अद्वैतशारदा

कठोपनिषद्भाष्यम्

प्रथमोऽध्यायः

व्याख्याः

प्रथमा वल्ली

ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्म­वि­द्या­चा­र्याय, नचिकेतसे च ।

अथ काठ­को­प­नि­ष­द्व­ल्लीनां सुखा­र्थ­प्र­बो­ध­ना­र्थ­म­ल्प­ग्रन्था वृत्तिरारभ्यते । सदे­र्धा­तो­र्वि­श­र­ण­ग­त्य­व­सा­द­ना­र्थ­स्यो­प­नि­पू­र्वस्य क्विप्प्र­त्य­या­न्तस्य रूपमिदम् ‘उपनिषत्’ इति । उपनिषच्छब्देन च व्याचि­ख्या­सि­त­ग्र­न्थ­प्र­ति­पा­द्य­वे­द्य­व­स्तु­वि­षया विद्या उच्यते । केन पुन­र­र्थ­यो­गे­नो­प­नि­ष­च्छ­ब्देन विद्योच्यत इति, उच्यते । ये मुमुक्षवो दृष्टा­नु­श्र­वि­क­वि­ष­य­वि­तृष्णाः सन्तः उप­नि­ष­च्छ­ब्द­वाच्यां वक्ष्य­मा­ण­ल­क्षणां विद्या­मु­प­स­द्यो­प­गम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विश­र­णा­द्धिं­स­ना­द्वि­ना­श­ना­दि­त्य­ने­ना­र्थ­यो­गेन विद्यो­प­नि­ष­दि­त्यु­च्यते । तथा च वक्ष्यति ‘निचाय्य तं मृत्यु­मु­खा­त्प्र­मु­च्यते’(क. उ. १ । ३ । १५) इति । पूर्वो­क्त­वि­शे­ष­णान्वा मुमुक्षून्परं ब्रह्म गमयतीति च ब्रह्म­ग­म­यि­तृ­त्वेन योगा­द्ब्र­ह्म­विद्या उपनिषत् । तथा च वक्ष्यति ‘ब्रह्म प्राप्तो विर­जोऽ­भू­द्वि­मृत्युः’(क. उ. २ । ३ । १८) इति । लोका­दि­र्ब्र­ह्म­जज्ञो योऽग्निः, तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्य­मा­नायाः स्वर्ग­लो­क­फ­ल­प्रा­प्ति­हे­तु­त्वेन गर्भ­वा­स­ज­न्म­ज­रा­द्यु­प­द्र­व­बृ­न्दस्य लोकान्तरे पौनःपुन्येन प्रवृ­त्त­स्या­व­सा­द­यि­तृ­त्वेन शैथिल्यापादनेन धात्व­र्थ­यो­गा­द­ग्नि­वि­द्यापि उप­नि­ष­दि­त्यु­च्यते । तथा च वक्ष्यति ‘स्वर्गलोका अमृतत्वं भजन्ते’(क. उ. १ । १ । १३) इत्यादि । ननु चोप­नि­ष­च्छ­ब्दे­ना­ध्ये­तारो ग्रन्थ­म­प्य­भि­ल­पन्ति — उपनिषदमधीमहे उपनिषदमध्यापयाम इति च । नैष दोषः, अवि­द्या­दि­सं­सा­र­हे­तु­वि­श­र­णादेः सदिधात्वर्थस्य ग्रन्थ­मा­त्रेऽ­स­म्भ­वा­द्वि­द्यायां च सम्भवात् ग्रन्थस्यापि तादर्थ्येन तच्छ­ब्द­त्वो­प­पत्तेः ‘आयुर्वै घृतम्’(तै. सं. २ । ३ । ११) इत्यादिवत् । तस्मा­द्वि­द्यायां मुख्यया वृत्त्या उपनिषच्छब्दो वर्तते, ग्रन्थे तु भक्त्येति । एव­मु­प­नि­ष­न्नि­र्व­च­ने­नैव विशिष्टोऽधिकारी विद्यायाम् उक्तः । विषयश्च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्य­गा­त्म­भू­तम् । प्रयोजनं चास्या आत्यन्तिकी संसा­र­नि­वृ­त्ति­र्ब्र­ह्म­प्रा­प्ति­ल­क्षणा । सम्ब­न्ध­श्चै­व­म्भू­त­प्र­यो­ज­ने­नोक्तः । अतो यथो­क्ता­धि­का­रि­वि­ष­य­प्र­यो­ज­न­स­म्ब­न्धाया विद्यायाः कर­त­ल­न्य­स्ता­म­ल­क­व­त्प्र­का­श­क­त्वेन विशि­ष्टा­धि­का­रि­वि­ष­य­प्र­यो­ज­न­स­म्बन्धा एता वल्ल्यो भवन्तीति । अतस्ता यथाप्रतिभानं व्याचक्ष्महे ॥

उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥

तत्राख्यायिका विद्या­स्तु­त्यर्था । उशन् कामयमानः । ह वै इति वृत्ता­र्थ­स्म­र­णार्थौ निपातौ । वाजम् अन्नम् , तद्दा­ना­दि­नि­मित्तं श्रवो यशो यस्य सः वाजश्रवाः, रूढितो वा ; तस्यापत्यं वाजश्रवसः । सः वाजश्रवसः किल विश्वजिता सर्वमेधेनेजे तत्फलं कामयमानः । सः तस्मिन्क्रतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान् । तस्य यजमानस्य ह नचिकेता नाम पुत्रः किल आस बभूव ॥

तꣳ ह कुमारꣳ सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २ ॥

तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तम् अप्रा­प्त­प्र­ज­न­न­शक्तिं बालमेव श्रद्धा आस्तिक्यबुद्धिः पितु­र्हि­त­का­म­प्र­युक्ता आविवेश प्रविष्टवती । कस्मिन्काले इति, आह — ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासु नीयमानासु विभा­गे­नो­प­नी­य­मा­नासु दक्षिणार्थासु गोषु, सः आविष्टश्रद्धो नचिकेताः अमन्यत ॥

पीतोदका जग्ध­तृ­णा­दु­ग्ध­दोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥ ३ ॥

कथमिति, उच्यते — पीतोदका इत्यादिना दक्षिणार्था गावो विशेष्यन्ते । पीतमुदकं याभिस्ताः पीतोदकाः । जग्धं भक्षितं तृणं याभिस्ता जग्धतृणाः । दुग्धो दोहः क्षीराख्यो यासां ताः दुग्धदोहाः । निरिन्द्रियाः प्रजननासमर्थाः जीर्णाः, निष्फला गाव इत्यर्थः । यास्ताः एवंभूताः गाः ऋत्विग्भ्यो दक्षिणाबुद्ध्या ददत् प्रयच्छन् अनन्दाः अनानन्दाः असुखा नामेत्येतत् । ये ते लोकाः, तान् सः यजमानः गच्छति ॥

स होवाच पितरं तत कस्मै मां दास्यसीति द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥ ४ ॥

तदेवं क्रत्व­स­म्प­त्ति­नि­मित्तं पितुरनिष्टं फलं पुत्रेण सता निवारणीयं मया आत्मप्रदानेनापि क्रतुसम्पत्तिं कृत्वेत्येवं मन्यमानः पितरमुपगम्य स होवाच पितरम् — हे तत तात कस्मै ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसीति प्रय­च्छ­सी­त्ये­तत् । स एवमुक्तेन पित्रा उपेक्ष्यमाणोऽपि द्वितीयं तृतीयमपि उवाच — कस्मै मां दास्यसि कस्मै मां दास्यसीति । नायं कुमारस्वभाव इति क्रुद्धः सन् पिता तं ह पुत्रं किल उवाच मृत्यवे वैवस्वताय त्वा त्वां ददामीति ॥

बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
किं स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥

स एवमुक्तः पुत्रः एकान्ते परिदेवयाञ्चकार । कथमिति, उच्यते — बहूनां शिष्याणां पुत्राणां वा एमि गच्छामि प्रथमः सन् मुख्यया शिष्या­दि­वृ­त्त्ये­त्यर्थः । मध्यमानां च बहूनां मध्यमः मध्यमयैव वृत्त्या एमि । नाधमया कदाचिदपि । तमेवं विशिष्टगुणमपि पुत्रं माम् ‘मृत्यवे त्वा ददामि’ इत्युक्तवान् पिता । सः किंस्वित् यमस्य कर्तव्यं प्रयोजनं मया प्रदत्तेन करिष्यति यत्कर्तव्यम् अद्य ? नूनं प्रयो­ज­न­म­न­पे­क्ष्यैव क्रोध­व­शा­दु­क्त­वान् पिता । तथापि तत्पितुर्वचो मृषा मा भूदिति ॥

अनुपश्य यथा पूर्वे प्रतिपश्य तथा परे ।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥

एवं मत्वा परि­दे­व­ना­पू­र्व­क­माह पितरं शोकाविष्टं किं मयोक्तमिति — अनुपश्य आलोचय विभावयानुक्रमेण यथा येन प्रकारेण वृत्ताः पूर्वे अतिक्रान्ताः पितृ­पि­ता­म­हा­द­य­स्तव । तान्दृष्ट्वा च तेषां वृत्त­मा­स्था­तु­म­र्हसि । वर्तमानाश्च अपरे साधवो यथा वर्तन्ते तांश्च तथा प्रतिपश्य आलोचय । न च तेषां मृषाकरणं वृत्तं वर्तमानं वा अस्ति । तद्विपरीतमसतां च वृत्तं मृषाकरणम् । न च मृषाभूतं कृत्वा कश्चिदजरामरो भवति ; यतः सस्यमिव मर्त्यः मनुष्यः पच्यते जीर्णो म्रियते, मृत्वा च सस्यमिव आजायते आविर्भवति पुनः ; एवमनित्ये जीवलोके किं मृषाकरणेन ? पालयात्मनः सत्यम् । प्रेषय मां यमा­ये­त्य­भि­प्रायः ॥

वैश्वानरः प्रविशति अति­थि­र्ब्रा­ह्मणो गृहान् ।
तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥

स एवमुक्तः पिता आत्मनः सत्यतायै प्रेषयामास । स च यमभवनं गत्वा तिस्रो रात्रीरुवास यमे प्रोषिते । प्रोष्यागतं यमम् अमात्या भार्या वा ऊचुर्बोधयन्तः — वैश्वानरः अग्निरेव साक्षात् प्रविशति अतिथिः सन् ब्राह्मणः गृहान् दहन्निव । तस्य दाहं शमयन्त इवाग्नेः एतां पाद्या­स­ना­दि­दा­न­ल­क्षणां शान्तिं कुर्वन्ति सन्तोऽ­ति­थे­र्यतः, अतः हर आहर हे वैवस्वत, उदकं नचिकेतसे पाद्यार्थम् ॥

आशाप्रतीक्षे सङ्गतं सूनृतां च इष्टापूर्ते पुत्रपशूंश्च सर्वान् ।
एतद्वृङ्क्ते पुरु­ष­स्या­ल्प­मे­धसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८ ॥

