अद्वैतशारदा

माण्डूक्योपनिषद्भाष्यम्

आगमप्रकरणम्

व्याख्याः

प्रज्ञा­नां­शु­प्र­तानैः स्थिर­च­र­नि­क­र­व्या­पि­भि­र्व्याप्य लोका -
न्भुक्त्वा भोगा­न्स्थ­वि­ष्ठा­न्पु­न­रपि धिष­णो­द्भा­सि­ता­न्का­म­ज­न्यान् ।
पीत्वा सर्वा­न्वि­शे­षा­न्स्व­पिति मधुरभुङ्मायया भोजयन्नो
माया­स­ङ्ख्या­तु­रीयं परममृतमजं ब्रह्म यत्तन्नतोऽस्मि ॥ १ ॥

यो विश्वात्मा विधि­ज­वि­ष­या­न्प्राश्य भोगान्स्थविष्ठा -
न्पश्चा­च्चा­न्या­न्स्व­म­ति­वि­भ­वा­ञ्ज्यो­तिषा स्वेन सूक्ष्मान् ।
सर्वा­ने­ता­न्पु­न­रपि शनैः स्वात्मनि स्थापयित्वा
हित्वा सर्वा­न्वि­शे­षा­न्वि­ग­त­गु­ण­गणः पात्वसौ नस्तुरीयः ॥ २ ॥

ओमि­त्ये­त­द­क्ष­र­मिदं सर्वं तस्यो­प­व्या­ख्या­नम् । वेदा­न्ता­र्थ­सा­र­स­ङ्ग्र­ह­भू­त­मिदं प्रकरणचतुष्टयम् ओमि­त्ये­त­द­क्ष­र­मि­त्यादि आरभ्यते । अत एव न पृथक् सम्ब­न्धा­भि­धे­य­प्र­यो­ज­नानि वक्तव्यानि । यान्येव तु वेदान्ते सम्ब­न्धा­भि­धे­य­प्र­यो­ज­नानि, तान्येवेहापि भवितुमर्हन्ति ; तथापि प्रक­र­ण­व्या­चि­ख्या­सुना सङ्क्षेपतो वक्तव्यानीति मन्यन्ते व्याख्यातारः । तत्र प्रयो­ज­न­व­त्सा­ध­ना­भि­व्य­ञ्ज­क­त्वे­ना­भि­धे­य­स­म्बद्धं शास्त्रं पारम्पर्येण विशि­ष्ट­स­म्ब­न्धा­भि­धे­य­प्र­यो­ज­न­व­द्भ­वति । किं पुन­स्त­त्प्र­यो­ज­न­मिति, उच्यते — रोगार्तस्येव रोगनिवृत्तौ स्वस्थता, तथा दुःखा­त्म­क­स्या­त्मनो द्वैत­प्र­प­ञ्चो­प­शमे स्वस्थता ; अद्वैतभावः प्रयोजनम् । द्वैतप्रपञ्चस्य चावि­द्या­कृ­त­त्वा­द्वि­द्यया तदुपशमः स्यादिति ब्रह्म­वि­द्या­प्र­का­श­नाय अस्यारम्भः क्रियते । ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) , ‘यत्र वान्यदिव स्यात्त­त्रा­न्योऽ­न्य­त्प­श्ये­द­न्योऽ­न्य­द्वि­जा­नी­यात्’(बृ. उ. ४ । ३ । ३१) ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्तत्केन कं विजानीयात्’(बृ. उ. ४ । ५ । १५) इत्या­दि­श्रु­ति­भ्योऽ­स्या­र्थस्य सिद्धिः । तत्र ताव­दो­ङ्का­र­नि­र्ण­याय प्रथमं प्रक­र­ण­मा­ग­म­प्र­धा­न­मा­त्म­त­त्त्व­प्र­ति­प­त्त्यु­पा­य­भू­तम् । यस्य द्वैत­प्र­प­ञ्च­स्यो­प­शमे अद्वै­त­प्र­ति­पत्तिः रज्ज्वामिव सर्पा­दि­वि­क­ल्पो­प­शमे रज्जु­त­त्त्व­प्र­ति­पत्तिः, तस्य द्वैतस्य हेतुतो वैत­थ्य­प्र­ति­पा­द­नाय द्वितीयं प्रकरणम् । तथा अद्वैतस्यापि वैत­थ्य­प्र­स­ङ्ग­प्राप्तौ, युक्ति­त­स्त­था­त्व­प्र­ति­पा­द­नाय तृतीयं प्रकरणम् । अद्वैतस्य तथा­त्व­प्र­ति­प­त्ति­वि­प­क्ष­भू­तानि यानि वादा­न्त­रा­ण्य­वै­दि­कानि सन्ति, तेषा­म­न्यो­न्य­वि­रो­धि­त्वा­द­त­था­र्थ­त्वेन तदुपपत्तिभिरेव निराकरणाय चतुर्थं प्रकरणम् ॥

ओमि­त्ये­त­द­क्ष­र­मिदं सर्वं तस्यो­प­व्या­ख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव । यच्चा­न्य­त्त्रि­का­ला­तीतं तदप्योङ्कार एव ॥ १ ॥

कथं पुन­रो­ङ्का­र­नि­र्णय आत्म­त­त्त्व­प्र­ति­प­त्त्यु­पा­यत्वं प्रतिपद्यत इति, उच्यते — ‘ओमित्येतत्’(क. उ. १ । २ । १५) ‘एतदालम्बनम्’(क. उ. १ । २ । १७) ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः । तस्मा­द्वि­द्वा­ने­ते­नै­वा­य­त­ने­नै­क­त­र­म­न्वेति’(प्र. उ. ५ । २) ‘ओमित्यात्मानं युञ्जीत’(ना. ७९) ‘ओमिति ब्रह्म’(तै. उ. १ । ८ । १) ‘ओङ्कार एवेदं सर्वम्’(छा. उ. २ । २३ । ३) इत्या­दि­श्रु­तिभ्यः । रज्ज्वादिरिव सर्पा­दि­वि­क­ल्प­स्या­स्प­द­म­द्वय आत्मा परमार्थतः सन्प्रा­णा­दि­वि­क­ल्प­स्या­स्पदं यथा, तथा सर्वोऽपि वाक्प्रपञ्चः प्राणा­द्या­त्म­वि­क­ल्प­वि­षय ओङ्कार एव । स चात्मस्वरूपमेव, तदभिधायकत्वात् । ओङ्का­र­वि­का­र­श­ब्दा­भि­धे­यश्च सर्वः प्राणा­दि­रा­त्म­वि­कल्पः अभि­धा­न­व्य­ति­रे­केण नास्ति ; ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) ‘तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम् , सर्वं हीदं नामनि’(ऐ. आ. २ । १ । ६) इत्या­दि­श्रु­तिभ्यः । अत आह — ओमि­त्ये­त­द­क्ष­र­मिदं सर्वमिति । यदिदम् अर्थ­जा­त­म­भि­धे­य­भू­तम् , तस्य अभि­धा­ना­व्य­ति­रे­कात् , अभिधानभेदस्य च ओङ्का­रा­व्य­ति­रे­कात् ओङ्कार एवेदं सर्वम् । परं च ब्रह्म अभि­धा­ना­भि­धे­यो­पा­य­पू­र्व­क­म­व­ग­म्यत इत्योङ्कार एव । तस्य एतस्य परा­प­र­ब्र­ह्म­रू­प­स्या­क्ष­रस्य ओमित्येतस्य उपव्याख्यानम् , ब्रह्म­प्र­ति­प­त्त्यु­पा­य­त्वा­द्ब्र­ह्म­स­मी­प­तया विस्पष्टं प्रक­थ­न­मु­प­व्या­ख्या­नम् ; प्रस्तुतं वेदितव्यमिति वाक्यशेषः । भूतं भवत् भविष्यत् इति काल­त्र­य­प­रि­च्छेद्यं यत् , तदपि ओङ्कार एव, उक्तन्यायतः । यच्च अन्यत् त्रिकालातीतं कार्याधिगम्यं काला­प­रि­च्छे­द्य­म­व्या­कृ­तादि, तदपि ओङ्कार एव ॥

सर्वं ह्येत­द्ब्र­ह्मा­य­मात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥

