अद्वैतशारदा

न्यायनिर्णयव्याख्या

१ परिच्छेदः

धूमा­द्यु­प­ल­क्षि­तेन दक्षिणेन पथा चन्द्रलोकं गतेषु सुखै­क­रू­प्या­त्त­द्धे­तो­रपि तथा­त्वा­द­न्य­त्रापि तत्ता­र­त­म्या­सि­द्धि­रि­त्या­श­ङ्क्याह —
तत्रापीति ।
सम्पतति येना­स्मा­ल्लो­का­दमुं लोकमिति कर्माशयः सम्पातः । तत्र यावद्भोक्तव्यं स्थित्वा ‘अथैतमेवाध्वानं पुन­र्नि­व­र्तन्ते' इती­य­त्ता­क­र­णा­त्सा­ति­श­यत्वं सुख­त­द्धे­त्वो­र्भा­ती­त्यर्थः ।

मनु­ष्य­त्वा­दा­र­भ्यो­र्ध्व­ग­तेषु सुख­त­द्धे­त्वो­रु­त्क­र्ष­मुक्त्वा तद्दृष्टान्तेन तस्मा­दा­र­भ्या­धो­ग­तेषु तयो­र­प­क­र्ष­ता­र­त­म्य­माह —
तथेति ।

सुख­त­द्धे­तु­त­द­नु­ष्ठा­यि­ना­मु­त्क­र्षा­प­क­र्ष­ता­र­त­म्य­व­द्दुः­ख­त­द्धे­तु­त­द­नु­ष्ठा­यि­ना­मपि तदुभयमस्तीत्याह —
तयोर्ध्वेति ।
मनु­ष्य­त्वा­दू­र्ध्व­ग­तेषु दुःखा­प­क­र्ष­ता­र­तम्यं, तस्मादधोगतेषु च तदु­त्क­र्ष­ता­र­त­म्य­मिति भेदः ।

कर्मफलं विद्या­फ­ला­द्भेत्तुं प्रप­ञ्चि­त­मु­प­सं­ह­रति —
एवमिति ।
अवि­द्या­दी­त्या­दि­प­दे­ना­स्मि­ता­रा­ग­द्वे­षा­भि­नि­वेशा गृह्यन्ते ।

सुख­दुः­ख­प­रि­णा­म­द्वारं दर्शयति —
शरीरेति ।

तस्योपादानं तस्मि­न्द्वि­वि­धोऽ­भि­मानः । तस्यानर्थतया हेयत्वत्माह —
संसारेति ।
अनित्यमित्यपि तदर्थमेव ।

मेयमुपसंहृत्य मानमुपसंहरति -
श्रुतीति ।
‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मान­सै­र­न्त्य­जा­ति­ताम् ॥‘ इत्याद्या स्मृतिः । दृष्ट­हे­तु­सा­म्येऽपि दृष्टं सुखा­दि­वै­चित्र्यं तथा­भू­त­मे­वा­लौ­किकं हेतु कल्पयितीति न्यायः ।

श्रुतिमाह —
तथा चेति ।
निपाताववधारणे ।

श्रुते­स्ता­त्प­र्य­माह —
यथेति ।

नास्याः संसाररूपावेदने तात्पर्य, तदनुवादेन मुक्ति­प­र­त्वा­दि­त्याह —
अनुवदतीति ।

विद्याफलमाह —
अशरीरमिति ।
तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखेनैव स्पृशतो वावे­त्य­व­धा­र­णा­दि­त्यर्थः ।

श्रुति­ता­त्प­र्य­माह —
चोदनेति ।

तत्र गमकमाह —
प्रियेति ।

गमकत्वमस्य व्यतिरेकेण स्फोरयति —
धर्मेति ।
तत्कार्ये तद्दृ­ष्टे­रि­त्यर्थः ।

धर्मस्य विचि­त्र­फ­ल­त्वा­द­दे­ह­त्व­मपि तत्कार्यमेवेति शङ्कते —
अशरीरत्वमिति ।

वस्तुतो देहा­स­म्ब­न्धोऽ­श­री­रत्वं, तस्य नित्य­त्वा­त्ति­रो­धा­य­का­ज्ञा­नस्य ज्ञान­मा­त्रा­पो­ह्य­त्वान्न धर्म­का­र्य­ते­त्याह —
नेति ।

तत्र मानमाह —
अशरीरमिति ।
शरीरं स्थूलं वस्तुतो नास्यास्तीति यावत् ।

तत्र हेतुः —
शरीरेष्विति ।
अन­व­स्थे­ष्व­नि­त्ये­ष्व­व­स्थि­तम् । नित्यमित्यर्थः ।

