अद्वैतशारदा

केनोपनिषत्पदभाष्यम्

द्वितीयः खण्डः

व्याख्याः

यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥

एवं हेयो­पा­दे­य­वि­प­री­त­स्त्व­मात्मा ब्रह्मेति प्रत्यायितः शिष्यः अहमेव ब्रह्मेति सुष्ठु वेदाहमिति मा गृह्णी­या­दि­त्या­श­या­दा­हा­चार्यः शिष्य­बु­द्धि­वि­चा­ल­ना­र्थम् — यदीत्यादि । नन्विष्टैव सु वेदाहम् इति निश्चिता प्रतिपत्तिः । सत्यम् , इष्टा निश्चिता प्रतिपत्तिः ; न हि सु वेदाहमिति । यद्धि वेद्यं वस्तु विषयीभवति, तत्सुष्ठु वेदितुं शक्यम् , दाह्यमिव दग्धुम् अग्नेर्दग्धुः न त्वग्नेः स्वरूपमेव । सर्वस्य हि वेदितुः स्वात्मा ब्रह्मेति सर्ववेदान्तानां सुनिश्चितोऽर्थः । इह च तदेव प्रतिपादितं प्रश्न­प्र­ति­व­च­नोक्त्या ‘श्रोत्रस्य श्रोत्रम्’(के. उ. १ । २) इत्याद्यया । ‘यद्वा­चा­न­भ्यु­दि­तम्’(के. उ. १ । ५) इति च विशे­ष­तोऽ­व­धा­रि­तम् । ब्रह्म­वि­त्स­म्प्र­दा­य­नि­श्च­य­श्चोक्तः ‘अन्यदेव तद्विदितादथो अविदितादधि’(के. उ. १ । ४) इति । उप­न्य­स्त­मु­प­सं­ह­रि­ष्यति च ‘अविज्ञातं विजानतां विज्ञा­त­म­वि­जा­न­ताम्’(के. उ. २ । ३)‘अविज्ञातं विजानतां विज्ञा­त­म­वि­जा­न­ताम्’(के. उ. २ । ३) इति । तस्माद्युक्तमेव शिष्यस्य सुवेदेति बुद्धिं निराकर्तुम् । न हि वेदिता वेदितुर्वेदितुं शक्यः, अग्निर्दग्धुरिव दग्धुमग्नेः । न चान्यो वेदिता ब्रह्मणोऽस्ति यस्य वेद्य­म­न्य­त्स्या­द्ब्रह्म । ‘नान्यदतोऽस्ति विज्ञातृ’(बृ. उ. ३ । ८ । ११) इत्यन्यो विज्ञाता प्रतिषिध्यते । तस्मात् सुष्ठु वेदाहं ब्रह्मेति प्रति­प­त्ति­र्मि­थ्यैव । तस्मा­द्यु­क्त­मे­वा­हा­चार्यो यदीत्यादि । यदि कदाचित् मन्यसे सुवेदेति सुष्ठु वेदाहं ब्रह्मेति । कदा­चि­द्य­था­श्रुतं दुर्विज्ञेयमपि क्षीणदोषः सुमेधाः कश्चि­त्प्र­ति­प­द्यते कश्चिन्नेति साशङ्कमाह यदीत्यादि । दृष्टं च ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवा­चै­त­द­मृ­त­म­भ­य­मे­त­द्ब्रह्म’(छा. उ. ८ । ७ । ४) इत्युक्ते प्राजापत्यः पण्डि­तोऽ­प्य­सु­र­रा­ड्वि­रो­चनः स्वभा­व­दो­ष­व­शा­द­नु­प­प­द्य­मा­न­मपि विपरीतमर्थं शरीरमात्मेति प्रतिपन्नः । तथेन्द्रो देवराट् सकृ­द्द्वि­स्त्रि­रुक्तं चाप्रतिपद्यमानः स्वभा­व­दो­ष­क्ष­य­म­पेक्ष्य चतुर्थे पर्याये प्रथमोक्तमेव ब्रह्म प्रतिपन्नवान् । लोकेऽपि एकस्माद्गुरोः शृण्वतां कश्चि­द्य­था­व­त्प्र­ति­प­द्यते कश्चिदयथावत् कश्चिद्विपरीतं कश्चिन्न प्रतिपद्यते । किमु वक्त­व्य­म­ती­न्द्रि­य­मा­त्म­त­त्त्वम् । अत्र