अद्वैतशारदा

माण्डूक्योपनिषद्भाष्यम्

अद्वैतप्रकरणम्

व्याख्याः

उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते ।
प्रागु­त्प­त्ते­रजं सर्वं तेनासौ कृपणः स्मृतः ॥ १ ॥

ओङ्कारनिर्णये उक्तः प्रपञ्चोपशमः शिवोऽद्वैत आत्मेति प्रति­ज्ञा­मा­त्रेण, ‘ज्ञाते द्वैतं न विद्यते’(मा. का. १ । १८) इति च । तत्र द्वैताभावस्तु वैतथ्यप्रकरणेन स्वप्न­मा­या­ग­न्ध­र्व­न­ग­रा­दि­दृ­ष्टा­न्तै­र्दृ­श्य­त्वा­द्य­न्त­व­त्त्वा­दि­हे­तु­भि­स्त­र्केण च प्रतिपादितः । अद्वैतं किमागममात्रेण प्रतिपत्तव्यम् , आहो­स्वि­त्त­र्के­णा­पी­त्यत आह — शक्यते तर्केणापि ज्ञातुम् ; तत्क­थ­मि­त्य­द्वै­त­प्र­क­र­ण­मा­र­भ्यते । उपा­स्यो­पा­स­ना­दि­भे­द­जातं सर्वं वितथम् , केवलश्चात्मा अद्वयः परमार्थ इति स्थितमतीते प्रकरणे ; यतः उपासनाश्रितः उपासनामात्मनो मोक्षसाधनत्वेन गतः उपासकोऽहं ममोपास्यं ब्रह्म । तदुपासनं कृत्वा जाते ब्रह्मणीदानीं वर्तमानः अजं ब्रह्म शरी­र­पा­ता­दूर्ध्वं प्रतिपत्स्ये प्रागु­त्प­त्ते­श्चा­ज­मिदं सर्वमहं च । यदात्मकोऽहं प्रागु­त्प­त्ते­रि­दानीं जातो जाते ब्रह्मणि च वर्तमान उपासनया पुनस्तदेव प्रतिपत्स्ये इत्ये­व­मु­पा­स­ना­श्रितो धर्मः साधकः येनैवं क्षुद्र­ब्र­ह्म­वित् , तेनासौ कारणेन कृपणो दीनोऽल्पकः स्मृतो नित्या­ज­ब्र­ह्म­द­र्शि­भि­र्म­हा­त्म­भि­रि­त्य­भि­प्रायः, ‘यद्वा­चा­न­भ्यु­दितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’(के. उ. १ । ५) इत्या­दि­श्रु­ते­स्त­ल­व­का­रा­णाम् ॥

अतो वक्ष्या­म्य­का­र्प­ण्य­म­जाति समतां गतम् ।
यथा न जायते किञ्चिज्जायमानं समन्ततः ॥ २ ॥

सबा­ह्या­भ्य­न्त­र­म­ज­मा­त्मानं प्रति­प­त्तु­म­श­क्नु­वन् अविद्यया दीनमात्मानं मन्यमानः जातोऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन्ब्रह्म प्रतिपत्स्ये इत्येवं प्रतिपन्नः कृपणो भवति यस्मात् , अतो वक्ष्यामि अकार्पण्यम् अकृपणभावमजं ब्रह्म । तद्धि कार्पण्यास्पदम् , ‘यत्रा­न्योऽ­न्य­त्प­श्य­त्य­न्य­च्छृ­णो­त्य­न्य­द्वि­जा­नाति तदल्पम्’(छा. उ. ७ । २४ । १) ‘मर्त्यं तत्’ ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) इत्या­दि­श्रु­तिभ्यः । तद्विपरीतं सबा­ह्या­भ्य­न्त­र­म­ज­म­का­र्पण्यं भूमाख्यं ब्रह्म ; यत्प्रा­प्या­वि­द्या­कृ­त­स­र्व­का­र्प­ण्य­नि­वृत्तिः, तदकार्पण्यं वक्ष्या­मी­त्यर्थः । तत् अजाति अविद्यमाना जातिरस्य । समतां गतं सर्वसाम्यं गतम् ; कस्मात् ? अव­य­व­वै­ष­म्या­भा­वात् । यद्धि सावयवं वस्तु, तदवयववैषम्यं गच्छज्जायत इत्युच्यते ; इदं तु निर­व­य­व­त्वा­त्स­मतां गतमिति न कैश्चिदवयवैः स्फुटति ; अतः अजाति अकार्पण्यं समन्ततः समन्तात् , यथा न जायते किञ्चित् अल्पमपि न स्फुटति रज्जु­स­र्प­व­द­वि­द्या­कृ­त­दृष्ट्या जायमानं येन प्रकारेण न जायते सर्वतः अजमेव ब्रह्म भवति, तथा तं प्रकारं शृण्वित्यर्थः ॥

आत्मा ह्याका­श­व­ज्जी­वै­र्घ­टा­का­शै­रि­वो­दितः ।
घटादिवच्च सङ्घा­तै­र्जा­ता­वे­त­न्नि­द­र्श­नम् ॥ ३ ॥

अजाति ब्रह्मा­का­र्पण्यं वक्ष्यामीति प्रतिज्ञातम् ; तत्सिद्ध्यर्थं हेतुं दृष्टान्तं च वक्ष्यामीत्याह — आत्मा परः हि यस्मात् आकाशवत् सूक्ष्मो निरवयवः सर्वगत आकाशवदुक्तः जीवैः क्षेत्रज्ञैः घटाकाशैरिव घटाकाशतुल्यैः उदितः उक्तः ; स एव आकाशसमः पर आत्मा । अथवा घटाकाशैर्यथा आकाश उदितः उत्पन्नः, तथा परो जीवा­त्म­भि­रु­त्पन्नः ; जीवात्मनां परस्मादात्मन उत्पत्तिर्या श्रूयते वेदान्तेषु, सा महा­का­शा­द्घ­टा­का­शो­त्प­त्ति­समा, न परमार्थत इत्यभिप्रायः । तस्मा­दे­वा­का­शा­द्घ­टा­दयः सङ्घाता यथा उत्पद्यन्ते, एव­मा­का­श­स्था­नी­या­त्प­र­मा­त्मनः पृथि­व्या­दि­भू­त­स­ङ्घाता आध्यात्मिकाश्च कार्यकरणलक्षणा रज्जु­स­र्प­व­द्वि­क­ल्पिता जायन्ते ; अत उच्यते — घटादिवच्च सङ्घातैरुदित इति । यदा मन्द­बु­द्धि­प्र­ति­पि­पा­द­यि­षया श्रुत्या आत्मनो जातिरुच्यते जीवादीनाम् , तदा जाता­वु­प­ग­म्य­मा­ना­याम् एतत् निदर्शनं दृष्टान्तः यथो­दि­ता­का­श­व­दि­त्यादिः ॥

घटादिषु प्रलीनेषु घटाकाशादयो यथा ।
आकाशे सम्प्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ ४ ॥

यथा घटा­द्यु­त्पत्त्या घटा­का­शा­द्यु­त्पत्तिः, यथा च घटादिप्रलयेन घटा­का­शा­दि­प्र­लयः, तद्व­द्दे­हा­दि­स­ङ्घा­तो­त्पत्त्या जीवोत्पत्तिः तत्प्रलयेन च जीवानाम् इह आत्मनि प्रलयः, न स्वत इत्यर्थः ॥

यथै­क­स्मि­न्घ­टा­काशे रजो­धू­मा­दि­भि­र्युते ।
न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५ ॥

