अद्वैतशारदा

माण्डूक्योपनिषद्भाष्यम्

अलातशान्तिप्रकरणम्

व्याख्याः

ज्ञाने­ना­का­श­क­ल्पेन धर्मान्यो गगनोपमान् ।
ज्ञेयाभिन्नेन सम्बुद्धस्तं वन्दे द्विपदां वरम् ॥ १ ॥

ओङ्का­र­नि­र्ण­य­द्वा­रेण आगमतः प्रति­ज्ञा­त­स्या­द्वै­तस्य बाह्य­वि­ष­य­भे­द­वै­त­थ्याच्च सिद्धस्य पुनरद्वैते शास्त्र­यु­क्तिभ्यां साक्षा­न्नि­र्धा­रि­तस्य एतदुत्तमं सत्य­मि­त्यु­प­सं­हारः कृतोऽन्ते । तस्यै­त­स्या­ग­मा­र्थस्य अद्वैतदर्शनस्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च । तेषां चान्यो­न्य­वि­रो­धा­द्रा­ग­द्वे­षा­दि­क्ले­शा­स्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् , क्लेशा­ना­स्प­द­त्वा­त्स­म्य­ग्द­र्श­न­मि­त्य­द्वै­त­द­र्श­न­स्तु­तये । तदिह विस्त­रे­णा­न्यो­न्य­वि­रु­द्ध­तया अस­म्य­ग्द­र्श­नत्वं प्रदर्श्य तत्प्र­ति­षे­धे­ना­द्वै­त­द­र्श­न­सि­द्धि­रु­प­सं­ह­र्तव्या आवी­त­न्या­ये­ने­त्य­ला­त­शा­न्ति­प्र­क­र­ण­मा­र­भ्यते । तत्रा­द्वै­त­द­र्श­न­स­म्प्र­दा­य­क­र्तु­र­द्वै­त­स्व­रू­पे­णैव नम­स्का­रा­र्थोऽ­य­मा­द्य­श्लोकः । आचार्यपूजा हि अभि­प्रे­ता­र्थ­सि­द्ध्य­र्थे­ष्यते शास्त्रारम्भे । आकाशेन ईष­द­स­मा­प्त­मा­का­श­क­ल्प­मा­का­श­तु­ल्य­मि­त्ये­तत् । तेन आकाशकल्पेन ज्ञानेन । किम् ? धर्मानात्मनः । किंविशिष्टान् ? गगनोपमान् गगनमुपमा येषां ते गगनोपमाः, तानात्मनो धर्मान् । ज्ञानस्यैव पुनर्विशेषणम् — ज्ञेयै­र्ध­र्मै­रा­त्म­भि­र­भि­न्नम् अग्न्युष्णवत् सवितृप्रकाशवच्च यत् ज्ञानम् , तेन ज्ञेयाभिन्नेन ज्ञानेन आकाशकल्पेन ज्ञेया­त्म­स्व­रू­पा­व्य­ति­रि­क्तेन, गग­नो­प­मा­न्ध­र्मान्यः सम्बुद्धः सम्बु­द्ध­वा­न्नि­त्य­मेव ईश्वरो यो नारायणाख्यः, तं वन्दे अभिवादये । द्विपदां वरं द्विप­दो­प­ल­क्षि­तानां पुरुषाणां वरं प्रधानम् , पुरु­षो­त्त­म­मि­त्य­भि­प्रायः । उप­दे­ष्टृ­न­म­स्का­र­मु­खेन ज्ञान­ज्ञे­य­ज्ञा­तृ­भे­द­र­हितं पर­मा­र्थ­त­त्त्व­द­र्श­न­मिह प्रकरणे प्रति­पि­पा­द­यि­षितं प्रति­प­क्ष­प्र­ति­षे­ध­द्वा­रेण प्रतिज्ञातं भवति ॥

अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः ।
अवि­वा­दोऽ­वि­रु­द्धश्च देशितस्तं नमाम्यहम् ॥ २ ॥

अधुना अद्वै­त­द­र्श­न­यो­गस्य नमस्कारः तत्स्तुतये — स्पर्शनं स्पर्शः सम्बन्धो न विद्यते यस्य योगस्य केन­चि­त्क­दा­चि­दपि, सः अस्पर्शयोगः ब्रह्मस्वभाव एव वै नामेति ; ब्रह्म­वि­दा­म­स्प­र्श­योग इत्येवं प्रसिद्ध इत्यर्थः । स च सर्वसत्त्वसुखो भवति । कश्चि­द­त्य­न्त­सु­ख­सा­ध­न­वि­शि­ष्टोऽपि दुःखस्वरूपः, यथा तपः । अयं तु न तथा । किं तर्हि ? सर्वसत्त्वानां सुखः । तथा इह भवति कश्चि­द्वि­ष­यो­प­भोगः सुखो न हितः ; अयं तु सुखो हितश्च, नित्य­म­प्र­च­लि­त­स्व­भा­व­त्वात् । किं च अविवादः, विरुद्धं वदनं विवादः पक्ष­प्र­ति­प­क्ष­प­रि­ग्र­हेण यस्मिन्न विद्यते सः अविवादः । कस्मात् ? यतः अविरुद्धश्च ; य ईदृशो योगः देशितः उपदिष्टः शास्त्रेण, तं नमाम्यहं प्रणमामीत्यर्थः ॥

भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि ।
अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ ३ ॥

कथं द्वैतिनः परस्परं विरुध्यन्त इति, उच्यते — भूतस्य विद्यमानस्य वस्तुनः जातिम् उत्पत्तिम् इच्छन्ति वादिनः केचिदेव हि साङ्ख्याः ; न सर्व एव द्वैतिनः । यस्मात् अभूतस्य अविद्यमानस्य अपरे वैशेषिका नैयायिकाश्च धीराः धीमन्तः, प्राज्ञाभिमानिन इत्यर्थः । विवदन्तः विरुद्धं वदन्तो हि अन्यो­न्य­मि­च्छन्ति जेतु­मि­त्य­भि­प्रायः ॥

भूतं न जायते किञ्चिदभूतं नैव जायते ।
विवदन्तोऽद्वया ह्येवमजातिं ख्यापयन्ति ते ॥ ४ ॥

तैरेवं विरुद्धवदनेन अन्यो­न्य­प­क्ष­प्र­ति­षेधं कुर्वद्भिः किं ख्यापितं भवतीति, उच्यते — भूतं विद्यमानं वस्तु न जायते किञ्चि­द्वि­द्य­मा­न­त्वा­देव आत्मवत् इत्येवं वदन् असद्वादी साङ्ख्यपक्षं प्रतिषेधति सज्जन्म । तथा अभूतम् अविद्यमानम् अवि­द्य­मा­न­त्वा­न्नैव जायते शशविषाणवत् इत्येवं वदन्साङ्ख्योऽपि अस­द्वा­दि­प­क्ष­म­स­ज्जन्म प्रतिषेधति । विवदन्तः विरुद्धं वदन्तः अद्वयाः अद्वैतिनो ह्येते अन्योन्यस्य पक्षौ सदसतोर्जन्मनी प्रतिषेधन्तः अजातिम् अनु­त्प­त्ति­म­र्था­त्ख्या­प­यन्ति प्रकाशयन्ति ते ॥

ख्याप्य­मा­ना­म­जातिं तैरनुमोदामहे वयम् ।
विवदामो न तैः सार्धमविवादं निबोधत ॥ ५ ॥

तैरेवं ख्यप्य­मा­ना­म­जा­तिम् एवमस्तु इति अनुमोदामहे केवलम् , न तैः सार्धं विवदामः पक्ष­प्र­ति­प­क्ष­प­रि­ग्र­हेण ; यथा ते अन्यो­न्य­मि­त्य­भि­प्रायः । अतः तम् अविवादं विवादरहितं पर­मा­र्थ­द­र्श­न­म­नु­ज्ञा­त­म­स्माभिः निबोधत हे शिष्याः ॥

अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः ।
अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ६ ॥

सदसद्वादिनः सर्वे । अयं तु पुर­स्ता­त्कृ­त­भाष्यः श्लोकः ॥

न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृ­ते­र­न्य­था­भावो न कथ­ञ्चि­द्भ­वि­ष्यति ॥ ७ ॥

स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यतात् ।
कृत­के­ना­मृ­त­स्तस्य कथं स्थास्यति निश्चलः ॥ ८ ॥

उक्तार्थानां श्लोका­ना­मि­हो­प­न्यासः पर­वा­दि­प­क्षा­णा­म­न्यो­न्य­वि­रो­ध­ख्या­पि­ता­नु­त्प­त्त्या­मो­द­न­प्र­द­र्श­नार्थः ॥

सांसिद्धिकी स्वाभाविकी सहजा अकृता च या ।
प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ ९ ॥

यस्मा­ल्लौ­कि­क्यपि प्रकृतिर्न विपर्येति, कासावित्याह — सम्यक्सिद्धिः संसिद्धिः, तत्र भवा सांसिद्धिकी ; यथा योगिनां सिद्धा­ना­म­णि­मा­द्यै­श्व­र्य­प्राप्तिः प्रकृतिः, सा भूत­भ­वि­ष्य­त्का­ल­यो­रपि योगिनां न विपर्येति । तथैव सा । स्वाभाविकी द्रव्यस्वभावत एव सिद्धा, यथा अग्न्या­दी­ना­मु­ष्ण­प्र­का­शा­दि­ल­क्षणा । सापि न कालान्तरे व्यभिचरति देशान्तरे वा, तथा सहजा आत्मना सहैव जाता, यथा पक्ष्या­दी­ना­मा­का­श­ग­म­ना­दि­ल­क्षणा । अन्यापि या काचित् अकृता केनचिन्न कृता, यथा अपां निम्न­दे­श­ग­म­ना­दि­ल­क्षणा । अन्यापि या काचित्स्वभावं न जहाति, सा सर्वा प्रकृतिरिति विज्ञेया लोके । मिथ्याकल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृ­ति­र्ना­न्यथा भवति ; किमुत अजस्वभावेषु परमार्थवस्तुषु ? अमृतत्वलक्षणा प्रकृ­ति­र्ना­न्यथा भवे­दि­त्य­भि­प्रायः ॥

जरा­म­र­ण­नि­र्मुक्ताः सर्वे धर्माः स्वभावतः ।
जरा­म­र­ण­मि­च्छ­न्त­श्च्य­वन्ते तन्मनीषया ॥ १० ॥

किंविषया पुनः सा प्रकृतिः, यस्या अन्यथाभावो वादिभिः कल्प्यते ? कल्पनायां वा को दोष इत्याह जरा­म­र­ण­नि­र्मुक्ताः जरा­म­र­णा­दि­स­र्व­वि­क्रि­या­व­र्जिता इत्यर्थः । के ? सर्वे धर्माः सर्वे आत्मान इत्येतत् । स्वभावतः प्रकृतित एव । अत एवंस्वभावाः सन्तो धर्मा जरामरणमिच्छन्त इवेच्छन्तः रज्ज्वामिव सर्पमात्मनि कल्पयन्तः च्यवन्ते, स्वभा­व­त­श्च­ल­न्ती­त्यर्थः । तन्मनीषया जरामरणचिन्तया तद्भा­व­भा­वि­त­त्व­दो­षे­णे­त्यर्थः ॥

कारणं यस्य वै कार्यं कारणं तस्य जायते ।
जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११ ॥

कथं सज्जातिवादिभिः साङ्ख्यै­र­नु­प­प­न्न­मु­च्यते इति, आह वैशेषिकः — कारणं मृद्व­दु­पा­दा­न­ल­क्षणं यस्य वादिनः वै कार्यम् , कारणमेव कार्याकारेण परिणमते यस्य वादिन इत्यर्थः । तस्य अजमेव सत् प्रधानादि कारणं मह­दा­दि­का­र्य­रू­पेण जायत इत्यर्थः । महदाद्याकारेण चेज्जायमानं प्रधानम् , कथमजमुच्यते तैः ? विप्रतिषिद्धं चेदम् — जायते अजं चेति । नित्यं च तैरुच्यते । प्रधानं भिन्नं विदीर्णम् ; स्फुटितमेकदेशेन सत् कथं नित्यं भवेदित्यर्थः । न हि सावयवं घटादि एकदेशेन स्फुटनधर्मि नित्यं दृष्टं लोके इत्यर्थः । विदीर्णं च स्यादेकदेशेनाजं नित्यं चेत्येतत् विप्रतिषिद्धं तैरभिधीयत इत्यभिप्रायः ॥