तत्रैव हेत्वन्तरमाह —
महान्तमिति ।

सापेक्षिकत्वं वारयति —
विभुमिति ।

मन्तृ­म­न्त­व्य­भेदं प्रत्याह —
आत्मानमिति ।
ईदृशमात्मानं मत्वा धीरो भवति । नहि तन्मतिं विना धीरत्वं सम्भवति । स च धीरः शोकोपलक्षितं संसारं नानुभवतीत्यर्थः ।

सूक्ष्मदेहाभावे मानान्तरमाह —
अप्राण इति ।
क्रिया­श­क्ति­मा­न्प्रा­णोऽस्य वस्तुतो नास्तीति तन्नि­षे­धा­त्त­त्प्र­धा­नानि सार्थानि कर्मेन्द्रियाणि निषिद्धानि । तदभिप्रायेण हिशब्दः । ज्ञान­श­क्ति­म­न्म­नोऽस्य वस्तुतो नेति तन्नि­षे­धा­त्त­त्प्र­धा­न­ज्ञा­ने­न्द्रि­याणि सार्थानि निषिद्धानि । अत एव शुभ्रः । शुद्ध इत्यर्थः ।

देहद्वयाभावे श्रुत्यन्तरमाह —
असङ्गो हीति ।
‘स यत्तत्र’ इत्यादौ स्वप्ना­दि­कृ­त­क­र्म­स्व­क­र्ता­त्मे­त्यु­क्तेऽर्थे हेतुरनेनोच्यते । मूर्तं मूर्तान्तरेण युज्यमानं स्पन्दते, आत्मा तु पूर्ण­त्वा­द­मूर्तो न केनचिद्युज्यते । तेना­क­र्ते­त्यर्थः । ‘अकायमव्रणम् ‘ इत्या­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

अशरीरत्वस्य स्वाभाविकत्वे फलितमाह —
अत इति ।

तद्वैलक्षण्ये किं स्यात्तदाह —
नित्यमिति ।

तथापि परि­णा­मि­त्वा­द्वि­धे­य­क्रि­या­नु­प्र­वे­श­मा­श­ङ्क्या­प­रि­णा­मि­नि­त्यतां वक्तुं परिणामिनित्यं पृथक्करोति —
तत्रेति ।
प्रकृतं नित्यं सप्तम्यर्थः ।

परि­णा­मि­त्व­नि­त्य­त्व­यो­र्वि­रोधं प्रत्यभिज्ञया प्रत्याह —
यस्मिन्निति ।

तत्र मीमांसकादिसंमतं दृष्टान्तमाह —
यथेति ।
तथान्यदपि विक्रियमाणं प्रत्यभिज्ञातो नित्यं स्यादिति शेषः ।

साङ्ख्यी­य­दृ­ष्टा­न्त­माह —
यथा चेति ।
तन्मते सत्त्व­र­ज­स्त­मांसि गुणा विक्रियमाणा एव प्रत्यभिज्ञया नित्या­स्त­था­न्य­दपि परिणामि नित्यमित्यर्थः ।

तादृ­ङ्नि­त्या­द­दे­हत्वे मोक्षे विशेषमाह —
इदं त्विति ।

तत्ख­ल्व­ता­त्त्विकं, परिणामस्य कार्त्स्न्यै­क­दे­शाभ्यां भेदाभेदाभ्यां च दुर्वचनत्वात् । मोक्षा­ख्य­म­दे­हत्वं स्वाभा­वि­क­म­क­ल्पि­त­मिति विशेषमाह —
पारमार्थिकमिति ।

तत्र हेतुमाह —
कूटस्थेति ।

तदर्थं सर्वगतत्वेन परि­स्प­न्द­प­रि­णा­म­रा­हि­त्य­माह —
व्योमवदिति ।

फलार्थापि क्रिया तत्र न कल्प्या, तृप्तेः सदा­त­न­त्वा­दि­त्याह —
नित्येति ।

परिणामाभावे हेत्वन्तरम् —
निरवयवमिति ।

प्रकाशार्था विक्रिया न तत्रेत्याह —
स्वयमिति ।

उक्त­वि­शे­ष­ण­व­शान्न सा कर्म­का­र्ये­त्यु­क्तम् , इदानीं धर्माधर्मयोः सका­र्य­यो­र्ब्र­ह्म­स­म्ब­न्ध­नि­षे­धा­दपि तत्प्रा­प्ति­र्मु­क्तिर्न कर्मकार्येत्याह —
यत्रेति ।

काला­न­व­च्छि­न्न­त्वाच्च मुक्ति­र­क­र्म­सा­ध्ये­त्याह —
कालेति ।

ब्रह्मणो धर्मा­द्य­न­व­च्छे­दत्वे मानमाह —
अन्यत्रेति ।
धर्मा­त्त­त्फ­लाच्च सुखात् , अध­र्मा­त्त­त्फ­लाच्च दुःखात् , कृतात्कार्यात् , अकृताच्च कारणात् , भूता­दि­का­ल­त्र­याच्च पृथग्भूतं तेनानवच्छेद्यं यत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसो वचनम् । आदिशब्देन ‘नैनं सेतुम्‘ इत्याद्या श्रुतिर्गृह्यते ।