सर्व­दे­हे­ष्वा­त्मै­कत्वे एकस्मिन् जन­न­म­र­ण­सु­ख­दुः­खा­दि­म­त्या­त्मनि सर्वात्मनां तत्सम्बन्धः क्रिया­फ­ल­सा­ङ्कर्यं च स्यादिति ये त्वाहु­र्द्वै­तिनः, तान्प्र­ती­द­मु­च्यते — यथा एकस्मिन् घटाकाशे रजोधूमादिभिः युते संयुक्ते, न सर्वे घटाकाशादयः तद्रजोधूमादिभिः संयुज्यन्ते, तद्वत् जीवाः सुखादिभिः । ननु, एक एवात्मा ; बाढम् ; ननु न श्रुतं त्वया आका­श­व­त्स­र्व­स­ङ्घा­ते­ष्वेक एवात्मेति ? यद्येक एवात्मा, तर्हि सर्वत्र सुखी दुःखी च स्यात् ; न चेदं साङ्ख्यस्य चोद्यं सम्भवति ; न हि साङ्ख्य आत्मनः सुख­दुः­खा­दि­म­त्त्व­मि­च्छति, बुद्धि­स­म­वा­या­भ्यु­प­ग­मा­त्सु­ख­दुः­खा­दी­नाम् ; न चोप­ल­ब्धि­स्व­रू­प­स्या­त्मनो भेदकल्पनायां प्रमाणमस्ति । भेदाभावे प्रधानस्य पारा­र्थ्या­नु­प­प­त्ति­रिति चेत् , न ; प्रधा­न­कृ­त­स्या­र्थ­स्या­त्म­न्य­स­म­वा­यात् ; यदि हि प्रधानकृतो बन्धो मोक्षो वा अर्थः पुरुषेषु भेदेन समवैति, ततः प्रधानस्य पारा­र्थ्य­मा­त्मै­कत्वे नोपपद्यत इति युक्ता पुरुषभेदकल्पना ; न च साङ्ख्यैर्बन्धो मोक्षो वार्थः पुरु­ष­स­म­वे­तोऽ­भ्यु­प­ग­म्यते, निर्विशेषाश्च चेतनमात्रा आत्मा­नोऽ­भ्यु­प­ग­म्यन्ते ; अतः पुरु­ष­स­त्ता­मा­त्र­प्र­यु­क्त­मेव प्रधानस्य पारार्थ्यं सिद्धम् , न तु पुरु­ष­भे­द­प्र­यु­क्त­मिति ; अतः पुरु­ष­भे­द­क­ल्प­नायां न प्रधानस्य पारार्थ्यं हेतुः ; न चान्य­त्पु­रु­ष­भे­द­क­ल्प­नायां प्रमाणमस्ति साङ्‍ख्यानाम् । परसत्तामात्रमेव चैत­न्नि­मि­त्ती­कृत्य स्वयं बध्यते मुच्यते च प्रधानम् ; पर­श्चो­प­ल­ब्धि­मा­त्र­स­त्ता­स्व­रू­पेण प्रधानप्रवृत्तौ हेतुः, न केन­चि­द्वि­शे­षे­णेति, केवलमूढतयैव पुरुषभेदकल्पना वेदा­र्थ­प­रि­त्या­गश्च । ये त्वाहु­र्वै­शे­षि­का­दयः इच्छादय आत्मसमवायिन इति ; तदप्यसत् , स्मृतिहेतूनां संस्का­रा­णा­म­प्र­दे­श­व­त्या­त्म­न्य­स­म­वा­यात् , आत्म­म­नः­सं­यो­गाच्च स्मृत्यु­त्पत्तेः स्मृति­नि­य­मा­नु­प­पत्तिः, युगपद्वा सर्व­स्मृ­त्यु­त्प­त्ति­प्र­सङ्गः । न च भिन्नजातीयानां स्पर्शा­दि­ही­ना­ना­मा­त्मनां मनआदिभिः सम्बन्धो युक्तः । न च द्रव्या­द्रू­पा­दयो गुणाः कर्म­सा­मा­न्य­वि­शे­ष­स­म­वाया वा भिन्नाः सन्ति । परेषां यदि ह्यत्यन्तभिन्ना एव द्रव्यात्स्युः इच्छा­द­य­श्चा­त्मनः, तथा सति द्रव्येण तेषां सम्ब­न्धा­नु­प­पत्तिः । अयुतसिद्धानां समवायलक्षणः सम्बन्धो न विरुध्यत इति चेत् , न ; इच्छा­दि­भ्योऽ­नि­त्येभ्य आत्मनो नित्यस्य पूर्व­सि­द्ध­त्वा­न्ना­यु­त­सि­द्ध­त्वो­प­पत्तिः । आत्मना अयुतसिद्धत्वे च इच्छा­दी­ना­मा­त्म­ग­त­म­ह­त्त्व­व­न्नि­त्य­त्व­प्र­सङ्गः । स चानिष्टः, आत्म­नोऽ­नि­र्मो­क्ष­प्र­स­ङ्गात् । समवायस्य च द्रव्यादन्यत्वे सति द्रव्येण सम्बन्धान्तरं वाच्यम् , यथा द्रव्यगुणयोः । समवायो नित्यसम्बन्ध एवेति न वाच्यमिति चेत् , तथा सति सम­वा­य­स­म्ब­न्ध­वतां नित्य­स­म्ब­न्ध­प्र­स­ङ्गा­त्पृ­थ­क्त्वा­नु­प­पत्तिः । अत्य­न्त­पृ­थक्त्वे च द्रव्यादीनां स्पर्श­व­द­स्प­र्श­द्र­व्य­यो­रिव षष्ठ्य­र्था­नु­प­पत्तिः । इच्छा­द्यु­प­ज­ना­पा­य­व­द्गु­ण­वत्त्वे च आत्म­नोऽ­नि­त्य­त्व­प्र­सङ्गः । देह­फ­ला­दि­व­त्सा­व­य­वत्वं विक्रियावत्त्वं च देहादिवदेवेति दोषावपरिहार्यौ । यथा त्वाकाशस्य अवि­द्या­ध्या­रो­पि­त­घ­टा­द्यु­पा­धि­कृ­त­र­जो­धू­म­म­ल­व­त्त्वा­दि­दो­ष­व­त्त्वम् , तथा आत्मनः अवि­द्या­ध्या­रो­पि­त­बु­द्ध्या­द्यु­पा­धि­कृ­त­सु­ख­दुः­खा­दि­दो­ष­वत्त्वे बन्धमोक्षादयो व्यावहारिका न विरुध्यन्ते ; सर्व­वा­दि­भि­र­वि­द्या­कृ­त­व्य­व­हा­रा­भ्यु­प­ग­मात् पर­मा­र्था­न­भ्यु­प­ग­माच्च । तस्मा­दा­त्म­भे­द­प­रि­क­ल्पना वृथैव तार्किकैः क्रियत इति ॥

रूप­का­र्य­स­मा­ख्याश्च भिद्यन्ते तत्र तत्र वै ।
आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ६ ॥

कथं पुन­रा­त्म­भे­द­नि­मित्त इव व्यवहार एक­स्मि­न्ना­त्म­न्य­वि­द्या­कृत उपपद्यत इति, उच्यते । यथा इहाकाशे एक­स्मि­न्घ­ट­क­र­का­प­व­र­का­द्या­का­शा­ना­म­ल्प­त्व­म­ह­त्त्वा­दि­रू­पाणि भिद्यन्ते, तथा कार्य­मु­द­का­ह­र­ण­धा­र­ण­श­य­नादि, समाख्याश्च घटाकाशः करकाकाश इत्याद्याः तत्कृताश्च भिन्ना दृश्यन्ते, तत्र तत्र वै व्यवहारविषये इत्यर्थः । सर्वोऽयमाकाशे रूपादिभेदकृतो व्यवहारः अपरमार्थ एव । पर­मा­र्थ­त­स्त्वा­का­शस्य न भेदोऽस्ति । न चाका­श­भे­द­नि­मित्तो व्यवहारोऽस्ति अन्तरेण परोपाधिकृतं द्वारम् । यथैतत् , तद्व­द्दे­हो­पा­धि­भे­द­कृ­तेषु जीवेषु घटा­का­श­स्था­नी­ये­ष्वा­त्मसु निरूपणात्कृतः बुद्धिमद्भिः निर्णयः निश्चय इत्यर्थः ॥

नाकाशस्य घटाकाशो विकारावयवौ यथा ।
नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ ७ ॥

ननु तत्र परमार्थकृत एव घटाकाशादिषु रूप­का­र्या­दि­भे­द­व्य­व­हार इति ; नैतदस्ति, यस्मा­त्प­र­मा­र्था­का­शस्य घटाकाशो न विकारः, यथा सुवर्णस्य रुचकादिः, यथा वा अपां फेन­बु­द्बु­द­हि­मादिः ; नाप्यवयवः, यथा वृक्षस्य शाखादिः । न तथा आकाशस्य घटाकाशो विकारावयवौ यथा, तथा नैवात्मनः परस्य परमार्थसतो महा­का­श­स्था­नी­यस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथो­क्त­दृ­ष्टा­न्त­वन्न विकारः, नाप्यवयवः । अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥

यथा भवति बालानां गगनं मलिनं मलैः ।
तथा भव­त्य­बु­द्धा­ना­मा­त्मापि मलिनो मलैः ॥ ८ ॥

यस्माद्यथा घटा­का­शा­दि­भे­द­बु­द्धि­नि­ब­न्धनो रूप­का­र्या­दि­भे­द­व्य­व­हारः, तथा देहो­पा­धि­जी­व­भे­द­कृतो जन्म­म­र­णा­दि­व्य­व­हारः, तस्मा­त्त­त्कृ­त­मेव क्लेश­क­र्म­फ­ल­म­ल­व­त्त्व­मा­त्मनः, न परमार्थत इत्येतमर्थं दृष्टान्तेन प्रति­पि­पा­द­यि­ष­न्नाह — यथा भवति लोके बालानाम् अविवेकिनां गगनम् आकाशं घनरजोधूमादिमलैः मलिनं मलवत् , न गग­न­या­था­त्म्य­वि­वे­क­व­ताम् , तथा भवति आत्मा परोऽपि — यो विज्ञाता प्रत्यक् — क्लेश­क­र्म­फ­ल­म­लै­र्म­लिनः अबुद्धानां प्रत्य­गा­त्म­वि­वे­क­र­हि­ता­नाम् , नात्मविवेकवताम् । न ह्यूषरदेशः तृड्व­त्प्रा­ण्य­ध्या­रो­पि­तो­द­क­फे­न­त­र­ङ्गा­दि­मान् , तथा नात्मा अबु­धा­रो­पि­त­क्ले­शा­दि­मलैः मलिनो भवतीत्यर्थः ॥

मरणे सम्भवे चैव गत्यागमनयोरपि ।
स्थितौ सर्वशरीरेषु चाका­शे­ना­वि­ल­क्षणः ॥ ९ ॥

पुन­र­प्यु­क्त­मे­वार्थं प्रपञ्चयति — घटा­का­श­ज­न्म­ना­श­ग­म­ना­ग­म­न­स्थि­ति­व­त्स­र्व­श­री­रे­ष्वा­त्मनो जन्म­म­र­णा­दि­रा­का­शे­ना­वि­ल­क्षणः प्रत्येतव्य इत्यर्थः ॥

