न्यायनिर्णयव्याख्या
१ परिच्छेदः
किं तर्हि तदर्थान्तरं, येन वाक्यस्योपपत्तिरिति पृच्छति —
कथमिति ।
कर्मधारयाद्यनेकयोगेऽपि संज्ञासमासं बलवत्तरमाप्तोक्तेरुपेत्यात्र परेष्टसङ्ख्याधीरेव नेति परिहरति —
उच्यत इति ।
दिग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञाया विषये सुबन्तेन समस्यन्ते, दक्षिणाग्निः सप्तर्षय इति दर्शनात् , स तु समासस्तत्पुरुषसंज्ञ इति स्मृतेरित्यर्थः ।
संज्ञात्वेऽपि पाचकशब्दवदवयववृत्त्या पञ्चजनशब्दस्य बोधकत्वमाशङ्क्योक्तम् —
ततश्चेति ।
सति संज्ञात्वे पञ्चजनशब्दोऽवयवार्थयोगानपेक्षत्वादेकस्मिन्नपि वसिष्ठे सप्तर्षिशब्दवदेकत्रापि भवतीति भावः ।
प्राथमिकपञ्चशब्दस्यान्वयमाकाङ्क्षया दर्शयति —
त इति ।
वाक्यार्थं सदृष्टान्तं स्पष्टयति —
पञ्चेति ॥ ११ ॥
स्वरूपविशेषासिद्धौ श्रुतेरप्रामाण्यात्तद्विशेषसाधकस्य चादृष्टेस्तत्प्रामाण्ये सन्दिहानः शङ्कते —
के पुनरिति ।
सूत्रेणोत्तरमाह —
तदिति ।
तद्व्याकुर्वन्निर्णायकमाह —
यस्मिन्निति ।
अप्यर्थे श्रुतावुतशब्दः । येऽपि प्राणादीनां प्राणनादिसाधकमात्मानं विदुस्ते ब्रह्म निश्चितवन्त इति योजना ।
पञ्चजनशब्दो लोके प्राणादिष्वगृहीतसङ्गतिस्तान्कथमाचक्षीतेति शङ्कते —
कथमिति ।
यथा सत्येत्युक्ते सत्यभामा गम्यते तथा जनशब्दो भाष्ये पञ्चजनविषयः ।
किं पञ्चजनशब्दस्य सङ्ख्यीयतत्त्वविषयत्वं, प्राणाद्यविषयत्वं वा । नाद्यः, तेष्वपि शक्यग्रहणसाम्यादित्याह —
तत्त्वेष्विति ।
द्वितीयं प्रत्याह —
समाने त्विति ।
कया तर्हि वृत्या पञ्चजनशब्देन प्राणादिधीः, लक्षणयेत्याह —
जनेति ।
किञ्च पञ्चजनपर्यायस्य पुरुषशब्दस्य प्राणेषु प्रयुक्तपूर्वत्वाद्युक्ता तेषां पञ्चजनशब्दतेत्याह —
जनेति ।
किञ्च पञ्चजनपर्यायस्य पुरुषशब्दस्य प्राणे प्रयुक्तत्वं व्यनक्ति —
ते वा इति ।
ते खल्वेते हृदयच्छिद्रेषु पूर्वदक्षिणपश्चिमोत्तरोर्ध्वेषु पञ्चसु पञ्चप्राणादयो ब्रह्मणो हार्दस्य पुरुषस्य द्वारपाला इत्यत्र प्राणादिषु पुरुषशब्दोऽस्तीत्यर्थः ।
प्राणस्य सर्वात्मत्वादपि तदात्मकानां तेषां युक्ता पञ्चजनशब्दतेत्याह —
प्राणो हेति ।
अवयवप्रसिद्धिसम्भवे समुदायप्रसिद्धिरयुक्ता । सम्भवति पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिः । पञ्च च ते जनाश्चेति व्युत्पत्तेः ।
तत्त्वानां च जायमानाजायमानानां छत्रिन्यायेन जनशब्दितानां पञ्चसङ्ख्यावतां पञ्चसङ्ख्यावत्त्वे पञ्चविंशतित्वसिद्धिरित्याशङ्क्याह —
समासेति ।
रूढिमाक्षिपति —
कथमिति ।
जनशब्दितमनुष्येषु पञ्चजनशब्जस्य दृष्टत्वात्प्रथमप्रयोगाभावासिद्धावपि तदभावमुपेत्य दृष्टान्तमाह —
शक्येति ।
सङ्ग्रहवाक्यं विवृणोति —
प्रसिदद्धेति ।
तत्रोद्भिदघिकरणमुदाहरति —
यथेति ।
‘उद्भिदा यजेत पशुकामः’ इत्यत्रोद्भित्पदं विधेयगुणार्पकं वा कर्मनाम वेति संशये, खनित्रादावुद्भिच्छब्दस्य प्रसिद्धेः, नामत्वे च यजतितुल्यार्थत्वेनानर्थक्यात् , ज्योतिष्टोमे गुणविधिरिति प्राप्ते, यजेतेति यागेन भावयेदित्यर्थकल्पनात् , उद्भिदेति करणार्थपदस्य तत्सामानाधिकरण्यात्तदेकार्थत्वात् , उद्भिद्वतेति कल्पने मत्वर्थलक्षणापातात् , उद्भिदा यागं भावयेद्यागेन पशुमिति वैयधिकरण्ये च यागस्य फलं प्रति साधनत्वं गुणं प्रति साध्यत्वमिति वैरूप्यात् , विध्यावृत्त्या वाक्यभेदाच्च, उद्भिनत्ति साधयति पशुमिति यागेऽपि प्रसिद्धियोगात् , अत्र नामत्वसिद्धौ चान्यत्र ‘समे दर्शपूर्णमासाभ्यां यजेत्’ इत्यादौ नामवद्यागानुवादेन गुणफलविधिसम्भवात् , ज्योतिष्टोमे वा प्रकृते गुणविध्ययोगात् , कर्मनामैव संनिहितयज्यनुरोधादुद्भित्पदमिति राद्धान्तितमित्यर्थः ।
सङ्ग्रहवाक्यस्थादिशब्दोपात्तमुदाहरणद्बयमाह —
यूपमिति ।
छिनत्तीतिप्रसिद्धार्थपदसमभिव्याहाराद्यूपपदस्य तदर्थश्छेदनयोग्यो दारुविशेषो गम्यते । वेदिं करोतीति च करोतिसमभिव्याहाराद्वेद्यर्थः संस्कारयोग्यः स्थण्डिलविशेषः सिद्ध इत्यर्थः ।
दृष्टान्तत्रयार्थं दार्ष्टान्तिके योजयति —
तथेति ।
आचार्यदेशीयानां मतद्वयमाह —
कैश्चिदित्यादिना ।
शूद्रायां ब्राह्मणाज्जातो निषादः ।
श्रुत्यन्तरानुसारेण सम्भावितं पक्षान्तरमाह —
क्वचिच्चेति ।
पाञ्चजन्यया प्रजया विशतीति विशा पुरुषरूपया यदिन्द्राह्वाननिमित्तं घोषा असृक्षत सृष्टास्तद्युक्तं घोषातिरेकेण तदाह्वानायोगादित्यत्र प्रजापरः प्रयोगो दृष्टः । ततोऽत्र पञ्चसङ्ख्याया उपलक्षणत्वात्पञ्चजनशब्देन सर्वप्रजाग्रहणमित्यर्थः ।
उक्तपक्षान्यतमग्रहेऽपि साङ्ख्यनिरासयोगात्प्रधानस्याशब्दत्वसिद्धेरस्माकं न विशेषपक्षपातोऽस्तीत्याह —
तदिति ।
आचार्यवचनं विरुध्यते तस्य प्राणादिविषयत्वादित्याशङ्क्य व्याख्यान्तराभावधिया तन्न प्रवृत्तमित्याह —
आचार्यस्त्विति ॥ १२ ॥
सूत्रान्तरमवतारयितुं श्रुत्योर्मिथोऽविरोधं चोदयति —
भवेयुरिति ।
सूत्रमुत्तरत्वेनावतारयति —
अत इति ।
तद्व्याकरोति —
असत्यपीति ।
ज्योतिरपि पञ्चसङ्ख्यापूरकमात्मातिरिक्तं काण्वश्रुतावश्रुतमित्याशङ्क्याह —
तेऽपीति ।
यत्पूर्वकालापरिच्छेद्यमुक्तं तज्ज्योतिषामादित्यादीनां भासकममृतत्वेनायुष्ट्वेन जीवनगुणवत्तयोपासते देवाः, तेनायुष्मन्तस्ते जाता इत्याह —
तदिति ।
अस्मिन् मन्त्रे षष्ठ्यन्तज्योतिषा पञ्चसङ्ख्यापूरणं, न त्वात्मज्योतिषा, तस्यैकस्याधाराधेयत्वायोगात् ।
केषाञ्चित्पञ्चसङ्ख्यापूरकं ज्योतिरन्येषां नेति न विकल्पो वस्तुनीति शङ्कते —
कथमिति ।
ग्राहकसामर्थ्यभेदादविरोधमाह —
अपेक्षेति ।
तदेव स्फुटयति —
माध्यन्दिनानामिति ।
तथापि कथमेकस्यैव ज्योतिषस्तुल्ये मन्त्रे ग्रहाग्रहौ, नहि वस्तुनि विकल्पोऽस्ति, तत्राह —
अपेक्षेति ।
उक्तं दृष्टान्तेन स्पष्टयति —
यथेति ।
विरोधेऽपि तुल्यबलत्वाज्ज्योतिर्विहाय वाक्यशेषस्थानामेव प्राणादीनां सान्नानां क्वचिद्ग्रहणं, अन्यत्र सज्योतिषां तेषामेव ग्रहणं, क्रियायामिव वस्तुन्यपि दृष्टिक्रियायां विकल्पसिद्धेरितिमत्वाह —
तद्वदिति ।
पञ्चजनमन्त्रात्प्रधानस्य श्रुतिमत्त्वाभावेऽपि प्रकारान्तरेण तस्य तद्वत्त्वमाशङ्क्य तद्विषयत्वेन सम्भावितश्रुतीनामन्यविषयत्वेन नीतत्वान्मैवमित्याह —
तदेवमिति ।
तथापि न ब्रह्मणि समन्वयः प्रधानार्थस्मृतिन्यायविरोधादित्याशङ्क्य भाविनं समाधिं सूचयति —
स्मृतीति ॥ १३ ॥
पूर्वाधिकरणत्रयेण प्रधाननिराकरणेन वेदान्तानां ब्रह्मकारणत्वं प्रत्यविगीतत्वमुक्तम् । इदानीं कारणविषयाणां तेषां मिथोऽव्याहतार्थत्वेन स्वतोनिश्चायकत्वान्मानान्तरसिद्धप्रधानलक्षकत्वे गतिसामान्यासिद्धिरित्याशङ्क्याह —
कारणत्वेन चेति ।
अधिकरणतात्पर्यं वक्तुं जन्मादिसूत्रे वृत्तं कीर्तयति —
प्रतिपादितमिति ।
शास्त्रयोनित्वाधिकरणमारभ्यानुमानिकसूत्रात्प्राक्तनाधिकरणानां तात्पर्यमनुवदति —
प्रतिपादितमिति ।
अधिकरणत्रयार्थमनुवदति —
प्रतिपादितं चेति ।
सम्प्रति कारणे ब्रह्मण्यन्वयपर्यवसानाय कारणविषयकवाक्यानामविरोधार्थमधिकरणमारभमाणो जगत्कारणवादिवाक्यानि ब्रह्मणि मानं न वेति विप्रतिपत्तेर्विशये पूर्वत्रान्नज्योतिषोर्विकल्पेन निर्देशादविरोधे सिद्धेऽपि प्रकृते सिद्धे कारणे विकल्पायोगाद्विरोधे सत्यप्रामाण्यमिति पूर्वपक्षमाह —
