अद्वैतशारदा

माण्डूक्योपनिषद्भाष्यम्

वैतथ्यप्रकरणम्

व्याख्याः

वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः ।
अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ १ ॥

‘ज्ञाते द्वैतं न विद्यते’ इत्युक्तम् ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इत्या­दि­श्रु­तिभ्यः । आगममात्रं तत् । तत्र उपपत्त्यापि द्वैतस्य वैतथ्यं शक्य­तेऽ­व­धा­र­यि­तु­मिति द्वितीयं प्रकरणमारभ्यते — वैत­थ्य­मि­त्या­दिना । वितथस्य भावो वैतथ्यम् ; अस­त्य­त्व­मि­त्यर्थः । कस्य ? सर्वेषां बाह्या­ध्या­त्मि­कानां भावानां पदार्थानां स्वप्ने उपलभ्यमानानाम् , आहुः कथयन्ति मनीषिणः प्रमाणकुशलाः । वैतथ्ये हेतुमाह — अन्तःस्थानात् , अन्तः शरीरस्य मध्ये स्थानं येषाम् ; तत्र हि भावा उपलभ्यन्ते पर्व­त­ह­स्त्या­दयः, न बहिः शरीरात् ; तस्मात् ते वितथा भवितुमर्हन्ति । ननु अप­व­र­का­द्य­न्त­रु­प­ल­भ्य­मा­नै­र्घ­टा­दि­भि­र­नै­का­न्तिको हेतु­रि­त्या­श­ङ्क्याह — संवृतत्वेन हेतुनेति । अन्तः संवृ­त­स्था­ना­दि­त्यर्थः । न ह्यन्तः संवृते देहान्तर्नाडीषु पर्व­त­ह­स्त्या­दीनां सम्भवोऽस्ति ; न हि देहे पर्वतोऽस्ति ॥

अदीर्घत्वाच्च कालस्य गत्वा देहान्न पश्यति ।
प्रतिबुद्धश्च वै सर्व­स्त­स्मि­न्देशे न विद्यते ॥ २ ॥

स्वप्नदृश्यानां भावानामन्तः संवृ­त­स्था­न­मि­त्ये­त­द­सि­द्धम् , यस्मा­त्प्रा­च्येषु सुप्त उदक्षु स्वप्ना­न्प­श्य­न्निव दृश्यत इत्ये­त­दा­श­ङ्क्याह — न देहा­द्ब­हि­र्दे­शा­न्तरं गत्वा स्वप्नान्पश्यति ; यस्मा­त्सु­प्त­मात्र एव देह­दे­शा­द्यो­ज­न­श­ता­न्त­रिते मास­मा­त्र­प्राप्ये देशे स्वप्ना­न्प­श्य­न्निव दृश्यते ; न च तद्दे­श­प्रा­प्ते­रा­ग­म­नस्य च दीर्घः कालोऽस्ति ; अतः अदीर्घत्वाच्च कालस्य न स्वप्न­दृ­ग्दे­शा­न्तरं गच्छति । किञ्च, प्रतिबुद्धश्च वै सर्वः स्वप्नदृक् स्वप्नदर्शनदेशे न विद्यते । यदि च स्वप्ने देशान्तरं गच्छेत् , यस्मिन्देशे स्वप्ना­न्प­श्येत् , तत्रैव प्रतिबुध्येत । न चैतदस्ति । रात्रौ सुप्तः अहनीव भावान्पश्यति ; बहुभिः सङ्गतो भवति ; यैश्च सङ्गतः स तैर्गृह्येत, न च गृह्यते ; गृही­त­श्चे­त्त्वा­मद्य तत्रोपलब्धवन्तो वयमिति ब्रूयुः ; न चैतदस्ति । तस्मान्न देशान्तरं गच्छति स्वप्ने ॥

अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् ।
वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ ३ ॥

इतश्च स्वप्नदृश्या भावा वितथाः, यतः अभावश्च रथादीनां स्वप्नदृश्यानां श्रूयते, न्यायपूर्वकं युक्तितः श्रुतौ ‘न तत्र रथाः’(बृ. उ. ४ । ३ । १०) इत्यत्र । तेन अन्तः­स्था­न­सं­वृ­त­त्वा­दि­हे­तुना प्राप्तं वैतथ्यं तदनुवादिन्या श्रुत्या स्वप्ने स्वय­ञ्ज्यो­ति­ष्ट्व­प्र­ति­पा­द­न­प­रया प्रकाशितमाहुः ब्रह्मविदः ॥

अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् ।
यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ ४ ॥

जाग्र­द्दृ­श्यानां भावानां वैतथ्यमिति प्रतिज्ञा । दृश्यत्वादिति हेतुः । स्वप्न­दृ­श्य­भा­व­व­दिति दृष्टान्तः । यथा तत्र स्वप्ने दृश्यानां भावानां वैतथ्यम् , तथा जागरितेऽपि दृश्य­त्व­म­वि­शि­ष्ट­मिति हेतूपनयः । तस्मा­ज्जा­ग­रि­तेऽपि वैतथ्यं स्मृतमिति निगमनम् । अन्तः­स्था­ना­त्सं­वृ­त­त्वेन च स्वप्नदृश्यानां भावानां जाग्र­द्दृ­श्येभ्यो भेदः । दृश्य­त्व­म­स­त्यत्वं चावि­शि­ष्ट­मु­भ­यत्र ॥

स्वप्नजागरिते स्थाने ह्येक­मा­हु­र्म­नी­षिणः ।
भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ ५ ॥