यतश्चाकरणे प्रत्यवायः श्रूयते — आशाप्रतीक्षे, अनि­र्ज्ञा­त­प्रा­प्ये­ष्टा­र्थ­प्रा­र्थना आशा, निर्ज्ञा­त­प्रा­प्या­र्थ­प्र­ती­क्षणं प्रतीक्षा, ते आशाप्रतीक्षे ; सङ्गतं सत्संयोगजं फलम् , सूनृतां च सूनृता हि प्रिया वाक् तन्निमित्तं च, इष्टापूर्ते इष्टं यागजं फलं पूर्तम् आरामादिक्रियाजं फलम् , पुत्रपशूंश्च पुत्रांश्च पशूंश्च सर्वान् , एतत् सर्वं यथोक्तं वृङ्क्ते वर्जयति विनाशयतीत्येतत् । पुरुषस्य अल्पमेधसः अल्पप्रज्ञस्य, यस्य अनश्नन् अभुञ्जानः ब्राह्मणः गृहे वसति । तस्मा­द­नु­पे­क्ष­णीयः सर्वा­व­स्था­स्व­प्य­ति­थि­रि­त्यर्थः ॥

तिस्रो रात्री­र्य­द­वा­त्सी­र्गृहे मे अन­श्न­न्ब्र­ह्म­न्न­ति­थि­र्न­मस्यः ।
नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्व­रा­न्वृ­णीष्व ॥ ९ ॥

एवमुक्तो मृत्युरुवाच नचिकेतसमुपगम्य पूजापुरःसरम् — तिस्रः रात्रीः यत् यस्मात् अवात्सीः उषितवानसि गृहे मे मम अनश्नन् हे ब्रह्मन् अतिथिः सन् नमस्यः नमस्कारार्हश्च, तस्मात् नमः ते तुभ्यम् अस्तु भवतु । हे ब्रह्मन् स्वस्ति भद्रं मे अस्तु । तस्मात् भवतोऽनशनेन मद्गृ­ह­वा­स­नि­मि­त्ता­द्दो­षात् । तत्प्रा­प्त्यु­प­श­मेन यद्यपि भवदनुग्रहेण सर्वं मम स्वस्ति स्यात् , तथापि त्वद­धि­क­स­म्प्र­सा­द­ना­र्थ­म­न­श­ने­नो­षि­ता­मे­कैकां रात्रिं प्रति त्रीन् वरान् वृणीष्व अभि­प्रे­ता­र्थ­वि­ष­या­न्प्रा­र्थ­यस्व मत्तः ॥

शान्तसङ्कल्पः सुमना यथा स्याद्वी­त­म­न्यु­र्गौ­तमो माभिमृत्यो ।
त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ १० ॥

१०

नचिकेतास्त्वाह — यदि दित्सुर्वरान् , शान्तसङ्कल्पः उपशान्तः सङ्कल्पो यस्य मां प्रति ‘यमं प्राप्य किं नु करिष्यति मम पुत्रः’ इति, सः शान्तसङ्कल्पः सुमनाः प्रसन्नचित्तश्च यथा स्यात् वीतमन्युः विगतरोषश्च गौतमः मम पिता मा अभि मां प्रति हे मृत्यो ; किञ्च, त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति मा माम् अभिवदेत् प्रतीतः लब्धस्मृतिः, ‘स एवायं पुत्रो ममागतः’ इत्येवं प्रत्य­भि­जा­न­न्नि­त्यर्थः । एतत्प्रयोजनं त्रयाणां वराणां प्रथमम् आद्यं वरं वृणे प्रार्थये यत्पितुः परितोषणम् ॥

यथा पुरस्ताद्भविता प्रतीत औद्दा­ल­कि­रा­रु­णि­र्म­त्प्र­सृष्टः ।
सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृ­शि­वा­न्मृ­त्यु­मु­खा­त्प्र­मु­क्तम् ॥ ११ ॥

११

मृत्युरुवाच — यथा बुद्धिः त्वयि पुरस्तात् पूर्वम् आसी­त्स्ने­ह­स­म­न्विता पितुस्तव, भविता प्रीति­स­म­न्वि­त­स्तव पिता तथैव प्रतीतः प्रतीतवान्सन् । औद्दालकिः उद्दालक एव औद्दालकिः अरुणस्यापत्यम् आरुणिः द्व्यामुष्यायणो वा मत्प्रसृष्टः मयानुज्ञातः सन् इतरा अपि रात्रीः सुखं प्रसन्नमनाः शयिता स्वप्ता वीतमन्युः विगतमन्युश्च भविता स्यात् , त्वां पुत्रं ददृशिवान् दृष्टवान् सन् मृत्युमुखात् मृत्युगोचरात् प्रमुक्तं सन्तम् ॥

स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२ ॥

१२

नचिकेता उवाच — स्वर्गे लोके रोगादिनिमित्तं भयं किञ्चन किञ्चिदपि नास्ति । न च तत्र त्वं मृत्यो सहसा प्रभवसि, अतो जरया युक्त इह लोक इव त्वत्तो न बिभेति कश्चित्तत्र । किं च उभे अशनायापिपासे तीर्त्वा अतिक्रम्य शोकमतीत्य गच्छतीति शोकातिगः सन् मानसेन दुःखेन वर्जितः मोदते हृष्यति स्वर्गलोके दिवि ॥

स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण ॥ १३ ॥

१३

एवं गुणविशिष्टस्य स्वर्गलोकस्य प्राप्ति­सा­ध­न­भू­तम् अग्निं स्वर्ग्यं स त्वं मृत्युः अध्येषि स्मरसि, जानासीत्यर्थः । हे मृत्यो, यतः तं प्रब्रूहि कथय श्रद्दधानाय श्रद्धावते मह्यं स्वर्गार्थिने । येनाग्निना चितेन स्वर्गलोकाः स्वर्गो लोको येषां ते स्वर्गलोकाः यजमानाः अमृतत्वम् अमरणतां देवत्वं भजन्ते प्राप्नुवन्ति, तत् एतत् अग्निविज्ञानं द्वितीयेन वरेण वृणे ॥

प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अन­न्त­लो­का­प्ति­मथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥

१४

मृत्योः प्रतिज्ञेयम् — ते तुभ्यं प्रब्रवीमि ; यत्त्वया प्रार्थितं तत् उ मे मम वचसः निबोध बुध्यस्व एकाग्रमनाः सन् । स्वर्ग्यं स्वर्गाय हितं स्वर्गसाधनम् अग्निं हे नचिकेतः प्रजानन् विज्ञा­त­वा­न्स­न्न­ह­मि­त्यर्थः । प्रब्रवीमि तन्निबोधेति च शिष्य­बु­द्धि­स­मा­धा­नार्थं वचनम् । अधुनाग्निं स्तौति — अनन्तलोकाप्तिं स्वर्ग­लो­क­फ­ल­प्रा­प्ति­सा­ध­न­मि­त्ये­तत् , अथो अपि प्रतिष्ठाम् आश्रयं जगतो विराट्स्वरूपेण, तम् एतम् अग्निं मयोच्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायाम् । विदुषां बुद्धौ निवि­ष्ट­मि­त्यर्थः ॥

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्र­त्य­व­द­द्य­थो­क्त­म­थास्य मृत्युः पुनरेवाह तुष्टः ॥ १५ ॥

१५

इदं श्रुतेर्वचनम् — लोकादिं लोकानामादिं प्रथ­म­श­री­रि­त्वात् अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाच उक्तवान्मृत्युः तस्मै नचिकेतसे । किञ्च, याः इष्टकाः चेतव्याः स्वरूपेण यावतीर्वा सङ्ख्यया यथा वा चीयतेऽग्निर्येन प्रकारेण सर्व­मे­त­दु­क्त­वा­नि­त्यर्थः । स चापि नचिकेताः तत् मृत्युनोक्तं प्रत्यवदत् यथा­व­त्प्र­त्य­ये­ना­व­दत् प्रत्यु­च्चा­रि­त­वान् । अथ अस्य प्रत्युच्चारणेन तुष्टः सन् मृत्युः पुनरेवाह वर­त्र­य­व्य­ति­रे­के­णान्यं वरं दित्सुः ॥

तम­ब्र­वी­त्प्री­य­माणो महात्मा वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥

१६

कथम् ? तं नचिकेतसम् अब्रवीत् प्रीयमाणः शिष्यस्य योग्यतां पश्यन्प्रीयमाणः प्रीतिमनुभवन् महात्मा अक्षुद्रबुद्धिः वरं तव चतुर्थम् इह प्रीतिनिमित्तम् अद्य इदानीं ददामि भूयः पुनः प्रयच्छामि । तवैव नचिकेतसः नाम्ना अभिधानेन प्रसिद्धः भविता मयोच्यमानः अयम् अग्निः । किञ्च, सृङ्कां शब्दवतीं रत्नमयीं मालाम् इमाम् अनेकरूपां विचित्रां गृहाण स्वीकुरु । यद्वा, सृङ्काम् अकुत्सितां गतिं कर्ममयीं गृहाण । अन्यदपि कर्म­वि­ज्ञा­न­म­ने­क­फ­ल­हे­तु­त्वा­त्स्वी­कु­र्वि­त्यर्थः ॥

त्रिणा­चि­के­त­स्त्रि­भि­रेत्य सन्धिं त्रिक­र्म­कृ­त्त­रति जन्ममृत्यू ।
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्ति­म­त्य­न्त­मेति ॥ १७ ॥

१७

पुनरपि कर्मस्तुतिमेवाह — त्रिणाचिकेतः त्रिः कृत्वा नाचि­के­तोऽ­ग्नि­श्चितो येन सः त्रिणाचिकेतः ; तद्वि­ज्ञा­न­वान्वा । त्रिभिः मातृ­पि­त्रा­चार्यैः एत्य प्राप्य सन्धिं सन्धानं सम्बन्धम् , मात्रा­द्य­नु­शा­सनं यथा­व­त्प्रा­प्ये­त्ये­तत् । तद्धि प्रामाण्यकारणं श्रुत्य­न्त­रा­द­व­ग­म्यते ‘यथा मातृ­मा­न्पि­तृ­मान्’(बृ. उ. ४ । १ । २) इत्यादेः । वेद­स्मृ­ति­शि­ष्टैर्वा प्रत्य­क्षा­नु­मा­ना­ग­मैर्वा । तेभ्यो हि विशुद्धिः प्रत्यक्षा । त्रिकर्मकृत् इज्या­ध्य­य­न­दा­नानां कर्ता तरति अतिक्रामति जन्ममृत्यू । किञ्च, ब्रह्मजज्ञम् , ब्रह्मणो हिर­ण्य­ग­र्भा­ज्जातो ब्रह्मजः ब्रह्मजश्चासौ ज्ञश्चेति ब्रह्मजज्ञः । सर्वज्ञो ह्यसौ । तं देवं द्योत­ना­ज्ज्ञा­ना­दि­गु­ण­व­न्तम् , ईड्यं स्तुत्यं विदित्वा शास्त्रतः, निचाय्य दृष्ट्वा चात्मभावेन इमां स्वबु­द्धि­प्र­त्यक्षां शान्तिम् उपरतिम् अत्यन्तम् एति अतिशयेनैति । वैराजं पदं ज्ञान­क­र्म­स­मु­च्च­या­नु­ष्ठा­नेन प्राप्नो­ती­त्यर्थः ॥

त्रिणा­चि­के­त­स्त्र­य­मे­त­द्वि­दित्वा य एवं विद्वांश्चिनुते नाचिकेतम् ।
स मृत्यु­पा­शा­न्पु­रतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८ ॥

