्द्रियजत्वेनानागमकफलत्वादित्यर्थः ।
ननु शाब्दप्रतीतेरप्यात्मप्रतिपत्तित्वात्किं तस्या एव तत्पूर्वत्वं, नेत्याह –
साक्षात्कारेति ।
शाब्दधियोऽनिन्द्रियजन्यत्वाद् ध्यानादिसहकृतचेतोऽर्पणद्वारा साक्षात्कारहेतुत्वमित्याह –
एतदुक्तमिति ।
विशेषणत्रयवतीति ।
दीर्घकालनैरन्तर्यसत्कारवतीत्यर्थः ।
अत्यन्तभिन्नानामिति ।
अभिन्नानामित्यपि द्रष्टव्यम् । कल्पितत्वं हि सिद्धान्तः ।
नन्वश्वस्य गां प्रत्यधर्मत्वं नान्यत्वात् किं तु गव्यसमवेतत्वात् दुःखादयस्तु भिन्ना अप्यात्मसमवेतत्वाद्धर्मा इत्याशङ्क्य तर्हि संबन्ध एव नास्ति वास्तव इत्याह –
संबन्धस्यापीति ।
ननु दुःखादय आत्मनो नात्यन्तभिन्नाः किं तु भिन्नाभिन्ना इति नेत्याह –
भेदाभेदयोश्चेति ।
चैतन्याद्बहिरिति ।
वास्तवं हि चैतन्यं तस्माद्बहिष्ट्वमवास्तवमिति ।
इतश्चेति ।
कल्पितत्वेन हि दुःखित्वादीनामात्मतादात्म्यं धर्मधर्मित्वोपयोगि निरस्तमिदानीं सुषुप्तावात्मनि दुःखित्वाद्यभावाच्च नात्मतादात्म्यमित्युच्यते । तादात्म्यं ह्यैक्यं नान्यन्निरूपयितुं शक्यम् । न चानुवृत्तव्यावृत्तयोरैक्यमित्यर्थः ।
अन्यविषयैवेति ।
संपदादिप्रत्ययविषयेत्यर्थः ।
आत्मविषयं दर्शनं विधीयत इति ।
आत्मस्तुतिद्वारेण दर्शनं पुरुषप्रवृत्त्यतिशयविषयत्वमापद्यत इत्यर्थः । सिद्धरूपब्रह्मप्रत्ययविपरीतप्रत्ययोत्पत्तेः कार्यवादिभिरिष्यमाणत्वात्तदापत्ताविष्टप्रसङ्गतामाशङ्क्याह – अभ्युच्चयमात्रमिति ।समन्वयसूत्रोक्तन्यायेन वेदान्तानां सिद्धब्रह्मपरत्वे सिद्धे तादृशब्रह्मज्ञानादेव मुक्तिरिति सिद्ध्यति तथाभ्युपगमे मुक्तिविरोध उक्त इत्यर्थः । शास्त्रतो विज्ञायापरोक्षप्रज्ञां कुर्वीत यत्स रैक्वो वेद तत्प्राणतत्त्वं सर्वधर्मफलमभिसंगच्छत इत्यर्थः । एवं रैक्कादन्योऽसि यस्तद्रैक्व वेद्यं वेद तस्यापि सर्वसाधुफलप्राप्तिर्भवति स एवंभूतो रैक्वो मया एतदिति । क्रियाविशेषणमित्थमुक्तः । रैक्वमिव जानश्रुतिमल्पकं कर्मात्थेति हंसान्तरं प्रति हंसो वक्ति । हे रेक्व यां देवतामुपास्ते एता माम् अनुशाधि शिक्षय ज्ञापय इति जानश्रुतिवाक्यम् । हे पुत्र त्वं रश्मीनादित्यं च भेदेन पर्यावर्तयात् तकार एको लुप्तो द्रष्टव्यः । पर्यावर्तयतादिति मध्यमैकवचनमेतत् । त्वं योगात् पर्यावर्तय उपास्वेत्यर्थः । एवं सति बहवस्ते पुत्रा भविष्यन्ति न केवलादित्योपास्ताविवैकपुत्रतेत्यर्थः । एषां नोऽस्माकमपरोक्ष आत्मैवायं लोकः पृथिवीलोकः प्रजया हि पृथिवीलोकः साध्यः स आत्मैवास्माकम् आत्मनः सर्वात्मत्वादतः प्रजया किं करिष्याम इत्यर्थः ।
xयस्त्वात्मरतिरिति ।
रतिरासक्तिपूर्विका निष्ठा । तत आत्मसुखानुभवस्तृप्तिः तस्याः काष्ठा संतुष्ठिः॥२॥
इति प्रथममावृत्त्यधिकरणम्॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च॥३॥ ब्रह्मात्मैक्यसाक्षात्काराय श्रवणाद्यावर्तनीयमित्युक्तम्, तत्र ब्रह्मात्मैक्यमेव नास्ति, कस्य साक्षात्काराय श्रवणाद्यावृत्तिरिति प्रत्यवस्थानात्सङ्गतिः । ननु प्रथमे एवाध्याये शब्दादेव प्रमित (व्या.अ.१ पा ३ सू.२४) इत्याद्यधिकरणेषु जीवब्रह्मैक्यस्य श्रुतिभिर्निर्णयाद् गतार्थत्वमित्याशङ्क्य तासामेव श्रुतीनां विरुद्धार्थत्वादुपचरितश्रुतिविषयत्वमाशङ्क्यत इत्याह –
यद्यपीत्यादिना ।
यद्यप्यविरोधलक्षणे इयं चिन्तोचिता; तथापि महावाक्यार्थविरोधसमाधानस्य समाधावन्तरङ्गत्वादिहानीता ।
जीवपरविभागस्याध्यस्तत्वादविरोधमाशङ्क्य स्वप्रकाशस्य भ्रमाधिष्ठानत्वानुपपत्तेरध्यासायोगमाह –
न च यथेत्यादिना ।
कथं पुनः प्रत्यगात्मनीत्यत्र तु शास्त्रोपक्रमे श्रोतृप्रवृत्त्यर्थमत्रत्य एव न्याय आचार्यैराकृष्टः । द्राघीयसि दीर्घतरे ।
नन्वभ्यासे पौनरुक्त्यमेव कथमर्थमुख्यत्वलाभः, तत्राह –
अभ्यासे हीति ।
अर्थस्य भूयस्त्वमुपादेयत्वातिशयोऽभ्यासे भवति लोकवदित्यर्थः । दवीयो दूरतरम् । न च मानान्तरविरोधादत्राऽप्रामाण्यमिति । पौर्वापर्ये पूर्वदौर्बल्यमिति न्यायेन श्रुतेरेव प्रामाण्यमिति शास्त्रोपक्रमे उक्तमित्यर्थः ।
न च मानान्तरविरोध इति ।
प्रमाणान्तराणामविद्योपस्थापितव्यावहारिकविषयत्वमध्यासभाष्ये वर्णितमित्यर्थः । आदिशब्देन तत्त्वमस्यादेः संपदादिपरत्वनिरासग्रहणम् ।
निरंशस्यापीति ।
यथा ह्याकाशस्य तत्तदुपाध्यवच्छेदाद् ग्रहणाग्रहणे, एवमित्यर्थः ।
यद्यद्वैत इति ।
हे शिष्य अद्वैते द्वैतध्वंसरूपे द्वैतस्य सत्त्वप्रसङ्गाद्यपि न तोषोऽस्ति, तर्हि वस्तुतो द्वैतं नाभूदस्ति भविष्यति, अतोऽप्रसक्तद्वैतस्त्वं मुक्त एवासि सर्वदेत्यर्थः॥३॥
इति द्वितीयमात्मत्वोपासनाधिकरणम्॥
न प्रतीके न हि सः॥४॥ पूर्वोक्तं जीवब्रह्मणोरभेदमुपजीव्य ब्रह्मदृष्टिभाक्षु मन आदिष्वहमिति ब्रह्माभिन्नजीवदृष्टिः कर्तव्येति पूर्वपक्षमाह –
यथा हीति ।
ब्रह्मरूपेणेति ।
इत्थम्भावे तृतीया ।
ननु ब्रह्मात्मकजीवदृष्टेर्मन आदिष्वध्यासे तदात्मकाकाशादिदृष्टिरपि किं न स्यादत आह –
जीवात्मानश्चेति ।
आकाशादिः स्वरूपेण कल्पितः, जीवानां तु भेदमात्रं कल्पितम् तत्स्वरूपं तु ब्रह्मैवेत्यर्थः । अविद्यादर्पणाः अविद्योपाधिकाः । यथा ब्रह्म जीवेनात्मत्वेनोपदिश्यते तथाऽहं मन इत्यादि द्रष्टव्यमिति योजना ।
अत्र हेतुः –
ब्रह्मणो मुख्यमिति ।
इतिर्यस्मादर्थे । ब्रह्मण आत्मत्वस्य मुख्यात्वाद् नामादिषु ब्रह्माध्यासे जीवदृष्टिरप्यध्यसितव्येत्यर्थः । अविद्यादर्पणा इत्यत उपरितनो यथाकारः पूर्वोक्तानुवादः ।
एवं तावज्जीवस्य ब्रह्माभेदप्रयुक्त्या नामादिष्वहंग्रह उक्तः, इदानीं पूर्वाधिकरणे ब्रह्मण्यात्मत्वमतिः कार्येत्युक्तत्वाद्द्ब्रह्माभिन्ननामादावप्यहंमतिः कार्येत्याह –
उपपन्नं चेति ।
द्वावेतौ पक्षौ भगवता भाष्यकारेणोपन्यस्तौ ।
ब्रह्मणः श्रुतिष्वात्मत्वेन प्रसिद्धत्वादिति प्रतीकानामपि ब्रह्मविकारत्वादिति च प्रतीकेषु ब्रह्मात्मतामापादितेषु न केवलमहंमतिक्षेपः प्रयोजनम्, अपि तर्हि प्रतीकोपलक्षितसमस्तप्रपञ्चप्रविलापनेन तत्त्वमस्यादिवाक्यार्थावगतिसिद्धिश्चेत्याह –
कस्यचिदिति ।
ननु प्रविलये मन आद्येव नास्ति, कुत्राहंग्रहः? सत्यम्; अत एव यथा जीवस्यावच्छिन्नरूपबाधेनानवच्छिन्नब्रह्मरूपतयाऽवस्थानमेवं प्रतीकानामपि ब्रह्मात्मनाऽवस्थानं लयो न तु स्वरूपाभाव इति पूर्वपक्षाभिप्रायमुद्भाव्य स्वयमेव निराकरिष्यति ।
अत्र मन आदावात्मत्वदृष्टिः श्रुतिबलाद्वा शङ्क्यते, अर्थाद्वा न प्रथम इति वदन् पूर्वाधिकरणाद्वैषम्यमाह –
न तावदिति ।
मनःप्रभृतीनामहङ्कारास्पदत्वं न तावदुपदिश्यत इत्यन्वयः । द्वितीयेऽपि किं मन आदिषु ब्रह्माध्यासाद् ब्रह्माऽभिन्नजीवविषयाऽहंदृष्टिराशङ्क्यते, किं वा प्रतीकानां ब्रह्मविकारत्वेन तदभेदाद्द्ब्रह्मणि चात्मत्वप्रतीतेः प्रतीकेष्वप्यहंदृष्टिरापाद्यते ।
प्रथममाशकते –
अहंकारास्पदस्येति ।
यदि श्रुतेः प्रतीकेष्वहंमतिरभिमता, तर्हि ब्रह्मणीव तां वेदः श्रावयेद्, न चैवमित्याह –
नेति ।
यत्त्वर्थादिति तत्रातिप्रसङ्गमाह –
ब्रह्मात्मतया त्विति ।
जीवस्य ब्रह्मस्वरूपत्वात्तद्दृष्टिरिति विशेषशङ्कायां तद्दृष्टिकरणादेव जीवदृष्टिरपि कृतेत्युत्तरम् । अहंदृष्टिस्तु न स्वरूपदृष्टिरहङ्कारविशिष्टस्यानात्मत्वादिति भावः । आर्थिकी हि प्रतीतिस्तत्र क्रियते, यत्र तामृते श्रुतिर्न निर्वहति । न चात्रैवं प्रत्युतातिप्रसङ्ग एव ।
तस्माद्यथाश्रुत्येवार्थो ग्राह्य इत्याह –
तस्माद्यस्येति ।
ब्रह्मविकारत्वान्मन आदिष्वहंमतिक्षेप इति द्वितीयेऽपि पक्षेऽतिप्रसङ्गस्तुल्य एव; घटादिष्वहंमतिप्रसङ्गात् । तुल्यं च श्रुत्यनपेक्षितार्थकल्पनम् ।
यत्त्वत्र प्रयोजनमुक्तं, तद्दूषयति –
न च सर्वस्येति ।
सर्वं खल्वित्यादौ हि क्वचिदेव प्रविलयार्थत्वं, न सर्वत्रेत्यर्थः । यदि च मनो ब्रह्मेत्यत्र मनउपलक्षितविश्वप्रपञ्चः प्रविलापितः, तर्ह्यादित्यादेरप्यनेनैव प्रविलापितत्वादादित्यो ब्रह्मेत्यादेरानर्थक्यमित्यर्थः ।
उपासकस्य प्रतीकानां च भेदेऽपि प्रतीकेषु ब्रह्माभिन्नजीवदृष्टेः श्रुतिवशादुपपत्तेर्भाष्यायोगमाशङ्क्याह –
अनुभवाद्वेति ।
श्रुतिवशादात्मत्वकल्पनस्यातिप्रसङ्गेन निरस्तत्वान्नोभयमप्यस्तीत्युक्तम् ।
स्वयमेवोद्भाव्य दूषयिष्यतीत्यवादिष्म, तदिदानीं निराकरोति –
ननु यथेत्यादिना ।
जीवलयादन्नादिलयस्य वैषम्यमुपपादयति –
इह हीत्यादिना ।
अप्रधानस्य जीवस्य वैशिष्ट्या त्यागेन ब्रह्मात्मना भवत्यभावः, प्रधानं तु प्रतीकं यथानिर्दिष्टं रक्षणीयम्, न तु रूपान्तरमापादयितव्यम् ; प्राधान्यस्यैव व्याघातप्रसङ्गादित्यर्थः ।
न च ब्रह्मण इति भाष्यगतचशब्दार्थमाह –
अपि चेति ।
पूर्वोक्तातिप्रसङ्गेन समुच्चय इत्यर्थः ।
कर्तृत्वाद्यनिराकरणादिति भाष्यगतो हेतुरसिद्धः; प्रतीकवाक्यैरेव तन्निराकरणस्य पूर्वपक्ष उक्तत्वात्, अत आह –
न ह्युपासनविधानानीति ।
यथा ‘‘इदं सर्वं यदयमात्मे’’त्यादीनि अहंब्रह्मास्मीत्यादिमहावाक्यैकवाक्यतामापद्य तदपेक्षितप्रपञ्चबाधं वितन्वते, नैवं प्रतीकवाक्यानि ; तत्रासम्बद्धपदव्यवायेन भिन्नप्रकरणत्वादित्यर्थः ।
तदेकवाक्यतयेति ।
कर्तृत्वादिबाधेन जीवस्य ब्रह्मतामापाद्येति शेषः॥४॥
इति तृतीयं प्रतीकाधिकरणम्॥
ब्रह्मदृष्टिरुत्कर्षात्॥५॥ पूर्वत्र ब्रह्माभिन्नजीवदृष्टेर्नामादिषु करणे घटादिदृष्टेरपि प्रसङ्ग इत्यतिप्रसङ्गान्न प्रतीकेष्वहंमतिक्षेप इत्युक्तम्, एवमिहापि यदि आदित्यादिषूपास्यमानेषु ब्रह्म फलप्रदमभिमतं, तर्हि चैत्रे उपास्यमाने मैत्रात्फलसिद्धिप्रसङ्गाद् ब्रह्मैव फलप्रदत्वादुपास्यमिति सङ्गतिमभिप्रेत्य पूर्वपक्षमाह –
ब्रह्मणः सर्वाध्यक्षतयेति ।
प्रयोजनवत्त्वेन ब्रह्मणः संस्कारापेक्षत्वात्तत एव च प्रधानत्वात्तद्वाचिब्रह्मशब्दस्य प्रतीतिलक्षकत्वायोगाद् ब्रह्मैवादित्यादिदृष्टिभिः संस्कार्यमित्यर्थः ।
फलवत्त्वप्रधानत्वाभ्यां शास्त्रीयन्यायाभ्यां दुर्बलत्वाच्छास्त्रार्थानवधारकत्वसिद्ध्यर्थं विशेषणं –
लौकिक इति ।
यथा राजपुरुष आगत इत्युक्ते वस्तुतः प्रधानस्यापि राज्ञ आगमनं न प्रतीयते, किं तु पुरुषस्यैव ; तथाऽत्रापि आदित्यादिरेव शब्दतः प्रधानत्वेनावगत उपास्तिकर्मेति वक्तुं श्रौतं दृष्टान्तमाह –
सत्यमित्यादिना ।
ऐहिकफलं कर्मोदाहरति –
चित्रयेति ।
प्रकृतत्वादादित्यादेर्द्रव्यस्य प्राधान्यसिद्ध्यर्थं दृष्टान्तारमाह –
क्वचिद् द्रव्यस्येति ।
अत्राप्यङ्गानुष्ठानाराधितः परमेश्वर एव प्रधानसिद्धिहेतुरिति तस्यैवार्थतः प्राधान्यमिति । यैस्तु शब्दैर्वीहीनित्यादिभिर्द्रव्यं संचिकीर्ष्यत इति प्रतीयते, तत्र क्रिया प्रोक्षणादिका गुणत्वेन प्रतीयतेत्यर्थः । तदिहेत्यादिना विमृशति - तत्र फलायकल्पत इत्यभिवदतीत्यन्तं सिद्धान्तवचनव्यक्तिप्रदर्शनपरं किं वेत्यादिफलायेत्यन्तं पूर्वपक्षानुवादः । अत्राप्यभिवदति किं शास्त्रमित्यनुषङ्गः । तदनेन ब्रह्मगतफलदातृत्वप्रधानत्वयोः कर्मस्विवाऽऽदित्याद्युपासनेष्वपि संभवात्कांस्यभोजिन्यायेन लौकिकन्यायानुगृहीतृत्वमुक्तम् । न चातिप्रसङ्गः, अतिथ्याद्युपासन इव ब्रह्मण एव फलदातृत्वसंभवादित्युक्तं भाष्ये । यदि स्वार्थोऽस्य विवक्षितः स्यात्तर्हि ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति वृत्तो भविष्यति, न त्वस्य स्वार्थो विवक्षित इत्यर्थः ।
यदि विवक्षितः स्यात्तत्र दूषणमाह –
तथा चेति ।
इतिनेति ।
इतिशब्देनेत्यर्थः ।
स्वरूपपरमिति ।
ब्रह्मपदमेव स्वरूपं तत्परं ब्रह्मेति शब्द इति वा द्वावर्थावितिशब्दशिरस्कब्रह्मशब्दात् प्रतीयेते इत्यर्थः ।
शब्दपरत्वं दूषयत्युपास्तिविधिसिद्ध्यर्थं –
न च ब्रह्मपदमिति ।
य आदित्यः स ब्रह्मेत्ययं शब्द इति सामानाधिकरण्यं विरुद्धमित्यर्थः ।
ननु प्रतीतिपरत्वमपि न युज्यते, या ब्रह्मेति प्रतीतिः सा आदित्य इत्यस्याप्यर्थस्य विरुद्धत्वादत आह –
गौरितीति ।
भ्रान्तो हि गवयादिकं गौरिति प्रतिपद्य बाधोत्तरकालं वक्ति गौरिति मेऽभवद् गवय इति, गवात्मत्वेन प्रतीत इत्यर्थः । यद्यपि प्रतीतिविषयत्वापेक्षायां हि गौणमिदमपि सामानाधिकरण्यम् ; तथापि प्रचुरप्रयोगान्निरूढमतः शब्दसामानाधिकरण्याद्विशेषः॥५॥
इति चतुर्थं ब्रह्मदृष्ट्यधिकरणम्॥
आदित्यादिमतयश्चाङ्ग उपपत्तेः॥६॥ पूर्ववदुत्कर्षरूपविशेषानवधारणादनियमः । अथवा गीत्यात्मकेन क्रियात्मकानामुद्गीथादीनां फलसन्निकर्षेणोत्कर्षादादित्यादिषु तद्दृष्टिः कर्तव्या, प्रथमनिर्दिष्टनामादिषु ब्रह्मदृष्टिवच्च प्रथमनिर्दिष्टादित्यादिषु उद्गीथादिदृष्टिः कार्येति तिस्रः संगतयो भाष्य एव विशदाः । भाष्यमुपादत्ते –