प्रसिद्धेनैव भेदानां ग्राह्यत्वेन हेतुना समत्वेन स्वप्न­जा­ग­रि­त­स्था­न­यो­रे­क­त्व­मा­हु­र्वि­वे­किन इति पूर्व­प्र­मा­ण­सि­द्ध­स्यैव फलम् ॥

आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ६ ॥

इतश्च वैतथ्यं जाग्र­द्दृ­श्यानां भेदानाम् आद्य­न्त­यो­र­भा­वात् , यदादावन्ते च नास्ति वस्तु मृगतृष्णिकादि, तन्मध्येऽपि नास्तीति निश्चितं लोके ; तथेमे जाग्रद्दृश्या भेदाः आद्य­न्त­यो­र­भा­वात् वितथैरेव मृग­तृ­ष्णि­का­दिभिः सदृशत्वाद्वितथा एव ; तथापि अवितथा इव लक्षिता मूढै­र­ना­त्म­विद्भिः ॥

सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्मा­दा­द्य­न्त­व­त्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ७ ॥

स्वप्न­दृ­श्य­व­ज्जा­ग­रि­त­दृ­श्या­ना­म­प्य­स­त्त्व­मिति यदुक्तम् तदयुक्तम् ; यस्मा­ज्जा­ग्र­द्दृश्या अन्नपानवाहनादयः क्षुत्पि­पा­सा­दि­नि­वृत्तिं कुर्वन्तो गमनागमनादि कार्यं च सप्रयोजना दृष्टाः । न तु स्वप्नदृश्यानां तदस्ति । तस्मा­त्स्व­प्न­दृ­श्य­व­ज्जा­ग्र­द्दृ­श्या­ना­म­सत्त्वं मनोरथमात्रमिति । तन्न । कस्मात् ? यस्माद्या सप्रयोजनता दृष्टा अन्नपानादीनाम् , सा स्वप्ने विप्रतिपद्यते । जागरिते हि भुक्त्वा पीत्वा च तृप्तो विनिवर्तिततृट् सुप्तमात्र एव क्षुत्पि­पा­सा­द्या­र्त­म­हो­रा­त्रो­पो­षि­त­म­भु­क्त­व­न्त­मा­त्मानं मन्यते, यथा स्वप्ने भुक्त्वा पीत्वा च अतृप्तोत्थितः, तथा । तस्मा­ज्जा­ग्र­द्दृ­श्यानां स्वप्ने विप्र­ति­प­त्ति­र्दृष्टा । अतो मन्यामहे तेषामप्यसत्त्वं स्वप्न­दृ­श्य­व­द­ना­श­ङ्क­नी­य­मिति । तस्मा­दा­द्य­न्त­व­त्त्व­मु­भ­यत्र समानमिति मिथ्यैव खलु ते स्मृताः ॥

अपूर्वं स्थानिधर्मो हि यथा स्वर्ग­नि­वा­सि­नाम् ।
तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८ ॥

स्वप्न­जा­ग्र­द्भे­दयोः सम­त्वा­ज्जा­ग्र­द्भे­दा­ना­म­स­त्त्व­मिति यदुक्तम् , तदसत् । कस्मात् ? दृष्टा­न्त­स्या­सि­द्ध­त्वात् । कथम् ? न हि जाग्रद्दृश्या ये, ते भेदाः स्वप्ने दृश्यन्ते । किं तर्हि ? अपूर्वं स्वप्ने पश्यति चतुर्दन्तं गज­मा­रू­ढोऽ­ष्ट­भु­ज­मा­त्मा­नम् । अन्य­द­प्ये­वं­प्र­का­र­म­पूर्वं पश्यति स्वप्ने । तन्नान्येनासता सममिति सदेव । अतो दृष्टा­न्तोऽ­सिद्धः । तस्मा­त्स्व­प्न­व­ज्जा­ग­रि­त­स्या­स­त्त्व­मि­त्य­यु­क्तम् । तन्न । स्वप्ने दृष्टमपूर्वं यन्मन्यसे, न तत्स्वतः सिद्धम् । किं तर्हि ? अपूर्वं स्थानिधर्मो हि, स्थानिनो द्रष्टुरेव हि स्वप्नस्थानवतो धर्मः ; यथा स्वर्ग­नि­वा­सि­ना­मि­न्द्रा­दीनां सह­स्रा­क्ष­त्वादि, तथा स्वप्न­दृ­शोऽ­पू­र्वोऽयं धर्मः, न स्वतःसिद्धो द्रष्टुः स्वरूपवत् । तान् एवं­प्र­का­रा­न­पू­र्वा­न्स्व­चि­त्त­वि­क­ल्पान् अयं स्थानी यः स्वप्न­दृ­क्स्व­प्न­स्थानं गत्वा प्रेक्षते । यथैव इह लोके सुशि­क्षि­त­दे­शा­न्त­र­मा­र्ग­स्तेन मार्गेण देशान्तरं गत्वा पदा­र्था­न्प­श्यति, तद्वत् । तस्माद्यथा स्थानिधर्माणां रज्जु­स­र्प­मृ­ग­तृ­ष्णि­का­दी­ना­म­स­त्त्वम् , तथा स्वप्न­दृ­श्या­ना­म­प्य­पू­र्वाणां स्थानि­ध­र्म­त्व­मे­वे­त्य­स­त्त्वम् ; अतो न स्वप्न­दृ­ष्टा­न्त­स्या­सि­द्ध­त्वम् ॥

स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतो गृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ ९ ॥