१८

इदा­नी­म­ग्नि­वि­ज्ञा­न­च­य­न­फ­ल­मु­प­सं­ह­रति, प्रकरणं च — त्रिणाचिकेतः त्रयं यथोक्तम् ‘या इष्टका यावतीर्वा यथा वा’ इति । एतत् विदित्वा अवगम्य यश्च एवम् आत्मस्वरूपेण अग्निं विद्वान् चिनुते निर्वर्तयति नाचिकेतमग्निं क्रतुम् , सः मृत्युपाशान् अध­र्मा­ज्ञा­न­रा­ग­द्वे­षा­दि­ल­क्ष­णान् पुरतः अग्रतः, पूर्वमेव शरी­र­पा­ता­दि­त्यर्थः, प्रणोद्य अपहाय, शोकातिगः मान­सै­र्दुः­खै­र्वि­गत इत्येतत् , मोदते स्वर्गलोके वैराजे विरा­डा­त्म­स्व­रू­प­प्र­ति­पत्त्या ॥

एष तेऽग्नि­र्न­चि­केतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९ ॥

१९

एषः ते तुभ्यम् अग्निः वरः हे नचिकेतः, स्वर्ग्यः स्वर्गसाधनः, यम् अग्निं वरम् अवृणीथाः वृतवान् प्रार्थितवानसि द्वितीयेन वरेण, सोऽग्निर्वरो दत्त इत्यु­क्तो­प­सं­हारः । किञ्च, एतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासः जना इत्येतत् । एष वरो दत्तो मया चतुर्थस्तुष्टेन । तृतीयं वरं नचिकेतः वृणीष्व । तस्मिन्ह्यदत्ते ऋण­वा­ने­वा­ह­मि­त्य­भि­प्रायः ॥

येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।
एत­द्वि­द्या­म­नु­शि­ष्ट­स्त्व­याहं वराणामेष वरस्तृतीयः ॥ २० ॥

२०

एता­व­द्ध्य­ति­क्रा­न्तेन विधि­प्र­ति­षे­धा­र्थेन मन्त्र­ब्रा­ह्म­णे­ना­व­ग­न्तव्यं यद्वरद्वयसूचितं वस्तु नात्म­त­त्त्व­वि­ष­य­या­था­त्म्य­वि­ज्ञा­नम् । अतो विधि­प्र­ति­षे­धा­र्थ­वि­ष­यस्य आत्मनि क्रिया­का­र­क­फ­ला­ध्या­रो­प­ण­ल­क्ष­णस्य स्वाभा­वि­क­स्या­ज्ञा­नस्य संसारबीजस्य निवृत्त्यर्थं तद्वि­प­री­त­ब्र­ह्मा­त्मै­क­त्व­वि­ज्ञानं क्रिया­का­र­क­फ­ला­ध्या­रो­प­ण­शू­न्य­मा­त्य­न्ति­क­निः­श्रे­य­स­प्र­यो­जनं वक्त­व्य­मि­त्यु­त्तरो ग्रन्थ आरभ्यते । तमेतमर्थं द्विती­य­व­र­प्रा­प्त्या­प्य­कृ­ता­र्थत्वं तृती­य­व­र­गो­च­र­मा­त्म­ज्ञा­न­म­न्त­रे­णे­त्या­ख्या­यि­कया प्रपञ्जयति । यतः पूर्व­स्मा­त्क­र्म­गो­च­रा­त्सा­ध्य­सा­ध­न­ल­क्ष­णा­द­नि­त्या­द्वि­र­क्त­स्या­त्म­ज्ञा­नेऽ­धि­कार इति तन्निन्दार्थं पुत्रा­द्यु­प­न्या­सेन प्रलोभनं क्रियते । नचिकेता उवाच ‘तृतीयं वरं नचिकेतो वृणीष्व’ इत्युक्तः सन् — येयं विचिकित्सा संशयः प्रेते मृते मनुष्ये, अस्ति इत्येके अस्ति शरी­रे­न्द्रि­य­म­नो­बु­द्धि­व्य­ति­रिक्तो देहा­न्त­र­स­म्ब­न्ध्यात्मा इत्येके मन्यन्ते, नायमस्ति इति चैके नाय­मे­वं­वि­धोऽ­स्तीति चैके । अत्र चास्माकं न प्रत्यक्षेण नाप्यनुमानेन निर्णयविज्ञानम् । एत­द्वि­ज्ञा­ना­धीनो हि परः पुरुषार्थ इत्यतः एतत् विद्यां विजानीयाम् अहम् अनुशिष्टः ज्ञापितः त्वया । वराणामेष वर­स्तृ­ती­योऽ­व­शिष्टः ॥

देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः ।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ २१ ॥

२१

किमयमेकान्ततो निःश्रे­य­स­सा­ध­ना­त्म­ज्ञा­नार्हो न वेत्ये­त­त्प­री­क्ष­णा­र्थ­माह — देवैरपि अत्र एतस्मिन्वस्तुनि विचिकित्सितं संशयितं पुरा पूर्वम् । न हि सुविज्ञेयं सुष्ठु विज्ञेयम् असकृच्छ्रुतमपि प्राकृतैर्जनैः, यतः अणुः सूक्ष्मः एषः आत्माख्यः धर्मः । अतः अन्यम् असन्दिग्धफलं वरं नचिकेतः, वृणीष्व । मा मां मा उपरोत्सीः उपरोधं मा कार्षीः अध­म­र्ण­मि­वो­त्त­मर्णः । अतिसृज विमुञ्च एनं वरं मा मां प्रति ॥

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२ ॥

२२

एवमुक्तो नचिकेता आह — देवैरत्रापि विचिकित्सितं किलेति भवत एव नः श्रुतम् । त्वं च मृत्यो, यत् यस्मात् न सुज्ञेयम् आत्मतत्त्वम् आत्थ कथयसि । अतः पण्डि­तै­र­प्य­वे­द­नी­य­त्वात् वक्ता च अस्य धर्मस्य त्वादृक् त्वत्तुल्यः अन्यः पण्डितश्च न लभ्यः अन्विष्यमाणोऽपि । अयं तु वरो निःश्रे­य­स­प्रा­प्ति­हेतुः । अतः न अन्यः वरः तुल्यः सदृशः अस्ति एतस्य कश्चिदपि । अनि­त्य­फ­ल­त्वा­द­न्यस्य सर्व­स्यै­वे­त्य­भि­प्रायः ॥

शतायुषः पुत्र­पौ­त्रा­न्वृ­णीष्व बहू­न्प­शू­न्ह­स्ति­हि­र­ण्य­म­श्वान् ।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २३ ॥

२३

एवमुक्तोऽपि पुनः प्रलोभयन्नुवाच मृत्युः — शतायुषः शतं वर्षाणि आयूंषि येषां तान् शतायुषः पुत्रपौत्रान् वृणीष्व । किञ्च, गवादिलक्षणान् बहून् पशून् हस्तिहिरण्यम् , हस्ती च हिरण्यं च हस्तिहिरण्यम् , अश्वांश्च । किञ्च, भूमेः पृथिव्याः महत् विस्तीर्णम् आयतनम् आश्रयं मण्डलं साम्राज्यं वृणीष्व । किञ्च, सर्व­म­प्ये­त­द­न­र्थकं स्वयं चेदल्पायुरित्यत आह — स्वयं च त्वं जीव धारय शरीरं सम­ग्रे­न्द्रि­य­क­लापं शरदः वर्षाणि यावत् इच्छसि जीवितुम् ॥

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २४ ॥

२४

एतत्तुल्यम् एतेन यथोपदिष्टेन सदृशम् अन्यमपि यदि मन्यसे वरम् , तमपि वृणीष्व । किञ्च, वित्तं प्रभूतं हिरण्यरत्नादि चिरजीविकां च सह वित्तेन वृणीष्वेत्येतत् । किं बहुना ? महाभूमौ महत्यां भूमौ राजा नचिकेतः त्वम् एधि भव । किञ्चान्यत् , कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामार्हं करोमि, सत्यसङ्कल्पो ह्यहं देवः ॥

ये ये कामा दुर्लभा मर्त्यलोके सर्वा­न्का­मां­श्छ­न्दतः प्रार्थयस्व ।
इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः ।
आभि­र्म­त्प्र­त्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः ॥ २५ ॥

२५

ये ये कामाः प्रार्थनीयाः दुर्लभाश्च मर्त्यलोके, सर्वान् तान् कामान् छन्दतः इच्छातः प्रार्थयस्व । किञ्च, इमाः दिव्या अप्सरसः, रमयन्ति पुरुषानिति रामाः, सह रथैर्वर्तन्त इति सरथाः, सतूर्याः सवादित्राः, ताश्च न हि लम्भनीयाः प्रापणीयाः ईदृशाः एवंविधाः मनुष्यैः मर्त्यैः अस्म­दा­दि­प्र­सा­द­म­न्त­रेण । आभिः मत्प्रत्ताभिः मया प्रदत्ताभिः परिचारिकाभिः परिचारयस्व आत्मानम् , पाद­प्र­क्षा­ल­ना­दि­शु­श्रूषां कारयात्मन इत्यर्थः । हे नचिकेतः, मरणं मरणसम्बद्धं प्रश्नं प्रेत्यास्ति नास्तीति काक­द­न्त­प­री­क्षा­रूपं मा अनुप्राक्षीः मैवं प्रष्टुमर्हसि ॥

श्वोभावा मर्त्यस्य यद­न्त­कै­त­त्स­र्वे­न्द्रि­याणां जरयन्ति तेजः ।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६ ॥

२६

मृत्युना एवं प्रलोभ्यमानोऽपि नचिकेता महा­ह्र­द­व­द­क्षोभ्य आह — श्वो भविष्यन्ति न वेति सन्दिह्यमान एव येषां भावो भवनं त्वयो­प­न्य­स्तानां भोगानां ते श्वोभावाः । किञ्च, मर्त्यस्य मनुष्यस्य अन्तक हे मृत्यो, यत् एतत् सर्वे­न्द्रि­याणां तेजः तत् जरयन्ति अपक्षपयन्ति । अप्सरःप्रभृतयो भोगा अनर्थायैवैते, धर्म­वी­र्य­प्र­ज्ञा­ते­जो­य­शः­प्र­भृ­तीनां क्षपयितृत्वात् । यां चापि दीर्घजीविकां त्वं दित्ससि तत्रापि शृणु । सर्वं यद्ब्रह्मणोऽपि जीवितम् आयुः अल्पमेव, किमु­ता­स्म­दा­दि­दी­र्घ­जी­विका । अतः तवैव तिष्ठन्तु वाहाः रथादयः, तथा तव नृत्यगीते च ॥

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७ ॥

२७

किञ्च, न प्रभूतेन वित्तेन तर्पणीयो मनुष्यः । न हि लोके वित्तलाभः कस्य­चि­त्तृ­प्ति­करो दृष्टः । यदि नामास्माकं वित्ततृष्णा स्यात् , लप्स्यामहे प्राप्स्यामहे वित्तम् , अद्राक्ष्म दृष्टवन्तो वयं चेत् त्वा त्वाम् । जीवितमपि तथैव — जीविष्यामः यावत् याम्ये पदे त्वम् ईशिष्यसि ईशिष्यसे प्रभुः स्याः । कथं हि मर्त्यस्त्वया समे­त्या­ल्प­ध­ना­यु­र्भ­वेत् ? वरस्तु मे वरणीयः स एव यदात्मविज्ञानम् ॥

अजी­र्य­ता­म­मृ­ता­ना­मु­पेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।
अभि­ध्या­य­न्व­र्ण­र­ति­प्र­मो­दा­न­ति­दीर्घे जीविते को रमेत ॥ २८ ॥

