अद्वैतशारदा

वेदान्तकल्पतरुः

आवृत्त्यधिकरणविषयाः

व्याख्याः

आवृ­त्ति­र­स­कृ­दु­प­दे­शात्॥१॥
तृतीये चिन्तितं सर्वं साक्षा­च्छ्रु­त्यु­क्त­सा­ध­नम् ।
फला­र्था­प­त्ति­सं­सि­द्ध­मा­वृ­त्त्या­द्यत्र चिन्त्यते॥
आत्मेति तु विरोधपरिहारफलं, तस्य चात्र प्रस्तावे कारणं वक्ष्यते । न प्रतीक इत्यादि त्वधि­क­र­ण­त्र­य­मत्र प्रासङ्गिकम्, तस्मा­द्भ­व­त्ये­वा­य­म­भि­प्रा­य­श्च­तुर्थे तृती­य­शे­षा­नु­व­र्त­न­स्येति । फलाध्यायं व्याख्यास्यन् फलावसरे श्रोतॄ­णा­मु­त्सा­ह­ज­न­नाय स्वकृ­ते­र­क­ल­ङ्कतां ब्रुवन् दुर्जनान् शिक्षयति, सत्पु­रु­षां­श्चा­भि­न­न्दति –
नाभ्यर्थ्या इति ।
इह ग्रन्थे श्रव­णा­र्थ­म­म­त्स­रिणः सज्जना नाभ्यर्थनीयाः ।
अत्र हेतुमाह –
स्वयमिति ।
ते हि ग्रन्थ­गु­णा­न्दृष्ट्वा स्वयमेव प्रवृत्ता भवन्ति , इतरे तु मत्सरिणः श्रवणाय प्रवर्तयितुं न शक्याः ।
अशक्यत्वे हेतुमाह –
मत्सरेति ।
मत्सर एव पित्तं हृदयतापकत्वात् तन्नि­मि­त्त­म­चि­कित्स्यं चिकि­त्साऽ­न­र्ह­म­रो­चकं सत्क­वि­भ­णि­ति­ष्व­रु­च्या­पा­दकं धातुवैषम्यं येषां ते न शक्या इत्यर्थः । केषां­चि­द्वि­र­ल­पा­पानां मात्सर्यं विवेकोपदेशेन शक्यं चिकित्सितुम्, इदं तु न तथेत्युक्तम् अचिकित्स्यमिति ।
आचार्यस्य शिष्यः सनातननामा तत्कृतां स्तुतिं तत्प्रीत्यर्थं प्रब­न्ध­म­धि­रो­प­यति –
शङ्के इति ।
संप्रति सान्द्र­त­पः­स्थि­तेषु निर­न्त­र­त­पो­नि­ष्ठेषु निमित्तेष्वधुना स्वाराज्यसौख्यं वहन्निन्द्रो मम राज्यं तपसा हरिष्यतीति य उद्वेगस्तं निर्विशङ्कं निर्विशङ्को यथा भवति तथा कथमपि नाभ्येष्यतीति शङ्के मन्ये ।
उद्वेगाप्राप्तौ हेतुमाह –
यदिति ।
यस्मा­द्वा­च­स्प­ति­मि­श्र­नि­र्मितं संक्षिप्तं बह्वर्थं यद्व्याख्यानं तन्मात्रेण स्फुट­न्प्र­क­टी­भ­वन् यो वेदा­न्ता­र्थ­स्त­द्वि­ष­य­वि­वे­केन साक्षात्कारेण वञ्चितोऽपहृतो भवः स्वर्गादिसंसारो येषां ते तथोक्ताः । तेऽमी तपस्विनः स्वर्गेऽपि निःस्पृहा इति यद्य­स्मा­त्त­स्मा­च्छङ्क इत्यन्वयः ।
विषयक्रमेणेति ।
अध्यायविषययोः साधनफलयोः क्रमेणेत्यर्थः ।
ननु ज्ञानार्थत्वाद् दृष्टफलेषु गान्ध­र्व­शा­स्त्र­श्र­व­णा­दि­व­द­वि­धे­येषु श्रवणादिषु याव­त्फ­ल­मा­वृ­त्ति­सिद्धौ कथं सकृ­त्प्र­यो­ग­शङ्का? अत आह –
मुक्ति­ल­क्ष­ण­स्येति ।
पूर्ववादी मुक्त्य­र्थ­त्वात् श्रव­णा­दी­ना­म­दृ­ष्टा­र्थत्वं विधेयत्वं च मन्यते, विधिषु चाऽऽवृ­त्त्य­श्र­व­णा­त्स­कृ­त्प्र­यो­ग­श­ङ्के­त्यर्थः । श्रव­णा­द­योऽ­हं­ग्र­हो­पा­स्त­यश्च निर्वि­शे­ष­स­वि­शे­ष­ब्र­ह्म­सा­क्षा­त्का­र­फला इहोदाहरणम् ।
तत्र श्रवणादिषु सकृ­त्प्र­यो­ग­मु­क्त्वाऽ­हं­ग्र­हो­पा­स्ति­ष्व­प्याह –
यत्र पुनरिति ।
अत्र किं विद्याया मुक्ति­सा­ध­न­त्व­म­दृ­ष्ट­मि­त्यु­च्यते, श्रवणादेर्वा विद्यासाधनत्वम् ।
नाद्य इत्याह –
यद्यपीति ।
जीव­न्मु­क्ते­र्दृ­ष्ट­त्वा­द्य­द्य­पि­कारः । अहिविभ्रमस्य रज्जु­त­त्त्व­सा­क्षा­त्का­रेण समु­च्छे­द­स्ये­वा­वि­द्याया विद्योत्पादेन समु­च्छे­द­स्यो­प­प­त्ति­सि­द्ध­त्वा­दिति योजना ।
तत्र हेतुः –
विद्यो­त्पा­द­वि­रो­धि­त­येति ।
अविद्या विद्यानिवर्त्या अनि­र्वा­च्य­त्वा­द­हि­वि­भ्र­म­व­दि­त्य­नु­मा­नम् ।
न द्वितीय इत्याह –
अन्व­य­व्य­ति­रे­काभ्यां चेति ।
इवकारो लोक­सि­द्ध­त्वा­दि­त्यत उपरि नेतव्यः । गान्ध­र्व­शा­स्त्रादौ श्रव­णा­द्य­भ्या­सस्य साक्षा­त्का­र­ज­न­क­त्वे­न­न्व­य­व्य­ति­रे­काभ्यां लोक­सि­द्ध­त्वा­त्त­द्व­दु­क्त­वि­शे­ष­ण­चै­त­न्या­त्म­का­ह­मि­त्य­प­रो­क्षा­नु­भ­व­स्यापि श्रव­णा­द्य­भ्या­स­सा­ध­न­त्वे­ना­नु­मा­ना­दि­त्यर्थः । ब्रह्म­सा­क्षा­त्कारः, श्रव­णा­द्य­भ्या­स­साध्य शास्त्रा­र्थ­सा­क्षा­त्का­र­त्वात्, षड्जा­दि­सा­क्षा­त्का­र­व­दि­त्य­नु­मा­नम् ।
ननु विधि­प्र­त्य­य­द­र्श­नाद् अदृ­ष्टा­र्थ­त्व­मस्तु, तत्राह –
न चेति ।
प्राप्ता­र्थ­त्वात् ‘‘विष्णुरुपांशु यष्टव्य’’ इत्या­दा­वि­वा­नु­वा­द­क­त्व­मि­त्यर्थः ।
ननु दृष्टफलान्यपि श्रवणादीनि अक्ष­स­न्नि­क­र्षा­दि­व­द­ना­वृ­त्ता­न्येन साक्षात्कारं जनयन्तु, तत्राह –
न चैतानीति ।
सकृ­च्छ्र­व­णा­दि­फ­ला­द­र्श­ना­दि­त्यर्थः ।
ननु साक्षात्कार एव किमर्थं, धर्मादाविव परो­क्ष­ज्ञा­न­मे­वास्तु, तत्राह –
न चात्रा­सा­क्षा­त्का­रेति ।
एवं दृष्ट­फ­ल­भू­त­ब्र­ह्म­सा­क्षा­त्का­रो­प­दे­शेन श्रव­णा­द्य­ने­को­पा­यो­प­दे­श­लि­ङ्गात् फलसिद्ध्यर्थं प्रत्येकमपि श्रवणादि अभ्यसनीयमिति प्रतिपादितम् ।
अथ यदु­क्त­मु­पा­सी­ते­त्या­दिषु सकृ­दु­प­दे­शा­द­ना­वृ­त्ति­रिति, तत्राह –
ध्यानो­पा­स­न­यो­श्चेति॥१॥२॥
अहं­ग्र­हो­पा­स्तिषु यस्य स्यादद्धेति वचनादुपासनसाध्य उपा­स्य­सा­क्षा­त्कारः प्रती­य­तेऽ­त­स्त­त्रा­वृ­त्ति­र­र्थ­वती, न निर्गु­ण­ब्र­ह्म­सा­क्षा­त्कारे इत्याह –
साध्ये हीति ।
भाष्ये - आत्मभूतमिति प्रत्य­य­स्या­त्म­भू­त­मि­त्यर्थः । स्वप्रकाशत्वाद् ब्रह्मणो ब्रह्मविषय इति तु ब्रह्म­वि­ष­य­व्य­व­हा­र­ज­नक इत्यर्थो न तु तत्कर्मक इति; तथा सत्या­त्म­भू­त­त्व­वि­रो­धात् ।
न च जीव­स्या­त्म­भू­त­मिति व्याख्या­न­मु­चि­तम् ; अध्या­हा­र­प्र­स­ङ्गात् प्रत्य­य­स्या­त्म­भू­त­मिति व्याख्यायां त्वनुषङ्ग एव स्यात्स चाध्याहाराद्वर इति ब्रह्म­सा­क्षा­त्कारो ब्रह्म­स्व­रू­प­मि­त्य­ङ्गी­कृ­त्या­वृत्तौ दूषितायां सिद्धान्ती वृत्ति­रू­प­सा­क्षा­त्का­र­मा­दाय शङ्कते इत्याह –
आक्षेप्तारमिति ।
ननु स्वरूपप्रकाशेन ब्रह्म­प्र­थ­न­सिद्धौ किमावृत्त्या? अत आह –
न च ब्रह्मात्मभूत इति ।
नावि­द्यो­दी­ये­तेति भ्रान्त्य­भि­प्रा­यम् ।
पूर्वो­क्ता­क्षे­पे­णेति ।
वृत्ति­रू­प­सा­क्षा­त्कारं प्रमामुपेत्य तस्या­म­प्या­वृ­त्त्या­क्षे­पे­णे­त्यर्थः ।
तमेवाह –
न खल्विति ।
तादृश इति तादृक् शब्दात् षष्ठी ।
यदि वाक्यं सकृच्छ्रूयमाणं ब्रह्मा­त्म­त्व­प्र­तीति नोत्पादयेदिति भाष्ये ब्रह्मा­त्म­त्व­प्र­तीतिः साक्षात्कारः, परो­क्ष­प्र­ती­त्यु­त्प­त्ते­रेव तद­भा­वा­भि­धा­ना­नु­प­प­त्ते­रि­त्याह –
साक्षात्कारमिति ।
केव­ल­वा­क्य­मा­व­र्त्य­मा­न­मपि न साक्षात्कारं जनयतीत्युक्ते युक्तिसहकृतं जनयिष्यति संस्कार इवाक्षसहितः प्रत्यभिज्ञाम्, अतो वाक्येनैकवारं प्रत्यये कृते युक्त्याऽपि तत्क­र­णा­दा­वृ­त्ति­सि­द्धि­रिति शङ्कते इत्याह –
न केवलमिति ।
एवमपि वाक्ययुक्त्योः प्रत्ये­क­मा­वृत्तिः सिद्धान्तिसंमता न सिध्यतीति दूषयतीत्याह –
आक्षेप्तेति ।
इदानीं मा भूद्वा­क्य­मा­वृ­त्ति­स­ह­कृतं साक्षात्कारस्य कारणम्, मा च युक्तिसहकृतं वाक्यम्, युक्तिवाक्ये त्वावृत्तिसहिते साक्षा­त्का­र­का­रणे इति शङ्कत इत्याह –
पुनः शङ्कत इति ।
दृढभूमिर्दृढ आश्रयः फलं साध­यि­तु­मि­त्यर्थः । यद्य­प्य­भ्या­स­मिति शास्त्रयुक्ती साक्षात्कारं कुरुत इति शङ्कितं, तथा­प्य­न्य­त­रो­प­कृ­ता­व­न्य­त­र­त्क­र­ण­मिति वक्तव्यं, करणप्रयुक्तं च प्रती­ते­रा­प­रोक्ष्यं यथा प्रत्य­भि­ज्ञा­याम् ।
तत्र किं शास्त्र­युक्त्योः करणत्वं भावनाया वेति विकल्प्य दूषयति –
स खल्वयमित्यादिना ।
भावनाप्रकर्षस्य पर्यन्तोऽवधिः काष्ठा तज्जमित्यर्थः ।
पूर्ववादिना शास्त्र­युक्त्योः परो­क्ष­ज्ञा­न­ज­न­क­त्वा­दा­वृ­त्त­यो­र­ना­वृ­त्त­योर्वा न साक्षा­त्का­र­हे­तु­तेति उक्तं, सांप्र­त­मु­पे­त्यापि तयो­र­प­रो­क्ष­प्र­मा­क­र­ण­भा­व­म­भ्या­स­वै­फ­ल्य­म­भि­धी­यत इत्या­हाऽऽ­क्षेप्ता –
आक्षेपान्तरमिति ।
आतश्चेति ।
अवश्यं चेत्यर्थः । अप­रो­क्ष­प्र­मो­त्प­त्त्यर्थं आवृत्त्याक्षेपः किमा­वृ­त्त्यु­प­का­र्य­भू­त­प्र­मा­णा­भा­वा­दुत साक्षा­त्का­र­योग्य प्रमेयाभावात् ।
न प्रथम; मनस एव सोपा­धि­का­त्म­न्य­हं­प्र­त्य­य­रू­प­सा­क्षा­त्का­र­ण­तया क्लृप्तशक्तेः शास्त्र­यु­त्त­य­भ्या­स­वा­सि­तस्य जीव­या­था­त्म्य­ब्र­ह्म­सा­क्षा­त्का­र­क­र­ण­त्व­सं­भ­वा­दि­त्याह –
सत्यमित्यादिना ।
भाव­ना­भा­व­सा­क्षा­त्का­र­स्या­न्य­त्रेव भ्रमत्वमाशङ्क्य प्रमे­य­स्या­प­रो­क्ष्याद् विसंवादाभावेन वैषम्यं वदन्परिहरति –
सा चेत्यादिना ।
एतेन - द्वितीयो विकल्पः परास्तः ।
तदानीमिति ।
अनु­मि­ति­भा­व­ना­काले इत्यर्थः ।
ननु जीवस्वरूपस्य सदातनम् आपरोक्ष्यं भवतु, तद्याथात्म्यस्य तु ब्रह्मस्वभावस्य नित्य­शु­द्ध­त्वादेः परो­क्ष­त्वा­त्त­द्भा­व­नाभिः साक्षा­त्कृ­ति­र्भ्रमः स्यादत आह –
न हीति ।
तर्ह्यु­पा­धि­वि­रहो जीवादन्य इति परोक्षः स्यादतो निरु­पा­धि­ब्र­ह्मा­प­रो­क्ष­प्र­ती­ति­र्भ्रमः स्यान्नेत्याह –
न चेति ।
पर­मा­र्थ­प्र­ति­यो­गिको ह्यभावः परमार्थः स नाधि­क­र­णा­द्भि­द्यते ; कुम्भाभाव इव भूतलात्, अत एव प्रति­यो­गि­प्र­मा­ण­मे­वा­भा­वेऽपि प्रमाणमिति केचिद् मन्वते । इह चोपाधीनां मिथ्या­त्वा­त्त­त्प्र­ति­यो­गि­कोऽ­भा­वोऽपि नास्ति वास्तवः । न चैवमभावानवस्था ; यथा हि भवतां घटो न भवति घटान्योन्याभाव इत्यत्र नान्यो­न्या­भा­वा­न्त­र­मस्ति, न च भावा­भा­व­यो­रै­क्यम्, एव­म­स्मा­क­मु­पा­ध्य­भावो ब्रह्मणि निषिध्यते, न च भावान्तरप्रसङ्ग इति ।
एवं हृदि निधा­या­र्थ­मि­ष्ट­सि­द्धि­कृतो जगुः ।
आत्मै­वा­ज्ञा­न­हा­निर्वा तदाऽप्यात्मैव शिष्यते॥
इति॥
नन्वेवमपि यथा संसारदशायां जीवरूपं चकास्ति, तथैव यदि मोक्षेऽपि तर्हि शास्त्री­य­ज्ञा­न­वै­यर्थ्यं स्यादिति, नेत्याह –
तस्मादिति ।
षड्जादयो हि गान्ध­र्व­शा­स्त्र­श्र­व­णा­त्प्रा­ग­प्य­वि­क­ला­न­धिकाः श्रोत्रे­णा­प­रो­क्ष­मी­क्ष्यन्ते, ते त्वित­रे­त­र­वि­वे­के­ना­न­व­धा­रिता ऐक्येन च समारोप्यमाणा न तथा हर्ष­वि­शे­ष­मु­प­ज­न­य­न्त्य­वि­वे­किनां यथा शास्त्री­य­ल­क्ष­णै­र्वि­वि­ञ्च­ताम् । तस्माद्यथा तत्र प्रकाशमानेष्विव षड्जादिषु समारोपितमविवेकं निषेधतः शास्त्र­स्यो­प­योगः, एवमत्रापि समा­रो­पि­तो­पा­धि­कृ­त­स्व­प्र­का­शा­नु­भ­व­ग­त­म­भि­भवं व्युदस्यतां वेदा­न्ता­ना­मि­त्यर्थः । एतदुक्तं भवति - अवि­क­ला­न­धि­केऽ­व­भा­स­मा­नेऽपि वस्तुनि येन क्रमेणारोपः प्रवृ­त्त­स्त­द्वि­प­री­ता­का­र­प्र­मा­ण­वृ­त्त्यु­द­य­व्य­ति­रे­केण न भ्रमो निवर्तते, यथा देवदत्ते तदैक्ये चाभि­ज्ञा­सि­द्धेऽ­प्य­न्योऽ­य­मन्यः स इत्यारोपः सोऽय­मि­त्या­का­र­प्र­त्य­भि­ज्ञया विना न निवर्तत इति॥
षड्ज­म­ध्य­म­गा­न्धा­र­नि­षा­द­र्ष­भ­धै­वताः ।
पञ्चमश्चेति सप्तैते तन्त्री­क­ण्ठो­द्भवाः स्वराः॥
ग्रामः स्वराणां समूहः । मूर्च्छना तु तेषामारोहावरोहौ ।
भाष्ये – सर्व­थै­वा­न­र्थक्यं कंचित्प्रति नोच्यते ; सम्यग् ज्ञानोपायस्य नियतत्वात्, कित्विह जन्म­न्या­वृ­त्त्य­नु­ष्ठा­न­वै­य­र्थ्य­मि­त्याह –
प्राग्भवीयेति ।
पूर्वपक्षावसरे हि वाक्य­मा­व­र्त्य­मा­न­मपि नापरोक्षज्ञानं जनयतीत्युक्तं, नावृत्तावपि तद­नु­प­प­त्ते­रि­त्या­दि­भा­ष्येण, तदेवानूद्य न हि दृष्ट इत्यादिभाष्येण परो­क्षा­र्थ­वा­क्य­दृ­ष्टा­न्तेन परिह्रियते । तदसङ्गतमिव प्रतिभाति ; तत्र वाक्या­त्सा­क्षा­त्का­रो­त्प­त्ति­प्र­का­रस्य स्वेनै­वो­प­पा­दि­त­त्वा­दे­ता­वा­ना­क्षेपः परिशिष्यते, यः प्रथमश्रवणे प्रमित्यतिशयो न भवति, स आवृत्तावपि न स्यादिति ।
तस्य कैमुतिकन्यायेन परि­हा­र­भा­ष्या­र्थ­माह –
यत्र परोक्षेत्यादिना ।
वाक्या­भ्या­सा­न­भ्या­सा­भ्या­मे­क­जा­ती­य­प­रो­क्ष­ज्ञाने जन्य­मा­नेऽ­प्या­वृ­त्ते­र­ति­श­य­क­रत्वे दृष्टे सत्य­प­रो­क्ष­ज्ञा­ना­ति­श­याऽऽ­वृ­त्ति­रिति नानुपपन्नम्, अपि तु सुत­रा­मु­प­प­न्न­मिति भाष्यार्थः ।
वाक्य­मा­त्र­स्येति ।
परो­क्षा­र्थ­स्ये­त्यर्थः ।वा­क्या­र्थ­सा­क्षा­त्का­रा­र्थ­मा­वृ­त्त्यु­प­यो­ग­मुक्त्वा तत्त्वं­प­दा­र्थ­वि­वे­क­द्वा­रेण वाक्यमात्रात् परो­क्ष­ज्ञा­नो­त्पा­द­नेऽ­प्या­वृ­त्त्यु­प­योग उच्यत इत्याह –
अत्य­न्त­दु­र्ग्र­हेति ।
क्रमवती प्रतीतिर्यस्य स वाक्या­र्थ­स्त­थोक्तः । संसृष्टत्वं नानात्वं च ययोर्न स्तस्तौ पदा­र्था­व­सं­सृ­ष्ट­ना­नात्वौ तौ च यस्य तद्द्ब्र­ह्मा­सं­सृ­ष्ट­ना­ना­त्व­प­दा­र्थ­क­मिति । तत्किमिति । येयं पदा­र्थ­वि­वे­क­पू­र्वकं वाक्य­ज­न्य­ता­प्र­ती­ति­रि­य­मेव स्यात्, किमात्मनि नान्या, तथा सतीयं साक्षा­त्प्र­ती­ति­रा­त्मनि न स्यात् । कुतः? अस्याः साक्षा­त्प्र­ति­ते­रि­न्द्रि­य­ज­त्वे­ना­ना­ग­म­क­फ­ल­त्वा­दि­त्यर्थः ।
ननु शाब्द­प्र­ती­ते­र­प्या­त्म­प्र­ति­प­त्ति­त्वात्किं तस्या एव तत्पूर्वत्वं, नेत्याह –
साक्षात्कारेति ।
शाब्द­धि­योऽ­नि­न्द्रि­य­ज­न्य­त्वाद् ध्याना­दि­स­ह­कृ­त­चे­तोऽ­र्प­ण­द्वारा साक्षा­त्का­र­हे­तु­त्व­मि­त्याह –
एतदुक्तमिति ।
विशेषणत्रयवतीति ।
दीर्घ­का­ल­नै­र­न्त­र्य­स­त्का­र­व­ती­त्यर्थः ।
अत्य­न्त­भि­न्ना­ना­मिति ।
अभि­न्ना­ना­मि­त्यपि द्रष्टव्यम् । कल्पितत्वं हि सिद्धान्तः ।
नन्वश्वस्य गां प्रत्यधर्मत्वं नान्यत्वात् किं तु गव्यसमवेतत्वात् दुःखादयस्तु भिन्ना अप्या­त्म­स­म­वे­त­त्वा­द्धर्मा इत्याशङ्क्य तर्हि संबन्ध एव नास्ति वास्तव इत्याह –
संबन्धस्यापीति ।
ननु दुःखादय आत्मनो नात्यन्तभिन्नाः किं तु भिन्नाभिन्ना इति नेत्याह –
भेदाभेदयोश्चेति ।
चैत­न्या­द्ब­हि­रिति ।
वास्तवं हि चैतन्यं तस्मा­द्ब­हि­ष्ट्व­म­वा­स्त­व­मिति ।
इतश्चेति ।
कल्पितत्वेन हि दुःखि­त्वा­दी­ना­मा­त्म­ता­दात्म्यं धर्म­ध­र्मि­त्वो­प­योगि निरस्तमिदानीं सुषुप्तावात्मनि दुःखि­त्वा­द्य­भा­वाच्च नात्म­ता­दा­त्म्य­मि­त्यु­च्यते । तादात्म्यं ह्यैक्यं नान्य­न्नि­रू­प­यितुं शक्यम् । न चानु­वृ­त्त­व्या­वृ­त्त­यो­रै­क्य­मि­त्यर्थः ।
अन्यविषयैवेति ।
संप­दा­दि­प्र­त्य­य­वि­ष­ये­त्यर्थः ।
आत्मविषयं दर्शनं विधीयत इति ।
आत्म­स्तु­ति­द्वा­रेण दर्शनं पुरु­ष­प्र­वृ­त्त्य­ति­श­य­वि­ष­य­त्व­मा­प­द्यत इत्यर्थः । सिद्ध­रू­प­ब्र­ह्म­प्र­त्य­य­वि­प­री­त­प्र­त्य­यो­त्पत्तेः कार्य­वा­दि­भि­रि­ष्य­मा­ण­त्वा­त्त­दा­प­त्ता­वि­ष्ट­प्र­स­ङ्ग­ता­मा­श­ङ्क्याह – अभ्यु­च्च­य­मा­त्र­मिति ।स­म­न्व­य­सू­त्रो­क्त­न्या­येन वेदान्तानां सिद्ध­ब्र­ह्म­प­रत्वे सिद्धे तादृ­श­ब्र­ह्म­ज्ञा­ना­देव मुक्तिरिति सिद्ध्यति तथाभ्युपगमे मुक्तिविरोध उक्त इत्यर्थः । शास्त्रतो विज्ञा­या­प­रो­क्ष­प्रज्ञां कुर्वीत यत्स रैक्वो वेद तत्प्राणतत्त्वं सर्व­ध­र्म­फ­ल­म­भि­सं­ग­च्छत इत्यर्थः । एवं रैक्कादन्योऽसि यस्तद्रैक्व वेद्यं वेद तस्यापि सर्व­सा­धु­फ­ल­प्रा­प्ति­र्भ­वति स एवंभूतो रैक्वो मया एतदिति । क्रिया­वि­शे­ष­ण­मि­त्थ­मुक्तः । रैक्वमिव जानश्रुतिमल्पकं कर्मात्थेति हंसान्तरं प्रति हंसो वक्ति । हे रेक्व यां देवतामुपास्ते एता माम् अनुशाधि शिक्षय ज्ञापय इति जान­श्रु­ति­वा­क्यम् । हे पुत्र त्वं रश्मीनादित्यं च भेदेन पर्यावर्तयात् तकार एको लुप्तो द्रष्टव्यः । पर्या­व­र्त­य­ता­दिति मध्यमैकवचनमेतत् । त्वं योगात् पर्यावर्तय उपास्वेत्यर्थः । एवं सति बहवस्ते पुत्रा भविष्यन्ति न केव­ला­दि­त्यो­पा­स्ता­वि­वै­क­पु­त्र­ते­त्यर्थः । एषां नोऽस्माकमपरोक्ष आत्मैवायं लोकः पृथिवीलोकः प्रजया हि पृथिवीलोकः साध्यः स आत्मैवास्माकम् आत्मनः सर्वात्मत्वादतः प्रजया किं करिष्याम इत्यर्थः ।
xयस्त्वा­त्म­र­ति­रिति ।
रति­रा­स­क्ति­पू­र्विका निष्ठा । तत आत्म­सु­खा­नु­भ­व­स्तृप्तिः तस्याः काष्ठा संतुष्ठिः॥२॥
इति प्रथ­म­मा­वृ­त्त्य­धि­क­र­णम्॥