अथवेति ।
भाष्ये क्रियात्मकत्वादित्यसाधकम् ; सिद्धरूपादित्यादिदृष्ट्यध्यासेऽप्युद्गीथादिगतक्रियास्वभावस्यानपायात् तत्फलसिध्द्युपपत्तेरित्याशङ्क्याह –
तथाचादित्यादिमतिभिरिति ।
शुक्त्यादौ रजतबुध्द्युत्पत्तौ तत्प्रयुक्तव्यवहारप्रतिबन्धवत् सिद्धरूपादित्यादिदृष्टावुद्गीथादिगतक्रियात्वमभिभूयेतेत्यर्थः ।
आदित्यादिषूद्गीथादिदृष्टौ तद्गतसिद्धरूपत्वमभिभूयते, क्रियात्वं चाविर्भवति, ततश्च फलसिद्धिरित्यर्थपरत्वेनोद्गीथादिमतिभिरित्यादिभाष्यं व्याचष्टे –
आदित्यादिषु पुनरिति ।
कल्पिष्यन्ते समर्था भविष्यन्ति । इयमेवर्गग्निः सामेत्युक्त्वा श्रुत्या तत्र हेतुरुच्यते ‘‘तदेतदेतस्यामृच्यध्यूढं सामे’’ति । ॠक्सामशब्दाभ्यामिह पृथिव्यग्नी निर्दिश्येते । अस्यां पृथिव्यामृचि सामाग्निरारूढ आश्रितस्ततः प्रसिद्धयोरपि पृथिव्यग्न्योराश्रयाश्रयित्वात्तत्साम्येन पूर्ववाक्ये सामाधारभूता ऋक् पृथिव्युक्ता ऋगाश्रितं च सामाग्निरित्युक्तमित्यर्थः । अत्र हेतुवाक्ये पृथिव्यग्न्यो ऋक्सामशब्दप्रयोगः पृथिव्यग्न्यो क्सामदृष्टिः पूर्ववाक्येऽभिहितेति ज्ञापयति ।
आरोप्यवाचकशब्दस्यैव वह्न्यादेर्माणवकादावुपचारदर्शनादित्याह –
अत एवेति ।
भूतभाव्युपयोगं हि वस्तु संस्कारमर्हति ।
उद्गीथादीनां च क्रियात्वात् प्रकृतज्योतिष्टोमाद्युपकारस्य तैः करिष्यमाणत्वाच्च तान्येवादित्यादिमतिभिरतिशयाय संस्क्रियेरन्नित्याह –
यद्युद्गीथादिमतय इत्यादिना ।
आदित्यादिमत्या विद्ययेति समानाधिकरणे तृतीये ।
ननु ‘‘लोकेषु पञ्चविधं सामोपासीते’’त्यादावपि सामकर्मैव क्रतुं साधयद् वीर्यवत्तरत्वाय लोकदृष्ठ्या संस्क्रियतां, न च ‘‘कल्पन्ते हास्मै लोका’’ इत्यादिफलश्रवणात्स्वातन्त्र्यम्; अङ्गावबुद्धत्वादासामुपास्तीनां कर्मसमृद्धिफलेऽवगते सति परार्थे फलश्रवणस्यार्थवादत्वसंभवात्, अतो भाष्योक्तस्वतन्त्रफलत्वानुपपत्तिरित्याशङ्क्याह –
यत्र हीति ।
यत्र ह्युद्गीथादिकर्मणः सकाशात्फलं, तत्रैवं भवदित्यर्थः ।
प्रस्तुते वैषम्यमाह –
यत्र त्विति ।
इह तावत्समस्तस्य खलु साम्न उपासनं साध्यति पाञ्चभक्तिकसाप्तभक्तिकसकलसामोपासनस्य वाक्यान्तरेण विहितत्वात्पञ्चविधत्वमात्रं गुण उपासनयोपाधीयते, एवं सति यत्र गुणात्फलं लोकादि भवति, तत्र गुणस्याक्रियात्वेन लोकादिभिः समत्वात् तं पुरुषः करोतीत्येव नास्ति । कुत इमं लोकं विद्यया संस्कृत्य वीर्यवत्तरं कुर्याद् ? अतो लोकादिष्वपि सामाध्याससम्भव इत्यर्थः । गुणात् फलसिद्धिः केवलाद्वा यत्किञ्चित्क्रियासंबन्धाद्वा प्रकृतकर्मसंबन्धाद्वा । आद्यद्वितीयावतिप्रसक्तौ ।
तृतीये तु प्रकृतक्रियावैशिष्ठ्यादस्ति गुणस्यापि कार्यत्वमित्याह –
न तावदित्यादिना ।
भवन्तूत्कृष्टा आदित्यादयः, तेभ्यस्त्वक्रियारूपेभ्यः कथं फलसिद्धिरित्याशङ्क्य तद्दृष्टिः फलं भवेदित्याह –
स्वयमेवेति ।
यथा माणवकेऽग्निदृष्टिः केनचित्तीव्रत्त्वादिगुणयोगेन गौणी ।
तत्र हेतुः –
अनभिभूतमाणवकत्वादिति ।
नाभिभूतो माणवको यया सा गौणी दृष्टिरनभिभूतमाणवका तस्या भावोऽनभिभूतमाणवकत्वं तत इत्यर्थः ।
दार्ष्टान्तिकमाह –
तथेहापीति ।
दृष्टान्तं प्रपञ्चयति –
न हीति ।
दार्ष्टान्तिकं विशदयति –
तथेयमपीति ।
अन्यथापीति ।
सत्यां लक्षणायां न गौणी वृत्तिर्दौर्बल्यात् । तथा च ऋक्सामसंबन्धमात्रं पृथिव्यग्न्यो ऋक्सामशब्दप्रयोगे कारणम्॥ सबन्धश्च ऋक्सामाध्यस्तत्वमपि सम्भवतीत्यर्थः ।
एवम् अन्यथाऽप्युपपत्तिमुक्त्वाऽन्यथैवोपपत्तिमाह –
अक्षरन्यासेति ।
इयमेवर्गिति चेत्यादेरक्षरन्यासः स्यादित्यन्तस्य भाष्यस्य तात्पर्यमुक्त्वा सिद्धान्तेऽक्षराञ्जस्यमपरमपि दर्शयंस्तथा च लोकेषु पञ्चविधमित्यादिभाष्यस्य तात्पर्यमाह –
लोकेष्वित्यादिना ।
सामधीर्यदि लोकेष्वध्यस्येत, तदा सामानि नोपस्येरन् ।
ततः किं जातमत आह –
तथा चेति ।
परिकल्पनामेवाभिनयेन दर्शयति –
साम्नेतीति ।
सामसु लोकानामुपास्यत्वे श्रुत्यन्तरभङ्गश्च स्यादित्याह –
लोकेष्वितीति ।
सप्तमीभङ्गे लोकसिद्धमुदाहरणमाह –
अगार इति ।
अगारे गृहे गावो वास्यन्तामिति प्रयोगे अगारं गवां सञ्चरणेन पवित्रीक्रियतामिति सप्तमीं भङ्क्त्वा कर्मत्वं लक्ष्यते । एवं प्रावारे प्रावरणवस्त्रे कुसुमानि वास्यन्तामित्यत्रापि प्रावरणस्य कुसुमैर्वास्यत्वं कर्मत्वं लक्ष्यते इति । उक्तन्यायानुरोधेनेति । ‘‘सामोपासीते’’ति द्वितीयाभङ्गप्रसङ्गानुरोधेन वरं सप्तमी तृतीयार्थे व्याख्यातेत्युपर्यन्वयः । लोकेष्विति सप्तमी पूर्वपक्षे द्वितीयार्था सिद्धान्ते तृतीयार्थेत्युभयथा भञ्जनीया, पूर्वपक्षे तु सामगतद्वितीयाभङ्गोऽधिक इत्यर्थः ।
यत्र द्वितीयासप्तम्यौ भवतः, तत्र भवतु श्रुतिद्वयभङ्गगौरवपरिहारार्थमङ्गेष्वनङ्गदृष्टिर्यत्र तूभयत्र द्वितीया निर्दिश्यते, तत्रान्यतरश्रुतिमात्रभङ्गस्य पूर्वपक्षसिद्धान्तयोरविशेषात् कथं नियमः? इत्याशङ्क्याह –
ननु यत्रेत्यादिना ।
सप्तविधसामान्येव दर्शयति –
हिङ्कारेति ।
ओङ्कारोऽपि साम्न्यादिसंज्ञको भक्तिविशेषः ।
भाष्यं व्याचष्टे –
सप्तविधस्येत्यादिना ।
श्रुतिगतसमस्तपदस्य स्वेन व्याख्या कृता –
सप्तविधस्येति ।
छान्दोग्ये हि समस्तस्य खलु साम्न उपासनं साध्वित्युपक्रम्य ‘‘लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधन’’मित्यादिना पञ्चविधस्य साम्न उपासनमुक्त्वा ‘‘इति तु पञ्चविधस्ये’’त्युपसंहृत्या ‘‘ थ तु सप्तविधस्ये’’त्युपक्रम्य ‘‘वाचि सप्तविधं सामोपासीत यत्किञ्च वाचो हुं इति स हिङ्कारो यत्प्रैति स प्रस्तावो यदैति स आदिर्यदुदेति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नेति तन्निधन’’मित्यादिना सप्तविधस्याप्युपासनमुक्तम् । एवंच सति समस्तस्य सप्तविधस्य साम्न उपासनं साध्विति साम्न उपास्यत्वश्रुतेरिति तु पञ्चविधस्य साम्न उपासनं साध्विति च पञ्चविधस्यापि साम्न उपास्यत्वश्रुतेः साम्न्येवादित्याध्यास इति ग्रन्थयोजना ।
श्रुत्योक्तं साम्नः साधुत्वं व्याचष्टे –
साधुत्वं चेति ।
निर्देशविरोधमाशङ्क्य परिहरति –
हिङ्कारानुवादेनेति ।
हिङ्कारादिसामोद्देशेन साम्नि पृथिव्यादिदृष्टिविधो हिङ्कारादेः प्रथमनिर्देशः स्याद्, यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम्, इति भट्टाचार्यैरुक्तत्वात्स एव चेह साम्न उपास्यत्वश्रुतेः प्रमाणत्वात्प्राप्तस्तस्मिन्प्राप्ते यो विपरीतनिर्देशः स भञ्जनीय इत्यर्थः॥६॥
इति पञ्चममादित्यादिमत्यधिकरणम्॥
आसीनः संभवात्॥७॥ अङ्गावबद्धोपासनचिन्तनसमनन्तरं तत्पर्युदासं सिद्धमादायेतरेषूपासनेष्वासननियमचिन्तनात्सङ्गतिरित्यभिप्रेत्य विषयं परिशिनष्टि –
कर्माङ्गसंबन्धिष्विति ।
नापि सम्यग्दर्शन इति ।
श्रवणमननध्यानाभ्यासवादितमनसा साक्षात्कारोत्पत्तावित्यर्थः ।
ननु वस्त्वधीनेऽपि ज्ञाने चक्षुरादिवदासनमप्यपेक्ष्यतामत आह –
प्रमाणतन्त्रत्वाच्चेति ।
ननु प्रमाणमपि शुक्त्यादौ निकटोपसर्पणादिवदासनमपेक्षतां, तत्राह –
प्रमाणं चेति ।
ध्यानादिसंस्कृतमप्रतिबद्धं चित्तं प्रदीपवत्स्वयमेव प्रमा करोतीत्यर्थः ।
यथा वा सम्यग्दर्शनमपीति ।
तत्त्वमस्यादिवाक्यजनितज्ञानाभ्यासात्मकमित्यर्थः ।
ध्यायतिश्चेत्यादिभाष्यमाक्षिपति –
नन्विति ।
भाष्यगतोपचारशब्दो न युक्तः, बकादिष्वपि ध्यानसद्भावादत आह –
प्रयुज्यत इति ।
असाववस्था किं तिष्ठतो न भवति, अपि तु भवत्येव; तिष्ठतोऽप्यैकाग्न्यसंभवादित्यर्थः । तिष्ठतो हि देहपतनप्रतिबन्धे फलातिशयो भवति नासीनस्येति परिहाराभिप्रायः ।
भाष्यगतानायासपदव्याख्यानम् –
अविद्यमानायास इति ।
अनेन बहुव्रीहित्वं द्योतितम्॥७॥८॥९॥१०॥
इति षष्ठमासीनाधिकरणम्॥
यत्रैकाग्रता तत्राविशेषात्॥११॥ अङ्गानाश्रितोपासनेष्वासननियम उक्ते तद्वद्दिगादिनियमशङ्कोत्थानात्सङ्गतिः । ननु समे शुचाविति देशनियमस्य श्रुतत्वात् कथं विचारावसरः? तत्राह –
सम इति ।
श्रुतौ शर्कराः सूक्ष्मपाषाणाः जलाश्रयवर्जनं शीतनिवृत्त्यर्थम् । चक्षुःपीडनो मशकः । प्राचीनप्रवणे प्राग्देशनिम्ने देशे । वैश्वदेवेन यागविशेषेण । ऐकग्र्यं हि ध्यानं प्रत्यन्तरङ्गसाधनम् ।
तस्मिन्मध्याह्नादौ संभवत्यपि यदि प्रदोषकालः प्राच्यादिदिक्तीर्थादिदेशः प्रतीक्ष्येरन्स्तर्हि शेषिध्यानबाधः स्यात्तस्मादनियम इति सिद्धान्तमाह –
यत्रैकाग्रता मनस इति ।
यदुक्तमङ्गोपास्तस्त्यतिरिक्तोपास्तिर्दिगादिनियममपेक्षते वैदिकानुष्ठानत्वाद्वैश्वदेववदिति, तत्र श्रुतदेशादिमत्त्वमुपाधिरिति वदन् अविशेषादिति सौत्रं हेतुं व्याचष्टे –
न ह्यत्रेति ।
श्रुतविशेषणेन च वृथाचेष्टाया विपक्षस्य व्यावर्तनान्न पक्षेतरता । तस्मात्तत्रैव भावनामुपासनां प्रयोजयेदित्यन्वयः॥११॥
इति सप्तममेकाग्रताधिकरणम्॥
आ प्रायणात्तत्रापि हि दृष्टम्॥१२॥ पूर्वत्र दिगाद्यविधेः तदनपेक्षावदहंग्रहोपास्तिष्वादेहपातादावृत्तेरविधानात्तदनपेक्षेति सङ्गतिः । भाष्यं व्याचष्टे –
अविद्यमानेति ।
तस्या इति ।
शास्त्राविषयत्वादिति शेषः ।
ब्रह्मात्मत्वप्रतिपत्तेर्नियोज्यरहितत्वं विध्यविषयत्वं च दृष्टफलत्वेनोपपादयति –
शास्त्रं हीत्यादिना ।
नियोगसंबधमवबोधयतीति ।
अन्यत्र ज्योतिष्टोमादाविति शेषः ।
अहंग्रहोपास्तीनामदृष्टार्थत्वेन सम्यग्ज्ञानाद्वैषम्यतश्च ज्योतिष्टोमादिवत्करणमित्याह –
नन्वेवमित्यादिना ।
ननु सकृत्करणे कथमुपासनसिद्धिरसकृत्करणे च सकृदनुष्ठानव्याहतिस्तत्राह –
उपासनेति ।
उपास्तिः सकृत्कार्येति शास्त्रार्थे जाते उपासनशब्दस्याऽऽवृत्त्यर्थत्वादेकवारमावृत्तिर्लभ्यत इति भावः ।
कृतशास्त्रार्थत्वादिति ।
कृतशास्त्रार्थत्वात्पुंस इत्यर्थः । ननु तर्हि कर्मवदेवोपासनान्येव विहितत्वसामर्थ्यात्स्वफलं यथा कालान्तर आक्षिपन्ति –
एवमन्त्यकालिकं स्वफलसाक्षात्कारमप्याक्षिपन्तु, किं प्रायणपर्यन्तावृत्त्येति, तत्राह –
तानि खल्विति ।
दृष्टद्वारेण च प्रत्ययावृत्त्योपास्यसाक्षात्कारजन्मन्यन्तकाले तदवश्यम्भावाद्विरोधिकर्मान्तरानुद्भावाच्च साधकदेहपातानन्तरमुपास्तिफलप्राप्तिनियमः प्रयोजनमिति । किमत्र फलवदित्युपासनं फलवत्प्रायणसमये बुध्द्याक्षेपेणोपास्यसाक्षात्काराक्षेपेण किं कार्यं दृष्टद्वारैव तत्सिद्धेरित्यर्थः । सविज्ञानं विज्ञानसहितं फलम् । यस्मिन्विषये चित्तमस्य स यच्चित्तः । तेन विषयेण हृद्यभिव्यक्तेन सह तेजसा उदानेन उदानस्य तेजोदेवताकत्वात् । आत्मना भोक्त्रा स उपासकोऽक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रत्रयं जपेत् ।
अन्तकाले न कर्तव्यमुपास्ताविव किंचन ।
ब्रह्मबुद्धावशेषाघनाशादिति जगौ मुनिः॥१२॥
इत्यष्टममाप्रायणाधिकरणम्॥
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्॥१३॥ विपरीतफलत्वमेव दर्शयति –
बन्धनफलमिति ।
शास्त्रेणाश्वमेधादि फलाय सुखाय विहितम्, ब्रह्महत्यादि चानर्थकात्मकनरकपातपरिहाराय शास्त्रेण प्रतिषिद्धम् । प्रतिषेधे कृते हि न प्रवर्तेरन्निति मत्वेत्यर्थः । अश्वमेधादि दृष्टान्तार्थमिहोदाहृतम्, इतरस्यापीत्यनन्तरार्थं च । अत्र लोके कर्मण्युपरतेऽपि तदपूर्वं तस्य कर्मणोऽपूर्वं सुखदुःखोपभोगात् प्रागविरन्तुमनिवर्तितुं नार्हत्यपि तु निवर्तितुमेवार्हतीति यत्सिद्धान्तिनोच्यते, तत्किं न किमपीति योजना ।
अत्र हेतुमाह –
स हीति ।
ननु स्वर्गकामस्य यागविधिसामर्थ्याद्यथा यागस्य स्वर्गसाधनत्वमेवमनर्थफलपापवतः प्रायश्चित्तविधिवशात् प्रायश्चित्तस्य पापनिवृत्त्यर्थता किं न स्यादत आह –
तद्विधानस्य चेति ।
एनस्वी पापी नरस्तस्मिन्नधिकारिणि प्राप्ते तद्विधीयते, यथा गृहदाहवति प्राप्ते क्षामवतीष्टिः, अधिकारिव्यावृत्तिपरं विशेषणं न फलपरमित्यर्थः ।
युक्तं गृहदाहादेर्निष्पन्नत्वेन निष्पादयितुमशक्यत्वादधिकारिव्यावृत्त्यर्थत्वम्, पापनिवृत्तेस्तु कर्तुं शक्यत्वादिष्टसाधनत्वबोधी प्रायश्चित्तविधिस्तन्निवृत्तिफल इत्याशङ्क्य तदभ्युपगमेन प्रकृते वैषम्यमाह –
यदि पुनरित्यादिना ।
मोक्षवदिति वैधर्म्यदृष्टान्तः । यथा मोक्षसंयोगेन श्रवणात् तद्धेतुत्वं ब्रह्मज्ञानस्य, नैवं दुरितक्षयहेतुत्वं तत्संयोगेनाश्रवणादित्यर्थः ।
ननु दुरितक्षयाभावे कथं मोक्षसिद्धिरत आह –
तस्यापीति ।
अथ देशाद्यपेक्षत्वे मोक्षस्यानित्यत्वं स्यात्तर्हि प्रकारान्तरेण कर्मनिवृत्तिमाह –
शास्त्रेति ।
एकेन शरीरेण बहुकालव्यापिना क्रमेणोपभोगेन सर्वकर्मक्षये ज्ञानान्मोक्ष इत्यर्थः ।
अथैकेन शरीरेणाविषमकर्मफलभोगो नानुपपन्नस्तर्हि कल्पान्तरमाह –
