अद्वैतशारदा

न्यायनिर्णयव्याख्या

१ परिच्छेदः

किं तर्हि तदर्थान्तरं, येन वाक्य­स्यो­प­प­त्ति­रिति पृच्छति —
कथमिति ।

कर्म­धा­र­या­द्य­ने­क­यो­गेऽपि संज्ञासमासं बल­व­त्त­र­मा­प्तो­क्ते­रु­पे­त्यात्र परे­ष्ट­स­ङ्ख्या­धी­रेव नेति परिहरति —
उच्यत इति ।
दिग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञाया विषये सुबन्तेन समस्यन्ते, दक्षिणाग्निः सप्तर्षय इति दर्शनात् , स तु समा­स­स्त­त्पु­रु­ष­संज्ञ इति स्मृतेरित्यर्थः ।

संज्ञात्वेऽपि पाच­क­श­ब्द­व­द­व­य­व­वृत्त्या पञ्चजनशब्दस्य बोध­क­त्व­मा­श­ङ्क्यो­क्तम् —
ततश्चेति ।
सति संज्ञात्वे पञ्च­ज­न­श­ब्दोऽ­व­य­वा­र्थ­यो­गा­न­पे­क्ष­त्वा­दे­क­स्मि­न्नपि वसिष्ठे सप्त­र्षि­श­ब्द­व­दे­क­त्रापि भवतीति भावः ।

प्राथ­मि­क­प­ञ्च­श­ब्द­स्या­न्व­य­मा­का­ङ्क्षया दर्शयति —
त इति ।

वाक्यार्थं सदृष्टान्तं स्पष्टयति —
पञ्चेति ॥ ११ ॥

स्वरू­प­वि­शे­षा­सिद्धौ श्रुते­र­प्रा­मा­ण्या­त्त­द्वि­शे­ष­सा­ध­कस्य चादृ­ष्टे­स्त­त्प्रा­माण्ये सन्दिहानः शङ्कते —
के पुनरिति ।

सूत्रेणोत्तरमाह —
तदिति ।

तद्व्या­कु­र्व­न्नि­र्णा­य­क­माह —
यस्मिन्निति ।
अप्यर्थे श्रुतावुतशब्दः । येऽपि प्राणादीनां प्राण­ना­दि­सा­ध­क­मा­त्मानं विदुस्ते ब्रह्म निश्चितवन्त इति योजना ।

पञ्चजनशब्दो लोके प्राणा­दि­ष्व­गृ­ही­त­स­ङ्ग­ति­स्ता­न्क­थ­मा­च­क्षी­तेति शङ्कते —
कथमिति ।
यथा सत्येत्युक्ते सत्यभामा गम्यते तथा जनशब्दो भाष्ये पञ्चजनविषयः ।

किं पञ्चजनशब्दस्य सङ्ख्यी­य­त­त्त्व­वि­ष­यत्वं, प्राणा­द्य­वि­ष­यत्वं वा । नाद्यः, तेष्वपि शक्य­ग्र­ह­ण­सा­म्या­दि­त्याह —
तत्त्वेष्विति ।

द्वितीयं प्रत्याह —
समाने त्विति ।

कया तर्हि वृत्या पञ्चजनशब्देन प्राणादिधीः, लक्षणयेत्याह —
जनेति ।

किञ्च पञ्चजनपर्यायस्य पुरुषशब्दस्य प्राणेषु प्रयु­क्त­पू­र्व­त्वा­द्युक्ता तेषां पञ्च­ज­न­श­ब्द­ते­त्याह —
जनेति ।

किञ्च पञ्चजनपर्यायस्य पुरुषशब्दस्य प्राणे प्रयुक्तत्वं व्यनक्ति —
ते वा इति ।
ते खल्वेते हृदयच्छिद्रेषु पूर्व­द­क्षि­ण­प­श्चि­मो­त्त­रो­र्ध्वेषु पञ्चसु पञ्चप्राणादयो ब्रह्मणो हार्दस्य पुरुषस्य द्वारपाला इत्यत्र प्राणादिषु पुरु­ष­श­ब्दोऽ­स्ती­त्यर्थः ।

प्राणस्य सर्वात्मत्वादपि तदात्मकानां तेषां युक्ता पञ्च­ज­न­श­ब्द­ते­त्याह —
प्राणो हेति ।
अव­य­व­प्र­सि­द्धि­स­म्भवे समु­दा­य­प्र­सि­द्धि­र­युक्ता । सम्भवति पञ्चविंशत्यां तत्त्वे­ष्व­व­य­व­प्र­सिद्धिः । पञ्च च ते जनाश्चेति व्युत्पत्तेः ।

तत्त्वानां च जाय­मा­ना­जा­य­मा­नानां छत्रिन्यायेन जनशब्दितानां पञ्चसङ्ख्यावतां पञ्च­स­ङ्ख्या­वत्त्वे पञ्च­विं­श­ति­त्व­सि­द्धि­रि­त्या­श­ङ्क्याह —
समासेति ।

रूढिमाक्षिपति —
कथमिति ।

जन­श­ब्दि­त­म­नु­ष्येषु पञ्चजनशब्जस्य दृष्ट­त्वा­त्प्र­थ­म­प्र­यो­गा­भा­वा­सि­द्धा­वपि तदभावमुपेत्य दृष्टान्तमाह —
शक्येति ।

सङ्ग्रहवाक्यं विवृणोति —
प्रसिदद्धेति ।

तत्रो­द्भि­द­घि­क­र­ण­मु­दा­ह­रति —
यथेति ।
‘उद्भिदा यजेत पशुकामः’ इत्य­त्रो­द्भि­त्पदं विधेयगुणार्पकं वा कर्मनाम वेति संशये, खनि­त्रा­दा­वु­द्भि­च्छ­ब्दस्य प्रसिद्धेः, नामत्वे च यज­ति­तु­ल्या­र्थ­त्वे­ना­न­र्थ­क्यात् , ज्योतिष्टोमे गुणविधिरिति प्राप्ते, यजेतेति यागेन भाव­ये­दि­त्य­र्थ­क­ल्प­नात् , उद्भिदेति करणार्थपदस्य तत्सा­मा­ना­धि­क­र­ण्या­त्त­दे­का­र्थ­त्वात् , उद्भिद्वतेति कल्पने मत्व­र्थ­ल­क्ष­णा­पा­तात् , उद्भिदा यागं भावयेद्यागेन पशुमिति वैयधिकरण्ये च यागस्य फलं प्रति साधनत्वं गुणं प्रति साध्यत्वमिति वैरूप्यात् , विध्यावृत्त्या वाक्यभेदाच्च, उद्भिनत्ति साधयति पशुमिति यागेऽपि प्रसिद्धियोगात् , अत्र नामत्वसिद्धौ चान्यत्र ‘समे दर्श­पू­र्ण­मा­साभ्यां यजेत्’ इत्यादौ नाम­व­द्या­गा­नु­वा­देन गुण­फ­ल­वि­धि­स­म्भ­वात् , ज्योतिष्टोमे वा प्रकृते गुणविध्ययोगात् , कर्मनामैव संनि­हि­त­य­ज्य­नु­रो­धा­दु­द्भि­त्प­द­मिति राद्धा­न्ति­त­मि­त्यर्थः ।

सङ्ग्र­ह­वा­क्य­स्था­दि­श­ब्दो­पा­त्त­मु­दा­ह­र­ण­द्ब­य­माह —
यूपमिति ।
छिन­त्ती­ति­प्र­सि­द्धा­र्थ­प­द­स­म­भि­व्या­हा­रा­द्यू­प­प­दस्य तद­र्थ­श्छे­द­न­योग्यो दारुविशेषो गम्यते । वेदिं करोतीति च करो­ति­स­म­भि­व्या­हा­रा­द्वे­द्यर्थः संस्कारयोग्यः स्थण्डिलविशेषः सिद्ध इत्यर्थः ।

दृष्टा­न्त­त्र­यार्थं दार्ष्टान्तिके योजयति —
तथेति ।

आचार्यदेशीयानां मतद्वयमाह —
कैश्चि­दि­त्या­दिना ।
शूद्रायां ब्राह्मणाज्जातो निषादः ।

श्रुत्य­न्त­रा­नु­सा­रेण सम्भावितं पक्षान्तरमाह —
क्वचिच्चेति ।
पाञ्चजन्यया प्रजया विशतीति विशा पुरुषरूपया यदि­न्द्रा­ह्वा­न­नि­मित्तं घोषा असृक्षत सृष्टा­स्त­द्युक्तं घोषातिरेकेण तदा­ह्वा­ना­यो­गा­दि­त्यत्र प्रजापरः प्रयोगो दृष्टः । ततोऽत्र पञ्चसङ्ख्याया उप­ल­क्ष­ण­त्वा­त्प­ञ्च­ज­न­श­ब्देन सर्व­प्र­जा­ग्र­ह­ण­मि­त्यर्थः ।

उक्त­प­क्षा­न्य­त­म­ग्र­हेऽपि साङ्ख्य­नि­रा­स­यो­गा­त्प्र­धा­न­स्या­श­ब्द­त्व­सि­द्धे­र­स्माकं न विशे­ष­प­क्ष­पा­तोऽ­स्ती­त्याह —
तदिति ।

आचार्यवचनं विरुध्यते तस्य प्राणा­दि­वि­ष­य­त्वा­दि­त्या­शङ्क्य व्याख्या­न्त­रा­भा­व­धिया तन्न प्रवृत्तमित्याह —
आचार्यस्त्विति ॥ १२ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं श्रुत्यो­र्मि­थोऽ­वि­रोधं चोदयति —
भवेयुरिति ।

सूत्र­मु­त्त­र­त्वे­ना­व­ता­र­यति —
अत इति ।

तद्व्याकरोति —
असत्यपीति ।

ज्योतिरपि पञ्च­स­ङ्ख्या­पू­र­क­मा­त्मा­ति­रिक्तं काण्व­श्रु­ता­व­श्रु­त­मि­त्या­श­ङ्क्याह —
तेऽपीति ।

यत्पू­र्व­का­ला­प­रि­च्छे­द्य­मुक्तं तज्ज्यो­ति­षा­मा­दि­त्या­दीनां भास­क­म­मृ­त­त्वे­ना­यु­ष्ट्वेन जीव­न­गु­ण­व­त्त­यो­पा­सते देवाः, तेना­यु­ष्म­न्तस्ते जाता इत्याह —
तदिति ।
अस्मिन् मन्त्रे षष्ठ्य­न्त­ज्यो­तिषा पञ्च­स­ङ्ख्या­पू­रणं, न त्वात्म­ज्यो­तिषा, तस्यै­क­स्या­धा­रा­धे­य­त्वा­यो­गात् ।

केषा­ञ्चि­त्प­ञ्च­स­ङ्ख्या­पू­रकं ज्योतिरन्येषां नेति न विकल्पो वस्तुनीति शङ्कते —
कथमिति ।

ग्राह­क­सा­म­र्थ्य­भे­दा­द­वि­रो­ध­माह —
अपेक्षेति ।

तदेव स्फुटयति —
माध्य­न्दि­ना­ना­मिति ।

तथापि कथमेकस्यैव ज्योतिषस्तुल्ये मन्त्रे ग्रहाग्रहौ, नहि वस्तुनि विकल्पोऽस्ति, तत्राह —
अपेक्षेति ।

उक्तं दृष्टान्तेन स्पष्टयति —
यथेति ।

विरोधेऽपि तुल्य­ब­ल­त्वा­ज्ज्यो­ति­र्वि­हाय वाक्य­शे­ष­स्था­ना­मेव प्राणादीनां सान्नानां क्वचिद्ग्रहणं, अन्यत्र सज्योतिषां तेषामेव ग्रहणं, क्रियायामिव वस्तुन्यपि दृष्टिक्रियायां विक­ल्प­सि­द्धे­रि­ति­म­त्वाह —
तद्वदिति ।

पञ्च­ज­न­म­न्त्रा­त्प्र­धा­नस्य श्रुति­म­त्त्वा­भा­वेऽपि प्रकारान्तरेण तस्य तद्व­त्त्व­मा­शङ्क्य तद्विषयत्वेन सम्भा­वि­त­श्रु­ती­ना­म­न्य­वि­ष­य­त्वेन नीत­त्वा­न्मै­व­मि­त्याह —
तदेवमिति ।

तथापि न ब्रह्मणि समन्वयः प्रधा­ना­र्थ­स्मृ­ति­न्या­य­वि­रो­धा­दि­त्या­शङ्क्य भाविनं समाधिं सूचयति —
स्मृतीति ॥ १३ ॥

पूर्वा­धि­क­र­ण­त्र­येण प्रधाननिराकरणेन वेदान्तानां ब्रह्मकारणत्वं प्रत्य­वि­गी­त­त्व­मु­क्तम् । इदानीं कारणविषयाणां तेषां मिथोऽ­व्या­ह­ता­र्थ­त्वेन स्वतो­नि­श्चा­य­क­त्वा­न्मा­ना­न्त­र­सि­द्ध­प्र­धा­न­ल­क्ष­कत्वे गति­सा­मा­न्या­सि­द्धि­रि­त्या­श­ङ्क्याह —
कारणत्वेन चेति ।

अधिकरणतात्पर्यं वक्तुं जन्मादिसूत्रे वृत्तं कीर्तयति —
प्रतिपादितमिति ।

शास्त्र­यो­नि­त्वा­धि­क­र­ण­मा­र­भ्या­नु­मा­नि­क­सू­त्रा­त्प्रा­क्त­ना­धि­क­र­णानां तात्पर्यमनुवदति —
प्रतिपादितमिति ।

अधि­क­र­ण­त्र­या­र्थ­म­नु­व­दति —
प्रतिपादितं चेति ।

सम्प्रति कारणे ब्रह्म­ण्य­न्व­य­प­र्य­व­सा­नाय कार­ण­वि­ष­य­क­वा­क्या­ना­म­वि­रो­धा­र्थ­म­धि­क­र­ण­मा­र­भ­माणो जग­त्का­र­ण­वा­दि­वा­क्यानि ब्रह्मणि मानं न वेति विप्र­ति­प­त्ते­र्वि­शये पूर्व­त्रा­न्न­ज्यो­ति­षो­र्वि­क­ल्पेन निर्देशादविरोधे सिद्धेऽपि प्रकृते सिद्धे कारणे विक­ल्पा­यो­गा­द्वि­रोधे सत्य­प्रा­मा­ण्य­मिति पूर्वपक्षमाह —
तत्रेति ।