आत्मेति तूपगच्छन्ति ग्राहयन्ति च॥३॥ ब्रह्मा­त्मै­क्य­सा­क्षा­त्का­राय श्रव­णा­द्या­व­र्त­नी­य­मि­त्यु­क्तम्, तत्र ब्रह्मा­त्मै­क्य­मेव नास्ति, कस्य साक्षात्काराय श्रव­णा­द्या­वृ­त्ति­रिति प्रत्य­व­स्था­ना­त्स­ङ्गतिः । ननु प्रथमे एवाध्याये शब्दादेव प्रमित (व्या.अ.१ पा ३ सू.२४) इत्या­द्य­धि­क­र­णेषु जीव­ब्र­ह्मै­क्यस्य श्रुति­भि­र्नि­र्ण­याद् गता­र्थ­त्व­मि­त्या­शङ्क्य तासामेव श्रुतीनां विरु­द्धा­र्थ­त्वा­दु­प­च­रि­त­श्रु­ति­वि­ष­य­त्व­मा­श­ङ्क्यत इत्याह –
यद्यपीत्यादिना ।
यद्य­प्य­वि­रो­ध­ल­क्षणे इयं चिन्तोचिता; तथापि महा­वा­क्या­र्थ­वि­रो­ध­स­मा­धा­नस्य समा­धा­व­न्त­र­ङ्ग­त्वा­दि­हा­नीता ।
जीव­प­र­वि­भा­ग­स्या­ध्य­स्त­त्वा­द­वि­रो­ध­मा­शङ्क्य स्वप्रकाशस्य भ्रमा­धि­ष्ठा­न­त्वा­नु­प­प­त्ते­र­ध्या­सा­यो­ग­माह –
न च यथेत्यादिना ।
कथं पुनः प्रत्य­गा­त्म­नी­त्यत्र तु शास्त्रोपक्रमे श्रोतृ­प्र­वृ­त्त्य­र्थ­म­त्रत्य एव न्याय आचार्यैराकृष्टः । द्राघीयसि दीर्घतरे ।
नन्वभ्यासे पौनरुक्त्यमेव कथ­म­र्थ­मु­ख्य­त्व­लाभः, तत्राह –
अभ्यासे हीति ।
अर्थस्य भूय­स्त्व­मु­पा­दे­य­त्वा­ति­श­योऽ­भ्यासे भवति लोकवदित्यर्थः । दवीयो दूरतरम् । न च माना­न्त­र­वि­रो­धा­द­त्राऽ­प्रा­मा­ण्य­मिति । पौर्वापर्ये पूर्व­दौ­र्ब­ल्य­मिति न्यायेन श्रुतेरेव प्रामाण्यमिति शास्त्रोपक्रमे उक्तमित्यर्थः ।
न च मानान्तरविरोध इति ।
प्रमा­णा­न्त­रा­णा­म­वि­द्यो­प­स्था­पि­त­व्या­व­हा­रि­क­वि­ष­य­त्व­म­ध्या­स­भाष्ये वर्णितमित्यर्थः । आदिशब्देन तत्त्वमस्यादेः संप­दा­दि­प­र­त्व­नि­रा­स­ग्र­ह­णम् ।
निरंशस्यापीति ।
यथा ह्याकाशस्य तत्त­दु­पा­ध्य­व­च्छे­दाद् ग्रहणाग्रहणे, एवमित्यर्थः ।
यद्यद्वैत इति ।
हे शिष्य अद्वैते द्वैतध्वंसरूपे द्वैतस्य सत्त्व­प्र­स­ङ्गा­द्यपि न तोषोऽस्ति, तर्हि वस्तुतो द्वैतं नाभूदस्ति भविष्यति, अतोऽ­प्र­स­क्त­द्वै­तस्त्वं मुक्त एवासि सर्व­दे­त्यर्थः॥३॥
इति द्विती­य­मा­त्म­त्वो­पा­स­ना­धि­क­र­णम्॥

न प्रतीके न हि सः॥४॥ पूर्वोक्तं जीव­ब्र­ह्म­णो­र­भे­द­मु­प­जीव्य ब्रह्म­दृ­ष्टि­भाक्षु मन आदिष्वहमिति ब्रह्मा­भि­न्न­जी­व­दृष्टिः कर्तव्येति पूर्वपक्षमाह –
यथा हीति ।
ब्रह्मरूपेणेति ।
इत्थम्भावे तृतीया ।
ननु ब्रह्मा­त्म­क­जी­व­दृ­ष्टे­र्मन आदिष्वध्यासे तदा­त्म­का­का­शा­दि­दृ­ष्टि­रपि किं न स्यादत आह –
जीवात्मानश्चेति ।
आकाशादिः स्वरूपेण कल्पितः, जीवानां तु भेदमात्रं कल्पितम् तत्स्वरूपं तु ब्रह्मै­वे­त्यर्थः । अविद्यादर्पणाः अविद्योपाधिकाः । यथा ब्रह्म जीवे­ना­त्म­त्वे­नो­प­दि­श्यते तथाऽहं मन इत्यादि द्रष्टव्यमिति योजना ।
अत्र हेतुः –
ब्रह्मणो मुख्यमिति ।
इतिर्यस्मादर्थे । ब्रह्मण आत्मत्वस्य मुख्यात्वाद् नामादिषु ब्रह्माध्यासे जीव­दृ­ष्टि­र­प्य­ध्य­सि­त­व्ये­त्यर्थः । अविद्यादर्पणा इत्यत उपरितनो यथाकारः पूर्वो­क्ता­नु­वादः ।
एवं तावज्जीवस्य ब्रह्मा­भे­द­प्र­युक्त्या नामादिष्वहंग्रह उक्तः, इदानीं पूर्वाधिकरणे ब्रह्म­ण्या­त्म­त्व­मतिः कार्ये­त्यु­क्त­त्वा­द्द्ब्र­ह्मा­भि­न्न­ना­मा­दा­व­प्य­हं­मतिः कार्येत्याह –
उपपन्नं चेति ।
द्वावेतौ पक्षौ भगवता भाष्य­का­रे­णो­प­न्यस्तौ ।
ब्रह्मणः श्रुति­ष्वा­त्म­त्वेन प्रसि­द्ध­त्वा­दिति प्रतीकानामपि ब्रह्म­वि­का­र­त्वा­दिति च प्रतीकेषु ब्रह्मा­त्म­ता­मा­पा­दि­तेषु न केव­ल­म­हं­म­ति­क्षेपः प्रयोजनम्, अपि तर्हि प्रती­को­प­ल­क्षि­त­स­म­स्त­प्र­प­ञ्च­प्र­वि­ला­प­नेन तत्त्व­म­स्या­दि­वा­क्या­र्था­व­ग­ति­सि­द्धि­श्चे­त्याह –
कस्यचिदिति ।
ननु प्रविलये मन आद्येव नास्ति, कुत्राहंग्रहः? सत्यम्; अत एव यथा जीव­स्या­व­च्छि­न्न­रू­प­बा­धे­ना­न­व­च्छि­न्न­ब्र­ह्म­रू­प­त­याऽ­व­स्था­न­मेवं प्रतीकानामपि ब्रह्मा­त्म­नाऽ­व­स्थानं लयो न तु स्वरूपाभाव इति पूर्व­प­क्षा­भि­प्रा­य­मु­द्भाव्य स्वयमेव निराकरिष्यति ।
अत्र मन आदा­वा­त्म­त्व­दृष्टिः श्रुतिबलाद्वा शङ्क्यते, अर्थाद्वा न प्रथम इति वदन् पूर्वा­धि­क­र­णा­द्वै­ष­म्य­माह –
न तावदिति ।
मनः­प्र­भृ­ती­ना­म­ह­ङ्का­रा­स्प­दत्वं न तावदुपदिश्यत इत्यन्वयः । द्वितीयेऽपि किं मन आदिषु ब्रह्माध्यासाद् ब्रह्माऽ­भि­न्न­जी­व­वि­ष­याऽ­हं­दृ­ष्टि­रा­श­ङ्क्यते, किं वा प्रतीकानां ब्रह्म­वि­का­र­त्वेन तद­भे­दा­द्द्ब्र­ह्मणि चात्म­त्व­प्र­तीतेः प्रती­के­ष्व­प्य­हं­दृ­ष्टि­रा­पा­द्यते ।
प्रथममाशकते –
अहं­का­रा­स्प­द­स्येति ।
यदि श्रुतेः प्रती­के­ष्व­हं­म­ति­र­भि­मता, तर्हि ब्रह्मणीव तां वेदः श्रावयेद्, न चैवमित्याह –
नेति ।
यत्त्वर्थादिति तत्रा­ति­प्र­स­ङ्ग­माह –
ब्रह्मात्मतया त्विति ।
जीवस्य ब्रह्म­स्व­रू­प­त्वा­त्त­द्दृ­ष्टि­रिति विशेषशङ्कायां तद्दृ­ष्टि­क­र­णा­देव जीवदृष्टिरपि कृतेत्युत्तरम् । अहंदृष्टिस्तु न स्वरू­प­दृ­ष्टि­र­ह­ङ्का­र­वि­शि­ष्ट­स्या­ना­त्म­त्वा­दिति भावः । आर्थिकी हि प्रतीतिस्तत्र क्रियते, यत्र तामृते श्रुतिर्न निर्वहति । न चात्रैवं प्रत्यु­ता­ति­प्र­सङ्ग एव ।
तस्मा­द्य­था­श्रु­त्ये­वार्थो ग्राह्य इत्याह –
तस्माद्यस्येति ।
ब्रह्म­वि­का­र­त्वा­न्मन आदि­ष्व­हं­म­ति­क्षेप इति द्वितीयेऽपि पक्षेऽ­ति­प्र­स­ङ्ग­स्तुल्य एव; घटा­दि­ष्व­हं­म­ति­प्र­स­ङ्गात् । तुल्यं च श्रुत्य­न­पे­क्षि­ता­र्थ­क­ल्प­नम् ।
यत्त्वत्र प्रयोजनमुक्तं, तद्दूषयति –
न च सर्वस्येति ।
सर्वं खल्वित्यादौ हि क्वचिदेव प्रवि­ल­या­र्थत्वं, न सर्वत्रेत्यर्थः । यदि च मनो ब्रह्मेत्यत्र मन­उ­प­ल­क्षि­त­वि­श्व­प्र­पञ्चः प्रविलापितः, तर्ह्या­दि­त्या­दे­र­प्य­ने­नैव प्रवि­ला­पि­त­त्वा­दा­दित्यो ब्रह्मे­त्या­दे­रा­न­र्थ­क्य­मि­त्यर्थः ।
उपासकस्य प्रतीकानां च भेदेऽपि प्रतीकेषु ब्रह्मा­भि­न्न­जी­व­दृष्टेः श्रुति­व­शा­दु­प­प­त्ते­र्भा­ष्या­यो­ग­मा­श­ङ्क्याह –
अनुभवाद्वेति ।
श्रुति­व­शा­दा­त्म­त्व­क­ल्प­न­स्या­ति­प्र­स­ङ्गेन निर­स्त­त्वा­न्नो­भ­य­म­प्य­स्ती­त्यु­क्तम् ।
स्वयमेवोद्भाव्य दूष­यि­ष्य­ती­त्य­वा­दिष्म, तदिदानीं निराकरोति –
ननु यथेत्यादिना ।
जीव­ल­या­द­न्ना­दि­ल­यस्य वैषम्यमुपपादयति –
इह हीत्यादिना ।
अप्रधानस्य जीवस्य वैशिष्ट्या त्यागेन ब्रह्मात्मना भवत्यभावः, प्रधानं तु प्रतीकं यथानिर्दिष्टं रक्षणीयम्, न तु रूपा­न्त­र­मा­पा­द­यि­त­व्यम् ; प्राधान्यस्यैव व्याघा­त­प्र­स­ङ्गा­दि­त्यर्थः ।
न च ब्रह्मण इति भाष्य­ग­त­च­श­ब्दा­र्थ­माह –
अपि चेति ।
पूर्वो­क्ता­ति­प्र­स­ङ्गेन समुच्चय इत्यर्थः ।
कर्तृ­त्वा­द्य­नि­रा­क­र­णा­दिति भाष्यगतो हेतुरसिद्धः; प्रतीकवाक्यैरेव तन्निराकरणस्य पूर्वपक्ष उक्तत्वात्, अत आह –
न ह्युपा­स­न­वि­धा­ना­नीति ।
यथा ‘‘इदं सर्वं यद­य­मा­त्मे’’त्या­दीनि अहं­ब्र­ह्मा­स्मी­त्या­दि­म­हा­वा­क्यै­क­वा­क्य­ता­मा­पद्य तद­पे­क्षि­त­प्र­प­ञ्च­बाधं वितन्वते, नैवं प्रतीकवाक्यानि ; तत्रा­स­म्ब­द्ध­प­द­व्य­वा­येन भिन्न­प्र­क­र­ण­त्वा­दि­त्यर्थः ।
तदेकवाक्यतयेति ।
कर्तृ­त्वा­दि­बा­धेन जीवस्य ब्रह्म­ता­मा­पा­द्येति शेषः॥४॥
इति तृतीयं प्रतीकाधिकरणम्॥

ब्रह्म­दृ­ष्टि­रु­त्क­र्षात्॥५॥ पूर्वत्र ब्रह्मा­भि­न्न­जी­व­दृ­ष्टे­र्ना­मा­दिषु करणे घटादिदृष्टेरपि प्रसङ्ग इत्य­ति­प्र­स­ङ्गान्न प्रती­के­ष्व­हं­म­ति­क्षेप इत्युक्तम्, एवमिहापि यदि आदि­त्या­दि­षू­पा­स्य­मा­नेषु ब्रह्म फलप्रदमभिमतं, तर्हि चैत्रे उपास्यमाने मैत्रा­त्फ­ल­सि­द्धि­प्र­स­ङ्गाद् ब्रह्मैव फल­प्र­द­त्वा­दु­पा­स्य­मिति सङ्ग­ति­म­भि­प्रेत्य पूर्वपक्षमाह –
ब्रह्मणः सर्वा­ध्य­क्ष­त­येति ।
प्रयोजनवत्त्वेन ब्रह्मणः संस्का­रा­पे­क्ष­त्वा­त्तत एव च प्रधा­न­त्वा­त्त­द्वा­चि­ब्र­ह्म­श­ब्दस्य प्रती­ति­ल­क्ष­क­त्वा­यो­गाद् ब्रह्मै­वा­दि­त्या­दि­दृ­ष्टिभिः संस्का­र्य­मि­त्यर्थः ।
फल­व­त्त्व­प्र­धा­न­त्वाभ्यां शास्त्री­य­न्या­याभ्यां दुर्ब­ल­त्वा­च्छा­स्त्रा­र्था­न­व­धा­र­क­त्व­सि­द्ध्यर्थं विशेषणं –
लौकिक इति ।
यथा राजपुरुष आगत इत्युक्ते वस्तुतः प्रधानस्यापि राज्ञ आगमनं न प्रतीयते, किं तु पुरुषस्यैव ; तथाऽत्रापि आदित्यादिरेव शब्दतः प्रधानत्वेनावगत उपास्तिकर्मेति वक्तुं श्रौतं दृष्टान्तमाह –
सत्यमित्यादिना ।
ऐहिकफलं कर्मोदाहरति –
चित्रयेति ।
प्रकृ­त­त्वा­दा­दि­त्या­दे­र्द्र­व्यस्य प्राधा­न्य­सि­द्ध्यर्थं दृष्टान्तारमाह –
क्वचिद् द्रव्यस्येति ।
अत्रा­प्य­ङ्गा­नु­ष्ठा­ना­रा­धितः परमेश्वर एव प्रधा­न­सि­द्धि­हे­तु­रिति तस्यैवार्थतः प्राधान्यमिति । यैस्तु शब्दै­र्वी­ही­नि­त्या­दि­भि­र्द्रव्यं संचिकीर्ष्यत इति प्रतीयते, तत्र क्रिया प्रोक्षणादिका गुणत्वेन प्रतीयतेत्यर्थः । तदिहेत्यादिना विमृशति - तत्र फलायकल्पत इत्य­भि­व­द­ती­त्यन्तं सिद्धा­न्त­व­च­न­व्य­क्ति­प्र­द­र्श­न­परं किं वेत्या­दि­फ­ला­ये­त्यन्तं पूर्व­प­क्षा­नु­वादः । अत्राप्यभिवदति किं शास्त्र­मि­त्य­नु­षङ्गः । तदनेन ब्रह्म­ग­त­फ­ल­दा­तृ­त्व­प्र­धा­न­त्वयोः कर्म­स्वि­वाऽऽ­दि­त्या­द्यु­पा­स­ने­ष्वपि संभ­वा­त्कां­स्य­भो­जि­न्या­येन लौकि­क­न्या­या­नु­गृ­ही­तृ­त्व­मु­क्तम् । न चातिप्रसङ्गः, अतिथ्याद्युपासन इव ब्रह्मण एव फल­दा­तृ­त्व­सं­भ­वा­दि­त्युक्तं भाष्ये । यदि स्वार्थोऽस्य विवक्षितः स्यात्तर्हि ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति वृत्तो भविष्यति, न त्वस्य स्वार्थो विवक्षित इत्यर्थः ।
यदि विवक्षितः स्यात्तत्र दूषणमाह –
तथा चेति ।
इतिनेति ।
इति­श­ब्दे­ने­त्यर्थः ।
स्वरूपपरमिति ।
ब्रह्मपदमेव स्वरूपं तत्परं ब्रह्मेति शब्द इति वा द्वाव­र्था­वि­ति­श­ब्द­शि­र­स्क­ब्र­ह्म­श­ब्दात् प्रतीयेते इत्यर्थः ।
शब्दपरत्वं दूष­य­त्यु­पा­स्ति­वि­धि­सि­द्ध्यर्थं –
न च ब्रह्मपदमिति ।
य आदित्यः स ब्रह्मेत्ययं शब्द इति सामानाधिकरण्यं विरु­द्ध­मि­त्यर्थः ।
ननु प्रतीतिपरत्वमपि न युज्यते, या ब्रह्मेति प्रतीतिः सा आदित्य इत्य­स्या­प्य­र्थस्य विरुद्धत्वादत आह –
गौरितीति ।
भ्रान्तो हि गवयादिकं गौरिति प्रतिपद्य बाधोत्तरकालं वक्ति गौरिति मेऽभवद् गवय इति, गवात्मत्वेन प्रतीत इत्यर्थः । यद्यपि प्रती­ति­वि­ष­य­त्वा­पे­क्षायां हि गौणमिदमपि सामानाधिकरण्यम् ; तथापि प्रचु­र­प्र­यो­गा­न्नि­रू­ढ­मतः शब्द­सा­मा­ना­धि­क­र­ण्या­द्वि­शेषः॥५॥
इति चतुर्थं ब्रह्म­दृ­ष्ट्य­धि­क­र­णम्॥

आदि­त्या­दि­म­त­य­श्चाङ्ग उपपत्तेः॥६॥ पूर्व­व­दु­त्क­र्ष­रू­प­वि­शे­षा­न­व­धा­र­णा­द­नि­यमः । अथवा गीत्यात्मकेन क्रिया­त्म­का­ना­मु­द्गी­था­दीनां फल­स­न्नि­क­र्षे­णो­त्क­र्षा­दा­दि­त्या­दिषु तद्दृष्टिः कर्तव्या, प्रथ­म­नि­र्दि­ष्ट­ना­मा­दिषु ब्रह्म­दृ­ष्टि­वच्च प्रथ­म­नि­र्दि­ष्टा­दि­त्या­दिषु उद्गी­था­दि­दृष्टिः कार्येति तिस्रः संगतयो भाष्य एव विशदाः । भाष्यमुपादत्ते –
अथवेति ।
भाष्ये क्रिया­त्म­क­त्वा­दि­त्य­सा­ध­कम् ; सिद्ध­रू­पा­दि­त्या­दि­दृ­ष्ट्य­ध्या­सेऽ­प्यु­द्गी­था­दि­ग­त­क्रि­या­स्व­भा­व­स्या­न­पा­यात् तत्फ­ल­सि­ध्द्यु­प­प­त्ते­रि­त्या­श­ङ्क्याह –
तथा­चा­दि­त्या­दि­म­ति­भि­रिति ।
शुक्त्यादौ रज­त­बु­ध्द्यु­त्पत्तौ तत्प्र­यु­क्त­व्य­व­हा­र­प्र­ति­ब­न्ध­वत् सिद्ध­रू­पा­दि­त्या­दि­दृ­ष्टा­वु­द्गी­था­दि­ग­त­क्रि­या­त्व­म­भि­भू­ये­ते­त्यर्थः ।
आदि­त्या­दि­षू­द्गी­था­दि­दृष्टौ तद्ग­त­सि­द्ध­रू­प­त्व­म­भि­भू­यते, क्रियात्वं चाविर्भवति, ततश्च फल­सि­द्धि­रि­त्य­र्थ­प­र­त्वे­नो­द्गी­था­दि­म­ति­भि­रि­त्या­दि­भाष्यं व्याचष्टे –
आदित्यादिषु पुनरिति ।
कल्पिष्यन्ते समर्था भविष्यन्ति । इयमेवर्गग्निः सामेत्युक्त्वा श्रुत्या तत्र हेतुरुच्यते ‘‘तदे­त­दे­त­स्या­मृ­च्य­ध्यूढं सामे’’ति । ॠक्सा­म­श­ब्दा­भ्या­मिह पृथिव्यग्नी निर्दिश्येते । अस्यां पृथिव्यामृचि सामाग्निरारूढ आश्रितस्ततः प्रसिद्धयोरपि पृथि­व्य­ग्न्यो­रा­श्र­या­श्र­यि­त्वा­त्त­त्सा­म्येन पूर्ववाक्ये सामाधारभूता ऋक् पृथिव्युक्ता ऋगाश्रितं च सामा­ग्नि­रि­त्यु­क्त­मि­त्यर्थः । अत्र हेतुवाक्ये पृथिव्यग्न्यो ऋक्सा­म­श­ब्द­प्र­योगः पृथिव्यग्न्यो क्सामदृष्टिः पूर्व­वा­क्येऽ­भि­हि­तेति ज्ञापयति ।
आरो­प्य­वा­च­क­श­ब्द­स्यैव वह्न्या­दे­र्मा­ण­व­का­दा­वु­प­चा­र­द­र्श­ना­दि­त्याह –
अत एवेति ।
भूतभाव्युपयोगं हि वस्तु संस्कारमर्हति ।
उद्गीथादीनां च क्रियात्वात् प्रकृ­त­ज्यो­ति­ष्टो­मा­द्यु­प­का­रस्य तैः करि­ष्य­मा­ण­त्वाच्च तान्ये­वा­दि­त्या­दि­म­ति­भि­र­ति­श­याय संस्क्रि­ये­र­न्नि­त्याह –
यद्यु­द्गी­था­दि­म­तय इत्यादिना ।
आदित्यादिमत्या विद्ययेति समानाधिकरणे तृतीये ।
ननु ‘‘लोकेषु पञ्चविधं सामो­पा­सी­ते’’त्या­दा­वपि सामकर्मैव क्रतुं साधयद् वीर्यवत्तरत्वाय लोकदृष्ठ्या संस्क्रियतां, न च ‘‘कल्पन्ते हास्मै लोका’’ इत्या­दि­फ­ल­श्र­व­णा­त्स्वा­त­न्त्र्यम्; अङ्गा­व­बु­द्ध­त्वा­दा­सा­मु­पा­स्तीनां कर्म­स­मृ­द्धि­फ­लेऽ­व­गते सति परार्थे फल­श्र­व­ण­स्या­र्थ­वा­द­त्व­सं­भ­वात्, अतो भाष्यो­क्त­स्व­त­न्त्र­फ­ल­त्वा­नु­प­प­त्ति­रि­त्या­श­ङ्क्याह –
यत्र हीति ।
यत्र ह्युद्गी­था­दि­क­र्मणः सकाशात्फलं, तत्रैवं भवदित्यर्थः ।
प्रस्तुते वैषम्यमाह –
यत्र त्विति ।
इह तावत्समस्तस्य खलु साम्न उपासनं साध्यति पाञ्च­भ­क्ति­क­सा­प्त­भ­क्ति­क­स­क­ल­सा­मो­पा­स­नस्य वाक्यान्तरेण विहि­त­त्वा­त्प­ञ्च­वि­ध­त्व­मात्रं गुण उपासनयोपाधीयते, एवं सति यत्र गुणात्फलं लोकादि भवति, तत्र गुण­स्या­क्रि­या­त्वेन लोकादिभिः समत्वात् तं पुरुषः करोतीत्येव नास्ति । कुत इमं लोकं विद्यया संस्कृत्य वीर्यवत्तरं कुर्याद् ? अतो लोकादिष्वपि सामाध्याससम्भव इत्यर्थः । गुणात् फलसिद्धिः केवलाद्वा यत्कि­ञ्चि­त्क्रि­या­सं­ब­न्धाद्वा प्रकृ­त­क­र्म­सं­ब­न्धाद्वा । आद्य­द्वि­ती­या­व­ति­प्र­सक्तौ ।
तृतीये तु प्रकृ­त­क्रि­या­वै­शि­ष्ठ्या­दस्ति गुणस्यापि कार्यत्वमित्याह –
न तावदित्यादिना ।
भवन्तूत्कृष्टा आदित्यादयः, तेभ्य­स्त्व­क्रि­या­रू­पेभ्यः कथं फल­सि­द्धि­रि­त्या­शङ्क्य तद्दृष्टिः फलं भवेदित्याह –
स्वयमेवेति ।
यथा माण­व­केऽ­ग्नि­दृष्टिः केन­चि­त्ती­व्र­त्त्वा­दि­गु­ण­यो­गेन गौणी ।
तत्र हेतुः –
अन­भि­भू­त­मा­ण­व­क­त्वा­दिति ।
नाभिभूतो माणवको यया सा गौणी दृष्टि­र­न­भि­भू­त­मा­ण­वका तस्या भावोऽ­न­भि­भू­त­मा­ण­व­कत्वं तत इत्यर्थः ।
दार्ष्टा­न्ति­क­माह –
तथेहापीति ।
दृष्टान्तं प्रपञ्चयति –
न हीति ।
दार्ष्टान्तिकं विशदयति –
तथेयमपीति ।
अन्यथापीति ।
सत्यां लक्षणायां न गौणी वृत्ति­र्दौ­र्ब­ल्यात् । तथा च ऋक्सा­म­सं­ब­न्ध­मात्रं पृथिव्यग्न्यो ऋक्सा­म­श­ब्द­प्र­योगे कारणम्॥ सबन्धश्च ऋक्सा­मा­ध्य­स्त­त्व­मपि सम्भवतीत्यर्थः ।
एवम् अन्य­थाऽ­प्यु­प­प­त्ति­मु­क्त्वाऽ­न्य­थै­वो­प­प­त्ति­माह –
अक्षरन्यासेति ।
इयमेवर्गिति चेत्या­दे­र­क्ष­र­न्यासः स्यादित्यन्तस्य भाष्यस्य तात्प­र्य­मुक्त्वा सिद्धा­न्तेऽ­क्ष­रा­ञ्ज­स्य­म­प­र­मपि दर्शयंस्तथा च लोकेषु पञ्च­वि­ध­मि­त्या­दि­भा­ष्यस्य तात्पर्यमाह –
लोके­ष्वि­त्या­दिना ।
सामधीर्यदि लोके­ष्व­ध्य­स्येत, तदा सामानि नोपस्येरन् ।
ततः किं जातमत आह –
तथा चेति ।
परि­क­ल्प­ना­मे­वा­भि­न­येन दर्शयति –
साम्नेतीति ।
सामसु लोका­ना­मु­पा­स्यत्वे श्रुत्य­न्त­र­भ­ङ्गश्च स्यादित्याह –
लोकेष्वितीति ।
सप्तमीभङ्गे लोक­सि­द्ध­मु­दा­ह­र­ण­माह –
अगार इति ।
अगारे गृहे गावो वास्यन्तामिति प्रयोगे अगारं गवां सञ्चरणेन पवि­त्री­क्रि­य­ता­मिति सप्तमीं भङ्क्त्वा कर्मत्वं लक्ष्यते । एवं प्रावारे प्रावरणवस्त्रे कुसुमानि वास्य­न्ता­मि­त्य­त्रापि प्रावरणस्य कुसु­मै­र्वा­स्यत्वं कर्मत्वं लक्ष्यते इति । उक्त­न्या­या­नु­रो­धे­नेति । ‘‘सामो­पा­सीते’’ति द्विती­या­भ­ङ्ग­प्र­स­ङ्गा­नु­रो­धेन वरं सप्तमी तृतीयार्थे व्याख्या­ते­त्यु­प­र्य­न्वयः । लोकेष्विति सप्तमी पूर्वपक्षे द्वितीयार्था सिद्धान्ते तृती­या­र्थे­त्यु­भ­यथा भञ्जनीया, पूर्वपक्षे तु साम­ग­त­द्वि­ती­या­भ­ङ्गोऽ­धिक इत्यर्थः ।
यत्र द्विती­या­स­प्तम्यौ भवतः, तत्र भवतु श्रुति­द्व­य­भ­ङ्ग­गौ­र­व­प­रि­हा­रा­र्थ­म­ङ्गे­ष्व­न­ङ्ग­दृ­ष्टि­र्यत्र तूभयत्र द्वितीया निर्दिश्यते, तत्रा­न्य­त­र­श्रु­ति­मा­त्र­भ­ङ्गस्य पूर्व­प­क्ष­सि­द्धा­न्त­यो­र­वि­शे­षात् कथं नियमः? इत्याशङ्क्याह –
ननु यत्रेत्यादिना ।
सप्त­वि­ध­सा­मा­न्येव दर्शयति –
हिङ्कारेति ।
ओङ्कारोऽपि साम्न्या­दि­सं­ज्ञको भक्तिविशेषः ।
भाष्यं व्याचष्टे –
सप्त­वि­ध­स्ये­त्या­दिना ।
श्रुति­ग­त­स­म­स्त­प­दस्य स्वेन व्याख्या कृता –
सप्तविधस्येति ।
छान्दोग्ये हि समस्तस्य खलु साम्न उपासनं साध्वि­त्यु­प­क्रम्य ‘‘लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्ता­वोऽ­न्त­रि­क्ष­मु­द्गीथ आदित्यः प्रतिहारो द्यौर्नि­ध­न’’मि­त्या­दिना पञ्चविधस्य साम्न उपासनमुक्त्वा ‘‘इति तु पञ्च­वि­ध­स्ये’’त्यु­प­सं­हृत्या ‘‘ थ तु सप्त­वि­ध­स्ये’’त्यु­प­क्रम्य ‘‘वाचि सप्तविधं सामोपासीत यत्किञ्च वाचो हुं इति स हिङ्कारो यत्प्रैति स प्रस्तावो यदैति स आदिर्यदुदेति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नेति तन्नि­ध­न’’मि­त्या­दिना सप्त­वि­ध­स्या­प्यु­पा­स­न­मु­क्तम् । एवंच सति समस्तस्य सप्तविधस्य साम्न उपासनं साध्विति साम्न उपा­स्य­त्व­श्रु­ते­रिति तु पञ्चविधस्य साम्न उपासनं साध्विति च पञ्चविधस्यापि साम्न उपा­स्य­त्व­श्रुतेः साम्न्ये­वा­दि­त्या­ध्यास इति ग्रन्थयोजना ।
श्रुत्योक्तं साम्नः साधुत्वं व्याचष्टे –
साधुत्वं चेति ।
निर्दे­श­वि­रो­ध­मा­शङ्क्य परिहरति –
हिङ्का­रा­नु­वा­दे­नेति ।
हिङ्का­रा­दि­सा­मो­द्दे­शेन साम्नि पृथि­व्या­दि­दृ­ष्टि­विधो हिङ्कारादेः प्रथमनिर्देशः स्याद्, यद्वृत्तयोगः प्राथ­म्य­मि­त्या­द्यु­द्दे­श्य­ल­क्ष­णम्, इति भट्टा­चा­र्यै­रु­क्त­त्वात्स एव चेह साम्न उपा­स्य­त्व­श्रुतेः प्रमा­ण­त्वा­त्प्रा­प्त­स्त­स्मि­न्प्राप्ते यो विपरीतनिर्देशः स भञ्जनीय इत्यर्थः॥६॥
इति पञ्च­म­मा­दि­त्या­दि­म­त्य­धि­क­र­णम्॥

