अद्वैतशारदा

मुण्डकोपनिषद्भाष्यम्

तृतीयं मुण्डकम्

व्याख्याः

प्रथमः खण्डः

परा विद्योक्ता यया तदक्षरं पुरुषाख्यं सत्यमधिगम्यते । यदधिगमे हृद­य­ग्र­न्थ्या­दि­सं­सा­र­का­र­ण­स्या­त्य­न्तिको विनाशः स्यात् , तद्दर्शनोपायश्च योगो धनु­रा­द्यु­पा­दा­न­क­ल्प­न­योक्तः । अथेदानीं तत्सहकारीणि सत्यादिसाधनानि वक्तव्यानीति तदर्थम् उत्त­र­ग्र­न्था­रम्भः । प्राधान्येन तत्त्वनिर्धारणं च प्रकारान्तरेण क्रियते । अत्य­न्त­दु­र­व­गा­ह­त्वा­त्कृ­त­मपि तत्र सूत्रभूतो मन्त्रः पर­मा­र्थ­व­स्त्व­व­धा­र­णा­र्थ­मु­प­न्य­स्यते —

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अन­श्न­न्न­न्योऽ­भि­चा­क­शीति ॥ १ ॥

द्वा द्वौ, सुपर्णा सुपर्णौ शोभनपतनौ सुपर्णौ, पक्षि­सा­मा­न्याद्वा सुपर्णौ, सयुजा सयुजौ सहैव सर्वदा युक्तौ, सखाया सखायौ समानाख्यानौ समा­ना­भि­व्य­क्ति­का­रणौ, एवंभूतौ सन्तौ समानम् अवि­शे­ष­मु­प­ल­ब्ध्य­धि­ष्ठा­न­तया, एकं वृक्षं वृक्ष­मि­वो­च्छे­द­सा­मा­न्या­च्छ­रीरं वृक्षं परिषस्वजाते परिष्वक्तवन्तौ । सुपर्णाविवैकं वृक्षं फलोपभोगार्थम् । अयं हि वृक्ष ऊर्ध्व­मू­लोऽ­वा­क्शा­खोऽ­श्व­त्थोऽ­व्य­क्त­मू­ल­प्र­भवः क्षेत्रसंज्ञकः सर्व­प्रा­णि­क­र्म­फ­ला­श्रयः, तं परिष्वक्तवन्तौ सुपर्णाविव अवि­द्या­का­म­क­र्म­वा­स­ना­श्र­य­लि­ङ्गो­पा­ध्या­त्मे­श्वरौ । तयोः परिष्वक्तयोः अन्यः एकः क्षेत्रज्ञो लिङ्गो­पा­धि­वृ­क्ष­मा­श्रितः पिप्पलं कर्मनिष्पन्नं सुखदुःखलक्षणं फलं स्वादु अने­क­वि­चि­त्र­वे­द­ना­स्वा­द­रूपं स्वादु अत्ति भक्ष­य­त्यु­प­भुङ्क्ते अविवेकतः । अनश्नन् अन्यः इतरः ईश्वरो नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः सर्वज्ञः सत्त्वो­पा­धि­री­श्वरो नाश्नाति । प्रेरयिता ह्यसा­वु­भ­यो­र्भो­ज्य­भो­क्त्रो­र्नि­त्य­सा­क्षि­त्व­स­त्ता­मा­त्रेण । स तु अनश्नन् अन्यः अभिचाकशीति पश्यत्येव केवलम् । दर्शनमात्रं हि तस्य प्रेरयितृत्वं राजवत् ॥

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्य­त्य­न्य­मी­श­मस्य महिमानमिति वीतशोकः ॥ २ ॥