तत्रेति ।
कारणत्वं ब्रह्मणो गतिसामान्यादुक्तमित्याशङ्क्याह —
ब्रह्मेति ।
न चाविरोधार्थमधिकरणं नेह सङ्गतमिति वाच्यं, समन्वयतो वाक्यार्थज्ञाने मानान्तरविरोधाशङ्कानिरासस्याविरोधाध्यायार्थत्वात् । इह च कारणविषयवाक्यानामेव मिथो विरोधान्न समन्वयो ब्रह्मणीत्यशङ्क्य तन्निरासेनैव समन्वयस्यैव साध्यत्वादध्यायसङ्गतिसिद्धेः । कार्यश्रुतिविरोधस्यापीह परिहर्तुं शक्यत्वेऽपि वेदान्तानां न कार्ये तात्पर्यमिति ज्ञापयितुं नात्र परिह्रियते । कार्यस्यापि प्रतिपाद्यत्वमुपेत्योत्तरत्र तदीयश्रुतिविरोधः परिहरिष्यते । एतेन श्रुतिशास्त्रसङ्गती सिद्धे । क्वाचित्कासत्पदस्य कर्मकर्तृप्रयोगस्य चासद्वादपरत्वं स्वभाववादपरत्वं च व्युदस्य गतिसामान्यस्थापनात्पादसङ्गतिः । पूर्वपक्षे कार्यद्वारा स्वतश्च कारणे विप्रतिपत्त्या तल्लक्षिते परस्मिन्नपि तदापत्तेर्न कारणे तुरीये च समन्वयधीरिति गतिसामान्यासिद्धिः । सिद्धान्ते ब्रह्मणि कारणत्वस्य कल्पितत्वात्तत्र वस्तुतोऽविवादात्तल्लक्षिते सत्यज्ञानादिलक्षणे तस्मिन्नन्वयसिद्धेर्गतिसामान्यसिद्धिः ।
प्रतिपादितस्यासिद्धिरयुक्तेति शङ्कते —
कस्मादिति ।
कार्ये कारणे च विप्रतिपत्तिदर्शनादुक्तस्यापि भवत्यसिद्धिरित्याह —
विगानेति ।
कार्यविषयं विगानं तावद्दर्शयति —
प्रतीति ।
क्रमादीत्यादिशब्दादक्रमो गृह्यते ।
क्रमवैचित्र्यकृतं विगानमाह —
क्वचिदिति ।
आदिशब्दार्थमक्रमं कथयति —
क्वचिदिति ।
ईक्षिता परः सर्वनामार्थः ।
लोकान्विशिनष्टि —
अम्भ इति ।
अम्मयशरीरप्रचुरः स्वर्गो लोकोऽम्भःशब्दार्थः । मरीचिरिति रश्मिप्रधानोऽन्तरिक्षलोकः । मर इति मरणप्रधानोऽयं लोकः । आप इत्यब्बहुलः पाताललोक इति विवेकः ।
कार्ये विप्रतिपत्तिवत्कारणेऽपि सा दृष्टेत्याह —
तथेति ।
इदमसदिवाव्यक्तमग्रे प्रागवस्थायामिति यावत् । ततोऽनभिव्यक्तनामरूपात्कारणादभिव्यक्तनामरूपं जगज्जातम् ।
अनभिव्यक्तमेव हि व्यक्तं भवतीत्याह —
तत इति ।
छान्दोग्यश्रुतिस्तैत्तिरीयश्रुत्या तुल्यार्थेत्याह —
असदिति ।
तत्समभवत्तत्कारणं यदात्मनासीत्तत्सदर्थक्रियोन्मुखं कार्यरूपेण च संवृत्तमित्यर्थः ।
तथापि कुतो विप्रतिपत्तिः, तत्राह —
क्वचिदिति ।
प्रक्रिया सृष्टिः ।
तत्तत्र कारणे केचिदाहुः, तेषां मतं दूषयति —
कुतस्त्विति ।
तदेव स्फुटयति —
कथमिति ।
व्यतिरेकमुक्त्वान्वयमाह —
सतीति ।
विप्रतिपत्त्यन्तरमाह —
क्वचिदिति ।
तदिदं जगत्तर्हि प्रागवस्थायामव्याकृतकारणमासीत्तत्किल शब्दात्मनार्थात्मना च व्याक्रियत व्यक्तमभवदित्यर्थः ।
विप्रतिपत्तीरुपसंहृत्य तत्फलमाह —
एवमिति ।
वस्तुनीति कार्यकारणयोरुक्तिः ।
किं तर्हि न्याय्यं, मानान्तरेण कारणे निश्चिते वेदान्तानां तल्लक्षकत्वमित्याह —
स्मृतीति ।
स्मृतिः साङ्ख्यस्मृतिः । न्यायो ‘भेदानां परिमाणात्’ इत्यादिः । कारणान्तरं प्रधानम् ।
कार्यद्वारा स्वतश्च कारणे विप्रतिपत्तेस्तल्लक्ष्येऽपि परत्र तद्भावाद्गतिसामान्यासिद्धिरिति पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।
कार्ये विप्रतिपत्तिमुपेत्य कारणे तां निराकुर्वन्प्रतिजानीते —
सत्यपीति ।
स्रष्टरि यत्कारणत्वं तस्मिन्निति शेषः ।
तत्रापि विप्रतिपत्तिरुक्तेति शङ्कते —
कुतइति ।
हेतुमुक्त्वा व्याचष्टे —
यथेति ।
यथाभूतत्वं विशिनष्टि —
सर्वेत्यादिना ।
सर्वकारणत्वोपयुक्तमाद्यं विशेषणद्वयं, तेन फलितं तृतीयं, तेनोपलक्षितं तुरीयगोचरमवशिष्टम् ।
वेदान्तानां मिथो विप्रतिपत्त्यभावं मत्वोक्तम् —
तथेति ।
मिथो विरुद्धार्थत्वेनानिश्चायकानां सर्वशब्दानां मानान्तरसिद्धप्रधानलक्षणाश्रयणाद्वरं बहुशब्दानुरोधेन कतिपयलक्षणाश्रयणं लाघवादिति वक्तुमनेकशब्दानामविरोधं तावदाह —
तद्यथेति ।
तद्विषयेणेत्यत्र तच्छब्दो ब्रह्मार्थः । ‘सोऽकामयत’ इति कामयितृत्ववचनम् ।
जगदुपादानस्य ब्रह्मणः सृज्यमानज्ञतया सर्वज्ञतोक्तेत्याह —
चेतनमिति ।
अपरप्रयोज्यत्वम् ‘इदं सर्वमसृजत’ इति स्वातन्त्र्यम् ।
तेन सर्वेश्वरत्वं दर्शितमित्याह —
अपरेति ।
सर्वात्मत्वमपि सङ्गीतमित्याह —
तदिति ।
तत्पदं पूर्ववत् । सत्यादिवाक्यापेक्षया तस्मादित्यादिवाक्यस्थात्मशब्दस्य परत्वम् ।
तस्य सर्वप्रत्यक्त्वमप्युक्तमित्याह —
शरीरादिति ।
एकत्वमपि तस्योक्तमित्याह —
बहु स्यामिति ।
अद्वितीयत्वमपि तस्यैवोक्तमित्याह —
तथेति ।
तैत्तिरीये यथोक्तब्रह्मोक्तावपि कुतो वेदान्तान्तरेषु तदुक्तिरित्याशङ्क्याह —
तदिति ।
तत्रादौ छन्दोगश्रुतिमाह —
सदिति ।
‘एकमेवाद्वितीयम्’ इत्येकत्वाद्वितीयत्वयोरुक्तिः । ‘तदैक्षत’ इति सर्वजगदीक्षणश्रुत्या सर्वज्ञत्वोक्तिः । ‘ऐतदात्म्यमिदं सर्वम् ‘ इति सर्वात्मत्वोक्तिः । ‘बहु स्याम्’ इति स्वातन्त्र्योक्तेरैश्वर्यगीः ।
ऐतरेयश्रुतावपि तादृग्ब्रह्मोक्तमित्याह —
तथेति ।
इति च । एकत्वाद्वितीयत्वादि पूर्वश्रुताविवोक्तमिति शेषः ।
यथोक्तं ब्रह्माथर्वणादावपि कथितमित्याह —
एवमिति ।
अविगीतार्थत्वान्न कारणे विप्रतिपत्तिरिति शेषः ।
कथं तर्हि कार्यवाक्यानि तानि तद्वारा कारणे विगानं सूचयन्ति, तत्राह —
कार्येति ।
तर्हि कार्यद्वारा कारणे ब्रह्मण्यपि विगानमुक्तं, नेत्याह —
नचेति ।
स्थाण्वादिविप्रतिपत्त्या घटादिष्वसाधारणस्वरूपनिरूपितेष्वपि तदापत्तिरिति प्रसङ्गः ।
ननु स्थाण्वादेर्घटादेश्च भेदान्न तत्तद्वारा घटादौ विप्रतिपत्तिः, कार्यकारणयोस्त्वभेदात्कार्यद्वारा कारणेऽपि स्यात् , तत्राह —
समाधास्यतीति ।
सृष्टिवाक्यानां सृष्टौ तात्पर्यमुपेत्य कार्यविगानसमाधिरुक्तः । तेषां तत्र तात्पर्यमेव नास्तीत्याह —
भवेदिति ।
हेतुं साधयति —
नहीति ।
तस्य प्रतिपादयितुमिष्टत्वाभावं स्पष्टयति —
न हीति ।
‘पूषा प्रपिष्टभाग’ इत्यादौ विधिवद्विश्वजिदादौ फलवच्चात्र फलं कल्प्यमित्याशङ्क्य ‘फलवत्संनिधावफलं तदङ्गम्’ इति न्यायात्फलवद्वाक्यसंनिध्याम्नातानां तेनैकवाक्यत्वान्मैवमित्याह —
नचेति ।
न्यायादेकवाक्यत्वमुक्त्वा श्रुतेरपि तत्सिद्धिरित्याह —
दर्शयतीति ।
शुङ्गं कार्यम् ।
सृष्टिवाक्यानां स्वार्थातात्पर्यं युक्त्यापीत्याह —
मृदादीति ।
दृष्टान्तेषु कार्यकारणयोरभेदाज्जगतोऽपि ब्रह्माभेदः साध्यते । दृष्टान्तदार्ष्टान्तिकयोस्तुल्यत्वादित्यर्थः ।
सृष्ट्यादिप्रपञ्चस्याविवक्षितत्वे वृद्धसंमतिमाह —
तथाचेति ।
लोहं सुवर्णम् । अन्यथान्यथेति वीप्सा ज्ञेया ।
अवताराय ।
ब्रह्मात्मैक्यबुद्धेरिति शेषः । प्रतिपाद्ये ब्रह्मणि नास्ति भेदो न विगानमित्यर्थः ।
सृष्टिवाक्यानां फलवद्वाक्यसम्बन्धार्थं ब्रह्मवाक्योत्थधियः फलवत्त्वमाह —
ब्रह्मेति ।
मृत्युमत्येतीत्यन्वयः ।
विदुषामनुभवसिद्धं चैतदित्याह —
प्रत्यक्षेति ।
ननु विद्वद्भिरपि नास्माभिरिदमवगम्यते, तत्राह —
तत्त्वमिति ॥ १४ ॥
सृष्टिवाक्यानां स्वार्थे तात्पर्याभावमुक्त्वा कारणे परोक्तं विगानमनूद्य तस्य परिहारयोग्यत्वमाह —
यदिति ।
तत्र परिहारत्वेन सूत्रमवतारयति —
अत्रेति ।
तैत्तिरीयश्रुत्यनुसारेण व्याख्यातुं प्रतिज्ञां पूरयति —
असदिति ।