कार­णा­द्य­द्य­न­न्य­त्व­मतः कार्यमजं तव ।
जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ १२ ॥

उक्त­स्यै­वा­र्थस्य स्पष्टी­क­र­णा­र्थ­माह — कारणात् अजात् कार्यस्य यदि अनन्यत्वमिष्टं त्वया, ततः कार्यमप्यजमिति प्राप्तम् । इदं चान्य­द्वि­प्र­ति­षिद्धं कार्यमजं चेति तव । किञ्चान्यत् , कार्य­का­र­ण­यो­र­न­न्यत्वे जायमानाद्धि वै कार्यात् कारणम् अनन्यन्नित्यं ध्रुवं च ते कथं भवेत् ? न हि कुक्कुट्या एकदेशः पच्यते, एकदेशः प्रसवाय कल्प्यते ॥

अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै ।
जाताच्च जायमानस्य न व्यवस्था प्रसज्यते ॥ १३ ॥

किञ्चान्यत् , यत् अजात् अनु­त्प­न्ना­द्व­स्तुनः जायते यस्य वादिनः कार्यम् , दृष्टान्तः तस्य नास्ति वै ; दृष्टान्ताभावे अर्थादजान्न किञ्चिज्जायते इति सिद्धं भवतीत्यर्थः । यदा पुनः जातात् जायमानस्य वस्तुनः अभ्युपगमः, तदपि अन्य­स्मा­ज्जा­ता­त्त­द­प्य­न्य­स्मा­दिति न व्यवस्था प्रसज्यते । अनवस्था स्यादित्यर्थः ॥

हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।
हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ १४ ॥

‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत्’(बृ. उ. ४ । ५ । १५) इति परमार्थतो द्वैताभावः श्रुत्योक्तः ; तमाश्रित्याह — हेतोः धर्मादेः आदिः कारणं देहादिसङ्घातः फलं येषां वादिनाम् ; तथा आदिः कारणं हेतुर्धर्मादिः फलस्य च देहादिसङ्घातस्य ; एवं हेतु­फ­ल­यो­रि­त­रे­त­र­का­र्य­का­र­ण­त्वेन आदिमत्त्वं ब्रुवद्भिः एवं हेतोः फलस्य च अनादित्वं कथं तैरुपवर्ण्यते विप्र­ति­षि­द्ध­मि­त्यर्थः । न हि नित्यस्य कूटस्थस्यात्मनो हेतुफलात्मकता सम्भवति ॥

हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।
तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ १५ ॥

कथं तैर्वि­रु­द्ध­म­भ्यु­प­ग­म्यत इति, उच्यते — हेतुजन्यादेव फलात् हेतो­र्ज­न्मा­भ्यु­प­ग­च्छतां तेषामीदृशो विरोध उक्तो भवति, यथा पुत्राज्जन्म पितुः ॥

सम्भवे हेतु­फ­ल­यो­रे­षि­तव्यः क्रमस्त्वया ।
युगपत्सम्भवे यस्मादसम्बन्धो विषाणवत् ॥ १६ ॥

यथोक्तो विरोधो न युक्तोऽ­भ्यु­प­ग­न्तु­मिति चेन्मन्यसे, सम्भवे उत्पत्तौ हेतुफलयोः क्रमः एषितव्यः अन्वेष्टव्यः त्वया — हेतुः पूर्वं पश्चात्फलं चेति । इतश्च युगपत्सम्भवे यस्मा­द्धे­तु­फ­लयोः कार्यकारणत्वेन असम्बन्धः, यथा युगपत्सम्भवतोः सव्ये­त­र­गो­वि­षा­णयोः ॥

फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति ।
अप्रसिद्धः कथं हेतुः फल­मु­त्पा­द­यि­ष्यति ॥ १७ ॥

कथमसम्बन्ध इत्याह — जन्या­त्स्व­तोऽ­ल­ब्धा­त्म­कात् फलात् उत्पद्यमानः सन् शश­वि­षा­णा­दे­रि­वा­सतो न हेतुः प्रसिध्यति जन्म न लभते । अलब्धात्मकः अप्रसिद्धः सन् शशविषाणादिकल्पः तव स कथं फल­मु­त्पा­द­यि­ष्यति ? न हि इत­रे­त­रा­पे­क्ष­सिद्ध्योः शशविषाणकल्पयोः कार्यकारणभावेन सम्बन्धः क्वचिद्दृष्टः अन्यथा वेत्यभिप्रायः ॥

यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः ।
कत­र­त्पू­र्व­नि­ष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८ ॥

अस­म्ब­न्ध­ता­दो­षे­णा­पा­कृ­तेऽपि हेतुफलयोः कार्यकारणभावे, यदि हेतु­फ­ल­यो­र­न्यो­न्य­सि­द्धि­र­भ्यु­प­ग­म्यत एव त्वया, कत­र­त्पू­र्व­नि­ष्पन्नं हेतुफलयोः ? यस्य पश्चाद्भाविनः सिद्धिः स्यात्पू­र्व­सि­द्धा­पे­क्षया, तद्ब्रू­ही­त्यर्थः ॥

अश­क्ति­र­प­रि­ज्ञानं क्रमकोपोऽथ वा पुनः ।
एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ १९ ॥

अथ एतन्न शक्यते वक्तुमिति मन्यसे, सेयमशक्तिः अपरिज्ञानं तत्त्वाविवेकः, मूढतेत्यर्थः । अथ वा, योऽयं त्वयोक्तः क्रमः हेतोः फलस्य सिद्धिः फलाच्च हेतोः सिद्धिरिति इत­रे­त­रा­न­न्त­र्य­ल­क्षणः, तस्य कोपः विप­र्या­सोऽ­न्य­था­भावः स्यादि­त्य­भि­प्रायः । एवं हेतुफलयोः कार्य­का­र­ण­भा­वा­नु­प­पत्तेः अजातिः सर्व­स्या­नु­त्पत्तिः परिदीपिता प्रकाशिता अन्यो­न्य­प­क्ष­दोषं ब्रुव­द्भि­र्वा­दिभिः बुद्धैः पण्डि­तै­रि­त्यर्थः ॥

बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः ।
न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २० ॥

ननु हेतुफलयोः कार्यकारणभाव इत्य­स्मा­भि­रुक्तं शब्द­मा­त्र­मा­श्रित्य च्छलमिदं त्वयोक्तम् — ‘पुत्राज्जन्म पितुर्यथा’(मा. का. ४ । १५) ‘विषा­ण­व­च्चा­स­म्बन्धः’(मा. का. ४ । १६) इत्यादि । न ह्यस्माभिः असिद्धाद्धेतोः फलसिद्धिः, असिद्धाद्वा फला­द्धे­तु­सि­द्धि­र­भ्यु­प­गता । किं तर्हि ? बीजा­ङ्कु­र­व­त्का­र्य­का­र­ण­भा­वोऽ­भ्यु­प­ग­म्यत इति । अत्रोच्यते — बीजाङ्कुराख्यो दृष्टान्तो यः, स साध्येन समः तुल्यो ममेत्यभिप्रायः । ननु प्रत्यक्षः कार्यकारणभावो बीजा­ङ्कु­र­यो­र­नादिः ; न, पूर्वस्य पूर्वस्य अप­र­भा­वा­दा­दि­म­त्त्वा­भ्यु­प­ग­मात् । यथा इदा­नी­मु­त्प­न्नोऽ­प­रोऽ­ङ्कुरो बीजादादिमान् बीजं चाप­र­म­न्य­स्मा­द­ङ्कु­रा­दिति क्रमे­णो­त्प­न्न­त्वा­दा­दि­मत् । एवं पूर्वः पूर्वोऽङ्कुरो बीजं च पूर्वं पूर्व­मा­दि­म­दे­वेति प्रत्येकं सर्वस्य बीजा­ङ्कु­र­जा­त­स्या­दि­म­त्त्वा­त्क­स्य­चि­द­प्य­ना­दि­त्वा­नु­प­पत्तिः । एवं हेतुफलयोः । अथ बीजा­ङ्कु­र­स­न्त­ते­र­ना­दि­म­त्त्व­मिति चेत् ; न, एकत्वानुपपत्तेः ; न हि बीजा­ङ्कु­र­व्य­ति­रे­केण बीजा­ङ्कु­र­स­न्त­ति­र्ना­मैका अभ्युपगम्यते हेतु­फ­ल­स­न्त­तिर्वा तद­ना­दि­त्व­वा­दिभिः । तस्मात्सूक्तम् ‘हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते’ इति । तथा च अन्य­द­प्य­नु­प­प­त्तेर्न च्छल­मि­त्य­भि­प्रायः । न च लोके साध्यसमो हेतुः साध्यस्य सिद्धौ सिद्धिनिमित्तं युज्यते प्रयुज्यते प्रमा­ण­कु­श­लै­रि­त्यर्थः । हेतुरिति दृष्टा­न्तोऽ­त्र­भि­प्रेतः, गमकत्वात् ; प्रकृतो हि दृष्टान्तः, न हेतुरिति ॥

पूर्वा­प­रा­प­रि­ज्ञा­न­म­जातेः परिदीपकम् ।
जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते ॥ २१ ॥

कथं बुद्धैरजातिः परिदीपितेति, आह — यदेतत् हेतुफलयोः पूर्वा­प­रा­प­रि­ज्ञा­नम् , तच्चैतत् अजातेः परिदीपकम् अवबोधकमित्यर्थः । जायमानो हि चेद्धर्मो गृह्यते, कथं तस्मात्पूर्वं कारणं न गृह्यते ? अवश्यं हि जायमानस्य ग्रहीत्रा तज्जनकं ग्रहीतव्यम् , जन्यजनकयोः सम्ब­न्ध­स्या­न­पे­त­त्वात् ; तस्मा­द­जा­ति­प­रि­दी­पकं तदित्यर्थः ॥

स्वतो वा परतो वापि न किञ्चिद्वस्तु जायते ।
सदसत्सदसद्वापि न किञ्चिद्वस्तु जायते ॥ २२ ॥

इतश्च न जायते किञ्चित् यज्जायमानं वस्तु स्वतः परतः उभयतो वा सत् असत् सदसद्वा न जायते, न तस्य केनचिदपि प्रकारेण जन्म सम्भवति । न ताव­त्स्व­य­मे­वा­प­रि­नि­ष्प­न्ना­त्स्वतः स्वरू­पा­त्स्व­य­मेव जायते, यथा घटस्तस्मादेव घटात् । नापि परतः अन्यस्मादन्यः, यथा घटात्पटः । तथा नोभयतः, विरोधात् , यथा घटपटाभ्यां घटः पटो वा न जायते । ननु मृदो घटो जायते पितुश्च पुत्रः ; सत्यम् , अस्ति जायत इति प्रत्ययः शब्दश्च मूढानाम् । तावेव तु शब्दप्रत्ययौ विवेकिभिः परीक्ष्येते — किं सत्यमेव तौ, उत मृषा इति ; यावता परीक्ष्यमाणे शब्द­प्र­त्य­य­वि­षयं वस्तु घट­पु­त्रा­दि­ल­क्षणं शब्दमात्रमेव तत् , ‘वाचारम्भणम्’(छा. उ. ६ । ४ । ४) इति श्रुतेः । सच्चेत् न जायते, सत्त्वात् , मृत्पित्रादिवत् । यद्यसत् , तथापि न जायते, असत्त्वादेव, शशविषाणादिवत् । अथ सदसत् , तथापि न जायते विरु­द्ध­स्यै­क­स्या­स­म्भ­वात् । अतो न किञ्चिद्वस्तु जायत इति सिद्धम् । येषां पुनर्जनिरेव जायत इति क्रिया­का­र­क­फ­लै­क­त्व­म­भ्यु­प­ग­म्यते क्षणिकत्वं च वस्तुनः, ते दूरत एव न्यायापेताः । इद­मि­त्थ­मि­त्य­व­धा­र­ण­क्ष­णा­न्त­रा­न­व­स्था­नात् , अननुभूतस्य स्मृत्य­नु­प­प­त्तेश्च ॥

हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः ।
आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ २३ ॥

