अद्वैतशारदा

कठोपनिषद्भाष्यम्

द्वितीयोऽध्यायः

व्याख्याः

चतुर्थी वल्ली

‘एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या’(क. उ. १ । ३ । १२) इत्युक्तम् । कः पुनः प्रति­ब­न्धोऽ­ग्र्याया बुद्धेः, येन तदभावादात्मा न दृश्यत इति तद­द­र्श­न­का­र­ण­प्र­द­र्श­नार्था वल्ली आरभ्यते ; विज्ञाते हि श्रेयः­प्र­ति­ब­न्ध­का­रणे तदपनयनाय यत्न आरब्धुं शक्यते, नान्यथेति —

पराञ्चि खानि व्यतृ­ण­त्स्व­य­म्भू­स्त­स्मा­त्प­राङ् पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्य­गा­त्मा­न­मै­क्ष­दा­वृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छन् ॥ १ ॥

पराञ्चि परागञ्चन्ति गच्छन्तीति, खानि तदुपलक्षितानि श्रोत्रा­दी­नी­न्द्रि­याणि खानीत्युच्यन्ते । तानि पराञ्च्येव शब्दा­दि­वि­ष­य­प्र­का­श­नाय प्रवर्तन्ते । यस्मा­दे­वं­स्व­भा­व­कानि तानि व्यतृणत् हिंसितवान् हननं कृतवानित्यर्थः । कोऽसौ ? स्वयम्भूः परमेश्वरः स्वयमेव स्वतन्त्रो भवति सर्वदा न परतन्त्र इति । तस्मात् पराङ् परा­ग्रू­पा­न­ना­त्म­भू­ता­ञ्श­ब्दा­दीन् पश्यति उपलभते उपलब्धा नान्तरात्मन् नान्त­रा­त्मा­न­मि­त्यर्थः । एवंस्वभावेऽपि सति लोकस्य कश्चित् नद्याः प्रति­स्रो­तः­प्र­व­र्त­न­मिव धीरः धीमान्विवेकी प्रत्यगात्मानं प्रत्यक् चासावात्मा चेति प्रत्यगात्मा । प्रती­च्ये­वा­त्म­शब्दो रूढो लोके, नान्यत्र । व्युत्प­त्ति­प­क्षेऽपि तत्रैवात्मशब्दो वर्तते ; ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भाव­स्त­स्मा­दा­त्मेति कीर्त्यते’ ; इत्या­त्म­श­ब्द­व्यु­त्प­त्ति­स्म­र­णात् । तं प्रत्यगात्मानं स्वस्वभावम् ऐक्षत् अपश्यत् पश्यतीत्यर्थः, छन्दसि कालानियमात् । कथं पश्यतीति, उच्यते — आवृत्तचक्षुः आवृत्तं व्यावृत्तं चक्षुः श्रोत्रा­दि­क­मि­न्द्रि­य­जा­त­म­शे­ष­वि­ष­यात् यस्य स आवृत्तचक्षुः । स एवं संस्कृतः प्रत्यगात्मानं पश्यति । न हि बाह्य­वि­ष­या­लो­च­न­प­रत्वं प्रत्य­गा­त्मे­क्षणं चैकस्य सम्भवति । किमि­च्छ­न्पु­न­रित्थं महता प्रयासेन स्वभा­व­प्र­वृ­त्ति­नि­रोधं कृत्वा धीरः प्रत्यगात्मानं पश्यतीति, उच्यते । अमृतत्वम् अमरणधर्मत्वं नित्यस्वभावताम् इच्छन् आत्मन इत्यर्थः ॥

पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्वं विदित्वा ध्रुव­म­ध्रु­वे­ष्विह न प्रार्थयन्ते ॥ २ ॥

यत्ता­व­त्स्वा­भा­विकं परा­गे­वा­ना­त्म­द­र्शनं तदात्मदर्शनस्य प्रति­ब­न्ध­का­र­ण­म­विद्या तत्प्र­ति­कू­ल­त्वाद्या च परा­क्ष्वे­वा­वि­द्यो­प­प्र­द­र्शि­तेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्या­म­वि­द्या­तृ­ष्णाभ्यां प्रति­ब­द्धा­त्म­द­र्शनाः पराचः बहिर्गतानेव कामान् काम्यान्विषयान् अनुयन्ति अनुगच्छन्ति बालाः अल्पप्रज्ञाः ते तेन कारणेन मृत्योः अवि­द्या­का­म­क­र्म­स­मु­दा­यस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते येन तं पाशं देहे­न्द्रि­या­दि­सं­यो­ग­वि­यो­ग­ल­क्ष­णम् । अनवरतं जन्म­म­र­ण­ज­रा­रो­गा­द्य­ने­का­न­र्थ­व्रातं प्रतिपद्यन्त इत्यर्थः । यत एवम् अथ तस्मात् धीराः विवेकिनः प्रत्य­गा­त्म­स्व­रू­पा­व­स्था­न­ल­क्ष­णम् अमृतत्वं ध्रुवं विदित्वा । देवाद्यमृतत्वं ह्यध्रुवम् , इदं तु प्रत्य­गा­त्म­स्व­रू­पा­व­स्था­न­ल­क्षणं ध्रुवम् , ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुतेः । तदेवंभूतं कूट­स्थ­म­वि­चा­ल्य­म­मृ­तत्वं विदित्वा अध्रुवेषु सर्वपदार्थेषु अनित्येषु निर्धार्य, ब्राह्मणा इह संसा­रेऽ­न­र्थ­प्राये न प्रार्थयन्ते किञ्चिदपि प्रत्य­गा­त्म­द­र्श­न­प्र­ति­कू­ल­त्वात् । पुत्र­वि­त्त­लो­कै­ष­णाभ्यो व्युत्ति­ष्ठ­न्त्ये­वे­त्य­भि­प्रायः ॥

येन रूपं रसं गन्धं शब्दा­न्स्प­र्शांश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३ ॥

यद्विज्ञानान्न किञ्चि­द­न्य­त्प्रा­र्थ­यन्ते ब्राह्मणाः, कथं तदधिगम इति, उच्यते — येन विज्ञा­न­स्व­भा­वे­ना­त्मना रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् मैथु­न­नि­मि­त्ता­न्सु­ख­प्र­त्य­यान् विजानाति विस्पष्टं जानाति सर्वो लोकः । ननु नैवं प्रसि­द्धि­र्लो­कस्य आत्मना देहा­दि­वि­ल­क्ष­णे­नाहं विजानामीति । देहा­दि­स­ङ्घा­तोऽहं विजानामीति तु सर्वो लोकोऽवगच्छति । न त्वेवम् देहा­दि­स­ङ्घा­त­स्यापि शब्दा­दि­स्व­रू­प­त्वा­वि­शे­षा­द्वि­ज्ञे­य­त्वा­वि­शे­षाच्च न युक्तं विज्ञातृत्वम् । यदि हि देहादिसङ्घातो रूपाद्यात्मकः सन् रूपा­दी­न्वि­जा­नी­यात् , तर्हि बाह्या अपि रूपा­द­योऽ­न्योन्यं स्वं स्वं रूपं च विजानीयुः । न चैतदस्ति । तस्मा­द्दे­हा­दि­ल­क्ष­णांश्च रूपादीन् एतेनैव देहा­दि­व्य­ति­रि­क्ते­नैव विज्ञा­न­स्व­भा­वे­ना­त्मना विजानाति लोकः । यथा येन लोहो दहति सोऽग्निरिति तद्वत् आत्म­नोऽ­वि­ज्ञे­यम् । किम् अत्र अस्मिंल्लोके परिशिष्यते न किञ्चि­त्प­रि­शि­ष्यते सर्वमेव त्वात्मना विज्ञेयम् , यस्या­त्म­नोऽ­वि­ज्ञेयं न किञ्चि­त्प­रि­शि­ष्यते, स आत्मा सर्वज्ञः । एतद्वै तत् । किं तत् यन्नचिकेतसा पृष्टं देवादिभिरपि विचिकित्सितं धर्मा­दि­भ्योऽ­न्यत् विष्णोः परमं पदं यस्मात्परं नास्ति तद्वै एतत् अधिगतमित्यर्थः ॥

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४ ॥

अति­सू­क्ष्म­त्वा­द्दु­र्वि­ज्ञे­य­मिति मत्वैतमेवार्थं पुनः पुनराह — स्वप्नान्तं स्वप्नमध्यं स्वप्न­वि­ज्ञे­य­मि­त्ये­तत् । तथा जागरितान्तं जागरितमध्यं जागरितविज्ञेयं च । उभौ स्वप्न­जा­ग­रि­तान्तौ येन आत्मना अनुपश्यति लोकः इति सर्वं पूर्ववत् । तं महान्तं विभुमात्मानं मत्वा अवगम्यात्मभावेन साक्षादहमस्मि परमात्मेति धीरः न शोचति ॥