अपू­र्व­त्वा­शङ्कां निराकृत्य स्वप्न­दृ­ष्टा­न्तस्य पुनः स्वप्नतुल्यतां जाग्रद्भेदानां प्रपञ्चयन्नाह — स्वप्नवृत्तावपि स्वप्नस्थानेऽपि अन्तश्चेतसा मनो­र­थ­स­ङ्क­ल्पि­त­म­सत् ; सङ्क­ल्पा­न­न्त­र­स­म­का­ल­मे­वा­द­र्श­नात् । तत्रैव स्वप्ने बहिश्चेतसा गृहीतं चक्षु­रा­दि­द्वा­रे­णो­प­लब्धं घटादि सदि­त्ये­व­म­स­त्य­मिति निश्चितेऽपि सदसद्विभागो दृष्टः । उभ­यो­र­प्य­न्त­र्ब­हि­श्चेतः कल्पि­त­यो­र्वै­त­थ्य­मेव दृष्टम् ॥

जाग्र­द्वृ­त्ता­वपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ १० ॥

सदसतोर्वैतथ्यं युक्तम् , अन्त­र्ब­हि­श्चे­तः­क­ल्पि­त­त्वा­वि­शे­षा­दिति । व्याख्यातमन्यत् ॥

उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ।
क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः ॥ ११ ॥

चोदक आह — स्वप्न­जा­ग्र­त्स्था­न­यो­र्भे­दानां यदि वैतथ्यम् , क एता­न­न्त­र्ब­हि­श्चे­तः­क­ल्पि­ता­न्बु­ध्यते । को वै तेषां विकल्पकः ; स्मृतिज्ञानयोः क आल­म्ब­न­मि­त्य­भि­प्रायः ; न चेन्निरात्मवाद इष्टः ॥

कल्प­य­त्या­त्म­ना­त्मा­न­मात्मा देवः स्वमायया ।
स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥

स्वयं स्वमायया स्वमा­त्मा­न­मात्मा देवः आत्मन्येव वक्ष्यमाणं भेदाकारं कल्पयति रज्ज्वादाविव सर्पादीन् , स्वयमेव च तान्बुध्यते भेदान् , तद्वदेवेत्येवं वेदान्तनिश्चयः । नान्योऽस्ति ज्ञान­स्मृ­त्या­श्रयः । न च निरास्पदे एव ज्ञानस्मृती वैना­शि­का­ना­मि­वे­त्य­भि­प्रायः ॥

विक­रो­त्य­प­रा­न्भा­वा­न­न्त­श्चित्ते व्यवस्थितान् ।
नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥

सङ्कल्पयन्केन प्रकारेण कल्प­य­ती­त्यु­च्यते — विकरोति नाना करोति अपरान् लौकिकान् भावान् पदा­र्था­ञ्श­ब्दा­दी­न­न्यांश्च अन्तश्चित्ते वासनारूपेण व्यव­स्थि­ता­न­व्या­कृ­तान् नियतांश्च पृथि­व्या­दी­न­नि­य­तांश्च कल्पनाकालान् बहिश्चित्तः सन् , तथा अन्तश्चित्तो मनो­र­था­दि­ल­क्ष­णा­नि­त्येवं कल्पयति, प्रभुः ईश्वरः, आत्मेत्यर्थः ॥

चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः ।
कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४ ॥

स्वप्न­व­च्चि­त्त­प­रि­क­ल्पितं सर्व­मि­त्ये­त­दा­श­ङ्क्यते — यस्मा­च्चि­त्त­प­रि­क­ल्पि­तै­र्म­नो­र­था­दि­ल­क्ष­णै­श्चि­त्त­प­रि­च्छे­द्यै­र्वै­ल­क्षण्यं बाह्या­ना­म­न्यो­न्य­प­रि­च्छे­द्य­त्व­मिति, सा न युक्ताशङ्का । चित्तकाला हि येऽन्तस्तु चित्त­प­रि­च्छेद्याः, नान्य­श्चि­त्त­का­ल­व्य­ति­रे­केण परिच्छेदकः कालो येषाम् , ते चित्तकालाः ; कल्पनाकाल एवोपलभ्यन्त इत्यर्थः । द्वयकालाश्च भेदकाला अन्यो­न्य­प­रि­च्छेद्याः, यथा आगोदोहनमास्ते ; यावदास्ते तावद्गां दोग्धि ; यावद्गां दोग्धि तावदास्ते, तावानयमेतावान्स इति पर­स्प­र­प­रि­च्छे­द्य­प­रि­च्छे­द­कत्वं बाह्यानां भेदानाम् , ते द्वयकालाः । अन्तश्चित्तकाला बाह्याश्च द्वयकालाः कल्पिता एव ते सर्वे । न बाह्यो द्वय­का­ल­त्व­वि­शेषः कल्पि­त­त्व­व्य­ति­रे­के­णा­न्य­हे­तुकः । अत्रापि हि स्वप्न­दृ­ष्टान्तो भवत्येव ॥

अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः ।
कल्पिता एव ते सर्वे विशे­ष­स्त्वि­न्द्रि­या­न्तरे ॥ १५ ॥

यदपि अन्तरव्यक्तत्वं भावानां मनो­वा­स­ना­मा­त्रा­भि­व्य­क्तानां स्फुटत्वं वा बहि­श्च­क्षु­रा­दी­न्द्रि­या­न्तरे विशेषः, नासौ भेदा­ना­म­स्ति­त्व­कृतः, स्वप्नेऽपि तथा दर्शनात् । किं तर्हि ? इन्द्रि­या­न्त­र­कृत एव । अतः कल्पिता एव जाग्रद्भावा अपि स्वप्नभाववदिति सिद्धम् ॥