किञ्च, हेतु­फ­ल­यो­र­ना­दि­त्व­म­भ्यु­प­ग­च्छता त्वया बला­द्धे­तु­फ­ल­यो­र­ज­न्मै­वा­भ्यु­प­गतं स्यात् । कथम् ? अनादेः आदिरहितात्फलात् हेतुः न जायते । न ह्यनु­त्प­न्ना­द­नादेः फला­द्धे­तो­र्ज­न्मे­ष्यते त्वया, फलं चापि आदि­र­हि­ता­द­ना­दे­र्हे­तो­र­जा­त्स्व­भा­वत एव निर्निमित्तं जायत इति नाभ्युपगम्यते । तस्मा­द­ना­दि­त्व­म­भ्यु­प­ग­च्छता त्वया हेतु­फ­ल­यो­र­ज­न्मै­वा­भ्यु­प­ग­म्यते । यस्मात् आदिः कारणं न विद्यते यस्य लोके, तस्य ह्यादिः पूर्वोक्ता जातिर्न विद्यते । कारणवत एव ह्यादि­र­भ्यु­प­ग­म्यते, न अकारणवतः ॥

प्रज्ञप्तेः सनि­मि­त्त­त्व­म­न्यथा द्वयनाशतः ।
सङ्क्ले­श­स्यो­प­ल­ब्धेश्च परतन्त्रास्तिता मता ॥ २४ ॥

उक्त­स्यै­वा­र्थस्य दृढी­क­र­ण­चि­की­र्षया पुनराक्षिपति — प्रज्ञानं प्रज्ञप्तिः शब्दा­दि­प्र­तीतिः, तस्याः सनिमित्तत्वम् , निमित्तं कारणं विषय इत्येतत् ; सनिमित्तत्वं सविषयत्वं स्वात्म­व्य­ति­रि­क्त­वि­ष­य­ते­त्ये­तत् , प्रतिजानीमहे । न हि निर्विषया प्रज्ञप्तिः शब्दादिप्रतीतिः स्यात् , तस्याः सनिमित्तत्वात् । अन्यथा निर्विषयत्वे शब्द­स्प­र्श­नी­ल­पी­त­लो­हि­ता­दि­प्र­त्य­य­वै­चि­त्र्यस्य द्वयस्य नाशतः नाशोऽभावः प्रस­ज्ये­ते­त्यर्थः । न च प्रत्य­य­वै­चि­त्र्यस्य द्वय­स्या­भा­वोऽस्ति, प्रत्यक्षत्वात् । अतः प्रत्य­य­वै­चि­त्र्यस्य द्वयस्य दर्शनात् , परेषां तन्त्रं पर­त­न्त्र­मि­त्य­न्य­शा­स्त्रम् , तस्य परतन्त्रस्य पर­त­न्त्रा­श्र­यस्य बाह्यार्थस्य प्रज्ञा­न­व्य­ति­रि­क्तस्य अस्तिता मता अभिप्रेता । न हि प्रज्ञप्तेः प्रका­श­मा­त्र­स्व­रू­पाया नील­पी­ता­दि­बा­ह्या­ल­म्ब­न­वै­चि­त्र्य­म­न्त­रेण स्वभा­व­भे­दे­नै­त­द्वै­चित्र्यं सम्भवति । स्फटिकस्येव नीला­द्यु­पा­ध्या­श्र­यै­र्विना वैचित्र्यं न घटत इत्यभिप्रायः । इतश्च पर­त­न्त्रा­श्र­यस्य बाह्यार्थस्य ज्ञान­व्य­ति­रि­क्त­स्या­स्तिता । सङ्क्लेशनं सङ्क्लेशः, दुःखमित्यर्थः । उपलभ्यते हि अग्नि­दा­हा­दि­नि­मित्तं दुःखम् । यद्य­ग्न्या­दि­बाह्यं दाहादिनिमित्तं विज्ञा­न­व्य­ति­रिक्तं न स्यात् , ततो दाहादिदुःखं नोपलभ्येत । उपलभ्यते तु । अतः तेन मन्यामहे अस्ति बाह्योऽर्थ इति । न हि विज्ञानमात्रे सङ्क्लेशो युक्तः, अन्य­त्रा­द­र्श­ना­दि­त्य­भि­प्रायः ॥

प्रज्ञप्तेः सनि­मि­त्त­त्व­मि­ष्यते युक्तिदर्शनात् ।
निमि­त्त­स्या­नि­मि­त्त­त्व­मि­ष्यते भूतदर्शनात् ॥ २५ ॥

अत्रोच्यते — बाढमेवं प्रज्ञप्तेः सनिमित्तत्वं द्वय­स­ङ्क्ले­शो­प­ल­ब्धि­यु­क्ति­द­र्श­ना­दि­ष्यते त्वया । स्थिरीभव तावत्त्वं युक्तिदर्शनं वस्तु­न­स्त­था­त्वा­भ्यु­प­गमे कारणमित्यत्र । ब्रूहि किं तत इति । उच्यते — निमित्तस्य प्रज्ञ­प्त्या­ल­म्ब­ना­भि­म­तस्य तव घटा­दे­र­नि­मि­त्त­त्व­म­ना­ल­म्ब­नत्वं वैचि­त्र्या­हे­तु­त्व­मि­ष्य­तेऽ­स्माभिः । कथम् ? भूतदर्शनात् पर­मा­र्थ­द­र्श­ना­दि­त्ये­तत् । न हि घटो यथा­भू­त­मृ­द्रू­प­द­र्शने सति तद्व्य­ति­रे­के­णास्ति, यथा अश्वान्महिषः, पटो वा तन्तुव्यतिरेकेण तन्त­व­श्चां­शु­व्य­ति­रे­केण इत्ये­व­मु­त्त­रो­त्त­र­भू­त­द­र्शन आ शब्द­प्र­त्य­य­नि­रो­धा­न्नैव निमि­त्त­मु­प­ल­भा­महे इत्यर्थः । अथ वा, अभू­त­द­र्श­ना­द्बा­ह्या­र्थस्य अनि­मि­त्त­त्व­मि­ष्यते रज्ज्वादाविव सर्पा­दे­रि­त्यर्थः । भ्रान्ति­द­र्श­न­वि­ष­य­त्वाच्च निमि­त्त­स्या­नि­मि­त्तत्वं भवेत् ; तदभावे अभानात् । न हि सुषु­प्त­स­मा­हि­त­मु­क्तानां भ्रान्ति­द­र्श­ना­भावे आत्मव्यतिरिक्तो बाह्योऽर्थ उपलभ्यते । न ह्युन्मत्तावगतं वस्त्व­नु­न्म­त्तै­रपि तथाभूतं गम्यते । एतेन द्वयदर्शनं सङ्क्ले­शो­प­ल­ब्धिश्च प्रत्युक्ता ॥

चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च ।
अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६ ॥

यस्मान्नास्ति बाह्यं निमित्तम् , अतः चित्तं न स्पृशत्यर्थं बाह्या­ल­म्ब­न­वि­ष­यम् , नाप्यर्थाभासम् , चित्तत्वात् , स्वप्नचित्तवत् । अभूतो हि जागरितेऽपि स्वप्नार्थवदेव बाह्यः शब्दाद्यर्थो यतः उक्तहेतुत्वाच्च । नाप्य­र्था­भा­स­श्चि­त्ता­त्पृ­थक् । चित्तमेव हि घटा­द्य­र्थ­व­द­व­भा­सते यथा स्वप्ने ॥

निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु ।
अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ २७ ॥

ननु विपर्यासस्तर्हि असति घटादौ घटाद्याभासता चित्तस्य ; तथा च सति अविपर्यासः क्वचिद्वक्तव्य इति ; अत्रोच्यते — निमित्तं विषयम् अती­ता­ना­ग­त­व­र्त­मा­ना­ध्वसु त्रिष्वपि सदा चित्तं न संस्पृशेदेव हि । यदि हि क्वचि­त्सं­स्पृ­शेत् , सः अविपर्यासः परमार्थ इत्य­त­स्त­द­पे­क्षया असति घटे घटाभासता विपर्यासः स्यात् ; न तु तदस्ति कदाचिदपि चित्त­स्या­र्थ­सं­स्प­र्श­नम् । तस्मात् अनिमित्तः विपर्यासः कथं तस्य चित्तस्य भविष्यति ? न कथ­ञ्चि­द्वि­प­र्या­सोऽ­स्ती­त्य­भि­प्रायः । अयमेव हि स्वभा­व­श्चि­त्तस्य, यदुत असति निमित्ते घटादौ तद्वदवभासनम् ॥

तस्मान्न जायते चित्तं चित्तदृश्यं न जायते ।
तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ २८ ॥

‘प्रज्ञप्तेः सनिमित्तत्वम्’(मा. का. ४ । २५) इत्यादि एतदन्तं विज्ञानवादिनो बौद्धस्य वचनं बाह्या­र्थ­वा­दि­प­क्ष­प्र­ति­षे­ध­प­रम् आचा­र्ये­णा­नु­मो­दि­तम् । तदेव हेतुं कृत्वा तत्प­क्ष­प्र­ति­षे­धाय तदिदमुच्यते — तस्मादित्यादि । यस्मादसत्येव घटादौ घटाद्याभासता चित्तस्य विज्ञानवादिना अभ्युपगता, तद­नु­मो­दि­त­म­स्मा­भि­रपि भूतदर्शनात् ; तस्मात्तस्यापि चित्तस्य जायमानावभासता असत्येव जन्मनि युक्ता भवितुमिति अतो न जायते चित्तम् । यथा चित्तदृश्यं न जायते अतस्तस्य चित्तस्य ये जातिं पश्यन्ति विज्ञानवादिनः क्षणि­क­त्व­दुः­खि­त्व­शू­न्य­त्वा­ना­त्म­त्वादि च ; तेनैव चित्तेन चित्तस्वरूपं द्रष्टुमशक्यं पश्यन्तः खे वै पश्यन्ति ते पदं पक्ष्यादीनाम् । अत इतरेभ्योऽपि द्वैति­भ्योऽ­त्य­न्त­सा­ह­सिका इत्यर्थः । येऽपि शून्यवादिनः पश्यन्त एव सर्वशून्यतां स्वदर्शनस्यापि शून्यतां प्रतिजानते, ते ततोऽपि साहसिकतराः खं मुष्टिनापि जिघृक्षन्ति ॥

अजातं जायते यस्मादजातिः प्रकृतिस्ततः ।
प्रकृ­ते­र­न्य­था­भावो न कथ­ञ्चि­द्भ­वि­ष्यति ॥ २९ ॥

उक्तै­र्हे­तु­भि­र­ज­मेकं ब्रह्मेति सिद्धम् , यत्पुनरादौ प्रतिज्ञातम् , तत्फ­लो­प­सं­हा­रा­र्थोऽयं श्लोकः — अजातं यच्चित्तं ब्रह्मैव जायत इति वादिभिः परिकल्प्यते, तत् अजातं जायते यस्मात् अजातिः प्रकृतिः तस्य ; ततः तस्मात् अजातरूपायाः प्रकृ­ते­र­न्य­था­भावो जन्म न कथ­ञ्चि­द्भ­वि­ष्यति ॥

अना­दे­र­न्त­वत्त्वं च संसारस्य न सेत्स्यति ।
अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ ३० ॥

अयं चापर आत्मनः संसारमोक्षयोः पर­मा­र्थ­स­द्भा­व­वा­दिनां दोष उच्यते — अनादेः अतीतकोटिरहितस्य संसारस्य अन्तवत्त्वं समाप्तिः न सेत्स्यति युक्तितः सिद्धिं नोपयास्यति । न ह्यनादिः सन् अन्त­वा­न्क­श्चि­त्प­दार्थो दृष्टो लोके । बीजा­ङ्कु­र­स­म्ब­न्ध­नै­र­न्त­र्य­वि­च्छेदो दृष्ट इति चेत् ; न, एक­व­स्त्व­भा­वे­ना­पो­दि­त­त्वात् । तथा अनन्ततापि विज्ञा­न­प्रा­प्ति­का­ल­प्र­भ­वस्य मोक्षस्य आदिमतो न भविष्यति, घटा­दि­ष्व­द­र्श­नात् । घटा­दि­वि­ना­श­व­द­व­स्तु­त्वा­द­दोष इति चेत् , तथा च मोक्षस्य पर­मा­र्थ­स­द्भा­व­प्र­ति­ज्ञा­हानिः ; असत्त्वादेव शशविषाणस्येव आदि­म­त्त्वा­भा­वश्च ॥

आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ३१ ॥

सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्मा­दा­द्य­न्त­व­त्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ३२ ॥

वैतथ्ये कृतव्याख्यानौ श्लोकाविह संसा­र­मो­क्षा­भा­व­प्र­स­ङ्गेन पठितौ ॥

सर्वे धर्मा मृषा स्वप्ने काय­स्या­न्त­र्नि­द­र्श­नात् ।
संवृ­तेऽ­स्मि­न्प्र­देशे वै भूतानां दर्शनं कुतः ॥ ३३ ॥