य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५ ॥

किञ्च, यः कश्चित् इमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्य धार­यि­ता­र­मा­त्मानं वेद विजानाति अन्तिकात् अन्तिके समीपे ईशानम् ईशितारं भूतभव्यस्य कालत्रयस्य, ततः तद्वि­ज्ञा­ना­दू­र्ध्व­मा­त्मानं न विजुगुप्सते न गोपा­यि­तु­मि­च्छति, अभ­य­प्रा­प्त­त्वात् । यावद्धि भय­म­ध्य­स्थोऽ­नि­त्य­मा­त्मानं मन्यते ताव­द्गो­पा­यि­तु­मि­च्छ­त्या­त्मा­नम् । यदा तु नित्य­म­द्वै­त­मा­त्मानं विजानाति, तदा कः किं कुतो वा गोपा­यि­तु­मि­च्छेत् । एतद्वै तदिति पूर्ववत् ॥

यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूते­भि­र्व्य­प­श्यत । एतद्वै तत् ॥ ६ ॥

यः प्रत्य­गा­त्मे­श्व­र­भा­वेन निर्दिष्टः, स सर्वा­त्मे­त्ये­त­द्द­र्श­यति — यः कश्चि­न्मु­मुक्षुः पूर्वं प्रथमं तपसः ज्ञाना­दि­ल­क्ष­णा­द्ब्र­ह्मण इत्येतत् ; जातम् उत्पन्नं हिरण्यगर्भम् । किमपेक्ष्य पूर्वमिति, आह — अद्भ्यः पूर्वम् अप्सहितेभ्यः पञ्चभूतेभ्यः, न केवलाभ्योऽद्भ्य इत्यभिप्रायः । अजायत उत्पन्नः यस्तं प्रथमजं देवा­दि­श­री­रा­ण्यु­त्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दा­दी­नु­प­ल­भ­मानं भूतेभिः भूतैः कार्यकरणलक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्येतत् ; य एवं पश्यति, स एतदेव पश्यति — यत्तत्प्रकृतं ब्रह्म ॥

या प्राणेन सम्भवति अदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७ ॥

किञ्च, या सर्वदेवतामयी सर्वदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण पर­स्मा­द्ब्र­ह्मणः सम्भवति शब्दादीनामदनात् अदितिः तां पूर्ववद्गुहां प्रविश्य तिष्ठन्तीम् अदितिम् । तामेव विशिनष्टि — या भूतेभिः भूतैः समन्विता व्यजायत उत्पन्नेत्येतत् ॥

अर­ण्यो­र्नि­र्हितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिव ईड्यो जागृ­व­द्भि­र्ह­वि­ष्म­द्भि­र्म­नु­ष्ये­भि­रग्निः । एतद्वै तत् ॥ ८ ॥

किञ्च, यः अधियज्ञम् उत्त­रा­ध­रा­र­ण्यो­र्नि­हितः स्थितः जातवेदा अग्निः पुनः सर्वहविषां भोक्ता अध्यात्मं च योगिभिः, गर्भ इव गर्भिणीभिः अन्त­र्व­त्नी­भि­र­ग­र्हि­ता­न्न­भो­ज­ना­दिना यथा गर्भः सुभृतः सुष्ठु सम्यग्भृतो लोके, इत्थमेव ऋत्वि­ग्भि­र्यो­गि­भिश्च सुभृत इत्येतत् । किञ्च, दिवे दिवे अहन्यहनि ईड्यः स्तुत्यो वन्द्यश्च कर्मि­भि­र्यो­गि­भि­श्चा­ध्वरे हृदये च जागृवद्भिः जागरणशीलैः अप्र­म­त्तै­रि­त्ये­तत् । हविष्मद्भिः आज्यादिमद्भिः ध्यान­भा­व­ना­व­द्भिश्च मनुष्येभिः मनुष्यैः अग्निः ; एतद्वै तत् तदेव प्रकृतं ब्रह्म ॥

यतश्चोदेति सूर्यः अस्तं यत्र च गच्छति ।
तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९ ॥

किञ्च, यतश्च यस्मात्प्राणात् उदेति उत्तिष्ठति सूर्यः, अस्तं निम्लोचनं तिरोधानं यत्र यस्मिन्नेव च प्राणे अहन्यहनि गच्छति, तं प्राणमात्मानं देवाः सर्वे अग्न्यादयः अधिदैवं वागा­द­य­श्चा­ध्यात्मं सर्वे विश्वे अरा इव रथनाभौ अर्पिताः सम्प्रवेशिताः स्थितिकाले । सोऽपि ब्रह्मैव । तत् एतत्सर्वात्मकं ब्रह्म, तदु नात्येति नातीत्य तदात्मकतां तदन्यत्वं गच्छति, कश्चन कश्चिदपि एतद्वै तत् ॥

यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १० ॥

१०

यद्ब्र­ह्मा­दि­स्था­व­रा­न्तेषु वर्तमानं तत्त­दु­पा­धि­त्वा­द­ब्र­ह्म­व­द­व­भा­स­मानं संसा­र्य­न्य­त्प­र­स्मा­द्ब्र­ह्मण इति मा भूत्क­स्य­चि­दा­श­ङ्के­ती­द­माह — यदेवेह कार्य­का­र­णो­पा­धि­स­म­न्वितं संसा­र­ध­र्म­व­द­व­भा­स­मा­न­म­वि­वे­कि­नाम् , तदेव स्वात्मस्थम् अमुत्र नित्य­वि­ज्ञा­न­घ­न­स्व­भावं सर्व­सं­सा­र­ध­र्म­व­र्जितं ब्रह्म । यच्च अमुत्र अमु­ष्मि­न्ना­त्मनि स्थितम् , तदनु इह तदेव इह कार्य­क­र­ण­ना­म­रू­पो­पा­धिम् अनु विभाव्यमानं नान्यत् । तत्रैवं सति उपा­धि­स्व­भा­व­भे­द­दृ­ष्टि­ल­क्ष­णया अविद्यया मोहितः सन् य इह ब्रह्म­ण्य­ना­ना­भूते परस्मादन्योऽहं मत्तोऽन्यत्परं ब्रह्मेति नानेव भिन्नमिव पश्यति उपलभते, स मृत्योर्मरणात् मृत्युं मरणं पुनः पुनः जन­न­म­र­ण­भा­व­मा­प्नोति प्रतिपद्यते । तस्मात्तथा न पश्येत् । विज्ञानैकरसं नैर­न्त­र्ये­णा­का­श­व­त्प­रि­पूर्णं ब्रह्मै­वा­ह­म­स्मीति पश्येदिति वाक्यार्थः ॥

मन­सै­वे­द­मा­प्तव्यं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥

११

प्रागे­क­त्व­वि­ज्ञा­ना­दा­चा­र्या­ग­म­सं­स्कृ­तेन मनसैव इदं ब्रह्मैकरसम् आप्तव्यम् आत्मैव नान्यदस्तीति । आप्ते च नाना­त्व­प्र­त्यु­प­स्था­पि­काया अविद्याया निवृत्तत्वात् इह ब्रह्मणि नाना नास्ति किञ्चन अणुमात्रमपि । यस्तु पुन­र­वि­द्या­ति­मि­र­दृष्टिं न मुञ्चति इह ब्रह्मणि नानेव पश्यति, स मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेद­म­ध्या­रो­प­य­न्नि­त्यर्थः ॥

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२ ॥

१२

पुनरपि तदेव प्रकृतं ब्रह्माह — अङ्गुष्ठमात्रः अङ्गुष्ठपरिमाणः । अङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छि­द्र­व­र्त्य­न्तः­क­र­णो­पा­धि­र­ङ्गु­ष्ठ­मात्रः अङ्गु­ष्ठ­मा­त्र­वं­श­प­र्व­म­ध्य­व­र्त्य­म्ब­र­वत् । पुरुषः पूर्णमनेन सर्वमिति । मध्ये आत्मनि शरीरे तिष्ठति यः तम् आत्मानम् ईशानं भूतभव्यस्य विदित्वा, न तत इत्यादि पूर्ववत् ॥