योगर्द्ध्यैव वेति ।
ऋद्धेन समृद्धेन ।
यद्यपि ब्रह्मविद्या पापक्षयोद्देशेन न विहिता; तथापि विद्यापापक्षययोरेकपुरुषसंबन्धनिर्देशान्यथानुपपत्त्या साध्यसाधनत्वमवगम्यताम् इत्याशङ्क्यार्थवादलिङ्गस्य निषेधसामर्थ्यावगतेन पापगतानिष्टफलपर्यन्तत्वेन प्रबलेन बाधमाह –
स्थिते चैतस्मिन्निति ।
यथा न्यायबलात्स्थित इति संबन्धः । न प्रबलमित्येव दुर्बलं बाधते, किं तु सति विरोधे, न चेह स इति सिद्धान्तयति –
व्याख्यायेतेतीति ।
ननु सगुणविद्यानामैश्वर्यफलानां कथं पापनिवर्तकत्वमत आह –
उभयेति ।
वाक्यद्वयेन ‘‘तद्यथेषीकातूलं’’ ‘‘सर्वेष्वात्मस्वन्नमत्ती’’त्यादिभिर्वाक्यैर्विद्याया उभयसंयोगस्याविशेषादुभयार्थत्वमित्यर्थः ।
प्रबलदुर्बलप्रमाणाभ्यामेकस्योभयार्थत्वावगमेनैकेन नैकस्य बाधः स्यात्तन्निवृत्त्यर्थमुक्तम् –
अविशेषादिति ।
पापं ज्ञाननिवर्त्यमध्यस्तत्वाद्रज्जुसर्पवदित्याह –
तत्स्वभावालोचनादिति ।
न्यायसिद्धेऽर्थे लिङ्गदर्शनमाह –
अमुमेवेति ।
उक्तविद्यासामर्थ्यवक्ष्यमाणमोक्षशास्त्रान्यथानुपपत्तिभ्यामुपबृंहिताज्ञानदुरितनिवृत्त्योरेकपुरुषसंबन्धनिर्देशान्यथानुपपत्तिः सत्यपि विरोधे निषेधान्यथानुपपत्तेर्बलीयसीति भावः ।
नैकविधेति ।
अनेकविधेत्यर्थः । आहुरिति भाष्यकारा इति शेषः । असक्तोऽनासक्तः । अत एव कर्मान्तराण्यसंचिन्वानः, सङ्गे हि पापाद्युदेति नान्यथेत्यर्थः ।
तिष्ठन्तु कल्पशतानि क्रमभोग्यफलानि, सप्तजन्मादिभोग्यफलानां कथं मुमुक्षुदेहेन शतायुषा भोग इत्याह –
दीर्घकालेति॥१३॥
इति नवमं तदधिगमाधिकरणम्॥
इतरस्याप्येवमसंश्लेषः पाते तु॥१४॥ अस्यातिदेशस्याभ्यधिकाशङ्कामाह –
अधर्मस्येति ।
स्वाभाविकत्वेनेति ।
शास्त्रोपदेशानपेक्षत्वेनेत्यर्थः ।
धर्मस्य ज्ञानान्निवृत्तिः स्वभावविरोधाद्वा शास्त्रान्निवृत्त्यवगमाद्वेति विकल्पे प्रथमं निरस्य द्वितीयं निरस्यति –
पाप्मनश्चेत्यादिना ।
सर्वे पाप्मानोऽतो निवर्तन्ते इति वचनसामर्थ्यात्पाप्मन एव निवृत्तिरित्यवगन्तुं न शक्यते; शास्त्रान्तरैः साक्षात्पुण्यस्यापि ज्ञानान्निवृत्त्यवगमात्, तेषामन्यथासिद्धिमाह –
उभे ह्येवैष इत्यादिना ।
उभे पुण्यपापे एषविद्वान् । अत्र वाक्ये ज्ञानेन दुष्कृतं तरत्यतिक्रामति भोगेन सुकृतं तरति इति योज्यमित्यर्थः । क्षीयन्ते कर्माणीति सामान्यवचनं पाप्मान इति विशेषवचनं दृष्ट्वा पापे विशेषे सङ्कोच्यमित्यर्थः ।
ज्ञानसुकृतयोः स्वभावविरोध इति पक्षमादाय सिद्धान्तयति –
नो खल्वित्यादिना ।
यद्यदत्तफलमपि सुकृतं विद्या निवर्तयति, तर्हि तद्विधेर्वैयर्थ्यं स्यादत आह –
न च सुकृतशास्त्रमिति ।
उपपादिते विद्यापुण्ययोर्विरोधे उदाहृतशास्त्राणि यथाश्रुतार्थानीत्याह –
एवमवस्थित इति॥१४॥
इति दशममितरासंश्लेषाधिकरणम्॥
अनारब्धकार्ये एव तु पूर्वे तदवधेः॥१५॥ उत्सृष्टस्तत्त्वबोधेन विलयः सर्वकर्मसु । कर्मस्वारब्धकार्येषु स इदानीमपोद्यते ॥ इमामापवादिकीं सङ्गतिमभिसंधाय पूर्वपक्षयति –
यदीत्यादिना ।
ननु निवृत्तेऽपि सर्वकर्मणि कर्मसंस्कारात्कर्मानुवर्तताम्, अथवा - निवृत्तमायासंस्काराद् मायान्तरोत्पत्तौ तेनाभिनवकर्माणि विरच्यन्तामत आह –
न च संस्कारशेषादिति ।
संस्कार एव शिष्यत इति शेषः ।
यथा कुलालकराभिघातनिमित्तनिवृत्त्या निवृत्तेऽपि चक्रभ्रमणे भ्रमणसंस्काराद् भ्रमणानुवृत्तिरेवमत्रानिवृत्तायामपि मायायामुक्तमार्गेण कर्मानुवृत्तिरित्येतन्न, तत्र हेतुमाह –
वस्तुत इति ।
तत्संस्कारस्तयोः पुण्यापुण्ययोः संस्कारः, पुण्यापुण्यसंस्काराणां त्रित्वात्सन्तीति बहुवचनम् ।
वस्त्वेव संस्कारद्वारेणानुवर्तत इति व्याप्तेर्व्यभिचारमाशङ्क्याह –
न चेति ।
रज्जुसर्पविषयज्ञानस्यास्माकं सत्यत्वात्तज्जन्मभयादीनां संस्कारवशादनुवृत्तिर्युक्ता ।
प्रस्तुते वैषम्यमाह –
न त्विति ।
न मायेति भ्रमनिषेधः ।
अर्थात्तदुपादानं माया निषिद्धा भवति ।
तज्जन्यसंस्कार इत्यनेन मायासंस्कारजन्यमायान्तरात् कर्मान्तरोत्पत्तिरिति पक्षं प्रतिक्षिपति ।
न तद्गोचर इति ।
मायात्मकभ्रमगोचरो ज्ञानादूर्ध्वं निषिध्यते किमनुवर्तते इत्युक्त्वा न किमपीत्याह –
नेति । न संस्कारशेषोऽत एव न कर्मेत्यर्थः ।
आरब्धकार्याणां कर्मणां देहपातप्रतीक्षा तत्पर्यन्तमवस्थितिर्न युक्तेत्यर्थः । स्नात इति षष्ठ्येकवचनं स्नानादि कुर्वतो यच्चिरं विलम्बनं तावदेव न ततोऽधिकमित्यर्थः । क्षेपीयस्ता क्षिप्रतरत्वम् । यथा खलु स्वयंप्रकाशप्रत्यगात्मभूतब्रह्मसाक्षात्कारे नित्यमेव भवितुं युक्तेऽपि नास्ति ब्रह्म न प्रकाशते चेति भ्रमान्यथानुपपत्त्याऽऽच्छादिकाऽविद्या कल्प्यते, एवमत्रभवतां हिरण्यगर्भादीनां तत्त्वसाक्षात्कारवतामपि श्रुतिस्मृतिप्रतीतदेहधारणान्यथानुपपत्त्या तत्त्वसाक्षात्कारस्य प्रारब्धफलकर्मप्रतिबन्धात्तत्स्वरूपतत्कार्यभोगसंपादकाविद्यालेशं प्रत्यनिवर्तकत्वं भोगसमाप्तौ कर्मक्षये च प्रतिबन्धनिवृत्तौ सततमनुवर्तमानसाक्षात्कारेण तस्याप्यविद्यालेशस्य निवृत्तिरिति कल्प्यते ।
न चैकदेशेन निवृत्ताया अविद्याया अनुवृत्त्यसंभवः; शाब्दबोधेन निवृत्तायामप्यविद्यायां साक्षात्कारनिरस्यैकदेशान्तरस्य दर्शनात्, तदिदमभिप्रेत्य सिद्धान्तयति –
यद्यपीत्यादिना ।
द्रागित्येवेति ।
तत्राप्रतिबन्धादित्यर्थः । न त्वारब्धविपाकम् शीघ्रं निवर्तयति, प्रतिबन्धक्षये तु निवर्तयतीत्यर्थः ।
आरब्धविपाकत्वस्य व्याख्यानं –
संपादितेति ।
संपादिता जातिः जन्मायुर्जीवनं संपादितम् । विततो विस्तीर्णः पूर्वापरीभूतो वर्तमानः सुखदुःखोपभोगश्च संपादितो येन तत्कर्मजातं तथोक्तं तद् द्रागित्येव न निवर्तयतीत्यर्थः । समुदाचरन्ती उद्भूता, वृत्तिः फलारम्भाय यस्य तत्तथा । परितः समन्तात्प्रद्योतमानं बुद्धिसत्त्वं बुद्धिगतसत्त्वगुणो ब्रह्मज्ञानाकारेण परिणतो येषां ते तथोक्ताः । ज्योग्जीविता उज्ज्वलजीविता । कल्पोऽवान्तरकल्पः ।
यदुक्तमुभयविधाने वाक्यं भिद्येतेति, तत्राह –
तावदेव चिरमितीति ।
श्रुत्यन्तरेति ।
उद्दालकादीनां देहधारणविषयं श्रुत्यन्तरम् ।
उपजीव्याया अपि अविद्याया ज्ञानेन बाधात्प्रारब्धकर्माण्याश्रित्य ज्ञानोदयस्तदनिवर्तकत्वे स्वतन्त्रयुक्तिर्न भवति, किं त्वन्यतः सिद्धेऽर्थेऽभ्युच्चयार्थेत्याह –
तदेतदभिसंधायेति ।
अभ्युपेत्यान्यत्र वस्तुतत्त्वसाक्षात्काराविद्ययोः सहानवस्थानमिहाविद्यैकदेशब्रह्मात्मभावसाक्षात्कारयोरविरोध उक्तः, इदानीमन्यत्रापि न विरोधनियम इत्याह –
न चेदमिति ।
समवाये सन्निधाने । यथा प्रतिबिम्बद्विचन्द्रभ्रमस्यौपाधिकत्वाच्चन्द्रैकत्वसाक्षात्कारेण सहानुवृत्तिरुपाधिनिवृत्तौ निवृत्तिः प्रमाणसिद्धा, एवं निरुपाधिकभ्रमस्यापि सान्तःकरणस्य तत्कर्तृत्वादेस्तदुपादानाविद्यालेशस्य च ब्रह्मसाक्षात्कारेण सहानुवृत्तिः प्रारब्धकर्मोपरमे च निवृत्तिरुद्दालकादिदेहधारणविषयश्रुत्यादिप्रमाणसिद्धा स्वीकर्तव्येत्यर्थः ।
ननु द्विचन्द्रादिभ्रमा अल्पकालं तत्त्वज्ञानेन सहानुवर्तन्ते, कर्तृत्वादेस्तु कथं बहुकालं विरोधिना सहानुवृत्तिरित्यत आह –
यदा लोकेऽपीति ।
नियोगस्तथास्त्विति विधिरनुयोगः कथमेतदिति चोद्यम् । भाष्ये स्थितप्रज्ञलक्षणनिर्देशो जीवन्मुक्तिसाधक उक्तः ।
तत्र स्थितप्रज्ञः साधको न साक्षात्कारवानिति मण्डनमिश्रैरुक्त दूषणमुद्धरति –
स्थितप्रज्ञश्चेति ।
भाष्ये संस्कारवशादिति संस्कारशब्दः परिशिष्टाविद्यालेशवाची ।
संस्कारात्कर्मानुवृत्तिं दूषयता पूर्ववादिना यदुक्तं नावस्तु संस्कारद्वाराऽनुवर्तते भयकम्पादेरपि सत्यज्ञानजन्यत्वेन सत्यत्वादिति , तत्राह –
न च ज्ञानेति ।
मिथ्यात्वेनाविशेषितज्ञानमात्रजन्या न भवन्तीत्यर्थः ।
यदि भवेयुस्तत्राह –
ज्ञानमात्रादिति ।
उत्पादे वा रज्जुज्ञानादपि तदापत्तेरित्यर्थः ।
हेतुद्वारा भयादेः सत्यत्वं निषिध्य स्वरूपेणापि निषेधति –
न च कार्यमपीति ।
आरम्भणाधिकरणे (ब्र.अ .२ पा.१ सू.१४) कार्यमात्रस्य मिथ्यात्वसमर्थनादित्यर्थः ।
ननु रज्जुसर्पज्ञानस्य भयादेश्च मिथ्यात्वे कथं कार्यकारणभावस्तत्राह –
अनिर्वाच्याच्चेति ।
कार्यकारणभावोऽपि न वास्तवः, स्वप्ने हस्तितद्धावनवदित्यर्थः । एवं च कम्पादेर्यथा संस्कारद्वाराऽनुवृत्तिरेवं कर्मणामपीति संस्कारपक्षोऽपि समर्थितः । न विमोक्ष्ये न विमोक्ष्यते । संपत्स्ये संपत्स्यते । तकारलोकश्छान्दसः॥१५॥
इत्येकादशमनारब्धकार्याधिकरणम्॥
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्॥१६॥ उत्पन्नविद्याजन्यकर्मक्षयस्य प्रारब्धफलकर्मस्वपवाद उक्तः ,इदानीमप्रारब्धफलेष्वपि केषुचित्तस्यापवादोऽभिधीयत इति संगतिमभिप्रेत्य पूर्वपक्षमाह –
यदेत्यादिना ।
ननु विद्यार्थमेवाग्निहोत्रादि योगमारुरुक्षुणाऽनुष्ठीयताम्, विद्योदयाच्च तन्निवर्तताम्, फलविनाश्यत्वात्कर्मणः; तत्र कथमनुष्ठेयत्वमिति - तदुच्यते; यदि विद्या पुण्यस्य कस्यचिन्निवर्तिका, तर्हि पुण्यान्तरादपि नोदेतुमर्हति, न हि तमोनिवर्तकः प्रदीपस्तमोन्तरादुदेति ; विरोधस्य जात्युपाधिकत्वादिति तस्यापीतरपुण्यवद्विद्यया नाशादिति विनंष्टुं योग्यत्वादित्यर्थः ।
ननु विरुध्यन्तामन्यानि कर्माणि विद्यया, यज्ञादीनि तु न विरुद्धानि; यज्ञेनेत्यादिशास्त्रप्रामाण्यात्तेषां विद्यया सह मोक्षलक्षणैककार्यकरत्वावगमादिति, तत्राह –
न च विविदिषन्तीति ।
पूर्वोत्तरे इति ।
विद्याजन्मन इति शेषः । पूर्वस्य क्षयादुत्तरस्याश्लेषादित्यर्थः ।
प्रमाणस्यान्यथासिद्धिमाह –
तस्मादिति ।
यज्ञादिति ।
यज्ञादेर्मोक्षसाधनत्वगन्धोऽपि वाक्ये न श्रूयते, किं तु ब्रह्मज्ञानस्य यज्ञादिविशिष्टसाधनसाध्यत्वात्स्तुतिः, यज्ञादीनां च ज्ञानलक्षणविशिष्टसाध्यं प्रति साधनत्वनिर्देशमात्राच्च स्तुतिः, न तु साध्यसाधनत्वमस्ति; विरोधस्योक्तत्वादित्यर्थः । अर्थवादत्वस्फुटीकरणाय योग्यानुपलब्धिसूचनार्थं वर्तमानापदेशग्रहणम् ।
न मुक्तिसाधनयज्ञादिविधिरिति ।
न विज्ञानसाधनविधिरिति हृदयम् ।
पूर्वपक्षनिदानमुच्छिनत्ति –
न च कर्मणामिति ।
स्वकरणविरोधिनां वेणुज्वलनादीनां बहुलमुपलम्भादित्यर्थः । अनेन तद्दर्शनादिति सूत्रावयवो भाष्यनैरपेक्ष्येण व्याख्यातः ।
अत्र च विरोधिनोऽग्निहोत्रादेर्ज्ञानोपयोगे प्रकृते कार्यस्य कारणनिवर्तकत्वमर्थात्प्रकृते तच्छब्देन परामृष्टम्, इदानीं तत्कार्यायेत्यपरमवयवं व्याचष्टे –
विद्यालक्षणेति ।
तदेव ज्ञानं कार्यमिति कर्मधारय इत्यर्थः । तस्या इत्येतावति वक्तव्ये कार्यग्रहणं विरुद्धमपि विरुद्धेन कर्तुं योग्यमिति न्यायसूचनार्थम् ।
प्रमाणदूषणमुद्धरति –
एवं चेति ।
अनेनाभिसन्धिनेति ।
तस्य कार्यमित्यपि भाष्यीयव्याख्यायां पारम्पर्याश्रयणाच्चार्थभेद इत्यर्थः ।
एवं निर्गुणविद्यापरत्वेनाधिकरणं व्यावर्ण्य सगुणपरत्वेनापि वर्णयति –
यत एवेति ।
अत्र च वर्णके तत्सुकृतदुष्कृते विधूनुत इत्यविशेषश्रवणादग्निहोत्रादिलय इति पूर्वः पक्षः । सगुणविद्याफलस्य कर्मसाध्यत्वयोग्यत्वात् ‘यक्ष्यमाणो ह वै भगवन्तोऽहमस्मी’त्यादिसमुच्चयलिङ्गात् सुकृतशब्दस्य च काम्यविषयत्वात् नित्यकर्मसगुणविद्यासमुच्चयः इति सिद्धान्तः । तस्य कर्मसाध्यत्वयोग्यफलस्य दर्शनादिति च सौत्रहेत्वर्थः॥१६॥१७॥
इति द्वादशमग्निहोत्राद्यधिकरणम्॥
यदेव विद्ययेति हि॥१८॥ पूर्वोक्ताग्निहोत्रादिष्वेवाङ्गावबद्धोपास्तिसाहित्यानियम इह चिन्त्यते । ननु तन्निर्धारणानियम इत्यनेनैतद्गतं, स्वर्गादाविव विद्याफलसिद्ध्यप्रतिबन्धस्य पृथक्संभवादत आह –
यथा ब्राह्मणायेति ।
विद्यायुक्तकर्मप्रशंसया विद्याविहीननिषेधः कल्प्यते, न च विधिविरोधः; केवलं कर्म कुर्यादित्यश्रवणात्कर्मस्वरूपविधेश्च पारशाखिकाङ्गनियमे इवोपास्तिनियमेप्युपपत्तेः । अतश्च विद्यानां पुनरङ्गत्वोन्मज्जने तन्निवृत्त्यर्थ आरम्भ इत्यर्थः॥ अन्ये त्वाहुः -
विद्यार्थत्वं यदा यायुरनाश्रमिकृताः क्रियाः ।
तदोपास्तिविहीनेषु का कथाऽऽश्रमकर्मसु॥
ततः प्रक्षिप्तमेतत् स्यात्स्नातकेन तु केनचित् ।
इति॥ नैवं नेतव्यम् ; यतः –
नाश्रमोक्तक्रियास्वस्ति विधुरादेरधिक्रिया ।
तस्मात्तदीयजप्यादि विद्यासाधनमीरितम्॥
विद्योपेतेषु शक्तस्य तत्त्यागादन्यकारिणः ।
न विद्या सेत्स्यतीत्येषा शङ्का केन निवार्यते॥
एवं हि भट्टपादाः प्रतिपादयन्ति -
‘‘प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाप्नोति फलं तस्य परत्रेति विचारितम्’’
इति॥