जीवं कल्पयते पूर्वं ततो भावा­न्पृ­थ­ग्वि­धान् ।
बाह्या­ना­ध्या­त्मि­कां­श्चैव यथा­वि­द्य­स्त­था­स्मृतिः ॥ १६ ॥

बाह्या­ध्या­त्मि­कानां भावा­ना­मि­त­रे­त­र­नि­मि­त्त­नै­मि­त्ति­क­तया कल्पनायाः किं मूलमित्युच्यते — जीवं हेतुफलात्मकम् ‘अहं करोमि, मम सुखदुःखे’ इत्येवंलक्षणम् । अनेवंलक्षण एव शुद्ध आत्मनि रज्ज्वामिव सर्पं कल्पयते पूर्वम् । ततस्तादर्थ्येन क्रिया­का­र­क­फ­ल­भे­देन प्राणा­दी­न्ना­ना­वि­धा­न्भा­वा­न्बा­ह्या­ना­ध्या­त्मि­कां­श्चैव कल्पयते । तत्र कल्पनायां को हेतुरित्युच्यते — योऽसौ स्वयं कल्पितो जीवः सर्व­क­ल्प­ना­या­म­धि­कृतः, सः यथाविद्यः यादृशी विद्या विज्ञानमस्येति यथाविद्यः, तथाविधैव स्मृतिस्तस्येति तथास्मृतिर्भवति स इति । अतो हेतु­क­ल्प­ना­वि­ज्ञा­ना­त्फ­ल­वि­ज्ञा­नम् , ततो हेतुफलस्मृतिः, तत­स्त­द्वि­ज्ञा­नम् , ततः तद­र्थ­क्रि­या­का­र­क­त­त्फ­ल­भे­द­वि­ज्ञा­नानि, तेभ्य­स्त­त्स्मृतिः, तत्स्मृतेश्च पुन­स्त­द्वि­ज्ञा­नानि इत्येवं बाह्या­ना­ध्या­त्मि­कांश्च इत­रे­त­र­नि­मि­त्त­नै­मि­त्ति­क­भा­वे­ना­ने­कधा कल्पयते ॥

अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।
सर्प­धा­रा­दि­भि­र्भा­वै­स्त­द्व­दात्मा विकल्पितः ॥ १७ ॥

तत्र जीवकल्पना सर्व­क­ल्प­ना­मू­ल­मि­त्यु­क्तम् ; सैव जीवकल्पना किंनिमित्तेति दृष्टान्तेन प्रतिपादयति — यथा लोके स्वेन रूपेण अनिश्चिता अनवधारिता एवमेवेति रज्जुः मन्दान्धकारे किं सर्प उदकधारा दण्ड इति वा अनेकधा विकल्पिता भवति पूर्वं स्वरू­पा­नि­श्च­य­नि­मि­त्तम् । यदि हि पूर्वमेव रज्जुः स्वरूपेण निश्चिता स्यात् , न सर्पा­दि­वि­क­ल्पोऽ­भ­वि­ष्यत् , यथा स्वह­स्ता­ङ्गु­ल्या­दिषु ; एष दृष्टान्तः । तद्व­द्धे­तु­फ­ला­दि­सं­सा­र­ध­र्मा­न­र्थ­वि­ल­क्ष­ण­तया स्वेन विशु­द्ध­वि­ज्ञ­प्ति­मा­त्र­स­त्ता­द्व­य­रू­पे­णा­नि­श्चि­त­त्वा­ज्जी­व­प्रा­णा­द्य­न­न्त­भा­व­भे­दै­रात्मा विकल्पित इत्येष सर्वोपनिषदां सिद्धान्तः ॥

निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते ।
रज्जुरेवेति चाद्वैतं तद्व­दा­त्म­वि­नि­श्चयः ॥ १८ ॥

रज्जुरेवेति निश्चये सर्पा­दि­वि­क­ल्प­नि­वृत्तौ रज्जुरेवेति चाद्वैतं यथा, तथा नेति नेतीति सर्व­सं­सा­र­ध­र्म­शू­न्य­प्र­ति­पा­द­क­शा­स्त्र­ज­नि­त­वि­ज्ञा­न­सू­र्या­लो­क­कृ­ता­त्म­वि­नि­श्चयः ‘आत्मैवेदं सर्व­म­पू­र्वोऽ­न­प­रोऽ­न­न्त­रोऽ­बाह्यः सबाह्याभ्यन्तरो ह्यजोऽ­ज­रोऽ­मृ­तोऽ­भय एक एवाद्वयः’ इति ॥

प्राणा­दि­भि­र­न­न्तैस्तु भावै­रे­तै­र्वि­क­ल्पितः ।
मायैषा तस्य देवस्य ययायं मोहितः स्वयम् ॥ १९ ॥

यदि आत्मैक एवेति निश्चयः, कथं प्राणा­दि­भि­र­न­न्तै­र्भा­वै­रेतैः संसा­र­ल­क्ष­णै­र्वि­क­ल्पित इति ? उच्यते शृणु — मायैषा तस्यात्मनो देवस्य । यथा मायाविना विहिता माया गगनमतिविमलं कुसुमितैः सप­ला­शै­स्त­रु­भि­रा­की­र्ण­मिव करोति, तथा इयमपि देवस्य माया, यया अयं स्वयमपि मोहित इव मोहितो भवति । ‘मम माया दुरत्यया’(भ. गी. ७ । १४) इत्युक्तम् ॥

प्राण इति प्राणविदो भूतानीति च तद्विदः ।
गुणा इति गुण­वि­द­स्त­त्त्वा­नीति च तद्विदः ॥ २० ॥