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३ ॥

१३

किञ्च, अङ्गुष्ठमात्रः पुरुषः ज्योतिरिव अधूमकः, अधूमकमिति युक्तं ज्योतिःपरत्वात् । यस्त्वेवं लक्षितो योगिभिर्हृदये ईशानः भूतभव्यस्य स एव नित्यः कूटस्थः अद्य इदानीं प्राणिषु वर्तमानः स उ श्वोऽपि वर्तिष्यते, नान्य­स्त­त्स­मोऽ­न्यश्च जनिष्यत इत्यर्थः । अनेन ‘नायमस्तीति चैके’(क. उ. १ । १ । २०) इत्ययं पक्षो न्याय­तोऽ­प्रा­प्तोऽपि स्ववचनेन श्रुत्या प्रत्युक्तः, तथा क्षणभङ्गवादश्च ।

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मा­न्पृ­थ­क्प­श्यं­स्ता­ने­वा­नु­वि­धा­वति ॥ १४ ॥

१४

पुनरपि भेददर्शनापवादं ब्रह्मण आह — यथा उदकं दुर्गे दुर्गमे देशे उच्छ्रिते वृष्टं सिक्तं पर्वतेषु पर्ववत्सु निम्नप्रदेशेषु विधावति विकीर्णं सद्विनश्यति, एवं धर्मान् आत्मनोऽभिन्नान् पृथक् पश्यन् पृथगेव प्रतिशरीरं पश्यन् तानेव शरी­र­भे­दा­नु­व­र्तिनः अनुविधावति । शरीरभेदमेव पृथक् पुनः पुनः प्रतिपद्यत इत्यर्थः ॥

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥

१५

अस्य पुनर्विद्यावतो विध्व­स्तो­पा­धि­कृ­त­भे­द­द­र्श­नस्य विशु­द्ध­वि­ज्ञा­न­घ­नै­क­र­स­म­द्व­य­मा­त्मानं पश्यतो विजानतो मुने­र्म­न­न­शी­ल­स्या­त्म­स्व­रूपं कथं सम्भवतीति, उच्यते — यथा उदकं शुद्धे प्रसन्ने शुद्धं प्रसन्नम् आसिक्तं प्रक्षिप्तम् एकरसमेव नान्यथा, तादृगेव भवति आत्माप्येवमेव भवति एकत्वं विजानतो मुनेः मननशीलस्य हे गौतम । तस्मा­त्कु­ता­र्कि­क­भे­द­दृष्टिं नास्ति­क­कु­दृष्टिं चोज्झित्वा मातृ­पि­तृ­स­ह­स्रे­भ्योऽपि हितैषिणा वेदे­नो­प­दि­ष्ट­मा­त्मै­क­त्व­द­र्शनं शान्त­द­र्पै­रा­द­र­णी­य­मि­त्यर्थः ॥

इति चतु­र्थ­व­ल्ली­भा­ष्यम् ॥

पञ्चमी वल्ली

पुर­मे­का­द­श­द्वा­र­म­ज­स्या­व­क्र­चे­तसः ।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १ ॥

पुनरपि प्रकारान्तरेण ब्रह्म­त­त्त्व­नि­र्धा­र­णा­र्थोऽ­य­मा­रम्भः, दुर्वि­ज्ञे­य­त्वा­द्ब्र­ह्मणः — पुरं पुरमिव पुरम् । द्वार­द्वा­र­पा­ला­धि­ष्ठा­त्रा­द्य­ने­क­पु­रो­प­क­र­ण­स­म्प­त्ति­द­र्श­नात् शरीरं पुरम् । पुरं च सोपकरणं स्वात्मना असं­ह­त­स्व­त­न्त्र­स्वा­म्यर्थं दृष्टम् । तथेदं पुर­सा­मा­न्या­द­ने­को­प­क­र­ण­सं­हतं शरीरं स्वात्मना असं­ह­त­रा­ज­स्था­नी­य­स्वा­म्यर्थं भवितुमर्हति । तच्चेदं शरीराख्यं पुरम् एकादशद्वारम् ; एकादश द्वाराण्यस्य — सप्त शीर्षण्यानि, नाभ्या सहार्वाञ्चि त्रीणि, शिरस्येकम् , तैरेकादशद्वारं पुरम् । कस्य ? अजस्य जन्मा­दि­वि­क्रि­या­र­हि­त­स्या­त्मनो राजस्थानीयस्य पुर­ध­र्म­वि­ल­क्ष­णस्य । अवक्रचेतसः अवक्रम् अकु­टि­ल­मा­दि­त्य­प्र­का­श­व­न्नि­त्य­मे­वा­व­स्थि­त­मे­क­रूपं चेतो विज्ञानमस्येति अवक्रचेताः तस्यावक्रचेतसः राजस्थानीयस्य ब्रह्मणः यस्येदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा । ध्यानं हि तस्यानुष्ठानं सम्य­ग्वि­ज्ञा­न­पू­र्व­कम् । तं सर्वै­ष­णा­वि­नि­र्मुक्तः सन्समं सर्वभूतस्थं ध्यात्वा न शोचति । तद्वि­ज्ञा­ना­द­भ­य­प्राप्तेः शोका­व­स­रा­भा­वा­त्कुतो भयेक्षा । इहै­वा­वि­द्या­कृ­त­का­म­क­र्म­ब­न्ध­नै­र्वि­मुक्तो भवति । विमुक्तश्च सन्विमुच्यते ; पुनः शरीरं न गृह्णातीत्यर्थः ॥

हंसः शुचि­ष­द्व­सु­र­न्त­रि­क्ष­स­द्धोता वेदि­ष­द­ति­थि­र्दु­रो­ण­सत् ।
नृष­द्व­र­स­दृ­त­स­द्व्यो­म­स­दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २ ॥

स तु नैक­पु­र­व­र्त्ये­वात्मा किं तर्हि सर्वपुरवर्ती । कथम् ? हंसः हन्ति गच्छतीति । शुचिषत् शुचौ दिवि आदित्यात्मना सीदतीति । वसुः वासयति सर्वानिति । वाय्वात्मना अन्तरिक्षे सीदतीति अन्तरिक्षसत् । होता अग्निः, ‘अग्निर्वै होता’ इति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषत् , ‘इयं वेदिः परोऽन्तः पृथिव्याः’(ऋ. मं. १ । २२ । १६४ । ३५) इति मन्त्रवर्णात् । अतिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोणसत् । ब्राह्म­णोऽ­ति­थि­रू­पेण वा दुरोणेषु गृहेषु सीदतीति दुरोणसत् । नृषत् नृषु मनुष्येषु सीदतीति नृषत् । वरसत् वरेषु देवेषु सीदतीति वरसत् । ऋतसत् ऋतं सत्यं यज्ञो वा, तस्मिन् सीदतीति ऋतसत् । व्योमसत् व्योम्नि आकाशे सीदतीति व्योमसत् । अब्जाः अप्सु शङ्ख­शु­क्ति­म­क­रा­दि­रु­पेण जायत इति अब्जाः । गोजाः गवि पृथिव्यां व्रीहि­य­वा­दि­रू­पेण जायत इति गोजाः । ऋतजाः यज्ञाङ्गरूपेण जायत इति ऋतजाः । अद्रिजाः पर्वतेभ्यो नद्यादिरूपेण जायत इति अद्रिजाः । सर्वात्मापि सन् ऋतम् अवितथस्वभाव एव । बृहत् महान् , सर्वकारणत्वात् । यदाप्यादित्य एव मन्त्रेणोच्यते तदा­प्या­त्म­स्व­रू­प­त्व­मा­दि­त्य­स्या­ङ्गी­कृ­त­मिति ब्रह्मणि व्याख्या­नेऽ­प्य­वि­रोधः । सर्वव्याप्येक एवात्मा जगतः, नात्मभेद इति मन्त्रार्थः ॥

ऊर्ध्वं प्राणमुन्नयति अपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥

आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते — ऊर्ध्वं हृदयात् प्राणं प्राणवृत्तिं वायुम् उन्नयति ऊर्ध्वं गमयति । तथा अपानं प्रत्यक् अधः अस्यति क्षिपति यः इति वाक्यशेषः । तं मध्ये हृद­य­पु­ण्ड­री­का­काशे आसीनं बुद्धा­व­भि­व्यक्तं विज्ञानप्रकाशनं वामनं वननीयं सम्भजनीयं विश्वे सर्वे देवाः चक्षुरादयः प्राणाः रूपादिविज्ञानं बलिमुपाहरन्तो विश इव राजानम् उपासते ताद­र्थ्ये­ना­नु­प­र­त­व्या­पारा भवन्तीत्यर्थः । यदर्था यत्प्रयुक्ताश्च सर्वे वायु­क­र­ण­व्या­पाराः, सोऽन्यः सिद्ध इति वाक्यार्थः ॥

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहा­द्वि­मु­च्य­मा­नस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४ ॥

