अद्वैतशारदा

केनोपनिषद्वाक्यभाष्यम्

तृतीयः खण्डः

व्याख्याः

ब्रह्म ह देवेभ्य इति ब्रह्मणो दुर्वि­ज्ञे­य­तोक्तिः यत्नाधिक्यार्था । समाप्ता ब्रह्मविद्या यदधीनः पुरुषार्थः । अत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्वि­ज्ञे­य­तो­च्यते । तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति । शमाद्यर्थो वाम्नायः अभिमानशातनात् । शमादि वा ब्रह्म­वि­द्या­सा­धनं विधित्सितं तद­र्थोऽ­य­म­र्थ­वा­दा­म्नायः । न हि शमा­दि­सा­ध­न­र­हि­तस्य अभि­मा­न­रा­ग­द्वे­षा­दि­यु­क्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति, व्यावृ­त्त­बा­ह्य­मि­थ्या­प्र­त्य­य­ग्रा­ह्य­त्वा­द्ब्र­ह्मणः । यस्मा­च्चा­ग्न्या­दीनां जयाभिमानं शातयति, ततश्च ब्रह्मविज्ञानं दर्श­य­त्य­भि­मा­नो­प­शमे, तस्मा­च्छ­मा­दि­सा­ध­न­वि­धा­ना­र्थोऽ­य­म­र्थ­वाद इत्यवसीयते । सगुणोपासनार्थो वा, अपोदितत्वात् । ‘नेदं यदिदमुपासते’(के. उ. १ । ५) इत्युपास्यत्वं ब्रह्म­णोऽ­पो­दि­तम् । अपो­दि­त­त्वा­द­नु­पा­स्यत्वे प्राप्ते तस्यैव ब्रह्मणः सगु­ण­त्वे­ना­धि­दै­व­त­म­ध्यात्मं चोपासनं विधा­त­व्य­मि­त्ये­व­मर्थो वेति । अधिदैवतम् ‘तद्व­न­मि­त्यु­पा­सि­त­व्यम्’(के. उ. ४ । ६) इति हि वक्ष्यति । ब्रह्मेति परः, लिङ्गात् । न ह्यन्यत्र परा­दी­श्व­रा­न्नि­त्य­स­र्व­ज्ञा­त्प­रि­भू­या­ग्न्या­दीं­स्तृणं वज्रीकर्तुं सामर्थ्यमस्ति । ‘तन्न शशाक दग्धुम्’(के. उ. ३ । ६) इत्या­दि­लि­ङ्गा­द्ब्र­ह्म­श­ब्द­वाच्य ईश्वर इत्यवसीयते । न ह्यन्यथा अग्निस्तृणं दग्धुं नोत्सहते वायुर्वा आदातुम् । ईश्वरेच्छया तु तृणमपि वज्री­भ­व­ती­त्यु­प­प­द्यते । तत्सिद्धिर्जगतो नियतप्रवृत्तेः । श्रुति­स्मृ­ति­प्र­सि­द्धि­भि­र्नि­त्य­स­र्व­वि­ज्ञाने ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रा­र्थ­नि­श्च­या­र्थ­मु­च्यते । तस्येश्वरस्य सद्भावसिद्धिः कुतो भवतीति, उच्यते । यदिदं जग­द्दे­व­ग­न्ध­र्व­य­क्ष­र­क्षः­पि­तृ­पि­शा­चा­दि­ल­क्षणं द्युवि­य­त्पृ­थि­व्या­दि­त्य­च­न्द्र­ग्र­ह­न­क्ष­त्र­वि­चित्रं