आसीनः संभवात्॥७॥ अङ्गा­व­ब­द्धो­पा­स­न­चि­न्त­न­स­म­न­न्तरं तत्पर्युदासं सिद्ध­मा­दा­ये­त­रे­षू­पा­स­ने­ष्वा­स­न­नि­य­म­चि­न्त­ना­त्स­ङ्ग­ति­रि­त्य­भि­प्रेत्य विषयं परिशिनष्टि –
कर्मा­ङ्ग­सं­ब­न्धि­ष्विति ।
नापि सम्यग्दर्शन इति ।
श्रव­ण­म­न­न­ध्या­ना­भ्या­स­वा­दि­त­म­नसा साक्षा­त्का­रो­त्प­त्ता­वि­त्यर्थः ।
ननु वस्त्वधीनेऽपि ज्ञाने चक्षु­रा­दि­व­दा­स­न­म­प्य­पे­क्ष्य­ता­मत आह –
प्रमा­ण­त­न्त्र­त्वा­च्चेति ।
ननु प्रमाणमपि शुक्त्यादौ निक­टो­प­स­र्प­णा­दि­व­दा­स­न­म­पे­क्षतां, तत्राह –
प्रमाणं चेति ।
ध्याना­दि­सं­स्कृ­त­म­प्र­ति­बद्धं चित्तं प्रदी­प­व­त्स्व­य­मेव प्रमा करोतीत्यर्थः ।
यथा वा सम्य­ग्द­र्श­न­म­पीति ।
तत्त्व­म­स्या­दि­वा­क्य­ज­नि­त­ज्ञा­ना­भ्या­सा­त्म­क­मि­त्यर्थः ।
ध्याय­ति­श्चे­त्या­दि­भा­ष्य­मा­क्षि­पति –
नन्विति ।
भाष्य­ग­तो­प­चा­र­शब्दो न युक्तः, बकादिष्वपि ध्यानसद्भावादत आह –
प्रयुज्यत इति ।
असाववस्था किं तिष्ठतो न भवति, अपि तु भवत्येव; तिष्ठ­तोऽ­प्यै­का­ग्न्य­सं­भ­वा­दि­त्यर्थः । तिष्ठतो हि देह­प­त­न­प्र­ति­बन्धे फलातिशयो भवति नासीनस्येति परिहाराभिप्रायः ।
भाष्य­ग­ता­ना­या­स­प­द­व्या­ख्या­नम् –
अविद्यमानायास इति ।
अनेन बहुव्रीहित्वं द्योति­तम्॥७॥८॥९॥१०॥
इति षष्ठ­मा­सी­ना­धि­क­र­णम्॥

यत्रैकाग्रता तत्रा­वि­शे­षात्॥११॥ अङ्गा­ना­श्रि­तो­पा­स­ने­ष्वा­स­न­नि­यम उक्ते तद्व­द्दि­गा­दि­नि­य­म­श­ङ्को­त्था­ना­त्स­ङ्गतिः । ननु समे शुचाविति देशनियमस्य श्रुतत्वात् कथं विचारावसरः? तत्राह –
सम इति ।
श्रुतौ शर्कराः सूक्ष्मपाषाणाः जलाश्रयवर्जनं शीत­नि­वृ­त्त्य­र्थम् । चक्षुःपीडनो मशकः । प्राचीनप्रवणे प्राग्देशनिम्ने देशे । वैश्वदेवेन यागविशेषेण । ऐकग्र्यं हि ध्यानं प्रत्य­न्त­र­ङ्ग­सा­ध­नम् ।
तस्मि­न्म­ध्या­ह्नादौ संभवत्यपि यदि प्रदोषकालः प्राच्या­दि­दि­क्ती­र्था­दि­देशः प्रती­क्ष्ये­र­न्स्तर्हि शेषिध्यानबाधः स्यात्त­स्मा­द­नि­यम इति सिद्धान्तमाह –
यत्रैकाग्रता मनस इति ।
यदु­क्त­म­ङ्गो­पा­स्त­स्त्य­ति­रि­क्तो­पा­स्ति­र्दि­गा­दि­नि­य­म­म­पे­क्षते वैदि­का­नु­ष्ठा­न­त्वा­द्वै­श्व­दे­व­व­दिति, तत्र श्रुत­दे­शा­दि­म­त्त्व­मु­पा­धि­रिति वदन् अविशेषादिति सौत्रं हेतुं व्याचष्टे –
न ह्यत्रेति ।
श्रुतविशेषणेन च वृथाचेष्टाया विपक्षस्य व्यावर्तनान्न पक्षेतरता । तस्मात्तत्रैव भावनामुपासनां प्रयो­ज­ये­दि­त्य­न्वयः॥११॥
इति सप्त­म­मे­का­ग्र­ता­धि­क­र­णम्॥

आ प्राय­णा­त्त­त्रापि हि दृष्टम्॥१२॥ पूर्वत्र दिगाद्यविधेः तद­न­पे­क्षा­व­द­हं­ग्र­हो­पा­स्ति­ष्वा­दे­ह­पा­ता­दा­वृ­त्ते­र­वि­धा­ना­त्त­द­न­पे­क्षेति सङ्गतिः । भाष्यं व्याचष्टे –
अविद्यमानेति ।
तस्या इति ।
शास्त्रा­वि­ष­य­त्वा­दिति शेषः ।
ब्रह्मा­त्म­त्व­प्र­ति­प­त्ते­र्नि­यो­ज्य­र­हि­तत्वं विध्यविषयत्वं च दृष्ट­फ­ल­त्वे­नो­प­पा­द­यति –
शास्त्रं हीत्यादिना ।
नियो­ग­सं­ब­ध­म­व­बो­ध­य­तीति ।
अन्यत्र ज्योति­ष्टो­मा­दा­विति शेषः ।
अहं­ग्र­हो­पा­स्ती­ना­म­दृ­ष्टा­र्थ­त्वेन सम्य­ग्ज्ञा­ना­द्वै­ष­म्य­तश्च ज्योति­ष्टो­मा­दि­व­त्क­र­ण­मि­त्याह –
नन्वे­व­मि­त्या­दिना ।
ननु सकृत्करणे कथ­मु­पा­स­न­सि­द्धि­र­स­कृ­त्क­रणे च सकृ­द­नु­ष्ठा­न­व्या­ह­ति­स्त­त्राह –
उपासनेति ।
उपास्तिः सकृत्कार्येति शास्त्रार्थे जाते उपा­स­न­श­ब्द­स्याऽऽ­वृ­त्त्य­र्थ­त्वा­दे­क­वा­र­मा­वृ­त्ति­र्ल­भ्यत इति भावः ।
कृत­शा­स्त्रा­र्थ­त्वा­दिति ।
कृत­शा­स्त्रा­र्थ­त्वा­त्पुंस इत्यर्थः । ननु तर्हि कर्म­व­दे­वो­पा­स­ना­न्येव विहि­त­त्व­सा­म­र्थ्या­त्स्व­फलं यथा कालान्तर आक्षिपन्ति –
एवमन्त्यकालिकं स्वफ­ल­सा­क्षा­त्का­र­म­प्या­क्षि­पन्तु, किं प्राय­ण­प­र्य­न्ता­वृ­त्त्येति, तत्राह –
तानि खल्विति ।
दृष्टद्वारेण च प्रत्य­या­वृ­त्त्यो­पा­स्य­सा­क्षा­त्का­र­ज­न्म­न्य­न्त­काले तद­व­श्य­म्भा­वा­द्वि­रो­धि­क­र्मा­न्त­रा­नु­द्भा­वाच्च साध­क­दे­ह­पा­ता­न­न्त­र­मु­पा­स्ति­फ­ल­प्रा­प्ति­नि­यमः प्रयोजनमिति । किमत्र फलवदित्युपासनं फलवत्प्रायणसमये बुध्द्या­क्षे­पे­णो­पा­स्य­सा­क्षा­त्का­रा­क्षे­पेण किं कार्यं दृष्टद्वारैव तत्सि­द्धे­रि­त्यर्थः । सविज्ञानं विज्ञानसहितं फलम् । यस्मिन्विषये चित्तमस्य स यच्चित्तः । तेन विषयेण हृद्यभिव्यक्तेन सह तेजसा उदानेन उदानस्य तेजो­दे­व­ता­क­त्वात् । आत्मना भोक्त्रा स उपा­स­कोऽ­क्षि­त­म­स्य­च्यु­त­मसि प्राणसंशितमसीति मन्त्रत्रयं जपेत् ।
अन्तकाले न कर्त­व्य­मु­पा­स्ता­विव किंचन ।
ब्रह्म­बु­द्धा­व­शे­षा­घ­ना­शा­दिति जगौ मुनिः॥१२॥
इत्य­ष्ट­म­मा­प्रा­य­णा­धि­क­र­णम्॥

तदधिगम उत्त­र­पू­र्वा­घ­यो­र­श्ले­ष­वि­नाशौ तद्व्य­प­दे­शात्॥१३॥ विपरीतफलत्वमेव दर्शयति –
बन्धनफलमिति ।
शास्त्रे­णा­श्व­मे­धादि फलाय सुखाय विहितम्, ब्रह्महत्यादि चान­र्थ­का­त्म­क­न­र­क­पा­त­प­रि­हा­राय शास्त्रेण प्रतिषिद्धम् । प्रतिषेधे कृते हि न प्रवर्तेरन्निति मत्वेत्यर्थः । अश्वमेधादि दृष्टा­न्ता­र्थ­मि­हो­दा­हृ­तम्, इत­र­स्या­पी­त्य­न­न्त­रार्थं च । अत्र लोके कर्मण्युपरतेऽपि तदपूर्वं तस्य कर्मणोऽपूर्वं सुखदुःखोपभोगात् प्राग­वि­र­न्तु­म­नि­व­र्तितुं नार्हत्यपि तु निव­र्ति­तु­मे­वा­र्ह­तीति यत्सि­द्धा­न्ति­नो­च्यते, तत्किं न किमपीति योजना ।
अत्र हेतुमाह –
स हीति ।
ननु स्वर्गकामस्य याग­वि­धि­सा­म­र्थ्या­द्यथा यागस्य स्वर्ग­सा­ध­न­त्व­मे­व­म­न­र्थ­फ­ल­पा­प­वतः प्राय­श्चि­त्त­वि­धि­व­शात् प्रायश्चित्तस्य पाप­नि­वृ­त्त्य­र्थता किं न स्यादत आह –
तद्विधानस्य चेति ।
एनस्वी पापी नर­स्त­स्मि­न्न­धि­का­रिणि प्राप्ते तद्विधीयते, यथा गृहदाहवति प्राप्ते क्षामवतीष्टिः, अधि­का­रि­व्या­वृ­त्ति­परं विशेषणं न फलपरमित्यर्थः ।
युक्तं गृह­दा­हा­दे­र्नि­ष्प­न्न­त्वेन निष्पा­द­यि­तु­म­श­क्य­त्वा­द­धि­का­रि­व्या­वृ­त्त्य­र्थ­त्वम्, पापनिवृत्तेस्तु कर्तुं शक्य­त्वा­दि­ष्ट­सा­ध­न­त्व­बोधी प्राय­श्चि­त्त­वि­धि­स्त­न्नि­वृ­त्ति­फल इत्याशङ्क्य तदभ्युपगमेन प्रकृते वैषम्यमाह –
यदि पुनरित्यादिना ।
मोक्षवदिति वैध­र्म्य­दृ­ष्टान्तः । यथा मोक्षसंयोगेन श्रवणात् तद्धेतुत्वं ब्रह्मज्ञानस्य, नैवं दुरि­त­क्ष­य­हे­तुत्वं तत्सं­यो­गे­ना­श्र­व­णा­दि­त्यर्थः ।
ननु दुरितक्षयाभावे कथं मोक्षसिद्धिरत आह –
तस्यापीति ।
अथ देशा­द्य­पे­क्षत्वे मोक्ष­स्या­नि­त्यत्वं स्यात्तर्हि प्रकारान्तरेण कर्मनिवृत्तिमाह –
शास्त्रेति ।
एकेन शरीरेण बहुकालव्यापिना क्रमेणोपभोगेन सर्वकर्मक्षये ज्ञानान्मोक्ष इत्यर्थः ।
अथैकेन शरी­रे­णा­वि­ष­म­क­र्म­फ­ल­भोगो नानु­प­प­न्न­स्तर्हि कल्पान्तरमाह –
योगर्द्ध्यैव वेति ।
ऋद्धेन समृद्धेन ।
यद्यपि ब्रह्मविद्या पापक्षयोद्देशेन न विहिता; तथापि विद्या­पा­प­क्ष­य­यो­रे­क­पु­रु­ष­सं­ब­न्ध­नि­र्दे­शा­न्य­था­नु­प­पत्त्या साध्य­सा­ध­न­त्व­म­व­ग­म्य­ताम् इत्या­श­ङ्क्या­र्थ­वा­द­लि­ङ्गस्य निषे­ध­सा­म­र्थ्या­व­ग­तेन पाप­ग­ता­नि­ष्ट­फ­ल­प­र्य­न्त­त्वेन प्रबलेन बाधमाह –
स्थिते चैतस्मिन्निति ।
यथा न्यायबलात्स्थित इति संबन्धः । न प्रबलमित्येव दुर्बलं बाधते, किं तु सति विरोधे, न चेह स इति सिद्धान्तयति –
व्याख्या­ये­ते­तीति ।
ननु सगु­ण­वि­द्या­ना­मै­श्व­र्य­फ­लानां कथं पापनिवर्तकत्वमत आह –
उभयेति ।
वाक्यद्वयेन ‘‘तद्य­थे­षी­का­तूलं’’ ‘‘सर्वे­ष्वा­त्म­स्व­न्न­म­त्ती’’त्या­दि­भि­र्वा­क्यै­र्वि­द्याया उभ­य­सं­यो­ग­स्या­वि­शे­षा­दु­भ­या­र्थ­त्व­मि­त्यर्थः ।
प्रब­ल­दु­र्ब­ल­प्र­मा­णा­भ्या­मे­क­स्यो­भ­या­र्थ­त्वा­व­ग­मे­नै­केन नैकस्य बाधः स्यात्त­न्नि­वृ­त्त्य­र्थ­मु­क्तम् –
अविशेषादिति ।
पापं ज्ञान­नि­व­र्त्य­म­ध्य­स्त­त्वा­द्र­ज्जु­स­र्प­व­दि­त्याह –
तत्स्व­भा­वा­लो­च­ना­दिति ।
न्याय­सि­द्धेऽर्थे लिङ्गदर्शनमाह –
अमुमेवेति ।
उक्त­वि­द्या­सा­म­र्थ्य­व­क्ष्य­मा­ण­मो­क्ष­शा­स्त्रा­न्य­था­नु­प­प­त्ति­भ्या­मु­प­बृं­हि­ता­ज्ञा­न­दु­रि­त­नि­वृ­त्त्यो­रे­क­पु­रु­ष­सं­ब­न्ध­नि­र्दे­शा­न्य­था­नु­प­पत्तिः सत्यपि विरोधे निषे­धा­न्य­था­नु­प­प­त्ते­र्ब­ली­य­सीति भावः ।
नैकविधेति ।
अनेकविधेत्यर्थः । आहुरिति भाष्यकारा इति शेषः । असक्तोऽनासक्तः । अत एव कर्मा­न्त­रा­ण्य­सं­चि­न्वानः, सङ्गे हि पापाद्युदेति नान्यथेत्यर्थः ।
तिष्ठन्तु कल्पशतानि क्रमभोग्यफलानि, सप्त­ज­न्मा­दि­भो­ग्य­फ­लानां कथं मुमुक्षुदेहेन शतायुषा भोग इत्याह –
दीर्घकालेति॥१३॥
इति नवमं तदधिगमाधिकरणम्॥

इत­र­स्या­प्ये­व­म­सं­श्लेषः पाते तु॥१४॥ अस्या­ति­दे­श­स्या­भ्य­धि­का­श­ङ्का­माह –
अधर्मस्येति ।
स्वाभा­वि­क­त्वे­नेति ।
शास्त्रो­प­दे­शा­न­पे­क्ष­त्वे­ने­त्यर्थः ।
धर्मस्य ज्ञाना­न्नि­वृत्तिः स्वभा­व­वि­रो­धाद्वा शास्त्रा­न्नि­वृ­त्त्य­व­ग­मा­द्वेति विकल्पे प्रथमं निरस्य द्वितीयं निरस्यति –
पाप्म­न­श्चे­त्या­दिना ।
सर्वे पाप्मानोऽतो निवर्तन्ते इति वच­न­सा­म­र्थ्या­त्पा­प्मन एव निवृ­त्ति­रि­त्य­व­गन्तुं न शक्यते; शास्त्रान्तरैः साक्षा­त्पु­ण्य­स्यापि ज्ञाना­न्नि­वृ­त्त्य­व­ग­मात्, तेषा­म­न्य­था­सि­द्धि­माह –
उभे ह्येवैष इत्यादिना ।
उभे पुण्यपापे एषविद्वान् । अत्र वाक्ये ज्ञानेन दुष्कृतं तरत्यतिक्रामति भोगेन सुकृतं तरति इति योज्यमित्यर्थः । क्षीयन्ते कर्माणीति सामान्यवचनं पाप्मान इति विशेषवचनं दृष्ट्वा पापे विशेषे सङ्को­च्य­मि­त्यर्थः ।
ज्ञानसुकृतयोः स्वभावविरोध इति पक्षमादाय सिद्धान्तयति –
नो खल्वित्यादिना ।
यद्यदत्तफलमपि सुकृतं विद्या निवर्तयति, तर्हि तद्वि­धे­र्वै­यर्थ्यं स्यादत आह –
न च सुकृ­त­शा­स्त्र­मिति ।
उपपादिते विद्या­पु­ण्य­यो­र्वि­रोधे उदा­हृ­त­शा­स्त्राणि यथा­श्रु­ता­र्था­नी­त्याह –
एवमवस्थित इति॥१४॥
इति दश­म­मि­त­रा­सं­श्ले­षा­धि­क­र­णम्॥

