अद्वैतशारदा

मुण्डकोपनिषद्भाष्यम्

द्वितीयं मुण्डकम्

व्याख्याः

प्रथमः खण्डः

अपरविद्यायाः सर्वं कार्यमुक्तम् । स च संसारो यत्सारो यस्मा­न्मू­ला­द­क्ष­रा­त्स­म्भ­वति यस्मिंश्च प्रलीयते, तदक्षरं पुरुषाख्यं सत्यम् । यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति, तत्परस्या ब्रह्मविद्याया विषयः । स वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते —

तदेतत्सत्यं यथा सुदी­प्ता­त्पा­व­का­द्वि­स्फु­लिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथा­क्ष­रा­द्वि­विधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥

यदपरविद्याविषयं कर्मफललक्षणम् , सत्यं तदापेक्षिकम् । इदं तु परविद्याविषयम् , पर­मा­र्थ­स­ल्ल­क्ष­ण­त्वात् । तदेतत् सत्यं यथाभूतं विद्याविषयम् ; अवि­द्या­वि­ष­य­त्वाच्च अनृतमितरत् । अत्य­न्त­प­रो­क्ष­त्वा­त्कथं नाम प्रत्य­क्ष­व­त्स­त्य­म­क्षरं प्रति­प­द्ये­र­न्निति दृष्टान्तमाह — यथा सुदीप्तात् सुष्ठु दीप्तादिद्धात् पावकात् अग्नेः विस्फुलिङ्गाः अग्न्यवयवाः सहस्रशः अनेकशः प्रभवन्ते निर्गच्छन्ति सरूपाः अग्निसलक्षणा एव, तथा उक्तलक्षणात् अक्षरात् विविधाः नाना­दे­हो­पा­धि­भे­द­म­नु­वि­धी­य­मा­न­त्वा­द्वि­विधाः हे सोम्य, भावाः जीवाः आका­शा­दि­व­द्घ­टा­दि­प­रि­च्छिन्नाः सुषिरभेदा घटा­द्यु­पा­धि­प्र­भे­द­मनु भवन्ति ; एवं नाना­ना­म­रू­प­कृ­त­दे­हो­पा­धि­प्र­भ­व­मनु प्रजायन्ते, तत्र चैव तस्मिन्नेव चाक्षरे अपियन्ति देहोपाधिविलयमनु
लीयन्ते घटादिविलयमन्विव सुषिरभेदाः । यथाऽऽकाशस्य सुषि­र­भे­दो­त्प­त्ति­प्र­ल­य­नि­मि­त्तत्वं घटा­द्यु­पा­धि­कृ­त­मेव, तद्वदक्षरस्यापि नाम­रू­प­कृ­त­दे­हो­पा­धि­नि­मि­त्त­मेव जीवो­त्प­त्ति­प्र­ल­य­नि­मि­त्त­त्वम् ॥१॥

दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २ ॥

नाम­रू­प­बी­ज­भू­ता­द­व्या­कृ­ता­ख्या­त्स्व­वि­का­रा­पे­क्षया परादक्षरात्परं यत्स­र्वो­पा­धि­भे­द­व­र्जि­त­म­क्ष­र­स्यैव स्वरू­प­मा­का­श­स्येव सर्व­मू­र्ति­व­र्जितं नेति नेती­त्या­दि­वि­शे­षणं विवक्षन्नाह — दिव्यः द्योतनवान् , स्वय­ञ्ज्यो­ति­ष्ट्वात् । दिवि वा स्वात्मनि भवः अलौकिको वा । हि यस्मात् अमूर्तः सर्व­मू­र्ति­व­र्जितः, पुरुषः पूर्णः पुरिशयो वा, दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरः सह बाह्याभ्यन्तरेण वर्तत इति । अजः न जायते कुतश्चित् , स्वतोऽन्यस्य जन्मनिमित्तस्य चाभावात् ; यथा जल­बु­द्बु­दा­दे­र्वा­य्वादिः, यथा नभःसुषिरभेदानां घटादिः । सर्व­भा­व­वि­का­राणां जनिमूलत्वात् तत्प्रतिषेधेन सर्वे प्रतिषिद्धा भवन्ति । सबाह्याभ्यन्तरो ह्यजः अतोऽ­ज­रोऽ­मृ­तोऽ­क्षरो ध्रुवोऽभय इत्यर्थः । यद्यपि देहा­द्यु­पा­धि­भे­द­दृ­ष्टि­भे­देषु सप्राणः समनाः सेन्द्रियः सविषय इव प्रत्यवभासते तल­म­ला­दि­म­दि­वा­का­शम् , तथापि तु स्वतः पर­मा­र्थ­स्व­रू­प­दृ­ष्टी­नाम् अप्राणः अविद्यमानः क्रिया­श­क्ति­भे­द­वान् चलनात्मको वायु­र्य­स्मि­न्नसौ अप्राणः । तथा अमनाः अने­क­ज्ञा­न­श­क्ति­भे­द­व­त्स­ङ्क­ल्पा­द्या­त्मकं मनोऽ­प्य­वि­द्य­मानं यस्मि­न्सोऽ­य­म­मनाः । अप्राणो ह्यमनाश्चेति प्राणा­दि­वा­यु­भेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथा बुद्धिमनसी बुद्धी­न्द्रि­याणि तद्विषयाश्च प्रतिषिद्धा वेदितव्याः ; यथा श्रुत्यन्तरे — ध्यायतीव लेलायतीवेति । यस्माच्चैवं प्रति­षि­द्धो­पा­धि­द्व­य­स्त­स्मात् शुभ्रः शुद्धः । अतोऽ­क्ष­रा­न्ना­म­रू­प­बी­जो­पा­धि­ल­क्षि­त­स्व­रू­पात् , सर्व­का­र्य­क­र­ण­बी­ज­त्वे­नो­प­ल­क्ष्य­मा­ण­त्वा­त्परं तत्त्वं तदु­पा­धि­ल­क्ष­ण­म­व्या­कृ­ता­ख्य­म­क्षरं सर्व­वि­का­रे­भ्य­त­स्मा­त्प­र­तोऽ­क्ष­रा­त्परः निरुपाधिकः पुरुष इत्यर्थः । यस्मिं­स्त­दा­का­शा­ख्य­म­क्षरं संव्य­व­हा­र­वि­ष­य­मोतं च प्रोतं च । कथं पुन­र­प्रा­णा­दि­मत्त्वं तस्येत्युच्यते । यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनात्मना सन्ति, तदा पुरुषस्य प्राणदिना विद्यमानेन प्राणादिमत्त्वं स्यात् ; न तु ते प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनाऽऽत्मना सन्ति तदा । अतः प्राणादिमान्परः पुरुषः, यथाऽनुत्पन्ने पुत्रे अपुत्रो देवदत्तः ॥

