अद्वैतशारदा

मुण्डकोपनिषद्भाष्यम्

प्रथमं मुण्डकम्

व्याख्याः

प्रथमः खण्डः

‘ब्रह्मा देवानाम्’ इत्या­द्या­थ­र्व­णो­प­नि­षत् । अस्याश्च विद्या­स­म्प्र­दा­य­क­र्तृ­त्व­पा­र­म्प­र्य­ल­क्षणं सम्ब­न्ध­मा­दा­वे­वाह स्वयमेव स्तुत्यर्थम् — एवं हि महद्भिः पर­म­पु­रु­षा­र्थ­सा­ध­न­त्वेन गुरुणायासेन लब्धा विद्येति । श्रोतृ­बु­द्धि­प्र­रो­च­नाय विद्यां महीकरोति, स्तुत्या प्ररोचितायां हि विद्यायां सादराः प्रवर्तेरन्निति । प्रयोजनेन तु विद्यायाः साध्यसाधनलक्षणं सम्ब­न्ध­मु­त्त­रत्र वक्ष्यति ‘भिद्यते हृदयग्रन्थिः’(मु. उ. २ । २ । ९) इत्यादिना । अत्र चाप­र­श­ब्द­वा­च्याया ऋग्वे­दा­दि­ल­क्ष­णायां विधि­प्र­ति­षे­ध­मा­त्र­प­रायां विद्यायां संसा­र­का­र­णा­वि­द्या­दि­दो­ष­नि­व­र्त­कत्वं नास्तीति स्वयमेवोक्त्वा परापरेति विद्या­भे­द­क­र­ण­पू­र्व­कम् ‘अवि­द्या­या­म­न्तरे वर्तमानाः’(मु. उ. १ । २ । ८) इत्यादिना, तथा परप्राप्तिसाधनं सर्व­सा­ध­न­सा­ध्य­वि­ष­य­वै­रा­ग्य­पू­र्वकं गुरु­प्र­सा­द­लभ्यां ब्रह्मविद्यामाह ‘परीक्ष्य लोकान्’(मु. उ. १ । २ । १२) इत्यादिना । प्रयोजनं चासकृद्ब्रवीति ‘ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) इति ‘परामृताः परिमुच्यन्ति सर्वे’(मु. उ. ३ । २ । ६) इति च । ज्ञानमात्रे यद्यपि सर्वा­श्र­मि­णा­म­धि­कारः, तथापि संन्यासनिष्ठैव ब्रह्मविद्या मोक्षसाधनं न कर्मसहितेति ‘भैक्षचर्यां चरन्तः’(मु. उ. १ । २ । ११) ‘संन्यासयोगात्’(मु. उ. ३ । २ । ६) इति च ब्रुवन्दर्शयति । विद्या­क­र्म­वि­रो­धाच्च । न हि ब्रह्मा­त्मै­क­त्व­द­र्श­नेन सह कर्म स्वप्नेऽपि सम्पादयितुं शक्यम् ; विद्यायाः काल­वि­शे­षा­भा­वा­द­नि­य­त­नि­मि­त्त­त्वाच्च काल­स­ङ्को­चा­नु­प­पत्तेः । यत्तु गृहस्थेषु ब्रह्म­वि­द्या­स­म्प्र­दा­य­क­र्तृ­त्वादि लिङ्गं न तत्स्थितं न्यायं बाधितुमुत्सहते ; न हि विधिशतेनापि तमः­प्र­का­श­यो­रे­कत्र सद्भावः शक्यते कर्तुम् , किमुत लिङ्गैः केवलैरिति । एव­मु­क्त­स­म्ब­न्ध­प्र­यो­ज­नाया उप­नि­ष­दोऽ­ल्प­ग्रन्थं विवरणमारभ्यते । य इमां ब्रह्म­वि­द्या­मु­प­य­न्त्या­त्म­भा­वेन श्रद्धा­भ­क्ति­पु­रः­सराः सन्तः, तेषां गर्भ­ज­न्म­ज­रा­रो­गा­द्य­न­र्थ­पूगं निशातयति परं वा ब्रह्म गम­य­त्य­वि­द्या­दि­सं­सा­र­का­रणं वा अत्यन्तमवसादयति विना­श­य­ती­त्यु­प­नि­षत् ; उपनिपूर्वस्य सदे­रे­व­म­र्थ­स्म­र­णात् ॥

ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।
स ब्रह्मविद्यां सर्व­वि­द्या­प्र­ति­ष्ठा­म­थ­र्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥

ब्रह्मा परिबृढो महान् धर्म­ज्ञा­न­वै­रा­ग्यै­श्वर्यैः सर्वा­न­न्या­न­ति­शेत इति ; देवानां द्योत­न­व­ता­मि­न्द्रा­दीनां प्रथमः गुणैः प्रधानः सन् , प्रथमः अग्रे वा सम्बभूव अभिव्यक्तः सम्यक् स्वात­न्त्र्ये­णे­त्य­भि­प्रायः । न तथा यथा धर्मा­ध­र्म­व­शा­त्सं­सा­रि­णोऽन्ये जायन्ते, ‘योऽसा­व­ती­न्द्रि­योऽ­ग्राह्यः’(मनु. १ । ७) इत्यादिस्मृतेः । विश्वस्य सर्वस्य जगतः कर्ता उत्पादयिता, भुवनस्य उत्पन्नस्य गोप्ता पालयितेति विशेषणं ब्रह्मणो विद्यास्तुतये । सः एवं प्रख्या­त­म­हत्त्वो ब्रह्मा ब्रह्मविद्यां ब्रह्मणः परमात्मनो विद्यां ब्रह्मविद्याम् , ‘येनाक्षरं पुरुषं वेद सत्यम्’(मु. उ. १ । २ । १३) इति विशेषणात् । परमात्मविषया हि सा । ब्रह्मणा वाग्रजेनोक्तेति ब्रह्मविद्या । तां ब्रह्मविद्याम् , सर्व­वि­द्या­प्र­तिष्ठां सर्व­वि­द्या­भि­व्य­क्ति­हे­तु­त्वा­त्स­र्व­वि­द्या­श्र­या­मि­त्यर्थः ; सर्व­वि­द्या­वेद्यं वा वस्त्वनयैव विज्ञायत इति, ‘येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम्’(छा. उ. ६ । १ । ३) इति श्रुतेः । सर्व­वि­द्या­प्र­ति­ष्ठा­मिति च स्तौति । विद्याम् अथर्वाय ज्येष्ठपुत्राय ज्येष्ठश्चासौ पुत्रश्च, अनेकेषु ब्रह्मणः सृष्टि­प्र­का­रे­ष्व­न्य­त­मस्य सृष्टिप्रकारस्य प्रमुखे पूर्वम् अथर्वा सृष्ट इति ज्येष्ठः ; तस्मै ज्येष्ठपुत्राय प्राह प्रोक्तवान् ॥१॥

अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवहाय प्राह भार­द्वा­जोऽ­ङ्गि­रसे परावराम् ॥ २ ॥

याम् एताम् अथर्वणे प्रवदेत प्राव­द­द्ब्र­ह्म­विद्यां ब्रह्मा, तामेव ब्रह्मणः प्राप्ताम् अथर्वां पुरा पूर्वम् ; उवाच उक्तवान् अङ्गिरे अङ्गीर्नाम्ने ब्रह्मविद्याम् । स चाङ्गीः भारद्वजाय भरद्वाजगोत्राय सत्यवहाय सत्यवहनाम्ने प्राह प्रोक्तवान् । भारद्वाजः अङ्गिरसे स्वशिष्याय पुत्राय वा परावरां पर­स्मा­त्प­र­स्मा­द­व­रे­णा­व­रेण प्राप्तेति परावरा परा­व­र­स­र्व­वि­द्या­वि­ष­य­व्या­प्तेर्वा, तां परावरामङ्गिरसे प्राहे­त्य­नु­षङ्गः ॥२॥

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।
कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥

शौनकः शुनकस्यापत्यं महाशालः महागृहस्थः अङ्गिरसं भार­द्वा­ज­शि­ष्य­मा­चार्यं विधिवत् यथा­शा­स्त्र­मि­त्ये­तत् ; उपसन्नः उपगतः सन् पप्रच्छ पृष्टवान् । शौनकाङ्गिरसोः सम्ब­न्धा­द­र्वा­ग्वि­धि­व­द्वि­शे­ष­णा­भा­वा­दु­प­स­द­न­विधेः पूर्वेषामनियम इति गम्यते । मर्यादाकरणार्थं विशेषणम् । मध्य­दी­पि­का­न्या­यार्थं वा विशेषणम्, अस्म­दा­दि­ष्व­प्यु­प­स­द­न­वि­धे­रि­ष्ट­त्वात् । किमित्याह — कस्मिन्नु भगवो विज्ञाते, नु इति वितर्के, भगवः हे भगवन् , सर्वं यदिदं विज्ञेयं विज्ञातं विशेषेण ज्ञातमवगतं भवतीति ‘एक­स्मि­न्वि­ज्ञाते सर्वविद्भवति’ इति शिष्टप्रवादं श्रुतवाञ्शौनकः तद्विशेषं विज्ञातुकामः सन्कस्मिन्निति वित­र्क­य­न्प­प्रच्छ । अथवा, लोक­सा­मा­न्य­दृष्ट्या ज्ञात्वैव पप्रच्छ । सन्ति हि लोके सुव­र्णा­दि­श­क­ल­भेदाः सुव­र्ण­त्वा­द्ये­क­त्व­वि­ज्ञा­नेन विज्ञायमाना लौकिकैः ; तथा किंन्वस्ति सर्वस्य जगद्भेदस्यैकं कारणम् यत्रै­क­स्मि­न्वि­ज्ञाते सर्वं विज्ञातं भवतीति । नन्वविदिते हि कस्मिन्निति प्रश्नोऽ­नु­प­पन्नः ; किमस्ति तदिति तदा प्रश्नो युक्तः ; सिद्धे ह्यस्तित्वे कस्मिन्निति स्यात् , यथा कस्मि­न्नि­धे­य­मिति । न ; अक्ष­र­बा­हु­ल्या­दा­या­स­भी­रु­त्वा­त्प्रश्नः सम्भवत्येव - किंन्त्वस्तिि तद्य­स्मि­न्ने­क­स्मि­न्वि­ज्ञाते सर्व­वि­त्स्या­दिति ॥३॥

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४ ॥

तस्मै शौनकाय सः अङ्गिराः ह किल उवाच उक्तवान् । किमिति, उच्यते — द्वे विद्ये वेदितव्ये ज्ञातव्ये इति । एवं ह स्म किल यत् ब्रह्मविदः वेदार्थाभिज्ञाः परमार्थदर्शिनः वदन्ति । के ते इत्याह — परा च परमात्मविद्या, अपरा च धर्मा­ध­र्म­सा­ध­न­त­त्फ­ल­वि­षया । ननु कस्मिन्विदिते सर्वविद्भवतीति शौनकेन पृष्टम् ; तस्मि­न्व­क्त­व्येऽ­पृ­ष्ट­मा­हा­ङ्गिराः — द्वे विद्ये इत्यादि । नैष दोषः, क्रमा­पे­क्ष­त्वा­त्प्र­ति­व­च­नस्य । अपरा हि विद्या अविद्या ; सा निराकर्तव्या तद्विषये हिविदिते न किञ्चि­त्त­त्त्वतो विदितं स्यादिति ; ‘निराकृत्य हि पूर्वपक्षं पश्चा­त्सि­द्धान्तो वक्तव्यो भवति’ इति न्यायात् ॥४॥

तत्रापरा, ऋग्वेदो यजुर्वेदः साम­वे­दोऽ­थ­र्व­वेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥

तत्र का अपरेत्युच्यते — ऋग्वेदो यजुर्वेदः साम­वे­दोऽ­थ­र्व­वेदः इत्येते चत्वारो वेदाः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इत्यङ्गानि षट् ; एषा अपरा विद्योक्ता । अथ इदानीम् इयं परा विद्योच्यते यया तत् वक्ष्य­मा­ण­वि­शे­ष­णम् अक्षरम् अधिगम्यते प्राप्यते, अधिपूर्वस्य गमेः प्रायशः प्राप्त्य­र्थ­त्वात् ; न च पर­प्रा­प्ते­र­व­ग­मा­र्थस्य च भेदोऽस्ति ; अविद्याया अपाय एव हि पर­प्रा­प्ति­र्ना­र्था­न्त­रम् । ननु ऋग्वेदादिबाह्या तर्हि सा कथं परा विद्या स्यात् मोक्षसाधनं च । ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः. . . ’(मनु. १२ । ९५) इति हि स्मरन्ति । कुदृ­ष्टि­त्वा­न्नि­ष्फ­ल­त्वा­द­ना­देया स्यात् ; उपनिषदां च ऋग्वे­दा­दि­बा­ह्यत्वं स्यात् । ऋग्वेदादित्वे तु पृथ­क्क­र­ण­म­न­र्थ­कम् अथ परेति । न, वेद्य­वि­ष­य­वि­ज्ञा­नस्य विवक्षितत्वात् । उप­नि­ष­द्वे­द्या­क्ष­र­वि­षयं हि विज्ञानमिह परा विद्येति प्राधान्येन विवक्षितम् , नोप­नि­ष­च्छ­ब्द­राशिः । वेदशब्देन तु सर्वत्र शब्द­रा­शि­र्वि­व­क्षितः । शब्द­रा­श्य­धि­ग­मेऽपि यत्ना­न्त­र­म­न्त­रेण गुर्व­भि­ग­म­ना­दि­ल­क्षणं वैराग्यं च नाक्षराधिगमः सम्भवतीति पृथक्करणं ब्रह्मविद्याया अथ परा विद्येति ॥५॥

यत्त­द­द्रे­श्य­म­ग्रा­ह्य­म­गो­त्र­म­व­र्ण­म­च­क्षुः­श्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६ ॥

यथा विधिविषये कर्त्रा­द्य­ने­क­का­र­को­प­सं­हा­र­द्वा­रेण वाक्या­र्थ­ज्ञा­न­का­ला­द­न्य­त्रा­नु­ष्ठे­योऽ­र्थोऽ­स्त्य­ग्नि­हो­त्रा­दि­ल­क्षणः, न तथेह परविद्याविषये वाक्या­र्थ­ज्ञा­न­स­म­काल एव तु पर्यवसितो भवति, केव­ल­श­ब्द­प्र­का­शि­ता­र्थ­ज्ञा­न­मा­त्र­नि­ष्ठा­व्य­ति­रि­क्ता­भा­वात् । तस्मादिह परां विद्यां सवि­शे­ष­णे­ना­क्ष­रेण विशिनष्टि — यत्त­द­द्रे­श्य­मि­त्या­दिना । वक्ष्यमाणं बुद्धौ संहृत्य सिद्ध­व­त्प­रा­मृ­शति — यत्तदिति । अद्रेश्यम् अदृश्यं सर्वेषां बुद्धी­न्द्रि­या­णा­म­ग­म्य­मि­त्ये­तत् । दृशे­र्ब­हिः­प्र­वृ­त्तस्य पञ्चे­न्द्रि­य­द्वा­र­क­त्वात् । अग्राह्यं कर्मे­न्द्रि­या­वि­ष­य­मि­त्ये­तत् । अगोत्रम् , गोत्रमन्वयो मूल­मि­त्य­न­र्था­न्त­रम् । अगोत्रम् अनन्वयमित्यर्थः । न हि तस्य मूलमस्ति येनान्वितं स्यात् । वर्ण्यन्त इति वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्लत्वादयो वा । अविद्यमाना वर्णा यस्य तत् अवर्णम् अक्षरम् । अचक्षुःश्रोत्रं चक्षुश्च श्रोत्रं च नामरूपविषये करणे सर्वजन्तूनाम् , ते अविद्यमाने यस्य तद­च­क्षुः­श्रो­त्रम् । ‘यः सर्वज्ञः सर्ववित्’(मु. उ. १ । १ । ९) इति चेत­ना­व­त्त्व­वि­शे­ष­णा­त्प्राप्तं संसारिणामिव चक्षुः­श्रो­त्रा­दिभिः कर­णै­र­र्थ­सा­ध­क­त्वम् ; तदिह अच­क्षुः­श्रो­त्र­मिति वार्यते, ‘पश्यत्यचक्षुः स शृणोत्यकर्णः’(श्वे. उ. ३ । १९) इत्यादिदर्शनात् । किञ्च, तत् अपाणिपादं कर्मे­न्द्रि­य­र­हि­त­मि­त्ये­तत् । यत एवम् अग्रा­ह्य­म­ग्रा­हकं च अतो नित्यमविनाशि । विभुं विविधं ब्रह्मा­दि­स्था­व­रा­न्त­प्रा­णि­भे­दै­र्भ­व­तीति विभुम् । सर्वगतं व्याप­क­मा­का­श­व­त्सु­सू­क्ष्मम् । शब्दा­दि­स्थू­ल­त्व­का­र­ण­र­हि­त­त्वात् । शब्दादयो ह्याका­श­वा­य्वा­दी­ना­मु­त्त­रो­त्त­र­स्थू­ल­त्व­का­र­णानि ; तद­भा­वा­त्सु­सू­क्ष्मम् , किञ्च, तत् अव्ययम् उक्तधर्मत्वादेव न व्येतीत्यव्ययम् । न ह्यनङ्गस्य स्वाङ्गा­प­च­य­ल­क्षणो व्ययः सम्भवति शरीरस्येव । नापि कोशापचयलक्षणो व्ययः सम्भवति राज्ञ इव । नापि गुणद्वारको व्ययः सम्भवति, अगु­ण­त्वा­त्स­र्वा­त्म­क­त्वाच्च । यत् एवंलक्षणं भूतयोनिं भूतानां कारणं पृथिवीव स्थावरजङ्गमानां परिपश्यन्ति सर्वत आत्मभूतं सर्वस्य अक्षरं पश्यन्ति धीराः धीमन्तो विवेकिनः । ईदृशमक्षरं यया विद्यया अधिगम्यते सा परा विद्येति समुदायार्थः ॥६॥

यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरु­षा­त्के­श­लो­मानि तथा­क्ष­रा­त्स­म्भ­व­तीह विश्वम् ॥ ७ ॥

भूत­यो­नि­र­क्ष­र­मि­त्यु­क्तम् । तत्कथं भूत­यो­नि­त्व­मि­त्यु­च्यते दृष्टान्तैः — यथा लोके प्रसिद्धः ऊर्णनाभिः लूताकीटः किञ्चि­त्का­र­णा­न्त­र­म­न­पेक्ष्य स्वयमेव सृजते स्वश­री­रा­व्य­ति­रि­क्ता­नेव तन्तून्बहिः प्रसारयति पुनस्तानेव गृह्णते च गृह्णाति स्वात्म­भा­व­मे­वा­पा­द­यति ; यथा च पृथिव्याम् ओषधयः, व्रीह्या­दि­स्था­व­रा­णी­त्यर्थः, स्वात्मा­व्य­ति­रिक्ता एव प्रभवन्ति सम्भवन्ति ; यथा च सतः विद्य­मा­ना­ज्जी­वतः पुरुषात् केशलोमानि केशाश्च लोमानि च सम्भवन्ति विलक्षणानि । यथैते दृष्टान्ताः, तथा विलक्षणं सलक्षणं च निमि­त्ता­न्त­रा­न­पे­क्षा­द्य­थो­क्त­ल­क्ष­णात् अक्षरात् सम्भवति समुत्पद्यते इह संसारमण्डले विश्वं समस्तं जगत् । अने­क­दृ­ष्टा­न्तो­पा­दानं तु सुखावबोधनार्थम् ॥

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥

यद्ब्रह्मण उत्पद्यमानं विश्वं तदनेन क्रमे­णो­त्प­द्यते, न युग­प­द्ब­द­र­मु­ष्टि­प्र­क्षे­प­व­दिति क्रम­नि­य­म­वि­व­क्षा­र्थोऽयं मन्त्र आरभ्यते — तपसा ज्ञानेन उत्प­त्ति­वि­धि­ज्ञ­तया भूतयोन्यक्षरं ब्रह्म चीयते उपचीयते उत्पिपादयिषदिदं जगत् अङ्कुरमिव बीजमुच्छूनतां गच्छति पुत्रमिव पिता हर्षेण । एवं सर्वज्ञतया सृष्टि­स्थि­ति­सं­हा­र­श­क्ति­वि­ज्ञा­न­व­त्त­यो­प­चि­तात् ततः ब्रह्मणः अन्नम् अद्यते भुज्यत इत्य­न्न­म­व्या­कृतं साधारणं कारणं संसारिणां व्याचि­की­र्षि­ता­व­स्था­रू­पेण अभिजायते उत्पद्यते । ततश्च अव्या­कृ­ता­द्व्या­चि­की­र्षि­ता­व­स्थात् अन्नात् प्राणः हिरण्यगर्भो ब्रह्मणो ज्ञान­क्रि­या­श­क्त्य­धि­ष्ठितो जग­त्सा­धा­र­णोऽ­वि­द्या­का­म­क­र्म­भू­त­स­मु­दा­य­बी­जा­ङ्कुरो जगदात्मा अभिजायत इत्यनुषङ्गः । तस्माच्च प्राणात् मनः मनआख्यं सङ्क­ल्प­वि­क­ल्प­सं­श­य­नि­र्ण­या­द्या­त्म­क­म­भि­जा­यते । ततोऽपि सङ्क­ल्पा­द्या­त्म­का­न्म­नसः सत्यं सत्या­ख्य­मा­का­शा­दि­भू­त­प­ञ्च­क­म­भि­जा­यते । तस्मा­त्स­त्या­ख्या­द्भू­त­प­ञ्च­का­द­ण्ड­क्र­मेण सप्त लोकाः भूरादयः । तेषु मनु­ष्या­दि­प्रा­णि­व­र्णा­श्र­म­क्र­मेण कर्माणि । कर्मसु च निमित्तभूतेषु अमृतं कर्मजं फलम् । यावत्कर्माणि कल्पकोटिशतैरपि न विनश्यन्ति, तावत्फलं न विन­श्य­ती­त्य­मृ­तम् ॥८॥

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मा­दे­त­द्ब्रह्म नाम रूपमन्नं च जायते ॥ ९ ॥

उक्त­मे­वा­र्थ­मु­प­स­ञ्जि­ही­र्षु­र्मन्त्रो वक्ष्य­मा­णा­र्थ­माह — यः उक्त­ल­क्ष­णोऽ­क्ष­राख्यः सर्वज्ञः सामान्येन सर्वं जानातीति सर्वज्ञः । विशेषेण सर्वं वेत्तीति सर्ववित् । यस्य ज्ञानमयं ज्ञानविकारमेव सार्व­ज्ञ्य­ल­क्षणं तपः अनायासलक्षणम् , तस्मात् यथो­क्ता­त्स­र्व­ज्ञात् एतत् उक्तं कार्यलक्षणं ब्रह्म हिरण्यगर्भाख्यं जायते । किञ्च, नाम असौ देवदत्तो यज्ञदत्त इत्यादिलक्षणम् , रूपम् इदं शुक्लं नीलमित्यादि, अन्नं च व्रीहि­य­वा­दि­ल­क्ष­णम् , जायते पूर्व­म­न्त्रो­क्त­क्र­मे­णे­त्य­वि­रोधो द्रष्टव्यः ॥