मन्त्रब्राह्मणयोरैकार्थ्याद्ब्राह्मणस्यासन्दिग्धतया कारणार्थत्वान्मन्त्रस्यापि तादर्थ्यमेवेति पूर्वापरानुसन्धानेन साधयति —
यत इति ।
ब्रह्मास्तित्वलक्षणं निर्धार्य तस्मिन्नैव श्लोकमुदाहरतीति सम्बन्धः ।
कोशपञ्चकोक्तिद्वारा तस्य प्रत्यक्त्वमुक्तमित्याह —
अन्नेति ।
ब्रह्मणः सत्त्वे प्रत्यक्त्वेऽपि कारणस्यास्तित्वं कथमित्याशङ्क्य सूत्रं योजयति —
स इति ।
‘इदं सर्वमसृजत यदिदं किञ्च’ इत्याद्या सृष्टिश्रुतिः ।
उपक्रमोपसंहारयोरैकरूप्याद्वाक्यस्य कारणास्तित्वे तात्पर्यं सिध्यतीत्याह —
तदिति ।
मन्त्रब्रह्मणयोरैकार्थ्ये नियामकाभावाद्ब्राह्मणस्य कारणास्तित्वार्थत्वेऽपि मन्त्रस्य तन्न स्यादित्याशङ्क्याह —
तदपीति ।
व्यतिरेकद्वारोक्तं स्फोरयति —
यदीति ।
कथं तर्हि सति कारणेऽसच्छब्दप्रवृत्तिः, श्रुतिर्हि वाक्याद्बलीयसीत्याशङ्क्योपचाराद्युक्ता श्रुतिरित्याह —
तस्मादिति ।
सदेवेत्यत्र नामादिव्याकरणात्प्रगेव ब्रह्मणि सच्छब्दोऽस्तीति प्रायेणेत्युक्तम् ।
तैत्तिरीयकश्रुतावुक्तन्यायं बृहदारण्यकच्छान्दोग्यश्रुतावतिदिशति —
एषेति ।
ननु तैत्तिरीयके ब्राह्मणोक्तेऽर्थे मन्त्रोक्तेस्तयोरैकार्थ्याद्युक्तं कारणास्तित्वार्थत्वमिह तदभावात्कथं सदर्थत्वं, तत्राह —
तदिति ।
पूर्वमसदेव पुनः सद्भवतीति समाकर्षोपपत्तिमाशङ्क्याह —
अत्यन्तेति ।
शशविषाणादौ कालान्तरेऽपि सत्त्वानुपलम्भादासीच्छब्दस्य तच्छब्दस्य सच्छब्दस्य वाऽयोगादत्यन्तासत्त्वे समाकर्षासिद्धिरित्यर्थः ।
उक्तन्यायं छान्दोग्येऽपि योजयति —
तद्धेति ।
उदितानुदितहोमवद्विरुद्धार्थत्वेऽपि प्रामाण्यसिद्धेः शाखान्तरीयाभिप्रायेणैकीयमतोक्तौ का हानिरित्याशङ्क्याह —
क्रियायामिति ।
तर्हि का गतिरेकीयमतोक्तेरित्याशङ्क्याह —
तस्मादिति ।
सत्त्वेव सोम्येति समाकर्षादित्यत्रापि सूत्रं नेयम् ।
यत्तु स्वयङ्कर्तृकत्वमव्याकृतवाक्ये श्रुतं तद्दूषयति —
तद्धेदमिति ।
तत्रापि हेतुत्वेन सूत्रं योजयति —
स इति ।
ननु सर्वनामप्रसिद्धार्थं नाप्रसिद्धमुत्थापयति, तत्राह —
निरध्यक्षेति ।
यद्यपि यन्मदन्यदित्यत्रोक्तौ मच्छब्दार्थः सइति सर्वनाम्ना परामृश्यते तथाप्यव्याकृतवाक्येऽध्यक्षस्यासंनिहितत्वे कार्यानुप्रवेशित्वेनैष इति संनिहितावलम्बिना पराम्रष्टव्याभावात्तद्विरोधः स्यादित्यर्थः । तथापि कथं परामृष्टस्याध्यक्षत्वं, तत्राह —
चेतनस्येति ।
कार्यानुप्रविष्टस्य कुतश्चेतनत्वं, तत्राह —
प्रविष्टस्येति ।
पश्यन्नाम्ना चष्ट इति चक्षुरुक्तः । तथासौ कर्तृव्युत्पत्त्या श्रौत्रादिसंज्ञो भवति ।
इतश्च जगतो व्याकरणं साध्यक्षमेवेत्याह —
अपिचेति ।
विमतं सकर्तृकं, कार्यत्वात् , घटवदित्याह —
यादृशमिति ।
घटस्य सकर्तृकत्वेऽपि क्षित्यादेस्तन्नेति व्यवस्थामाशङ्क्याह —
दृष्टेति ।
न केवलमनुमानाज्जगतो व्याक्रिया साध्यक्षा किन्तु छान्दोग्यश्रुतेरपीत्याह —
श्रुत्यन्तरमिति ।
बृहदारण्यकापेक्षयान्तरशब्दः ।
श्रुत्यनुमानाभ्यां जगतः सकर्तृकत्वे कर्मकर्तरि लकारश्रुतिरयुक्तेत्याशङ्क्याह —
व्याक्रियत इति ।
तत्र सम्प्रतिपत्त्त्यर्थं दृष्टान्तमाह —
यथेति ।
कर्मकर्तरि लकार इत्येतदुक्तं, कर्मण्येवासावित्याह —
यद्वेति ।
कथं तर्हि जगतः सकर्तृकत्वं, तत्राह —
अर्थेति ।
तत्रापि लोकसिद्धं दृष्टान्तमाह —
यथेति ।
तदेवं श्रुतीनामविगानाद्ब्रह्मणि गतिसामान्यं सिद्धम् ॥ १५ ॥
बहूनां शब्दानां मिथो विरुद्धार्थानामविरोधेनैककारणार्थत्ववदेकस्य शब्दस्यानेकार्थस्य विशेषार्थत्वेन वाक्यस्य कारणपरत्वमाह —
जगदिति ।
अधिकरणस्य विषयमाह —
कौषीतकीति ।
श्रुतिं दर्शयन्नजातशत्रूक्तिमाह —
यो वा इति ।
एतेषामादित्यादीनाम् ।
न केवलं जगदेकदेशस्य कर्ता किन्तु जगतः सर्वस्येत्याह —
यस्येति ।
सामान्यविशेषार्थवाक्याभ्यां जगत्कर्ता ततो निष्कृष्टो द्रष्टव्य इत्याह —
स इति ।
कर्मशब्दस्य रूढियोगाभ्यां संशयमाह —
तत्रेति ।
विमृश्य पूर्वपक्षमाह —
किमिति ।
प्राणस्य प्रथमप्राप्तौ हेतुं पृच्छति —
कुत इति ।
एकवाक्ये सति सच्छब्दादसच्छब्दो नीतः, वाक्यभेेदे कर्मशब्दो ब्रह्मशब्दान्न शक्यो नेतुम् ।
अत्राप्येकवाक्यत्वे यथोत्तरसच्छब्दात्प्राचीनोऽसच्छब्दो नीतस्तथोत्तरकर्मशब्दाद्ब्रह्मशब्दस्य नयनमिति मत्वा हेतुमाह —
यस्येति ।
क्वाचित्कहैरण्यगर्भमतद्योतिकर्मशब्दस्य ब्रह्मानुगुण्योक्तिद्वारा गतिसामान्यं संसाध्य समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे प्राणजीवान्यतरस्य वेदितव्यतया ब्रह्मणि गतिसामान्यासिद्धिः, उत्तरत्र परस्यैव तथात्वात्तत्सिद्धिरिति फलम् ।
श्रुतेऽपि कर्मशब्दे कथं प्राणधीरन्यत्रापि तद्योगात् , तत्राह —
परिस्पन्देति ।
कर्मशब्दस्य क्रियादृष्टसाधारण्यादसाधारणप्रमाणाभावे कथं परिस्पन्देन प्राणधीः, तत्राह —
वाक्येति ।
करणोपरमानन्तर्यमथशब्दार्थः ।
प्राणशब्दस्यापि साधारण्यादनिर्णयं शङ्कित्वोक्तम् —
प्राणेति ।
पुरुषकर्तृत्वेनोक्तस्य न प्राणत्वं तस्य तदकर्तृत्वादित्याशङ्क्याह —
ये चेति ।
आदित्यादीनां प्राणावस्थााविशेषत्वे मानमाह —
कतम इति ।
‘महिमान एवैते’ इत्यादिना पूर्वोक्तदेवतानां प्रश्नप्रत्युक्तिभ्यां प्राणत्वोक्त्या तदवस्थात्वमुक्तमित्यर्थः ।
वाक्यान्तरे च लिङ्गस्यामूर्तरसस्य त्यदिति परोक्षसूत्रत्वोक्तेस्तस्येह त्यदिति प्राणत्वेन प्रत्यभिज्ञानात्तस्य लिङ्गरूपादित्यादिदेवतात्वमित्याह —
स इति ।
पक्षान्तरमाह —
जीवो वेति ।
तस्मिन्नमूर्ते कर्मशब्दायोगमाशङ्क्याह —
तस्येति ।
तथापि तनुमहिम्नोऽस्य नादित्यादिकर्तृत्वमित्याशङ्क्यादृष्टद्वारा तद्योगमाह —
सोऽपीति ।
कर्मशब्दस्य साधारणस्यादृष्टार्थत्वमुपेत्य कथं जीवोक्तिरित्याशङ्क्याह —
वाक्येति ।
तदेव स्फुटयति —
यदिति ।
‘तौ ह सुप्तं पुरुषमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहत्पाण्डरवासः सोमराजन्निति स नोत्तस्थौ’ इत्यादिना सम्बोधनशब्दाश्रुतेरचेतनत्वेनानात्मत्वं प्राणादेरुक्तातिरिक्तजीवोक्तेर्वाक्यशेषस्तदर्थः । नहि ततोऽन्यो भोक्तास्तीत्यर्थः ।
इतोऽपि वेदितव्यो जीव एवेत्याह —
तथेति ।
परस्तादिति ।
अनन्तरवाक्यापेक्षया पश्चादिति यावत् । श्रेष्ठी प्रधानपुरुषः। स्वैर्भृत्यैः । उपकरणैरित्येतत् ।
भृत्या वा प्रधानमशनाच्छादनादिनोपजीवन्तीत्याह —
यथेति ।
एवं जीवोऽप्यादित्यादिभिः । प्रकाशादिना भोगोपकरणैर्भुङ्के ।
भृत्यवदादित्यादयोऽपि जीवं हविर्ग्रहणादिनोपजीवन्तीत्याह —
एवमिति ।
‘अथास्मिन्प्राण एवैकधा भवति’ इति प्राणशब्दो जीवे कथं स्यात् , तत्राह —
प्राणेति ।
प्राणजीवयोरन्यतरस्य वेदितव्यत्वाद्गतिसामान्यासिद्धिरित्युपसंहरति —
तस्मादिति ।
‘ब्रह्म ते ब्रवाणि’ इत्युपक्रमात् , उपसंहारे च स्वाराज्यफलोक्तेः, सर्वपाप्मदाहलिङ्गात् , क्रियत इति कर्मशब्दस्य जगदर्थत्वात् , तत्कर्तृत्वस्य परस्मिन्नेव युक्तत्वात् , परमात्मैवायमित्याशङ्क्य बालाकिवाक्यादजातशत्रुवाक्यनियमायोगात् , योगरूढ्योश्च रूढेर्बलीयस्त्वात् , फलोक्तेश्चोपचरितार्थत्वान्मैवमित्याह —
नेति ।
पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तयति —
एवमिति ।