पृथ­ग्जि­ज्ञा­सा­वि­ष­य­त्वाच्च धर्मा­द्य­स्पृ­ष्टत्वं ब्रह्मणो युक्तमित्याह —
तदिति ।
अतःशब्दपाठे धर्माद्यस्पर्शे कर्म­फ­ल­वै­ल­क्षण्यं हेतुकृतम् ।

कर्त­व्य­धी­शे­ष­त्वेन ब्रह्मो­प­दे­शा­त्त­त्प्रा­प्ते­र्मु­क्ते­र्वै­ध­धी­फ­ल­त्व­मि­त्या­श­ङ्क्याह —
तद्यदीति ।

अनित्यत्वेऽपि स्वर्गा­दि­व­त्पु­म­र्थ­ते­त्या­श­ङ्क्याह —
तत्रेति ।
तस्मिन्मोक्षे विधे­य­क्रि­या­सा­ध्य­त्वे­ना­नित्ये सतीत्यर्थः ।

यथोक्तेति ।
तयो­श्चो­द­ना­ल­क्ष­ण­यो­रि­त्या­दा­विति शेषः । स्वर्गा­दि­दृ­ष्टा­न्ता­दि­त्यर्थः ।

इष्टापत्तिं प्रत्याह —
नित्यश्चेति ।

ब्रह्मा­प्ते­र्मु­क्ते­र­वै­ध­फ­लत्वे फलितमाह —
अत इति ।

मुक्ते­र­वै­ध­फ­लत्वे हेत्वन्तरमाह —
अपिचेति ।
यो ब्रह्म प्रत्यक्त्वेन साक्षात्करोति स तदेव वेद्यं ब्रह्म भवति, तत्क्र­तु­न्या­यात् । तस्मिन्परात्मनि परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने प्रत्यक्त्वेन साक्षात्कृते सत्यस्य विदु­षोऽ­ना­र­ब्धानि कर्माणि क्षीणानि भवन्ति । ब्रह्मणो रूपमानन्दं विद्वा­न्भ­य­हे­त्व­भा­वा­न्नि­र्भयो भवति । श्रुतावितिशब्दः श्लोक­सा­मा­प्त्यर्थः । हे जनक, त्वमभयं ब्रह्म प्राप्तोऽसि, तत्सा­क्षा­त्का­र­व­त्त्वात् , यदस्मिन्देहे जल­सू­र्य­व­त्प्र­विष्टं ब्रह्म जीवाख्यं तदाचार्येण बोधितमात्मानमेव सर्व­क­ल्प­ना­ती­त­म­वे­द्वि­दि­त­वत् कथमहं ब्रह्म­द्वि­ती­य­म­स्मीति, तस्मादेव ज्ञाना­द­ज्ञा­न­कृ­ता­स­र्व­त्व­नि­वृत्त्या तद्ब्रह्म पूर्णात्मना स्थितमासीत् । ‘यस्मिन्सर्वाणि भूता­न्या­त्मै­वा­भू­द्वि­जा­नतः’ इति यः सर्वात्मभावो विद्या­व्य­ङ्ग्य­त्वे­नो­क्त­स्त­त्रा­त्मनि तद्धीकाले वा तदा­त्मै­क्य­मु­प­दे­शेन पश्यतः शोका­द्यु­प­ल­क्षितः संसारो नेति श्रूतीनामर्थः । आदिशब्देन ‘ब्रह्म­वि­दा­प्नोति’ इत्याद्या गृह्यन्ते ।

तासां तात्पर्यमाह —
ब्रह्मेति ।
विद्या­त­त्फ­ल­यो­रे­क­का­ल­त्व­श्रु­ते­र्वै­ध­ज्ञा­ना­पू­र्व­ज­न्यत्वे मुक्ते­स्त­द­यो­गात् , वैधफलस्य काला­न्त­र­भा­वि­त्वात् , ब्रह्मधीर्न विधेया । तत्फलं च दृष्टमेवेति भावः ।

इतश्च मोक्षो वैधो नेत्याह —
तथेति ।
तत्पदलक्ष्यं ब्रह्मै­त­दा­त्म­त्वेन स्थितमस्मीति पश्यन्नस्मादेव दर्श­ना­दृ­षि­र्वा­म­दे­व­नामा परं ब्रह्मा­वि­द्या­ध्वस्त्या प्रति­प­न्न­वा­न्कि­लेति । हशब्दो व्यवधानेन सम्बध्यते । स चास्मिन्दर्शने स्थितः सर्वा­त्म­प्र­का­श­का­न्म­न्त्रा­न­ह­मि­त्या­दी­न्दृ­ष्ट­वा­निति श्रुत्यर्थः ।