सङ्घाताः स्वप्नवत्सर्व आत्म­मा­या­वि­स­र्जिताः ।
आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १० ॥

घटा­दि­स्था­नी­यास्तु देहादिसङ्घाताः स्वप्न­दृ­श्य­दे­हा­दि­व­न्मा­या­वि­कृ­त­दे­हा­दि­वच्च आत्म­मा­या­वि­स­र्जिताः, आत्मनो माया अविद्या, तया प्रत्यु­प­स्था­पिताः, न परमार्थतः सन्तीत्यर्थः । यदि आधिक्यमधिकभावः तिर्य­ग्दे­हा­द्य­पे­क्षया देवा­दि­का­र्य­क­र­ण­स­ङ्घा­ता­नाम् , यदि वा सर्वेषां समतैव, तेषां न ह्युप­प­त्ति­स­म्भवः, सम्भवप्रतिपादको हेतुः न विद्यते नास्ति ; हि यस्मात् , तस्मा­द­वि­द्या­कृता एव, न परमार्थतः सन्तीत्यर्थः ॥

रसादयो हि ये कोशा व्याख्या­ता­स्तै­त्ति­री­यके ।
तेषामात्मा परो जीवः खं यथा सम्प्रकाशितः ॥ ११ ॥

उत्प­त्त्या­दि­व­र्जि­त­स्या­द्व­य­स्या­स्या­त्म­त­त्त्वस्य श्रुति­प्र­मा­ण­क­त्व­प्र­द­र्श­नार्थं वाक्या­न्यु­प­न्य­स्यन्ते — रसादयः अन्नरसमयः प्राणमय इत्येवमादयः कोशा इव कोशाः अस्यादेः, उत्त­रो­त्त­रा­पे­क्षया बहि­र्भा­वा­त्पू­र्व­पू­र्वस्य व्याख्याताः विस्प­ष्ट­मा­ख्याताः तैत्तिरीयके तैत्ति­री­य­क­शा­खो­प­नि­ष­द्व­ल्ल्याम् , तेषां कोशानामात्मा येनात्मना पञ्चापि कोशा आत्म­व­न्तोऽ­न्त­र­त­मेन । स हि सर्वेषां जीव­न­नि­मि­त्त­त्वा­ज्जीवः । कोऽसावित्याह — पर एवात्मा यः पूर्वम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इति प्रकृतः ; यस्मादात्मनः स्वप्न­मा­या­दि­व­दा­का­शा­दि­क्र­मेण रसादयः कोशलक्षणाः सङ्घाता आत्म­मा­या­वि­स­र्जिता इत्युक्तम् । स आत्मा अस्माभिः यथा खं तथेति सम्प्रकाशितः, ‘आत्मा ह्याकाशवत्’(मा. का. ३ । ३) इत्यादिश्लोकैः । न तार्कि­क­प­रि­क­ल्पि­ता­त्म­व­त्पु­रु­ष­बु­द्धि­प्र­मा­ण­गम्य इत्यभिप्रायः ॥

द्वयो­र्द्व­यो­र्म­धु­ज्ञाने परं ब्रह्म प्रकाशितम् ।
पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ १२ ॥

किञ्च, अधि­दै­व­त­म­ध्यात्मं च तेजोमयोऽमृतमयः पुरुषः पृथि­व्या­द्य­न्त­र्गतो यो विज्ञाता पर एवात्मा ब्रह्म सर्वमिति द्वयोर्द्वयोः आ द्वैतक्षयात् परं ब्रह्म प्रकाशितम् ; क्वेत्याह — ब्रह्म­वि­द्याख्यं मधु अमृतम् , अमृतत्वं मोदनहेतुत्वात् , तद्विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणम् , तस्मि­न्नि­त्यर्थः । किमिवेत्याह — पृथिव्याम् उदरे चैव यथा एक आकाशः अनुमानेन प्रकाशितः लोके, तद्वदित्यर्थः ॥

जीवा­त्म­नो­र­न­न्य­त्व­म­भे­देन प्रशस्यते ।
नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३ ॥

यद्युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य चात्म­नोऽ­न­न्य­त्वम् अभेदेन प्रशस्यते स्तूयते शास्त्रेण व्यासादिभिश्च, यच्च सर्व­प्रा­णि­सा­धा­रणं स्वाभाविकं शास्त्र­ब­हि­र्मुखैः कुता­र्कि­कै­र्वि­र­चितं नानात्वदर्शनं निन्द्यते, ‘न तु तद्द्वि­ती­य­मस्ति’(बृ. उ. ४ । ३ । २३) ‘द्वितीयाद्वै भयं भवति’(बृ. उ. १ । ४ । २) ‘उदरमन्तरं कुरुते, अथ तस्य भयं भवति’(तै. उ. २ । ७ । १) ‘इदं सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(क. उ. २ । ४ । १०) इत्ये­व­मा­दि­वा­क्यै­र­न्यैश्च ब्रह्मविद्भिः यच्चैतत् , तदेवं हि समञ्जसम् ऋज्ववबोधं न्याय्य­मि­त्यर्थः । यास्तु तार्कि­क­प­रि­क­ल्पिताः कुदृष्टयः, ताः अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्च­न्ती­त्य­भि­प्रायः ॥

जीवात्मनोः पृथक्त्वं यत्प्रा­गु­त्पत्तेः प्रकीर्तितम् ।
भवि­ष्य­द्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ १४ ॥

ननु श्रुत्यापि जीवपरमात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः उत्प­त्त्य­र्थो­प­नि­ष­द्वा­क्येभ्यः पूर्वं प्रकीर्तितं कर्मकाण्डे अनेकशः कामभेदतः इदङ्कामः अदःकाम इति, परश्च ‘स दाधार पृथिवीं द्याम्’(ऋ. १० । १२१ । १) इत्या­दि­म­न्त्र­वर्णैः ; तत्र कथं कर्म­ज्ञा­न­का­ण्ड­वा­क्य­वि­रोधे ज्ञान­का­ण्ड­वा­क्या­र्थ­स्यै­वै­क­त्वस्य साम­ञ्ज­स्य­म­व­धा­र्यत इति । अत्रोच्यते — ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३ । १ । १) ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गाः’(बृ. उ. २ । १ । २०) ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) ‘तदैक्षत तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इत्या­द्यु­त्प­त्त्य­र्थो­प­नि­ष­द्वा­क्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकीर्तितं यत् , तन्न परमार्थतः । किं तर्हि ? गौणम् ; महा­का­श­घ­टा­का­शा­दि­भे­द­वत् , यथा ओदनं पचतीति भवि­ष्य­द्वृत्त्या, तद्वत् । न हि भेदवाक्यानां कदाचिदपि मुख्य­भे­दा­र्थ­क­त्व­मु­प­प­द्यते, स्वाभा­वि­का­वि­द्या­व­त्प्रा­णि­भे­द­दृ­ष्ट्य­नु­वा­दि­त्वा­दा­त्म­भे­द­वा­क्या­नाम् । इह च उपनिषत्सु उत्प­त्ति­प्र­ल­या­दि­वा­क्यै­र्जी­व­प­रा­त्म­नो­रे­क­त्व­मेव प्रति­पि­पा­द­यि­षि­तम् ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद’(बृ. उ. १ । ४ । १०) इत्यादिभिः ; अत उप­नि­ष­त्स्वे­कत्वं श्रुत्या प्रति­पि­पा­द­यि­षितं भविष्यतीति भाविनीमिव वृत्तिमाश्रित्य लोके भेद­दृ­ष्ट्य­नु­वादो गौण एवेत्यभिप्रायः । अथवा, ‘तदैक्षत. . . तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इत्या­द्यु­त्पत्तेः प्राक् ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । २) इत्येकत्वं प्रकीर्तितम् ; तदेव च ‘तत्सत्यं स आत्मा, तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्येकत्वं भविष्यतीति तां भवि­ष्य­द्वृ­त्ति­म­पेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानम् , तद्गौणम् ; यथा ओदनं पचतीति, तद्वत् ॥