२८

यतश्च अजीर्यतां वयो­हा­नि­म­प्रा­प्नु­व­ताम् अमृतानां सकाशम् उपेत्य उपगम्य आत्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन् उपलभमानः स्वयं तु जीर्यन् मर्त्यः जरामरणवान् क्वधःस्थः कुः पृथिवी अध­श्चा­सा­व­न्त­रि­क्षा­दि­लो­का­पे­क्षया तस्यां तिष्ठतीति क्वधःस्थः सन् कथमेवमविवेकिभिः प्रार्थनीयं पुत्र­वि­त्ता­द्य­स्थिरं वृणीते । ‘क्व तदास्थः’ इति वा पाठान्तरम् । अस्मिन्पक्षे चैवमक्षरयोजना— तेषु पुत्रादिषु आस्था आस्थितिः तात्पर्येण वर्तनं यस्य स तदास्थः । ततोऽधिकतरं पुरुषार्थं दुष्प्रापमपि अभिप्रेप्सुः क्व तदास्थो भवेत् ? न कश्चि­त्त­द­सा­र­ज्ञ­स्त­दर्थी स्यादित्यर्थः । सर्वो ह्युपर्युपर्येव बुभूषति लोकः । तस्मान्न पुत्र­वि­त्ता­दि­लोभैः प्रलोभ्योऽहम् । किञ्च, अप्सरःप्रमुखान् वर्ण­र­ति­प्र­मो­दान् अनवस्थितरूपतया अभिध्यायन् निरूपयन् यथावत् अतिदीर्घे जीविते कः विवेकी रमेत ॥

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९ ॥

२९

अतो विहायानित्यैः कामैः प्रलोभनम् , यन्मया प्रार्थितं यस्मिन् प्रेते इदं विचिकित्सनं विचिकित्सन्ति अस्ति नास्ती­त्ये­वं­प्र­कारं हे मृत्यो, साम्पराये परलोकविषये महति महा­प्र­यो­ज­न­नि­मित्ते आत्मनो निर्णयविज्ञानं यत् , तत् ब्रूहि कथय नः अस्मभ्यम् । किं बहुना, योऽयं प्रकृत आत्मविषयः वरः गूढं गहनं दुर्विवेचनं प्राप्तः अनुप्रविष्टः, तस्मात् वरात् अन्यम् अविवेकिभिः प्रार्थ­नी­य­म­नि­त्य­वि­षयं वरं नचिकेताः न वृणीते मनसापि इति श्रुतेर्वचनमिति ॥

इति प्रथ­म­व­ल्ली­भा­ष्यम् ॥

द्वितीया वल्ली

अन्य­च्छ्रे­योऽ­न्य­दु­तैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः ।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १ ॥

परीक्ष्य शिष्यं विद्यायोग्यतां चावगम्याह — अन्यत् पृथगेव श्रेयः निःश्रेयसं तथा अन्यत् उतैव अपि च प्रेयः प्रियतरमपि ते श्रेयःप्रेयसी उभे नानार्थे भिन्नप्रयोजने सती पुरुषम् अधिकृतं वर्णा­श्र­मा­दि­वि­शिष्टं सिनीतः बध्नीतः । ताभ्यां विद्या­वि­द्या­भ्या­मा­त्म­क­र्त­व्य­तया प्रयुज्यते सर्वः पुरुषः । प्रेयः­श्रे­य­सोर्हि अभ्यु­द­या­मृ­त­त्वार्थी पुरुषः प्रवर्तते । अतः श्रेयः­प्रे­यः­प्र­यो­ज­न­क­र्त­व्य­तया ताभ्यां बद्ध इत्युच्यते सर्वः पुरुषः । ते यद्य­प्ये­कै­क­पु­रु­षा­र्थ­स­म्ब­न्धिनी विद्या­वि­द्या­रू­प­त्वा­द्वि­रुद्धे इत्य­न्य­त­रा­प­रि­त्या­गे­नै­केन पुरुषेण सहा­नु­ष्ठा­तु­म­श­क्य­त्वा­त्तयोः हित्वा अविद्यारूपं प्रेयः, श्रेय एव केवलम् आददानस्य उपादानं कुर्वतः साधु शोभनं शिवं भवति । यस्त्वदूरदर्शी विमूढो हीयते वियुज्यते अर्थात् पुरु­षा­र्था­त्पा­र­मा­र्थि­का­त्प्र­यो­ज­ना­न्नि­त्यात् प्रच्यवत इत्यर्थः । कोऽसौ ? य उ प्रेयः वृणीते उपादत्ते इत्येतत् ॥

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योग­क्षे­मा­द्वृ­णीते ॥ २ ॥

यद्युभे अपि कर्तुं स्वायत्ते पुरुषेण, किमर्थं प्रेय एवादत्ते बाहुल्येन लोक इति, उच्यते । सत्यं स्वायत्ते ; तथापि साधनतः फलतश्च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूते इव मनुष्यं पुरुषम् आ इतः एतः प्राप्नुतः श्रेयश्च प्रेयश्च । अतो हंस इवाम्भसः पयः, तौ श्रेयः­प्रे­यः­प­दार्थौ सम्परीत्य सम्यक्परिगम्य मनसा आलोच्य गुरुलाघवं विविनक्ति पृथक्करोति धीरः धीमान् । विविच्य च श्रेयो हि श्रेय एव अभिवृणीते प्रेय­सोऽ­भ्य­र्हि­त­त्वा­च्छ्रे­यसः । कोऽसौ ? धीरः । यस्तु मन्दः अल्पबुद्धिः सः सद­स­द्वि­वे­का­सा­म­र्थ्यात् योगक्षेमात् योग­क्षे­म­नि­मित्तं शरी­रा­द्यु­प­च­य­र­क्ष­ण­नि­मि­त्त­मि­त्ये­तत् । प्रेयः पशु­पु­त्रा­दि­ल­क्षणं वृणीते ॥

स त्वं प्रिया­न्प्रि­य­रू­पांश्च कामा­न­भि­ध्या­य­न्न­चि­के­तोऽ­त्य­स्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥

स त्वं पुनः पुनः मया प्रलोभ्यमानोऽपि प्रियान् पुत्रादीन् प्रियरूपांश्च अप्स­रः­प्र­भृ­ति­ल­क्ष­णान् कामान् अभिध्यायन् चिन्तयन् तेषा­म­नि­त्य­त्वा­सा­र­त्वा­दि­दो­षान् हे नचिकेतः, अत्यस्राक्षीः अतिसृष्टवान् परित्यक्तवानसि ; अहो बुद्धिमत्ता तव । न एताम् अवाप्तवानसि सृङ्कां सृतिं कुत्सितां मूढजनप्रवृत्तां वित्तमयीं धनप्रायाम् ; यस्यां सृतौ मज्जन्ति सीदन्ति बहवः अनेके मूढा मनुष्याः ॥

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४ ॥

‘तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते’ इति ह्युक्तम् ; तत्कस्मात् ? यतः दूरं दूरेण महतान्तरेण एते विपरीते अन्यो­न्य­व्या­वृ­त्त­रूपे विवे­का­वि­वे­का­त्म­क­त्वात् तमःप्रकाशाविव विषूची विषूच्यौ नानागती भिन्नफले संसा­र­मो­क्ष­हे­तु­त्वे­ने­त्ये­तत् । के ते इति, उच्यते । या च अविद्या प्रेयोविषया विद्येति च श्रेयोविषया ज्ञाता निर्ज्ञाता अवगता पण्डितैः । तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वामहं मन्ये । कस्मात् ? यस्मा­द­वि­द्व­द्बु­द्धि­प्र­लो­भिनः कामाः अप्सरःप्रभृतयः बहवोऽपि त्वा त्वां न अलोलुपन्त न विच्छेदं कृतवन्तः श्रेयो­मा­र्गा­दा­त्मो­प­भो­गा­भि­वा­ञ्छा­स­म्पा­द­नेन । अतो विद्यार्थिनं श्रेयोभाजनं मन्ये इत्यभिप्रायः ॥

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डि­तं­म­न्य­मानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥

ये तु संसारभाजो जनाः, अविद्यायाम् अन्तरे मध्ये घनीभूत इव तमसि वर्तमानाः वेष्ट्यमानाः पुत्र­प­श्वा­दि­तृ­ष्णा­पा­श­शतैः, स्वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्र­कु­श­ला­श्चेति मन्यमानाः ते दन्द्रम्यमाणाः अत्यर्थं कुटिलामनेकरूपां गतिं गच्छन्तः जरा­म­र­ण­रो­गा­दि­दुःखैः परियन्ति परिगच्छन्ति मूढाः अविवेकिनः अन्धेनैव दृष्टिविकलेनैव नीयमानाः विषमे पथि यथा बहवः अन्धाः महा­न्त­म­न­र्थ­मृ­च्छन्ति, तद्वत् ॥

न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६ ॥

अत एव मूढत्वात् न साम्परायः प्रतिभाति । सम्परेयत इति सम्परायः परलोकः, तत्प्रा­प्ति­प्र­यो­जनः साधनविशेषः शास्त्रीयः साम्परायः । स च बालम् अविवेकिनं प्रति न प्रतिभाति न प्रकाशते नोपतिष्ठत इत्येतत् । प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्र­प­श्वा­दि­प्र­यो­ज­ने­ष्वा­स­क्त­म­नसं तथा वित्तमोहेन वित्त­नि­मि­त्ते­ना­वि­वे­केन मूढं तमसाच्छन्नम् । स तु अयमेव लोकः योऽयं दृश्यमानः स्त्र्यन्न­पा­ना­दि­वि­शिष्टः नास्ति परः अदृष्टो लोकः इत्येवं मननशीलः मानी पुनः पुनः जनित्वा वशम् अधीनताम् आपद्यते मे मृत्योर्मम । जन­न­म­र­णा­दि­ल­क्ष­ण­दुः­ख­प्र­ब­न्धा­रूढ एव भवतीत्यर्थः ॥

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥

प्रायेण ह्येवंविध एव लोकः । यस्तु श्रेयोर्थी स सहस्रेषु कश्चि­दे­वा­त्म­वि­द्भ­वति त्वद्विधः यस्मात् श्रवणायापि श्रवणार्थं श्रोतुमपि यः न लभ्यः आत्मा बहुभिः अनेकैः, शृण्वन्तोऽपि बहवः अनेके अन्ये यम् आत्मानं न विद्युः न विदन्ति अभागिनः असंस्कृतात्मानो न विजानीयुः । किञ्च, अस्य वक्तापि आश्चर्यः अद्भुतवदेव, अनेकेषु कश्चिदेव भवति । तथा श्रुत्वापि अस्य आत्मनः कुशलः निपुण एवानेकेषु लब्धा कश्चिदेव भवति । यस्मात् आश्चर्यः ज्ञाता कश्चिदेव कुशलानुशिष्टः कुशलेन निपु­णे­ना­चा­र्ये­णा­नु­शिष्टः सन् ॥

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरत्र नास्ति अणी­या­न्ह्य­त­र्क्य­म­णु­प्र­मा­णात् ॥ ८ ॥