किञ्च, अस्य शरीरस्थस्य आत्मनः विस्रंसमानस्य भ्रंशमानस्य देहिनो देहवतः । विस्रं­स­न­श­ब्दा­र्थ­माह — देहा­द्वि­मु­च्य­मा­न­स्येति । किमत्र परिशिष्यते प्राणादिकलापे न किञ्चन परिशिष्यते ; अत्र देहे पुर­स्वा­मि­वि­द्र­वण इव पुरवासिनां यस्यात्मनोऽपगमे क्षण­मा­त्रा­त्का­र्य­क­र­ण­क­ला­प­रूपं सर्वमिदं हतबलं विध्वस्तं भवति विनष्टं भवति, सोऽन्यः सिद्ध आत्मा ॥

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मि­न्ने­ता­वु­पा­श्रितौ ॥ ५ ॥

स्यान्मतं प्राणा­पा­ना­द्य­प­ग­मा­दे­वेदं विध्वस्तं भवति न तु व्यति­रि­क्ता­त्मा­प­ग­मात् , प्राणादिभिरेवेह मर्त्यो जीवतीति ; नैतदस्ति — न प्राणेन नापानेन चक्षुरादिना वा मर्त्यः मनुष्यो देहवान् कश्चन जीवति न कोऽपि जीवति । न ह्येषां परार्थानां संह­त्य­का­रि­त्वा­ज्जी­व­न­हे­तु­त्व­मु­प­प­द्यते । स्वार्थे­ना­सं­ह­तेन परेण संहतानामवस्थानं न दृष्टं केनचिदप्रयुक्तं यथा गृहादीनां लोके ; तथा प्राणादीनामपि संह­त­त्वा­द्भ­वि­तु­म­र्हति । अत इतरेण तु इतरेणैव संह­त­प्रा­णा­दि­वि­ल­क्ष­णेन तु सर्वे संहताः सन्तः जीवन्ति प्राणा­न्धा­र­यन्ति । यस्मिन् संहतविलक्षणे आत्मनि सति परस्मिन् एतौ प्राणापानौ चक्षुरादिभिः संहतौ उपाश्रितौ यस्या­सं­ह­त­स्यार्थे प्राणापानादिः सर्वं व्यापारं कुर्वन्वर्तते संहतः सन् स ततोऽन्यः सिद्ध इत्यभिप्रायः ॥

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥

हन्तेदानीं पुनरपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्म सनातनं चिरन्तनं प्रवक्ष्यामि । यद्वि­ज्ञा­ना­त्स­र्व­सं­सा­रो­प­रमो भवति, अविज्ञानाच्च यस्य मरणं प्राप्य यथा च आत्मा भवति यथा आत्मा संसरति तथा शृणु हे गौतम ॥

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणु­म­न्येऽ­नु­सं­यन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥

योनिं योनिद्वारं शुक्र­बी­ज­स­म­न्विताः सन्तः अन्ये केचि­द­वि­द्या­वन्तो मूढाः प्रपद्यन्ते शरीरत्वाय शरीरग्रहणार्थं देहिनः देहवन्तः योनिं प्रवि­श­न्ती­त्यर्थः । स्थाणुं वृक्षा­दि­स्था­व­र­भा­वम् अन्ये अत्यन्ताधमा मरणं प्राप्य अनुसंयन्ति अनुगच्छन्ति । यथाकर्म यद्यस्य कर्म तद्यथाकर्म यैर्यादृशं कर्म इह जन्मनि कृतं तद्वशेनेत्येतत् । तथा यथाश्रुतं यादृशं च विज्ञा­न­मु­पा­र्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्त इत्यर्थः ; ‘यथाप्रज्ञं हि सम्भवाः’(ऐ. आ. २ । ३ । २) इति श्रुत्यन्तरात् ॥

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८ ॥

यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामीति तदाह — य एष सुप्तेषु प्राणादिषु जागर्ति न स्वपिति ; कथम् ? कामं कामं तं तमभिप्रेतं स्त्र्याद्य­र्थ­म­वि­द्यया निर्मिमाणः निष्पादयन् , जागर्ति पुरुषः यः, तदेव शुक्रं शुभ्रं शुद्धं तद्ब्रह्म नान्यद्गुह्यं ब्रह्मास्ति । तदेव अमृतम् अविनाशि उच्यते सर्वशास्त्रेषु । किञ्च, पृथिव्यादयो लोका­स्त­स्मि­न्नेव सर्वे ब्रह्मणि श्रिताः आश्रिताः, सर्व­लो­क­का­र­ण­त्वा­त्तस्य । तदु नात्येति कश्चनेत्यादि पूर्ववदेव ॥

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्व­भू­ता­न्त­रात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥

अतः कुता­र्कि­क­पा­ष­ण्ड­बु­द्धि­वि­चा­लि­ता­न्तः­क­र­णानां प्रमा­णो­प­प­न्न­म­प्या­त्मै­क­त्व­वि­ज्ञा­न­म­स­कृ­दु­च्य­मा­न­म­प्य­नृ­जु­बु­द्धीनां ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादने आदरवती पुनः पुनराह श्रुतिः — अग्निः यथा एक एव प्रकाशात्मा सन् भुवनम् , भव­न्त्य­स्मि­न्भू­ता­नीति भुवनम् , अयं लोकः, तमिमं प्रविष्टः अनुप्रविष्टः, रूपं रूपं प्रति, दार्वा­दि­दा­ह्य­भेदं प्रतीत्यर्थः, प्रतिरूपः तत्र तत्र प्रतिरूपवान् दाह्यभेदेन बहुविधो बभूव ; एक एव तथा सर्व­भू­ता­न्त­रात्मा रूपं रूपं सर्वेषां भूतानामभ्यन्तर आत्मा अति­सू­क्ष्म­त्वा­द्दा­र्वा­दि­ष्विव सर्वदेहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश्च स्वेनाविकृतेन रूपेण आकाशवत् ॥

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्व­भू­ता­न्त­रात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १० ॥

१०

तथान्यो दृष्टान्तः — वायुर्यथैक इत्यादि । प्राणात्मना देहे­ष्व­नु­प्र­विष्टः । रूपं रूपं प्रतिरूपो बभूवेत्यादि समानम् ॥

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षु­षै­र्बा­ह्य­दोषैः ।
एकस्तथा सर्व­भू­ता­न्त­रात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥

११

एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव स्यादिति प्राप्ते, इदमुच्यते — सूर्यः यथा चक्षुष आलोकेनोपकारं कुर्व­न्मू­त्र­पु­री­षा­द्य­शु­चि­प्र­का­श­नेन तद्दर्शिनः सर्वलोकस्य चक्षुः अपि सन् न लिप्यते चाक्षुषैः अशु­च्या­दि­द­र्श­न­नि­मि­त्तै­रा­ध्या­त्मिकैः पापदोषैः बाह्यैश्च अशु­च्या­दि­सं­स­र्ग­दोषैः एकः सन् , तथा सर्व­भू­ता­न्त­रात्मा न लिप्यते लोकदुःखेन बाह्यः । लोको ह्यविद्यया स्वात्म­न्य­ध्य­स्तया कामकर्मोद्भवं दुःखमनुभवति । न तु सा परमार्थतः स्वात्मनि । यथा रज्जु­शु­क्ति­को­ष­र­ग­ग­नेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति, संसर्गिणि विप­री­त­बु­द्ध्य­ध्या­स­नि­मि­त्तात्तु तद्दो­ष­व­द्वि­भा­व्यन्ते ; न तद्दोषैस्तेषां लेपः, विप­री­त­बु­द्ध्य­ध्या­स­बाह्या हि ते ; तथा आत्मनि सर्वो लोकः क्रिया­का­र­क­फ­ला­त्मकं विज्ञानं सर्पादिस्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्म­म­र­णा­दि­दुः­ख­म­नु­भ­वति ; न त्वात्मा सर्वलोकात्मापि सन् विप­री­ता­ध्या­रो­प­नि­मि­त्तेन लिप्यते लोकदुःखेन । कुतः ? बाह्यः रज्ज्वादिवदेव विप­री­त­बु­द्ध्य­ध्या­स­बाह्यो हि स इति ॥

एको वशी सर्व­भू­ता­न्त­रात्मा एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥

१२

किञ्च, स हि परमेश्वरः सर्वगतः स्वतन्त्रः एकः, न तत्समोऽभ्यधिको वान्योऽस्ति । वशी, सर्वं ह्यस्य जगद्वशे वर्तते । कुतः ? सर्व­भू­ता­न्त­रात्मा । यत एकमेव सदैकरसमात्मानं विशु­द्ध­वि­ज्ञा­न­घ­न­रूपं नाम­रू­पा­द्य­शु­द्धो­पा­धि­भे­द­व­शेन बहुधा अनेकप्रकारेण यः करोति स्वात्म­स­त्ता­मा­त्रेण अचि­न्त्य­श­क्ति­त्वात् , तत् आत्मस्थं स्वश­री­र­हृ­द­या­काशे बुद्धौ चैत­न्या­का­रे­णा­भि­व्य­क्त­मि­त्ये­तत् — न हि शरी­र­स्या­धा­र­त्व­मा­त्मनः, आका­श­व­द­मू­र्त­त्वात् ; आदर्शस्थं मुखमिति यद्वत् — तमे­त­मी­श्व­र­मा­त्मानं ये निवृ­त्त­बा­ह्य­वृ­त्तयः अनुपश्यन्ति आचा­र्या­ग­मो­प­दे­श­मनु साक्षादनुभवन्ति धीराः विवेकिनः, तेषां परमेश्वरभूतानां शाश्वतं नित्यं सुखम् आत्मानन्दलक्षणं भवति, नेतरेषां बाह्या­स­क्त­बु­द्धी­ना­म­वि­वे­किनां स्वात्मभूतमपि, अवि­द्या­व्य­व­धा­नात् ॥

नित्यो नित्यानां चेत­न­श्चे­त­ना­ना­मेको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥

१३

किञ्च, नित्यः अविनाशी नित्यानाम् अविनाशिनाम् । चेतनः चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनाम् । अग्निनिमित्तमिव दाह­क­त्व­म­न­ग्नी­ना­मु­द­का­दी­ना­मा­त्म­चै­त­न्य­नि­मि­त्त­मेव चेत­यि­तृ­त्व­म­न्ये­षाम् । किञ्च, स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् कर्मफलानि स्वानु­ग्र­ह­नि­मि­त्तांश्च कामान् यः एको बहूनाम् अनेकेषाम् अनायासेन विदधाति प्रय­च्छ­ती­त्ये­तत् । तम् आत्मस्थं ये अनुपश्यन्ति धीराः, तेषां शान्तिः उपरतिः शाश्वती नित्या स्वात्मभूतैव स्यात् । न इतरेषाम् अनेवंविधानाम् ॥

तदेतदिति मन्य­न्तेऽ­नि­र्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४ ॥

१४

यत्त­दा­त्म­वि­ज्ञा­न­सु­खम् अनिर्देश्यं निर्दे­ष्टु­म­शक्यं परमं प्रकृष्टं प्राकृ­त­पु­रु­ष­वा­ङ्म­न­स­यो­र­गो­च­र­मपि सन्निवृत्तैषणा ये ब्राह्मणास्ते तदे­त­त्प्र­त्य­क्ष­मे­वेति मन्यन्ते, कथं नु केन प्रकारेण तत्सुखमहं विजानीयाम् इद­मि­त्या­त्म­बु­द्धि­वि­ष­य­मा­पा­द­येयं यथा निवृत्तविषयैषणा यतयः । किमु तत् भाति दीप्यते प्रकाशात्मकं तत् यतोऽ­स्म­द्बु­द्धि­गो­च­र­त्वेन विभाति विस्पष्टं दृश्यते किं वा नेति ॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५ ॥

१५

अत्रोत्तरमिदम् — भाति च विभाति चेति । कथम् ? न तत्र तस्मि­न्स्वा­त्म­भूते ब्रह्मणि सर्वावभासकोऽपि सूर्यः भाति तद्ब्रह्म न प्रका­श­य­ती­त्यर्थः । तथा न चन्द्रतारकम् , नेमा विद्युतो भान्ति, कुतः अयम् अस्म­द्दृ­ष्टि­गो­चरः अग्निः । किं बहुना ? यदि­द­मा­दि­त्या­दिकं भाति तत् तमेव परमेश्वरं भान्तं दीप्यमानम् अनुभाति अनुदीप्यते । यथा जलोल्मुकादि अग्नि­सं­यो­गा­दग्निं दहन्तमनुदहति न स्वतः, तद्वत् । तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि विभाति । यत् एवं तदेव ब्रह्म भाति च विभाति च । कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्यम् , घटा­दी­ना­म­न्या­व­भा­स­क­त्वा­द­र्श­नात् भारूपाणां च आदित्यादीनां तद्दर्शनात् ॥

इति पञ्च­म­व­ल्ली­भा­ष्यम् ॥

षष्ठी वल्ली

ऊर्ध्व­मू­लोऽ­वा­क्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १ ॥

तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके, एवं संसा­र­का­र्य­वृ­क्षा­व­धा­र­णेन तन्मूलस्य ब्रह्मणः स्वरू­पा­व­दि­धा­र­यि­षया इयं षष्ठी वल्ली आरभ्यते । ऊर्ध्वमूलः ऊर्ध्वं मूलं यत् तद्विष्णोः परमं पदमस्येति सोऽय­म­व्य­क्ता­दि­स्था­व­रान्तः संसारवृक्षः ऊर्ध्वमूलः । वृक्षश्च व्रश्चनात् विनश्वरत्वात् । अवि­च्छि­न्न­ज­न्म­ज­रा­म­र­ण­शो­का­द्य­ने­का­न­र्था­त्मकः प्रति­क्ष­ण­म­न्य­था­स्व­भावः माया­म­री­च्यु­द­क­ग­न्ध­र्व­न­ग­रा­दि­व­द्दृ­ष्ट­न­ष्ट­स्व­रू­प­त्वा­द­व­साने च वृक्ष­व­द­भा­वा­त्मकः कद­ली­स्त­म्भ­व­न्निः­सारः अने­क­श­त­पा­ष­ण्ड­बु­द्धि­वि­क­ल्पा­स्पदः तत्त्व­वि­जि­ज्ञा­सु­भि­र­नि­र्धा­रि­ते­द­न्तत्त्वः वेदा­न्त­नि­र्धा­रि­त­प­र­ब्र­ह्म­मू­ल­सारः अवि­द्या­का­म­क­र्मा­व्य­क्त­बी­ज­प्र­भवः अप­र­ब्र­ह्म­वि­ज्ञा­न­क्रि­या­श­क्ति­द्व­या­त्म­क­हि­र­ण्य­ग­र्भा­ङ्कुरः सर्व­प्रा­णि­लि­ङ्ग­भे­द­स्कन्धः तत्त­त्तृ­ष्णा­ज­ला­से­को­द्भू­त­दर्पः बुद्धी­न्द्रि­य­वि­ष­य­प्र­वा­ला­ङ्कुरः श्रुति­स्मृ­ति­न्या­य­वि­द्यो­प­दे­श­प­लाशः यज्ञ­दा­न­त­प­आ­द्य­ने­क­क्रि­या­सु­पुष्पः सुख­दुः­ख­वे­द­ना­ने­क­रसः प्राण्यु­प­जी­व्या­न­न्त­फलः तत्तृ­ष्णा­स­लि­ला­व­से­क­प्र­रू­ढ­ज­टि­ली­कृ­त­दृ­ढ­ब­द्ध­मूलः सत्य­ना­मा­दि­स­प्त­लो­क­ब्र­ह्मा­दि­भू­त­प­क्षि­कृ­त­नीडः प्राणि­सु­ख­दुः­खो­द्भू­त­ह­र्ष­शो­क­जा­त­नृ­त्य­गी­त­वा­दि­त्र­क्ष्वे­लि­ता­स्फो­टि­त­ह­सि­ता­क्रु­ष्ट­रु­दि­त­हा­हा­मु­ञ्च­मु­ञ्चे­त्या­द्य­ने­क­श­ब्द­कृ­त­तु­मु­ली­भू­त­म­हा­रवः वेदा­न्त­वि­हि­त­ब्र­ह्मा­त्म­द­र्श­ना­स­ङ्ग­श­स्त्र­कृ­तो­च्छेदः एष संसारवृक्ष अश्वत्थः अश्व­त्थ­व­त्का­म­क­र्म­वा­ते­रि­त­नि­त्य­प्र­च­लि­त­स्व­भावः । स्वर्ग­न­र­क­ति­र्य­क्प्रे­ता­दिभिः शाखाभिः अवाक्शाखः, अवाञ्चः शाखा यस्य सः, सनातनः अना­दि­त्वा­च्चि­र­प्र­वृत्तः । यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं शुभ्रं शुद्धं ज्योतिष्मत् चैत­न्या­त्म­ज्यो­तिः­स्व­भावं तदेव ब्रह्म सर्वमहत्त्वात् । तदेव अमृतम् अविनाशस्वभावम् उच्यते कथ्यते सत्यत्वात् । वाचारम्भणं विकारो नाम­धे­य­म­नृ­त­म­न्य­दतो मर्त्यम् । तस्मिन् परमार्थसत्ये ब्रह्मणि लोकाः गन्ध­र्व­न­ग­र­म­री­च्यु­द­क­मा­या­समाः पर­मा­र्थ­द­र्श­ना­भा­वा­व­ग­मनाः श्रिताः आश्रिताः सर्वे समस्ताः उत्प­त्ति­स्थि­ति­ल­येषु । तदु तद्ब्रह्म नात्येति नातिवर्तते मृदादिकमिव घटादिकार्यं कश्चन कश्चिदपि विकारः । एतद्वै तत् ॥

यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एत­द्वि­दु­र­मृ­तास्ते भवन्ति ॥ २ ॥

यद्वि­ज्ञा­ना­द­मृता भव­न्ती­त्यु­च्यते, जगतो मूलं तदेव नास्ति ब्रह्म ; असत एवेदं निःसृतमिति, तन्न — यदिदं किञ्च यत्किञ्चेदं जगत्सर्वं प्राणे पर­स्मि­न्ब्र­ह्मणि सति एजति कम्पते, तत एव निःसृतं निर्गतं सत् प्रचलति नियमेन चेष्टते । यदेवं जग­दु­त्प­त्त्या­दि­का­रणं ब्रह्म तत् महद्भयम् , महच्च तत् भयं च बिभेत्यस्मादिति महद्भयम् , वज्रमुद्यतम् उद्यतमिव वज्रम् ; यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच्छासने वर्तन्ते, तथेदं चन्द्रा­दि­त्य­ग्र­ह­न­क्ष­त्र­ता­र­का­दि­ल­क्षणं जगत्सेश्वरं नियमेन क्षण­म­प्य­वि­श्रान्तं वर्तत इत्युक्तं भवति । ये एतत् विदुः स्वात्म­प्र­वृ­त्ति­सा­क्षि­भू­त­मेकं ब्रह्म अमृताः अमरणधर्माणः ते भवन्ति ॥

भया­द­स्या­ग्नि­स्त­पति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥

कथं तद्भ­या­ज्ज­ग­द्व­र्तत इति, आह — भयात् भीत्या अस्य परमेश्वरस्य अग्निः तपति ; भयात्तपति सूर्यः, भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः । न हि, ईश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेद्व­ज्रो­द्य­त­क­र­वन्न स्यात् , स्वामि­भ­य­भी­ता­ना­मिव भृत्यानां नियता प्रवृ­त्ति­रु­प­प­द्यते ॥

इह चेदशकद्बोद्धुं प्राक्शरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥

तच्च इह जीवन्नेव चेत् यद्यशकत् शक्तः सन् जानातीत्येतत् , भयकारणं ब्रह्म बोद्धुम् अवगन्तुम् , प्राक् पूर्वं शरीरस्य विस्रसः अव­स्रं­स­ना­त्प­त­नात् संसा­र­ब­न्ध­ना­द्वि­मु­च्यते । न चेदशकद्बोद्धुम् , ततः अनवबोधात् सर्गेषु, सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकाः तेषु सर्गेषु, लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति ; शरीरं गृह्णातीत्यर्थः । तस्मा­च्छ­री­र­वि­स्रं­स­ना­त्प्रा­गा­त्मा­व­बो­धाय यत्न आस्थेयः यस्मा­दि­है­वा­त्मनो दर्श­न­मा­द­र्श­स्थ­स्येव मुखस्य स्पष्ट­मु­प­प­द्यते, न लोकान्तरेषु ब्रह्म­लो­का­द­न्यत्र । स च दुष्प्रापः ॥

यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके ।
यथाप्सु परीव ददृशे तथा गन्धर्वलोके च्छायातपयोरिव ब्रह्मलोके ॥ ५ ॥

कथमिति, उच्यते — यथा आदर्शे प्रति­बि­म्ब­भू­त­मा­त्मानं पश्यति लोकः अत्य­न्त­वि­वि­क्तम् , तथा इह आत्मनि स्वबु­द्धा­वा­द­र्श­व­न्नि­र्म­ली­भू­तायां विविक्तमात्मनो दर्शनं भवतीत्यर्थः । यथा स्वप्ने अविविक्तं जाग्र­द्वा­स­नो­द्भू­तम् , तथा पितृलोके अविविक्तमेव दर्शनमात्मनः कर्म­फ­लो­प­भो­गा­स­क्त­त्वात् । यथा च अप्सु अवि­वि­क्ता­व­य­व­मा­त्म­स्व­रूपं परीव ददृशे परिदृश्यत इव, तथा गन्धर्वलोके अविविक्तमेव दर्शनमात्मनः एवं च लोकान्तरेष्वपि शास्त्र­प्रा­मा­ण्या­द­व­ग­म्यते । छायातपयोरिव अत्यन्तविविक्तं ब्रह्मलोक एवैकस्मिन् । स च दुष्प्रापः, अत्य­न्त­वि­शि­ष्ट­क­र्म­ज्ञा­न­सा­ध्य­त्वात् । तस्मा­दा­त्म­द­र्श­नाय इहैव यत्नः कर्तव्य इत्यभिप्रायः ॥

इन्द्रियाणां पृथ­ग्भा­व­मु­द­या­स्त­मयौ च यत् ।
पृथ­गु­त्प­द्य­मा­नानां मत्वा धीरो न शोचति ॥ ६ ॥

कथमसौ बोद्धव्यः, किं वा तदवबोधे प्रयोजनमिति, उच्यते — इन्द्रियाणां श्रोत्रादीनां स्वस्व­वि­ष­य­ग्र­ह­ण­प्र­यो­ज­नेन स्वकारणेभ्य आकाशादिभ्यः पृथ­गु­त्प­द्य­मा­ना­नाम् अत्य­न्त­वि­शु­द्धा­त्के­व­ला­च्चि­न्मा­त्रा­त्म­स्व­रू­पात् पृथग्भावं स्वभा­व­वि­ल­क्ष­णा­त्म­क­ताम् , तथा तेषा­मे­वे­न्द्रि­या­णाम् उदयास्तमयौ च उत्पत्तिप्रलयौ जाग्र­त्स्व­प्ना­व­स्था­प्र­ति­पत्त्या नात्मन इति मत्वा ज्ञात्वा विवेकतो धीरः धीमान् न शोचति, आत्मनो नित्यै­क­स्व­भा­व­त्वा­व्य­भि­चा­रा­च्छो­क­का­र­ण­त्वा­नु­प­पत्तेः । तथा च श्रुत्यन्तरम् ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) इति ॥

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
सत्त्वादधि महानात्मा मह­तोऽ­व्य­क्त­मु­त्त­मम् ॥ ७ ॥

यस्मादात्मनः इन्द्रियाणां पृथग्भाव उक्तो नासौ बहिरधिगन्तव्यः यस्मा­त्प्र­त्य­गात्मा स सर्वस्य ; तत्कथमिति, उच्यते — इन्द्रियेभ्यः परं मन इत्यादि । अर्था­ना­मि­हे­न्द्रि­य­स­मा­न­जा­ती­य­त्वा­दि­न्द्रि­य­ग्र­ह­णे­नैव ग्रहणम् । पूर्ववदन्यत् । सत्त्व­श­ब्दा­द्बु­द्धि­रि­हो­च्यते ॥

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ॥

अव्यक्तात्तु परः पुरुषः व्यापकः, व्याप­क­स्या­प्या­का­शादेः सर्वस्य कारणत्वात् । अलिङ्गः लिङ्ग्यते गम्यते येन तल्लिङ्गं बुद्ध्यादि, तदविद्यमानं यस्य सोऽयमलिङ्गः एव च ; सर्व­सं­सा­र­ध­र्म­व­र्जित इत्येतत् । यं ज्ञात्वा आचार्यतः शास्त्रतश्च मुच्यते जन्तुः अवि­द्या­दि­हृ­द­य­ग्र­न्थि­भि­र्जी­व­न्नेव ; पतितेऽपि शरीरे अमृतत्वं च गच्छति । सोऽलिङ्गः परोऽ­व्य­क्ता­त्पु­रुष इति पूर्वेणैव सम्बन्धः ॥

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाभिक्लृप्तो य एत­द्वि­दु­र­मृ­तास्ते भवन्ति ॥ ९ ॥