कारणत्वं ब्रह्मणो गति­सा­मा­न्या­दु­क्त­मि­त्या­श­ङ्क्याह —
ब्रह्मेति ।
न चावि­रो­धा­र्थ­म­धि­क­रणं नेह सङ्गतमिति वाच्यं, समन्वयतो वाक्यार्थज्ञाने माना­न्त­र­वि­रो­धा­श­ङ्का­नि­रा­स­स्या­वि­रो­धा­ध्या­या­र्थ­त्वात् । इह च कार­ण­वि­ष­य­वा­क्या­ना­मेव मिथो विरोधान्न समन्वयो ब्रह्म­णी­त्य­शङ्क्य तन्निरासेनैव समन्वयस्यैव साध्य­त्वा­द­ध्या­य­स­ङ्ग­ति­सिद्धेः । कार्य­श्रु­ति­वि­रो­ध­स्या­पीह परिहर्तुं शक्यत्वेऽपि वेदान्तानां न कार्ये तात्पर्यमिति ज्ञापयितुं नात्र परिह्रियते । कार्यस्यापि प्रति­पा­द्य­त्व­मु­पे­त्यो­त्त­रत्र तदी­य­श्रु­ति­वि­रोधः परिहरिष्यते । एतेन श्रुति­शा­स्त्र­स­ङ्गती सिद्धे । क्वाचि­त्का­स­त्प­दस्य कर्म­क­र्तृ­प्र­यो­गस्य चासद्वादपरत्वं स्वभाववादपरत्वं च व्युदस्य गति­सा­मा­न्य­स्था­प­ना­त्पा­द­स­ङ्गतिः । पूर्वपक्षे कार्यद्वारा स्वतश्च कारणे विप्रतिपत्त्या तल्लक्षिते परस्मिन्नपि तदापत्तेर्न कारणे तुरीये च समन्वयधीरिति गति­सा­मा­न्या­सिद्धिः । सिद्धान्ते ब्रह्मणि कारणत्वस्य कल्पि­त­त्वा­त्तत्र वस्तु­तोऽ­वि­वा­दा­त्त­ल्ल­क्षिते सत्य­ज्ञा­ना­दि­ल­क्षणे तस्मि­न्न­न्व­य­सि­द्धे­र्ग­ति­सा­मा­न्य­सिद्धिः ।

प्रति­पा­दि­त­स्या­सि­द्धि­र­यु­क्तेति शङ्कते —
कस्मादिति ।

कार्ये कारणे च विप्र­ति­प­त्ति­द­र्श­ना­दु­क्त­स्यापि भव­त्य­सि­द्धि­रि­त्याह —
विगानेति ।

कार्यविषयं विगानं तावद्दर्शयति —
प्रतीति ।
क्रमा­दी­त्या­दि­श­ब्दा­द­क्रमो गृह्यते ।

क्रम­वै­चि­त्र्य­कृतं विगानमाह —
क्वचिदिति ।

आदि­श­ब्दा­र्थ­म­क्रमं कथयति —
क्वचिदिति ।
ईक्षिता परः सर्वनामार्थः ।

लोकान्विशिनष्टि —
अम्भ इति ।
अम्म­य­श­री­र­प्र­चुरः स्वर्गो लोकोऽ­म्भः­श­ब्दार्थः । मरीचिरिति रश्मि­प्र­धा­नोऽ­न्त­रि­क्ष­लोकः । मर इति मरणप्रधानोऽयं लोकः । आप इत्यब्बहुलः पाताललोक इति विवेकः ।

कार्ये विप्र­ति­प­त्ति­व­त्का­र­णेऽपि सा दृष्टेत्याह —
तथेति ।
इद­म­स­दि­वा­व्य­क्त­मग्रे प्राग­व­स्था­या­मिति यावत् । ततोऽ­न­भि­व्य­क्त­ना­म­रू­पा­त्का­र­णा­द­भि­व्य­क्त­ना­म­रूपं जगज्जातम् ।

अनभिव्यक्तमेव हि व्यक्तं भवतीत्याह —
तत इति ।

छान्दो­ग्य­श्रु­ति­स्तै­त्ति­री­य­श्रुत्या तुल्यार्थेत्याह —
असदिति ।
तत्स­म­भ­व­त्त­त्का­रणं यदा­त्म­ना­सी­त्त­त्स­द­र्थ­क्रि­यो­न्मुखं कार्यरूपेण च संवृ­त्त­मि­त्यर्थः ।

तथापि कुतो विप्रतिपत्तिः, तत्राह —
क्वचिदिति ।
प्रक्रिया सृष्टिः ।

तत्तत्र कारणे केचिदाहुः, तेषां मतं दूषयति —
कुतस्त्विति ।

तदेव स्फुटयति —
कथमिति ।

व्यति­रे­क­मु­क्त्वा­न्व­य­माह —
सतीति ।

विप्र­ति­प­त्त्य­न्त­र­माह —
क्वचिदिति ।
तदिदं जगत्तर्हि प्राग­व­स्था­या­म­व्या­कृ­त­का­र­ण­मा­सी­त्त­त्किल शब्दा­त्म­ना­र्था­त्मना च व्याक्रियत व्यक्त­म­भ­व­दि­त्यर्थः ।

विप्र­ति­प­त्ती­रु­प­सं­हृत्य तत्फलमाह —
एवमिति ।
वस्तुनीति कार्य­का­र­ण­यो­रुक्तिः ।

किं तर्हि न्याय्यं, मानान्तरेण कारणे निश्चिते वेदान्तानां तल्ल­क्ष­क­त्व­मि­त्याह —
स्मृतीति ।
स्मृतिः साङ्ख्यस्मृतिः । न्यायो ‘भेदानां परिमाणात्’ इत्यादिः । कारणान्तरं प्रधानम् ।

कार्यद्वारा स्वतश्च कारणे विप्र­ति­प­त्ते­स्त­ल्ल­क्ष्येऽपि परत्र तद्भा­वा­द्ग­ति­सा­मा­न्या­सि­द्धि­रिति पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।

कार्ये विप्र­ति­प­त्ति­मु­पेत्य कारणे तां निरा­कु­र्व­न्प्र­ति­जा­नीते —
सत्यपीति ।
स्रष्टरि यत्कारणत्वं तस्मिन्निति शेषः ।

तत्रापि विप्र­ति­प­त्ति­रु­क्तेति शङ्कते —
कुतइति ।

हेतुमुक्त्वा व्याचष्टे —
यथेति ।

यथाभूतत्वं विशिनष्टि —
सर्वेत्यादिना ।
सर्व­का­र­ण­त्वो­प­यु­क्त­माद्यं विशेषणद्वयं, तेन फलितं तृतीयं, तेनोपलक्षितं तुरी­य­गो­च­र­म­व­शि­ष्टम् ।

वेदान्तानां मिथो विप्र­ति­प­त्त्य­भावं मत्वोक्तम् —
तथेति ।

मिथो विरु­द्धा­र्थ­त्वे­ना­नि­श्चा­य­कानां सर्वशब्दानां माना­न्त­र­सि­द्ध­प्र­धा­न­ल­क्ष­णा­श्र­य­णा­द्वरं बहुशब्दानुरोधेन कति­प­य­ल­क्ष­णा­श्र­यणं लाघवादिति वक्तु­म­ने­क­श­ब्दा­ना­म­वि­रोधं तावदाह —
तद्यथेति ।
तद्वि­ष­ये­णे­त्यत्र तच्छब्दो ब्रह्मार्थः । ‘सोऽकामयत’ इति कामयितृत्ववचनम् ।

जगदुपादानस्य ब्रह्मणः सृज्यमानज्ञतया सर्व­ज्ञ­तो­क्ते­त्याह —
चेतनमिति ।
अप­र­प्र­यो­ज्य­त्वम् ‘इदं सर्वमसृजत’ इति स्वातन्त्र्यम् ।

तेन सर्वेश्वरत्वं दर्शितमित्याह —
अपरेति ।

सर्वात्मत्वमपि सङ्गीतमित्याह —
तदिति ।
तत्पदं पूर्ववत् । सत्या­दि­वा­क्या­पे­क्षया तस्मा­दि­त्या­दि­वा­क्य­स्था­त्म­श­ब्दस्य परत्वम् ।

तस्य सर्व­प्र­त्य­क्त्व­म­प्यु­क्त­मि­त्याह —
शरीरादिति ।

एकत्वमपि तस्योक्तमित्याह —
बहु स्यामिति ।

अद्वितीयत्वमपि तस्यै­वो­क्त­मि­त्याह —
तथेति ।

तैत्तिरीये यथो­क्त­ब्र­ह्मो­क्ता­वपि कुतो वेदान्तान्तरेषु तदु­क्ति­रि­त्या­श­ङ्क्याह —
तदिति ।

तत्रादौ छन्दोगश्रुतिमाह —
सदिति ।
‘एक­मे­वा­द्वि­ती­यम्’ इत्ये­क­त्वा­द्वि­ती­य­त्व­यो­रुक्तिः । ‘तदैक्षत’ इति सर्व­ज­ग­दी­क्ष­ण­श्रुत्या सर्व­ज्ञ­त्वोक्तिः । ‘ऐतदात्म्यमिदं सर्वम् ‘ इति सर्वा­त्म­त्वोक्तिः । ‘बहु स्याम्’ इति स्वात­न्त्र्यो­क्ते­रै­श्व­र्यगीः ।

ऐतरेयश्रुतावपि तादृ­ग्ब्र­ह्मो­क्त­मि­त्याह —
तथेति ।
इति च । एक­त्वा­द्वि­ती­य­त्वादि पूर्व­श्रु­ता­वि­वो­क्त­मिति शेषः ।

यथोक्तं ब्रह्मा­थ­र्व­णा­दा­वपि कथितमित्याह —
एवमिति ।
अवि­गी­ता­र्थ­त्वान्न कारणे विप्र­ति­प­त्ति­रिति शेषः ।

कथं तर्हि कार्यवाक्यानि तानि तद्वारा कारणे विगानं सूचयन्ति, तत्राह —
कार्येति ।

तर्हि कार्यद्वारा कारणे ब्रह्मण्यपि विगानमुक्तं, नेत्याह —
नचेति ।
स्थाण्वा­दि­वि­प्र­ति­पत्त्या घटा­दि­ष्व­सा­धा­र­ण­स्व­रू­प­नि­रू­पि­ते­ष्वपि तदापत्तिरिति प्रसङ्गः ।

ननु स्थाण्वा­दे­र्घ­टा­देश्च भेदान्न तत्तद्वारा घटादौ विप्रतिपत्तिः, कार्य­का­र­ण­यो­स्त्व­भे­दा­त्का­र्य­द्वारा कारणेऽपि स्यात् , तत्राह —
समाधास्यतीति ।

सृष्टिवाक्यानां सृष्टौ तात्पर्यमुपेत्य कार्य­वि­गा­न­स­मा­धि­रुक्तः । तेषां तत्र तात्पर्यमेव नास्तीत्याह —
भवेदिति ।

हेतुं साधयति —
नहीति ।

तस्य प्रति­पा­द­यि­तु­मि­ष्ट­त्वा­भावं स्पष्टयति —
न हीति ।
‘पूषा प्रपिष्टभाग’ इत्यादौ विधि­व­द्वि­श्व­जि­दादौ फलवच्चात्र फलं कल्प्य­मि­त्या­शङ्क्य ‘फल­व­त्सं­नि­धा­व­फलं तदङ्गम्’ इति न्याया­त्फ­ल­व­द्वा­क्य­सं­नि­ध्या­म्ना­तानां तेनै­क­वा­क्य­त्वा­न्मै­व­मि­त्याह —
नचेति ।

न्याया­दे­क­वा­क्य­त्व­मुक्त्वा श्रुतेरपि तत्सि­द्धि­रि­त्याह —
दर्शयतीति ।
शुङ्गं कार्यम् ।

सृष्टिवाक्यानां स्वार्था­ता­त्पर्यं युक्त्यापीत्याह —
मृदादीति ।
दृष्टान्तेषु कार्य­का­र­ण­यो­र­भे­दा­ज्ज­ग­तोऽपि ब्रह्माभेदः साध्यते । दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­स्तु­ल्य­त्वा­दि­त्यर्थः ।

सृष्ट्या­दि­प्र­प­ञ्च­स्या­वि­व­क्षि­तत्वे वृद्धसंमतिमाह —
तथाचेति ।
लोहं सुवर्णम् । अन्यथान्यथेति वीप्सा ज्ञेया ।

अवताराय ।
ब्रह्मा­त्मै­क्य­बु­द्धे­रिति शेषः । प्रतिपाद्ये ब्रह्मणि नास्ति भेदो न विगानमित्यर्थः ।

सृष्टिवाक्यानां फल­व­द्वा­क्य­स­म्ब­न्धार्थं ब्रह्म­वा­क्यो­त्थ­धियः फलवत्त्वमाह —
ब्रह्मेति ।
मृत्यु­म­त्ये­ती­त्य­न्वयः ।

विदु­षा­म­नु­भ­व­सिद्धं चैतदित्याह —
प्रत्यक्षेति ।

ननु विद्वद्भिरपि नास्मा­भि­रि­द­म­व­ग­म्यते, तत्राह —
तत्त्वमिति ॥ १४ ॥

सृष्टिवाक्यानां स्वार्थे तात्प­र्या­भा­व­मुक्त्वा कारणे परोक्तं विगानमनूद्य तस्य परि­हा­र­यो­ग्य­त्व­माह —
यदिति ।

तत्र परिहारत्वेन सूत्रमवतारयति —
अत्रेति ।

तैत्ति­री­य­श्रु­त्य­नु­सा­रेण व्याख्यातुं प्रतिज्ञां पूरयति —
असदिति ।

मन्त्र­ब्रा­ह्म­ण­यो­रै­का­र्थ्या­द्ब्रा­ह्म­ण­स्या­स­न्दि­ग्ध­तया कार­णा­र्थ­त्वा­न्म­न्त्र­स्यापि तादर्थ्यमेवेति पूर्वा­प­रा­नु­स­न्धा­नेन साधयति —
यत इति ।
ब्रह्मा­स्ति­त्व­ल­क्षणं निर्धार्य तस्मिन्नैव श्लोकमुदाहरतीति सम्बन्धः ।

