अद्वैतशारदा

केनोपनिषत्पदभाष्यम्

प्रथमः खण्डः

व्याख्याः

‘केनेषितम्’ इत्या­द्यो­प­नि­ष­त्प­र­ब्र­ह्म­वि­षया वक्तव्येति नव­म­स्या­ध्या­य­स्या­रम्भः । प्रागे­त­स्मा­त्क­र्मा­ण्य­शे­षतः परिसमापितानि, सम­स्त­क­र्मा­श्र­य­भू­तस्य च प्राण­स्यो­पा­स­ना­न्यु­क्तानि, कर्मा­ङ्ग­सा­म­वि­ष­याणि च । अनन्तरं च गायत्रसामविषयं दर्शनं वंशान्तमुक्तं कार्यम् । सर्व­मे­त­द्य­थोक्तं कर्म च ज्ञानं च सम्यगनुष्ठितं निष्कामस्य मुमुक्षोः सत्त्व­शु­द्ध्यर्थं भवति । सकामस्य तु ज्ञानरहितस्य केवलानि श्रौतानि स्मार्तानि च कर्माणि दक्षि­ण­मा­र्ग­प्र­ति­प­त्तये पुनरावृत्तये च भवन्ति । स्वाभाविक्या त्वशास्त्रीयया प्रवृत्त्या पश्वा­दि­स्था­व­रान्ता अधोगतिः स्यात् । ‘अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्रा­ण्य­स­कृ­दा­व­र्तीनि भूतानि भवन्ति जायस्व म्रिय­स्वे­त्ये­त­त्तृ­तीयं स्थानम्’(छा. उ. ५ । १० । ८) इति श्रुतेः ; ‘प्रजा ह तिस्रोऽ­त्या­य­मीयुः’(ऐ. आ. २ । १ । १) , इति च मन्त्रवर्णात् । विशु­द्ध­स­त्त्वस्य तु निष्कामस्यैव बाह्या­द­नि­त्या­त्सा­ध्य­सा­ध­न­स­म्ब­न्धा­दि­ह­कृ­ता­त्पू­र्व­कृ­ताद्वा संस्का­र­वि­शे­षो­द्भ­वा­द्वि­र­क्तस्य प्रत्य­गा­त्म­वि­षया जिज्ञासा प्रवर्तते । तदेतद्वस्तु प्रश्न­प्र­ति­व­च­न­ल­क्ष­णया श्रुत्या प्रदर्श्यते ‘केनेषितम्’ इत्याद्यया । काठके चोक्तम् ‘पराञ्चि खानि व्यतृ­ण­त्स्व­य­म्भू­स्त­स्मा­त्प­राङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्य­गा­त्मा­न­मै­क्ष­दा­वृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छन्’(क. उ. २ । १ । १) इत्यादि । ‘परीक्ष्य लोका­न्क­र्म­चि­ता­न्ब्रा­ह्मणो निर्वे­द­मा­या­न्ना­स्त्य­कृतः कृतेन । तद्विज्ञानार्थं स गुरु­मे­वा­भि­ग­च्छे­त्स­मि­त्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’(मु. उ. १ । २ । १२) इत्याद्याथर्वणे च । एवं हि विरक्तस्य प्रत्य­गा­त्म­वि­षयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च साम­र्थ्य­मु­प­प­द्यते, नान्यथा । एतस्माच्च प्रत्य­गा­त्म­ब्र­ह्म­वि­ज्ञा­ना­त्सं­सा­र­बी­ज­म­ज्ञानं काम­क­र्म­प्र­वृ­त्ति­का­र­ण­म­शे­षतो निवर्तते, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इति मन्त्रवर्णात् , ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) ‘भिद्यते हृद­य­ग्र­न्थि­श्छि­द्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’(मु. उ. २ । २ । ९) इत्या­दि­श्रु­ति­भ्यश्च । कर्मसहितादपि ज्ञाना­दे­त­त्सि­ध्य­तीति चेत् , न ; वाजसनेयके तस्या­न्य­का­र­ण­त्व­व­च­नात् । ‘जाया मे स्यात्’(बृ. उ. १ । ४ । १७) इति प्रस्तुत्य ‘पुत्रेणायं लोको जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः’(बृ. उ. १ । ५ । १६) इत्या­त्म­नोऽ­न्यस्य लोकत्रयस्य कारणत्वमुक्तं वाजसनेयके । तत्रैव च पारि­व्रा­ज्य­वि­धाने हेतुरुक्तः ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’(बृ. उ. ४ । ४ । २२) इति । तत्रायं हेत्वर्थः — प्रजा­क­र्म­त­त्सं­यु­क्त­वि­द्या­भि­र्म­नु­ष्य­पि­तृ­दे­व­लो­क­त्र­य­सा­ध­नै­र­ना­त्म­लो­क­प्र­ति­प­त्ति­का­रणैः किं करिष्यामः । न चास्माकं लोकत्रयमनित्यं साध­न­सा­ध्य­मि­ष्टम् , येषामस्माकं स्वाभा­वि­कोऽ­जोऽ­ज­रोऽ­मृ­तोऽ­भयो न वर्धते कर्मणा नो कनीयान्नित्यश्च लोक इष्टः । स च नित्य­त्वा­न्ना­वि­द्या­नि­वृ­त्ति­व्य­ति­रे­के­णा­न्य­सा­ध­न­नि­ष्पाद्यः । तस्मा­त्प्र­त्य­गा­त्म­ब्र­ह्म­वि­ज्ञा­न­पू­र्वकः सर्वैषणासंन्यास एव कर्तव्य इति । कर्म­स­ह­भा­वि­त्व­वि­रो­धाच्च प्रत्य­गा­त्म­ब्र­ह्म­वि­ज्ञा­नस्य । न ह्युपा­त्त­का­र­क­फ­ल­भे­द­वि­ज्ञा­नेन कर्मणा प्रत्य­स्त­मि­त­स­र्व­भे­द­द­र्श­नस्य प्रत्य­गा­त्म­ब्र­ह्म­वि­ष­यस्य सह­भा­वि­त्व­मु­प­प­द्यते, वस्तुप्राधान्ये सति अपु­रु­ष­त­न्त्र­त्वा­द्ब्र­ह्म­वि­ज्ञा­नस्य । तस्मा­द्दृ­ष्टा­दृ­ष्टेभ्यो बाह्य­सा­ध­न­सा­ध्येभ्यो विरक्तस्य प्रत्य­गा­त्म­वि­षया ब्रह्म­जि­ज्ञा­से­यम् ‘केनेषितम्’ इत्यादिश्रुत्या प्रदर्श्यते । शिष्या­चा­र्य­प्र­श्न­प्र­ति­व­च­न­रू­पेण कथनं तु सूक्ष्म­व­स्तु­वि­ष­य­त्वा­त्सु­ख­प्र­ति­प­त्ति­का­रणं भवति । केव­ल­त­र्का­ग­म्यत्वं च दर्शितं भवति ॥