इति प्रथममुण्डके प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्य­प­श्यं­स्तानि त्रेतायां बहुधा सन्ततानि ।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥

साङ्गा वेदा अपरा विद्योक्ता ‘ऋग्वेदो यजुर्वेदः’(मु. उ. १ । १ । ५) इत्यादिना । ‘यत्त­द­द्रे­श्यम्’(मु. उ. १ । १ । ६) इत्यादिना ‘नामरूपमन्नं च जायते’(मु. उ. १ । १ । ९) इत्यन्तेन ग्रन्थे­नो­क्त­ल­क्ष­ण­म­क्षरं यया विद्ययाधिगम्यत इति सा परा विद्या सविशेषणोक्ता । अतः पर­म­न­यो­र्वि­द्य­यो­र्वि­षयौ विवेक्तव्यौ संसा­र­मो­क्षा­वि­त्यु­त्तरो ग्रन्थ आरभ्यते । तत्रा­प­र­वि­द्या­वि­षयः कर्त्रा­दि­सा­ध­न­क्रि­या­फ­ल­भे­द­रूपः संसा­रोऽ­ना­दि­र­नन्तो दुःख­स्व­रू­प­त्वा­द्धा­तव्यः प्रत्येकं शरीरिभिः सामस्त्येन नदी­स्रो­तो­व­द­वि­च्छे­द­रू­प­स­म्बन्धः तदुपशमलक्षणो मोक्षः पर­वि­द्या­वि­ष­योऽ­ना­द्य­न­न्तोऽ­ज­रोऽ­म­रोऽ­मृ­तोऽ­भयः शुद्धः प्रसन्नः स्वात्म­प्र­ति­ष्ठा­ल­क्षणः परमानन्दोऽद्वय इति । पूर्वं तावदपरविद्याया विष­य­प्र­द­र्श­ना­र्थ­मा­रम्भः । तद्दर्शने हि तन्नि­र्वे­दो­प­पत्तिः । तथा च वक्ष्यति — ‘परीक्ष्य लोका­न्क­र्म­चि­तान्’(मु. उ. १ । २ । १२) इत्यादिना । न ह्यप्रदर्शिते परीक्षोपपद्यत इति तत्प्र­द­र्श­य­न्नाह — तदेतत् सत्यम् अवितथम् । किं तत् ? मन्त्रेषु ऋग्वे­दा­द्या­ख्येषु कर्माणि अग्निहोत्रादीनि मन्त्रैरेव प्रकाशितानि कवयः मेधाविनो वसिष्ठादयः यानि अपश्यन् दृष्टवन्तः । यत्त­दे­त­त्स­त्य­मे­का­न्त­पु­रु­षा­र्थ­सा­ध­न­त्वात् , तानि च वेदविहितानि ऋषिदृष्टानि कर्माणि त्रेतायां त्रयी­सं­यो­ग­ल­क्ष­णायां हौत्रा­ध्व­र्य­वौ­द्गा­त्र­प्र­का­रा­या­म­धि­क­र­ण­भू­तायां बहुधा बहुप्रकारं सन्ततानि सम्प्रवृत्तानि कर्मिभिः क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि ; अतो यूयं तानि आचरथ निर्वर्तयत नियतं नित्यं सत्यकामा यथा­भू­त­क­र्म­फ­ल­कामाः सन्तः । एषः वः युष्माकं पन्थाः मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणः लोके फलनिमित्तं लोक्यते दृश्यते भुज्यत इति कर्मफलं लोक उच्यते । तदर्थं तत्प्राप्तये एष मार्ग इत्यर्थः । यान्ये­ता­न्य­ग्नि­हो­त्रा­दीनि त्रय्यां विहितानि कर्माणि, तान्येष पन्था अव­श्य­फ­ल­प्रा­प्ति­सा­ध­न­मि­त्यर्थः ॥१॥

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदा­ज्य­भा­गा­व­न्त­रे­णा­हुतीः प्रतिपादयेत् ॥ २ ॥

तत्रा­ग्नि­हो­त्र­मेव तावत्प्रथमं प्रद­र्श­ना­र्थ­मु­च्यते, सर्वकर्मणां प्राथम्यात् । तत्कथम् ? यदैव इन्ध­नै­र­भ्या­हितैः सम्यगिद्धे समिद्धे दीप्ते हव्यवाहने लेलायते चलति अर्चिः ; तदा तस्मिन्काले लेलायमाने चलत्यर्चिषि आज्यभागौ आज्यभागयोः अन्तरेण मध्ये आवापस्थाने आहुतीः प्रतिपादयेत् प्रक्षिपेत् देवतामुद्दिश्य । अने­का­हः­प्र­यो­गा­पे­क्षया आहुतीरिति बहुवचनम् । एष सम्य­गा­हु­ति­प्र­क्षे­पा­दि­ल­क्षणः कर्ममार्गो लोकप्राप्तये पन्थाः । तस्य च सम्यक्करणं दुष्करम् ; विप­त्त­य­स्त्व­नेका भवन्ति ॥

यस्या­ग्नि­हो­त्र­म­द­र्श­म­पौ­र्ण­मा­स­म­चा­तु­र्मा­स्य­म­ना­ग्र­य­ण­म­ति­थि­व­र्जितं च ।
अहु­त­म­वै­श्व­दे­व­म­वि­धिना हुत­मा­स­प्त­मां­स्तस्य लोकान्हिनस्ति ॥ ३ ॥