पादा इति पादविदो विषया इति तद्विदः ।
लोका इति लोकविदो देवा इति च तद्विदः ॥ २१ ॥

वेदा इति वेदविदो यज्ञा इति च तद्विदः ।
भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ २२ ॥

सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः ।
मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ २३ ॥

काल इति कालविदो दिश इति च तद्विदः ।
वादा इति वादविदो भुवनानीति तद्विदः ॥ २४ ॥

मन इति मनोविदो बुद्धिरिति च तद्विदः ।
चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ २५ ॥

पञ्चविंशक इत्येके षड्विंश इति चापरे ।
एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २६ ॥

लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः ।
स्त्रीपुं­न­पुं­सकं लैङ्गाः परापरमथापरे ॥ २७ ॥

सृष्टिरिति सृष्टिविदो लय इति च तद्विदः ।
स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥ २८ ॥

प्राणः प्राज्ञो बीजात्मा, तत्कार्यभेदा हीतरे स्थित्यन्ताः । अन्ये च सर्वे लौकिकाः सर्व­प्रा­णि­प­रि­क­ल्पिता भेदा रज्ज्वामिव सर्पादयः । तच्छून्ये आत्म­न्या­त्म­स्व­रू­पा­नि­श्च­य­हे­तो­र­वि­द्यया कल्पिता इति पिण्डितोऽर्थः । प्राणा­दि­श्लो­कानां प्रत्येकं पदा­र्थ­व्या­ख्याने फल्गु­प्र­यो­ज­न­त्वा­त्सि­द्ध­प­दा­र्थ­त्वाच्च यत्नो न कृतः ॥

यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।
तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २९ ॥

किं बहुना ? प्राणा­दी­ना­म­न्य­त­म­मु­क्त­म­नुक्तं वा अन्यं यं भावं पदार्थं दर्श­ये­द्य­स्या­चा­र्योऽन्यो वा आप्तः इदमेव तत्त्वमिति, स तं भावमात्मभूतं पश्यत्ययमहमिति वा ममेति वा, तं च द्रष्टारं स भावोऽवति, यो दर्शितो भावः, असौ स भूत्वा रक्षति ; स्वेनात्मना सर्वतो निरुणद्धि । तस्मि­न्ग्र­ह­स्त­द्ग्र­ह­स्त­द­भि­नि­वेशः इदमेव तत्त्वमिति स तं ग्रहीतारमुपैति, तस्यात्मभावं निगच्छतीत्यर्थः ॥

एतै­रे­षोऽ­पृ­थ­ग्भावैः पृथगेवेति लक्षितः ।
एवं यो वेद तत्त्वेन कल्प­ये­त्सोऽ­वि­श­ङ्कितः ॥ ३० ॥

एतैः प्राणादिभिः आत्म­नोऽ­पृ­थ­ग्भू­तै­र­पृ­थ­ग्भावैः एषः आत्मा रज्जुरिव सर्पा­दि­वि­क­ल्प­ना­रूपैः पृथगेवेति लक्षितः अभिलक्षितः निश्चितः मूढैरित्यर्थः । विवेकिनां तु रज्ज्वामिव कल्पिताः सर्पादयो नात्मव्यतिरेकेण प्राणादयः सन्ती­त्य­भि­प्रायः ; ‘इदं सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) इति श्रुतेः । एव­मा­त्म­व्य­ति­रे­के­णा­सत्त्वं रज्जु­स­र्प­व­दा­त्मनि कल्पि­ता­ना­मा­त्मानं च केवलं निर्विकल्पं यो वेद तत्त्वेन श्रुतितो युक्तितश्च, सः अविशङ्कितो वेदार्थं विभागतः कल्पयेत् कल्पयतीत्यर्थः — इदमेवंपरं वाक्यम् अदोऽन्यपरम् इति । न ह्यन­ध्या­त्म­वि­द्वे­दा­न्ज्ञातुं शक्नोति तत्त्वतः, ‘न ह्यन­ध्या­त्म­वि­त्क­श्चि­त्क्रि­या­फ­ल­मु­पा­श्नुते’(मनु. ६ । ८२) इति हि मानवं वचनम् ॥

स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥

यदे­त­द्द्वै­त­स्या­स­त्त्व­मुक्तं युक्तितः, तदे­त­द्वे­दा­न्त­प्र­मा­णा­व­ग­त­मि­त्याह — स्वप्नश्च माया च स्वप्नमाये अस­द्व­स्त्वा­त्मिके सत्यौ सद्व­स्त्वा­त्मिके इव लक्ष्येते अविवेकिभिः । यथा च प्रसा­रि­त­प­ण्या­प­ण­गृ­ह­प्रा­सा­द­स्त्री­पु­ञ्ज­न­प­द­व्य­व­हा­रा­की­र्ण­मिव गन्धर्वनगरं दृश्यमानमेव सत् अकस्मादभावतां गतं दृष्टम् , यथा च स्वप्नमाये दृष्टे असद्रूपे, तथा विश्वमिदं द्वैतं सम­स्त­म­स­द्दृ­ष्टम् । क्वेत्याह — वेदान्तेषु, ‘नेह नानास्ति किञ्चन’(क. उ. २ । १ । ११) ‘इन्द्रो मायाभिः’(बृ. उ. २ । ५ । १९) ‘आत्मैवेदमग्र आसीत्’(बृ. उ. १ । ४ । १) ‘ब्रह्मैवेदमग्र आसीत्’(बृ. उ. १ । ४ । १०) ‘द्वितीयाद्वै भयं भवति’(बृ. उ. १ । ४ । २) ‘न तु तद्द्वि­ती­य­मस्ति’(बृ. उ. ४ । ३ । २३) ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत्’(बृ. उ. ४ । ५ । १५) इत्यादिषु विचक्षणैः निपु­ण­त­र­व­स्तु­द­र्शिभिः पण्डि­तै­रि­त्यर्थः ; ‘तमः श्वभ्रनिभं दृष्टं वर्ष­बु­द्बु­द­सं­नि­भम् । नाशप्रायं सुखाद्धीनं नाशो­त्त­र­म­भा­व­गम्’(मो. ध. ३०१ । ६०) इति व्यासस्मृतेः ॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२ ॥