हि विप्रतिपन्नाः सद­स­द्वा­दि­न­स्ता­र्किकाः सर्वे । तस्माद्विदितं ब्रह्मेति सुनि­श्चि­तो­क्त­मपि विष­म­प्र­ति­प­त्ति­त्वात् यदि मन्यसे इत्यादि साशङ्कं वचनं युक्त­मे­वा­चा­र्यस्य । दभ्रम् अल्पमेवापि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपम् । किमनेकानि ब्रह्मणो रूपाणि महान्त्यर्भकाणि च, येनाह दभ्रमेवेत्यादि ? बाढम् । अनेकानि हि नाम­रू­पो­पा­धि­कृ­तानि ब्रह्मणो रूपाणि, न स्वतः । स्वतस्तु ‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्ययं तथारसं नित्यमगन्धवच्च यत्’(क. उ. १ । ३ । १५) इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते । ननु येनैव धर्मेण यद्रूप्यते तदेव तस्य स्वरूपमिति ब्रह्मणोऽपि येन विशेषेण निरूपणं तदेव तस्य स्वरूपं स्यात् । अत उच्यते — चैतन्यम् , पृथि­व्या­दी­ना­म­न्य­त­मस्य सर्वेषां विपरिणतानां वा धर्मो न भवति, तथा श्रोत्रा­दी­ना­म­न्तः­क­र­णस्य च धर्मो न भवतीति ब्रह्मणो रूपमिति ब्रह्म रूप्यते चैतन्येन । तथा चोक्तम् । ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । ७) ‘विज्ञानघन एव’(बृ. उ. २ । ४ । १२) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’(ऐ. उ. ३ । १ । ३) इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु । सत्यमेवम् ; तथापि तद­न्तः­क­र­ण­दे­हे­न्द्रि­यो­पा­धि­द्वा­रे­णैव विज्ञा­ना­दि­श­ब्दै­र्नि­र्दि­श्यते, तद­नु­का­रि­त्वा­द्दे­हा­दि­वृ­द्धि­स­ङ्को­च­च्छे­दा­दिषु नाशेषु च, न स्वतः । स्वतस्तु ‘अविज्ञातं विजानतां विज्ञा­त­म­वि­जा­न­ताम्’ इति स्थितं भविष्यति । ‘यदस्य ब्रह्मणो रूपम्’ इति पूर्वेण सम्बन्धः । न केव­ल­म­ध्या­त्मो­पा­धि­प­रि­च्छि­न्न­स्यास्य ब्रह्मणो रूपं त्वमल्पं वेत्थ ; यद­प्य­धि­दै­व­तो­पा­धि­प­रि­च्छि­न्न­स्यास्य ब्रह्मणो रूपं देवेषु वेत्थ त्वम् , तदपि नूनं दभ्रमेव वेत्थ इति मन्येऽहम् । यदध्यात्मं यदधिदैवं यदपि देवेषु तदपि चोपा­धि­प­रि­च्छि­न्न­त्वा­द्द­भ्र­त्वान्न निवर्तते । यत्तु विध्व­स्त­स­र्वो­पा­धि­वि­शेषं शान्त­म­न­न्त­मे­क­म­द्वैतं भूमाख्यं नित्यं ब्रह्म, न तत्सु­वे­द्य­मि­त्य­भि­प्रायः । यत एवम् अथ नु तस्मात् मन्ये अद्यापि मीमांस्यं विचार्यमेव ते तव ब्रह्म । एवमाचार्योक्तः शिष्यः एकान्ते उपविष्टः समाहितः सन् , यथोक्तमाचार्येण आगममर्थतो विचार्य, तर्कतश्च निर्धार्य, स्वानुभवं कृत्वा, आचा­र्य­स­का­श­मु­प­गम्य, उवाच — मन्येऽहमथेदानीं विदितं ब्रह्मेति ॥