यदि विद्यायुक्तं कर्म वीर्यवदित्येतावदुच्येत, तत इतरस्यार्थादवीर्यत्वेन निन्दा गम्येत, न चैवमस्ति; अत्र हि तरप् प्रयोगेण विद्यासंयुक्तस्य वीर्यवत्त्वातिशयबोधनादर्थात्केवलकर्मणोऽपि वीर्यवत्त्वमात्रं विधिबललब्धमभ्यनुज्ञायेताऽतो न निन्दावकाश इति सिद्धान्तयति –
यदेव विद्ययेत्यादिना ।
पयसि सर्वं प्रतिष्ठितमिति विन्द्वान्यदहरेवाग्निहोत्रं जुहोति॥१८॥
इति त्रयोदशं विद्याज्ञानसाधनत्वाधिकरणम्॥
भोगेन त्वितरे क्षपयित्वा संपद्यते॥१९॥ व्यवहितेन संबन्धमाह –
अनारब्धेति ।
न तत्राप्यारब्धफलं कर्म लयाद् व्यावर्तितं, तस्य च प्रयोजनं भोगेन क्षय इति तदिदानीं दर्शयतीत्यर्थः ।
ननु विद्ययैवारब्धकर्मणोऽपि लयः किं न स्यादत आह –
अस्य त्विति ।
पुरस्तादिति ।
अनारब्धकार्ये इत्यत्रैवेत्यर्थः । अगतार्थत्वममृतानन्दपादैरुक्तम् । प्रारब्धकर्मफलभोगानन्तरं मोक्षेऽपि तत्कर्मजन्यानेकदेहसंभवात्तत्र च विद्याप्रमोषसंभवात्तत्कृतकर्मणामश्लेषाभावेन मुक्त्यभावः शङ्क्यते, तत्रोत्तरमाधिकारिकाणां देहान्तरे ज्ञानाप्रमोष आगमसिद्धोऽस्मदादीनामथ संपत्स्य इति श्रुतिबलेन प्रारब्धभोगानन्तरं मुक्तिरिति॥१९॥
इति चतुर्दशमितरक्षपणाधिकरणम्॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य प्रथमः पादः॥
वाङ्मनसि दर्शनाच्छब्दाच्च॥१॥ सगुणविद्याफलस्य ब्राह्मलौकिकस्यार्चिरादिगतिप्राप्यस्यानुक्रम्य प्राप्त्यसंभवात् तदर्थमुत्क्रान्तिनिरूपणं व्यापिब्रह्मात्मभावे निर्गुणविद्याफले निषेधार्थं चेत्यभिप्रेत्य पादस्याध्यायसंगतिमाह –
अपरविद्याफलेति ।
विद्याधिकारो विद्यया संबन्धः ।
भाष्यगततत्त्वशब्दार्थमाह –
धर्मिण इति ।
धर्मिणो हि स्वरूपमेव तत्त्वं धर्माणामारोपितत्वादिति ।
सर्वत्रेति पदं व्याचष्टे –
परत्रेह चेति ।
नन्वत्रापीति ।
किं विशिष्यादित्यनुषङ्गः ; तथा सिद्धोत्क्रान्तिक्रमानुवादितावदिदं वाक्यम्, तत्र पूर्वं व्यवहरमाण आसीन्नेदानीमिति व्यापारलोपः सिद्धः, न तु वाग्लोपोऽतो वाक्छब्दो वृत्तिलक्षक इति सिद्धान्ताभिप्रायमाह –
सत्यामेवेति ।
मनोवृत्तिसत्त्वकथनं वाग्वृत्तिलये हेतुत्वोपपत्त्यर्थम् । अन्यथा हि तत्प्रलीनवृत्तिकं न हेतुः स्यादिति ।
ननु ‘‘षोडश कलाः पुरुषं प्राप्यास्तं गच्छन्ती’’त्यत्र वागादिस्वरूपलयोऽप्युक्तः ; एवमत्र किं न स्यादत आह −
आगमो हीति॥१॥
वाङ्मनसीत्युदाहृतवाक्ये वाच एव श्रवणान्नेन्द्रियान्तराणां मनसि वृत्तिलय इति भ्रममपनेतुमवान्तरसूत्रम् –
अत एवेति ।
तद्व्याचष्टे –
यत एवेति ।
वृत्तेरनुगतिर्लयः । एषा च सौत्रानुशब्दवाच्या । उपशान्ततेजा उपशान्तौष्ण्यः । पुनर्भवं पुनर्जन्मोद्दिश्य मनसि संपद्यमानैरिन्द्रियैः प्राणमायातीति शेषः॥२
इति प्रथमं वागधिकरणम्॥
तन्मनः प्राण उत्तरात्॥३॥ अतिदेशोऽयम्, अस्याधिकाशङ्कामाह –
स्वप्रकृतावित्यादिना ।
प्राणमनसोरवन्नात्मत्वे हेतुमाह –
प्रकृतिविकारयोरिति ।
ननु भवत्वन्नात्मकं मनोऽवात्मकश्च प्राणः, कथमेतावता प्राणे मनसो लयस्तत्राह –
तथा चेति ।
अपामन्नप्रकृतित्वादन्नात्मकं मनः प्रत्यवात्मकः प्राणः प्रकृतिरिति तस्मिन्मनसः स्वरूपेण लय इत्यर्थः । प्राणमनसोः किं साक्षात्प्रकृतिविकारभावः, उत स्वप्रकृतिभूताऽबन्नद्वारेण ।
आद्यं निरस्य द्वितीयेऽतिप्रसङ्गमाह –
स्वयोनीति ।
एवं हि घटस्यापि शरावे लयापत्तिरित्यर्थः । तद्विकारे तासामपां विकारे प्राणेऽन्नविकारस्य मनसो लय इति योजना॥३॥
इति द्वितीयं मनोऽधिकरणम् ॥
सोऽध्यक्षे तदुपगमादिभ्यः॥४॥ मनः प्राण इति वाक्यं विचार्य तदनन्तरस्य प्राणस्तेजसीत्यस्य विचारात्संगतिः । तेजःशब्दस्य भूतविशेषवचनत्वादित्यादिहेतूनां तस्मात्तेजस्येव प्राणवृत्तिलय इति प्रतिज्ञया संगतिः । उपगमनादिश्रुतीः स्वयमेव वक्ष्यति । तेजोद्वारेणेत्येतदुपपादयति –
तेजसि समापन्नेति ।
प्राणवृत्तिलयात् प्राणस्य जीवे वृत्तिलय उपचर्यत इत्यर्थः ।
समापन्नेति ।
आपत्तिर्लयः । यथा राजानं यात्रायाम् उद्यन्तं परिवारभूताः प्राणिनः समुपयन्ति, एवमात्मानमन्तकाले सर्वे प्राणा अभिसमागच्छन्ति । कोऽसावन्तकालः? स उच्यते ।
यत्र काल एतद्भवति, तदेव दर्श्यते –
ऊर्ध्वोच्छ्वासीति ।
ऊर्ध्वोच्छ्वासित्वमित्युपगमनश्रुतेरर्थः । संमुखमागमनमुपगमनम् । आगम्य च गच्छन्तं जीवम् अनु पश्चाद्गमनमनुगमनम् ।
इन्द्रियग्राम इति ।
आ प्रायणादित्यत्र सविज्ञानशब्दः प्राप्तव्यकर्मफलप्रकाशनवचन इत्युक्तमिह तु तमपरित्यज्य तत्सहितेन्द्रियसमुदायवचन इत्युक्तम् इति न विरोधः ।
कथं प्राणोऽध्यक्ष इत्यधिकावापः क्रियत इति भाष्यम् ? तदनुपपन्नमिव ? तेजःशब्देन तेजोऽध्यक्षजीवलक्षणासंभवादधिकशब्दप्रक्षेपाप्राप्तेरत आह –
अधिकावापोऽशब्दार्थेति ।
श्रौतोऽर्थो हि शब्दे भाति, अतोऽश्रौतार्थप्रक्षेपोऽधिकावाप इत्यर्थः ।
लक्षणास्वीकारे हेतुमाह –
श्रुत्यन्तरेति ।
प्राणानां जीवानुगमादिविषयं वर्णितमेव श्रुत्यन्तरम् ।
ननु तस्य तेजोद्वारेणान्यथासिद्धिरुक्तेति, तत्राह –
न च तेजसस्तत्रेति ।
अनिलाकाशक्रमेणेति ।
व्यवधानादेव साक्षत्तेजसः स्वरूपलययोगाद् न तद्द्वारेणात्मनि प्रलय उपचरितुं शक्यो व्यवधानाश्रयणे च घटादावपि प्रलयोपचारप्रसङ्ग इत्यर्थः । वृत्तिलयस्तु न कुतश्चित्प्रमाणादात्मन्यवगत इति न तद्द्वाराऽपि प्राणवृत्तिलयोपचार इति द्रष्टव्यम् । तेजःसहचरितश्चासौ देहबीजभूतश्च पञ्चभूतसूक्ष्मरूपश्च परिवारश्च तस्याध्यक्षो जीवात्मा तस्मिन्प्राणवृत्तिलय इत्यर्थः॥४॥ यद्यपि भाष्ये प्राणसंयुक्तोऽध्यक्षस्तेजःसहितेषु भूतसूक्ष्मेष्ववतिष्ठत इत्युक्तम्; तथापि तद्भूतसहितेऽध्यक्षे प्राणस्तिष्ठतीत्येवंपरं व्याख्येयम्; सोऽध्यक्ष इत्युपक्रमादिति भावः ।
चोद्यभाष्येऽपि यद्यपि प्राणसहितस्याध्यक्षस्य भूतेष्ववस्थितिराक्षिप्यत इति प्रतिभाति; तथापि भूतसहिताध्यक्षे प्राणस्थितिराक्षिप्यत इत्येवंपरत्वेन योज्यमित्याह –
तेजःसहचरितानीति ।
प्राणेनाधारत्वेन संपृक्तस्याध्यक्षस्य भूतैर्मिलित्वा स्थितिं श्रुतिर्न दर्शयतीति भाष्ययोजना हि इयता सूचितेति ।
परिहारभाष्येऽप्यध्यक्षं प्राप्य पूर्वव्यापारान्तरात्तेज आदिभूतप्राप्तिः प्राणस्य नाभिधीयते, उपहितप्राप्तेरुपाधिप्राप्तिनान्तरीयकत्वादित्यभिप्रेत्याह –
अध्यक्षसंपर्कवशादिति ।
दृष्टान्तेऽपि व्यवधानेन प्राप्त्यंशो न विवक्षितोऽपि तु यथा स्रुघ्नान्नगराद्गच्छतो मथुरापाटलिपुत्रयोरुभयोः प्राप्यत्वेऽपि पाठलिपुत्रं प्राप्यत्वेन निर्दिश्यते, एवमिहापि प्राणेन तेजसोऽध्यक्षस्य चोभयोः प्राप्यत्वेऽपि तेजसीति भूतमात्रस्य प्राप्यत्वं निर्दिश्यत इत्ययमर्थो विवक्षित इत्याह –
अत्रैवेति॥५॥
प्राण एकस्मिन्नेव तेजःसूक्ष्मे नावतिष्ठत इति कार्यस्थानेकस्यानेकात्मकत्वादिति च हेतुप्रतिज्ञयोर्वैयधिकरण्यमाशङ्क्याह –
स्थूलशरीरानुरूपमिति ।
कार्यानेकात्मकत्वेनानुमितं कारणानेकत्वमेकत्र प्राणस्थित्यभावे हेतुरित्यर्थः॥६॥
इति तृतीयमध्यक्षाधिकरणम्॥
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य॥७॥ निरूपिताया उत्क्रान्तेरपरविद्यास्वन्वय इह प्रदर्श्यते । ननु दहरादिविद्याविदामुत्क्रान्तिर्नास्तीति इह पूर्वपक्षः, स न साधुः ; तद्विद्यासु देशान्तरीयफलास्वावश्यकत्वादुत्क्रान्तेरत आह –
अत्रेति ।
अत्राधिकरणे विषयभूतदहरविद्यायाममृतत्वमेतीत्यमृतत्वप्राप्तिश्रुतेरमृतत्वस्य च परविद्याफलत्वात्, परविद्यावन्तं प्रत्येतदमृतत्वं परविद्यायां चोत्क्रान्तिर्निषिध्यत इति यो मन्यते तस्य मतेनायं पूर्वपक्षः । वस्तुतस्तु नास्ति पूर्वपक्षः । ‘‘तयोर्ध्वमाय’’न्नित्युत्क्रान्तिमुपन्यस्यामृतत्वस्य श्रावितत्वादिति द्योतितं मन्वानग्रहणेन । अथवा - सगुणस्यापि व्यापित्वाद् ब्रह्मणो न तत्प्राप्तुमुत्क्रान्त्यपेक्षेति पूर्वपक्षोऽत्र वास्तवः| तस्या मुक्ते सधर्मा अवस्थाः सुषुप्त्याद्याः, विधर्मा जाग्रदाद्याः ।
नन्वेता अपि प्रतिपाद्यन्ता किं मुक्त्यर्थतया तदनुवादेनात आह –
न त्विति ।
येन हेतुना विद्याप्रकरणे व्याघातस्तेन विदुषः सकाशादविद्वांस उत्क्रान्त्यादिविशेषवन्तो न प्रतिपाद्यन्ते, नापि विद्वान् अमृतत्वश्रुतिविरोधादेवेत्यर्थः । अनेन न तु विदुष इति भाष्यं व्याख्यातम् । भाष्यकृद्भिरासृत्युपक्रमादित्येतत् प्रतिज्ञाविशेषणत्वेन व्याख्यातम् । अविशेषश्रवणादिति च हेतुरध्याहृतः ।
स्वयंत्वासृत्युपक्रमादेतदेव हेतुत्वेन योजयति –
कुत इति ।
आसृति सृतिपर्यन्तम् उपक्रमादित्यर्थः । ब्रह्मलोकप्राप्तितद्गतविशिष्टभोगफलपर्यन्तत्वाद्विद्यानुष्ठानप्रारम्भस्य ब्रह्मलोकस्य चोत्क्रम्य गत्वैव प्राप्यत्वादस्ति सगुणविद उत्क्रान्तिरित्यर्थः । एतेन वास्तवोऽपि पूर्वः पक्षो व्युदस्तः; सगुणब्रह्मप्राप्तिमात्रस्यापुमर्थत्वादिति ।
उपक्रमेति प्रकृत्यर्थमुक्त्वा पञ्चम्यर्थमाह –
तस्मादिति ।
प्रेप्सते प्राप्तुमिच्छते । उत्क्रान्तिभेद उत्क्रान्तिविशेषः । मूर्धन्यनाड्या निष्क्रमणम् ।
वस निवासे इत्यस्माद्धातोरिदं न भवति; तथा सत्यनुपोष्येत्यस्य मुक्त्वेत्येवमर्थत्वापातात्, अतो व्याचष्टे –
उष दाहे इतीति॥७॥
इति चतुर्थमासृत्युपक्रमाधिकरणम्॥
तदापीतेः संसारव्यपदेशात्॥८॥ ननु वर्णितोत्क्रान्तिसामर्थ्यादेव सविशेषस्तेज आदिलयः सिध्यति, किं विचारेण? अत आह –
सिद्धां कृत्वेति ।
सत्यमुत्क्रान्तिः सावशेषलयेन विना न घटते, स एवाद्यापि न सिद्ध इति समर्थ्यत इत्यर्थः । अत एव सङ्गतिः ।
यदि पूर्वः पक्ष इति ।
अनेन प्राचामप्यधिकरणानां वृत्तिलयनिरूपकाणां प्रयोजनम् उक्तम् । यस्तु सिद्धे ऽपि वृत्तिलये प्राणस्याध्यक्षे वृत्तिलय उक्तः, स सगुणविद्यायामनुचिन्तनार्थम् ॥८॥
महत्त्वाद्वेति ।
रूपवदिति हेतुगर्भविशेषणम् । अनेकशब्दो बहुत्ववाची । अनेकं बहु द्रव्यम् आरम्भकं यस्य तदनेकद्रव्यं तत्त्वादित्यर्थः । ततश्च लिङ्गशरीरं, चक्षुःस्पर्शनाभ्याम् उपलब्धव्यम्, मूर्तान्तरैश्च प्रतिहन्येत, महत्त्वे सति रूपवत्त्वाद् बहुद्रव्यारब्धत्वे सति रूपवत्त्वाद्वा, कुम्भवदिति । महत्त्वबहुद्रव्यारब्धत्वाभ्यां द्व्यणुकव्यावृत्तिः, रूपवत्त्वेन वायुव्यावृत्तिः ।
चकारस्यप्रथमसूत्रार्थेनाप्यन्वयमाह तस्यैतत्सूत्राकाङ्क्षार्थं –
भिन्नक्रम इति ।
चक्षुष्यनैकान्तिकत्वमुक्त्वा हेत्वोराह –
स्वरूपमिति ।
तस्य लिङ्गशरीरस्य स्वरूपमेव तादृशम् अनुद्भूतरूपस्पर्शम् । यथा चाक्षुषस्य चक्षुराकारपरिणतस्य तेजस इत्यर्थः ।
दृष्टान्तं साधयति –
अदृष्टवशादिति ।
स्वरूपतः सौक्ष्म्यमुपपाद्य परिमाणतः सौक्ष्म्यमाह –
परिमाणत इति ।
परिमाणत सौक्ष्म्यमस्ति यतो लिङ्गशरीरस्येति शेषः । यथा त्रसरेणवो जालकप्रविष्टसूर्यरश्मिभ्योऽन्यत्र नोपलभ्यन्ते, परिमाणतः सौक्ष्म्यादेवं लिङ्गशरीरस्याप्यस्ति सौक्ष्म्यमिति योजना॥९॥
एतदपि हीति ।
स्वच्छत्वमपि सूक्ष्मत्वेन संगृहीतमुपलक्षितमित्यर्थः ।
पूर्वाक्तहेतुभ्यां लिङ्गशरीरस्य चाक्षुषत्वानुमाने उद्भूतरूपत्वमुपाधिमनैकान्तिकत्वं चाभिधायेदानीं प्रतीघातानुमानेऽप्यस्वच्छत्वमुपाधिमनैकान्तिकतां चाह –
यथा हि काचेति ।
काचद्रव्यमभ्रसमूहश्च यथा स्वच्छस्वभावस्य नेत्रतेजसो न प्रतिघातकं, तदन्तरितवस्तुनोऽपि नेत्रेणोपलम्भादेवं सर्वमेव मूर्तं वस्तुजातमस्य लिङ्गशरीरस्येत्यर्थः । असक्तत्वापरनाम्नो नोपमृद्यत इति शेषः॥१०॥
प्राप्तिर्लाभः । दृष्टं त्वगिन्द्रियेण ज्ञानम् । श्रुतं कर्णौ पिधाय श्रवणम् । ताभ्यां प्रमाणाभ्यामूष्मणोऽन्वयव्यतिरेकौ भावाभावौ । तद्बलादस्ति स्थूलदेहातिरिक्तं किंचिदित्यर्थः॥११॥
इति पञ्चमं संसारव्यपदेशाधिकरणम्॥
प्रतिषेधादिति चेन्न शारीरात्॥१२॥ व्यवहितसंगतिर्भाष्य एवोक्ता । सूक्ष्मं शरीरं यस्य स जीवात्मा तथोक्तः । ननु विद्वानपि चेदुत्क्रामेत्कथं तस्य मोक्षसिद्धिरत आह –
स पुनरिति ।
एकस्मिन्पक्ष इति ।
सिद्धान्ते इत्यर्थः॥१२॥
यदुक्तं हिरण्यगर्भपर्यन्तम् उत्क्रान्तस्य जीवस्य लिङ्गशरीरात् प्रलय इति, तत्राह –
संसारिण एवेति ।
यत्रायं पुरुषो म्रियत इति निर्देशात्संसारमण्डले वर्तमानस्येत्यर्थः ।
मध्ये कश्चिच्छङ्कते –
नन्विति ।
बृहदारण्यके हि पञ्चमाध्याये आर्तभागप्रश्नगतः शरीरापादानकोत्क्रान्तिप्रतिषेधोऽस्त्वविदुषो यत्रायं पुरुष इति पुरुषमात्रोपादानात्, षष्ठाध्यायगतस्तु, ‘‘न तस्मात्प्राणा उत्क्रामन्ती”ति जीवापादानकोत्क्रान्तिप्रतिषेधो भवतु विदुषः, तथा च ब्रह्मविद उत्क्रान्तिसिद्धेः, त्वत्पक्षासिद्धिरित्यर्थः ।
आर्तभागप्रश्नेऽपि ‘‘यदिदं किं च मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्न’’मिति मृत्युमृत्योःपरदेवतायाः प्रस्तुतत्वात्, तदभिज्ञस्य विदुष एवोत्क्रान्तिनिषेध इति साम्यं वाक्यद्वयस्येत्याह –