प्रक­र­णा­र्थो­प­सं­हा­रा­र्थोऽयं श्लोकः — यदा वितथं द्वैतम् आत्मैवैकः परमार्थतः सन् , तदा इदं निष्पन्नं भवति — सर्वोऽयं लौकिको वैदिकश्च व्यव­हा­रोऽ­वि­द्या­वि­षय एवेति । तदा न निरोधः, निरोधनं निरोधः प्रलयः, उत्पत्तिः जननम् , बद्धः संसारी जीवः, साधकः साध­न­वा­न्मो­क्षस्य, मुमुक्षुः मोचनार्थी, मुक्तः विमुक्तबन्धः । उत्प­त्ति­प्र­ल­य­यो­र­भा­वा­द्ब­द्धा­दयो न सन्तीत्येषा परमार्थता । कथ­मु­त्प­त्ति­प्र­ल­य­यो­र­भाव इति, उच्यते — द्वैत­स्या­स­त्त्वात् । ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) ‘य इह नानेव पश्यति’(क. उ. २ । १ । १०) ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदं सर्वम्’ ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘इदं सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) इत्या­दि­ना­ना­श्रु­तिभ्यो द्वैत­स्या­सत्त्वं सिद्धम् । सतो ह्युत्पत्तिः प्रलयो वा स्यात् , नासतः शशविषाणादेः । नाप्य­द्वै­त­मु­त्प­द्यते प्रलीयते वा । अद्वैतं च, उत्प­त्ति­प्र­ल­य­व­च्चेति विप्रतिषिद्धम् । यस्तु पुन­र्द्वै­त­सं­व्य­व­हारः, स रज्जु­स­र्प­व­दा­त्मनि प्राणादिलक्षणः कल्पित इत्युक्तम् ; न हि मनोविकल्पनाया रज्जु­स­र्पा­दि­ल­क्ष­णाया रज्ज्वां प्रलय उत्पत्तिर्वा ; न च मनसि रज्जु­स­र्प­स्यो­त्पत्तिः प्रलयो वा, न चोभयतो वा । तथा मान­स­त्वा­वि­शे­षा­द्द्वै­तस्य । न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते ; अतो मनो­वि­क­ल्प­ना­मात्रं द्वैतमिति सिद्धम् । तस्मात्सूक्तम् — द्वैत­स्या­स­त्त्वा­न्नि­रो­धा­द्य­भावः परमार्थतेति । यद्येवं द्वैताभावे शास्त्र­व्या­पारः, नाद्वैते, विरोधात् ; तथा च सत्यद्वैतस्य वस्तुत्वे प्रमा­णा­भा­वा­च्छू­न्य­वा­द­प्र­सङ्गः, द्वैतस्य चाभावात् ; न, रज्जु­व­त्स­र्पा­दि­क­ल्प­नाया निरा­स्प­द­त्वेऽ­नु­प­प­त्ति­रिति प्रत्यु­क्त­मे­त­त्क­थ­मु­ज्जी­व­य­सीति, आह — रज्जुरपि सर्प­वि­क­ल्प­स्या­स्प­द­भूता कल्पितैवेति दृष्टा­न्ता­नु­प­पत्तिः ; न, विकल्पनाक्षये अवि­क­ल्पि­त­स्या­वि­क­ल्पि­त­त्वा­देव सत्त्वोपपत्तेः ; रज्जु­स­र्प­व­द­स­त्त्व­मिति चेत् , न एका­न्ते­ना­वि­क­ल्पि­त­त्वात् अवि­क­ल्पि­त­र­ज्ज्वं­श­व­त्प्रा­क्स­र्पा­भा­व­वि­ज्ञा­नात् , विकल्पयितुश्च प्राग्वि­क­ल्प­नो­त्पत्तेः सिद्ध­त्वा­भ्यु­प­ग­मा­दे­वा­स­त्त्वा­नु­प­पत्तिः । कथं पुनः स्वरूपे व्यापाराभावे शास्त्रस्य द्वैत­वि­ज्ञा­न­नि­व­र्त­क­त्वम् ? नैष दोषः, रज्ज्वां सर्पादिवदात्मनि द्वैत­स्या­वि­द्या­ध्य­स्त­त्वात् कथं सुख्यहं दुःखी मूढो जातो मृतो जीर्णो देहवान् पश्यामि व्यक्ताव्यक्तः कर्ता फली संयुक्तो वियुक्तः क्षीणो वृद्धोऽहं ममैते इत्येवमादयः सर्वे आत्म­न्य­ध्या­रो­प्यन्ते । आत्मा एतेष्वनुगतः, सर्व­त्रा­व्य­भि­चा­रात् , यथा सर्प­धा­रा­दि­भे­देषु रज्जुः । यदा चैवं विशे­ष्य­स्व­रू­प­प्र­त्य­यस्य सिद्धत्वान्न कर्तव्यत्वं शास्त्रेण । अकृतकर्तृ च शास्त्रं कृतानुकारित्वे अप्रमाणम् । यतः अवि­द्या­ध्या­रो­पि­त­सु­खि­त्वा­दि­वि­शे­ष­प्र­ति­ब­न्धा­दे­वा­त्मनः स्वरू­पे­णा­न­व­स्था­नम् , स्वरूपावस्थानं च श्रेयः इति सुखि­त्वा­दि­नि­व­र्तकं शास्त्र­मा­त्म­न्य­सु­खि­त्वा­दि­प्र­त्य­य­क­र­णेन नेति नेत्य­स्थू­ला­दि­वाक्यैः ; आत्म­स्व­रू­प­व­द­सु­खि­त्वा­दि­रपि सुखि­त्वा­दि­भे­देषु नानुवृत्तोऽस्ति धर्मः । यद्यनुवृत्तः स्यात् , नाध्यारोप्येत सुखि­त्वा­दि­ल­क्षणो विशेषः, यथो­ष्ण­त्व­गु­ण­वि­शे­ष­व­त्यग्नौ शीतता ; तस्मा­न्नि­र्वि­शेष एवात्मनि सुखित्वादयो विशेषाः कल्पिताः । यत्त्व­सु­खि­त्वा­दि­शा­स्त्र­मा­त्मनः, तत्सु­खि­त्वा­दि­वि­शे­ष­नि­वृ­त्त्य­र्थ­मे­वेति सिद्धम् । ‘सिद्धं तु निवर्तकत्वात्’ इत्यागमविदां सूत्रम् ॥

