अद्वैतशारदा

केनोपनिषत्पदभाष्यम्

तृतीयः खण्डः

व्याख्याः

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्ष­न्ता­स्मा­क­मे­वायं विज­योऽ­स्मा­क­मे­वायं महिमेति ॥ १ ॥

ब्रह्म ह देवेभ्यो विजिग्ये । ‘अविज्ञातं विजानतां विज्ञा­त­म­वि­जा­न­ताम्’(के. उ. २ । ३) इत्यादिश्रवणात् यदस्ति तद्विज्ञातं प्रमाणैः यन्नास्ति तदविज्ञातं शश­वि­षा­ण­क­ल्प­म­त्य­न्त­मे­वा­स­द्दृ­ष्टम् । तथेदं ब्रह्मा­वि­ज्ञा­त­त्वा­द­स­दे­वेति मन्दबुद्धीनां व्यामोहो मा भूदिति तद­र्थे­य­मा­ख्या­यिका आरभ्यते । तदेव हि ब्रह्म सर्वप्रकारेण प्रशास्तृ देवानामपि परो देवः, ईश्वराणामपि परमेश्वरः, दुर्विज्ञेयः, देवानां जयहेतुः, असुराणां पराजयहेतुः ; तत्कथं नास्ती­त्ये­त­स्या­र्थ­स्या­नु­कू­लानि ह्युत्तराणि वचांसि दृश्यन्ते । अथवा ब्रह्मविद्यायाः स्तुतये । कथम् ? ब्रह्म­वि­ज्ञा­नाद्धि अग्न्यादयो देवा देवानां श्रेष्ठत्वं जग्मुः । ततोऽ­प्य­ति­त­रा­मिन्द्र इति । अथवा दुर्विज्ञेयं ब्रह्मे­त्ये­त­त्प्र­द­र्श्यते — येना­ग्न्या­द­योऽ­ति­ते­ज­सोऽपि क्लेशेनैव ब्रह्म विदि­त­व­न्त­स्त­थेन्द्रो देवा­ना­मी­श्व­रोऽपि सन्निति । वक्ष्य­मा­णो­प­नि­ष­द्वि­धि­परं वा सर्वम् । ब्रह्म­वि­द्या­व्य­ति­रे­केण प्राणिनां कर्तृ­त्व­भो­क्तृ­त्वा­द्य­भि­मानो मिथ्ये­त्ये­त­द्द­र्श­नार्थं वा आख्यायिका, यथा देवानां जया­द्य­भि­मा­न­स्त­द्व­दिति । ब्रह्म यथोक्तलक्षणं परं ह किल देवेभ्योऽर्थाय विजिग्ये जयं लब्धवत् देवानामसुराणां च सङ्ग्रा­मेऽ­सु­रा­ञ्जित्वा जग­द­रा­ती­नी­श्व­र­से­तु­र्भे­त्तॄन् देवेभ्यो जयं तत्फलं च प्रायच्छज्जगतः स्थेम्ने । तस्य ह किल ब्रह्मणो विजये देवाः अग्न्यादयः अमहीयन्त महिमानं प्राप्तवन्तः । तदा आत्मसंस्थस्य प्रत्यगात्मन ईश्वरस्य सर्वज्ञस्य सर्व­क्रि­या­फ­ल­सं­यो­ज­यितुः प्राणिनां सर्वशक्तेः जगतः स्थितिं चिकीर्षोः अयं जयो महिमा चेत्यजानन्तः ते देवाः ऐक्षन्त ईक्षितवन्तः अग्न्या­दि­स्व­रू­प­प­रि­च्छि­न्ना­त्म­कृतः अस्माकमेवायं विजयः अस्माकमेवायं महिमा अग्नि­वा­य्वि­न्द्र­त्वा­दि­ल­क्षणो जय­फ­ल­भू­तोऽ­स्मा­भि­र­नु­भू­यते नास्म­त्प्र­त्य­गा­त्म­भू­ते­श्व­र­कृत इति ॥

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २ ॥

एवं मिथ्या­भि­मा­ने­क्ष­ण­वतां तत् ह किल एषां मिथ्येक्षणं विजज्ञौ विज्ञा­त­व­द्ब्रह्म । सर्वेक्षितृ हि तत् सर्व­भू­त­क­र­ण­प्र­यो­क्तृ­त्वात् देवानां च मिथ्या­ज्ञा­न­मु­प­लभ्य मैवासुरवद्देवा मिथ्या­भि­मा­ना­त्प­रा­भ­वे­यु­रिति तदनुकम्पया देवा­न्मि­थ्या­भि­मा­ना­प­नो­द­ने­ना­नु­गृ­ह्णी­या­मिति तेभ्यः देवेभ्यः ह किल अर्थाय प्रादुर्बभूव स्वयो­ग­मा­हा­त्म्य­नि­र्मि­ते­ना­त्य­द्भु­तेन विस्मापनीयेन रूपेण देवा­ना­मि­न्द्रि­य­गो­चरे प्रादुर्बभूव प्रादुर्भूतवत् । तत् प्रादुर्भूतं ब्रह्म न व्यजानत नैव विज्ञातवन्तः देवाः किमिदं यक्षं पूज्यं महद्भूतमिति ॥

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ३ ॥

तद­भ्य­द्र­व­त्त­म­भ्य­व­दत् कोऽसी­त्य­ग्निर्वा अह­म­स्मी­त्य­ब्र­वी­ज्जा­त­वेदा वा अहमस्मीति ॥ ४ ॥