विवि­ध­प्रा­ण्यु­प­भो­ग­यो­ग्य­स्था­न­सा­ध­न­स­म्बन्धि, तद­त्य­न्त­कु­श­ल­शि­ल्पि­भि­रपि दुर्निर्माणं देश­का­ल­नि­मि­त्ता­नु­रू­प­नि­य­त­प्र­वृ­त्ति­नि­वृ­त्ति­क्र­मम् एत­द्भो­क्तृ­क­र्म­वि­भा­ग­ज्ञ­प्र­य­त्न­पू­र्वकं भवितुमर्हति, कार्यत्वे सति यथो­क्त­ल­क्ष­ण­त्वात् , गृह­प्रा­सा­द­र­थ­श­य­ना­स­ना­दि­वत् , विपक्षे आत्मादिवत् । कर्मण एवेति चेत् , न ; परतन्त्रस्य निमि­त्त­मा­त्र­त्वात् । यदि­द­मु­प­भो­ग­वै­चित्र्यं प्राणिनां तत्सा­ध­न­वै­चित्र्यं च देश­का­ल­नि­मि­त्ता­नु­रू­प­नि­य­त­प्र­वृ­त्ति­नि­वृ­त्ति­क्रमं च, तन्न नित्य­स­र्व­ज्ञ­क­र्तृ­कम् ; किं तर्हि, कर्मण एव ; तस्या­चि­न्त्य­प्र­भा­व­त्वात् सर्वैश्च फल­हे­तु­त्वा­भ्यु­प­ग­माच्च । सति कर्मणः फलहेतुत्वे किमी­श्व­रा­धि­क­क­ल्प­न­येति न नित्य­स्ये­श्व­रस्य नित्य­स­र्व­ज्ञ­शक्तेः फलहेतुत्वं चेति चेत् , न ; कर्मण एवो­प­भो­ग­वै­चि­त्र्या­द्यु­प­प­द्यते । कस्मात् ? कर्तृ­त­न्त्र­त्वा­त्क­र्मणः । चिति­म­त्प्र­य­त्न­नि­र्वृत्तं हि कर्म तत्प्र­य­त्नो­प­र­मा­दु­प­रतं सद्देशान्तरे कालान्तरे वा निय­त­नि­मि­त्त­वि­शे­षा­पेक्षं कर्तुः फलं जनयिष्यतीति न युक्त­म­न­पे­क्ष्या­न्य­दा­त्मनः प्रयोक्तृ, कर्तैव फलकाले प्रयोक्तेति चेत् , मया निवर्तितोऽसि त्वां प्रयोक्ष्ये फलाय यदात्मानुरूपं फलमिति न देश­का­ल­नि­मि­त्त­वि­शे­षा­न­भि­ज्ञ­त्वात् । यदि हि कर्ता देशा­दि­वि­शे­षा­भिज्ञः सन्स्वा­त­न्त्र्येण कर्म नियुञ्ज्यात् , ततोऽ­नि­ष्ट­फ­ल­स्या­प्र­योक्ता स्यात् । न च निर्निमित्तं तद­नि­च्छ­या­त्म­स­म­वेतं तच्च­र्म­व­द्वि­क­रोति कर्म । न चात्म­कृ­त­म­क­र्तृ­स­म­वे­त­म­य­स्का­न्त­म­णि­व­दा­क्रष्टृ भवति, प्रधा­न­क­र्तृ­स­म­वे­त­त्वा­त्क­र्मणः । भूताश्रयमिति चेत् , न ; साधनत्वात् । कर्तृक्रियायाः साधनभूतानि भूतानि क्रिया­का­लेऽ­नु­भू­त­व्या­पा­राणि समाप्तौ च हलादिवत्कर्त्रा परित्यक्तानि न फलं कालान्तरे कर्तुमुत्सहन्ते । न हि हलं क्षेत्रा­द्व्री­ही­न्गृहं प्रवेशयति । भूत­क­र्म­णो­श्चा­चे­त­न­त्वा­त्स्वतः प्रवृ­त्त्य­नु­प­पत्तिः । वायुवदिति