न्यायनिर्णयव्याख्या
१ परिच्छेदः
धूमाद्युपलक्षितेन दक्षिणेन पथा चन्द्रलोकं गतेषु सुखैकरूप्यात्तद्धेतोरपि तथात्वादन्यत्रापि तत्तारतम्यासिद्धिरित्याशङ्क्याह —
तत्रापीति ।
सम्पतति येनास्माल्लोकादमुं लोकमिति कर्माशयः सम्पातः । तत्र यावद्भोक्तव्यं स्थित्वा ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते' इतीयत्ताकरणात्सातिशयत्वं सुखतद्धेत्वोर्भातीत्यर्थः ।
मनुष्यत्वादारभ्योर्ध्वगतेषु सुखतद्धेत्वोरुत्कर्षमुक्त्वा तद्दृष्टान्तेन तस्मादारभ्याधोगतेषु तयोरपकर्षतारतम्यमाह —
तथेति ।
सुखतद्धेतुतदनुष्ठायिनामुत्कर्षापकर्षतारतम्यवद्दुःखतद्धेतुतदनुष्ठायिनामपि तदुभयमस्तीत्याह —
तयोर्ध्वेति ।
मनुष्यत्वादूर्ध्वगतेषु दुःखापकर्षतारतम्यं, तस्मादधोगतेषु च तदुत्कर्षतारतम्यमिति भेदः ।
कर्मफलं विद्याफलाद्भेत्तुं प्रपञ्चितमुपसंहरति —
एवमिति ।
अविद्यादीत्यादिपदेनास्मितारागद्वेषाभिनिवेशा गृह्यन्ते ।
सुखदुःखपरिणामद्वारं दर्शयति —
शरीरेति ।
तस्योपादानं तस्मिन्द्विविधोऽभिमानः । तस्यानर्थतया हेयत्वत्माह —
संसारेति ।
अनित्यमित्यपि तदर्थमेव ।
मेयमुपसंहृत्य मानमुपसंहरति -
श्रुतीति ।
‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥‘ इत्याद्या स्मृतिः । दृष्टहेतुसाम्येऽपि दृष्टं सुखादिवैचित्र्यं तथाभूतमेवालौकिकं हेतु कल्पयितीति न्यायः ।
श्रुतिमाह —
तथा चेति ।
निपाताववधारणे ।
श्रुतेस्तात्पर्यमाह —
यथेति ।
नास्याः संसाररूपावेदने तात्पर्य, तदनुवादेन मुक्तिपरत्वादित्याह —
अनुवदतीति ।
विद्याफलमाह —
अशरीरमिति ।
तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखेनैव स्पृशतो वावेत्यवधारणादित्यर्थः ।
श्रुतितात्पर्यमाह —
चोदनेति ।
तत्र गमकमाह —
प्रियेति ।
गमकत्वमस्य व्यतिरेकेण स्फोरयति —
धर्मेति ।
तत्कार्ये तद्दृष्टेरित्यर्थः ।
धर्मस्य विचित्रफलत्वाददेहत्वमपि तत्कार्यमेवेति शङ्कते —
अशरीरत्वमिति ।
वस्तुतो देहासम्बन्धोऽशरीरत्वं, तस्य नित्यत्वात्तिरोधायकाज्ञानस्य ज्ञानमात्रापोह्यत्वान्न धर्मकार्यतेत्याह —
नेति ।
तत्र मानमाह —
अशरीरमिति ।
शरीरं स्थूलं वस्तुतो नास्यास्तीति यावत् ।
तत्र हेतुः —
शरीरेष्विति ।
अनवस्थेष्वनित्येष्ववस्थितम् । नित्यमित्यर्थः ।
तत्रैव हेत्वन्तरमाह —
महान्तमिति ।
सापेक्षिकत्वं वारयति —
विभुमिति ।
मन्तृमन्तव्यभेदं प्रत्याह —
आत्मानमिति ।
ईदृशमात्मानं मत्वा धीरो भवति । नहि तन्मतिं विना धीरत्वं सम्भवति । स च धीरः शोकोपलक्षितं संसारं नानुभवतीत्यर्थः ।
सूक्ष्मदेहाभावे मानान्तरमाह —
अप्राण इति ।
क्रियाशक्तिमान्प्राणोऽस्य वस्तुतो नास्तीति तन्निषेधात्तत्प्रधानानि सार्थानि कर्मेन्द्रियाणि निषिद्धानि । तदभिप्रायेण हिशब्दः । ज्ञानशक्तिमन्मनोऽस्य वस्तुतो नेति तन्निषेधात्तत्प्रधानज्ञानेन्द्रियाणि सार्थानि निषिद्धानि । अत एव शुभ्रः । शुद्ध इत्यर्थः ।
देहद्वयाभावे श्रुत्यन्तरमाह —
असङ्गो हीति ।
‘स यत्तत्र’ इत्यादौ स्वप्नादिकृतकर्मस्वकर्तात्मेत्युक्तेऽर्थे हेतुरनेनोच्यते । मूर्तं मूर्तान्तरेण युज्यमानं स्पन्दते, आत्मा तु पूर्णत्वादमूर्तो न केनचिद्युज्यते । तेनाकर्तेत्यर्थः । ‘अकायमव्रणम् ‘ इत्यादिसङ्ग्रहार्थमादिपदम् ।
अशरीरत्वस्य स्वाभाविकत्वे फलितमाह —
अत इति ।
तद्वैलक्षण्ये किं स्यात्तदाह —
नित्यमिति ।
तथापि परिणामित्वाद्विधेयक्रियानुप्रवेशमाशङ्क्यापरिणामिनित्यतां वक्तुं परिणामिनित्यं पृथक्करोति —
तत्रेति ।
प्रकृतं नित्यं सप्तम्यर्थः ।
परिणामित्वनित्यत्वयोर्विरोधं प्रत्यभिज्ञया प्रत्याह —
यस्मिन्निति ।
तत्र मीमांसकादिसंमतं दृष्टान्तमाह —
यथेति ।
तथान्यदपि विक्रियमाणं प्रत्यभिज्ञातो नित्यं स्यादिति शेषः ।
साङ्ख्यीयदृष्टान्तमाह —
यथा चेति ।
तन्मते सत्त्वरजस्तमांसि गुणा विक्रियमाणा एव प्रत्यभिज्ञया नित्यास्तथान्यदपि परिणामि नित्यमित्यर्थः ।
तादृङ्नित्याददेहत्वे मोक्षे विशेषमाह —
इदं त्विति ।
तत्खल्वतात्त्विकं, परिणामस्य कार्त्स्न्यैकदेशाभ्यां भेदाभेदाभ्यां च दुर्वचनत्वात् । मोक्षाख्यमदेहत्वं स्वाभाविकमकल्पितमिति विशेषमाह —
पारमार्थिकमिति ।
तत्र हेतुमाह —
कूटस्थेति ।
तदर्थं सर्वगतत्वेन परिस्पन्दपरिणामराहित्यमाह —
व्योमवदिति ।
फलार्थापि क्रिया तत्र न कल्प्या, तृप्तेः सदातनत्वादित्याह —
नित्येति ।
परिणामाभावे हेत्वन्तरम् —
निरवयवमिति ।
प्रकाशार्था विक्रिया न तत्रेत्याह —
स्वयमिति ।
उक्तविशेषणवशान्न सा कर्मकार्येत्युक्तम् , इदानीं धर्माधर्मयोः सकार्ययोर्ब्रह्मसम्बन्धनिषेधादपि तत्प्राप्तिर्मुक्तिर्न कर्मकार्येत्याह —
यत्रेति ।
कालानवच्छिन्नत्वाच्च मुक्तिरकर्मसाध्येत्याह —
कालेति ।
ब्रह्मणो धर्माद्यनवच्छेदत्वे मानमाह —
अन्यत्रेति ।
धर्मात्तत्फलाच्च सुखात् , अधर्मात्तत्फलाच्च दुःखात् , कृतात्कार्यात् , अकृताच्च कारणात् , भूतादिकालत्रयाच्च पृथग्भूतं तेनानवच्छेद्यं यत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसो वचनम् । आदिशब्देन ‘नैनं सेतुम्‘ इत्याद्या श्रुतिर्गृह्यते ।
पृथग्जिज्ञासाविषयत्वाच्च धर्माद्यस्पृष्टत्वं ब्रह्मणो युक्तमित्याह —
तदिति ।
अतःशब्दपाठे धर्माद्यस्पर्शे कर्मफलवैलक्षण्यं हेतुकृतम् ।
कर्तव्यधीशेषत्वेन ब्रह्मोपदेशात्तत्प्राप्तेर्मुक्तेर्वैधधीफलत्वमित्याशङ्क्याह —
तद्यदीति ।
अनित्यत्वेऽपि स्वर्गादिवत्पुमर्थतेत्याशङ्क्याह —
तत्रेति ।
तस्मिन्मोक्षे विधेयक्रियासाध्यत्वेनानित्ये सतीत्यर्थः ।
यथोक्तेति ।
तयोश्चोदनालक्षणयोरित्यादाविति शेषः । स्वर्गादिदृष्टान्तादित्यर्थः ।
इष्टापत्तिं प्रत्याह —
नित्यश्चेति ।
ब्रह्माप्तेर्मुक्तेरवैधफलत्वे फलितमाह —
अत इति ।
मुक्तेरवैधफलत्वे हेत्वन्तरमाह —
अपिचेति ।
यो ब्रह्म प्रत्यक्त्वेन साक्षात्करोति स तदेव वेद्यं ब्रह्म भवति, तत्क्रतुन्यायात् । तस्मिन्परात्मनि परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने प्रत्यक्त्वेन साक्षात्कृते सत्यस्य विदुषोऽनारब्धानि कर्माणि क्षीणानि भवन्ति । ब्रह्मणो रूपमानन्दं विद्वान्भयहेत्वभावान्निर्भयो भवति । श्रुतावितिशब्दः श्लोकसामाप्त्यर्थः । हे जनक, त्वमभयं ब्रह्म प्राप्तोऽसि, तत्साक्षात्कारवत्त्वात् , यदस्मिन्देहे जलसूर्यवत्प्रविष्टं ब्रह्म जीवाख्यं तदाचार्येण बोधितमात्मानमेव सर्वकल्पनातीतमवेद्विदितवत् कथमहं ब्रह्मद्वितीयमस्मीति, तस्मादेव ज्ञानादज्ञानकृतासर्वत्वनिवृत्त्या तद्ब्रह्म पूर्णात्मना स्थितमासीत् । ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः’ इति यः सर्वात्मभावो विद्याव्यङ्ग्यत्वेनोक्तस्तत्रात्मनि तद्धीकाले वा तदात्मैक्यमुपदेशेन पश्यतः शोकाद्युपलक्षितः संसारो नेति श्रूतीनामर्थः । आदिशब्देन ‘ब्रह्मविदाप्नोति’ इत्याद्या गृह्यन्ते ।
तासां तात्पर्यमाह —
ब्रह्मेति ।
विद्यातत्फलयोरेककालत्वश्रुतेर्वैधज्ञानापूर्वजन्यत्वे मुक्तेस्तदयोगात् , वैधफलस्य कालान्तरभावित्वात् , ब्रह्मधीर्न विधेया । तत्फलं च दृष्टमेवेति भावः ।
इतश्च मोक्षो वैधो नेत्याह —
तथेति ।
तत्पदलक्ष्यं ब्रह्मैतदात्मत्वेन स्थितमस्मीति पश्यन्नस्मादेव दर्शनादृषिर्वामदेवनामा परं ब्रह्माविद्याध्वस्त्या प्रतिपन्नवान्किलेति । हशब्दो व्यवधानेन सम्बध्यते । स चास्मिन्दर्शने स्थितः सर्वात्मप्रकाशकान्मन्त्रानहमित्यादीन्दृष्टवानिति श्रुत्यर्थः ।
तस्यास्तात्पर्यमाह —
ब्रह्मेति ।
'लक्षणहेत्वोः क्रियायाः’ इत्यत्र येन लक्ष्यते तल्लक्षणं जनको हेतुस्तौ लक्षणहेतू क्रियाविषयौ चेद्भवतस्तदा क्रियात्मके तस्या लक्षणे तस्या हेतौ चार्थे वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इत्युक्तम् । यथा तिष्ठन्मूत्रयति, शयानो भुङ्क्तेऽधीयानो वसतीति । तथात्रापि प्रतिपत्तिक्रियाहेतौ क्रियायां दर्शने पश्यन्निति शतुर्दर्शनात् , अव्यवहिते च हेतुमति क्रियाया हेतुत्वात् , एष शतृप्रत्ययः सर्वात्मत्वस्य कालान्तरत्वं वारयति । अतोऽस्य न वैधतेत्यर्थः ।
यद्यपि न स्थितिक्रियासामर्थ्याद्ग्ीतिक्रिया किन्तु यत्नान्तरात् , तथापि तयोर्मध्ये क्रियान्तरं शब्दतो न भातीत्येतावतोदाहरति —
यथेति ।
इतश्च ब्रह्मधीर्न विधेया, तत्फलं च न वैधमित्याह —
त्वं हीति ।
भरद्वाजादयः षड्ऋषयः परविद्याप्रदं पिप्पलादं गुरुं विद्यानिष्क्रयार्थमन्यदनुरूपमपश्यन्तः पादयोः प्रणम्योचिरे । त्वं खल्वस्माकं पिता, ब्रह्मदेहस्याजरामरस्य विद्यया जनयितृत्वात् , इतरौ पितरौ देहमेव जनयतः जनयितृत्वमपि सिद्धस्यैवाविद्यानिरासादित्याह - यस्त्वमस्मानविद्यामहोदधेः परमपुनरावृत्तिरूपं पारं तारयसि प्रापयसि विद्याप्लवेनेति ।
प्रश्नोपनिषदमुक्त्वा सनत्कुमारनारदसंवादात्मिकां छान्दोग्योपनिषदं पठति —
श्रुतं हीति ।