कथं तर्हि तस्य अलिङ्गस्य दर्शनमुपपद्यत इति, उच्यते — न सन्दृशे सन्दर्शनविषये न तिष्ठति प्रत्यगात्मनः अस्य रूपम् । अतः न चक्षुषा सर्वेन्द्रियेण, चक्षु­र्ग्र­ह­ण­स्यो­प­ल­क्ष­णा­र्थ­त्वात् , पश्यति नोपलभते कश्चन कश्चिदपि एनं प्रकृतमात्मानम् । कथं तर्हि तं पश्येदिति, उच्यते — हृदा हृत्स्थया बुद्ध्या, मनीषा मनसः सङ्क­ल्पा­दि­रू­पस्य ईष्टे नियन्तृत्वेनेति मनीट् तया मनीषा विकल्पवर्जितया बुद्ध्या । मनसा मननरूपेण सम्यग्दर्शनेन अभिक्लृप्तः अभिसमर्थितः अभिप्रकाशित इत्येतत् । आत्मा ज्ञातुं शक्य इति वाक्यशेषः । तमात्मानं ब्रह्म एतत् ये विदुः अमृताः ते भवन्ति ॥

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥ १० ॥

१०

सा हृन्मनीट् कथं प्राप्यत इति तदर्थो योग उच्यते — यदा यस्मिन्काले स्वविषयेभ्यो निवर्तितानि आत्मन्येव पञ्च ज्ञानानि — ज्ञाना­र्थ­त्वा­च्छ्रो­त्रा­दी­नी­न्द्रि­याणि ज्ञाना­न्यु­च्यन्ते — अवतिष्ठन्ते सह मनसा यदनुगतानि, येन सङ्क­ल्पा­दि­व्या­वृ­त्ते­ना­न्तः­क­र­णेन । बुद्धिश्च अध्यवसायलक्षणा न विचेष्टति स्वव्यापारेषु न विचेष्टते न व्याप्रियते, तामाहुः परमां गतिम् ॥

तां योगमिति मन्यन्ते स्थिरा­मि­न्द्रि­य­धा­र­णाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥

११

ताम् ईदृशीं तदवस्थां योगमिति मन्यन्ते वियोगमेव सन्तम् । सर्वा­न­र्थ­सं­यो­ग­वि­यो­ग­ल­क्षणा हीयमवस्था योगिनः । एतस्यां ह्यवस्थायाम् अवि­द्या­ध्या­रो­प­ण­व­र्जि­त­स्व­रू­प­प्र­तिष्ठ आत्मा स्थिरा­मि­न्द्रि­य­धा­रणां स्थिरा­म­च­ला­मि­न्द्रि­य­धा­रणां बाह्या­न्तः­क­र­णानां धारणमित्यर्थः । अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवान् तदा तस्मिन्काले, यदैव प्रवृत्तयोगो भवतीति साम­र्थ्या­द­व­ग­म्यते । न हि बुद्ध्या­दि­चे­ष्टा­भावे प्रमा­द­स­म्भ­वोऽस्ति । तस्मात्प्रागेव बुद्ध्या­दि­चे­ष्टो­प­र­मात् अप्रमादो विधीयते । अथवा, यदैव इन्द्रियाणां स्थिरा धारणा, तदानीमेव निर­ङ्कु­श­म­प्र­म­त्त­त्व­मि­त्य­तोऽ­भि­धी­यते अप्रमत्तस्तदा भवतीति । कुतः ? योगो हि यस्मात् प्रभवाप्ययौ उपजनापायधर्मक इत्यर्थः । अतः अपा­य­प­रि­हा­रा­या­प्र­मादः कर्तव्य इत्यभिप्रायः ॥

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥

१२

बुद्ध्या­दि­चे­ष्टा­वि­षयं चेद्ब्रह्म इदं तदिति विशेषतो गृह्येत, बुद्ध्या­द्यु­प­रमे च ग्रह­ण­का­र­णा­भा­वा­द­नु­प­ल­भ्य­मानं नास्त्येव ब्रह्म । यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं चासदिति । अतश्चानर्थको योगोऽ­नु­प­ल­भ्य­मा­न­त्वाद्वा नास्ती­त्यु­प­ल­ब्धव्यं ब्रह्मेत्येवं प्राप्ते, इदमुच्यते । सत्यम् । नैव वाचा न मनसा न चक्षुषा नान्यै­र­पी­न्द्रियैः प्राप्तुं शक्यते इत्यर्थः । तथापि सर्व­वि­शे­ष­र­हि­तोऽपि जगतो मूल­मि­त्य­व­ग­त­त्वा­द­स्त्येव, कार्य­प्र­वि­ला­प­न­स्या­स्ति­त्व­नि­ष्ठ­त्वात् । तथा हीदं कार्यं सौक्ष्म्य­ता­र­त­म्य­पा­र­म्प­र्ये­णा­नु­ग­म्य­मानं सद्बु­द्धि­नि­ष्ठा­मे­वा­व­ग­म­यति । यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिः, तदापि सा सत्प्र­त्य­य­ग­र्भैव विलीयते । बुद्धिर्हि नः प्रमाणं सद­स­तो­र्या­था­त्म्या­व­गमे । मूलं चेज्जगतो न स्याद­स­द­न्वि­त­मे­वेदं कार्य­म­स­द­स­दि­त्येव गृह्येत, न त्वेतदस्ति ; सत्सदित्येव तु गृह्यते ; यथा मृदादिकार्यं घटादि मृदाद्यन्वितम् । तस्माज्जगतो मूलमात्मा अस्ती­त्ये­वो­प­ल­ब्धव्यः । कस्मात् ? अस्तीति ब्रुवतः अस्तित्ववादिन आग­मा­र्था­नु­सा­रिणः श्रद्द­धा­ना­द­न्यत्र नास्तिकवादिनि नास्ति जगतो मूलमात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रविलीयत इति मन्यमाने विपरीतदर्शिनि, कथं तद्ब्रह्म तत्त्‌वत उपलभ्यते ; न कथञ्चनोपलभ्यत इत्यर्थः ॥

अस्ती­त्ये­वो­प­ल­ब्ध­व्य­स्त­त्त्व­भा­वेन चोभयोः ।
अस्ती­त्ये­वो­प­ल­ब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥

१३

तस्मा­द­पो­ह्या­स­द्वा­दि­प­क्ष­मा­सु­रम् अस्तीत्येव आत्मा उपलब्धव्यः सत्का­र्य­बु­द्ध्या­द्यु­पा­धिभिः । यदा तु तद्र­हि­तोऽ­वि­क्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छा. उ. ६ । १ । ४) इति श्रुतेः, तदा तस्य निरु­पा­धि­क­स्या­लि­ङ्गस्य सद­स­दा­दि­प्र­त्य­य­वि­ष­य­त्व­व­र्जि­त­स्या­त्म­न­स्त­त्त्व­भावो भवति । तेन च रूपे­णा­त्मो­प­ल­ब्धव्य इत्यनुवर्तते । तत्राप्युभयोः सोपा­धि­क­नि­रु­पा­धि­क­यो­र­स्ति­त्व­त­त्त्व­भा­वयोः — निर्धारणार्था षष्ठी — पूर्व­म­स्ती­त्ये­वो­प­ल­ब्ध­स्या­त्मनः सत्का­र्यो­पा­धि­कृ­ता­स्ति­त्व­प्र­त्य­ये­नो­प­ल­ब्ध­स्ये­त्यर्थः । पश्चा­त्प्र­त्य­स्त­मि­त­स­र्वो­पा­धि­रूप आत्मनः तत्त्वभावः विदि­ता­वि­दि­ता­भ्या­म­न्योऽ­द्व­य­स्व­भावः नेति नेती­त्य­स्थू­ल­म­न­ण्व­ह्र­स्व­म­दृ­श्येऽ­नात्म्ये निरुक्तेऽनिलयन इत्या­दि­श्रु­ति­नि­र्दिष्टः प्रसीदति अभिमुखीभवति । आत्मप्रकाशनाय पूर्व­म­स्ती­त्यु­प­ल­ब्ध­वत इत्येतत् ॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥

१४

एवं पर­मा­र्था­त्म­द­र्शिनो यदा यस्मिन्काले सर्वे कामाः काम­यि­त­व्य­स्या­न्य­स्या­भा­वात् प्रमुच्यन्ते विशीर्यन्ते ; ये अस्य प्राक्प्र­ति­बो­धा­द्वि­दुषो हृदि बुद्धौ श्रिताः आश्रिताः ; बुद्धिर्हि कामानामाश्रयः नात्मा, ‘कामः सङ्कल्पः’(बृ. उ. १ । ५ । ३) इत्या­दि­श्रु­त्य­न्त­राच्च ; अथ तदा मर्त्यः प्राक्प्र­बो­धा­दा­सीत् स प्रबो­धो­त्त­र­का­ल­म­वि­द्या­का­म­क­र्म­ल­क्ष­णस्य मृत्यो­र्वि­ना­शात् अमृतो भवति गमनप्रयोजकस्य मृत्यो­र्वि­ना­शा­द्ग­म­ना­नु­प­पत्तेः । अत्र इहैव प्रदी­प­नि­र्वा­ण­व­त्स­र्व­ब­न्ध­नो­प­श­मात् ब्रह्म समश्नुते ब्रह्मैव भवतीत्यर्थः ॥