तत्रैवं सति समाने वृक्षे यथोक्ते शरीरे पुरुषः भोक्ता जीवोऽ­वि­द्या­का­म­क­र्म­फ­ल­रा­गा­दि­गु­रु­भा­रा­क्रा­न्तोऽ­ला­बु­रिव सामुद्रे जले निमग्नः निश्चयेन देहा­त्म­भा­व­मा­प­न्नोऽ­य­मे­वा­ह­म­मुष्य पुत्रोऽस्य नप्ता कृशः स्थूलो गुणवान्निर्गुणः सुखी दुःखी­त्ये­वं­प्र­त्ययो नास्त्य­न्योऽ­स्मा­दिति जायते म्रियते संयुज्यते वियुज्यते च सम्ब­न्धि­बा­न्धवैः, अतः अनीशया, न कस्य­चि­त्स­म­र्थोऽहं पुत्रो मम विनष्टो मृता मे भार्या किं मे जीवितेनेत्येवं दीनभावोऽनीशा, तया शोचति सन्तप्यते मुह्यमानः अने­कै­र­न­र्थ­प्र­का­रै­र­वि­वे­कि­तया अन्त­श्चि­न्ता­मा­प­द्य­मानः स एवं प्रेत­ति­र्य­ङ्म­नु­ष्या­दि­यो­नि­ष्वा­ज­व­ञ्ज­वी­भा­व­मा­पन्नः कदाचिदनेकजन्मसु शुद्ध­ध­र्म­स­ञ्चि­त­नि­मि­त्ततः केन­चि­त्प­र­म­का­रु­णि­केन दर्शितयोगमार्गः अहिं­सा­स­त्य­ब्र­ह्म­च­र्य­स­र्व­त्या­ग­श­म­द­मा­दि­स­म्पन्नः समाहितात्मा सन् जुष्टं सेवि­त­म­ने­कै­र्यो­ग­मार्गैः कर्मिभिश्च यदा यस्मिन्काले पश्यति ध्यायमानः अन्यं वृक्षो­पा­धि­ल­क्ष­णा­द्वि­ल­क्ष­णम् ईशम् असं­सा­रि­ण­म­श­ना­या­पि­पा­सा­शो­क­मो­ह­ज­रा­मृ­त्य्व­ती­त­मीशं सर्वस्य जग­तोऽ­य­म­ह­म­स्म्यात्मा सर्वस्य समः सर्वभूतस्थो नेत­रोऽ­वि­द्या­ज­नि­तो­पा­धि­प­रि­च्छिन्नो मायात्मेति महिमानं विभूतिं च जगद्रूपमस्यैव मम परमेश्वरस्य इति यदैवं द्रष्टा, तदा वीतशोकः भवति सर्व­स्मा­च्छो­क­सा­ग­रा­द्वि­प्र­मु­च्यते, कृतकृत्यो भवतीत्यर्थः ॥

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वा­न्पु­ण्य­पापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥

अन्योऽपि मन्त्र इममेवार्थमाह सविस्तरम् — यदा यस्मिन्काले पश्यः पश्यतीति विद्वान् साधक इत्यर्थः । पश्यते पश्यति पूर्ववत्, रुक्मवर्णं स्वय­ञ्ज्यो­तिः­स्व­भावं रुक्मस्येव वा ज्योति­र­स्या­वि­नाशि ; कर्तारं सर्वस्य जगतः ईशं पुरुषं ब्रह्मयोनिं ब्रह्म च तद्योनिश्चासौ ब्रह्मयोनिस्तं ब्रह्मयोनिं ब्रह्मणो वा अपरस्य योनिं स यदा चैवं पश्यति, तदा स विद्वान्पश्यः पुण्यपापे बन्धनभूते कर्मणी समूले विधूय निरस्य दग्ध्वा निरञ्जनः निर्लेपो विगतक्लेशः परमं प्रकृष्टं निरतिशयं साम्यं सम­ता­म­द्व­य­ल­क्ष­णम् ; द्वैतविषयाणि साम्यान्यतः अर्वाञ्च्येव, अतोऽ­द्व­य­ल­क्ष­ण­मे­तत् परमं साम्यमुपैति प्रतिपद्यते ॥

प्राणो ह्येष यः सर्व­भू­तै­र्वि­भाति विजा­न­न्वि­द्वा­न्भ­वते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥

किञ्च, योऽयं प्राणस्य प्राणः पर ईश्वरः हि एषः प्रकृतः सर्वभूतैः सर्वैर्भूतैः ब्रह्मा­दि­स्त­म्ब­प­र्यन्तैः ; इत्थम्भूतलक्षणे तृतीया । सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः । विभाति विविधं दीप्यते । एवं सर्वभूतस्थं यः साक्षा­दा­त्म­भा­वे­ना­य­म­ह­म­स्मीति विजानन् विद्वान् वाक्या­र्थ­ज्ञा­न­मा­त्रेण स भवते भवति न भवतीत्येतत् । किम् ? अतिवादी अतीत्य सर्वा­न­न्या­न्व­दितुं शील­म­स्ये­त्य­ति­वादी । यस्त्वेवं साक्षादात्मानं प्राणस्य प्राणं विद्वान् , सोऽतिवादी न भवतीत्यर्थः । सर्वं यदा आत्मैव नान्यदस्तीति दृष्टम् , तदा किं ह्यसावतीत्य वदेत् । यस्य त्वप­र­म­न्य­द्दृ­ष्ट­मस्ति, स तदतीत्य वदति । अयं तु विद्वा­न्ना­त्म­नोऽ­न्य­त्प­श्यति ; नान्यच्छृणोति ; नान्यद्विजानाति । अतो नातिवदति । किञ्च, आत्मक्रीडः आत्मन्येव क्रीडा क्रीडनं यस्य नान्यत्र पुत्रदारादिषु, स आत्मक्रीडः । तथा आत्मरतिः आत्मन्येव च रती रमणं प्रीतिर्यस्य, स आत्मरतिः । क्रीडा बाह्य­सा­ध­न­सा­पेक्षा ; रतिस्तु साधननिरपेक्षा बाह्य­वि­ष­य­प्री­ति­मा­त्र­मिति विशेषः । तथा क्रियावान् ज्ञान­ध्या­न­वै­रा­ग्या­दि­क्रिया यस्य सोऽयं क्रियावान् । समासपाठे आत्मरतिरेव क्रियास्य विद्यत इति बहु­व्री­हि­म­तु­ब­र्थ­यो­र­न्य­त­रोऽ­ति­रि­च्यते । केचि­त्त्व­ग्नि­हो­त्रा­दि­क­र्म­ब्र­ह्म­वि­द्ययोः समु­च्च­या­र्थ­मि­च्छन्ति । तच्चैष ब्रह्मविदां वरिष्ठ इत्यनेन मुख्यार्थवचनेन विरुध्यते । न हि बाह्य­क्रि­या­वा­ना­त्म­क्रीड आत्मरतिश्च भवितुं शक्तः । क्वचि­द्बा­ह्य­क्रि­या­वि­नि­वृत्तो ह्यात्मक्रीडो भवति बाह्य­क्रि­या­त्म­क्री­ड­यो­र्वि­रो­धात् । न हि तमः­प्र­का­श­यो­र्यु­ग­प­दे­कत्र स्थितिः सम्भवति । तस्मा­द­स­त्प्र­ल­पि­त­मे­वै­त­द­नेन ज्ञान­क­र्म­स­मु­च्च­य­प्र­ति­पा­द­नम् । ‘अन्या वाचो विमुञ्चथ’(मु. उ. २ । २ । ५) ‘संन्यासयोगात्’(मु. उ. ३ । २ । ६) इत्या­दि­श्रु­ति­भ्यश्च । तस्मादयमेवेह क्रियावान्यो ज्ञान­ध्या­ना­दि­क्रि­या­वा­न्सोऽ­भि­न्ना­र्थ­म­र्यादः संन्यासी । य एवंलक्षणो नाति­वा­द्या­त्म­क्रीड आत्मरतिः क्रिया­वा­न्ब्र­ह्म­निष्ठः, स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः ॥