अभि­धा­ना­भि­धे­य­यो­रे­क­त्वेऽपि अभि­धा­न­प्रा­धा­न्येन निर्देशः कृतः ‘ओमि­त्ये­त­द­क्ष­र­मिदं सर्वम्’ इत्यादि । अभि­धा­न­प्रा­धा­न्येन निर्दिष्टस्य पुन­र­भि­धे­य­प्रा­धा­न्येन निर्देशः अभि­धा­ना­भि­धे­य­यो­रे­क­त्व­प्र­ति­प­त्त्यर्थः । इतरथा हि अभि­धा­न­त­न्त्रा­भि­धे­य­प्र­ति­प­त्ति­रिति अभि­धे­य­स्या­भि­धा­नत्वं गौणमित्याशङ्का स्यात् । एक­त्व­प्र­ति­प­त्तेश्च प्रयो­ज­न­म­भि­धा­ना­भि­धे­ययोः — एकेनैव प्रयत्नेन युग­प­त्प्र­वि­ला­प­यं­स्त­द्वि­ल­क्षणं ब्रह्म प्रतिपद्येतेति । तथा च वक्ष्यति — ‘पादा मात्रा मात्राश्च पादाः’(मा. उ. ८) इति । तदाह — सर्वं ह्येत­द्ब्र­ह्मेति । सर्वं यदु­क्त­मो­ङ्का­र­मा­त्र­मिति, तदेतत् ब्रह्म । तच्च ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशति — अयमात्मा ब्रह्मेति । अयम् इति चतुष्पात्त्वेन प्रविभज्यमानं प्रत्य­गा­त्म­त­या­भि­न­येन निर्दिशति अयमात्मेति । सोऽयमात्मा ओङ्काराभिधेयः परापरत्वेन व्यवस्थितः चतुष्पात् कार्षापणवत् , न गौरिव । त्रयाणां विश्वादीनां पूर्व­पू­र्व­प्र­वि­ला­प­नेन तुरीयस्य प्रतिपत्तिरिति करणसाधनः पादशब्दः ; तुरीयस्य तु पद्यत इति कर्मसाधनः पादशब्दः ॥

जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूल­भु­ग्वै­श्वा­नरः प्रथमः पादः ॥ ३ ॥

कथं चतु­ष्पा­त्त्व­मि­त्याह — जागरितस्थान इति । जागरितं स्थानमस्येति जागरितस्थानः, बहिःप्रज्ञः स्वात्म­व्य­ति­रिक्ते विषये प्रज्ञा यस्य, सः बहिःप्रज्ञः ; बहिर्विषयेव प्रज्ञा यस्या­वि­द्या­कृ­ता­व­भा­सत इत्यर्थः । तथा सप्त अङ्गान्यस्य ; ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुते­जा­श्च­क्षु­र्वि­श्व­रूपः प्राणः पृथ­ग्व­र्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ’(छा. उ. ५ । १८ । २) इत्य­ग्नि­हो­त्रा­हु­ति­क­ल्प­ना­शे­ष­त्वे­ना­ग्नि­र्मु­ख­त्वे­ना­ह­व­नीय उक्त इत्येवं सप्ताङ्गानि यस्य, सः सप्ताङ्गः । तथा एको­न­विं­श­ति­र्मु­खा­न्यस्य ; बुद्धी­न्द्रि­याणि कर्मेन्द्रियाणि च दश, वायवश्च प्राणादयः पञ्च, मनो बुद्धि­र­ह­ङ्का­र­श्चि­त्त­मिति, मुखानीव मुखानि तानि ; उप­ल­ब्धि­द्वा­रा­णी­त्यर्थः । स एवंविशिष्टो वैश्वानरः यथो­क्तै­र्द्वारैः शब्दा­दी­न्स्थू­ला­न्वि­ष­या­न्भुङ्क्त इति स्थूलभुक् । विश्वेषां नराणामनेकधा सुखा­दि­न­य­ना­द्वि­श्वा­नरः, यद्वा विश्वश्चासौ नरश्चेति विश्वानरः, विश्वानर एव वैश्वानरः, सर्व­पि­ण्डा­त्मा­न­न्य­त्वात् ; स प्रथमः पादः । एत­त्पू­र्व­क­त्वा­दु­त्त­र­पा­दा­धि­ग­मस्य प्राथम्यमस्य । कथम् ‘अयमात्मा ब्रह्म’ इति प्रत्य­गा­त्म­नोऽस्य चतुष्पात्त्वे प्रकृते द्युलोकादीनां मूर्धा­द्य­ङ्ग­त्व­मिति ? नैष दोषः, सर्वस्य प्रपञ्चस्य साधिदैविकस्य अनेनात्मना चतुष्पात्त्वस्य विवक्षितत्वात् । एवं च सति सर्व­प्र­प­ञ्चो­प­शमे अद्वैतसिद्धिः । सर्वभूतस्थश्च आत्मा एको दृष्टः स्यात् ; सर्वभूतानि चात्मनि । ‘यस्तु सर्वाणि भूतानि’(ई. उ. ६) इत्या­दि­श्रु­त्य­र्थ­श्चै­व­मु­प­सं­हृतः स्यात् ; अन्यथा हि स्वदे­ह­प­रि­च्छिन्न एव प्रत्यगात्मा साङ्‍ख्या­दि­भि­रिव दृष्टः स्यात् ; तथा च सति अद्वैतमिति श्रुतिकृतो विशेषो न स्यात् , साङ्‍ख्या­दि­द­र्श­ने­ना­वि­शे­षात् । इष्यते च सर्वोपनिषदां सर्वा­त्मै­क्य­प्र­ति­पा­द­क­त्वम् ; ततो युक्तमेवास्य आध्यात्मिकस्य पिण्डात्मनो द्युलो­का­द्य­ङ्ग­त्वेन विरा­डा­त्म­ना­धि­दै­वि­के­नै­क­त्व­मि­त्य­भि­प्रेत्य सप्ता­ङ्ग­त्व­व­च­नम् । ‘मूर्धा ते व्यपतिष्यत्’(छा. उ. ५ । १२ । २) इत्या­दि­लि­ङ्ग­द­र्श­नाच्च । विरा­जै­क­त्व­मु­प­ल­क्ष­णार्थं हिर­ण्य­ग­र्भा­व्या­कृ­ता­त्मनोः । उक्तं चैत­न्म­धु­ब्रा­ह्मणे — ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चा­य­म­ध्या­त्मम्’(बृ. उ. २ । ५ । १) इत्यादि । सुषु­प्ता­व्या­कृ­त­यो­स्त्वे­कत्वं सिद्धमेव, निर्विशेषत्वात् । एवं च सत्येतत्सिद्धं भविष्यति — सर्वद्वैतोपशमे चाद्वैतमिति ॥

स्वप्न­स्था­नोऽ­न्तः­प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रवि­वि­क्त­भु­क्तै­जसो द्वितीयः पादः ॥ ४ ॥

स्वप्नः स्थानमस्य तैजसस्येति स्वप्नस्थानः । जाग्रत्प्रज्ञा अनेकसाधना बहि­र्वि­ष­ये­वा­व­भा­स­माना मनः­स्प­न्द­न­मात्रा सती तथाभूतं संस्कारं मनस्याधत्ते ; तन्मनः तथा संस्कृतं चित्रित इव पटो बाह्य­सा­ध­ना­न­पे­क्ष­म­वि­द्या­का­म­क­र्मभिः प्रेर्यमाणं जाग्रद्वदवभासते । तथा चोक्तम् — ‘अस्य लोकस्य सर्वावतो मात्रामपादाय’(बृ. उ. ४ । ३ । ९) इत्यादि । तथा ‘परे देवे मनस्येकीभवति’(प्र. उ. ४ । २) इति प्रस्तुत्य ‘अत्रैष देवः स्वप्ने महिमानमनुभवति’(प्र. उ. ४ । ५) इत्याथर्वणे । इन्द्रि­या­पे­क्षया अन्तः­स्थ­त्वा­न्म­नसः तद्वासनारूपा च स्वप्ने प्रज्ञा यस्येति अन्तःप्रज्ञः, विषयशून्यायां प्रज्ञायां केव­ल­प्र­का­श­स्व­रू­पायां विषयित्वेन भवतीति तैजसः । विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्यत्वम् ; इह पुनः केवला वासनामात्रा प्रज्ञा भोज्येति प्रविविक्तो भोग इति । समानमन्यत् । द्वितीयः पादः तैजसः ॥

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यान­न्द­भु­क्चे­तो­मुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥

दर्श­ना­द­र्श­न­वृत्त्योः स्वापस्य तुल्य­त्वा­त्सु­षु­प्त­ग्र­ह­णार्थं यत्र सुप्त इत्यादिविशेषणम् । अथवा, त्रिष्वपि स्थानेषु तत्त्वा­प्र­ति­बो­ध­ल­क्षणः स्वापोऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते — यत्र यस्मिन्स्थाने काले वा सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति । न हि सुषुप्ते पूर्व­यो­रि­वा­न्य­था­ग्र­ह­ण­ल­क्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यते । तदेतत्सुषुप्तं स्थानमस्येति सुषुप्तस्थानः । स्थान­द्व­य­प्र­वि­भक्तं मनःस्पन्दितं द्वैतजातं तथा रूपा­प­रि­त्या­गे­ना­वि­वे­का­पन्नं नैश­त­मो­ग्र­स्त­मि­वाहः सप्र­प­ञ्च­मे­की­भू­त­मि­त्यु­च्यते । अत एव स्वप्न­जा­ग्र­न्म­नः­स्प­न्द­नानि प्रज्ञानानि घनीभूतानीव ; सेयमवस्था अवि­वे­क­रू­प­त्वा­त्प्र­ज्ञा­न­घन उच्यते । यथा रात्रौ नैशेन तमसा अविभज्यमानं सर्वं घनमिव, तद्व­त्प्र­ज्ञा­न­घन एव । एवशब्दान्न जात्यन्तरं प्रज्ञा­न­व्य­ति­रे­के­णा­स्ती­त्यर्थः । मनसो विष­य­वि­ष­य्या­का­र­स्प­न्द­ना­या­स­दुः­खा­भा­वात् आनन्दमयः आनन्दप्रायः ; नानन्द एव, अना­त्य­न्ति­क­त्वात् । यथा लोके निरायासः स्थितः सुख्या­न­न्द­भु­गु­च्यते । अत्य­न्ता­ना­या­स­रूपा हीयं स्थिति­र­ने­ना­त्म­ना­नु­भू­यत इत्यानन्दभुक् , ‘एषोऽस्य परम आनन्दः’(बृ. उ. ४ । ३ । ३२) इति श्रुतेः । स्वप्ना­दि­प्र­ति­बोधं चेतः प्रति द्वारीभूतत्वात् चेतोमुखः ; बोधलक्षणं वा चेतो द्वारं मुखमस्य स्वप्नाद्यागमनं प्रतीति चेतोमुखः । भूत­भ­वि­ष्य­ज्ज्ञा­तृत्वं सर्व­वि­ष­य­ज्ञा­तृ­त्व­म­स्यै­वेति प्राज्ञः । सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञ उच्यते । अथवा, प्रज्ञ­प्ति­मा­त्र­म­स्यैव असाधारणं रूपमिति प्राज्ञः ; इत­र­यो­र्वि­शि­ष्ट­मपि विज्ञानमस्तीति । सोऽयं प्राज्ञस्तृतीयः पादः ॥

एष सर्वेश्वर एष सर्वज्ञ एषोऽ­न्त­र्या­म्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥

एषः हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्य ईश्वरः ईशिता ; नैत­स्मा­ज्जा­त्य­न्त­र­भू­तोऽ­न्ये­षा­मिव, ‘प्राणबन्धनं हि सोम्य मनः’(छा. उ. ६ । ८ । २) इति श्रुतेः । अयमेव हि सर्वस्य सर्वभेदावस्थो ज्ञातेति एषः सर्वज्ञः । अत एव एषः अन्तर्यामी, अन्तरनुप्रविश्य सर्वेषां भूतानां यमयिता नियन्ताप्येष एव । अत एव यथोक्तं सभेदं जगत्प्रसूयत इति एषः योनिः सर्वस्य । यत एवम् , प्रभ­व­श्चा­प्य­यश्च प्रभवाप्ययौ हि भूतानामेष एव ॥

अत्रैते श्लोका भवन्ति —

बहिःप्रज्ञो विभुर्विश्वो ह्यन्तः­प्र­ज्ञस्तु तैजसः ।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्थितः ॥ १ ॥

अत्र एत­स्मि­न्य­थो­क्तेऽर्थे एते श्लोका भवन्ति — बहिःप्रज्ञ इति । पर्यायेण त्रिस्थानत्वात् सोऽहमिति स्मृत्या प्रतिसन्धानाच्च स्थान­त्र­य­व्य­ति­रि­क्त­त्व­मे­कत्वं शुद्ध­त्व­म­स­ङ्गत्वं च सिद्ध­मि­त्य­भि­प्रायः, महा­म­त्स्या­दि­दृ­ष्टा­न्त­श्रुतेः ॥

दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २ ॥

जाग­रि­ता­व­स्था­या­मेव विश्वादीनां त्रया­णा­म­नु­भ­व­प्र­द­र्श­ना­र्थोऽयं श्लोकः — दक्षिणाक्षीति । दक्षिणमक्ष्येव मुखम् , तस्मि­न्प्रा­धा­न्येन द्रष्टा स्थूलानां विश्वः अनुभूयते, ‘इन्धो ह वै नामैष योऽयं दक्षि­णेऽ­क्ष­न्पु­रुषः’(बृ. उ. ४ । २ । २) इति श्रुतेः । इन्धो दीप्तिगुणो वैश्वानर आदीत्यान्तर्गतो वैराज आत्मा चक्षुषि च द्रष्टैकः । नन्वन्यो हिरण्यगर्भः, क्षेत्रज्ञो दक्षि­णेऽ­क्षि­ण्य­क्ष्णो­र्नि­यन्ता द्रष्टा चान्यो देहस्वामी ; न, स्वतो भेदानभ्युपगमात् ; ‘एको देवः सर्वभूतेषु गूढः’(श्वे. उ. ६ । ११) इति श्रुतेः, ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’(भ. गी. १३ । २) ‘अविभक्तं च भूतेषु विभक्तमिव च स्थितम्’(भ. गी. १३ । १६) इति स्मृतेश्च ; सर्वेषु कर­णे­ष्व­वि­शे­षे­ष्वपि दक्षि­णा­क्षि­ण्यु­प­ल­ब्धि­पा­ट­व­द­र्श­ना­त्तत्र विशेषेण निर्देशोऽस्य विश्वस्य । दक्षिणाक्षिगतो दृष्ट्वा रूपं निमी­लि­ता­क्ष­स्त­देव स्मरन्मनस्यन्तः स्वप्न इव तदेव वास­ना­रू­पा­भि­व्यक्तं पश्यति । यथा तत्र तथा स्वप्ने ; अतः मनसि अन्तस्तु तैजसोऽपि विश्व एव । आकाशे च हृदि स्मर­णा­ख्य­व्या­पा­रो­प­रमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति, मनो­व्या­पा­रा­भा­वात् । दर्शनस्मरणे एव हि मनःस्पन्दितम् ; तदभावे हृद्येवाविशेषेण प्राणा­त्म­ना­व­स्था­नम् , ‘प्राणो ह्येवै­ता­न्स­र्वा­न्सं­वृङ्क्ते’(छा. उ. ४ । ३ । ३) इति श्रुतेः । तैजसः हिरण्यगर्भः, मनःस्थत्वात् ; ‘लिङ्गं मनः’(बृ. उ. ४ । ४ । ६) ‘मनोमयोऽयं पुरुषः’(बृ. उ. ५ । ६ । १) इत्या­दि­श्रु­तिभ्यः । ननु, व्याकृतः प्राणः सुषुप्ते ; तदात्मकानि करणानि भवन्ति ; कथमव्याकृतता ? नैष दोषः, अव्याकृतस्य देश­का­ल­वि­शे­षा­भा­वात् । यद्यपि प्राणाभिमाने सति व्याकृततैव प्राणस्य ; तथापि पिण्ड­प­रि­च्छि­न्न­वि­शे­षा­भि­मा­न­नि­रोधः प्राणे भवतीत्यव्याकृत एव प्राणः सुषुप्ते परि­च्छि­न्ना­भि­मा­न­व­ताम् । यथा प्राणलये परि­च्छि­न्ना­भि­मा­निनां प्राणोऽ­व्या­कृतः, तथा प्राणा­भि­मा­नि­नोऽ­प्य­वि­शे­षा­प­त्ता­व­व्या­कृ­तता समाना, प्रस­व­बी­जा­त्म­कत्वं च । तद­ध्य­क्ष­श्चै­कोऽ­व्या­कृ­ता­वस्थः । परि­च्छि­न्ना­भि­मा­नि­ना­म­ध्य­क्षाणां च तेनैकत्वमिति पूर्वोक्तं विशेषणमेकीभूतः प्रज्ञानघन इत्या­द्यु­प­प­न्नम् । तस्मि­न्ने­त­स्मि­न्नु­क्त­हे­तु­स­त्त्वाच्च । कथं प्राण­श­ब्द­त्व­म­व्या­कृ­तस्य ? ‘प्राणबन्धनं हि सोम्य मनः’(छा. उ. ६ । ८ । २) इति श्रुतेः । ननु, तत्र ‘सदेव सोम्य’(छा. उ. ६ । २ । १) इति प्रकृतं सद्ब्रह्म प्राण­श­ब्द­वा­च्यम् ; नैष दोषः, बीजा­त्म­क­त्वा­भ्यु­प­ग­मा­त्सतः । यद्यपि सद्ब्रह्म प्राणशब्दवाच्यं तत्र, तथापि जीव­प्र­स­व­बी­जा­त्म­क­त्व­म­प­रि­त्य­ज्यैव प्राणशब्दत्वं सतः सच्छब्दवाच्यता च । यदि हि निर्बीजरूपं विवक्षितं ब्रह्माभविष्यत् , ‘नेति नेति’(बृ. उ. ४ । ५ । ३)‘नेति नेति’(बृ. उ. २ । ३ । ६) ‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ९ । १)‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ९ । १) ‘अन्यदेव तद्विदितादथो अविदितादधि’(के. उ. १ । ४) इत्यवक्ष्यत् ; ‘न सत्त­न्ना­स­दु­च्यते’(भ. गी. १३ । १२) इति स्मृतेः । निर्बीजतयैव चेत् , सति प्रलीनानां सम्पन्नानां सुषु­प्ति­प्र­ल­ययोः पुन­रु­त्था­ना­नु­प­पत्तिः स्यात् ; मुक्तानां च पुन­रु­त्प­त्ति­प्र­सङ्गः, बीजा­भा­वा­वि­शे­षात् , ज्ञान­दा­ह्य­बी­जा­भावे च ज्ञाना­न­र्थ­क्य­प्र­सङ्गः ; तस्मा­त्स­बी­ज­त्वा­भ्यु­प­ग­मे­नैव सतः प्राण­त्व­व्य­प­देशः, सर्वश्रुतिषु च कारणत्वव्यपदेशः । अत एव ‘अक्षरात्परतः परः’(मु. उ. २ । १ । २) ‘सबा­ह्या­भ्य­न्तरो ह्यजः’(मु. उ. २ । १ । २) ‘यतो वाचो निवर्तन्ते’ ‘नेति नेति’ इत्यादिना बीजत्वापनयनेन व्यपदेशः । तामबीजावस्थां तस्यैव प्राज्ञ­श­ब्द­वा­च्यस्य तुरीयत्वेन देहा­दि­स­म्ब­न्ध­जा­ग्र­दा­दि­र­हितां पारमार्थिकीं पृथग्वक्ष्यति । बीजावस्थापि ‘न किञ्चिदवेदिषम्’ इत्युत्थितस्य प्रत्य­य­द­र्श­ना­द्दे­हेऽ­नु­भू­यत एवेति त्रिधा देहे व्यवस्थित इत्युच्यते ॥

विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ३ ॥

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ ४ ॥

उक्तार्थौ हि श्लोकौ ॥

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ५ ॥

त्रिषु धामसु जाग्रदादिषु स्थूल­प्र­वि­वि­क्ता­न­न्दाख्यं यद्भोज्यमेकं त्रिधाभूतम् ; यश्च विश्व­तै­ज­स­प्रा­ज्ञाख्यो भोक्तैकः ‘सोऽहम्’ इत्येकत्वेन प्रतिसन्धानात् द्रष्टृ­त्वा­वि­शे­षाच्च प्रकीर्तितः ; यो वेद एतदुभयं भोज्यभोक्तृतया अनेकधा भिन्नम् , सः भुञ्जानः न लिप्यते, भोज्यस्य सर्व­स्यै­क­भो­क्तृ­भो­ज्य­त्वात् । न हि यस्य यो विषयः, स तेन हीयते वर्धते वा । न ह्यग्निः स्वविषयं दग्ध्वा काष्ठादि, तद्वत् ॥

प्रभवः सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राण­श्चे­तों­शू­न्पु­रुषः पृथक् ॥ ६ ॥

सतां विद्यमानानां स्वेन अवि­द्या­कृ­त­ना­म­रू­प­मा­या­स्व­रू­पेण सर्वभावानां विश्व­तै­ज­स­प्रा­ज्ञ­भे­दानां प्रभवः उत्पत्तिः । वक्ष्यति च — ‘वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते’(मा. का. ३ । २८) इति । यदि ह्यसतामेव जन्म स्यात् , ब्रह्म­णोऽ­व्य­व­हा­र्यस्य ग्रह­ण­द्वा­रा­भा­वा­द­स­त्त्व­प्र­सङ्गः । दृष्टं च रज्जु­स­र्पा­दी­ना­म­वि­द्या­कृ­त­मा­या­बी­जो­त्प­न्नानां रज्ज्वा­द्या­त्मना सत्त्वम् । न हि निरास्पदा रज्जु­स­र्प­मृ­ग­तृ­ष्णि­का­दयः क्वचि­दु­प­ल­भ्यन्ते केनचित् । यथा रज्ज्वां प्राक्स­र्पो­त्पत्तेः रज्ज्वात्मना सर्पः सन्नेवासीत् , एवं सर्व­भा­वा­ना­मु­त्पत्तेः प्राक्प्रा­ण­बी­जा­त्म­नैव सत्त्वमिति । श्रुतिरपि वक्ति ‘ब्रह्मैवेदम्’(मु. उ. २ । २ । १२) ‘आत्मैवेदमग्र आसीत्’(बृ. उ. १ । ४ । १) इति । अतः सर्वं जनयति प्राणः चेतोंशून् अंशव इव रवे­श्चि­दा­त्म­कस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञ­तै­ज­स­वि­श्व­भे­देन देव­म­नु­ष्य­ति­र्य­गा­दि­दे­ह­भे­देषु विभा­व्य­मा­ना­श्चे­तों­शवो ये, तान् पुरुषः पृथक् सृजति विष­य­भा­व­वि­ल­क्ष­णा­न­ग्नि­वि­स्फु­लि­ङ्ग­व­त्स­ल­क्ष­णान् जलार्कवच्च जीव­ल­क्ष­णां­स्त्वि­त­रा­न्स­र्व­भा­वान् प्राणो बीजात्मा जनयति, ‘यथोर्णनाभिः. . . यथाग्नेः क्षुद्रा विस्फुलिङ्गाः’(बृ. उ. २ । १ । २०) इत्यादिश्रुतेः ॥

विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्न­मा­या­स­रू­पेति सृष्टि­र­न्यै­र्वि­क­ल्पिता ॥ ७ ॥

विभूतिर्विस्तार ईश्वरस्य सृष्टिरिति सृष्टिचिन्तका मन्यन्ते ; न तु पर­मा­र्थ­चि­न्त­कानां सृष्टावादर इत्यर्थः, ‘इन्द्रो मायाभिः पुरुरूप ईयते’(बृ. उ. २ । ५ । १९) इति श्रुतेः । न हि मायाविनं सूत्रमाकाशे निःक्षिप्य तेन सायुधमारुह्य चक्षु­र्गो­च­र­ता­म­तीत्य युद्धेन खण्डशश्छिन्नं पतितं पुनरुत्थितं च पश्यतां तत्कृ­त­मा­या­दि­स­त­त्त्व­चि­न्ता­या­मा­दरो भवति । तथैवायं मायाविनः सूत्रप्रसारणसमः सुषु­प्त­स्व­प्ना­दि­वि­कासः ; तदा­रू­ढ­मा­या­वि­स­मश्च तत्स्थ­प्रा­ज्ञ­तै­ज­सादिः ; सूत्र­त­दा­रू­ढा­भ्या­मन्यः परमार्थमायावी । स एव भूमिष्ठो मायाच्छन्नः अदृश्यमान एव स्थितो यथा, तथा तुरीयाख्यं परमार्थतत्त्वम् । अत­स्त­च्चि­न्ता­या­मे­वा­दरो मुमु­क्षू­णा­मा­र्या­णाम् , न निष्प्रयोजनायां सृष्टावादर इत्यतः सृष्टि­चि­न्त­का­ना­मे­वैते विकल्पा इत्याह — स्वप्न­मा­या­स­रू­पेति । स्वप्नसरूपा मायासरूपा चेति ॥

इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८ ॥

इच्छामात्रं प्रभोः सत्य­स­ङ्क­ल्प­त्वात् सृष्टिः घटादीनां सङ्क­ल्प­ना­मा­त्रम् , न सङ्क­ल्प­ना­ति­रि­क्तम् । कालादेव सृष्टिरिति केचित् ॥

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।
देवस्यैष स्वभा­वोऽ­य­मा­प्त­का­मस्य का स्पृहा ॥ ९ ॥

भोगार्थम् , क्रीडार्थमिति च अन्ये सृष्टिं मन्यन्ते । अनयोः पक्षयोर्दूषणं देवस्यैष स्वभावोऽयमिति देवस्य स्वभा­व­प­क्ष­मा­श्रित्य, सर्वेषां वा पक्षाणाम् — आप्तकामस्य का स्पृहेति । न हि रज्ज्वा­दी­ना­म­वि­द्या­स्व­भा­व­व्य­ति­रे­केण सर्पा­द्या­भा­सत्वे कारणं शक्यं वक्तुम् ॥

इति ।

नान्तःप्रज्ञं नबहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञम् । अदृ­श्य­म­व्य­व­हा­र्य­म­ग्रा­ह्य­म­ल­क्ष­ण­म­चि­न्त्य­म­व्य­प­दे­श्य­मे­का­त्म­प्र­त्य­य­सारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७ ॥