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायु­र्ज्यो­ति­रापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥

कथं ते न सन्ति प्राणादय इति, उच्यते — यस्मात् एतस्मादेव पुरु­षा­न्ना­म­रू­प­बी­जो­पा­धि­ल­क्षि­तात् जायते उत्प­द्य­तेऽ­वि­द्या­वि­षयो विकारभूतो नाम­धे­योऽ­नृ­ता­त्मकः प्राणः, ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) ‘अनृतम्’ इति श्रुत्यन्तरात् । न हि तेना­वि­द्या­वि­ष­ये­णा­नृ­तेन प्राणेन सप्राणत्वं परस्य स्यादपुत्रस्य स्वप्नदृष्टेनेव पुत्रेण सपुत्रत्वम् । एवं मनः सर्वाणि चेन्द्रियाणि विष­या­श्चै­त­स्मा­देव जायन्ते । तस्मा­त्सि­द्ध­मस्य निरु­प­च­रि­त­म­प्रा­णा­दि­म­त्त्व­मि­त्यर्थः । यथा च प्रागुत्पत्तेः पर­मा­र्थ­तोऽ­स­न्त­स्तथा प्रलीनाश्चेति द्रष्टव्याः । यथा करणानि मन­श्चे­न्द्रि­याणि च, तथा शरीरविषयकारणानि भूतानि खम् आकाशं, वायुः बाह्य आवहादिभेदः, ज्योतिः अग्निः, आपः उदकं, पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी ; एतानि च शब्द­स्प­र्श­रू­प­र­स­ग­न्धो­त्त­रो­त्त­र­गु­णानि पूर्व­पू­र्व­गु­ण­स­हि­ता­न्ये­त­स्मा­देव जायन्ते ॥

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्व­भू­ता­न्त­रात्मा ॥ ४ ॥

सङ्क्षेपतः पर­वि­द्या­वि­ष­य­म­क्षरं निर्विशेषं पुरुषं सत्यम् ‘दिव्यो ह्यमूर्तः’(मु. उ. २ । १ । २) इत्यादिना मन्त्रे­णोक्त्वा, पुनस्तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते ; सङ्क्षे­प­वि­स्त­रोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्र­भा­ष्यो­क्ति­व­दिति । यो हि प्रथ­म­जा­त्प्रा­णा­द्धि­र­ण्य­ग­र्भा­ज्जा­य­तेऽ­ण्ड­स्या­न्त­र्वि­राट् , स तत्त्वा­न्त­रि­त­त्त्वेन लक्ष्य­मा­णोऽ­प्ये­त­स्मा­देव पुरुषाज्जायत एत­न्म­य­श्चे­त्ये­त­द­र्थ­माह, तं च विशिनष्टि — अग्निः द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’(छा. उ. ५ । ४ । १) इति श्रुतेः । मूर्धा यस्योत्तमाङ्गं शिरः, चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यौ ; यस्येति सर्वत्रानुषङ्गः कर्तव्यः अस्येत्यस्य पदस्य वक्ष्यमाणस्य यस्येति विपरिणामं कृत्वा । दिशः श्रोत्रे यस्य । वाक् विवृताश्च उद्घाटिताः प्रसिद्धा वेदाः यस्य । वायुः प्राणो यस्य । हृदयम् अन्तःकरणं विश्वं समस्तं जगत् अस्य यस्येत्येतत् । सर्वं ह्यन्तः­क­र­ण­वि­का­र­मेव जगत् , मनस्येव सुषुप्ते प्रलयदर्शनात् ; जागरितेऽपि तत एवा­ग्नि­वि­स्फु­लि­ङ्ग­व­द्वि­प्र­ति­ष्ठा­नात् । यस्य च पद्भ्यां जाता पृथिवी, एष देवो विष्णुरनन्तः प्रथमशरीरी त्रैलो­क्य­दे­हो­पाधिः सर्वेषां भूता­ना­म­न्त­रात्मा । स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकरणात्मा ॥