चेत् , न ; असिद्धत्वात् । न हि वायोरचितिमतः स्वतः प्रवृत्तिः सिद्धा, रथा­दि­ष्व­द­र्श­नात् । शास्त्रात्कर्मण एवेति चेत् — शास्त्रं हि क्रियातः फलसिद्धिमाह नेश्वरादेः ‘स्वर्गकामो यजेत’ इत्यादि । न च प्रमा­णा­धि­ग­त­त्वा­दा­न­र्थक्यं युक्तम् । न चेश्वरास्तित्वे प्रमा­णा­न्त­र­म­स्तीति चेत् , न ; दृष्ट­न्या­य­हा­ना­नु­प­पत्तेः । क्रिया हि द्विविधा दृष्टफला अदृष्टफला च । दृष्टफलापि द्विविधा अनन्तरफला कालान्तरफला च । अनन्तरफला गतिभुजिलक्षणा । कालान्तरफला च कृषि­से­वा­दि­ल­क्षणा । तत्रानन्तरफला फलापवर्गिण्येव । कालान्तरफला तु उत्प­न्न­प्र­ध्वं­सिनी । आत्म­से­व्या­द्य­धीनं हि कृषिसेवादेः फलं यतः । न चोभ­य­न्या­य­व्य­ति­रे­केण स्वतन्त्रं कर्म ततो वा फलं दृष्टम् । तथा च कर्मफलप्राप्तौ न दृष्ट­न्या­य­हा­न­मु­प­प­द्यते । तस्माच्छान्ते यागादिकर्मणि नित्यः कर्तृ­क­र्म­फ­ल­वि­भा­गज्ञ ईश्वरः सेव्या­दि­व­द्या­गा­द्य­नु­रू­प­फ­ल­दा­तो­प­प­द्यते । स चात्मभूतः सर्वस्य सर्व­क्रि­या­फ­ल­प्र­त्य­य­साक्षी नित्य­वि­ज्ञा­न­स्व­भावः संसा­र­ध­र्मै­र­सं­स्पृष्टः । श्रुतेश्च । ‘न लिप्यते लोकदुःखेन बाह्यः’(क. उ. २ । २ । ११) ‘जरां मृत्युमत्येति’(बृ. उ. ३ । ५ । १) ‘विजरो विमृत्युः’(छा. उ. ८ । ७ । १) ‘सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । ७ । १) ‘एष सर्वेश्वरः’(बृ. उ. ४ । ४ । २२) ‘पुण्यं कर्म कारयति’ ‘अनश्नन्नन्यो अभिचाकशीति’(मु. उ. ३ । १ । १) ‘एतस्य वा अक्षरस्य प्रशासने’(बृ. उ. ३ । ८ । ९) इत्याद्या असंसारिण एकस्यात्मनो नित्यमुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते । न चार्थवादाः शक्यन्ते कल्पयितुम् , अनन्ययोगित्वे सति विज्ञा­नो­त्पा­द­क­त्वात् । न चोत्पन्नं विज्ञानं बाध्यते । अप्रतिषेधाच्च । न चेश्वरो नास्तीति निषेधोऽस्ति । प्राप्त्य­भा­वा­दिति चेत् , न ; उक्तत्वात् । ‘न हिंस्यात्’ इति­व­त्प्रा­प्त्य­भा­वा­त्प्र­ति­षेधो नारभ्यत इति चेत् , न ; ईश्वरसद्भावे न्याय­स्यो­क्त­त्वात् । अथवा अप्रतिषेधादिति कर्मणः फलदाने ईश्वरकालादीनां न