अनारब्धकार्ये एव तु पूर्वे तदवधेः॥१५॥ उत्सृ­ष्ट­स्त­त्त्व­बो­धेन विलयः सर्वकर्मसु । कर्म­स्वा­र­ब्ध­का­र्येषु स इदानीमपोद्यते ॥ इमामापवादिकीं सङ्गतिमभिसंधाय पूर्वपक्षयति –
यदीत्यादिना ।
ननु निवृत्तेऽपि सर्वकर्मणि कर्म­सं­स्का­रा­त्क­र्मा­नु­व­र्त­ताम्, अथवा - निवृ­त्त­मा­या­सं­स्का­राद् माया­न्त­रो­त्पत्तौ तेनाभिनवकर्माणि विरच्यन्तामत आह –
न च संस्कारशेषादिति ।
संस्कार एव शिष्यत इति शेषः ।
यथा कुला­ल­क­रा­भि­घा­त­नि­मि­त्त­नि­वृत्त्या निवृत्तेऽपि चक्रभ्रमणे भ्रमणसंस्काराद् भ्रम­णा­नु­वृ­त्ति­रे­व­म­त्रा­नि­वृ­त्ता­या­मपि माया­या­मु­क्त­मा­र्गेण कर्मा­नु­वृ­त्ति­रि­त्ये­तन्न, तत्र हेतुमाह –
वस्तुत इति ।
तत्सं­स्का­र­स्तयोः पुण्यापुण्ययोः संस्कारः, पुण्या­पु­ण्य­सं­स्का­राणां त्रित्वा­त्स­न्तीति बहुवचनम् ।
वस्त्वेव संस्का­र­द्वा­रे­णा­नु­व­र्तत इति व्याप्ते­र्व्य­भि­चा­र­मा­श­ङ्क्याह –
न चेति ।
रज्जु­स­र्प­वि­ष­य­ज्ञा­न­स्या­स्माकं सत्य­त्वा­त्त­ज्ज­न्म­भ­या­दीनां संस्का­र­व­शा­द­नु­वृ­त्ति­र्युक्ता ।
प्रस्तुते वैषम्यमाह –
न त्विति ।
न मायेति भ्रमनिषेधः ।
अर्था­त्त­दु­पा­दानं माया निषिद्धा भवति ।
तज्जन्यसंस्कार इत्यनेन माया­सं­स्का­र­ज­न्य­मा­या­न्त­रात् कर्मा­न्त­रो­त्प­त्ति­रिति पक्षं प्रतिक्षिपति ।
न तद्गोचर इति ।
माया­त्म­क­भ्र­म­गो­चरो ज्ञानादूर्ध्वं निषिध्यते किमनुवर्तते इत्युक्त्वा न किमपीत्याह –
नेति । न संस्कारशेषोऽत एव न कर्मेत्यर्थः ।
आरब्धकार्याणां कर्मणां देहपातप्रतीक्षा तत्प­र्य­न्त­म­व­स्थि­तिर्न युक्तेत्यर्थः । स्नात इति षष्ठ्येकवचनं स्नानादि कुर्वतो यच्चिरं विलम्बनं तावदेव न ततोऽ­धि­क­मि­त्यर्थः । क्षेपीयस्ता क्षिप्रतरत्वम् । यथा खलु स्वयं­प्र­का­श­प्र­त्य­गा­त्म­भू­त­ब्र­ह्म­सा­क्षा­त्कारे नित्यमेव भवितुं युक्तेऽपि नास्ति ब्रह्म न प्रकाशते चेति भ्रमा­न्य­था­नु­प­प­त्त्याऽऽ­च्छा­दि­काऽ­विद्या कल्प्यते, एवमत्रभवतां हिर­ण्य­ग­र्भा­दीनां तत्त्व­सा­क्षा­त्का­र­व­ता­मपि श्रुति­स्मृ­ति­प्र­ती­त­दे­ह­धा­र­णा­न्य­था­नु­प­पत्त्या तत्त्व­सा­क्षा­त्का­रस्य प्रार­ब्ध­फ­ल­क­र्म­प्र­ति­ब­न्धा­त्त­त्स्व­रू­प­त­त्का­र्य­भो­ग­सं­पा­द­का­वि­द्या­लेशं प्रत्य­नि­व­र्त­कत्वं भोगसमाप्तौ कर्मक्षये च प्रति­ब­न्ध­नि­वृत्तौ सत­त­म­नु­व­र्त­मा­न­सा­क्षा­त्का­रेण तस्या­प्य­वि­द्या­ले­शस्य निवृत्तिरिति कल्प्यते ।
न चैकदेशेन निवृत्ताया अविद्याया अनु­वृ­त्त्य­सं­भवः; शाब्दबोधेन निवृ­त्ता­या­म­प्य­वि­द्यायां साक्षा­त्का­र­नि­र­स्यै­क­दे­शा­न्त­रस्य दर्शनात्, तदिदमभिप्रेत्य सिद्धान्तयति –
यद्यपीत्यादिना ।
द्रागित्येवेति ।
तत्रा­प्र­ति­ब­न्धा­दि­त्यर्थः । न त्वारब्धविपाकम् शीघ्रं निवर्तयति, प्रतिबन्धक्षये तु निव­र्त­य­ती­त्यर्थः ।
आर­ब्ध­वि­पा­क­त्वस्य व्याख्यानं –
संपादितेति ।
संपादिता जातिः जन्मायुर्जीवनं संपादितम् । विततो विस्तीर्णः पूर्वापरीभूतो वर्तमानः सुखदुःखोपभोगश्च संपादितो येन तत्कर्मजातं तथोक्तं तद् द्रागित्येव न निव­र्त­य­ती­त्यर्थः । समुदाचरन्ती उद्भूता, वृत्तिः फलारम्भाय यस्य तत्तथा । परितः सम­न्ता­त्प्र­द्यो­त­मानं बुद्धिसत्त्वं बुद्धि­ग­त­स­त्त्व­गुणो ब्रह्म­ज्ञा­ना­का­रेण परिणतो येषां ते तथोक्ताः । ज्योग्जीविता उज्ज्वलजीविता । कल्पोऽ­वा­न्त­र­कल्पः ।
यदु­क्त­मु­भ­य­वि­धाने वाक्यं भिद्येतेति, तत्राह –
तावदेव चिरमितीति ।
श्रुत्यन्तरेति ।
उद्दालकादीनां देहधारणविषयं श्रुत्यन्तरम् ।
उपजीव्याया अपि अविद्याया ज्ञानेन बाधा­त्प्रा­र­ब्ध­क­र्मा­ण्या­श्रित्य ज्ञानो­द­य­स्त­द­नि­व­र्त­कत्वे स्वत­न्त्र­यु­क्तिर्न भवति, किं त्वन्यतः सिद्धेऽ­र्थेऽ­भ्यु­च्च­या­र्थे­त्याह –
तदेतदभिसंधायेति ।
अभ्यु­पे­त्या­न्यत्र वस्तु­त­त्त्व­सा­क्षा­त्का­रा­वि­द्ययोः सहा­न­व­स्था­न­मि­हा­वि­द्यै­क­दे­श­ब्र­ह्मा­त्म­भा­व­सा­क्षा­त्का­र­यो­र­वि­रोध उक्तः, इदानीमन्यत्रापि न विरोधनियम इत्याह –
न चेदमिति ।
समवाये सन्निधाने । यथा प्रति­बि­म्ब­द्वि­च­न्द्र­भ्र­म­स्यौ­पा­धि­क­त्वा­च्च­न्द्रै­क­त्व­सा­क्षा­त्का­रेण सहा­नु­वृ­त्ति­रु­पा­धि­नि­वृत्तौ निवृत्तिः प्रमाणसिद्धा, एवं निरु­पा­धि­क­भ्र­म­स्यापि सान्तःकरणस्य तत्क­र्तृ­त्वा­दे­स्त­दु­पा­दा­ना­वि­द्या­ले­शस्य च ब्रह्म­सा­क्षा­त्का­रेण सहानुवृत्तिः प्रार­ब्ध­क­र्मो­प­रमे च निवृ­त्ति­रु­द्दा­ल­का­दि­दे­ह­धा­र­ण­वि­ष­य­श्रु­त्या­दि­प्र­मा­ण­सिद्धा स्वीक­र्त­व्ये­त्यर्थः ।
ननु द्विच­न्द्रा­दि­भ्रमा अल्पकालं तत्त्वज्ञानेन सहानुवर्तन्ते, कर्तृत्वादेस्तु कथं बहुकालं विरोधिना सहा­नु­वृ­त्ति­रि­त्यत आह –
यदा लोकेऽपीति ।
नियो­ग­स्त­था­स्त्विति विधिरनुयोगः कथमेतदिति चोद्यम् । भाष्ये स्थित­प्र­ज्ञ­ल­क्ष­ण­नि­र्देशो जीवन्मुक्तिसाधक उक्तः ।
तत्र स्थितप्रज्ञः साधको न साक्षा­त्का­र­वा­निति मण्ड­न­मि­श्रै­रुक्त दूषणमुद्धरति –
स्थित­प्र­ज्ञ­श्चेति ।
भाष्ये संस्कारवशादिति संस्कारशब्दः परि­शि­ष्टा­वि­द्या­ले­श­वाची ।
संस्का­रा­त्क­र्मा­नु­वृत्तिं दूषयता पूर्ववादिना यदुक्तं नावस्तु संस्का­र­द्वा­राऽ­नु­व­र्तते भयकम्पादेरपि सत्य­ज्ञा­न­ज­न्य­त्वेन सत्यत्वादिति , तत्राह –
न च ज्ञानेति ।
मिथ्या­त्वे­ना­वि­शे­षि­त­ज्ञा­न­मा­त्र­जन्या न भवन्तीत्यर्थः ।
यदि भवेयुस्तत्राह –
ज्ञानमात्रादिति ।
उत्पादे वा रज्जुज्ञानादपि तदा­प­त्ते­रि­त्यर्थः ।
हेतुद्वारा भयादेः सत्यत्वं निषिध्य स्वरूपेणापि निषेधति –
न च कार्यमपीति ।
आरम्भणाधिकरणे (ब्र.अ .२ पा.१ सू.१४) कार्यमात्रस्य मिथ्या­त्व­स­म­र्थ­ना­दि­त्यर्थः ।
ननु रज्जु­स­र्प­ज्ञा­नस्य भयादेश्च मिथ्यात्वे कथं कार्य­का­र­ण­भा­व­स्त­त्राह –
अनि­र्वा­च्या­च्चेति ।
कार्य­का­र­ण­भा­वोऽपि न वास्तवः, स्वप्ने हस्ति­त­द्धा­व­न­व­दि­त्यर्थः । एवं च कम्पादेर्यथा संस्का­र­द्वा­राऽ­नु­वृ­त्ति­रेवं कर्मणामपीति संस्कारपक्षोऽपि समर्थितः । न विमोक्ष्ये न विमोक्ष्यते । संपत्स्ये संपत्स्यते । तका­र­लो­क­श्छा­न्दसः॥१५॥
इत्ये­का­द­श­म­ना­र­ब्ध­का­र्या­धि­क­र­णम्॥

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्॥१६॥ उत्प­न्न­वि­द्या­ज­न्य­क­र्म­क्ष­यस्य प्रार­ब्ध­फ­ल­क­र्म­स्व­प­वाद उक्तः ,इदा­नी­म­प्रा­र­ब्ध­फ­ले­ष्वपि केषु­चि­त्त­स्या­प­वा­दोऽ­भि­धी­यत इति संगतिमभिप्रेत्य पूर्वपक्षमाह –
यदेत्यादिना ।
ननु विद्या­र्थ­मे­वा­ग्नि­हो­त्रादि योग­मा­रु­रु­क्षु­णाऽ­नु­ष्ठी­य­ताम्, विद्योदयाच्च तन्निवर्तताम्, फल­वि­ना­श्य­त्वा­त्क­र्मणः; तत्र कथ­म­नु­ष्ठे­य­त्व­मिति - तदुच्यते; यदि विद्या पुण्यस्य कस्य­चि­न्नि­व­र्तिका, तर्हि पुण्यान्तरादपि नोदेतुमर्हति, न हि तमोनिवर्तकः प्रदी­प­स्त­मो­न्त­रा­दु­देति ; विरोधस्य जात्यु­पा­धि­क­त्वा­दिति तस्या­पी­त­र­पु­ण्य­व­द्वि­द्यया नाशादिति विनंष्टुं योग्य­त्वा­दि­त्यर्थः ।
ननु विरु­ध्य­न्ता­म­न्यानि कर्माणि विद्यया, यज्ञादीनि तु न विरुद्धानि; यज्ञे­ने­त्या­दि­शा­स्त्र­प्रा­मा­ण्या­त्तेषां विद्यया सह मोक्ष­ल­क्ष­णै­क­का­र्य­क­र­त्वा­व­ग­मा­दिति, तत्राह –
न च विविदिषन्तीति ।
पूर्वोत्तरे इति ।
विद्याजन्मन इति शेषः । पूर्वस्य क्षया­दु­त्त­र­स्या­श्ले­षा­दि­त्यर्थः ।
प्रमा­ण­स्या­न्य­था­सि­द्धि­माह –
तस्मादिति ।
यज्ञादिति ।
यज्ञा­दे­र्मो­क्ष­सा­ध­न­त्व­ग­न्धोऽपि वाक्ये न श्रूयते, किं तु ब्रह्मज्ञानस्य यज्ञा­दि­वि­शि­ष्ट­सा­ध­न­सा­ध्य­त्वा­त्स्तुतिः, यज्ञादीनां च ज्ञान­ल­क्ष­ण­वि­शि­ष्ट­साध्यं प्रति साध­न­त्व­नि­र्दे­श­मा­त्राच्च स्तुतिः, न तु साध्य­सा­ध­न­त्व­मस्ति; विरो­ध­स्यो­क्त­त्वा­दि­त्यर्थः । अर्थ­वा­द­त्व­स्फु­टी­क­र­णाय योग्या­नु­प­ल­ब्धि­सू­च­नार्थं वर्त­मा­ना­प­दे­श­ग्र­ह­णम् ।
न मुक्ति­सा­ध­न­य­ज्ञा­दि­वि­धि­रिति ।
न विज्ञा­न­सा­ध­न­वि­धि­रिति हृदयम् ।
पूर्व­प­क्ष­नि­दा­न­मु­च्छि­नत्ति –
न च कर्मणामिति ।
स्वकरणविरोधिनां वेणुज्वलनादीनां बहु­ल­मु­प­ल­म्भा­दि­त्यर्थः । अनेन तद्दर्शनादिति सूत्रावयवो भाष्य­नै­र­पे­क्ष्येण व्याख्यातः ।
अत्र च विरो­धि­नोऽ­ग्नि­हो­त्रा­दे­र्ज्ञा­नो­प­योगे प्रकृते कार्यस्य कार­ण­नि­व­र्त­क­त्व­म­र्था­त्प्र­कृते तच्छब्देन परामृष्टम्, इदानीं तत्का­र्या­ये­त्य­प­र­म­व­यवं व्याचष्टे –
विद्यालक्षणेति ।
तदेव ज्ञानं कार्यमिति कर्मधारय इत्यर्थः । तस्या इत्येतावति वक्तव्ये कार्यग्रहणं विरुद्धमपि विरुद्धेन कर्तुं योग्यमिति न्यायसूचनार्थम् ।
प्रमा­ण­दू­ष­ण­मु­द्ध­रति –
एवं चेति ।
अने­ना­भि­स­न्धि­नेति ।
तस्य कार्यमित्यपि भाष्यी­य­व्या­ख्यायां पार­म्प­र्या­श्र­य­णा­च्चा­र्थ­भेद इत्यर्थः ।
एवं निर्गु­ण­वि­द्या­प­र­त्वे­ना­धि­क­रणं व्यावर्ण्य सगुणपरत्वेनापि वर्णयति –
यत एवेति ।
अत्र च वर्णके तत्सु­कृ­त­दु­ष्कृते विधूनुत इत्य­वि­शे­ष­श्र­व­णा­द­ग्नि­हो­त्रा­दि­लय इति पूर्वः पक्षः । सगुणविद्याफलस्य कर्म­सा­ध्य­त्व­यो­ग्य­त्वात् ‘यक्ष्यमाणो ह वै भग­व­न्तोऽ­ह­म­स्मी’त्या­दि­स­मु­च्च­य­लि­ङ्गात् सुकृतशब्दस्य च काम्यविषयत्वात् नित्य­क­र्म­स­गु­ण­वि­द्या­स­मु­च्चयः इति सिद्धान्तः । तस्य कर्म­सा­ध्य­त्व­यो­ग्य­फ­लस्य दर्शनादिति च सौत्र­हे­त्वर्थः॥१६॥१७॥
इति द्वाद­श­म­ग्नि­हो­त्रा­द्य­धि­क­र­णम्॥

यदेव विद्ययेति हि॥१८॥ पूर्वो­क्ता­ग्नि­हो­त्रा­दि­ष्वे­वा­ङ्गा­व­ब­द्धो­पा­स्ति­सा­हि­त्या­नि­यम इह चिन्त्यते । ननु तन्नि­र्धा­र­णा­नि­यम इत्यनेनैतद्गतं, स्वर्गादाविव विद्या­फ­ल­सि­द्ध्य­प्र­ति­ब­न्धस्य पृथक्संभवादत आह –
यथा ब्राह्मणायेति ।
विद्या­यु­क्त­क­र्म­प्र­शं­सया विद्या­वि­ही­न­नि­षेधः कल्प्यते, न च विधिविरोधः; केवलं कर्म कुर्या­दि­त्य­श्र­व­णा­त्क­र्म­स्व­रू­प­वि­धेश्च पार­शा­खि­का­ङ्ग­नि­यमे इवो­पा­स्ति­नि­य­मे­प्यु­प­पत्तेः । अतश्च विद्यानां पुन­र­ङ्ग­त्वो­न्म­ज्जने तन्निवृत्त्यर्थ आरम्भ इत्यर्थः॥ अन्ये त्वाहुः -
विद्यार्थत्वं यदा यायु­र­ना­श्र­मि­कृताः क्रियाः ।
तदो­पा­स्ति­वि­ही­नेषु का कथाऽऽ­श्र­म­क­र्मसु॥
ततः प्रक्षिप्तमेतत् स्यात्स्नातकेन तु केनचित् ।
इति॥ नैवं नेतव्यम् ; यतः –
नाश्र­मो­क्त­क्रि­या­स्वस्ति विधु­रा­दे­र­धि­क्रिया ।
तस्मा­त्त­दी­य­ज­प्यादि विद्या­सा­ध­न­मी­रि­तम्॥
विद्योपेतेषु शक्तस्य तत्त्या­गा­द­न्य­का­रिणः ।
न विद्या सेत्स्यतीत्येषा शङ्का केन निवार्यते॥
एवं हि भट्टपादाः प्रतिपादयन्ति -
‘‘प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाप्नोति फलं तस्य परत्रेति विचारितम्’’
इति॥
यदि विद्यायुक्तं कर्म वीर्य­व­दि­त्ये­ता­व­दु­च्येत, तत इत­र­स्या­र्था­द­वी­र्य­त्वेन निन्दा गम्येत, न चैवमस्ति; अत्र हि तरप् प्रयोगेण विद्या­सं­यु­क्तस्य वीर्य­व­त्त्वा­ति­श­य­बो­ध­ना­द­र्था­त्के­व­ल­क­र्म­णोऽपि वीर्य­व­त्त्व­मात्रं विधि­ब­ल­ल­ब्ध­म­भ्य­नु­ज्ञा­ये­ताऽतो न निन्दावकाश इति सिद्धान्तयति –
यदेव विद्ययेत्यादिना ।
पयसि सर्वं प्रतिष्ठितमिति विन्द्वा­न्य­द­ह­रे­वा­ग्नि­होत्रं जुहोति॥१८॥
इति त्रयोदशं विद्या­ज्ञा­न­सा­ध­न­त्वा­धि­क­र­णम्॥

भोगेन त्वितरे क्षपयित्वा संपद्यते॥१९॥ व्यवहितेन संबन्धमाह –
अनारब्धेति ।
न तत्रा­प्या­र­ब्ध­फलं कर्म लयाद् व्यावर्तितं, तस्य च प्रयोजनं भोगेन क्षय इति तदिदानीं दर्शयतीत्यर्थः ।
ननु विद्य­यै­वा­र­ब्ध­क­र्म­णोऽपि लयः किं न स्यादत आह –
अस्य त्विति ।
पुरस्तादिति ।
अनारब्धकार्ये इत्य­त्रै­वे­त्यर्थः । अग­ता­र्थ­त्व­म­मृ­ता­न­न्द­पा­दै­रु­क्तम् । प्रार­ब्ध­क­र्म­फ­ल­भो­गा­न­न्तरं मोक्षेऽपि तत्क­र्म­ज­न्या­ने­क­दे­ह­सं­भ­वा­त्तत्र च विद्या­प्र­मो­ष­सं­भ­वा­त्त­त्कृ­त­क­र्म­णा­म­श्ले­षा­भा­वेन मुक्त्यभावः शङ्क्यते, तत्रो­त्त­र­मा­धि­का­रि­काणां देहान्तरे ज्ञानाप्रमोष आग­म­सि­द्धोऽ­स्म­दा­दी­ना­मथ संपत्स्य इति श्रुतिबलेन प्रार­ब्ध­भो­गा­न­न्तरं मुक्तिरिति॥१९॥
इति चतु­र्द­श­मि­त­र­क्ष­प­णा­धि­क­र­णम्॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य प्रथमः पादः॥

वाङ्मनसि दर्श­ना­च्छ­ब्दाच्च॥१॥ सगुणविद्याफलस्य ब्राह्म­लौ­कि­क­स्या­र्चि­रा­दि­ग­ति­प्रा­प्य­स्या­नु­क्रम्य प्राप्त्य­सं­भ­वात् तद­र्थ­मु­त्क्रा­न्ति­नि­रू­पणं व्यापि­ब्र­ह्मा­त्म­भावे निर्गु­ण­वि­द्या­फले निषेधार्थं चेत्यभिप्रेत्य पाद­स्या­ध्या­य­सं­ग­ति­माह –
अपरविद्याफलेति ।
विद्याधिकारो विद्यया संबन्धः ।
भाष्य­ग­त­त­त्त्व­श­ब्दा­र्थ­माह –
धर्मिण इति ।
धर्मिणो हि स्वरूपमेव तत्त्वं धर्मा­णा­मा­रो­पि­त­त्वा­दिति ।
सर्वत्रेति पदं व्याचष्टे –
परत्रेह चेति ।
नन्वत्रापीति ।
किं विशि­ष्या­दि­त्य­नु­षङ्गः ; तथा सिद्धो­त्क्रा­न्ति­क्र­मा­नु­वा­दि­ता­व­दिदं वाक्यम्, तत्र पूर्वं व्यवहरमाण आसीन्नेदानीमिति व्यापारलोपः सिद्धः, न तु वाग्लोपोऽतो वाक्छब्दो वृत्तिलक्षक इति सिद्धा­न्ता­भि­प्रा­य­माह –
सत्यामेवेति ।
मनो­वृ­त्ति­स­त्त्व­क­थनं वाग्वृत्तिलये हेतु­त्वो­प­प­त्त्य­र्थम् । अन्यथा हि तत्प्र­ली­न­वृ­त्तिकं न हेतुः स्यादिति ।
ननु ‘‘षोडश कलाः पुरुषं प्राप्यास्तं गच्छ­न्ती’’त्यत्र वागा­दि­स्व­रू­प­ल­योऽ­प्युक्तः ; एवमत्र किं न स्यादत आह −
आगमो हीति॥१॥
वाङ्म­न­सी­त्यु­दा­हृ­त­वाक्ये वाच एव श्रव­णा­न्ने­न्द्रि­या­न्त­राणां मनसि वृत्तिलय इति भ्रम­म­प­ने­तु­म­वा­न्त­र­सू­त्रम् –
अत एवेति ।
तद्व्याचष्टे –
यत एवेति ।
वृत्ते­र­नु­ग­ति­र्लयः । एषा च सौत्रा­नु­श­ब्द­वाच्या । उपशान्ततेजा उपशान्तौष्ण्यः । पुनर्भवं पुन­र्ज­न्मो­द्दिश्य मनसि संप­द्य­मा­नै­रि­न्द्रियैः प्राणमायातीति शेषः॥२
इति प्रथमं वागधिकरणम्॥

तन्मनः प्राण उत्तरात्॥३॥ अतिदेशोऽयम्, अस्या­धि­का­श­ङ्का­माह –
स्वप्र­कृ­ता­वि­त्या­दिना ।
प्राण­म­न­सो­र­व­न्ना­त्मत्वे हेतुमाह –
प्रकृ­ति­वि­का­र­यो­रिति ।
ननु भवत्वन्नात्मकं मनोऽवात्मकश्च प्राणः, कथमेतावता प्राणे मनसो लयस्तत्राह –
तथा चेति ।
अपा­म­न्न­प्र­कृ­ति­त्वा­द­न्ना­त्मकं मनः प्रत्यवात्मकः प्राणः प्रकृतिरिति तस्मिन्मनसः स्वरूपेण लय इत्यर्थः । प्राणमनसोः किं साक्षा­त्प्र­कृ­ति­वि­का­र­भावः, उत स्वप्र­कृ­ति­भू­ताऽ­ब­न्न­द्वा­रेण ।
आद्यं निरस्य द्विती­येऽ­ति­प्र­स­ङ्ग­माह –
स्वयोनीति ।
एवं हि घटस्यापि शरावे लया­प­त्ति­रि­त्यर्थः । तद्विकारे तासामपां विकारे प्राणेऽ­न्न­वि­का­रस्य मनसो लय इति योजना॥३॥
इति द्वितीयं मनोऽधिकरणम् ॥

सोऽध्यक्षे तदु­प­ग­मा­दिभ्यः॥४॥ मनः प्राण इति वाक्यं विचार्य तदनन्तरस्य प्राण­स्ते­ज­सी­त्यस्य विचारात्संगतिः । तेजःशब्दस्य भूत­वि­शे­ष­व­च­न­त्वा­दि­त्या­दि­हे­तूनां तस्मात्तेजस्येव प्राणवृत्तिलय इति प्रतिज्ञया संगतिः । उपगमनादिश्रुतीः स्वयमेव वक्ष्यति । तेजो­द्वा­रे­णे­त्ये­त­दु­प­पा­द­यति –
तेजसि समापन्नेति ।
प्राण­वृ­त्ति­ल­यात् प्राणस्य जीवे वृत्तिलय उपचर्यत इत्यर्थः ।
समापन्नेति ।
आपत्तिर्लयः । यथा राजानं यात्रायाम् उद्यन्तं परिवारभूताः प्राणिनः समुपयन्ति, एव­मा­त्मा­न­म­न्त­काले सर्वे प्राणा अभिसमागच्छन्ति । कोऽसावन्तकालः? स उच्यते ।
यत्र काल एतद्भवति, तदेव दर्श्यते –
ऊर्ध्वो­च्छ्वा­सीति ।
ऊर्ध्वो­च्छ्वा­सि­त्व­मि­त्यु­प­ग­म­न­श्रु­ते­रर्थः । संमु­ख­मा­ग­म­न­मु­प­ग­म­नम् । आगम्य च गच्छन्तं जीवम् अनु पश्चा­द्ग­म­न­म­नु­ग­म­नम् ।
इन्द्रियग्राम इति ।
आ प्रायणादित्यत्र सविज्ञानशब्दः प्राप्त­व्य­क­र्म­फ­ल­प्र­का­श­न­व­चन इत्युक्तमिह तु तमपरित्यज्य तत्स­हि­ते­न्द्रि­य­स­मु­दा­य­व­चन इत्युक्तम् इति न विरोधः ।
कथं प्राणोऽध्यक्ष इत्यधिकावापः क्रियत इति भाष्यम् ? तदनुपपन्नमिव ? तेजःशब्देन तेजोऽ­ध्य­क्ष­जी­व­ल­क्ष­णा­सं­भ­वा­द­धि­क­श­ब्द­प्र­क्षे­पा­प्रा­प्ते­रत आह –
अधि­का­वा­पोऽ­श­ब्दा­र्थेति ।
श्रौतोऽर्थो हि शब्दे भाति, अतोऽ­श्रौ­ता­र्थ­प्र­क्षे­पोऽ­धि­का­वाप इत्यर्थः ।
लक्षणास्वीकारे हेतुमाह –
श्रुत्यन्तरेति ।
प्राणानां जीवा­नु­ग­मा­दि­वि­षयं वर्णितमेव श्रुत्यन्तरम् ।
ननु तस्य तेजो­द्वा­रे­णा­न्य­था­सि­द्धि­रु­क्तेति, तत्राह –
न च तेजसस्तत्रेति ।
अनि­ला­का­श­क्र­मे­णेति ।
व्यवधानादेव साक्षत्तेजसः स्वरूपलययोगाद् न तद्द्वा­रे­णा­त्मनि प्रलय उपचरितुं शक्यो व्यवधानाश्रयणे च घटादावपि प्रल­यो­प­चा­र­प्र­सङ्ग इत्यर्थः । वृत्तिलयस्तु न कुत­श्चि­त्प्र­मा­णा­दा­त्म­न्य­व­गत इति न तद्द्वाराऽपि प्राण­वृ­त्ति­ल­यो­प­चार इति द्रष्टव्यम् । तेजः­स­ह­च­रि­त­श्चासौ देहबीजभूतश्च पञ्च­भू­त­सू­क्ष्म­रू­पश्च परिवारश्च तस्याध्यक्षो जीवात्मा तस्मि­न्प्रा­ण­वृ­त्ति­लय इत्यर्थः॥४॥ यद्यपि भाष्ये प्राण­सं­यु­क्तोऽ­ध्य­क्ष­स्ते­जः­स­हि­तेषु भूत­सू­क्ष्मे­ष्व­व­ति­ष्ठत इत्युक्तम्; तथापि तद्भू­त­स­हि­तेऽ­ध्यक्षे प्राण­स्ति­ष्ठ­ती­त्ये­वं­परं व्याख्येयम्; सोऽध्यक्ष इत्युपक्रमादिति भावः ।
चोद्यभाष्येऽपि यद्यपि प्राण­स­हि­त­स्या­ध्य­क्षस्य भूते­ष्व­व­स्थि­ति­रा­क्षि­प्यत इति प्रतिभाति; तथापि भूतसहिताध्यक्षे प्राण­स्थि­ति­रा­क्षि­प्यत इत्येवंपरत्वेन योज्यमित्याह –
तेजःसहचरितानीति ।
प्राणे­ना­धा­र­त्वेन संपृ­क्त­स्या­ध्य­क्षस्य भूतैर्मिलित्वा स्थितिं श्रुतिर्न दर्शयतीति भाष्ययोजना हि इयता सूचितेति ।
परि­हा­र­भा­ष्येऽ­प्य­ध्यक्षं प्राप्य पूर्व­व्या­पा­रा­न्त­रा­त्तेज आदिभूतप्राप्तिः प्राणस्य नाभिधीयते, उप­हि­त­प्रा­प्ते­रु­पा­धि­प्रा­प्ति­ना­न्त­री­य­क­त्वा­दि­त्य­भि­प्रे­त्याह –
अध्य­क्ष­सं­प­र्क­व­शा­दिति ।
दृष्टान्तेऽपि व्यवधानेन प्राप्त्यंशो न विवक्षितोऽपि तु यथा स्रुघ्ना­न्न­ग­रा­द्ग­च्छतो मथु­रा­पा­ट­लि­पु­त्र­यो­रु­भयोः प्राप्यत्वेऽपि पाठलिपुत्रं प्राप्यत्वेन निर्दिश्यते, एवमिहापि प्राणेन तेजसोऽध्यक्षस्य चोभयोः प्राप्यत्वेऽपि तेजसीति भूतमात्रस्य प्राप्यत्वं निर्दिश्यत इत्ययमर्थो विवक्षित इत्याह –
अत्रैवेति॥५॥
प्राण एकस्मिन्नेव तेजःसूक्ष्मे नावतिष्ठत इति कार्य­स्था­ने­क­स्या­ने­का­त्म­क­त्वा­दिति च हेतु­प्र­ति­ज्ञ­यो­र्वै­य­धि­क­र­ण्य­मा­श­ङ्क्याह –
स्थूल­श­री­रा­नु­रू­प­मिति ।
कार्या­ने­का­त्म­क­त्वे­ना­नु­मितं कार­णा­ने­क­त्व­मे­कत्र प्राण­स्थि­त्य­भावे हेतु­रि­त्यर्थः॥६॥
इति तृती­य­म­ध्य­क्षा­धि­क­र­णम्॥

