अद्वैतशारदा

केनोपनिषद्वाक्यभाष्यम्

प्रथमः खण्डः

व्याख्याः

समाप्तं कर्मा­त्म­भू­त­प्रा­ण­वि­षयं विज्ञानं कर्म चानेकप्रकारम् , ययो­र्वि­क­ल्प­स­मु­च्च­या­नु­ष्ठा­ना­द्द­क्षि­णो­त्त­राभ्यां सृति­भ्या­मा­वृ­त्त्य­ना­वृत्ती भवतः । अत ऊर्ध्वं फल­नि­र­पे­क्ष­ज्ञा­न­क­र्म­स­मु­च्च­या­नु­ष्ठा­ना­त्कृ­ता­त्म­सं­स्का­रस्य उच्छि­न्ना­त्म­ज्ञा­न­प्र­ति­ब­न्ध­कस्य द्वैत­वि­ष­य­दो­ष­द­र्शिनः निर्ज्ञा­ता­शे­ष­बा­ह्य­वि­ष­य­त्वात् संसा­र­बी­ज­म­ज्ञा­न­मु­च्चि­च्छि­त्सतः प्रत्य­गा­त्म­वि­ष­य­जि­ज्ञासोः ‘केनेषितम् . . . ’ इत्या­त्म­स्व­रू­प­त­त्त्व­वि­ज्ञा­नाय अयमध्याय आरभ्यते । तेन च मृत्यु­प­द­म­ज्ञा­न­मु­च्छे­त्त­व्यम् ; तत्तन्त्रो हि संसारो यतः । अन­धि­ग­त­त्वा­दा­त्मनो युक्ता तदधिगमाय तद्विषया जिज्ञासा । कर्मविषये चानु­क्ति­स्त­द्वि­रो­धि­त्वात् । अस्य विजि­ज्ञा­सि­त­व्य­स्या­त्म­त­त्त्वस्य कर्मविषयेऽवचनं कस्मादिति चेत् , आत्मनो हि यथावद्विज्ञानं कर्मणा विरुध्यते । निर­ति­श­य­ब्र­ह्म­स्व­रूपो ह्यात्मा विजि­ज्ञा­प­यि­षितः, ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदम्’(के. उ. १ । ४) इत्यादिश्रुतेः । न हि स्वारा­ज्येऽ­भि­षिक्तो ब्रह्मत्वं गमितः कञ्चन नमितुमिच्छति । अतो ब्रह्मास्मीति सम्बुद्धौ न कर्म कारयितुं शक्यते । न ह्यात्मा­न­म­वा­प्तार्थं ब्रह्म मन्यमानः प्रवृत्तिं प्रयोजनवतीं पश्यति । न च निष्प्रयोजना प्रवृत्तिः । अतो विरुध्यत एव कर्मणा ज्ञानम् । अतः कर्म­वि­ष­येऽ­नुक्तिः । विज्ञा­न­वि­शे­ष­वि­ष­यैव जिज्ञासा । कर्मानारम्भ इति चेत् , न ; निष्कामस्य संस्का­रा­र्थ­त्वात् । यदि ह्यात्म­वि­ज्ञा­नेन आत्मा­वि­द्या­वि­ष­य­त्वा­त्प­रि­ति­त्या­ज­यि­षितं कर्म, ततः ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’(?) इत्यनारम्भ एव कर्मणः श्रेयान् अल्पफलत्वात् आयासबहुलत्वात् तत्त्व­ज्ञा­ना­देवं च श्रेयःप्राप्तेः इति चेत् , सत्यम् एतदविद्याविषयं कर्म अल्प­फ­ल­त्वा­दि­दो­ष­व­द्ब­न्ध­रूपं च सकामस्य ; ‘कामान्यः कामयते’(मु. उ. ३ । २ । २) ‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६) इत्या­दि­श्रु­तिभ्यः । न निष्कामस्य । तस्य