पञ्चा­ग्नि­द्वा­रेण च याः संसरन्ति प्रजाः, ता अपि तस्मादेव पुरु­षा­त्प्र­जा­यन्त इत्युच्यते —

तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् ।
पुमान्रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरु­षा­त्स­म्प्र­सूताः ॥ ५ ॥

तस्मात् पर­स्मा­त्पु­रु­षात् प्रजा­व­स्था­न­वि­शे­ष­रूपः अग्निः । स विशेष्यते — समिधो यस्य सूर्यः, समिध इव समिधः ; सूर्येण हि द्युलोकः समिध्यते । ततो हि द्युलो­का­ग्ने­र्नि­ष्प­न्नात् सोमात् पर्जन्यः द्वितीयोऽग्निः सम्भवति । तस्माच्च पर्जन्यात् ओषधयः पृथिव्यां सम्भवन्ति । ओषधिभ्यः पुरुषाग्नौ हुताभ्य उपादानभूताभ्यः पुमानग्निः रेतः सिञ्चति योषितायां योषिति योषाग्नौ स्त्रियामिति । एवं क्रमेण बह्वीः बह्व्यः प्रजाः ब्राह्मणाद्याः पुरुषात् परस्मात् सम्प्रसूताः समुत्पन्नाः ॥

तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥

किञ्च, कर्मसाधनानि फलानि च तस्मादेवेत्याह — कथम् ? तस्मात् पुरुषात् ऋचः निय­ता­क्ष­र­पा­दा­व­सानाः गाय­त्र्या­दि­च्छ­न्दो­वि­शिष्टा मन्त्राः ; साम पाञ्चभक्तिकं साप्तभक्तिकं च स्तोभा­दि­गी­ति­वि­शि­ष्टम् ; यजूंषि अनि­य­ता­क्ष­र­पा­दा­व­सा­नानि वाक्यरूपाणि ; एवं त्रिविधा मन्त्राः । दीक्षाः मौञ्ज्या­दि­ल­क्षणाः कर्तृ­नि­य­म­वि­शेषाः । यज्ञाश्च सर्वे अग्निहोत्रादयः । क्रतवः सयूपाः । दक्षिणाश्च एकगवाद्या अप­रि­मि­त­स­र्व­स्वान्ताः । संवत्सरश्च कालः कर्माङ्गभूतः । यजमानश्च कर्ता । लोकाः तस्य कर्मफलभूताः ; ते विशेष्यन्ते — सोमः यत्र येषु लोकेषु पवते पुनाति लोकान् यत्र च येषु सूर्यस्तपति । ते च दक्षि­णा­य­नो­त्त­रा­य­ण­मा­र्ग­द्व­य­गम्या विद्व­द­वि­द्व­त्क­र्तृ­फ­ल­भूताः ॥

तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७ ॥

तस्माच्च पुरु­षा­त्क­र्मा­ङ्ग­भूता देवाः बहुधा वस्वादिगणभेदेन सम्प्रसूताः सम्यक् प्रसूताः — साध्याः देवविशेषाः, मनुष्याः कर्माधिकृताः, पशवः ग्राम्यारण्याः, वयांसि पक्षिणः ; जीवनं च मनुष्यादीनां प्राणापानौ, व्रीहियवौ हविरर्थौ ; तपश्च कर्माङ्गं पुरु­ष­सं­स्का­र­ल­क्षणं स्वतन्त्रं च फलसाधनम् ; श्रद्धा यत्पूर्वकः सर्व­पु­रु­षा­र्थ­सा­ध­न­प्र­यो­ग­श्चि­त्त­प्र­साद आस्तिक्यबुद्धिः ; तथा सत्यम् अनृतवर्जनं यथाभूतार्थवचनं चापीडाकरम् ; ब्रह्मचर्यं मैथुनासमाचारः ; विधिश्च इतिकर्तव्यता ॥

सप्त प्राणाः प्रभवन्ति तस्मा­त्स­प्ता­र्चिषः समिधः सप्त होमाः ।
सप्तेमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८ ॥