मृल्लो­ह­वि­स्फु­लि­ङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५ ॥

ननु यद्युत्पत्तेः प्रागजं सर्व­मे­क­मे­वा­द्वि­ती­यम् , तथापि उत्प­त्ते­रूर्ध्वं जातमिदं सर्वं जीवाश्च भिन्ना इति । मैवम् , अन्या­र्थ­त्वा­दु­त्प­त्ति­श्रु­ती­नाम् । पूर्वमपि परिहृत एवायं दोषः — स्वप्न­व­दा­त्म­मा­या­वि­स­र्जिताः सङ्घाताः, घटा­का­शो­त्प­त्ति­भे­दा­दि­व­ज्जी­वा­ना­मु­त्प­त्ति­भे­दा­दि­रिति । इत एव उत्प­त्ति­भे­दा­दि­श्रु­तिभ्य आकृष्य इह पुन­रु­त्प­त्ति­श्रु­ती­ना­मै­द­म्प­र्य­प्र­ति­पि­पा­द­यि­ष­यो­प­न्यासः मृल्लो­ह­वि­स्फु­लि­ङ्गा­दि­दृ­ष्टा­न्तो­प­न्यासैः सृष्टिः या च उदिता प्रकाशिता कल्पिता अन्यथान्यथा च, स सर्वः सृष्टिप्रकारो जीव­प­र­मा­त्मै­क­त्व­बु­द्ध्य­व­ता­रा­यो­पा­योऽ­स्मा­कम् , यथा प्राणसंवादे वागा­द्या­सु­र­पा­प्म­वे­धा­द्या­ख्या­यिका कल्पिता प्राण­वै­शि­ष्ट्य­बो­धा­व­ता­राय ; तदप्यसिद्धमिति चेत् ; न, शाखा­भे­दे­ष्व­न्य­था­न्यथा च प्राणा­दि­सं­वा­द­श्र­व­णात् । यदि हि वादः परमार्थ एवाभूत् , एकरूप एव संवादः सर्व­शा­खा­स्व­श्रो­ष्यत, विरु­द्धा­ने­क­प्र­का­रेण नाश्रोष्यत ; श्रूयते तु ; तस्मान्न तादर्थ्यं संवादश्रुतीनाम् । तथो­त्प­त्ति­वा­क्यानि प्रत्येतव्यानि । कल्प­स­र्ग­भे­दा­त्सं­वा­द­श्रु­ती­ना­मु­त्प­त्ति­श्रु­तीनां च प्रति­स­र्ग­म­न्य­था­त्व­मिति चेत् ; न, निष्प्र­यो­ज­न­त्वा­द्य­थो­क्त­बु­द्ध्य­व­ता­र­प्र­यो­ज­न­व्य­ति­रे­केण । न ह्यन्य­प्र­यो­ज­न­वत्त्वं संवा­दो­त्प­त्ति­श्रु­तीनां शक्यं कल्पयितुम् । तथा­त्व­प्र­त्ति­प­त्तये ध्यानार्थमिति चेत् ; न, कल­हो­त्प­त्ति­प्र­ल­यानां प्रति­प­त्ते­र­नि­ष्ट­त्वात् । तस्मा­दु­त्प­त्त्या­दि­श्रु­तय आत्मै­क­त्व­बु­द्ध्य­व­ता­रा­यैव, नान्यार्थाः कल्पयितुं युक्ताः । अतो नास्त्यु­त्प­त्त्या­दि­कृतो भेदः कथञ्चन ॥

आश्र­मा­स्त्रि­विधा हीन­म­ध्य­मो­त्कृ­ष्ट­दृ­ष्टयः ।
उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६ ॥

यदि हि पर एवात्मा नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भाव एकः परमार्थतः सन् ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । २) इत्या­दि­श्रु­तिभ्यः, असदन्यत् , किम­र्थे­य­मु­पा­स­नो­प­दिष्टा ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. २ । ४ । ५) ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) ‘स क्रतुं कुर्वीत’(छा. उ. ३ । १४ । १) ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) इत्या­दि­श्रु­तिभ्यः, कर्माणि चाग्नि­हो­त्रा­दीनि ? शृणु तत्र कारणम् — आश्रमाः आश्र­मि­णोऽ­धि­कृताः, वर्णिनश्च मार्गगाः, आश्रमशब्दस्य प्रद­र्श­ना­र्थ­त्वात् , त्रिविधाः । कथम् ? हीन­म­ध्य­मो­त्कृ­ष्ट­दृ­ष्टयः हीना निकृष्टा मध्यमा उत्कृष्टा च दृष्टिः दर्शनसामर्थ्यं येषां ते, मन्द­म­ध्य­मो­त्त­म­बु­द्धि­सा­म­र्थ्यो­पेता इत्यर्थः । उपासना उपदिष्टा इयं तदर्थं मन्द­म­ध्य­म­दृ­ष्ट्या­श्र­मा­द्यर्थं कर्माणि च । न चात्मैक एवाद्वितीय इति निश्चि­तो­त्त­म­दृ­ष्ट्य­र्थम् । दयालुना देवेनानुकम्पया सन्मार्गगाः सन्तः कथ­मि­मा­मु­त्त­मा­मे­क­त्व­दृष्टिं प्राप्नुयुरिति, ‘यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’(के. उ. १ । ५) ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इत्या­दि­श्रु­तिभ्यः ॥

स्वसि­द्धा­न्त­व्य­व­स्थासु द्वैतिनो निश्चिता दृढम् ।
परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७ ॥

शास्त्रो­प­प­त्ति­भ्या­म­व­धा­रि­त­त्वा­द­द्व­या­त्म­द­र्शनं सम्यग्दर्शनम् , तद्बा­ह्य­त्वा­न्मि­थ्या­द­र्श­न­म­न्यत् । इतश्च मिथ्यादर्शनं द्वैतिनां राग­द्वे­षा­दि­दो­षा­स्प­द­त्वात् । कथम् ? स्वसि­द्धा­न्त­व्य­व­स्थासु स्वसि­द्धा­न्त­र­च­ना­नि­य­मेषु कपि­ल­क­णा­द­बु­द्धा­र्ह­ता­दि­दृ­ष्ट्य­नु­सा­रिणो द्वैतिनो निश्चिताः, एवमेवैष परमार्थो नान्यथेति, तत्र तत्रानुरक्ताः प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं रागद्वेषोपेताः स्वसि­द्धा­न्त­द­र्श­न­नि­मि­त्त­मेव परस्परम् अन्योन्यं विरुध्यन्ते । तैर­न्यो­न्य­वि­रो­धि­भि­र­स्म­दी­योऽयं वैदिकः सर्वा­न­न्य­त्वा­दा­त्मै­क­त्व­द­र्श­न­पक्षो न विरुध्यते, यथा स्वह­स्त­पा­दा­दिभिः । एवं राग­द्वे­षा­दि­दो­षा­ना­स्प­द­त्वा­दा­त्मै­क­त्व­बु­द्धि­रेव सम्य­ग्द­र्श­न­मि­त्य­भि­प्रायः ॥

अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।
तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८ ॥

केन हेतुना तैर्न विरुध्यत इत्युच्यते — अद्वैतं परमार्थः, हि यस्मात् द्वैतं नानात्वं तस्याद्वैतस्य भेदः तद्भेदः, तस्य कार्यमित्यर्थः, ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इति श्रुतेः ; उपपत्तेश्च, स्वचि­त्त­स्प­न्द­ना­भावे समाधौ मूर्छायां सुषुप्तौ वा अभावात् । अतः तद्भेद उच्यते द्वैतम् । द्वैतिनां तु तेषां पर­मा­र्थ­तोऽ­प­र­मा­र्थ­तश्च उभयथापि द्वैतमेव ; यदि च तेषां भ्रान्तानां द्वैतदृष्टिः अस्मा­क­म­द्वै­त­दृ­ष्टि­र­भ्रा­न्ता­नाम् , तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः, ‘इन्द्रो मायाभिः’(बृ. उ. २ । ५ । १९) ‘न तु तद्द्वि­ती­य­मस्ति’(बृ. उ. ४ । ३ । २३) इति श्रुतेः । यथा मत्तगजारूढः उन्मत्तं भूमिष्ठम् ‘प्रति­ग­जा­रू­ढोऽहं गजं वाहय मां प्रति’ इति ब्रुवाणमपि तं प्रति न वाह­य­त्य­वि­रो­ध­बुद्ध्या, तद्वत् । ततः परमार्थतो ब्रह्मविदात्मैव द्वैतिनाम् । तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः ॥

मायया भिद्यते ह्येत­न्ना­न्य­थाजं कथञ्चन ।
तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९ ॥

द्वैतमद्वैतभेद इत्युक्ते द्वैत­म­प्य­द्वै­त­व­त्प­र­मा­र्थ­स­दिति स्यात्क­स्य­चि­दा­श­ङ्के­त्यत आह — यत्प­र­मा­र्थ­स­द­द्वै­तम् , मायया भिद्यते ह्येतत् तैमि­रि­का­ने­क­च­न्द्र­वत् रज्जुः सर्प­धा­रा­दि­भि­र्भे­दै­रिव ; न परमार्थतः, निर­व­य­व­त्वा­दा­त्मनः । सावयवं ह्यव­य­वा­न्य­था­त्वेन भिद्यते, यथा मृत् घटादिभेदैः । तस्मा­न्नि­र­व­य­व­मजं नान्यथा कथञ्चन, केनचिदपि प्रकारेण न भिद्यत इत्यभिप्रायः । तत्त्वतो भिद्यमानं हि अमृतमजमद्वयं स्वभावतः सत् मर्त्यतां व्रजेत् , यथा अग्निः शीतताम् । तच्चानिष्टं स्वभा­व­वै­प­री­त्य­ग­म­नम् , सर्व­प्र­मा­ण­वि­रो­धात् । अज­म­द्व­य­मा­त्म­तत्त्वं माययैव भिद्यते, न परमार्थतः । तस्मान्न पर­मा­र्थ­स­द्द्वै­तम् ॥

अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः ।
अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ २० ॥

ये तु पुनः केचि­दु­प­नि­ष­द्व्या­ख्या­तारो ब्रह्मवादिनो वावदूकाः अजातस्यैव आत्म­त­त्त्व­स्या­मृ­तस्य स्वभावतो जातिम् उत्पत्तिम् इच्छन्ति परमार्थत एव, तेषां जातं चेत् , तदेव मर्त्य­ता­मे­ष्य­त्य­व­श्यम् । स च अजातो ह्यमृतो भावः स्वभावतः सन्नात्मा कथं मर्त्यतामेष्यति ? न कथञ्चन मर्त्यत्वं स्वभा­व­वै­प­री­त्य­मे­ष्य­ती­त्यर्थः ॥