समाना चासृ­त्यु­प­क्र­मा­द­मृ­तत्वं चानुपोष्य॥७॥ निरूपिताया उत्क्रा­न्ते­र­प­र­वि­द्या­स्व­न्वय इह प्रदर्श्यते । ननु दह­रा­दि­वि­द्या­वि­दा­मु­त्क्रा­न्ति­र्ना­स्तीति इह पूर्वपक्षः, स न साधुः ; तद्विद्यासु देशा­न्त­री­य­फ­ला­स्वा­व­श्य­क­त्वा­दु­त्क्रा­न्ते­रत आह –
अत्रेति ।
अत्राधिकरणे विष­य­भू­त­द­ह­र­वि­द्या­या­म­मृ­त­त्व­मे­ती­त्य­मृ­त­त्व­प्रा­प्ति­श्रु­ते­र­मृ­त­त्वस्य च पर­वि­द्या­फ­ल­त्वात्, परविद्यावन्तं प्रत्ये­त­द­मृ­तत्वं परविद्यायां चोत्क्रा­न्ति­र्नि­षि­ध्यत इति यो मन्यते तस्य मतेनायं पूर्वपक्षः । वस्तुतस्तु नास्ति पूर्वपक्षः । ‘‘तयो­र्ध्व­मा­य’’न्नि­त्यु­त्क्रा­न्ति­मु­प­न्य­स्या­मृ­त­त्वस्य श्रावितत्वादिति द्योतितं मन्वानग्रहणेन । अथवा - सगुणस्यापि व्यापित्वाद् ब्रह्मणो न तत्प्रा­प्तु­मु­त्क्रा­न्त्य­पे­क्षेति पूर्वपक्षोऽत्र वास्तवः| तस्या मुक्ते सधर्मा अवस्थाः सुषु­प्त्याद्याः, विधर्मा जाग्रदाद्याः ।
नन्वेता अपि प्रतिपाद्यन्ता किं मुक्त्यर्थतया तदनुवादेनात आह –
न त्विति ।
येन हेतुना विद्याप्रकरणे व्याघातस्तेन विदुषः सकाशादविद्वांस उत्क्रा­न्त्या­दि­वि­शे­ष­वन्तो न प्रतिपाद्यन्ते, नापि विद्वान् अमृ­त­त्व­श्रु­ति­वि­रो­धा­दे­वे­त्यर्थः । अनेन न तु विदुष इति भाष्यं व्याख्यातम् । भाष्य­कृ­द्भि­रा­सृ­त्यु­प­क्र­मा­दि­त्ये­तत् प्रति­ज्ञा­वि­शे­ष­ण­त्वेन व्याख्यातम् । अवि­शे­ष­श्र­व­णा­दिति च हेतुरध्याहृतः ।
स्वयं­त्वा­सृ­त्यु­प­क्र­मा­दे­त­देव हेतुत्वेन योजयति –
कुत इति ।
आसृति सृतिपर्यन्तम् उप­क्र­मा­दि­त्यर्थः । ब्रह्म­लो­क­प्रा­प्ति­त­द्ग­त­वि­शि­ष्ट­भो­ग­फ­ल­प­र्य­न्त­त्वा­द्वि­द्या­नु­ष्ठा­न­प्रा­र­म्भस्य ब्रह्मलोकस्य चोत्क्रम्य गत्वैव प्राप्य­त्वा­दस्ति सगुणविद उत्क्रा­न्ति­रि­त्यर्थः । एतेन वास्तवोऽपि पूर्वः पक्षो व्युदस्तः; सगु­ण­ब्र­ह्म­प्रा­प्ति­मा­त्र­स्या­पु­म­र्थ­त्वा­दिति ।
उपक्रमेति प्रकृ­त्य­र्थ­मुक्त्वा पञ्चम्यर्थमाह –
तस्मादिति ।
प्रेप्सते प्राप्तुमिच्छते । उत्क्रान्तिभेद उत्क्रा­न्ति­वि­शेषः । मूर्धन्यनाड्या निष्क्रमणम् ।
वस निवासे इत्य­स्मा­द्धा­तो­रिदं न भवति; तथा सत्य­नु­पो­ष्ये­त्यस्य मुक्त्वे­त्ये­व­म­र्थ­त्वा­पा­तात्, अतो व्याचष्टे –
उष दाहे इतीति॥७॥
इति चतु­र्थ­मा­सृ­त्यु­प­क्र­मा­धि­क­र­णम्॥

तदापीतेः संसा­र­व्य­प­दे­शात्॥८॥ ननु वर्णि­तो­त्क्रा­न्ति­सा­म­र्थ्या­देव सविशेषस्तेज आदिलयः सिध्यति, किं विचारेण? अत आह –
सिद्धां कृत्वेति ।
सत्य­मु­त्क्रान्तिः सावशेषलयेन विना न घटते, स एवाद्यापि न सिद्ध इति समर्थ्यत इत्यर्थः । अत एव सङ्गतिः ।
यदि पूर्वः पक्ष इति ।
अनेन प्राचा­म­प्य­धि­क­र­णानां वृत्ति­ल­य­नि­रू­प­काणां प्रयोजनम् उक्तम् । यस्तु सिद्धे ऽपि वृत्तिलये प्राण­स्या­ध्यक्षे वृत्तिलय उक्तः, स सगु­ण­वि­द्या­या­म­नु­चि­न्त­ना­र्थम् ॥८॥
महत्त्वाद्वेति ।
रूपवदिति हेतु­ग­र्भ­वि­शे­ष­णम् । अनेकशब्दो बहुत्ववाची । अनेकं बहु द्रव्यम् आरम्भकं यस्य तदनेकद्रव्यं तत्त्वा­दि­त्यर्थः । ततश्च लिङ्गशरीरं, चक्षुः­स्प­र्श­ना­भ्याम् उपलब्धव्यम्, मूर्तान्तरैश्च प्रतिहन्येत, महत्त्वे सति रूपवत्त्वाद् बहु­द्र­व्या­र­ब्धत्वे सति रूपवत्त्वाद्वा, कुम्भवदिति । मह­त्त्व­ब­हु­द्र­व्या­र­ब्ध­त्वाभ्यां द्व्यणु­क­व्या­वृत्तिः, रूपवत्त्वेन वायुव्यावृत्तिः ।
चका­र­स्य­प्र­थ­म­सू­त्रा­र्थे­ना­प्य­न्व­य­माह तस्यै­त­त्सू­त्रा­का­ङ्क्षार्थं –
भिन्नक्रम इति ।
चक्षु­ष्य­नै­का­न्ति­क­त्व­मुक्त्वा हेत्वोराह –
स्वरूपमिति ।
तस्य लिङ्गशरीरस्य स्वरूपमेव तादृशम् अनु­द्भू­त­रू­प­स्प­र्शम् । यथा चाक्षुषस्य चक्षु­रा­का­र­प­रि­ण­तस्य तेजस इत्यर्थः ।
दृष्टान्तं साधयति –
अदृष्टवशादिति ।
स्वरूपतः सौक्ष्म्य­मु­प­पाद्य परिमाणतः सौक्ष्म्यमाह –
परिमाणत इति ।
परिमाणत सौक्ष्म्यमस्ति यतो लिङ्गशरीरस्येति शेषः । यथा त्रसरेणवो जाल­क­प्र­वि­ष्ट­सू­र्य­र­श्मि­भ्योऽ­न्यत्र नोपलभ्यन्ते, परिमाणतः सौक्ष्म्यादेवं लिङ्ग­श­री­र­स्या­प्यस्ति सौक्ष्म्यमिति योजना॥९॥
एतदपि हीति ।
स्वच्छत्वमपि सूक्ष्मत्वेन संगृ­ही­त­मु­प­ल­क्षि­त­मि­त्यर्थः ।
पूर्वा­क्त­हे­तुभ्यां लिङ्गशरीरस्य चाक्षु­ष­त्वा­नु­माने उद्भू­त­रू­प­त्व­मु­पा­धि­म­नै­का­न्ति­कत्वं चाभिधायेदानीं प्रती­घा­ता­नु­मा­नेऽ­प्य­स्व­च्छ­त्व­मु­पा­धि­म­नै­का­न्ति­कतां चाह –
यथा हि काचेति ।
काच­द्र­व्य­म­भ्र­स­मू­हश्च यथा स्वच्छस्वभावस्य नेत्रतेजसो न प्रतिघातकं, तद­न्त­रि­त­व­स्तु­नोऽपि नेत्रे­णो­प­ल­म्भा­देवं सर्वमेव मूर्तं वस्तुजातमस्य लिङ्ग­श­री­र­स्ये­त्यर्थः । अस­क्त­त्वा­प­र­नाम्नो नोपमृद्यत इति शेषः॥१०॥
प्राप्तिर्लाभः । दृष्टं त्वगिन्द्रियेण ज्ञानम् । श्रुतं कर्णौ पिधाय श्रवणम् । ताभ्यां प्रमा­णा­भ्या­मू­ष्म­णोऽ­न्व­य­व्य­ति­रेकौ भावाभावौ । तद्बलादस्ति स्थूल­दे­हा­ति­रिक्तं किंचि­दि­त्यर्थः॥११॥
इति पञ्चमं संसा­र­व्य­प­दे­शा­धि­क­र­णम्॥

प्रतिषेधादिति चेन्न शारीरात्॥१२॥ व्यव­हि­त­सं­ग­ति­र्भाष्य एवोक्ता । सूक्ष्मं शरीरं यस्य स जीवात्मा तथोक्तः । ननु विद्वानपि चेदु­त्क्रा­मे­त्कथं तस्य मोक्षसिद्धिरत आह –
स पुनरिति ।
एकस्मिन्पक्ष इति ।
सिद्धान्ते इत्यर्थः॥१२॥
यदुक्तं हिर­ण्य­ग­र्भ­प­र्य­न्तम् उत्क्रान्तस्य जीवस्य लिङ्गशरीरात् प्रलय इति, तत्राह –
संसारिण एवेति ।
यत्रायं पुरुषो म्रियत इति निर्दे­शा­त्सं­सा­र­म­ण्डले वर्त­मा­न­स्ये­त्यर्थः ।
मध्ये कश्चिच्छङ्कते –
नन्विति ।
बृहदारण्यके हि पञ्चमाध्याये आर्त­भा­ग­प्र­श्न­गतः शरी­रा­पा­दा­न­को­त्क्रा­न्ति­प्र­ति­षे­धोऽ­स्त्व­वि­दुषो यत्रायं पुरुष इति पुरु­ष­मा­त्रो­पा­दा­नात्, षष्ठा­ध्या­य­ग­तस्तु, ‘‘न तस्मात्प्राणा उत्क्रामन्ती”ति जीवा­पा­दा­न­को­त्क्रा­न्ति­प्र­ति­षेधो भवतु विदुषः, तथा च ब्रह्मविद उत्क्रा­न्ति­सिद्धेः, त्वत्प­क्षा­सि­द्धि­रि­त्यर्थः ।
आर्त­भा­ग­प्र­श्नेऽपि ‘‘यदिदं किं च मृत्योरन्नं का स्वित्सा देवता यस्या मृत्यु­र­न्न’’मिति मृत्यु­मृ­त्योः­प­र­दे­व­तायाः प्रस्तुतत्वात्, तदभिज्ञस्य विदुष एवो­त्क्रा­न्ति­नि­षेध इति साम्यं वाक्य­द्व­य­स्ये­त्याह –
तत्सामान्यादिति ।
अभेदोपचारेणेति ।
उत्क्रा­न्त्य­व­धे­रु­च्छ्व­य­ना­दि­भि­र्नि­र्दे­श­स्या­न्यथा नेतु­म­श­क्य­त्वा­त्त­द्व­शे­ना­त्रो­प­चार इत्यर्थः ।
पञ्चमीपाठे उपचाराश्रयणे न्यायद्वयमाह –
अपि चाद्वैतेति ।
भाष्यो­दा­हृ­त­स्मृतिं व्याचष्टे –
अपदस्य हीति ।
पद्यत इति पदं गन्तव्यम्, अन्यद्यस्य नास्ति स ब्रह्मविद् अपदः ब्रह्मविदो मार्गे ब्रह्म­प्रा­प्ति­सा­धने ज्ञाने ये पदैषिणः निष्ठेच्छवः तेऽपि देवा उत्कृष्टाः, किमु तन्निष्ठाः, किंतु परं मुह्यत्यत्र मन्दभाग्या इत्यर्थे स्मृतिं योजयति - पदै­षि­णोऽ­पीति॥१३॥१४॥
इति षष्ठं प्रति­षे­धा­धि­क­र­णम्॥

तानि परे तथा ह्याह ॥१५॥ इत्या­द्य­धि­क­र­ण­प­ञ्च­कस्य संगतयो भाष्य एव विशदाः । परस्मिन् पुरुषे करणलयवचने सति संश­या­नु­प­प­त्ति­मा­श­ङ्क्याह –
प्रति­ष्ठा­वि­ल­य­न­श्रु­त्यो­रिति ।
प्रति­ष्ठ­यो­र­वा­न्त­र­प्र­कृ­ति­म­हा­प्र­कृत्योः, लिङ्ग­श­री­र­वि­ल­य­न­श्रु­ति­गताः कला ‘‘एवमेवास्य परि­द्र­ष्टु’’रिति श्रुती तयो­र्वि­प्र­ति­प­त्ते­र्वि­मर्शः संशय इत्यर्थः ।
पर­स्मि­न्ना­त्म­नीति ।
लीयन्त इति शेषः ।
ननु बाह्ये­न्द्रि­याणि दश, भूतानि पञ्च, मन एकमिति षोडश कलाः सन्ति, कथं श्रुतौ पञ्च­द­श­त्व­नि­र्दे­श­स्त­त्राह –
घ्राणेति ।
घ्राणस्य हि पृथिव्युपादानं, मनसश्च सैवा­न्न­म­य­त्व­श्रु­ते­रत एक­प्र­कृ­ति­क­त्व­मि­त्यर्थः । सांव्य­व­हा­रि­क­प्र­मा­णे­ना­नु­मा­नेन करणानां भौतिकत्वावगमाद् भूतेषु लयोऽवगतः, भूतसूक्ष्माणां चासाधारणानां साधारणेषु भूतेषु प्राणानां वायौ तात्त्वि­क­प्र­मा­णैस्तु वेदा­न्तै­र्वि­श्वस्य ब्रह्म­वि­व­र्त­त्वा­व­ग­माद् ब्रह्मणि बाध इत्यर्थः । यथा नद्यः समुद्रे लीयन्ते एवमेव पुरुषे कलाः, आसां कलानां नामरूपे शक्त्यात्मके अपि भिद्येते, स च विद्वानकलः कलारहितः सन्नमृतो भवति॥१५॥
इति सप्तमं वागा­दि­ल­या­धि­क­र­णम्॥

अविभागो वचनात् ॥१६॥
अति­म­न्दा­म­प­ने­तु­मिति ।
श्रुति­वि­रो­धे­ने­त्यर्थः॥१६॥
इत्य­ष्ट­म­म­वि­भा­गा­धि­क­र­णम्॥

तदोकोऽग्रज्वलनं तत्प्र­का­शि­त­द्वारो विद्या­सा­म­र्थ्या­त्त­च्छे­ष­ग­त्य­नु­स्मृ­ति­यो­गाच्च हार्दानुगृहीतः शताधिकया ॥१७॥ प्रज्वलनं कर्मवशाद् भवि­ष्य­त्फ­ल­प्र­काशः । तस्या­नु­स्म­र­न्निति कर्मणि षष्ठी । ननु मूर्धन्य नाड्या देह­मा­त्र­व्या­पि­त्वा­त्कथं तया ब्रह्म­लो­क­प्रा­प्ति­स्त­त्राह –
हृदयान्निर्गता हीति ।
ता आसु नाडीषु सृप्ता इति श्रुति­सि­द्ध­त्वा­दि­त्यर्थः । विष्वङ् नानागतयः॥१७॥
इति नवमं तदोकोऽधिकरणम्॥

रश्म्य­नु­सारी॥१८॥ सूत्रं योजयति –
रात्रावहनि वेति॥१८॥
सिद्धा­न्त­हे­तु­स्तू­त्त­र­सू­त्र­ग­तो­त्त­रा­व­यव इति ।
प्रमा­णा­न्त­रा­दिति ।
निश्य­प्यौ­ष्ण्य­ग्रा­ह­का­दि­त्यर्थः । अनेन सौत्रश्चशब्दो व्याख्यातः ।
व्याख्या­न­पू­र्वकं वाक्यमुदाहरति –
अमुष्मादिति ।
चन्द्र­ग­त­प्र­का­शा­न्य­था­नु­प­प­त्त्याऽस्ति रात्रौ सूर्य­र­श्मि­रि­त्याह –
आदिग्रहणेति ।
ननु चन्द्रमस एव प्रकाशोऽस्तु, तत्राह –
अम्मयेनेति ।
रत्रा­वु­त्क्रा­न्त­स्या­हः­प्र­तीक्षा नास्तीत्यत्र हेतुमाह –
यावत्तावदिति ।
स याव­त्क्षि­प्ये­न्म­न­स्ता­व­दा­दित्यं गच्छतीति श्रुतौ याव­च्छ­ब्दो­प­ब­न्धेन शैघ्र्य­प­रे­णा­न­पेक्षा गतिः श्रुता, एवं चापेक्षा न शक्यावगमा; याव­त्ता­व­च्छा­ब्द­यो­रु­प­ब­न्धे­नैव निरोधादित्यर्थः । अथ विशे­ष­वि­ज्ञा­नो­प­श­मा­न­न्त­रम् । एतदिति क्रियाविशेषणम् । एत­त्क­रो­ती­त्यर्थः ।
तदेव दर्शयति –
अस्मादिति ।
यद्रात्रौ ताप उपलभ्यते इति एतदहरेव रात्रौ दधाति सविता॥१९॥
इति दशमं रश्म्यधिकरणम्॥

अतश्चायनेऽपि दक्षिणे॥२०॥ प्राश­स्त्य­प्र­सि­द्धे­र­वि­द्व­द्वि­ष­य­त्वेन सङ्कोचे हेतुमाह –
अतः­प­द­प­रा­मृ­ष्टेति ।
प्रतीक्षणमित्यत उपर्यविदुष इति द्विती­या­ब­हु­व­च­नम्॥२०॥
अग्नि­र्ज्यो­ति­रा­दीति ।
अग्नि­र­र्चि­रा­दि­दे­वता ज्योति­रा­दि­त्य­दे­वता ।
विषयव्यवस्थयेति ।
स्मार्त­का­ल­वि­धे­र्नि­र्गु­ण­पु­रु­ष­मा­त्र­वि­वे­क­चि­त्त­वृ­त्ति­नि­रो­धा­त्म­क­सां­ख्य­यो­ग­वि­ष­य­त्वेन श्रौता­ति­वा­हि­क­दे­व­ता­विधेः सगु­ण­वि­द्या­वि­ष­य­त्वेन च व्यव­स्थ­ये­त्यर्थः ।
अथ तु प्रत्य­भि­ज्ञा­न­मिति ।
स्मृता­व­ग्न्या­दि­शब्दैः श्रौता­र्चि­रा­दि­दे­व­तानां प्रत्य­भि­ज्ञा­न­मि­त्यर्थः॥२१॥
इत्येकादशं दक्षि­णा­य­ना­धि­क­र­णम्॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­क­श्री­म­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य द्वितीयः पादः॥२॥

अर्चिरादिना तत्प्रथितेः॥१॥
भिन्नेति ।
मार्गा अर्चिरादयो मिथः परस्परमनपेक्षा न त्वने­क­वि­शे­ष­ण­वि­शिष्ट एको मार्गः । कुतः? भिन्न­प्र­क­र­ण­त्वा­दि­भि­र्यत्र विद्यैक्येऽपि गतिविशेषेणाभेदो यथा पञ्चा­ग्नि­वि­द्यायां देवलोकादेस्तत्र भिन्न­प्र­क­र­ण­स्थ­त्वा­द्वि­द्या­भेदे तु भिन्नो­पा­स­न­शे­ष­त्वा­दिभिः ।
त्वरात इति ।
स याव­त्क्षि­प्ये­न्मन इति वेगा­व­ग­ते­रि­त्यर्थः ।
एतद्व्याचष्टे –
गन्तव्यमिति ।
अव­धृ­ते­रि­त्ये­त­द्वि­वृ­णोति –
अथैतैरिति ।
एकस्मिन् गन्त­व्येऽ­ने­क­मा­र्ग­वै­य­र्थ्य­मा­श­ङ्क्याह –
विकल्पेरन्निति ।
एकत्वेऽपीति ।
पथो मार्गस्य नैव नानात्वम् ; कुतः? तस्यै­क­त्वेऽ­प्य­ने­कै­र्गु­ण­भूतैः पर्व­भि­र­व­च्छे­दै­र्वा­य्वा­दिभिः संगमसंभवेन गुणानां प्रधानेन समु­च्च­यो­प­पत्तेः, मार्ग­भे­द­क­ल्प­नायां च गौरवाद्, आदि­त्या­दि­ब­हु­वि­शे­ष­णानां च सर्वत्र प्रत्य­भि­ज्ञा­न­लि­ङ्गेन मार्गै­क्या­व­ग­मा­दि­त्यर्थः ।
भिन्न­प्र­क­र­ण­स्थत्वं ब्रह्म­व­दे­क­त्वेऽ­प्य­वि­रु­द्धम्; भिन्नो­पा­स­न­शे­षत्वं च भिन्नो­पा­स­न­क­र्तृ­चै­त्र­व­द­वि­रु­द्धम् ;एक­मा­र्ग­स्या­ने­क­स्या­ने­क­प­र्व­सं­भवं लोके दर्शयति –
सपर्वा हीति ।
भागिभेदकल्पना अवयविभेदकल्पना ।
यदु­क्त­म­व­धृ­ते­रिति, तत्राह –
न चैकं वाक्यमिति ।
अनपेक्षतामिति ।
अर्चि­रा­द्य­न­पे­क्ष­ता­मि­त्यर्थः ।
विधिसामर्थ्येति ।
न खल्विति रश्मिभिरिति रश्मि­स­त्ता­बो­ध­सा­म­र्थ्य­सिद्धं रश्मी­ना­म­सं­ब­न्ध­व्य­व­च्छेदं मार्गोऽनुवदति; निशायां रश्म्य­भा­व­श­ङ्का­म­प­ने­तु­मि­त्यर्थः । यच्चोक्तम् त्वरात इति, तत्परिहारार्थं भाष्यं –
त्वरावचनं त्वर्चि­रा­द्य­पे­क्षा­या­मपि शैर्घ्या­र्थ­त्वाद् नोपरुध्यत इति, तदनुपपन्नम्; पूर्वपक्षे शैर्घ्य­स्यै­वा­न­पे­क्ष­त्व­सा­ध­क­त्वे­नो­प­पा­दि­त­त्वा­दतो व्याचष्टे –
न खल्विति ।
पथि भेदं पथो मार्गस्य भेदम् ।
अन्यतः कुत­श्चि­द्ग­न्त­व्या­दिति ।
स्वर्गा­दे­रि­त्यर्थः । तत्र हि धूमादिमार्गेण गमनं, कदा­चि­त्प्र­ब­ल­क­र्मभिः प्रति­ब­न्धा­द्वि­ल­म्बे­तापि न त्वत्र; आ प्राय­णा­दु­पा­सी­न­स्या­न्त्य­प्र­त्य­या­व­श्य­म्भा­वात्, ततश्च गन्त­व्या­न्त­रा­पे­क्षया शैर्घ्या­र्थ­त्वा­दिति भाष्यं व्याख्याताम् ।
भूयांसीति भाष्ये मार्गैक्यं किमि­त्य­र्चि­रा­दि­ने­त्युक्तं, न पुना रश्म्यादिनेति शङ्कोत्तरमिव भाति; तथा सति चातोऽ­पी­त्यु­प­रि­त­नोऽ­पि­शब्दो न सङ्गच्छेतेति मत्वा व्याचष्टे –
अयमर्थ इति ।
त उपासकाः परा दीर्घाः समा यस्य स परावान् ब्रह्मा, तस्य पराः समावसन्ति तस्मि­न्व­स­न्ती­त्यन्या श्रुतिः, ‘‘सा ये’’ त्यन्या श्रुतिः । जितिर्जयः व्यष्टि­र्व्याप्तिः । तद्य इति चापरा ब्रह्म­च­र्ये­णा­नु­वि­न्द­न्त्यु­पा­सते तेषामेव ब्रह्मलोकः प्राप्यत इति शेषः॥१॥
इति प्रथ­म­म­र्चि­रा­द्य­धि­क­र­णम्॥