तत्र ‘तारयतु’ इत्यन्तमुपक्रमस्थं शेषमुपसंहारस्थमिति भेदः । मम भगवत्तुल्येभ्यः श्रुतमेवेदं यत्तरति शोकं मनस्तापमकृतार्थबुद्धिमात्मविदिति । सोऽहमनात्मवित्त्वाच्छोचामि अतस्तं मां शोचन्तं शोकसागरस्य पारमन्तं तारयतु भगवानात्मज्ञानोडुपेनेति नारदेन प्रेरितः सनत्कुमारस्तस्मै वैराग्यादिना निरस्तसमस्तदोषाय योग्याय तमसोऽविद्याख्यस्य पारं परमार्थतत्त्वं दर्शितवानित्यर्थः ।
आदिशब्देन ‘यो वेद निहितं गुहायाम् ‘ इत्याद्याः श्रुतयो गृहीतास्तासां तात्पर्यमाह —
मोक्षेति ।
विद्याफलमविद्याध्वस्तिः श्रुता न चामानात्तद्ध्वस्तिः तथा चोपास्तेरन्या मानमेव ब्रह्मधीर्न विधेया तत्फलं च मुक्तिर्न वैधीत्यर्थः ।
श्रुत्यनुसारेणाविद्याध्वस्तिफलत्वाद्ब्रह्मधीस्तत्त्वधीरित्युक्तम् । इदानीं तर्कशास्त्रानुसारेणापि तथैवेत्याह —
तथा चेति ।
दुःखं प्रतिकूलवेदनीयं, बाधा, पीडा, ताप इत्यनेकविधम् । जन्म देहेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः । हिंसास्तेयादिरूपा पापिका प्रवृत्तिरधर्मं प्रसूते । दानत्राणादिरूपा प्रवृत्तिर्धर्मं जनयति । तावेतौ धर्माधर्मौ प्रवृत्तिसाध्यौ तच्छब्दौ । रागद्वेषेर्ष्यासूयामानलोभादयो दोषाः । मिथ्याज्ञानमतस्मिंस्तज्ज्ञानं, आत्मा नास्तीत्यादि । तेषां पाठक्रमादुत्तरोत्तरस्यापाये तदनन्तरस्य पूर्वपूर्वस्यापायादपवर्गो निःश्रेयसम् । मिथ्याज्ञानादयो दुःखान्ता धर्मा विच्छेदादृते वर्तमानाः संसारः । तथाच यदा तत्त्वज्ञानान्मिथ्याज्ञानमपैति तदा हेत्वभावे फलाभावाद्दोषापायः, तदपाये च प्रवृत्तिसाध्यधर्माधर्मापायाज्जन्मापायद्वारा दुःखमपगच्छति, ततश्चात्यन्तिकं निःश्रेयसं सिध्यति । तदेवं तत्त्वज्ञानान्मिथ्याज्ञानध्वस्त्या मोक्ष इत्यक्षपादस्यापि विवक्षितमित्यर्थः ।
ननु भेदधीरेव मिथ्याधीविरुद्धा तत्त्वधीस्तर्कशास्त्रेऽभीष्टा, ‘तत्त्वज्ञानं तु मिथ्याज्ञानविपर्ययेण व्याख्यातम्‘ इत्युपक्रम्य ‘आत्मनि तावदस्तीत्यनात्मन्यात्मेति दुःखेऽनित्येऽत्राणे सभये जुगुप्सिते हातव्ये यथाविषयं वेदितव्यम्‘ इत्यादिन्यायभाष्यदर्शनात् । तत्कथं ब्रह्मात्मैक्यज्ञानान्मिथ्याधीध्वस्तिरित्यत्र न्यायशास्त्रानुगुण्यं, तत्राह —
मिथ्येति ।
भेददृष्टेरज्ञानविलासत्वान्मिथ्याज्ञानाप्रतिपक्षत्वात् , अद्वयब्रह्मात्मधीरेव तन्निवर्तिकेत्यावश्यकमित्यर्थः ।
अथैक्यज्ञानमपि सम्पदादिरूपत्वाद्भेदधीतुल्यं न मिथ्याधीविरुद्धं, नेत्याह —
न चेति ।
सम्पन्नामाल्पे वस्तुन्यालम्बने सामान्येन केनचिन्महतो वस्तुनः सम्पादनम् । तत्रोदाहरणम् —
यथेति ।
मनस्यनन्तवृत्तिमत्यालम्बनेऽल्पपरिमाणे विश्वेषां देवानामनन्तानां महतामनन्तत्वसामान्येन सम्पादनं तेनानन्तफलाप्तिर्यथा श्रुता, तथा जीवस्यापि चैतन्यसामान्याद्ब्रह्मतासम्पादनममृतफलं विधेयमित्ययुक्तमित्यर्थः ।
अध्यासपक्षं निषेधति —
न चेति ।
अध्यासः शास्त्रतोऽतस्मिंस्तद्धीः । सम्पदि सम्पाद्यमानस्य प्राधान्येनानुध्यानं, अध्यासे त्वालम्बनस्येति विशेषं मत्वा दृष्टान्तमाह —
यथेति ।
आदिशब्दादाकाशाद्युक्तम् । आदित्यादौ यथा ब्रह्मधीरारोप्यते तथा जीवे तद्धीरारोप्येत्यध्यासरूपमिदमैक्यज्ञानमित्यपि नेत्यर्थः ।
पक्षान्तरं दूषयति —
नापीति ।
संवर्गविद्यायां श्रुतम् - ‘वायुर्वाव संवर्गो यदा वा अग्निरुद्वायत्युपशाम्यति वायुमेवाप्येेति विलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येंवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतमथाध्यात्मं प्राणो वाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः’ इति । तत्र यथा संहरणक्रियायोगाद्वायोः प्राणस्य च संवर्गत्वं, तथा जीवब्रह्मणोर्बृंहणक्रियायोगादैक्यज्ञानमित्यपि नेत्यर्थः । आदिशब्दात् ‘प्राणो वा उक्थम् ‘ इत्यादि गृहीतम् ।
मतान्तरं प्रत्याह —
नापीति ।
यथा दर्शपूर्णमासाधिकारे - ‘पत्न्यवेक्षितमाज्यं भवति’ इत्याम्नातमवेक्षणमुपांशुयाजाङ्गभूताज्यसंस्कारो गुणकर्म विधीयते तथा कर्तृत्वेनाङ्गे क्रतावात्मनि द्रष्टव्यादिवाक्येन दृष्टेर्गुणकर्मणो विधानात्कर्माङ्गात्मसंस्काररूपमैक्यज्ञानमित्यपि नेत्यर्थः । आदिशब्देन प्रोक्षणादि गृह्यते ।
सम्पदध्यासक्रियायोगसंस्काराणां न प्रतिज्ञामात्रादयोगः, अतिप्रसङ्गादित्याशङ्क्य वेदान्तानां स्वार्थे मानान्तरविरोधाद्वा तात्पर्याभावाद्वा सम्पदादिपरतेति विकल्प्य जीवब्रह्मणोर्मानान्तरागोचरत्वात्तद्भेदस्यापि तथात्वात् , भेददृष्टेश्च बिम्बप्रतिबिम्बवदविरोधादाद्यो नेति मत्वा द्वितीयं प्रत्याह —
सम्पदादीति ।
'सदेव सोम्येदम् ‘ ‘एकमेव‘ इत्युपक्रमात् ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा’ इत्युपसंहारात् ‘तत्त्वमसि’ इत्यभ्यासाद्ब्रह्मात्मनो मानान्तरावेद्यत्वेनापूर्वत्वात् तज्ज्ञानस्य ‘आचार्यवान् ‘ इत्यादिना फलश्रुतेः ‘अनेन जीवेन’ इत्यर्थवादात् ‘अथ येऽन्यथा’ इत्यादिभेददर्शननिन्दनात् , उपपत्तेश्च मृदादिदृष्टान्तस्य दृष्टत्वात् । बृहदारण्यकेऽपि ‘ब्रह्म वा इदम् ‘ इत्युपक्रमात् ‘अयमात्मा ब्रह्म’ इति परामर्शात् ‘पूर्णमदः पूर्णमिदम् ‘ इत्युपसंहारात् ‘स एष नेति नेत्यात्मा’ इत्यभ्यासादप्रपञ्चब्रह्मात्मनोऽपूर्वत्वात् ‘तस्मात्तत्सर्वमभवत् इत्यादि’ फलश्रुतेः ‘स एष इह प्रविष्टोऽथ योऽन्यां देवताम् ‘ इत्याद्यर्थवादाद्दुन्दुभ्यादिदृष्टान्तोपपत्तेः । ऐतरेयके च ‘आत्मा वा इदमेक एव’ इत्युपक्रम्य ‘स एतमेव पुरुषं ब्रह्म ततमपश्यत्’ इति परामृश्य ‘प्रज्ञानं ब्रह्म’ इत्युपसंहारात् । आथर्वणे च ‘कस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातम् ‘ इत्युपक्रम्य ‘ब्रह्मैवेदम् ‘ इति निगमनात् । तैत्तिरीयके च ‘ब्रह्मविदाप्नोति परम् ‘ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘यो वेद निहितं गुहायाम् ‘ इत्युपक्रम्य ‘सयश्चायं पुरुषे । यश्चासावादित्ये । स एकः’ इति परामृश्य ‘आनन्दो ब्रह्मेति व्यजानात् ‘ इत्यादिनोपसंहारात् , तस्यैव ब्रह्मात्मनोऽभ्यासात् , तदपूर्वता स्यात् । ‘सोऽश्नुते सर्वान्कामान् ‘ ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति’ इत्यादिना फलाभिलापात् ‘तदात्मानं स्वयमकुरुत’ इत्यर्थवादात् ‘को ह्येवान्यात् ‘ इत्याद्युपपत्तेः । एकत्वे वेदान्तानामेकान्तेन तात्पर्यमवधार्यते । तथा चायुक्ता तेषां स्वार्थे तात्पर्याभावकृता सम्पदादिपरतेति भावः ।
किञ्च ज्ञानस्याज्ञानध्वस्तिफलत्वश्रुतेर्न सम्पदादिरूपमैक्यज्ञानमित्याह —
भिद्यत इति ।
हृदयमन्तःकरणं तस्य ग्रन्थी रागादिः स तस्मिन्दृष्टे भिद्यते विदीर्यते । सर्वे च संशयाः संसारहेतवश्छिद्यन्ते छिन्ना भवन्तीत्यर्थः । आदिशब्दात् ‘तरति शोकमात्मवित् ‘ इत्यादि गृह्यते ।
तेषां तात्पर्यमाह —
अविद्येति ।
सम्पदादिज्ञानस्याप्रमात्वादज्ञानानिवर्तकत्वादित्यर्थः ।
ब्रह्मविद्याया ब्रह्मभावफलश्रुतेरपि न सम्पदादिरूपतेत्याह —
ब्रह्मेति ।
आदिपदं ‘ब्रह्मविदाप्रोति’ इत्यादि ग्रहीतुम् ।
तेषां तात्पर्यमाह —
तद्भावेति ।
आत्मनो वस्तुतो भिन्नस्याब्रह्मत्वादन्यस्य स्थितस्य नष्टस्य वान्यत्वासिद्धेः सम्पदादिपक्षे तद्भाववाक्यानां न मुख्यार्थतेत्यर्थः ।
उक्तहेतुभ्यः सिद्धं निगमयति —
तस्मादिति ।
प्रमितित्वं, तमोध्वस्तितद्भावापत्तिफलत्वं च तच्छब्दार्थः ।
सम्पदादिरूपत्वाभावेऽपि कथमविधेयत्वं तदाह —
अत इति ।
तदतन्त्रत्वे नित्यत्वमाशङ्क्याह —
किं तर्हीति ।
तस्या वस्तुतन्त्रत्वे फलितमाह —
एवमिति ।
एवंभूतस्याद्वयप्रत्यङ्मात्रतया स्थितस्येत्यर्थः । कृतिसाध्यस्यैव नियोगविषयत्वाद्ब्रह्मणस्तज्ज्ञानस्य वा तदसाध्यत्वादित्यर्थः ।
कथमवैधं ब्रह्म, वैफल्यादकारकत्वाद्वा । नाद्यः, मुक्तिश्रुतेः । नेतरः, कर्मत्वादित्याशङ्क्य विदिक्रियायामुपास्तिक्रियायां वा तस्य कर्मतेति विकल्प्याद्यं दूषयति —
न चेति ।
तद्ब्रह्म विदितात्कार्यादन्यदेवाथो कारणादप्यविदितादध्युपरिष्टादन्यदित्यर्थः । येन प्रमात्रेदं सर्वं वस्तु लोको जानाति तं केन करणेन जानीयात् , करणस्य ज्ञेयविषयत्वाज्ज्ञातर्यप्रवृत्तेः । तन्न ज्ञाता ज्ञेयः किन्तु साक्षीत्यर्थः ।
द्वितीयं प्रत्याह —
तथेति ।
'यद्वाचानभ्युदितं येन वागभ्युद्यते’ इत्यविषयत्वमुक्तवा ‘तदेव’ इति मातृत्वादिकल्पनामपोह्यात्मभूतं ब्रह्म महत्तममिति त्वं विद्धि । यदुपाधिविशिष्टं देवतादीदमित्युपासते जना नेदं त्वं ब्रह्म विद्धीत्यर्थः ।
शास्त्रोत्थशानाविषयत्वे ब्रह्मणि तत्प्रामाण्यप्रतिज्ञाहानिरिति चोदयति —
अविषयत्व इति ।
शास्त्रीयज्ञानाधीनस्फुरणवत्त्वरूपकर्मत्वाभावेऽप्यविद्याध्वस्त्यतिशयवत्त्वाद्ब्रह्मणः शास्त्रीयत्वान्न प्रतिज्ञाहानिरित्याह —
नेति ।
शास्त्रीयधीकृताविद्याध्वस्तिमत्त्वेन तत्कृतस्फुरणवत्त्वमपि घटादिवदित्याशङ्क्य तथैवेदन्धीविषयत्वापत्तेर्मैवमित्याह —
नहीति ।
तर्हीदंप्रत्ययाविषयत्वादविद्याध्वस्तिमत्त्वमपि शून्यवन्नास्तीति नास्य शास्त्रीयतेत्याशङ्क्य अहमादिसाक्षिमात्रत्वेन ब्रह्मास्मीति बुद्धावाविर्भावयदविद्यामपनयति शास्त्रमिति तत्प्रामाण्यमित्याह —
किं तर्हीति ।
तथापि कथमद्वयं ब्रह्म प्रतिपाद्यं वेद्यादिभेदादित्याशङ्क्याह —