तु संस्का­रा­र्था­न्येव कर्माणि भवन्ति तन्नि­र्व­र्त­क­प्रा­ण­वि­ज्ञा­न­स­हि­तानि । ‘देवयाजी श्रेयानात्मयाजी वा’इत्युपक्रम्य ‘आत्मयाजी तु करोतीदं मेऽनेनाङ्गं संस्क्रियते’ इति संस्कारार्थमेव कर्माणीति वाजसनेयके ; ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः । ’(मनु. २ । २८) ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’(भ. गी. १८ । ५) इत्या­दि­स्मृ­तेश्च । प्राणा­दि­वि­ज्ञानं च केवलं कर्मसमुच्चितं वा सकामस्य प्राणा­त्म­प्रा­प्त्य­र्थ­मेव भवति । निष्कामस्य त्वात्म­ज्ञा­न­प्र­ति­ब­न्ध­क­नि­र्मृष्ट्यै भव­त्या­द­र्श­नि­र्मा­र्ज­न­वत् । उत्प­न्ना­त्म­वि­द्यस्य त्वनारम्भः, निरर्थकत्वात् । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’(मो. ध. २४१_७) इति, क्रियापथश्चैव पुर­स्ता­त्सं­न्या­सश्च तयोः संन्यास एवात्यरेचयत् इति, ‘त्यागेनैके’(तै. ना. २८) ‘नान्यः पन्था विद्यते’(श्वे. उ. ३ । ८) इत्या­दि­श्रु­ति­भ्यश्च । न्यायाच्च । उपायभूतानि हि कर्माणि संस्कारद्वारेण ज्ञानस्य । ज्ञानेन त्वमृ­त­त्व­प्राप्तिः, ‘अमृतत्वं हि विन्दते’(के. उ. २ । ४) ‘विद्यया विन्दतेऽमृतम्’(के. उ. २ । ४) इत्या­दि­श्रु­ति­स्मृ­ति­भ्यश्च । न हि नद्याः पारगो नावं न मुञ्चति यथेष्टदेशगमनं प्रति स्वातन्त्र्ये सति । न हि स्वभावसिद्धं वस्तु सिषाधयिषति साधनैः । स्वभा­व­सि­द्ध­श्चात्मा । तथा नापिपयिषितः, आत्मत्वे सति नित्याप्तत्वात् । नापि विचिकारयिषितः, आत्मत्वे सति नित्य­त्वा­द­वि­का­रि­त्वा­द­वि­ष­य­त्वा­द­मू­र्त­त्वाच्च ; श्रुतेश्च ‘न वर्धते कर्मणा’(बृ. उ. ४ । ४ । २३) इत्यादि ; स्मृतेश्च ‘अवि­का­र्योऽ­य­मु­च्यते’(भ. गी. २ । २५) इति । न च सञ्चि­स्की­र्षितः, ‘शुद्ध­म­पा­प­वि­द्धम्’(ई. उ. ८) इत्या­दि­श्रु­तिभ्यः । अनन्यत्वाच्च । अन्ये­ना­न्य­त्सं­स्क्रि­यते । न चात्मनोऽन्यभूता क्रियास्ति । न च स्वेनैवात्मना स्वमात्मानं सञ्चिस्कीर्षेत् । न च वस्त्वन्तराधानं नित्य­प्रा­प्तिर्वा वस्त्वन्तरस्य नित्या । नित्यत्वं चेष्टं मोक्षस्य । अत उत्पन्नविद्यस्य कर्मा­र­म्भोऽ­नु­प­पन्नः । अतो व्यावृ­त्त­बा­ह्य­बु­द्धे­रा­त्म­वि­ज्ञा­नाय ‘केनेषितम्’ इत्याद्यारम्भः ॥