वायु­म­ब्दा­द­वि­शे­ष­वि­शे­षा­भ्याम्॥२॥ अत्र तेने­त्य­स्या­दि­त्य­मा­ग­च्छ­ती­त्ये­त­त्प­र्यन्तं संब­न्धा­सं­ब­न्धाभ्यां संशयः । पाठ­क्र­मा­र्थ­क्र­माभ्यां संशय इति कैश्चि­दु­क्त­म­यु­क्तम्; प्रब­ल­दु­र्ब­लाभ्यां सन्दे­हा­न­व­ता­रात्, पूर्व­त्रा­र्चि­रा­दि­मा­र्ग­प­र्व­प्र­त्य­भि­ज्ञा­ना­त्स­र्वत्र गत्यैक्यमुक्तम् । इहापि ‘‘स एतं देवयानं पन्थानम् आप­द्या­ग्नि­लो­क­मा­ग­च्छति स वायु­लो­क­मि’’त्य­त्रा­र्थेऽ­र्चि­रा­त्म­का­ग्न्या­न्त­र्य­प्र­त्य­भि­ज्ञा­ना­द­र्चि­षोऽ­न­न्तरं वायुर्निवेशनीय इति सङ्गतिः । नन्वत्र पाठा­द­ग्न्या­न­न्तर्यं वायो­र्व­क्तु­म­श­क्यम् ; पाठस्य दुर्बलत्वाद्, इत्याशङ्क्याह –
श्रुत्याद्यभाव इति ।
ननु ‘‘स वायुमागच्छति स वायुस्तस्मै तत्र विजिहीते स्वाव­य­वा­न्वि­ग­मय्य छिद्रं करोती’’ति ‘‘यथा रथचक्रस्य खं छिद्रं तेनोर्ध्वं आक्रमते स आदि­त्य­मा­ग­च्छती’’ति वायो­रा­दि­त्या­त्पू­र्व­त्व­रूपः क्रमस्तेनेति श्रुत्या प्रतीतः, तद्बलात्स एतमित्यत्रत्यः पाठक्रमो बाध्यतामत आह –
ऊर्ध्वक्रमणेति ।
द्वितीयार्धं व्याचष्टे –
तस्या इति ।
तेनेति श्रुति­र्वा­यु­कृ­ता­व­का­श­स्यो­र्ध्व­दे­श­मा­त्र­प्राप्तौ हेतुत्वमाह, नादित्यगमने इत्यर्थः ।
ननु कथ­मा­दि­त्य­ग­म­न­मा­त्र­प्र­ती­ति­स्ते­ने­त्य­स्या­दि­त्य­मा­ग­च्छ­ती­त्य­ने­ना­प्य­नु­षङ्गः किं न स्यादत आह –
न चेति ।
आकाङ्क्षायां ह्यनुषङ्गः, इह तु तेनेत्यस्य सन्नि­हि­तो­र्ध्वा­क्र­म­णेन नैरा­का­ङ्क्ष्यान्न व्यव­हि­ता­दि­त्या­ग­म­नेन संबन्ध इत्यर्थः ।
नन्वा­दि­त्य­प्रा­प्ते­र्वा­यु­द­त्ता­व­का­शेन वाय्व­ति­क्र­मा­द्वि­नाऽ­नु­प­प­त्ते­स्ते­ने­त्ये­त­दा­दि­त्ये­ना­प्य­नु­ष­ज्य­ताम्, अत आह –
न चादि­त्या­ग­म­न­स्येति ।
छिद्रे­णो­र्ध्व­दे­श­प्रा­प्ते­र्जा­त­त्वा­त्पु­न­रा­दि­त्या­ग­म­नस्य तेने­त्य­स्मि­न्न­पेक्षा नास्तीत्यर्थः ।
क्वचिदिति ।
वरु­ण­लो­का­दा­वि­त्यर्थः । अत्रो­र्ध्वा­दि­त्य­लो­क­श­ब्द­यो­र्वि­शे­ष­ण­वि­शे­ष्य­भा­वा­दे­का­र्थ­त्वम् ।
तथा च तेनेति श्रुत्या वायु­द­त्त­स्या­दि­त्य­ग­मनं प्रति हेतुत्वस्य नियतप्राक् सत्त्वा­त्म­क­त्वेन क्रमरूपस्य प्रतीतेः श्रुत्या पाठक्रमबाध इति सिद्धान्तयति –
ऊर्ध्वशब्द इति ।
उभयपाठ इति ।
उभयोः संव­त्स­र­दे­व­लो­क­यो­र­श्रु­त­स्थ­लेऽपि पाठे कर्तव्ये सतीत्यर्थः ।
माससंबन्धादिति ।
माससंवत्सरयोः काल­त्व­सा­म्या­दि­त्यर्थः ।
कार्य­का­र­ण­भा­व­म­प्याह –
मासा­र­भ्य­त्वा­च्चेति ।
देवलोकः संवत्सरस्य परस्ताद्भवतु, वायुः क्व निवे­श­नी­य­स्त­त्राह –
तत्रेति ।
‘‘तेन स ऊर्ध्व आक्रमते स आदि­त्य­मा­ग­च्छति’’ इति वायो­रा­दि­त्या­न­न्त­र्याय निरन्तरत्वाय संव­त्स­रा­दि­त्यस्य स्थाने एतस्योपरि देवलोकं देव­लो­का­द्वा­यु­मिति पठि­त­व्य­मि­त्यर्थः ।
ननु सूत्रं वायु­म­ब्दा­दि­त्ये­ता­व­न्मात्रं, कथ­म­धि­का­वा­प­स्त­त्राह –
वायुमब्दादिति त्विति ।
वाचकमेव बोधकमेवेत्यर्थः । सूत्रे वायुशब्दो देव­लो­को­प­ल­क्ष­णार्थ इति भावः ।
ननु यदि संव­त्स­रा­द्दे­व­लो­का­द्वायुं वायो­रा­दि­त्य­म­भि­सं­भ­व­न्तीति क्रमः सूत्रोक्तः, कथं तर्हि भाष्ये वायोः संव­त्स­रा­त्प­र­त्व­मा­दि­त्या­द­र्वाक्त्वं चोक्तमत आह –
तथापीति ।
छान्दो­ग्य­पा­ठ­मा­त्रा­पे­क्षया हि संव­त्स­रा­दा­दि­त्य­मि­त्ये­ता­व­न्मा­त्र­श्र­व­णा­न्मध्ये वायुनिवेशे वायोः संव­त्स­रा­त्प­र­त्व­मा­दि­त्या­द­र्वाक्त्वं च सिध्यति; संवत्सरादुपरि वाज­स­ने­य­क­ग­त­दे­व­लो­का­न­यने तु देव­लो­क­स­हि­त­वा­यो­र­ब्दा­दि­त्या­न्त­रा­ल­व­र्त्ति­त्व­मि­त्यर्थः ।
उक्तेऽर्थे भाष्यं संवादयति –
तदिदमिति ।
प्रजापतिलोकमिति ।
प्रजा­प­ति­र्वि­राट् आपू­र्य­मा­ण­प­क्षा­च्छु­क्ल­प­क्षा­त्स­का­शा­न्मा­सा­ना­र्च्छति यान् षण्मासान् येषु षण्मा­से­ष्वा­दित्य उदग् उत्तरां दिशमेति॥२॥
इति द्वितीयं वाय्वधिकरणम्॥

तडितोऽधि वरुणः संबन्धात्॥३॥ स वायुलोकं स वरु­ण­लो­क­मि­त्य­त्रोक्ता वरुणादयो न ताव­त्पा­ठ­क्र­मा­द्वा­यो­रु­परि निविशेरन् ; तेनादित्यमिति श्रुति­वि­रो­धा­देव, न च वायोरिव स्थान­वि­शे­ष­सं­ब­न्ध­ग्रा­ह­क­स्त्येषां श्रुत्यादिकमतो नामीषां मार्गे निवेश इति पूर्व­प­क्ष­मा­शङ्क्य सिद्धान्तमाह –
तडिदन्त इति ।
अर्चि­रा­द्येऽ­ध्व­नि­मार्गे तडि­द्वि­द्यु­दन्ते श्रूयते चन्द्रमसो विद्युतमिति । अप्पतिरपां पतिश्च वरुणस्तडितः परः , कुत­स्त­त्स­म्ब­न्धा­द­प्प­ति­त्व­मेव तत्सम्बन्धे हेतुः । तडित उपरि सजलजलदा दृश्यन्ते , जलाधिपतिश्च वरुण इति । तथा सती­न्द्रा­दि­र­प्पतेः पर इष्यते ।
कस्मादत आह –
आगन्तूनामिति ।
आगन्तूनां स्थान­वि­शे­ष­सं­ब­न्ध­र­हि­ता­ना­मन्ते निवेशः प्रथमकाण्डे हि प्रसाधितः । तथा चेन्द्रा­दि­र­प्या­ग­न्तु­क­त्वा­दन्ते वरुणस्योपरि निविशेतेत्यर्थः ।
न केव­ल­मा­ग­न्तु­क­त्वा­दन्ते निवेशोऽपि तु पाठाच्चेत्याह –
पठ्यते चेति ।
‘‘अग्नये कृत्तिकाभ्यः पुरो­डा­श­म­ष्टा­क­पालं निर्वपेदि’’ति नक्ष­त्रे­ष्टि­र्दा­र्श­पौ­र्ण­मा­सिकी विकृतिराम्नाता । तत्रोपहोमाः श्रूयन्ते - ‘‘सोऽत्र जुहोति अग्नये स्वाहा कृत्तिकाभ्यः स्वाहे’’त्यादयः । सन्ति च प्रकृतेरतिदेशतः प्राप्ता नारिष्टहोमाः । तत्र किमुपहोमाः पूर्व­म­नु­ष्ठेयाः, उत नारिष्टा इति संशये प्रधा­न­भू­त­न­क्ष­त्रे­ष्ठ्य­न­न्तरं प्रत्यक्षपठिता उपहोमा अव्यवधानेन पूर्व­म­नु­ष्ठेयाः, आति­दे­शि­का­स्त्व­प्र­त्य­क्ष­त्वात् तद्व्यवधानेन पश्चात्कर्तव्या इति प्रापय्य पञ्चमे राद्धान्तितम् – अन्ते तु बादरायणस्तेषां प्रधानशब्दत्वा (जै.अ.५.पा.२.सू.१९)दिति । अन्ते वैकृतानां प्रयोगः । प्रकृतौ हि क्लृप्तो­प­का­र­म­ङ्ग­मु­प­का­रा­का­ङ्क्षिणी विकृतिः प्रथमं गृह्णाति, ततः प्राकृ­त­ना­रि­ष्ट­हो­मानां प्रधा­न­श­ब्द­गृ­ही­ता­त्प्रा­थ­म्य­मि­त­रेषां तु सन्नि­धि­व­शा­दा­काङ्क्षां परिकल्प्य पश्चा­त्प्र­धा­न­सं­ब­न्ध­भा­जा­मन्ते प्रयोग इति॥३॥
इति तृतीयं तडिदधिकरणम्॥

आति­वा­हि­क­स्त­ल्लि­ङ्गात्॥४॥ अर्चिरादीनां क्रमं निरूप्य स्वरूपमिह चिन्त्यते । संबन्धात्तडित उपरि वरुण इत्युक्तमिहापि सादृ­श्य­सं­ब­न्धा­द­र्चि­रा­दीनां मार्ग­प­र्व­त्व­मिति पूर्वपक्षमाह –
मार्गेति ।
न चैषां त्वावधिकानामिति ।
अवधिषु देशसीमासु स्थित्वा मार्गवाहका आवधिकाः ।
श्लोक­ग­त­भ­र्तृ­श­ब्दा­र्थ­माह –
जीवात्मन इति ।
नन्वर्चिष इत्या­दि­प­ञ्च­मी­भि­र­र्चि­रा­दीनां भोक्तृ­ग­म­न­हे­तु­त्व­प्र­ती­ते­श्चे­त­न­त्व­मिति, तत्राह –
अपि चेत्यादिना श्लोकेन ।हे­ता­वि­त्य­धि­कारे ‘‘विभाषा गुणे ऽस्त्रिया’’मिति विहिता हेतुपञ्चमी नागु­णा­द्दृ­श्यते, किंतु गुणादेव, तत्रोदाहरणमाह –
जाड्यादिति ।
यद्यर्चिरादयो वोढारः प्रापकास्तर्हि विद्युदादयोऽपि प्रापकाः स्युस्तत्र विद्यु­त्स्था­ना­दा­र­भ्याऽ­मा­नवो वोढा न श्रूयतेऽन्यत एव वह­न­सि­द्धे­रि­त्याह –
अपि चेति ।
चेतनस्य स्वप्र­य­त्न­ही­न­स्यो­र्ध्व­दे­श­ग­मनं चेत­ना­न्त­रा­धी­न­मिति सिद्धान्तयति –
संपि­ण्ड­क­र­णा­ना­मिति ।
संकु­चि­त­क­र­णा­ना­मि­त्यर्थः ।
तत्र हेतुः –
सूक्ष्म­दे­ह­व­ता­मिति ।
भूत­सू­क्ष्मा­त्म­क­सू­क्ष्म­दे­ह­मा­त्र­वतां स्थूल­दे­ह­र­हि­ता­ना­मि­त्यर्थः ।
न चाग्न्याद्या इत्या­दि­श्लो­क­भागं व्याचष्टे –
तद्यदीति ।
कारस्करो वृक्षविशेषः । मेरुमभितो भूमिरिलावृतम् । सति श्रुतानां चैतन्यसंभव इति । धर्म­मा­त्र­क­ल्प­ना­ला­घ­व­मु­क्तम् ।
न्याय­सि­द्धेऽर्थे द्योतकं लिङ्गमाह –
इममेवेति ।
ननु वैशे­षि­कै­र­मू­र्त­वृ­त्ति­वृ­त्त्य­प­र­जा­त्या­धारे गुणत्वं परिभाष्येते, न चार्चि­रा­द­य­स्त­थेति कथं तच्छब्देषु हेतुपञ्चमी? तत्राह –
न च वैशेषिकेति ।
गन्तॄन् प्रधानात् पत्यर्चिरादेः सहायत्वादस्ति गुणभूतत्वं लोक­सि­द्ध­मि­त्यर्थः॥४॥५॥
सामान्यवचन इत्यादिश्लोकं व्याचष्टे –
यथेत्यादिना ।
ननु यदि विद्यु­त्स्था­ना­दा­र­भ्या­मा­नवो नेता, तर्हि वरु­णा­दी­ना­म­ने­तृत्वं वैषम्यं वाच्यम्, उभयनेतृत्वे वैयर्थ्यादत आह –
वरुणादयस्त्विति ।
अमानवः प्रधानो नेता, वरुणादयस्तु नयनेऽपि सहकारिण इत्येवं वैषम्यम्, न वोढृत्वे वैष­म्य­मि­त्यर्थः॥६॥
इति चतु­र्थ­मा­ति­वा­हि­का­धि­क­र­णम्॥

कार्यं बादरिरस्य गत्युपपत्तेः॥७॥ गति­नि­रू­प­णा­न­न्तरं गन्तव्यमिह निरूप्यते । पूर्वपक्षयति –
मुख्यत्वादिति ।
ब्रह्म­श­ब्द­स्येति शेषः ।
ननु ब्रह्मशब्देन ब्रह्मा कम­ला­स­नोऽ­प्य­भि­धी­य­तेऽत आह –
नपुंसकमिति ।
गुणकल्पनयेति ।
कारणवाचिशब्दस्य कोऽर्थ उप­चा­र­क­ल्प­न­ये­त्यर्थः ।
अमृ­त­त्व­प्रा­प्ते­रि­त्ये­त­द्व्या­चष्टे –
अपि चेति ।
पर­प्र­क­र­णा­द­पी­त्ये­त­द्व्या­क­रोति –
किंचेति ।
शाखामृगो वानरः ।
न्यग्रोधेऽपि न प्राप्त­प्रा­प्ति­र­व­य­वा­ना­म­प्रा­प्तानां पुनः प्राप्ते­रि­त्या­श­ङ्क्याह –
न चैते इति ।
शाखामृगोऽवयवी न न्यग्रोधावयविना युज्येत, कुतस्तदवयवस्य शाखामृगावयवस्य न्यग्रोधावयवेन योगादित्यर्थः ।
ब्रह्म­लो­क­मि­त्यत्र लोकशब्दविवरणम् –
स्वयंप्रकाशमिति ।
सिद्धान्तं संगृह्णाति –
कार्यमिति ।
अर्चि­रा­दि­ग­ति­रु­पा­स­कान् कार्यब्रह्म प्राप­ये­त्त­स्या­प्रा­प्त­पू­र्व­त्वेन गन्तुं योग्यत्वाद्, न तु परं ब्रह्म; तस्य जगदात्मकत्वेन प्राप्त­त्वा­दि­त्यर्थः ।
ननु प्राप्तमपि परं ब्रह्म­प्रा­प्यतां, न्यग्रोध इव शाखा­मृ­गे­णे­त्यु­क्त­मि­त्या­शङ्क्य विद्य­याऽ­वि­द्या­दाहे भेदबाधादिह न तादृश्यपि गतिरित्याह –
तत्त्व­म­सी­त्या­दिना ।
प्राप्त­प्राप्तिं दृष्टा­न्तेऽ­ङ्गी­कृत्य प्रकृते वैष­म्य­मु­क्त­मि­दा­नी­म­न­ङ्गी­कु­र्व­न्नाह –
न चेति ।
अप्राप्तस्य न्यग्रोधावयविन एवा­व­य­वा­न्त­रो­प­हि­तस्य संबन्धितया उत्तरस्याः प्राप्ते­रु­प­प­त्ते­रि­त्यर्थः ।
ननु तर्ह्यवयवपरंपरा परमाणुपर्यन्तं धावेदिति संयो­ग­स्या­प्र­त्य­क्ष­त्व­मा­पा­दि­तम्, अत आह –
एतदपि चेति ।
काल्प­नि­क­वि­भा­ग­म­पेक्ष्य न्यग्रो­ध­प्रा­प्त्य­प्राप्ती । ते च वास्तवे ब्रह्मणि प्रतिबुद्धे न युक्ते इत्यर्थः ।
ननु ज्ञानोत्तरकालं देह­धा­र­ण­व­द­र्चि­रा­दि­ग­ति­र्दे­श­वि­शे­ष­प्रा­प्तये किं न स्यादिति शङ्कते –
विदुषोऽपीति ।
अमृ­त­त्वा­दि­लि­ङ्गानां न्यायैः साकं विरोधिनाम् ।
दृढ­न्या­य­व­ती­र्वक्ति बाधिका विशदाः श्रुतीः॥
ब्रह्मैव सन्नित्यादीनां नोपा­या­न्त­रा­पे­क्षे­त्य­भि­संधिः श्रुतेर्लक्ष्यत इति योजना ।
श्रुत्य­नु­ग्रा­हकं न्यायमेव दर्शयति –
उपपन्नं चेति ।
लिङ्गाभासमणुः पन्था इत्या­द्यु­द्धुष्य भास्करः । मोह­य­न्न­प­रा­न्म­न्दा­न­ने­नै­वा­नु­क­म्प्यते॥
यदुक्तं विदुषोऽपि सांसा­रि­क­ध­र्मा­नु­वृ­त्ति­वद् गत्यु­प­प­त्ति­रिति, तत्राह –
न च छाया­मा­त्रे­णे­त्या­दिना ।
यदा अश्वमेधादीनि कर्मा­ण्य­दृ­ष्टा­र्थानि न फलन्ति, तदा­नी­म­दृ­ष्टा­र्था­ना­म­र्चि­रा­दि­मा­र्ग­चि­न्त­ना­दीनां का कथेत्यर्थः ।
मा भूत् ज्ञानो­त्त­र­का­ल­म­र्चि­रा­दि­मा­र्ग­चि­न्त­न­म­वि­दु­षस्तु ब्रह्म­प्रा­प्त्यर्थं तद्वि­धी­य­ता­मि­त्या­श­ङ्क्याह –
न चार्चि­रा­दी­त्या­दिना ।
अविदुष इति द्विती­या­ब­हु­व­च­नम् ।
तमेव विदित्वेति ।
अनेनाहत्य ज्ञाना­ति­रि­क्त­मा­र्ग­नि­षे­धा­दणुः पन्था इत्यादिषु ब्रह्मज्ञानमेव ब्रह्म­प्रा­प्ति­सा­ध­न­त्वात् पथ्या­दि­श­ब्द­नि­र्दि­ष्ट­मि­त्युक्तं भवति ।
यदुक्तं नपुं­स­क­ब्र­ह्म­शब्दः परब्रह्मण्येव रूढ इति; तत्राह –
तस्मादिति ।
सामीप्यादिति ।
कार्यस्य कार­ण­प्र­त्या­स­त्ते­रि­त्यर्थः ।
ननु ‘‘ब्रह्म वेद ब्रह्मैव भव­ती’’त्या­दि­श्रु­ति­सा­मर्थ्यैः कथं ‘‘स एतान् ब्रह्म गमयती’’ति ब्रह्म­श्रु­ति­र्ल­क्ष­णया नीये­ते­त्या­शङ्क्य लोका­दि­श्रु­ति­व­शा­दि­त्याह –
तथा च लोकेष्वितीति ।
ननु ब्रह्म­लो­क­स्या­प्ये­क­त्वात् कथं बहुवचनोपपत्तिरत आह –
परस्य त्विति ।
अवयवद्वारेण सनिकृष्ट उपचारः स्यात्, परस्मिंस्तु विप्र­कृ­ष्टा­व­य­वा­ना­मपि कल्प्य­त्वा­दि­त्यर्थः । अत्र भास्करः प्रललाप - यदि निर्गुणाया विद्याया गतिरनुपपन्ना, तर्हि सा सगु­णा­स्व­प्य­नु­प­प­न्नैव; सगुणस्यापि ब्रह्मणः तद्गुणानां च ज्ञानादीनाम् आकाशशब्दयोरिव व्यापित्वाद्, उपासकानामपीहैव तद्भा­व­मा­प­न्नानां तत्प्राप्तौ गत्य­न­पे­क्ष­त्वात् । तत्र श्रुतिवशाद्यदि गतिः, तर्हि निर्गुणविद्याया किं न स्यात्? परप्रकरणेऽपि मुण्डकादौ ‘‘सूर्यद्वारेण ते विरजाः प्रय­न्ती’’त्या­दि­भि­र्ग­त्या­म्ना­नात्, अङ्गीकृत्य च निर्गु­ण­वि­द्या­मि­द­मुक्तं, न तु निर्गुणं वस्त्वस्ति; यद्विद्या निर्गुणा स्यात्, ज्ञाना­दि­भि­र्गु­णै­र्ब्र­ह्मापि भिन्नाभिन्ना सगुणमेव –
इत्यादि, तत्राह –
अप्रमाणिकानां बहुप्रलापा इति ।
अयमभिसंधिः – सगुणब्रह्मणः सविशेषत्वाद् ब्रह्मलोके एवोपासकान् प्रति गुणा­भि­व्य­क्ति­र्ने­हेति सम्भवति । दृश्यते च पृथि­वी­त्वा­वि­शे­षेऽपि मल­य­शै­ला­दे­श्च­न्द­न­ग­न्धा­द्य­भि­व्य­ञ्ज­कत्वं शब्दस्य चाकाशगुणस्य वंशाकाशादिदेश एवाभिव्यक्तिर्न सर्वत्र परस्य तु ब्रह्मणो न गुणाः सन्ति, येषां देश­वि­शे­षेऽ­भि­व्यक्तिः । न निर्गुणं वस्त्वस्तीति च दुर्लभम्; सत्ता­दे­र्नि­र्गु­ण­त्वान्न निर्गुणं द्रव्यमस्ति । ब्रह्मापि द्रव्य­त्वा­त्स­गु­ण­मिति चेत्किं द्रव्यत्वं गुणवत्त्वम् उपादानकारणत्वं वा । न प्रथमोऽसिद्धेः । द्वितीये उपादानत्वं किं परिणामित्वं विव­र्ता­धि­ष्ठा­नत्वं वा । नाग्रि­मोऽ­सि­द्धे­रेव । न चरमः; सत्ता­दे­र­प्य­न्या­पो­ह­त्व­मा­त्र­सं­ब­न्ध­त्वा­द्या­रो­पा­धि­ष्ठा­न­त्वे­ना­नै­का­न्त्यात्, उपासकानां त्विहो­पा­स्या­वि­र्भावः प्रतिभासमात्रम् अन्त्यकाल इव भाविकर्मफलस्य । यदि तु साक्षा­दा­वि­र्भावः स्यात्, तर्हि गतिवैयर्थ्यं स्यात् । तस्माद् ब्रह्मै­श्व­र्या­वि­र्भावो ब्रह्मलोक एव ‘‘नान्यः पन्था’’ इत्यादि बहुश्रुतिभिश्च निर्गु­ण­प्र­क­र­णा­द्ग­ते­रु­त्कर्ष इति दिक् ।
प्रत्य­गि­त्या­त्मेति च शब्द­यो­र­पु­न­रु­क्त­म­र्थ­माह –
प्रति प्रतीति ।
प्रति­भा­व­म­धि­ष्ठा­न­त्वेन गतस्य ब्रह्मणो गन्तॄ­णा­मा­त्म­त्वा­दिति भाष्यार्थः ।
ननु लोक­श्रु­ति­र्लो­कनं प्रकाशः स एव लोक इति ब्रह्मणि यौगिकी, कथं जौणत्वमत आह –
यौगिक्यपीति ।
योगरूपो गुणः प्रकाशः ब्रह्मैकरसता तद­पे­क्ष­ये­त्यर्थः ।
अविशुद्धा अपीति ।
गुणत्रयमया अपीत्यर्थः । भाष्ये विकल्पितौ विका­रा­व­य­व­प­क्षा­व­न्या­न­न्य­त्वा­श्रयौ भेदा­भे­दा­श्र­या­वि­त्यर्थः ।
अन्यो वा ततः स्यादिति भाष्येण चात्य­न्त­म­न्यत्वं विकल्पितमित्याह –
अन्यो वेति ।
विका­र­प­क्षेऽ­प्ये­त­त्तु­ल्य­मिति भाष्यं व्याचष्टे –
मृदात्मतयेति ।
मृदात्मत्वे हेतुमाह –
तदभाव इति ।
ननु विका­रि­णोऽ­व­य­वि­नश्च स्थिरत्वेऽपि ताभ्यां भिन्नभिन्नौ विकारवयवौ, तत्र भिन्न­त्वां­शे­ना­स्थि­र­त्वा­त्त­यो­र्ग­म­न­मि­त्या­श­ङ्क्याह –
अन्यानन्यत्वे अपीति ।
अथान्य एव जीवो ब्रह्मण इत्ये­त­द­न्त­मा­श­ङ्का­भाष्यं, सोऽणुरित्यादि तु विकल्पपरमिति ज्ञापनार्थमाह –
तथा चेति ।
भेदा­भे­देऽ­प्ये­कत्वं न मुख्यमेव, किंतु भेद­स­त्त्व­मा­त्र­मतो भाष्या­नु­प­प­त्ति­रि­त्या­श­ङ्क्याह –
भेदाभेदयोरिति ।
बुद्धि­व्य­प­दे­श­भे­दा­दिति भेद­प्र­मा­णो­प­न्यासः ।
प्रमिते च भेदे विरो­धा­द­भे­दा­नु­प­पत्तौ विकारस्यावयवस्य वा जीवस्य तत्त्वमसीति ब्रह्म­सा­मा­ना­धि­क­रण्यं गौणं स्यादित्याह –
अयुतसिद्धतयेति ।
परिणामेति ।
विकारः परिणामः । क्षेतुं नाशयितुं ।
नित्य­नै­मि­त्ति­कानां नित्येहिता दुरितनिवृत्तिः प्रत्य­वा­या­नु­त्प­त्तिर्वा फलं युज्यते, फलान्तरवत्त्वे काम्य­त्व­प्र­स­ङ्गा­दि­त्य­प्रे­त्याह –
अभ्यु­च्च­य­मा­त्र­मा­हेति ।
क्रिया­भो­ग­शक्त्योः सत्योरपि तत्प्र­ति­ब­न्धा­त्का­र्या­नु­दयः संभवति; तैल­क­लु­षि­त­शा­लि­बी­जा­द­ङ्कु­रा­नु­द­य­नि­य­म­वत्, अतो यथाश्रुतं भाष्य­म­नु­प­प­न्न­मि­त्या­शङ्क्य व्याचष्टे –
कर्तृ­त्व­भो­क्तृत्वे इति ।
ताभ्यां शक्तिनिर्देशः समा­क्षि­प्त­क्रि­या­भोगे इति कार्यकथनं, ततश्च कार्य­श­क्त्यो­रे­क­प्र­हा­रे­णैव दूषणमुच्यते सशक्तिके कर्तृ­त्व­भो­क्तृत्वे स्वभावावस्वभावौ वाऽऽत्मनः । न चरमः; तथा सति हि तयोरात्मनि समवायो वाच्यः ; स च द्वितीये दूषितः ।
न प्रथम इत्याह –
ततो न शक्याविति ।
अवरोपयितुम् उत्तारयितुं निव­र्त­यि­तु­मि­त्यर्थः । स्वरूपाभावे आत्मन एव नाश­प्र­स­ङ्गा­दि­त्यर्थः ।
क्रिया­भो­ग­यो­रा­त्म­स्व­रू­पत्वे दूष­ण­मु­क्त्वाऽ­न्य­त्व­म­भ्यु­पे­त्यापि दोषमाह –
न च भोगोऽपीति ।
क्रियाया अप्युपलक्षणम् । क्रियाभोगयोः सत्त्वं स्वभा­व­श्चे­द­सत्त्वं न स्यात्, कालभेदेन सद­स­त्त्व­व्य­वस्था चारम्भणाधिकरणे बभञ्जे । धर्म­श्चे­त्सं­बन्धो दुर्निरूपः ।
यथोक्तमेवेति ।
विक­ल्प­म­कृ­त्वे­त्यर्थः । भविष्यति कदाचिदेषां समुदाचार आविर्भावो नित्य­त्वा­दा­त्म­न­स्त­द्ग­त­शक्तेः कदाचिदुद्भवः संभवति, तैललिप्तस्य तु शालि­बी­ज­स्या­ल्प­का­ल­स्था­यि­त्वा­च्छ­क्ता­व­नु­द्भू­ता­या­मेव नाश इत्य­ङ्कु­रा­द्य­नु­दय इत्यर्थः ।
निरस्तमपीति ।
प्राचीनेषु बहु­ष्व­धि­क­र­णे­ष्वि­त्यर्थः । एष ब्रह्मलोकः । हे सम्राडिति याज्ञवल्क्यस्य जनकं प्रति संबोधनम् । न तत्र च ब्रह्मैव लोक इति परं ब्रह्म विवक्षितम् । न च कार्ये इति सूत्रं सभा­दि­नि­र्दे­शा­त्का­र्य­वि­षया प्राप्तिरिति शङ्काया उत्तरम् । भाष्य­ग­तोऽ­पि­च­नि­र्देशः समुच्चयार्थः । एत­च्छ­ङ्का­नि­रा­क­र­णो­प­प­त्ति­सा­हित्यं प्राची­नो­प­प­त्ती­ना­माह - यशःप्रकाश आत्मा ब्राह्म­णा­ना­मात्मा भवा­मी­त्यु­पा­स­कस्य स्वानुभवोक्तिः । ब्राह्म­णा­ना­मि­त्यु­प­ल­क्षणं सर्वेषामात्मा भवामीत्यर्थः । तस्य ब्रह्मणः प्रतिमा सदृशं वस्त्वन्तरं नास्ति यस्य यश इति महन्नामाभिधानम् । तत्तत्र ब्रह्मलोके परैरपराजिता पूः पुरमस्ति प्रभुणा हिरण्यगर्भेण विमितं निर्मितं वेश्म विद्यते । एतं ब्रह्म­वि­द­म­न्त­काले न तपत्येव पुण्यं पापं च केन प्रकारेण, तमाह - अहमेतावन्तं कालं किं साधु नाकरवं किमिति च पाप­म­क­र­व­मि­त्ये­वं­प्र­का­रेण न तपति न तापयतीत्यर्थः । शुङ्गं कार्यम् । अयनाय मोक्षगमनाय ॥७॥८॥९॥१०॥११॥१२॥१३॥१४॥
इति पञ्चमं कार्याधिकरणम्॥