लिङ्गसिद्धेरीश्वरे निरस्ते नियमासिद्धिरिति शङ्कते —
कस्मादिति ।
यद्वाक्यशेषे सन्दिग्धं तन्निश्चितेनोपक्रमेण नेतव्यमित्याह —
उपक्रमेति ।
तत्सामर्थ्यं दर्शयितुमुपक्रममाह —
इहेति ।
तद्वाक्ये ब्रह्मणोपक्रमेऽपि किमिति राज्ञो वाक्यं तद्विषयं नियम्यते, नहि भ्रान्तवाक्यादभ्रान्तवाक्यं नियन्तुं शक्यं, तत्राह —
स चेति ।
बालाकिना ब्रह्म नोक्तं चेत्तस्यैवोपक्रमो विरुध्येत, राज्ञस्तु तथानुपक्रमान्न तद्विरोधः, तेन तद्वाक्यस्याब्रह्मार्थतेत्याशङ्क्याह —
तमिति ।
तथापि कथं वेदितव्यस्य ब्रह्मत्वं, तत्राह —
यदीति ।
राज्ञा बालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता मुख्यं ब्रह्मैव वाच्यम् , अन्यथा स्वस्यापि मृषावादित्वात्ततोऽविशेषादित्यर्थः ।
उपक्रमसामर्थ्यसिद्धमुपसंहरति —
तस्मादिति ।
इतश्चेश्वर एव वेदितव्य इत्याह —
कर्तृत्वं चेति ।
प्राणावस्थाविशेषत्वादादित्यादीनां तस्य तत्कर्तृत्वं युक्तं, भोक्तुरप्यदृष्टद्वारा भोगोपकरणादित्यादिकर्तृत्वं स्यादित्याशङ्क्य निरङ्कुशं तत्कर्तृत्वमीश्वरस्यैवेति विशिनष्टि —
स्वातन्त्र्येणेति ।
किञ्च कर्मशब्दस्य चलनादृष्टयो रूढस्यान्यतरार्थत्वानियमात् क्रियत इति जगदर्थत्वात्तत्कर्तृत्वेन ब्रह्मैव ग्राह्यमित्याह —
यस्येति ।
एतच्छब्दस्य प्रकृतार्थत्वात्तत्समभिव्याहृतकर्मशब्दस्य तद्वशादन्यतरार्थत्वधीरित्याशङ्क्याह —
तयोरिति ।
उपपदाभावाच्च तस्य नान्यतरार्थतेत्याह —
असंशब्दितत्वाच्चेति ।
एतच्छब्देन प्रकृतगामिना प्रकृतत्वात्पुरुषा एव परामृश्यन्ते न जगदित्याशङ्क्याह —
नापीति ।
तदनुक्तौ हेत्वन्तरमाह —
लिङ्गेति ।
पुरुषाणां बहुत्वात्पुंलिङ्गशब्दवाच्यत्वात् , एतदित्येकस्य नपुंसकस्य चोक्तेर्न पुरुषोक्तिरित्यर्थः ।
पुरुषाणां पृथक्कथनेऽपि तदर्थक्रियायास्तत्फलस्य च कार्यजन्मनोऽनुक्तत्वादेतत्कर्मेति तदुक्तौ न पौनरुक्त्यमित्याशङ्क्याह —
नापीति ।
क्रियातत्फले कर्तारं वदता कर्तृशब्देनैवाक्षिप्ते । ताभ्यां कर्तुरवच्छेदादित्यर्थः ।
परिशेषसिद्धमर्थमाह —
पारिशेष्यादिति ।
तस्य कथं कर्मशब्दत्वं, नहि तच्चलनमदृष्टं वा, तत्राह —
क्रियत इति ।
प्रकरणोपपदयोरसत्त्वाविशेषे सर्वनामसमानाधिकृतकर्मशब्दस्य कर्मव्युत्पत्त्या कुतो जगदर्थतेति शङ्कते —
नन्विति ।
सर्वनाम्नः संननिहितार्थत्वादुपपदाद्यभावे विशेषे सङ्कोचायोगादेतच्छब्दसहितकर्मशब्देन जगदेवोक्तमित्याह —
सत्यमिति ।
किञ्चाप्रकृतत्वमपि जगतो नास्ति, तदेकदेशानां पुरुषाणां प्रकृतत्वात्तद्वारा कृत्स्नजगदुक्तियोगादित्याह —
पूर्वत्रेति ।
तर्हि तन्मात्रमेव सर्वनाम्नां ग्राह्यं, श्रुतिलक्षणयोः श्रुतेरौचित्यादित्याशङ्क्य तदत्यागान्मैवमित्याह —
अविशेषितमिति ।
तर्हि सर्वनाम्ना जगद्ग्राहिणा पुरुषाणामपि ग्रहादेतेषामित्यादिपृथगुक्तिरनर्थिकेत्याशङ्क्याह —
एतदिति ।
यस्य कृत्स्नं जगत्कर्म स वेदितव्य इति सम्बन्धः ।
वाशब्दाद्वेदितृविकल्पं प्रत्याह —
वाशब्द इति ।
तथापि ‘पुरुषाणां कर्ता यस्य वैतत्कर्म’ इति कुतो भेदोक्तिः, जगत्कर्तृत्वोक्तेरेवादित्यादिकर्तृत्वसिद्धेरित्याशङ्क्याह —
य इति ।
उक्तन्यायात्कर्मशब्दस्य जगदर्थत्वे वाक्यार्थमुपसंहरति —
एवमिति ।
ब्रह्माणा भोजयितव्याः परिव्राजकाश्चेत्युक्ते सामान्यविशेषाभ्यां संनिहितसर्वब्राह्मणग्रहणवदत्रापि व्यपदेशाभ्यां सर्वजगत्कर्ता वेदितव्यत्वेनोक्त इत्यर्थः ।
तथापि कथं वाक्यस्य ब्रह्मपरत्वमपरस्यापि जगत्कर्तुर्वेदितव्यत्वयोगात्, तत्राह —
परमेति ।
उपनिषदामैदम्पर्यालोचनायामन्यस्य सर्वजगत्कर्तृत्वायोगादत्र कृत्स्नजगत्कर्ता वेदितव्यः पर एवेत्यर्थः ॥ १६ ॥
सिद्धान्तमुक्त्वा परोक्तमनूद्य प्रत्याह —
जीवेति ।
अनुवादं विवृणोति —
अथेति ।
सूत्रावयवेन परिहरति —
अत्रेति ।
उक्तमेव सङ्क्षिप्य स्मारयति —
त्रिविधमिति ।
अस्तूपास्तित्रैविध्यं, का क्षतिः, तत्राह —
न चेति ।
उपक्रमोपसंहारैकरूप्यसिद्धवाक्यैक्यभङ्गान्न त्रैविध्यमित्यर्थः ।
हेत्वसिद्धिमाशङ्क्योक्तम् —
तत्रेति ।
दर्शितम् ।
उपक्रमसामर्थ्यादित्यादिनेति शेषः ।
तथापि कथमुपसंहारस्य ब्रह्मार्थत्वं, तत्राह —
उपसंहारस्येति ।
श्रैष्ठ्यं गुणाधिक्यम् । आधिपत्यमैश्वर्यम् । स्वाराज्यमनन्याधीनत्वम् ।
प्रातर्दनविचारेण गतत्वादधिकरणमिदमनर्थकमिति शङ्कते —
नन्विति ।
तत्रोपक्रमोपसंहारैकरूप्यादेकवाक्यत्वे जीवप्राणलिङ्गे ब्रह्मपरतया नीते तुल्यमत्रापि वाक्यैक्यमिति नार्थोऽधिकरणस्येत्यर्थः ।
कर्मशब्दस्यात्र चलनादृष्टयो रूढेस्तद्वशाद्वाक्यस्य जीवप्राणान्यतरपरत्वाद्वाक्यभेदे शङ्किते तन्निरासार्थमधिकरणमित्याह —
नेत्यादिना ।
तस्मात् ।
अनन्तरोक्ताद्यस्येत्यादिवाक्यादिति यावत् । प्रकृताधिकरणं सप्तम्यर्थः ।
यत्तु वाक्यशेषे प्राणशब्दान्मुख्यप्राणार्थं वाक्यमिति, तत्राह —
प्राणेति ।
मनस्तदुपाधिको जीवः । प्राणबन्धनं परमात्माश्रयः ।
यत्तु वाक्यशेषे जीवलिङ्गं दृष्टमिति, तत्राह —
जीवेति ॥ १७ ॥
जीवलिङ्गेनापि लक्ष्यते प्रत्यग्ब्रह्मेत्युक्तम् । इदानीं तल्लिङ्गाज्जीवोक्तिमुपेत्य वाक्यतात्पर्यगम्यं ब्रह्मैवेत्याह —
अन्यार्थं त्विति ।
इतश्च वाक्यं ब्रह्मर्थमेवेति ।
सूत्रं व्याकरोति —
अपि चेति ।
तत्र तुशब्दं व्याकुर्वन्प्रतिजानीते —
नैवेति ।
तत्र हेतुत्वेनान्यार्थमित्यादि विभजते —
यत इति ।
जीवपरामर्शस्य ब्रह्मप्रतिपत्त्यर्थत्वे हेतुं पृच्छति —
कस्मादिति ।
सौत्रं पदमादाय प्रश्नं व्याचष्टे —
प्रश्न इति ।
जीवाधिकरणभवनापादानविषयत्वाज्जीवातिरिक्तार्थता प्रश्नस्येत्यर्थः ।
तत्राधिकरणप्रश्नमुदाहरति —
क्वैष इति ।
हे बालाके, शयनमेतद्यथा तथैव पुरुषः कस्मिन्नधिकरणे स्वापे शयनं कृतवानित्यर्थः ।
भवनायतनं पृच्छति —
क्वेति ।
एतद्भवनं यथा स्यात्तथा क्वाश्रये सुप्तोऽभूदित्यर्थः ।
स्वापेशयनभवनयोराधारं पृष्ट्वोत्थानावस्थायामागमनापादानं पृच्छति —
कुत इति ।
एतदागमनं यथा तथा कस्मादुद्बोधदशायामागादुत्थानं कृतवानित्यर्थः ।
व्याख्यानं व्याचष्टे —
प्रतिवचनमिति ।
तत्र प्राणशब्दात्कुतो ब्रह्मधीः, तत्राह —
एतस्मादिति ।
सर्वकारणत्वोक्तेरत्र ब्रह्म सिद्धमित्यर्थः ।
सर्ववेदान्तप्रसिद्धं चैतदित्याह —
सुषुप्तीति ।
उक्तमर्थमुपसंहारव्याजेनोपपादयति —
तस्मादिति ।
यतो निःसम्बोधः स्वच्छतारूपः स्वापो विक्षेपाभावात् , सोऽस्य जीवस्य यत्र भवति स परमात्मेति योज्यम् ।
ननु निःसम्बोधित्वं स्वापस्यासिद्धं, ‘नहि द्रष्टुः’ इत्यादिश्रुतेः, तत्राह —
उपाधीति ।
अत एवोक्तं ‘पश्यन्वै तन्न पश्यति’ इति ।
आगत्यपादानमपि ब्रह्मैवेत्याह —
यत इति ।
तद्भ्रंशेत्यत्र तच्छब्दः स्वापार्थः ।
न केवलं कौषीतकिनां प्रश्नादिना जीवातिरिक्ताम्नानं किन्तु वाजसनेयिनामपीत्याह —
अपिचेति ।
तदेति स्वापोक्तिः ।
नन्वाकाशस्तत्र शयनस्थानमुक्तं न ब्रह्म, तत्राह —
आकाशेति ।
इतश्च प्रत्युक्तेर्ब्रह्मार्थतेत्याह —
सर्व इति ।
जीवनिरासतया सूत्रं व्याख्याय प्राणनिरासेऽपि तस्य तात्पर्यमाह —
प्राणेति ।