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ॥ १ ॥

‘नैषा तर्केण मतिरापनेया’(क. उ. १ । २ । ९) इति श्रुतेश्च । ‘आचा­र्य­वा­न्पु­रुषो वेद’(छा. उ. ६ । १४ । २) ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापदिति’(छा. उ. ४ । ९ । ३) ‘तद्विद्धि प्रणिपातेन’(भ. गी. ४ । ३४) इत्या­दि­श्रु­ति­स्मृ­ति­नि­य­माच्च कश्चिद्गुरुं ब्रह्मनिष्ठं विधिवदुपेत्य प्रत्य­गा­त्म­वि­ष­या­द­न्यत्र शरणमपश्यन्नभयं नित्यं शिव­म­च­ल­मि­च्छ­न्प­प्र­च्छेति कल्प्यते — केनेषितमित्यादि । केन इषितं केन कर्त्रा इषितम् इष्टमभिप्रेतं सत् मनः पतति गच्छति स्वविषयं प्रतीति सम्बध्यते । इषे­रा­भी­क्ष्ण्या­र्थस्य गत्यर्थस्य चेहा­स­म्भ­वा­दि­च्छा­र्थ­स्यै­वै­त­द्रू­प­मिति गम्यते । इषितमिति इट्प्रयोगस्तु च्छान्दसः । तस्यैव प्रपूर्वस्य नियोगार्थे प्रेषि­त­मि­त्ये­तत् । तत्र प्रेषि­त­मि­त्ये­वोक्ते प्रेष­यि­तृ­प्रे­ष­ण­वि­शे­ष­वि­ष­या­काङ्क्षा स्यात् — केन प्रेष­यि­तृ­वि­शे­षेण, कीदृशं वा प्रेषणमिति । इषितमिति तु विशेषणे सति तदुभयं निवर्तते, कस्ये­च्छा­मा­त्रेण प्रेषि­त­मि­त्य­र्थ­वि­शे­ष­नि­र्धा­र­णात् । यद्ये­षोऽ­र्थोऽ­भि­प्रेतः स्यात् , केने­षि­त­मि­त्ये­ता­व­तैव सिद्ध­त्वा­त्प्रे­षि­त­मिति न वक्तव्यम् । अपि च शब्दा­धि­क्या­द­र्था­धिक्यं युक्तमिति इच्छया कर्मणा वाचा वा केन प्रेषि­त­मि­त्य­र्थ­वि­शे­षोऽ­व­गन्तुं युक्तः । न, प्रश्न­सा­म­र्थ्यात् ; देहा­दि­स­ङ्घा­ता­द­नि­त्या­त्क­र्म­का­र्या­द्वि­रक्तः अतोऽ­न्य­त्कू­टस्थं नित्यं वस्तु बुभुत्समानः पृच्छतीति साम­र्थ्या­दु­प­प­द्यते । इतरथा इच्छा­वा­क्क­र्म­भि­र्दे­हा­दि­स­ङ्घा­तस्य प्रेरयितृत्वं प्रसिद्धमिति प्रश्नोऽनर्थक एव स्यात् । एवमपि प्रेषि­त­श­ब्द­स्यार्थो न प्रदर्शित एव । न ; संशयवतोऽयं प्रश्न इति प्रेषि­त­श­ब्द­स्या­र्थ­वि­शेष उपपद्यते । किं यथाप्रसिद्धमेव कार्य­क­र­ण­स­ङ्घा­तस्य प्रेषयितृत्वम् , किं वा सङ्घा­त­व्य­ति­रि­क्तस्य स्वत­न्त्र­स्ये­च्छा­मा­त्रे­णैव मन­आ­दि­प्रे­ष­यि­तृ­त्वम् , इत्यस्यार्थस्य प्रदर्शनार्थं केनेषितं पतति प्रेषितं मन इति विशे­ष­ण­द्व­य­मु­प­प­द्यते । ननु स्वतन्त्रं मनः स्वविषये स्वयं पततीति प्रसिद्धम् ; तत्र कथं प्रश्न उपपद्यते इति, उच्यते — यदि स्वतन्त्रं मनः प्रवृ­त्ति­नि­वृ­त्ति­वि­षये स्यात् , तर्हि सर्व­स्या­नि­ष्ट­चि­न्तनं न स्यात् । अनर्थं च जानन्सङ्कल्पयति । अभ्यग्रदुःखे च कार्ये वार्यमाणमपि प्रवर्तत एव मनः । तस्माद्युक्त एव केने­षि­त­मि­त्या­दि­प्रश्नः । केन प्राणः युक्तः नियुक्तः प्रेरितः सन् प्रैति गच्छति स्वव्यापारं प्रति । प्रथम इति प्राणविशेषणं स्यात् , तत्पू­र्व­क­त्वा­त्स­र्वे­न्द्रि­य­प्र­वृ­त्ती­नाम् । केन इषितां वाचम् इमां शब्दलक्षणां वदन्ति लौकिकाः । तथा चक्षुः श्रोत्रं च स्वे स्वे विषये क उ देवः द्योतनवान् युनक्ति नियुङ्क्ते प्रेरयति ॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षु­ष­श्च­क्षु­र­ति­मुच्य धीराः प्रेत्या­स्मा­ल्लो­का­द­मृता भवन्ति ॥ २ ॥