अप्र­ती­का­ल­म्ब­ना­न्न­य­तीति बादरायण उभ­य­थाऽ­दो­षा­त्त­त्क्र­तुश्च ॥१५॥ गन्त­व्य­वि­शे­ष­नि­रू­प­णा­न­न्तरं गन्तृ­वि­शे­ष­नि­रू­प­णा­त्स­ङ्गतिः । ननु ब्रह्मक्रतूनां ब्रह्मो­पा­स­का­ना­मेव ब्रह्म­लो­क­ग­म­न­मु­चितं, ‘‘तं यथा यथोपासत ‘‘ इति न्यायात्, तत्र कथं प्रतीकोपासकानां ब्रह्म­लो­क­ग­म­न­मा­श­ङ्क्ये­ते­त्यत आह –
ब्रह्मक्रतव इति ।
‘‘स एनान्ब्रह्म गमयती’’ति प्रकृ­त­प­ञ्चा­ग्नि­विदां परामर्शादब्रह्मक्रतवोऽपि यथा पञ्चा­ग्नि­वि­द्यया ब्रह्मलोकं यान्ति, तथा प्रतीकोपासका अपि, ‘‘ये चामी अरण्ये श्रद्धा तप इत्युपासते’’ इति सामान्यवचनाद् ब्रह्मलोकं प्रया­स्य­न्ती­त्यर्थः ।
अब्र­ह्मो­पा­स­कत्वं चासिद्धमित्याह –
न चैते इति ।
ननु ‘‘यावन्नाम्नो गतं व्याप्ति­स्त­त्रास्य यथाकामचारो भवति वाग्वाव नाम्नो भूयसी यावद्वाचो गत ‘‘मित्या­दि­प्र­ती­को­पा­स्ती­ना­मु­त्त­रो­त्त­र­मु­त्क­र्ष­व­त्फलं श्रूयते, तद् ब्रह्मलोके कथमत आह –
फलविशेषस्येति ।
प्रती­को­पा­स­का­ना­मा­नवो ब्रह्मलोकं न नयेत्कुतः? तत्राह –
उत्त­रो­त्त­र­भू­य­स्त्वा­दिति ।
प्रती­को­पा­स्ति­फ­ल­स्येति शेषः ।
किमिवहीति ।
विशेषवचनं सामान्यवचनबाधनं किमिव हि न कुर्यात् किंतु सर्वत्र कुर्या­दे­वे­त्यर्थः ।
इह तदभावादिति ।
विशे­ष­व­च­ना­भा­वात्, ये चामी इत्यस्य सामा­न्य­वि­ष­य­त्वा­दि­त्यर्थः ।
तदिदमुक्तम् –
असति विशेषवचन इति ।
किंतु नामादिविशेषणं ब्रह्मरूपतयेति ।
ब्रह्म­श­ब्द­स्ये­ति­श­ब्द­शि­र­स्क­त्वेन ब्रह्म­णोऽ­प्र­धा­न­त्वा­व­ग­मा­दि­त्यर्थः ।
ननु भव­त्व­र्था­न्त­र­वि­ष­यस्य विषयान्तरे प्रक्षेपः प्रतीकः, कथमेतावता नामादिषु ब्रह्म­धी­प्र­क्षे­प­सिद्धिः? अत आह –
ब्रह्मा­श्र­य­श्चेति ।
अत्राप्युक्त एव हेतुः –
यस्मादिति ।
यदुक्तं ब्रह्मलोकस्य सावयवत्वात् फल­वि­शे­षो­प­प­त्ति­रिति, तत्राह –
न च ब्रह्मक्रतुरिति ।
ब्रह्म­लो­का­व­य­वि­न­स्त­त्त­द्द्ब्र­ह्म­णश्च सर्वै­रू­प­स्या­त्वाद् न फल­वि­शे­षो­प­प­त्ति­रि­त्यर्थः ।
उभयथाऽदोषादिति सूत्रावयवं योजयति –
न ह्येवमिति ।
कांश्चि­त्प्र­ती­का­ल­म्ब­ना­न्न­यति, कांश्चित्तु विका­र­ब्र­ह्मा­ल­म्ब­ना­न्न­य­तीति योऽयमुभयथाभाव उभयथात्वं तस्याभ्युपगमे सत्यनियमः सर्वासामित्यस्य न्यायस्य सामा­न्य­व­च­ना­श्र­यस्य न हि कश्चिद्दोषः ; तस्य ब्रह्म­क्र­तु­ष्व­प्यु­प­प­त्ते­रिति योजना॥१५॥१६॥
इति षष्ठं अप्र­ती­का­ल­म्ब­ना­धि­क­र­णम्॥
इति श्रीम­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शि­ष्य­प­र­म­हं­स­प­रि­व्रा­ज­क­भ­ग­व­द­म­ला­न­न्द­वि­र­चिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य तृतीयः पादः॥

आद्ये पादे निर्गु­ण­वि­द्या­फ­लै­क­देशो बन्ध­नि­वृ­त्ति­र्नि­रू­पिता, द्वितीये सगु­ण­नि­र्गु­ण­फ­ल­प्रा­प्ति­शे­ष­त्वेन तद्वि­दो­रु­त्क्रा­न्त्य­नु­त्क्रान्ती चिन्तिते । तृतीये च सगु­ण­फ­ल­सि­ध्द्यु­प­यो­गिनो गति­ग­न्त­व्य­ग­न्तृ­वि­शेषा विचारिताः, इह चतुर्थे पादे निर्गु­ण­वि­द्या­फ­लै­क­दे­शा­न्तरं ब्रह्म­भा­वा­वि­र्भावः, सगुणविद्याफलं च सर्वे­श्व­र­तु­ल्य­भो­ग­भा­क्त्व­म­व­धा­र­यि­ष्यते॥ संपद्याविर्भावः स्वेनशब्दात्॥१॥
प्रागिति ।
अभिनिष्पद्यत इति शब्दात् प्रागसतः पदार्थस्य निष्पत्तौ कर्तृत्वं प्रतीयते, तत्सतो नोपपद्यते इति यतस्ततो हेतोर्मुक्तेः फलत्वेन प्रसि­द्धे­श्चा­त्मा­ति­रि­क्त­रू­पा­न्त­रो­द्भवो मोक्षे स्यादित्यर्थः ।
प्राग­भू­त­स्ये­त्ये­त­द्व्या­चष्टे –
अभूतस्येति ।
अत्य­न्त­स­तोऽ­नु­त्पत्तौ गगनमुदाहरणम् । अत्य­न्ताऽ­स­तोऽ­नु­त्पत्तौ गग­न­कु­सु­म­मु­दा­ह­र­णम् । अतः प्रागसत एवो­त्प­त्ति­रि­त्यर्थः ।
एवं लोके व्याप्ति­मुक्त्वा प्रकृते योजयति –
स्वरूपावस्थानं चेदिति ।
तस्येति ।
स्वरू­पा­व­स्था­न­स्ये­त्यर्थः ।
ननु स्वरूपं माऽभिनिष्पादि, बन्धाभावस्तु निष्पत्स्यतेऽत आह –
न चास्येति ।
यद्युत्पद्येत बन्धाभावः, तर्हि स कार्य­त्वा­त्कु­म्भ­वन्न तुच्छः स्यादित्यर्थः । फल­त्व­प्र­सि­द्धेश्च मोक्ष­स्या­ग­न्तुना केन­चि­दु­त्प­त्ता­वि­त्य­न्वयः ।
अन­यो­र्हे­तु­हे­तु­म­द्भा­व­मु­प­पा­द­यति –
अकार्यस्येति ।
ननु रूपा­न्त­र­नि­ष्पत्तौ कथं स्वेनेति शब्दो­प­प­त्ति­स्ता­माह –
केनचिदिति ।
यद्रूपान्तरं निष्पद्यते, तस्यात्मीयत्वं सिद्धं तत्स्वीयवाचिना स्वश­ब्दे­ना­नू­द्यत इत्यर्थः ।
स्वश­ब्द­स्या­नु­वा­द­कत्वं निषे­ध­न्ना­त्म­व­च­न­त्व­माह –
संभवतीति ।
आत्म­न्य­भि­नि­ष्प­त्ति­शब्दं घटयति –
बन्धस्येति ।
निवृ­त्त­ब­न्ध­मा­त्म­स्व­रू­पम् अभिनिष्पद्यत इति उच्यते ; बन्ध­नि­वृ­त्ते­र्ज­न्य­त्वा­दि­त्यर्थः ।
यदुक्तं कार्यत्वे बन्ध­ध्वं­स­स्या­तु­च्छत्वं स्यादिति, स इष्ट्प्रसङ्गः; ध्वंसस्यापि तुच्छ­त्वाऽ­नि­ष्टे­रि­त्याह –
न चास्येति ।
निवृ­त्त­ब­न्धा­दा­त्म­स्व­रू­पा­त्प्रा­क्त­न­रू­पस्य विशेषप्रदर्शकं भाष्यं, पूर्वत्रान्धो भव­ती­त्या­द्य­व­स्था­त्र­य­क­लु­षि­ते­ना­त्म­ने­त्यन्तं, तद्व्याचष्टे –
स्वप्ना­व­स्था­द­र्शि­ते­त्या­दिना ।
बद्धो भवतीति पाठान्तरे रोदि­ती­वे­त्या­दिना बन्धनप्रदर्शनम् ।
ननु कथं विना­श­मे­वे­त्यु­च्यते ? सुषुप्तौ स्वरू­प­चै­त­न्या­वि­ना­शा­दत आह –
एवकारश्चेति ।
अनवधारणे अव­धा­र­ण­व्य­ति­रिक्ते इवार्थे इत्यर्थः॥१॥२॥
आत्मेति सूत्रा­र­म्भ­मा­क्षि­पति –
नन्विति ।
आर­म्भ­मु­प­पा­द­य­न्पू­र्व­प­क्ष­माह –
भवेदिति ।
ननूपसंपद्येति क्त्वाप्र­त्य­य­सा­म­र्थ्यात् परि­त्य­ज्ये­त्ये­त­द­श्रु­त­म­प्य­ध्या­ह्रि­यतां, तथा चात्म­प्रा­प्ति­सि­द्धे­र्व्यर्थः सूत्रारम्भोऽत आह –
तदध्याहारेऽपीति ।
यदि हि परित्याज्यं ज्योतिस्तर्हि तत्प्रा­प्त्य­भि­धा­न­वै­य­र्थ्या­म­र्चि­रा­दि­मा­र्ग­स्या­त्म­विदि वारि­त­त्वा­दि­त्यर्थः ।
श्लोकगतं वाक्यादिति हेतुं व्याचष्टे –
परं ज्योतिरिति हीति ।
आन­र्थ­क्य­प्र­ति­ह­ताया ज्योतिः­श्रु­ते­र्वा­क्य­मेव प्रबलमित्यर्थः । आन­र्थ­क्य­प्र­ति­ह­तिश्च ज्योतिर्दर्शना (ब्र.अ.१ पा.३ सू.४०) दित्यत्र वर्णिता । अत एव तस्यैव न्याय­स्ये­द­म­नु­स्मा­रणं । प्रकरणं च य आत्माऽ­प­ह­त­पा­प्मे­त्या­दि­भाष्य एवोक्तमित्यर्थः ।
ननु यदि ज्योतिरेव स्वेन रूपेणेति निर्दिश्यते, कथं तर्ह्यु­प­सं­प­द्येति क्त्वाप्रयोग इत्याशङ्कते –
यदिति ।
परिहरति –
तदिति ।
एककालयोरपि मुख­वि­दा­र­ण­स्वा­पयोः क्त्वाप्र­त्य­य­व­द­य­म­प्य­वि­व­क्षि­त­पू­र्व­का­ल­भावो न तद्बलात् ज्योतिः­स्व­रू­प­श­ब्द­यो­र्भि­न्ना­र्थ­त्वम् । तथा च यत्परं ज्योति­रु­प­सं­प­द्यते तत्स्वेन रूपे­णा­भि­नि­ष्प­द्यत’’ इति वाक्यार्थ इत्यर्थः॥३॥
इति प्रथमं संप­द्या­वि­र्भा­वा­धि­क­र­णम्॥

अविभागेन दृष्टत्वात्॥४॥
स्वरू­पा­व­स्थि­त­स्यापि जीवस्य ब्रह्मणोऽन्यता ।
आशङ्क्यतेऽत्र योगानामिव तेनास्ति संगतिः॥
पुन­रु­क्ति­मा­शङ्क्य परि­ह­र­न्पू­र्व­प­क्ष­माह –
यद्यपीति ।
तत्त्व­म­स्या­दि­वा­क्या­त्सा­ध­न­भू­त­ज्ञा­न­प­रात् स मुक्तः , तत्र ब्रह्मणि पर्येति परि­ग­च्छ­ती­त्या­दि­भि­रा­धा­रा­धे­य­भा­व­व्य­प­दे­शस्य परं ज्योति­रु­प­सं­प­द्येति च संपत्तुः संपत्तव्यभेदस्य च साध्य­प्र­धा­न­भू­त­फ­ल­वि­ष­य­तया प्राब­ल्या­न्मुक्तौ परं ज्योतिर्ब्रह्म प्राप्यापि तस्माद्भेदेन स्वेन रूपेण मुक्तोऽवतिष्ठत इत्यर्थः । तत्रा­भि­नि­ष्प­न्न­स्व­रू­पस्य स उत्तमः पुरुष इति तच्छ­ब्दो­त्त­म­पु­रु­ष­श्रु­तिभ्यां परमात्मभावः फलं तत्त्व­म­स्या­दि­वा­क्या­नु­गु­ण­म­व­ग­म्यते ।
‘‘स तत्र पर्ये­ती’’त्या­दि­फ­लस्य तु निर्गु­ण­प्र­क­र­ण­ग­त­स्यापि ‘‘मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके’’ इति ब्रह्म­लो­क­सं­ब­न्धा­दि­लि­ङ्गा­त्स­गु­ण­वि­द्या­सू­त्कर्ष इति सिद्धान्तयति सूत्रकार इत्याह –
समा­धा­ना­र्थ­मिति॥४॥
इति द्वितीयमविभागेन दृष्ट­त्वा­धि­क­र­णम्॥

ब्राह्मेण जैमि­नि­रु­प­न्या­सा­दिभ्यः॥५॥ ब्रह्मात्मतां प्राप्तस्यापि जीवस्य सप्र­प­ञ्च­त्व­श­ङ्क­ना­त्स­ङ्गतिः । सौत्रहेतुं व्याचष्टे –
उद्देश इत्यादिना ।
ज्ञातस्येति ।
ब्रह्मै­श्व­र्य­स्ये­त्यर्थः । य आत्मेति हि वाक्ये यच्छ­ब्दो­प­ब­न्धा­द­न्यतो नेति­ने­त्या­दि­वाक्यै सृष्टिवाक्यैश्च प्रतीतस्य पाप्माद्यभावस्य सत्य­स­ङ्क­ल्प­त्वा­दे­श्चो­द्देशः प्रतीयते, स उपन्यास इत्यर्थः । उद्दे­शा­पे­क्षि­तश्च विधिरिह सोऽन्वेष्टव्य इत्यादिरिति बोद्धव्यम् ।
आदिशब्दार्थमाह –
अज्ञा­त­ज्ञा­प­न­मिति ।
विधिमेव दर्शयति –
यथेति ।
यच्छ­ब्दो­प­ब­न्धा­भा­वात् फलत्वेन च प्रति­पा­द्य­त्वा­दि­त्यर्थः ।
विधे­या­न्त­रा­भा­वा­दिति ।
यद्यपि यः सर्वज्ञ इत्युपक्रम्य तस्मा­दे­त­न्ना­म­रू­पादि जायत इत्यस्ति विधेयान्तरं, यद्यपि चैष सर्वेश्वर इति प्रस्तुत्येषां लोका­ना­म­सं­भे­दा­येति विधीयते; तथापि जीवोपयोगि किंचिदुपासनं फलं वा न विधे­या­न्त­र­म­स्ती­त्यर्थः ।
कथं तर्ह्ये­वं­वि­धा­द्व्य­प­दे­शात् जीवः सर्वे­श्व­र­त्वा­दि­रूपो मुक्ताविति गम्येतात आह –
तन्नि­र्व­च­न­सा­म­र्थ्या­दिति ।
तेषां सर्वे­श्व­र­त्वा­दीनां निर्वचनं निष्कृष्य तात्पर्यतः प्रथनं, तस्मा­द­न­न्त­र­व­क्ष्य­मा­ण­श्लो­क­प्र­ति­पा­द्योऽ­य­मर्थः प्रतीयते, इतरथा परा­ग्भू­ते­श्व­र­क­थ­नस्य प्रयो­ज­ना­भा­वा­दि­त्यर्थः । एवं सौत्रं हेतुं व्याख्याय सौत्री प्रतिज्ञां व्याचष्टे - भावा­त्म­कै­रि­त्या­रभ्य जैमि­नि­रि­त्य­न्तेन श्लोकेन । यो मुक्तः स भाविकैः पर­मा­र्थ­भू­तै­र्धर्मैः स्वैः स्वस्ये­श्व­राऽ­भे­दा­त्स्व­कीयैः सह परमेश्वरः संपद्यत इत्यर्थः ।
अभावात्मान इति ।
अव­स्तु­त्वा­द­भा­वा­त्म­का­ना­म­द्वै­ता­व्या­घा­त­क­त्वम्॥५॥
अनेकाकारतेति ।
एक­स्या­त्म­नोऽ­ने­का­का­रता सर्वे­श्व­र­त्वा­द्य­ने­का­का­रा­त्म­कता न भवति , अत्र हेतुः –
एकत्वादिति ।
विपक्षे दण्डमाह –
नैकतेति ।
एक­स्या­ने­का­का­रत्वं वदन्प्रष्टव्यः किमे­क­स्या­ने­का­का­र­ता­व­न्मा­त्र­त्वम्, उता­ने­का­का­रा­णा­मे­क­व­स्तु­ता­व­न्मा­त्र­त्वम् । आद्ये एकस्यैकता न भवेत्, एव­म­ने­के­षा­मे­क­ता­व­न्मा­त्र­त्वेऽ­ने­क­तापि न भवेदिति द्रष्टव्यम् ।
अथात्मन आकारैराकाराणां चात्मना सह भेदाभेदौ, तत्राह –
परस्परेति ।
भेदे वेति ।
धर्म्या­भि­न्ना­ना­मपि इतरेतरभेदे तैर­भि­न्न­ध­र्मि­णोऽपि भेद­प्र­स­ङ्गा­दि­त्यु­क्तम् - आत्मरूपं वा भिद्येतेति ग्रन्थे­ने­त्यर्थः । यद्येकत्र भेदाभेदौ विरोधान्न भवतः, तर्हि मा भूतां भेद एवास्तु धर्माणाम् ।
न चाद्वै­त­व्या­घातः; अभा­व­रू­प­ध­र्मा­णा­म­व­स्तु­त्वेन सद­द्वै­ता­वि­घा­त­क­त्व­मि­त्यु­क्त­त्वा­दत आह –
अभावरूपाणामिति ।
एतेनेति भेदाभेदनिषेधाद् भेदे च भावरूपत्वे सत्य­का­म­त्वा­दीनां भव­त्ये­वा­द्वै­त­वि­घा­त­क­त्वम् । तस्मा­त्स­त्य­का­म­त्वा­द­योऽ­प्यौ­पा­धिका विकल्परूपा इत्यर्थः॥६॥ अति­शौ­ण्डी­र्य­म­ति­प्रा­गल्भ्यं दुर्वैदग्ध्यं धर्माणां तुच्छ­त्वा­भ्यु­प­ग­म­प्र­युक्तं न मृष्यते न सहते ।
किमौडुलोमीयं मतं कलयाऽपि न स्वीचकार बादरायणः, नेत्याह –
मृष्यन्नभिहितं मतमिति ।
धर्मा­णा­म­व­स्तु­त्व­मि­त्यौ­डु­लो­मि­नाऽ­भि­हितं मतं मृष्यन् सहमान एवेति । मृष्यन्नपि हि तन्मतमिति पाठे तस्यौ­डु­लो­मे­र्म­त­मि­त्यर्थः॥७॥
इति तृतीयं ब्रह्माधिकरणम्॥

संकल्पादेव च तच्छुतेः॥८॥ इत उपरि सगु­ण­वि­द्या­फ­ल­प्र­पञ्चः । पूर्वत्र सप्र­प­ञ्च­नि­ष्प्र­प­ञ्च­त्व­यो­र्व्या­व­हा­रि­क­ता­त्त्वि­क­त्वाभ्यां व्यवस्थोक्ता, इह तु संक­ल्पा­ति­रि­क्त­सा­ध­न­भा­वा­भा­व­यो­रे­को­पा­धा­वा­पा­ततो विरो­धा­ल्लो­क­सि­द्ध­प­द­प­दा­र्था­पे­क्षायाः श्रुते­र्लौ­कि­का­द­नु­मा­ना­द्बाध इति पूर्वपक्षयति –
यत्न इति ।
विमताः प्रय­त्ना­दि­सा­पे­क्ष­सं­क­ल्प­जन्याः, भोग­सा­ध­न­त्वा­त्सं­म­त­व­दि­त्यर्थः । वस्तुशब्देन भोगसाधनत्वं विवक्षितम् ।
ननु मुक्तसंकल्पस्य लौकि­क­सं­क­ल्प­व­त्सा­पे­क्ष­त्वा­नु­मानं संक­ल्पा­दे­वे­त्य­व­धा­र­ण­बा­धि­त­मत आह –
सोऽत्रेति ।
अत्र सगुणविदि पित्रा­दि­वि­ष­य­प्र­य­त्नस्य लाघवाद् लघौ तस्मिन् असत्त्वमिवकृत्व संक­ल्पोऽ­व­धा­रितः, न तु प्रयत्नाभाव इत्यर्थः । समीहते चेष्टते ।
उक्तानुमानस्य मनसि संक­ल्प­मा­त्रा­भि­व्य­क्त­का­मिन्यां व्यभि­चा­र­मा­श­ङ्क्याह –
स्यादे­त­दि­त्या­दिना ।
सत्ता­प्र­यु­क्त­भो­ग­सा­ध­न­त्वा­दिति हेतुर्विशेषणीय इत्यर्थः ।
दन्त­क्ष­त­म­णि­मा­ला­दी­नीति ।
मणिमाला कण्ठे कृतः क्षतविशेषः ।
ननु श्रुत्य­नु­मा­न­यो­र्वि­रोधे किमिति श्रुत्यै­वा­नु­मा­नस्य बाधनं, न पुनर्विपरीतमत आह –
प्रमा­णा­न्त­रे­णे­त्या­दिना ।
पद­प­दा­र्था­व­ग­म­मात्रे श्रुतेरपेक्षा, न वाक्यार्थबोधने इत्यर्थः ।
विद्या­सृ­ष्ट­त्व­मु­पा­धि­म­प्य­नु­मा­नस्य दर्शयति –
तस्मादिति ।
अगस्त्यो हि समुद्रं संकल्पमात्रेण पपौ, कस्यचिदृषेः शापा­त्प्रा­णि­नि­वा­स­न­मपि दण्डकारण्यं निवासयामास, यस्त्वन्यो योगप्रभावदृते समु­द्र­म­ग­स्त्य­वत् पिबति, स दण्डकारण्यमपि सृजति वासयति न तूभयं शक्ष्यति कर्तुमेष इत्यर्थः । तदयं प्रयोगः । विमतः प्रय­त्ना­द्य­न­पे­क्ष­सं­क­ल्प­जन्यः, योग­सा­म­र्थ्य­सृ­ष्ट­त्वाद् अग­स्त्य­कृ­त­स­मु­द्र­पा­न­व­दिति॥८॥९॥
इति चतुर्थं संकल्पाधिकरणम्॥