न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृ­ते­र­न्य­था­भावो न कथ­ञ्चि­द्भ­वि­ष्यति ॥ २१ ॥

यस्मान्न भवति अमृतं मर्त्यं लोके नापि मर्त्यममृतं तथा, ततः प्रकृतेः स्वभावस्य अन्यथाभावः स्वतः प्रच्युतिः न कथ­ञ्चि­द्भ­वि­ष्यति, अग्ने­रि­वौ­ष्ण्यस्य ॥

स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।
कृत­के­ना­मृ­त­स्तस्य कथं स्थास्यति निश्चलः ॥ २२ ॥

यस्य पुनर्वादिनः स्वभावेन अमृतो भावः मर्त्यतां गच्छति परमार्थतो जायते, तस्य प्रागुत्पत्तेः स भावः स्वभावतोऽमृत इति प्रतिज्ञा मृषैव । कथं तर्हि ? कृतकेनामृतः तस्य स्वभावः । कृतकेनामृतः स कथं स्थास्यति निश्चलः ? अमृतस्वभावतया न कथ­ञ्चि­त्स्था­स्यति । आत्मजातिवादिनः सर्वथा अजं नाम नास्त्येव । सर्व­मे­त­न्म­र्त्यम् ; अतः अनि­र्मो­क्ष­प्र­सङ्ग इत्यभिप्रायः ॥

भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः ।
निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३ ॥

नन्वजातिवादिनः सृष्टि­प्र­ति­पा­दिका श्रुतिर्न सङ्गच्छते । बाढम् ; विद्यते सृष्टि­प्र­ति­पा­दिका श्रुतिः ; सा त्वन्यपरा, ‘उपायः सोऽवतारय’(मा. का. ३ । १५) इत्यवोचाम । इदानीमुक्तेऽपि परिहारे पुन­श्चो­द्य­प­रि­हारौ विवक्षितार्थं प्रति सृष्टि­श्रु­त्य­क्ष­रा­णा­मा­नु­लो­म्य­वि­रो­ध­श­ङ्का­मा­त्र­प­रि­हा­रार्थौ । भूततः परमार्थतः सृज्यमाने वस्तुनि, अभूततः मायया वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिः । ननु गौण­मु­ख्य­यो­र्मुख्ये शब्दा­र्थ­प्र­ति­प­त्ति­र्युक्ता ; न, अन्य­था­सृ­ष्टे­र­प्र­सि­द्ध­त्वा­न्नि­ष्प्र­यो­ज­न­त्वाच्च इत्यवोचाम । अवि­द्या­सृ­ष्टि­वि­ष­यैव सर्वा गौणी मुख्या च सृष्टिः, न परमार्थतः, ‘सबा­ह्या­भ्य­न्तरो ह्यजः’(मु. उ. २ । १ । २) इति श्रुतेः । तस्मात् श्रुत्या निश्चितं यत् एक­मे­वा­द्वि­ती­य­म­ज­म­मृ­त­मिति, युक्तियुक्तं च युक्त्या च सम्पन्नम् , तदेवेत्यवोचाम पूर्वै­र्ग्रन्थैः ; तदेव श्रुत्यर्थो भवति, नेतरत्कदाचिदपि क्वचिदपि ॥

नेह नानेति चाम्ना­या­दिन्द्रो मायाभिरित्यपि ।
अजायमानो बहुधा जायते मायया तु सः ॥ २४ ॥

कथं श्रुतिनिश्चय इत्याह — यदि हि भूतत एव सृष्टिः स्यात् , ततः सत्यमेव नानावस्त्विति तद­भा­व­प्र­द­र्श­नार्थ आम्नायो न स्यात् ; अस्ति च ‘नेह नानास्ति किञ्चन’(क. उ. २ । १ । ११) इत्याम्नायो द्वैत­भा­व­प्र­ति­षे­धार्थः ; तस्मा­दा­त्मै­क­त्व­प्र­ति­प­त्त्यर्था कल्पिता सृष्टिरभूतैव प्राणसंवादवत् । ‘इन्द्रो मायाभिः’(बृ. उ. २ । ५ । १९) इत्य­भू­ता­र्थ­प्र­ति­पा­द­केन मायाशब्देन व्यपदेशात् । ननु प्रज्ञावचनो मायाशब्दः ; सत्यम् , इन्द्रि­य­प्र­ज्ञाया अविद्यामयत्वेन माया­त्वा­भ्यु­प­ग­मा­द­दोषः । मायाभिः इन्द्रि­य­प्र­ज्ञा­भि­र­वि­द्या­रू­पा­भि­रि­त्यर्थः । ‘अजायमानो बहुधा विजायते’(तै. आ. ३ । १३) इति श्रुतेः । तस्मात् जायते मायया तु सः ; तु —शब्दोऽ­व­धा­र­णार्थः माययैवेति । न ह्यजायमानत्वं बहुधाजन्म च एकत्र सम्भवति, अग्नाविव शैत्यमौष्ण्यं च । फल­व­त्त्वा­च्चा­त्मै­क­त्व­द­र्श­न­मेव श्रुति­नि­श्चि­तोऽर्थः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इत्या­दि­म­न्त्र­व­र्णात् ‘मृत्योः स मृत्युमाप्नोति’(क. उ. २ । ४ । १०) इति निन्दितत्वाच्च सृष्ट्या­दि­भे­द­दृष्टेः ॥

सम्भू­ते­र­प­वा­दाच्च सम्भवः प्रतिषिध्यते ।
को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥

‘अन्धं तमः प्रविशन्ति ये सम्भूतिमुपासते’(ई. मा. ९) इति सम्भू­ते­रु­पा­स्य­त्वा­प­वा­दा­त्स­म्भवः प्रतिषिध्यते ; न हि पर­मा­र्थ­स­द्भू­तायां सम्भूतौ तदपवाद उपपद्यते । ननु विनाशेन सम्भूतेः समु­च्च­य­वि­धा­नार्थः सम्भूत्यपवादः, यथा ‘अन्धं तमः प्रविशन्ति येऽवि­द्या­मु­पा­सते’(ई. मा. १२) इति । सत्यमेव, देवतादर्शनस्य सम्भूतिविषयस्य विना­श­श­ब्द­वा­च्यस्य च कर्मणः समु­च्च­य­वि­धा­नार्थः सम्भूत्यपवादः ; तथापि विनाशाख्यस्य कर्मणः स्वाभा­वि­का­ज्ञा­न­प्र­वृ­त्ति­रू­पस्य मृत्यो­र­ति­त­र­णा­र्थ­त्व­वत् देव­ता­द­र्श­न­क­र्म­स­मु­च्च­यस्य पुरु­ष­सं­स्का­रा­र्थस्य कर्म­फ­ल­रा­ग­प्र­वृ­त्ति­रू­पस्य साध्य­सा­ध­नै­ष­णा­द्व­य­ल­क्ष­णस्य मृत्यो­र­ति­त­र­णा­र्थ­त्वम् । एवं ह्येष­णा­द्व­य­रू­पा­न्मृ­त्यो­र­शु­द्धे­र्वि­युक्तः पुरुषः संस्कृतः स्यात् । अतो मृत्यो­र­ति­त­र­णार्था देव­ता­द­र्श­न­क­र्म­स­मु­च्च­य­ल­क्षणा ह्यविद्या । एवमेव एष­णा­द्व­य­ल­क्ष­णा­वि­द्याया मृत्यो­र­ति­ती­र्णस्य विर­क्त­स्यो­प­नि­ष­च्छा­स्त्रा­र्था­लो­च­न­प­रस्य नान्तरीयिका पर­मा­त्मै­क­त्व­वि­द्यो­त्प­त्ति­रिति पूर्व­भा­वि­नी­म­वि­द्या­म­पेक्ष्य पश्चाद्भाविनी ब्रह्मविद्या अमृतत्वसाधना एकेन पुरुषेण सम्बध्यमाना अविद्यया समुच्चीयत इत्युच्यते । अतः अन्या­र्थ­त्वा­द­मृ­त­त्व­सा­धनं ब्रह्म­वि­द्या­म­पेक्ष्य, निन्दार्थ एव भवति सम्भूत्यपवादः यद्य­प्य­शु­द्धि­वि­यो­ग­हेतुः अतन्निष्ठत्वात् । अत एव सम्भू­ते­र­प­वा­दा­त्स­म्भू­ते­रा­पे­क्षि­क­मेव सत्त्वमिति पर­मा­र्थ­स­दा­त्मै­क­त्व­म­पेक्ष्य अमृताख्यः सम्भवः प्रतिषिध्यते । एवं माया­नि­र्मि­त­स्यैव जीवस्य अविद्यया प्रत्यु­प­स्था­पि­तस्य अविद्यानाशे स्वभा­व­रू­प­त्वा­त्प­र­मा­र्थतः को न्वेनं जनयेत् ? न हि रज्ज्वा­म­वि­द्या­ध्या­रो­पितं सर्पं पुनर्विवेकतो नष्टं जनयेत्कश्चित् ; तथा न कश्चिदेनं जनयेदिति । को न्वित्या­क्षे­पा­र्थ­त्वा­त्का­रणं प्रतिषिध्यते । अविद्योद्भूतस्य नष्टस्य जनयितृ कारणं न किञ्चि­द­स्ती­त्य­भि­प्रायः ; ‘नायं कुतश्चिन्न बभूव कश्चित्’(क. उ. १ । २ । १८) इति श्रुतेः ॥