तस्या­स्ता­त्प­र्य­माह —
ब्रह्मेति ।
'लक्ष­ण­हेत्वोः क्रियायाः’ इत्यत्र येन लक्ष्यते तल्लक्षणं जनको हेतुस्तौ लक्षणहेतू क्रियाविषयौ चेद्भवतस्तदा क्रियात्मके तस्या लक्षणे तस्या हेतौ चार्थे वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इत्युक्तम् । यथा तिष्ठ­न्मू­त्र­यति, शयानो भुङ्क्तेऽधीयानो वसतीति । तथात्रापि प्रति­प­त्ति­क्रि­या­हेतौ क्रियायां दर्शने पश्यन्निति शतुर्दर्शनात् , अव्यवहिते च हेतुमति क्रियाया हेतुत्वात् , एष शतृप्रत्ययः सर्वात्मत्वस्य कालान्तरत्वं वारयति । अतोऽस्य न वैधतेत्यर्थः ।

यद्यपि न स्थिति­क्रि­या­सा­म­र्थ्या­द्ग्ी­ति­क्रिया किन्तु यत्नान्तरात् , तथापि तयोर्मध्ये क्रियान्तरं शब्दतो न भाती­त्ये­ता­व­तो­दा­ह­रति —
यथेति ।

इतश्च ब्रह्मधीर्न विधेया, तत्फलं च न वैधमित्याह —
त्वं हीति ।
भरद्वाजादयः षड्ऋषयः परविद्याप्रदं पिप्पलादं गुरुं विद्या­नि­ष्क्र­या­र्थ­म­न्य­द­नु­रू­प­म­प­श्यन्तः पादयोः प्रणम्योचिरे । त्वं खल्वस्माकं पिता, ब्रह्म­दे­ह­स्या­ज­रा­म­रस्य विद्यया जनयितृत्वात् , इतरौ पितरौ देहमेव जनयतः जनयितृत्वमपि सिद्ध­स्यै­वा­वि­द्या­नि­रा­सा­दि­त्याह - यस्त्व­म­स्मा­न­वि­द्या­म­हो­दधेः पर­म­पु­न­रा­वृ­त्ति­रूपं पारं तारयसि प्रापयसि विद्याप्लवेनेति ।

प्रश्नो­प­नि­ष­द­मुक्त्वा सन­त्कु­मा­र­ना­र­द­सं­वा­दा­त्मिकां छान्दो­ग्यो­प­नि­षदं पठति —
श्रुतं हीति ।
तत्र ‘तारयतु’ इत्य­न्त­मु­प­क्र­मस्थं शेष­मु­प­सं­हा­र­स्थ­मिति भेदः । मम भगवत्तुल्येभ्यः श्रुतमेवेदं यत्तरति शोकं मन­स्ता­प­म­कृ­ता­र्थ­बु­द्धि­मा­त्म­वि­दिति । सोऽह­म­ना­त्म­वि­त्त्वा­च्छो­चामि अतस्तं मां शोचन्तं शोकसागरस्य पारमन्तं तारयतु भग­वा­ना­त्म­ज्ञा­नो­डु­पे­नेति नारदेन प्रेरितः सन­त्कु­मा­र­स्तस्मै वैराग्यादिना निर­स्त­स­म­स्त­दो­षाय योग्याय तम­सोऽ­वि­द्या­ख्यस्य पारं परमार्थतत्त्वं दर्शि­त­वा­नि­त्यर्थः ।

आदिशब्देन ‘यो वेद निहितं गुहायाम् ‘ इत्याद्याः श्रुतयो गृहीतास्तासां तात्पर्यमाह —
मोक्षेति ।
विद्या­फ­ल­म­वि­द्या­ध्वस्तिः श्रुता न चामा­ना­त्त­द्ध्वस्तिः तथा चोपास्तेरन्या मानमेव ब्रह्मधीर्न विधेया तत्फलं च मुक्तिर्न वैधीत्यर्थः ।