अभावं बादरिराह ह्येवम्॥१०॥ पूर्वत्र संक­ल्पा­दे­वे­त्य­व­धा­र­णा­त्सा­ध­ना­न्त­रा­न­पेक्षं पित्रा­दि­स­मु­त्था­न­मि­त्यु­क्तम्, एवमिहापि मनसेति विशे­ष­ण­स्या­न्य­यो­ग­व्य­व­च्छे­द­क­त्वे­ना­व­धा­र­णा­र्थ­त्वा­द्वि­दुषो देहाद्यभाव इति पूर्वपक्षयति –
अन्ययोगेति ।
ननु ‘‘स एकधा भवति त्रिधा भव­ती’’त्या­द्य­ने­क­धा­भा­वा­म्ना­ना­च्छ­री­रा­दिकं किं न स्यादत आह –
अनेकधाभावश्चेति ।
ऋद्धिप्रभावभुवः योगप्रभावजातात् मनो­भे­दा­द­ने­क­धा­भा­वो­प­प­त्ते­र्ना­ने­क­श­री­र­प्रा­प्ति­रि­त्यर्थः॥१०॥
ननु मनोभेदाभ्युपगमे मन­से­त्ये­क­व­च­न­बाधः स्यात्, तथा च लब्धप्रसरे बाधे मनः­श­ब्दोऽ­प्यु­प­ल­क्ष­णा­र्थ­त्वेन नीयतामत आह –
स्तुतिमात्रं वा कथंचिदिति ।
अत्र हेतुमाह –
भूमविद्यायामिति ।
निर्गुणायां भूमविद्यायाम् अयमनेकधाभावः पठ्यते, न तु सगुणविद्यायाम्, तत्र च न संभवतीत्यर्थः ।
असता तर्हि तेन कथं भूमविद्या स्तूयेत? तत्राह –
असतापीति ।
वपो­त्ख­न­ना­दि­नाऽपि स्तुति­द­र्श­ना­दि­त्यर्थः॥११॥
मनो­भे­द­मा­त्रा­द­ने­क­धा­भावं निषेधति –
शरीरेन्द्रियेति ।
परैः संवादेन भोगार्थो ह्यनेकधाभावः, न च मनः परैर्दृश्यत इति न पुष्कलभोग इत्यर्थः । यदु­क्त­म­वि­द्य­मा­ने­ना­ने­क­धा­भा­वेन भूम­वि­द्या­स्तु­ति­रिति, तत्राह – न चेति ।भू­म­वि­द्यो­प­क्रमे ‘‘प्राणो वा आशाया भूया’’निति सूत्रात्मविद्या विद्यते, तत्फलमनेकधाभावो भूमविद्यायामपि प्रशं­सा­र्थ­मु­च्यत इत्यर्थः । संभवेऽनर्थकं स्तुतिमात्रं न युक्तमित्यर्थः । चैत्रो धनुर्धर इत्युक्ते खड्गाद्यन्ययोगो न वार्यते, एवमत्रापि ।
यस्य हि प्राप्तिः पाक्षिकी विशेष्ये तद्वि­शे­ष­णा­सं­ब­न्ध­व्य­व­च्छे­दकः स्वस्य विशे­ष्या­न्व­य­मात्रं गमयेद्यथा धनुर्धरत्वं, न हि चैत्रो धनुर्दधान एव वर्तते, प्रकृते तु ‘‘मनसैतान् कामान् पश्यन् रमत’’ इत्यत्र कामभोगेषु नित्य­प्रा­प्त­त्वा­न्म­न­स­स्त­द­नु­वा­देन परि­सं­ख्या­वि­धि­ष्वि­वा­न्य­यो­ग­नि­वृ­त्त्य­र्थ­माह –
न चायोगेति ।
दृष्टान्तं विभजते - द्वादशाहस्येति श्लोकेन । आसनोपयिभ्यां चोदने सति द्वादशाहस्य सत्रत्वं गम्यते, आस­नो­प­यि­चो­द­न­यो­र­न्य­त­रत्वं सत्रलक्षणम्; तस्यैव द्वादशाहस्य यजेतेति चोदने सति अहीनत्वं च गम्यत इत्यर्थः । उपायिचोदनेति सप्त­द­शा­व­रा­श्च­तु­र्विं­श­ति­प­रमाः सत्रमासीरन्निति द्वाद­शा­ह­प्र­क­र­ण­प­ठि­त­मा­सि­चो­दनं च द्रष्टव्यम् । बहुकर्तृकस्येति सत्र­ल­क्ष­णा­न्त­रा­भि­धा­नम्, निय­त­क­र्तृ­प­रि­मा­ण­त्वे­ने­त्ये­क­क­र्तृ­क­त्व­म­ही­न­ल­क्ष­ण­मु­क्तम् । इदं चाही­न­ल­क्ष­ण­द्व­यम् अहर्गणत्वे सतीति विशेषणीयम् । इतरथा एकाहे ज्योति­ष्टो­मा­दा­वे­क­क­र्तृके यजतिचोदनाचोदिते चातिव्याप्तिः स्यादिति ।
सश­री­र­त्व­म­श­री­र­त्व­च्चे­त्यु­भ­य­वि­धत्वं विरु­द्ध­मि­त्या­शङ्क्य कालभेदेन व्यवस्थापनार्थं सूत्रद्वयं भाव इत्यादि, तद्व्याचष्टे –
संप्रतीति ।
इदानीं शरीराभावकाल इत्यर्थः ।
का सा उपपत्तिः; तां श्रुतिमाह –
मनसैतानितीति ।
शरीरादौ सति यादृशो भोग­स्ता­दृ­श­श्चे­न्म­नो­मा­त्रेऽस्य स्यात्, तर्हि शरी­रा­द्यु­पा­दा­न­वै­य­र्थ्यम् ।
एवं चेत्तर्हि शरीरे सति कीदृशो भोगस्तत्राह –
सशरीरस्य त्विति ।
पुष्कलो जागरवत् स्थूल इत्यर्थः ।
इहापीति ।
देहा­द्यु­पा­दा­ना­र्थ­व­त्त्व­मु­प­पत्तिः॥१२॥१३॥१४॥१५॥
इति पञ्च­म­म­भा­वा­धि­क­र­णम्॥

प्रदी­प­व­दा­वे­श­स्तथा हि दर्शयति॥१५॥
सर्गः सङ्कल्पमात्रेण तनूनां निष्प्रयोजनः ।
पुंसां निरा­त्मि­का­स्वासु भोग­स्या­न­व­क­ल्प­नात्॥
इत्याक्षेपिका सङ्गतिः । ननु ब्रह्माभिन्नस्य जीवस्य सर्वशरीरेषु सन्निधानात् कथं साङ्क­ल्पि­क­श­री­राणां निरात्मकत्वेन पूर्व­प­क्षो­द­य­स्त­त्राह –
वस्तुत इति ।
ननु यथा स्वभावतो योग­प्र­भा­वा­न्ना­ना­दे­श­व­र्तीनि शरीराणि योगी सृजति, तथाऽ­न्या­न्य­धि­ति­ष्ठतु, तत्राह –
स्वभा­व­नि­र्मि­ता­न्य­पीति ।
परि­च्छि­न्ना­न्तः­क­र­णो­प­हि­त­जी­वा­दृ­ष्ट­सा­म­र्थ्या­द्दे­हा­ना­मु­त्प­त्ति­र्भ­वति, परिच्छिन्नस्य तु देशान्तरे व्यञ्ज­का­न्तः­क­र­णा­भा­वा­द­भि­व्य­क्त्य­नु­प­प­त्ते­र­धि­ष्ठा­तृ­त्व­म­यु­क्त­मि­त्यर्थः ।
ननु शरी­रा­न्त­रे­ष्व­स­न्नि­हि­तोऽपि जीवस्तत्र तत्रात्मान्तरं सृजतु, शरीरवदत आह –
न वा आत्मान्तरमपीति ।
स्रष्टु­र्म­ह­ती­त्य­नु­षङ्गः ।
सृज्य­मा­न­मा­त्मा­न्तरं स्रष्टुरन्यत्, तत्स्वरूपं वा, नाद्य इत्याह –
सृज्यमानस्येति ।
नापि द्वितीय इत्याह –
आत्मत्वे वेति ।
कर्तृ­क­र्म­भा­वा­भा­वात् स्रष्टृ­स्र­ष्ट­व्य­त्वा­भा­वा­दि­त्यर्थः । अस्य कर्मकर्तृभावस्य । भेदाश्रयत्वात् भेदस्याश्रय एवाश्रयो यस्येति भेदाश्रयः, तत्त्वादिति लुप्त­म­ध्य­म­प­दोऽयं बहुव्रीहिः ।
नन्वा­त्म­सृ­ष्टा­वु­क्त­दो­ष­प­रि­हा­रा­या­न्तः­क­र­णानि स्रष्टव्यानि तेषु चायमेव जीवोऽभिव्यक्तः सन्नधिष्ठाता भवतु, तत्राह –
न चान्तः­क­र­णा­न्त­र­मिति ।
औत्पत्तिकेन अना­दि­सं­ब­न्ध­व­ते­त्यर्थः । अव­रु­द्धोऽ­व­च्छे­दितः ।
ननु व्यव­हि­त­दे­शा­न्यपि दारुयन्त्राणि यथा माया­व्य­धि­ति­ष्ठति, एवं जीवोऽपि देहान्तराणि, इत्याशङ्क्य तथा सति तेषु भोगा­सि­द्धे­र्भावे जाग्र­द्व­दि­त्यु­क्ति­वि­रोध इत्यभिप्रेत्याह –
तस्माद्यथेति ।
दारु­य­न्त्र­स­मत्वं योगि­सृ­ष्ट­श­री­रेषु व्यावर्तयति –
शरीरत्वमिति ।
यदवच्छिन्न आत्मनि भोगः, तदि­न्द्रि­य­ग्रा­ह्य­म­न्त्या­व­यवि भोगा­य­त­न­मे­वं­वि­धस्य भोगाधिष्ठानतां विना शरीरत्वं न स्यात् । तथाविधे एव शरी­र­त्व­प्र­सि­द्धे­रि­त्यर्थः ।
तर्हि शरीरत्वमेव योगिनिर्मितेषु कुतस्तत्राह –
स त्रिधेति ।
‘‘स एकधा भवति त्रिधा भव­ती’’त्या­दि­क­मा­त्मनो बहुभवनं शरीरभेदोपाधिकम् ; अन्यादृशस्य तस्या­सं­भ­वा­दि­त्यर्थः ।
नन्वे­का­न्तः­क­र­ण­मा­त्रा­व­च्छि­न्न­स्या­त्मनो नानादेशवत्सु देहेषु अधि­ष्ठा­तृ­त्वा­नु­प­प­त्ति­रुक्ता, तत्राह –
युक्तं चेति ।
सगुणचिदात्मनः विद्या­सा­म­र्थ्या­द्व्या­प्ति­रपि संभवतीत्यर्थः ।
‘‘स त्रिधे’’ति शरी­र­त्व­मि­त्ये­त­द्व्या­चष्टे –
स त्रिधा भवतीति ।
अदेहरूपे भूतभेदे श्रुति­र्ना­व­क­ल्पत इत्यन्वयः ।
शरीरत्वं न जात्वि­त्ये­त­द्व्या­चष्टे –
भोगाधिष्ठानत्वं चेति ।
शरीरत्वेन यत्प्रमितं भोगाधिष्ठानत्वं तद­भो­गा­धि­ष्ठा­न­त्वा­भ्यु­प­गमे यन्त्रेष्विव न युज्यत इत्यर्थः ।
ननु शरीरत्वान्न भोगाधिष्ठानत्वं सिध्यति अधि­ष्ठि­त­त्व­मा­त्रेण शरी­र­त्वो­प­प­त्ते­रि­त्यत आह –
न वा चेत­ना­धि­ष्ठि­ता­नीति ।
अने­ना­त्म­नाऽ­धि­ष्ठि­तानि अधि­ष्ठि­त­मा­त्राणि न देहपक्षे वर्तन्ते दारु­य­न्त्रे­ष्व­द­र्श­ना­दि­त्यर्थः । अनधिष्ठितानीति पाठः सुगमः ।
युक्तं च तद्विभाविति श्लोकभागं व्याकरोति –
न च सर्वगतस्येति ।
नैजादन्तःकरणाद् बहिरपि योग­प्र­भा­वा­द्व्या­प्ति­सं­भ­वा­द­न्तः­क­र­णा­न्त­रेषु सृष्टे­ष्व­स्या­त्म­नोऽ­भि­व्यक्तिः सम्भ­वे­त्त­द्व­शाच्च शरीरान्तरेष्वपि भोगसंभव इत्यर्थः । एकपदे एकपदनिक्षेपकाले । युगपदित्यर्थः ।
एक­स्मा­त्प्र­दी­पा­दु­त्प­न्ना­ना­मपि प्रदीपानां प्रति­प­त्ति­भे­दात् विदुषश्च सर्व­श­री­रे­ष्वै­क्या­न्नि­द­र्श­ना­नु­प­प­त्ति­मा­श­ङ्क्याह –
प्रदीपवदिति त्विति ।
यस्मा­द्दी­पा­त्प्र­व­र्तिता इतराः प्रदीपव्यक्तयः, तस्यैक्यं सादृ­श्या­दु­प­च­र्यते, न वर्तिवर्तिनीनां प्रदी­प­व्य­क्ती­ना­मै­क्यम् इत्यनुषङ्गः ।
तत्र हेतुः –
भेदादिति ।
भेद­प्र­ती­ते­रि­त्यर्थः ।
एक­म­नोऽ­नु­व­र्तित्वं शरी­रा­न्त­रा­णा­म­यु­क्तम् ; स्वकी­य­म­नोऽ­नु­व­र्ति­त्वा­दतो व्याचष्टे –
एका­भि­प्रा­येति॥१५॥
यो मुक्तः स ब्रह्म संपन्न इत्याद्युच्यते, तस्य न शरीरित्वसंभवः; श्रुति­वि­रो­धा­दि­त्ये­वं­प्र­का­रे­णा­क्त­म­र्थ­मा­क्षि­प­ती­त्यर्थः ।
सलिलशब्दस्य नपुं­स­क­त्वा­त्पु­ल्लि­ङ्ग­त्वा­नु­प­प­त्ति­मा­शङ्क्य व्याचष्टे –
सलि­ल­मि­वे­त्या­दिना ।
उपमानवाचिनः शब्दात् आचारार्थे गम्यमाने सर्व­प्रा­ति­प­दि­केभ्य इत्येके इति वक्तव्येन क्विपि कृते नन्दि­ग्र­हि­प­चा­दिभ्यो ल्युणिन्यच इति सूत्रे­णा­च्प्र­त्यये च कृते सलिल इति रूपम् । सलिलमिवाचरति तत्तुल्यो वर्तत इत्यर्थः । सगु­ण­वि­द्या­फ­ला­व­स्थायां मुक्ति­त्वा­भि­धानं मुक्त्य­व­स्था­प्र­त्या­स­त्ति­कृ­त­मि­त्यर्थः॥१६॥
इति षष्ठं प्रदीपाधिकरणम्॥

जग­द्व्या­पा­र­वर्जं प्रक­र­णा­द­स­न्नि­हि­त­त्वाच्च॥१७॥
मनः­श­री­र­स­र्गा­दा­वै­श्वर्यं यदुपासितुः ।
जगत्सर्गे तदुत्सृष्टमिह मानादपोद्यते॥
इति संगतिमभिसंदधानः पूर्वपक्षमाह –
स्वाराज्येति ।
नन्वी­श्व­र­द­त्त­सि­द्धे­रु­पा­स­कस्य कथं स्वकार्ये निर­ङ्कु­श­त्व­मा­श­ङ्क्य­तेऽत आह –
ईश्वराधीनेति ।
सिद्ध्यु­त्प­त्ति­र­स्ये­श्व­रा­धीना सिद्धिकार्ये त्वन­पे­क्षे­त्यर्थः । अत्र जग­ज्ज­न्मा­दा­वि­त्यर्थः । अस्मै उपासकाय । बलिं पूजाम् ।
स्वभाव इति ।
स्वकार्यजनकत्वं स्वभावः । मृत्पि­ण्डे­त्यादि भाट्टं वार्तिकम् ।
ननूदकाहरणादि घटादेः कारणानपेक्षं भवतु , ऐश्वर्यं तूप­जी­व्या­दु­प­जी­व­कस्य न्यूनमिति विशे­ष­व्या­प्ति­मा­शङ्क्य व्यभिचारयति –
न च विदु­षा­मि­त्या­दिना ।
ननु विद्या उपजीव्यसमा उपजीवकस्य भवतु, न तु निय­न्तृ­क­र्तृ­त्वा­द्यै­श्व­र्य­मि­त्या­श­ङ्क्याह –
दुष्ट­सा­म­न्ता­श्चेति ।
समप्राधान्यं हि विशेषानिर्णये भवति, अस्ति त्वत्रेश्वरस्य साधकेभ्यो विशे­ष­नि­र्ण­य­हे­तु­रि­त्याह –
नित्यत्वादिति ।
विदुषां स्वकार्ये परमेश्वराधीनता, कुतः? परमेश्वरस्य जग­त्क­र्तृ­त्वा­द्यै­श्व­रस्य नित्यत्वात्, अत एवा­न­पे­क्ष­त्वा­त्त­त्सा­पे­क्षाणा तु जीवानां जग­त्स्र­ष्टृ­त्वा­दे­री­श्व­र­प्रा­प्त्य­न्य­था­नु­प­पत्त्या कल्प्यत्वात् कल्प्याच्च क्लृप्तस्य बली­य­स्त्वा­दि­त्यर्थः । ईश्वरस्यैव चा’’त्मन आकाशः सभूत’’ इत्यादौ जग­त्स्र­ष्टृ­त्व­श्रु­तेः’’स्त­त्ते­जोऽ­सृ­ज­ते’’त्यादौ च जगत्सर्गे ‘‘सदेव सोम्येदमग्र’’ इत्यादिना तस्यैव प्रक्र­मा­दी­श्व­रा­धी­न­त्वा­भ्यु­प­गमे एवै­क­म­त्य­ला­भा­च्चे­त्यर्थः ।
नित्य­त्वा­दे­त्ये­त­द्व्या­चष्टे –
जगत्सर्गलक्षणं हीति ।
अन­पे­क्ष­त्वा­दि­त्ये­त­द्व्या­क­रोति –
तस्यैवेति ।
श्रुते­रि­त्ये­त­द्वि­भ­जते –
न च जग­त्स्र­ष्टृ­त्व­मिति ।
तत्प्र­क्र­मा­दि­त्यस्य विवरणं –
तमेव प्रकृत्येति ।
ऐक­म­त्या­च्चे­त्यस्य व्याख्या - अपि चेत्यादि । सिसृ­क्षा­सं­जि­ही­र्षयोः सत्योरपि यदि सृष्टिसमये सहारो न स्यात्, तर्हि न वा सृष्टिसंहारौ द्वावपि स्याताम् ; उभयोः स्रष्टृ­सं­ह­र्त्रो­री­श्व­र­त्वा­वि­घा­ता­दि­त्यर्थः ।
स्वपक्षे जग­त्र्स­र्गो­प­प­त्ति­माह –
एकस्य त्वित्यादिना ।
गृह्य­मा­ण­वि­शे­ष­त­याऽ­स­म­त्वा­दिति ।
असमत्वादिति छेदः॥१८॥
उक्ता­न्न्या­या­दिति ।
नित्य­त्वा­दि­त्या­दे­रि­त्यर्थः ॥१८॥ एतावान् सह­स्र­शी­र्षे­त्या­दि­रस्य महिमा विभूतिर्न तु स्वरू­प­मि­त्यर्थः॥१९॥
विकारावर्तीति दर्शयतश्चेति सूत्र­द्व­य­स्या­भि­प्रा­य­माह –
एतदुक्तमिति ।
सगुणे ब्रह्मणि स्थितानामपि गुणानां सत्य­का­म­त्वा­दीनां निरवग्रहत्वं सर्व­गो­च­र­त्व­मु­पा­स­कैर्न प्राप्यत इत्यर्थे दृष्टान्त उक्तः ।
यथा सगुणे ब्रह्मणि स्थितमपि विका­रा­व­र्ति­त्वाद् न प्राप्यत इति, तत् प्रपञ्चयति –
तत्त्वो­पा­स­ना­स्विति ।
पुरुषशब्देन पूर्णं निर्गुणं तत्त्वमुच्यते, तत्त्वोपासनासु हि तत्त्व­म­सी­त्या­दि­षू­पा­स­कस्य पुरुषक्रतुत्वं निर्गु­ण­चि­न्त­क­त्व­मि­त्यर्थः ।
ननु सगुणोपास्तिषु तर्हि किमित्युपासकस्य गुणगतं निर­ङ्कु­श­त्व­मु­पास्यं न भवति ? तत्राह –
उपासकस्य तदक्रतुत्वं चेति ।
न हि निर­व­ग्र­ह­स­त्य­का­म­त्वा­दि­गु­ण­क­मी­श्व­र­मु­पा­सी­तेति श्रुतिरस्ति, सा हि सत्य­का­म­त्वा­दि­गु­ण­मु­पा­सी­ते­त्य­वं­रू­पे­त्यर्थः । यदि तु विध्य­भि­प्रा­य­मु­पे­क्ष्या­प्यु­पा­सीत, तत्राह - स्वात­न्त्र्येति॥२०॥२१॥ द्विधा कार्यकारणरूपा । तं ब्रह्म­लो­क­ग­त­मु­पा­स­कम् हिरण्यगर्भ आह आपो वै खल्वमृतमय्यो मया मीयन्ते दृश्यन्ते मुज्यन्त इत्यर्थः । तवाप्यसौ स्मृत­रू­पो­द­क­ल­क्षणो लोको भोग्य इत्यर्थः ॥२२॥
इति सप्तमं जग­द्व्या­पा­रा­धि­क­र­णम्॥
श्रोतॄ­णा­मु­त्सा­ह­ज­न­नाय पर­म­पु­रु­षा­र्थ­प्रा­प्त्यु­पा­यतां गलितकलङ्कतां च स्वकृ­ते­रा­द­र्श­यन् सकलशास्त्रार्थं संकलयति –
भङ्क्त्वेति ।
येन ग्रन्थसंदर्भेण वाद्य­सु­रे­न्द्र­स­मूहं युक्ति­नि­शि­त­ख­ड्ग­धा­रा­भि­र्भङ्क्त्वा नयनथा श्रुति­लि­ङ्गा­दि­न्या­य­रू­प­मन्था तेन, विलो­लि­ता­दा­म्ना­य­दु­ग्ध­प­यो­नि­धे­रु­द्ग­त­म­खि­ला­वि­द्यो­प­धा­ना­तिगं ब्रह्मामृतं श्रोतृभिः प्राप्यते । सोऽयं परि­भा­व्य­ता­मि­त्य­न्वयः ।
अपि च व्याख्या­न­ग्र­न्थ­कर्तुः, व्याख्ये­य­ग्र­न्थ­का­रस्य च गौरवादपि तात्पर्येण प्रव­र्ति­त­व्य­मि­त्याह –
सोऽयमिति ।
शाङ्करं भाष्यं व्याख्येयं जातो विषयो यस्य सोऽयं वाचस्पतेर्मम ग्रन्थसन्दर्भो हे सुमतयो युष्माभिः श्रव­ण­व्या­ख्या­ना­दिभिः सादरं परिभाव्यताम् । मा चैवं मन्यध्वं एता­व­प्य­स्म­दा­दि­तुल्यौ विद्वांसौ किमे­त­त्कृ­तिभ्यां करिष्याम इति । यतः स्वार्थेषु को मत्सरः विशु­द्ध­सं­प्र­दा­य­वि­म­ल­धियौ न तादृश्यौ युष्माकं यादृ­श्या­वा­व­यो­रि­त्यर्थः । अत्र च भङ्क्त्वे­त्या­दि­र­वि­रो­धा­ध्या­यस्य संक्षेपः, आम्ना­य­प­यो­नि­धे­र्न­य­म­थेति सम­न्व­या­ध्या­यस्य, अवि­द्यो­प­धा­ना­ति­ग­मि­त्य­वि­द्या­वृ­त्ति­व­र्ण­नेन तद्धे­तु­वि­द्या­स्त­व­नात् तृतीयाध्यायस्य, अवि­द्या­नि­वृत्त्या चतुर्थस्य ब्रह्मामृतमिति चतु­र्था­ध्या­य­स्यै­वा­र्थ­सं­क्षेप इति॥ ॥१॥
न केवलं ग्रन्थ­व्या­ख्या­मा­त्र­मत्र कृतम्, अपि तु तत्र तत्र बौद्दा­दि­वि­रु­द्ध­रा­द्धा­न्त­भङ्गं स्वातन्त्र्येण नयमरीचिभिः कुर्वता जग­ता­म­बो­धोऽ­प­निन्ये, ब्रह्मबोधश्च स्थिरीचक्रे इत्याह –
अज्ञानेति ।
नीतिरेव नौस्तस्याः कर्णधारो नेता । अपूरि पूरितः॥२॥
यावन्तस्ते कृता ग्रन्था­स्त­न्नि­र्मा­णजं पुण्यं फलमीश्वरे समर्पयन् स्वस्य साक्षा­त्कृ­त­ब्र­ह्म­तया फलेऽप्यसङ्गं गमयति –
यन्न्यायेति ।
न्यायकणिका विधिविवेकटीका । तत्त्वसमीक्षा ब्रह्म­सि­द्धि­व्याख्या । तत्त्व­बि­न्दु­र्भा­ट्ट­म­ता­श्रयं स्वकृतं प्रकरणम् । न्यायस्य निबन्धो न्याय­वा­र्ति­क­ता­त्प­र्य­टीका । तत्त्वकौमुदी सांख्यनिबन्धः । योगनिबन्धनं पात­ञ्ज­ल­भा­ष्य­टीका तत्त्वशारदी । वेदान्तानां सर्वोपनिषदां निबन्धनमियमेव भामती । एतैर्निबन्धनैः यन्महापुण्यमहं समचैषं संचितवानस्मि तस्य फलं पुष्पकं यत् तत् परमेश्वरे मया समर्पितम् । अथ सम­र्प­ण­स­म­न­न्त­र­म­ने­नो­प­हा­रेण परमेश्वरः प्रीय­ता­मि­त्यर्थः ॥३॥४॥
कार्तस्वरं सुवर्णं तस्या­सा­रोऽ­न­व­र­त­व­र्षणं तेन सुपूरितोऽर्थः काङ्क्षिता यस्य सार्थस्य जनसमूहस्य स तथेत्येको बहुव्रीहिः । तथाविधः सार्थो यस्य प्रकृतत्वेन वर्तते स नृगस्तथेत्यपरः । नृगः इति राज्ञ आख्या॥५॥६॥ स्वज्यो­तिः­सु­ख­स­द­भे­द­मा­त्म­भूतं यन्मा­या­वि­र­चि­त­वि­श्व­दृ­श्य­नी­डम् ।
तद् ब्रह्म प्रण­त­भ­वा­न्ध­का­र­भानुं वन्देऽहं हरिहरविग्रहं दधानम्॥१॥
अमृ­त­म­मृ­तै­र­प्या­या­सा­द­तीव सुदुर्लभं प्रव­र­गु­ण­व­च्छि­ष्यि­र्यत्र स्थितं सुखमाप्यत ।
अजनि कमला यस्मा­द्वि­द्या­व­पु­र्नि­खि­ला­र्तिहा गुरुमनुभवानन्दं तं नौम्य­पा­र­कृ­पा­म्बु­धिम्॥२॥
आकल्पं कल्पवृक्षादमुत उदि­त­स­न्न्या­य­पुष्पैः प्रफुल्लैः
सत्प­क्षा­रू­ढ­वि­द्व­द्भ्र­म­र­मु­ख­रि­तै­र्बो­ध­स­द्भू­रि­गन्धैः ।
श्रोतृ­श्रे­णी­वि­दो­ष­श्र­व­ण­पु­ट­ग­तै­र्हृ­त्स­रो­जा­धि­वासः
श्रीका­न्तोऽ­भ्य­र्च्यतां स प्रकटयतु तनुं सच्चि­दा­न­न्द­रू­पम्॥३॥
क्व मामकं क्लेशवशानुगामि चेतः क्व वाच­स्प­ति­सू­क्त­योऽमूः ।
क्व शङ्कराचार्यवचः क्व चेदं वैयासिकं सूत्र­म­गा­ध­भा­वम्॥४॥
गुरु­क्ष­मा­भ­र्तृ­वि­नि­र्ग­तानां सरस्वतीनां श्रुति­सि­न्धु­सङ्गे ।
विगा­ह्य­स­ञ्चे­तु­म­न­न्त­पुण्यं परं मयाऽकारि निबन्ध एषः॥५॥
शास्त्राम्बुधेः पारगता द्विजेन्द्रा यद्द­त्त­चा­मी­क­र­वा­रि­राशेः ।
ज्ञातुं न पारं प्रभवन्ति तस्मिन् कृष्णक्षितीशे भुवनैकवीरे॥६॥
भ्रात्रा महादेवनृपेण साकं पाति क्षितिं प्रागिव धर्मसूनौ ।
कृतो मयाऽयं प्रवरः प्रबन्धः प्रग­ल्भ­वा­च­स्प­ति­भा­व­भेदी॥७॥
इति श्रीप­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­द­नु­भ­वा­न­न्द­पू­ज्य­पा­द­शिष्य भगवदमलानन्दस्य व्यासा­श्र­मा­प­र­ना­म­धे­यस्य कृतौ वेदान्तकल्पतरौ चतुर्थाध्यायस्य चतुर्थः पादः॥