चतुर्थः पादः क्रमप्राप्तो वक्तव्य इत्याह — नान्तः­प्र­ज्ञ­मि­त्या­दिना । सर्व­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­शू­न्य­त्वा­त्तस्य शब्दा­न­भि­धे­य­त्व­मिति विशे­ष­प्र­ति­षे­धे­नैव तुरीयं निर्दिदिक्षति । शून्यमेव तर्हि ; तन्न, मिथ्याविकल्पस्य निर्नि­मि­त्त­त्वा­नु­प­पत्तेः ; न हि रज­त­स­र्प­पु­रु­ष­मृ­ग­तृ­ष्णि­का­दि­वि­कल्पाः शुक्ति­का­र­ज्जु­स्था­णू­ष­रा­दि­व्य­ति­रे­केण अवस्त्वास्पदाः शक्याः कल्पयितुम् । एवं तर्हि प्राणा­दि­स­र्व­वि­क­ल्पा­स्प­द­त्वा­त्तु­री­यस्य शब्द­वा­च्य­त्व­मिति न प्रतिषेधैः प्रत्या­य्य­त्व­मु­द­का­धा­रा­दे­रिव घटादेः ; न, प्राणा­दि­वि­क­ल्प­स्या­व­स्तु­त्वा­च्छु­क्ति­का­दि­ष्विव रजतादेः ; न हि सदसतोः सम्बन्धः शब्द­प्र­वृ­त्ति­नि­मि­त्त­भाक् , अवस्तुत्वात् ; नापि प्रमा­णा­न्त­र­वि­ष­यत्वं स्वरूपेण गवादिवत् , आत्मनो निरुपाधिकत्वात् ; गवादिवन्नापि जातिमत्त्वम् , अद्वितीयत्वेन सामा­न्य­वि­शे­षा­भा­वात् ; नापि क्रियावत्त्वं पाचकादिवत् , अविक्रियत्वात् ; नापि गुणवत्त्वं नीलादिवत् , निर्गुणत्वात् ; अतो नाभिधानेन निर्देशमर्हति । शश­वि­षा­णा­दि­स­म­त्वा­न्नि­र­र्थ­कत्वं तर्हि ; न, आत्मत्वावगमे तुरी­य­स्या­ना­त्म­तृ­ष्णा­व्या­वृ­त्ति­हे­तु­त्वात् शुक्तिकावगम इव रजततृष्णायाः ; न हि तुरी­य­स्या­त्म­त्वा­व­गमे सति अवि­द्या­तृ­ष्णा­दि­दो­षाणां सम्भवोऽस्ति ; न च तुरी­य­स्या­त्म­त्वा­न­व­गमे कारणमस्ति, सर्वोपनिषदां ताद­र्थ्ये­नो­प­क्ष­यात् — ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अयमात्मा ब्रह्म’(बृ. उ. २ । ५ । १९) ‘तत्सत्यं स आत्मा’(छा. उ. ६ । ८ । ७) ‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म’(बृ. उ. ३ । ४ । १) ‘सबा­ह्या­भ्य­न्तरो ह्यजः’(मु. उ. २ । १ । २) ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इत्यादीनाम् । सोऽयमात्मा पर­मा­र्था­प­र­मा­र्थ­रू­प­श्च­तु­ष्पा­दि­त्युक्तः । तस्या­प­र­मा­र्थ­रू­प­म­वि­द्या­कृतं रज्जु­स­र्पा­दि­स­म­मुक्तं पादत्रयलक्षणं बीजा­ङ्कु­र­स्था­नी­यम् । अथे­दा­नी­म­बी­जा­त्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पा­दि­स्था­नी­यो­क्त­स्था­न­त्र­य­नि­रा­क­र­णे­नाह — नान्तः­प्र­ज्ञ­मि­त्या­दिना । नन्वा­त्म­न­श्च­तु­ष्पात्त्वं प्रतिज्ञाय पादत्रयकथनेनैव चतु­र्थ­स्या­न्तः­प्र­ज्ञा­दि­भ्योऽ­न्यत्वे सिद्धे ‘नान्तः­प्र­ज्ञम्’ इत्या­दि­प्र­ति­षे­धोऽ­न­र्थकः ; न, सर्पा­दि­वि­क­ल्प­प्र­ति­षे­धे­नैव रज्जु­स्व­रू­प­प्र­ति­प­त्ति­व­त्त्र्य­व­स्थ­स्यै­वा­त्म­न­स्तु­री­य­त्वेन प्रति­पि­पा­द­यि­षि­त­त्वात् , ‘तत्त्वमसि’ इतिवत् । यदि हि त्र्यव­स्था­त्म­वि­ल­क्षणं तुरीयमन्यत् , तत्प्र­ति­प­त्ति­द्वा­रा­भा­वात् शास्त्रो­प­दे­शा­न­र्थक्यं शून्य­ता­प­त्तिर्वा । रज्जुरिव सर्पा­दि­भि­र्वि­क­ल्प्य­माना स्थान­त्र­येऽ­प्या­त्मैक एव अन्तः­प्र­ज्ञा­दि­त्वेन विकल्प्यते यदा, तदा अन्तः­प्र­ज्ञा­दि­त्व­प्र­ति­षे­ध­वि­ज्ञा­न­प्र­मा­ण­स­म­का­ल­मेव आत्म­न्य­न­र्थ­प्र­प­ञ्च­नि­वृ­त्ति­ल­क्षणं फलं परिसमाप्तमिति तुरीयाधिगमे प्रमाणान्तरं साधनान्तरं वा न मृग्यम् ; रज्जु­स­र्प­वि­वे­क­स­म­काल इव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्वधिगमस्य । येषां पुन­स्त­मो­प­न­य­न­व्य­ति­रे­केण घटाधिगमे प्रमाणं व्याप्रियते, तेषां छेद्या­व­य­व­स­म्ब­न्ध­वि­यो­ग­व्य­ति­रे­केण अन्यतरावयवेऽपि च्छिदि­र्व्या­प्रि­यत इत्युक्तं स्यात् । यदा पुन­र्घ­ट­त­म­सो­र्वि­वे­क­क­रणे प्रवृत्तं प्रमा­ण­म­नु­पा­दि­त्सि­त­त­मो­नि­वृ­त्ति­फ­ला­व­सानं छिदिरिव च्छेद्या­व­य­व­स­म्ब­न्ध­वि­वे­क­क­रणे प्रवृत्ता तद­व­य­व­द्वै­धी­भा­व­फ­ला­व­साना, तदा नान्तरीयकं घटविज्ञानं न प्रमाणफलम् । न च तद्व­द­प्या­त्म­न्य­ध्या­रो­पि­ता­न्तः­प्र­ज्ञ­त्वा­दि­वि­वे­क­क­रणे प्रवृत्तस्य प्रति­षे­ध­वि­ज्ञा­न­प्र­मा­णस्य अनु­पा­दि­त्सि­ता­न्तः­प्र­ज्ञ­त्वा­दि­नि­वृ­त्ति­व्य­ति­रे­केण तुरीये व्यापा­रो­प­पत्तिः, अन्तः­प्र­ज्ञ­त्वादि निवृ­त्ति­स­म­का­ल­मेव प्रमा­तृ­त्वा­दि­भे­द­नि­वृत्तेः । तथा च वक्ष्यति — ‘ज्ञाते द्वैतं न विद्यते’(मा. का. १ । १८) इति । ज्ञानस्य द्वैत­नि­वृ­त्ति­क्ष­ण­व्य­ति­रे­केण क्षणा­न्त­रा­न­व­स्था­नात् , अवस्थाने वा अन­व­स्था­प्र­स­ङ्गा­द्द्वै­ता­नि­वृत्तिः ; तस्मा­त्प्र­ति­षे­ध­वि­ज्ञा­न­प्र­मा­ण­व्या­पा­र­स­म­का­लैव आत्म­न्य­ध्या­रो­पि­ता­न्तः­प्र­ज्ञ­त्वा­द्य­न­र्थ­नि­वृ­त्ति­रिति सिद्धम् । नान्तः­प्र­ज्ञ­मिति तैजसप्रतिषेधः ; नबहिःप्रज्ञमिति विश्वप्रतिषेधः ; नोभ­य­तः­प्र­ज्ञ­मिति जाग­रि­त­स्व­प्न­यो­र­न्त­रा­ला­व­स्था­प्र­ति­षेधः ; नप्रज्ञानघनमिति सुषु­प्ता­व­स्था­प्र­ति­षेधः, बीज­भा­वा­वि­वे­क­स्व­रू­प­त्वात् ; नप्रज्ञमिति युग­प­त्स­र्व­वि­ष­य­ज्ञा­तृ­त्व­प्र­ति­षेधः ; नाप्र­ज्ञ­मि­त्य­चै­त­न्य­प्र­ति­षेधः । कथं पुन­र­न्तः­प्र­ज्ञ­त्वा­दी­ना­मा­त्मनि गम्यमानानां रज्ज्वादौ सर्पा­दि­व­त्प्र­ति­षे­धा­द­सत्त्वं गम्यत इति, उच्यते ; ज्ञस्व­रू­पा­वि­शे­षेऽपि इत­रे­त­र­व्य­भि­चा­रा­द­स­त्यत्वं रज्ज्वादाविव सर्प­धा­रा­दि­वि­क­ल्प­भे­द­वत् ; सर्व­त्रा­व्य­भि­चा­रा­ज्ज्ञ­स्व­रू­पस्य सत्यत्वम् । सुषुप्ते व्यभिचरतीति चेत् ; न, सुषु­प्त­स्या­नु­भू­य­मा­न­त्वात् , ‘न हि विज्ञा­तु­र्वि­ज्ञा­ते­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । ३०) इति श्रुतेः ; अत एव अदृश्यम् । यस्माददृश्यम् , तस्मा­द­व्य­व­हा­र्यम् । अग्राह्यं कर्मेन्द्रियैः । अलक्षणम् अलिङ्गमित्येतत् , अन­नु­मे­य­मि­त्यर्थः । अत एव अचिन्त्यम् । अत एव अव्यपदेश्यं शब्दैः । एका­त्म­प्र­त्य­य­सारं जाग्र­दा­दि­स्था­नेषु एक एवायमात्मा इत्यव्यभिचारी यः प्रत्ययः, तेनानुसरणीयम् ; अथवा, एक आत्मप्रत्ययः सारः प्रमाणं यस्य तुरीयस्याधिगमे, तत्तु­री­य­मे­का­त्म­प्र­त्य­य­सा­रम् , ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) इति श्रुतेः । अन्तः­प्र­ज्ञ­त्वा­दि­स्था­नि­ध­र्म­प्र­ति­षेधः कृतः । प्रपञ्चोपशममिति जाग्र­दा­दि­स्था­न­ध­र्मा­भाव उच्यते । अत एव शान्तम् अविक्रियम् , शिवं यतः अद्वैतं भेदविकल्परहितं चतुर्थं तुरीयं मन्यन्ते, प्रती­य­मा­न­पा­द­त्र­य­रू­प­वै­ल­क्ष­ण्यात् । स आत्मा स विज्ञेयः इति । प्रती­य­मा­न­स­र्प­द­ण्ड­भू­च्छि­द्रा­दि­व्य­ति­रिक्ता यथा रज्जुः, तथा ‘तत्त्वमसि’ इत्या­दि­वा­क्यार्थः आत्मा ‘अदृष्टो द्रष्टा’(बृ. उ. ३ । ७ । २३) ‘न हि द्रष्टु­दृ­ष्टे­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २३) इत्यादिभिरुक्तो यः, स विज्ञेय इति भूतपूर्वगत्या । ज्ञाते द्वैताभावः ॥