तत्सामान्यादिति ।
अभेदोपचारेणेति ।
उत्क्रान्त्यवधेरुच्छ्वयनादिभिर्निर्देशस्यान्यथा नेतुमशक्यत्वात्तद्वशेनात्रोपचार इत्यर्थः ।
पञ्चमीपाठे उपचाराश्रयणे न्यायद्वयमाह –
अपि चाद्वैतेति ।
भाष्योदाहृतस्मृतिं व्याचष्टे –
अपदस्य हीति ।
पद्यत इति पदं गन्तव्यम्, अन्यद्यस्य नास्ति स ब्रह्मविद् अपदः ब्रह्मविदो मार्गे ब्रह्मप्राप्तिसाधने ज्ञाने ये पदैषिणः निष्ठेच्छवः तेऽपि देवा उत्कृष्टाः, किमु तन्निष्ठाः, किंतु परं मुह्यत्यत्र मन्दभाग्या इत्यर्थे स्मृतिं योजयति - पदैषिणोऽपीति॥१३॥१४॥
इति षष्ठं प्रतिषेधाधिकरणम्॥
तानि परे तथा ह्याह ॥१५॥ इत्याद्यधिकरणपञ्चकस्य संगतयो भाष्य एव विशदाः । परस्मिन् पुरुषे करणलयवचने सति संशयानुपपत्तिमाशङ्क्याह –
प्रतिष्ठाविलयनश्रुत्योरिति ।
प्रतिष्ठयोरवान्तरप्रकृतिमहाप्रकृत्योः, लिङ्गशरीरविलयनश्रुतिगताः कला ‘‘एवमेवास्य परिद्रष्टु’’रिति श्रुती तयोर्विप्रतिपत्तेर्विमर्शः संशय इत्यर्थः ।
परस्मिन्नात्मनीति ।
लीयन्त इति शेषः ।
ननु बाह्येन्द्रियाणि दश, भूतानि पञ्च, मन एकमिति षोडश कलाः सन्ति, कथं श्रुतौ पञ्चदशत्वनिर्देशस्तत्राह –
घ्राणेति ।
घ्राणस्य हि पृथिव्युपादानं, मनसश्च सैवान्नमयत्वश्रुतेरत एकप्रकृतिकत्वमित्यर्थः । सांव्यवहारिकप्रमाणेनानुमानेन करणानां भौतिकत्वावगमाद् भूतेषु लयोऽवगतः, भूतसूक्ष्माणां चासाधारणानां साधारणेषु भूतेषु प्राणानां वायौ तात्त्विकप्रमाणैस्तु वेदान्तैर्विश्वस्य ब्रह्मविवर्तत्वावगमाद् ब्रह्मणि बाध इत्यर्थः । यथा नद्यः समुद्रे लीयन्ते एवमेव पुरुषे कलाः, आसां कलानां नामरूपे शक्त्यात्मके अपि भिद्येते, स च विद्वानकलः कलारहितः सन्नमृतो भवति॥१५॥
इति सप्तमं वागादिलयाधिकरणम्॥
अविभागो वचनात् ॥१६॥
अतिमन्दामपनेतुमिति ।
श्रुतिविरोधेनेत्यर्थः॥१६॥
इत्यष्टममविभागाधिकरणम्॥
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥१७॥ प्रज्वलनं कर्मवशाद् भविष्यत्फलप्रकाशः । तस्यानुस्मरन्निति कर्मणि षष्ठी । ननु मूर्धन्य नाड्या देहमात्रव्यापित्वात्कथं तया ब्रह्मलोकप्राप्तिस्तत्राह –
हृदयान्निर्गता हीति ।
ता आसु नाडीषु सृप्ता इति श्रुतिसिद्धत्वादित्यर्थः । विष्वङ् नानागतयः॥१७॥
इति नवमं तदोकोऽधिकरणम्॥
रश्म्यनुसारी॥१८॥ सूत्रं योजयति –
रात्रावहनि वेति॥१८॥
सिद्धान्तहेतुस्तूत्तरसूत्रगतोत्तरावयव इति ।
प्रमाणान्तरादिति ।
निश्यप्यौष्ण्यग्राहकादित्यर्थः । अनेन सौत्रश्चशब्दो व्याख्यातः ।
व्याख्यानपूर्वकं वाक्यमुदाहरति –
अमुष्मादिति ।
चन्द्रगतप्रकाशान्यथानुपपत्त्याऽस्ति रात्रौ सूर्यरश्मिरित्याह –
आदिग्रहणेति ।
ननु चन्द्रमस एव प्रकाशोऽस्तु, तत्राह –
अम्मयेनेति ।
रत्रावुत्क्रान्तस्याहःप्रतीक्षा नास्तीत्यत्र हेतुमाह –
यावत्तावदिति ।
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतीति श्रुतौ यावच्छब्दोपबन्धेन शैघ्र्यपरेणानपेक्षा गतिः श्रुता, एवं चापेक्षा न शक्यावगमा; यावत्तावच्छाब्दयोरुपबन्धेनैव निरोधादित्यर्थः । अथ विशेषविज्ञानोपशमानन्तरम् । एतदिति क्रियाविशेषणम् । एतत्करोतीत्यर्थः ।
तदेव दर्शयति –
अस्मादिति ।
यद्रात्रौ ताप उपलभ्यते इति एतदहरेव रात्रौ दधाति सविता॥१९॥
इति दशमं रश्म्यधिकरणम्॥
अतश्चायनेऽपि दक्षिणे॥२०॥ प्राशस्त्यप्रसिद्धेरविद्वद्विषयत्वेन सङ्कोचे हेतुमाह –
अतःपदपरामृष्टेति ।
प्रतीक्षणमित्यत उपर्यविदुष इति द्वितीयाबहुवचनम्॥२०॥
अग्निर्ज्योतिरादीति ।
अग्निरर्चिरादिदेवता ज्योतिरादित्यदेवता ।
विषयव्यवस्थयेति ।
स्मार्तकालविधेर्निर्गुणपुरुषमात्रविवेकचित्तवृत्तिनिरोधात्मकसांख्ययोगविषयत्वेन श्रौतातिवाहिकदेवताविधेः सगुणविद्याविषयत्वेन च व्यवस्थयेत्यर्थः ।
अथ तु प्रत्यभिज्ञानमिति ।
स्मृतावग्न्यादिशब्दैः श्रौतार्चिरादिदेवतानां प्रत्यभिज्ञानमित्यर्थः॥२१॥
इत्येकादशं दक्षिणायनाधिकरणम्॥
इति श्रीमत्परमहंसपरिव्राजकश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य द्वितीयः पादः॥२॥
अर्चिरादिना तत्प्रथितेः॥१॥
भिन्नेति ।
मार्गा अर्चिरादयो मिथः परस्परमनपेक्षा न त्वनेकविशेषणविशिष्ट एको मार्गः । कुतः? भिन्नप्रकरणत्वादिभिर्यत्र विद्यैक्येऽपि गतिविशेषेणाभेदो यथा पञ्चाग्निविद्यायां देवलोकादेस्तत्र भिन्नप्रकरणस्थत्वाद्विद्याभेदे तु भिन्नोपासनशेषत्वादिभिः ।
त्वरात इति ।
स यावत्क्षिप्येन्मन इति वेगावगतेरित्यर्थः ।
एतद्व्याचष्टे –
गन्तव्यमिति ।
अवधृतेरित्येतद्विवृणोति –
अथैतैरिति ।
एकस्मिन् गन्तव्येऽनेकमार्गवैयर्थ्यमाशङ्क्याह –
विकल्पेरन्निति ।
एकत्वेऽपीति ।
पथो मार्गस्य नैव नानात्वम् ; कुतः? तस्यैकत्वेऽप्यनेकैर्गुणभूतैः पर्वभिरवच्छेदैर्वाय्वादिभिः संगमसंभवेन गुणानां प्रधानेन समुच्चयोपपत्तेः, मार्गभेदकल्पनायां च गौरवाद्, आदित्यादिबहुविशेषणानां च सर्वत्र प्रत्यभिज्ञानलिङ्गेन मार्गैक्यावगमादित्यर्थः ।
भिन्नप्रकरणस्थत्वं ब्रह्मवदेकत्वेऽप्यविरुद्धम्; भिन्नोपासनशेषत्वं च भिन्नोपासनकर्तृचैत्रवदविरुद्धम् ;एकमार्गस्यानेकस्यानेकपर्वसंभवं लोके दर्शयति –
सपर्वा हीति ।
भागिभेदकल्पना अवयविभेदकल्पना ।
यदुक्तमवधृतेरिति, तत्राह –
न चैकं वाक्यमिति ।
अनपेक्षतामिति ।
अर्चिराद्यनपेक्षतामित्यर्थः ।
विधिसामर्थ्येति ।
न खल्विति रश्मिभिरिति रश्मिसत्ताबोधसामर्थ्यसिद्धं रश्मीनामसंबन्धव्यवच्छेदं मार्गोऽनुवदति; निशायां रश्म्यभावशङ्कामपनेतुमित्यर्थः । यच्चोक्तम् त्वरात इति, तत्परिहारार्थं भाष्यं –
त्वरावचनं त्वर्चिराद्यपेक्षायामपि शैर्घ्यार्थत्वाद् नोपरुध्यत इति, तदनुपपन्नम्; पूर्वपक्षे शैर्घ्यस्यैवानपेक्षत्वसाधकत्वेनोपपादितत्वादतो व्याचष्टे –
न खल्विति ।
पथि भेदं पथो मार्गस्य भेदम् ।
अन्यतः कुतश्चिद्गन्तव्यादिति ।
स्वर्गादेरित्यर्थः । तत्र हि धूमादिमार्गेण गमनं, कदाचित्प्रबलकर्मभिः प्रतिबन्धाद्विलम्बेतापि न त्वत्र; आ प्रायणादुपासीनस्यान्त्यप्रत्ययावश्यम्भावात्, ततश्च गन्तव्यान्तरापेक्षया शैर्घ्यार्थत्वादिति भाष्यं व्याख्याताम् ।
भूयांसीति भाष्ये मार्गैक्यं किमित्यर्चिरादिनेत्युक्तं, न पुना रश्म्यादिनेति शङ्कोत्तरमिव भाति; तथा सति चातोऽपीत्युपरितनोऽपिशब्दो न सङ्गच्छेतेति मत्वा व्याचष्टे –
अयमर्थ इति ।
त उपासकाः परा दीर्घाः समा यस्य स परावान् ब्रह्मा, तस्य पराः समावसन्ति तस्मिन्वसन्तीत्यन्या श्रुतिः, ‘‘सा ये’’ त्यन्या श्रुतिः । जितिर्जयः व्यष्टिर्व्याप्तिः । तद्य इति चापरा ब्रह्मचर्येणानुविन्दन्त्युपासते तेषामेव ब्रह्मलोकः प्राप्यत इति शेषः॥१॥
इति प्रथममर्चिराद्यधिकरणम्॥
वायुमब्दादविशेषविशेषाभ्याम्॥२॥ अत्र तेनेत्यस्यादित्यमागच्छतीत्येतत्पर्यन्तं संबन्धासंबन्धाभ्यां संशयः । पाठक्रमार्थक्रमाभ्यां संशय इति कैश्चिदुक्तमयुक्तम्; प्रबलदुर्बलाभ्यां सन्देहानवतारात्, पूर्वत्रार्चिरादिमार्गपर्वप्रत्यभिज्ञानात्सर्वत्र गत्यैक्यमुक्तम् । इहापि ‘‘स एतं देवयानं पन्थानम् आपद्याग्निलोकमागच्छति स वायुलोकमि’’त्यत्रार्थेऽर्चिरात्मकाग्न्यान्तर्यप्रत्यभिज्ञानादर्चिषोऽनन्तरं वायुर्निवेशनीय इति सङ्गतिः । नन्वत्र पाठादग्न्यानन्तर्यं वायोर्वक्तुमशक्यम् ; पाठस्य दुर्बलत्वाद्, इत्याशङ्क्याह –
श्रुत्याद्यभाव इति ।
ननु ‘‘स वायुमागच्छति स वायुस्तस्मै तत्र विजिहीते स्वावयवान्विगमय्य छिद्रं करोती’’ति ‘‘यथा रथचक्रस्य खं छिद्रं तेनोर्ध्वं आक्रमते स आदित्यमागच्छती’’ति वायोरादित्यात्पूर्वत्वरूपः क्रमस्तेनेति श्रुत्या प्रतीतः, तद्बलात्स एतमित्यत्रत्यः पाठक्रमो बाध्यतामत आह –
ऊर्ध्वक्रमणेति ।
द्वितीयार्धं व्याचष्टे –
तस्या इति ।
तेनेति श्रुतिर्वायुकृतावकाशस्योर्ध्वदेशमात्रप्राप्तौ हेतुत्वमाह, नादित्यगमने इत्यर्थः ।
ननु कथमादित्यगमनमात्रप्रतीतिस्तेनेत्यस्यादित्यमागच्छतीत्यनेनाप्यनुषङ्गः किं न स्यादत आह –
न चेति ।
आकाङ्क्षायां ह्यनुषङ्गः, इह तु तेनेत्यस्य सन्निहितोर्ध्वाक्रमणेन नैराकाङ्क्ष्यान्न व्यवहितादित्यागमनेन संबन्ध इत्यर्थः ।
नन्वादित्यप्राप्तेर्वायुदत्तावकाशेन वाय्वतिक्रमाद्विनाऽनुपपत्तेस्तेनेत्येतदादित्येनाप्यनुषज्यताम्, अत आह –
न चादित्यागमनस्येति ।
छिद्रेणोर्ध्वदेशप्राप्तेर्जातत्वात्पुनरादित्यागमनस्य तेनेत्यस्मिन्नपेक्षा नास्तीत्यर्थः ।
क्वचिदिति ।
वरुणलोकादावित्यर्थः । अत्रोर्ध्वादित्यलोकशब्दयोर्विशेषणविशेष्यभावादेकार्थत्वम् ।
तथा च तेनेति श्रुत्या वायुदत्तस्यादित्यगमनं प्रति हेतुत्वस्य नियतप्राक् सत्त्वात्मकत्वेन क्रमरूपस्य प्रतीतेः श्रुत्या पाठक्रमबाध इति सिद्धान्तयति –
ऊर्ध्वशब्द इति ।
उभयपाठ इति ।
उभयोः संवत्सरदेवलोकयोरश्रुतस्थलेऽपि पाठे कर्तव्ये सतीत्यर्थः ।
माससंबन्धादिति ।
माससंवत्सरयोः कालत्वसाम्यादित्यर्थः ।
कार्यकारणभावमप्याह –
मासारभ्यत्वाच्चेति ।
देवलोकः संवत्सरस्य परस्ताद्भवतु, वायुः क्व निवेशनीयस्तत्राह –
तत्रेति ।
‘‘तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति’’ इति वायोरादित्यानन्तर्याय निरन्तरत्वाय संवत्सरादित्यस्य स्थाने एतस्योपरि देवलोकं देवलोकाद्वायुमिति पठितव्यमित्यर्थः ।
ननु सूत्रं वायुमब्दादित्येतावन्मात्रं, कथमधिकावापस्तत्राह –
वायुमब्दादिति त्विति ।
वाचकमेव बोधकमेवेत्यर्थः । सूत्रे वायुशब्दो देवलोकोपलक्षणार्थ इति भावः ।
ननु यदि संवत्सराद्देवलोकाद्वायुं वायोरादित्यमभिसंभवन्तीति क्रमः सूत्रोक्तः, कथं तर्हि भाष्ये वायोः संवत्सरात्परत्वमादित्यादर्वाक्त्वं चोक्तमत आह –
तथापीति ।
छान्दोग्यपाठमात्रापेक्षया हि संवत्सरादादित्यमित्येतावन्मात्रश्रवणान्मध्ये वायुनिवेशे वायोः संवत्सरात्परत्वमादित्यादर्वाक्त्वं च सिध्यति; संवत्सरादुपरि वाजसनेयकगतदेवलोकानयने तु देवलोकसहितवायोरब्दादित्यान्तरालवर्त्तित्वमित्यर्थः ।
उक्तेऽर्थे भाष्यं संवादयति –
तदिदमिति ।
प्रजापतिलोकमिति ।
प्रजापतिर्विराट् आपूर्यमाणपक्षाच्छुक्लपक्षात्सकाशान्मासानार्च्छति यान् षण्मासान् येषु षण्मासेष्वादित्य उदग् उत्तरां दिशमेति॥२॥
इति द्वितीयं वाय्वधिकरणम्॥
तडितोऽधि वरुणः संबन्धात्॥३॥ स वायुलोकं स वरुणलोकमित्यत्रोक्ता वरुणादयो न तावत्पाठक्रमाद्वायोरुपरि निविशेरन् ; तेनादित्यमिति श्रुतिविरोधादेव, न च वायोरिव स्थानविशेषसंबन्धग्राहकस्त्येषां श्रुत्यादिकमतो नामीषां मार्गे निवेश इति पूर्वपक्षमाशङ्क्य सिद्धान्तमाह –
तडिदन्त इति ।
अर्चिराद्येऽध्वनिमार्गे तडिद्विद्युदन्ते श्रूयते चन्द्रमसो विद्युतमिति । अप्पतिरपां पतिश्च वरुणस्तडितः परः , कुतस्तत्सम्बन्धादप्पतित्वमेव तत्सम्बन्धे हेतुः । तडित उपरि सजलजलदा दृश्यन्ते , जलाधिपतिश्च वरुण इति । तथा सतीन्द्रादिरप्पतेः पर इष्यते ।
कस्मादत आह –
आगन्तूनामिति ।
आगन्तूनां स्थानविशेषसंबन्धरहितानामन्ते निवेशः प्रथमकाण्डे हि प्रसाधितः । तथा चेन्द्रादिरप्यागन्तुकत्वादन्ते वरुणस्योपरि निविशेतेत्यर्थः ।
न केवलमागन्तुकत्वादन्ते निवेशोऽपि तु पाठाच्चेत्याह –
पठ्यते चेति ।
‘‘अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निर्वपेदि’’ति नक्षत्रेष्टिर्दार्शपौर्णमासिकी विकृतिराम्नाता । तत्रोपहोमाः श्रूयन्ते - ‘‘सोऽत्र जुहोति अग्नये स्वाहा कृत्तिकाभ्यः स्वाहे’’त्यादयः । सन्ति च प्रकृतेरतिदेशतः प्राप्ता नारिष्टहोमाः । तत्र किमुपहोमाः पूर्वमनुष्ठेयाः, उत नारिष्टा इति संशये प्रधानभूतनक्षत्रेष्ठ्यनन्तरं प्रत्यक्षपठिता उपहोमा अव्यवधानेन पूर्वमनुष्ठेयाः, आतिदेशिकास्त्वप्रत्यक्षत्वात् तद्व्यवधानेन पश्चात्कर्तव्या इति प्रापय्य पञ्चमे राद्धान्तितम् – अन्ते तु बादरायणस्तेषां प्रधानशब्दत्वा (जै.अ.५.पा.२.सू.१९)दिति । अन्ते वैकृतानां प्रयोगः । प्रकृतौ हि क्लृप्तोपकारमङ्गमुपकाराकाङ्क्षिणी विकृतिः प्रथमं गृह्णाति, ततः प्राकृतनारिष्टहोमानां प्रधानशब्दगृहीतात्प्राथम्यमितरेषां तु सन्निधिवशादाकाङ्क्षां परिकल्प्य पश्चात्प्रधानसंबन्धभाजामन्ते प्रयोग इति॥३॥
इति तृतीयं तडिदधिकरणम्॥
आतिवाहिकस्तल्लिङ्गात्॥४॥ अर्चिरादीनां क्रमं निरूप्य स्वरूपमिह चिन्त्यते । संबन्धात्तडित उपरि वरुण इत्युक्तमिहापि सादृश्यसंबन्धादर्चिरादीनां मार्गपर्वत्वमिति पूर्वपक्षमाह –
मार्गेति ।
न चैषां त्वावधिकानामिति ।
अवधिषु देशसीमासु स्थित्वा मार्गवाहका आवधिकाः ।
श्लोकगतभर्तृशब्दार्थमाह –