प्रतिषेधोऽस्ति । न च निमि­त्ता­न्त­र­नि­र­पेक्षं केवलेन कर्त्रैव प्रयुक्तं फलदं दृष्टम् । न च विनष्टोऽपि यागः कालान्तरे फलदो भवति । सेव्य­बु­द्धि­व­त्से­व­केन सर्व­ज्ञे­श्व­र­बुद्धौ तु संस्कृतायां यागादिकर्मणा विनष्टेऽपि कर्मणि सेव्या­दि­वे­श्व­रा­त्फलं कर्तुर्भवतीति युक्तम् । न तु पुनः पदार्था वाक्यशतेनापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति । न हि देशकालान्तरेषु चाग्निरनुष्णो भवति । एवं कर्मणोऽपि कालान्तरे फलं द्विप्र­का­र­मे­वो­प­ल­भ्यते । बीज­क्षे­त्र­सं­स्का­र­प­रि­र­क्षा­वि­ज्ञा­न­व­त्क­र्त्र­पे­क्ष­फलं कृष्यादि, विज्ञा­न­व­त्से­व्य­बु­द्धि­सं­स्का­रा­पे­क्ष­फलं च सेवादि । यागादेः कर्म­ण­स्त­था­वि­ज्ञा­न­व­त्क­र्त्र­पे­क्ष­फ­ल­त्वा­नु­प­पत्तौ काला­न्त­र­फ­ल­त्वा­त्क­र्म­दे­श­का­ल­नि­मि­त्त­वि­पा­क­वि­भा­ग­ज्ञ­बु­द्धि­सं­स्का­रा­पेक्षं फलं भवितुमर्हति, सेवा­दि­क­र्मा­नु­रू­प­फ­ल­ज्ञ­से­व्य­बु­द्धि­सं­स्का­रा­पे­क्ष­फ­ल­स्येव । तस्मात्सिद्धः सर्वज्ञ ईश्वरः सर्व­ज­न्तु­बु­द्धि­क­र्म­फ­ल­वि­भा­ग­साक्षी सर्व­भू­ता­न्त­रात्मा । ‘यत्सा­क्षा­द­प­रो­क्षात्’(बृ. उ. ३ । ४ । १) ‘य आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) इति श्रुतेः । स एव चात्रात्मा जन्तूनाम् , ‘नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’(बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’(बृ. उ. ३ । ८ । ११) इत्या­द्या­त्मा­न्त­र­प्र­ति­षे­ध­श्रुतेः ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति चात्म­त्वो­प­दे­शात् । न हि मृत्पिण्डः काञ्च­ना­त्म­त्वे­नो­प­दि­श्यते । ज्ञान­श­क्ति­क­र्मो­पा­स्यो­पा­स­क­शु­द्धा­शु­द्ध­मु­क्ता­मु­क्त­भे­दा­दा­त्म­भेद एवेति चेत् , न ; भेद­दृ­ष्ट्य­प­वा­दात् । यदुक्तं संसारिणः ईश्वारादनन्या इति तन्न । किं तर्हि ? भेद एव संसार्यात्मनाम् । कस्मात् ? लक्षणभेदात् , अश्वमहिषवत् । कथं लक्षणभेद इति, उच्यते — ईश्वरस्य तावन्नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत् । तद्विपरीतं संसारिणां