किञ्च, सप्त शीर्षण्याः प्राणाः तस्मादेव पुरुषात् प्रभवन्ति । तेषां सप्त अर्चिषः दीप्तयः स्वस्व­वि­ष­या­व­द्यो­त­नानि । तथा सप्त समिधः सप्तविषयाः ; विषयैर्हि समिध्यन्ते प्राणाः । सप्त होमा ; तद्वि­ष­य­वि­ज्ञा­नानि, ‘यदस्य विज्ञानं तज्जुहोति’(तै. ना. ८०) इति श्रुत्यन्तरात् । किञ्च, सप्त इमे लोकाः इन्द्रि­य­स्था­नानि, येषु चरन्ति सञ्चरन्ति प्राणाः इति विशेषणात् । प्राणा येषु चरन्तीति प्राणानां विशेषणमिदं प्राणा­पा­ना­दि­नि­वृ­त्त्य­र्थम् । गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः । निहिताः स्थापिता धात्रा सप्त सप्त प्रति­प्रा­णि­भे­दम् । यानि च आत्मयाजिनां विदुषां कर्माणि कर्मफलानि चाविदुषां च कर्माणि तत्साधनानि कर्मफलानि च सर्वं चैतत्परस्मादेव पुरु­षा­त्स­र्व­ज्ञा­त्प्र­सू­त­मिति प्रकरणार्थः ॥

अतः समुद्रा गिरयश्च सर्वेऽ­स्मा­त्स्य­न्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥

अतः पुरुषात् समुद्राः सर्वे क्षाराद्याः । गिरयश्च हिमवदादयः अस्मादेव पुरुषात् सर्वे । स्यन्दन्ते स्रवन्ति गङ्गाद्याः सिन्धवः नद्यः सर्वरूपाः बहुरूपाः । अस्मादेव पुरुषात् सर्वाः ओषधयः व्रीहियवाद्याः । रसश्च मधुरादिः षड्विधः, येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितः तिष्ठते तिष्ठति हि अन्तरात्मा लिङ्गं सूक्ष्मं शरीरम् । तद्ध्यन्तराले शरी­र­स्या­त्म­न­श्चा­त्म­व­द्व­र्तत इत्यन्तरात्मा ॥

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां सोऽवि­द्या­ग्रन्थिं विकिरतीह सोम्य ॥ १० ॥

१०

एवं पुरु­षा­त्स­र्व­मिदं सम्प्रसूतम् । अतो वाचारम्भणं विकारो नामधेयमनृतं पुरुष इत्येव सत्यम् ; अतः पुरुष एव इदं विश्वं सर्वम् । न विश्वं नाम पुरु­षा­द­न्य­त्कि­ञ्चि­दस्ति । अतो यदुक्तं तदेवेदमभिहितम् ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु. उ. १ । १ । ३) इति ; एतस्मिन्हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते, पुरुष एवेदं विश्वं नान्यदस्तीति विज्ञातं भवतीति । किं पुनरिदं विश्व­मि­त्यु­च्यते — कर्म अग्नि­हो­त्रा­दि­ल­क्ष­णम् ; तपः ज्ञानं तत्कृतं फलमन्यदेव तावद्धीदं सर्वम् ; तच्च एतद्ब्रह्मणः कार्यम् ; तस्मात्सर्वं ब्रह्म परामृतं परममृतमहमेवेति यो वेद निहितं स्थितं गुहायां हृदि सर्वप्राणिनाम् , सः एवं विज्ञानात् अविद्याग्रन्थिं ग्रन्थिमिव दृढी­भू­ता­म­वि­द्या­वा­सनां विकिरति विक्षिपति विनाशयति इह जीवन्नेव, न मृतः सन् हे सोम्य प्रियदर्शन ॥

इति द्वितीयमुण्डके प्रथ­म­ख­ण्ड­श­भा­ष्यम् ॥

द्वितीयः खण्डः

आविः संनिहितं गुहाचरं नाम मह­त्प­द­म­त्रै­त­त्स­म­र्पि­तम् ।
एज­त्प्रा­ण­न्नि­मि­षच्च यदेतज्जानथ सदसद्वरेण्यं परं विज्ञा­ना­द्य­द्व­रिष्ठं प्रजानाम् ॥ १ ॥