जीवात्मन इति ।
नन्वर्चिष इत्यादिपञ्चमीभिरर्चिरादीनां भोक्तृगमनहेतुत्वप्रतीतेश्चेतनत्वमिति, तत्राह –
अपि चेत्यादिना श्लोकेन ।हेतावित्यधिकारे ‘‘विभाषा गुणे ऽस्त्रिया’’मिति विहिता हेतुपञ्चमी नागुणाद्दृश्यते, किंतु गुणादेव, तत्रोदाहरणमाह –
जाड्यादिति ।
यद्यर्चिरादयो वोढारः प्रापकास्तर्हि विद्युदादयोऽपि प्रापकाः स्युस्तत्र विद्युत्स्थानादारभ्याऽमानवो वोढा न श्रूयतेऽन्यत एव वहनसिद्धेरित्याह –
अपि चेति ।
चेतनस्य स्वप्रयत्नहीनस्योर्ध्वदेशगमनं चेतनान्तराधीनमिति सिद्धान्तयति –
संपिण्डकरणानामिति ।
संकुचितकरणानामित्यर्थः ।
तत्र हेतुः –
सूक्ष्मदेहवतामिति ।
भूतसूक्ष्मात्मकसूक्ष्मदेहमात्रवतां स्थूलदेहरहितानामित्यर्थः ।
न चाग्न्याद्या इत्यादिश्लोकभागं व्याचष्टे –
तद्यदीति ।
कारस्करो वृक्षविशेषः । मेरुमभितो भूमिरिलावृतम् । सति श्रुतानां चैतन्यसंभव इति । धर्ममात्रकल्पनालाघवमुक्तम् ।
न्यायसिद्धेऽर्थे द्योतकं लिङ्गमाह –
इममेवेति ।
ननु वैशेषिकैरमूर्तवृत्तिवृत्त्यपरजात्याधारे गुणत्वं परिभाष्येते, न चार्चिरादयस्तथेति कथं तच्छब्देषु हेतुपञ्चमी? तत्राह –
न च वैशेषिकेति ।
गन्तॄन् प्रधानात् पत्यर्चिरादेः सहायत्वादस्ति गुणभूतत्वं लोकसिद्धमित्यर्थः॥४॥५॥
सामान्यवचन इत्यादिश्लोकं व्याचष्टे –
यथेत्यादिना ।
ननु यदि विद्युत्स्थानादारभ्यामानवो नेता, तर्हि वरुणादीनामनेतृत्वं वैषम्यं वाच्यम्, उभयनेतृत्वे वैयर्थ्यादत आह –
वरुणादयस्त्विति ।
अमानवः प्रधानो नेता, वरुणादयस्तु नयनेऽपि सहकारिण इत्येवं वैषम्यम्, न वोढृत्वे वैषम्यमित्यर्थः॥६॥
इति चतुर्थमातिवाहिकाधिकरणम्॥
कार्यं बादरिरस्य गत्युपपत्तेः॥७॥ गतिनिरूपणानन्तरं गन्तव्यमिह निरूप्यते । पूर्वपक्षयति –
मुख्यत्वादिति ।
ब्रह्मशब्दस्येति शेषः ।
ननु ब्रह्मशब्देन ब्रह्मा कमलासनोऽप्यभिधीयतेऽत आह –
नपुंसकमिति ।
गुणकल्पनयेति ।
कारणवाचिशब्दस्य कोऽर्थ उपचारकल्पनयेत्यर्थः ।
अमृतत्वप्राप्तेरित्येतद्व्याचष्टे –
अपि चेति ।
परप्रकरणादपीत्येतद्व्याकरोति –
किंचेति ।
शाखामृगो वानरः ।
न्यग्रोधेऽपि न प्राप्तप्राप्तिरवयवानामप्राप्तानां पुनः प्राप्तेरित्याशङ्क्याह –
न चैते इति ।
शाखामृगोऽवयवी न न्यग्रोधावयविना युज्येत, कुतस्तदवयवस्य शाखामृगावयवस्य न्यग्रोधावयवेन योगादित्यर्थः ।
ब्रह्मलोकमित्यत्र लोकशब्दविवरणम् –
स्वयंप्रकाशमिति ।
सिद्धान्तं संगृह्णाति –
कार्यमिति ।
अर्चिरादिगतिरुपासकान् कार्यब्रह्म प्रापयेत्तस्याप्राप्तपूर्वत्वेन गन्तुं योग्यत्वाद्, न तु परं ब्रह्म; तस्य जगदात्मकत्वेन प्राप्तत्वादित्यर्थः ।
ननु प्राप्तमपि परं ब्रह्मप्राप्यतां, न्यग्रोध इव शाखामृगेणेत्युक्तमित्याशङ्क्य विद्ययाऽविद्यादाहे भेदबाधादिह न तादृश्यपि गतिरित्याह –
तत्त्वमसीत्यादिना ।
प्राप्तप्राप्तिं दृष्टान्तेऽङ्गीकृत्य प्रकृते वैषम्यमुक्तमिदानीमनङ्गीकुर्वन्नाह –
न चेति ।
अप्राप्तस्य न्यग्रोधावयविन एवावयवान्तरोपहितस्य संबन्धितया उत्तरस्याः प्राप्तेरुपपत्तेरित्यर्थः ।
ननु तर्ह्यवयवपरंपरा परमाणुपर्यन्तं धावेदिति संयोगस्याप्रत्यक्षत्वमापादितम्, अत आह –
एतदपि चेति ।
काल्पनिकविभागमपेक्ष्य न्यग्रोधप्राप्त्यप्राप्ती । ते च वास्तवे ब्रह्मणि प्रतिबुद्धे न युक्ते इत्यर्थः ।
ननु ज्ञानोत्तरकालं देहधारणवदर्चिरादिगतिर्देशविशेषप्राप्तये किं न स्यादिति शङ्कते –
विदुषोऽपीति ।
अमृतत्वादिलिङ्गानां न्यायैः साकं विरोधिनाम् ।
दृढन्यायवतीर्वक्ति बाधिका विशदाः श्रुतीः॥
ब्रह्मैव सन्नित्यादीनां नोपायान्तरापेक्षेत्यभिसंधिः श्रुतेर्लक्ष्यत इति योजना ।
श्रुत्यनुग्राहकं न्यायमेव दर्शयति –
उपपन्नं चेति ।
लिङ्गाभासमणुः पन्था इत्याद्युद्धुष्य भास्करः । मोहयन्नपरान्मन्दाननेनैवानुकम्प्यते॥
यदुक्तं विदुषोऽपि सांसारिकधर्मानुवृत्तिवद् गत्युपपत्तिरिति, तत्राह –
न च छायामात्रेणेत्यादिना ।
यदा अश्वमेधादीनि कर्माण्यदृष्टार्थानि न फलन्ति, तदानीमदृष्टार्थानामर्चिरादिमार्गचिन्तनादीनां का कथेत्यर्थः ।
मा भूत् ज्ञानोत्तरकालमर्चिरादिमार्गचिन्तनमविदुषस्तु ब्रह्मप्राप्त्यर्थं तद्विधीयतामित्याशङ्क्याह –
न चार्चिरादीत्यादिना ।
अविदुष इति द्वितीयाबहुवचनम् ।
तमेव विदित्वेति ।
अनेनाहत्य ज्ञानातिरिक्तमार्गनिषेधादणुः पन्था इत्यादिषु ब्रह्मज्ञानमेव ब्रह्मप्राप्तिसाधनत्वात् पथ्यादिशब्दनिर्दिष्टमित्युक्तं भवति ।
यदुक्तं नपुंसकब्रह्मशब्दः परब्रह्मण्येव रूढ इति; तत्राह –
तस्मादिति ।
सामीप्यादिति ।
कार्यस्य कारणप्रत्यासत्तेरित्यर्थः ।
ननु ‘‘ब्रह्म वेद ब्रह्मैव भवती’’त्यादिश्रुतिसामर्थ्यैः कथं ‘‘स एतान् ब्रह्म गमयती’’ति ब्रह्मश्रुतिर्लक्षणया नीयेतेत्याशङ्क्य लोकादिश्रुतिवशादित्याह –
तथा च लोकेष्वितीति ।
ननु ब्रह्मलोकस्याप्येकत्वात् कथं बहुवचनोपपत्तिरत आह –
परस्य त्विति ।
अवयवद्वारेण सनिकृष्ट उपचारः स्यात्, परस्मिंस्तु विप्रकृष्टावयवानामपि कल्प्यत्वादित्यर्थः । अत्र भास्करः प्रललाप - यदि निर्गुणाया विद्याया गतिरनुपपन्ना, तर्हि सा सगुणास्वप्यनुपपन्नैव; सगुणस्यापि ब्रह्मणः तद्गुणानां च ज्ञानादीनाम् आकाशशब्दयोरिव व्यापित्वाद्, उपासकानामपीहैव तद्भावमापन्नानां तत्प्राप्तौ गत्यनपेक्षत्वात् । तत्र श्रुतिवशाद्यदि गतिः, तर्हि निर्गुणविद्याया किं न स्यात्? परप्रकरणेऽपि मुण्डकादौ ‘‘सूर्यद्वारेण ते विरजाः प्रयन्ती’’त्यादिभिर्गत्याम्नानात्, अङ्गीकृत्य च निर्गुणविद्यामिदमुक्तं, न तु निर्गुणं वस्त्वस्ति; यद्विद्या निर्गुणा स्यात्, ज्ञानादिभिर्गुणैर्ब्रह्मापि भिन्नाभिन्ना सगुणमेव –
इत्यादि, तत्राह –
अप्रमाणिकानां बहुप्रलापा इति ।
अयमभिसंधिः – सगुणब्रह्मणः सविशेषत्वाद् ब्रह्मलोके एवोपासकान् प्रति गुणाभिव्यक्तिर्नेहेति सम्भवति । दृश्यते च पृथिवीत्वाविशेषेऽपि मलयशैलादेश्चन्दनगन्धाद्यभिव्यञ्जकत्वं शब्दस्य चाकाशगुणस्य वंशाकाशादिदेश एवाभिव्यक्तिर्न सर्वत्र परस्य तु ब्रह्मणो न गुणाः सन्ति, येषां देशविशेषेऽभिव्यक्तिः । न निर्गुणं वस्त्वस्तीति च दुर्लभम्; सत्तादेर्निर्गुणत्वान्न निर्गुणं द्रव्यमस्ति । ब्रह्मापि द्रव्यत्वात्सगुणमिति चेत्किं द्रव्यत्वं गुणवत्त्वम् उपादानकारणत्वं वा । न प्रथमोऽसिद्धेः । द्वितीये उपादानत्वं किं परिणामित्वं विवर्ताधिष्ठानत्वं वा । नाग्रिमोऽसिद्धेरेव । न चरमः; सत्तादेरप्यन्यापोहत्वमात्रसंबन्धत्वाद्यारोपाधिष्ठानत्वेनानैकान्त्यात्, उपासकानां त्विहोपास्याविर्भावः प्रतिभासमात्रम् अन्त्यकाल इव भाविकर्मफलस्य । यदि तु साक्षादाविर्भावः स्यात्, तर्हि गतिवैयर्थ्यं स्यात् । तस्माद् ब्रह्मैश्वर्याविर्भावो ब्रह्मलोक एव ‘‘नान्यः पन्था’’ इत्यादि बहुश्रुतिभिश्च निर्गुणप्रकरणाद्गतेरुत्कर्ष इति दिक् ।
प्रत्यगित्यात्मेति च शब्दयोरपुनरुक्तमर्थमाह –
प्रति प्रतीति ।
प्रतिभावमधिष्ठानत्वेन गतस्य ब्रह्मणो गन्तॄणामात्मत्वादिति भाष्यार्थः ।
ननु लोकश्रुतिर्लोकनं प्रकाशः स एव लोक इति ब्रह्मणि यौगिकी, कथं जौणत्वमत आह –
यौगिक्यपीति ।
योगरूपो गुणः प्रकाशः ब्रह्मैकरसता तदपेक्षयेत्यर्थः ।
अविशुद्धा अपीति ।
गुणत्रयमया अपीत्यर्थः । भाष्ये विकल्पितौ विकारावयवपक्षावन्यानन्यत्वाश्रयौ भेदाभेदाश्रयावित्यर्थः ।
अन्यो वा ततः स्यादिति भाष्येण चात्यन्तमन्यत्वं विकल्पितमित्याह –
अन्यो वेति ।
विकारपक्षेऽप्येतत्तुल्यमिति भाष्यं व्याचष्टे –
मृदात्मतयेति ।
मृदात्मत्वे हेतुमाह –
तदभाव इति ।
ननु विकारिणोऽवयविनश्च स्थिरत्वेऽपि ताभ्यां भिन्नभिन्नौ विकारवयवौ, तत्र भिन्नत्वांशेनास्थिरत्वात्तयोर्गमनमित्याशङ्क्याह –
अन्यानन्यत्वे अपीति ।
अथान्य एव जीवो ब्रह्मण इत्येतदन्तमाशङ्काभाष्यं, सोऽणुरित्यादि तु विकल्पपरमिति ज्ञापनार्थमाह –
तथा चेति ।
भेदाभेदेऽप्येकत्वं न मुख्यमेव, किंतु भेदसत्त्वमात्रमतो भाष्यानुपपत्तिरित्याशङ्क्याह –
भेदाभेदयोरिति ।
बुद्धिव्यपदेशभेदादिति भेदप्रमाणोपन्यासः ।
प्रमिते च भेदे विरोधादभेदानुपपत्तौ विकारस्यावयवस्य वा जीवस्य तत्त्वमसीति ब्रह्मसामानाधिकरण्यं गौणं स्यादित्याह –
अयुतसिद्धतयेति ।
परिणामेति ।
विकारः परिणामः । क्षेतुं नाशयितुं ।
नित्यनैमित्तिकानां नित्येहिता दुरितनिवृत्तिः प्रत्यवायानुत्पत्तिर्वा फलं युज्यते, फलान्तरवत्त्वे काम्यत्वप्रसङ्गादित्यप्रेत्याह –
अभ्युच्चयमात्रमाहेति ।
क्रियाभोगशक्त्योः सत्योरपि तत्प्रतिबन्धात्कार्यानुदयः संभवति; तैलकलुषितशालिबीजादङ्कुरानुदयनियमवत्, अतो यथाश्रुतं भाष्यमनुपपन्नमित्याशङ्क्य व्याचष्टे –
कर्तृत्वभोक्तृत्वे इति ।
ताभ्यां शक्तिनिर्देशः समाक्षिप्तक्रियाभोगे इति कार्यकथनं, ततश्च कार्यशक्त्योरेकप्रहारेणैव दूषणमुच्यते सशक्तिके कर्तृत्वभोक्तृत्वे स्वभावावस्वभावौ वाऽऽत्मनः । न चरमः; तथा सति हि तयोरात्मनि समवायो वाच्यः ; स च द्वितीये दूषितः ।
न प्रथम इत्याह –
ततो न शक्याविति ।
अवरोपयितुम् उत्तारयितुं निवर्तयितुमित्यर्थः । स्वरूपाभावे आत्मन एव नाशप्रसङ्गादित्यर्थः ।
क्रियाभोगयोरात्मस्वरूपत्वे दूषणमुक्त्वाऽन्यत्वमभ्युपेत्यापि दोषमाह –
न च भोगोऽपीति ।
क्रियाया अप्युपलक्षणम् । क्रियाभोगयोः सत्त्वं स्वभावश्चेदसत्त्वं न स्यात्, कालभेदेन सदसत्त्वव्यवस्था चारम्भणाधिकरणे बभञ्जे । धर्मश्चेत्संबन्धो दुर्निरूपः ।
यथोक्तमेवेति ।
विकल्पमकृत्वेत्यर्थः । भविष्यति कदाचिदेषां समुदाचार आविर्भावो नित्यत्वादात्मनस्तद्गतशक्तेः कदाचिदुद्भवः संभवति, तैललिप्तस्य तु शालिबीजस्याल्पकालस्थायित्वाच्छक्तावनुद्भूतायामेव नाश इत्यङ्कुराद्यनुदय इत्यर्थः ।
निरस्तमपीति ।
प्राचीनेषु बहुष्वधिकरणेष्वित्यर्थः । एष ब्रह्मलोकः । हे सम्राडिति याज्ञवल्क्यस्य जनकं प्रति संबोधनम् । न तत्र च ब्रह्मैव लोक इति परं ब्रह्म विवक्षितम् । न च कार्ये इति सूत्रं सभादिनिर्देशात्कार्यविषया प्राप्तिरिति शङ्काया उत्तरम् । भाष्यगतोऽपिचनिर्देशः समुच्चयार्थः । एतच्छङ्कानिराकरणोपपत्तिसाहित्यं प्राचीनोपपत्तीनामाह - यशःप्रकाश आत्मा ब्राह्मणानामात्मा भवामीत्युपासकस्य स्वानुभवोक्तिः । ब्राह्मणानामित्युपलक्षणं सर्वेषामात्मा भवामीत्यर्थः । तस्य ब्रह्मणः प्रतिमा सदृशं वस्त्वन्तरं नास्ति यस्य यश इति महन्नामाभिधानम् । तत्तत्र ब्रह्मलोके परैरपराजिता पूः पुरमस्ति प्रभुणा हिरण्यगर्भेण विमितं निर्मितं वेश्म विद्यते । एतं ब्रह्मविदमन्तकाले न तपत्येव पुण्यं पापं च केन प्रकारेण, तमाह - अहमेतावन्तं कालं किं साधु नाकरवं किमिति च पापमकरवमित्येवंप्रकारेण न तपति न तापयतीत्यर्थः । शुङ्गं कार्यम् । अयनाय मोक्षगमनाय ॥७॥८॥९॥१०॥११॥१२॥१३॥१४॥
इति पञ्चमं कार्याधिकरणम्॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥१५॥ गन्तव्यविशेषनिरूपणानन्तरं गन्तृविशेषनिरूपणात्सङ्गतिः । ननु ब्रह्मक्रतूनां ब्रह्मोपासकानामेव ब्रह्मलोकगमनमुचितं, ‘‘तं यथा यथोपासत ‘‘ इति न्यायात्, तत्र कथं प्रतीकोपासकानां ब्रह्मलोकगमनमाशङ्क्येतेत्यत आह –
ब्रह्मक्रतव इति ।
‘‘स एनान्ब्रह्म गमयती’’ति प्रकृतपञ्चाग्निविदां परामर्शादब्रह्मक्रतवोऽपि यथा पञ्चाग्निविद्यया ब्रह्मलोकं यान्ति, तथा प्रतीकोपासका अपि, ‘‘ये चामी अरण्ये श्रद्धा तप इत्युपासते’’ इति सामान्यवचनाद् ब्रह्मलोकं प्रयास्यन्तीत्यर्थः ।
अब्रह्मोपासकत्वं चासिद्धमित्याह –
न चैते इति ।
ननु ‘‘यावन्नाम्नो गतं व्याप्तिस्तत्रास्य यथाकामचारो भवति वाग्वाव नाम्नो भूयसी यावद्वाचो गत ‘‘मित्यादिप्रतीकोपास्तीनामुत्तरोत्तरमुत्कर्षवत्फलं श्रूयते, तद् ब्रह्मलोके कथमत आह –
फलविशेषस्येति ।
प्रतीकोपासकानामानवो ब्रह्मलोकं न नयेत्कुतः? तत्राह –
उत्तरोत्तरभूयस्त्वादिति ।
प्रतीकोपास्तिफलस्येति शेषः ।
किमिवहीति ।
विशेषवचनं सामान्यवचनबाधनं किमिव हि न कुर्यात् किंतु सर्वत्र कुर्यादेवेत्यर्थः ।
इह तदभावादिति ।
विशेषवचनाभावात्, ये चामी इत्यस्य सामान्यविषयत्वादित्यर्थः ।
तदिदमुक्तम् –
असति विशेषवचन इति ।
किंतु नामादिविशेषणं ब्रह्मरूपतयेति ।
ब्रह्मशब्दस्येतिशब्दशिरस्कत्वेन ब्रह्मणोऽप्रधानत्वावगमादित्यर्थः ।
ननु भवत्वर्थान्तरविषयस्य विषयान्तरे प्रक्षेपः प्रतीकः, कथमेतावता नामादिषु ब्रह्मधीप्रक्षेपसिद्धिः? अत आह –
ब्रह्माश्रयश्चेति ।
अत्राप्युक्त एव हेतुः –
यस्मादिति ।
यदुक्तं ब्रह्मलोकस्य सावयवत्वात् फलविशेषोपपत्तिरिति, तत्राह –