एवं पृष्टवते योग्यायाह गुरुः । शृणु यत् त्वं पृच्छसि, मनआदिकरणजातस्य को देवः स्वविषयं प्रति प्रेरयिता कथं वा प्रेरयतीति । श्रोत्रस्य श्रोत्रं शृणोत्यनेनेति श्रोत्रम् , शब्दस्य श्रवणं प्रति करणं शब्दाभिव्यञ्जकं श्रोत्र­मि­न्द्रि­यम् , तस्य श्रोत्रं सः यस्त्वया पृष्टः ‘चक्षुःश्रोत्रं क उ देवो युनक्ति’(के. उ. १ । १) इति । असावेवंविशिष्टः श्रोत्रादीनि नियुङ्क्त इति वक्तव्ये, नन्वेतदननुरूपं प्रतिवचनं श्रोत्रस्य श्रोत्रमिति । नैष दोषः, तस्यान्यथा विशेषानवगमात् । यदि हि श्रोत्रा­दि­व्या­पा­र­व्य­ति­रि­क्तेन स्वव्यापारेण विशिष्टः श्रोत्रा­दि­नि­योक्ता अवगम्येत दात्रा­दि­प्र­यो­क्तृ­वत् , तदेदमननुरूपं प्रतिवचनं स्यात् । न त्विह श्रोत्रादीनां प्रयोक्ता स्वव्या­पा­र­वि­शिष्टो लवि­त्रा­दि­व­द­धि­ग­म्यते । श्रोत्रादीनामेव तु संहतानां व्यापा­रे­णा­लो­च­न­स­ङ्क­ल्पा­ध्य­व­सा­य­ल­क्ष­णेन फला­व­सा­न­लि­ङ्गे­ना­व­ग­म्यते — अस्ति हि श्रोत्रा­दि­भि­र­सं­हतः, यत्प्र­यो­ज­न­प्र­युक्तः श्रोत्रादिकलापः गृहादिवदिति । संहतानां परा­र्थ­त्वा­द­व­ग­म्यते श्रोत्रादीनां प्रयोक्ता । तस्मा­द­नु­रू­प­मे­वेदं प्रतिवचनं श्रोत्रस्य श्रोत्रमित्यादि । कः पुनरत्र पदार्थः श्रोत्रस्य श्रोत्र­मि­त्यादेः ? न ह्यत्र श्रोत्रस्य श्रोत्रा­न्त­रे­णार्थः, यथा प्रकाशस्य प्रकाशान्तरेण । नैष दोषः । अयमत्र पदार्थः — श्रोत्रं ताव­त्स्व­वि­ष­य­व्य­ञ्ज­न­स­मर्थं दृष्टम् । तत्तु स्ववि­ष­य­व्य­ञ्ज­न­सा­मर्थ्यं श्रोत्रस्य चैतन्ये ह्यात्मज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति, न असति इति । अतः श्रोत्रस्य श्रोत्र­मि­त्या­द्यु­प­प­द्यते । तथा च श्रुत्यन्तराणि — ‘आत्मनैवायं ज्योतिषास्ते’(बृ. उ. ४ । ३ । ६) ‘तस्य भासा सर्वमिदं विभाति’(मु. उ. २ । २ । १०) ‘येन सूर्यस्तपति तेजसेद्धः’(तै. ब्रा. ३ । १२ । ९ । ७) इत्यादीनि । ‘यदादित्यगतं तेजो जग­द्भा­स­य­तेऽ­खि­लम् । ’(भ. गी. १५ । १२) ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’(भ. गी. १३ । ३३) इति च गीतासु । काठके च ‘नित्यो नित्यानां चेत­न­श्चे­त­ना­नाम्’(क. उ. २ । २ । १३) इति । श्रोत्राद्येव सर्वस्यात्मभूतं चेतनमिति प्रसिद्धम् ; तदिह निवर्त्यते । अस्ति किमपि विद्व­द्बु­द्धि­गम्यं सर्वान्तरतमं कूट­स्थ­म­ज­म­ज­र­म­मृ­त­म­भयं श्रोत्रादेरपि श्रोत्रादि तत्सा­म­र्थ्य­नि­मि­त्तम् इति प्रतिवचनं शब्दा­र्थ­श्चो­प­प­द्यत एव । तथा मनसः अन्तःकरणस्य मनः । न ह्यन्तःकरणम् अन्तरेण चैतन्यज्योतिषो दीधितिं स्ववि­ष­य­स­ङ्क­ल्पा­ध्य­व­सा­या­दि­स­मर्थं स्यात् । तस्मान्मनसोऽपि मन इति । इह बुद्धिमनसी एकीकृत्य निर्देशो मनस इति । यद्वाचो ह वाचम् ; यच्छब्दो यस्मादर्थे श्रोत्रादिभिः सर्वैः सम्बध्यते — यस्मा­च्छ्रो­त्रस्य