अरूपं सदक्षरं केन प्रकारेण विज्ञे­य­मि­त्यु­च्यते — आविः प्रकाशं, सन्निहितम् , वागाद्युपाधिभिः — ज्वलति भ्राजतीति श्रुत्यन्तरात् — शब्दा­दी­नु­प­ल­भ­मा­न­व­द­व­भा­सते ; दर्श­न­श्र­व­ण­म­न­न­वि­ज्ञा­ना­द्यु­पा­धि­ध­र्मै­रा­वि­र्भूतं सल्लक्ष्यते हृदि सर्वप्राणिनाम् । यदेतदाविर्भूतं ब्रह्म सन्निहितं सम्यक् स्थितं हृदि, तत् गुहाचरं नाम गुहायां चरतीति दर्श­न­श्र­व­णा­दि­प्र­का­रै­र्गु­हा­च­र­मिति प्रख्यातम् । महत् सर्वमहत्त्वात् , पदं पद्यते सर्वेणेति, सर्व­प­दा­र्था­स्प­द­त्वात् । कथं तन्महत्पदमिति, उच्यते ? यतः अत्र अस्मिन्ब्रह्मणि एतत्सर्वं समर्पितं सम्प्रवेशितं रथनाभाविवाराः — एजत् चलत्पक्ष्यादि, प्राणत् प्राणितीति प्राणा­पा­ना­दि­म­न्म­नु­ष्य­प­श्वादि, निमिषच्च यन्नि­मे­षा­दि­क्रि­या­वत् , यच्चानिमिषत् ; च - शब्दात् समस्तमेतदत्रैव ब्रह्मणि समर्पितम् । एतत् यदास्पदं सर्वं जानथ हे शिष्याः, अवगच्छत तदात्मभूतं भवताम् ; सदसत् सदसत्स्वरूपं सद­स­तो­र्मू­र्ता­मू­र्तयोः स्थूल­सू­क्ष्मयोः, तद्व्य­ति­रे­के­णा­भा­वात् । वरेण्यं वरणीयम् , तदेव हि सर्वस्य नित्य­त्वा­त्प्रा­र्थ­नी­यम् ; परं व्यतिरिक्तं विज्ञा­ना­त्प्र­जा­ना­मिति व्यवहितेन सम्बन्धः ; यल्लौ­कि­क­वि­ज्ञा­ना­गो­च­र­मि­त्यर्थः । यत् वरिष्ठं वरतमं सर्वपदार्थेषु वरेषु ; तद्ध्येकं ब्रह्म अतिशयेन वरं सर्व­दो­ष­र­हि­त­त्वात् ॥

यद­र्चि­म­द्य­द­णु­भ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २ ॥

किञ्च, यत् अर्चिमत् दीप्तिमत् ; तद्दीप्त्या ह्यादित्यादि दीप्यत इति दीप्तिमद्ब्रह्म । किञ्च, यत् अणुभ्यः श्यामा­का­दि­भ्योऽपि अणु च सूक्ष्मम् । च - शब्दा­त्स्थू­ले­भ्योऽ­प्य­ति­श­येन स्थूलं पृथिव्यादिभ्यः । यस्मिन् लोकाः भूरादयः निहिताः स्थिताः, ये च लोकिनः लोकनिवासिनः मनुष्यादयः ; चैतन्याश्रया हि सर्वे प्रसिद्धाः ; तदेतत् सर्वाश्रयम् अक्षरम् ब्रह्म स प्राणः तदु वाङ्मनः वाक्च मनश्च सर्वाणि च करणानि तदु अन्तश्चैतन्यम् ; चैतन्याश्रयो हि प्राणे­न्द्रि­या­दि­स­र्व­स­ङ्घातः, ‘प्राणस्य प्राणम्’(बृ. उ. ४ । ४ । १०) इति श्रुत्यन्तरात् । यत्प्रा­णा­दी­ना­म­न्त­श्चै­त­न्य­म­क्षरं तदेतत् सत्यम् अवितथम् , अतः अमृतम् अविनाशि तत् वेद्धव्यं मनसा ताडयितव्यम् । तस्मिन्मनसः समाधानं कर्त­व्य­मि­त्यर्थः । यस्मादेवं हे सोम्य, विद्धि अक्षरे चेतः समाधत्स्व ॥

धनु­र्गृ­ही­त्वौ­प­नि­षदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत ।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥

कथं वेद्धव्यमिति, उच्यते — धनुः इष्वासनं गृहीत्वा आदाय औपनिषदम् उपनिषत्सु भवं प्रसिद्धं महास्त्रं महच्च तदस्त्रं च महास्त्रं धनुः, तस्मिन् शरम् ; किंवि­शि­ष्ट­मि­त्याह — उपासानिशितं सन्तताभिध्यानेन तनूकृतम् , संस्कृ­त­मि­त्ये­तत् ; सन्द­धी­त(स­न्ध­यीत) सन्धानं कुर्यात् । सन्धाय च आयम्य आकृष्य सेन्द्रि­य­म­न्तः­क­रणं स्ववि­ष­या­द्वि­नि­वर्त्य लक्ष्य एवावर्जितं कृत्वेत्यर्थः । न हि हस्तेनेव धनुष आयमनमिह सम्भवति । तद्भावगतेन तस्मि­न्ब्र­ह्म­ण्य­क्षरे लक्ष्ये भावना भावः तद्गतेन चेतसा, लक्ष्यं तदेव यथोक्तलक्षणम् अक्षरं सोम्य, विद्धि ॥

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्ल­क्ष्य­मु­च्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४ ॥