अस्मिन्वाक्ये प्राणोपदेशमन्यार्थमेवातिरिक्तात्मप्रतिपत्त्यर्थं जैमिनिर्मन्यते । प्राणातिरिक्ताज्जीवादपि व्यतिरिक्तार्थाभ्यामुक्तप्रश्नप्रत्युक्तिभ्यां प्राणमात्रे वाक्यस्यापर्यवसानात् । किञ्च वाजसनेयिनोऽपि ‘यत्रैष एतत्’ इत्यादिना प्राणादिव्यतिरिक्तं जीवं वदन्तो वाक्यस्य परस्मिन्पर्यवसानं पश्यन्तीति सूत्रस्यात्र योजना । तदेवं जीवप्राणातिरिक्ते ब्रह्मणि दर्शितवाक्यान्वयादनपवादं वेदान्तानां ब्रह्मणि गतिसामान्यमिति ॥ १८ ॥
जीवेतरपरविषयत्वे प्रश्नादिना वाक्यस्योक्ते जीवपरभेदमाशङ्क्यात्मशब्दोपक्रान्तस्य ब्रह्मधर्मवत्तया मैत्रेयिब्राह्मणे निर्देशादौपाधिको भेदो वास्तवमैक्यमित्याह —
वाक्येति ।
विषयवाक्यमादत्ते —
बृहदिति ।
आत्मशेषत्वेन पत्यादेः सर्वस्य प्रियत्वादनन्यार्थतया निरुपाधिप्रियत्वेनानतिशयानन्दस्यात्मनो ज्ञातव्यत्वं मत्वाह —
न वा इति ।
आत्मनो दर्शनयोग्यतामुक्त्वा तद्दर्शनमनूद्य तद्धेतुत्वेनाङ्गाङ्गितया श्रवणादिनि दर्शयति —
आत्मेति ।
आत्मवेदने वेदितव्यान्तराभावात्कृतकृत्यतेत्याह —
आत्मन इति ।
उक्तवाक्यस्थमात्मानमधिकृत्य संशयमाह —
तत्रेति ।
प्रश्नपूर्वकं जीवब्रह्मलिङ्गदर्शनं संशयहेतुमाह —
कुत इति ।
प्रियसंसूचितेन पतिजायादिभिः प्रियैर्भौग्यैरनुमितेन भोक्त्रेत्यर्थः ।
विमृश्य पूर्वपक्षयति —
किं तावदिति ।
सत्युभयलिङ्गे विशेषदृष्टौ हेतुं पृच्छति —
कस्मादिति ।
ब्रह्मोपक्रमात्तत्परत्ववदत्रापि जीवोपक्रमात्तत्परतेत्याह —
उपक्रमेति ।
मैत्रेयीब्राह्मणस्य जीवमात्रत्वं निषिध्य ब्रह्मण्यन्वयोक्त्या गतिसामान्यदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे ब्राह्मणस्य भोक्त्रर्थतया गतिसामान्यासिद्धौ ब्रह्मकारणत्वासिद्धिः, सिद्धान्ते तस्य प्रत्यग्ब्रह्मार्थत्वेन गतिसामान्यसिद्धेस्तत्सिद्धिरिति फलभेदः ।
उपक्रमसामर्थ्यमेव स्फुटयन्नुपक्रमं दर्शयति —
पतीति ।
जीवस्योपक्रान्तत्वेऽपि परस्य द्रष्टव्यत्वमाशङ्क्य तत्सामर्थ्यं कथयति । अनन्तरमिति । अन्यस्य दर्शनाद्युक्तावुपक्रमो भज्येतेत्यर्थः ।
इतश्च जीवस्यैव द्रष्टव्यतेत्याह —
मध्येऽपीति ।
इदं प्रत्यक्तत्वम् । महदनवच्छिन्नम् । भूतं परमार्थसत्यम् । अनन्तं नित्यम् । अपारं सर्वगतम् । विज्ञानघनो विज्ञानमात्रम् । तत्र जात्यन्तरासंमिश्रत्वमेवार्थः । स वै तेभ्यः कार्यकारणाकारपरिणतेभ्योऽविद्याभूतेभ्यो भूतेभ्यः साम्येनोत्थाय जीवत्वमनुभूय तान्येव भूतानि ज्ञानाद्विनश्यन्त्यनु पश्चाद्विनश्यति विशेषात्मत्वं त्यजति । नच तत्त्यागानन्तरमस्य रूपादिधीरस्तीत्यर्थः ।
ब्रह्मणो द्रष्टव्यत्वे तस्य जीवत्वेनोत्थानोक्तेरयोगात्तस्यैवात्र द्रष्टव्यतेति वाक्यार्थं सङ्गृह्णाति —
प्रकृतस्येति ।
ज्ञानकर्तृत्वोक्तेरुपक्रमादिवदुपसंहारस्यापि जीवपरत्वमाह —
तथेति ।
जीवपक्षे कथमेकविज्ञानेन सर्वविज्ञानमित्याशङ्क्योपक्रमादिना तदौपचारिकमित्याह —
तस्मादिति ।
भोक्तुर्भोग्यं प्रति प्राधान्यात्तज्ज्ञाने तद्धीरुपचरितेत्यर्थः ।
आदिमध्यावसानेभ्यो मैत्रेयीब्रह्मणस्य जीवेऽन्वयान्न ब्रह्मणि गतिसामान्यमित्येतदनूद्य सिद्धान्तमवतार्य बहिरेव प्रतिजानीते —
एवमिति ।
जीवोपदेशस्य दर्शितत्वान्नियमासिद्धिरित्याह —
कस्मादिति ।
नियामकं सूत्रमादायाक्षराणि व्याचष्टे —
वाक्येति ।
आदिमध्यावसानेषु जीवे भाति ब्रह्म प्रति वाक्यस्यान्वितावयवत्वं नेति शङ्कते —
कथमिति ।
जीवपरामर्शस्यान्यथासिद्धिं वक्ष्यमाणां विवक्षित्वाह —
तदिति ।
वित्तेन तत्साध्येन कर्मणेत्यर्थः ।
कर्मसाधनं वित्तं न चेदिष्टं किं तर्हि तवेष्टं , तदाह —
यदेवेति ।
अमृतत्वसाधनत्वेनात्मज्ञानस्योक्तेरात्मनो ज्ञातव्यस्य ब्रह्मतेत्यर्थः ।
अमृतत्वायोक्तमपि ज्ञानं जीवविषयं स्यादित्याशङ्क्याह —
न चेति ।
ब्रह्मज्ञानं विना नामृतत्वमित्यत्र मानमाह —
इति श्रुतीति ।
‘नान्यः पन्था’ ‘न कर्मणा’ इत्यादयः श्रुतिवादाः । ‘ज्ञानादेव तु कैवल्यम्’ इत्यादयः स्मृतिवादाः ।
इतश्च ब्रह्मपरमेव वाक्यमित्याह —
तथेति ।
परस्य परमकारणत्वात्तज्ज्ञानाद्युक्तं सर्वज्ञानमिति विशिनष्टि —
परमेति ।
भोक्त्रर्थत्वाद्भोग्यजातस्य सर्वविज्ञानं जीवेऽपि गौणं स्यात्किं मुख्येनेत्याशङ्क्य प्रतिपादनवैयर्थ्यान्मैवमित्याह —
न चेति ।
भेददृष्टिनिन्दापूर्वकमभेदं वददिदं वाक्यमेकविज्ञानेन सर्वविज्ञानं वक्तीति वक्तुमस्यार्थमाह —
यो हीति ।
जगतो ब्रह्माधीनस्य प्रातीतिकमन्यत्वमनुज्ञातुं स्वातन्त्र्येणेत्युक्तम् । पराकरोति पुरुषार्थात्पराकुर्यात् । प्रच्यावयेदिति यावत् ।
किञ्चात्मैव जगतस्तत्त्वमिति दृष्टान्तेन वदन्ती श्रुतिरेकधिया सर्वधियं साधयतीत्याह —
दुन्दुभ्यादीति ।
यथा दुन्दुभेर्हन्यमानस्य यथा शङ्खस्य ध्मायमानस्य यथा वीणायै वाद्यमानायै न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणायेत्यादिदृष्टान्तैर्दुन्दुभ्यादिशब्दसामान्याद्दुन्दुभ्यादिशब्दभेदाभेदेनागृह्यमाणाः शुक्त्यग्रहे ग्राह्यरजतवत्तत्र कल्पिताः । तथा चिद्रूपस्फुरणं विना स्थितिकाले स्फुरणशून्यं जगच्चिद्रूपे कल्पितमित्यैक्यमुक्तमित्यर्थः ।
एकविज्ञानेन सर्वविज्ञानस्योपपाद्यमानत्वात्तदनौपचारिकमिति प्रकरणं ब्रह्मविषयमित्युक्तम् । इदानीं द्रष्टव्यस्य जगत्कारणत्वोक्तेरपि तद्वाक्यं ब्रह्मार्थमित्याह —
अस्येति ।
किञ्च ‘स यथा सर्वासामपां समुद्र एकायनम्’ इति दृष्टान्तेन ब्रह्मणः सर्वजगदवसानत्वेनाभिधानात्तद्विषयमेव द्रष्टव्यादिवाक्यमित्याह —
तथेति ।
स्थित्युत्पत्तिलयोक्त्यालोचनातः सिद्धमुपसंहरति —
तस्मादिति ॥ १९ ॥
उपक्रमसामर्थ्याज्जीवार्थत्वं वाक्यस्योक्तमनुवदति —
यदिति ।
तत्र सूत्रत्रयमवतारयति —
अत्रेति ।
प्रथममाश्मरथ्यमतमाह —
प्रतिज्ञेति ।
प्रतिज्ञासिद्ध्यर्थं प्रतिज्ञामाह —
अस्तीति ।
अत्रेति प्रकृतब्राह्मणवाक्योक्तिः ।
तदर्थं प्रतिज्ञान्तरमाह —
इदमिति ।
ऐक्यप्रतिज्ञया सर्वविज्ञाने विवक्षितेऽपि जीवोपक्रमस्य किं जातं, तदाह —
तस्या इति ।
तदेव व्यतिरेकद्वारा स्पष्टयति —
यदीति ।
‘प्रितज्ञासिद्धेर्लिङ्गम्’ इति व्याख्यायावशिष्टं व्याख्यास्यन्नुपसंहरति —
तस्मादिति ।
भेदोभेदवादद्योतनायाभेदांशेनेत्युक्तम् ॥ २० ॥
मतान्तरमाह —
उत्क्रमिष्यत इति ।
विभजते —
विज्ञानेति ।
मुक्तावेवाभेदः संसारे भेद एवेत्युक्तेऽर्थे मानमाह —
श्रुतिश्चेति ।
अभिन्नस्यापि जीवस्यौपाधिकभेदविगमादभिनिष्पत्तिरौपचारिकीत्याशङ्क्य नामरूपाश्रयत्वकालुष्यस्य श्रुत्यन्तरे स्वाभाव्योक्तेः । साध्य एवाभेदो न स्वभावत इत्याह —
क्वचिदिति ।
उक्तं कालुष्यमपि किमित्यौपचारिकं न स्यादित्याशङ्क्य वाक्ये दृश्यमानमर्थमाह —
यथेति ।
नदीनां नामरूपाश्रयत्वेऽपि कुतो जीवस्य तदाश्रयत्वं, तत्राह —
दृष्टान्तेति ॥ २१ ॥
सिद्धान्तमाह —
अवस्थितेरिति ।
सूत्रं व्याचष्टे —
अस्यैवेति ।
जीवपरयोरभेदाज्जीवेनोपक्रमः परेणैवोपक्रमः । भोक्त्रोपक्रमश्च स्थूलदर्शिलोकसौकर्यायेति भावः ।
परस्यैव जीवेनावस्थाने मानमाह —
तथाचेति ।
न केवलं ब्राह्मणं परापरयोरैक्यं दर्शयति किन्तु मन्त्रश्चेत्याह —
मन्त्रेति ।