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ॥ १ ॥

प्रवृ­त्ति­लि­ङ्गा­द्वि­शे­षार्थः प्रश्न उपपन्नः । रथादीनां हि चेत­ना­व­द­धि­ष्ठि­तानां प्रवृ­त्ति­र्दृष्टा, न अनधिष्ठितानाम् । मनआदीनां च अचेतनानां प्रवृ­त्ति­र्दृ­श्यते ; तद्धि लिङ्गं चेत­ना­व­तोऽ­धि­ष्ठा­तु­र­स्तित्वे । करणानि हि मनआदीनि नियमेन प्रवर्तन्ते ; तन्नासति चेत­ना­व­त्य­धि­ष्ठा­त­र्यु­प­प­द्यते । तद्विशेषस्य चान­धि­ग­मा­च्चे­त­ना­व­त्य­धि­ष्ठा­तृ­सा­मान्ये चाधिगते विशेषार्थः प्रश्न उपपद्यते । केनेषितं केनेष्टं कस्ये­च्छा­मा­त्रेण मनः पतति गच्छति, स्वविषये नियमेन व्याप्रियत इत्यर्थः । मनुतेऽनेनेति विज्ञा­न­नि­मि­त्त­म­न्तः­क­रणं मनः । प्रेषि­त­मि­वे­त्यु­प­मार्थः । न त्विषि­त­प्रे­षि­त­श­ब्द­यो­र­र्था­विह सम्भवतः । न हि शिष्यानिव मनआदीनि विषयेभ्यः प्रेषयत्यात्मा । विवि­क्त­नि­त्य­चि­त्स्व­रू­प­तया तु निमित्तमात्रं प्रवृत्तौ नित्य­चि­कि­त्सा­धि­ष्ठा­तृ­वत् । प्राण इति नासिकाभवः प्रकरणात् । प्रथमत्वं चलन क्रियायाः प्राण­नि­मि­त्त­त्वात् । स्वतो विषयावभासमात्रं करणानां प्रवृत्तिः । चलिक्रिया तु प्राणस्यैव मनआदिषु । तस्मा­त्प्रा­थम्यं प्राणस्य । प्रैति गच्छति । युक्तः प्रयुक्त इत्येतत् । वाचो वचनं किंनिमित्तं प्राणिनाम् । चक्षुः­श्रो­त्र­योश्च को देवः प्रयोक्ता । करणानामधिष्ठाता चेतनावान्यः, स किंविशेषण इत्यर्थः ॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षु­ष­श्च­क्षु­र­ति­मुच्य धीराः प्रेत्या­स्मा­ल्लो­का­द­मृता भवन्ति ॥ २ ॥