कस्मात् ? न हि नरेण मनुष्येण अवरेण प्रोक्तः अवरेण हीनेन प्राकृ­त­बु­द्धि­ने­त्ये­तत् । उक्तः एषः आत्मा यं त्वं मां पृच्छसि । न हि सुष्ठु सम्यक् विज्ञेयः विज्ञातुं शक्यः यस्मात् बहुधा अस्ति नास्ति कर्ताकर्ता शुद्धोऽशुद्ध इत्याद्यनेकधा चिन्त्यमानः वादिभिः । कथं पुनः सुविज्ञेय इति, उच्यते — अनन्यप्रोक्ते अनन्येन अपृ­थ­ग्द­र्शि­ना­चा­र्येण प्रति­पा­द्य­ब्र­ह्मा­त्म­भू­तेन प्रोक्ते उक्ते आत्मनि गतिः, अनेकधा अस्ति­ना­स्ती­त्या­दि­ल­क्षणा चिन्ता गतिः, अत्र अस्मिन्नात्मनि नास्ति न विद्यते सर्व­वि­क­ल्प­ग­ति­प्र­त्य­स्त­मि­त­रू­प­त्वा­दा­त्मनः । अथवा स्वात्मभूते अनन्यस्मिन् आत्मनि प्रोक्ते अनन्यप्रोक्ते गतिः अत्र अन्या­व­ग­ति­र्नास्ति ज्ञेय­स्या­न्य­स्या­भा­वात् । ज्ञानस्य ह्येषा परा निष्ठा यदा­त्मै­क­त्व­वि­ज्ञा­नम् । अतः गन्तव्याभावान्न गति­र­त्रा­व­शि­ष्यते संसारगतिर्वात्र नास्त्यनन्य आत्मनि प्रोक्ते नान्त­री­य­क­त्वा­त्त­द्वि­ज्ञा­न­फ­लस्य मोक्षस्य । अथवा प्रोच्य­मा­न­ब्र­ह्मा­त्म­भू­ते­ना­चा­र्येण अनन्यतया प्रोक्ते आत्मनि अगतिः अन­व­बो­धोऽ­प­रि­ज्ञा­न­मत्र नास्ति । भव­त्ये­वा­व­ग­ति­स्त­द्वि­षया श्रोतु­स्त­द­न­न्योऽ­ह­मि­त्या­चा­र्य­स्ये­वे­त्यर्थः । एवं सुविज्ञेय आत्मा आग­म­व­ता­चा­र्ये­णा­न­न्य­तया प्रोक्तः । इतरथा अणीयान् अणुतरः अणुप्रमाणादपि सम्पद्यत आत्मा । अतर्क्यम् अतर्क्यः, अणुप्रमाणो न तर्क्यः स्वबु­द्ध्य­भ्यू­हेन केवलेन तर्केण । तर्क्य­मा­णेऽ­णु­प­रि­माणे केनचित्स्थापिते आत्मनि ततोऽ­णु­त­र­म­न्योऽ­भ्यू­हति ततोऽ­प्य­न्योऽ­णु­त­र­मिति । न हि तर्कस्य निष्ठा क्वचिद्विद्यते ॥

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥

अतोऽनन्यप्रोक्त आत्मन्युत्पन्ना येयमागमप्रभवा मतिः, नैषा तर्केण स्वबु­द्ध्य­भ्यू­ह­मा­त्रेण आपनेया नापनीया न प्राप­णी­ये­त्यर्थः ; नापनेतव्या वा ; नोपहन्तव्या । तार्किको ह्यनागमज्ञः स्वबु­द्धि­प­रि­क­ल्पितं यत्किञ्चिदेव कल्पयति । अत एव च येयमागमप्रभूता मतिः अन्येनैव आग­मा­भि­ज्ञे­ना­चा­र्ये­णैव तार्किकात् , प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम । का पुनः सा तर्कागम्या मतिः इति, उच्यते — यां त्वं मतिं मद्वरप्रदानेन आपः प्राप्तवानसि । सत्या अवितथविषया धृतिर्यस्य तव स त्वं सत्यधृतिः । बता­सी­त्य­नु­क­म्प­य­न्नाह मृत्यु­र्न­चि­के­तसं वक्ष्य­मा­ण­वि­ज्ञा­न­स्तु­तये । त्वादृक् त्वत्तुल्यः नः अस्मभ्यं भूयात् भवतात् । भवत्वन्यः पुत्रः शिष्यो वा प्रष्टा । कीदृक् ? यादृक्त्वं हे नचिकेतः प्रष्टा ॥

जानाम्यहं शेव­धि­रि­त्य­नित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचि­के­त­श्चि­तोऽ­ग्नि­र­नि­त्यै­र्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥

१०

पुनरपि तुष्ट आह — जानाम्यहं शेवधिः निधिः कर्मफललक्षणः निधिरिव प्रार्थ्यत इति । असौ अनित्यम् अनित्य इति जानामि । न हि यस्मात् अनित्यैः अध्रुवैः यत् नित्यं ध्रुवम् , तत् प्राप्यते परमात्माख्यः शेवधिः । यस्त्व­नि­त्य­सु­खा­त्मकः शेवधिः, स एवा­नि­त्यै­र्द्रव्यैः प्राप्यते हि यतः, ततः तस्मात् मया जानतापि नित्य­म­नि­त्य­सा­धनैः प्राप्यत इति नाचिकेतः चितः अग्निः अनित्यैः द्रव्यैः पश्वादिभिः स्वर्ग­सु­ख­सा­ध­न­भू­तोऽग्निः निर्वर्तित इत्यर्थः । तेना­ह­म­धि­का­रा­पन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यमापेक्षिकं प्राप्तवानस्मि ॥

कामस्याप्तिं जगतः प्रतिष्ठां क्रतो­र­न­न्त्य­म­भ­यस्य पारम् ।
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचि­के­तोऽ­त्य­स्राक्षीः ॥ ११ ॥

११

त्वं तु कामस्य आप्तिं समाप्तिम् , अत्र हि सर्वे कामाः परिसमाप्ताः, जगतः साध्या­त्मा­धि­भू­ता­धि­दै­वादेः प्रतिष्ठाम् आश्रयं सर्वात्मकत्वात् , क्रतोः उपासनायाः फलं हैरण्यगर्भं पदम् , अनन्त्यम् आनन्त्यम् , अभयस्य च पारं परां निष्ठाम् , स्तोमं स्तुत्यं महत् अणि­मा­द्यै­श्व­र्या­द्य­ने­क­गु­ण­सं­ह­तम् , स्तोमं च तन्महच्च निरतिशयत्वात् स्तोममहत् , उरुगायं विस्तीर्णां गतिम् , प्रतिष्ठां स्थिति­मा­त्म­नोऽ­नु­त्त­मा­मपि दृष्ट्वा धृत्या धैर्येण धीरः नचिकेतः, धीमान् बुद्धिमान्सन् अत्यस्राक्षीः पर­मे­वा­का­ङ्क्ष­न्न­ति­सृ­ष्ट­वा­नसि सर्व­मे­त­त्सं­सा­र­भो­ग­जा­तम् । अहो बता­नु­त्त­म­गु­णोऽसि ॥

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्या­त्म­यो­गा­धि­ग­मेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥

१२

यं त्वं ज्ञातु­मि­च्छ­स्या­त्मानं तं दुर्दर्शं दुःखेन दर्शनमस्येति दुर्दर्शः अति­सू­क्ष्म­त्वात् तम् , गूढं गहनम् , अनुप्रविष्टं प्राकृ­त­वि­ष­य­वि­ज्ञानैः प्रच्छ­न्न­मि­त्ये­तत् । गुहाहितं गुहायां बुद्धौ हितं निहितं स्थितं तत्रो­प­ल­भ्य­मा­न­त्वात् । गह्वरेष्ठं गह्वरे विषमे अनेकानर्थसङ्कटे तिष्ठतीति गह्वरेष्ठम् । यत एवं गूढमनुप्रविष्टो गुहाहितश्च, अतोऽसौ गह्वरेष्ठः ; अतो दुर्दर्शः । तं पुराणं पुरातनम् अध्या­त्म­यो­गा­धि­ग­मेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समा­धा­न­म­ध्या­त्म­योगः तस्याधिगमः प्राप्तिः तेन मत्वा देवम् आत्मानं धीरः हर्षशोकौ आत्मन उत्क­र्षा­प­क­र्ष­यो­र­भा­वात् जहाति ॥

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्य­म­णु­मे­त­माप्य ।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ १३ ॥

१३

किञ्च, एतदात्मतत्त्वं यदहं वक्ष्यामि, तच्छ्रुत्वा आचार्यसकाशात् सम्यगात्मभावेन परिगृह्य उपादाय मर्त्यः मरणधर्मा धर्मादनपेतं धर्म्यं प्रवृह्य उद्यम्य पृथक्कृत्य शरीरादेः अणुं सूक्ष्मम् एतम् आत्मानम् आप्य प्राप्य सः मर्त्यः विद्वान् मोदते मोदनीयं हि हर्षणीयमात्मानं लब्ध्वा । तदेतदेवंविधं ब्रह्म सद्म भवनं नचिकेतसं त्वां प्रत्य­पा­वृ­त­द्वारं विवृतम् अभिमुखीभूतं मन्ये, मोक्षार्हं त्वां मन्ये इत्यभिप्रायः ॥

अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मा­द­न्य­त्रा­स्मा­त्कृ­ता­कृ­तात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥

१४

एतच्छ्रुत्वा नचिकेताः पुनराह — यद्यहं योग्यः, प्रसन्नश्चासि भगवन् , मां प्रति अन्यत्र धर्मात् शास्त्री­या­द्ध­र्मा­नु­ष्ठा­ना­त्त­त्फ­ला­त्त­त्का­र­के­भ्यश्च पृथ­ग्भू­त­मि­त्यर्थः । तथा अन्यत्र अधर्मात् विहिताकरणरूपात् पापात् , तथा अन्य­त्रा­स्मा­त्कृ­ता­कृ­तात् , कृतं कार्यमकृतं कार­ण­म­स्मा­द­न्यत्र । किञ्च, अन्यत्र भूताच्च अति­क्रा­न्ता­त्का­लात् भव्याच्च भविष्यतश्च तथा अन्यत्र वर्तमानात् । कालत्रयेण यन्न परिच्छिद्यत इत्यर्थः । यदीदृशं वस्तु सर्व­व्य­व­हा­र­गो­च­रा­तीतं पश्यसि जानासि तद्वद मह्यम् ॥

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवी­म्यो­मि­त्ये­तत् ॥ १५ ॥

१५

इत्येवं पृष्टवते मृत्युरुवाच, पृष्टं वस्तु विशेषणान्तरं च विवक्षन् । सर्वे वेदा यत्पदं पदनीयं गमनीयम् अविभागेन अविरोधेन आमनन्ति प्रतिपादयन्ति, तपांसि सर्वाणि च यद्वदन्ति यत्प्रा­प्त्य­र्था­नी­त्यर्थः । यदिच्छन्तो ब्रह्मचर्यं गुरु­कु­ल­वा­स­ल­क्ष­ण­म­न्यद्वा ब्रह्म­प्रा­प्त्यर्थं चरन्ति, तत् ते तुभ्यं पदं यज्ज्ञा­तु­मि­च्छसि सङ्ग्रहेण सङ्क्षेपतः ब्रवीमि ओं इत्येतत् । तदेतत्पदं यद्बुभुत्सितं त्वया तदेतदोमिति ओंश­ब्द­वा­च्य­मों­श­ब्द­प्र­तीकं च ॥

एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥

१६

अतः एतद्ध्येवाक्षरं ब्रह्म अपरम् एतद्ध्येवाक्षरं परं च । तयोर्हि प्रती­क­मे­त­द­क्ष­रम् । एतद्ध्येवाक्षरं ज्ञात्वा उपास्य ब्रह्मेति यो यदिच्छति परमपरं वा तस्य तत् भवति । परं चेत् ज्ञातव्यम् , अपरं चेत् प्राप्तव्यम् ॥