भावै­र­स­द्भि­रे­वा­य­म­द्व­येन च कल्पितः ।
भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ ३३ ॥

पूर्व­श्लो­का­र्थस्य हेतुमाह — यथा रज्ज्वामसद्भिः सर्पधारादिभिः अद्वयेन च रज्जुद्रव्येण सता अयं सर्प इति धारेयं दण्डोऽयमिति वा रज्जुद्रव्यमेव कल्प्यते, एवं प्राणा­दि­भि­र­नन्तैः असद्भिरेव अविद्यमानैः, न परमार्थतः । न ह्यप्रचलिते मनसि कश्चिद्भाव उपलक्षयितुं शक्यते केनचित् ; न चात्मनः प्रचलनमस्ति । प्रच­लि­त­स्यै­वो­प­ल­भ्य­माना भावा न परमार्थतः सन्तः कल्पयितुं शक्याः । अतः असद्भिरेव प्राणा­दि­भि­र्भा­वै­र­द्व­येन च परमार्थसता आत्मना रज्जु­व­त्स­र्व­वि­क­ल्पा­स्प­द­भू­तेन अयं स्वयमेवात्मा कल्पितः सदैकस्वभावोऽपि सन् । ते चापि प्राणादिभावाः अद्वयेनैव सता आत्मना विकल्पिताः ; न हि निरास्पदा काचित्कल्पना उपपद्यते ; अतः सर्व­क­ल्प­ना­स्प­द­त्वा­त्स्वे­ना­त्मना अद्वयस्य अव्यभिचारात् कल्प­ना­व­स्था­या­मपि अद्वयता शिवा ; कल्पना एव त्वशिवाः, रज्जु­स­र्पा­दि­व­त्त्रा­सा­दि­का­रिण्यो हि ताः । अद्वयता अभया ; अतः सैव शिवा ॥

नात्मभावेन नानेदं न स्वेनापि कथञ्चन ।
न पृथङ् नापृ­थ­क्कि­ञ्चि­दिति तत्त्वविदो विदुः ॥ ३४ ॥

कुतश्चाद्वयता शिवा ? नानाभूतं प्रथक्त्वम् अन्यस्य अन्यस्मात् यत्र दृष्टम् , तत्राशिवं भवेत् । न ह्यत्राद्वये पर­मा­र्थ­स­त्या­त्मनि प्राणा­दि­सं­सा­र­जा­त­मिदं जगत् आत्मभावेन परमार्थस्वरूपेण निरूप्यमाणं नाना वस्त्वन्तरभूतं भवति ; यथा रज्जुस्वरूपेण प्रकाशेन निरूप्यमाणो न नानाभूतः कल्पितः सर्पोऽस्ति, तद्वत् । नापि स्वेन प्राणाद्यात्मना इदं विद्यते कदाचिदपि, रज्जु­स­र्प­व­त्क­ल्पि­त­त्वा­देव । तथा अन्योन्यं न पृथक् प्राणादि वस्तु, यथा अश्वान्महिषः पृथग्विद्यते, एवम् । अतः असत्त्वात् नापि अपृथक् विद्य­तेऽ­न्योन्यं परेण वा किञ्चिदिति । एवं पर­मा­र्थ­त­त्त्व­विदो ब्राह्मणा विदुः । अतः अशि­व­हे­तु­त्वा­भा­वा­द­द्व­य­तैव शिवेत्यभिप्रायः ॥

वीत­रा­ग­भ­य­क्रो­धै­र्मु­नि­भि­र्वे­द­पा­रगैः ।
निर्विकल्पो ह्ययं दृष्टः प्रप­ञ्चो­प­श­मोऽ­द्वयः ॥ ३५ ॥

तदे­त­त्स­म्य­ग्द­र्शनं स्तूयते — विग­त­रा­ग­भ­य­क्रो­धा­दि­स­र्व­दोषैः सर्वदा मुनिभिः मन­न­शी­लै­र्वि­वे­किभिः वेदपारगैः अव­ग­त­वे­दा­न्ता­र्थ­त­त्त्वै­र्ज्ञा­निभिः निर्विकल्पः सर्व­वि­क­ल्प­शून्यः अयम् आत्मा दृष्टः उपलब्धो वेदा­न्ता­र्थ­त­त्परैः, प्रपञ्चोपशमः, प्रपञ्चो द्वैत­भे­द­वि­स्तारः, तस्योपशमोऽभावो यस्मिन् , स आत्मा प्रपञ्चोपशमः, अत एव अद्वयः विगतदोषैरेव पण्डि­तै­र्वे­दा­न्ता­र्थ­त­त्परैः संन्यासिभिः अयमात्मा द्रष्टुं शक्यः, नान्यैः रागा­दि­क­लु­षि­त­चे­तोभिः स्वप­क्ष­पा­ति­द­र्श­नै­स्ता­र्कि­का­दि­भि­रि­त्य­भि­प्रायः ॥