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥

तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६ ॥

ते तदजानन्तो देवाः सान्त­र्भ­या­स्त­द्वि­जि­ज्ञा­सवः अग्निम् अग्रगामिणं जातवेदसं सर्वज्ञकल्पम् अब्रुवन् उक्तवन्तः । हे जातवेदः एतत् अस्मद्गोचरस्थं यक्षं विजानीहि विशेषतो बुध्यस्व त्वं नस्तेजस्वी किमेतद्यक्षमिति । तथा अस्तु इति तत् यक्षम् अभि अद्रवत् तत्प्रति गतवानग्निः । तं च गतवन्तं पिपृच्छिषुं तत्स­मी­पेऽ­प्र­ग­ल्भ­त्वा­त्तू­ष्णी­म्भूतं तद्यक्षम् अभ्यवदत् अग्निं प्रति अभाषत कोऽसीति । एवं ब्रह्मणा पृष्टोऽग्निः अब्रवीत् अग्निर्वै अग्निर्नामाहं प्रसिद्धो जातवेदा इति च नामद्वयेन प्रसि­द्ध­त­या­त्मानं श्लाघयन्निति । एवमुक्तवन्तं ब्रह्मावोचत् तस्मिन् एवं प्रसि­द्ध­गु­ण­ना­म­वति त्वयि किं वीर्यं सामर्थ्यम् इति । सोऽब्रवीत् इदं जगत् सर्वं दहेयं भस्मीकुर्यां यत् इदं स्थावरादि पृथिव्याम् इति । पृथि­व्या­मि­त्यु­प­ल­क्ष­णा­र्थम् , यतोऽ­न्त­रि­क्ष­स्थ­मपि दह्यत एवाग्निना । तस्मै एवमभिमानवते ब्रह्म तृणं निदधौ पुरोऽग्नेः स्थापितवत् । ब्रह्मणा ‘एतत् तृणमात्रं ममाग्रतः दह ; न चेदसि दग्धुं समर्थः, मुञ्च दग्धृत्वाभिमानं सर्वत्र’ इत्युक्तः तत् तृणम् उपप्रेयाय तृणसमीपं गतवान् सर्वजवेन सर्वोत्साहकृतेन वेगेन । गत्वा तत् न शशाक नाशकत् दग्धुम् । सः जातवेदाः तृणं दग्धुमशक्तो व्रीडितो हतप्रतिज्ञः तत एव यक्षादेव तूष्णीं देवान्प्रति निववृते निवृत्तः प्रतिगतवान् न एतत् यक्षम् अशकं शक्तवानहं विज्ञातुं विशेषतः यदेतद्यक्षमिति ॥

अथ वायुमब्रुवन् वाय­वे­त­द्वि­जा­नीहि किमेतद्यक्षमिति तथेति ॥ ७ ॥

तद­भ्य­द्र­व­त्त­म­भ्य­व­द­त्कोऽ­सीति वायुर्वा अह­म­स्मी­त्य­ब्र­वी­न्मा­त­रिश्वा वा अहमस्मीति ॥ ८ ॥

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९ ॥

तस्मै तृणं निद­धा­वे­त­दा­द­त्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १० ॥

१०

अथ अनन्तरं वायुमब्रुवन् हे वायो एत­द्वि­जा­नी­ही­त्यादि समानार्थं पूर्वेण । वाना­द्ग­म­ना­द्ग­न्ध­नाद्वा वायुः । मातर्यन्तरिक्षे श्वयतीति मातरिश्वा । इदं सर्वमपि आददीय गृह्णीयाम् । यदिदं पृथि­व्या­मि­त्यादि समानमेव ॥

अथे­न्द्र­म­ब्रु­व­न्म­घ­व­न्ने­त­द्वि­जा­नीहि किमेतद्यक्षमिति तथेति तद­भ्य­द्र­व­त्त­स्मा­त्ति­रो­दधे ॥ ११ ॥

११

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति ॥ १२ ॥

१२

अथे­न्द्र­म­ब्रु­व­न्म­घ­व­न्ने­त­द्वि­जा­नी­ही­त्यादि पूर्ववत् । इन्द्रः परमेश्वरो मघवा बलवत्त्वात् तथेति तदभ्यद्रवत् । तस्मात् इन्द्रा­दा­त्म­स­मीपं गतात् तद्ब्रह्म तिरोदधे तिरोभूतम् । इन्द्र­स्ये­न्द्र­त्वा­भि­मा­नोऽ­ति­तरां निराकर्तव्य इत्यतः संवादमात्रमपि नादा­द्ब्र­ह्मे­न्द्राय । तद्यक्षं यस्मिन्नाकाशे आकाशप्रदेशे आत्मानं दर्शयित्वा तिरो­भू­त­मि­न्द्रश्च ब्रह्म­ण­स्ति­रो­धा­न­काले यस्मिन्नाकाशे आसीत् , सः इन्द्रः तस्मिन्नेव आकाशे तस्थौ किं यद्यक्षमिति ध्यायन् ; न निव­वृ­तेऽ­ग्न्या­दि­वत् । तस्येन्द्रस्य यक्षे भक्तिं बुद्ध्वा विद्या उमारूपिणी प्रादु­र­भू­त्स्त्री­रूपा । सः इन्द्रः ताम् उमां बहु शोभमानाम् ; सर्वेषां हि शोभमानानां शोभनतमा विद्या । तदा बहु शोभमानेति विशेषणमुपपन्नं भवति । हैमवतीं हेम­कृ­ता­भ­र­ण­व­ती­मिव बहु शोभ­मा­ना­मि­त्यर्थः । अथवा उमैव हिमवतो दुहिता हैमवती नित्यमेव सर्व­ज्ञे­ने­श्व­रेण सह वर्तत इति ज्ञातुं समर्थेति कृत्वा तामुपजगाम । इन्द्रः तां ह उमां किल उवाच पप्रच्छ ब्रूहि किमे­त­द्द­र्श­यित्वा तिरोभूतं यक्षमिति ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