वेद्येति ।
तत्र श्रुतीरुदाहरति —
तथा चेति ।
यस्य ब्रह्मामतमविषय इति निश्चयस्तस्य तन्मतं सम्यग्ज्ञातम् । यस्य तु मतं विषयतया ज्ञातं ब्रह्मेति धीर्नासौ तद्वेद, भेदधीमत्त्वादेवमेवेति नियमार्थमुक्तौ विद्वदविद्वत्पक्षावनुवदति —
अविज्ञातमिति ।
विषयत्वेनाज्ञातमेव ब्रह्म सम्यग्जानतां ज्ञातमेव विषयतया यथावदजानतामित्यर्थः ।
दृष्टेश्चक्षुर्जन्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्यया तया दृष्ट्या न पश्येः, विज्ञातेर्बुद्धिधर्मस्य निश्चयस्य विज्ञातारं साक्षिणं तथैव वेद्यया विज्ञात्या न विजानीया इति श्रुत्यन्तरमाह —
न दृष्टेरिति ।
आदिपदेन ‘अदृश्येऽनात्म्ये’ ‘यत्तदद्रेश्यम्’ इत्यादि गृहीतम् ।
ननु यद्यैक्यधीः शास्त्रोत्था स्फूर्तिमनुत्पाद्याविद्याबाधया तज्जं ज्ञात्राद्यपि बाधित्वा ब्रह्मात्मन्यमेये स्वाभाविकापरोक्षव्यञ्जनेन निवर्तकतया स्थितेति ब्रह्मणि शास्त्रं प्रमाणन्तर्हि ध्वस्ताविद्यातज्जब्रह्मरूपस्यागन्तुकत्वान्न तदाप्तेर्मुक्तेर्नित्यतेत्याशङ्क्याह —
अत इति ।
शास्त्रोत्थज्ञानादिति यावत् ।
स्वपक्षे ब्रह्मणः शास्त्रीयत्वं मोक्षस्य नित्यत्वं चोक्त्वा परपक्षे तदनित्यत्वं वक्तुं तस्योत्पाद्यत्वं, विकार्यत्वं प्राप्यत्वं संस्कार्यत्वं वेति विकल्प्य कल्पद्वये कार्यानुप्रवेशमङ्गीकरोति —
यस्येति ।
तथेति मुक्तेर्विकार्यत्वे सत्युत्पाद्यत्ववत्कार्यापेक्षा युक्तेत्यर्थः ।
तर्हि कार्यानुप्रवेशायान्यतरपरिग्रहः स्यादित्याशङ्क्याह —
तयोरिति ।
तदेव व्यतिरेकेण व्यनक्ति —
नहीति ।
अनित्यत्वनिवृत्तये पूर्वसिद्धस्यैव ब्रह्मणो ग्रामादिवदाप्यतेति तृतीयमाशङ्क्याह —
न चेति ।
ब्रह्म प्रत्यगन्यद्वा । प्रथमं प्रत्याह —
स्वात्मेति ।
द्वितीयेऽपि ब्रह्म सर्वगतं परिच्छिन्नं वा । सर्वगतत्वेऽपि तत्प्राप्तिः संयोगस्तादात्म्यं वा । तत्राद्यं दूषयति —
स्वरूपेति ।
तादात्म्यपक्षस्तु स्थितस्य नष्टस्य वान्यस्यान्यत्वायोगादुपेक्षितः । अविकृतदेशतया परिच्छिन्नत्वेऽपि ब्रह्मणः संयोगाख्या तत्प्राप्तिरनित्यत्वादयुक्ता । तादात्म्यं तूक्तन्यायनिरस्तम् ।
पक्षान्तरं निराह —
नापीति ।
तदभावं वक्तुं संस्कारद्वैविध्यमाह —
संस्कारो हीति ।
प्रकारप्रकारिप्रसिद्ध्यर्थौ निपातौ ।
गुणाधानेन मुक्तेर्न संस्कार्यतेत्याह —
नेति ।
दोषनिरासेनापि न तस्याः संस्कार्यतेत्याह —
नापीति ।
आगन्तुकगुणदोषयोरभावेऽपि नैसर्गिकाविद्यादोषात्तन्निवृत्त्या मुक्तेः संस्कार्यतेति शङ्कते —
स्वात्मेति ।
वस्तुतः स्वात्मैव प्रतीत्या धर्मः सन्निति यावत् ।
स्वाभाविकस्यापि तिरस्कृतस्य क्रियातोऽभिव्यक्तौ दृष्टान्तमाह —
यथेति ।
किमात्मा स्वाश्रयक्रियया दोषापनुत्त्या संस्क्रियते किं वान्याश्रयक्रिययेति विकल्प्याद्यं निरस्यति —
नेति ।
आत्मनोऽसङ्गत्वान्न क्रियाश्रयत्वयोग्यतेत्ययुक्तं, क्रियावत्त्वमिच्छतां तद्योग्यत्वादित्याशङ्क्याह —
यदाश्रयेति ।
आत्मनोऽपि विकारित्वमाशङ्क्याह —
यदीति ।
न केवलमात्मनो विकारित्वे युक्तिविरोधः, अपित्वागमविरोधोऽपीत्याह —
अविकार्य इति ।
‘निष्कलं निष्क्रियम् ‘ इत्यादिश्रुतिसमुच्चयार्थश्चकारः । ‘न जायते म्रियते वा ‘ इत्यादिश्रुतिस्मृतिसङ्ग्रहार्थमादिपदम् ।
तच्चेति ।
आगमबाधनमनिष्टम् । वैदिकानामिति शेषः ।
आद्यपक्षायोगं निगमयति —
तस्मान्नेति ।
द्वितीयं निराह —
अन्येति ।
क्रियायाः स्वाश्रये तद्युक्ते वातिशयहेतुत्वात् , असङ्गस्यात्मनस्तदाश्रयबुद्ध्याद्यसम्बन्धात् , तन्निष्ठा क्रिया संस्कारमात्मन्याधातुमलमित्यर्थः ।
नान्याश्रया क्रियान्यं संस्करोतीत्यत्र व्यभिचारं शङ्कते —
नन्विति ।
आदिपदं सन्ध्यावन्दनादिसङ्ग्रहार्थम् ।
आत्मनो देहाद्यतिरिक्तस्यापि देहादिष्वविद्याध्यासात्तदभिन्नस्यैव तत्क्रियया संस्कार्यत्वान्न व्यभिचार इत्याह —
न । देहेति ।
अविद्यागृहीतस्येति ।
अविद्यया मनुष्योऽहमिति मिथ्याज्ञानदृष्टस्येत्यर्थः ।
देहाश्रयक्रियया देहसंहतस्य तदभिन्नस्यात्मनः संस्क्रियमाणत्वमुक्त्वा स्नानाचमनादिक्रियाया देहाश्रयत्वे मानमाह —
प्रत्यक्षं हीति ।
असंहतात्मस्थक्रियया तस्यैव संस्कार्यत्वं किं न स्यादित्याशङ्क्याध्यक्षविरोधमाह —
तयेति ।
कश्चिदित्यनिर्धारितविशेषमामुष्मिकफलोपभोगशक्तमस्तीत्येवं प्रतिपन्नं निर्दिशति ।
दृष्टान्तेनोक्तं स्पष्टयति —
यथेत्यादिना ।
देहसंहतिफलं तदभिमानिन इत्युक्तं, आरोग्यमपि कस्मादसंहतात्मगं न स्यादित्याशङ्क्यानुभवविरोधादित्याह —
अहमिति ।
संस्कारफलं शुद्ध इत्युक्तम् । आत्मनो यथोक्तबुद्धिमतोऽसंहतत्वमनुभवेन वारयति —
स चेति ।
कथं तर्हि स्नानादीनां कर्तृसंस्कारत्वप्रसिद्धिरित्याशङ्क्य संहतस्यैव कर्तृत्वादित्याह —
तेनेति ।
प्रयतेऽहमिति कर्तृत्वमनुभवितुरपि तुल्यमित्याशङ्क्याह —
अहंप्रत्ययेति ।
अनुभवितुर्नित्यप्रकाशस्य न तद्विषयतेत्यर्थः ।
न केवलमस्याहन्धीमात्रे कर्तृत्वं किन्तु धीमात्र इत्याह —
प्रत्ययिनेति ।
आत्मनो भोक्तुरेव कर्तृत्वमकर्तुर्भोगाभावादित्याशङ्क्याह —
तत्फलं चेति ।
संहतस्य भोक्तृत्वे मानमाह —
तयोरिति ।
जीवपरयोर्मध्ये जीवो नानारसं कर्मफलं भुङ्क्ते ।
असंहतस्याभोक्तृत्वे मानम् —
अनश्नन्निति ।
परमात्मा स्वयमभुञ्जान एव पश्यन्वर्तते ।
संहतस्य भोक्तृत्वे वाक्यान्तरमाह —
आत्मेति ।
आत्मीयं शरीरमात्मा । देहादिसंयुक्तमात्मानमित्यर्थः । यद्वात्मा भोक्तेत्याहुरिति सम्बन्धः । इन्द्रियेत्यादि क्रियाविशेषणम् ।
निर्गुणत्वान्निर्दोषत्वाच्च ब्रह्मात्मनि द्विधापि संस्कारो नेत्युक्तम् । इदानीं तस्मिन्गुणदोषयोरभावे मानमाह —
तथाचेति ।
मूर्तित्रयात्मना भेदं प्रत्याह —
एक इति ।
यथाहुः - ‘हरिर्ब्रह्मा पिनाकीति बहुधैकोऽपि गीयते ‘ इति अखण्डजाड्यं व्यावर्तयति —
देव इति ।
आदित्यादिवैषम्यमाह —
सर्वेति ।
तर्हि किमिति सर्वेषां न भाति, तत्राह —
गूढ इति ।
तर्हि तत्तद्भूतावच्छिन्नत्वेन परिच्छिन्नत्वं, नेत्याह —
सर्वव्यापीति ।
नभोवत्ताटस्थ्यं वारयति —
सर्वभूतेति ।
सर्वेषु भूतेष्वन्तःस्थितस्य तत्तत्क्रियाकर्तृत्वं शङ्कित्वोक्तम् —
कर्मेति ।
सर्वभूतेष्वित्यादिना भूतानां पृथगुक्तेः सद्वितीयत्वं, तत्राह —
सर्वेति ।
सर्वेषां भूतानामधिवासोऽधिष्ठानम् । न च कल्पितमधिष्ठानादर्थान्तरमित्यर्थः ।
न परं कर्मणामेवाध्यक्षोऽपि तु तद्वतामपीत्याह —
साक्षीति ।
तत्र चैतन्यस्वाभाव्यं हेतुमाह —
चेतेति ।
केवलो दृश्यवर्जितोऽद्वितीयः । निर्गुणो ज्ञानादिगुणरहितः । चकारो दोषाभावसमुच्चयार्थः ।
ब्रह्मात्मनि गुणदोषाभावे मन्त्रान्तरमाह —
स इति ।
स प्रकृतः ‘यस्य सर्वाणि भूतानि’ इत्यादावात्मा परितः समन्तादगात्सर्वगतः । शुक्रमित्यादिशब्दाः पुंलिङ्गत्वेन नेयाः ‘स’ इत्युपक्रमात् , ‘कविर्मनीषी’ इत्यादिना च पुंलिङ्गत्वेनोपसंहारात् । शुक्रो दीप्तिमानकायो लिङ्गदेहहीनः । अव्रणोऽक्षतोऽस्नाविरः शिरारहितस्ताभ्यां स्थूलदेहासत्त्वमुक्तम् । शुद्धो रागादिशून्यः । अपापविद्धो धर्माधर्मविधुरः ।
मन्त्रयोस्तात्पर्यमाह —
एताविति ।
तथापि मोक्षस्य किमायातं, तदाह —
ब्रह्मेति ।
मुक्तिब्रह्मणोरैक्यात्तत्र दोषाद्यभावान्न तस्याः संस्कार्यतेत्युपसंहरति —
तस्मादिति ।
उत्पाद्यादिदृष्टान्तार्थोऽपिशब्दः ।
मुक्तेरुत्पत्त्यादिचतुष्टयं क्रियानुप्रवेशद्वारं मा भूत्पञ्चमं तु किञ्चिद्भविष्यति नियमाभावात् , नेत्याह —
अत इति ।
उत्पत्त्यादिचतुष्टयमतःशब्दार्थः । तस्या लोकवेदप्रसिद्धत्वादित्यर्थः ।
मोक्षे क्रियाया अननुप्रवेशे तदर्थप्रवृत्त्यानर्थक्यमित्याशङ्क्य ज्ञानार्थत्वान्मैवमित्याह —
तस्मादिति ।
क्रियानुप्रवेशद्वाराभावस्तच्छब्दार्थः । उपास्तेरपि मोक्षे साक्षात्प्रवेशो नेति वक्तुं गन्धमात्रस्येत्युक्तम् । बाह्यक्रियायास्तत्राप्रवेशे कैमुतिकन्यायार्थोऽपिशब्दः ।
मोक्षेज्ञानप्रवेशे तस्य क्रियात्वादस्त्येव तत्प्रवेशस्तत्रेति शङ्कते —
नन्विति ।
तस्य मानसव्यापारत्वेऽपि न वैधक्रियात्वम् ।
ततो जन्यफलादजन्यफलत्वेन विशेषादित्याह —
नेति ।
वैधक्रियात्वम् ।
वैधक्रिया यत्नेच्छासाध्या ज्ञानं न तथेत्यपरं विशेषमाह —
क्रिया हीति ।
यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रिया हि नामेति योजना । क्रियातद्धर्मप्रसिद्धार्थौ निपातौ ।
वस्तु चेन्न कारणं किं तर्हि तथा तदाह —
पुरुषेति ।
वस्त्वनपेक्षा पुन्तन्त्रा च क्रियेत्यत्र दृष्टान्तद्वयमाह —
यथेति ।
गृहीतमध्वर्युणेति शेषः । वषट्करिष्यन्निति होतोक्तः । सन्ध्यां तदभिमानिनीं देवतामित्यर्थः । ‘नाम ब्रह्मेत्युपासीत’ इत्यादिग्रहीतुमादिपदम् । एवमादिषु वाक्येषु वस्त्वनपेक्षं पुन्तत्त्रं च ध्यानं विधीयते तथा क्रियान्तरमपीत्यर्थः ।
ननु मानसत्वाविशेषाविशेषाद्ध्यानमपि ज्ञानमेवेति नास्य क्रियादृष्टान्तत्वम् , तत्राह —
ध्यानमिति ।
ज्ञानस्यापि तुल्यं पुन्त्न्त्रत्वं तदाश्रयत्वात्तत्राह —
ज्ञानं त्विति ।
प्रमाणद्वारा तस्य पुन्तन्त्रत्वमाशङ्क्याह —