अत्रैते श्लोका भवन्ति —

निवृत्तेः सर्व­दुः­खा­ना­मी­शानः प्रभुरव्ययः ।
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ १० ॥

अत्रैते श्लोका भवन्ति । प्राज्ञ­तै­ज­स­वि­श्व­ल­क्ष­णानां सर्वदुःखानां निवृत्तेः ईशानः तुरीय आत्मा । ईशान इत्यस्य पदस्य व्याख्यानं प्रभुरिति ; दुःखनिवृत्तिं प्रति प्रभु­र्भ­व­ती­त्यर्थः, तद्वि­ज्ञा­न­नि­मि­त्त­त्वा­द्दुः­ख­नि­वृत्तेः । अव्ययः न व्येति, स्वरूपान्न व्यभिचरति न च्यवत इत्येतत् । कुतः ? यस्मात् अद्वैतः, सर्वभावानाम् — सर्पादीनां रज्जुरद्वया सत्या च ; एवं तुरीयः, ‘न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २३) इति श्रुतेः — अतो रज्जु­स­र्प­व­न्मृ­षा­त्वात् । स एष देवः द्योतनात् तुर्यः चतुर्थः विभुः व्यापी स्मृतः ॥

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥ ११ ॥

विश्वादीनां सामा­न्य­वि­शे­ष­भावो निरूप्यते तुर्य­या­था­त्म्या­व­धा­र­णा­र्थम् — कार्यं क्रियत इति फलभावः, कारणं करोतीति बीजभावः । तत्त्वा­ग्र­ह­णा­न्य­था­ग्र­ह­णाभ्यां बीजफलभावाभ्यां तौ यथोक्तौ विश्वतैजसौ बद्धौ सङ्गृहीतौ इष्येते । प्राज्ञस्तु बीजभावेनैव बद्धः । तत्त्वा­प्र­ति­बो­ध­मा­त्र­मेव हि बीजं प्राज्ञत्वे निमित्तम् । ततः द्वौ तौ बीजफलभावौ तत्त्वा­ग्र­ह­णा­न्य­था­ग्र­हणे तुरीये न सिध्यतः न विद्येते, न सम्भवत इत्यर्थः ॥

नात्मानं न परं चैव न सत्यं नापि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ १२ ॥

कथं पुनः कारणबद्धत्वं प्राज्ञस्य तुरीये वा तत्त्वा­ग्र­ह­णा­न्य­था­ग्र­ह­ण­ल­क्षणौ बन्धौ न सिध्यत इति ? यस्मात् — आत्मानम् , विलक्षणम् , अवि­द्या­बी­ज­प्र­सूतं वेद्यं बाह्यं द्वैतम् — प्राज्ञो न किञ्चन संवेत्ति, यथा विश्वतैजसौ ; ततश्चासौ तत्त्वाग्रहणेन तमसा अन्य­था­ग्र­ह­ण­बी­ज­भू­तेन बद्धो भवति । यस्मात् तुर्यं तत्सर्वदृक्सदा तुरी­या­द­न्य­स्या­भा­वात् सर्वदा सदैव भवति, सर्वं च तद्दृक्चेति सर्वदृक् ; तस्मान्न तत्त्वा­ग्र­ह­ण­ल­क्षणं बीजम् । तत्र तत्प्र­सू­त­स्या­न्य­था­ग्र­ह­ण­स्या­प्यत एवाभावः । न हि सवितरि सदाप्रकाशात्मके तद्वि­रु­द्ध­म­प्र­का­श­न­म­न्य­था­प्र­का­शनं वा सम्भवति, ‘न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २३) इति श्रुतेः । अथवा, जाग्र­त्स्व­प्नयोः सर्वभूतावस्थः सर्व­व­स्तु­दृ­गा­भा­स­स्तु­रीय एवेति सर्वदृक्सदा, ‘नान्यदतोऽस्ति द्रष्टृ’(बृ. उ. ३ । ८ । ११) इत्यादिश्रुतेः ॥

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३ ॥

निमि­त्ता­न्त­र­प्रा­प्ता­श­ङ्का­नि­वृ­त्त्य­र्थोऽयं श्लोकः — कथं द्वैताग्रहणस्य तुल्यत्वे कारणबद्धत्वं प्राज्ञस्यैव, न तुरीयस्येति प्राप्ता आशङ्का निवर्त्यते ; यस्मात् बीजनिद्रायुतः, तत्त्वा­प्र­ति­बोधो निद्रा ; सैव च विशे­ष­प्र­ति­बो­ध­प्र­स­वस्य बीजम् ; सा बीजनिद्रा ; तया युतः प्राज्ञः । सदा­स­र्व­दृ­क्स्व­भा­व­त्वा­त्त­त्त्वा­प्र­ति­बो­ध­ल­क्षणा बीजनिद्रा तुर्ये न विद्यते ; अतो न कार­ण­ब­न्ध­स्त­स्मि­न्नि­त्य­भि­प्रायः ॥

स्वप्न­नि­द्रा­यु­ता­वाद्यौ प्राज्ञ­स्त्व­स्व­प्न­नि­द्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ १४ ॥

स्वप्नः अन्यथाग्रहणं सर्प इव रज्ज्वाम् , निद्रोक्ता तत्त्वा­प्र­ति­बो­ध­ल­क्षणं तम इति ; ताभ्यां स्वप्न­नि­द्राभ्यां युतौ विश्वतैजसौ ; अतस्तौ कार्य­का­र­ण­ब­द्धा­वि­त्युक्तौ । प्राज्ञस्तु स्वप्नवर्जितया केवलयैव निद्रया युत इति कारणबद्ध इत्युक्तम् । नोभयं पश्यन्ति तुरीये निश्चिताः ब्रह्मविद इत्यर्थः, विरु­द्ध­त्वा­त्स­वि­त­रीव तमः । अतो न कार्यकारणबद्ध इत्यु­क्त­स्तु­रीयः ॥

अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १५ ॥

कदा तुरीये निश्चितो भवतीत्युच्यते — स्वप्नजागरितयोः अन्यथा रज्ज्वां सर्पवत् गृह्णतः तत्त्वं स्वप्नो भवति ; निद्रा तत्त्वमजानतः तिसृष्ववस्थासु तुल्या । स्वप्न­नि­द्र­यो­स्तु­ल्य­त्वा­द्वि­श्व­तै­ज­स­यो­रे­क­रा­शि­त्वम् । अन्य­था­ग्र­ह­ण­प्रा­धा­न्याच्च गुणभूता निद्रेति तस्मि­न्वि­प­र्यासः स्वप्नः । तृतीये तु स्थाने तत्त्वा­ग्र­ह­ण­ल­क्षणा निद्रैव केवला विपर्यासः । अतः तयोः कार्य­का­र­ण­स्था­नयोः अन्य­था­ग्र­ह­ण­त­त्त्वा­ग्र­ह­ण­ल­क्ष­ण­वि­प­र्यासे कार्य­का­र­ण­ब­न्ध­रूपे पर­मा­र्थ­त­त्त्व­प्र­ति­बो­धतः क्षीणे तुरीयं पदमश्नुते ; तदा उभयलक्षणं बन्धनं तत्रा­प­श्यं­स्तु­रीये निश्चितो भवतीत्यर्थः ॥