धीरः सर्वज्ञः सर्वाणि रूपाणि चराचराणि शरीराणि विचित्य निर्माय तेषां नामानि च कृत्वा स्वयं तत्रानुप्रविश्याभिवदनादि कुर्वन्यो वर्तते तमेवंभूतं विद्वानिहैवामृतो भवतीति मन्त्रोऽपि परस्यैव जीवेन स्थितिमाहेत्यर्थः ।
तेजःप्रभृतीनामिव जीवस्य ब्रह्मकार्यत्वाद्ब्रह्मज्ञाने सर्वज्ञानसिद्धेरात्यन्तिकमैक्यं श्रुतमप्युक्तमित्याशङ्क्याह —
न चेति ।
समीचीनसङ्ग्रहार्थं पक्षत्रयं विभजते —
काशेति ।
आश्मरथ्यपक्षेऽपि तुल्यं जीवस्य परस्मादनन्यत्वं नेत्याह —
आश्मरथ्यस्येति ।
अभेदवद्भेदस्यापि भावात्कियानपीत्युक्तम् ।
आद्यपक्षादपि द्वितीयपक्षस्यानपेक्षितत्वार्थं तत्रत्यमर्थमाह —
औडुलोमीति ।
अवस्थान्तरे बन्धमोक्षौ ।
संप्रत्यन्तिमस्यादेयत्वमाह —
तत्रेति ।
इतरस्यापि द्वयस्य दर्शितं श्रुतिमूलत्वमित्याशङ्क्योक्तश्रुतेस्तत्रातात्पर्यान्मैवमित्याह —
प्रतीति ।
पारोक्ष्यसद्वयत्वनिवृत्त्या तत्त्वमर्थयोरैक्यवादिवाक्यानुसारित्वादन्तिमस्यादेयतेत्यर्थः ।
कथमीदृग्वाक्यार्थस्येष्टत्वं, तत्राह —
तत्त्वमिति ।
किञ्च भेदाभेदयोर्वस्तुत्वे वस्तुभूतभेदस्य ज्ञानेनानुच्छेदाज्ज्ञानान्मुक्तिश्रुतिरयुक्ता स्यात् , तस्मादात्यन्तिकमैक्यमेव तात्त्विकमित्याह —
एवं चेति ।
चकारोऽवधारणे ।
जीवस्य ब्रह्मकार्यत्वेऽपि तत्तादात्म्यरूपममृतत्वं स्यादित्याशङ्क्याह —
विकारेति ।
जीवस्योत्पत्तिप्रलयौ चेत्काण्डद्वयं विरुध्येतेति भावः ।
नदीदृष्टान्तेन स्वगतं नामरूपमन्यथा दृष्टान्तवैषम्यादतोऽन्यत्वमपीत्युक्तमित्यासङ्क्याह —
अतश्चेति ।
आत्यन्तिकाभेदे ज्ञानादमृतत्वयोगादित्यतः शब्दार्थः । दृष्टान्तश्रुतेरन्यथापि नेतुं शक्यत्वात्तदनुरोधात्तत्त्वमादिविरुद्धं न कल्प्यमिति भावः ।
जीवस्याग्निविस्फुलिङ्गदृष्टान्तात्प्राणादिवज्जन्मश्रुत्या भेदाभेदपक्षस्य प्रामाणिकत्वं, तत्राह —
अत इति ।
अनौपाधिके जन्मनि ज्ञानादमृतत्वासिद्धेरेवेत्यर्थः ।
द्वितीयं पूर्वपक्षबीजमनुभाषते —
यदपीति ।
प्रकृतत्रिसूत्र्या प्रत्याह —
तत्रापीति ।
योजनाप्रकारमेव दर्शयितुमाश्मरथ्यमतमाह —
प्रतिज्ञेति ।
तद्व्याख्या तु प्रतिज्ञास्वरूपमाह —
इदमिति ।
आत्मनि विदिते विदितत्वं कथं प्रपञ्चे स्यादिति सन्दिहानं प्रत्याह —
इदं सर्वमिति ।
सर्वस्यात्ममात्रत्वमुक्तमपि कुतो मुख्यमित्याशङ्क्याह —
उपपादितं चेति ।
सर्वस्यात्ममात्रत्वमिति शेषः ।
उपपादनप्रकारं सूचयति —
एकेति ।
‘स यथार्द्रैधोग्नेः’ इत्यादिनैकप्रसवत्वं, ‘स यथा सर्वासामपाम्’ इत्यादिना चैकप्रलयत्वं सर्वस्योक्तम् । यच्च यस्मादुत्पद्यते यत्र लीयते तत्ततो नातिरिच्यते, यथा घटादि मृदादेः । तस्मादात्मप्रभवत्वादात्मप्रलयत्वाच्च सर्वस्य जगतस्तन्मात्रत्वम् । तथाचात्मधिया सर्वधीरित्यर्थः ।
दृष्टान्तश्रुतेरपि सर्वस्य कार्यप्रपञ्चस्यात्ममात्रत्वसिद्धेर्मुख्यमेव प्रतिज्ञातमैक्यमित्याह —
दुन्दुभ्यादीति ।
प्रतिज्ञां व्याख्यायावशिष्टं व्याचष्टे —
तस्या इति ।
प्रतिज्ञां घटयितुं परस्य जीवत्वेनोत्थानं किमित्युच्यते, तत्राह —
अभेदे हीति ।
मतान्तरमाह —
उत्क्रमिष्यत इति ।
सिद्धान्तमाह —
अवस्थितेरिति ।
परापरयोरभेदाभिधानमिदमित्युक्तमाक्षिपति —
नन्विति ।
विनाशोक्तेर्विषयान्तरसम्भवादात्मन उच्छेदाविषयत्वाद्युक्तमभेदाभिधानमित्याह —
नेति ।
अविशेषश्रुतेर्विशेषार्थत्वे नियामकमाह —
अत्रेति ।
मोहं मोहनं वाक्यमिति यावत् । अविनाशीति विनाशायोग्यत्वमनुच्छित्तिधर्मेति विनाशायागित्वमुक्तमिति भेदः ।
कथं तर्हि ‘न प्रेत्य' इत्यादि, तत्राह —
मात्रेति ।
कथमेतावता मिथोविरोधसमाधिरित्याशङ्क्य श्रुतितात्पर्यमाह —
एतदिति ।
तृतीय पूर्वपक्षबीजमनुवदति —
यदपीति ।
उपसंहारात्कर्तृत्वस्य च विज्ञानात्मन्येव सम्भवादिति शेषः ।
भेदाभेदवादे जीवस्येश्वरेण भिन्नेनावगतियोगात् ‘विज्ञातारमरे केन’ इत्याक्षेपायोगादत्यन्ताभेदे कर्मकरणयोरभावादाक्षेपसिद्धेरन्तिमपक्षस्यैकदेयत्वमित्युत्तरमाह —
तदपीति ।
तन्मते जीवपरयोरभेदाज्जीवस्य भ्रान्तं ज्ञातृत्वं भूतपूर्वगत्या तृजन्तेनोक्तमिति भावः ।
श्रुतिपौर्वापर्यालोचनायामपि जीवस्य भ्रान्तं ज्ञातृत्वमित्याह —
अपि चेति ।
अन्वयव्यतिरेकाभ्यां द्वैतदृष्टेराविद्यकत्वेऽपि प्रत्यग्दृष्टिरविद्यानपेक्षेत्याशङ्क्याह —
पुनश्चेति ।
एकस्यैव कर्मकर्तृत्वविरोधादित्यर्थः ।
विज्ञातारमित्यादिवाक्यस्यान्यपरत्वे फलितमाह —
ततश्चेति ।
ननु पक्षेषु त्रिषु सत्सु काशकृत्स्नस्यैव पक्षे पक्षपाते को हेतुः, तत्राह —
दर्शितं त्विति ।
तस्य श्रुतिमत्त्वे फलितमुपसंहरति —
अतश्चेति ।
उक्तार्थस्योपगन्तव्यत्वे श्रुतिस्मृतिमत्त्वं पुनरुपन्यस्यति —
सदित्यादिना ।
इतोऽपि परापरयोराविद्यो भेदो न पारमार्थिक इत्याह —
भेदेति ।
भेदाभेदवादेऽपि सर्वमेतदभेदांशाद्युक्तमित्याशङ्क्य तत्पक्षे जीवस्य कार्यत्वादात्मविक्रियानिषेधविरोधः स्यादित्याह —
स वा इति ।
अभेदांशेन निषेधादिसिद्धेरेतदपि मतद्वयं श्रुतिमदेवेत्याशङ्क्य तत्पक्षे वैदिकात्मैक्यधियो निरपवादत्वायोगान्मुक्तेरसिद्धिरित्याह —
अन्यथेति ।
भिन्नाभिन्नत्वमिति निश्चितार्था धीरनपवादेत्याशङ्क्य भेदाभेदयोर्विरोधादसमुच्चयादेकस्य बलीयस्त्वे तदितरज्ञानस्य बाधातुल्यबलत्वे संशयान्निरपवादत्वासिद्धिरित्याह —
सुनिश्चितेति ।
ज्ञानं सिध्यति चेत्तावतैव पुमर्थसिद्धौ कृतं निरपवादत्वेनेत्याशङ्क्याह —
निरपवादं हीति ।
न केवलमङ्गीकारमात्रं, श्रुत्यनुकूलं चैतदित्याह —
वेदान्तेति ।
ये यतयो यतनशीला नियतबाह्यकरणाः श्रुद्धबुद्धयश्च ते विषयवैतृष्ण्यद्वारा सर्वकर्मसंन्यासपूर्वकश्रवणाद्यनुष्ठानरूपाद्योगाभ्यासाद्वेदान्तकरणकसाक्षात्कारादपरोक्षीकृतात्मानो मुच्यन्त इत्यर्थः ।
इतश्चैकमेव तत्त्वं नानेकमपीत्याह —
तत्रेति ।
एकत्वमाचार्योपदेशमनुपश्यतः शोकमोहोपलक्षितसर्वानर्थोपशान्तिरिति श्रूयते न त्वेकत्वनानात्वे अनुपश्यत इति श्रुतिरित्यर्थः ।
निरपवादमेवात्मापरोक्ष्यं मोक्षापेक्षमित्यत्र स्मृतिमाह —
स्थितेति ।
नहि भेदाभेदवादे स्मृतिसिद्धा स्थितप्रज्ञता ब्रह्मैवास्मीति ज्ञानस्थैर्यायोगादब्रह्मत्वस्यापि तद्विषयत्वात् । तस्मादेकत्वमैकान्तिकमित्यर्थः ।
अस्तु तर्हि परापरयोर्नामभेदादविद्यावत्त्वतदभावाभ्यां रूपभेदाच्च घटपटदिवद्भेदभावः संसारावस्थायामिति, नेत्याह —
स्थिते चेति ।
आत्यन्तिकभेदे जीवस्य पूर्वसिद्धब्रह्मत्वायोगात्कोशकारादीनामपि पूर्वसिद्धकीटत्वानुपगमात्तत्सदृशस्यैवोत्पत्तेर्मोक्षासिद्धिः । नच बिम्बप्रतिबिम्बवदुपाधिकल्पितभेदयोस्तात्त्बिकमैक्यं प्रातीतिकविरुद्धधर्माध्यासेन शक्यं बाधितुमिति भावः ।
निर्बन्धनैरर्थक्ये हेतुः —
एको हीति ।
नामग्रहणं रूपोपलक्षणम् । इतिशब्दादुपरिष्टाद्यस्मादर्थो हिशब्दः सम्बन्धनीयः ।
ननु ‘यो वेद निहितं गुहायाम्’ इति परस्य गुहाहितत्वश्रुतेस्तस्यास्फुटत्वात्तद्विपरीताज्जीवाद्भेदः स्यात् , नेत्याह —
नहीति ।
गुहाशब्देनाविद्यान्तःकरणयोर्ग्रहणात्तत्र जीवभावेन प्रतिबिम्बितस्य ब्रह्मणः स्फुटत्वेऽपि बिम्बस्थानीयस्यास्फुटत्वं तस्यैव न विरुध्यतेऽविद्यौशक्तेरघटमानपटीयस्त्वादिति भावः ।
काञ्चिदेवैकामिति ।
जीवभावेन प्रतिबिम्बाधारातिरिक्तामित्यर्थः ।