खद्योतस्येव । तथैव शक्तिभेदोऽपि । नित्या सर्वविषया चेश्वरशक्तिः ; विपरीतेतरस्य । कर्म च चित्स्व­रू­पा­त्म­स­त्ता­मा­त्र­नि­मि­त्त­मी­श्व­रस्य । औष्ण्य­स्व­रू­प­द्र­व्य­स­त्ता­मा­त्र­नि­मि­त्त­द­ह­न­क­र्म­वत् राजा­य­स्का­न्त­प्र­का­श­क­र्म­वच्च स्वात्म­नोऽ­वि­क्रिया रूपम् ; विपरीतमितरस्य । ‘उपासीत’ इति वचनादुपास्य ईश्वरो गुरुराजवत् । उपासकश्चेतरः शिष्यभृत्यवत् । अप­ह­त­पा­प्मा­दि­श्र­व­णा­न्नि­त्य­शुद्ध ईश्वरः । ‘पुण्यो वै पुण्येन’(बृ. उ. ३ । २ । १३) इति वचनाद्विपरीत इतरः । अत एव नित्यमुक्त ईश्वरः । नित्या­शु­द्धि­यो­गा­त्सं­सा­री­तरः । यत्र च ज्ञाना­दि­ल­क्ष­ण­भे­दोऽस्ति तत्र भेदो दृष्टः यथा अश्वमहिषयोः । तथा ज्ञाना­दि­ल­क्ष­ण­भे­दा­दी­श्व­रा­दा­त्मनां भेदोऽस्तीति चेत् , न । कस्मात् ? ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद’(बृ. उ. १ । ४ । १०) ‘ते क्षय्यलोका भवन्ति’(छा. उ. ७ । २५ । २) ‘मृत्योः स मृत्युमाप्नोति’(क. उ. २ । १ । १०) इति भेद­दृ­ष्टि­र्ह्य­पो­द्यते । एक­त्व­प्र­ति­पा­दि­न्यश्च श्रुतयः सहस्रशो विद्यन्ते । यदुक्तं ज्ञाना­दि­ल­क्ष­ण­भे­दा­दिति अत्रोच्यते । न, अनभ्युपगमात् । बुद्ध्यादिभ्यो व्यतिरिक्ता विल­क्ष­णा­श्चे­श्व­रा­द्भि­न्न­ल­क्षणा आत्मानो न सन्ति । एक एवेश्वरश्चात्मा सर्वभूतानां नित्य­मु­क्तोऽ­भ्यु­प­ग­म्यते । बाह्यश्चक्षुः बुद्ध्या­दि­स­मा­हा­र­स­न्ता­ना­ह­ङ्का­र­म­म­त्वा­दि­वि­प­री­त­प्र­त्य­य­प्र­ब­न्धा­वि­च्छे­द­ल­क्षणो नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­रू­प­वि­ज्ञा­ना­त्मे­श्व­र­गर्भो नित्य­वि­ज्ञा­ना­व­भासः चित्त­चै­त्त्य­बी­ज­बी­जि­स्व­भावः कल्पि­तोऽ­नि­त्य­वि­ज्ञान ईश्व­र­ल­क्ष­ण­वि­प­री­तोऽ­भ्यु­प­ग­म्यते । यस्याविच्छेदे संसारव्यवहारः ; विच्छेदे च मोक्षव्यवहारः । अन्यश्च मृत्प्र­ले­प­व­त्प्र­त्य­क्ष­प्र­ध्वंसो देव­पि­तृ­म­नु­ष्या­दि­ल­क्षणो भूतविशेषसमाहारो न पुन­श्च­तु­र्थोऽन्यो भिन्नलक्षण ईश्व­रा­द­भ्यु­प­ग­म्यते । बुद्ध्या­दि­क­ल्पि­ता­त्म­व्य­ति­रे­का­भि­प्रा­येण तु