प्रमाणं चेति ।
ज्ञानस्यापुन्तन्त्रत्वे फलितमाह —
अत इति ।
तर्हि ज्ञानस्य नित्यत्वं, नेत्याह —
केवलेति ।
विशेषणकृत्यमाह —
नेति ।
एवकारव्यावर्त्यमाह —
नापीति ।
ज्ञानध्यानयोर्मानसक्रियात्वेऽपि गोबलीवर्दवद्भेदं मत्वा वैशेष्यं निगमयति —
तस्मादिति ।
तच्छब्दार्थोऽपुन्तन्त्रत्वम् ।
ध्यानस्य वस्त्वनपेक्षत्वे दृष्टान्तावुक्त्वा तस्य तद्विरोधित्वे दृष्टान्तावाचष्टे —
यथा चेति ।
सापि धीर्मानसत्वाज्ज्ञानमेवेत्याशङ्क्याह —
केवलेति ।
न ज्ञानमिति तुशब्दार्थः । वस्त्वनधीनत्वं कैवल्यम् । एवकारोऽयोगव्यवच्छेदकः ।
उक्तबुद्धेरुक्तक्रियात्वनियमे हेत्वन्तरमाह —
पुरुषेति ।
यथैतौ दृष्टान्तौ तथा क्रियान्तरमपीति यथाशब्दो नेयः ।
ज्ञानमपि योषिदादावग्निधीतुल्यमिति, नेत्याह —
या त्विति ।
तस्यास्तर्हि किं कारणं, तदाह —
किं तर्हिति ।
प्रकृतदृष्टान्तमपेक्ष्य प्रत्यक्षविषयपदम् । तेन युक्तमेव वैषम्यं वैधक्रियाधियोरित्याह —
इति ज्ञानमिति ।
अध्यक्षधियोऽर्थजन्यतया तत्तन्त्रत्वेऽपि शब्दाद्यर्थधियस्तदभावाच्चोदनादिजन्यतेत्याशङ्क्याह —
एवमिति ।
अनुमानादावर्थाजन्यत्वेऽपि लिङ्गादिजन्यत्वान्न चोदनाद्यपेक्षेति भावः ।
लौकिकधियश्चोदनाद्यनपेक्षत्वेऽपि ब्रह्मधीरलौकिकत्वात्तदपेक्षत इत्याशङ्क्य दार्ष्टान्तिकं निगमयति —
तत्रेति ।
पूर्वोक्तरीत्या सम्यग्ज्ञाने वस्तुमात्रतन्त्रे सतीति यावत् । यथाभूतत्वं सदैकरूप्यम् ।
वैधक्रियातो वैशेष्योक्त्या ज्ञानस्याविधेयत्वमुक्तम् । तत्र ज्ञाने लिङादिश्रुत्या दृष्टविधेस्तर्कानिरस्यत्वादित्याशङ्क्याह —
तद्विषय इति ।
तदेव ज्ञानं विषयः । तत्र यद्यपि लिङादयः श्रुतास्तथापि स्तुत्यर्थवादतया ‘विष्णुरुपांशु यष्टव्यः’ इत्यादिवदवतिष्ठन्ते । अनियोज्यमपुन्तन्त्रतया नियोगानर्हं नियोज्येन वा हीनं ज्ञानं तद्विषयत्वात्तेषामविधायकत्वादित्यर्थः ।
कुण्ठीभावे दृष्टान्तमाह —
उपलादिष्विति ।
बिधेयज्ञानस्य कर्मणि ब्रह्मण्यतिशयाजनकत्वाच्च न विधेयतेत्याह —
अहेयेति ।
अनुष्ठेयानुष्ठात्रोरभावाद्विध्यभावे श्रुतेरपि तदपेक्षत्वेनासम्भवाद्विधिशब्दवैयर्थ्यमिति शङ्कते —
किमर्थानीति ।
यो द्रष्टव्यः स आत्मैवेति तत्त्वप्रतिपादकानि तानीत्यशङ्क्याह —
विधीति ।
तेषामर्थवत्त्वं ब्रुवाणः समाधत्ते —
स्वाभाविकेति ।
सङ्गृहीतं विभजते —
यो हीति ।
बाहिर्मुख्यं शब्दादिप्रवणत्वम् ।
पुमर्थमुद्दिश्य प्रवृत्तेः श्रुत्या किमिति परावर्त्यते, श्रुतेरनर्थकरत्वापातात्तत्राह —
न चेति ।
बाह्योऽर्थः सप्तम्यर्थः ।
किमिति तर्हि श्रुतिः सर्वानपि पुरुषान्नानुसरति, तत्राह —
तमिति ।
अग्नेर्दाहप्रवृत्तिवदात्मनो विषयप्रवृत्तिरपि निरोद्धुमशक्येत्याशङ्क्याह —
कार्येति ।
आत्मधियोऽनात्मदर्शने सत्यपि सम्भवात्किमिति ततो विमुखीकरणं, तत्राह —
प्रत्यगिति ।
तत्र चेतसः स्रोतस्तदाभिमुख्यं तद्भावेनेति यावत् । सत्यनात्मदर्शने तत्प्रवणस्य चेतसो न प्रत्यगाभिमुख्यमित्यनात्मधीनिरासेन फलभूतात्मदृष्टिस्तावकतया तदाभिमुख्यायान्वयव्यतिरेकसिद्धा एवं श्रवणादयो विधिसरूपैर्वाक्यैरनूद्यन्ते । तेन विधिकार्यलेशलाभाद्विधिच्छायान्येतानि न विधय इत्यर्थः ।
अस्तु वा मुमुक्षुप्रवृत्तेर्वैधत्वाद्वाक्यभेदेन श्रवणादिविधिः तथापि वस्तुनो विध्ययोग्यत्वान्न तज्ज्ञाने विधिरित्याह —
तस्येति ।
यदिदं ब्रह्मक्षत्रादि तत्सर्वमात्मैवेति बाधायां सामानाधिकरण्याद्द्वैताभावोक्त्यात्मनोऽद्वितीयत्वेन पूर्णत्वोक्तेर्न तत्र हेयत्वमादेयत्वं चेत्याह —
इदमिति ।
अविद्यादशायामात्मनः सद्वितीयतया हेयत्वादिसिद्धिमाशङ्क्याङ्गीकुर्वन्विद्यावस्थायामात्मातिरिक्तक्रियाद्यभावान्न हेयत्वादीत्याह —
यत्रेति ।
न केवलं विद्यावस्थायामेवात्मनि ज्ञात्रादिविभागाभावः किन्त्ववस्थान्तरेऽपीत्याह —
विज्ञातारमिति ।
आत्मनः स्वविषये ज्ञेयत्वाभावेऽपि ब्रह्मणि तद्भावादादेयता तत्र स्यादित्याशङ्क्याह —
अयमिति ।
आदिशब्द आत्मतत्त्ववादिसर्ववाक्यसङ्ग्रहार्थः ।
प्रतिपत्तिविधिशेषतयैव ब्रह्म शास्त्रीयमित्येतन्निराकृत्य तत्रैवसूचितं पूर्वपक्षमनुवदति —
यदपीति ।
आत्मधियो हानाद्यनुपायत्वं, विफलत्वं वा । तत्राद्यमङ्गीकरोति —
तथेति ।
द्वितीयं दूषयति —
अलङ्कारो हीति ।
ब्रह्मात्मावगतेरुक्तफलत्वे मानं हिशब्दसूचितमाह —
तथा चेति ।
अयं परमात्माहमस्मीत्यपरोक्षतया यदि कश्चित्पुरुषो जानीयात् । आत्मसाक्षात्कारदौर्लभ्यद्योती चेच्छब्दः । स स्वातिरिक्तमात्मनः किं फलमिच्छन्कस्य वा पुत्रादेः फलाय तदलाभेन शरीरं तप्यमानमनु तदुपाधिः सञ्ज्वरेत्तप्येत । निरूपाध्यात्मविदो नान्यदस्ति फलं नाप्यन्यः पुत्रादिरित्याक्षेपः ।
तत्रैव स्मृतिमाह —
एतदिति ।
गुह्यतमं शास्त्रमेतत्तस्य बुद्धिः अर्थतः विधिशेषत्वेन ब्रह्मणो न शास्त्रगम्यतेत्युक्तमुपसंहरति —
तस्मादिति ।
ज्ञानस्य विधेयत्वाभावस्तथाविधफलत्वं च तच्छब्दार्थः । प्रमाप्रमारूपधीमात्रविषयः प्रतिपत्तिशब्दः । तद्विधिविषयतयेति पूर्ववत् ।
यूपादिदृष्टान्तेन विधिशेषतया ब्रह्मणः शास्त्रगम्यत्वमुक्तं निरस्य प्रवृत्तिनिवृत्तीत्यादावुक्तमनुभाषते —
यदपीति ।
किं वस्त्वेव नास्ति वेदान्तवेद्यं, तस्याप्रसिद्धत्वात्तदुद्दिश्य प्रतिपादनायोगात् , आहोस्वित्तस्य क्रियाशेषतेति विकल्प्याद्यं दूषयति —
तन्नेति ।
औपनिषदस्य पुरुषस्येत्याद्यनिरासं सूचितं प्रपञ्चयति —
योऽसाविति ।
तस्यापि चैतन्यात्कर्तृत्वेन क्रियाशेषत्वमाशङ्क्यानन्यशेषत्वादिति द्वितीयं निरासमुक्तं विवृणोति —
असंसारीति ।
तत्र पूर्णत्वं हेतुमाह —
ब्रह्मेति ।
कर्तृत्वेनानन्वयेऽपि क्रियायामात्मा कर्मत्वेनान्वेष्यतीत्याशङ्क्याह —
उत्पाद्यादीति ।
विनियोजकमानाभावादपि नान्वयः ।
तद्धि प्रकरणं, वाक्यं वा । नाद्य इत्याह —
स्वप्रकरणस्थ इति ।
पर्णतावद्वाक्यं विनियोजकमिति ।
द्वितीयं दूषयति —
अनन्येति ।
आत्मनो जुह्वादिवदव्यभिचरितक्रतुसंबन्धाभावादित्यर्थः ।
पक्षद्वयनिरासं निगमयति —
नासाविति ।
तस्य न क्रियाशेषत्वमपीति विवक्षितम् ।
वेदान्तवेद्यवस्तुनो निरासायोगे हेत्वन्तरमाह —
स एष इति ।
यः खल्वात्मा ‘अथात आदेशः’ ‘नेति नेति’ इति विश्वदृश्यनिषेधेनोक्तः स एष पञ्चमेऽपि निरूप्यत इत्यत्र वस्तुन्यात्मशब्दात् , तस्य चात्मत्वादेवानिराकार्यत्वात् , तत्कर्तुरेवात्मत्वात्तत एव तस्योद्दिश्य प्रतिपाद्यत्वमपि सिध्यतीत्यर्थः ।
औपनिषदत्वं पुरुषस्यामृष्यन्नाशङ्कते —
नन्विति ।
अहन्धीविषयत्वं दूषयन्विशेषणं समर्थयते —
नेत्यादिना ।
संस्कार्यत्वनिरासे ‘साक्षी चेता’ इतिमन्त्रेणात्मनः सर्वसाक्षित्वमुक्तम् । तेनाहन्धीविषयत्वस्य प्रत्युक्तत्वादविरुद्धमौपनिषदत्वमित्यर्थः ।
तथापि कर्मकाण्डे तर्कशास्त्रे च सिद्धत्वान्न तस्यौपनिषदत्वम् , तत्राह —
नहीति ।
तत्साक्षीति विधिकाण्डागम्यत्वोक्तिः ।
बौद्धसिद्धान्तेऽनधिगतिमाह —
सर्वेति ।
सर्वेषु नश्यत्सु भूतेषु स्थितो न नश्यतीत्यर्थः ।
नैयायिकादिमते तदनधिगतिमाह —
सम इति ।
निर्विशेष इत्यर्थः ।
साङ्ख्यसमयसिद्धत्वं निरस्यति —
एक इति ।
चैतन्यान्तरशून्यत्वमैक्यम् ।
भर्तृप्रपञ्चादिमते प्रसिद्धिं प्रत्याह —
कूटस्थेति ।
कौटस्थ्ये कथं कारणत्वम् , तत्राह —
सर्वस्येति ।
सर्पाधिष्ठानरज्जोरिव ब्रह्मणोऽपि द्वैताधिष्ठानत्वात्कारणत्वमाविद्यकमिति भावः ।
अन्यतोऽनधिगतौ फलितमाह —
अत इति ।
ज्ञाते हि बाधो नान्यथेत्यर्थः ।
विधिकाण्डानधिगतिफलमाह —
विधीति ।
तत्र हेत्वन्तरमाह —
आत्मत्वादिति ।
आत्मा सर्वशेषित्वान्नान्यशेषः स कथं विधिशेषः स्यादित्यर्थः । विधिकाण्डाज्ञातत्वमुक्तं समुच्चेतुं चशब्दः ।
किं च हेयोपादेयविषयौ विधिनिषेधौ नात्मनि विपरीते स्यातामित्याह —
नेति ।
तस्यापि संसारिणोऽनाशितया हेयत्वमाशङ्क्योक्तम् —
सर्वं हीति ।
निरवधिकनाशासिद्धेरित्यर्थः ।
संसारस्यैव नाशो न पुरुषस्येति वक्तुं विकारजातमित्युक्तम् । घटादेर्मृदादौ नाशात्कथं पुरुषावधिः सर्वस्य नाशस्तत्राह —
पुरुष इति ।
कल्पितस्यानधिष्ठानत्वात्पुरुषो नित्यसत्स्वभावस्तदधिष्ठानत्वेन विश्वोदयव्यहेतुरित्यर्थः ।
पुरुषस्य परिणामिनित्यत्वात् , परिणामोदयव्ययाभ्यां हानादाने स्यातामित्याशङ्क्याह —
विक्रियेति ।
सावयवत्वादिस्तद्धेतुः ।
अशुद्धत्वादित्यागेन शुद्धत्वादेरादेयत्वं शङ्कित्वाह —
अत इति ।
आत्मनि स्वतो धर्मतश्चानन्यथात्वमतःशब्दार्थः ।
पुरुषावधिर्नाशः सर्वस्येत्यत्र श्रुतिमाह —
तस्मादिति ।
कल्पितस्याकल्पितमधिष्ठानमित्युक्तयुक्तिपरामर्शी तच्छब्दः । यथेन्द्रियादिभ्यो नैवं पुरुषादस्ति किञ्चित्परं सा पुरुषाख्या काष्ठा सूक्ष्मत्वमहत्त्वादेरवधिः सैव परा गतिः परमपुरुषार्थ इत्यर्थः ।
निरतिशयस्वतन्त्रतया विध्यशेषत्वे श्रुतिरुक्ता । मानान्तरागम्यतया वेदान्तैकवेद्यत्वे श्रुतिमाह —
तं त्विति ।
यस्त्वदुक्तसविशेषब्रह्मणः ‘पृथिव्येव यस्यायतनम् ‘ इत्युपक्रम्योक्तमधिष्ठानं तमौपनिषद्भिरेव ज्ञेयं पुरुषं त्वा त्वां पृच्छामि । हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः ।