तस्मादेवं विदि­त्वै­न­म­द्वैते योजयेत्स्मृतिम् ।
अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६ ॥

यस्मा­त्स­र्वा­न­र्थो­प­श­म­रू­प­त्वा­द­द्वयं शिवमभयम् , अतः एवं विदित्वैनम् अद्वैते स्मृतिं योजयेत् ; अद्वैतावगमायैव स्मृतिं कुर्यादित्यर्थः । तच्च अद्वैतम् अवगम्य ‘अहमस्मि परं ब्रह्म’ इति विदित्वा अशनायाद्यतीतं साक्षा­द­प­रो­क्षा­द­ज­मा­त्मानं सर्व­लो­क­व्य­व­हा­रा­तीतं जडवत् लोकमाचरेत् ; अप्र­ख्या­प­य­न्ना­त्मा­न­म­ह­मे­वं­विध इत्यभिप्रायः ॥

निःस्तु­ति­र्नि­र्न­म­स्कारो निःस्वधाकार एव च ।
चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७ ॥

कया चर्यया लोकमाचरेदिति, आह — स्तुति­न­म­स्का­रा­दि­स­र्व­क­र्म­वि­व­र्जितः त्यक्त­स­र्व­बा­ह्यै­षणः प्रति­प­न्न­प­र­म­हं­स­पा­रि­व्राज्य इत्यभिप्रायः, ‘एतं वै तमात्मानं विदित्वा’(बृ. उ. ३ । ५ । १) इत्यादिश्रुतेः, ‘तद्बु­द्ध­य­स्त­दा­त्मा­न­स्त­न्नि­ष्ठा­स्त­त्प­रा­यणाः’(भ. गी. ५ । १७) इत्या­दि­स्मृ­तेश्च । चलं शरीरम् , प्रति­क्ष­ण­म­न्य­था­भा­वात् ; अचलम् आत्मतत्त्वम् । यदा कदा­चि­द्भो­ज­ना­दि­सं­व्य­व­हा­र­नि­मि­त्त­मा­का­श­व­द­चलं स्वरू­प­मा­त्म­त­त्त्वम् आत्मनो निके­त­मा­श्र­य­मा­त्म­स्थितिं विस्मृत्य अहमिति मन्यते यदा, तदा चलो देहो निकेतो यस्य सोऽयमेवं चलाचलनिकेतो विद्वान्न पुन­र्बा­ह्य­वि­ष­या­श्रयः । स च यादृच्छिको भवेत् , यदृ­च्छा­प्रा­प्त­कौ­पी­ना­च्छा­द­न­ग्रा­स­मा­त्र­दे­ह­स्थि­ति­रि­त्यर्थः ॥

तत्त्व­मा­ध्या­त्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ।
तत्त्वी­भू­त­स्त­दा­रा­म­स्त­त्त्वा­द­प्र­च्युतो भवेत् ॥ ३८ ॥

बाह्यं पृथिव्यादि तत्त्व­मा­ध्या­त्मिकं च देहादिलक्षणं रज्जु­स­र्पा­दि­व­त्स्व­प्न­मा­या­दि­वच्च असत् , ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) इत्यादिश्रुतेः । आत्मा च सबाह्याभ्यन्तरो ह्यजोऽ­पू­र्वोऽ­न­प­रोऽ­न­न्त­रोऽ­बाह्यः कृत्स्नः तथा आकाशवत्सर्वगतः सूक्ष्मोऽचलो निर्गुणो निष्कलो निष्क्रियः ‘तत्सत्यं स आत्मा तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति श्रुतेः, इत्येवं तत्त्वं दृष्ट्वा तत्त्वी­भू­त­स्त­दा­रामो न बाह्यरमणः ; यथा अतत्त्वदर्शी कश्चि­त्त­मा­त्म­त्वेन प्रति­प­न्न­श्चि­त्त­च­ल­न­मनु चलितमात्मानं मन्यमानः तत्त्वाच्चलितं देहा­दि­भू­त­मा­त्मानं कदाचिन्मन्यते प्रच्यु­तोऽ­ह­मा­त्म­त­त्त्वा­दि­दा­नी­मिति, समाहिते तु मनसि कदा­चि­त्त­त्त्व­भूतं प्रसन्नमात्मानं मन्यते इदानीमस्मि तत्त्वीभूत इति ; न तथा आत्मविद्भवेत् , आत्मन एकरूपत्वात् , स्वरू­प­प्र­च्य­व­ना­स­म्भ­वाच्च । सदैव ब्रह्मा­स्मी­त्य­प्र­च्युतो भवेत्तत्त्वात् , सदा अप्र­च्यु­ता­त्म­त­त्त्व­द­र्शनो भवे­दि­त्य­भि­प्रायः ; ‘शुनि चैव श्वपाके च’(भ. गी. ५ । १८) ‘समं सर्वेषु भूतेषु’(भ. गी. १३ । २७) इत्यादिस्मृतेः ॥

इति द्वितीयं वैतथ्यप्रकरणं सम्पूर्णम् ॥