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अज­म­नि­द्र­म­स्व­प्न­म­द्वैतं बुध्यते तदा ॥ १६ ॥

योऽयं संसारी जीवः, सः उभयलक्षणेन तत्त्वा­प्र­ति­बो­ध­रू­पेण बीजात्मना, अन्य­था­ग्र­ह­ण­ल­क्ष­णेन चाना­दि­का­ल­प्र­वृ­त्तेन मायालक्षणेन स्वापेन, ममायं पिता पुत्रोऽयं नप्ता क्षेत्रं गृहं पशवः, अहमेषां स्वामी सुखी दुःखी क्षयितोऽहमनेन वर्धितश्चानेन इत्ये­वं­प्र­का­रा­न्स्व­प्नान् स्थानद्वयेऽपि पश्यन्सुप्तः, यदा वेदा­न्ता­र्थ­त­त्त्वा­भि­ज्ञेन परमकारुणिकेन गुरुणा ‘नास्येवं त्वं हेतुफलात्मकः, किन्तु तत्त्वमसि’ इति प्रतिबोध्यमानः, तदैवं प्रतिबुध्यते । कथम् ? नास्मि­न्बा­ह्य­मा­भ्य­न्तरं वा जन्मा­दि­भा­व­वि­का­रोऽस्ति, अतः अजम् ‘सबा­ह्या­भ्य­न्तरो ह्यजः’(मु. उ. २ । १ । २) इति श्रुतेः, सर्व­भा­व­वि­का­र­व­र्जि­त­मि­त्यर्थः । यस्मा­ज्ज­न्मा­दि­का­र­ण­भू­तम् , नास्मि­न्न­वि­द्या­त­मो­बीजं निद्रा विद्यत इति अनिद्रम् ; अनिद्रं हि तत्तुरीयम् ; अत एव अस्वप्नम् , तन्नि­मि­त्त­त्वा­द­न्य­था­ग्र­ह­णस्य । यस्माच्च अनिद्रमस्वप्नम् , तस्मादजम् अद्वैतं तुरीयमात्मानं बुध्यते तदा ॥

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥

प्रप­ञ्च­नि­वृत्त्या चेत्प्र­ति­बु­ध्यते, अनिवृत्ते प्रपञ्चे कथमद्वैतमिति, उच्यते । सत्यमेवं स्यात्प्रपञ्चो यदि विद्येत ; रज्ज्वां सर्प इव कल्पितत्वान्न तु स विद्यते । विद्यमानश्चेत् निवर्तेत, न संशयः । न हि रज्ज्वां भ्रान्ति­बुद्ध्या कल्पितः सर्पो विद्यमानः सन्विवेकतो निवृत्तः ; न च माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षु­र्ब­न्धा­प­गमे विद्यमाना सती निवृत्ता ; तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतम् ; रज्जु­व­न्मा­या­वि­वच्च अद्वैतं परमार्थतः ; तस्मान्न कश्चित्प्रपञ्चः प्रवृत्तो निवृत्तो वास्ती­त्य­भि­प्रायः ॥

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १८ ॥

ननु शास्ता शास्त्रं शिष्य इत्ययं विकल्पः कथं निवृत्त इति, उच्यते — विकल्पो विनिवर्तेत यदि केनचित्कल्पितः स्यात् । यथा अयं प्रपञ्चो माया­र­ज्जु­स­र्प­वत् , तथा अयं शिष्या­दि­भे­द­वि­क­ल्पोऽपि प्राक्प्र­ति­बो­धा­दे­वो­प­दे­श­नि­मित्तः ; अत उपदेशादयं वादः — शिष्यः शास्ता शास्त्रमिति । उपदेशकार्ये तु ज्ञाने निर्वृत्ते ज्ञाते परमार्थतत्त्वे, द्वैतं न विद्यते ॥

इति ।

सोऽय­मा­त्मा­ध्य­क्ष­र­मो­ङ्का­रोऽ­धि­मात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८ ॥

अभि­धे­य­प्रा­धा­न्येन ओङ्का­र­श्च­तु­ष्पा­दा­त्मेति व्याख्यातो यः, सोऽयम् आत्मा अध्यक्षरम् अक्षरमधिकृत्य अभि­धा­न­प्रा­धा­न्येन वर्ण्य­मा­नोऽ­ध्य­क्ष­रम् । किं पुन­स्त­द­क्ष­र­मि­त्याह — ओङ्कारः । सोऽयमोङ्कारः पादशः प्रविभज्यमानः, अधिमात्रं मात्रामधिकृत्य वर्तत इत्यधिमात्रम् । कथम् ? आत्मनो ये पादाः, ते ओङ्कारस्य मात्राः । कास्ताः ? अकार उकारो मकार इति ॥

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा­प्ते­रा­दि­म­त्त्वा­द्वा­प्नोति ह वै सर्वा­न्का­मा­ना­दिश्च भवति य एवं वेद ॥ ९ ॥

तत्र विशेषनियमः क्रियते — जागरितस्थानः वैश्वानरः यः, स ओङ्कारस्य अकारः प्रथमा मात्रा । केन सामान्येनेत्याह — आप्तेः ; आप्ति­र्व्याप्तिः ; अकारेण सर्वा वाग्व्याप्ता, ‘अकारो वै सर्वा वाक्’(ऐ. आ. २ । ३ । १९) इति श्रुतेः । तथा वैश्वानरेण जगत् , ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः’(छा. उ. ५ । १८ । २) इत्यादिश्रुतेः । अभि­धा­ना­भि­धे­य­यो­रे­कत्वं चावोचाम । आदिरस्य विद्यत इत्यादिमत् ; यथैव आदि­म­द­का­रा­ख्य­म­क्ष­रम् , तथा वैश्वानरः ; तस्माद्वा सामा­न्या­द­का­रत्वं वैश्वानरस्य । तदेकत्वविदः फलमाह — आप्नोति ह वै सर्वान्कामान् , आदिः प्रथमश्च भवति महताम् , य एवं वेद, यथोक्तमेकत्वं वेदेत्यर्थः ॥

स्वप्न­स्था­न­स्तै­जस उकारो द्वितीया मात्रो­त्क­र्षा­दु­भ­य­त्वा­द्वो­त्क­र्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्या­ब्र­ह्म­वि­त्कुले भवति य एवं वेद ॥ १० ॥

१०

स्वप्नस्थानः तैजसः यः, स ओङ्कारस्य उकारः द्वितीया मात्रा । केन सामान्येनेत्याह — उत्कर्षात् ; अकारादुत्कृष्ट इव ह्युकारः ; तथा तैजसो विश्वात् । उभयत्वाद्वा ; अका­र­म­का­र­यो­र्म­ध्यस्थ उकारः ; तथा विश्व­प्रा­ज्ञ­यो­र्मध्ये तैजसः ; अत उभ­य­भा­क्त्व­सा­मा­न्यात् । विद्व­त्फ­ल­मु­च्यते — उत्कर्षति ह वै ज्ञानसन्ततिं विज्ञानसन्ततिं वर्धयतीत्यर्थः ; समानः तुल्यश्च, मित्रपक्षस्येव शत्रु­प­क्षा­णा­म­प्य­प्र­द्वेष्यो भवति ; अब्रह्मविच्च अस्य कुले न भवति, य एवं वेद ॥

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥

११

सुषुप्तस्थानः प्राज्ञः यः, स ओङ्कारस्य मकारः तृतीया मात्रा । केन सामान्येनेत्याह — सामान्यमिदमत्र — मितेः ; मितिर्मानम् ; मीयेते इव हि विश्वतैजसौ प्राज्ञेन प्रल­यो­त्पत्त्योः प्रवे­श­नि­र्ग­माभ्यां प्रस्थेनेव यवाः ; तथा ओङ्कारसमाप्तौ पुनः प्रयोगे च प्रविश्य निर्गच्छत इव अकारोकारौ मकारे । अपीतेर्वा ; अपीतिरप्यय एकीभावः ; ओङ्कारोच्चारणे हि अन्त्येऽक्षरे एकीभूताविव अकारोकारौ ; तथा विश्वतैजसौ सुषुप्तकाले प्राज्ञे । अतो वा सामान्यादेकत्वं प्राज्ञमकारयोः । विद्वत्फलमाह — मिनोति ह वै इदं सर्वम् , जगद्याथात्म्यं जानातीत्यर्थः ; अपीतिश्च जगत्कारणात्मा च भवतीत्यर्थः । अत्रा­वा­न्त­र­फ­ल­व­चनं प्रधा­न­सा­ध­न­स्तु­त्य­र्थम् ॥