कोश­प­ञ्च­को­क्ति­द्वारा तस्य प्रत्य­क्त्व­मु­क्त­मि­त्याह —
अन्नेति ।

ब्रह्मणः सत्त्वे प्रत्यक्त्वेऽपि कार­ण­स्या­स्तित्वं कथमित्याशङ्क्य सूत्रं योजयति —
स इति ।
‘इदं सर्वमसृजत यदिदं किञ्च’ इत्याद्या सृष्टिश्रुतिः ।

उप­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्या­द्वा­क्यस्य कारणास्तित्वे तात्पर्यं सिध्यतीत्याह —
तदिति ।

मन्त्र­ब्र­ह्म­ण­यो­रै­कार्थ्ये निया­म­का­भा­वा­द्ब्रा­ह्म­णस्य कार­णा­स्ति­त्वा­र्थ­त्वेऽपि मन्त्रस्य तन्न स्यादि­त्या­श­ङ्क्याह —
तदपीति ।

व्यति­रे­क­द्वा­रोक्तं स्फोरयति —
यदीति ।

कथं तर्हि सति कार­णेऽ­स­च्छ­ब्द­प्र­वृत्तिः, श्रुतिर्हि वाक्या­द्ब­ली­य­सी­त्या­श­ङ्क्यो­प­चा­रा­द्युक्ता श्रुतिरित्याह —
तस्मादिति ।
सदेवेत्यत्र नामा­दि­व्या­क­र­णा­त्प्र­गेव ब्रह्मणि सच्छब्दोऽस्तीति प्राये­णे­त्यु­क्तम् ।

तैत्ति­री­य­क­श्रु­ता­वु­क्त­न्यायं बृह­दा­र­ण्य­क­च्छा­न्दो­ग्य­श्रु­ता­व­ति­दि­शति —
एषेति ।

ननु तैत्तिरीयके ब्राह्म­णो­क्तेऽर्थे मन्त्रो­क्ते­स्त­यो­रै­का­र्थ्या­द्युक्तं कार­णा­स्ति­त्वा­र्थ­त्व­मिह तदभावात्कथं सदर्थत्वं, तत्राह —
तदिति ।

पूर्वमसदेव पुनः सद्भवतीति समा­क­र्षो­प­प­त्ति­मा­श­ङ्क्याह —
अत्यन्तेति ।
शशविषाणादौ कालान्तरेऽपि सत्त्वा­नु­प­ल­म्भा­दा­सी­च्छ­ब्दस्य तच्छब्दस्य सच्छब्दस्य वाऽयो­गा­द­त्य­न्ता­सत्त्वे समा­क­र्षा­सि­द्धि­रि­त्यर्थः ।

उक्तन्यायं छान्दोग्येऽपि योजयति —
तद्धेति ।

उदि­ता­नु­दि­त­हो­म­व­द्वि­रु­द्धा­र्थ­त्वेऽपि प्रामा­ण्य­सिद्धेः शाखा­न्त­री­या­भि­प्रा­ये­णै­की­य­म­तोक्तौ का हानि­रि­त्या­श­ङ्क्याह —
क्रियायामिति ।

तर्हि का गति­रे­की­य­म­तो­क्ते­रि­त्या­श­ङ्क्याह —
तस्मादिति ।
सत्त्वेव सोम्येति समा­क­र्षा­दि­त्य­त्रापि सूत्रं नेयम् ।

यत्तु स्वय­ङ्क­र्तृ­क­त्व­म­व्या­कृ­त­वाक्ये श्रुतं तद्दूषयति —
तद्धेदमिति ।

तत्रापि हेतुत्वेन सूत्रं योजयति —
स इति ।

ननु सर्व­ना­म­प्र­सि­द्धार्थं नाप्र­सि­द्ध­मु­त्था­प­यति, तत्राह —
निरध्यक्षेति ।

यद्यपि यन्म­द­न्य­दि­त्य­त्रोक्तौ मच्छब्दार्थः सइति सर्वनाम्ना परामृश्यते तथा­प्य­व्या­कृ­त­वा­क्येऽ­ध्य­क्ष­स्या­सं­नि­हि­तत्वे कार्या­नु­प्र­वे­शि­त्वे­नैष इति संनि­हि­ता­व­ल­म्बिना परा­म्र­ष्ट­व्या­भा­वा­त्त­द्वि­रोधः स्यादित्यर्थः । तथापि कथं परा­मृ­ष्ट­स्या­ध्य­क्षत्वं, तत्राह —
चेतनस्येति ।

कार्या­नु­प्र­वि­ष्टस्य कुतश्चेतनत्वं, तत्राह —
प्रविष्टस्येति ।
पश्यन्नाम्ना चष्ट इति चक्षुरुक्तः । तथासौ कर्तृ­व्यु­त्पत्त्या श्रौत्रा­दि­संज्ञो भवति ।

इतश्च जगतो व्याकरणं साध्य­क्ष­मे­वे­त्याह —
अपिचेति ।

विमतं सकर्तृकं, कार्यत्वात् , घटवदित्याह —
यादृशमिति ।

घटस्य सकर्तृकत्वेऽपि क्षित्या­दे­स्त­न्नेति व्यव­स्था­मा­श­ङ्क्याह —
दृष्टेति ।

न केव­ल­म­नु­मा­ना­ज्ज­गतो व्याक्रिया साध्यक्षा किन्तु छान्दो­ग्य­श्रु­ते­र­पी­त्याह —
श्रुत्यन्तरमिति ।
बृह­दा­र­ण्य­का­पे­क्ष­या­न्त­र­शब्दः ।

श्रुत्य­नु­मा­नाभ्यां जगतः सकर्तृकत्वे कर्मकर्तरि लका­र­श्रु­ति­र­यु­क्ते­त्या­श­ङ्क्याह —
व्याक्रियत इति ।

तत्र सम्प्र­ति­प­त्त्त्यर्थं दृष्टान्तमाह —
यथेति ।

कर्मकर्तरि लकार इत्येतदुक्तं, कर्म­ण्ये­वा­सा­वि­त्याह —
यद्वेति ।

कथं तर्हि जगतः सकर्तृकत्वं, तत्राह —
अर्थेति ।

तत्रापि लोकसिद्धं दृष्टान्तमाह —
यथेति ।
तदेवं श्रुती­ना­म­वि­गा­ना­द्ब्र­ह्मणि गतिसामान्यं सिद्धम् ॥ १५ ॥

बहूनां शब्दानां मिथो विरु­द्धा­र्था­ना­म­वि­रो­धे­नै­क­का­र­णा­र्थ­त्व­व­दे­कस्य शब्द­स्या­ने­का­र्थस्य विशेषार्थत्वेन वाक्यस्य कारणपरत्वमाह —
जगदिति ।

अधिकरणस्य विषयमाह —
कौषीतकीति ।

श्रुतिं दर्श­य­न्न­जा­त­श­त्रू­क्ति­माह —
यो वा इति ।
एते­षा­मा­दि­त्या­दी­नाम् ।

न केवलं जगदेकदेशस्य कर्ता किन्तु जगतः सर्वस्येत्याह —
यस्येति ।

सामा­न्य­वि­शे­षा­र्थ­वा­क्याभ्यां जगत्कर्ता ततो निष्कृष्टो द्रष्टव्य इत्याह —
स इति ।

कर्मशब्दस्य रूढियोगाभ्यां संशयमाह —
तत्रेति ।

विमृश्य पूर्वपक्षमाह —
किमिति ।

प्राणस्य प्रथमप्राप्तौ हेतुं पृच्छति —
कुत इति ।
एकवाक्ये सति सच्छ­ब्दा­द­स­च्छब्दो नीतः, वाक्यभेेदे कर्मशब्दो ब्रह्मशब्दान्न शक्यो नेतुम् ।

अत्रा­प्ये­क­वा­क्यत्वे यथो­त्त­र­स­च्छ­ब्दा­त्प्रा­ची­नोऽ­स­च्छब्दो नीत­स्त­थो­त्त­र­क­र्म­श­ब्दा­द्ब्र­ह्म­श­ब्दस्य नयनमिति मत्वा हेतुमाह —
यस्येति ।
क्वाचि­त्क­है­र­ण्य­ग­र्भ­म­त­द्यो­ति­क­र्म­श­ब्दस्य ब्रह्मा­नु­गु­ण्यो­क्ति­द्वारा गतिसामान्यं संसाध्य सम­न्व­य­सा­ध­ना­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे प्राण­जी­वा­न्य­त­रस्य वेदितव्यतया ब्रह्मणि गति­सा­मा­न्या­सिद्धिः, उत्तरत्र परस्यैव तथा­त्वा­त्त­त्सि­द्धि­रिति फलम् ।

श्रुतेऽपि कर्मशब्दे कथं प्राण­धी­र­न्य­त्रापि तद्योगात् , तत्राह —
परिस्पन्देति ।

कर्मशब्दस्य क्रिया­दृ­ष्ट­सा­धा­र­ण्या­द­सा­धा­र­ण­प्र­मा­णा­भावे कथं परिस्पन्देन प्राणधीः, तत्राह —
वाक्येति ।
कर­णो­प­र­मा­न­न्त­र्य­म­थ­श­ब्दार्थः ।

प्राणशब्दस्यापि साधा­र­ण्या­द­नि­र्णयं शङ्कित्वोक्तम् —
प्राणेति ।

पुरु­ष­क­र्तृ­त्वे­नो­क्तस्य न प्राणत्वं तस्य तद­क­र्तृ­त्वा­दि­त्या­श­ङ्क्याह —
ये चेति ।

आदित्यादीनां प्राणा­व­स्थाा­वि­शे­षत्वे मानमाह —
कतम इति ।
‘महिमान एवैते’ इत्यादिना पूर्वो­क्त­दे­व­तानां प्रश्न­प्र­त्यु­क्तिभ्यां प्राणत्वोक्त्या तद­व­स्था­त्व­मु­क्त­मि­त्यर्थः ।

वाक्यान्तरे च लिङ्ग­स्या­मू­र्त­र­सस्य त्यदिति परो­क्ष­सू­त्र­त्वो­क्ते­स्त­स्येह त्यदिति प्राणत्वेन प्रत्य­भि­ज्ञा­ना­त्तस्य लिङ्ग­रू­पा­दि­त्या­दि­दे­व­ता­त्व­मि­त्याह —
स इति ।

पक्षान्तरमाह —
जीवो वेति ।

तस्मिन्नमूर्ते कर्म­श­ब्दा­यो­ग­मा­श­ङ्क्याह —
तस्येति ।

तथापि तनुमहिम्नोऽस्य नादि­त्या­दि­क­र्तृ­त्व­मि­त्या­श­ङ्क्या­दृ­ष्ट­द्वारा तद्योगमाह —
सोऽपीति ।

कर्मशब्दस्य साधा­र­ण­स्या­दृ­ष्टा­र्थ­त्व­मु­पेत्य कथं जीवो­क्ति­रि­त्या­श­ङ्क्याह —
वाक्येति ।

तदेव स्फुटयति —
यदिति ।
‘तौ ह सुप्तं पुरु­ष­मा­ज­ग्म­तु­स्त­मे­तै­र्ना­म­भि­रा­म­न्त्र­या­ञ्चक्रे बृहत्पाण्डरवासः सोमराजन्निति स नोत्तस्थौ’ इत्यादिना सम्बो­ध­न­श­ब्दा­श्रु­ते­र­चे­त­न­त्वे­ना­ना­त्मत्वं प्राणा­दे­रु­क्ता­ति­रि­क्त­जी­वो­क्ते­र्वा­क्य­शे­ष­स्त­दर्थः । नहि ततोऽन्यो भोक्ता­स्ती­त्यर्थः ।

इतोऽपि वेदितव्यो जीव एवेत्याह —
तथेति ।

परस्तादिति ।
अन­न्त­र­वा­क्या­पे­क्षया पश्चादिति यावत् । श्रेष्ठी प्रधानपुरुषः। स्वैर्भृत्यैः । उपकरणैरित्येतत् ।

भृत्या वा प्रधा­न­म­श­ना­च्छा­द­ना­दि­नो­प­जी­व­न्ती­त्याह —
यथेति ।
एवं जीवोऽ­प्या­दि­त्या­दिभिः । प्रकाशादिना भोगो­प­क­र­णै­र्भुङ्के ।

भृत्य­व­दा­दि­त्या­द­योऽपि जीवं हवि­र्ग्र­ह­णा­दि­नो­प­जी­व­न्ती­त्याह —
एवमिति ।

‘अथास्मिन्प्राण एवैकधा भवति’ इति प्राणशब्दो जीवे कथं स्यात् , तत्राह —
प्राणेति ।

प्राण­जी­व­यो­र­न्य­त­रस्य वेदि­त­व्य­त्वा­द्ग­ति­सा­मा­न्या­सि­द्धि­रि­त्यु­प­सं­ह­रति —
तस्मादिति ।

‘ब्रह्म ते ब्रवाणि’ इत्युपक्रमात् , उपसंहारे च स्वारा­ज्य­फ­लोक्तेः, सर्व­पा­प्म­दा­ह­लि­ङ्गात् , क्रियत इति कर्मशब्दस्य जगदर्थत्वात् , तत्कर्तृत्वस्य परस्मिन्नेव युक्तत्वात् , पर­मा­त्मै­वा­य­मि­त्या­शङ्क्य बाला­कि­वा­क्या­द­जा­त­श­त्रु­वा­क्य­नि­य­मा­यो­गात् , योगरूढ्योश्च रूढे­र्ब­ली­य­स्त्वात् , फलो­क्ते­श्चो­प­च­रि­ता­र्थ­त्वा­न्मै­व­मि­त्याह —
नेति ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तयति —
एवमिति ।

लिङ्ग­सि­द्धे­री­श्वरे निरस्ते नियमासिद्धिरिति शङ्कते —
कस्मादिति ।

यद्वाक्यशेषे सन्दिग्धं तन्नि­श्चि­ते­नो­प­क्र­मेण नेतव्यमित्याह —
उपक्रमेति ।

तत्सामर्थ्यं दर्श­यि­तु­मु­प­क्र­म­माह —
इहेति ।

तद्वाक्ये ब्रह्म­णो­प­क्र­मेऽपि किमिति राज्ञो वाक्यं तद्विषयं नियम्यते, नहि भ्रान्त­वा­क्या­द­भ्रा­न्त­वाक्यं नियन्तुं शक्यं, तत्राह —
स चेति ।