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥

कथमिति, शृणु — न अहं मन्ये सुवेदेति, नैवाहं मन्ये सु वेद ब्रह्मेति । नैव तर्हि विदितं त्वया ब्रह्मेत्युक्ते आह — नो न वेदेति वेद च । वेद चेति च—शब्दात् न वेद च । ननु विप्रतिषिद्धं नाह मन्ये सुवेदेति, नो न वेदेति, वेद च इति । यदि न मन्यसे सुवेदेति, कथं मन्यसे वेद चेति । अथ मन्यसे वेदैवेति, कथं न मन्यसे सुवेदेति । एकं वस्तु येन ज्ञायते, तेनैव तदेव वस्तु न सुविज्ञायत इति विप्रतिषिद्धं संशयविपर्ययौ वर्जयित्वा । न च ब्रह्म संशयितत्वेन ज्ञेयं विपरीतत्वेन वेति नियन्तुं शक्यम् । संशयविपर्ययौ हि सर्व­त्रा­न­र्थ­क­र­त्वे­नैव प्रसिद्धौ । एवमाचार्येण विचाल्यमानोऽपि शिष्यो न विचचाल, ‘अन्यदेव तद्विदितादथो अविदितादधि’(के. उ. १ । ४)‘अन्यदेव तद्विदितादथो अविदितादधि’(के. उ. १ । ४) इत्या­चा­र्यो­क्ता­ग­म­स­म्प्र­दा­य­ब­लात् उप­प­त्त्य­नु­भ­व­ब­लाच्च ; जगर्ज च ब्रह्मविद्यायां दृढनिश्चयतां दर्शयन्नात्मनः । कथमित्युच्यते — यः यः कश्चित् नः अस्माकं सब्रह्मचारिणां मध्ये तत् मदुक्तं वचनं तत्त्वतो वेद, सः तत् ब्रह्म वेद । किं पुन­स्त­द्व­च­न­मि­त्यत आह — नो न वेदेति वेद च इति । यदेव ‘अन्यदेव तद्विदितादथो अविदितादधि’ इत्युक्तम् , तदेव वस्तु अनु­मा­ना­नु­भ­वाभ्यां संयोज्य निश्चितं वाक्यान्तरेण नो न वेदेति वेद च इत्यवोचत् आचा­र्य­बु­द्धि­सं­वा­दार्थं मन्द­बु­द्धि­ग्र­ह­ण­व्य­पो­हार्थं च । तथा च गर्जितमुपपन्नं भवति ‘यो नस्तद्वेद तद्वेद’ इति ॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञा­त­म­वि­जा­न­ताम् ॥ ३ ॥

शिष्या­चा­र्य­सं­वा­दा­त्प्र­ति­नि­वृत्य स्वेन रूपेण श्रुतिः सम­स्त­सं­वा­द­नि­र्वृ­त्त­म­र्थ­मेव बोधयति — यस्या­म­त­मि­त्या­दिना । यस्य ब्रह्मविदः अमतम् अविज्ञातम् अविदितं ब्रह्मेति मतम् अभिप्रायः निश्चयः, तस्य मतं ज्ञातं सम्य­ग्ब्र­ह्मे­त्य­भि­प्रायः । यस्य पुनः मतं ज्ञातं विदितं मया ब्रह्मेति निश्चयः, न वेदैव सः न ब्रह्म विजानाति सः । विद्व­द­वि­दु­षो­र्य­र्थोक्तौ पक्षाववधारयति — अविज्ञातं विजानतामिति, अविज्ञातम् अमतम् अविदितमेव ब्रह्म विजानतां सम्य­ग्वि­दि­त­व­ता­मि­त्ये­तत् । विज्ञातं विदितं ब्रह्म अविजानताम् अस­म्य­ग्द­र्शि­नाम् , इन्द्रि­य­म­नो­बु­द्धि­ष्वे­वा­त्म­द­र्शि­ना­मि­त्यर्थः ; न त्वत्य­न्त­मे­वा­व्यु­त्प­न्न­बु­द्धी­नाम् । न हि तेषां विज्ञा­त­म­स्मा­भि­र्ब्र­ह्मेति मतिर्भवति । इन्द्रि­य­म­नो­बु­द्ध्यु­पा­धि­ष्वा­त्म­द­र्शिनां तु ब्रह्मो­पा­धि­वि­वे­का­नु­प­ल­म्भात् , बुद्ध्या­द्यु­पा­धेश्च विज्ञातत्वात् विदितं ब्रह्मे­त्यु­प­प­द्यते भ्रान्तिरित्यतः असम्यग्दर्शनं पूर्व­प­क्ष­त्वे­नो­प­न्य­स्यते — विज्ञा­त­म­वि­जा­न­ता­मिति । अथवा हेत्वर्थ उत्त­रा­र्धोऽ­वि­ज्ञा­त­मि­त्यादिः ॥