अत्रैते श्लोका भवन्ति —

विश्व­स्या­त्व­वि­व­क्षा­या­मा­दि­सा­मा­न्य­मु­त्क­टम् ।
मात्रा­स­म्प्र­ति­पत्तौ स्यादा­प्ति­सा­मा­न्य­मेव च ॥ १९ ॥

अत्र एते श्लोका भवन्ति । विश्वस्य अत्वम् अकारमात्रत्वं यदा विवक्ष्यते, तदा आदित्वसामान्यम् उक्तन्यायेन उत्कटम् उद्भूतं दृश्यत इत्यर्थः । अत्व­वि­व­क्षा­या­मि­त्यस्य व्याख्यानम् — मात्रा­स­म्प्र­ति­पत्तौ इति । विश्वस्य अकारमात्रत्वं यदा सम्प्रतिपद्यते इत्यर्थः । आप्तिसामान्यमेव च, उत्क­ट­मि­त्य­नु­व­र्तते, च - शब्दात् ॥

तैज­स­स्यो­त्व­वि­ज्ञान उत्कर्षो दृश्यते स्फुटम् ।
मात्रा­स­म्प्र­ति­पत्तौ स्यादुभयत्वं तथाविधम् ॥ २० ॥

तैजसस्य उत्वविज्ञाने उका­र­त्व­वि­व­क्षा­याम् उत्कर्षो दृश्यते स्फुटं स्पष्टमित्यर्थः । उभयत्वं च स्फुटमेवेति । पूर्ववत्सर्वम् ॥

मकारभावे प्राज्ञस्य मान­सा­मा­न्य­मु­त्क­टम् ।
मात्रा­स­म्प्र­ति­पत्तौ तु लयसामान्यमेव च ॥ २१ ॥

मकारत्वे प्राज्ञस्य मिति­ल­या­वु­त्कृष्टे सामान्ये इत्यर्थः ॥

त्रिषु धामसु यस्तुल्यं सामान्यं वेत्ति निश्चितः ।
स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ २२ ॥

यथो­क्त­स्था­न­त्रये यः तुल्यमुक्तं सामान्यं वेत्ति, एवमेवैतदिति निश्चितः सन् सः पूज्यः वन्द्यश्च ब्रह्मवित् लोके भवति ॥

अकारो नयते विश्व­मु­का­र­श्चापि तैजसम् ।
मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ २३ ॥

यथोक्तैः सामान्यैः आत्मपादानां मात्राभिः सह एकत्वं कृत्वा यथोक्तोङ्कारं प्रतिपद्यते यो ध्यायी, तम् अकारः नयते विश्वं प्रापयति । अका­रा­ल­म्ब­न­मो­ङ्कारं विद्वा­न्वै­श्वा­नरो भवतीत्यर्थः । तथा उकारः तैजसम् ; मकारश्चापि पुनः प्राज्ञम् , च - शब्दान्नयत इत्यनुवर्तते । क्षीणे तु मकारे बीजभावक्षयात् अमात्रे ओङ्कारे गतिः न विद्यते क्वचिदित्यर्थः ॥

इति ।

अमा­त्र­श्च­तु­र्थोऽ­व्य­व­हार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संवि­श­त्या­त्म­ना­त्मानं य एवं वेद ॥ १२ ॥

१२

अमात्रः मात्रा यस्य न सन्ति, सः अमात्रः ओङ्कारः चतुर्थः तुरीयः आत्मैव केवलः अभि­धा­ना­भि­धे­य­रू­प­यो­र्वा­ङ्म­न­सयोः क्षीणत्वात् अव्यवहार्यः ; प्रपञ्चोपशमः शिवः अद्वैतः संवृत्तः एवं यथो­क्त­वि­ज्ञा­न­वता प्रयुक्त ओङ्का­र­स्त्रि­मा­त्र­स्त्रि­पाद आत्मैव ; संविशति आत्मना स्वेनैव स्वं पार­मा­र्थि­क­मा­त्मा­नम् , य एवं वेद ; परमार्थदर्शनात् ब्रह्मवित् तृतीयं बीजभावं दग्ध्वा आत्मानं प्रविष्ट इति न पुनर्जायते, तुरी­य­स्या­बी­ज­त्वात् । न हि रज्जु­स­र्प­यो­र्वि­वेके रज्ज्वां प्रविष्टः सर्पः बुद्धि­सं­स्का­रा­त्पुनः पूर्व­व­त्त­द्वि­वे­कि­ना­मु­त्था­स्यति । मन्दमध्यमधियां तु प्रति­प­न्न­सा­ध­क­भा­वानां सन्मार्गगामिनां संन्यासिनां मात्राणां पादानां च क्लृप्त­सा­मा­न्य­विदां यथावदुपास्यमान ओङ्कारो ब्रह्म­प्र­ति­प­त्तये आलम्बनीभवति । तथा च वक्ष्यति — ‘आश्र­मा­स्त्रि­विधाः’(मा. का. ३ । १६) इत्यादि ॥

इति माण्डू­क्यो­प­नि­ष­त्स­माप्ता ॥

अत्रैते श्लोका भवन्ति —

ओङ्कारं पादशो विद्यात्पादा मात्रा न संशयः ।
ओङ्कारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ २४ ॥

पूर्ववदत्रैते श्लोका भवन्ति । यथोक्तैः सामान्यैः पादा एव मात्राः, मात्राश्च पादाः ; तस्मात् ओङ्कारं पादशः विद्यात् इत्यर्थः । एवमोङ्कारे ज्ञाते दृष्टा­र्थ­म­दृ­ष्टार्थं वा न किञ्चिदपि प्रयोजनं चिन्तयेत् , कृता­र्थ­त्वा­दि­त्यर्थः ॥

युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ २५ ॥

युञ्जीत समादध्यात् यथाव्याख्याते परमार्थरूपे प्रणवे चेतः मनः ; यस्मात्प्रणवः ब्रह्म निर्भयम् ; न हि तत्र सदायुक्तस्य भयं विद्यते क्वचित् , ‘विद्वान्न बिभेति कुतश्चन’(तै. उ. २ । ९ । १) इति श्रुतेः ॥

प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतः ।
अपू­र्वोऽ­न­न्त­रोऽ­बा­ह्योऽ­न­परः प्रणवोऽव्ययः ॥ २६ ॥

परापरे ब्रह्मणी प्रणवः ; परमार्थतः क्षीणेषु मात्रापादेषु पर एवात्मा ब्रह्म इति ; न पूर्वं कारणमस्य विद्यत इत्यपूर्वः ; नास्य अन्तरं भिन्नजातीयं किञ्चिद्विद्यत इति अनन्तरः, तथा बाह्यमन्यत् न विद्यत इत्यबाह्यः ; अपरं कार्यमस्य न विद्यत इत्यनपरः, सबाह्याभ्यन्तरो ह्यजः सैन्ध­व­घ­न­व­त्प्र­ज्ञा­न­घन इत्यर्थः ॥

सर्वस्य प्रणवो ह्यादि­र्म­ध्य­म­न्त­स्त­थैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७ ॥

आदिमध्यान्ता उत्प­त्ति­स्थि­ति­प्र­लयाः सर्वस्य प्रणव एव । माया­ह­स्ति­र­ज्जु­स­र्प­मृ­ग­तृ­ष्णि­का­स्व­प्ना­दि­व­दु­त्प­द्य­मा­नस्य विय­दा­दि­प्र­प­ञ्चस्य यथा मायाव्यादयः, एवं हि प्रणवमात्मानं माया­व्या­दि­स्था­नीयं ज्ञात्वा तत्क्षणादेव तदात्मभावं व्यश्नुत इत्यर्थः ॥

प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् ।
सर्व­व्या­पि­न­मो­ङ्कारं मत्वा धीरो न शोचति ॥ २८ ॥

सर्वस्य प्राणिजातस्य स्मृति­प्र­त्य­या­स्पदे हृदये स्थितमीश्वरं प्रणवं विद्यात् सर्वव्यापिनं व्योमवत् ओङ्का­र­मा­त्मा­न­म­सं­सा­रिणं धीरः धीमा­न्बु­द्धि­मान् आत्मतत्त्वं मत्वा ज्ञात्वा न शोचति, शोक­नि­मि­त्ता­नु­प­पत्तेः, ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) इत्या­दि­श्रु­तिभ्यः ॥

अमा­त्रोऽ­न­न्त­मा­त्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ॥ २९ ॥

अमात्रः तुरीय ओङ्कारः, मीयते अनयेति मात्रा परिच्छित्तिः, सा अनन्ता यस्य सः अनन्तमात्रः ; नैतावत्त्वमस्य परिच्छेत्तुं शक्यत इत्यर्थः । सर्व­द्वै­तो­प­श­म­त्वा­देव शिवः । ओङ्कारो यथाव्याख्यातो विदितो येन, स एव पर­मा­र्थ­त­त्त्वस्य मननान्मुनिः ; नेतरो जनः शास्त्र­वि­द­पी­त्यर्थः ॥

इति प्रथ­म­मा­ग­म­प्र­क­रणं सम्पूर्णम् ॥