बालाकिना ब्रह्म नोक्तं चेत्त­स्यै­वो­प­क्रमो विरुध्येत, राज्ञस्तु तथानुपक्रमान्न तद्विरोधः, तेन तद्वा­क्य­स्या­ब्र­ह्मा­र्थ­ते­त्या­श­ङ्क्याह —
तमिति ।

तथापि कथं वेदितव्यस्य ब्रह्मत्वं, तत्राह —
यदीति ।
राज्ञा बाला­के­र­ब्र­ह्म­वा­दिनो विशेषमात्मनो दर्शयता मुख्यं ब्रह्मैव वाच्यम् , अन्यथा स्वस्यापि मृषा­वा­दि­त्वा­त्त­तोऽ­वि­शे­षा­दि­त्यर्थः ।

उप­क्र­म­सा­म­र्थ्य­सि­द्ध­मु­प­सं­ह­रति —
तस्मादिति ।

इतश्चेश्वर एव वेदितव्य इत्याह —
कर्तृत्वं चेति ।

प्राणा­व­स्था­वि­शे­ष­त्वा­दा­दि­त्या­दीनां तस्य तत्कर्तृत्वं युक्तं, भोक्तु­र­प्य­दृ­ष्ट­द्वारा भोगो­प­क­र­णा­दि­त्या­दि­क­र्तृत्वं स्यादि­त्या­शङ्क्य निरङ्कुशं तत्क­र्तृ­त्व­मी­श्व­र­स्यै­वेति विशिनष्टि —
स्वात­न्त्र्ये­णेति ।

किञ्च कर्मशब्दस्य चलनादृष्टयो रूढ­स्या­न्य­त­रा­र्थ­त्वा­नि­य­मात् क्रियत इति जग­द­र्थ­त्वा­त्त­त्क­र्तृ­त्वेन ब्रह्मैव ग्राह्यमित्याह —
यस्येति ।

एतच्छब्दस्य प्रकृ­ता­र्थ­त्वा­त्त­त्स­म­भि­व्या­हृ­त­क­र्म­श­ब्दस्य तद्व­शा­द­न्य­त­रा­र्थ­त्व­धी­रि­त्या­श­ङ्क्याह —
तयोरिति ।

उपपदाभावाच्च तस्य नान्य­त­रा­र्थ­ते­त्याह —
असं­श­ब्दि­त­त्वा­च्चेति ।

एतच्छब्देन प्रकृतगामिना प्रकृ­त­त्वा­त्पु­रुषा एव परामृश्यन्ते न जग­दि­त्या­श­ङ्क्याह —
नापीति ।

तदनुक्तौ हेत्वन्तरमाह —
लिङ्गेति ।
पुरुषाणां बहु­त्वा­त्पुं­लि­ङ्ग­श­ब्द­वा­च्य­त्वात् , एतदित्येकस्य नपुंसकस्य चोक्तेर्न पुरु­षो­क्ति­रि­त्यर्थः ।

पुरुषाणां पृथक्कथनेऽपि तद­र्थ­क्रि­या­या­स्त­त्फ­लस्य च कार्य­ज­न्म­नोऽ­नु­क्त­त्वा­दे­त­त्क­र्मेति तदुक्तौ न पौन­रु­क्त्य­मि­त्या­श­ङ्क्‌याह —
नापीति ।
क्रियातत्फले कर्तारं वदता कर्तृ­श­ब्दे­नै­वा­क्षिप्ते । ताभ्यां कर्तु­र­व­च्छे­दा­दि­त्यर्थः ।

परि­शे­ष­सि­द्ध­म­र्थ­माह —
पारिशेष्यादिति ।

तस्य कथं कर्मशब्दत्वं, नहि तच्चलनमदृष्टं वा, तत्राह —
क्रियत इति ।

प्रक­र­णो­प­प­द­यो­र­स­त्त्वा­वि­शेषे सर्व­ना­म­स­मा­ना­धि­कृ­त­क­र्म­श­ब्दस्य कर्म­व्यु­त्पत्त्या कुतो जगदर्थतेति शङ्कते —
नन्विति ।

सर्वनाम्नः संन­नि­हि­ता­र्थ­त्वा­दु­प­प­दा­द्य­भावे विशेषे सङ्को­चा­यो­गा­दे­त­च्छ­ब्द­स­हि­त­क­र्म­श­ब्देन जग­दे­वो­क्त­मि­त्याह —
सत्यमिति ।

किञ्चा­प्र­कृ­त­त्व­मपि जगतो नास्ति, तदेकदेशानां पुरुषाणां प्रकृ­त­त्वा­त्त­द्वारा कृत्स्न­ज­ग­दु­क्ति­यो­गा­दि­त्याह —
पूर्वत्रेति ।

तर्हि तन्मात्रमेव सर्वनाम्नां ग्राह्यं, श्रुतिलक्षणयोः श्रुते­रौ­चि­त्या­दि­त्या­शङ्क्य तद­त्या­गा­न्मै­व­मि­त्याह —
अविशेषितमिति ।

तर्हि सर्वनाम्ना जगद्ग्राहिणा पुरुषाणामपि ग्रहा­दे­ते­षा­मि­त्या­दि­पृ­थ­गु­क्ति­र­न­र्थि­के­त्या­श­ङ्क्याह —
एतदिति ।
यस्य कृत्स्नं जगत्कर्म स वेदितव्य इति सम्बन्धः ।

वाश­ब्दा­द्वे­दि­तृ­वि­कल्पं प्रत्याह —
वाशब्द इति ।

तथापि ‘पुरुषाणां कर्ता यस्य वैतत्कर्म’ इति कुतो भेदोक्तिः, जग­त्क­र्तृ­त्वो­क्ते­रे­वा­दि­त्या­दि­क­र्तृ­त्व­सि­द्धे­रि­त्या­श­ङ्क्याह —
य इति ।

उक्त­न्या­या­त्क­र्म­श­ब्दस्य जगदर्थत्वे वाक्या­र्थ­मु­प­सं­ह­रति —
एवमिति ।
ब्रह्माणा भोजयितव्याः परि­व्रा­ज­का­श्चे­त्युक्ते सामा­न्य­वि­शे­षाभ्यां संनि­हि­त­स­र्व­ब्रा­ह्म­ण­ग्र­ह­ण­व­द­त्रापि व्यपदेशाभ्यां सर्वजगत्कर्ता वेदि­त­व्य­त्वे­नोक्त इत्यर्थः ।

तथापि कथं वाक्यस्य ब्रह्म­प­र­त्व­म­प­र­स्यापि जग­त्क­र्तु­र्वे­दि­त­व्य­त्व­यो­गात्‌, तत्राह —
परमेति ।
उप­नि­ष­दा­मै­द­म्प­र्या­लो­च­ना­या­म­न्यस्य सर्व­ज­ग­त्क­र्तृ­त्वा­यो­गा­दत्र कृत्स्न­ज­ग­त्कर्ता वेदितव्यः पर एवेत्यर्थः ॥ १६ ॥

सिद्धा­न्त­मुक्त्वा परोक्तमनूद्य प्रत्याह —
जीवेति ।

अनुवादं विवृणोति —
अथेति ।

सूत्रावयवेन परिहरति —
अत्रेति ।

उक्तमेव सङ्क्षिप्य स्मारयति —
त्रिविधमिति ।

अस्तू­पा­स्ति­त्रै­विध्यं, का क्षतिः, तत्राह —
न चेति ।
उप­क्र­मो­प­सं­हा­रै­क­रू­प्य­सि­द्ध­वा­क्यै­क्य­भ­ङ्गान्न त्रैवि­ध्य­मि­त्यर्थः ।

हेत्व­सि­द्धि­मा­श­ङ्क्यो­क्तम् —
तत्रेति ।

दर्शितम् ।
उप­क्र­म­सा­म­र्थ्या­दि­त्या­दि­नेति शेषः ।

तथापि कथमुपसंहारस्य ब्रह्मार्थत्वं, तत्राह —
उपसंहारस्येति ।
श्रैष्ठ्यं गुणाधिक्यम् । आधि­प­त्य­मै­श्व­र्यम् । स्वारा­ज्य­म­न­न्या­धी­न­त्वम् ।

प्रात­र्द­न­वि­चा­रेण गत­त्वा­द­धि­क­र­ण­मि­द­म­न­र्थ­क­मिति शङ्कते —
नन्विति ।
तत्रो­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­दे­क­वा­क्यत्वे जीवप्राणलिङ्गे ब्रह्मपरतया नीते तुल्यमत्रापि वाक्यैक्यमिति नार्थोऽ­धि­क­र­ण­स्ये­त्यर्थः ।

कर्मशब्दस्यात्र चलनादृष्टयो रूढे­स्त­द्व­शा­द्वा­क्यस्य जीव­प्रा­णा­न्य­त­र­प­र­त्वा­द्वा­क्य­भेदे शङ्किते तन्नि­रा­सा­र्थ­म­धि­क­र­ण­मि­त्याह —
नेत्यादिना ।

तस्मात् ।
अन­न्त­रो­क्ता­द्य­स्ये­त्या­दि­वा­क्या­दिति यावत् । प्रकृताधिकरणं सप्तम्यर्थः ।

यत्तु वाक्यशेषे प्राण­श­ब्दा­न्मु­ख्य­प्रा­णार्थं वाक्यमिति, तत्राह —
प्राणेति ।
मनस्तदुपाधिको जीवः । प्राणबन्धनं परमात्माश्रयः ।

यत्तु वाक्यशेषे जीवलिङ्गं दृष्टमिति, तत्राह —
जीवेति ॥ १७ ॥

जीवलिङ्गेनापि लक्ष्यते प्रत्य­ग्ब्र­ह्मे­त्यु­क्तम् । इदानीं तल्लि­ङ्गा­ज्जी­वो­क्ति­मु­पेत्य वाक्य­ता­त्प­र्य­गम्यं ब्रह्मैवेत्याह —
अन्यार्थं त्विति ।
इतश्च वाक्यं ब्रह्मर्थमेवेति ।

सूत्रं व्याकरोति —
अपि चेति ।

तत्र तुशब्दं व्याकु­र्व­न्प्र­ति­जा­नीते —
नैवेति ।

तत्र हेतु­त्वे­ना­न्या­र्थ­मि­त्यादि विभजते —
यत इति ।

जीवपरामर्शस्य ब्रह्म­प्र­ति­प­त्त्य­र्थत्वे हेतुं पृच्छति —
कस्मादिति ।

सौत्रं पदमादाय प्रश्नं व्याचष्टे —
प्रश्न इति ।
जीवा­धि­क­र­ण­भ­व­ना­पा­दा­न­वि­ष­य­त्वा­ज्जी­वा­ति­रि­क्ता­र्थता प्रश्न­स्ये­त्यर्थः ।

तत्रा­धि­क­र­ण­प्र­श्न­मु­दा­ह­रति —
क्वैष इति ।
हे बालाके, शयनमेतद्यथा तथैव पुरुषः कस्मिन्नधिकरणे स्वापे शयनं कृतवानित्यर्थः ।

भवनायतनं पृच्छति —
क्वेति ।
एतद्भवनं यथा स्यात्तथा क्वाश्रये सुप्तोऽ­भू­दि­त्यर्थः ।

स्वापे­श­य­न­भ­व­न­यो­रा­धारं पृष्ट्वो­त्था­ना­व­स्था­या­मा­ग­म­ना­पा­दानं पृच्छति —
कुत इति ।
एतदागमनं यथा तथा कस्मा­दु­द्बो­ध­द­शा­या­मा­गा­दु­त्थानं कृतवानित्यर्थः ।

व्याख्यानं व्याचष्टे —
प्रतिवचनमिति ।

तत्र प्राण­श­ब्दा­त्कुतो ब्रह्मधीः, तत्राह —
एतस्मादिति ।
सर्व­का­र­ण­त्वो­क्ते­रत्र ब्रह्म सिद्धमित्यर्थः ।

सर्व­वे­दा­न्त­प्र­सिद्धं चैतदित्याह —
सुषुप्तीति ।

उक्त­म­र्थ­मु­प­सं­हा­र­व्या­जे­नो­प­पा­द­यति —
तस्मादिति ।
यतो निःसम्बोधः स्वच्छतारूपः स्वापो विक्षेपाभावात् , सोऽस्य जीवस्य यत्र भवति स परमात्मेति योज्यम् ।

ननु निःसम्बोधित्वं स्वाप­स्या­सिद्धं, ‘नहि द्रष्टुः’ इत्यादिश्रुतेः, तत्राह —
उपाधीति ।
अत एवोक्तं ‘पश्यन्वै तन्न पश्यति’ इति ।

आगत्यपादानमपि ब्रह्मैवेत्याह —
यत इति ।
तद्भ्रंशेत्यत्र तच्छब्दः स्वापार्थः ।

न केवलं कौषीतकिनां प्रश्नादिना जीवा­ति­रि­क्ता­म्नानं किन्तु वाज­स­ने­यि­ना­म­पी­त्याह —
अपिचेति ।
तदेति स्वापोक्तिः ।

नन्वाकाशस्तत्र शयनस्थानमुक्तं न ब्रह्म, तत्राह —
आकाशेति ।

इतश्च प्रत्यु­क्ते­र्ब्र­ह्मा­र्थ­ते­त्याह —
सर्व इति ।

जीवनिरासतया सूत्रं व्याख्याय प्राणनिरासेऽपि तस्य तात्पर्यमाह —
प्राणेति ।
अस्मिन्वाक्ये प्राणो­प­दे­श­म­न्या­र्थ­मे­वा­ति­रि­क्ता­त्म­प्र­ति­प­त्त्यर्थं जैमिनिर्मन्यते । प्राणा­ति­रि­क्ता­ज्जी­वा­दपि व्यति­रि­क्ता­र्था­भ्या­मु­क्त­प्र­श्न­प्र­त्यु­क्तिभ्यां प्राणमात्रे वाक्य­स्या­प­र्य­व­सा­नात् । किञ्च वाजसनेयिनोऽपि ‘यत्रैष एतत्’ इत्यादिना प्राणा­दि­व्य­ति­रिक्तं जीवं वदन्तो वाक्यस्य पर­स्मि­न्प­र्य­व­सानं पश्यन्तीति सूत्रस्यात्र योजना । तदेवं जीव­प्रा­णा­ति­रिक्ते ब्रह्मणि दर्शि­त­वा­क्या­न्व­या­द­न­प­वादं वेदान्तानां ब्रह्मणि गतिसामान्यमिति ॥ १८ ॥