स एष नेति नेतीति व्याख्यातं निह्नुते यतः ।
सर्व­म­ग्रा­ह्य­भा­वेन हेतुनाजं प्रकाशते ॥ २६ ॥

सर्व­वि­शे­ष­प्र­ति­षे­धेन ‘अथात आदेशो नेति नेति’(बृ. उ. २ । ३ । ६) इति प्रति­पा­दि­त­स्या­त्मनो दुर्बोधत्वं मन्यमाना श्रुतिः पुनः पुन­रु­पा­या­न्त­र­त्वेन तस्यैव प्रतिपिपादयिषया यद्य­द्व्या­ख्यातं तत्सर्वं निह्नुते । ग्राह्यं जनि­म­द्बु­द्धि­वि­ष­य­म­प­ल­प­त्य­र्थात् ‘स एष नेति नेति’(बृ. उ. ३ । ९ । २६) , (बृ. उ. ४ । २ । ४), , इत्या­त्म­नोऽ­दृ­श्यतां दर्शयन्ती श्रुतिः । उपा­य­स्यो­पे­य­नि­ष्ठ­ता­म­जा­नत उपायत्वेन व्याख्यातस्य उपे­य­व­द्ग्रा­ह्यता मा भूदिति अग्राह्यभावेन हेतुना कारणेन निह्नुत इत्यर्थः । तत­श्चै­व­मु­पा­य­स्यो­पे­य­नि­ष्ठ­ता­मेव जानत उपेयस्य च नित्यै­क­रू­प­त्व­मिति तस्य सबा­ह्या­भ्य­न्त­र­म­ज­मा­त्म­तत्त्वं प्रकाशते स्वयमेव ॥

सतो हि मायया जन्म युज्यते न तु तत्त्वतः ।
तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ २७ ॥

एवं हि श्रुतिवाक्यशतैः सबा­ह्या­भ्य­न्त­र­म­ज­मा­त्म­त­त्त्व­म­द्वयं न ततोऽन्यदस्तीति निश्चितमेतत् । युक्त्या चाधुनैतदेव पुनर्निर्धार्यत इत्याह — तत्रैतत्स्यात् सदा अग्राह्यमेव चेद­स­दे­वा­त्म­त­त्त्व­मिति ; तन्न, कार्यग्रहणात् । यथा सतो मायाविनः मायया जन्म कार्यम् , एवं जगतो जन्म कार्यं गृह्यमाणं मायाविनमिव पर­मा­र्थ­स­न्त­मा­त्मानं जगज्जन्म मायास्पदमेव गमयति । यस्मात् सतो हि विद्य­मा­ना­त्का­र­णात् मायानिर्मितस्य हस्त्या­दि­का­र्य­स्येव जगज्जन्म युज्यते, नासतः कारणात् । न तु तत्त्वत एव आत्मनो जन्म युज्यते । अथवा, सतः विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवत् मायया जन्म युज्यते न तु तत्त्वतो यथा, तथा अग्राह्यस्यापि सत एवात्मनो रज्जु­स­र्प­व­ज्ज­ग­द्रू­पेण मायया जन्म युज्यते । न तु तत्त्वत एवाजस्यात्मनो जन्म । यस्य पुनः पर­मा­र्थ­स­द­ज­मा­त्म­तत्त्वं जगद्रूपेण जायते वादिनः, न हि तस्य अजं जायत इति शक्यं वक्तुम् , विरोधात् । ततः तस्यार्थाज्जातं जायत इत्यापन्नम् । तत­श्चा­न­व­स्था­पा­ता­ज्जा­य­मा­नत्वं न । तस्मा­द­ज­मे­क­मे­वा­त्म­त­त्त्व­मिति सिद्धम् ॥

असतो मायया जन्म तत्त्वतो नैव युज्यते ।
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ २८ ॥

असद्वादिनाम् असतो भावस्य मायया तत्त्वतो वा न कथञ्चन जन्म युज्यते, अदृष्टत्वात् । न हि वन्ध्यापुत्रो मायया तत्त्वतो वा जायते । तस्मा­द­त्रा­स­द्वादो दूरत एवानुपपन्न इत्यर्थः ॥

यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।
तथा जाग्र­द्द्व­या­भासं स्पन्दते मायया मनः ॥ २९ ॥

कथं पुनः सतो माययैव जन्मेत्युच्यते — यथा रज्ज्वां विकल्पितः सर्पो रज्जु­रू­पे­णा­वे­क्ष्य­माणः सन् , एवं मनः पर­मा­त्म­वि­ज्ञ­प्त्या­त्म­रू­पे­णा­वे­क्ष्य­माणं सत् ग्राह्य­ग्रा­ह­क­रू­पेण द्वयाभासं स्पन्दते स्वप्ने मायया, रज्ज्वामिव सर्पः ; तथा तद्वदेव जाग्रत् जागरिते स्पन्दते मायया मनः, स्पन्दत इवेत्यर्थः ॥

अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३० ॥

रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेण अद्वयं सत् द्वयाभासं मनः स्वप्ने, न संशयः । न हि स्वप्ने हस्त्यादि ग्राह्यं तद्ग्राहकं वा चक्षुरादि, द्वयं विज्ञा­न­व्य­ति­रे­के­णास्ति ; जाग्रदपि तथैवेत्यर्थः ; पर­मा­र्थ­स­द्वि­ज्ञा­न­मा­त्रा­वि­शे­षात् ॥

मनोदृश्यमिदं द्वैतं यत्कि­ञ्चि­त्स­च­रा­च­रम् ।
मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥

रज्जु­स­र्प­व­द्वि­क­ल्प­ना­रूपं द्वैतरूपेण मन एवेत्युक्तम् । तत्र किं प्रमाणमिति, अन्व­य­व्य­ति­रे­क­ल­क्ष­ण­म­नु­मा­न­माह । कथम् ? तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यम् इदं द्वैतं सर्वं मन इति प्रतिज्ञा, तद्भावे भावात् तदभावे चाभावात् । मनसो हि अमनीभावे निरुद्धे विवे­क­द­र्श­ना­भ्या­स­वै­रा­ग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इति अभावात्सिद्धं द्वैत­स्या­स­त्त्व­मि­त्यर्थः ॥

आत्म­स­त्या­नु­बो­धेन न सङ्कल्पयते यदा ।
अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२ ॥

कथं पुनरयममनीभाव इत्युच्यते — आत्मैव सत्यमात्मसत्यम् , मृत्तिकावत् , ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छा. उ. ६ । १ । ४) इति श्रुतेः । तस्य शास्त्रा­चा­र्यो­प­दे­श­म­न्व­व­बोध आत्मसत्यानुबोधः । तेन सङ्क­ल्प्या­भा­वा­त्तन्न सङ्कल्पयते दाह्याभावे ज्वलनमिवाग्नेः यदा यस्मिन्काले, तदा तस्मिन्काले अमनस्ताम् अमनोभावं याति ; ग्राह्याभावे तत् मनः अग्रहं ग्रह­ण­वि­क­ल्प­ना­व­र्जि­त­मि­त्यर्थः ॥

अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ।
ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३३ ॥

यद्यसदिदं द्वैतम् , केन सम­ञ्ज­स­मा­त्म­तत्त्वं विबुध्यत इति, उच्यते — अकल्पकं सर्व­क­ल्प­ना­व­र्जि­तम् , अत एव अजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमार्थसता ब्रह्मणा अभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः । ‘न हि विज्ञा­तु­र्वि­ज्ञा­ते­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । ३०) अग्न्युष्णवत् , ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २८) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इत्या­दि­श्रु­तिभ्यः । तस्यैव विशेषणम् — ब्रह्म ज्ञेयं यस्य, स्वस्थं तदिदं ब्रह्म ज्ञेयम् औष्ण्य­स्ये­वा­ग्नि­व­द­भि­न्नम् , तेन आत्मस्वरूपेण अजेन ज्ञानेन अजं ज्ञेय­मा­त्म­तत्त्वं स्वयमेव विबुध्यते अवगच्छति । नित्य­प्र­का­श­स्व­रूप इव सविता नित्य­वि­ज्ञा­नै­क­र­स­घ­न­त्वान्न ज्ञाना­न्त­र­म­पे­क्षत इत्यर्थः ॥

निगृहीतस्य मनसो निर्विकल्पस्य धीमतः ।
प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३४ ॥