कथम् ? यस्य अग्निहोत्रिणः अग्निहोत्रम् अदर्शं दर्शाख्येन कर्मणा वर्जितम् । अग्नि­हो­त्रि­भि­र­व­श्य­क­र्त­व्य­त्वा­द्द­र्शस्य । अग्नि­हो­त्रि­स­म्ब­न्ध्य­ग्नि­हो­त्र­वि­शे­ष­ण­मिव भवति । तद­क्रि­य­मा­ण­मि­त्ये­तत् । तथा अपौर्णमासम् इत्या­दि­ष्व­प्य­ग्नि­हो­त्र­वि­शे­ष­णत्वं द्रष्टव्यम् । अग्नि­हो­त्रा­ङ्ग­त्व­स्या­वि­शि­ष्ट­त्वात् । अपौर्णमासं पौर्ण­मा­स­क­र्म­व­र्जि­तम् । अचातुर्मास्यं चातु­र्मा­स्य­क­र्म­व­र्जि­तम् । अनाग्रयणम् आग्रयणं शरदादिषु कर्तव्यम् , तच्च न क्रियते यस्य तत्तथा । अतिथिवर्जितं च अतिथिपूजनं चाह­न्य­ह­न्य­क्रि­य­माणं यस्य । स्वयं सम्य­ग­ग्नि­हो­त्र­काले अहुतम् । अदर्शादिवत् अवैश्वदेवं वैश्व­दे­व­क­र्म­व­र्जि­तम् । हूय­मा­न­म­प्य­वि­धिना हुतम् अय­था­हु­त­मि­त्ये­तत् । एवं दुःस­म्पा­दि­त­म­स­म्पा­दि­त­म­ग्नि­हो­त्रा­द्यु­प­ल­क्षितं कर्म किं करोतीत्युच्यते — आसप्तमान् सप्तमसहितान् तस्य कर्तुर्लोकान् हिनस्ति हिनस्तीव आया­स­मा­त्र­फ­ल­त्वात् । सम्यक् क्रियमाणेषु हि कर्मसु कर्म­प­रि­णा­मा­नु­रू­प्येण भूरादयः सत्यान्ताः सप्त लोकाः फलं प्राप्यन्ते । ते लोकाः एवं­भू­ते­ना­ग्नि­हो­त्रा­दि­क­र्मणा त्वप्रा­प्य­त्वा­द्धिं­स्यन्त इव, आयासमात्रं त्वव्य­भि­चा­री­त्यतो हिन­स्ती­त्यु­च्यते । पिण्ड­दा­ना­द्य­नु­ग्र­हेण वा सम्बध्यमानाः पितृ­पि­ता­म­ह­प्र­पि­ता­महाः पुत्र­पौ­त्र­प्र­पौत्राः स्वात्मोपकाराः सप्त लोका उक्त­प्र­का­रे­णा­ग्नि­हो­त्रा­दिना न भवन्तीति हिंस्यन्त इत्युच्यते ॥३॥

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः । काल्याद्या विश्वरुच्यन्ता लेलायमानाः अग्ने­र्ह­वि­रा­हु­ति­ग्र­स­नार्था एताः किल सप्त जिह्वाः ॥

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५ ॥

एतेषु अग्नि­जि­ह्वा­भे­देषु यः अग्निहोत्री चरते कर्मा­च­र­त्य­ग्नि­हो­त्रा­दिकं भ्राजमानेषु दीप्यमानेषु । यथाकालं च यस्य कर्मणो यः कालस्तं कालमनतिक्रम्य यथाकालं यजमानम् आददायन् आददाना आहुतयः यजमानेन निवर्तिताः तं नयन्ति प्रापयन्ति । एताः आहुतयो या इमा अनेन निर्वर्तिताः सूर्यस्य रश्मयः भूत्वा, रश्मि­द्वा­रै­रि­त्यर्थः । यत्र यस्मिन्स्वर्गे देवानां पतिः इन्द्रः एकः सर्वानुपरि अधि वसतीति अधिवासः ॥५॥

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाच­म­भि­व­द­न्त्योऽ­र्च­यन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥

कथं सूर्यस्य रश्मिभिर्यजमानं वहन्तीत्युच्यते — एहि एहि इति आह्वयन्त्यः तं यजमानम् आहुतयः सुवर्चसः दीप्तिमत्यः ; किञ्च, प्रियाम् इष्टां वाचं स्तुत्या­दि­ल­क्ष­णाम् अभिवदन्त्यः उच्चारयन्त्यः अर्चयन्त्यः पूजयन्त्यश्च एषः वः युष्माकं पुण्यः सुकृतः ब्रह्मलोकः फलरूपः, इत्थं प्रियां वाचम् अभिवदन्त्यो वहन्तीत्यर्थः । ब्रह्मलोकः स्वर्गः प्रकरणात् ॥६॥

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७ ॥

एतच्च ज्ञानरहितं कर्मै­ता­व­त्फ­ल­म­वि­द्या­का­म­क­र्म­का­र्यम् अतोऽसारं दुःखमूलमिति निन्द्यते — प्लवाः विनाशिन इत्यर्थः । हि यस्मात् एते अदृढाः अस्थिराः यज्ञरूपाः यज्ञस्य रूपाणि यज्ञरूपाः यज्ञनिर्वर्तकाः अष्टादश अष्टा­द­श­स­ङ्ख्याकाः षोडशर्त्विजः पत्नी यज­मा­न­श्चे­त्य­ष्टा­दश । एतदाश्रयं कर्म उक्तं कथितं शास्त्रेण येषु अष्टादशसु अवरं केवलं ज्ञानवर्जितं कर्म । अत­स्ते­षा­म­व­र­क­र्मा­श्र­या­णा­म­ष्टा­द­शा­ना­म­दृ­ढ­तया प्लव­त्वा­त्प्ल­वते सह फलेन तत्साध्यं कर्म ; कुण्डविनाशादिव क्षीरदध्यादीनां तत्स्थानां नाशः ; यत एवम् एतत् कर्म श्रेयः श्रेयःसाधनमिति ये अभिनन्दन्ति अभिहृष्यन्ति अविवेकिनः मूढाः, अतः ते जरां च मृत्युं च जरामृत्युं कञ्चित्कालं स्वर्गे स्थित्वा पुनरेव अपि यन्ति भूयोऽपि गच्छन्ति ॥७॥

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डि­तं­म­न्य­मानाः ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥

किञ्च, अविद्यायाम् अन्तरे मध्ये वर्तमानाः अविवेकप्रायाः स्वयं वयमेव धीराः धीमन्तः पण्डिता विदि­त­वे­दि­त­व्या­श्चेति मन्यमाना आत्मानं सम्भावयन्तः, ते च जङ्घन्यमानाः जरा­रो­गा­द्य­ने­का­न­र्थ­व्रा­तै­र्ह­न्य­माना भृशं पीड्यमानाः परियन्ति विभ्रमन्ति मूढाः । दर्श­न­व­र्जि­त­त्वात् अन्धेनैव अचक्षुष्केणैव नीयमानाः प्रद­र्श्य­मा­न­मार्गाः ; यथा लोके अन्धाः चक्षूरहिता गर्तकण्टकादौ पतन्ति, तद्वत् ॥८॥

अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ।
यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीण­लो­का­श्च्य­वन्ते ॥ ९ ॥

किञ्च, अविद्यायां बहुधा बहुप्रकारं वर्तमानाः वयमेव कृतार्थाः कृतप्रयोजनाः इति एवम् अभिमन्यन्ति अभिमन्यन्ते अभिमानं कुर्वन्ति बालाः अज्ञानिनः । यत् यस्मादेवं कर्मिणः न प्रवेदयन्ति तत्त्वं न जानन्ति रागात् कर्म­फ­ल­रा­गा­भि­भ­व­नि­मि­त्तम् , तेन कारणेन आतुराः दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकात् च्यवन्ते ॥९॥

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृ­तेऽ­नु­भू­त्वेमं लोकं हीनतरं वा विशन्ति ॥ १० ॥

१०

इष्टापूर्तम् इष्टं यागादि श्रौतं कर्म पूर्तं स्मार्तं वापी­कू­प­त­डा­गा­दि­कर्म मन्यमानाः एतदेवातिशयेन पुरुषार्थसाधनं वरिष्ठं प्रधानमिति चिन्तयन्तः, अन्यत् आत्मज्ञानाख्यं श्रेयःसाधनं न वेदयन्ते न जानन्ति प्रमूढाः पुत्र­प­शु­बा­न्ध­वा­दिषु प्रमत्ततया मूढाः ; ते च नाकस्य स्वर्गस्य पृष्ठे उपरिस्थाने सुकृते भोगायतने अनुभूत्वा अनुभूय कर्मफलं पुनः इमं लोकं मानुषम् अस्मात् हीनतरं वा तिर्य­ङ्न­र­का­दि­ल­क्षणं यथाकर्मशेषं विशन्ति ॥१०॥

तपःश्रद्धे ये ह्युप­व­स­न्त्य­रण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥

११

ये पुन­स्त­द्वि­प­री­त­ज्ञा­न­युक्ता वानप्रस्थाः संन्यासिनश्च, तपःश्रद्धे हि तपः स्वाश्रमविहितं कर्म, श्रद्धा हिर­ण्य­ग­र्भा­दि­वि­षया विद्या, ते तपःश्रद्धे उपवसन्ति सेवंतेऽरण्ये वर्तमानाः सन्तः । शान्ताः उपरतकरणग्रामाः । विद्वांसः गृहस्थाश्च ज्ञानप्रधाना इत्यर्थः । भैक्षचर्यां चरन्तः परि­ग्र­हा­भा­वा­दु­प­व­स­न्त्य­रण्ये इति सम्बन्धः । सूर्यद्वारेण सूर्यो­प­ल­क्षि­ते­नो­त्त­रेण पथा ते विरजाः विरजसः, क्षीण­पु­ण्य­पा­प­क­र्माणः सन्त इत्यर्थः । प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मि­न्स­त्य­लो­कादौ अमृतः स पुरुषः प्रथमजो हिरण्यगर्भः हि अव्ययात्मा अव्ययस्वभावो याव­त्सं­सा­र­स्थायी । एतदन्तास्तु संसा­र­ग­त­योऽ­प­र­वि­द्या­गम्याः । नन्वेतं मोक्षमिच्छन्ति केचित् । न, ‘इहैव सर्वे प्रविलीयन्ति कामाः’(मु. उ. ३ । २ । २) ‘ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्व­मे­वा­वि­शन्ति’(मु. उ. ३ । २ । ५) इत्या­दि­श्रु­तिभ्यः ; अप्रकरणाच्च । अप­र­वि­द्या­प्र­क­रणे हि प्रवृत्ते न ह्यक­स्मा­न्मो­क्ष­प्र­स­ङ्गोऽस्ति । विरजस्त्वं त्वापेक्षिकम् । सम­स्त­म­प­र­वि­द्या­कार्यं साध्यसाधनलक्षणं क्रिया­का­र­क­फ­ल­भे­द­भिन्नं द्वैतम् एतावदेव यद्धि­र­ण्य­ग­र्भ­प्रा­प्त्य­व­सा­नम् । तथा च मनुनोक्तं स्थावराद्यां संसा­र­ग­ति­म­नु­क्रा­मता — ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गति­मा­हु­र्म­नी­षिणः’(मनु. १२ । ५०) इति ॥११॥

परीक्ष्य लोका­न्क­र्म­चि­ता­न्ब्रा­ह्मणो निर्वे­द­मा­या­न्ना­स्त्य­कृतः कृतेन ।
तद्विज्ञानार्थं स गुरु­मे­वा­भि­ग­च्छे­त्स­मि­त्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥

१२

अथे­दा­नी­म­स्मा­त्सा­ध्य­सा­ध­न­रू­पा­त्स­र्व­स्मा­त्सं­सा­रा­द्वि­र­क्तस्य परस्यां विद्या­या­म­धि­का­र­प्र­द­र्श­ना­र्थ­मि­द­मु­च्यते — परीक्ष्य यदे­त­दृ­ग्वे­दा­द्य­प­र­वि­द्या­वि­षयं स्वाभा­वि­का­वि­द्या­का­म­क­र्म­दो­ष­व­त्पु­रु­षा­नु­ष्ठे­य­म­वि­द्या­दि­दो­ष­व­न्त­मेव पुरुषं प्रति विहि­त­त्वा­त्त­द­नु­ष्ठा­न­का­र्य­भू­ताश्च लोका ये दक्षि­णो­त्त­र­मा­र्ग­ल­क्षणाः फलभूताः, ये च विहि­ता­क­र­ण­प्र­ति­षे­धा­ति­क्र­म­दो­ष­साध्या नर­क­ति­र्य­क्प्रे­त­ल­क्षणाः, ताने­ता­न्प­रीक्ष्य प्रत्य­क्षा­नु­मा­नो­प­मा­ना­गमैः सर्वतो याथा­त्म्ये­ना­व­धार्य लोकान् संसा­र­ग­ति­भू­ता­न­व्य­क्ता­दि­स्था­व­रा­न्ता­न्व्या­कृ­ता­व्या­कृ­त­ल­क्ष­णा­न्बी­जा­ङ्कु­र­व­दि­त-रे­त­रो­त्प­त्ति­नि­मि­त्ता­न­ने­का­न­र्थ­श­त­स­ह­स्र­स­ङ्कु­ला­न्क­द­ली­ग­र्भ­व­द-सा­रा­न्मा­या­म­री­च्यु­द­क­ग­न्ध­र्व­न­ग­रा­का­र­स्व­प्न­ज­ल­बु­द्बु­द­फे­न­स­मा­न्प्र­ति­क्ष­ण­प्र­ध्वं­सा­न्पृ­ष्ठतः कृत्वाऽ­वि­द्या­का­म­दो­ष­प्र­व­र्ति­त­क­र्म­चि­ता­न्ध­र्मा­ध­र्म­नि­र्व­र्ति­ता­नि­त्ये­तत् । ब्राह्मणः, ब्राह्मणस्यैव विशेषतोऽधिकारः सर्वत्यागेन ब्रह्म­वि­द्या­या­मिति ब्राह्मणग्रहणम् । परीक्ष्य लोकान्किं कुर्या­दि­त्यु­च्यते — निर्वेदम् , निष्पूर्वो विदिरत्र वैराग्यार्थे, वैराग्यम् आयात् कुर्यादित्येतत् । स वैराग्यप्रकारः प्रदर्श्यते — इह संसारे नास्ति कश्चिदपि अकृतः पदार्थः । सर्व एव हि लोकाः कर्मचिताः कर्म­कृ­त­त्वा­च्चा­नित्याः । न नित्यं किञ्चि­द­स्ती­त्य­भि­प्रायः । सर्वं तु कर्मानित्यस्यैव साधनम् । यस्मा­च्च­तु­र्वि­ध­मेव हि सर्वं कर्म कार्यम् — उत्पाद्यमाप्यं विकार्यं संस्कार्यं वा । नातः परं कर्मणो विषयोऽस्ति । अहं च नित्ये­ना­मृ­ते­ना­भ­येन कूटस्थेनाचलेन ध्रुवे­णा­र्थे­नार्थी, न तद्विपरीतेन । अतः किं कृतेन कर्मणा आया­स­ब­हु­ले­ना­न­र्थ­सा­ध­नेन इत्येवं निर्विण्णोऽभयं शिवमकृतं नित्यं पदं यत् , तद्विज्ञानार्थं विशे­षे­णा­धि­ग­मार्थं स निर्विण्णो ब्राह्मणः गुरुमेव आचार्यं शम­द­मा­दि­स­म्प­न्नम् अभिगच्छेत् । शास्त्रज्ञोऽपि स्वातन्त्र्येण ब्रह्म­ज्ञा­ना­न्वे­षणं न कुर्या­दि­त्ये­त­द्गु­रु­मे­वे­त्य­व­धा­र­ण­फ­लम् । समित्पाणिः समि­द्भा­र­गृ­ही­त­हस्तः श्रोत्रियम् अध्य­य­न­श्रु­ता­र्थ­स­म्पन्नं ब्रह्मनिष्ठं हित्वा सर्वकर्माणि केवलेऽद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मनिष्ठः ; जप­नि­ष्ठ­स्त­पो­निष्ठ इति यद्वत् । न हि कर्मिणो ब्रह्मनिष्ठता सम्भवति, कर्मा­त्म­ज्ञा­न­यो­र्वि­रो­धात् । स तं गुरुं विधिवदुपसन्नः प्रसाद्य पृच्छेदक्षरं पुरुषं सत्यम् ॥१२॥

तस्मै स विद्वानुपसन्नाय सम्य­क्प्र­शा­न्त­चि­त्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥

१३

तस्मै सः विद्वान् गुरु­र्ब्र­ह्म­वित् , उपसन्नाय उपगताय । सम्यक् यथा­शा­स्त्र­मि­त्ये­तत् । प्रशान्तचित्ताय उप­र­त­द­र्पा­दि­दो­षाय । शमान्विताय बाह्ये­न्द्रि­यो­प­र­मेण च युक्ताय, सर्वतो विर­क्ता­ये­त्ये­तत् । येन विज्ञानेन यया विद्यया च परया अक्षरम् अद्रे­श्या­दि­वि­शे­षणं तदेवाक्षरं पुरुषशब्दवाच्यं पूर्णत्वात्पुरि शयनाच्च, सत्यं तदेव पर­मा­र्थ­स्वा­भा­व्या­द­व्य­यम् , अक्षरं चाक्ष­र­णा­द­क्ष­त­त्वा­द­क्ष­य­त्वाच्च, वेद विजानाति तां ब्रह्मविद्यां तत्त्वतः यथावत् प्रोवाच प्रब्रू­या­दि­त्यर्थः । आचा­र्य­स्या­प्य­य­मेव नियमो यन्न्या­य­प्रा­प्त­स­च्छि­ष्य­नि­स्ता­र­ण­म­वि­द्या­म­हो­दधेः ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ मुण्ड­को­प­नि­ष­द्भाष्ये प्रथमं मुण्डकं समाप्तम् ॥