न च ब्रह्मक्रतुरिति ।
ब्रह्मलोकावयविनस्तत्तद्द्ब्रह्मणश्च सर्वैरूपस्यात्वाद् न फलविशेषोपपत्तिरित्यर्थः ।
उभयथाऽदोषादिति सूत्रावयवं योजयति –
न ह्येवमिति ।
कांश्चित्प्रतीकालम्बनान्नयति, कांश्चित्तु विकारब्रह्मालम्बनान्नयतीति योऽयमुभयथाभाव उभयथात्वं तस्याभ्युपगमे सत्यनियमः सर्वासामित्यस्य न्यायस्य सामान्यवचनाश्रयस्य न हि कश्चिद्दोषः ; तस्य ब्रह्मक्रतुष्वप्युपपत्तेरिति योजना॥१५॥१६॥
इति षष्ठं अप्रतीकालम्बनाधिकरणम्॥
इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलानन्दविरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य तृतीयः पादः॥
आद्ये पादे निर्गुणविद्याफलैकदेशो बन्धनिवृत्तिर्निरूपिता, द्वितीये सगुणनिर्गुणफलप्राप्तिशेषत्वेन तद्विदोरुत्क्रान्त्यनुत्क्रान्ती चिन्तिते । तृतीये च सगुणफलसिध्द्युपयोगिनो गतिगन्तव्यगन्तृविशेषा विचारिताः, इह चतुर्थे पादे निर्गुणविद्याफलैकदेशान्तरं ब्रह्मभावाविर्भावः, सगुणविद्याफलं च सर्वेश्वरतुल्यभोगभाक्त्वमवधारयिष्यते॥ संपद्याविर्भावः स्वेनशब्दात्॥१॥
प्रागिति ।
अभिनिष्पद्यत इति शब्दात् प्रागसतः पदार्थस्य निष्पत्तौ कर्तृत्वं प्रतीयते, तत्सतो नोपपद्यते इति यतस्ततो हेतोर्मुक्तेः फलत्वेन प्रसिद्धेश्चात्मातिरिक्तरूपान्तरोद्भवो मोक्षे स्यादित्यर्थः ।
प्रागभूतस्येत्येतद्व्याचष्टे –
अभूतस्येति ।
अत्यन्तसतोऽनुत्पत्तौ गगनमुदाहरणम् । अत्यन्ताऽसतोऽनुत्पत्तौ गगनकुसुममुदाहरणम् । अतः प्रागसत एवोत्पत्तिरित्यर्थः ।
एवं लोके व्याप्तिमुक्त्वा प्रकृते योजयति –
स्वरूपावस्थानं चेदिति ।
तस्येति ।
स्वरूपावस्थानस्येत्यर्थः ।
ननु स्वरूपं माऽभिनिष्पादि, बन्धाभावस्तु निष्पत्स्यतेऽत आह –
न चास्येति ।
यद्युत्पद्येत बन्धाभावः, तर्हि स कार्यत्वात्कुम्भवन्न तुच्छः स्यादित्यर्थः । फलत्वप्रसिद्धेश्च मोक्षस्यागन्तुना केनचिदुत्पत्तावित्यन्वयः ।
अनयोर्हेतुहेतुमद्भावमुपपादयति –
अकार्यस्येति ।
ननु रूपान्तरनिष्पत्तौ कथं स्वेनेति शब्दोपपत्तिस्तामाह –
केनचिदिति ।
यद्रूपान्तरं निष्पद्यते, तस्यात्मीयत्वं सिद्धं तत्स्वीयवाचिना स्वशब्देनानूद्यत इत्यर्थः ।
स्वशब्दस्यानुवादकत्वं निषेधन्नात्मवचनत्वमाह –
संभवतीति ।
आत्मन्यभिनिष्पत्तिशब्दं घटयति –
बन्धस्येति ।
निवृत्तबन्धमात्मस्वरूपम् अभिनिष्पद्यत इति उच्यते ; बन्धनिवृत्तेर्जन्यत्वादित्यर्थः ।
यदुक्तं कार्यत्वे बन्धध्वंसस्यातुच्छत्वं स्यादिति, स इष्ट्प्रसङ्गः; ध्वंसस्यापि तुच्छत्वाऽनिष्टेरित्याह –
न चास्येति ।
निवृत्तबन्धादात्मस्वरूपात्प्राक्तनरूपस्य विशेषप्रदर्शकं भाष्यं, पूर्वत्रान्धो भवतीत्याद्यवस्थात्रयकलुषितेनात्मनेत्यन्तं, तद्व्याचष्टे –
स्वप्नावस्थादर्शितेत्यादिना ।
बद्धो भवतीति पाठान्तरे रोदितीवेत्यादिना बन्धनप्रदर्शनम् ।
ननु कथं विनाशमेवेत्युच्यते ? सुषुप्तौ स्वरूपचैतन्याविनाशादत आह –
एवकारश्चेति ।
अनवधारणे अवधारणव्यतिरिक्ते इवार्थे इत्यर्थः॥१॥२॥
आत्मेति सूत्रारम्भमाक्षिपति –
नन्विति ।
आरम्भमुपपादयन्पूर्वपक्षमाह –
भवेदिति ।
ननूपसंपद्येति क्त्वाप्रत्ययसामर्थ्यात् परित्यज्येत्येतदश्रुतमप्यध्याह्रियतां, तथा चात्मप्राप्तिसिद्धेर्व्यर्थः सूत्रारम्भोऽत आह –
तदध्याहारेऽपीति ।
यदि हि परित्याज्यं ज्योतिस्तर्हि तत्प्राप्त्यभिधानवैयर्थ्यामर्चिरादिमार्गस्यात्मविदि वारितत्वादित्यर्थः ।
श्लोकगतं वाक्यादिति हेतुं व्याचष्टे –
परं ज्योतिरिति हीति ।
आनर्थक्यप्रतिहताया ज्योतिःश्रुतेर्वाक्यमेव प्रबलमित्यर्थः । आनर्थक्यप्रतिहतिश्च ज्योतिर्दर्शना (ब्र.अ.१ पा.३ सू.४०) दित्यत्र वर्णिता । अत एव तस्यैव न्यायस्येदमनुस्मारणं । प्रकरणं च य आत्माऽपहतपाप्मेत्यादिभाष्य एवोक्तमित्यर्थः ।
ननु यदि ज्योतिरेव स्वेन रूपेणेति निर्दिश्यते, कथं तर्ह्युपसंपद्येति क्त्वाप्रयोग इत्याशङ्कते –
यदिति ।
परिहरति –
तदिति ।
एककालयोरपि मुखविदारणस्वापयोः क्त्वाप्रत्ययवदयमप्यविवक्षितपूर्वकालभावो न तद्बलात् ज्योतिःस्वरूपशब्दयोर्भिन्नार्थत्वम् । तथा च यत्परं ज्योतिरुपसंपद्यते तत्स्वेन रूपेणाभिनिष्पद्यत’’ इति वाक्यार्थ इत्यर्थः॥३॥
इति प्रथमं संपद्याविर्भावाधिकरणम्॥
अविभागेन दृष्टत्वात्॥४॥
स्वरूपावस्थितस्यापि जीवस्य ब्रह्मणोऽन्यता ।
आशङ्क्यतेऽत्र योगानामिव तेनास्ति संगतिः॥
पुनरुक्तिमाशङ्क्य परिहरन्पूर्वपक्षमाह –
यद्यपीति ।
तत्त्वमस्यादिवाक्यात्साधनभूतज्ञानपरात् स मुक्तः , तत्र ब्रह्मणि पर्येति परिगच्छतीत्यादिभिराधाराधेयभावव्यपदेशस्य परं ज्योतिरुपसंपद्येति च संपत्तुः संपत्तव्यभेदस्य च साध्यप्रधानभूतफलविषयतया प्राबल्यान्मुक्तौ परं ज्योतिर्ब्रह्म प्राप्यापि तस्माद्भेदेन स्वेन रूपेण मुक्तोऽवतिष्ठत इत्यर्थः । तत्राभिनिष्पन्नस्वरूपस्य स उत्तमः पुरुष इति तच्छब्दोत्तमपुरुषश्रुतिभ्यां परमात्मभावः फलं तत्त्वमस्यादिवाक्यानुगुणमवगम्यते ।
‘‘स तत्र पर्येती’’त्यादिफलस्य तु निर्गुणप्रकरणगतस्यापि ‘‘मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके’’ इति ब्रह्मलोकसंबन्धादिलिङ्गात्सगुणविद्यासूत्कर्ष इति सिद्धान्तयति सूत्रकार इत्याह –
समाधानार्थमिति॥४॥
इति द्वितीयमविभागेन दृष्टत्वाधिकरणम्॥
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः॥५॥ ब्रह्मात्मतां प्राप्तस्यापि जीवस्य सप्रपञ्चत्वशङ्कनात्सङ्गतिः । सौत्रहेतुं व्याचष्टे –
उद्देश इत्यादिना ।
ज्ञातस्येति ।
ब्रह्मैश्वर्यस्येत्यर्थः । य आत्मेति हि वाक्ये यच्छब्दोपबन्धादन्यतो नेतिनेत्यादिवाक्यै सृष्टिवाक्यैश्च प्रतीतस्य पाप्माद्यभावस्य सत्यसङ्कल्पत्वादेश्चोद्देशः प्रतीयते, स उपन्यास इत्यर्थः । उद्देशापेक्षितश्च विधिरिह सोऽन्वेष्टव्य इत्यादिरिति बोद्धव्यम् ।
आदिशब्दार्थमाह –
अज्ञातज्ञापनमिति ।
विधिमेव दर्शयति –
यथेति ।
यच्छब्दोपबन्धाभावात् फलत्वेन च प्रतिपाद्यत्वादित्यर्थः ।
विधेयान्तराभावादिति ।
यद्यपि यः सर्वज्ञ इत्युपक्रम्य तस्मादेतन्नामरूपादि जायत इत्यस्ति विधेयान्तरं, यद्यपि चैष सर्वेश्वर इति प्रस्तुत्येषां लोकानामसंभेदायेति विधीयते; तथापि जीवोपयोगि किंचिदुपासनं फलं वा न विधेयान्तरमस्तीत्यर्थः ।
कथं तर्ह्येवंविधाद्व्यपदेशात् जीवः सर्वेश्वरत्वादिरूपो मुक्ताविति गम्येतात आह –
तन्निर्वचनसामर्थ्यादिति ।
तेषां सर्वेश्वरत्वादीनां निर्वचनं निष्कृष्य तात्पर्यतः प्रथनं, तस्मादनन्तरवक्ष्यमाणश्लोकप्रतिपाद्योऽयमर्थः प्रतीयते, इतरथा पराग्भूतेश्वरकथनस्य प्रयोजनाभावादित्यर्थः । एवं सौत्रं हेतुं व्याख्याय सौत्री प्रतिज्ञां व्याचष्टे - भावात्मकैरित्यारभ्य जैमिनिरित्यन्तेन श्लोकेन । यो मुक्तः स भाविकैः परमार्थभूतैर्धर्मैः स्वैः स्वस्येश्वराऽभेदात्स्वकीयैः सह परमेश्वरः संपद्यत इत्यर्थः ।
अभावात्मान इति ।
अवस्तुत्वादभावात्मकानामद्वैताव्याघातकत्वम्॥५॥
अनेकाकारतेति ।
एकस्यात्मनोऽनेकाकारता सर्वेश्वरत्वाद्यनेकाकारात्मकता न भवति , अत्र हेतुः –
एकत्वादिति ।
विपक्षे दण्डमाह –
नैकतेति ।
एकस्यानेकाकारत्वं वदन्प्रष्टव्यः किमेकस्यानेकाकारतावन्मात्रत्वम्, उतानेकाकाराणामेकवस्तुतावन्मात्रत्वम् । आद्ये एकस्यैकता न भवेत्, एवमनेकेषामेकतावन्मात्रत्वेऽनेकतापि न भवेदिति द्रष्टव्यम् ।
अथात्मन आकारैराकाराणां चात्मना सह भेदाभेदौ, तत्राह –
परस्परेति ।
भेदे वेति ।
धर्म्याभिन्नानामपि इतरेतरभेदे तैरभिन्नधर्मिणोऽपि भेदप्रसङ्गादित्युक्तम् - आत्मरूपं वा भिद्येतेति ग्रन्थेनेत्यर्थः । यद्येकत्र भेदाभेदौ विरोधान्न भवतः, तर्हि मा भूतां भेद एवास्तु धर्माणाम् ।
न चाद्वैतव्याघातः; अभावरूपधर्माणामवस्तुत्वेन सदद्वैताविघातकत्वमित्युक्तत्वादत आह –
अभावरूपाणामिति ।
एतेनेति भेदाभेदनिषेधाद् भेदे च भावरूपत्वे सत्यकामत्वादीनां भवत्येवाद्वैतविघातकत्वम् । तस्मात्सत्यकामत्वादयोऽप्यौपाधिका विकल्परूपा इत्यर्थः॥६॥ अतिशौण्डीर्यमतिप्रागल्भ्यं दुर्वैदग्ध्यं धर्माणां तुच्छत्वाभ्युपगमप्रयुक्तं न मृष्यते न सहते ।
किमौडुलोमीयं मतं कलयाऽपि न स्वीचकार बादरायणः, नेत्याह –
मृष्यन्नभिहितं मतमिति ।
धर्माणामवस्तुत्वमित्यौडुलोमिनाऽभिहितं मतं मृष्यन् सहमान एवेति । मृष्यन्नपि हि तन्मतमिति पाठे तस्यौडुलोमेर्मतमित्यर्थः॥७॥
इति तृतीयं ब्रह्माधिकरणम्॥
संकल्पादेव च तच्छुतेः॥८॥ इत उपरि सगुणविद्याफलप्रपञ्चः । पूर्वत्र सप्रपञ्चनिष्प्रपञ्चत्वयोर्व्यावहारिकतात्त्विकत्वाभ्यां व्यवस्थोक्ता, इह तु संकल्पातिरिक्तसाधनभावाभावयोरेकोपाधावापाततो विरोधाल्लोकसिद्धपदपदार्थापेक्षायाः श्रुतेर्लौकिकादनुमानाद्बाध इति पूर्वपक्षयति –
यत्न इति ।
विमताः प्रयत्नादिसापेक्षसंकल्पजन्याः, भोगसाधनत्वात्संमतवदित्यर्थः । वस्तुशब्देन भोगसाधनत्वं विवक्षितम् ।
ननु मुक्तसंकल्पस्य लौकिकसंकल्पवत्सापेक्षत्वानुमानं संकल्पादेवेत्यवधारणबाधितमत आह –
सोऽत्रेति ।
अत्र सगुणविदि पित्रादिविषयप्रयत्नस्य लाघवाद् लघौ तस्मिन् असत्त्वमिवकृत्व संकल्पोऽवधारितः, न तु प्रयत्नाभाव इत्यर्थः । समीहते चेष्टते ।
उक्तानुमानस्य मनसि संकल्पमात्राभिव्यक्तकामिन्यां व्यभिचारमाशङ्क्याह –
स्यादेतदित्यादिना ।
सत्ताप्रयुक्तभोगसाधनत्वादिति हेतुर्विशेषणीय इत्यर्थः ।
दन्तक्षतमणिमालादीनीति ।
मणिमाला कण्ठे कृतः क्षतविशेषः ।
ननु श्रुत्यनुमानयोर्विरोधे किमिति श्रुत्यैवानुमानस्य बाधनं, न पुनर्विपरीतमत आह –
प्रमाणान्तरेणेत्यादिना ।
पदपदार्थावगममात्रे श्रुतेरपेक्षा, न वाक्यार्थबोधने इत्यर्थः ।
विद्यासृष्टत्वमुपाधिमप्यनुमानस्य दर्शयति –
तस्मादिति ।
अगस्त्यो हि समुद्रं संकल्पमात्रेण पपौ, कस्यचिदृषेः शापात्प्राणिनिवासनमपि दण्डकारण्यं निवासयामास, यस्त्वन्यो योगप्रभावदृते समुद्रमगस्त्यवत् पिबति, स दण्डकारण्यमपि सृजति वासयति न तूभयं शक्ष्यति कर्तुमेष इत्यर्थः । तदयं प्रयोगः । विमतः प्रयत्नाद्यनपेक्षसंकल्पजन्यः, योगसामर्थ्यसृष्टत्वाद् अगस्त्यकृतसमुद्रपानवदिति॥८॥९॥
इति चतुर्थं संकल्पाधिकरणम्॥
अभावं बादरिराह ह्येवम्॥१०॥ पूर्वत्र संकल्पादेवेत्यवधारणात्साधनान्तरानपेक्षं पित्रादिसमुत्थानमित्युक्तम्, एवमिहापि मनसेति विशेषणस्यान्ययोगव्यवच्छेदकत्वेनावधारणार्थत्वाद्विदुषो देहाद्यभाव इति पूर्वपक्षयति –
अन्ययोगेति ।
ननु ‘‘स एकधा भवति त्रिधा भवती’’त्याद्यनेकधाभावाम्नानाच्छरीरादिकं किं न स्यादत आह –
अनेकधाभावश्चेति ।
ऋद्धिप्रभावभुवः योगप्रभावजातात् मनोभेदादनेकधाभावोपपत्तेर्नानेकशरीरप्राप्तिरित्यर्थः॥१०॥
ननु मनोभेदाभ्युपगमे मनसेत्येकवचनबाधः स्यात्, तथा च लब्धप्रसरे बाधे मनःशब्दोऽप्युपलक्षणार्थत्वेन नीयतामत आह –
स्तुतिमात्रं वा कथंचिदिति ।
अत्र हेतुमाह –
भूमविद्यायामिति ।
निर्गुणायां भूमविद्यायाम् अयमनेकधाभावः पठ्यते, न तु सगुणविद्यायाम्, तत्र च न संभवतीत्यर्थः ।
असता तर्हि तेन कथं भूमविद्या स्तूयेत? तत्राह –
असतापीति ।
वपोत्खननादिनाऽपि स्तुतिदर्शनादित्यर्थः॥११॥
मनोभेदमात्रादनेकधाभावं निषेधति –
शरीरेन्द्रियेति ।
परैः संवादेन भोगार्थो ह्यनेकधाभावः, न च मनः परैर्दृश्यत इति न पुष्कलभोग इत्यर्थः । यदुक्तमविद्यमानेनानेकधाभावेन भूमविद्यास्तुतिरिति, तत्राह – न चेति ।भूमविद्योपक्रमे ‘‘प्राणो वा आशाया भूया’’निति सूत्रात्मविद्या विद्यते, तत्फलमनेकधाभावो भूमविद्यायामपि प्रशंसार्थमुच्यत इत्यर्थः । संभवेऽनर्थकं स्तुतिमात्रं न युक्तमित्यर्थः । चैत्रो धनुर्धर इत्युक्ते खड्गाद्यन्ययोगो न वार्यते, एवमत्रापि ।
यस्य हि प्राप्तिः पाक्षिकी विशेष्ये तद्विशेषणासंबन्धव्यवच्छेदकः स्वस्य विशेष्यान्वयमात्रं गमयेद्यथा धनुर्धरत्वं, न हि चैत्रो धनुर्दधान एव वर्तते, प्रकृते तु ‘‘मनसैतान् कामान् पश्यन् रमत’’ इत्यत्र कामभोगेषु नित्यप्राप्तत्वान्मनसस्तदनुवादेन परिसंख्याविधिष्विवान्ययोगनिवृत्त्यर्थमाह –
न चायोगेति ।
दृष्टान्तं विभजते - द्वादशाहस्येति श्लोकेन । आसनोपयिभ्यां चोदने सति द्वादशाहस्य सत्रत्वं गम्यते, आसनोपयिचोदनयोरन्यतरत्वं सत्रलक्षणम्; तस्यैव द्वादशाहस्य यजेतेति चोदने सति अहीनत्वं च गम्यत इत्यर्थः । उपायिचोदनेति सप्तदशावराश्चतुर्विंशतिपरमाः सत्रमासीरन्निति द्वादशाहप्रकरणपठितमासिचोदनं च द्रष्टव्यम् । बहुकर्तृकस्येति सत्रलक्षणान्तराभिधानम्, नियतकर्तृपरिमाणत्वेनेत्येककर्तृकत्वमहीनलक्षणमुक्तम् । इदं चाहीनलक्षणद्वयम् अहर्गणत्वे सतीति विशेषणीयम् । इतरथा एकाहे ज्योतिष्टोमादावेककर्तृके यजतिचोदनाचोदिते चातिव्याप्तिः स्यादिति ।