‘निमि­त्त­स्या­नि­मि­त्त­त्व­मि­ष्यते भूतदर्शनात्’(मा. का. ४ । २५) इत्ययमर्थः प्रपञ्च्यते एतैः श्लोकैः ॥

न युक्तं दर्शनं गत्वा काल­स्या­नि­य­मा­द्गतौ ।
प्रतिबुद्धश्च वै सर्व­स्त­स्मि­न्देशे न विद्यते ॥ ३४ ॥

जागरिते गत्यागमनकालौ नियतौ, देशः प्रमाणतो यः, तस्य अनियमात् नियमस्याभावात् स्वप्ने न देशा­न्त­र­ग­म­न­मि­त्यर्थः ॥

मित्राद्यैः सह संमन्त्र्य सम्बुद्धो न प्रपद्यते ।
गृहीतं चापि यत्कि­ञ्चि­त्प्र­ति­बुद्धो न पश्यति ॥ ३५ ॥

मित्राद्यैः सह संमन्त्र्य तदेव मन्त्रणं प्रतिबुद्धो न प्रपद्यते, गृहीतं च यत्कि­ञ्चि­द्धि­र­ण्यादि न प्राप्नोति ; ततश्च न देशान्तरं गच्छति स्वप्ने ॥

स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् ।
यथा कायस्तथा सर्वं चित्त­दृ­श्य­म­व­स्तु­कम् ॥ ३६ ॥

स्वप्ने च अटन्दृश्यते यः कायः, सः अवस्तुकः ततोऽन्यस्य स्वापदेशस्थस्य पृथ­क्का­या­न्त­रस्य दर्शनात् । यथा स्वप्नदृश्यः कायः असन् , तथा सर्वं चित्तदृश्यम् अवस्तुकं जागरितेऽपि चित्त­दृ­श्य­त्वा­दि­त्यर्थः । स्वप्न­स­म­त्वा­द­स­ज्जा­ग­रि­त­म­पीति प्रकरणार्थः ॥

ग्रह­णा­ज्जा­ग­रि­त­व­त्त­द्धेतुः स्वप्न इष्यते ।
तद्धेतुत्वात्तु तस्यैव सज्जा­ग­रि­त­मि­ष्यते ॥ ३७ ॥

इतश्च असत्त्वं जाग्रद्वस्तुनः जागरितवत् जागरितस्येव ग्रहणात् ग्राह्य­ग्रा­ह­क­रू­पेण स्वप्नस्य, तज्जागरितं हेतुः अस्य स्वप्नस्य स स्वप्नः तद्धेतुः जागरितकार्यम् इष्यते । तद्धेतुत्वात् जाग­रि­त­का­र्य­त्वात् तस्यैव स्वप्नदृश एव सज्जागरितम् , न त्वन्येषाम् ; यथा स्वप्न इत्यभिप्रायः । यथा स्वप्नः स्वप्नदृश एव सन् साधा­र­ण­वि­द्य­मा­न­व­स्तु­व­द­व­भा­सते, तथा तत्का­र­ण­त्वा­त्सा­धा­र­ण­वि­द्य­मा­न­व­स्तु­व­द­व­भा­स­नम् , न तु साधारणं विद्यमानवस्तु स्वप्न­व­दे­वे­त्य­भि­प्रायः ॥

उत्पा­द­स्या­प्र­सि­द्ध­त्वा­दजं सर्वमुदाहृतम् ।
न च भूतादभूतस्य सम्भवोऽस्ति कथञ्चन ॥ ३८ ॥

ननु स्वप्न­का­र­ण­त्वेऽपि जागरितवस्तुनो न स्वप्न­व­द­व­स्तु­त्वम् । अत्यन्तचलो हि स्वप्नः जागरितं तु स्थिरं लक्ष्यते । सत्य­मे­व­म­वि­वे­किनां स्यात् । विवेकिनां तु न कस्यचिद्वस्तुन उत्पादः प्रसिद्धः । अतः अप्रसिद्धत्वात् उत्पादस्य आत्मैव सर्वमिति अजं सर्वम् उदाहृतं वेदान्तेषु ‘सबा­ह्या­भ्य­न्तरो ह्यजः’(मु. उ. २ । १ । २) इति । यदपि मन्यसे जागरितात्सतः असन्स्वप्नो जायत इति, तदसत् । न भूतात् विद्यमानात् अभूतस्य असतः सम्भवोऽस्ति लोके । न ह्यसतः शशविषाणादेः सम्भवो दृष्टः कथञ्चिदपि ॥

असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः ।
असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ ३९ ॥

ननु उक्तं त्वयैव स्वप्नो जागरितकार्यमिति ; तत्क­थ­मु­त्पा­दोऽ­प्र­सिद्ध इति उच्यते ? शृणु तत्र यथा कार्य­का­र­ण­भा­वोऽ­स्मा­भि­र­भि­प्रेत इति । असत् अविद्यमानं रज्जु­स­र्प­व­द्वि­क­ल्पितं वस्तु जागरिते दृष्ट्वा तद्भा­व­भा­वि­त­स्त­न्मयः स्वप्नेऽपि जागरितवत् ग्राह्य­ग्रा­ह­क­रू­पेण विक­ल्प­य­न्प­श्यति, तथा असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति अविकल्पयन् , च - शब्दात् । तथा जागरितेऽपि दृष्ट्वा स्वप्ने न पश्यति कदाचिदित्यर्थः । तस्माज्जागरितं स्वप्न­हे­तु­रि­त्यु­च्यते, न तु परमार्थसदिति कृत्वा ॥

नास्त्य­स­द्धे­तु­क­म­स­त्स­द­स­द्धे­तुकं तथा ।
सच्च सद्धेतुकं नास्ति सद्धे­तु­क­म­स­त्कुतः ॥ ४० ॥

परमार्थतस्तु न कस्य­चि­त्के­न­चि­दपि प्रकारेण कार्यकारणभाव उपपद्यते । कथम् ? नास्ति असद्धेतुकम् असत् शशविषाणादि हेतुः कारणं यस्य असत एव खपुष्पादेः, तत् असद्धेतुकम् असत् न विद्यते । तथा सदपि घटादिवस्तु असद्धेतुकम् शश­वि­षा­णा­दि­कार्यं नास्ति । तथा सच्च विद्यमानं घटादि वस्त्व­न्त­र­कार्यं नास्ति । सत्कार्यम् असत् कुत एव सम्भवति ? न चान्यः कार्यकारणभावः सम्भवति शक्यो वा कल्पयितुम् । अतो विवेकिनामसिद्ध एव कार्यकारणभावः कस्य­चि­दि­त्य­भि­प्रायः ॥

विपर्यासाद्यथा जाग्र­द­चि­न्त्या­न्भू­त­व­त्स्पृ­शेत् ।
तथा स्वप्ने विप­र्या­सा­द्ध­र्मां­स्त­त्रैव पश्यति ॥ ४१ ॥

पुनरपि जाग्र­त्स्व­प्न­यो­र­स­तो­रपि कार्य­का­र­ण­भा­वा­श­ङ्का­म­प­न­य­न्नाह — विपर्यासात् अविवेकतः यथा जाग्रत् जागरिते अचि­न्त्या­न्भा­वान् अशक्यचिन्तनान् रज्जुसर्पादीन् भूतवत् परमार्थवत् स्पृशेत् ; स्पृशन्निव विक­ल्प­ये­दि­त्यर्थः, कश्चिद्यथा, तथा स्वप्ने विपर्यासात् हस्त्या­दी­न्प­श्य­न्निव विकल्पयति । तत्रैव पश्यति, न तु जाग­रि­ता­दु­त्प­द्य­मा­ना­नि­त्यर्थः ॥

उप­ल­म्भा­त्स­मा­चा­रा­द­स्ति­व­स्तु­त्व­वा­दि­नाम् ।
जातिस्तु देशिता बुद्धै­र­जा­ते­स्त्र­सतां सदा ॥ ४२ ॥

यापि बुद्धैः अद्वैतवादिभिः जातिः देशिता उपदिष्टा, उप­ल­म्भ­न­मु­प­लम्भः, तस्मात् उप­ल­ब्धे­रि­त्यर्थः । समाचारात् वर्णा­श्र­मा­दि­ध­र्म­स­मा­च­र­णाच्च ताभ्यां हेतुभ्याम् अस्ति­व­स्तु­त्व­वा­दि­नाम् अस्ति वस्तुभाव इत्ये­वं­व­द­न­शी­लानां दृढाग्रहवतां श्रद्दधानां मन्द­वि­वे­कि­ना­म­र्थो­पा­य­त्वेन सा देशिता जातिः तां गृह्णन्तु तावत् । वेदा­न्ता­भ्या­सिनां तु स्वयमेव अजा­द्व­या­त्म­वि­षयो विवेको भविष्यतीति ; न तु परमार्थबुद्ध्या । ते हि श्रोत्रियाः स्थूल­बु­द्धि­त्वात् अजातेः अजातिवस्तुनः सदा त्रस्यन्ति आत्मनाशं मन्यमाना अविवेकिन इत्यर्थः । ‘उपायः सोऽवताराय’(मा. का. ३ । १५) इत्युक्तम् ॥

अजातेस्त्रसतां तेषा­मु­प­ल­म्भा­द्वि­यन्ति ये ।
जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ४३ ॥

ये च एव­मु­प­ल­म्भा­त्स­मा­चा­राच्च अजातेः अजातिवस्तुनः त्रसन्तः अस्ति वस्त्विति अद्वयादात्मनः, वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्त इत्यर्थः । तेषाम् अजातेः त्रसतां श्रद्दधानानां सन्मा­र्गा­व­ल­म्बिनां जातिदोषाः जात्युपलम्भकृता दोषाः न सेत्स्यन्ति सिद्धिं नोपयास्यन्ति, विवे­क­मा­र्ग­प्र­वृ­त्त­त्वात् । यद्यपि कश्चिद्दोषः स्यात् , सोऽप्यल्प एव भविष्यति, सम्य­ग्द­र्श­ना­प्र­ति­प­त्ति­हे­तुक इत्यर्थः ॥

उप­ल­म्भा­त्स­मा­चा­रा­न्मा­या­हस्ती यथोच्यते ।
उप­ल­म्भा­त्स­मा­चा­रा­दस्ति वस्तु तथोच्यते ॥ ४४ ॥

ननु उपलम्भसमाचारयोः प्रमा­ण­त्वा­द­स्त्येव द्वैतं वस्त्विति ; न, उप­ल­म्भ­स­मा­चा­र­यो­र्व्य­भि­चा­रात् । कथं व्यभिचार इति, उच्यते — उपलभ्यते हि मायाहस्ती हस्तीव, हस्तिनमिवात्र समाचरन्ति बन्ध­ना­रो­ह­णा­दि­ह­स्ति­स­म्ब­न्धि­भि­र्धर्मैः, हस्तीति चोच्यते असन्नपि यथा, तथैव उप­ल­म्भा­त्स­मा­चा­रात् द्वैतं भेदरूपं अस्ति वस्तु इत्युच्यते । तस्मा­न्नो­प­ल­म्भ­स­मा­चारौ द्वैत­व­स्तु­स­द्भावे हेतू भवत इत्यभिप्रायः ॥

जात्याभासं चलाभासं वस्त्वाभासं तथैव च ।
अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५ ॥

किं पुनः पर­मा­र्थ­स­द्वस्तु, यदास्पदा जात्या­द्य­स­द्बु­द्धय इत्याह — अजाति सत् जातिवदवभासत इति जात्याभासम् , तद्यथा देवदत्तो जायत इति । चलाभासं चलमिवाभासत इति, यथा स एव देवदत्तो गच्छतीति । वस्त्वाभासं वस्तु द्रव्यं धर्मि, तद्वदवभासत इति वस्त्वाभासम् , यथा स एव देवदत्तो गौरो दीर्घ इति । जायते देवदत्तः स्पन्दते दीर्घो गौर इत्येवमवभासते । परमार्थतस्तु अज­म­च­ल­म­व­स्तु­त्व­म­द्रव्यं च । किं तदेवंप्रकारम् ? विज्ञानं विज्ञप्तिः, जात्या­दि­र­हि­त­त्वा­च्छा­न्तम् अत एव अद्वयं च तदित्यर्थः ॥

एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः ।
एवमेव विजानन्तो न पतन्ति विपर्यये ॥ ४६ ॥