आत्म­स­त्या­नु­बो­धेन सङ्कल्पमकुर्वत् बाह्यविषयाभावे निरि­न्ध­ना­ग्नि­व­त्प्र­शान्तं सत् निगृहीतं निरुद्धं मनो भवतीत्युक्तम् । एवं च मनसो ह्यमनीभावे द्वैता­भा­व­श्चोक्तः । तस्यैवं निगृहीतस्य निरुद्धस्य मनसः निर्विकल्पस्य सर्व­क­ल्प­ना­व­र्जि­तस्य धीमतः विवेकवतः प्रचरणं प्रचारो यः, स तु प्रचारः विशेषेण ज्ञेयो विज्ञेयो योगिभिः । ननु सर्व­प्र­त्य­या­भावे यादृशः सुषुप्तिस्थस्य मनसः प्रचारः, तादृश एव निरुद्धस्यापि, प्रत्य­या­भा­वा­वि­शे­षात् ; किं तत्र विज्ञेयमिति । अत्रोच्यते — नैवम् , यस्मात्सुषुप्ते अन्यः प्रचा­रोऽ­वि­द्या­मो­ह­त­मो­ग्र­स्तस्य अन्त­र्ली­ना­ने­का­न­र्थ­प्र­वृ­त्ति­बी­ज­वा­स­ना­वतो मनसः आत्म­स­त्या­नु­बो­ध­हु­ता­श­वि­प्लु­ष्टा­वि­द्या­द्य­न­र्थ­प्र­वृ­त्ति­बी­जस्य निरुद्धस्य अन्य एव प्रशा­न्त­स­र्व­क्ले­श­र­जसः स्वतन्त्रः प्रचारः । अतो न तत्समः । तस्माद्युक्तः स विज्ञा­तु­मि­त्य­भि­प्रायः ॥

लीयते हि सुषुप्तौ तन्निगृहीतं न लीयते ।
तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५ ॥

प्रचारभेदे हेतुमाह — लीयते सुषुप्तौ हि यस्मा­त्स­र्वा­भि­र­वि­द्या­दि­प्र­त्य­य­बी­ज­वा­स­नाभिः सह तमोरूपम् अविशेषरूपं बीजभावमापद्यते तद्वि­वे­क­वि­ज्ञा­न­पू­र्वकं निगृहीतं निरुद्धं सत् न लीयते तमोबीजभावं नापद्यते । तस्माद्युक्तः प्रचारभेदः सुषुप्तस्य समाहितस्य मनसः । यदा ग्राह्य­ग्रा­ह­का­वि­द्या­कृ­त­म­ल­द्व­य­व­र्जि­तम् , तदा परमद्वयं ब्रह्मैव तत्सं­वृ­त्त­मि­त्यतः तदेव निर्भयम् , द्वैतग्रहणस्य भय­नि­मि­त्त­स्या­भा­वात् । शान्तमभयं ब्रह्म यद्विद्वान्न बिभेति कुतश्चन । तदेव विशेष्यते — ज्ञप्ति­र्ज्ञा­नम् आत्म­स्व­भा­व­चै­त­न्यम् , तदेव ज्ञानमालोकः प्रकाशो यस्य, तद्ब्रह्म ज्ञानालोकं विज्ञा­नै­क­र­स­घ­न­मि­त्यर्थः । समन्ततः समन्तात् ; सर्वतो व्योम­व­न्नै­र­न्त­र्येण व्यापकमित्यर्थः ॥

अज­म­नि­द्र­म­स्व­प्न­म­ना­म­क­म­रू­प­कम् ।
सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन ॥ ३६ ॥

जन्म­नि­मि­त्ता­भा­वा­त्स­बा­ह्या­भ्य­न्त­रम् अजम् ; अविद्यानिमित्तं हि जन्म रज्जु­स­र्प­व­दि­त्य­वो­चाम । सा चाविद्या आत्म­स­त्या­नु­बो­धेन निरुद्धा यतः, अतः अजम् , अत एव अनिद्रम् अवि­द्या­ल­क्ष­णा­ना­दि­र्मा­या­नि­द्रा­स्वा­पा­त्प्र­बु­द्धम् अद्व­य­स्व­रू­पे­णा­त्मना ; अतः अस्वप्नम् । अप्रबोधकृते ह्यस्य नामरूपे ; प्रबोधाच्च ते रज्जु­स­र्प­व­द्वि­नष्टे । न नाम्नाभिधीयते ब्रह्म, रूप्यते वा न केनचित्प्रकारेण इति अनामकम् अरूपकं च तत् , ‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ४ । १) इत्यादिश्रुतेः । किञ्च, सकृद्विभातं सदैव विभातं सदा भारूपम् , अग्र­ह­णा­न्य­था­ग्र­ह­णा­वि­र्भा­व­ति­रो­भा­व­व­र्जि­त­त्वात् । ग्रहणाग्रहणे हि रात्र्यहनी ; तम­श्चा­वि­द्या­ल­क्षणं सदा अप्रभातत्वे कारणम् ; तद­भा­वा­न्नि­त्य­चै­त­न्य­भा­रू­प­त्वाच्च युक्तं सकृद्विभातमिति । अत एव सर्वं च तत् ज्ञप्तिस्वरूपं चेति सर्वज्ञम् । नेह ब्रह्म­ण्ये­वं­विधे उपचरणमुपचारः कर्तव्यः, यथा अन्ये­षा­मा­त्म­स्व­रू­प­व्य­ति­रे­केण समा­धा­ना­द्यु­प­चारः । नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­व­त्वा­द्ब्र­ह्मणः कथञ्चन न कथञ्चिदपि कर्तव्यसम्भवः अविद्यानाशे इत्यर्थः ॥

सर्वाभिलापविगतः सर्व­चि­न्ता­स­मु­त्थितः ।
सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३७ ॥

अना­म­क­त्वा­द्यु­क्ता­र्थ­सि­द्धये हेतुमाह — अभिलप्यते अनेनेति अभिलापः वाक्करणं सर्व­प्र­का­र­स्या­भि­धा­नस्य, तस्माद्विगतः ; वाग­त्रो­प­ल­क्ष­णार्था, सर्व­बा­ह्य­क­र­ण­व­र्जित इत्येतत् । तथा, सर्व­चि­न्ता­स­मु­त्थितः, चिन्त्यते अनयेति चिन्ता बुद्धिः, तस्याः समुत्थितः, अन्तः­क­र­ण­वि­व­र्जित इत्यर्थः, ‘अप्राणो ह्यमनाः शुभ्रः अक्षरात्परतः परः’(मु. उ. २ । १ । २) इत्यादिश्रुतेः । यस्मा­त्स­र्व­वि­ष­य­व­र्जितः, अतः सुप्रशान्तः । सकृज्ज्योतिः सदैव ज्योतिः आत्म­चै­त­न्य­स्व­रू­पेण । समाधिः समा­धि­नि­मि­त्त­प्र­ज्ञा­व­ग­म्य­त्वात् ; समाधीयते अस्मिन्निति वा समाधिः । अचलः अविक्रियः । अत एव अभयः विक्रियाभावात् ॥

ग्रहो न तत्र नोत्स­र्ग­श्चिन्ता यत्र न विद्यते ।
आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३८ ॥

यस्माद्ब्रह्मैव ‘समाधिरचलोऽभयः’ इत्युक्तम् , अतः न तत्र तस्मिन्ब्रह्मणि ग्रहः ग्रहणमुपादानम् , न उत्सर्गः उत्सर्जनं हानं वा विद्यते । यत्र हि विक्रिया तद्विषयत्वं वा, तत्र हानोपादाने स्याताम् ; न तद्द्वयमिह ब्रह्मणि सम्भवति, विका­र­हे­तो­र­न्य­स्या­भा­वा­न्नि­र­व­य­व­त्वाच्च ; अतो न तत्र हानोपादाने सम्भवतः । चिन्ता यत्र न विद्यते, सर्वप्रकारैव चिन्ता न सम्भवति यत्र अमनस्त्वात् , कुतस्तत्र हानोपादाने इत्यर्थः । यदैव आत्मसत्यानुबोधो जातः, तदैव आत्मसंस्थं विष­या­भा­वा­द­ग्न्यु­ष्ण­व­दा­त्म­न्येव स्थितं ज्ञानम् , अजाति जातिवर्जितम् , समतां गतम् परं साम्यमापन्नं भवति । यदादौ प्रतिज्ञातम् ‘अतो वक्ष्या­म्य­का­र्प­ण्य­म­जाति समतां गतम्’(मा. का. ३ । २) इति, इदं तदुपपत्तितः शास्त्र­त­श्चो­क्त­मु­प­सं­ह्रि­यते — अजाति समतां गतमिति । एत­स्मा­दा­त्म­स­त्या­नु­बो­धा­त्का­र्प­ण्य­वि­ष­य­म­न्यत् , ‘यो वा एतदक्षरं गार्ग्य­वि­दि­त्वा­स्मा­ल्लो­का­त्प्रैति स कृपणः’(बृ. उ. ३ । ८ । १०) इति श्रुतेः । प्राप्यै­त­त्सर्वः कृतकृत्यो ब्राह्मणो भवतीत्यभिप्रायः ॥

अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिणाम् ।
योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३९ ॥

यद्यपीदमित्थं परमार्थतत्त्वम् , अस्पर्शयोगो नाम अयं सर्व­स­म्ब­न्धा­ख्य­स्प­र्श­व­र्जि­त­त्वात् अस्पर्शयोगो नाम वै स्मर्यते प्रसिद्ध उपनिषत्सु । दुःखेन दृश्यत इति दुर्दर्शः सर्वयोगिणाम् वेदा­न्त­वि­ज्ञा­न­र­हि­ता­नाम् ; आत्म­स­त्या­नु­बो­धा­या­स­लभ्य एवेत्यर्थः । योगिनः बिभ्यति हि अस्मा­त्स­र्व­भ­य­व­र्जि­ता­दपि आत्मनाशरूपमिमं योगं मन्यमाना भयं कुर्वन्ति, अभये अस्मिन् भयदर्शिनः भय­नि­मि­त्ता­त्म­ना­श­द­र्श­न­शीलाः अविवेकिनः इत्यर्थः ॥