एतदालम्बनं श्रेष्ठ­मे­त­दा­ल­म्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥

१७

यत एवम् , अत एव एतत् ब्रह्म­प्रा­प्त्या­ल­म्ब­नानां श्रेष्ठं प्रशस्यतमम् । एतदालम्बनं परम् अपरं च, परा­प­र­ब्र­ह्म­वि­ष­य­त्वात् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । पर­स्मि­न्ब्र­ह्म­ण्य­प­र­स्मिंश्च ब्रह्मभूतो ब्रह्मवदुपास्यो भवतीत्यर्थः ॥

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥

१८

अन्यत्र धर्मादित्यादिना पृष्ट­स्या­त्म­नोऽ­शे­ष­वि­शे­ष­र­हि­त­स्या­ल­म्ब­न­त्वेन प्रतीकत्वेन चोङ्कारो निर्दिष्टः अपरस्य च ब्रह्मणो मन्द­म­ध्य­म­प्र­ति­प­त्तॄ­न्प्रति । अथेदानीं तस्यो­ङ्का­रा­ल­म्ब­न­स्या­त्मनः साक्षा­त्स्व­रू­प­नि­र्दि­धा­र­यि­ष­ये­द­मु­च्यते । न जायते नोत्पद्यते म्रियते वा न म्रियते च उत्पत्तिमतो वस्तु­नोऽ­नि­त्य­स्या­नेका विक्रियाः, तासामाद्यन्ते जन्मविनाशलक्षणे विक्रिये इहात्मनि प्रतिषिध्येते प्रथमं सर्व­वि­क्रि­या­प्र­ति­षे­धार्थं न जायते म्रियते वेति । विपश्चित् मेधावी अप­रि­लु­प्त­चै­त­न्य­स्व­भा­व­त्वात् । किञ्च, नायमात्मा कुतश्चित् कारणान्तरात् बभूव न प्रभूतः । अस्माच्चात्मनो न बभूव कश्चि­द­र्था­न्त­र­भूतः । अतोऽयमात्मा अजो नित्यः शाश्वतः अपक्षयविवर्जितः । यो ह्यशाश्वतः, सोऽपक्षीयते ; अयं तु शाश्वतः अत एव पुराणः पुरापि नव एवेति । यो ह्यव­य­वो­प­च­य­द्वा­रे­णा­भि­नि­र्व­र्त्यते, स इदानीं नवः, यथा कुड्यादिः ; तद्वि­प­री­त­स्त्वात्मा पुराणो वृद्धिविवर्जित इत्यर्थः । यत एवम् , अतः न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे ; तत्स्थोऽ­प्या­का­श­व­देव ॥

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥

१९

एवं भूतमप्यात्मानं शरी­र­मा­त्रा­त्म­दृष्टिः हन्ता चेत् यदि मन्यते चिन्तयति इच्छति हन्तुं हनि­ष्या­म्ये­न­मिति योऽप्यन्यो हतः सोऽपि चेन्मन्यते हतमात्मानं हतोऽहमिति उभावपि तौ न विजानीतः स्वमात्मानम् ; यतः नायं हन्ति अवि­क्रि­य­त्वा­दा­त्मनः, तथा न हन्यते आका­श­व­द­वि­क्रि­य­त्वा­देव । अतोऽ­ना­त्म­ज्ञ­वि­षय एव धर्मा­ध­र्मा­दि­ल­क्षणः संसारः नात्मज्ञस्य, श्रुति­प्रा­मा­ण्या­न्न्या­याच्च धर्मा­ध­र्मा­द्य­नु­प­पत्तेः ॥

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातु­प्र­सा­दा­न्म­हि­मा­न­मा­त्मनः ॥ २० ॥

२०

कथं पुनरात्मानं जानातीति, उच्यते — अणोः सूक्ष्मात् अणीयान् श्यामा­का­दे­र­णु­तरः । महतो महत्परिमाणात् महीयान् महत्तरः पृथिव्यादेः ; अणु महद्वा यदस्ति लोके वस्तु, तत्तेनैवात्मना नित्ये­ना­त्म­व­त्स­म्भ­वति । तदात्मना विनि­र्मु­क्त­म­स­त्स­म्प­द्यते । तस्मा­द­सा­वे­वात्मा अणोरणीयान्महतो महीयान् , सर्व­ना­म­रू­प­व­स्तू­पा­धि­क­त्वात् । स च आत्मा अस्य जन्तोः ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तस्य प्राणिजातस्य गुहायां हृदये निहितः आत्मभूतः स्थित इत्यर्थः । तम् आत्मानं दर्श­न­श्र­व­ण­म­न­न­वि­ज्ञा­न­लि­ङ्गम् अक्रतुः अकामः, दृष्टा­दृ­ष्ट­बा­ह्य­वि­ष­येभ्य उप­र­त­बु­द्धि­रि­त्यर्थः । यदा चैवं तदा मनआदीनि करणानि धातवः शरीरस्य धार­णा­त्प्र­सी­द­न्ती­त्येषां धातूनां प्रसादादात्मनो महिमानं कर्म­नि­मि­त्त­वृ­द्धि­क्ष­य­र­हितं पश्यति अयमहमस्मीति साक्षा­द्वि­जा­नाति ; ततो विगतशोको भवति ॥

आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥

२१

अन्यथा दुर्वि­ज्ञे­योऽ­य­मात्मा कामिभिः प्राकृ­त­पु­रु­षै­र्य­स्मात् आसीनः अवस्थितोऽचल एव सन् दूरं व्रजति शयानः याति सर्वतः, एवमसावात्मा देवो मदामदः समदोऽमदश्च सहर्षोऽहर्षश्च विरु­द्ध­ध­र्म­वा­न­तोऽ­श­क्य­त्वा­ज्ज्ञातुं कः तं मदामदं देवं मदन्यो ज्ञातुमर्हति । अस्मदादेरेव सूक्ष्मबुद्धेः पण्डितस्य विज्ञे­योऽ­य­मात्मा स्थिति­ग­ति­नि­त्या­नि­त्या­दि­वि­रु­द्धा­ने­क­ध­र्मो­पा­धि­क­त्वा­द्वि­रु­द्ध­ध­र्म­वान् विश्वरूप इव चिन्ता­म­णि­व­त्क­स्य­चि­द­व­भा­सते । अतो दुर्विज्ञेयत्वं दर्शयति — कस्तं मदन्यो ज्ञातुमर्हतीति । करणानामुपशमः शयनं कर­ण­ज­नि­त­स्यै­क­दे­श­वि­ज्ञा­न­स्यो­प­शमः शयानस्य भवति । यदा चैवं केव­ल­सा­मा­न्य­वि­ज्ञा­न­त्वा­त्स­र्वतो यातीव यदा विशे­ष­वि­ज्ञा­नस्थः स्वेन रूपेण स्थित एव सन् मनआदिगतिषु तदु­पा­धि­क­त्वा­द्दूरं व्रजतीव । स चेहैव वर्तते ॥

अशरीरं शरीरेषु अन­व­स्थे­ष्व­व­स्थि­तम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥

२२

तद्विज्ञानाच्च शोकात्यय इत्यपि दर्शयति — अशरीरः स्वेन रूपेणाकाशकल्प आत्मा तम् अशरीरं शरीरेषु देव­पि­तृ­म­नु­ष्या­दि­श­री­रेषु अनवस्थेषु अव­स्थि­ति­र­हि­ते­ष्व­नि­त्येषु अवस्थितं नित्यम् अविकृतमित्येतत् । महान्तम् । मह­त्त्व­स्या­पे­क्षि­क­त्व­श­ङ्का­या­माह — विभुं व्यापिनम् आत्मानम् ; आत्मग्रहणं स्वतोऽ­न­न्य­त्व­प्र­द­र्श­ना­र्थम् । आत्मशब्दः प्रत्यगात्मविषय एव मुख्यः तमीदृशमात्मानं मत्वा अयमहमिति, धीरः धीमान् न शोचति । न ह्येवं­वि­ध­स्वा­त्म­विदः शोकोपपत्तिः ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूंस्वाम् ॥ २३ ॥

२३

यद्यपि दुर्वि­ज्ञे­योऽ­य­मात्मा तथाप्युपायेन सुविज्ञेय एवेत्याह — नायमात्मा प्रवचनेन अने­क­वे­द­स्वी­क­र­णेन लभ्यः ज्ञेयः ; नापि मेधया ग्रन्था­र्थ­धा­र­ण­शक्त्या ; न बहुना श्रुतेन न बाहुश्रुत्येन केवलेन । केन तर्हि लभ्य इति, उच्यते — यमेव स्वमात्मानम् एष साधको वृणुते प्रार्थयते, तेनैवात्मना वरित्रा स्वयमात्मा लभ्यः ज्ञायत इत्येतत् । निष्का­म­श्चा­त्मा­न­मेव प्रार्थयते । आत्मनैवात्मा लभ्यत इत्यर्थः । कथं लभ्यत इति, उच्यते — तस्यात्मकामस्य एष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं स्वां तनूं स्वकीयं याथा­त्म्य­मि­त्यर्थः ॥

नाविरतो दुश्च­रि­ता­न्ना­शान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञा­ने­नै­न­मा­प्नु­यात् ॥ २४ ॥

२४

किञ्चान्यत् । न दुश्चरितात् प्रति­षि­द्धा­च्छ्रु­ति­स्मृ­त्य­वि­हि­ता­त्पा­प­क­र्मणः अविरतः अनुपरतः । नापि इन्द्रि­य­लौ­ल्यात् अशान्तः अनुपरतः । नापि अस­मा­हि­तः­अ­ने­का­ग्र­मनाः विक्षिप्तचित्तः । समाहितचित्तोऽपि सन्स­मा­धा­न­फ­ला­र्थि­त्वात् नापि अशान्तमानसः व्यापृतचित्तो वा । प्रज्ञानेन ब्रह्मविज्ञानेन एनं प्रकृतमात्मानम् आप्नुयात् , यस्तु दुश्चरिताद्विरत इन्द्रि­य­लौ­ल्याच्च, समाहितचित्तः समा­धा­न­फ­ला­द­प्यु­प­शा­न्त­मा­न­स­श्चा­चा­र्य­वान् प्रज्ञानेन एवं यथोक्तमात्मानं प्राप्नो­ती­त्यर्थः ॥

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्यु­र्य­स्यो­प­से­चनं क इत्था वेद यत्र सः ॥ २५ ॥

२५

यस्त्वनेवंभूतः यस्य आत्मनः ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे सर्वधर्मविधारके अपि सर्वप्राणभूते उभे ओदनः अशनं भवतः स्याताम् , सर्वहरोऽपि मृत्युः यस्य उप­से­च­न­मि­वौ­द­नस्य, अश­न­त्वेऽ­प्य­प­र्याप्तः, तं प्राकृ­त­बु­द्धि­र्य­थो­क्त­सा­ध­ना­न­भि­युक्तः सन् कः इत्था इत्थमेवं यथो­क्त­सा­ध­न­वा­नि­वे­त्यर्थः, वेद विजानाति यत्र सः आत्मेति ॥