श्रोत्रम् , यस्मान्मनसो मन इत्येवम् । वाचो ह वाचमिति द्वितीया प्रथमात्वेन विपरिणम्यते, प्राणस्य प्राण इति दर्शनात् । वाचो ह वाच­मि­त्ये­त­द­नु­रो­धेन प्राणस्य प्राणमिति कस्मा­द्द्वि­ती­यैव न क्रियते ? न ; बहूनामनुरोधस्य युक्तत्वात् । वाचमित्यस्य वागि­त्ये­ता­व­द्व­क्तव्यं स उ प्राणस्य प्राण इति शब्द­द्व­या­नु­रो­धेन ; एवं हि बहूनामनुरोधो युक्तः कृतः स्यात् । पृष्टं च वस्तु प्रथमयैव निर्देष्टुं युक्तम् । स यस्त्वया पृष्टः प्राणस्य प्राणा­ख्य­वृ­त्ति­वि­शे­षस्य प्राणः, तत्कृतं हि प्राणस्य प्राण­न­सा­म­र्थ्यम् । न ह्यात्म­ना­न­धि­ष्ठि­तस्य प्राण­न­मु­प­प­द्यते, ‘को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै. उ. २ । ७ । १) ‘ऊर्ध्वं प्राण­मु­न्न­य­त्य­पानं प्रत्यगस्यति’(क. उ. २ । २ । ३) इत्या­दि­श्रु­तिभ्यः । इहापि च वक्ष्यते ‘येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि’(के. उ. १ । ८) इति । श्रोत्रा­दी­न्द्रि­य­प्र­स्तावे घ्राणस्येव प्राणस्य न तु युक्तं ग्रहणम् । सत्यमेवम् । प्राणग्रहणेनैव तु घ्राणस्य ग्रहणं कृतमेव मन्यते श्रुतिः । सर्वस्यैव करणकलापस्य यदर्थप्रयुक्ता प्रवृत्तिः, तद्ब्रह्मेति प्रकरणार्थो विवक्षितः । तथा चक्षुषश्चक्षुः रूपप्रकाशकस्य चक्षुषो यद्रू­प­ग्र­ह­ण­सा­मर्थ्यं तदा­त्म­चै­त­न्या­धि­ष्ठि­त­स्यैव । अत­श्च­क्षु­ष­श्चक्षुः । प्रष्टुः पृष्टस्यार्थस्य ज्ञातु­मि­ष्ट­त्वात् श्रोत्रादेः श्रोत्रा­दि­ल­क्षणं यथोक्तं ब्रह्म ‘ज्ञात्वा’ इत्यध्याह्रियते ; अमृता भवन्ति इति फलश्रुतेश्च । ज्ञाना­द्ध्य­मृ­तत्वं प्राप्यते । ज्ञात्वा अतिमुच्य इति सामर्थ्यात् श्रोत्रा­दि­क­र­ण­क­ला­प­मु­ज्झित्वा — श्रोत्रादौ ह्यात्मभावं कृत्वा, तदुपाधिः सन् , तदात्मना जायते म्रियते संसरति च । अतः श्रोत्रादेः श्रोत्रा­दि­ल­क्षणं ब्रह्मात्मेति विदित्वा, अतिमुच्य श्रोत्रा­द्या­त्म­भावं परित्यज्य — ये श्रोत्रा­द्या­त्म­भावं परित्यजन्ति, ते धीराः धीमन्तः । न हि विशि­ष्ट­धी­म­त्त्व­म­न्त­रेण श्रोत्रा­द्या­त्म­भावः शक्यः परित्युक्तम् । प्रेत्य व्यावृत्य अस्मात् लोकात् पुत्र­मि­त्र­क­ल­त्र­ब­न्धुषु ममा­ह­म्भा­व­सं­व्य­व­हा­र­ल­क्ष­णात् , त्यक्तसर्वैषणा भूत्वेत्यर्थः । अमृताः अमरणधर्माणः भवन्ति । ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’(तै. ना. २८) ‘पराञ्चि खानि व्यतृणत् . . . आवृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छन्’(क. उ. २ । १ । १) ‘यदा सर्वे प्रमुच्यन्ते . . . अत्र ब्रह्म समश्नुते’(क. उ. २ । ३ । १४) इत्या­दि­श्रु­तिभ्यः । अथवा, अति­मु­च्ये­त्य­ने­नै­वै­ष­णा­त्या­गस्य सिद्धत्वात् अस्मा­ल्लो­का­त्प्रेत्य अस्मा­च्छ­री­रा­द­पेत्य मृत्वेत्यर्थः ॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥

यस्मा­च्छ्रो­त्रा­दे­रपि श्रोत्रा­द्या­त्म­भूतं ब्रह्म, अतः न तत्र तस्मिन्ब्रह्मणि चक्षुः गच्छति, स्वात्मनि गमनासम्भवात् । तथा न वाक् गच्छति । वाचा हि शब्द उच्चा­र्य­मा­णोऽ­भि­धेयं प्रकाशयति यदा, तदाभिधेयं प्रति वाग्ग­च्छ­ती­त्यु­च्यते । तस्य च शब्दस्य तन्निर्वर्तकस्य च करणस्यात्मा ब्रह्म । अतो न वाग्गच्छति । यथाग्निर्दाहकः प्रकाशकश्चापि सन् न ह्यात्मानं प्रकाशयति दहति वा, तद्वत् । नो मनः मनश्चान्यस्य सङ्कल्पयितृ अध्यवसातृ च सत् नात्मानं सङ्क­ल्प­य­त्य­ध्य­व­स्यति च, तस्यापि ब्रह्मात्मेति । इन्द्रि­य­म­नोभ्यां हि वस्तुनो विज्ञानम् । तदगोचरत्वात् न विद्मः तद्ब्रह्म ईदृशमिति । अतो न विजानीमः यथा येन प्रकारेण एतत् ब्रह्म अनुशिष्यात् उप­दि­शे­च्छि­ष्या­ये­त्य­भि­प्रायः । यद्धि करणगोचरः, तदन्यस्मै उपदेष्टुं शक्यं जाति­गु­ण­क्रि­या­वि­शे­षणैः । न तज्जा­त्या­दि­वि­शे­ष­ण­व­द्ब्रह्म । तस्माद्विषमं शिष्यानुपदेशेन प्रत्या­य­यि­तु­मिति उपदेशे तदर्थग्रहणे च यत्ना­ति­श­य­क­र्त­व्यतां दर्शयति ॥

अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्त­द्व्या­च­च­क्षिरे ॥ ४ ॥

‘न विद्मो न विजानीमो यथै­त­द­नु­शि­ष्यात्’(के. उ. १ । ३) इति अत्य­न्त­मे­वो­प­दे­श­प्र­का­र­प्र­त्या­ख्याने प्राप्ते तद­प­वा­दोऽ­य­मु­च्यते । सत्यमेवं प्रत्यक्षादिभिः प्रमाणैर्न परः प्रत्याययितुं शक्यः ; आगमेन तु शक्यत एव प्रत्या­य­यि­तु­मिति तदु­प­दे­शा­र्थ­मा­ग­म­माह — अन्यदेव तद्विदितादथो अविदितादधीति । अन्यदेव पृथगेव तत् यत्प्रकृतं श्रोत्रादीनां श्रोत्रा­दी­त्यु­क्त­म­वि­ष­यश्च तेषाम् । तत् विदितात् अन्यदेव हि । विदितं नाम यद्वि­दि­क्रि­य­या­ति­श­ये­नाप्तं विदि­क्रि­या­क­र्म­भू­तम् । क्वचि­त्कि­ञ्चि­त्क­स्य­चि­द्वि­दितं स्यादिति सर्वमेव व्याकृतं विदितमेव ; तस्मा­द­न्य­दे­वे­त्यर्थः । अविदितमज्ञातं तर्हीति प्राप्ते आह — अथो अपि अविदितात् विदि­त­वि­प­री­ता­द­व्या­कृ­ता­द­वि­द्या­ल­क्ष­णा­द्व्या­कृ­त­बी­जात् । अधि इति उपर्यर्थे ; लक्षणया अन्यदित्यर्थः । यद्धि यस्मादधि उपरि भवति, तत्त­स्मा­द­न्य­दिति प्रसिद्धम् । यद्विदितं तदल्पं मर्त्यं दुःखात्मकं चेति हेयम् । तस्मा­द्वि­दि­ता­द­न्य­द्ब्र­ह्मे­त्युक्ते त्वहेयत्वमुक्तं स्यात् । तथा अवि­दि­ता­द­धी­त्यु­क्तेऽ­नु­पा­दे­य­त्व­मुक्तं स्यात् । कार्यार्थं हि कार­ण­म­न्य­द­न्ये­नो­पा­दी­यते । अतश्च न वेदितुरन्यस्मै प्रयो­ज­ना­या­न्य­दु­पा­देयं भवतीत्येवं विदि­ता­वि­दि­ता­भ्या­म­न्य­दिति हेयो­पा­दे­य­प्र­ति­षे­धेन स्वात्म­नोऽ­न­न्य­त्वात् ब्रह्मविषया जिज्ञासा शिष्यस्य निर्वर्तिता स्यात् । न ह्यन्यस्य स्वात्मनो विदि­ता­वि­दि­ता­भ्या­म­न्यत्वं वस्तुनः सम्भवतीत्यात्मा ब्रह्मेत्येष वाक्यार्थः ; ‘अयमात्मा ब्रह्म’(बृ. उ. ४ । ४ । ५) ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) ‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) इत्या­दि­श्रु­त्य­न्त­रे­भ्य­श्चेति । एवं सर्वात्मनः सर्व­वि­शे­ष­र­हि­तस्य चिन्मा­त्र­ज्यो­तिषो ब्रह्म­त्व­प्र­ति­पा­द­कस्य वाक्या­र्थ­स्या­चा­र्यो­प­दे­श­प­र­म्प­रया प्राप्तत्वमाह — इति शुश्रुमेत्यादि । ब्रह्म चैव­मा­चा­र्यो­प­दे­श­प­र­म्प­र­यै­वा­धि­ग­न्तव्यं न तर्कतः प्रव­च­न­मे­धा­ब­हु­श्रु­त­त­पो­य­ज्ञा­दि­भ्यश्च, इति एवं शुश्रुम श्रुतवन्तो वयं पूर्वेषाम् आचार्याणां वचनम् ; ये आचार्याः नः अस्मभ्यं तत् ब्रह्म व्याचचक्षिरे व्याख्यातवन्तः विस्पष्टं कथितवन्तः तेषामित्यर्थः ॥