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥

अधुना सत्यादीनि भिक्षोः सम्य­ग्ज्ञा­न­स­ह­का­रीणि साधनानि विधीयन्ते निवृ­त्ति­प्र­धा­नानि — सत्येन अनृतत्यागेन मृषावदनत्यागेन लभ्यः प्राप्तव्यः । किञ्च, तपसा हीन्द्रि­य­म­न­ए­का­ग्र­तया । ‘मन­स­श्चे­न्द्रि­याणां च ह्यैकाग्र्यं परमं तपः’(मो. ध. २५० । ४) इति स्मरणात् । तद्ध्य­नु­कू­ल­मा­त्म­द­र्श­ना­भि­मु­खी­भा­वा­त्प­रमं साधनं तपो नेत­र­च्चा­न्द्रा­य­णादि । एष आत्मा लभ्य इत्यनुषङ्गः सर्वत्र । सम्यग्ज्ञानेन यथा­भू­ता­त्म­द­र्श­नेन ब्रह्मचर्येण मैथुनासमाचारेण । नित्यं सर्वदा ; नित्यं सत्येन नित्यं तपसा नित्यं सम्य­ग्ज्ञा­ने­नेति सर्वत्र नित्य­श­ब्दोऽ­न्त­र्दी­पि­का­न्या­ये­ना­नु­ष­क्तव्यः । वक्ष्यति च ‘न येषु जिह्ममनृतं न माया च’(प्र. उ. १ । १६) इति । क्वासावात्मा य एतैः साधनैर्लभ्य इत्युच्यते — अन्तः­श­री­रेऽ­न्त­र्मध्ये शरीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुभ्रः शुद्धो यमात्मानं पश्यन्ति उपलभन्ते यतयः यतनशीलाः संन्यासिनः क्षीणदोषाः क्षीण­क्रो­धा­दि­चि­त्त­मलाः, स आत्मा नित्यं सत्यादिसाधनैः संन्या­सि­भि­र्ल­भ्यत इत्यर्थः । न कादाचित्कैः सत्या­दि­भि­र्ल­भ्यते । सत्या­दि­सा­ध­न­स्तु­त्य­र्थोऽ­य­म­र्थ­वादः ॥

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।
येना­क्र­म­न्त्यृ­षयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६ ॥

सत्यमेव सत्यवानेव जयते जयति, नानृतं नानृ­त­वा­दी­त्यर्थः । न हि सत्यानृतयोः केवलयोः पुरु­षा­ना­श्रि­तयोः जयः पराजयो वा सम्भवति । प्रसिद्धं लोके सत्य­वा­दि­ना­नृ­त­वा­द्य­भि­भू­यते न विपर्ययः; अतः सिद्धं सत्यस्य बलवत्साधनत्वम् । किञ्च, शास्त्र­तोऽ­प्य­व­ग­म्यते सत्यस्य साधनातिशयत्वम् । कथम् ? सत्येन यथा­भू­त­वा­द­व्य­व­स्थया पन्थाः देवयानाख्यः विततो विस्तीर्णः सातत्येन प्रवृत्तः । येन पथा हि अक्रमन्ति आक्रमन्ते ऋषयः दर्शनवन्तः कुह­क­मा­या­शा­ठ्या­ह­ङ्का­र­द­म्भा­नृ­त­व­र्जिता ह्याप्तकामाः विगततृष्णाः सर्वतो यत्र यस्मिन् , तत्प­र­मा­र्थ­तत्त्वं सत्यस्य उत्तमसाधनस्य सम्बन्धि साध्यं परमं प्रकृष्टं निधानं पुरुषार्थरूपेण निधीयत इति निधानं वर्तते । तत्र च येन पथा आक्रमन्ति, स सत्येन वितत इति पूर्वेण सम्बन्धः ॥