मनसो निग्रहायत्तमभयं सर्वयोगिणाम् ।
दुःखक्षयः प्रबो­ध­श्चा­प्य­क्षया शान्तिरेव च ॥ ४० ॥

येषां पुन­र्ब्र­ह्म­स्व­रू­प­व्य­ति­रे­केण रज्जु­स­र्प­व­त्क­ल्पि­त­मेव मन इन्द्रियादि च न परमार्थतो विद्यते, तेषां ब्रह्म­स्व­रू­पा­णा­म­भयं मोक्षाख्या च अक्षया शान्तिः स्वभावत एव सिद्धा, नान्यायत्ता, ‘नोपचारः कथञ्चन’(मा. का. ३ । ३६) इत्युक्तेः ; ये त्वतोऽन्ये योगिनो मार्गगा हीनमध्यमदृष्टयो मनोऽ­न्य­दा­त्म­व्य­ति­रि­क्त­मा­त्म­स­म्बन्धि पश्यन्ति, तेषा­मा­त्म­स­त्या­नु­बो­ध­र­हि­तानां मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम् । किञ्च, दुःखक्षयोऽपि । न ह्यात्म­स­म्ब­न्धिनि मनसि प्रचलिते दुःख­क्ष­योऽ­स्त्य­वि­वे­कि­नाम् । किञ्च, आत्मप्रबोधोऽपि मनोनिग्रहायत्त एव । तथा, अक्षयापि मोक्षाख्या शान्तिस्तेषां मनो­नि­ग्र­हा­य­त्तैव ॥

उत्सेक उद­धे­र्य­द्व­त्कु­शा­ग्रे­णै­क­बि­न्दुना ।
मनसो निग्र­ह­स्त­द्व­द्भ­वे­द­प­रि­खे­दतः ॥ ४१ ॥

मनोनिग्रहोऽपि तेषाम् उदधेः कुशाग्रेण एकबिन्दुना उत्सेचनेन शोषणव्यवसायवत् व्यव­सा­य­व­ता­म­न­व­स­न्ना­न्तः­क­र­णा­ना­म­नि­र्वे­दात् अपरिखेदतः भवतीत्यर्थः ॥

उपायेन निगृ­ह्णी­या­द्वि­क्षिप्तं कामभोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२ ॥

किम­प­रि­खि­न्न­व्य­व­सा­य­मा­त्र­मेव मनोनिग्रहे उपायः ? नेत्युच्यते ; अप­रि­खि­न्न­व्य­व­सा­य­वा­न्सन् , वक्ष्य­मा­णे­नो­पा­येन कामभोगविषयेषु विक्षिप्तं मनो निगृह्णीयात् निरु­न्ध्या­दा­त्म­न्ये­वे­त्यर्थः । किञ्च, लीय­तेऽ­स्मि­न्निति सुषुप्तो लयः ; तस्मिन् लये च सुप्रसन्नम् आया­स­व­र्जि­त­म­पी­त्ये­तत् , निगृ­ह्णी­या­दि­त्य­नु­व­र्तते । सुप्रसन्नं चेत्क­स्मा­न्नि­गृ­ह्यत इति, उच्यते ; यस्मात् यथा कामः अनर्थहेतुः, तथा लयोऽपि ; अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरो­द्ध­व्य­त्व­मि­त्यर्थः ॥

दुःखं सर्वमनुस्मृत्य काम­भो­गा­न्नि­व­र्त­येत् ।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३ ॥

कः स उपाय इति, उच्यते — सर्वं द्वैत­म­वि­द्या­वि­जृ­म्भितं दुःखमेव इत्यनुस्मृत्य कामभोगात् कामनिमित्तो भोगः इच्छाविषयः तस्मात् विप्रसृतं मनो निवर्तयेत् वैरा­ग्य­भा­व­न­ये­त्यर्थः । अजं ब्रह्म सर्वम् इत्ये­त­च्छा­स्त्रा­चा­र्यो­प­दे­शतः अनुस्मृत्य तद्विपरीतं द्वैतजातं नैव तु पश्यति अभावात् ॥

लये सम्बो­ध­ये­च्चित्तं विक्षिप्तं शमयेत्पुनः ।
सकषायं विजा­नी­या­त्स­म­प्राप्तं न चालयेत् ॥ ४४ ॥

एवमनेन ज्ञाना­भ्या­स­वै­रा­ग्य­द्व­यो­पा­येन लये सुषुप्ते लीनं सम्बोधयेत् मनः आत्म­वि­वे­क­द­र्श­नेन योजयेत् । चित्तं मन इत्यनर्थान्तरम् । विक्षिप्तं च कामभोगेषु शमयेत्पुनः । एवं पुनः पुनरभ्यासतो लयात्सम्बोधितं विषयेभ्यश्च व्यावर्तितम् , नापि साम्या­प­न्न­म­न्त­रा­ला­वस्थं सकषायं सरागं बीजसंयुक्तं मन इति विजानीयात् । ततोऽपि यत्नतः साम्यमापादयेत् । यदा तु समप्राप्तं भवति, सम­प्रा­प्त्य­भि­मु­खी­भ­व­ती­त्यर्थः ; ततः तत् न चालयेत् , विषयाभिमुखं न कुर्यादित्यर्थः ॥

नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।
निश्चलं निश्च­र­च्चि­त्त­मे­की­कु­र्या­त्प्र­य­त्नतः ॥ ४५ ॥

समाधित्सतो योगिनो यत्सुखं जायते, तत् नास्वादयेत् तत्र न रज्येतेत्यर्थः । कथं तर्हि ? निःसङ्गः निःस्पृहः प्रज्ञया विवेकबुद्ध्या यदुपलभ्यते सुखम् , तद­वि­द्या­प­रि­क­ल्पितं मृषैवेति विभावयेत् ; ततोऽपि सुख­रा­गा­न्नि­गृ­ह्णी­या­दि­त्यर्थः । यदा पुनः सुख­रा­गा­न्नि­वृत्तं निश्चलस्वभावं सत् निश्चरत् बहि­र्नि­र्ग­च्छ­द्भ­वति चित्तम् , ततस्ततो नियम्य उक्तोपायेन आत्मन्येव एकीकुर्यात् प्रयत्नतः । चित्स्व­रू­प­स­त्ता­मा­त्र­मे­वा­पा­द­ये­दि­त्यर्थः ॥

यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६ ॥

यथोक्तेनोपायेन निगृहीतं चित्तं यदा सुषुप्ते न लीयते, न च पुनर्विषयेषु विक्षिप्यते ; अनिङ्गनम् अचलं निवा­त­प्र­दी­प­क­ल्पम् , अनाभासं न केनचित्कल्पितेन विष­य­भा­वे­ना­व­भा­सते इति ; यदा एवंलक्षणं चित्तम् , तदा निष्पन्नं ब्रह्म ; ब्रह्मस्वरूपेण निष्पन्नं चित्तं भवतीत्यर्थः ॥

स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् ।
अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ४७ ॥

यथोक्तं पर­मा­र्थ­सु­ख­मा­त्म­स­त्या­नु­बो­ध­ल­क्षणं स्वस्थं स्वात्मनि स्थितम् ; शान्तं सर्वा­न­र्थो­प­श­म­रू­पम् ; सनिर्वाणम् , निर्वृ­ति­र्नि­र्वाणं कैवल्यम् , सह निर्वाणेन वर्तते ; तच्च अकथ्यं न शक्यते कथयितुम् , अत्य­न्ता­सा­धा­र­ण­वि­ष­य­त्वात् ; सुखमुत्तमं निरतिशयं हि तद्यो­गि­प्र­त्य­क्ष­मेव ; न जातमिति अजम् , यथा विषयविषयम् ; अजेन अनुत्पन्नेन ज्ञेयेन अव्यतिरिक्तं सत् स्वेन सर्वज्ञरूपेण सर्वज्ञं ब्रह्मैव सुखं परिचक्षते कथयन्ति ब्रह्मविदः ॥

न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते ।
एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ४८ ॥

सर्वोऽप्ययं मनोनिग्रहादिः मृल्लो­हा­दि­व­त्सृ­ष्टि­रु­पा­सना च उक्ता पर­मा­र्थ­स्व­रू­प­प्र­ति­प­त्त्यु­पा­य­त्वेन, न परमार्थसत्येति । परमार्थसत्यं तु न कश्चिज्जायते जीवः कर्ता भोक्ता च नोत्पद्यते केनचिदपि प्रकारेण । अतः स्वभावतः अजस्य अस्य एकस्यात्मनः सम्भवः कारणं न विद्यते नास्ति । यस्मान्न विद्यतेऽस्य कारणम् , तस्मान्न कश्चिज्जायते जीव इत्येतत् । पूर्वे­षू­पा­य­त्वे­नो­क्तानां सत्यानाम् एतत् उत्तमं सत्यं यस्मि­न्स­त्य­स्व­रूपे ब्रह्मणि अणुमात्रमपि किञ्चिन्न जायते इति ॥

इति तृती­य­म­द्वै­त­प्र­क­रणं सम्पूर्णम् ॥