अस्तु तर्हि ब्रह्मणोऽन्यदेवान्तःकरणादि गुहां प्रविष्टं, नेत्याह —
नचेति ।
श्रोत्राकाशयोरिव जीवब्रह्मणोरङ्गाङ्गिभावादभेदवद्भेदोऽपि स्यात् । अन्यथा जीवमुद्दिश्य ब्रह्मविधानायोगात् । अतस्तत्त्वमिति सामानाधिकरण्यं भेदाभेदविषयमित्याशङ्क्याह —
ये त्विति ।
कार्यकारणत्वंशून्यद्रव्ययोरुद्देश्येपादेयत्वेन सामानाधिकरण्यं सोऽयमितिवदेकस्यैव द्रव्यस्यौपाधिकभेदापेक्षं न द्रव्यभेदमाकाङ्क्षति । नच ब्रह्मणोंऽशो जीवः, निष्फलश्रुतेः । न च श्रोत्रस्य कर्णनेमिमण्डलावच्छेदेऽपि नभसोंऽशत्वमवच्छेदकाभावे तन्मात्रत्वात् । अतो जीवस्यापि ब्रह्मांशत्वाभावान्न भिन्नाभिन्नत्वम् । नच भेदः शास्त्रार्थः, लौकिकत्वात् । अभेदस्य त्वैकान्तिकस्य शास्त्रीयत्वात्तदनुपगमे सम्यग्धीरेव मुक्तिहेतुर्बाधिता स्यादिति भावः ।
कर्मैव मुक्तिहेतुरिति कृतं सम्यग्धियेत्याशङ्क्याह —
कृतकमिति ।
कृतकत्वेऽपि ध्वंसवन्नित्यतेत्याशङ्क्याह —
न्यायेनेति ।
मोक्षो निरतिशयानन्दत्वेन भावत्वात्कृतकश्चेदनित्यः स्यात् , एवं बन्धध्वंसतया तस्याभावत्वेऽपि कृतकत्वे कथं नानित्यता । ध्वंसध्वंसे च ध्वस्ताध्वस्तेर्बन्धस्य पुनरुत्पत्तावपुनरावृत्तिश्रुतिर्विरुध्येत । नच ध्वंसध्वंसेऽपि कारणाभावान्न ध्वस्तस्य पुनरुत्पत्तिस्तद्ध्वंसस्य प्रतियोगिभेदेऽनवस्थानात् , तदभेदे च तदुत्पत्तेरावश्यकत्वात् । अतो न कर्मसाध्या मुक्तिः । न चास्मन्मते बन्धध्वंसोऽपि वस्तुव्यतिरिक्तोऽस्तीति भावः । तदेवं प्रत्यग्भूते ब्रह्मणि मैत्रेयीब्रह्मणमन्वितमित्युपसंहर्तुमितीत्युक्तम् ॥ २२ ॥
यत्प्रतिज्ञाबलान्मैत्रेयीब्राह्मणस्य ब्रह्मपरत्वं तस्मादेवोपादानत्वं ब्रह्मणः साधयति —
प्रकृतिश्चेति ।
व्यवहितसम्बन्धादपौनरुक्त्यं वक्तुं वृत्तं कीर्तयति —
यथेति ।
सदृष्टान्तमाद्यसूत्रार्थमनूद्य ब्रह्मलक्षणस्य कारणत्वस्य द्वितीयसूत्रार्थस्य विचारप्रतिज्ञया सङ्गतिमाह —
ब्रह्म चेति ।
ब्रह्मकारणत्वार्थाधिकरणस्य कारणविशेषविचारस्य च सम्बन्धोक्तिपूर्वकमवशिष्टमर्थमाचक्षाणः सनिमित्तं संशयमाह —
तच्चेति ।
जन्मादिसूत्रे त्वेतदधिकरणसिद्धवत्कारेणोभयकारणत्वोक्तिः, तदनन्तरमस्यारभ्यत्वेऽपि निर्णीततात्पर्यैर्वेदान्तैर्निमित्तत्वमात्रसाधकानुमितेर्विरोधोक्तिः सुकरेति समन्वयावसाने लिखितमेतदधिकरणमुक्ते विषये समन्वयो दुःसाध्य इति कारणतामात्रं तत्रोक्तमिति भावः । ब्रह्मलक्षणस्याध्यायादिसम्बन्धादस्यापि तद्योगिनस्तत्सिद्धिः । पूर्वपक्षे प्रतिज्ञागौणत्वं सिद्धान्ते तन्मुख्यत्वं फलमिति ।
समानधर्मदृष्ट्या विमर्शमेव विशदयति —
किमिति ।
प्रतिज्ञाया मुख्यत्वेन वाक्यस्य जीवपरत्वे परास्ते निमित्तोपादानभेदाद्गौणी सेति पूर्वपक्षयति —
तत्रेति ।
एवकारार्थं स्फुटयति —
केवलमिति ।
तत्र मानं पृच्छति —
कस्मादिति ।
न ब्रह्म कार्यद्रव्योपादानं, चेतनत्वात्कर्तृत्वाच्च, कुलालादिवदित्याह —
ईक्षेति ।
हेतुद्वयं श्रुत्या स्फुटयति —
ईक्षेत्यादिना ।
ब्रह्मणश्चेतनस्य कर्तुरेव कार्यद्रव्योपादानत्वे किं बाधकमित्याशङ्क्य कुलालादेरपि तत्प्रसक्तिरित्याह —
ईक्षेति ।
अनुमानान्तरं वक्तुं या द्रव्योत्पत्तिः सा भिन्ननिमित्तोपादानपूर्वा, यथा घटाद्युत्पत्तिरिति व्याप्तिमाह —
अनेकेति ।
जगद्द्रव्योत्पत्तिर्भिन्ननिमित्तोपादानपूर्वा, द्रव्योत्पत्तित्वात् , घटोत्पत्तिवदित्यनुमिनोति —
स चेति ।
न ब्रह्म कार्यद्रव्योपादानं ईश्वरत्वात् , लौकिकेश्वरवदित्याह —
ईश्वरत्वेति ।
साध्यवैकल्यं प्रत्याह —
ईश्वराणां हीति ।
दार्ष्टान्तिकं निगमयति —
तद्वदिति ।
विमतमचेतनोपादानं, कार्यद्रव्यत्वात् , घटवदित्याह —
कार्यं चेति ।
कार्यत्वं साधयति —
सावयवमिति ।
विमतं न ब्रह्मोपादानं, अचेतनत्वादशुद्धत्वाच्च, घटादिवदित्याह —
अचेतनमिति ।
तथापि जगच्चेतनोपादानं किं न स्यात् , तत्राह —
कारणेनेति ।
ब्रह्मैव तर्हि तादृगस्तु, नेत्याह —
ब्रह्म चेति ।
निष्कलं निरवयवम् । निष्क्रियं परिणामपरिस्पन्दरहितम् । शान्तं रागद्वेषादिशून्यम् । निरवद्यं पुण्यापुण्यवर्जितम् । निरञ्जनं सुखदुःखादिभिरस्पृष्टम् । आदिशब्देन ‘शुद्धमपापविद्धम्’ इत्याद्या श्रुतिरुक्ता ।
ब्रह्मणश्चेन्न जगदुपादानत्वं, तर्हि किं तदुपादानं, नहि निमित्तमात्राद्भावरूपं कार्यं, तत्राह —
पारिशेष्यादिति ।
तत्र ब्रह्मण्युक्तमसारूप्यं नास्तीत्याह —
अशुद्ध्यादीति ।
नच तस्याप्रमितत्वादनुपादानत्वमित्याह —
स्मृतीति ।
ब्रह्मोपादानत्वस्य प्रसक्तस्य निषेधे साङ्ख्यीयप्रधानादन्यत्राप्रसङ्गात्तदेव परिशेषतो जगदुपादानमित्यर्थः ।
‘सदेव’ इत्यादिश्रुतेस्तर्हि का गतिरित्याशङ्क्यानुमानविरोधाद्विशेषे सङ्कोच इत्याह —
ब्रह्मेति ।
जन्मादिसूत्रोक्तलक्षणस्यासम्भावितत्वमितिशब्दोपसंहृतमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —
एवमिति ।
उक्तानुमानेषु जीवत्सु नोभयकारणतेति शङ्कते —
कस्मादिति ।
हेतुमादाय व्याचष्टे —
प्रतिज्ञेति ।
एवमिति ।
उभयकारणत्वे सतीति यावत् ।
तयोरनुपरोधं वक्तुं प्रतिज्ञामाह —
प्रतिज्ञेति ।
तद्वाक्यार्थमाह —
तत्रेति ।
तदनुपरोधं स्वमते दर्शयति —
तच्चेति ।
निमित्तकारणज्ञानादेव सर्वज्ञानं किं न स्यात् , तत्राह —
निमित्तेति ।
दृष्टान्तानुपरोधमाह —
दृष्टान्तोऽपीति ।
मृदि ज्ञातायां तद्विकारणस्य ज्ञेयत्वेनानवशेषे हेतुः —
वाचेति ।
घटादेर्वाचारम्भणत्वं वस्तुतोऽसत्वं साधयति —
नामेति ।
शून्यशेषत्वं निषेधति —
मृत्तिकेति ।
विपरीतदृष्टान्तोऽपि स्यादिति शङ्कां निरसितुं दृष्टान्तान्तराण्याह —
तथेति ।
गतिसामान्यार्थमाथर्वणगतौ प्रतिज्ञादृष्टान्तावाह —
तथेति ।
बृहदारण्यकेऽपि तौ निर्दिशति —
आत्मनीति ।
घटः प्रकाशते पटो वेत्यनुगतप्रकाशातिकेण घटादेरसिद्धेस्तत्रैव कल्पितत्वात्प्रकाशोऽनुगतोऽधिष्ठानं प्रकृतिरित्यनुगतः स दृष्टान्तो यथा तथोच्यते ।
बाह्यान् ।
दुन्दुभिशब्दसामान्यबहिर्भूतानिति यावत् । दुन्दुभेस्तच्छब्दसामान्यस्येत्यर्थः । दुन्दुभ्याघातस्य जनकस्य जन्यतया सम्बन्धी वा शब्दो विशेषशब्द इत्यर्थः ।
वेदान्तत्रयगतं न्यायं वेदान्तान्तरेष्वतिदिशति —
एवमिति ।
प्रतिज्ञाद्यनुपरोधलिङ्गादुपादानत्ववत्पञ्चमीश्रुत्यापि तद्धीरित्याह —
यत इति ।
यत इत्यादिश्रुतौ यत इतीयं पञ्चम्यपि प्रकृतिरूपापादानएव द्रष्टव्येति सम्बन्धः ।
जाड्याद्बद्ध एवेति निमित्तेऽपि पञ्चमीदृष्टेऽरुपादानत्वं कथं गमयेत् , तत्राह —
जनीति ।
जायमानस्य कार्यस्य प्रकृतिरुपादानमपादानसंज्ञं भवतीत्यपादाने पञ्चमीस्मरणान्न कारणमात्रे सा युक्तेत्यर्थः ।
यद्यपि सूत्रे प्रकृतिग्रहणं सर्वकारणसङ्ग्रहार्थमित्युक्तं तथापि तदनादृत्य ‘प्रकृतिश्च’ इतिसूत्रस्थप्रकृतिशब्दवदयमपीति मन्यते, तथापि कथं निमित्तत्वं, तदाह —
निमित्तत्वमिति ।
अधिष्ठात्रन्तराभावं व्यतिरेकदृष्टान्तेन साधयति —
यथेति ।
अन्यस्याधिष्ठातुरपेक्षणीयस्यासत्त्वे हेतुमाह —
प्रागिति ।
ब्रह्मणोऽन्यन्निमित्तं जगतो नेत्यत्रापि सूत्रावयवसामर्थ्यमाह —
अधिष्ठात्रन्तरेति ।
उक्तमेव व्यतिरेकेण स्फोरयति —
अधिष्ठातरीति ।