‘श्रोत्रस्य श्रोत्रम्’ इत्या­दि­प्र­ति­व­चनं निर्विशेषस्य निमि­त्त­त्वा­र्थम् । विक्रि­या­दि­वि­शे­ष­र­हि­त­स्या­त्मनो मनआदिप्रवृत्तौ निमि­त्त­त्व­मि­त्ये­तत् ‘श्रोत्रस्य श्रोत्रम्’ इत्या­दि­प्र­ति­व­च­न­स्यार्थः, अनुगमात् । अनुगतानि ह्यस्मि­न्न­र्थेऽ­क्ष­राणि । कथम् ? शृणोत्यनेनेति श्रोत्रम् । तस्य शब्दावभासकत्वं श्रोत्रत्वम् । शब्दो­प­ल­ब्धृ­रू­प­त­या­व­भा­स­कत्वं न स्वतः श्रोत्रस्य ; अचिद्रूपत्वात् , आत्मनश्च चिद्रूपत्वात् । यच्छ्रो­त्र­स्यो­प­ल­ब्धृ­त्वे­ना­व­भा­स­कत्वं तदा­त्म­नि­मि­त्त­त्वा­च्छ्रो­त्रस्य श्रोत्र­मि­त्यु­च्यते । यथा क्षत्रस्य क्षत्रम् , यथा वा उद­क­स्यौ­ष्ण्य­म­ग्नि­नि­मि­त्त­मिति दग्धुरप्युदकस्य दग्धा­ग्नि­रु­च्यते उदकमपि ह्यग्नि­सं­यो­गा­द­ग्नि­रु­च्यते, तद्वदनित्यं यत्सं­यो­गा­दु­प­ल­ब्धृत्वं तत्करणं श्रोत्रादि । उदकस्येव दग्धृत्वमनित्यं हि तत्र तत् । यत्र तु नित्य­मु­प­ल­ब्धृ­त्व­म­ग्ना­वि­वौष्ण्यं स नित्यो­प­ल­ब्धि­स्व­रू­प­त्वात् दग्धे­वो­प­ल­ब्धो­च्यते । श्रोत्रादिषु श्रोतृ­त्वा­द्यु­प­ल­ब्धि­र­नित्या, नित्या चात्मनि । अतः श्रोत्रस्य श्रोत्र­मि­त्या­द्य­क्ष­रा­णा­म­र्था­नु­ग­मा­दु­प­प­द्यते निर्वि­शे­ष­स्यो­प­ल­ब्धि­स्व­रू­प­स्या­त्मनो मन­आ­दि­प्र­वृ­त्ति­नि­मि­त्त­त्व­मिति । मनआदिष्वेवं यथोक्तम् । वाचो ह वाचं प्राणस्य प्राण इति विभक्तिद्वयम् । सर्वत्रैवं हि द्रष्टव्यम् । कथम् ? पृष्टत्वात् स्वरूपनिर्देशः । प्रथमयैव च निर्देशः । तस्य च ज्ञेय­त्वा­त्क­र्म­त्व­मिति द्वितीया । अतो वाचो ह वाचं प्राणस्य प्राण इत्य­स्मा­त्स­र्व­त्रैव विभक्तिद्वयम् । यदे­त­च्छ्रो­त्रा­द्यु­प­ल­ब्धि­नि­मित्तं श्रोत्रस्य श्रोत्र­मि­त्या­दि­ल­क्षणं तत् नित्यो­प­ल­ब्धि­स्व­रूपं निर्वि­शे­ष­मा­त्म­तत्त्वं बुद्ध्वा अतिमुच्य अन­व­बो­ध­नि­मि­त्ता­ध्या­रो­पि­ता­द्बु­द्ध्या­दि­ल­क्ष­णा­त्सं­सा­रा­न्मो­क्षणं कृत्वा धीराः धीमन्तः प्रेत्य अस्मात् लोकात् शरीरात् प्रेत्य वियुज्य अन्य­स्मि­न्न­प्र­ति­स­न्धी­य­माने निर्नि­मि­त्त­त्वा­द­मृता भवन्ति । सति ह्यज्ञाने कर्माणि शरीरान्तरं प्रतिसन्दधते । आत्मावबोधे तु सर्व­क­र्मा­र­म्भ­नि­मि­त्ता­ज्ञा­न­वि­प­री­त­वि­द्या­ग्नि­वि­प्लु­ष्ट­त्वा­त्क­र्म­णा­मिति अनारम्भेऽमृता एव भवन्ति । शरी­रा­दि­स­न्ता­ना­वि­च्छे­द­प्र­ति­स­न्धा­ना­द्य­पे­क्षया अध्या­रो­पि­त­मृ­त्यु­वि­यो­गा­त्पू­र्व­म­प्य­मृताः सन्तो नित्या­त्म­स्व­रू­प­त्वा­द­मृता भव­न्ती­त्यु­प­च­र्यते ॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥

न तत्र चक्षु­र्ग­च्छ­ती­त्यु­क्तेऽपि पर्यनुयोगे हेतु­र­प्र­ति­पत्तेः । ‘श्रोत्रस्य श्रोत्रम्’ इत्ये­व­मा­दि­नो­क्तेऽ­प्या­त्म­तत्त्वे अप्र­ति­प­न्न­त्वा­त्सू­क्ष्म­त्व­हे­तो­र्व­स्तुनः पुनः पुनः पर्य­नु­यु­यु­क्षा­का­र­ण­माह — न तत्र चक्षुर्गच्छतीति । तत्र श्रोत्रा­द्या­त्म­भूते चक्षुरादीनि, वाक्चक्षुषोः सर्वे­न्द्रि­यो­प­ल­क्ष­णा­र्थ­त्वात् , न विज्ञा­न­मु­त्पा­द­यन्ति । सुखादिवत्तर्हि गृह्ये­ता­न्तः­क­र­णेन अत आह — नो मनः, न सुखादिवन्मनसो विषयस्तत् , इन्द्रि­या­वि­ष­य­त्वात् । न विद्मो न विजानीमः अन्तःकरणेन, यथा एतत् ब्रह्म मनआदिकरणजातम् अनुशिष्यात् अनुशासनं कुर्यात् प्रवृ­त्ति­नि­मित्तं यथा भवेत् , तथा अविषयत्वान्न विद्मो न विजानीमः । अथवा श्रोत्रादीनां श्रोत्रा­दि­ल­क्षणं ब्रह्म विशेषेण दर्शयेत्युक्त आचार्य आह — न शक्यते दर्शयितुम् । कस्मात् ? न तत्र चक्षु­र्ग­च्छ­ती­त्यादि पूर्ववत्सर्वम् । अत्र तु विशेषो यथै­त­द­नु­शि­ष्या­दिति । यथैतत् अनुशिष्यात् प्रतिपादयेत् अन्योऽपि शिष्या­नि­तोऽ­न्येन विधि­ने­त्य­भि­प्रायः ॥

अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्त­द्व्या­च­च­क्षिरे ॥ ४ ॥

सर्वथापि ब्रह्म बोधयेत्युक्त आचार्य आह ‘अन्यदेव तद्विदितादथो अविदितादधि’ इत्यागमम् । विदि­ता­वि­दि­ता­भ्या­म­न्यत् यो हि ज्ञाता स एव सः, सर्वात्मकत्वात् । अतः सर्वात्मनो ज्ञातु­र्ज्ञा­त्र­न्त­रा­भा­वा­द्वि­दि­ता­द­न्य­त्वम् । ‘स वेत्ति वेद्यं न च तस्यास्ति वेत्ता’(श्वे. उ. ३ । १९) इति च मन्त्रवर्णात् । ‘विज्ञातारमरे केन विजानीयात्’(बृ. उ. २ । ४ । १४) इति च वाजसनेयके । अपि च व्यक्तमेव विदितं तस्मा­द­न्य­दि­त्य­भि­प्रायः । यद्विदितं व्यक्तं तद­न्य­वि­ष­य­त्वा­दल्पं सविरोधं ततोऽनित्यम् अत एवा­ने­क­त्वा­द­शु­द्धम् अत एव तद्विलक्षणं ब्रह्मेति सिद्धम् । अस्तु तर्ह्यविदितम् । न, विज्ञा­ना­न­पे­क्ष­त्वात् । यद्ध्यविदितं तद्वि­ज्ञा­ना­पे­क्षम् । अविदितविज्ञानाय हि लोकप्रवृत्तिः । इदं तु विज्ञा­ना­न­पे­क्षम् । कस्मात् ? विज्ञा­न­स्व­रू­प­त्वात् । न हि यस्य यत्स्वरूपं तत्ते­ना­न्य­तोऽ­पे­क्ष्यते । न च स्वत एवापेक्षा, अनपेक्षमेव सिद्धत्वात् । न हि प्रदीपः स्वरू­पा­भि­व्यक्तौ प्रका­शा­न्त­र­म­न्य­तोऽ­पे­क्षते, स्वतो वा । यद्ध्यनपेक्षं तत्स्वत एव सिद्धम् , प्रका­शा­त्म­क­त्वात् । प्रदी­प­स्या­न्योऽ­पे­क्षि­तोऽ­प्य­न­र्थकः स्यात् , प्रकाशे विशेषाभावात् । न हि प्रदीपस्य स्वरू­पा­भि­व्यक्तौ प्रदी­प­प्र­का­शोऽ­र्थ­वान् । न चैव­मा­त्म­नोऽ­न्यत्र विज्ञानमस्ति, येन स्वरू­प­वि­ज्ञा­नेऽ­प्य­पे­क्ष्येत । विरोध इति चेत् , न ; अन्यत्वात् । स्वरूपविज्ञाने विज्ञा­न­स्व­रू­प­त्वा­द्वि­ज्ञा­ना­न्तरं नापेक्षत इत्येतदसत् । दृश्यते हि विप­री­त­ज्ञा­न­मा­त्मनि सम्यग्ज्ञानं च — न जाना­म्या­त्मा­न­मिति च, श्रुतेश्च । ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७)‘तत्त्वमसि’(छा. उ. ६ । ८ । ७)‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘आत्मा­न­मे­वा­वेत्’(बृ. उ. १ । ४ । १०)‘आत्मा­न­मे­वा­वेत्’(बृ. उ. १ । ४ । १०) ‘एतं वै तमात्मानं विदित्वा’(बृ. उ. ३ । ५ । १) इति च सर्वत्र श्रुति­ष्वा­त्म­वि­ज्ञाने विज्ञा­ना­न्त­रा­पे­क्षत्वं दृश्यते । तस्मा­त्प्र­त्य­क्ष­श्रु­ति­वि­रोध इति चेत् , न । कस्मात् ? अन्यो हि स आत्मा बुद्ध्या­दि­का­र्य­क­र­ण­स­ङ्घा­ता­त्मा­भि­मा­न­स­न्ता­ना­वि­च्छे­द­ल­क्ष­णोऽ­वि­वे­का­त्मको बुद्ध्या­द्य­व­भा­स­प्र­धा­न­श्च­क्षु­रा­दि­क­रणो नित्य­चि­त्स्व­रू­पा­त्मा­न्तः­सारो यत्रानित्यं विज्ञानमवभासते । बौद्ध­प्र­त्य­या­ना­मा­वि­र्भा­व­ति­रो­भा­व­ध­र्म­क­त्वा­त्त­द्ध­र्म­त­यैव विलक्षणमपि चावभासते । अन्तःकरणस्य मनसोऽपि मनोऽ­न्त­र्ग­त­त्वात् सर्वा­न्त­र­श्रुतेः । अन्तर्गतेन नित्य­वि­ज्ञा­न­स्व­रू­पेण आका­श­व­द­प्र­च­लि­ता­त्मना अन्तर्गर्भभूतेन स बाह्यो बुद्ध्यात्मा तद्विलक्षणः, अनग्निरिवाग्निः अर्चि­र्भि­रि­वाग्नेः प्रत्य­यै­रा­वि­र्भा­व­ति­रो­भा­व­ध­र्म­कै­र्वि­ज्ञा­ना­भा­स­रू­पै­र­नित्यैः अनित्यविज्ञान आत्मा सुखी दुःखी इत्यभ्युपगतो लौकिकैः, अतोऽन्यो नित्य­वि­ज्ञा­न­स्व­रू­पा­दा­त्मनः । तत्र हि विज्ञानापेक्षा विपरीतज्ञानत्वं चोपपद्यते, न पुन­र्नि­त्य­वि­ज्ञाने । ‘तत्त्वमसि’ इति बोधोपदेशो नोपपद्यत इति चेत्, ‘आत्मा­न­मे­वा­वेत्’ इत्येवमादीनि च, नित्य­बो­धा­त्म­क­त्वात् । न ह्यादि­त्योऽ­न्येन प्रकाश्यते ; अत­स्त­द­र्थ­बो­धो­प­दे­शोऽ­न­र्थक एवेति चेत् , न ; लोका­ध्या­रो­पा­पो­हा­र्थ­त्वात् । सर्वात्मनि हि नित्यविज्ञाने बुद्ध्या­द्य­नि­त्य­धर्मा लोकैरध्यारोपिता आत्माविवेकतः ; तदपोहार्थो बोधोपदेशो बोधात्मनः । तत्र च बोधाबोधौ समञ्जसौ । अन्य­नि­मि­त्त­त्वा­दु­दक इवौ­ष्ण्य­म­ग्नि­नि­मि­त्तम् । रात्र्यहनी इवा­दि­त्य­नि­मित्ते लोके नित्या­वौ­ष्ण्य­प्र­का­शा­व­ग्न्या­दि­त्य­यो­र­न्यत्र भावाभावयोः सनि­मि­त्त­त्वा­द­नि­त्या­वि­वो­प­च­र्येते । धक्ष्यत्यग्निः प्रकाशयिष्यति सविता इति तद्वत् । एवं च सुख­दुः­ख­ब­न्ध­मो­क्षा­द्य­ध्या­रोपो लोकस्य तदपेक्ष्य ‘तत्त्वमसि’ ‘आत्मा­न­मे­वा­वेत्’ इत्या­त्मा­व­बो­धो­प­दे­शिन्यः श्रुतयः केव­ल­म­ध्या­रो­पा­पो­हार्थाः । यथा सवितासौ प्रका­श­य­त्या­त्मा­नम् इति तद्वत् बोधा­बो­ध­क­र्तृत्वं च नित्यबोधात्मनि । तस्मा­द­न्य­द­वि­दि­तात् । अधि­श­ब्द­श्चा­न्यार्थे । यद्वा यद्धि यस्याधि तत्त­तोऽ­न्य­त्सा­म­र्थ्यात् , यथाधि भृत्यादीनां राजा । अव्य­क्त­मे­वा­वि­दितं ततोऽ­न्य­दि­त्यर्थः । विदितमविदितं च व्यक्ताव्यक्ते कार्यकारणत्वेन विकल्पिते, ताभ्या­म­न्य­द्ब्रह्म विज्ञानस्वरूपं सर्व­वि­शे­ष­प्र­त्य­स्त­मि­त­मि­त्ययं समुदायार्थः । अत एवात्मत्वान्न हेय उपादेयो वा । अन्यद्ध्यन्येन हेयमुपादेयं वा’ न तेनैव तद्यस्य कस्य­चि­द्घे­य­मु­पा­देयं वा भवति । आत्मा च ब्रह्म सर्वा­न्त­र­त्वा­द­वि­षयः । अतोऽन्यस्यापि न हेयमुपादेयं वा । अन्याभावाच्च । इति शुश्रुम पूर्वे­षा­मि­त्या­ग­मो­प­देशः । व्याचचक्षिरे इत्य­स्वा­तन्त्र्यं तर्क­प्र­ति­षे­धा­र्थम् । ये नः तत् ब्रह्म उक्तवन्तः ते तमेवागमं ब्रह्म­प्र­ति­पा­दकं व्याख्यातवन्तः, न पुनः स्वबु­द्धि­प्र­भ­वेण तर्केणोक्तवन्त इति तस्यैव द्रढिम्ने आग­म­पा­र­म्प­र्या­वि­च्छेदं दर्शयति विद्यास्तुतये । तर्क­स्त्व­न­व­स्थितो भ्रान्तोऽपि भवतीति ॥