प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥

‘अविज्ञातं विजानताम्’(के. उ. २ । ३)‘अविज्ञातं विजानताम्’(के. उ. २ । ३) इत्यवधृतम् । यदि ब्रह्मा­त्य­न्त­मे­वा­वि­ज्ञा­तम् , लौकिकानां ब्रह्मविदां चाविशेषः प्राप्तः । ‘अविज्ञातं विजानताम्’ इति च परस्परविरुद्धम् । कथं तु तद्ब्रह्म सम्यग्विदितं भव­ती­त्ये­व­म­र्थ­माह — प्रतिबोधविदितं बोधं बोधं प्रति विदितम् । बोधशब्देन बौद्धाः प्रत्यया उच्यन्ते । सर्वे प्रत्यया विषयीभवन्ति यस्य, स आत्मा सर्व­बो­धा­न्प्र­ति­बु­ध्यते सर्व­प्र­त्य­य­दर्शी चिच्छ­क्ति­स्व­रू­प­मात्रः प्रत्ययैरेव प्रत्य­ये­ष्व­वि­शि­ष्ट­तया लक्ष्यते ; नान्य­द्द्वा­र­म­न्त­रा­त्मनो विज्ञानाय । अतः प्रत्य­य­प्र­त्य­गा­त्म­तया विदितं ब्रह्म यदा, तदा तत् मतं तत्स­म्य­ग्द­र्श­न­मि­त्यर्थः सर्व­प्र­त्य­य­द­र्शित्वे चोप­ज­न­ना­पा­य­व­र्जि­त­दृ­क्स्व­रू­पता नित्यत्वं विशु­द्ध­स्व­रू­प­त्व­मा­त्मत्वं निर्वि­शे­ष­तै­कत्वं च सर्वभूतेषु सिद्धं भवेत् , लक्ष­ण­भे­दा­भा­वा­द्व्योम्न इव घटगिरिगुहादिषु । विदि­ता­वि­दि­ता­भ्या­म­न्य­द्ब्र­ह्मे­त्या­ग­म­वा­क्यार्थ एवं परिशुद्ध एवोपसंहृतो भवति । ‘दृष्टेद्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञा­ते­र्वि­ज्ञाता’(बृ. उ. ३ । ४ । २) इति हि श्रुत्यन्तरम् । यदा पुन­र्बो­ध­क्रि­या­क­र्तेति बोध­क्रि­या­ल­क्ष­णेन तत्कर्तारं विजानातीति बोधलक्षणेन विदितं प्रति­बो­ध­वि­दि­त­मिति व्याख्यायते, यथा यो वृक्ष­शा­खा­श्चा­ल­यति स वायुरिति तद्वत् ; तदा बोध­क्रि­या­श­क्ति­मा­नात्मा द्रव्यम् , न बोधस्वरूप एव । बोधस्तु जायते विनश्यति च । यदा बोधो जायते, तदा बोधक्रियया सविशेषः । यदा बोधो नश्यति, तदा नष्टबोधो द्रव्यमात्रं निर्विशेषः । तत्रैवं सति विक्रियात्मकः साव­य­वोऽ­नि­त्योऽ­शुद्ध इत्यादयो दोषा न परिहर्तुं शक्यन्ते । यदपि काणादानाम् आत्ममनःसंयोगजो बोध आत्मनि समवैति ; अत आत्मनि बोद्धृत्वम् , न तु विक्रियात्मक आत्मा ; द्रव्यमात्रस्तु भवति घट इव रागसमवायी । अस्मि­न्प­क्षेऽ­प्य­चे­तनं द्रव्यमात्रं ब्रह्मेति ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २७) ‘प्रज्ञानं ब्रह्म’ इत्याद्याः श्रुतयो बाधिताः स्युः । आत्मनो निरवयवत्वेन प्रदेशाभावात् नित्य­सं­यु­क्त­त्वाच्च मनसः स्मृत्यु­त्प­त्ति­नि­य­मा­नु­प­प­त्ति­र­प­रि­हार्या स्यात् । संसर्गधर्मित्वं चात्मनः श्रुति­स्मृ­ति­न्या­य­वि­रुद्धं कल्पितं स्यात् । ‘असङ्गो न हि सज्जते’(बृ. उ. ३ । ९ । २६) , ‘असक्तं सर्वभृत्’(भ. गी. १३ । १४) इति हि श्रुतिस्मृती । न्यायश्च — गुणवद्गुणवता संसृज्यते, नातुल्यजातीयम् । अतः