श्रुतिलिङ्गाभ्यां सिद्धमुपसंहरति —
तस्मादिति ॥ २३ ॥
द्विधा हेतुत्वमेकस्य युक्तमिति वक्तुं सूत्रचतुष्टयमवतारयति —
कुतश्चेति ।
स्रष्टव्यविषयसङ्कल्पोक्तेरुभयकारणत्वं तावदाह —
अभिघ्येति ।
प्रतिज्ञां पूरयन्नभिध्योपदेशं विशदयति —
अभिध्येति ।
कथं तस्मात्कर्तृत्वप्रकृतित्वे गम्येते, तत्राह —
तत्रेति ॥ २४ ॥
निमित्तत्वमुपेत्योपादानत्वे हेत्वन्तरमाह —
साक्षाच्चेति ।
सूत्रस्य तत्पार्यमाह —
प्रकृतित्वस्येति ।
अक्षराणि व्याकरोति —
इतश्चेति ।
आकाशस्य ब्रह्मत्वं ‘आकाशस्तल्लिङ्गात्’ इत्युक्तम् ।
नन्वाकाशं ब्रह्मोक्त्वा सर्वभूतानां तदधीनप्रभवप्रलयाभिधानेऽपि कथं ब्रह्मणः सर्वभूतोपादानत्वं, तत्राह —
यद्धीति ।
सूत्रावयवसूचितमर्थमाह —
साक्षादिति ।
आकाशादेवेत्येवकारसूचितमुपादानान्तरानुपादानं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ।
उपादानान्तरव्यावृत्तिरेवकारार्थो न भवति किन्तु निमित्तस्याकाशस्योपादान्तत्वव्यावृत्तिरित्याशङ्क्याह —
प्रतीति ।
निमित्ते कार्यस्य लयादृष्टेराकाशस्य तन्मात्रत्वमत्र नेष्ठमित्यर्थः ॥ २५ ॥
ब्रह्मणो जगन्निमित्तस्य तत्प्रकृतित्वे हेत्वन्तरमाह —
आत्मेति ।
सूत्रं व्याकरोति —
इतश्चेति ।
उक्तमेव विभज्य निर्दिशति —
आत्मानमिति ।
पूर्वसिद्धस्य कर्तृत्वं, क्रियमाणत्वं त्वसिद्धस्य, तन्नोभयमेकस्य स्यादिति शङ्कते —
कथमिति ।
सूत्रावयवमवतार्य व्याचष्टे —
परिणामादिति ।
आत्मानमिति विशेषणादेतद्धीरित्यर्थः ।
इत्थं मिथ्यापरिणामेऽपि कथं विरोधसमाधिरित्याशङ्क्याह —
विकारेति ।
एकेन रूपेण पूर्वसिद्धस्याप्यसिद्धरूपान्तरेण परिणामो दृष्टत्वाद्युक्तः स्यादित्यर्थः ।
श्रौतेन विशेषणान्तरेण सूचितमर्थमाह —
स्वयमिति ।
आत्मकृतेरिति हेतुसाधनार्थं परिणामादिति पदमित्युक्तम् । सम्प्रति स्वतन्त्रहेत्वन्तरमेतदित्याह —
परिणामादिति वेति ।
अर्थभेदाभावे कथं पार्थक्यं, तत्राह —
तस्येति ।
अर्थविशेषमेव दर्शयति —
इतश्चेति ।
मृद्धटः सुवर्णं कुण्डलमितिवद्ब्रह्मणः सच्च त्यच्चेति जगतः सामानाधिकरण्यादुपादानत्वम् । निमित्ते तदयोगादित्यर्थः । सत्प्रत्यक्षं भूतत्रयम् । त्यत्परोक्षं भूतद्वयम् । निरुक्तमिदमेवमिति निर्वचनार्हम् । ततोऽन्यदनिरुक्तम् ॥ २६ ॥
जगन्निमित्तस्येव ब्रह्मणस्तत्प्रकृतित्वे हेत्वन्तरमाह —
योनिश्चेति ।
वेदान्तानेव लेशतो दर्शयति —
कर्तारमिति ।
क्रियाशक्तिवदीशनशक्तिरपि तस्यास्तीत्याह —
ईशमिति ।
ताटस्थ्यं व्यावर्तयति —
पुरुषमिति ।
तस्य पुरि शयानस्य परिच्छेदं व्यवच्छिनत्ति —
ब्रह्मेति ।
आकाशादेरन्यत्वे कथं पूर्णता, तत्राह —
योनिमिति ।
अपश्यन्निति सम्बन्धः । यद्भूतयोनिमित्यत्र तदक्षरं परविद्याधिगम्यमिति सम्बन्धः ।
योनिशब्दे ब्रह्मणि प्रयुक्तेऽपि कथं तस्योपादानत्वं, नहि तस्य प्रकृत्यर्थत्वं प्रसिद्धं, तत्राह —
योनिशब्दश्चेति ।
ननूपादानत्वं विनापि स्त्रीयोनौ योनिशब्दो दृश्यते, तत्राह —
स्रीति ।
अवयवशब्देन योनिप्रभवं शोणितं गृह्यते ।
तर्हि योनिशब्दस्य श्रुतित्वात्प्रथमतो वक्तव्यत्वे किमर्थं पश्चादुच्यते, तत्राह —
क्वचिदिति ।
योनिः । स्थानं ते तव भो इन्द्र निषदे निषदनायोपवेशनाय स्थित्यर्थमकारि कृतमित्यर्थः ।
योनिशब्दस्य व्यभिचा्रित्वेनाश्रुतित्वेनासाधकतेत्याशङ्क्याह —
वाक्येति ।
भूतयोन्यादिवाक्यं सप्तम्यर्थः । वाक्यशेषशब्दो ब्रह्मादिपदस्याप्युपलक्षणः ।
श्रुत्यादिसिद्धं सिद्धान्तमुपसंहरति —
एवमिति ।
परोक्तमनुमानजातमपाकर्तुमनुवदति —
यदिति ।
यथादृष्टमनुमेयम् , इह तु धर्मवन्नानुमानं युक्तं, श्रुतिलिङ्गाम्यां ब्रह्मणोऽन्यत्रैव सामान्यतोदृष्टानां सावकाशत्वेन दुर्बलत्वादित्याह —
तदिति ।
किञ्च श्रौतमीश्वरमनाश्रित्यानुमानमाश्रित्य वा । नाद्यः, अप्रसिद्धविशेषणत्वादिप्रसङ्गादित्याह —
नहीति ।
न द्वितीयो धर्मिग्राहकमानविरोधादित्याह —
शब्देति ।
शब्दानुसारेणापि कथमुभयथा कारणत्वं, तत्राह —
शब्दश्चेति ।
योनिशब्दो यत इति पञ्चमी च शब्दार्थः । चकारात्प्रतिज्ञाद्यनुपरोधलिङ्गमपि गृहीतम् ।
शब्दावगतमपि वैलक्षण्यादियुक्तिविरोधादयुक्तमित्याशङ्क्याह —
पुनश्चेति ।
युक्तिविरोधस्याग्रे निरासादागमविरुद्धानुमानस्य कालातीतत्वेनाप्रामाण्याद्यथागममुभयथा कारणत्वमिति भावः ॥ २७ ॥
उक्तन्यायेन प्रधानस्याशब्दत्वेऽपि न ब्रह्मण्येव जगत्कारणे समन्वयः । ‘अणोरणीयान्', ‘अण्व्य इवेमा धानाः', ‘असदेवेदम्’ इत्यादिशब्दादणुस्वभावशून्यानां जगद्धेतुत्वसम्भवादित्याशङ्क्याह—
एतेनेति ।
अतिदेशेनाण्वादिवादं निरस्य जगद्धेतौ ब्रह्मणि समन्वयस्थापनादस्य श्रुत्यादिसङ्गतिः । फलं तु पूर्ववत् ।
अतिदेशाधिकरणस्य तात्पर्यं वक्तं वृत्तं कीर्तयति —
ईक्षतेरिति ।
तस्यैव विशेषतो निरासे हेतुमाह —
तस्येति ।
प्रधानवादस्यैव प्राधान्येन निरासे हेत्वन्तरमाह —
स चेति ।
न केवलमभ्यर्हितत्वात्तस्य प्राधान्यं, स्मृतिमूलत्वादपीत्याह —
देवलेति ।
उक्तहेतुफलमाह—
तेनेति ।
तर्हि तावतैव ब्रह्मकारणत्वसिद्धेरलमतिदेशेनेत्याशङ्क्याह—
तेऽपीति ।
अण्वादिवादानामशब्दत्वादेव निषेधे पुनरुत्थानाभावान्न निषेध्यतेत्याशङ्क्याह —
तेषामिति ।
‘अणोरणीयान्’ इत्याद्यब्रह्मपरं ब्रह्मपरं वेत्यण्वादिशब्दस्य परमाण्वादिविषयत्वाविषयत्वाभ्यां सन्देहे, परमाणुष्वणुशब्दस्य प्रसिद्धत्वात् , कुलालो मृदा घटं करोतीतिवत्पतत्रैर्द्यावापृथिवी देवः सञ्जनयन्निति तेषां हेतुत्वोक्तेः, ‘असद्वा इदम्', ‘असदेवेदम्’ इति शून्यवादात् ‘तन्नामरूपाभ्यामेव व्याक्रियत’ इति कर्मकर्तरि लकारेण स्वभाववादादनुपादानं ब्रह्मेति प्रतीतेः, ‘अण्व्य इवेमा धानाः’ इति च जगतो मृद्दृष्टान्तात् , ब्रह्मणः प्रकृतित्वे वटधानादृष्टान्तात् , अण्वादीनामपि तत्प्रकृतित्वयोगाद्गतिसामान्यासिद्धिरित्यर्थः ।
अथैवं पूर्वपक्षभानेऽपि किमिति साङ्ख्यमतनिरसनन्यायेन तन्निरसनं क्रियते किमिति न विपरीतमित्याशङ्क्य पूर्वपक्षप्राप्तिमितिशब्दसमापितामनूद्य सिद्धान्तमाह —
अत इति ।
उक्तन्यायस्य तेषु प्राप्तिमाह —
तेषामिति ।
अणोरणीयानित्यात्मनः सूक्ष्मतया प्रत्यक्षाद्यगोचरत्ववचनात् , पतत्रशब्दस्य परमाणुवाचकत्वासिद्धेः, ‘अणुः पन्था’ इति ज्ञानमार्गस्तुतेः, ‘असदेवेदम्’ इत्यादेः समाहितत्वात् , मृदादिदृष्टान्तानां च प्रतिज्ञानुरोधित्वात् , धानादृष्टान्तस्यापि तदनुरोधेन भाक्तत्वात् , अण्वादीनां प्रधानवदशब्दत्वात् , ब्रह्मकारणवादिशब्दविरोधित्वादुक्तान्यपि वाक्यानि ब्रह्मपराणीति ब्रह्मणि कारणे सिद्धः समन्वयो वेदान्तानामित्यार्थः ।
पुनरुक्तेस्तात्पर्यमाह —
व्याख्याता इति ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृते शारीरकभाष्यन्यायनिर्णये प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ इति प्रथमाध्यायेऽव्यक्तादिसन्दिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥
॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥
अथ द्वितीयोऽध्यायः ।
द्वितीयाध्याये प्रथमः पादः ।
द्वितीयाध्याये द्वितीयः पादः ।
द्वितीयाध्याये तृतीयः पादः ।
द्वितीयाध्याये चतुर्थः पादः ।