बृहच्च तद्दि­व्य­म­चि­न्त्य­रूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ।
दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७ ॥

किं तत्किन्धर्मकं च तदित्युच्यते — बृहत् महच्च तत् प्रकृतं ब्रह्म सत्यादिसाधनेन सर्वतो व्याप्तत्वात् । दिव्यं स्वय­म्प्र­भ­म­नि­न्द्रि­य­गो­च­रम् अत एव न चिन्तयितुं शक्यतेऽस्य रूपमिति अचिन्त्यरूपम् । सूक्ष्मा­दा­का­शा­दे­रपि तत्सूक्ष्मतरम् , निरतिशयं हि सौक्ष्म्यमस्य सर्वकारणत्वात् ; विभाति विवि­ध­मा­दि­त्य­च­न्द्रा­द्या­का­रेण भाति दीप्यते । किञ्च, दूरात् विप्र­कृ­ष्टा­द्दे­शा­त्सु­दूरे विप्रकृष्टतरे देशे वर्त­तेऽ­वि­दु­षा­म­त्य­न्ता­ग­म्य­त्वा­त्त­द्ब्रह्म । इह देहे अन्तिके समीपे च, विदु­षा­मा­त्म­त्वात् । सर्वा­न्त­र­त्वा­च्चा­का­श­स्या­प्य­न्त­र­श्रुतेः । इह पश्यत्सु चेत­ना­व­त्स्वि­त्ये­तत् , निहितं स्थितं दर्श­ना­दि­क्रि­या­व­त्त्वेन योगि­भि­र्ल­क्ष्य­मा­णम् । क्व ? गुहायां बुद्धि­ल­क्ष­णा­याम् । तत्र हि निगूढं लक्ष्यते विद्वद्भिः । तथाप्यविद्यया संवृतं सन्न लक्ष्यते तत्र­स्थ­मे­वा­वि­द्वद्भिः ॥

न चक्षुषा गृह्यते नापि वाचा नान्यै­र्दे­वै­स्त­पसा कर्मणा वा ।
ज्ञानप्रसादेन विशु­द्ध­स­त्त्व­स्त­तस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८ ॥

पुनरप्यसाधारणं तदु­प­ल­ब्धि­सा­ध­न­मु­च्यते — यस्मात् न चक्षुषा गृह्यते केन­चि­द­प्य­रू­प­त्वात् नापि गृह्यते वाचा अनभिधेयत्वात् न चान्यैर्देवैः इतरेन्द्रियैः । तपसः सर्व­प्रा­प्ति­सा­ध­न­त्वेऽपि न तपसा गृह्यते । तथा वैदि­के­ना­ग्नि­हो­त्रा­दि­क­र्मणा प्रसि­द्ध­म­ह­त्त्वे­नापि न गृह्यते । किं पुनस्तस्य ग्रहणे साधनमित्याह — ज्ञानप्रसादेन आत्मा­व­बो­ध­न­स­म­र्थ­मपि स्वभावेन सर्वप्राणिनां ज्ञानं बाह्य­वि­ष­य­रा­गा­दि­दो­ष­क­लु­षि­त­म­प्र­स­न्न­म­शुद्धं सन्नावबोधयति नित्य­सं­नि­हि­त­म­प्या­त्म­तत्त्वं मला­व­न­द्ध­मि­वा­द­र्शम् , विलुलितमिव सलिलम् । तद्य­दे­न्द्रि­य­वि­ष­य­सं­स­र्ग­ज­नि­त­रा­गा­दि­म­ल­का­लु­ष्या­प­न­य­ना­दा­द­र्श­स­लि­ला­दि­व­त्प्र­सा­दितं स्वच्छं शान्तमवतिष्ठते, तदा ज्ञानस्य प्रसादः स्यात् । तेन ज्ञानप्रसादेन विशुद्धसत्त्वः विशु­द्धा­न्तः­क­रणः योग्यो ब्रह्म द्रष्टुं यस्मात् , ततः तस्मात्तु तमात्मानं पश्यते पश्यति उपलभते निष्कलं सर्वा­व­य­व­भे­द­व­र्जितं ध्यायमानः सत्या­दि­सा­ध­न­वा­नु­प­सं­हृ­त­क­रण एकाग्रेण मनसा ध्यायमानः चिन्तयन् ॥