यदुक्तं धनुरादि, तदुच्यते — प्रणवः ओङ्कारः धनुः । यथा इष्वासनं लक्ष्ये शरस्य प्रवेशकारणम् , तथा आत्मशरस्याक्षरे लक्ष्ये प्रवे­श­का­र­ण­मो­ङ्कारः । प्रणवेन ह्यभ्यस्यमानेन संस्क्रि­य­मा­ण­स्त­दा­ल­म्ब­नोऽ­प्र­ति­ब­न्धे­ना­क्ष­रेऽ­व­ति­ष्ठते । यथा धनुषा अस्त इषुर्लक्ष्ये । अतः प्रणवो धनुरिव धनुः । शरो ह्यात्मा उपाधिलक्षणः पर एव जले सूर्यादिवदिह प्रविष्टो देहे सर्व­बौ­द्ध­प्र­त्य­य­सा­क्षि­तया ; स शर इव स्वात्म­न्ये­वा­र्पि­तोऽ­क्षरे ब्रह्मणि ; अतः ब्रह्म तत् लक्ष्यमुच्यते लक्ष्य इव मनः समा­धि­त्सु­भि­रा­त्म­भा­वेन लक्ष्यमाणत्वात् । तत्रैवं सति अप्रमत्तेन बाह्य­वि­ष­यो­प­ल­ब्धि­तृ­ष्णा­प्र­मा­द­व­र्जि­तेन सर्वतो विरक्तेन जिते­न्द्रि­ये­णै­का­ग्र­चि­त्तेन वेद्धव्यं ब्रह्म लक्ष्यम् । तत­स्त­द्वे­ध­ना­दूर्ध्वं शरवत् तन्मयः भवेत् ; यथा शरस्य लक्ष्यै­का­त्मत्वं फलं भवति, तथा देहा­द्या­त्म­ता­प्र­त्य­य­ति­र­स्क­र­णे­ना­क्ष­रै­का­त्मत्वं फल­मा­पा­द­ये­दि­त्यर्थः ॥

यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथ आत्मानमन्या वाचो विमु­ञ्च­था­मृ­त­स्यैष सेतुः ॥ ५ ॥

अक्षरस्यैव दुर्ल­क्ष्य­त्वा­त्पुनः पुनर्वचनं सुलक्षणार्थम् । यस्मिन् अक्षरे पुरुषे द्यौः पृथिवी च अन्तरिक्षं च ओतं समर्पितं मनश्च सह प्राणैः करणैः अन्यैः सर्वैः, तमेव सर्वा­श्र­य­मे­क­म­द्वि­तीयं जानथ जानीथ हे शिष्याः । आत्मानं प्रत्यक्स्वरूपं युष्माकं सर्वप्राणिनां च । ज्ञात्वा च अन्याः वाचः अपरविद्यारूपाः विमुञ्चथ विमुञ्चत परित्यजत । तत्प्रकाश्यं च सर्वं कर्म ससाधनम् । यतः अमृतस्य एष सेतुः, एत­दा­त्म­ज्ञा­न­म­मृ­त­स्या­मृ­त­त्वस्य मोक्षस्य प्राप्तये सेतुरिव सेतुः, संसा­र­म­हो­द­धे­रु­त्त­र­ण­हे­तु­त्वात् ; तथा च श्रुत्यन्तरम् — ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’(श्वे. उ. ३ । ८) इति ॥

अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः ।
ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६ ॥

किञ्च, अरा इव यथा रथनाभौ समर्पिता अराः, एवं संहताः सम्प्रविष्टाः यत्र यस्मिन्हृदये सर्वतो देहव्यापिन्यः नाड्यः, तस्मिन्हृदये बुद्धि­प्र­त्य­य­सा­क्षि­भूतः स एषः प्रकृत आत्मा अन्तः मध्ये चरते चरति वर्तते । पश्यन् शृण्वन्मन्वानो विजानन् बहुधा अनेकधा क्रोध­ह­र्षा­दि­प्र­त्य­यै­र्जा­य­मान इव जायमानः अन्तः­क­र­णो­पा­ध्य­नु­वि­धा­यि­त्वात् ; वदन्ति हि लौकिका हृष्टो जातः क्रुद्धो जात इति । तमात्मानम् ओमित्येवम् ओङ्कारालम्बनाः सन्तः यथोक्तकल्पनया ध्यायथ चिन्तयत । उक्तं च वक्तव्यं शिष्येभ्य आचार्येण जानता । शिष्याश्च ब्रह्म­वि­द्या­वि­वि­दि­षु­त्वा­न्नि­वृ­त्त­क­र्माणो मोक्षपथे प्रवृत्ताः । तेषां निर्विघ्नतया ब्रह्म­प्रा­प्ति­मा­शा­स्त्या­चार्यः — स्वस्ति निर्विघ्नमस्तु वः युष्माकं पाराय परकूलाय ; परस्तात् कस्मात् ? अविद्यातमसः परस्तात् ; अवि­द्या­र­हि­त­ब्र­ह्मा­त्म­स्व­रू­प­ग­म­ना­ये­त्यर्थः ॥

यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः ॥ ७ ॥

योऽसौ तमसः पर­स्ता­त्सं­सा­र­म­हो­दधिं तीर्त्वा गन्तव्यः परविद्याविषयः, स कस्मिन्वर्तत इत्याह — यः सर्वज्ञः सर्ववित् व्याख्यातः । तं पुनर्विशिनष्टि — यस्यैष प्रसिद्धो महिमा विभूतिः । कोऽसौ महिमा ? यस्येमे द्यावापृथिव्यौ शासने विधृते तिष्ठतः ; सूर्याचन्द्रमसौ यस्य शास­नेऽ­ला­त­च­क्र­व­द­जस्रं भ्रमतः ; यस्य शासने सरितः सागराश्च स्वगोचरं नातिक्रामन्ति ; तथा स्थावरं जङ्गमं च यस्य शासने नियतम् ; तथा च ऋतवोऽयने अब्दाश्च यस्य शासनं नातिक्रामन्ति ; तथा कर्तारः कर्माणि फलं च यच्छासनात्स्वं स्वं कालं नातिवर्तन्ते, स एष महिमा ; भुवि लोके यस्य स एष सर्वज्ञ एवंमहिमा देवः । दिव्ये द्योतनवति सर्व­बौ­द्ध­प्र­त्य­य­कृ­त­द्यो­तने ब्रह्मपुरे । ब्रह्मणो ह्यत्र चैतन्यस्वरूपेण नित्या­भि­व्य­क्त­त्वात् ; ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मि­न्य­द्व्योम, तस्मिन्व्योमनि आकाशे हृत्पु­ण्ड­री­क­म­ध्यस्थे प्रतिष्ठित इवोपलभ्यते ; न ह्याका­श­व­त्स­र्व­ग­तस्य गतिरागतिः प्रतिष्ठा वान्यथा सम्भवति ॥

मनोमयः प्राणशरीरनेता प्रति­ष्ठि­तोऽन्ने हृदयं सन्निधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ ८ ॥

स ह्यात्मा तत्रस्थो मनोवृत्तिभिरेव विभाव्यत इति मनोमयः, मनउपाधित्वात् । प्राणशरीरनेता प्राणश्च तच्छरीरं च तत्प्राणशरीरं तस्यायं नेता । अस्मा­त्स्थू­ला­च्छ­री­रा­च्छ­री­रा­न्तरं सूक्ष्मं प्रति प्रतिष्ठितः अवस्थितः अन्ने भुज्य­मा­ना­न्न­वि­प­रि­णामे प्रति­दि­न­मु­प­ची­य­माने अपचीयमाने च पिण्डरूपेऽन्ने हृदयं बुद्धिं पुण्ड­री­क­च्छिद्रे सन्निधाय समवस्थाप्य ; हृदयावस्थानमेव ह्यात्मनः स्थितिः, न ह्यात्मनः स्थितिरन्ने ; तत् आत्मतत्त्वं विज्ञानेन विशिष्टेन शास्त्रा­चा­र्यो­प­दे­श­ज­नि­तेन ज्ञानेन शम­द­म­ध्या­न­स­र्व­त्या­ग­वै­रा­ग्यो­द्भू­तेन परिपश्यन्ति सर्वतः पूर्णं पश्यन्ति उपलभन्ते धीराः विवेकिनः । आनन्दरूपं सर्वा­न­र्थ­दुः­खा­या­स­प्र­हीणं सुखरूपम् अमृतं यद्विभाति विशेषेण स्वात्मन्येव भाति सर्वदा ॥

भिद्यते हृद­य­ग्र­न्थि­श्छि­द्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ९ ॥

अस्य परमात्मज्ञानस्य फलमिदमभिधीयते — हृदयग्रन्थिः अविद्यावासनामयो बुद्ध्याश्रयः कामः, ‘कामा येऽस्य हृदि श्रिताः’(बृ. उ. ४ । ४ । ७) , इति श्रुत्यन्तरात् । हृदयाश्रयोऽसौ, नात्माश्रयः । भिद्यते भेदं विनाशमायाति । छिद्यन्ते सर्वे ज्ञेयविषयाः संशयाः लौकिकानाम् आ मरणात् तु गङ्गा­स्रो­तो­व­त्प्र­वृत्ता विच्छेदमायान्ति । अस्य विच्छि­न्न­सं­श­यस्य निवृ­त्ता­वि­द्यस्य यानि विज्ञा­नो­त्पत्तेः प्राक्कृतानि जन्मान्तरे चाप्रवृत्तफलानि ज्ञानो­त्प­त्ति­स­ह­भा­वीनि च क्षीयन्ते कर्माणि, न त्वेत­ज्ज­न्मा­र­म्भ­काणि, प्रवृ­त्त­फ­ल­त्वात् । तस्मिन् सर्व­ज्ञेऽ­सं­सा­रिणि परावरे परं च कारणात्मना अवरं च कार्यात्मना तस्मिन्परावरे साक्षादहमस्मीति दृष्टे, संसा­र­का­र­णो­च्छे­दा­न्मु­च्यत इत्यर्थः ॥