निर्गुणं निर्विशेषं सर्वविलक्षणं केन­चि­द­प्य­तु­ल्य­जा­ती­येन संसृज्यत इत्येतत् न्यायविरुद्धं भवेत् । तस्मात् नित्या­लु­प्त­ज्ञा­न­स्व­रू­प­ज्यो­ति­रात्मा ब्रह्मे­त्य­य­मर्थः सर्व­बो­ध­बो­द्धृत्वे आत्मनः सिध्यति, नान्यथा । तस्मात् ‘प्रतिबोधविदितं मतम्’ इति यथाव्याख्यात एवार्थोऽस्माभिः । यत्पुनः स्वसंवेद्यता प्रति­बो­ध­वि­दि­त­मि­त्यस्य वाक्यस्यार्थो वर्ण्यते, तत्र भवति सोपाधिकत्वे आत्मनो बुद्ध्यु­पा­धि­स्व­रू­प­त्वेन भेदं परि­क­ल्प्या­त्म­ना­त्मानं वेत्तीति संव्यवहारः — ‘आत्म­न्ये­वा­त्मानं पश्यति’(बृ. उ. ४ । ४ । २३) ‘स्वय­मे­वा­त्म­ना­त्मानं वेत्थ त्वं पुरुषोत्तम’(भ. गी. १० । १५) इति । न तु निरु­पा­धि­क­स्या­त्मन एकत्वे स्वसंवेद्यता परसंवेद्यता वा सम्भवति । संवे­द­न­स्व­रू­प­त्वा­त्सं­वे­द­ना­न्त­रा­पेक्षा च न सम्भवति, यथा प्रकाशस्य प्रका­शा­न्त­रा­पे­क्षाया न सम्भवः तद्वत् । बौद्धपक्षे स्वसंवेद्यतायां तु क्षणभङ्गुरत्वं निरात्मकत्वं च विज्ञानस्य स्यात् ; ‘न हि विज्ञा­तु­र्वि­ज्ञा­ते­र्वि­प­रि­लोपो विद्य­तेऽ­वि­ना­शि­त्वात्’(बृ. उ. ४ । ३ । ३०) ‘नित्यं विभुं सर्वगतम्’(मु. उ. १ । १ । ६) ‘स वा एष महानज आत्मा­ज­रोऽ­म­रोऽ­मृ­तोऽ­भयः’(बृ. उ. ४ । ४ । २५) इत्याद्याः श्रुतयो बाध्येरन् । यत्पुनः प्रतिबोधशब्देन निर्निमित्तो बोधः प्रतिबोधः यथा सुप्तस्य इत्यर्थं परिकल्पयन्ति, सकृद्विज्ञानं प्रतिबोध इत्यपरे ; निर्निमित्तः सनिमित्तः सकृद्वासकृद्वा प्रतिबोध एव हि सः । अमृतत्वम् अमरणभावं स्वात्म­न्य­व­स्थानं मोक्षं हि यस्मात् विन्दते लभते यथो­क्ता­त्प्र­ति­बो­धा­त्प्र­ति­बो­ध­वि­दि­ता­त्म­कात् , तस्मा­त्प्र­ति­बो­ध­वि­दि­त­मेव मतमित्यभिप्रायः । बोधस्य हि प्रत्य­गा­त्म­वि­ष­यत्वं च मतममृतत्वे हेतुः । न ह्यात्म­नोऽ­ना­त्म­त्व­म­मृ­तत्वं भवति । आत्म­त्वा­दा­त्म­नोऽ­मृ­तत्वं निर्निमित्तमेव । एवं मर्त्य­त्व­मा­त्मनो यदविद्यया अना­त्म­त्व­प्र­ति­पत्तिः । कथं पुनर्यथोक्तया आत्म­वि­द्य­या­मृ­तत्वं विन्दत इत्यत आह — आत्मना स्वेन रूपेण विन्दते लभते वीर्यं बलं सामर्थ्यम् । धन­स­हा­य­म­न्त्रौ­ष­धि­त­पो­यो­ग­कृतं वीर्यं मृत्युं न शक्नो­त्य­भि­भ­वि­तुम् , अनि­त्य­व­स्तु­कृ­त­त्वात् ; आत्मविद्याकृतं तु वीर्यमात्मनैव विन्दते, नान्ये­ने­त्य­तोऽ­न­न्य­सा­ध­न­त्वा­दा­त्म­वि­द्या­वी­र्यस्य तदेव वीर्यं मृत्युं शक्नो­त्य­भि­भ­वि­तुम् । यत एव­मा­त्म­वि­द्या­कृतं वीर्यमात्मनैव विन्दते, अतः विद्यया आत्मविषयया विन्दतेऽमृतम् अमृतत्वम् । ‘नायमात्मा बलहीनेन लभ्यः’(मु. उ. ३ । २ । ४) इत्याथर्वणे । अतः समर्थो हेतुः अमृतत्वं हि विन्दत इति ॥