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९ ॥

यमात्मानमेवं पश्यति, एषः अणुः सूक्ष्मः आत्मा चेतसा विशुद्धज्ञानेन केवलेन वेदितव्यः । क्वासौ ? यस्मिन् शरीरे प्राणः वायुः पञ्चधा प्राणा­पा­ना­दि­भे­देन संविवेश सम्यक् प्रविष्टः, तस्मिन्नेव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः । कीदृशेन चेतसा वेदितव्य इत्याह — प्राणैः सहेन्द्रियैः चित्तं सर्वमन्तःकरणं प्रजानाम् ओतं व्याप्तं येन क्षीरमिव स्नेहेन, काष्ठमिव चाग्निना । सर्वं हि प्रजा­ना­म­न्तः­क­रणं चेत­ना­व­त्प्र­सिद्धं लोके । यस्मिंश्च चित्ते क्लेशा­दि­म­ल­वि­युक्ते शुद्धे विभवति, एषः उक्त आत्मा विशेषेण स्वेनात्मना विभवति आत्मानं प्रका­श­य­ती­त्यर्थः ॥

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जयते तांश्च कामां­स्त­स्मा­दा­त्मज्ञं ह्यर्च­ये­द्भू­ति­कामः ॥ १० ॥

१०

य एवमुक्तलक्षणं सर्वा­त्मा­न­मा­त्म­त्वेन प्रतिपन्नस्तस्य सर्वात्मत्वादेव सर्वा­वा­प्ति­ल­क्षणं फलमाह — यं यं लोकं पित्रादिलक्षणं मनसा संविभाति सङ्कल्पयति मह्यमन्यस्मै वा भवेदिति, विशुद्धसत्त्वः क्षीणक्लेशः आत्म­वि­न्नि­र्म­ला­न्तः­क­रणः कामयते यांश्च कामान् प्रार्थयते भोगान् , तं तं लोकं जयते प्राप्नोति तांश्च कामा­न्स­ङ्क­ल्पि­ता­न्भो­गान् । तस्माद्विदुषः सत्य­स­ङ्क­ल्प­त्वा­दा­त्म­ज्ञ­मा­त्म­ज्ञा­नेन विशु­द्धा­न्तः­क­रणं ह्यर्च­ये­त्पू­ज­ये­त्पा­द­प्र­क्षा­ल­न­शु­श्रू­षा­न­म­स्का­रा­दिभिः भूतिकामः विभूतिमिच्छुः । ततः पूजार्ह एवासौ ॥

इति तृतीयमुण्डके प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं ये ह्यकामास्ते शुक्र­मे­त­द­ति­व­र्तन्ति धीराः ॥ १ ॥

यस्मात् स वेद जानाति एतत् यथोक्तलक्षणं ब्रह्म परमं प्रकृष्टं धाम सर्व­का­मा­ना­मा­श्र­य­मा­स्प­दम् , यत्र यस्मिन्ब्रह्मणि धाम्नि विश्वं समस्तं जगत् निहितम् अर्पितम् , यच्च स्वेन ज्योतिषा भाति शुभ्रं शुद्धम् , तम­प्ये­वं­वि­ध­मा­त्मज्ञं पुरुषं ये हि अकामाः विभू­ति­तृ­ष्णा­व­र्जिता मुमुक्षवः सन्तः उपासते परमिव देवम् , ते शुक्रं नृबीजं यदेतत्प्रसिद्धं शरी­रो­पा­दा­न­का­र­णम् अतिवर्तन्ति अतिगच्छन्ति धीराः बुद्धिमन्तः, न पुनर्योनिं प्रसर्पन्ति । ‘न पुनः क्व रतिं करोति’(?) इति श्रुतेः । अतस्तं पूज­ये­दि­त्य­भि­प्रायः ॥

कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥

मुमुक्षोः कामत्याग एव प्रधानं साध­न­मि­त्ये­त­द्द­र्श­यति — कामान् यः दृष्टा­दृ­ष्टे­ष्ट­वि­ष­यान् कामयते मन्यमानः तद्गु­णां­श्चि­न्त­यानः प्रार्थयते, सः तैः कामभिः कामै­र्ध­र्मा­ध­र्म­प्र­वृ­त्ति­हे­तु­भि­र्वि­ष­ये­च्छा­रूपैः सह जायते ; तत्र तत्र, यत्र यत्र विष­य­प्रा­प्ति­नि­मित्तं कामाः कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र तेषु तेषु विषयेषु तैरेव कामैर्वेष्टितो जायते । यस्तु पर­मा­र्थ­त­त्त्व­वि­ज्ञा­ना­त्प­र्या­प्त­कामः आत्मकामत्वेन परि समन्ततः आप्ताः कामा यस्य, तस्य पर्याप्तकामस्य कृतात्मनः अवि­द्या­ल­क्ष­णा­द­प­र­रू­पा­द­प­नीय स्वेन परेण रूपेण कृत आत्मा विद्यया यस्य, तस्य कृतात्मनस्तु इहैव तिष्ठत्येव शरीरे सर्वे धर्मा­ध­र्म­प्र­वृ­त्ति­हे­तवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति, नश्यन्तीत्यर्थः । कामाः तज्ज­न्म­हे­तु­वि­ना­शान्न जायन्त इत्यभिप्रायः ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३ ॥