श्रुत्य­नु­सा­रे­णा­वि­द्या­ध्व­स्ति­फ­ल­त्वा­द्ब्र­ह्म­धी­स्त­त्त्व­धी­रि­त्यु­क्तम् । इदानीं तर्क­शा­स्त्रा­नु­सा­रे­णापि तथैवेत्याह —
तथा चेति ।
दुःखं प्रति­कू­ल­वे­द­नीयं, बाधा, पीडा, ताप इत्यनेकविधम् । जन्म देहे­न्द्रि­य­बु­द्धीनां निकायविशिष्टः प्रादुर्भावः । हिंसा­स्ते­या­दि­रूपा पापिका प्रवृत्तिरधर्मं प्रसूते । दानत्राणादिरूपा प्रवृ­त्ति­र्धर्मं जनयति । तावेतौ धर्माधर्मौ प्रवृत्तिसाध्यौ तच्छब्दौ । राग­द्वे­षे­र्ष्या­सू­या­मा­न­लो­भा­दयो दोषाः । मिथ्या­ज्ञा­न­म­त­स्मिं­स्त­ज्ज्ञानं, आत्मा नास्तीत्यादि । तेषां पाठ­क्र­मा­दु­त्त­रो­त्त­र­स्या­पाये तदनन्तरस्य पूर्व­पू­र्व­स्या­पा­या­द­प­वर्गो निःश्रेयसम् । मिथ्याज्ञानादयो दुःखान्ता धर्मा विच्छेदादृते वर्तमानाः संसारः । तथाच यदा तत्त्व­ज्ञा­ना­न्मि­थ्या­ज्ञा­न­म­पैति तदा हेत्वभावे फला­भा­वा­द्दो­षा­पायः, तदपाये च प्रवृ­त्ति­सा­ध्य­ध­र्मा­ध­र्मा­पा­या­ज्ज­न्मा­पा­य­द्वारा दुःखमपगच्छति, ततश्चात्यन्तिकं निःश्रेयसं सिध्यति । तदेवं तत्त्व­ज्ञा­ना­न्मि­थ्या­ज्ञा­न­ध्वस्त्या मोक्ष इत्य­क्ष­पा­द­स्यापि विव­क्षि­त­मि­त्यर्थः ।

ननु भेदधीरेव मिथ्या­धी­वि­रुद्धा तत्त्व­धी­स्त­र्क­शा­स्त्रेऽ­भीष्टा, ‘तत्त्वज्ञानं तु मिथ्या­ज्ञा­न­वि­प­र्य­येण व्याख्यातम्‘ इत्युपक्रम्य ‘आत्मनि ताव­द­स्ती­त्य­ना­त्म­न्या­त्मेति दुःखेऽ­नि­त्येऽ­त्राणे सभये जुगुप्सिते हातव्ये यथाविषयं वेदितव्यम्‘ इत्या­दि­न्या­य­भा­ष्य­द­र्श­नात् । तत्कथं ब्रह्मा­त्मै­क्य­ज्ञा­ना­न्मि­थ्या­धी­ध्व­स्ति­रि­त्यत्र न्याय­शा­स्त्रा­नु­गुण्यं, तत्राह —
मिथ्येति ।
भेद­दृ­ष्टे­र­ज्ञा­न­वि­ला­स­त्वा­न्मि­थ्या­ज्ञा­ना­प्र­ति­प­क्ष­त्वात् , अद्व­य­ब्र­ह्मा­त्म­धी­रेव तन्नि­व­र्ति­के­त्या­व­श्य­क­मि­त्यर्थः ।

अथैक्यज्ञानमपि सम्प­दा­दि­रू­प­त्वा­द्भे­द­धी­तुल्यं न मिथ्या­धी­वि­रुद्धं, नेत्याह —
न चेति ।

सम्पन्नामाल्पे वस्तुन्यालम्बने सामान्येन केनचिन्महतो वस्तुनः सम्पादनम् । तत्रोदाहरणम् —
यथेति ।
मन­स्य­न­न्त­वृ­त्ति­म­त्या­ल­म्ब­नेऽ­ल्प­प­रि­माणे विश्वेषां देवानामनन्तानां मह­ता­म­न­न्त­त्व­सा­मा­न्येन सम्पादनं तेना­न­न्त­फ­ला­प्ति­र्यथा श्रुता, तथा जीवस्यापि चैत­न्य­सा­मा­न्या­द्ब्र­ह्म­ता­स­म्पा­द­न­म­मृ­त­फलं विधे­य­मि­त्य­यु­क्त­मि­त्यर्थः ।

अध्यासपक्षं निषेधति —
न चेति ।

अध्यासः शास्त्र­तोऽ­त­स्मिं­स्तद्धीः । सम्पदि सम्पाद्यमानस्य प्राधा­न्ये­ना­नु­ध्यानं, अध्यासे त्वालम्बनस्येति विशेषं मत्वा दृष्टान्तमाह —
यथेति ।
आदि­श­ब्दा­दा­का­शा­द्यु­क्तम् । आदित्यादौ यथा ब्रह्म­धी­रा­रो­प्यते तथा जीवे तद्धी­रा­रो­प्ये­त्य­ध्या­स­रू­प­मि­द­मै­क्य­ज्ञा­न­मि­त्यपि नेत्यर्थः ।