एवं यथोक्तेभ्यो हेतुभ्यः न जायते चित्तम् । एवं धर्माः आत्मानः अजाः स्मृताः ब्रह्मविद्भिः । धर्मा इति बहुवचनं देह­भे­दा­नु­वि­धा­यि­त्वा­द­द्व­य­स्यैव उपचारतः । एवमेव यथोक्तं विज्ञानं जात्या­दि­र­हि­त­म­द्व­य­मा­त्म­तत्त्वं विजानन्तः त्यक्त­बा­ह्यै­षणाः पुनर्न पतन्ति अवि­द्या­ध्वा­न्त­सा­गरे विपर्यये ; ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इत्या­दि­म­न्त्र­व­र्णात् ॥

ऋजु­व­क्रा­दि­का­भा­स­म­ला­त­स्प­न्दितं यथा ।
ग्रह­ण­ग्रा­ह­का­भासं विज्ञा­न­स्प­न्दितं तथा ॥ ४७ ॥

यथोक्तं परमार्थदर्शनं प्रप­ञ्च­यि­ष्य­न्नाह — यथा हि लोके ऋजु­व­क्रा­दि­प्र­का­रा­भा­सम् अलातस्पन्दितम् उल्काचलनम् , तथा ग्रह­ण­ग्रा­ह­का­भासं विष­यि­वि­ष­या­भा­स­मि­त्यर्थः । किं तत् ? विज्ञा­न­स्प­न्दितं स्पन्दितमिव स्पन्दि­त­म­वि­द्यया । न ह्यचलस्य विज्ञानस्य स्पन्दनमस्ति, ‘अजाचलम्’(मा. का. ४ । ४५) इति ह्युक्तम् ॥

अस्प­न्द­मा­न­म­ला­त­म­ना­भा­स­मजं यथा ।
अस्पन्दमानं विज्ञा­न­म­ना­भा­स­मजं तथा ॥ ४८ ॥

अस्पन्दमानं स्पन्दनवर्जितं तदेव अलातम् ऋज्वा­द्या­का­रे­णा­जा­य­मा­नम् अनाभासम् अजं यथा, तथा अविद्यया स्पन्दमानम् अविद्योपरमे अस्पन्दमानं जात्याद्याकारेण अनाभासम् अजम् अचलं भविष्यतीत्यर्थः ॥

अलाते स्पन्दमाने वै नाभासा अन्यतोभुवः ।
न ततोऽन्यत्र निःस्प­न्दा­न्ना­लातं प्रविशन्ति ते ॥ ४९ ॥

किं च, तस्मिन्नेव अलाते स्पन्दमाने ऋजु­व­क्रा­द्या­भासाः अलातादन्यतः कुत­श्चि­दा­ग­त्या­लाते नैव भवन्तीति नान्यतोभुवः । न च तस्मा­न्निः­स्प­न्दा­द­ला­ता­द­न्यत्र निर्गताः । न च निःस्प­न्द­म­ला­त­मेव प्रविशन्ति ते ॥

न निर्गता अलातात्ते द्रव्य­त्वा­भा­व­यो­गतः ।
विज्ञानेऽपि तथैव स्युरा­भा­स­स्या­वि­शे­षतः ॥ ५० ॥

किं च, न निर्गता अलातात् ते आभासाः गृहादिव, द्रव्य­त्वा­भा­व­यो­गतः, द्रव्यस्य भावो द्रव्यत्वम् , तदभावः द्रव्यत्वाभावः, द्रव्य­त्वा­भा­व­यो­गतः द्रव्य­त्वा­भा­व­युक्तेः वस्तु­त्वा­भा­वा­दि­त्यर्थः । वस्तुनो हि प्रवेशादि सम्भवति, नावस्तुनः । विज्ञानेऽपि जात्याद्याभासाः तथैव स्युः, आभासस्य अविशेषतः तुल्यत्वात् ॥

विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः ।
न ततोऽन्यत्र निःस्पन्दान्न विज्ञानं विशन्ति ते ॥ ५१ ॥

न निर्गतास्ते विज्ञा­ना­द्द्र­व्य­त्वा­भा­व­यो­गतः ।
कार्य­का­र­ण­ता­भा­वा­द्य­तोऽ­चिन्त्याः सदैव ते ॥ ५२ ॥

कथं तुल्यत्वमित्याह — अलातेन समानं सर्वं विज्ञानस्य ; सदा अचलत्वं तु विज्ञानस्य विशेषः । जात्याद्याभासा विज्ञाने अचले किङ्कृता इत्याह — कार्य­का­र­ण­ता­भा­वात् जन्य­ज­न­क­त्वा­नु­प­प­त्ते­र­भा­व­रू­प­त्वात् अचिन्त्याः ते यतः सदैव । यथा असत्सु ऋज्वाद्याभासेषु ऋज्वा­दि­बु­द्धि­र्दृष्टा अलातमात्रे, तथा असत्स्वेव जात्यादिषु विज्ञानमात्रे जात्या­दि­बु­द्धि­र्मृ­षै­वेति समुदायार्थः ॥

द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि ।
द्रव्य­त्व­म­न्य­भावो वा धर्माणां नोपपद्यते ॥ ५३ ॥

अज­मे­क­मा­त्म­त­त्त्व­मिति स्थितम् । तत्र यैरपि कार्यकारणभावः कल्प्यते, तेषां द्रव्यं द्रव्य­स्या­न्य­स्या­न्यत् हेतुः कारणं स्यात् , न तु तस्यैव तत् । नाप्यद्रव्यं कस्यचित्कारणं स्वतन्त्रं दृष्टं लोके । न च द्रव्यत्वं धर्माणाम् आत्मनाम् उपपद्यते अन्यत्वं वा कुतश्चित् , येन अन्यस्य कारणत्वं कार्यत्वं वा प्रतिपद्येत । अतः अद्र­व्य­त्वा­द­न­न्य­त्वाच्च न कस्यचित्कार्यं कारणं वा आत्मेत्यर्थः ॥

एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् ।
एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ५४ ॥

एवं यथोक्तेभ्यो हेतुभ्यः आत्म­वि­ज्ञा­न­स्व­रू­प­मेव चित्तमिति, न चित्तजाः बाह्यधर्माः, नापि बाह्यधर्मजं चित्तम् , विज्ञा­न­स्व­रू­पा­भा­स­मा­त्र­त्वा­त्स­र्व­ध­र्मा­णाम् । एवं न हेतोः फलं जायते, नापि फलाद्धेतुरिति हेतुफलयोरजातिं हेतुफलाजातिं प्रविशन्ति अध्यवस्यन्ति । आत्मनि हेतुफलयोरभावमेव प्रतिपद्यन्ते ब्रह्मविद इत्यर्थः ॥

याव­द्धे­तु­फ­ला­वे­श­स्ता­व­द्धे­तु­फ­लो­द्भवः ।
क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ ५५ ॥

ये पुन­र्हे­तु­फ­ल­यो­र­भि­नि­विष्टाः, तेषां किं स्यादिति, उच्यते — धर्मा­ध­र्मा­ख्यस्य हेतोः अहं कर्ता मम धर्माधर्मौ तत्फलं कालान्तरे क्वचि­त्प्रा­णि­नि­काये जातो भोक्ष्ये इति याव­द्धे­तु­फ­ल­यो­रा­वेशः हेतुफलाग्रह आत्म­न्य­ध्या­रो­प­णम् , तच्चि­त्त­ते­त्यर्थः ; ताव­द्धे­तु­फ­ल­यो­रु­द्भवः धर्मा­ध­र्म­यो­स्त­त्फ­लस्य चानुच्छेदेन प्रवृ­त्ति­रि­त्यर्थः । यदा पुन­र्म­न्त्रौ­ष­धि­वी­र्ये­णेव ग्रहावेशो यथो­क्ता­द्वै­त­द­र्श­नेन अवि­द्यो­द्भू­त­हे­तु­फ­ला­वे­शो­प­नीतो भवति, तदा तस्मिन्क्षीणे नास्ति हेतुफलोद्भवः ॥

याव­द्धे­तु­फ­ला­वेशः संसारस्तावदायतः ।
क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ ५६ ॥

यदि हेतुफलोद्भवः, तदा को दोष इति, उच्यते — यावत् सम्यग्दर्शनेन हेतुफलावेशः न निवर्तते, अक्षीणः संसारः तावत् आयातः दीर्घो भवतीत्यर्थः । क्षीणे पुनः हेतुफलावेशे संसारं न प्रपद्यते, कारणाभावात् ॥

संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै ।
सद्भावेन ह्यजं सर्व­मु­च्छे­द­स्तेन नास्ति वै ॥ ५७ ॥

ननु अजा­दा­त्म­नोऽ­न्य­न्ना­स्त्येव ; तत्कथं हेतुफलयोः संसारस्य च उत्प­त्ति­वि­ना­शा­वु­च्येते त्वया ? शृणु ; संवृत्या संवरणं संवृतिः अविद्याविषयो लौकिकव्यवहारः ; तया संवृत्या जायते सर्वम् । तेन अविद्याविषये शाश्वतं नित्यं नास्ति वै । अतः उत्प­त्ति­वि­ना­श­ल­क्षणः संसारः आयत इत्युच्यते । परमार्थसद्भावेन तु अजं सर्वम् आत्मैव यस्मात् ; अतो जात्यभावात् उच्छेदः तेन नास्ति वै कस्य­चि­द्धे­तु­फ­ला­दे­रि­त्यर्थः ॥

धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः ।
जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ५८ ॥

येऽप्या­त्मा­नोऽन्ये च धर्मा जायन्त इति कल्प्यन्ते, ते इति एवंप्रकारा यथोक्ता संवृ­ति­र्नि­र्दि­श्यत इति संवृत्यैव धर्मा जायन्ते । न ते तत्त्वतः परमार्थतः जायन्ते । यत्पु­न­स्त­त्सं­वृत्या जन्म तेषां धर्माणां यथोक्तानां यथा मायया जन्म तथा तत् मायोपमं प्रत्येतव्यम् । माया नाम वस्तु तर्हि ; नैवम् , सा च माया न विद्यते । माये­त्य­वि­द्य­मा­न­स्या­ख्ये­त्य­भि­प्रायः ॥

यथा माया­म­या­द्बी­जा­ज्जा­यते तन्मयोऽङ्कुरः ।
नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ ५९ ॥

कथं मायोपमं तेषां धर्माणां जन्मेति, आह — यथा मायामयात् आम्रादिबीजात् जायते तन्मयः मायामयः अङ्कुरः, नासावङ्कुरो नित्यः, न च उच्छेदी विनाशी वा । अभूतत्वादेव धर्मेषु जन्मनाशादियोजना युक्तिः, न तु परमार्थतो धर्माणां जन्म नाशो वा युज्यत इत्यर्थः ॥

नाजेषु सर्वधर्मेषु शाश्व­ता­शा­श्व­ता­भिधा ।
यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ६० ॥

पर­मा­र्थ­त­स्त्वा­त्म­स्व­जेषु नित्यै­क­र­स­वि­ज्ञ­प्ति­मा­त्र­स­त्ता­केषु शाश्वतः अशाश्वतः इति वा न अभिधा, नाभिधानं प्रवर्तत इत्यर्थः । यत्र येषु वर्ण्यन्ते यैरर्थाः, ते वर्णाः शब्दा न वर्तन्ते अभिधातुं प्रकाशयितुं न प्रवर्तन्त इत्यर्थः । इदमेवमिति विवेकः विविक्तता तत्र नित्योऽनित्य इति नोच्यते, ‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ९ । १) इति श्रुतेः ॥

यथा स्वप्ने द्वयाभासं चित्तं चलति मायया ।
तथा जाग्र­द्द्व­या­भासं चित्तं चलति मायया ॥ ६१ ॥

अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ६२ ॥

यत्पु­न­र्वा­ग्गो­च­रत्वं परमार्थतः अद्वयस्य विज्ञा­न­मा­त्रस्य, तन्मनसः स्पन्दनमात्रम् , न परमार्थतः इत्युक्तार्थौ श्लोकौ ॥

स्वप्न­दृ­क्प्र­च­र­न्स्वप्ने दिक्षु वै दशसु स्थितान् ।
अण्ड­जा­न्स्वे­द­जा­न्वापि जीवान्पश्यति यान्सदा ॥ ६३ ॥

इतश्च वाग्गो­च­र­स्या­भावो द्वैतस्य — स्वप्ना­न्प­श्य­तीति स्वप्नदृक् प्रचरन् पर्यटन्स्वप्ने स्वप्नस्थाने दिक्षु वै दशसु स्थितान् वर्तमानान् जीवान्प्राणिनः अण्ड­जा­न्स्वे­द­जान्वा यान् सदा पश्यतीति ॥