यद्येवं सर्वलाभात्परम आत्मलाभः, तल्लाभाय प्रवचनादय उपाया बाहुल्येन कर्तव्या इति प्राप्ते, इदमुच्यते — यः अयमात्मा व्याख्यातः, यस्य लाभः परः पुरुषार्थः, नासौ वेद­शा­स्त्रा­ध्य­य­न­बा­हु­ल्येन प्रवचनेन लभ्यः । तथा न मेधया ग्रन्था­र्थ­धा­र­ण­शक्त्या, न बहुना श्रुतेन नापि भूयसा श्रवणेनेत्यर्थः । केन तर्हि लभ्य इति, उच्यते — यमेव परमात्मानमेव एषः विद्वान् वृणुते प्राप्तु­मि­च्छति, तेन वरणेन एष पर आत्मा लभ्यः, नान्येन साधनान्तरेण, नित्य­ल­ब्ध­स्व­भा­व­त्वात् । कीदृशोऽसौ विदुष आत्मलाभ इति, उच्यते — तस्य एष आत्मा अवि­द्या­स­ञ्छन्नां स्वां परां तनूं स्वात्मतत्त्वं स्वरूपं विवृणुते प्रकाशयति, प्रकाश इव घटा­दि­र्वि­द्यायां सत्या­मा­वि­र्भ­व­ती­त्यर्थः । तस्मा­द­न्य­त्या­गे­ना­त्म­प्रा­र्थ­नैव आत्म­ला­भ­सा­ध­न­मि­त्यर्थः ॥

नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् ।
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्म धाम ॥ ४ ॥

आत्म­प्रा­र्थ­ना­स­हा­य­भू­ता­न्ये­तानि च साधनानि बलाप्रमादतपांसि लिङ्गयुक्तानि संन्याससहितानि । यस्मात् न अयमात्मा बलहीनेन बल­प्र­ही­णे­ना­त्म­नि­ष्ठा­ज­नि­त­वी­र्य­ही­नेन लभ्यः ; नापि लौकि­क­पु­त्र­प­श्वा­दि­वि­ष­या­स­ङ्ग­नि­मि­त्ता­त्प्र­मा­दात् ; तथा तपसो वापि अलिङ्गात् लिङ्गरहितात् । तपोऽत्र ज्ञानम् ; लिङ्गं संन्यासः ; संन्या­स­र­हि­ता­ज्ज्ञा­नान्न लभ्यत इत्यर्थः । एतैः उपायैः बला­प्र­मा­द­सं­न्या­स­ज्ञानैः यतते तत्परः सन्प्रयतते यस्तु विद्वान्विवेकी आत्मवित् , तस्य विदुषः एष आत्मा विशते सम्प्रविशति ब्रह्मधाम ॥

सम्प्रा­प्यै­न­मृ­षयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५ ॥

कथं ब्रह्म विशत इति, उच्यते — सम्प्राप्य समवगम्य एनम् आत्मानम् ऋषयः दर्शनवन्तः तेनैव ज्ञानेन तृप्ताः, न बाह्येन तृप्तिसाधनेन शरीरोपचयकारणेन । कृतात्मानः पर­मा­त्म­स्व­रू­पे­णैव निष्पन्नात्मानः सन्तः । वीतरागाः विगतरागादिदोषाः । प्रशान्ताः उपरतेन्द्रियाः । ते एवंभूताः सर्वगं सर्वव्यापिनम् आकाशवत् सर्वतः सर्वत्र प्राप्य, नोपा­धि­प­रि­च्छि­न्ने­नै­क­दे­शेन ; किं तर्हि, तद्ब्र­ह्मै­वा­द्व­य­मा­त्म­त्वेन प्रतिपद्य धीराः अत्यन्तविवेकिनः युक्तात्मानो नित्य­स­मा­हि­त­स्व­भावाः सर्वमेव समस्तं शरीरपातकालेऽपि आविशन्ति भिन्न­घ­टा­का­श­व­द­वि­द्या­कृ­तो­पा­धि­प­रि­च्छेदं जहति । एवं ब्रह्मविदो ब्रह्मधाम प्रविशन्ति ॥

वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः संन्या­स­यो­गा­द्य­तयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६ ॥