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भव­त्ये­ता­व­द्ध्य­नु­शा­स­नम् ॥ १५ ॥

१५

कदा पुनः कामानां मूलतो विनाश इति, उच्यते — यदा सर्वे प्रभिद्यन्ते भेदमुपयान्ति विनश्यन्ति हृदयस्य बुद्धेरिह जीवत एव ग्रन्थयो ग्रन्थि­व­द्दृ­ढ­ब­न्ध­न­रूपा अविद्याप्रत्यया इत्यर्थः । अहमिदं शरीरं ममेदं धनं सुखी दुःखी चाह­मि­त्ये­व­मा­दि­ल­क्षणाः तद्विपरीतात् ब्रह्मा­त्म­प्र­त्य­यो­प­ज­न­नात् ब्रह्मै­वा­ह­म­स्म्य­सं­सा­रीति विन­ष्टे­ष्व­वि­द्या­ग्र­न्थिषु तन्निमित्ताः कामा मूलतो विनश्यन्ति । अथ मर्त्योऽमृतो भवति एतावद्धि एता­व­दे­वै­ता­व­न्मात्रं नाधि­क­म­स्ती­त्या­शङ्का कर्तव्या । अनुशासनम् अनुशिष्टः उपदेशः सर्व­वे­दा­न्ता­ना­मिति वाक्यशेषः ॥

शतं चैका च हृदयस्य नाड्यस्तासां मूर्धा­न­म­भि­निः­सृ­तैका ।
तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६ ॥

१६

निर­स्ता­शे­ष­वि­शे­ष­व्या­पि­ब्र­ह्मा­त्म­प्र­ति­पत्त्या प्रभि­न्न­स­म­स्ता­वि­द्या­दि­ग्रन्थेः जीवत एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यते, ‘अत्र ब्रह्म समश्नुते’(क. उ. २ । ३ । १४) इत्युक्तत्वात् ‘न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्र­ह्मा­प्येति’(बृ. उ. ४ । ४ । ६) इति श्रुत्यन्तराच्च । ये पुन­र्म­न्द­ब्र­ह्म­विदो विद्या­न्त­र­शी­लि­नश्च ब्रह्मलोकभाजः ये च तद्विपरीताः संसारभाजः, तेषामेष गतिविशेष उच्यते प्रकृ­तो­त्कृ­ष्ट­ब्र­ह्म­वि­द्या­फ­ल­स्तु­तये । किञ्चान्यत् , अग्निविद्या पृष्टा प्रत्युक्ता च । तस्याश्च फल­प्रा­प्ति­प्र­कारो वक्तव्य इति मन्त्रारम्भः । तत्र — शतं च शतसङ्ख्याकाः एका च सुषुम्ना नाम पुरुषस्य हृद­या­द्वि­निः­सृताः नाड्यः सिराः ; तासां मध्ये मूर्धानं भित्त्वा अभिनिःसृता निर्गता एका सुषुम्ना नाम । तया अन्तकाले हृदये आत्मानं वशीकृत्य योजयेत् । तया नाड्या ऊर्ध्वम् उपरि आयन् गच्छन् आदित्यद्वारेण अमृतत्वम् अम­र­ण­ध­र्म­त्व­मा­पे­क्षि­कम् — ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’(वि. पु. २ । ८ । ९७) इति स्मृतेः — ब्रह्मणा वा सह कालान्तरेण मुख्य­म­मृ­त­त्व­मेति भुक्त्वा भोगा­न­नु­प­मा­न्ब्र­ह्म­लो­क­ग­तान् । विष्वङ् नानागतयः अन्या नाड्यः उत्क्रमणे उत्क्र­म­ण­नि­मित्तं भवन्ति संसा­र­प्र­ति­प­त्त्यर्था एव भवन्तीत्यर्थः ॥

अङ्गुष्ठमात्रः पुरु­षोऽ­न्त­रात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छ­री­रा­त्प्र­वृ­हे­न्मु­ञ्जा­दि­वे­षीकां धैर्येण ।
तं विद्या­च्छु­क्र­म­मृतं तं विद्या­च्छु­क्र­म­मृ­त­मिति ॥ १७ ॥

१७

इदानीं सर्व­व­ल्ल्य­र्थो­प­सं­हा­रा­र्थ­माह — अङ्गुष्ठमात्रः पुरुषः अन्तरात्मा सदा जनानां सम्बन्धिनि हृदये संनिविष्टः यथाव्याख्यातः ; तं स्वात् आत्मीयात् शरीरात् प्रवृहेत् उद्यच्छेत् निष्कर्षेत् पृथ­क्कु­र्या­दि­त्यर्थः । किमिवेति, उच्यते — मुञ्जा­दि­वे­षी­काम् अन्तःस्थां धैर्येण अप्रमादेन । तं शरी­रा­न्नि­ष्कृष्टं चिन्मात्रं विद्यात् विजानीयात् शुक्रं शुद्धम् अमृतं यथोक्तं ब्रह्मेति । द्विर्व­च­न­मु­प­नि­ष­त्प­रि­स­मा­प्त्य­र्थम् , इतिशब्दश्च ॥

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्म प्राप्तो विर­जोऽ­भू­द्वि­मृ­त्यु­र­न्योऽ­प्येवं यो विदध्यात्ममेव ॥ १८ ॥

१८

विद्या­स्तु­त्य­र्थोऽ­य­मा­ख्या­यि­का­र्थो­प­सं­हारः अधुनोच्यते — मृत्यु­प्रो­क्ताम् एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं समस्तं सोपकरणं सफलमित्येतत् । नचिकेताः अथ वर­प्र­दा­ना­न्मृत्योः लब्ध्वा प्राप्येत्यर्थः । किम् ? ब्रह्म प्राप्तोऽभूत् मुक्तोऽ­भ­व­दि­त्यर्थः । कथम् ? विद्या­प्राप्त्या विरजः विगतरजाः विगतधर्माधर्मः विमृत्युः विग­त­का­मा­वि­द्यश्च सन् पूर्वमित्यर्थः । न केवलं नचिकेता एव, अन्योऽपि य एवं नचि­के­तो­व­दा­त्म­वित् अध्यात्ममेव निरुपचरितं प्रत्यक्स्वरूपं प्राप्य­त­त्त्व­मे­वे­त्य­भि­प्रायः । नान्य­द्रू­प­म­प्र­त्य­ग्रू­पम् । तदेवमध्यात्मम् एवम् उक्तेन प्रकारेण वेद विजानातीति एवंवित् , सोऽपि विरजाः सन् ब्रह्म प्राप्य विमृ­त्यु­र्भ­व­तीति वाक्यशेषः ॥

सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेज­स्वि­ना­व­धी­त­मस्तु मा विद्विषावहै ॥ १९ ॥

१९

अथ शिष्याचार्ययोः प्रमा­द­कृ­ता­न्या­येन विद्या­ग्र­ह­ण­प्र­ति­पा­द­न­नि­मि­त्त­दो­ष­प्र­श­म­ना­र्थेयं शान्तिरुच्यते — सह नौ आवाम् अवतु पालयतु विद्या­स्व­रू­प­प्र­का­श­नेन । कः ? स एव परमेश्वरः उप­नि­ष­त्प्र­का­शितः । किञ्च, सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु । सहैव आवां विद्याकृतं वीर्यं सामर्थ्यं करवावहै निष्पादयावहै । किञ्च, तेजस्विनौ तेजस्विनोरावयोः यत् अधीतं तत्स्वधीतमस्तु । अथवा, तेजस्वि नौ आवाभ्यां यत् अधीतं तदतीव तेजस्वि वीर्य­व­द­स्त्वि­त्यर्थः । मा विद्विषावहै शिष्या­चा­र्या­व­न्योन्यं प्रमा­द­कृ­ता­न्या­या­ध्य­य­ना­ध्या­प­न­दो­ष­नि­मित्तं द्वेषं मा करवावहै इत्यर्थः । शान्तिः शान्तिः शान्तिरिति त्रिर्वचनं सर्व­दो­षो­प­श­म­ना­र्थम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ काठ­को­प­नि­ष­द्भा­ष्यम् सम्पूर्णम् ॥

इति षष्ठी वल्ली ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ काठ­को­प­नि­ष­द्भाष्ये द्वितीयोऽध्यायः ॥