जीवे­त­र­प­र­वि­ष­यत्वे प्रश्नादिना वाक्यस्योक्ते जीव­प­र­भे­द­मा­श­ङ्क्या­त्म­श­ब्दो­प­क्रा­न्तस्य ब्रह्म­ध­र्म­व­त्तया मैत्रे­यि­ब्रा­ह्मणे निर्दे­शा­दौ­पा­धिको भेदो वास्त­व­मै­क्य­मि­त्याह —
वाक्येति ।

विष­य­वा­क्य­मा­दत्ते —
बृहदिति ।

आत्मशेषत्वेन पत्यादेः सर्वस्य प्रिय­त्वा­द­न­न्या­र्थ­तया निरु­पा­धि­प्रि­य­त्वे­ना­न­ति­श­या­न­न्द­स्या­त्मनो ज्ञातव्यत्वं मत्वाह —
न वा इति ।

आत्मनो दर्श­न­यो­ग्य­ता­मुक्त्वा तद्दर्शनमनूद्य तद्धे­तु­त्वे­ना­ङ्गा­ङ्गि­तया श्रवणादिनि दर्शयति —
आत्मेति ।

आत्मवेदने वेदि­त­व्या­न्त­रा­भा­वा­त्कृ­त­कृ­त्य­ते­त्याह —
आत्मन इति ।

उक्त­वा­क्य­स्थ­मा­त्मा­न­म­धि­कृत्य संशयमाह —
तत्रेति ।

प्रश्नपूर्वकं जीव­ब्र­ह्म­लि­ङ्ग­द­र्शनं संशयहेतुमाह —
कुत इति ।
प्रियसंसूचितेन पतिजायादिभिः प्रियै­र्भौ­ग्यै­र­नु­मि­तेन भोक्त्रेत्यर्थः ।

विमृश्य पूर्वपक्षयति —
किं तावदिति ।

सत्युभयलिङ्गे विशेषदृष्टौ हेतुं पृच्छति —
कस्मादिति ।

ब्रह्मो­प­क्र­मा­त्त­त्प­र­त्व­व­द­त्रापि जीवो­प­क्र­मा­त्त­त्प­र­ते­त्याह —
उपक्रमेति ।
मैत्रे­यी­ब्रा­ह्म­णस्य जीवमात्रत्वं निषिध्य ब्रह्म­ण्य­न्व­योक्त्या गति­सा­मा­न्य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे ब्राह्मणस्य भोक्त्रर्थतया गति­सा­मा­न्या­सिद्धौ ब्रह्म­का­र­ण­त्वा­सिद्धिः, सिद्धान्ते तस्य प्रत्य­ग्ब्र­ह्मा­र्थ­त्वेन गति­सा­मा­न्य­सि­द्धे­स्त­त्सि­द्धि­रिति फलभेदः ।

उप­क्र­म­सा­म­र्थ्य­मेव स्फुट­य­न्नु­प­क्रमं दर्शयति —
पतीति ।
जीव­स्यो­प­क्रा­न्त­त्वेऽपि परस्य द्रष्ट­व्य­त्व­मा­शङ्क्य तत्सामर्थ्यं कथयति । अनन्तरमिति । अन्यस्य दर्श­ना­द्यु­क्ता­वु­प­क्रमो भज्येतेत्यर्थः ।

इतश्च जीवस्यैव द्रष्ट­व्य­ते­त्याह —
मध्येऽपीति ।
इदं प्रत्यक्तत्वम् । महदनवच्छिन्नम् । भूतं परमार्थसत्यम् । अनन्तं नित्यम् । अपारं सर्वगतम् । विज्ञानघनो विज्ञानमात्रम् । तत्र जात्य­न्त­रा­सं­मि­श्र­त्व­मे­वार्थः । स वै तेभ्यः कार्य­का­र­णा­का­र­प­रि­ण­ते­भ्योऽ­वि­द्या­भू­तेभ्यो भूतेभ्यः साम्येनोत्थाय जीवत्वमनुभूय तान्येव भूतानि ज्ञाना­द्वि­न­श्य­न्त्यनु पश्चाद्विनश्यति विशेषात्मत्वं त्यजति । नच तत्त्या­गा­न­न्त­र­मस्य रूपा­दि­धी­र­स्ती­त्यर्थः ।

ब्रह्मणो द्रष्टव्यत्वे तस्य जीव­त्वे­नो­त्था­नो­क्ते­र­यो­गा­त्त­स्यै­वात्र द्रष्टव्यतेति वाक्यार्थं सङ्गृह्णाति —
प्रकृतस्येति ।

ज्ञान­क­र्तृ­त्वो­क्ते­रु­प­क्र­मा­दि­व­दु­प­सं­हा­र­स्यापि जीवपरत्वमाह —
तथेति ।

जीवपक्षे कथमेकविज्ञानेन सर्व­वि­ज्ञा­न­मि­त्या­श­ङ्क्यो­प­क्र­मा­दिना तदौ­प­चा­रि­क­मि­त्याह —
तस्मादिति ।
भोक्तुर्भोग्यं प्रति प्राधा­न्या­त्त­ज्ज्ञाने तद्धी­रु­प­च­रि­ते­त्यर्थः ।

आदि­म­ध्या­व­सा­नेभ्यो मैत्रे­यी­ब्र­ह्म­णस्य जीवेऽन्वयान्न ब्रह्मणि गति­सा­मा­न्य­मि­त्ये­त­द­नूद्य सिद्धा­न्त­म­व­तार्य बहिरेव प्रतिजानीते —
एवमिति ।

जीवोपदेशस्य दर्शि­त­त्वा­न्नि­य­मा­सि­द्धि­रि­त्याह —
कस्मादिति ।

नियामकं सूत्र­मा­दा­या­क्ष­राणि व्याचष्टे —
वाक्येति ।

आदिमध्यावसानेषु जीवे भाति ब्रह्म प्रति वाक्य­स्या­न्वि­ता­व­य­वत्वं नेति शङ्कते —
कथमिति ।

जीव­प­रा­म­र्श­स्या­न्य­था­सिद्धिं वक्ष्यमाणां विवक्षित्वाह —
तदिति ।
वित्तेन तत्साध्येन कर्मणेत्यर्थः ।

कर्मसाधनं वित्तं न चेदिष्टं किं तर्हि तवेष्टं , तदाह —
यदेवेति ।
अमृ­त­त्व­सा­ध­न­त्वे­ना­त्म­ज्ञा­न­स्यो­क्ते­रा­त्मनो ज्ञातव्यस्य ब्रह्मतेत्यर्थः ।

अमृ­त­त्वा­यो­क्त­मपि ज्ञानं जीवविषयं स्यादि­त्या­श­ङ्क्याह —
न चेति ।

ब्रह्मज्ञानं विना नामृ­त­त्व­मि­त्यत्र मानमाह —
इति श्रुतीति ।
‘नान्यः पन्था’ ‘न कर्मणा’ इत्यादयः श्रुतिवादाः । ‘ज्ञानादेव तु कैवल्यम्’ इत्यादयः स्मृतिवादाः ।

इतश्च ब्रह्मपरमेव वाक्यमित्याह —
तथेति ।

परस्य पर­म­का­र­ण­त्वा­त्त­ज्ज्ञा­ना­द्युक्तं सर्वज्ञानमिति विशिनष्टि —
परमेति ।

भोक्त्र­र्थ­त्वा­द्भो­ग्य­जा­तस्य सर्वविज्ञानं जीवेऽपि गौणं स्यात्किं मुख्ये­ने­त्या­शङ्क्य प्रति­पा­द­न­वै­य­र्थ्या­न्मै­व­मि­त्याह —
न चेति ।

भेद­दृ­ष्टि­नि­न्दा­पू­र्व­क­म­भेदं वददिदं वाक्य­मे­क­वि­ज्ञा­नेन सर्वविज्ञानं वक्तीति वक्तु­म­स्या­र्थ­माह —
यो हीति ।
जगतो ब्रह्माधीनस्य प्राती­ति­क­म­न्य­त्व­म­नु­ज्ञातुं स्वात­न्त्र्ये­णे­त्यु­क्तम् । पराकरोति पुरु­षा­र्था­त्प­रा­कु­र्यात् । प्रच्यावयेदिति यावत् ।

किञ्चात्मैव जगतस्तत्त्वमिति दृष्टान्तेन वदन्ती श्रुतिरेकधिया सर्वधियं साधयतीत्याह —
दुन्दुभ्यादीति ।
यथा दुन्दु­भे­र्ह­न्य­मा­नस्य यथा शङ्खस्य ध्मायमानस्य यथा वीणायै वाद्यमानायै न बाह्या­ञ्श­ब्दा­ञ्श­क्नु­या­द्ग्र­ह­णा­ये­त्या­दि­दृ­ष्टा­न्तै­र्दु­न्दु­भ्या­दि­श­ब्द­सा­मा­न्या­द्दु­न्दु­भ्या­दि­श­ब्द­भे­दा­भे­दे­ना­गृ­ह्य­माणाः शुक्त्यग्रहे ग्राह्य­र­ज­त­व­त्तत्र कल्पिताः । तथा चिद्रूपस्फुरणं विना स्थितिकाले स्फुरणशून्यं जगच्चिद्रूपे कल्पि­त­मि­त्यै­क्य­मु­क्त­मि­त्यर्थः ।

एकविज्ञानेन सर्व­वि­ज्ञा­न­स्यो­प­पा­द्य­मा­न­त्वा­त्त­द­नौ­प­चा­रि­क­मिति प्रकरणं ब्रह्म­वि­ष­य­मि­त्यु­क्तम् । इदानीं द्रष्टव्यस्य जग­त्का­र­ण­त्वो­क्ते­रपि तद्वाक्यं ब्रह्मा­र्थ­मि­त्याह —
अस्येति ।

किञ्च ‘स यथा सर्वासामपां समुद्र एकायनम्’ इति दृष्टान्तेन ब्रह्मणः सर्व­ज­ग­द­व­सा­न­त्वे­ना­भि­धा­ना­त्त­द्वि­ष­य­मेव द्रष्ट­व्या­दि­वा­क्य­मि­त्याह —
तथेति ।

स्थित्यु­त्प­त्ति­ल­यो­क्त्या­लो­च­नातः सिद्धमुपसंहरति —
तस्मादिति ॥ १९ ॥

उप­क्र­म­सा­म­र्थ्या­ज्जी­वा­र्थत्वं वाक्य­स्यो­क्त­म­नु­व­दति —
यदिति ।

तत्र सूत्र­त्र­य­म­व­ता­र­यति —
अत्रेति ।

प्रथ­म­मा­श्म­र­थ्य­म­त­माह —
प्रतिज्ञेति ।

प्रति­ज्ञा­सि­द्ध्यर्थं प्रतिज्ञामाह —
अस्तीति ।
अत्रेति प्रकृ­त­ब्रा­ह्म­ण­वा­क्योक्तिः ।

तदर्थं प्रति­ज्ञा­न्त­र­माह —
इदमिति ।

ऐक्यप्रतिज्ञया सर्वविज्ञाने विवक्षितेऽपि जीवोपक्रमस्य किं जातं, तदाह —
तस्या इति ।

तदेव व्यतिरेकद्वारा स्पष्टयति —
यदीति ।

‘प्रित­ज्ञा­सि­द्धे­र्लि­ङ्गम्’ इति व्याख्या­या­व­शिष्टं व्याख्या­स्य­न्नु­प­सं­ह­रति —
तस्मादिति ।
भेदो­भे­द­वा­द­द्यो­त­ना­या­भे­दां­शे­ने­त्यु­क्तम् ॥ २० ॥

मतान्तरमाह —
उत्क्रमिष्यत इति ।

विभजते —
विज्ञानेति ।

मुक्तावेवाभेदः संसारे भेद एवे­त्यु­क्तेऽर्थे मानमाह —
श्रुतिश्चेति ।

अभिन्नस्यापि जीव­स्यौ­पा­धि­क­भे­द­वि­ग­मा­द­भि­नि­ष्प­त्ति­रौ­प­चा­रि­की­त्या­शङ्क्य नाम­रू­पा­श्र­य­त्व­का­लु­ष्यस्य श्रुत्यन्तरे स्वाभाव्योक्तेः । साध्य एवाभेदो न स्वभावत इत्याह —
क्वचिदिति ।

उक्तं कालुष्यमपि किमित्यौपचारिकं न स्यादि­त्या­शङ्क्य वाक्ये दृश्यमानमर्थमाह —
यथेति ।

नदीनां नाम­रू­पा­श्र­य­त्वेऽपि कुतो जीवस्य तदाश्रयत्वं, तत्राह —
दृष्टान्तेति ॥ २१ ॥

सिद्धान्तमाह —
अवस्थितेरिति ।

सूत्रं व्याचष्टे —
अस्यैवेति ।
जीव­प­र­यो­र­भे­दा­ज्जी­वे­नो­प­क्रमः परेणैवोपक्रमः । भोक्त्रो­प­क्र­मश्च स्थूल­द­र्शि­लो­क­सौ­क­र्या­येति भावः ।

परस्यैव जीवेनावस्थाने मानमाह —
तथाचेति ।

न केवलं ब्राह्मणं परापरयोरैक्यं दर्शयति किन्तु मन्त्रश्चेत्याह —
मन्त्रेति ।
धीरः सर्वज्ञः सर्वाणि रूपाणि चराचराणि शरीराणि विचित्य निर्माय तेषां नामानि च कृत्वा स्वयं तत्रा­नु­प्र­वि­श्या­भि­व­द­नादि कुर्वन्यो वर्तते तमेवंभूतं विद्वा­नि­है­वा­मृतो भवतीति मन्त्रोऽपि परस्यैव जीवेन स्थिति­मा­हे­त्यर्थः ।

तेजः­प्र­भृ­ती­ना­मिव जीवस्य ब्रह्म­का­र्य­त्वा­द्ब्र­ह्म­ज्ञाने सर्व­ज्ञा­न­सि­द्धे­रा­त्य­न्ति­क­मैक्यं श्रुत­म­प्यु­क्त­मि­त्या­श­ङ्क्याह —
न चेति ।