यद्वा­चा­न­भ्यु­दितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥

‘अन्यदेव तद्विदितादथो अविदितादधि’(के. उ. १ । ४) इत्यनेन वाक्येन आत्मा ब्रह्मेति प्रतिपादिते श्रोतुराशङ्का जाता — कथं न्वात्मा ब्रह्म । आत्मा हि नामाधिकृतः कर्मण्युपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मा­दि­दे­वा­न्स्वर्गं वा प्राप्तुमिच्छति । तत्तस्मादन्य उपास्यो विष्णुरीश्वर इन्द्रः प्राणो वा ब्रह्म भवितुमर्हति, न त्वात्मा ; लोक­प्र­त्य­य­वि­रो­धात् । यथान्ये तार्किका ईश्वरादन्य आत्मे­त्या­च­क्षते, तथा कर्मिणोऽमुं यजामुं यजेत्यन्या एव देवता उपासते । तस्माद्युक्तं यद्वि­दि­त­मु­पास्यं तद्ब्रह्म भवेत् , ततोऽन्य उपासक इति । तामेतामाशङ्कां शिष्य­लि­ङ्गे­नो­प­लक्ष्य तद्वाक्याद्वा आह — मैवं शङ्किष्ठाः । यत् चैत­न्य­मा­त्र­स­त्ता­कम् , वाचा — वागिति जिह्वा­मू­ला­दि­ष्व­ष्टसु स्थानेषु विषक्तमाग्नेयं वर्णा­ना­म­भि­व्य­ञ्जकं करणम् , वर्णा­श्चा­र्थ­स­ङ्के­त­प­रि­च्छिन्ना एतावन्त एवं­क्र­म­प्र­युक्ता इति ; एवं तदभिव्यङ्ग्यः शब्दः पदं वागित्युच्यते ; ‘अकारो वै सर्वा वाक्सैषास्य स्पर्शा­न्तः­स्थो­ष्म­भि­र्व्य­ज्य­माना बह्वी नानारूपा भवति’(ऐ. आ. २ । ३ । ६) इति श्रुतेः । मितममितं स्वरः सत्यानृते एष विकारो यस्याः तया वाचा पदत्वेन परिच्छिन्नया करणगुणवत्या — अनभ्युदितम् अप्र­का­शि­त­म­न­भ्यु­क्तम् । येन ब्रह्मणा विवक्षितेऽर्थे सकरणा वाक् अभ्युद्यते चैतन्यज्योतिषा प्रकाश्यते प्रयुज्यत इत्येतत् । यत् ‘वाचो ह वाक्’(के. उ. १ । २) इत्युक्तम् , ‘वदन्वाक्’(बृ. उ. १ । ४ । ७) ‘यो वाचमन्तरो यमयति’(बृ. उ. ३ । ७ । १०) इत्यादि च वाजसनेयके । ‘या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्राह्मणः’ इति प्रश्नमुत्पाद्य प्रतिवचनमुक्तम् ‘सा वाग्यया स्वप्ने भाषते’(?) इति । सा हि वक्तु­र्व­क्ति­र्नित्या वाक् चैत­न्य­ज्यो­तिः­स्व­रूपा, ‘न हि वक्तु­र्व­क्ते­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २६) इति श्रुतेः । तदेव आत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृह­त्त्वा­द्ब्र­ह्मेति विद्धि विजानीहि त्वम् । यैर्वा­गा­द्यु­पा­धिभिः ‘वाचो ह वाक्’ ‘चक्षु­ष­श्चक्षुः’ ‘श्रोत्रस्य श्रोत्रं मनसो मनः’(के. उ. १ । २) ‘कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता’ ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । ७) इत्येवमादयः संव्यवहारा असंव्यवहार्ये निर्विशेषे परे साम्ये ब्रह्मणि प्रवर्तन्ते, तान्व्युदस्य आत्मानमेव निर्विशेषं ब्रह्म विद्धीति एवशब्दार्थः । नेदं ब्रह्म यदिदम् इत्यु­पा­धि­भे­द­वि­शि­ष्ट­म­ना­त्मे­श्व­रादि उपासते ध्यायन्ति । तदेव ब्रह्म त्वं विद्धि इत्युक्तेऽपि नेदं ब्रह्म इत्य­ना­त्म­नोऽ­ब्र­ह्मत्वं पुनरुच्यते नियमार्थम् अन्य­ब्र­ह्म­बु­द्धि­प­रि­स­ङ्ख्या­नार्थं वा ॥

यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥

यन्मनसा न मनुते । मन इत्यन्तःकरणं बुद्धि­म­न­सो­रे­क­त्वेन गृह्यते । मनुतेऽनेनेति मनः सर्वकरणसाधारणम् , सर्व­वि­ष­य­व्या­प­क­त्वात् । ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृति­र­धृ­ति­र्ह्री­र्धी­र्भी­रि­त्ये­त­त्सर्वं मन एव’(बृ. उ. १ । ५ । ३) इति श्रुतेः कामा­दि­वृ­त्ति­म­न्मनः । तेन मनसा यत् चैत­न्य­ज्यो­ति­र्म­न­सोऽ­व­भा­सकं न मनुते न सङ्कल्पयति नापि निश्चिनोति लोकः, मनसोऽवभासकत्वेन नियन्तृत्वात् । सर्वविषयं प्रति प्रत्यगेवेति स्वात्मनि न प्रव­र्त­तेऽ­न्तः­क­र­णम् । अन्तःस्थेन हि चैत­न्य­ज्यो­ति­षा­व­भा­सि­तस्य मनसो मननसामर्थ्यम् ; तेन सवृत्तिकं मनः येन ब्रह्मणा मतं विषयीकृतं व्याप्तम् आहुः कथयन्ति ब्रह्मविदः । तस्मात् तदेव मनस आत्मानं प्रत्य­क्चे­त­यि­तारं ब्रह्म विद्धि । नेदमित्यादि पूर्ववत् ॥

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥

यत् चक्षुषा न पश्यति न विषयीकरोति अन्तः­क­र­ण­वृ­त्ति­सं­यु­क्तेन लोकः, येन चक्षूंषि अन्तः­क­र­ण­वृ­त्ति­भे­द­भि­न्ना­श्च­क्षु­र्वृत्तीः पश्यति चैत­न्या­त्म­ज्यो­तिषा विषयीकरोति व्याप्नोति । तदेवेत्यादि पूर्ववत् ॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥

यत् श्रोत्रेण न शृणोति दिग्दे­व­ता­धि­ष्ठि­तेन आकाशकार्येण मनो­वृ­त्ति­सं­यु­क्तेन न विषयीकरोति लोकः, येन श्रोत्रम् इदं श्रुतं यत्प्रसिद्धं चैत­न्या­त्म­ज्यो­तिषा विषयीकृतम् । तदेवेत्यादि पूर्ववत् ॥

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥

यत् प्राणेन घ्राणेन पार्थिवेन नासि­का­पु­टा­न्त­र­व­स्थि­ते­ना­न्तः­क­र­ण­प्रा­ण­वृ­त्तिभ्यां सहितेन यन्न प्राणिति गन्धवन्न विषयीकरोति, येन चैत­न्या­त्म­ज्यो­ति­षा­व­भा­स्य­त्वेन स्वविषयं प्रति प्राणः प्रणीयते तदेवेत्यादि सर्वं समानम् ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