पक्षान्तरं दूषयति —
नापीति ।
संवर्गविद्यायां श्रुतम् - ‘वायुर्वाव संवर्गो यदा वा अग्नि­रु­द्वा­य­त्यु­प­शा­म्यति वायुमेवाप्येेति विलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायु­र्ह्यें­वै­ता­न्स­र्वा­न्सं­वृङ्क्त इत्य­धि­दै­व­त­म­था­ध्यात्मं प्राणो वाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः’ इति । तत्र यथा संह­र­ण­क्रि­या­यो­गा­द्वायोः प्राणस्य च संवर्गत्वं, तथा जीव­ब्र­ह्म­णो­र्बृं­ह­ण­क्रि­या­यो­गा­दै­क्य­ज्ञा­न­मि­त्यपि नेत्यर्थः । आदिशब्दात् ‘प्राणो वा उक्थम् ‘ इत्यादि गृहीतम् ।

मतान्तरं प्रत्याह —
नापीति ।
यथा दर्श­पू­र्ण­मा­सा­धि­कारे - ‘पत्न्य­वे­क्षि­त­माज्यं भवति’ इत्या­म्ना­त­म­वे­क्ष­ण­मु­पां­शु­या­जा­ङ्ग­भू­ता­ज्य­सं­स्कारो गुणकर्म विधीयते तथा कर्तृत्वेनाङ्गे क्रतावात्मनि द्रष्ट­व्या­दि­वा­क्येन दृष्टे­र्गु­ण­क­र्मणो विधा­ना­त्क­र्मा­ङ्गा­त्म­सं­स्का­र­रू­प­मै­क्य­ज्ञा­न­मि­त्यपि नेत्यर्थः । आदिशब्देन प्रोक्षणादि गृह्यते ।

सम्प­द­ध्या­स­क्रि­या­यो­ग­सं­स्का­राणां न प्रति­ज्ञा­मा­त्रा­द­योगः, अति­प्र­स­ङ्गा­दि­त्या­शङ्क्य वेदान्तानां स्वार्थे माना­न्त­र­वि­रो­धाद्वा तात्प­र्या­भा­वाद्वा सम्पदादिपरतेति विकल्प्य जीव­ब्र­ह्म­णो­र्मा­ना­न्त­रा­गो­च­र­त्वा­त्त­द्भे­द­स्यापि तथात्वात् , भेददृष्टेश्च बिम्ब­प्र­ति­बि­म्ब­व­द­वि­रो­धा­दाद्यो नेति मत्वा द्वितीयं प्रत्याह —
सम्पदादीति ।
'सदेव सोम्येदम् ‘ ‘एकमेव‘ इत्युपक्रमात् ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा’ इत्युपसंहारात् ‘तत्त्वमसि’ इत्य­भ्या­सा­द्ब्र­ह्मा­त्मनो माना­न्त­रा­वे­द्य­त्वे­ना­पू­र्व­त्वात् तज्ज्ञानस्य ‘आचार्यवान् ‘ इत्यादिना फलश्रुतेः ‘अनेन जीवेन’ इत्यर्थवादात् ‘अथ येऽन्यथा’ इत्या­दि­भे­द­द­र्श­न­नि­न्द­नात् , उपपत्तेश्च मृदा­दि­दृ­ष्टा­न्तस्य दृष्टत्वात् । बृहदारण्यकेऽपि ‘ब्रह्म वा इदम् ‘ इत्युपक्रमात् ‘अयमात्मा ब्रह्म’ इति परामर्शात् ‘पूर्णमदः पूर्णमिदम् ‘ इत्युपसंहारात् ‘स एष नेति नेत्यात्मा’ इत्य­भ्या­सा­द­प्र­प­ञ्च­ब्र­ह्मा­त्म­नोऽ­पू­र्व­त्वात् ‘तस्मा­त्त­त्स­र्व­म­भ­वत् इत्यादि’ फलश्रुतेः ‘स एष इह प्रविष्टोऽथ योऽन्यां देवताम् ‘ इत्या­द्य­र्थ­वा­दा­द्दु­न्दु­भ्या­दि­दृ­ष्टा­न्तो­प­पत्तेः । ऐतरेयके च ‘आत्मा वा इदमेक एव’ इत्युपक्रम्य ‘स एतमेव पुरुषं ब्रह्म ततमपश्यत्’ इति परामृश्य ‘प्रज्ञानं ब्रह्म’ इत्युपसंहारात् । आथर्वणे च ‘कस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातम् ‘ इत्युपक्रम्य ‘ब्रह्मैवेदम् ‘ इति निगमनात् । तैत्तिरीयके च ‘ब्रह्म­वि­दा­प्नोति परम् ‘ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘यो वेद निहितं गुहायाम् ‘ इत्युपक्रम्य ‘सयश्चायं पुरुषे । यश्चासावादित्ये । स एकः’ इति परामृश्य ‘आनन्दो ब्रह्मेति व्यजानात् ‘ इत्या­दि­नो­प­सं­हा­रात् , तस्यैव ब्रह्मा­त्म­नोऽ­भ्या­सात् , तदपूर्वता स्यात् । ‘सोऽश्नुते सर्वान्कामान् ‘ ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति’ इत्यादिना फलाभिलापात् ‘तदात्मानं स्वयमकुरुत’ इत्यर्थवादात् ‘को ह्येवान्यात् ‘ इत्या­द्यु­प­पत्तेः । एकत्वे वेदा­न्ता­ना­मे­का­न्तेन तात्प­र्य­म­व­धा­र्यते । तथा चायुक्ता तेषां स्वार्थे तात्प­र्या­भा­व­कृता सम्पदादिपरतेति भावः ।