समी­ची­न­स­ङ्ग्र­हार्थं पक्षत्रयं विभजते —
काशेति ।

आश्म­र­थ्य­प­क्षेऽपि तुल्यं जीवस्य परस्मादनन्यत्वं नेत्याह —
आश्मरथ्यस्येति ।
अभे­द­व­द्भे­द­स्यापि भावा­त्कि­या­न­पी­त्यु­क्तम् ।

आद्यपक्षादपि द्विती­य­प­क्ष­स्या­न­पे­क्षि­त­त्वार्थं तत्रत्यमर्थमाह —
औडुलोमीति ।
अवस्थान्तरे बन्धमोक्षौ ।

संप्र­त्य­न्ति­म­स्या­दे­य­त्व­माह —
तत्रेति ।

इतरस्यापि द्वयस्य दर्शितं श्रुति­मू­ल­त्व­मि­त्या­श­ङ्क्यो­क्त­श्रु­ते­स्त­त्रा­ता­त्प­र्या­न्मै­व­मि­त्याह —
प्रतीति ।
पारो­क्ष्य­स­द्व­य­त्व­नि­वृत्त्या तत्त्व­म­र्थ­यो­रै­क्य­वा­दि­वा­क्या­नु­सा­रि­त्वा­द­न्ति­म­स्या­दे­य­ते­त्यर्थः ।

कथ­मी­दृ­ग्वा­क्या­र्थ­स्ये­ष्टत्वं, तत्राह —
तत्त्वमिति ।

किञ्च भेदा­भे­द­यो­र्व­स्तुत्वे वस्तुभूतभेदस्य ज्ञाने­ना­नु­च्छे­दा­ज्ज्ञा­ना­न्मु­क्ति­श्रु­ति­र­युक्ता स्यात् , तस्मा­दा­त्य­न्ति­क­मै­क्य­मेव तात्त्वि­क­मि­त्याह —
एवं चेति ।
चकारोऽवधारणे ।

जीवस्य ब्रह्म­का­र्य­त्वेऽपि तत्ता­दा­त्म्य­रू­प­म­मृ­तत्वं स्यादि­त्या­श­ङ्क्याह —
विकारेति ।
जीव­स्यो­त्प­त्ति­प्र­लयौ चेत्काण्डद्वयं विरुध्येतेति भावः ।

नदीदृष्टान्तेन स्वगतं नामरूपमन्यथा दृष्टा­न्त­वै­ष­म्या­द­तोऽ­न्य­त्व­म­पी­त्यु­क्त­मि­त्या­स­ङ्क्याह —
अतश्चेति ।
आत्यन्तिकाभेदे ज्ञाना­द­मृ­त­त्व­यो­गा­दि­त्यतः शब्दार्थः । दृष्टा­न्त­श्रु­ते­र­न्य­थापि नेतुं शक्य­त्वा­त्त­द­नु­रो­धा­त्त­त्त्व­मा­दि­वि­रुद्धं न कल्प्यमिति भावः ।

जीव­स्या­ग्नि­वि­स्फु­लि­ङ्ग­दृ­ष्टा­न्ता­त्प्रा­णा­दि­व­ज्ज­न्म­श्रुत्या भेदाभेदपक्षस्य प्रामाणिकत्वं, तत्राह —
अत इति ।
अनौपाधिके जन्मनि ज्ञाना­द­मृ­त­त्वा­सि­द्धे­रे­वे­त्यर्थः ।

द्वितीयं पूर्व­प­क्ष­बी­ज­म­नु­भा­षते —
यदपीति ।

प्रकृ­त­त्रि­सूत्र्या प्रत्याह —
तत्रापीति ।

योजनाप्रकारमेव दर्श­यि­तु­मा­श्म­र­थ्य­म­त­माह —
प्रतिज्ञेति ।

तद्व्याख्या तु प्रति­ज्ञा­स्व­रू­प­माह —
इदमिति ।

आत्मनि विदिते विदितत्वं कथं प्रपञ्चे स्यादिति सन्दिहानं प्रत्याह —
इदं सर्वमिति ।

सर्व­स्या­त्म­मा­त्र­त्व­मु­क्त­मपि कुतो मुख्य­मि­त्या­श­ङ्क्याह —
उपपादितं चेति ।
सर्व­स्या­त्म­मा­त्र­त्व­मिति शेषः ।

उपपादनप्रकारं सूचयति —
एकेति ।
‘स यथा­र्द्रै­धोग्नेः’ इत्या­दि­नै­क­प्र­स­वत्वं, ‘स यथा सर्वासामपाम्’ इत्यादिना चैकप्रलयत्वं सर्वस्योक्तम् । यच्च यस्मादुत्पद्यते यत्र लीयते तत्ततो नातिरिच्यते, यथा घटादि मृदादेः । तस्मा­दा­त्म­प्र­भ­व­त्वा­दा­त्म­प्र­ल­य­त्वाच्च सर्वस्य जग­त­स्त­न्मा­त्र­त्वम् । तथाचात्मधिया सर्वधीरित्यर्थः ।

दृष्टा­न्त­श्रु­ते­रपि सर्वस्य कार्य­प्र­प­ञ्च­स्या­त्म­मा­त्र­त्व­सि­द्धे­र्मु­ख्य­मेव प्रति­ज्ञा­त­मै­क्य­मि­त्याह —
दुन्दुभ्यादीति ।

प्रतिज्ञां व्याख्या­या­व­शिष्टं व्याचष्टे —
तस्या इति ।

प्रतिज्ञां घटयितुं परस्य जीवत्वेनोत्थानं किमित्युच्यते, तत्राह —
अभेदे हीति ।

मतान्तरमाह —
उत्क्रमिष्यत इति ।

सिद्धान्तमाह —
अवस्थितेरिति ।

परा­प­र­यो­र­भे­दा­भि­धा­न­मि­द­मि­त्यु­क्त­मा­क्षि­पति —
नन्विति ।

विना­शो­क्ते­र्वि­ष­या­न्त­र­स­म्भ­वा­दा­त्मन उच्छे­दा­वि­ष­य­त्वा­द्यु­क्त­म­भे­दा­भि­धा­न­मि­त्याह —
नेति ।

अवि­शे­ष­श्रु­ते­र्वि­शे­षा­र्थत्वे नियामकमाह —
अत्रेति ।
मोहं मोहनं वाक्यमिति यावत् । अविनाशीति विना­शा­यो­ग्य­त्व­म­नु­च्छि­त्ति­ध­र्मेति विना­शा­या­गि­त्व­मु­क्त­मिति भेदः ।

कथं तर्हि ‘न प्रेत्य' इत्यादि, तत्राह —
मात्रेति ।

कथमेतावता मिथो­वि­रो­ध­स­मा­धि­रि­त्या­शङ्क्य श्रुति­ता­त्प­र्य­माह —
एतदिति ।

तृतीय पूर्व­प­क्ष­बी­ज­म­नु­व­दति —
यदपीति ।
उप­सं­हा­रा­त्क­र्तृ­त्वस्य च विज्ञा­ना­त्म­न्येव सम्भवादिति शेषः ।

भेदाभेदवादे जीवस्येश्वरेण भिन्ने­ना­व­ग­ति­यो­गात् ‘विज्ञातारमरे केन’ इत्या­क्षे­पा­यो­गा­द­त्य­न्ता­भेदे कर्म­क­र­ण­यो­र­भा­वा­दा­क्षे­प­सि­द्धे­र­न्ति­म­प­क्ष­स्यै­क­दे­य­त्व­मि­त्यु­त्त­र­माह —
तदपीति ।
तन्मते जीव­प­र­यो­र­भे­दा­ज्जी­वस्य भ्रान्तं ज्ञातृत्वं भूतपूर्वगत्या तृज­न्ते­नो­क्त­मिति भावः ।

श्रुति­पौ­र्वा­प­र्या­लो­च­ना­या­मपि जीवस्य भ्रान्तं ज्ञातृ­त्व­मि­त्याह —
अपि चेति ।

अन्व­य­व्य­ति­रे­काभ्यां द्वैत­दृ­ष्टे­रा­वि­द्य­क­त्वेऽपि प्रत्य­ग्दृ­ष्टि­र­वि­द्या­न­पे­क्षे­त्या­श­ङ्क्याह —
पुनश्चेति ।
एकस्यैव कर्म­क­र्तृ­त्व­वि­रो­धा­दि­त्यर्थः ।

विज्ञा­ता­र­मि­त्या­दि­वा­क्य­स्या­न्य­प­रत्वे फलितमाह —
ततश्चेति ।

ननु पक्षेषु त्रिषु सत्सु काशकृत्स्नस्यैव पक्षे पक्षपाते को हेतुः, तत्राह —
दर्शितं त्विति ।

तस्य श्रुतिमत्त्वे फलितमुपसंहरति —
अतश्चेति ।

उक्ता­र्थ­स्यो­प­ग­न्त­व्यत्वे श्रुति­स्मृ­ति­मत्त्वं पुनरुपन्यस्यति —
सदित्यादिना ।

इतोऽपि परापरयोराविद्यो भेदो न पारमार्थिक इत्याह —
भेदेति ।

भेदाभेदवादेऽपि सर्व­मे­त­द­भे­दां­शा­द्यु­क्त­मि­त्या­शङ्क्य तत्पक्षे जीवस्य कार्य­त्वा­दा­त्म­वि­क्रि­या­नि­षे­ध­वि­रोधः स्यादित्याह —
स वा इति ।

अभेदांशेन निषे­धा­दि­सि­द्धे­रे­त­दपि मतद्वयं श्रुति­म­दे­वे­त्या­शङ्क्य तत्पक्षे वैदि­का­त्मै­क्य­धियो निर­प­वा­द­त्वा­यो­गा­न्मु­क्ते­र­सि­द्धि­रि­त्याह —
अन्यथेति ।

भिन्ना­भि­न्न­त्व­मिति निश्चितार्था धीर­न­प­वा­दे­त्या­शङ्क्य भेदा­भे­द­यो­र्वि­रो­धा­द­स­मु­च्च­या­दे­कस्य बलीयस्त्वे तदितरज्ञानस्य बाधातुल्यबलत्वे संश­या­न्नि­र­प­वा­द­त्वा­सि­द्धि­रि­त्याह —
सुनिश्चितेति ।

ज्ञानं सिध्यति चेत्तावतैव पुमर्थसिद्धौ कृतं निर­प­वा­द­त्वे­ने­त्या­श­ङ्क्याह —
निरपवादं हीति ।

न केव­ल­म­ङ्गी­का­र­मात्रं, श्रुत्यनुकूलं चैतदित्याह —
वेदान्तेति ।
ये यतयो यतनशीला नियतबाह्यकरणाः श्रुद्ध­बु­द्ध­यश्च ते विष­य­वै­तृ­ष्ण्य­द्वारा सर्व­क­र्म­सं­न्या­स­पू­र्व­क­श्र­व­णा­द्य­नु­ष्ठा­न­रू­पा­द्यो­गा­भ्या­सा­द्वे­दा­न्त­क­र­ण­क­सा­क्षा­त्का­रा­द­प­रो­क्षी­कृ­ता­त्मानो मुच्यन्त इत्यर्थः ।

इतश्चैकमेव तत्त्वं नानेकमपीत्याह —
तत्रेति ।
एक­त्व­मा­चा­र्यो­प­दे­श­म­नु­प­श्यतः शोक­मो­हो­प­ल­क्षि­त­स­र्वा­न­र्थो­प­शा­न्ति­रिति श्रूयते न त्वेक­त्व­ना­नात्वे अनुपश्यत इति श्रुतिरित्यर्थः ।

निर­प­वा­द­मे­वा­त्मा­प­रोक्ष्यं मोक्षा­पे­क्ष­मि­त्यत्र स्मृतिमाह —
स्थितेति ।
नहि भेदाभेदवादे स्मृतिसिद्धा स्थितप्रज्ञता ब्रह्मैवास्मीति ज्ञान­स्थै­र्या­यो­गा­द­ब्र­ह्म­त्व­स्यापि तद्विषयत्वात् । तस्मा­दे­क­त्व­मै­का­न्ति­क­मि­त्यर्थः ।

अस्तु तर्हि परा­प­र­यो­र्ना­म­भे­दा­द­वि­द्या­व­त्त्व­त­द­भा­वाभ्यां रूपभेदाच्च घट­प­ट­दि­व­द्भे­द­भावः संसा­रा­व­स्था­या­मिति, नेत्याह —
स्थिते चेति ।
आत्यन्तिकभेदे जीवस्य पूर्व­सि­द्ध­ब्र­ह्म­त्वा­यो­गा­त्को­श­का­रा­दी­ना­मपि पूर्व­सि­द्ध­की­ट­त्वा­नु­प­ग­मा­त्त­त्स­दृ­श­स्यै­वो­त्प­त्ते­र्मो­क्षा­सिद्धिः । नच बिम्ब­प्र­ति­बि­म्ब­व­दु­पा­धि­क­ल्पि­त­भे­द­यो­स्ता­त्त्बि­क­मैक्यं प्राती­ति­क­वि­रु­द्ध­ध­र्मा­ध्या­सेन शक्यं बाधितुमिति भावः ।

निर्ब­न्ध­नै­र­र्थक्ये हेतुः —
एको हीति ।
नामग्रहणं रूपोपलक्षणम् । इति­श­ब्दा­दु­प­रि­ष्टा­द्य­स्मा­दर्थो हिशब्दः सम्बन्धनीयः ।

ननु ‘यो वेद निहितं गुहायाम्’ इति परस्य गुहा­हि­त­त्व­श्रु­ते­स्त­स्या­स्फु­ट­त्वा­त्त­द्वि­प­री­ता­ज्जी­वा­द्भेदः स्यात् , नेत्याह —
नहीति ।
गुहा­श­ब्दे­ना­वि­द्या­न्तः­क­र­ण­यो­र्ग्र­ह­णा­त्तत्र जीवभावेन प्रतिबिम्बितस्य ब्रह्मणः स्फुटत्वेऽपि बिम्ब­स्था­नी­य­स्या­स्फु­टत्वं तस्यैव न विरु­ध्य­तेऽ­वि­द्यौ­श­क्ते­र­घ­ट­मा­न­प­टी­य­स्त्वा­दिति भावः ।