स्वप्न­दृ­क्चि­त्त­दृ­श्यास्ते न विद्यन्ते ततः पृथक् ।
तथा तद्दृश्यमेवेदं स्वप्न­दृ­क्चि­त्त­मि­ष्यते ॥ ६४ ॥

यद्येवम् , ततः किम् ? उच्यते — स्वप्न­दृ­श­श्चित्तं स्वप्न­दृ­क्चि­त्तम् , तेन दृश्याः ते जीवाः ; ततः तस्मात् स्वप्न­दृ­क्चि­त्तात् पृथक् न विद्यन्ते न सन्तीत्यर्थः । चित्तमेव ह्यने­क­जी­वा­दि­भे­दा­का­रेण विकल्प्यते । तथा तदपि स्वप्न­दृ­क्चि­त्त­मिदं तद्दृश्यमेव, तेन स्वप्नदृशा दृश्यं तद्दृश्यम् । अतः स्वप्न­दृ­ग्व्य­ति­रे­केण चित्तं नाम नास्तीत्यर्थः ॥

चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् ।
अण्ड­जा­न्स्वे­द­जा­न्वापि जीवान्पश्यति यान्सदा ॥ ६५ ॥

जाग्र­च्चि­त्ते­क्ष­णी­यास्ते न विद्यन्ते ततः पृथक् ।
तथा तद्दृश्यमेवेदं जाग्र­त­श्चि­त्त­मि­ष्यते ॥ ६६ ॥

जाग्रतो दृश्या जीवाः तच्चि­त्ता­व्य­ति­रिक्ताः, चित्ते­क्ष­णी­य­त्वात् , स्वप्न­दृ­क्चि­त्ते­क्ष­णी­य­जी­व­वत् । तच्च जीवेक्षणात्मकं चित्तं द्रष्टु­र­व्य­ति­रिक्तं द्रष्टृ­दृ­श्य­त्वात् स्वप्नचित्तवत् । उक्तार्थमन्यत् ॥

उभे ह्यन्यो­न्य­दृश्ये ते किं तदस्तीति चोच्यते ।
लक्ष­णा­शू­न्य­मु­भयं तन्मते नैव गृह्यते ॥ ६७ ॥

जीवचित्ते उभे चित्तचैत्त्ये ते अन्योन्यदृश्ये इतरेतरगम्ये । जीवा­दि­वि­ष­या­पेक्षं हि चित्तं नाम भवति । चित्तापेक्षं हि जीवादि दृश्यम् । अतस्ते अन्योन्यदृश्ये । तस्मान्न किञ्चिदस्तीति चोच्यते चित्तं वा चित्तेक्षणीयं वा । किं तदस्तीति विवेकिनोच्यते । न हि स्वप्ने हस्ती हस्तिचित्तं वा विद्यते ; तथा इहापि विवे­कि­ना­मि­त्य­भि­प्रायः । कथम् ? लक्षणाशून्यं लक्ष्यते अनयेति लक्षणा प्रमाणम् ; प्रमा­ण­शू­न्य­मु­भयं चित्तं चैत्त्यं द्वयं यतः, तन्मतेनैव तच्चित्ततयैव तत् गृह्यते । न हि घटमतिं प्रत्याख्याय घटो गृह्यते, नापि घटं प्रत्याख्याय घटमतिः । न हि तत्र प्रमा­ण­प्र­मे­य­भेदः शक्यते कल्प­यि­तु­मि­त्य­भि­प्रायः ॥

यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६८ ॥

यथा मायामयो जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९ ॥

यथा निर्मितको जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ७० ॥

मायामयः मायाविना यः कृतो निर्मितकः मन्त्रौ­ष­ध्या­दि­भि­र्नि­ष्पा­दितः । स्वप्न­मा­या­नि­र्मि­तका अण्डजादयो जीवा यथा जायन्ते म्रियन्ते च, तथा मनुष्यादिलक्षणा अविद्यमाना एव चित्त­वि­क­ल्प­ना­मात्रा इत्यर्थः ॥

न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते ।
एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ७१ ॥

व्यव­हा­र­स­त्य­वि­षये जीवानां जन्ममरणादिः स्वप्ना­दि­जी­व­व­दि­त्यु­क्तम् । उत्तमं तु परमार्थसत्यं न कश्चिज्जायते जीव इति । उक्तार्थमन्यत् ॥

चित्त­स्प­न्दि­त­मे­वेदं ग्राह्य­ग्रा­ह­क­व­द्द्व­यम् ।
चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ७२ ॥

सर्वं ग्राह्य­ग्रा­ह­क­व­च्चि­त्त­स्प­न्दि­त­मेव द्वयम् । चित्तं परमार्थत आत्मैवेति निर्विषयम् । तेन निर्विषयत्वेन नित्यम् असङ्गं कीर्तितम् । ‘असङ्गो ह्ययं पुरुषः’(बृ. उ. ४ । ३ । १५) इति श्रुतेः । सविषयस्य हि विषये सङ्गः । निर्वि­ष­य­त्वा­च्चि­त्त­म­स­ङ्ग­मि­त्यर्थः ॥

योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ ।
पर­त­न्त्रा­भि­सं­वृत्या स्यान्नास्ति परमार्थतः ॥ ७३ ॥

ननु निर्विषयत्वेन चेदसङ्गत्वम् , चित्तस्य न निःसङ्गता भवति, यस्मात् शास्ता शास्त्रं शिष्य­श्चे­त्ये­व­मा­दे­र्वि­ष­यस्य विद्यमानत्वात् ; नैष दोषः । कस्मात् ? यः पदार्थः शास्त्रा­दि­र्वि­द्यते, स कल्पितसंवृत्या । कल्पिता च सा पर­मा­र्थ­प्र­ति­प­त्त्यु­पा­य­त्वेन संवृतिश्च सा तया योऽस्ति परमार्थेन, नास्त्यसौ न विद्यते । ‘ज्ञाते द्वैतं न विद्यते’(मा. का. १ । १८) इत्युक्तम् । यश्च पर­त­न्त्रा­भि­सं­वृत्या पर­शा­स्त्र­व्य­व­हा­रेण स्यात्पदार्थः, स परमार्थतो निरूप्यमाणो नास्त्येव । तेन युक्तमुक्तम् ‘असङ्गं तेन कीर्तितम्’(मा. का. ४ । ७२) इति ॥

अजः कल्पितसंवृत्या परमार्थेन नाप्यजः ।
पर­त­न्त्रा­भि­नि­ष्पत्त्या संवृत्या जायते तु सः ॥ ७४ ॥

ननु शास्त्रादीनां संवृतित्वे अज इतीयमपि कल्पना संवृतिः स्यात् । सत्यमेवम् ; शास्त्रा­दि­क­ल्पि­त­सं­वृ­त्यैव अज इत्युच्यते । परमार्थेन नाप्यजः, यस्मात् पर­त­न्त्रा­भि­नि­ष्पत्त्या पर­शा­स्त्र­सि­द्धि­म­पेक्ष्य यः अज इत्युक्तः, स संवृत्या जायते । अतः अज इतीयमपि कल्पना परमार्थविषये नैव क्रमत इत्यर्थः ॥

अभू­ता­भि­नि­वे­शोऽस्ति द्वयं तत्र न विद्यते ।
द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ ७५ ॥

यस्मादसद्विषयः, तस्मात् असत्यभूते द्वैते अभिनिवेशोऽस्ति केवलम् । अभिनिवेशः आग्रहमात्रम् । द्वयं तत्र न विद्यते मिथ्या­भि­नि­वे­श­मात्रं च जन्मनः कारणं यस्मात् , तस्मात् द्वयाभावं बुद्ध्वा निर्निमित्तः निवृ­त्त­मि­थ्या­द्व­या­भि­नि­वेशः यः, सः न जायते ॥

यदा न लभते हेतू­नु­त्त­मा­ध­म­म­ध्य­मान् ।
तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ ७६ ॥

जात्या­श्र­म­वि­हिता आशी­र्व­र्जि­तै­र­नु­ष्ठी­य­माना धर्मा देव­त्वा­दि­प्रा­प्ति­हे­तव उत्तमाः केवलाश्च । धर्माः अध­र्म­व्या­मि­श्रा­म­नु­ष्य­त्वा­दि­प्रा­प्त्यर्था मध्यमाः । तिर्य­गा­दि­प्रा­प्ति­नि­मित्ता अधर्मलक्षणाः प्रवृ­त्ति­वि­शे­षा­श्चा­धमाः । तानु­त्त­म­म­ध्य­मा­ध­मा­न­वि­द्या­प­रि­क­ल्पि­तान् यदा एक­मे­वा­द्वि­ती­य­मा­त्म­तत्त्वं सर्व­क­ल्प­ना­व­र्जितं जानन् न लभते न पश्यति, यथा बालैर्दृश्यमानं गगने मलं विवेकी न पश्यति, तद्वत् , तदा न जायते नोत्पद्यते चित्तं देवाद्याकारैः उत्त­मा­ध­म­म­ध्य­म­फ­ल­रू­पेण । न ह्यसति हेतौ फलमुत्पद्यते बीजाद्यभाव इव सस्यादि ॥

अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया ।
अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ७७ ॥

हेत्वभावे चित्तं नोत्पद्यत इति हि उक्तम् । सा पुन­र­नु­त्प­त्ति­श्चि­त्तस्य कीदृशीत्युच्यते — परमार्थदर्शनेन निर­स्त­ध­र्मा­ध­र्मा­ख्यो­त्प­त्ति­नि­मि­त्तस्य अनिमित्तस्य चित्तस्येति या मोक्षाख्या अनुत्पत्तिः, सा सर्वदा सर्वावस्थासु समा निर्विशेषा अद्वया च ; पूर्वमपि अजातस्यैव अनुत्पन्नस्य चित्तस्य सर्व­स्या­द्व­य­स्ये­त्यर्थः । यस्मात्प्रागपि विज्ञानात् चित्तं दृश्यं तद्द्वयं जन्म च, तस्मादजातस्य सर्वस्य सर्वदा चित्तस्य समा अद्वयैव अनुत्पत्तिः न पुनः कदाचिद्भवति, कदाचिद्वा न भवति । सर्वदा एकरूपैवेत्यर्थः ॥

बुद्ध्वा­नि­मि­त्ततां सत्यां हेतुं पृथगनाप्नुवन् ।
वीतशोकं तथा काममभयं पदमश्नुते ॥ ७८ ॥

यथोक्तेन न्यायेन जन्मनिमित्तस्य द्वयस्य अभा­वा­द­नि­मि­त्ततां च सत्यां परमार्थरूपां बुद्ध्वा हेतुं धर्मादिकारणं देवा­दि­यो­नि­प्रा­प्तये पृथगनाप्नुवन् अनुपाददानः त्यक्तबाह्यैषणः सन् काम­शो­का­दि­व­र्जि­तम् अविद्यादिरहितम् अभयं पदम् अश्नुते, पुनर्न जायत इत्यर्थः ॥

अभू­ता­भि­नि­वे­शाद्धि सदृशे तत्प्रवर्तते ।
वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥ ७९ ॥

यस्मात् अभूताभिनिवेशात् असति द्वये द्वया­स्ति­त्व­नि­श्चयः अभूताभिनिवेशः, तस्मात् अवि­द्या­व्या­मो­ह­रू­पाद्धि सदृशे तदनुरूपे तत् चित्तं प्रवर्तते । तस्य द्वयस्य वस्तुनः अभावं यदा बुद्धवान् , तदा तस्मात् निःसङ्गं निरपेक्षं सत् विनिवर्तते अभू­ता­भि­नि­वे­श­वि­ष­यात् ॥

निवृ­त्त­स्या­प्र­वृ­त्तस्य निश्चला हि तदा स्थितिः ।
विषयः स हि बुद्धानां तत्सा­म्य­म­ज­म­द्व­यम् ॥ ८० ॥

निवृत्तस्य द्वैतविषयात् , विषयान्तरे च अप्रवृत्तस्य अभावदर्शनेन चित्तस्य निश्चला चलनवर्जिता ब्रह्मस्वरूपैव तदा स्थितिः, यैषा ब्रह्मस्वरूपा स्थितिः चित्तस्य अद्व­य­वि­ज्ञा­नै­क­र­स­घ­न­ल­क्षणा । स हि यस्मात् विषयः गोचरः परमार्थदर्शिनां बुद्धानाम् , तस्मात् तत्साम्यं परं निर्वि­शे­ष­म­ज­म­द्वयं च ॥