सशरीरत्वमशरीरत्वच्चेत्युभयविधत्वं विरुद्धमित्याशङ्क्य कालभेदेन व्यवस्थापनार्थं सूत्रद्वयं भाव इत्यादि, तद्व्याचष्टे –
संप्रतीति ।
इदानीं शरीराभावकाल इत्यर्थः ।
का सा उपपत्तिः; तां श्रुतिमाह –
मनसैतानितीति ।
शरीरादौ सति यादृशो भोगस्तादृशश्चेन्मनोमात्रेऽस्य स्यात्, तर्हि शरीराद्युपादानवैयर्थ्यम् ।
एवं चेत्तर्हि शरीरे सति कीदृशो भोगस्तत्राह –
सशरीरस्य त्विति ।
पुष्कलो जागरवत् स्थूल इत्यर्थः ।
इहापीति ।
देहाद्युपादानार्थवत्त्वमुपपत्तिः॥१२॥१३॥१४॥१५॥
इति पञ्चममभावाधिकरणम्॥
प्रदीपवदावेशस्तथा हि दर्शयति॥१५॥
सर्गः सङ्कल्पमात्रेण तनूनां निष्प्रयोजनः ।
पुंसां निरात्मिकास्वासु भोगस्यानवकल्पनात्॥
इत्याक्षेपिका सङ्गतिः । ननु ब्रह्माभिन्नस्य जीवस्य सर्वशरीरेषु सन्निधानात् कथं साङ्कल्पिकशरीराणां निरात्मकत्वेन पूर्वपक्षोदयस्तत्राह –
वस्तुत इति ।
ननु यथा स्वभावतो योगप्रभावान्नानादेशवर्तीनि शरीराणि योगी सृजति, तथाऽन्यान्यधितिष्ठतु, तत्राह –
स्वभावनिर्मितान्यपीति ।
परिच्छिन्नान्तःकरणोपहितजीवादृष्टसामर्थ्याद्देहानामुत्पत्तिर्भवति, परिच्छिन्नस्य तु देशान्तरे व्यञ्जकान्तःकरणाभावादभिव्यक्त्यनुपपत्तेरधिष्ठातृत्वमयुक्तमित्यर्थः ।
ननु शरीरान्तरेष्वसन्निहितोऽपि जीवस्तत्र तत्रात्मान्तरं सृजतु, शरीरवदत आह –
न वा आत्मान्तरमपीति ।
स्रष्टुर्महतीत्यनुषङ्गः ।
सृज्यमानमात्मान्तरं स्रष्टुरन्यत्, तत्स्वरूपं वा, नाद्य इत्याह –
सृज्यमानस्येति ।
नापि द्वितीय इत्याह –
आत्मत्वे वेति ।
कर्तृकर्मभावाभावात् स्रष्टृस्रष्टव्यत्वाभावादित्यर्थः । अस्य कर्मकर्तृभावस्य । भेदाश्रयत्वात् भेदस्याश्रय एवाश्रयो यस्येति भेदाश्रयः, तत्त्वादिति लुप्तमध्यमपदोऽयं बहुव्रीहिः ।
नन्वात्मसृष्टावुक्तदोषपरिहारायान्तःकरणानि स्रष्टव्यानि तेषु चायमेव जीवोऽभिव्यक्तः सन्नधिष्ठाता भवतु, तत्राह –
न चान्तःकरणान्तरमिति ।
औत्पत्तिकेन अनादिसंबन्धवतेत्यर्थः । अवरुद्धोऽवच्छेदितः ।
ननु व्यवहितदेशान्यपि दारुयन्त्राणि यथा मायाव्यधितिष्ठति, एवं जीवोऽपि देहान्तराणि, इत्याशङ्क्य तथा सति तेषु भोगासिद्धेर्भावे जाग्रद्वदित्युक्तिविरोध इत्यभिप्रेत्याह –
तस्माद्यथेति ।
दारुयन्त्रसमत्वं योगिसृष्टशरीरेषु व्यावर्तयति –
शरीरत्वमिति ।
यदवच्छिन्न आत्मनि भोगः, तदिन्द्रियग्राह्यमन्त्यावयवि भोगायतनमेवंविधस्य भोगाधिष्ठानतां विना शरीरत्वं न स्यात् । तथाविधे एव शरीरत्वप्रसिद्धेरित्यर्थः ।
तर्हि शरीरत्वमेव योगिनिर्मितेषु कुतस्तत्राह –
स त्रिधेति ।
‘‘स एकधा भवति त्रिधा भवती’’त्यादिकमात्मनो बहुभवनं शरीरभेदोपाधिकम् ; अन्यादृशस्य तस्यासंभवादित्यर्थः ।
नन्वेकान्तःकरणमात्रावच्छिन्नस्यात्मनो नानादेशवत्सु देहेषु अधिष्ठातृत्वानुपपत्तिरुक्ता, तत्राह –
युक्तं चेति ।
सगुणचिदात्मनः विद्यासामर्थ्याद्व्याप्तिरपि संभवतीत्यर्थः ।
‘‘स त्रिधे’’ति शरीरत्वमित्येतद्व्याचष्टे –
स त्रिधा भवतीति ।
अदेहरूपे भूतभेदे श्रुतिर्नावकल्पत इत्यन्वयः ।
शरीरत्वं न जात्वित्येतद्व्याचष्टे –
भोगाधिष्ठानत्वं चेति ।
शरीरत्वेन यत्प्रमितं भोगाधिष्ठानत्वं तदभोगाधिष्ठानत्वाभ्युपगमे यन्त्रेष्विव न युज्यत इत्यर्थः ।
ननु शरीरत्वान्न भोगाधिष्ठानत्वं सिध्यति अधिष्ठितत्वमात्रेण शरीरत्वोपपत्तेरित्यत आह –
न वा चेतनाधिष्ठितानीति ।
अनेनात्मनाऽधिष्ठितानि अधिष्ठितमात्राणि न देहपक्षे वर्तन्ते दारुयन्त्रेष्वदर्शनादित्यर्थः । अनधिष्ठितानीति पाठः सुगमः ।
युक्तं च तद्विभाविति श्लोकभागं व्याकरोति –
न च सर्वगतस्येति ।
नैजादन्तःकरणाद् बहिरपि योगप्रभावाद्व्याप्तिसंभवादन्तःकरणान्तरेषु सृष्टेष्वस्यात्मनोऽभिव्यक्तिः सम्भवेत्तद्वशाच्च शरीरान्तरेष्वपि भोगसंभव इत्यर्थः । एकपदे एकपदनिक्षेपकाले । युगपदित्यर्थः ।
एकस्मात्प्रदीपादुत्पन्नानामपि प्रदीपानां प्रतिपत्तिभेदात् विदुषश्च सर्वशरीरेष्वैक्यान्निदर्शनानुपपत्तिमाशङ्क्याह –
प्रदीपवदिति त्विति ।
यस्माद्दीपात्प्रवर्तिता इतराः प्रदीपव्यक्तयः, तस्यैक्यं सादृश्यादुपचर्यते, न वर्तिवर्तिनीनां प्रदीपव्यक्तीनामैक्यम् इत्यनुषङ्गः ।
तत्र हेतुः –
भेदादिति ।
भेदप्रतीतेरित्यर्थः ।
एकमनोऽनुवर्तित्वं शरीरान्तराणामयुक्तम् ; स्वकीयमनोऽनुवर्तित्वादतो व्याचष्टे –
एकाभिप्रायेति॥१५॥
यो मुक्तः स ब्रह्म संपन्न इत्याद्युच्यते, तस्य न शरीरित्वसंभवः; श्रुतिविरोधादित्येवंप्रकारेणाक्तमर्थमाक्षिपतीत्यर्थः ।
सलिलशब्दस्य नपुंसकत्वात्पुल्लिङ्गत्वानुपपत्तिमाशङ्क्य व्याचष्टे –
सलिलमिवेत्यादिना ।
उपमानवाचिनः शब्दात् आचारार्थे गम्यमाने सर्वप्रातिपदिकेभ्य इत्येके इति वक्तव्येन क्विपि कृते नन्दिग्रहिपचादिभ्यो ल्युणिन्यच इति सूत्रेणाच्प्रत्यये च कृते सलिल इति रूपम् । सलिलमिवाचरति तत्तुल्यो वर्तत इत्यर्थः । सगुणविद्याफलावस्थायां मुक्तित्वाभिधानं मुक्त्यवस्थाप्रत्यासत्तिकृतमित्यर्थः॥१६॥
इति षष्ठं प्रदीपाधिकरणम्॥
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च॥१७॥
मनःशरीरसर्गादावैश्वर्यं यदुपासितुः ।
जगत्सर्गे तदुत्सृष्टमिह मानादपोद्यते॥
इति संगतिमभिसंदधानः पूर्वपक्षमाह –
स्वाराज्येति ।
नन्वीश्वरदत्तसिद्धेरुपासकस्य कथं स्वकार्ये निरङ्कुशत्वमाशङ्क्यतेऽत आह –
ईश्वराधीनेति ।
सिद्ध्युत्पत्तिरस्येश्वराधीना सिद्धिकार्ये त्वनपेक्षेत्यर्थः । अत्र जगज्जन्मादावित्यर्थः । अस्मै उपासकाय । बलिं पूजाम् ।
स्वभाव इति ।
स्वकार्यजनकत्वं स्वभावः । मृत्पिण्डेत्यादि भाट्टं वार्तिकम् ।
ननूदकाहरणादि घटादेः कारणानपेक्षं भवतु , ऐश्वर्यं तूपजीव्यादुपजीवकस्य न्यूनमिति विशेषव्याप्तिमाशङ्क्य व्यभिचारयति –
न च विदुषामित्यादिना ।
ननु विद्या उपजीव्यसमा उपजीवकस्य भवतु, न तु नियन्तृकर्तृत्वाद्यैश्वर्यमित्याशङ्क्याह –
दुष्टसामन्ताश्चेति ।
समप्राधान्यं हि विशेषानिर्णये भवति, अस्ति त्वत्रेश्वरस्य साधकेभ्यो विशेषनिर्णयहेतुरित्याह –
नित्यत्वादिति ।
विदुषां स्वकार्ये परमेश्वराधीनता, कुतः? परमेश्वरस्य जगत्कर्तृत्वाद्यैश्वरस्य नित्यत्वात्, अत एवानपेक्षत्वात्तत्सापेक्षाणा तु जीवानां जगत्स्रष्टृत्वादेरीश्वरप्राप्त्यन्यथानुपपत्त्या कल्प्यत्वात् कल्प्याच्च क्लृप्तस्य बलीयस्त्वादित्यर्थः । ईश्वरस्यैव चा’’त्मन आकाशः सभूत’’ इत्यादौ जगत्स्रष्टृत्वश्रुतेः’’स्तत्तेजोऽसृजते’’त्यादौ च जगत्सर्गे ‘‘सदेव सोम्येदमग्र’’ इत्यादिना तस्यैव प्रक्रमादीश्वराधीनत्वाभ्युपगमे एवैकमत्यलाभाच्चेत्यर्थः ।
नित्यत्वादेत्येतद्व्याचष्टे –
जगत्सर्गलक्षणं हीति ।
अनपेक्षत्वादित्येतद्व्याकरोति –
तस्यैवेति ।
श्रुतेरित्येतद्विभजते –
न च जगत्स्रष्टृत्वमिति ।
तत्प्रक्रमादित्यस्य विवरणं –
तमेव प्रकृत्येति ।
ऐकमत्याच्चेत्यस्य व्याख्या - अपि चेत्यादि । सिसृक्षासंजिहीर्षयोः सत्योरपि यदि सृष्टिसमये सहारो न स्यात्, तर्हि न वा सृष्टिसंहारौ द्वावपि स्याताम् ; उभयोः स्रष्टृसंहर्त्रोरीश्वरत्वाविघातादित्यर्थः ।
स्वपक्षे जगत्र्सर्गोपपत्तिमाह –
एकस्य त्वित्यादिना ।
गृह्यमाणविशेषतयाऽसमत्वादिति ।
असमत्वादिति छेदः॥१८॥
उक्तान्न्यायादिति ।
नित्यत्वादित्यादेरित्यर्थः ॥१८॥ एतावान् सहस्रशीर्षेत्यादिरस्य महिमा विभूतिर्न तु स्वरूपमित्यर्थः॥१९॥
विकारावर्तीति दर्शयतश्चेति सूत्रद्वयस्याभिप्रायमाह –
एतदुक्तमिति ।
सगुणे ब्रह्मणि स्थितानामपि गुणानां सत्यकामत्वादीनां निरवग्रहत्वं सर्वगोचरत्वमुपासकैर्न प्राप्यत इत्यर्थे दृष्टान्त उक्तः ।
यथा सगुणे ब्रह्मणि स्थितमपि विकारावर्तित्वाद् न प्राप्यत इति, तत् प्रपञ्चयति –
तत्त्वोपासनास्विति ।
पुरुषशब्देन पूर्णं निर्गुणं तत्त्वमुच्यते, तत्त्वोपासनासु हि तत्त्वमसीत्यादिषूपासकस्य पुरुषक्रतुत्वं निर्गुणचिन्तकत्वमित्यर्थः ।
ननु सगुणोपास्तिषु तर्हि किमित्युपासकस्य गुणगतं निरङ्कुशत्वमुपास्यं न भवति ? तत्राह –
उपासकस्य तदक्रतुत्वं चेति ।
न हि निरवग्रहसत्यकामत्वादिगुणकमीश्वरमुपासीतेति श्रुतिरस्ति, सा हि सत्यकामत्वादिगुणमुपासीतेत्यवंरूपेत्यर्थः । यदि तु विध्यभिप्रायमुपेक्ष्याप्युपासीत, तत्राह - स्वातन्त्र्येति॥२०॥२१॥ द्विधा कार्यकारणरूपा । तं ब्रह्मलोकगतमुपासकम् हिरण्यगर्भ आह आपो वै खल्वमृतमय्यो मया मीयन्ते दृश्यन्ते मुज्यन्त इत्यर्थः । तवाप्यसौ स्मृतरूपोदकलक्षणो लोको भोग्य इत्यर्थः ॥२२॥
इति सप्तमं जगद्व्यापाराधिकरणम्॥
श्रोतॄणामुत्साहजननाय परमपुरुषार्थप्राप्त्युपायतां गलितकलङ्कतां च स्वकृतेरादर्शयन् सकलशास्त्रार्थं संकलयति –
भङ्क्त्वेति ।
येन ग्रन्थसंदर्भेण वाद्यसुरेन्द्रसमूहं युक्तिनिशितखड्गधाराभिर्भङ्क्त्वा नयनथा श्रुतिलिङ्गादिन्यायरूपमन्था तेन, विलोलितादाम्नायदुग्धपयोनिधेरुद्गतमखिलाविद्योपधानातिगं ब्रह्मामृतं श्रोतृभिः प्राप्यते । सोऽयं परिभाव्यतामित्यन्वयः ।
अपि च व्याख्यानग्रन्थकर्तुः, व्याख्येयग्रन्थकारस्य च गौरवादपि तात्पर्येण प्रवर्तितव्यमित्याह –
सोऽयमिति ।
शाङ्करं भाष्यं व्याख्येयं जातो विषयो यस्य सोऽयं वाचस्पतेर्मम ग्रन्थसन्दर्भो हे सुमतयो युष्माभिः श्रवणव्याख्यानादिभिः सादरं परिभाव्यताम् । मा चैवं मन्यध्वं एतावप्यस्मदादितुल्यौ विद्वांसौ किमेतत्कृतिभ्यां करिष्याम इति । यतः स्वार्थेषु को मत्सरः विशुद्धसंप्रदायविमलधियौ न तादृश्यौ युष्माकं यादृश्यावावयोरित्यर्थः । अत्र च भङ्क्त्वेत्यादिरविरोधाध्यायस्य संक्षेपः, आम्नायपयोनिधेर्नयमथेति समन्वयाध्यायस्य, अविद्योपधानातिगमित्यविद्यावृत्तिवर्णनेन तद्धेतुविद्यास्तवनात् तृतीयाध्यायस्य, अविद्यानिवृत्त्या चतुर्थस्य ब्रह्मामृतमिति चतुर्थाध्यायस्यैवार्थसंक्षेप इति॥ ॥१॥
न केवलं ग्रन्थव्याख्यामात्रमत्र कृतम्, अपि तु तत्र तत्र बौद्दादिविरुद्धराद्धान्तभङ्गं स्वातन्त्र्येण नयमरीचिभिः कुर्वता जगतामबोधोऽपनिन्ये, ब्रह्मबोधश्च स्थिरीचक्रे इत्याह –
अज्ञानेति ।
नीतिरेव नौस्तस्याः कर्णधारो नेता । अपूरि पूरितः॥२॥
यावन्तस्ते कृता ग्रन्थास्तन्निर्माणजं पुण्यं फलमीश्वरे समर्पयन् स्वस्य साक्षात्कृतब्रह्मतया फलेऽप्यसङ्गं गमयति –
यन्न्यायेति ।
न्यायकणिका विधिविवेकटीका । तत्त्वसमीक्षा ब्रह्मसिद्धिव्याख्या । तत्त्वबिन्दुर्भाट्टमताश्रयं स्वकृतं प्रकरणम् । न्यायस्य निबन्धो न्यायवार्तिकतात्पर्यटीका । तत्त्वकौमुदी सांख्यनिबन्धः । योगनिबन्धनं पातञ्जलभाष्यटीका तत्त्वशारदी । वेदान्तानां सर्वोपनिषदां निबन्धनमियमेव भामती । एतैर्निबन्धनैः यन्महापुण्यमहं समचैषं संचितवानस्मि तस्य फलं पुष्पकं यत् तत् परमेश्वरे मया समर्पितम् । अथ समर्पणसमनन्तरमनेनोपहारेण परमेश्वरः प्रीयतामित्यर्थः ॥३॥४॥
कार्तस्वरं सुवर्णं तस्यासारोऽनवरतवर्षणं तेन सुपूरितोऽर्थः काङ्क्षिता यस्य सार्थस्य जनसमूहस्य स तथेत्येको बहुव्रीहिः । तथाविधः सार्थो यस्य प्रकृतत्वेन वर्तते स नृगस्तथेत्यपरः । नृगः इति राज्ञ आख्या॥५॥६॥ स्वज्योतिःसुखसदभेदमात्मभूतं यन्मायाविरचितविश्वदृश्यनीडम् ।
तद् ब्रह्म प्रणतभवान्धकारभानुं वन्देऽहं हरिहरविग्रहं दधानम्॥१॥
अमृतममृतैरप्यायासादतीव सुदुर्लभं प्रवरगुणवच्छिष्यिर्यत्र स्थितं सुखमाप्यत ।
अजनि कमला यस्माद्विद्यावपुर्निखिलार्तिहा गुरुमनुभवानन्दं तं नौम्यपारकृपाम्बुधिम्॥२॥
आकल्पं कल्पवृक्षादमुत उदितसन्न्यायपुष्पैः प्रफुल्लैः
सत्पक्षारूढविद्वद्भ्रमरमुखरितैर्बोधसद्भूरिगन्धैः ।
श्रोतृश्रेणीविदोषश्रवणपुटगतैर्हृत्सरोजाधिवासः
श्रीकान्तोऽभ्यर्च्यतां स प्रकटयतु तनुं सच्चिदानन्दरूपम्॥३॥
क्व मामकं क्लेशवशानुगामि चेतः क्व वाचस्पतिसूक्तयोऽमूः ।
क्व शङ्कराचार्यवचः क्व चेदं वैयासिकं सूत्रमगाधभावम्॥४॥
गुरुक्षमाभर्तृविनिर्गतानां सरस्वतीनां श्रुतिसिन्धुसङ्गे ।
विगाह्यसञ्चेतुमनन्तपुण्यं परं मयाऽकारि निबन्ध एषः॥५॥
शास्त्राम्बुधेः पारगता द्विजेन्द्रा यद्दत्तचामीकरवारिराशेः ।
ज्ञातुं न पारं प्रभवन्ति तस्मिन् कृष्णक्षितीशे भुवनैकवीरे॥६॥
भ्रात्रा महादेवनृपेण साकं पाति क्षितिं प्रागिव धर्मसूनौ ।
कृतो मयाऽयं प्रवरः प्रबन्धः प्रगल्भवाचस्पतिभावभेदी॥७॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्य भगवदमलानन्दस्य व्यासाश्रमापरनामधेयस्य कृतौ वेदान्तकल्पतरौ चतुर्थाध्यायस्य चतुर्थः पादः॥