विशेषणाभिप्रायं विवृणोति —
औपनिषदत्वेति ।
औपनिषदत्वेऽनन्यशेषत्वे चात्मनः सिद्धे परस्य प्रतिज्ञा निर्मूलेत्याह —
अत इति ।
तथा हीत्यादौ वेदान्तानामर्थवत्त्वमभियुक्तोक्तिविरुद्धमित्युक्तमनुवदति —
यदपीति ।
तस्यान्यविषयत्वं वदन्प्रकृताविरोधित्वमाह —
तद्धर्मेति ।
'दृष्टो हि तस्यार्थः फलवदर्थबोधनम् ‘ इति वक्तव्ये धर्मजिज्ञासाप्रक्रमाद्धर्मकर्मणोश्चैक्याद्यदुक्तं कर्माबोधनं तद्विधिनिषेधविवक्षयोक्तम् । यत्तु चोदनासूत्रे चोदनापदव्याख्यानं तदप्रतिकूलं, पदार्थमात्रकथनात् । परीष्टिसूत्रप्रमुखमपि सूत्रजातं पूर्वसूत्राभ्यां तत्तद्भाष्यैश्च सह प्रकमवशात्कर्मकाण्डार्थमेवातो ब्रह्मबोधनमिति वेदैकदेशस्य फलमित्युपनिषदर्थवत्तेत्यर्थः ।
अर्थवादाधिकरणविरोधं विधान्तरेण निरस्यति —
अपि चेति ।
तत्र खल्वक्रियार्थत्वे सत्यानर्थक्यं भूतोपदेशविशेषस्य वा । तन्मात्रस्य वा । तत्राद्यमुपेत्य द्वितीयं प्रत्याह —
आम्नायस्येति ।
'वषट्कर्तुः प्रथमभक्षः’ देवदत्तो भुक्त्वा निर्गत इत्यादिभूतोपदेशस्य सम्बन्धयोग्यतावाचिविभक्तियुक्तस्य द्रव्यादिवाचिनः साक्षात्कार्यार्थत्वाभावात्फलवदर्थराहित्यम् । अतोऽविशेषात्कार्योपदेशस्यापि तत्प्रसक्तिरित्यर्थः ।
उक्तभूतोपदेशेऽपि कर्तव्यादिपदाध्याहारात्कार्यशेषद्रव्याद्यर्थतया फलवदर्थसिद्धिरिति शङ्कते —
प्रवृत्तीति ।
तत्साध्यातिरेकेण भूतमपि द्रव्यादिवस्तु वषट्कर्तुरित्यादिवाक्यमध्याहृतकार्यशेषत्वेनाभिदधाति, भूतभव्यन्यायात् । अतो भूतोपदेशस्यार्थवत्त्वान्नातिप्रसक्तिरित्यर्थः ।
कार्यान्वितस्वार्थाभिधानेऽपि योग्यान्विताभिधानात्तेनैव कार्यास्पृष्टवस्तूपदेशोऽपि स्यादित्याह —
कूटस्थेति ।
ननु न तादृगस्ति वस्तु, सर्वस्योपदिश्यमानभूतस्य कार्यस्पर्शितया कार्यत्वात् , तत्राह —
नहीति ।
क्रिया कार्यम् । भूतस्य तत्संसर्गस्तादात्म्यं फलफलिभावो वा । नाद्यः, क्रीयाद्वारा हेतुहेतुमद्भावाभ्युपगमात् । द्वितीयेऽपि न तयोरैक्यं फलफलित्वस्य भेदकत्वादित्यर्थः ।
भूतस्याकार्यत्वेऽपि तद्धेतुत्वात्तच्छेषत्वात्तदुपदेशोऽपि तच्छेष एव, गामानयेत्यादावाद्यव्युत्पत्तेः कार्यान्वितविषयत्वात् , अतो न कूटस्थोपदेशोऽस्तीति चोदयति —
अक्रियात्वेऽपीति ।
कार्यस्याकार्यान्तरात्कार्यपदस्य तदन्वितार्थावाचित्वाद्योग्येतरान्वयस्यैव सर्वपदशक्तिविषयत्वात्पुत्रजन्मादिवाक्ये वाद्यव्युत्पत्तेरकार्यार्थेऽपि दृष्टेर्भूतोक्तेरकार्यार्थत्वात्कूटस्थोक्तिः स्यादित्याह —
नैष इति ।
उक्तरीत्या भूतोक्तेर्न कार्यार्थत्वम् । अस्तु वा तत्सापेक्षत्वाद्द्रव्यादेस्तदुक्तेस्तादर्थ्यं तथापि यत्कार्यनिवर्तनशक्तिमद्भूतं तदुक्तमेव । न च तत्कार्यं, तद्धेतुत्वात् । तस्य कार्यान्वयेऽपि न तदन्वयित्वं वाच्यत्वनिमित्तं, कार्यस्य तदभावेऽपि वाच्यत्वात् । अतो योग्यान्वितद्रव्यादेस्तच्छब्दवाच्यत्ववत्कार्यानन्वितस्यापि वस्तुनो वेदान्तार्थतेत्यर्थः ।
तथापि कार्यशेषत्वेनैवान्यत्र भूतोक्तेर्न स्वतन्त्रभूतोक्तिरित्याशङ्क्याह —
क्रियार्थत्वमिति ।
भूतोपदेशस्य कार्यशेषत्वं फलवत्त्वायेष्टम् । न च कार्यस्य वाच्यकोटिनिवेशोऽस्तीत्यर्थः ।
कार्यार्थत्वेन भूतोक्तौ कार्यशेषेऽपि कथं सिद्धे शब्दप्रामाण्यं, तत्राह —
न चेति ।
भूतोपदेशस्य कार्यशेषत्वमात्रेण तदशेषभूतं भूतं नैवानुपदिष्टं, तदुपदेशस्याज्ञातार्थगन्तृत्वेनाध्यक्षादिवन्मानत्वादित्यर्थः ।
अज्ञातार्थोपदेशित्वेऽपि वेदान्तानामकार्यशेषत्वेन वैफल्यान्न प्रामाण्यं, वाक्यप्रामाण्यस्य फलाधीनत्वादिति शङ्कते —
यदीति ।
भूतं यद्युपदिष्टमुपदिश्यतां नाम तथापि किं तेनोपदिष्टेन तव श्रोतुर्वक्तुर्वा स्यादिति योजना ।
कार्योपदेशवदज्ञातात्मोपदेशात्मकं वेदान्तवाक्यमनन्यशेषत्वेऽपि फलवत्त्वेन मानमित्याह —
उच्यत इति ।
कार्यशेषोपदेशस्य कार्यफलेन फलवत्त्वात्प्रामाण्येऽपि कथमात्मोपदेशस्य फलवत्त्वेन तथात्वमित्याशङ्क्याह —
तदवगत्येति ।
मिथ्या च तदज्ञानं चेति विग्रहः तस्य भ्रान्तित्वं व्यवच्छिनत्ति —
संसारेति ।
वेदान्तप्रामाण्यं फलवत्त्वेन सदृष्टान्तमुक्तं निगमयति —
इत्यविशिष्टमिति ।
विधिवाक्यस्थद्रव्यादिशब्दानां शुद्धसिद्धार्थतामित्थमापाद्य तथैव ब्रह्म शाब्दमित्युक्तम् । इदानीं निषेधवाक्यवद्वेदान्तानां सिद्धार्थतेत्याह —
अपि चेति ।
कृतेर्भावार्थविषयत्वान्निषेधेषु भावार्थाभावात्कृतिनिवृत्तौ तदविनाभूतं कार्यमपि निवर्तत इति मत्वाह —
ब्रह्मण इति
निवृत्तिरेव कार्यं तद्धेतुर्वेति कुतो निषेधानामकार्यार्थतेत्याशङ्क्याह —
न चेति ।
प्राप्तक्रियानिवृत्तित्वात्तस्या नोभयार्थत्वम् । विमतं, न कार्यं, तद्धेतुर्वा, निवृत्तित्वात् , घटनिवृत्तिवदित्यर्थः ।
निवृत्तेरुभयभावाभावेऽपि किमायातं तदुपदेशानां, तदाह —
अक्रियेति ।
अकार्यार्थानमिति यावत् ।
ननु ‘न हन्तव्यः’ इत्यत्र हननं न कुर्यादिति न वाक्यार्थः किं त्वहननं कुर्यादिति । ततो हननविरोधिनी सङ्कल्पक्रिया हननं न कुर्यामित्येवंरूपा कार्यतया विधीयते, तेन निषेधवाक्यमपि नियोगनिष्ठमेव, नेत्याह —
न चेति ।
स्वभावतः शास्त्रादृते रागादेव प्राप्तो यो हन्तेर्धातोरर्थो हननं तेन नञोऽनुरागः सम्बन्धो यदा तदा भवत्यहननमिति । तत्कार्यमित्युक्ते हननविरोधिनी सङ्कल्पक्रिया, हननप्रवृत्तेर्विधारको यत्नो वा कार्यत्वेन विधीयते विना विधिमप्राप्तत्वात् । तथा च तथाविधक्रियाविधिनिष्ठं निषेधवाक्यमिति कल्पयितुं नैव शक्यमित्यर्थः ।
क्क तर्हीदं वाक्यं त्वन्मते पर्यवसितं, तदाह —
हननेति ।
औदासीन्यं स्वास्थ्यादप्रच्युतिः स्वतोऽपि स्यादिति प्रसक्तक्रियानिवृत्त्योपलक्ष्यं विशिनष्टि —
हननेत्यादिना ।
तस्मिन्पर्यवसितमस्मन्मते निषेधवाक्यम् । तद्व्यतिरेकेणार्थान्तरं तस्याशक्यं वक्तुमित्यर्थः ।
तत्र हेतुमाह —
नञश्चेति ।
चकारोऽवधारणे । एष एव च नञः स्वभावो यत्प्रतियोगिनोऽभावबोधनम् । न च तदन्यतद्विरोधिनोरपि तदर्थत्वं, अभावार्थस्यैव तस्य स्वार्थसम्बन्धिन्यर्थान्तरे लाक्षणिकत्वे तत्रापि शक्तिकल्पनायां गौरवात् । ‘नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ‘ इत्यपि लक्षणयैवार्थान्तरे नञः प्रवृत्तिरुक्तेति भावः ।
तर्हि नञर्थे हननाभावे नियोगात्तन्निष्ठं वाक्यमित्याशङ्क्याह —
अभावेति ।
भावार्थो दध्यादिर्वा नियोगविषयतया तन्निष्पत्तिहेतुर्नाभावः, तस्यानादित्वात्तद्विषयत्वे नियोगस्याननुष्ठेयत्वापातात् । न चैतत्प्रागभावपालनं कार्यं, स्वास्थ्यादप्रच्युतिरूपौदासीन्यादेव तत्सिद्धेः । नञोऽर्थो दृष्टः सन्नौदासीन्यं पुंसः स्थापयत्यतोऽनुष्ठेयाभावान्न नियोगनिष्ठं वाक्यमित्यर्थः ।
यद्वा न निषेधवाक्ये प्रकृत्यर्थेन नञः सम्बन्धोऽपि तु प्रत्ययार्थेन, तस्य प्राधान्यात्प्रकृत्यर्थस्यान्योपसर्जनत्वात् । अतो हननस्य यदिष्टोपायत्वं प्रवर्तकं तदेव प्रत्ययेनानूद्य नञा निषिध्यते, ब्रह्महननमिष्टोपायो नेति । तथा चौदासीन्ये पुरुषः स्थास्यति, तदाह —
अभावेति ।
प्रत्ययार्थेन नञः सम्बन्धे कथं प्रकृत्यर्थस्य हननक्रियाया निवृत्तिः, तत्राह —
सा चेति ।
प्रत्ययार्थेष्टोपायतानिषेधे प्रकृत्यर्थः स्वयमेव निवर्तते आपाततो हितोपायत्वबुद्ध्या प्रवृत्तस्व ततोऽधिकतरानर्थहेतुत्वबुद्धौ प्रवृत्त्ययोगादित्यर्थः ।
निषेधवाक्यानामित्थमर्थमुक्त्वा सिद्धार्थत्वमुपसंहरति —
तस्मादिति ।
भावार्थाभावे कृत्यभावात्तदविनाभूतकार्याभावस्तच्छब्दार्थः । प्रकृत्यर्थस्य हननादेरिष्टोपायत्वं भ्रान्तिप्राप्तं प्रत्ययेनानूद्य नञा तन्निषेधे तस्यानर्थहेतुत्वबोधिनिषेधवाक्यं तन्निवृत्त्युपलक्षितौदासीन्ये पर्यवस्यतीत्यर्थः ।
ननु ‘नेेक्षेतोद्यन्तमादित्यम् ‘ इत्यादावीक्षणविरुद्धा सङ्कल्पक्रिया नेक्ष इत्येवंलक्षणा विधीयते, तथात्रापि हननविरूद्धा न हन्यामिति सङ्कल्पक्रिया विधीयतां, तत्कथं निषेधवाक्यस्योक्तार्थत्वं, तत्राह —
अन्यत्रेति ।
तत्र हि ‘तस्य ब्रह्मचारिणो व्रतम् ‘ इत्यनुष्ठेयवाचिव्रतशब्दोपक्रमादेकस्मिन्वाक्ये प्रक्रमाधीनत्वादुपसंहारस्याख्यातान्वितेन नञा दृष्टोऽपि निषेधोऽननुष्ठेयत्वादुपेक्ष्यते । धात्वर्थयोगेन च पर्युदासो लक्ष्यते । तथा चेक्षणविरुद्धा क्रिया सामान्येन प्राप्ता, तद्विशेषबुभुत्सायां सर्वक्रियाप्रत्यासन्नः सङ्कल्प इत्यवगतम् । ईक्ष इति तु सङ्कल्पो नाद्रियते, तत्पर्युदासविरोधात् । अतोऽनीक्षणसङ्कल्पलक्षणया तद्विधिपरत्वं युक्तम् । नैवं निषेधेष्वपवादकमस्तीति विरोधिक्रियालक्षणया नानुष्ठाननिष्ठतेत्यर्थः । आदिपदं समस्तपर्युदासविषयसङ्ग्रहार्थम् । हननादावुद्युक्तपरश्वादिपरावर्तनस्य तन्निवृत्तित्वात्तद्भावे हननादिप्रागभावपालनसम्भवादुक्तनिवृत्तेश्च नञर्थधीफलत्वात्तदर्थो हननादिगतेष्टोपायत्वाभाव एवेति द्रष्टव्यम् ।
ननु निषेधवाक्यवदकार्यार्थत्वेऽपि वेदान्तानामर्थवत्त्वं चेदर्थवादाधिकरणं कथमित्याशङ्क्य क्रियासंनिहितार्थवादादिविषयं तदित्याह —