किञ्च ज्ञान­स्या­ज्ञा­न­ध्व­स्ति­फ­ल­त्व­श्रु­तेर्न सम्प­दा­दि­रू­प­मै­क्य­ज्ञा­न­मि­त्याह —
भिद्यत इति ।
हृदयमन्तःकरणं तस्य ग्रन्थी रागादिः स तस्मिन्दृष्टे भिद्यते विदीर्यते । सर्वे च संशयाः संसा­र­हे­त­व­श्छि­द्यन्ते छिन्ना भवन्तीत्यर्थः । आदिशब्दात् ‘तरति शोकमात्मवित् ‘ इत्यादि गृह्यते ।

तेषां तात्पर्यमाह —
अविद्येति ।
सम्प­दा­दि­ज्ञा­न­स्या­प्र­मा­त्वा­द­ज्ञा­ना­नि­व­र्त­क­त्वा­दि­त्यर्थः ।

ब्रह्मविद्याया ब्रह्म­भा­व­फ­ल­श्रु­ते­रपि न सम्प­दा­दि­रू­प­ते­त्याह —
ब्रह्मेति ।
आदिपदं ‘ब्रह्म­वि­दा­प्रोति’ इत्यादि ग्रहीतुम् ।

तेषां तात्पर्यमाह —
तद्भावेति ।
आत्मनो वस्तुतो भिन्न­स्या­ब्र­ह्म­त्वा­द­न्यस्य स्थितस्य नष्टस्य वान्य­त्वा­सिद्धेः सम्पदादिपक्षे तद्भाववाक्यानां न मुख्या­र्थ­ते­त्यर्थः ।

उक्तहेतुभ्यः सिद्धं निगमयति —
तस्मादिति ।
प्रमितित्वं, तमो­ध्व­स्ति­त­द्भा­वा­प­त्ति­फ­लत्वं च तच्छब्दार्थः ।

सम्प­दा­दि­रू­प­त्वा­भा­वेऽपि कथमविधेयत्वं तदाह —
अत इति ।

तदतन्त्रत्वे नित्य­त्व­मा­श­ङ्क्याह —
किं तर्हीति ।

तस्या वस्तुतन्त्रत्वे फलितमाह —
एवमिति ।
एवं­भू­त­स्या­द्व­य­प्र­त्य­ङ्मा­त्र­तया स्थित­स्ये­त्यर्थः । कृतिसाध्यस्यैव नियो­ग­वि­ष­य­त्वा­द्ब्र­ह्म­ण­स्त­ज्ज्ञा­नस्य वा तद­सा­ध्य­त्वा­दि­त्यर्थः ।

कथमवैधं ब्रह्म, वैफ­ल्या­द­का­र­क­त्वाद्वा । नाद्यः, मुक्तिश्रुतेः । नेतरः, कर्म­त्वा­दि­त्या­शङ्क्य विदि­क्रि­या­या­मु­पा­स्ति­क्रि­यायां वा तस्य कर्मतेति विकल्प्याद्यं दूषयति —
न चेति ।
तद्ब्रह्म विदि­ता­त्का­र्या­द­न्य­दे­वाथो कार­णा­द­प्य­वि­दि­ता­द­ध्यु­प­रि­ष्टा­द­न्य­दि­त्यर्थः । येन प्रमात्रेदं सर्वं वस्तु लोको जानाति तं केन करणेन जानीयात् , करणस्य ज्ञेय­वि­ष­य­त्वा­ज्ज्ञा­त­र्य­प्र­वृत्तेः । तन्न ज्ञाता ज्ञेयः किन्तु साक्षीत्यर्थः ।