काञ्चि­दे­वै­का­मिति ।
जीवभावेन प्रति­बि­म्बा­धा­रा­ति­रि­क्ता­मि­त्यर्थः ।

अस्तु तर्हि ब्रह्म­णोऽ­न्य­दे­वा­न्तः­क­र­णादि गुहां प्रविष्टं, नेत्याह —
नचेति ।

श्रोत्रा­का­श­यो­रिव जीव­ब्र­ह्म­णो­र­ङ्गा­ङ्गि­भा­वा­द­भे­द­व­द्भे­दोऽपि स्यात् । अन्यथा जीवमुद्दिश्य ब्रह्म­वि­धा­ना­यो­गात् । अतस्तत्त्वमिति सामानाधिकरण्यं भेदा­भे­द­वि­ष­य­मि­त्या­श­ङ्क्याह —
ये त्विति ।
कार्य­का­र­ण­त्वं­शू­न्य­द्र­व्य­यो­रु­द्दे­श्ये­पा­दे­य­त्वेन सामानाधिकरण्यं सोऽय­मि­ति­व­दे­क­स्यैव द्रव्य­स्यौ­पा­धि­क­भे­दा­पेक्षं न द्रव्य­भे­द­मा­का­ङ्क्षति । नच ब्रह्मणोंऽशो जीवः, निष्फलश्रुतेः । न च श्रोत्रस्य कर्ण­ने­मि­म­ण्ड­ला­व­च्छे­देऽपि नभ­सोंऽ­श­त्व­म­व­च्छे­द­का­भावे तन्मात्रत्वात् । अतो जीवस्यापि ब्रह्मां­श­त्वा­भा­वान्न भिन्ना­भि­न्न­त्वम् । नच भेदः शास्त्रार्थः, लौकिकत्वात् । अभेदस्य त्वैकान्तिकस्य शास्त्री­य­त्वा­त्त­द­नु­प­गमे सम्यग्धीरेव मुक्ति­हे­तु­र्बा­धिता स्यादिति भावः ।

कर्मैव मुक्तिहेतुरिति कृतं सम्य­ग्धि­ये­त्या­श­ङ्क्याह —
कृतकमिति ।

कृतकत्वेऽपि ध्वंस­व­न्नि­त्य­ते­त्या­श­ङ्क्याह —
न्यायेनेति ।
मोक्षो निर­ति­श­या­न­न्द­त्वेन भाव­त्वा­त्कृ­त­क­श्चे­द­नित्यः स्यात् , एवं बन्धध्वंसतया तस्याभावत्वेऽपि कृतकत्वे कथं नानित्यता । ध्वंसध्वंसे च ध्वस्ता­ध्व­स्ते­र्ब­न्धस्य पुन­रु­त्प­त्ता­व­पु­न­रा­वृ­त्ति­श्रु­ति­र्वि­रु­ध्येत । नच ध्वंसध्वंसेऽपि कारणाभावान्न ध्वस्तस्य पुन­रु­त्प­त्ति­स्त­द्ध्वं­सस्य प्रति­यो­गि­भे­देऽ­न­व­स्था­नात् , तदभेदे च तदु­त्प­त्ते­रा­व­श्य­क­त्वात् । अतो न कर्मसाध्या मुक्तिः । न चास्मन्मते बन्धध्वंसोऽपि वस्तु­व्य­ति­रि­क्तोऽ­स्तीति भावः । तदेवं प्रत्यग्भूते ब्रह्मणि मैत्रे­यी­ब्र­ह्म­ण­म­न्वि­त­मि­त्यु­प­सं­ह­र्तु­मि­ती­त्यु­क्तम् ॥ २२ ॥

यत्प्र­ति­ज्ञा­ब­ला­न्मै­त्रे­यी­ब्रा­ह्म­णस्य ब्रह्मपरत्वं तस्मा­दे­वो­पा­दा­नत्वं ब्रह्मणः साधयति —
प्रकृतिश्चेति ।

व्यव­हि­त­स­म्ब­न्धा­द­पौ­न­रुक्त्यं वक्तुं वृत्तं कीर्तयति —
यथेति ।

सदृ­ष्टा­न्त­मा­द्य­सू­त्रा­र्थ­म­नूद्य ब्रह्मलक्षणस्य कारणत्वस्य द्विती­य­सू­त्रा­र्थस्य विचारप्रतिज्ञया सङ्गतिमाह —
ब्रह्म चेति ।

ब्रह्म­का­र­ण­त्वा­र्था­धि­क­र­णस्य कार­ण­वि­शे­ष­वि­चा­रस्य च सम्ब­न्धो­क्ति­पू­र्व­क­म­व­शि­ष्ट­म­र्थ­मा­च­क्षाणः सनिमित्तं संशयमाह —
तच्चेति ।
जन्मादिसूत्रे त्वेत­द­धि­क­र­ण­सि­द्ध­व­त्का­रे­णो­भ­य­का­र­ण­त्वोक्तिः, तद­न­न्त­र­म­स्या­र­भ्य­त्वेऽपि निर्णी­त­ता­त्प­र्यै­र्वे­दा­न्तै­र्नि­मि­त्त­त्व­मा­त्र­सा­ध­का­नु­मि­ते­र्वि­रो­धोक्तिः सुकरेति समन्वयावसाने लिखि­त­मे­त­द­धि­क­र­ण­मुक्ते विषये समन्वयो दुःसाध्य इति कारणतामात्रं तत्रोक्तमिति भावः । ब्रह्म­ल­क्ष­ण­स्या­ध्या­या­दि­स­म्ब­न्धा­द­स्यापि तद्यो­गि­न­स्त­त्सिद्धिः । पूर्वपक्षे प्रति­ज्ञा­गौ­णत्वं सिद्धान्ते तन्मुख्यत्वं फलमिति ।

समा­न­ध­र्म­दृष्ट्या विमर्शमेव विशदयति —
किमिति ।

प्रतिज्ञाया मुख्यत्वेन वाक्यस्य जीवपरत्वे परास्ते निमि­त्तो­पा­दा­न­भे­दा­द्गौणी सेति पूर्वपक्षयति —
तत्रेति ।

एवकारार्थं स्फुटयति —
केवलमिति ।

तत्र मानं पृच्छति —
कस्मादिति ।

न ब्रह्म कार्य­द्र­व्यो­पा­दानं, चेत­न­त्वा­त्क­र्तृ­त्वाच्च, कुला­ला­दि­व­दि­त्याह —
ईक्षेति ।

हेतुद्वयं श्रुत्या स्फुटयति —
ईक्षेत्यादिना ।

ब्रह्म­ण­श्चे­त­नस्य कर्तुरेव कार्य­द्र­व्यो­पा­दा­नत्वे किं बाध­क­मि­त्या­शङ्क्य कुलालादेरपि तत्प्र­स­क्ति­रि­त्याह —
ईक्षेति ।

अनुमानान्तरं वक्तुं या द्रव्योत्पत्तिः सा भिन्न­नि­मि­त्तो­पा­दा­न­पूर्वा, यथा घटा­द्यु­त्प­त्ति­रिति व्याप्तिमाह —
अनेकेति ।

जग­द्द्र­व्यो­त्प­त्ति­र्भि­न्न­नि­मि­त्तो­पा­दा­न­पूर्वा, द्रव्यो­त्प­त्ति­त्वात् , घटो­त्प­त्ति­व­दि­त्य­नु­मि­नोति —
स चेति ।

न ब्रह्म कार्य­द्र­व्यो­पा­दानं ईश्वरत्वात् , लौकि­के­श्व­र­व­दि­त्याह —
ईश्वरत्वेति ।

साध्यवैकल्यं प्रत्याह —
ईश्वराणां हीति ।

दार्ष्टान्तिकं निगमयति —
तद्वदिति ।

विम­त­म­चे­त­नो­पा­दानं, कार्य­द्र­व्य­त्वात् , घटवदित्याह —
कार्यं चेति ।

कार्यत्वं साधयति —
सावयवमिति ।

विमतं न ब्रह्मोपादानं, अचे­त­न­त्वा­द­शु­द्ध­त्वाच्च, घटादिवदित्याह —
अचेतनमिति ।

तथापि जगच्चेतनोपादानं किं न स्यात् , तत्राह —
कारणेनेति ।

ब्रह्मैव तर्हि तादृगस्तु, नेत्याह —
ब्रह्म चेति ।
निष्कलं निरवयवम् । निष्क्रियं परि­णा­म­प­रि­स्प­न्द­र­हि­तम् । शान्तं राग­द्वे­षा­दि­शू­न्यम् । निरवद्यं पुण्या­पु­ण्य­व­र्जि­तम् । निरञ्जनं सुख­दुः­खा­दि­भि­र­स्पृ­ष्टम् । आदिशब्देन ‘शुद्ध­म­पा­प­वि­द्धम्’ इत्याद्या श्रुतिरुक्ता ।

ब्रह्मणश्चेन्न जगदुपादानत्वं, तर्हि किं तदुपादानं, नहि निमि­त्त­मा­त्रा­द्भा­व­रूपं कार्यं, तत्राह —
पारिशेष्यादिति ।

तत्र ब्रह्म­ण्यु­क्त­म­सा­रूप्यं नास्तीत्याह —
अशुद्ध्यादीति ।

नच तस्या­प्र­मि­त­त्वा­द­नु­पा­दा­न­त्व­मि­त्याह —
स्मृतीति ।
ब्रह्मो­पा­दा­न­त्वस्य प्रसक्तस्य निषेधे साङ्ख्यी­य­प्र­धा­ना­द­न्य­त्रा­प्र­स­ङ्गा­त्त­देव परिशेषतो जग­दु­पा­दा­न­मि­त्यर्थः ।

‘सदेव’ इत्या­दि­श्रु­ते­स्तर्हि का गति­रि­त्या­श­ङ्क्या­नु­मा­न­वि­रो­धा­द्वि­शेषे सङ्कोच इत्याह —
ब्रह्मेति ।

जन्मा­दि­सू­त्रो­क्त­ल­क्ष­ण­स्या­स­म्भा­वि­त­त्व­मि­ति­श­ब्दो­प­सं­हृ­त­म­नूद्य सिद्धा­न्त­म­व­तार्य प्रतिज्ञां व्याकरोति —
एवमिति ।

उक्तानुमानेषु जीवत्सु नोभयकारणतेति शङ्कते —
कस्मादिति ।

हेतुमादाय व्याचष्टे —
प्रतिज्ञेति ।

एवमिति ।
उभयकारणत्वे सतीति यावत् ।

तयोरनुपरोधं वक्तुं प्रतिज्ञामाह —
प्रतिज्ञेति ।

तद्वाक्यार्थमाह —
तत्रेति ।

तदनुपरोधं स्वमते दर्शयति —
तच्चेति ।

निमि­त्त­का­र­ण­ज्ञा­ना­देव सर्वज्ञानं किं न स्यात् , तत्राह —
निमित्तेति ।

दृष्टा­न्ता­नु­प­रो­ध­माह —
दृष्टान्तोऽपीति ।

मृदि ज्ञातायां तद्विकारणस्य ज्ञेय­त्वे­ना­न­व­शेषे हेतुः —
वाचेति ।

घटा­दे­र्वा­चा­र­म्भ­णत्वं वस्तुतोऽसत्वं साधयति —
नामेति ।

शून्यशेषत्वं निषेधति —
मृत्तिकेति ।

विप­री­त­दृ­ष्टा­न्तोऽपि स्यादिति शङ्कां निरसितुं दृष्टा­न्ता­न्त­रा­ण्याह —
तथेति ।

गति­सा­मा­न्या­र्थ­मा­थ­र्व­ण­गतौ प्रति­ज्ञा­दृ­ष्टा­न्ता­वाह —
तथेति ।

बृहदारण्यकेऽपि तौ निर्दिशति —
आत्मनीति ।
घटः प्रकाशते पटो वेत्य­नु­ग­त­प्र­का­शा­ति­केण घटा­दे­र­सि­द्धे­स्त­त्रैव कल्पि­त­त्वा­त्प्र­का­शोऽ­नु­ग­तोऽ­धि­ष्ठानं प्रकृ­ति­रि­त्य­नु­गतः स दृष्टान्तो यथा तथोच्यते ।

बाह्यान् ।
दुन्दु­भि­श­ब्द­सा­मा­न्य­ब­हि­र्भू­ता­निति यावत् । दुन्दु­भे­स्त­च्छ­ब्द­सा­मा­न्य­स्ये­त्यर्थः । दुन्दु­भ्या­घा­तस्य जनकस्य जन्यतया सम्बन्धी वा शब्दो विशेषशब्द इत्यर्थः ।

वेदान्तत्रयगतं न्यायं वेदा­न्ता­न्त­रे­ष्व­ति­दि­शति —
एवमिति ।

प्रति­ज्ञा­द्य­नु­प­रो­ध­लि­ङ्गा­दु­पा­दा­न­त्व­व­त्प­ञ्च­मी­श्रु­त्यापि तद्धीरित्याह —
यत इति ।
यत इत्यादिश्रुतौ यत इतीयं पञ्चम्यपि प्रकृ­ति­रू­पा­पा­दा­न­एव द्रष्टव्येति सम्बन्धः ।

जाड्याद्बद्ध एवेति निमित्तेऽपि पञ्च­मी­दृ­ष्टेऽ­रु­पा­दा­नत्वं कथं गमयेत् , तत्राह —
जनीति ।
जायमानस्य कार्यस्य प्रकृ­ति­रु­पा­दा­न­म­पा­दा­न­संज्ञं भवतीत्यपादाने पञ्चमीस्मरणान्न कारणमात्रे सा युक्तेत्यर्थः ।

यद्यपि सूत्रे प्रकृतिग्रहणं सर्व­का­र­ण­स­ङ्ग्र­हा­र्थ­मि­त्युक्तं तथापि तदनादृत्य ‘प्रकृतिश्च’ इति­सू­त्र­स्थ­प्र­कृ­ति­श­ब्द­व­द­य­म­पीति मन्यते, तथापि कथं निमित्तत्वं, तदाह —
निमित्तत्वमिति ।