तस्मादिति ।
उपनिषदामुक्तरीत्यार्थवत्त्वं तच्छब्दार्थः । उपाख्यानशब्दः समान्यार्थः । आदिशब्दस्तद्विशेषार्थः ।
आम्नायस्य क्रियार्थत्वादितिहेतोस्तद्बलेनाक्रिायर्थानामप्रामाण्यपूर्वपक्षस्य विध्येकवाक्यत्वेन प्रामाण्यसिद्धान्तस्य चोपलक्षणार्थमानर्थक्याभिधानमित्युक्तम् । सर्वेषामेषामुक्तविषयत्वाविशेषादुपनिषदामपि पुरुषार्थानवसायित्वादर्थवादाधिकरणविषयतेत्याशङ्क्य पूर्वपक्षोक्तमनुवनदि —
यदपीति ।
तत्रोक्तं परिहारं स्मारयति —
तदिति ।
उक्तं वैषम्यं शङ्कते —
नन्विति ।
ज्ञानमात्रादूर्ध्वं वा संसारित्वं, तत्त्वसाक्षात्काराद्वा । तत्राद्यमङ्गीकुर्वन्नाह —
अत्रेति ।
द्वितीयं निरस्यति —
नेत्यादिना ।
तत्प्रपञ्चयति —
नहीति ।
शाब्दज्ञानाभ्याससंस्कृतं चेतो ब्रह्मात्मसाक्षात्कारहेतुरिति पक्षं प्रतिक्षेप्तुं वेदेत्यादिपदम् ।
तत्त्वसाक्षात्कारवतो दुःखानुदये दृष्टान्तमाह —
नहीति ।
तस्यैव सांसारिकसुखानुत्पादे दृष्टान्तमाह —
नचेति ।
तत्त्वविदो देहाद्यभिमानहीनस्य सांसारिकसर्वधर्मास्पर्शे मानमाह —
तदुक्तमिति ।
जीवतोऽशरीरत्वं मम माता वन्ध्येतिवद्विरुद्धमिति शङ्कते —
शरीर इति ।
आत्मनो देहसङ्गतेराविद्यकत्वात्तत्त्वज्ञानेन तद्ध्वस्तेर्जीवतोऽपि युक्तमशरीरत्वमित्याह —
नेत्यादिना ।
तस्याविद्यकत्वमन्वयव्यतिरेकाभ्यां साधयति —
न हीति ।
अशरीरत्वस्य स्वतस्त्वादपि जीवतस्तदविरुद्धमित्याह —
नित्यमिति ।
आत्मनः सशरीरत्वमज्ञानादित्युक्तममृष्यन्नाशङ्कते —
तत्कृतेति ।
न ह्यात्मन इत्यत्र प्रकृतात्मा तच्छब्दार्थः ।
आत्मनो देहसम्बन्धाद्धर्मादिकर्तृत्वं, स्वतो वा । आद्ये तस्य तद्योगः स्वतोऽन्यतो वा । नाद्यः, तत्कृतधर्मादिनिमित्तं सशरीरत्वमित्युक्तिविरोधात् । न द्वितीयः, तस्याविद्यामनिच्छतो वस्तुत्वोपगमाद्धर्मादिकर्तृकत्वादृते तस्यातन्निमित्तत्वाद्देहे धर्मादिकार्यदृष्टेस्तदसिद्धौ तद्द्वारा धर्मादेरात्मकृतत्वासिद्धेरित्याह —
नेत्यादिना ।
स्यादात्मकृतधर्माद्यपेक्षया तस्य देहयोगे तद्द्वारा तयोरात्मकृतत्वमित्याह —
शरीरेति ।
ननु प्राक्तनकर्मनिमित्तं सम्प्रतितनं शरीरं, तच्च कर्म प्राक्तनदेहयोगाधीनं, सोऽपि प्राचीनकर्मणेति नेतरेतराश्रयत्वम् । न चानवस्था, बीजाङ्कुरवत्कर्मदेहयोगयोरनादित्वात् , तत्राह —
अन्धेति ।
आत्मनि कर्मयोगस्य देहयोगस्य वाऽविद्यमानत्वादित्यर्थः ।
आत्मनः स्वतो धर्मादिकर्तृतेतिपक्षं प्रत्याह —
क्रियेति ।
कूटस्थानन्तचिद्धातोरक्रियत्वात्तस्य स्वतो धर्माद्यकर्तृत्वान्न तत्कृतकर्मकृतमात्मनः सशरीरत्वमित्यर्थः ।
स्वगतक्रियाभावेऽपि कारकेषु संनिधिमात्रेणास्य कर्तृतेति दृष्टान्तेन शङ्कते —
संनिधीति ।
वैषम्योक्त्या प्रत्याह —
नेति ।
उपार्जनं स्वीकरणम् ।
अस्तु प्रस्तुतेऽपि किञ्चिद्धनदानादितुल्यं सम्बन्धनिमित्तमित्याशङ्क्यासङ्गत्वादात्मनो वस्तुतस्तस्यायोगादवस्तुत्वे त्वन्मतहानिरिति मत्वाह —
नत्विति ।
स्वकृतधर्मादिकृतात्मनः सदेहतेत्येतदप्रामाणिकमित्युक्त्वा स्वपक्षे मानमाह —
मिथ्येति ।
ननु ममेतिधीसक्तमधिकारिणं कर्तारं चोद्दिश्य यागादिविधेश्चेतनस्यैव कर्तृत्वम् । यथाहुः - ‘यजमानत्वमप्यात्मा सक्रियत्वात्प्रपद्यते । न परिस्पन्द एकैका क्रिया नः कणभोजिवत् ॥ ‘ इति, तत्राह —
एतेनेति ।
क्रियाधारत्वनिरासेनेत्यर्थः ।
देहादावात्मधीर्मिथ्येत्यत्र मीमांसकश्चोदयति —
अत्रेति ।
आत्मनः स्वकीये देहादावात्मधी राज्ञो भृत्यादाविव गौणी ततः स्वीयदेहादिनिमित्तं तस्य कर्तृत्वादि वास्तवमित्यर्थः ।
नात्मनो देहादावात्मधीर्गौणी, तद्व्यापकाभावादित्याह —
नेति ।
प्रसिद्धो वस्तुभेदो यस्य पुंसस्तस्येति यावत् ।
उक्तमेव व्यनक्ति —
यस्येति ।
तस्यान्यत्रान्यशब्दप्रत्ययौ गौणाविति सम्बन्धः ।
तत्रोदाहरणम् —
यथेति ।
तत्रैव सिंहशब्दस्तद्धीश्च, नान्यत्रेत्यन्वयव्यतिरेकौ । अन्यः पुरुषादिति शेषः । ततश्च । सिंहादित्येतत् । यः सिंहपुरुषयोरुक्तरीत्या भेदं वेत्ति तस्येति षष्ठी नेया । यथा सिंहः पुमानित्युदाहरणं तथाग्निर्माणवक इत्यादि ग्राह्यमिति यथाशब्दो योज्यः ।
शब्दधियोरगौणत्वविषयमाह —
नेति ।
न प्रसिद्धो भेदो यस्य तस्य पुंसोऽन्यत्रान्यशब्दप्रत्ययौ न गौणौ चेत्कथं तर्हि तस्यान्यत्रान्यशब्दप्रत्ययावित्याशङ्क्याह —
तस्य त्विति ।
तत्र संशये समारोपितांशगतौ शब्दप्रत्ययावुदाहरति —
यथेति ।
पुरोवर्तिनः स्थाणुत्वेऽपि स्थाणुरयमित्यगृह्यमाणविशेषत्वे हेतुमाह —
मन्देति ।
तत्र पुरुषशब्दप्रत्ययौ पाक्षिकाविति शेषः । वस्तुतः स्थाणुविषयत्वं, न प्रतीतितः । प्रतीतितस्त्वारोपितविषयत्वम् ।
संशये समारोपितगतौ पाक्षिकौ शब्दप्रत्ययावुदाहृत्य विपर्यये तथाविधौ निश्चितावुदाहरति —
यथा वेति ।
शुक्तिकायामिति वस्तुप्रवृत्त्योक्तम् ।
संशये विपर्यये च दृष्टहेतुसाधारणधर्मदर्शनादेः समत्वाद्विपर्ययस्यैवोत्पत्तौ को हेतुरित्याशङ्क्याह —
अकस्मादिति ।
दृष्टहेत्वविशेषेऽप्यदृष्टवशादित्यर्थः ।
दृष्टान्तमिथुनस्य दार्ष्टान्तिकमाह —
तद्वदिति ।
अविवेकिनां देहादावहन्धीशब्दयोर्मिथ्यात्वेऽपि विवेकिनां तत्र तौ गौणावित्याशङ्क्याह —
आत्मेति ।
अविविक्तावविवेकोत्थभ्रान्तिकृताविति यावत् । आत्मीयेऽपि देहादावात्मबुद्धावात्मीयत्वं तिरोहितं सर्पबुद्धाविव रज्जुत्वमिति मत्वा परमतनिरासमुपसंहरति —
तस्मादिति ।
तत्राहन्धियो मिथ्यात्वेऽपि किं सिध्यति, तदाह —
तस्मान्मिथ्येति ।
न केवलं विदुषो जीवतोऽप्यशरीरत्वं यौक्तिकं किन्तु श्रौतं चेत्याह —
तथा चेति ।
‘अत्र ब्रह्म समश्नुते’ इति पूर्ववाक्ये जीवन्मुक्तिरुक्ता स जीवन्मुक्तो देहस्थोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तमाह —
तद्यथेति ।
तत्तत्र जीवन्मुक्तदेहे जीवन्मुक्ते च दृष्टान्तः । यथा लोकेऽहिनिर्ल्वयनी सर्पनिर्मोकस्तदीया देहत्वग्वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता पूर्वमिवाहिनात्मत्वेनानिष्टा वर्तेत तथैवेदं विदुषः शरीरं मुक्तेन प्रागिवात्मत्वेनानिष्टं तिष्ठतीत्यर्थः ।
सर्पदृष्टान्तस्य दार्ष्टान्तिकमाह —
अथेति ।
तथार्थोऽथशब्दः । यथा प्रत्यस्तया त्वचा मुक्तोऽपि तामहमिति नाहिरभिमन्यते, तथायं जीवन्मुक्तो देहस्थोऽपि न तत्राहन्धियमादधाति । अत एवामृतः । देहाभिमानवतो हि मृतिः । निरुपाधिः सन्प्राणिति जीवतीति प्राणः साक्षीः । स च ब्रह्मैव । तच्च तेजो विज्ञानं ज्योतिरेवेत्यर्थः ।
तत्रैव श्रुत्यन्तरमाह —
सचक्षुरिति ।
वस्तुतोऽचक्षुरपि बाधितानुवृत्त्या सचक्षुरिवेत्यादि योज्यम् ।
श्रौतेऽर्ये स्मृतिमपि संवादयति —
स्मृतिरपीति ।
विदुषो जीवन्मुक्तौ प्रमितायां फलितमाह —
तस्मान्नेति ।
प्रमितं जीवन्मुक्तिसत्वं तच्छब्दार्थः ।
प्रतीतिमात्रशरीरं संसारित्वमनुजानाति —
यथेति ।
ननु ब्रह्मविदामेवास्माकं संसारित्वमबाधितमनुभूयते, नेत्याह —
यस्येति ।
साक्षात्कृतसत्तत्त्वस्य पूर्वमिव संसारित्वायोगाद्युक्ता वस्तुमात्रोक्ते रज्जुस्वरूपोक्तिवदर्थवत्तेत्युपसंहरति —
अनवद्यमिति ।
वेदान्तेषु नास्ति वस्तुमात्रोक्तिः, मननादिविधिशेषत्वेन ब्रह्मोक्तेरित्याशङ्क्योक्तमनुवदति —
यत्पुनरिति ।
श्रुतमात्रस्य मननादियोगो नावगतस्येत्याह —
नेत्यादिना ।
वेदान्तानामेकरसे ब्रह्मणि शक्तितात्पर्यनिश्चयः श्रवणम् । तस्मिन्नेव श्रुत्यनुसारिण्या युक्त्या सम्भावनाधानं मननम् । श्रुते मते च बुद्धेः स्थैर्यं निदिध्यासनम् । तेषामैक्यापरोक्षप्रतीतिव्यञ्जकत्वे तच्छेषत्वान्नावगतमन्यत्र विनियुक्तमित्यर्थः ।
अवगतस्यान्यत्राविनियोगेऽपि ब्रह्मणो विधिशेषत्वं किं न स्यात् , तत्राह —
यदीति ।
ब्रह्मणि मितेऽमिते वा तद्धियो विध्यसिद्धेरापातदृष्टेः साक्षात्कारार्थं श्रवणादिषु विहितेषु तेभ्यस्तद्भावान्न तस्य विधिशेषतेत्युपसंहरति —
तस्मान्नेति ।
न च वस्तुप्रकरणे श्रवणादिविध्ययोगः, वाक्यभेदोपगमात् । न च ‘तद्विषये लिङादयः’ इत्यादिभाष्यविरोधः, तस्य ज्ञानविधिनिरासार्थत्वात् । अत एवात्र प्रतिपत्तिशब्दः । न चैवं वेदान्तानां श्रवणादिविधिपरत्वं, वाक्यभेदस्योक्तत्वात् । न चान्वयादिसिद्धहेतुभावेषु तेषु न विधिः, अवघातेऽपि तदभावापातात् । नियमादृष्टस्योभयत्र तुल्यत्वात्सर्वापेक्षाधिकरणात्तस्य ज्ञानोत्पत्त्युपयोगादिति भावः ।
उक्तेऽर्थे सूत्रं संयोजयति —
अत इति ।
विधिशेषत्वेन शास्त्रप्रमाणकत्वासिद्धिरित्यतःशब्दार्थः ।
वेदान्तानां विध्यनपेक्षसिद्धबोधित्वे शास्त्रारम्भभेदं प्रमाणयति —
एवं चेति ।
विधिशेषत्वेन ब्रह्मार्पणेऽपि शास्त्रं पृथगारभ्येतेत्याशङ्क्याह —
प्रतिपत्तीति ।
नन्वाद्ये काण्डे बाह्यक्रियाविधिरधिगतः, मानसज्ञानविधिविचाराय काण्डान्तरमारभ्यते, नेत्याह —
आरभ्यमाणं चेति ।
देहादिसाध्यकर्मविचारानन्तर्यमथेत्युक्तम् । तस्यैव चित्तशुद्धिद्वारा ज्ञानविधिविचारोपयोगितातःशब्दार्थः ।
तत्र चातुर्थिकमुदाहरणमाह —
अथात इति ।