यद्वा­चा­न­भ्यु­दितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥

यद्वाचेति मन्त्रानुवादो दृढप्रतीत्यै । ‘अन्यदेव तद्विदितात्’ इति योऽयमागमार्थो ब्राह्मणोक्तः अस्यैव द्रढिम्ने इमे मन्त्राः यद्वाचा इत्यादयः पठ्यन्ते । यत् ब्रह्म वाचा शब्देन अनभ्युदितम् अनभ्युक्तम् , अप्र­का­शि­त­मि­त्ये­तत् । येन वागभ्युद्यत इति वाक्प्र­का­श­हे­तु­त्वोक्तिः । येन प्रकाश्यत इति वाचोऽभिधानस्य अभि­धे­य­प्र­का­श­क­त्वस्य हेतुत्वमुच्यते ब्रह्मणः । उक्तं च ‘केनेषितां वाचमिमां वदन्ति’(के. उ. १ । १) ‘यद्वाचो ह वाचम्’(के. उ. १ । २) इति । तदेव ब्रह्म त्वं विद्धि इत्यविषयत्वेन ब्रह्मण आत्म­न्य­व­स्था­प­नार्थ आम्नायः । यद्वा­चा­न­भ्यु­दितं वाक्प्र­का­श­नि­मित्तं चेति ब्रह्म­णोऽ­वि­ष­य­त्वेन वस्त्व­न्त­र­जि­घृक्षां निवर्त्य स्वात्म­न्ये­वा­व­स्था­प­य­त्या­म्नायः तदेव ब्रह्म त्वं विद्धि इति ; यत्नत उपरमयति नेद­मि­त्यु­पा­स्य­प्र­ति­षे­धाच्च ॥

यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥

यन्मनसेत्यादि समानम् । मनो मतमिति । येन ब्रह्मणा मनोऽपि विषयीकृतं नित्य­वि­ज्ञा­न­स्व­रू­पे­णे­त्ये­तत् । सर्व­क­र­णा­ना­म­वि­ष­य­स्तानि च सव्यापाराणि सविषयाणि नित्य­वि­ज्ञा­न­स्व­रू­पा­व­भा­स­तया येनावभास्यन्त इति श्लोकार्थः । ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’(भ. गी. १३ । ३३) इति स्मृतेः । ‘तस्य भासा’(मु. उ. २ । २ । १०) इति चाथर्वणे । येन प्राण इति क्रिया­श­क्ति­र­प्या­त्म­वि­ज्ञा­न­नि­मि­त्ते­त्ये­तत् ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