अज­म­नि­द्र­म­स्वप्नं प्रभातं भवति स्वयम् ।
सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः ॥ ८१ ॥

पुनरपि कीदृशश्चासौ बुद्धानां विषय इत्याह — स्वयमेव तत् प्रभातं भवति न आदि­त्या­द्य­पे­क्षम् ; स्वयं ज्योतिः­स्व­भा­व­मि­त्यर्थः । सकृद्विभातः सदैव विभात इत्येतत् । एषः एवंलक्षणः आत्माख्यो धर्मः धातुस्वभावतः वस्तुस्वभावत इत्यर्थः ॥

सुखमाव्रियते नित्यं दुःखं विव्रियते सदा ।
यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२ ॥

एवं बहुश उच्यमानमपि परमार्थतत्त्वं कस्मा­ल्लौ­कि­कैर्न गृह्यत इत्युच्यते — यस्मात् यस्य कस्यचित् द्वयवस्तुनो धर्मस्य ग्रहेण ग्रहणावेशेन मिथ्या­भि­नि­वि­ष्ट­तया सुखमाव्रियते अनायासेन आच्छाद्यत इत्यर्थः । द्वयो­प­ल­ब्धि­नि­मित्तं हि तत्रावरणं न यत्ना­न्त­र­म­पे­क्षते । दुःखं च विव्रियते प्रकटीक्रियते, परमार्थज्ञानस्य दुर्लभत्वात् । भगवानसौ आत्माद्वयो देव इत्यर्थः । अतो वेदा­न्तै­रा­चा­र्यैश्च बहुश उच्यमानोऽपि नैव ज्ञातुं शक्य इत्यर्थः, ‘आश्चर्यो वक्ता कुशलोऽस्य लब्धा’(क. उ. १ । २ । ७) इति श्रुतेः ॥

अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः ।
चल­स्थि­रो­भ­या­भा­वै­रा­वृ­णो­त्येव बालिशः ॥ ८३ ॥

अस्ति नास्तीत्यादि सूक्ष्मविषया अपि पण्डितानां ग्रहाः भगवतः परमात्मन आवरणा एव ; किमुत मूढजनानां बुद्धिलक्षणा इत्येवमर्थं प्रदर्शयन्नाह — अस्तीति । अस्त्यात्मेति कश्चिद्वादी प्रतिपद्यते । नास्तीत्यपरो वैनाशिकः । अस्ति नास्ती­त्य­प­रोऽ­र्ध­वै­ना­शिकः सदसद्वादी दिग्वासाः । नास्ति नास्ती­त्य­त्य­न्त­शू­न्य­वादी । तत्रा­स्ति­भा­व­श्चलः, घटा­द्य­नि­त्य­वि­ल­क्ष­ण­त्वात् । नास्तिभावः स्थिरः, सदाविशेषत्वात् । उभयं चल­स्थि­र­वि­ष­य­त्वात् सदसद्भावः । अभा­वोऽ­त्य­न्ता­भावः । प्रका­र­च­तु­ष्ट­य­स्यापि तैरे­तै­श्च­ल­स्थि­रो­भ­या­भावैः सदसदादिवादी सर्वोऽपि भग­व­न्त­मा­वृ­णो­त्येव बालिशोऽविवेकी । यद्यपि पण्डितो बालिश एव पर­मा­र्थ­त­त्त्वा­न­व­बो­धात् , किमु स्वभावमूढो जन इत्यभिप्रायः ॥

कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदावृतः ।
भग­वा­ना­भि­र­स्पृष्टो येन दृष्टः स सर्वदृक् ॥ ८४ ॥

कीदृक्पुनः परमार्थतत्त्वम् , यदवबोधादबालिशः पण्डितो भवतीत्याह — कोट्यः प्रावा­दु­क­शा­स्त्र­नि­र्ण­यान्ताः एताः उक्ता अस्ति नास्तीत्याद्याः चतस्रः, यासां कोटीनां ग्रहैः ग्रहणैः उपलब्धिनिश्चयैः सदा सर्वदा आवृतः आच्छादितः तेषामेव प्रावादुकानां यः, स भगवान् आभिः अस्ति नास्ती­त्या­दि­को­टिभिः चतसृभिरपि अस्पृष्टः अस्त्या­दि­वि­क­ल्प­ना­व­र्जित इत्येतत् । येन मुनिना दृष्टो ज्ञातः वेदा­न्ते­ष्वौ­प­नि­षदः पुरुषः, स सर्वदृक् सर्वज्ञः ; परमार्थपण्डित इत्यर्थः ॥

प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् ।
अना­प­न्ना­दि­म­ध्यान्तं किमतः परमीहते ॥ ८५ ॥

प्राप्य एतां यथोक्तां कृत्स्नां समस्तां सर्वज्ञतां ब्राह्मण्यं पदम् ‘स ब्राह्मणः’(बृ. उ. ३ । ८ । १०) ‘एष नित्यो महिमा ब्राह्मणस्य’(बृ. उ. ४ । ४ । २३) इति श्रुतेः । अना­प­न्ना­दि­म­ध्या­न्तम् आदिमध्यान्ताः उत्प­त्ति­स्थि­ति­लयाः अनापन्ना अप्राप्ता यस्य अद्वयस्य पदस्य न विद्यन्ते, तत् अना­प­न्ना­दि­म­ध्यान्तं ब्राह्मण्यं पदम् । तदेव प्राप्य लब्ध्वा किमतः पर­म­स्मा­दा­त्म­ला­भा­दू­र्ध्वम् ईहते चेष्टते, निष्प्र­यो­ज­न­मि­त्यर्थः । ‘नैव तस्य कृतेनार्थः’(भ. गी. ३ । १८) इत्यादिस्मृतेः ॥

विप्राणां विनयो ह्येष शमः प्राकृत उच्यते ।
दमः प्रकृ­ति­दा­न्त­त्वा­देवं विद्वाञ्शमं व्रजेत् ॥ ८६ ॥

विप्राणां ब्राह्मणानां विनयः विनीतत्वं स्वाभाविकं यदे­त­दा­त्म­स्व­रू­पे­णा­व­स्था­नम् । एष विनयः शमोऽप्येष एव प्राकृतः स्वाभाविकः अकृतकः उच्यते । दमोऽप्येष एव प्रकृ­ति­दा­न्त­त्वात् स्वभावत एव चोप­शा­न्त­रू­प­त्वा­द्ब्र­ह्मणः । एवं यथोक्तं स्वभावोपशान्तं ब्रह्म विद्वान् शमम् उपशान्तिं स्वाभाविकीं ब्रह्मस्वरूपां व्रजेत् ब्रह्म­स्व­रू­पे­णा­व­ति­ष्ठत इत्यर्थः ॥

सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते ।
अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ८७ ॥

एव­म­न्यो­न्य­वि­रु­द्ध­त्वात् संसा­र­का­र­ण­रा­ग­द्वे­ष­दो­षा­स्प­दानि प्रावादुकानां दर्शनानि । अतो मिथ्यादर्शनानि तानीति तद्युक्तिभिरेव दर्शयित्वा चतु­ष्को­टि­व­र्जि­त­त्वात् रागा­दि­दो­षा­ना­स्पदं स्वभा­व­शा­न्त­म­द्वै­त­द­र्श­न­मेव सम्य­ग्द­र्श­न­मि­त्यु­प­सं­हृ­तम् । अथेदानीं स्वप्र­क्रि­या­प्र­द­र्श­नार्थ आरम्भः — सवस्तु संवृतिसता वस्तुना सह वर्तत इति सवस्तु, तथा च उप­ल­ब्धि­रु­प­लम्भः, तेन सह वर्तत इति सोपलम्भं च शास्त्रा­दि­स­र्व­व्य­व­हा­रा­स्पदं ग्राह्य­ग्र­ह­ण­ल­क्षणं द्वयं लोकादनपेतं लौकिकं जागरितमित्येतत् । एवंलक्षणं जागरितमिष्यते वेदान्तेषु । अवस्तु संवृ­ते­र­प्य­भा­वात् । सोपलम्भं वस्तु­व­दु­प­ल­म्भ­न­मु­प­लम्भः असत्यपि वस्तुनि, तेन सह वर्तत इति सोपलम्भं च । शुद्धं केवलं प्रविभक्तं जाग­रि­ता­त्स्थू­ला­ल्लौ­किकं सर्व­प्रा­णि­सा­धा­र­ण­त्वात् इष्यते स्वप्न इत्यर्थः ॥

अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् ।
ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ ८८ ॥

अवस्त्वनुपलम्भं च ग्राह्य­ग्र­ह­ण­व­र्जि­त­मि­त्ये­तत् ; लोकोत्तरम् , अत एव लोकातीतम् । ग्राह्य­ग्र­ह­ण­वि­षयो हि लोकः, तदभावात् सर्व­प्र­वृ­त्ति­बीजं सुषु­प्त­मि­त्ये­तत् । एवं स्मृतं सोपायं परमार्थतत्त्वं लौकिकं शुद्धलौकिकं लोकोत्तरं च क्रमेण येन ज्ञानेन ज्ञायते, तत् ज्ञानं ज्ञेयम् एतान्येव त्रीणि, एतद्व्यतिरेकेण ज्ञेयानुपपत्तेः । सर्व­प्रा­वा­दु­क­क­ल्पि­त­व­स्तु­नोऽ­त्रै­वा­न्त­र्भा­वात् ; विज्ञेयं यत्परमार्थसत्यं तुर्या­ख्य­म­द्व­य­म­ज­मा­त्म­त­त्त्व­मि­त्यर्थः ; सदा सर्वदैव, तल्लौकिकादि विज्ञेयान्तं बुद्धैः पर­मा­र्थ­द­र्शि­भि­र्ब्र­ह्म­विद्भिः प्रकीर्तितम् ॥

ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् ।
सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ८९ ॥

ज्ञाने च लौकिकादिविषये ज्ञेये च लौकिकादौ त्रिविधे, पूर्वं लौकिकं स्थूलम् ; तदभावेन पश्चाच्छुद्धं लौकिकम् , तदभावेन लोको­त्त­र­मि­त्येवं क्रमेण स्थानत्रयाभावेन परमार्थसत्ये तुर्ये अद्वये अजे अभये विदिते, स्वयमेव आत्मस्वरूपमेव सर्वज्ञता सर्वश्चासौ ज्ञश्च सर्वज्ञः, तद्भावः सर्वज्ञता इह अस्मिन् लोके भवति महाधियः महाबुद्धेः । सर्व­लो­का­ति­श­य­व­स्तु­वि­ष­य­बु­द्धि­त्वा­दे­वं­विदः सर्वत्र सर्वदा भवति । सकृद्विदिते स्वरूपे व्यभि­चा­रा­भा­वा­दि­त्यर्थः । न हि परमार्थविदो ज्ञानिनः ज्ञानो­द्भ­वा­भि­भवौ स्तः, यथा अन्येषां प्रावादुकानाम् ॥

हेय­ज्ञे­या­प्य­पा­क्यानि विज्ञे­या­न्य­ग्र­या­णतः ।
तेषामन्यत्र विज्ञे­या­दु­प­ल­म्भ­स्त्रिषु स्मृतः ॥ ९० ॥

लौकिकादीनां क्रमेण ज्ञेयत्वेन निर्दे­शा­द­स्ति­त्वा­शङ्का परमार्थतो मा भूदित्याह — हेयानि च लौकिकादीनि त्रीणि जाग­रि­त­स्व­प्न­सु­षु­प्तानि आत्मन्यसत्त्वेन रज्ज्वां सर्प­व­द्धा­त­व्या­नी­त्यर्थः । ज्ञेयमिह चतु­ष्को­टि­व­र्जितं परमार्थतत्त्वम् । आप्यानि आप्तव्यानि त्यक्त­बा­ह्यै­ष­णा­त्र­येण भिक्षुणा पाण्डि­त्य­बा­ल्य­मौ­ना­ख्यानि साधनानि । पाक्यानि रागद्वेषमोहादयो दोषाः कषायाख्यानि पक्तव्यानि । सर्वाण्येतानि हेय­ज्ञे­या­प्य­पा­क्यानि विज्ञेयानि भिक्षुणा उपा­य­त्वे­ने­त्यर्थः । अग्रयाणतः प्रथमतः । तेषां हेयादीनामन्यत्र विज्ञे­या­त्प­र­मा­र्थ­सत्यं विज्ञेयं ब्रह्मैकं वर्जयित्वा । उपलम्भनमुपलम्भः अवि­द्या­क­ल्प­ना­मा­त्रम् । हेयाप्यपाक्येषु त्रिष्वपि स्मृतो ब्रह्मविद्भिः न परमार्थसत्यता त्रया­णा­मि­त्यर्थः ॥