किञ्च, वेदान्तजनितं विज्ञानं वेदान्तविज्ञानं तस्यार्थः पर आत्मा विज्ञेयः, सोऽर्थः सुनिश्चितो येषां ते वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः । ते च संन्यासयोगात् सर्व­क­र्म­प­रि­त्या­ग­ल­क्ष­ण­यो­गा­त्के­व­ल­ब्र­ह्म­नि­ष्ठा­स्व­रू­पा­द्यो­गात् यतयः यतनशीलाः शुद्धसत्त्वाः शुद्धं सत्त्वं येषां संन्यासयोगात् , ते शुद्धसत्त्वाः । ते ब्रह्मलोकेषु ; संसारिणां ये मरणकालास्ते अपरान्तकालाः ; तानपेक्ष्य मुमुक्षूणां संसारावसाने देहपरित्यागकालः परान्तकालः तस्मिन् परान्तकाले साधकानां बहु­त्वा­द्ब्र­ह्मैव लोको ब्रह्मलोकः एकोऽ­प्य­ने­क­व­द्दृ­श्यते प्राप्यते च । अतो बहुवचनं ब्रह्म­लो­के­ष्विति, ब्रह्मणीत्यर्थः । परामृताः परम् अमृतम् अमरणधर्मकं ब्रह्म आत्मभूतं येषां ते परामृता जीवन्त एव ब्रह्मभूताः, परामृताः सन्तः परिमुच्यन्ति परि सम­न्ता­त्प्र­दी­प­नि­र्वा­ण­व­द्भि­न्न­घ­टा­का­श­वच्च निवृ­त्ति­मु­प­यान्ति परिमुच्यन्ति परि सम­न्ता­न्मु­च्यन्ते सर्वे, न देशान्तरं गन्त­व्य­म­पे­क्षन्ते । ‘शकु­नी­ना­मि­वा­काशे जले वारिचरस्य वा । पदं यथा न दृश्येत तथा ज्ञानवतां गतिः’(मो. ध. १८१ । ९) ‘अनध्वगा अध्वसु पारयिष्णवः’(?) इति श्रुति­स्मृ­ति­भ्याम् ; देशपरिच्छिन्ना हि गतिः संसारविषयैव, परि­च्छि­न्न­सा­ध­न­सा­ध्य­त्वात् । ब्रह्म तु समस्तत्वान्न देशपरिच्छेदेन गन्तव्यम् । यदि हि देशपरिच्छिन्नं ब्रह्म स्यात् , मूर्त­द्र­व्य­व­दा­द्य­न्त­व­द­न्या­श्रितं सावयवमनित्यं कृतकं च स्यात् । न त्वेवंविधं ब्रह्म भवितुमर्हति । अत­स्त­त्प्रा­प्तिश्च नैव देशपरिच्छिन्ना भवितुं युक्ता ॥

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥

अपि च, अवि­द्या­दि­सं­सा­र­ब­न्धा­प­न­य­न­मेव मोक्षमिच्छन्ति ब्रह्मविदः, न तु कार्यभूतम् । किञ्च, मोक्षकाले या देहारम्भिकाः कलाः प्राणाद्याः, ताः स्वाः प्रतिष्ठाः गताः स्वं स्वं कारणं गता भवन्तीत्यर्थः । प्रतिष्ठा इति द्विती­या­ब­हु­व­च­नम् । पञ्चदश पञ्चदशसङ्ख्याका या अन्त्य­प्र­श्न­प­रि­प­ठिताः प्रसिद्धाः, देवाश्च देहा­श्र­या­श्च­क्षु­रा­दि­क­र­णस्थाः सर्वे प्रति­दे­व­ता­स्वा­दि­त्या­दिषु गता भवन्तीत्यर्थः । यानि च मुमुक्षुणा कृतानि कर्मा­ण्य­प्र­वृ­त्त­फ­लानि, प्रवृ­त्त­फ­ला­ना­मु­प­भो­गे­नैव क्षीणत्वात् । विज्ञा­न­म­य­श्चात्मा अवि­द्या­कृ­त­बु­द्ध्या­द्यु­पा­धि­मा­त्म­त्वेन गत्वा जलादिषु सूर्या­दि­प्र­ति­बि­म्ब­व­दिह प्रविष्टो देहभेदेषु कर्मणां तत्फ­ला­र्थ­त्वा­त्सह तेनैव विज्ञा­न­म­ये­ना­त्मना ; अतो विज्ञानमयो विज्ञानप्रायः । त एते कर्माणि विज्ञानमयश्च आत्मा उपाध्यपनये सति परे अव्यये अनन्तेऽक्षये ब्रह्मणि आका­श­क­ल्पेऽ­जेऽ­ज­रेऽ­मृ­तेऽ­भ­येऽ­पू­र्वेऽ­न­प­रेऽ­न­न्त­रेऽ­बा­ह्येऽ­द्वये शिवे शान्ते सर्वे एकीभवन्ति अविशेषतां गच्छन्ति एकत्वमापद्यन्ते जलाद्याधारापनय इव सूर्या­दि­प्र­ति­बिम्बाः सूर्ये, घटाद्यपनय इवाकाशे घटाद्याकाशाः ॥