तृतीये श्रुत्यादिभिः शेषशेषित्वे सिद्धे सत्यनन्तरं शेषिणैव शेषस्य प्रयुक्तिसम्भवात्को नाम क्रतवे प्रकुरुते को वा पुरुषार्थायेति क्रत्वर्थपुरुषार्थयोर्जिज्ञासा ज्ञातुमिच्छा प्रवृत्तेति चतुर्थादौ प्रतिज्ञासूत्रवदिदमपि ब्रूयात् । न चैवं ब्रवीति । तस्मान्नोक्तविभागधीरित्यर्थः ।
त्वन्मतेऽपि कथं पृथगारम्भः शास्त्रस्येत्याशङ्क्य मेयफलभेदादित्याह —
ब्रह्मेति ।
स्वातन्त्र्येण ब्रह्मात्मैक्यनिष्ठत्वे वेदान्तानां तदेव तात्त्विकमिति कथं द्वैतालम्बनस्य विधिकाण्डस्याध्यक्षादेश्च मानतेत्याशङ्क्योपसंहरन्परिहरति —
तस्मादिति ।
अद्वैतधियो भेदाधिष्ठानमानविरोधित्वं तच्छब्दार्थः । इतिना ज्ञानं परामृष्टम् ।
तस्मादित्युक्तं हेतु व्यनक्ति —
नहीति ।
तत्त्वसाक्षात्कारे तदज्ञानध्वस्तौ तदुत्थमात्रादिसर्वभेदध्वस्तेरविद्यावस्थायामेवाशेषो व्यवहार इत्यर्थः । कार्यास्पृष्टे सिद्धे ब्रह्मण्यद्वये सिद्धा वेदान्तमानतेत्युपसंहर्तुमितिशब्दः ।
न केवलमस्माभिरयमर्थोऽभ्युपगतः किं त्वन्यैरपि ब्रह्मविद्भिरित्याह —
अपि चेति ।
सत्पारमार्थिकमबाधितं ब्रह्माहमित्येवं बोधे जाते पुत्रदेहादेः सक्ताबाधनान्मायामात्रत्वावगमादयमहमेवेति पुत्रादावहमभिमानस्य गौणात्मनो मनुष्योऽहमिति देहादावहमभिमानस्य च मिथ्यात्मनोऽसत्त्वे कार्यं कथं भवेत् । तन्निमित्ताभावाद्विधिविधेयादिव्यवहारो न कथञ्चिदित्यर्थः ।
यद्यात्मा सद्ब्रह्मैव कस्तर्हि प्रमाता । यद्ययमेव कथं तर्हि ब्रह्मतास्येत्याशङ्क्याह —
अन्वेष्टव्येति ।
‘य आत्मापहतपाप्मा’ इत्यादिश्रुतिसिद्ध आत्मान्वेष्टव्यः, ‘सोऽन्वेष्टव्यः’ इति श्रुतेः । तद्विज्ञानात्पूर्वमात्मनो मातृत्वं, प्रमातैवान्विष्टः सन्निर्दोषः परमात्मा स्यात् । अतोऽन्वयव्यतिरेकाभ्यामात्मनो मातृत्वमाविद्यकमित्यर्थः ।
तस्याविद्यकत्वे कथमध्यक्षादीनां श्रुतेश्च मानता, कारणदोषादित्याशङ्क्याह —
देहेति ।
यथा देहातिरिक्तात्मवादे कल्पितापि देहात्मत्वधीर्व्यवहाराङ्गतया मानमिष्यते तथा तत्त्वसाक्षात्कारपर्यन्तं व्यवहाराङ्गत्वाद्व्यवहारे बाधाभावाच्चाध्यक्षाद्यतत्त्वावेदकमपि व्यावहारिकं मानम् । श्रुतेस्तु वर्णदैर्घ्यादिवदात्मधीहेतोस्तात्त्विक्येव मानतेत्यर्थः ॥ ४ ॥
इति चतुःसूत्री समाप्ता ।
शास्त्रार्थं चतुर्भिः सूत्रैः सङ्क्षिप्य वक्ष्यमाणाधिकरणानामपुनरुक्तमर्थं वक्तुं वृत्तं सङ्कीर्तयति —
एवमिति ।
तेषां तत्फलत्वे हेतुः —
तात्पर्येणेति ।
कार्यान्विते ब्रह्मणि तात्पर्यं तेषामित्याशङ्क्याह —
अन्तरेणेति ।
समन्वयसूत्रार्थमनूद्यातीतसूत्रत्रयार्थमनुवदति —
ब्रह्म चेति ।
उक्ते लक्षणे तदतिव्याप्तिशङ्कायां निरासस्य सावकाशत्वाद्ब्रह्मणो जिज्ञास्यस्य लक्षणमपि शास्त्रीयस्योक्तमित्यर्थः ।
तस्मिन्ब्रह्मणि सिद्धे समन्वये समन्वयाध्यायसमाप्तेरुत्तरसन्दर्भानर्थक्यमित्याह —
साङ्ख्यादयस्त्विति ।
सिद्धेऽर्थे मानत्वविरोधिकार्यानुप्रवेशे प्रत्युक्तेऽपि ब्रह्मण्येव समन्वयो नान्यत्रेत्यनिर्धारणाद्ब्रह्मकारणताविरोधिप्रधानादिवादनिरासायोत्तरसन्दर्भ इत्यर्थः ।
परिनिष्ठितस्य मानान्तरगम्यत्वे तत्संवादादिना तत्र वेदान्ताप्रामाण्यान्न ततो जगद्धेतुर्ब्रह्म सिध्यतीति चेत्तर्हि केन मानेन तद्धेतुधीरित्याशङ्क्योक्तम् —
प्रधानादीनीति ।
का तर्हि वेदान्तानां गतिः, परार्थानुमानतेत्याह —
तत्परतयेति ।
हेत्वाद्यनुक्तेस्तेषां न परार्थानुमानतेत्याशङ्क्याह —
सर्वेष्विति ।
‘तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ इत्यादिष्वनुमानता भातीत्यर्थः ।
कार्यलिङ्गकमनुमानं ब्रह्मैव गमयिष्यतीत्याशङ्क्य सुखदुःखमोहात्मकं कार्यं तादृगेव कारणमनुमापयतीत्याह —
प्रधानेति ।
तस्याचेतनस्य स्वार्थाभावात्पुमर्थप्रवृत्तौ पुंसि मानं वाच्यमिति मत्वाह —
पुरुषेति ।
बुद्धौ यः प्रतिबिम्बः, स तादृशबिम्बपूर्वकः, प्रतिबिम्बत्वात् , दर्पणे मुखाभासवदित्यर्थः । सम्बन्धाभावे तादर्थ्यायोगात्तत्रापि मानाकाङ्क्षायां, विमतं चेतनसंयुक्तम् , अचेतनत्वात् , द्रव्यादिवदिति बुद्ध्या संयोगग्रहणम् ।
मतान्तरमाह —
काणादास्त्विति ।
‘यतो वा इमानि’ इत्यादिवाक्येभ्यो यच्छब्दोपबन्धेन सिद्धवज्जगद्धेतुपरामर्शात् , यत्कार्यं तद्बुद्धिमत्कर्तृकमिति सामान्यतोदृष्टादीश्वरं कल्पयन्तीत्यर्थः ।
स्वपरिमाणादल्पपरिमाणारब्धं पटादि दृष्ट्वाद्यमपि कार्यं तथेति समवायित्वेन चतुर्विधानणून्कल्पयन्तीत्याह —
अणूंश्चेति ।
'असद्वा इदमग्र आसीत् ‘ इत्यादिवाक्याभासाद्दीपादेर्निरन्वयनाशदृष्ट्या पृथिव्यादेरपि तथा नष्टस्यासत एवोत्पत्तिरित्यादियुक्त्याभासाच्चाद्वैतवादे माध्यमिकादयो विरोधिनो भवन्तीत्याह —
एवमिति ।
वादिविप्रतिपत्तीरुक्त्वा तन्निरासायोत्तरग्रन्थमवतारयति —
तत्रेति ।
तत्र वादिषु भिन्नप्रस्थानेषु सत्स्विति यावत् । वाक्याभासेषु युक्त्याभासेषु च प्रतिपत्तिर्येषां ते तथा ।
उत्तरग्रन्थतात्पर्यमुक्त्वा ‘सदेव’ इत्यादौ सच्छब्दितमीक्षितृ सर्वज्ञं जगदुपादानं प्रधानं ब्रह्मैवेति वादिविवादाज्ज्ञातृत्वज्ञानाभ्यां संशय्यानन्तराधिकरणपूर्वपक्षमाह —
तत्रेति ।
स्थितं समुदायतात्पर्यं सप्तम्यर्थः । सर्वज्ञे जगद्धेतौ समन्वयोक्त्या तच्चैतन्यमाक्षिप्य समर्थ्यत इत्यधिकरणसङ्गतिः । नानाशाखास्थस्फुटब्रह्मलिङ्गवाक्यानां ब्रह्मण्येव समन्वयोक्तेः श्रुत्यादिसङ्गतयः । ‘तत्त्वमसि’ इति तच्छब्दितप्रधानैक्यसम्पत्तिः पूर्वपक्षे । सिद्धान्ते चिदात्मनो ब्रह्मैक्यं फलम् ।
प्रकर्षेण धीयते सर्वं जगदस्मिन्निति ब्रह्मापि प्रधानं, ततो विशिनष्टि —
त्रिगुणमिति ।
परिणामयोग्यत्वमाह —
अचेतनमिति ।
साङ्ख्यीयमतं श्रुतिविरोधात्त्याज्यमित्याशङ्क्याह —
यानीति ।
जीवाख्यचित्प्रतिबिम्बानां स्वतो विभजननियमेनैकीकरणशक्तयो न प्रधानस्याचेतनस्येत्यन्यदेव सर्वशक्तिमदेष्टव्यमित्याशङ्क्य चित्प्रतिबिम्बानामनुत्पाद्यत्वादुत्पाद्यार्थशक्तिरस्यापि स्यादित्याह —
सर्वेति ।
तथापि कुतोऽस्याचेतनत्वे सर्वज्ञता, तत्राह —
एवमिति ।
यस्य न ज्ञत्वमेव तस्य कुतः सर्वज्ञतेत्याह —
कथमिति ।
प्रधाने ज्ञानकर्तृत्वं सम्भावयितुं ज्ञानस्वरूपमाह —
यदिति ।
ननूक्तज्ञानेन चेतनानामेव योगिनां सर्वज्ञात्वात्तदचेतनं प्रधानं कथं तेन सर्वज्ञमुच्यते, तत्राह —
तेनेति ।
कार्यकरणवन्त इत्यचैतन्यमुक्तम् । तत्रापि चेतनांशस्यैव सर्वज्ञत्वं, सत्त्वस्य सहायतया तदुत्कर्षान्वयव्यतिरेकयोरन्यथासिद्धेरित्याशङ्क्याह —
सत्त्वस्येति ।
केवलव्यतिरेकाभावान्न चेतनांशस्यैव सर्वज्ञतेत्यर्थः ।
किञ्च तस्य सर्वज्ञत्वं दुर्ज्ञानं, चिन्मात्रस्य ज्ञानकर्तृत्वायोगादित्याह —
नेति ।
कार्यकरणविरहितत्वाच्च नास्य ज्ञानकर्तृतेत्याह —
अकार्येति ।
पूर्णत्वाच्च तथेत्याह —
पुरुषस्येति ।
प्रधानावस्थायां गुणसाम्ये सत्त्वोत्कर्षायोगान्न तस्य ज्ञानकर्तृतेत्याह —
त्रिगुणत्वादिति ।
नच ज्ञानप्रतिबन्धकरजस्तमसोरपि तत्र भावान्न सार्वज्ञ्यं, वस्तुतस्तद्भावेऽपि, माणवकस्याग्नित्ववत्तदुपचारात् , तदाह —
उपचर्यत इति ।
गौणमुख्ययोर्मुख्ये संप्रत्ययान्मुख्यग्रहणमाशङ्क्याह —
अवश्यमिति ।
तत्र हेतुमाह —
नहीति ।
तथात्वे कानुपपत्तिरित्याशङ्क्य तज्ज्ञानं नित्यमनित्यं वेति विकल्पयति —
तथाहीति ।
तत्राद्यं दूषयति —
ज्ञानेति ।
द्वितीयमनूद्य स्वमतसिद्धान्तमाह —
अथेत्यादना ।
अनित्यज्ञानपक्षे ब्रह्मणः सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञतेत्यत्र हेत्वन्तरमाह —
अपि चेति ।
तथापि तस्य सर्वविषयं ज्ञानं किमिति नोत्पद्यते, तत्राह —
न चेति ।
आदिपदेन ज्ञेयज्ञात्रादिसङ्ग्रहः ।
उभयत्राप्यनुपपत्तिसाम्ये कथं पक्षिविशेषपक्षपात इत्याशङ्क्य प्रधानपक्षे विशेषमाह —
अपि चेति ।
एकस्यापि ब्रह्मणः सामग्रीसन्निधानात्कारणत्वमाशङ्क्य तस्यासङ्गत्वादद्वयत्वाच्च नैवमित्याह —
नेति ।
जगदुपादानवादिवेदान्तानां प्रधानपरतेति पूर्वपक्षमनूद्य सूत्रेण सिद्धान्तयति —
एवमिति ।
सूत्रस्थं नञ्पदं व्याचष्टे —
नेति ।
तत्र सौत्रमेव हेतुमाह —
अशब्दं हीति ।
‘सदेव’ इत्यत्र सच्छब्दस्य सच्छब्दत्वान्नाशब्दत्वमित्याह —
कथमिति ।
सौत्रं पदमवतार्य व्याकरोति —
ईक्षतेरिति ।
अनुमेयं प्रधानं हित्वा तदनुवादिश्रुतिसिद्धस्य कथं कारणत्वमित्याह —
कथमिति ।
कार्येण कारणमात्रमनुमातुं शक्यं न तद्विशेषः । तत्र श्रुतिरेव मानमिति मत्वाह —
एवंहीति ।
श्रुतोपादानस्य चेतनार्थत्वमाह —
तदैक्षतेति ।
केचिदीक्षितारमीश्वरं सद्वितीयं सङ्गिरन्ते, तान्प्रत्याह —
एकमेवेति ।
तस्योपादानार्थत्वमाह —
बहु स्यामिति ।
ईक्षणफलमाह —
तदिति ।
तदाकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्यर्थः ।
श्रुतेरनुमितार्थानुवादित्वव्युदासार्थमर्थमाह —
तत्रेत्यादिना ।
उक्तश्रुतिः सप्तम्यर्थः ।
छन्दोगश्रुतिवदैतरेयश्रुतिरपि प्रधानवादविरोधिनीत्यह —
तथेति ।
मिषच्चलत् । सत्त्वाक्रान्तमिति यावत् ।
प्रश्नश्रुतिरपि प्रधानकारणतां वारयतीत्याह —
क्वचिच्चेति ।
'स प्राणमसृजत प्राणाच्छ्रद्धां खंवायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च’ इत्युक्ताः षोडशकलाः ।