इह चेदवेदीदथ सत्यमस्ति न चेदि­हा­वे­दी­न्म­हती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्या­स्मा­ल्लो­का­द­मृता भवन्ति ॥ ५ ॥

कष्टा खलु सुर­न­र­ति­र्य­क्प्रे­ता­दिषु संसा­र­दुः­ख­ब­हु­लेषु प्राणिनिकायेषु जन्म­ज­रा­म­र­ण­रो­गा­दि­स­म्प्रा­प्ति­र­ज्ञा­नात् । अतः इह एव चेत् मनुष्योऽधिकृतः समर्थः सन् यदि अवेदीत् आत्मानं यथोक्तलक्षणं विदितवान् यथोक्तेन प्रकारेण, अथ तदा अस्ति सत्यं मनु­ष्य­ज­न्म­न्य­स्मि­न्न­वि­ना­शोऽ­र्थ­वत्ता वा सद्भावो वा परमार्थता वा सत्यं विद्यते । न चेदिहावेदीदिति, न चेत् इह जीवंश्चेत् अधिकृतः अवेदीत् न विदितवान् , तदा महती दीर्घा अनन्ता विनष्टिः विनाशनं जन्म­ज­रा­म­र­णा­दि­प्र­ब­न्धा­वि­च्छे­द­ल­क्षणा संसारगतिः । तस्मादेवं गुणदोषौ विजानन्तो ब्राह्मणाः भूतेषु भूतेषु सर्वभूतेषु स्थावरेषु चरेषु च एकमात्मतत्त्वं ब्रह्म विचित्य विज्ञाय साक्षात्कृत्य धीराः धीमन्तः प्रेत्य व्यावृत्य ममा­ह­म्भा­व­ल­क्ष­णा­द­वि­द्या­रू­पा­द­स्मा­ल्लो­कात् उपरम्य सर्वा­त्मै­क­भा­व­म­द्वै­त­मा­पन्नाः सन्तः अमृता भवन्ति ब्रह्मैव भवन्तीत्यर्थः । ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) इति श्रुतेः ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