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥

किञ्च, यथा नद्यः गङ्गाद्याः स्यन्दमानाः गच्छन्त्यः समुद्रे समुद्रं प्राप्य अस्तम् अद­र्श­न­म­वि­शे­षा­त्म­भावं गच्छन्ति प्राप्नुवन्ति नाम च रूपं च नामरूपे विहाय हित्वा, तथा अवि­द्या­कृ­त­ना­म­रू­पात् विमुक्तः सन् विद्वान् परात् अक्ष­रा­त्पू­र्वो­क्तात् परं दिव्यं पुरुषं यथोक्तलक्षणम् उपैति उपगच्छति ॥

स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्या­ब्र­ह्म­वि­त्कुले भवति ।
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९ ॥

ननु श्रेयस्यनेके विघ्नाः प्रसिद्धाः ; अतः क्लेशा­ना­म­न्य­त­मे­ना­न्येन वा देवादिना च विघ्नितो ब्रह्म­वि­द­प्यन्यां गतिं मृतो गच्छति न ब्रह्मैव ; न, विद्ययैव सर्व­प्र­ति­ब­न्ध­स्या­प­नी­त­त्वात् । अवि­द्या­प्र­ति­ब­न्ध­मात्रो हि मोक्षो नान्य­प्र­ति­बन्धः, नित्य­त्वा­दा­त्म­भू­त­त्वाच्च । तस्मात् सः यः कश्चित् ह वै लोके तत् परमं ब्रह्म वेद साक्षा­द­ह­मे­वा­स्मीति जानाति, स नान्यां गतिं गच्छति । देवैरपि तस्य ब्रह्मप्राप्तिं प्रति विघ्नो न शक्यते कर्तुम् ; आत्मा ह्येषां स भवति । तस्माद्ब्रह्म विद्वान् ब्रह्मैव भवति । किञ्च, न अस्य विदुषः अब्रह्मवित् कुले भवति ; किञ्च, तरति शोकम् अने­के­ष्ट­वै­क­ल्य­नि­मित्तं मानसं सन्तापं जीव­न्ने­वा­ति­क्रान्तो भवति । तरति पाप्मानं धर्माधर्माख्यं गुहाग्रन्थिभ्यः हृद­या­वि­द्या­ग्र­न्थिभ्यः विमुक्तः सन् मृतः भवतीत्युक्तमेव ‘भिद्यते हृदयग्रन्थिः’(मु. उ. २ । २ । ९) इत्यादि ॥

तदे­त­दृ­चा­भ्यु­क्तम् —
क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ।
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १० ॥

१०

अथेदानीं ब्रह्म­वि­द्या­स­म्प्र­दा­न­वि­ध्यु­प­प्र­द­र्श­ने­नो­प­सं­हारः क्रियते — तदेतत् विद्या­स­म्प्र­दा­न­वि­धा­नम् ऋचा मन्त्रेण अभ्युक्तम् अभिप्रकाशितम् । क्रियावन्तः यथो­क्त­क­र्मा­नु­ष्ठा­न­युक्ताः । श्रोत्रियाः ब्रह्मनिष्ठाः अप­र­स्मि­न्ब्र­ह्म­ण्य­भि­युक्ताः परं ब्रह्म बुभुत्सवः स्वयम् एकर्षिम् एक­र्षि­ना­मा­न­मग्निं जुह्वते जुह्वति श्रद्धयन्तः श्रद्दधानाः सन्तः ये, तेषामेव संस्कृतात्मनां पात्रभूतानाम् एतां ब्रह्मविद्यां वदेत ब्रूयात् शिरोव्रतं शिर­स्य­ग्नि­धा­र­ण­ल­क्ष­णम् । यथा आथर्वणानां वेदव्रतं प्रसिद्धम् । यैस्तु यैश्च तत् चीर्णं विधिवत् यथाविधानं तेषामेव वदेत ॥

तदे­त­त्स­त्य­मृ­षि­र­ङ्गिराः पुरोवाच नैत­द­ची­र्ण­व्र­तोऽ­धीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११ ॥

११

तदेतत् अक्षरं पुरुषं सत्यम् ऋषिः अङ्गिरा नाम पुरा पूर्वं शौनकाय विधिवदुपसन्नाय पृष्टवते उवाच । तद्वदन्योऽपि तथैव श्रेयोर्थिने मुमुक्षवे मोक्षार्थं विधिवदुपसन्नाय ब्रूयादित्यर्थः । न एतत् ग्रन्थरूपम् अचीर्णव्रतः अचरितव्रतोऽपि अधीते न पठति ; चीर्णव्रतस्य हि विद्या फलाय संस्कृता भवतीति । समाप्ता ब्रह्मविद्या ; सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण सम्प्राप्ता, तेभ्यो नमः परमऋषिभ्यः । परमं ब्रह्म साक्षा­द्दृ­ष्ट­वन्तो ये ब्रह्मा­द­योऽ­व­ग­त­व­न्तश्च, ते परमर्षयः तेभ्यो भूयोऽपि नमः । द्विर्व­च­न­म­त्या­द­रार्थं मुण्ड­क­स­मा­प्त्यर्थं च ॥

इति तृतीयमुण्डके द्विती­य­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ मुण्ड­को­प­नि­ष­द्भाष्यं सम्पूर्णम् ॥