अद्वैतशारदा

केनोपनिषद्वाक्यभाष्यम्

चतुर्थः खण्डः

व्याख्याः

ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥

तस्माद्वा एते देवा अति­त­रा­मि­वा­न्या­न्दे­वा­न्य­द­ग्नि­र्वा­यु­रि­न्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥

तस्माद्वा इन्द्रोऽ­ति­त­रा­मि­वा­न्या­न्दे­वान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इती­न्न्य­मी­मि­षदा३ इत्यधिदैवतम् ॥ ४ ॥

तां च पृष्ट्वा तस्या एव वचनात् विदाञ्चकार विदितवान् । अत इन्द्रस्य बोध­हे­तु­त्वा­द्वि­द्यै­वोमा । ‘विद्या­स­हा­य­वा­नी­श्वरः’ इति स्मृतिः । यस्मा­दि­न्द्र­वि­ज्ञा­न­पू­र्व­क­म­ग्नि­वा­य्वि­न्द्रास्ते हि एनत् नेदिष्ठम् अतिसमीपं ब्रह्मविद्यया ब्रह्म प्राप्ताः सन्तः पस्पर्शुः स्पृष्टवन्तः । ते हि एनत् प्रथमः प्रथमं विदाञ्चकार विदा­ञ्च­क्रु­रि­त्ये­तत् । तस्मात् अतितराम् अतीत्य अतिशयेन दीप्य­न्तेऽ­न्यान् देवान् । ततोऽ­पी­न्द्रोऽ­ति­तरां दीप्यते, आदौ ब्रह्म­वि­ज्ञा­नात् । तस्यैष आदेशः तस्य ब्रह्मण एष वक्ष्यमाणः आदेशः उपासनोपदेश इत्यर्थः । यस्माद्देवेभ्यो विद्युदिव सहसैव प्रादुर्भूतं ब्रह्म द्युतिमत् , तस्माद्विद्युतो विद्योतनं यथा यदेतद्ब्रह्म व्यद्युतत् विद्योतितवत् । आ इत्युपमार्थ आ—शब्दः । यथा घनान्धकारं विदार्य विद्युत्सर्वतः प्रकाशते, एवं तद्ब्रह्म देवानां पुरतः सर्व­तः­प्र­का­श­व­द्व्य­क्ती­भू­तम् । अतो व्यद्यु­त­दि­वे­त्यु­पा­स्यम् । ‘यथा सकृद्विद्युतम्’(बृ. उ. २ । ३ । ६) इति च वाजसनेयके । यस्मा­च्चे­न्द्रो­प­स­र्प­ण­काले न्यमीमिषत् — यथा कश्चि­च्च­क्षु­र्नि­मे­षणं कृतवानिति । इतीदित्यनर्थकौ निपातौ — निमिषितवदिव तिरो­भू­त­मि­त्ये­व­म­धि­दै­वतं देवताया अधि यद्द­र्श­न­म­धि­दै­वतं तत् ॥

अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैत­दु­प­स्म­र­त्य­भीक्ष्णं सङ्कल्पः ॥ ५ ॥

अथ अनन्तरम् अध्यात्मम् आत्मनः अधि आत्मविषयम् अध्यात्मम् उच्यत इति वाक्यशेषः । यदेतत् यथोक्तलक्षणं ब्रह्म गच्छतीव प्राप्नोतीव विष­यी­क­रो­ती­वे­त्यर्थः । न पुनर्विषयीकरोति मनः, अवि­ष­य­त्वा­द्ब्र­ह्मणः । अतो मनो न गच्छति । ‘येनाहुर्मनो मतम्’(के. उ. १ । ५) इति चोक्तम् । गच्छतीवेति तु मनसोऽपि मनस्त्वात् आत्मभूतत्वाच्च ब्रह्मणः तत्समीपे मनो वर्तते इति उपस्मरति अनेन मनसैव तद्ब्रह्म विद्वान्यस्मात् , तस्माद्ब्रह्म गच्छ­ती­वे­त्यु­च्यते । अभीक्ष्णं पुनः पुनः । सङ्कल्पः ब्रह्म­प्रे­षि­तस्य मनसः । अत उप­स्म­र­ण­स­ङ्क­ल्पा­दि­भि­र्लि­ङ्गै­र्ब्रह्म मन­आ­ध्या­त्म­भू­त­मि­त्यु­पा­स्य­मि­त्य­भि­प्रायः ॥

तद्ध तद्वनं नाम तद्व­न­मि­त्यु­पा­सि­तव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ६ ॥

तस्य चाध्या­त्म­मु­पा­सने गुणो विधीयते — तद्ध तद्वनं तदेतद्ब्रह्म तच्च तद्वनं च तत् परोक्षं वनं सम्भजनीयम् । वनतेस्तत्कर्मणः । तस्मात्तद्वनं नाम । ब्रह्मणो गौणं हीदं नाम । तस्मादनेन गुणेन तद्व­न­मि­त्यु­पा­सि­त­व्यम् । स यः कश्चि­दे­त­द्य­थो­क्त­मेवं यथोक्तेन गुणेन वनमित्यनेन नाम्नाभिधेयं ब्रह्म वेद उपास्ते तस्यै­त­त्फ­ल­मु­च्यते — सर्वाणि भूतानि एनम् उपासकम् अभिसंवाञ्छन्ति इहाभिसम्भजन्ते सेवंते स्मेत्यर्थः । यथागुणोपासनं हि फलम् ।

उपनिषदं भो ब्रूहीत्युक्ता त उप­नि­ष­द्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥

उपनिषदं भो ब्रूही­त्यु­क्ता­या­मु­प­नि­षदि शिष्येणोक्त आचार्य आह — उक्ता कथिता ते तुभ्यम् उप­नि­ष­दा­त्मो­पा­स­नम् । अधुना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो ब्राह्मणजातेः उपनिषदम् अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूता­भि­प्रा­योऽ­ब्रू­मे­त्ययं शब्दः ॥

तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥

तस्यै तस्या वक्ष्यमाणाया उपनिषदः तपः ब्रह्मचर्यादि दमः उपशमः कर्म अग्निहोत्रादि इत्येतानि प्रतिष्ठा आश्रयः । एतेषु हि सत्सु ब्राह्म्यु­प­नि­ष­त्प्र­ति­ष्ठिता भवति । वेदाः चत्वारः अङ्गानि च सर्वाणि । प्रति­ष्ठे­त्य­नु­व­र्तते । ब्रह्माश्रया हि विद्या । सत्यं यथा­भू­त­व­च­न­म­पी­डा­क­रम् आयतनं निवासः । सत्यवत्सु हि सर्वं यथोक्तमायतन इवावस्थितम् ॥

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥

तामेतां तपआद्यङ्गां तत्प्रतिष्ठां ब्राह्मी­मु­प­नि­षदं साय­त­ना­मा­त्म­ज्ञा­न­हे­तु­भू­ताम् एवं यथावत् यो वेद अनुवर्तते अनुतिष्ठति, तस्यैतत्फलमाह — अपहत्य पाप्मानम् अपक्षय्य धर्मा­ध­र्मा­वि­त्यर्थः । अनन्ते अपारे अविद्यमानान्ते स्वर्गे लोके सुखप्राये निर्दुःखात्मनि परे ब्रह्मणि ज्येये महति सर्वमहत्तरे प्रतितिष्ठति सर्व­वे­दा­न्त­वेद्यं ब्रह्म आत्मत्वेनावगम्य तदेव ब्रह्म प्रतिपद्यत इत्यर्थः ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ केनो­प­नि­ष­द्वा­क्य­भा­ष्यम् सम्पूर्णम् ॥