‘इक्शितपौ धातुनिर्देशे’ इति स्मरणादीक्षतेरिति श्तिपा धातुस्वरूपकथनान्न तस्य चेतनोपादानत्वसाधनतेत्याशङ्क्याह —
ईक्षतेरितीति ।
विषयिणा विषयस्य लक्षणादित्यर्थः ।
प्रसिद्धा चेयं लक्षणेत्याह —
यजतेरितिवदिति ।
सप्तमे स्थितम् - ‘इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् । ‘ इतिकर्तव्यतायाः सौर्यादिषु विकृतिष्वविधानादनितिकर्तव्यताकत्वे प्राप्ते प्रत्युच्यते - यथा लोके शाकादिषु सिद्धेषु वदन्त्योदनं पचेति, तथेह सिद्धवत्कृत्य सामान्येनेतिकर्तव्यताकरणं विहितं तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शादिप्रकृतिविहितपूर्वेतिकर्तव्यतावत्त्वमिति । तत्र यथा यजतेरिति यागो गृहीतस्तथेहापीक्षतेरितीक्षणमित्यर्थः ।
ईक्षतेरित्युक्तेरर्थपरत्वे वाक्यान्तराण्यपि प्रधानपक्षप्रतिक्षेपायात्र सूचितानि भवन्तीत्याह —
तेनेति ।
सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमयं ज्ञानात्मकं तपो न त्वायासरूपम् । एतद्ब्रह्म जायमानं हिरण्यगर्भाख्यं कार्यम् । नाम देवदत्तादि । रूपं नीलपीतादि । अन्नं व्रीहियवादि । आदिपदेन ‘ज्ञःकालकालो गुणी सर्वविद्यः स कारणम्‘ इत्यादि गृहीतम् ।
सिद्धान्तमुपपाद्य परोक्तमनुवदति —
यत्त्विति ।
प्रधाने गुणानां तुल्यतया सत्त्वकार्यस्य ज्ञानस्यैवासम्भवे सर्वज्ञत्वं दूरनिरस्तमित्याह —
तन्नेति ।
औपचारिकं सर्वज्ञत्वमुक्तं स्मारयति —
नन्विति ।
सत्त्वस्य सूक्ष्मरूपेण ज्ञानहेतुत्ववदितरयोरपि तेनात्मना तत्प्रतिबन्धकत्वान्न सर्वज्ञतेत्याह —
तदपीति ।
केवलसत्त्ववृत्तेर्ज्ञानत्वमुपेत्य सत्त्वधर्मेण तेन न सर्वज्ञतेत्युक्तम् । इदानीं न केवला सत्त्ववृत्तिर्ज्ञानं किन्तु तदभिव्यक्तश्चित्प्रकाशः, तथाविधज्ञानवत्त्वं च न प्रधानस्येत्याह —
अपिचेति ।
तर्हि प्रधानमेव चिदात्मना परिणतमवच्छेदकवृत्त्यात्मना विपरिणंस्यते, नेत्याह —
न चेति ।
हेतुरचेतनस्येत्युक्तः । प्रधानस्यासर्वज्ञत्वमुक्तं निगमयति —
तस्मादिति ।
अचेतनस्याज्ञातृत्वं तच्छब्दार्थः ।
परोक्तं दृष्टान्तं विघटयति —
योगिनां त्विति ।
सत्त्वोत्कर्षोऽपि चेतनस्योपकरोति नाचेतनस्य प्रधानस्य, अन्धस्येवादर्शोत्कर्ष इत्यर्थः ।
सेश्वरसाङ्ख्यमतमाह —
अथेति ।
यस्य स्वतो नेक्षितृत्वं तस्य कथं तदन्यकृतमपि स्यादित्याशङ्क्याह —
यथेति ।
लाघवेन सिद्धान्तयति —
तथेति ।
सिद्धान्ते परोक्तामनुपपत्तिमनुभाषते —
यत्पुनरिति ।
तस्य मुख्यं सर्वज्ञत्वं प्रतिजानीते —
अत्रेति ।
तत्र परोक्त्यनुपपत्तिं निरसितुं पृच्छति —
इदमिति ।
प्रकृत्यर्थाभावात्प्रत्यार्थाभावाद्वा ब्रह्मणोऽसर्वज्ञतेति प्रश्नमेव प्रकटयति —
कथमिति ।
प्रथमं प्रत्यह —
यस्येति ।
उक्तं व्यतिरेकद्वारा विवृणोति —
अनित्यत्वे हीति ।
द्वितीयं शङ्कते —
ज्ञानेति ।
स्वतो नित्यस्यापि ज्ञानस्य तत्तदर्थावच्छिन्नस्य कार्यत्वात्तत्र स्वातन्त्र्यं प्रत्ययार्थो ब्रह्मणः सिध्यतीत्याह —
नेत्यादिना ।
वैषम्यं शङ्कते —
नन्विति ।
ब्रह्मणोऽपि विषयसम्बन्धे जानातीति स्यादित्याशङ्क्याह —
नत्विति ।
यत्र स्वातन्त्र्यं तत्र क्रियाश्रयत्वमेवाव्यभिचारादिति दूषयति —
न । असत्यपीति ।
प्रकाशतेरकर्मकत्वात्तथाव्यपदेशेऽपि जानातेः सकर्मकत्वात्कर्माभावे तथाव्यपदेशो न स्यादित्यशङ्क्याह —
कर्मेति ।
प्रकृत्यर्थवत्प्रत्ययार्थस्यापि बाधाभावात्सुतरामित्युक्तम् । यथा कुम्भकारस्य व्याचिकीर्षिताकारस्य स्वोपाध्यन्तःकरणपरिणतिरीक्षणं तथा ब्रह्मणोऽप्यविद्यायाः स्वोपाधेरनादिप्रवृत्तसर्गसंस्कारायाः प्रलयहेतुकर्मक्षयोत्थापितसंस्कारादिनिमित्तवशेन सर्गोन्मुखा परिणतिरीक्षणम् । ततोऽन्यस्य मुख्यस्यासम्भवादिदमेव मुख्यम् । तत्र चास्यादिकर्तुरस्ति कर्तृतेति भावः ।
नन्वपेक्षितं कर्म ब्रह्मणो भिन्नमभिन्नं वा । आद्ये तदद्वैतहानिः, द्वितीये सर्वज्ञत्वासिद्धिरित्याह —
किमिति ।
‘तन्नामरूपाभ्यामेव’ इत्यादिश्रुतेः सर्वस्य कार्यप्रपञ्चस्य नामरूपात्मकत्वात्तयोश्च ब्रह्मणो भेदाभेदाभ्यां दुर्भणत्वान्नैवमित्याह —
तत्त्वेति ।
प्रागेव तयोः सत्त्वे सर्गासिद्धिमाशङ्क्याह —
अव्याकृत इति ।
तयोस्तथास्वाभाव्ये कुतः सृष्टिरित्याशङ्क्योक्तम् —
व्याचिकीर्षिते इति ।
निरीश्वरवादिनं प्रति ब्रह्मणः सर्वज्ञत्वमुक्त्वा सेश्वरवादिनं प्रत्याह —
यत्प्रसादादिति ।
‘ततः प्रत्यक्चेतनाधिगमोऽन्तरायाभावश्च’ इति योगसूत्रस्य ‘भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैरग्यादिना ‘ इति तद्भाष्यस्य च दृष्टेर्योगशास्त्रविद इत्युक्तम् । अपिना सूचितं कैमुतिकं न्यायमाह —
किम्विति ।
तथा च सेश्वरवादे ब्रह्मणः सार्वज्ञ्यमनायासलभ्यमिति शेषः ।
जीवस्येवेश्वरस्यापि ज्ञानानुगुणहेत्वपेक्षामनुवदति —
यदपीति ।
वस्तुतो नित्यस्य स्वतो हेत्वनपेक्षत्वान्नैवमित्याह —
न तदिति ।
तदेव व्यतिरेकेण साधयति —
अपि चेति ।
अविद्या मिथ्याज्ञानम् । आदिशब्देनास्मितादिरुक्तः ।
ननु संसारिणोऽपि ज्ञानस्य नित्यत्वात्तत्र हेत्वपेक्षा स्याच्चेदीश्वरस्यापि स्यादभेदादित्याशङ्क्याविद्यं भेदमादाय विशेषमाह —
न ज्ञानेति ।
सोऽपि ज्ञानप्रतिबन्धकारणवानितरवच्चेतनत्वात् । अतस्तस्यापि देहाद्यपेक्षा ज्ञानोत्पत्तिरित्याशङ्क्य कालात्ययापदिष्टत्वमाह —
मन्त्रौ चेति ।
चकारः शङ्कानिरासार्थः । कार्यं शरीरं करणमिन्द्रियजातं, समः समानजातीयोऽभ्यधिको विजातीयो दृश्यत इति नञान्वितं द्वयं मानाभावपरम् । सत्त्वासत्त्वादिनानवगाह्यत्वं परत्वम् । शक्तिर्मूलकारणं माया तस्या विविधत्वमाकाशाद्यशेषाकारत्वम् । ऐतिह्यमात्रसिद्धा सा न प्रामाणिकीति वक्तुं श्रूयत इत्युक्तम् । उक्तमायानुसारित्वं स्वाभाविकत्वं, ज्ञानमेव बलं तेन क्रिया जगतः सर्गाद्या सा च स्वाभाविकीति । अपाणिरपि ग्रहीता, अपादोऽपि जवनो वेगवद्विहरणवान् , अचक्षुरपि पश्यति, अकर्णोऽपि शृणोति । किं बहुना सर्वमपि वेदनयोग्यं कार्यकरणानपेक्षो वेत्ति । पर्यवसितं तस्मिन्वेदितृत्वमतो न तस्यान्यो वेदितास्ति, नित्यस्फुरणत्वाच्च । तं चादिकर्तारं महान्तमाचक्षते ब्रह्मविदः । न च तन्महत्त्वमापेक्षिकमिति पुरुषपदम् ।
अविद्यादिमतः संसारिणो देहाद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येत्यत्रापसिद्धान्तं शङ्कते —
नन्विति ।
न केवलमपराद्धान्तादीश्वरादन्यो न संसारी किन्तु श्रुतिविरोधादपीत्यह —
नेति ।
व्यतिरिक्ते संसारिण्यसति विभागोक्तिरयुक्तेति फलितमाह —
तत्रेति ।
स्वाभाविकमौपाधिकं वान्यत्वं नास्तीति विकल्पयति —
अत्रेति ।
तत्राद्यमङ्गीकरोति —
सत्यमिति ।
द्वितीयं प्रत्याह —
तथापीति ।
तत्कृतमन्यत्वं चेष्टमेवेति शेषः ।
अपरिच्छिन्नस्य परिच्छिन्नोपाधिसम्बन्धे दृष्टान्तमाह —
घटेति ।
विमतौ तत्त्वतो भिन्नौ, अपुनरुक्तशब्दधीगम्यत्वात् , घटादिवदित्याशङ्क्य व्यभिचारमाह —
तत्कृतश्चेति ।
उपाधिसम्बन्धस्तच्छब्दार्थः ।
हेतुमदाकाशे साध्यं व्यावर्तयति —
आकाशेति ।
तस्य तत्त्वतो भेदाभावेऽपीति यावत् ।
परापरोस्तात्त्विकभेदाभावे कथं तत्प्रथेत्याशङ्क्याह —
तत्कृतेति ।
पूर्ववत्तच्छब्दः ।
दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —
तथेति ।
चिदात्मा सप्तम्यर्थः । विशिष्टोपाधियोगादविवेकस्तेन कृतेत्येतत् ।
व्योमादावनात्मनि भ्रान्तिसम्भवेऽपि कथमात्मनि स्वप्रकाशे स्यादित्याशङ्क्याह —
दृश्यते चेति ।
तत्त्वतोऽतिरिक्तस्यैव सत आत्मन इति योजना ।
तत्र कारणमाह —
मिथ्येति
पूर्वभ्रान्तेरेव संस्कारद्वारोत्तरभ्रान्तिकारणत्वमवधारयितुं तन्मात्रग्रहणं न, किन्तु तद्धेतोर्विचारासहत्वं वक्तुम् , अतो हेत्वन्तरमविरुद्धम् ।
उपाधिद्वारा चिदात्मनि संसारित्वेऽपि प्रकृते किं जातं तदाह —
सति चेति ।
ईश्वरस्यासंसारिणो महाकाशस्थानीयस्य तदनपेक्षमीक्षितृत्वमिति शेषः ।
प्रधानस्य परोक्तं सर्वज्ञत्वं निरस्य ब्रह्मणस्तदुपपत्तिरुक्ता । सम्प्रति प्रधानस्यैव कारणत्वयोग्यतेत्युक्तमनुवदि —
यदपीति ।
तस्य कारणत्वं शब्दतस्तर्कतो वा । नाद्य इत्याह —
तदिति ।
द्वितीयं निरस्यति —
यथा त्विति ॥ ५ ॥
प्रधानस्य न कारणतेत्युक्ते सतीक्षितृत्वस्य चेतनकारणत्वहेतोर्व्यभिचारं चोदयति —
अत्रेति ।
उक्तमनूद्य व्यभिचारं स्फोटयति —
यदुक्तमिति ।
हेतुश्रवणं तदा परामृष्टम् । अन्यथापि जगत्कारणस्याचेतनत्वेऽपीत्यर्थः ।
कथमुपपत्तिर्नहि तत्र मुख्यमीक्षितृत्वं, तत्राह —
अचेतनेऽपीति ।
तदेव दृष्टान्तेन व्याचष्टे —
प्रत्यासन्नेति ।
तथापि कथं प्रधाने 'तदैक्षत' इति व्यपदेशः, तत्राह —
तद्वदिति ।
उपचारे निमित्तम् —
प्रत्यासन्नेत्यादि ।
तथाविधेऽपि प्रधाने सिसृक्षतीति स्यात्कथमैक्षतेति तत्र —
चेतनवदिति ।
विरुद्धमुक्तं दृष्टान्तं व्याकुर्वाणो लौकिकेक्षितृसाम्यान्नियतक्रियाकारित्वादिरित्याह —
यथेति ।
तस्मादिति नियतप्रवृत्तिमत्त्वं हेतूकृतम् ।
मुख्यगौणयोर्मुख्यग्रहणं न्याय्यमिति सिद्धान्ती शङ्कते —
कस्मादिति ।