लक्ष­ण­भे­दा­दि­त्या­श्र­या­सिद्धो हेतुः, ईश्व­रा­द­न्य­स्या­त्म­नोऽ­स­त्त्वात् । ईश्वरस्यैव विरु­द्ध­ल­क्ष­ण­त्व­म­यु­क्त­मिति चेत् सुख­दुः­खा­दि­यो­गश्च, न ; निमित्तत्वे सति लोक­वि­प­र्य­या­ध्या­रो­प­णात् , सवितृवत् । यथा हि सविता नित्य­प्र­का­श­रू­प­त्वा­ल्लो­का­भि­व्य­क्त्य­न­भि­व्य­क्ति­नि­मि­त्तत्वे सति लोक­दृ­ष्टि­वि­प­र्य­ये­णो­द­या­स्त­म­या­हो­रा­त्रा­दि­क­र्तृ­त्वा­ध्या­रो­प­भा­ग्भ­वति, एवमीश्वरे नित्य­वि­ज्ञा­न­श­क्ति­रूपे लोक­ज्ञा­ना­पो­ह­सु­ख­दुः­ख­स्मृ­त्या­दि­नि­मि­त्तत्वे सति लोक­वि­प­री­त­बु­द्ध्या­ध्या­रो­पितं विपरीतलक्षणत्वं सुखदुःखादयश्च ; न स्वतः । आत्म­दृ­ष्ट्य­नु­रू­पा­ध्या­रो­पाच्च । यथा घना­दि­वि­प्र­की­र्णेऽ­म्बरे येनैव सवितृप्रकाशो न दृश्यते, स आत्म­दृ­ष्ट्य­नु­रू­प­मे­वा­ध्य­स्यति सवितेदानीमिह न प्रकाशयतीति सत्येव प्रकाशेऽन्यत्र भ्रान्त्या । एवमिह बौद्धा­दि­वृ­त्त्यु­द्भ­वा­भि­भ­वा­कु­ल­भ्रा­न्त्या­ध्या­रो­पितः सुखदुःखादियोग उपपद्यते । तत्स्मरणाच्च । तस्यैव ईश्वरस्यैव हि स्मरणम् ‘मत्तः स्मृति­र्ज्ञा­न­म­पो­हनं च’(भ. गी. १५ । १५) ‘नादत्ते कस्यचित्पापम्’(भ. गी. ५ । १५) इत्यादि । अतो नित्यमुक्त एकस्मिन्सवितरीव लोका­वि­द्या­ध्या­रो­पि­त­मी­श्वरे संसारित्वम् ; शास्त्रा­दि­प्रा­मा­ण्या­द­भ्यु­प­ग­त­म­सं­सा­रि­त्व­मि­त्य­वि­रोध इति । एतेन प्रत्येकं ज्ञानादिभेदः प्रत्युक्तः । सौक्ष्म्य­चै­त­न्य­स­र्व­ग­त­त्वा­द्य­वि­शेषे च भेदहेत्वभावात् । विक्रियावत्त्वे चानित्यत्वात् । मोक्षे च विशे­षा­न­भ्यु­प­ग­मात् अभ्युपगमे चानि­त्य­त्व­प्र­स­ङ्गात् । अवि­द्या­व­दु­प­ल­भ्य­त्वाच्च भेदस्य तत्क्ष­येऽ­नु­प­प­त्ति­रिति सिद्धमेकत्वम् । तस्मा­च्छ­री­रे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­य­वे­द­ना­स­न्ता­न­स्या­ह­ङ्का­र­स­म्ब­न्धा­द­ज्ञा­न­बी­जस्य नित्य­वि­ज्ञा­ना­न्य­नि­मि­त्त­स्या­त्म­त­त्त्व­या­था­त्म्य­वि­ज्ञा­ना­द्वि­नि­वृ­त्ता­व­ज्ञा­न­बी­जस्य विच्छेद आत्मनो मोक्षसंज्ञा, विपर्यये च बन्धसंज्ञा ; स्वरू­पा­पे­क्ष­त्वा­दु­भयोः ।