प्रकृ­त्या­का­श­व­ज्ज्ञेयाः सर्वे धर्मा अनादयः ।
विद्यते न हि नानात्वं तेषां क्वचन किञ्चन ॥ ९१ ॥

परमार्थतस्तु प्रकृत्या स्वभावतः आकाशवत् आकाशतुल्याः सूक्ष्म­नि­र­ञ्ज­न­स­र्व­ग­तत्वैः सर्वे धर्मा आत्मानो ज्ञेया मुमुक्षुभिः अनादयः नित्याः । बहु­व­च­न­कृ­त­भे­दा­शङ्कां निराकुर्वन्नाह — क्वचन क्वचिदपि किञ्चन किञ्चित् अणुमात्रमपि तेषां न विद्यते नानात्वमिति ॥

आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः ।
यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ९२ ॥

ज्ञेयतापि धर्माणां संवृत्यैव, न परमार्थत इत्याह — यस्मात् आदौ बुद्धाः आदिबुद्धाः प्रकृत्यैव स्वभावत एव यथा नित्य­प्र­का­श­स्व­रूपः सविता, एवं नित्यबोधस्वरूपा इत्यर्थः । सर्वे धर्माः सर्व आत्मानः । न च तेषां निश्चयः कर्तव्यः नित्य­नि­श्चि­त­स्व­रूपा इत्यर्थः । न सन्दि­ह्य­मा­न­स्व­रूपा एवं नैवं वेति यस्य मुमुक्षोः एवं यथोक्तप्रकारेण सर्वदा बोध­नि­श्च­य­नि­र­पे­क्षता आत्मार्थं परार्थं वा । यथा सविता नित्यं प्रका­शा­न्त­र­नि­र­पेक्षः स्वार्थं परार्थं वेत्येवं भवति क्षान्तिः बोध­क­र्त­व्य­ता­नि­र­पे­क्षता सर्वदा स्वात्मनि, सः अमृतत्वाय अमृतभावाय कल्पते, मोक्षाय समर्थो भवतीत्यर्थः ॥

आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः ।
सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ ९३ ॥

तथा नापि शान्तिकर्तव्यता आत्मनीत्याह — यस्मात् आदिशान्ताः नित्यमेव शान्ताः अनुत्पन्ना अजाश्च प्रकृत्यैव सुनिर्वृताः सुष्ठू­प­र­त­स्व­भावाः नित्य­मु­क्त­स्व­भावा इत्यर्थः । सर्वे धर्माः समाश्च अभिन्नाश्च समाभिन्नाः अजं साम्यं विशारदं विशु­द्ध­मा­त्म­तत्त्वं यस्मात् , तस्मात् शान्तिर्मोक्षो वा नास्ति कर्तव्य इत्यर्थः । न हि नित्यै­क­स्व­भा­वस्य कृतं किञ्चि­द­र्थ­व­त्स्यात् ॥

वैशारद्यं तु वै नास्ति भेदे विचरतां सदा ।
भेदनिम्नाः पृथ­ग्वा­दा­स्त­स्मात्ते कृपणाः स्मृताः ॥ ९४ ॥

ये यथोक्तं परमार्थतत्त्वं प्रतिपन्नाः, ते एव अकृपणा लोके ; कृपणास्त्वन्ये इत्याह — यस्मात् भेदनिम्नाः भेदानुयायिनः संसारानुगा इत्यर्थः । के ? पृथग्वादाः पृथक् नाना वस्तु इत्येवं वदनं येषां ते पृथग्वादाः द्वैतिन इत्यर्थः । तस्मात्ते कृपणाः क्षुद्राः स्मृताः, यस्मात् वैशारद्यं विशुद्धिः तन्नास्ति तेषां भेदे विचरतां द्वैतमार्गे अवि­द्या­प­रि­क­ल्पिते सर्वदा वर्त­मा­ना­ना­मि­त्यर्थः । अतो युक्तमेव तेषां कार्प­ण्य­मि­त्य­भि­प्रायः ॥

अजे साम्ये तु ये केचि­द्भ­वि­ष्यन्ति सुनिश्चिताः ।
ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ९५ ॥

यदिदं परमार्थतत्त्वम् , अम­हा­त्म­भि­र­प­ण्डि­तै­र्वे­दा­न्त­ब­हिःष्ठैः क्षुद्रै­र­ल्प­प्र­ज्ञै­र­न­व­गा­ह्य­मि­त्याह — अजे साम्ये परमार्थतत्त्वे एवमेवेति ये केचित् स्त्र्यादयोऽपि सुनिश्चिता भविष्यन्ति चेत् , त एव हि लोके महाज्ञानाः निर­ति­श­य­त­त्त्व­वि­ष­य­ज्ञाना इत्यर्थः । तच्च तेषां वर्त्म तेषां विदितं परमार्थतत्त्वं सामा­न्य­बु­द्धि­रन्यो लोको न गाहते नावतरति न विष­यी­क­रो­ती­त्यर्थः । ‘सर्व­भू­ता­त्म­भू­तस्य समैकार्थं प्रपश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः । शकुनीनामिवाकाशे गति­र्नै­वो­प­ल­भ्यते’ इत्यादिस्मरणात् ॥

अजे­ष्व­ज­म­स­ङ्क्रान्तं धर्मेषु ज्ञानमिष्यते ।
यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ९६ ॥

कथं महा­ज्ञा­न­त्व­मि­त्याह — अजेषु अनुत्पन्नेषु अचलेषु धर्मेषु आत्मसु अजमचलं च ज्ञानमिष्यते सवितरीव औष्ण्यं प्रकाशश्च यतः, तस्मात् असङ्क्रान्तम् अर्थान्तरे ज्ञानमजमिष्यते । यस्मान्न क्रमते अर्थान्तरे ज्ञानम् , तेन कारणेन असङ्गं तत् कीर्तितम् आका­श­क­ल्प­मि­त्यु­क्तम् ॥

अणुमात्रेऽपि वैधर्म्ये जाय­मा­नेऽ­वि­प­श्चितः ।
असङ्गता सदा नास्ति किमु­ता­व­र­ण­च्युतिः ॥ ९७ ॥

इतोऽन्येषां वादिनाम् अणुमात्रे अल्पेऽपि वैधर्म्ये वस्तुनि बहिरन्तर्वा जायमाने उत्पद्यमाने अविपश्चितः अविवेकिनः असङ्गता असङ्गत्वं सदा नास्ति ; किमुत वक्तव्यम् आवरणच्युतिः बन्धनाशो नास्तीति ॥

अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः ।
आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ ९८ ॥

तेषा­मा­व­र­ण­च्यु­ति­र्ना­स्तीति ब्रुवतां स्वसिद्धान्ते अभ्युपगतं तर्हि धर्माणामावरणम् । नेत्युच्यते — अलब्धावरणाः अल­ब्ध­म­प्रा­प्त­मा­व­र­णम् अविद्यादिबन्धनं येषां ते धर्माः अलब्धावरणाः बन्धनरहिता इत्यर्थः । प्रकृतिनिर्मलाः स्वभावशुद्धाः आदौ बुद्धाः तथा मुक्ताः, यस्मात् नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावाः । यद्येवं कथं तर्हि बुध्यन्त इत्युच्यते — नायकाः स्वामिनः समर्थाः बोद्धुं बोध­श­क्ति­म­त्स्व­भावा इत्यर्थः । यथा नित्य­प्र­का­श­स्व­रू­पोऽपि सन् सविता प्रकाशत इत्युच्यते, यथा वा नित्य­नि­वृ­त्त­ग­त­योऽपि नित्यमेव शैला­स्ति­ष्ठ­न्ती­त्यु­च्यते, तद्वत् ॥

क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः ।
सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ ९९ ॥

यस्मात् न हि क्रमते बुद्धस्य परमार्थदर्शिनो ज्ञानं विषयान्तरेषु धर्मेषु धर्मसंस्थं सवितरीव प्रभा । तायिनः तायोऽस्यास्तीति तायी, सन्तानवतो निरन्तरस्य आका­श­क­ल्प­स्ये­त्यर्थः ; पूजावतो वा प्रज्ञावतो वा सर्वे धर्मा आत्मानोऽपि तथा ज्ञानवदेव आकाशकल्पत्वान्न क्रमन्ते क्वचि­द­प्य­र्था­न्तर इत्यर्थः । यदा­दा­वु­प­न्य­स्तम् ‘ज्ञाने­ना­का­श­क­ल्पेन’(मा. का. ४ । १) इत्यादि, तदि­द­मा­का­श­क­ल्पस्य तायिनो बुद्धस्य तद­न­न्य­त्वा­दा­का­श­कल्पं ज्ञानं न क्रमते क्वचि­द­प्य­र्था­न्तरे । तथा धर्मा इति आकाशमिव अचलमविक्रियं निरवयवं नित्य­म­द्वि­ती­य­म­स­ङ्ग­म­दृ­श्य­म­ग्रा­ह्य­म­श­ना­या­द्य­तीतं ब्रह्मा­त्म­त­त्त्वम् , ‘न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २३) इति श्रुतेः । ज्ञान­ज्ञे­य­ज्ञा­तृ­भे­द­र­हितं पर­मा­र्थ­त­त्त्व­म­द्व­य­मे­तन्न बुद्धेन भाषितम् । यद्यपि बाह्या­र्थ­नि­रा­क­रणं ज्ञान­मा­त्र­क­ल्पना च अद्व­य­व­स्तु­सा­मी­प्य­मु­क्तम् । इदं तु पर­मा­र्थ­त­त्त्व­म­द्वैतं वेदान्तेष्वेव विज्ञे­य­मि­त्यर्थः ॥

दुर्द­र्श­म­ति­ग­म्भी­र­मजं साम्यं विशारदम् ।
बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ १०० ॥

शास्त्रसमाप्तौ पर­मा­र्थ­त­त्त्व­स्तु­त्यर्थं नमस्कार उच्यते — दुर्दर्शं दुःखेन दर्शनमस्येति दुर्दर्शम् । अस्ति नास्तीति चतु­ष्को­टि­व­र्जि­त­त्वा­द्दु­र्वि­ज्ञे­य­मि­त्यर्थः । अत एव अतिगम्भीरं दुष्प्रवेशं महा­स­मु­द्र­व­द­कृ­त­प्रज्ञैः । अजं साम्यं विशारदम् । ईदृक् पदम् अनानात्वं नानात्ववर्जितं बुद्ध्वा अवगम्य तद्भूताः सन्तः नमस्कुर्मः तस्मै पदाय । अव्यवहार्यमपि व्यव­हा­र­गो­च­र­ता­मा­पाद्य यथाबलं यथाशक्तीत्यर्थः ॥

अजमपि जनियोगं प्राप­दै­श्व­र्य­योगा -
दगति च गतिमत्तां प्रापदेकं ह्यनेकम् ।
विवि­ध­वि­ष­य­ध­र्म­ग्राहि मुग्धेक्षणानां
प्रणतभयविहन्तृ ब्रह्म यत्तन्नतोऽस्मि ॥ १ ॥

प्रज्ञा­वै­शा­ख­वे­ध­क्षु­भि­त­ज­ल­नि­धे­र्वे­द­ना­म्नोऽ­न्त­रस्थं
भूतान्यालोक्य मग्ना­न्य­वि­र­त­ज­न­न­ग्रा­ह­घोरे समुद्रे ।
कारु­ण्या­दु­द्द­धा­रा­मृ­त­मि­द­म­म­रै­र्दु­र्लभं भूतहेतो -
र्यस्तं पूज्याभिपूज्यं परमगुरुममुं पाद­पा­तै­र्न­तोऽस्मि ॥ २ ॥

यत्प्र­ज्ञा­लो­क­भासा प्रति­ह­ति­म­ग­म­त्स्वा­न्त­मो­हा­न्ध­कारो
मज्जोन्मज्जच्च घोरे ह्यस­कृ­दु­प­ज­नो­द­न्वति त्रासने मे ।
यत्पा­दा­वा­श्रि­तानां श्रुति­श­म­वि­न­य­प्रा­प्ति­रग्न्या ह्यमोघा
तत्पादौ पावनीयौ भवभयविनुदौ सर्व­भा­वै­र्न­मस्ये ॥ ३ ॥

इति अला­त­शा­न्ति­प्र­क­र­णम् सम्पूर्णम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ माण्डू­क्यो­प­नि­ष­त्का­रि­का­भाष्यं सम्पूर्णम् ॥