अद्वैतशारदा

केनोपनिषत्पदभाष्यम्

चतुर्थः खण्डः

व्याख्याः

ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥

सा ब्रह्मेति होवाच ह किल ब्रह्मणः वै ईश्वरस्यैव विजये — ईश्वरेणैव जिता असुराः । यूयं तत्र निमित्तमात्रम् । तस्यैव विजये — यूयं महीयध्वं महिमानं प्राप्नुथ । एतदिति क्रिया­वि­शे­ष­णा­र्थम् । मिथ्याभिमानस्तु युष्माकम् — अस्माकमेवायं विज­योऽ­स्मा­क­मे­वायं महिमेति । ततः तस्मा­दु­मा­वा­क्यात् ह एव विदाञ्चकार ब्रह्मेति इन्द्रः ; अवधारणात् ततो हैव इति, न स्वातन्त्र्येण ॥

तस्माद्वा एते देवा अति­त­रा­मि­वा­न्या­न्दे­वा­न्य­द­ग्नि­र्वा­यु­रि­न्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥

यस्मा­द­ग्नि­वा­य्विन्द्रा एते देवा ब्रह्मणः संवाददर्शनादिना सामीप्यमुपगताः, तस्मात् स्वैर्गुणैः अतितरामिव शक्ति­गु­णा­दि­म­हा­भाग्यैः अन्यान् देवान् अतितराम् अतिशेरत इव एते देवाः । इव­श­ब्दोऽ­न­र्थ­कोऽ­व­धा­र­णार्थो वा । यत् अग्निः वायुः इन्द्रः ते हि देवा यस्मात् एनत् ब्रह्म नेदिष्ठम् अन्तिकतमं प्रियतमं पस्पर्शुः स्पृष्टवन्तो यथो­क्तै­र्ब्र­ह्मणः संवा­दा­दि­प्र­कारैः, ते हि यस्माच्च हेतोः एनत् ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्त इत्येतत् , विदाञ्चकार विदा­ञ्च­क्रु­रि­त्ये­तत् , ब्रह्मेति ॥

तस्माद्वा इन्द्रोऽ­ति­त­रा­मि­वा­न्या­न्दे­वान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥

यस्मादग्निवायू अपि इन्द्रवाक्यादेव विदाञ्चक्रतुः, इन्द्रेण हि उमा­वा­क्या­त्प्र­थमं श्रुतं ब्रह्मेति ; तस्माद्वै इन्द्रः अतितरामिव अतिशयेन शेत इव अन्यान् देवान् । स ह्येनन्नेदिष्ठं पस्पर्श यस्मात् स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मे­त्यु­क्तार्थं वाक्यम् ॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इती­न्न्य­मी­मि­षदा३ इत्यधिदैवतम् ॥ ४ ॥

तस्य प्रकृतस्य ब्रह्मणः एषः आदेशः उपमोपदेशः । निरुपमस्य ब्रह्मणो येनो­प­मा­ने­नो­प­देशः सोऽयमादेश इत्युच्यते । किं तत् ? यदेतत् प्रसिद्धं लोके विद्युतः व्यद्युतत् विद्योतनं कृत­व­दि­त्ये­त­द­नु­प­प­न्न­मिति विद्युतो विद्योतनमिति कल्प्यते । आ३ इत्युपमार्थः । विद्युतो विद्यो­त­न­मि­वे­त्यर्थः, ‘यथा सकृद्विद्युतम्’(बृ. उ. २ । ३ । ६) इति श्रुत्यन्तरे च दर्शनात् । विद्युदिव हि सकृदात्मानं दर्शयित्वा तिरोभूतं ब्रह्म देवेभ्यः । अथवा विद्युतः ‘तेजः’ इत्यध्याहार्यम् । व्यद्युतत् विद्योतितवत् आ३ इव । विद्युतस्तेजः सकृ­द्वि­द्यो­ति­त­व­दि­वे­त्य­भि­प्रायः । इतिशब्दः आदे­श­प्र­ति­नि­र्दे­शार्थः — इत्ययमादेश इति । इच्छब्दः समुच्चयार्थः । अयं चापरस्तस्यादेशः । कोऽसौ ? न्यमीमिषत् यथा चक्षुः । न्यमीमिषत् निमेषं कृतवत् । स्वार्थे णिच् । उपमार्थ एव आकारः । चक्षुषो विषयं प्रति प्रकाशतिरोभाव इव चेत्यर्थः । इति अधिदैवतं देवताविषयं ब्रह्मण उपमानदर्शनम् ॥

अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैत­दु­प­स्म­र­त्य­भीक्ष्णं सङ्कल्पः ॥ ५ ॥

अथ अनन्तरम् अध्यात्मं प्रत्यगात्मविषय आदेश उच्यते । यदेतत् गच्छतीव च मनः । एतद्ब्रह्म ढौकत इव विषयीकरोतीव । यच्च अनेन मनसा एतत् ब्रह्म उपस्मरति समीपतः स्मरति साधकः अभीक्ष्णं भृशम् । सङ्कल्पश्च मनसो ब्रह्मविषयः । मन­उ­पा­धि­क­त्वाद्धि मनसः सङ्क­ल्प­स्मृ­त्या­दि­प्र­त्य­यै­र­भि­व्य­ज्यते ब्रह्म, विष­यी­क्रि­य­मा­ण­मिव । अतः स एष ब्रह्म­णोऽ­ध्या­त्म­मा­देशः । विद्यु­न्नि­मे­ष­ण­व­द­धि­दै­वतं द्रुत­प्र­का­श­न­धर्मि, अध्यात्मं च मनः­प्र­त्य­य­स­म­का­ला­भि­व्य­क्ति­धर्मि, इत्येष आदेशः । एवमादिश्यमानं हि ब्रह्म मन्दबुद्धिगम्यं भवतीति ब्रह्मण आदेश उपदेशः । न हि निरुपाधिकमेव ब्रह्म मन्द­बु­द्धि­भि­रा­क­ल­यितुं शक्यम् ॥

तद्ध तद्वनं नाम तद्व­न­मि­त्यु­पा­सि­तव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ६ ॥

किञ्च, तत् ब्रह्म ह किल तद्वनं नाम तस्य वनं तद्वनं तस्य प्राणिजातस्य प्रत्य­गा­त्म­भू­त­त्वा­द्वनं वननीयं सम्भजनीयम् । अतः तद्वनं नाम ; प्रख्यातं ब्रह्म तद्वनमिति यतः, तस्मात् तद्वनमिति अनेनैव गुणाभिधानेन उपासितव्यं चिन्तनीयम् । अनेन नाम्नोपासनस्य फलमाह — स यः कश्चित् एतत् यथोक्तं ब्रह्म एवं यथोक्तगुणं वेद उपास्ते अभि ह एनम् उपासकं सर्वाणि भूतानि अभि संवाञ्छन्ति ह प्रार्थयन्त एव यथा ब्रह्म ॥

उपनिषदं भो ब्रूहीत्युक्ता त उप­नि­ष­द्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥

एवमनुशिष्टः शिष्य आचार्यमुवाच — उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये आहाचार्यः — उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह — ब्राह्मीं ब्रह्मणः परमात्मन इयं ब्राह्मी ताम् , पर­मा­त्म­वि­ष­य­त्वा­द­ती­त­वि­ज्ञा­नस्य, वाव एव ते उपनिषदमब्रूमेति उक्तामेव पर­मा­त्म­वि­ष­या­मु­प­नि­ष­द­म­ब्रू­मे­त्य­व­धा­र­य­त्यु­त्त­रा­र्थम् । पर­मा­त्म­वि­ष­या­मु­प­नि­षदं श्रुतवतः उपनिषदं भो ब्रूहीति पृच्छतः शिष्यस्य कोऽभिप्रायः ? यदि ताव­च्छ्रु­त­स्या­र्थस्य प्रश्नः कृतः, ततः पिष्ट­पे­ष­ण­व­त्पु­न­रु­क्तोऽ­न­र्थकः प्रश्नः स्यात् । अथ साव­शे­षो­क्तो­प­नि­ष­त्स्यात् , ततस्तस्याः फलवचनेनोपसंहारो न युक्तः ‘प्रेत्या­स्मा­ल्लो­का­द­मृता भवन्ति’(के. उ. २ । ५) इति । तस्मा­दु­क्तो­प­नि­ष­च्छे­ष­वि­ष­योऽपि प्रश्नोऽनुपपन्न एव, अनवशेषितत्वात् । कस्त­र्ह्य­भि­प्रायः प्रष्टुरिति । उच्यते । किं पूर्वो­क्तो­प­नि­ष­च्छे­ष­तया तत्स­ह­का­रि­सा­ध­ना­न्त­रा­पेक्षा, अथ निरपेक्षैव ? सापेक्षा चेद­पे­क्षि­त­वि­ष­या­मु­प­नि­षदं ब्रूहि । अथ निरपेक्षा चेदवधारय पिप्पलादवन्नातः पर­म­स्ती­त्ये­व­म­भि­प्रायः । एत­दु­प­प­न्न­मा­चा­र्य­स्या­व­धा­र­ण­व­च­नम् ‘उक्ता त उपनिषत्’ इति । ननु नावधारणमिदम् , यतोऽ­न्य­द्व­क्त­व्य­माह ‘तस्यै तपो दमः’(के. उ. ४ । ८) इत्यादि । सत्यम् , वक्तव्यमुच्यते आचार्येण । न तूक्तो­प­नि­ष­च्छे­ष­तया तत्स­ह­का­रि­सा­ध­ना­न्त­रा­भि­प्रा­येण वा ; किन्तु ब्रह्म­वि­द्या­प्रा­प्त्यु­पा­या­भि­प्रा­येण वेदैस्तदङ्गैश्च सहपाठेन समी­क­र­णा­त्त­पः­प्र­भृ­ती­नाम् । न हि वेदानां शिक्षा­द्य­ङ्गानां च साक्षा­द्ब्र­ह्म­वि­द्या­शे­षत्वं तत्स­ह­का­रि­सा­ध­नत्वं वा सम्भवति । सहपठितानामपि यथायोगं विभज्य विनियोगः स्यादिति चेत् ; यथा सूक्त­वा­का­नु­म­न्त्र­ण­म­न्त्राणां यथादैवतं विभागः, तथा तपो­द­म­क­र्म­स­त्या­दी­ना­मपि ब्रह्म­वि­द्या­शे­षत्वं तत्स­ह­का­रि­सा­ध­नत्वं वेति कल्प्यते । वेदानां तदङ्गानां चार्थ­प्र­का­श­क­त्वेन कर्मा­त्म­ज्ञा­नो­पा­य­त्व­मि­त्येवं ह्ययं विभागो युज्यते अर्थ­स­म्ब­न्धो­प­प­त्ति­सा­म­र्थ्या­दिति चेत् , न ; अयुक्तेः । न ह्ययं विभागो घटनां प्राञ्चति । न हि सर्व­क्रि­या­का­र­क­फ­ल­भे­द­बु­द्धि­ति­र­स्का­रिण्या ब्रह्मविद्यायाः शेषापेक्षा सह­का­रि­सा­ध­न­स­म्बन्धो वा युज्यते । सर्व­वि­ष­य­व्या­वृ­त्त­प्र­त्य­गा­त्म­वि­ष­य­नि­ष्ठ­त्वाच्च ब्रह्म­वि­द्या­या­स्त­त्फ­लस्य च निःश्रेयसस्य । ‘मोक्ष­मि­च्छ­न्सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’(?) तस्मात्कर्मणां सहकारित्वं कर्मशेषापेक्षा वा न ज्ञान­स्यो­प­प­द्यते । ततोऽसदेव सूक्त­वा­का­नु­म­न्त्र­ण­व­द्य­था­योगं विभाग इति । तस्मा­द­व­धा­र­णा­र्थ­तैव प्रश्न­प्र­ति­व­च­न­स्यो­प­प­द्यते । एता­व­त्ये­वे­य­मु­प­नि­ष­दु­क्ता­न्य­नि­र­पेक्षा अमृतत्वाय ॥

तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥

यामिमां ब्राह्मी­मु­प­नि­षदं तवा­ग्रेऽ­ब्रू­मेति तस्यै तस्या उक्ताया उपनिषदः प्राप्त्यु­पा­य­भू­तानि तपआदीनि । तपः काये­न्द्रि­य­म­नसां समाधानम् । दमः उपशमः । कर्म अग्निहोत्रादि । एतैर्हि संस्कृतस्य सत्त्व­शु­द्धि­द्वारा तत्त्व­ज्ञा­नो­त्प­त्ति­र्दृष्टा । दृष्टा ह्यमृ­दि­त­क­ल्म­ष­स्यो­क्तेऽपि ब्रह्म­ण्य­प्र­ति­प­त्ति­र्वि­प­री­त­प्र­ति­प­त्तिश्च, यथे­न्द्र­वि­रो­च­न­प्र­भृ­ती­नाम् । तस्मादिह वातीतेषु वा बहुषु जन्मान्तरेषु तपआदिभिः कृत­स­त्त्व­शु­द्धे­र्ज्ञानं समुत्पद्यते यथाश्रुतम् ; ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’(श्वे. उ. ६ । २३) इति मन्त्रवर्णात् । ‘ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मणः’(मो. २०४ । ८) इति स्मृतेश्च । इतिशब्दः उप­ल­क्ष­ण­त्व­प्र­द­र्श­नार्थः । इति एवमाद्यन्यदपि ज्ञानो­त्प­त्ते­रु­प­का­र­कम् ‘अमा­नि­त्व­म­द­म्भि­त्वम्’(भ. गी. १३ । ७) इत्या­द्यु­प­द­र्शितं भवति । प्रतिष्ठा पादौ पादाविवास्याः ; तेषु हि सत्सु प्रतितिष्ठति ब्रह्मविद्या प्रवर्तते, पद्भ्यामिव पुरुषः । वेदाश्चत्वारः सर्वाणि चाङ्गानि शिक्षादीनि षट् कर्म­ज्ञा­न­प्र­का­श­क­त्वा­द्वे­दानां तद्र­क्ष­णा­र्थ­त्वा­द­ङ्गानां प्रतिष्ठात्वम् । अथवा, प्रति­ष्ठा­श­ब्दस्य पाद­रू­प­क­ल्प­ना­र्थ­त्वा­द्वे­दा­स्त्वि­त­राणि सर्वाङ्गाणि शिरआदीनि । अस्मिन्पक्षे शिक्षादीनां वेदग्रहणेनैव ग्रहणं कृतं प्रत्येतव्यम् । अङ्गिनि हि गृहीतेऽङ्गानि गृहीतान्येव भवन्ति, तदा­य­त्त­त्वा­द­ङ्गा­नाम् । सत्यम् आयतनं यत्र तिष्ठत्युपनिषत् तदायतनम् । सत्यमिति अमायिता अकौटिल्यं वाङ्मनःकायानाम् । तेषु ह्याश्रयति विद्या ये अमायाविनः साधवः, नासुरप्रकृतिषु मायाविषु ; ‘न येषु जिह्ममनृतं न माया च’(प्र. उ. १ । १६) इति श्रुतेः । तस्मा­त्स­त्य­मा­य­त­न­मिति कल्प्यते । तपआदिष्वेव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साध­ना­ति­श­य­त्व­ज्ञा­प­ना­र्थम् । ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्व­मे­ध­स­ह­स्राच्च सत्यमेकं विशिष्यते’(महाभा. आ. ७४ । १०३) इति स्मृतेः ॥

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥

यो वै एतां ब्रह्मविद्याम् ‘केनेषितम्’(के. उ. १ । १) इत्यादिना यथोक्ताम् एवं महाभागाम् ‘ब्रह्म ह देवेभ्यः’(के. उ. ३ । १) इत्यादिना स्तुतां सर्व­वि­द्या­प्र­तिष्ठां वेद । ‘अमृतत्वं हि विन्दते’(के. उ. २ । ४) इत्युक्तमपि ब्रह्म­वि­द्या­फ­ल­मन्ते निगमयति — अपहत्य पाप्मानम् अवि­द्या­का­म­क­र्म­ल­क्षणं संसारबीजं विधूय अनन्ते अपर्यन्ते स्वर्गे लोके सुखात्मके ब्रह्मणीत्येतत् । अनन्ते इति विशेषणान्न त्रिविष्टपे अनन्तशब्द औपचारिकोऽपि स्यादित्यत आह — ज्येये इति । ज्येये ज्यायसि सर्वमहत्तरे स्वात्मनि मुख्ये एव प्रतितिष्ठति । न पुनः संसारमापद्यत इत्यभिप्रायः ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ केनो­प­नि­ष­त्प­द­भा­ष्यम् सम्पूर्णम् ॥