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्ष­न्ता­स्मा­क­मे­वायं विज­योऽ­स्मा­क­मे­वायं महिमेति ॥ १ ॥

ब्रह्म — ह इत्यैतिह्यार्थः — पुरा किल देवा­सु­र­स­ङ्ग्रामे जग­त्स्थि­ति­प­रि­पि­पा­ल­यि­षया आत्मा­नु­शा­स­ना­नु­व­र्तिभ्यो देवेभ्यः अर्थिभ्योऽर्थाय विजिग्ये अजैषीदसुरान् । ब्रह्मण इच्छानिमित्तो विजयो देवानां बभूवेत्यर्थः । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । यज्ञा­दि­लो­क­स्थि­त्य­प­हा­रि­ष्व­सु­रेषु पराजितेषु देवा वृद्धिं पूजां वा प्राप्तवन्तः ॥ १ ॥

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २ ॥

त ऐक्षन्तेति मिथ्या­प्र­त्य­य­त्वा­द्धे­य­त्व­ख्या­प­नार्थ आम्नायः । ईश्वरनिमित्ते विजये स्वसा­म­र्थ्य­नि­मि­त्तोऽ­स्मा­क­मे­वायं विज­योऽ­स्मा­क­मे­वायं महिमेत्यात्मनो जया­दि­श्रे­यो­नि­मित्तं सर्वा­त्मा­न­मा­त्मस्थं सर्व­क­ल्या­णा­स्प­द­मी­श्व­र­मे­वा­त्म­त्वे­ना­बुद्ध्वा पिण्ड­मा­त्रा­भि­मानाः सन्तो यं मिथ्याप्रत्ययं चक्रुः तस्य पिण्ड­मा­त्र­वि­ष­य­त्वेन मिथ्या­प्र­त्य­य­त्वा­त्स­र्वा­त्मे­श्व­र­या­था­त्म्या­व­बो­धेन हात­व्य­ता­ख्या­प­नार्थः तद्धै­षा­मि­त्या­द्या­ख्या­यि­का­म्नायः । तद्ब्रह्म ह किल एषां देवानामभिप्रायं मिथ्या­ह­ङ्का­र­रूपं विजज्ञौ विज्ञातवत् । ज्ञात्वा च मिथ्या­भि­मा­न­शा­त­नेन तदनुजिघृक्षया देवेभ्योऽर्थाय तेषा­मे­वे­न्द्रि­य­गो­चरे नातिदूरे प्रादुर्बभूव महे­श्व­र­श­क्ति­मा­यो­पा­त्ते­ना­त्य­न्ता­द्भु­तेन प्रादुर्भूतं किल केन­चि­द्रू­प­वि­शे­षेण । तत्किलोपलभमाना अपि देवा न व्यजानत न विज्ञातवन्तः किमिदं यदेतद्यक्षं पूज्यमिति ॥ २ ॥

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ३ ॥

तद­भ्य­द्र­व­त्त­म­भ्य­व­दत् कोऽसी­त्य­ग्निर्वा अह­म­स्मी­त्य­ब्र­वी­ज्जा­त­वेदा वा अहमस्मीति ॥ ४ ॥

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥

तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६ ॥

अथ वायुमब्रुवन् वाय­वे­त­द्वि­जा­नीहि किमेतद्यक्षमिति तथेति ॥ ७ ॥

तद­भ्य­द्र­व­त्त­म­भ्य­व­द­त्कोऽ­सीति वायुर्वा अह­म­स्मी­त्य­ब्र­वी­न्मा­त­रिश्वा वा अहमस्मीति ॥ ८ ॥

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९ ॥

तस्मै तृणं निद­धा­वे­त­दा­द­त्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १० ॥

१०

तद्वि­ज्ञा­ना­या­ग्नि­म­ब्रु­वन् । तृण­नि­धा­नेऽ­य­म­भि­प्रायः — अत्य­न्त­स­म्भा­वि­त­यो­र­ग्नि­मा­रु­त­यो­स्तृ­ण­द­ह­ना­दा­ना­शक्त्या आत्मसम्भावना शातिता भवेदिति ॥ ३ - १० ॥

अथे­न्द्र­म­ब्रु­व­न्म­घ­व­न्ने­त­द्वि­जा­नीहि किमेतद्यक्षमिति तथेति तद­भ्य­द्र­व­त्त­स्मा­त्ति­रो­दधे ॥ ११ ॥

११

इन्द्र आदित्यो वज्रभृद्वा, अविरोधात् । इन्द्रोपसर्पणे ब्रह्म तिरोदध इत्य­स्या­य­म­भि­प्रायः — इन्द्रोऽ­ह­मि­त्य­धि­क­त­मोऽ­भि­मा­नोऽस्य ; सोऽह­म­ग्न्या­दिभिः प्राप्तं वाक्स­म्भा­ष­ण­मा­त्र­म­प्य­नेन न प्राप्तोऽ­स्मी­त्य­भि­मानं कथं न नाम जह्यादिति । तद­नु­ग्र­हा­यै­वा­न्त­र्हितं तद्ब्रह्म बभूव ॥ ११ ॥

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति ॥ १२ ॥

१२

स शान्ताभिमान इन्द्रः अत्यर्थं ब्रह्म विजिज्ञासुः यस्मिन्नाकाशे ब्रह्मणः प्रादुर्भाव आसीत्तिरोधानं च, तस्मिन्नेव स्त्रिय­म­ति­रू­पिणीं विद्यामाजगाम । अभि­प्रा­यो­द्बो­ध­हे­तु­त्वा­द्रु­द्र­पत्नी उमा हैमवतीव बहु शोभमाना विद्यैव । विरूपोऽपि विद्यावान्बहु शोभते ॥ १२ ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