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योति­स्त­द्य­दा­त्म­विदो विदुः ॥ १० ॥

१०

उक्त­स्यै­वा­र्थस्य सङ्क्षे­पा­भि­धा­यका उत्तरे मन्त्रा­स्त्र­योऽपि — हिरण्मये ज्योतिर्मये बुद्धि­वि­ज्ञा­न­प्र­काशे परे कोशे कोश इवासेः । आत्म­स्व­रू­पो­प­ल­ब्धि­स्था­न­त्वा­त्परं तत्स­र्वा­भ्य­न्त­र­त्वात् , तस्मिन् विरजम् अवि­द्या­द्य­शे­ष­दो­ष­र­जो­म­ल­व­र्जितं ब्रह्म सर्व­म­ह­त्त्वा­त्स­र्वा­त्म­त्वाच्च निष्कलं निर्गताः कला यस्मा­त्त­न्नि­ष्कलं निरवयवमित्यर्थः । यस्माद्विरजं निष्कलं च अतः तच्छुभ्रं शुद्धं ज्योतिषां सर्व­प्र­का­शा­त्म­ना­म­ग्न्या­दी­ना­मपि तज्ज्योतिः अवभासकम् । अग्न्यादीनामपि ज्योति­ष्ट्व­म­न्त­र्ग­त­ब्र­ह्मा­त्म­चै­त­न्य­ज्यो­ति­र्नि­मि­त्त­मि­त्यर्थः । तद्धि परं ज्योति­र्य­द­न्या­न­व­भा­स्य­मा­त्म­ज्योतिः, तत् यत् आत्मविदः आत्मानं स्वं शब्दा­दि­वि­ष­य­बु­द्धि­प्र­त्य­य­सा­क्षिणं ये विवेकिनो विदुः विजानन्ति, ते आत्मविदः तद्विदुः, आत्म­प्र­त्य­या­नु­सा­रिणः । यस्मात्परं ज्योति­स्त­स्मात्त एव तद्विदुः, नेतरे बाह्या­र्थ­प्र­त्य­या­नु­सा­रिणः ॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ११ ॥

११

कथं तत् ‘ज्योतिषां ज्योतिः’ इति, उच्यते — न तत्र तस्मि­न्स्वा­त्म­भूते ब्रह्मणि सर्वावभासकोऽपि सूर्यो भाति, तद्ब्रह्म न प्रका­श­य­ती­त्यर्थः । स हि तस्यैव भासा सर्व­म­न्य­द­ना­त्म­जातं प्रकाशयति ; न तु तस्य स्वतः प्रका­श­न­सा­म­र्थ्यम् । तथा न चन्द्रतारकम् , न इमाः विद्युतः भान्ति, कुतोऽयमग्निः अस्मद्गोचरः । किं बहुना । यदिदं जगद्भाति, तत्तमेव परमेश्वरं स्वतो भारूपत्वात् भान्तं दीप्यमानम् अनुभाति अनुदीप्यते । यथा जलमुल्मुकादि वा अग्नि­सं­यो­गा­दग्निं दहन्तमनुदहति, न स्वतः ; तद्वत्तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि जगद्विभाति । यत एवं तदेव ब्रह्म भाति च विभाति च कार्यगतेन विविधेन भासा ; अतस्तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्नोति । घटा­दी­ना­म­न्या­व­भा­स­क­त्वा­द­र्श­नात् भारूपाणां चादित्यादीनां तद्दर्शनात् ॥

ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षि­ण­त­श्चो­त्त­रेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १२ ॥

१२

यत्तज्ज्योतिषां ज्योतिर्ब्रह्म, तदेव सत्यम् ; सर्वं तद्विकारः वाचारम्भणं विकारो नाम­धे­य­मा­त्र­म­नृ­त­मि­त­र­दि­त्ये­त­मर्थं विस्तरेण हेतुतः प्रतिपादितं निगमनस्थानीयेन मन्त्रेण पुनरुपसंहरति — ब्रह्मैव उक्तलक्षणम् , इदं यत् पुरस्तात् अग्रेऽ­ब्र­ह्मे­वा­वि­द्या­दृ­ष्टीनां प्रत्यवभासमानं तथा पश्चाद्ब्रह्म तथा दक्षिणतश्च तथा उत्तरेण तथैवाधस्तात् ऊर्ध्वं च सर्वतोऽन्यदिव कार्याकारेण प्रसृतं प्रगतं नाम­रू­प­व­द­व­भा­स­मा­नम् । किं बहुना, ब्रह्मैवेदं विश्वं समस्तमिदं जगत् वरिष्ठं वरतमम् । अब्रह्मप्रत्ययः सर्वोऽ­वि­द्या­मात्रो रज्ज्वामिव सर्पप्रत्ययः । ब्रह्मैवैकं परमार्थसत्यमिति वेदानुशासनम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ मुण्ड­को­प­नि­ष­द्भाष्ये द्वितीयं मुण्डकं समाप्तम् ॥