इति द्विती­य­व­ल्ली­भा­ष्यम् ॥

तृतीया वल्ली

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥

ऋतं पिब­न्ता­वि­त्यस्या वल्ल्याः सम्बन्धः — विद्याविद्ये नाना विरुद्धफले इत्युपन्यस्ते, न तु सफले ते यथावन्निर्णीते । तन्निर्णयार्था रथरूपककल्पना, तथा च प्रति­प­त्ति­सौ­क­र्यम् । एवं च प्राप्तृ­प्रा­प्य­ग­न्तृ­ग­न्त­व्य­वि­वे­कार्थं रथरूपकद्वारा द्वावा­त्मा­ना­वु­प­न्य­स्येते — ऋतं सत्यम् अव­श्यं­भा­वि­त्वा­त्क­र्म­फलं पिबन्तौ ; एकस्तत्र कर्मफलं पिबति भुङ्क्ते नेतरः, तथापि पातृ­स­म्ब­न्धा­त्पि­ब­न्ता­वि­त्यु­च्येते च्छत्रिन्यायेन । सुकृतस्य स्वयङ्कृतस्य कर्मणः ऋतमिति पूर्वेण सम्बन्धः । लोके अस्मिञ्शरीरे, गुहां गुहायां बुद्धौ प्रविष्टौ, परमे, बाह्य­पु­रु­षा­का­श­सं­स्था­ना­पे­क्षया परमम् , परार्धे परस्य ब्रह्मणोऽर्धं स्थानं परार्धं हार्दाकाशम् । तस्मिन्हि परं ब्रह्मोपलभ्यते । ततः तस्मिन्परमे परार्धे हार्दाकाशे प्रवि­ष्टा­वि­त्यर्थः । तौ च च्छायातपाविव विलक्षणौ संसा­रि­त्वा­सं­सा­रि­त्वेन ब्रह्मविदो वदन्ति कथयन्ति । न केवलमकर्मिण एव वदन्ति । पञ्चाग्नयो गृहस्थाः । ये च त्रिणाचिकेताः त्रिःकृत्वो नाचि­के­तोऽ­ग्नि­श्चितो यैस्ते त्रिणाचिकेताः ॥

यः सेतु­री­जा­ना­ना­म­क्षरं ब्रह्म यत्परम् ।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ २ ॥

यः सेतुः सेतुरिव सेतुः ईजानानां यजमानानां कर्मिणाम् , दुःख­स­न्त­र­णा­र्थ­त्वात् । नाचिकेतं नाचिकेतोऽग्निः तम् , वयं ज्ञातुं चेतुं च शकेमहि शक्तवन्तः । किञ्च, यच्च अभयं भयशून्यं संसारस्य पारं तितीर्षतां तरितुमिच्छतां ब्रह्मविदां यत्परम् आश्रयम् अक्षरम् आत्माख्यं ब्रह्म, तच्च ज्ञातुं शकेमहि । परापरे ब्रह्मणी कर्मि­ब्र­ह्म­वि­दा­श्रये वेदितव्ये इति वाक्यार्थः ; तयोरेव ह्युपन्यासः कृतः ‘ऋतं पिबन्तौ’ इति ॥

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥

तत्र यः उपाधिकृतः संसारी विद्या­वि­द्य­यो­र­धि­कृतो मोक्षगमनाय संसारगमनाय च, तस्य तदुभयगमने साधनो रथः कल्प्यते — तत्रात्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं विद्धि विजानीहि ; शरीरं रथम् एव तु रथ­ब­द्ध­ह­य­स्था­नी­यै­रि­न्द्रि­यै­रा­कृ­ष्य­मा­ण­त्वा­च्छ­री­रस्य । बुद्धिं तु अध्यवसायलक्षणां सारथिं विद्धि ; बुद्धि­ने­तृ­प्र­धा­न­त्वा­च्छ­री­रस्य, सारथिनेतृप्रधान इव रथः । सर्वं हि देहगतं कार्यं बुद्धि­क­र्त­व्य­मेव प्रायेण । मनः सङ्क­ल्प­वि­क­ल्पा­दि­ल­क्षणं प्रग्रहमेव च रशनामेव विद्धि । मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः ॥

इन्द्रियाणि हया­ना­हु­र्वि­ष­यां­स्तेषु गोचरान् ।
आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिणः ॥ ४ ॥

इन्द्रियाणि चक्षुरादीनि हयानाहुः रथकल्पनाकुशलाः, शरी­र­र­था­क­र्ष­ण­सा­मा­न्यात् । तेषु इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन्विषयान् विद्धि । आत्मे­न्द्रि­य­म­नो­युक्तं शरी­रे­न्द्रि­य­म­नोभिः सहितं संयुतमात्मानं भोक्तेति संसारीति आहुः मनीषिणः विवेकिनः । न हि केवलस्यात्मनो भोक्तृत्वमस्ति ; बुद्ध्या­द्यु­पा­धि­कृ­त­मेव तस्य भोक्तृत्वम् । तथा च श्रुत्यन्तरं केव­ल­स्या­भो­क्तृ­त्व­मेव दर्शयति — ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इत्यादि । एवं च सति वक्ष्य­मा­ण­र­थ­क­ल्प­नया वैष्णवस्य पदस्यात्मतया प्रति­प­त्ति­रु­प­प­द्यते, नान्यथा, स्वभा­वा­न­ति­क्र­मात् ॥

यस्त्व­वि­ज्ञा­न­वा­न्भ­व­त्य­यु­क्तेन मनसा सदा ।
तस्ये­न्द्रि­या­ण्य­व­श्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥

तत्रैवं सति यस्तु बुद्ध्याख्यः सारथिः अविज्ञानवान् अनिपुणोऽविवेकी प्रवृत्तौ च निवृत्तौ च भवति यथेतरो रथचर्यायाम् अयुक्तेन अप्रगृहीतेन असमाहितेन मनसा प्रग्र­ह­स्था­नी­येन सदा युक्तो भवति, तस्य अकुशलस्य बुद्धिसारथेः इन्द्रियाणि अश्वस्थानीयानि अवश्यानि अशक्यनिवारणानि दुष्टाश्वाः अदान्ताश्वाः इव इतरसारथेः भवन्ति ॥

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥

यस्तु पुनः पूर्वो­क्त­वि­प­री­त­सा­र­थि­र्भ­वति तस्य फलमाह — यस्तु विज्ञानवान् निपुणः विवेकवान् युक्तेन मनसा प्रगृहीतमनाः समाहितचित्तः सदा, तस्य अश्व­स्था­नी­या­नी­न्द्रि­याणि प्रवर्तयितुं निवर्तयितुं वा शक्यानि वश्यानि दान्ताः सदश्वा इवेतरसारथेः ॥

यस्त्व­वि­ज्ञा­न­वा­न्भ­व­त्य­म­नस्कः सदाशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७ ॥

तत्र पूर्वो­क्त­स्या­वि­ज्ञा­न­वतो बुद्धिसारथेरिदं फलमाह — यस्त्व­वि­ज्ञा­न­वा­न्भ­वति । अमनस्कः अप्रगृहीतमनस्कः सः तत एव अशुचिः सदैव । न सः रथी तत् पूर्वोक्तमक्षरं यत्परं पदम् आप्नोति तेन सारथिना । न केवलं तन्नाप्नोति, संसारं च जन्ममरणलक्षणम् अधिगच्छति ॥

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८ ॥

यस्तु द्वितीयो विज्ञानवान् भवति विज्ञा­न­व­त्सा­र­थ्यु­पेतो रथी, विद्वानित्येतत् । युक्तमनाः समनस्कः सः तत एव सदा शुचिः । स तु तत्पदमाप्नोति, यस्मा­दा­प्ता­त्प­दा­द­प्र­च्युतः सन् भूयः पुनः न जायते संसारे ॥

विज्ञा­न­सा­र­थि­र्यस्तु मनः­प्र­ग्र­ह­वा­न्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९ ॥

किं तत्पदमित्याह — विज्ञानसारथिः यस्तु यो विवे­क­बु­द्धि­सा­रथिः पूर्वोक्तः मनःप्रग्रहवान् प्रगृहीतमनाः समाहितचित्तः सन् शुचिर्नरो विद्वान् , सः अध्वनः संसारगतेः पारं परमेव, अधि­ग­न्त­व्य­मि­त्ये­तत् , आप्नोति, मुच्यते सर्व­सं­सा­र­ब­न्धनैः । तत् विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानम् , सत­त्त्व­मि­त्ये­तत् , यत् असावाप्नोति विद्वान् ॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धि­र्बु­द्धे­रात्मा महान्परः ॥ १० ॥

१०

अधुना यत्पदं गन्तव्यं तस्येन्द्रियाणि स्थूलान्यारभ्य सूक्ष्म­ता­र­त­म्य­क्र­मेण प्रत्य­गा­त्म­त­या­धि­गमः कर्तव्य इत्ये­व­म­र्थ­मि­द­मा­र­भ्यते । स्थूलानि ताव­दि­न्द्रि­याणि, तानि यैः परै­र­र्थै­रा­त्म­प्र­का­श­ना­या­र­ब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्येभ्यः ते परा हि अर्थाः सूक्ष्मा महान्तश्च प्रत्य­गा­त्म­भू­ताश्च । तेभ्योऽपि अर्थेभ्यश्च परं सूक्ष्मतरं मह­त्प्र­त्य­गा­त्म­भूतं च मनः । मनःशब्दवाच्यं मनस आरम्भकं भूतसूक्ष्मम् , सङ्क­ल्प­वि­क­ल्पा­द्या­र­म्भ­क­त्वात् । मनसोऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिः, बुद्धि­श­ब्द­वा­च्य­म­ध्य­व­सा­या­द्या­र­म्भकं भूतसूक्ष्मम् । बुद्धेरात्मा सर्व­प्रा­णि­बु­द्धीनां प्रत्य­गा­त्म­भू­त­त्वा­दात्मा महान् सर्वमहत्त्वात् अव्य­क्ता­द्य­त्प्र­थमं जातं हैरण्यगर्भं तत्त्वं बोधाबोधात्मकं महानात्मा बुद्धेः पर इत्युच्यते ॥

महतः पर­म­व्य­क्त­म­व्य­क्ता­त्पु­रुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ ११ ॥

११

महतोऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं च अव्यक्तं सर्वस्य जगतो बीज­भू­त­म­व्या­कृ­त­ना­म­रूपं सतत्त्वं सर्व­का­र्य­का­र­ण­श­क्ति­स­मा­हा­र­रू­पम् अव्यक्तम् अव्या­कृ­ता­का­शा­दि­ना­म­वाच्यं पर­मा­त्म­न्यो­त­प्रो­त­भा­वेन समाश्रितं वटकणिकायामिव वटवृक्षशक्तिः । तस्मादव्यक्तात् परः सूक्ष्मतरः सर्व­का­र­ण­का­र­ण­त्वा­त्प्र­त्य­गा­त्म­त्वाच्च महांश्च, अत एव पुरुषः सर्वपूरणात् । ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्नाह — पुरुषान्न परं किञ्चिदिति । यस्मान्नास्ति पुरु­षा­च्चि­न्मा­त्र­घ­ना­त्परं किञ्चिदपि वस्त्वन्तरम् , तस्मा­त्सू­क्ष्म­त्व­म­ह­त्त्व­प्र­त्य­गा­त्म­त्वानां सा काष्ठा निष्ठा पर्यवसानम् । अत्र हि इन्द्रियेभ्य आरभ्य सूक्ष्मत्वादि परिसमाप्तम् । अत एव च गन्तॄणां सर्वगतिमतां संसारिणां सा परा प्रकृष्टा गतिः, ‘यद्गत्वा न निवर्तन्ते’(भ. गी. १५ । ६) इति स्मृतेः ॥

एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते ।
दृश्यते त्वग्न्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥

१२

ननु गति­श्चे­दा­ग­त्यापि भवितव्यम् , कथम् ‘यस्माद्भूयो न जायते’(क. उ. १ । ३ । ८) इति ? नैष दोषः । सर्वस्य प्रत्य­गा­त्म­त्वा­द­व­ग­ति­रेव गति­रि­त्यु­प­च­र्यते । प्रत्यगात्मत्वं च दर्शितम् इन्द्रि­य­म­नो­बु­द्धि­प­र­त्वेन । यो हि गन्ता सोऽय­म­प्र­त्य­ग्रूपं पूरुषं गच्छति अनात्मभूतं न विन्दति स्वरूपेण । तथा च श्रुतिः ‘अनध्वगा अध्वसु पारयिष्णवः’(?) इत्याद्या । तथा च दर्शयति प्रत्यगात्मत्वं सर्वस्य — एष पुरुषः सर्वेषु ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तेषु भूतेषु गूढः संवृतः दर्श­न­श्र­व­णा­दि­कर्मा अवि­द्या­मा­या­च्छन्नः अत एव आत्मा न प्रकाशते आत्मत्वेन कस्यचित् । अहो अतिगम्भीरा दुरवगाह्या विचित्रा चेयं माया, यदयं सर्वो जन्तुः परमार्थतः पर­मा­र्थ­स­त­त्त्वोऽ­प्येवं बोध्यमानोऽहं परमात्मेति न गृह्णाति, अनात्मानं देहे­न्द्रि­या­दि­स­ङ्घा­त­मा­त्मनो दृश्यमानमपि घटा­दि­व­दा­त्म­त्वे­ना­ह­म­मुष्य पुत्र इत्य­नु­च्य­मा­नोऽपि गृह्णाति । नूनं परस्यैव मायया मोमुह्यमानः सर्वो लोकोऽयं बम्भ्रमीति । तथा च स्मरणम् — ‘नाहं प्रकाशः सर्वस्य योगमायासमावृतः’(भ. गी. ७ । २५) इत्यादि । ननु विरु­द्ध­मि­द­मु­च्यते — मत्वा धीरो न शोचति, न प्रकाशत इति च । नैतदेवम् । असं­स्कृ­त­बु­द्धे­र­वि­ज्ञे­य­त्वान्न प्रकाशत इत्युक्तम् । दृश्यते तु संस्कृतया अग्न्यया, अग्रमिवाग्न्या तया, एका­ग्र­त­यो­पे­त­ये­त्ये­तत् ; सूक्ष्मया सूक्ष्म­व­स्तु­नि­रू­प­ण­प­रया । कैः ? सूक्ष्मदर्शिभिः ‘इन्द्रियेभ्यः परा ह्यर्थाः’इ­त्या­दि­प्र­का­रेण सूक्ष्म­ता­पा­र­म्प­र्य­द­र्श­नेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शिनः, तैः सूक्ष्म­द­र्शिभिः, पण्डि­तै­रि­त्ये­तत् ॥

यच्छेद्वाङ्मनसी प्राज्ञ­स्त­द्य­च्छे­ज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति निय­च्छे­त्त­द्य­च्छे­च्छान्त आत्मनि ॥ १३ ॥

१३

तत्प्र­ति­प­त्त्यु­पा­य­माह — यच्छेत् निय­च्छे­दु­प­सं­ह­रेत् प्राज्ञः विवेकी । किम् ? वाक् वाचम् ; वाग­त्रो­प­ल­क्ष­णार्था सर्वे­षा­मि­न्द्रि­या­णाम् । क्व ? मनसी मनसि । छान्दसं दैर्घ्यम् । तच्च मनः यच्छेत् ज्ञाने प्रकाशस्वरूपे बुद्धावात्मनि । बुद्धिर्हि मन­आ­दि­क­र­णा­न्या­प्नो­ती­त्यात्मा प्रत्यक् च तेषाम् । ज्ञानं बुद्धिम् आत्मनि महति प्रथमजे नियच्छेत् । प्रथ­म­ज­व­त्स्व­च्छ­स्व­भा­व­क­मा­त्मनो विज्ञा­न­मा­पा­द­ये­दि­त्यर्थः । तं च महान्तमात्मानं यच्छेत् शान्ते सर्व­वि­शे­ष­प्र­त्य­स्त­मि­त­रूपे अविक्रिये सर्वान्तरे सर्व­बु­द्धि­प्र­त्य­य­सा­क्षिणि मुख्ये आत्मनि ॥

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४ ॥

१४

एवं पुरुषे आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन्मि­थ्या­ज्ञा­न­वि­जृ­म्भितं क्रिया­का­र­क­फ­ल­ल­क्षणं स्वात्म­या­था­त्म्य­ज्ञा­नेन मरी­च्यु­द­क­र­ज्जु­स­र्प­ग­ग­न­म­ला­नीव मरी­चि­र­ज्जु­ग­ग­न­स्व­रू­प­द­र्श­ने­नैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः, अत­स्त­द्द­र्श­ना­र्थ­म­ना­द्य­वि­द्या­प्र­सुप्ताः उत्तिष्ठत हे जन्तवः, आत्म­ज्ञा­ना­भि­मुखा भवत ; जाग्रत अज्ञाननिद्राया घोररूपायाः सर्वा­न­र्थ­बी­ज­भू­तायाः क्षयं कुरुत । कथम् ? प्राप्य उपगम्य वरान् प्रकृ­ष्टा­ना­चा­र्यां­स्त­त्त्व­विदः, तदुपदिष्टं सर्वा­न्त­र­मा­त्मा­न­म­ह­म­स्मीति निबोधत अवगच्छत ; न ह्युपे­क्षि­त­व्य­मिति श्रुतिरनुकम्पया आह मातृवत् , अति­सू­क्ष्म­बु­द्धि­वि­ष­य­त्वा­ज्ज्ञे­यस्य । किमिव सूक्ष्म­बु­द्धि­रिति, उच्यते — क्षुरस्य धारा अग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया । यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःस­म्पा­द्य­मि­त्ये­तत् ; पथः पन्थानं तत्वज्ञानलक्षणं मार्गं कवयः मेधाविनो वदन्ति । ज्ञेय­स्या­ति­सू­क्ष्म­त्वा­त्त­द्वि­ष­यस्य ज्ञानमार्गस्य दुःसम्पाद्यत्वं वद­न्ती­त्य­भि­प्रायः ॥

अश­ब्द­म­स्प­र्श­म­रू­प­म­व्ययं तथारसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्यु­मु­खा­त्प्र­मु­च्यते ॥ १५ ॥

१५

तत्क­थ­म­ति­सू­क्ष्मत्वं ज्ञेयस्येति, उच्यते । स्थूला तावदियं मेदिनी शब्द­स्प­र्श­रू­प­र­स­ग­न्धो­प­चिता सर्वे­न्द्रि­य­वि­ष­य­भूता तथा शरीरम् । तत्रै­कै­क­गु­णा­प­क­र्षेण गन्धादीनां सूक्ष्म­त्व­म­ह­त्त्व­वि­शु­द्ध­त्व­नि­त्य­त्वा­दि­ता­र­तम्यं दृष्टमबादिषु यावदाकाशमिति । ते गन्धादयः सर्व एव स्थूल­त्वा­द्वि­काराः शब्दान्ताः यत्र न सन्ति, किमु तस्य सूक्ष्म­त्वा­दि­नि­र­ति­श­यत्वं वक्त­व्य­मि­त्ये­त­द्द­र्श­यति श्रुतिः — अश­ब्द­म­स्प­र्श­म­रू­प­म­र­स­म­ग­न्ध­वच्च यत् , एतद्व्याख्यातं ब्रह्म । अव्ययम् , यद्धि शब्दादिमत् , तद्व्येति ; इदं त्वश­ब्दा­दि­म­त्त्वा­द­व्ययं न व्येति न क्षीयते ; अत एव च नित्यम् ; यद्धि व्येति, तदनित्यम् ; इदं तु न व्येति ; अतो नित्यम् । इतश्च नित्यम् — अनादि अविद्यमानः आदिः कारणमस्य तदिदमनादि । यच्चादिमत् , तत्का­र्य­त्वा­द­नित्यं कारणे प्रलीयते यथा पृथिव्यादि ; इदं तु सर्व­का­र­ण­त्वा­द­का­र्यम् , अका­र्य­त्वा­न्नि­त्यम् ; न तस्य कारणमस्ति यस्मिन्प्रलीयेत । तथा अनन्तम् अविद्यमानोऽन्तः कार्यमस्य तदनन्तम् । यथा कदल्यादेः फला­दि­का­र्यो­त्पा­द­ने­ना­प्य­नि­त्यत्वं दृष्टम् , न च तथा­प्य­न्त­वत्त्वं ब्रह्मणः ; अतोऽपि नित्यम् । महतः मह­त्त­त्त्वा­द्बु­द्ध्या­ख्यात् परं विलक्षणं नित्य­वि­ज्ञ­प्ति­स्व­रू­प­त्वात् ; सर्वसाक्षि हि सर्व­भू­ता­त्म­त्वा­द्ब्रह्म । उक्तं हि — ‘एष सर्वेषु भूतेषु’(क. उ. १ । ३ । १२) इत्यादि । ध्रुवं च कूटस्थं नित्यं न पृथि­व्या­दि­व­दा­पे­क्षिकं नित्यत्वम् । तत् एवंभूतं ब्रह्म आत्मानं निचाय्य अवगम्य तम् आत्मानं मृत्युमुखात् मृत्यु­गो­च­रा­द­वि­द्या­का­म­क­र्म­ल­क्ष­णात् प्रमुच्यते वियुज्यते ॥

नाचि­के­त­मु­पा­ख्यानं मृत्युप्रोक्तं सनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥

१६

प्रस्तु­त­वि­ज्ञा­न­स्तु­त्य­र्थ­माह श्रुतिः — नाचिकेतं नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युप्रोक्तम् इद­मा­ख्या­न­मु­पा­ख्यानं वल्लीत्रयलक्षणं सनातनं चिरन्तनं वैदिकत्वात् उक्त्वा ब्राह्मणेभ्यः श्रुत्वा च आचार्येभ्यः मेधावी ब्रह्मैव लोको ब्रह्मलोकः तस्मिन् ब्रह्मलोके महीयते आत्मभूत उपास्यो भवतीत्यभिप्रायः ॥

य इमं परमं गुह्यं श्राव­ये­द्ब्र­ह्म­सं­सदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ॥
तदानन्त्याय कल्पत इति ॥ १७ ॥

१७

यः कश्चिदिमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेत् ग्रन्थ­तोऽ­र्थ­तश्च ब्राह्मणानां संसदि ब्रह्मसंसदि प्रयतः शुचिर्भूत्वा श्राद्धकाले वा श्रावयेत् भुञ्जानाम् , तत् श्राद्धम् अस्य आनन्त्याय अनन्तफलाय कल्पते समर्थ्यते । द्विर्व­च­न­म­ध्या­य­प­रि­स­मा­प्त्य­र्थम् ॥

इति तृती­य­व­ल्ली­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ काठ­को­प­नि­ष­द्भाष्ये प्रथमोऽध्यायः ॥