अधि­ष्ठा­त्र­न्त­रा­भावं व्यति­रे­क­दृ­ष्टा­न्तेन साधयति —
यथेति ।

अन्य­स्या­धि­ष्ठा­तु­र­पे­क्ष­णी­य­स्या­सत्त्वे हेतुमाह —
प्रागिति ।

ब्रह्म­णोऽ­न्य­न्नि­मित्तं जगतो नेत्यत्रापि सूत्रा­व­य­व­सा­म­र्थ्य­माह —
अधि­ष्ठा­त्र­न्त­रेति ।

उक्तमेव व्यतिरेकेण स्फोरयति —
अधिष्ठातरीति ।

श्रुति­लि­ङ्गाभ्यां सिद्धमुपसंहरति —
तस्मादिति ॥ २३ ॥

द्विधा हेतुत्वमेकस्य युक्तमिति वक्तुं सूत्र­च­तु­ष्ट­य­म­व­ता­र­यति —
कुतश्चेति ।

स्रष्ट­व्य­वि­ष­य­स­ङ्क­ल्पो­क्ते­रु­भ­य­का­र­णत्वं तावदाह —
अभिघ्येति ।

प्रतिज्ञां पूर­य­न्न­भि­ध्यो­प­देशं विशदयति —
अभिध्येति ।

कथं तस्मा­त्क­र्तृ­त्व­प्र­कृ­तित्वे गम्येते, तत्राह —
तत्रेति ॥ २४ ॥

निमि­त्त­त्व­मु­पे­त्यो­पा­दा­नत्वे हेत्वन्तरमाह —
साक्षाच्चेति ।

सूत्रस्य तत्पार्यमाह —
प्रकृ­ति­त्व­स्येति ।

अक्षराणि व्याकरोति —
इतश्चेति ।
आकाशस्य ब्रह्मत्वं ‘आका­श­स्त­ल्लि­ङ्गात्’ इत्युक्तम् ।

नन्वाकाशं ब्रह्मोक्त्वा सर्वभूतानां तद­धी­न­प्र­भ­व­प्र­ल­या­भि­धा­नेऽपि कथं ब्रह्मणः सर्व­भू­तो­पा­दा­नत्वं, तत्राह —
यद्धीति ।

सूत्रा­व­य­व­सू­चि­त­म­र्थ­माह —
साक्षादिति ।
आका­शा­दे­वे­त्ये­व­का­र­सू­चि­त­मु­पा­दा­ना­न्त­रा­नु­पा­दानं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ।

उपा­दा­ना­न्त­र­व्या­वृ­त्ति­रे­व­का­रार्थो न भवति किन्तु निमि­त्त­स्या­का­श­स्यो­पा­दा­न्त­त्व­व्या­वृ­त्ति­रि­त्या­श­ङ्क्याह —
प्रतीति ।
निमित्ते कार्यस्य लया­दृ­ष्टे­रा­का­शस्य तन्मात्रत्वमत्र नेष्ठमित्यर्थः ॥ २५ ॥

ब्रह्मणो जगन्निमित्तस्य तत्प्रकृतित्वे हेत्वन्तरमाह —
आत्मेति ।

सूत्रं व्याकरोति —
इतश्चेति ।

उक्तमेव विभज्य निर्दिशति —
आत्मानमिति ।

पूर्वसिद्धस्य कर्तृत्वं, क्रियमाणत्वं त्वसिद्धस्य, तन्नोभयमेकस्य स्यादिति शङ्कते —
कथमिति ।

सूत्रा­व­य­व­म­व­तार्य व्याचष्टे —
परिणामादिति ।
आत्मानमिति विशे­ष­णा­दे­त­द्धी­रि­त्यर्थः ।

इत्थं मिथ्या­प­रि­णा­मेऽपि कथं विरो­ध­स­मा­धि­रि­त्या­श­ङ्क्याह —
विकारेति ।
एकेन रूपेण पूर्व­सि­द्ध­स्या­प्य­सि­द्ध­रू­पा­न्त­रेण परिणामो दृष्ट­त्वा­द्युक्तः स्यादित्यर्थः ।

श्रौतेन विशेषणान्तरेण सूचितमर्थमाह —
स्वयमिति ।

आत्मकृतेरिति हेतुसाधनार्थं परिणामादिति पदमित्युक्तम् । सम्प्रति स्वत­न्त्र­हे­त्व­न्त­र­मे­त­दि­त्याह —
परिणामादिति वेति ।

अर्थभेदाभावे कथं पार्थक्यं, तत्राह —
तस्येति ।

अर्थविशेषमेव दर्शयति —
इतश्चेति ।
मृद्धटः सुवर्णं कुण्ड­ल­मि­ति­व­द्ब्र­ह्मणः सच्च त्यच्चेति जगतः सामा­ना­धि­क­र­ण्या­दु­पा­दा­न­त्वम् । निमित्ते तदयोगादित्यर्थः । सत्प्रत्यक्षं भूतत्रयम् । त्यत्परोक्षं भूतद्वयम् । निरु­क्त­मि­द­मे­व­मिति निर्वचनार्हम् । ततोऽ­न्य­द­नि­रु­क्तम् ॥ २६ ॥

जग­न्नि­मि­त्त­स्येव ब्रह्म­ण­स्त­त्प्र­कृ­तित्वे हेत्वन्तरमाह —
योनिश्चेति ।

वेदान्तानेव लेशतो दर्शयति —
कर्तारमिति ।

क्रिया­श­क्ति­व­दी­श­न­श­क्ति­रपि तस्यास्तीत्याह —
ईशमिति ।

ताटस्थ्यं व्यावर्तयति —
पुरुषमिति ।

तस्य पुरि शयानस्य परिच्छेदं व्यवच्छिनत्ति —
ब्रह्मेति ।

आकाशादेरन्यत्वे कथं पूर्णता, तत्राह —
योनिमिति ।
अपश्यन्निति सम्बन्धः । यद्भू­त­यो­नि­मि­त्यत्र तदक्षरं पर­वि­द्या­धि­ग­म्य­मिति सम्बन्धः ।

योनिशब्दे ब्रह्मणि प्रयुक्तेऽपि कथं तस्योपादानत्वं, नहि तस्य प्रकृत्यर्थत्वं प्रसिद्धं, तत्राह —
योनिशब्दश्चेति ।

ननूपादानत्वं विनापि स्त्रीयोनौ योनिशब्दो दृश्यते, तत्राह —
स्रीति ।
अवयवशब्देन योनिप्रभवं शोणितं गृह्यते ।

तर्हि योनिशब्दस्य श्रुति­त्वा­त्प्र­थ­मतो वक्तव्यत्वे किमर्थं पश्चादुच्यते, तत्राह —
क्वचिदिति ।
योनिः । स्थानं ते तव भो इन्द्र निषदे निषदनायोपवेशनाय स्थित्यर्थमकारि कृतमित्यर्थः ।

योनिशब्दस्य व्यभि­चा्रि­त्वे­ना­श्रु­ति­त्वे­ना­सा­ध­क­ते­त्या­श­ङ्क्याह —
वाक्येति ।
भूत­यो­न्या­दि­वाक्यं सप्तम्यर्थः । वाक्यशेषशब्दो ब्रह्मा­दि­प­द­स्या­प्यु­प­ल­क्षणः ।

श्रुत्या­दि­सिद्धं सिद्धा­न्त­मु­प­सं­ह­रति —
एवमिति ।

परो­क्त­म­नु­मा­न­जा­त­म­पा­क­र्तु­म­नु­व­दति —
यदिति ।

यथा­दृ­ष्ट­म­नु­मे­यम् , इह तु धर्मवन्नानुमानं युक्तं, श्रुति­लि­ङ्गाम्यां ब्रह्म­णोऽ­न्य­त्रैव सामा­न्य­तो­दृ­ष्टानां सावकाशत्वेन दुर्ब­ल­त्वा­दि­त्याह —
तदिति ।

किञ्च श्रौत­मी­श्व­र­म­ना­श्रि­त्या­नु­मा­न­मा­श्रित्य वा । नाद्यः, अप्र­सि­द्ध­वि­शे­ष­ण­त्वा­दि­प्र­स­ङ्गा­दि­त्याह —
नहीति ।

न द्वितीयो धर्मि­ग्रा­ह­क­मा­न­वि­रो­धा­दि­त्याह —
शब्देति ।

शब्दानुसारेणापि कथमुभयथा कारणत्वं, तत्राह —
शब्दश्चेति ।
योनिशब्दो यत इति पञ्चमी च शब्दार्थः । चका­रा­त्प्र­ति­ज्ञा­द्य­नु­प­रो­ध­लि­ङ्ग­मपि गृहीतम् ।

शब्दावगतमपि वैल­क्ष­ण्या­दि­यु­क्ति­वि­रो­धा­द­यु­क्त­मि­त्या­श­ङ्क्याह —
पुनश्चेति ।
युक्ति­वि­रो­ध­स्याग्रे निरा­सा­दा­ग­म­वि­रु­द्धा­नु­मा­नस्य काला­ती­त­त्वे­ना­प्रा­मा­ण्या­द्य­था­ग­म­मु­भ­यथा कारणत्वमिति भावः ॥ २७ ॥

उक्तन्यायेन प्रधा­न­स्या­श­ब्द­त्वेऽपि न ब्रह्मण्येव जगत्कारणे समन्वयः । ‘अणो­र­णी­यान्', ‘अण्व्य इवेमा धानाः', ‘असदेवेदम्’ इत्या­दि­श­ब्दा­द­णु­स्व­भा­व­शू­न्यानां जग­द्धे­तु­त्व­स­म्भ­वा­दि­त्या­श­ङ्क्याह—
एतेनेति ।
अति­दे­शे­ना­ण्वा­दि­वादं निरस्य जगद्धेतौ ब्रह्मणि सम­न्व­य­स्था­प­ना­दस्य श्रुत्या­दि­स­ङ्गतिः । फलं तु पूर्ववत् ।

अतिदेशाधिकरणस्य तात्पर्यं वक्तं वृत्तं कीर्तयति —
ईक्षतेरिति ।

तस्यैव विशेषतो निरासे हेतुमाह —
तस्येति ।

प्रधानवादस्यैव प्राधान्येन निरासे हेत्वन्तरमाह —
स चेति ।

न केव­ल­म­भ्य­र्हि­त­त्वा­त्तस्य प्राधान्यं, स्मृति­मू­ल­त्वा­द­पी­त्याह —
देवलेति ।

उक्तहेतुफलमाह—
तेनेति ।

तर्हि तावतैव ब्रह्म­का­र­ण­त्व­सि­द्धे­र­ल­म­ति­दे­शे­ने­त्या­श­ङ्क्याह—
तेऽपीति ।

अण्वा­दि­वा­दा­ना­म­श­ब्द­त्वा­देव निषेधे पुन­रु­त्था­ना­भा­वान्न निषे­ध्य­ते­त्या­श­ङ्क्याह —
तेषामिति ।
‘अणोरणीयान्’ इत्या­द्य­ब्र­ह्म­परं ब्रह्मपरं वेत्य­ण्वा­दि­श­ब्दस्य पर­मा­ण्वा­दि­वि­ष­य­त्वा­वि­ष­य­त्वाभ्यां सन्देहे, पर­मा­णु­ष्व­णु­श­ब्दस्य प्रसिद्धत्वात् , कुलालो मृदा घटं करो­ती­ति­व­त्प­त­त्रै­र्द्या­वा­पृ­थिवी देवः सञ्जनयन्निति तेषां हेतुत्वोक्तेः, ‘असद्वा इदम्', ‘असदेवेदम्’ इति शून्यवादात् ‘तन्ना­म­रू­पा­भ्या­मेव व्याक्रियत’ इति कर्मकर्तरि लकारेण स्वभा­व­वा­दा­द­नु­पा­दानं ब्रह्मेति प्रतीतेः, ‘अण्व्य इवेमा धानाः’ इति च जगतो मृद्दृ­ष्टा­न्तात् , ब्रह्मणः प्रकृतित्वे वट­धा­ना­दृ­ष्टा­न्तात् , अण्वादीनामपि तत्प्र­कृ­ति­त्व­यो­गा­द्ग­ति­सा­मा­न्या­सि­द्धि­रि­त्यर्थः ।

अथैवं पूर्व­प­क्ष­भा­नेऽपि किमिति साङ्ख्य­म­त­नि­र­स­न­न्या­येन तन्निरसनं क्रियते किमिति न विप­री­त­मि­त्या­शङ्क्य पूर्व­प­क्ष­प्रा­प्ति­मि­ति­श­ब्द­स­मा­पि­ता­म­नूद्य सिद्धान्तमाह —
अत इति ।

उक्तन्यायस्य तेषु प्राप्तिमाह —
तेषामिति ।
अणो­र­णी­या­नि­त्या­त्मनः सूक्ष्मतया प्रत्य­क्षा­द्य­गो­च­र­त्व­व­च­नात् , पतत्रशब्दस्य पर­मा­णु­वा­च­क­त्वा­सिद्धेः, ‘अणुः पन्था’ इति ज्ञान­मा­र्ग­स्तुतेः, ‘असदेवेदम्’ इत्यादेः समाहितत्वात् , मृदा­दि­दृ­ष्टा­न्तानां च प्रति­ज्ञा­नु­रो­धि­त्वात् , धाना­दृ­ष्टा­न्त­स्यापि तदनुरोधेन भाक्तत्वात् , अण्वादीनां प्रधा­न­व­द­श­ब्द­त्वात् , ब्रह्म­का­र­ण­वा­दि­श­ब्द­वि­रो­धि­त्वा­दु­क्ता­न्यपि वाक्यानि ब्रह्मपराणीति ब्रह्मणि कारणे सिद्धः समन्वयो वेदा­न्ता­ना­मि­त्यार्थः ।

पुन­रु­क्ते­स्ता­त्प­र्य­माह —
व्याख्याता इति ॥ २८ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृते शारी­र­क­भा­ष्य­न्या­य­नि­र्णये प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ इति प्रथ­मा­ध्या­येऽ­व्य­क्ता­दि­स­न्दि­ग्ध­प­द­मा­त्र­स­म­न्व­या­ख्य­श्च­तुर्थः पादः ॥
॥ इति श्रीम­द्ब्र­ह्म­सू­त्र­शा­ङ्क­र­भाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥

अथ द्वितीयोऽध्यायः ।
द्वितीयाध्याये प्रथमः पादः ।

द्वितीयाध्याये द्वितीयः पादः ।

द्वितीयाध्याये तृतीयः पादः ।

द्वितीयाध्याये चतुर्थः पादः ।