द्वितीयं प्रत्याह —
तथेति ।
'यद्वा­चा­न­भ्यु­दितं येन वागभ्युद्यते’ इत्य­वि­ष­य­त्व­मु­क्तवा ‘तदेव’ इति मातृ­त्वा­दि­क­ल्प­ना­म­पो­ह्या­त्म­भूतं ब्रह्म महत्तममिति त्वं विद्धि । यदुपाधिविशिष्टं देव­ता­दी­द­मि­त्यु­पा­सते जना नेदं त्वं ब्रह्म विद्धीत्यर्थः ।

शास्त्रो­त्थ­शा­ना­वि­ष­यत्वे ब्रह्मणि तत्‌प्रा­मा­ण्य­प्र­ति­ज्ञा­हा­नि­रिति चोदयति —
अविषयत्व इति ।

शास्त्री­य­ज्ञा­ना­धी­न­स्फु­र­ण­व­त्त्व­रू­प­क­र्म­त्वा­भा­वेऽ­प्य­वि­द्या­ध्व­स्त्य­ति­श­य­व­त्त्वा­द्ब्र­ह्मणः शास्त्री­य­त्वान्न प्रति­ज्ञा­हा­नि­रि­त्याह —
नेति ।

शास्त्री­य­धी­कृ­ता­वि­द्या­ध्व­स्ति­म­त्त्वेन तत्कृ­त­स्फु­र­ण­व­त्त्व­मपि घटा­दि­व­दि­त्या­शङ्क्य तथै­वे­द­न्धी­वि­ष­य­त्वा­प­त्ते­र्मै­व­मि­त्याह —
नहीति ।

तर्ही­दं­प्र­त्य­या­वि­ष­य­त्वा­द­वि­द्या­ध्व­स्ति­म­त्त्व­मपि शून्य­व­न्ना­स्तीति नास्य शास्त्री­य­ते­त्या­शङ्क्य अह­मा­दि­सा­क्षि­मा­त्र­त्वेन ब्रह्मास्मीति बुद्धा­वा­वि­र्भा­व­य­द­वि­द्या­म­प­न­यति शास्त्रमिति तत्प्रा­मा­ण्य­मि­त्याह —
किं तर्हीति ।

तथापि कथमद्वयं ब्रह्म प्रतिपाद्यं वेद्या­दि­भे­दा­दि­त्या­श­ङ्क्याह —
वेद्येति ।

तत्र श्रुतीरुदाहरति —
तथा चेति ।

यस्य ब्रह्मामतमविषय इति निश्चयस्तस्य तन्मतं सम्यग्ज्ञातम् । यस्य तु मतं विषयतया ज्ञातं ब्रह्मेति धीर्नासौ तद्वेद, भेद­धी­म­त्त्वा­दे­व­मे­वेति नियमार्थमुक्तौ विद्व­द­वि­द्व­त्प­क्षा­व­नु­व­दति —
अविज्ञातमिति ।
विष­य­त्वे­ना­ज्ञा­त­मेव ब्रह्म सम्यग्जानतां ज्ञातमेव विषयतया यथा­व­द­जा­न­ता­मि­त्यर्थः ।

दृष्टे­श्च­क्षु­र्ज­न्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्यया तया दृष्ट्या न पश्येः, विज्ञा­ते­र्बु­द्धि­ध­र्मस्य निश्चयस्य विज्ञातारं साक्षिणं तथैव वेद्यया विज्ञात्या न विजानीया इति श्रुत्यन्तरमाह —
न दृष्टेरिति ।
आदिपदेन ‘अदृ­श्येऽ­नात्म्ये’ ‘यत्त­द­द्रे­श्यम्’ इत्यादि गृहीतम् ।

ननु यद्यैक्यधीः शास्त्रोत्था स्फूर्ति­म­नु­त्पा­द्या­वि­द्या­बा­धया तज्जं ज्ञात्राद्यपि बाधित्वा ब्रह्मा­त्म­न्य­मेये स्वाभा­वि­का­प­रो­क्ष­व्य­ञ्ज­नेन निवर्तकतया स्थितेति ब्रह्मणि शास्त्रं प्रमाणन्तर्हि ध्वस्ता­वि­द्या­त­ज्ज­ब्र­ह्म­रू­प­स्या­ग­न्तु­क­त्वान्न तदा­प्ते­र्मु­क्ते­र्नि­त्य­ते­त्या­श­ङ्क्याह —
अत इति ।
शास्त्रो­त्थ­ज्ञा­ना­दिति यावत् ।

स्वपक्षे ब्रह्मणः शास्त्रीयत्वं मोक्षस्य नित्यत्वं चोक्त्वा परपक्षे तदनित्यत्वं वक्तुं तस्यो­त्पा­द्यत्वं, विकार्यत्वं प्राप्यत्वं संस्कार्यत्वं वेति विकल्प्य कल्पद्वये कार्या­नु­प्र­वे­श­म­ङ्गी­क­रोति —
यस्येति ।
तथेति मुक्ते­र्वि­का­र्यत्वे सत्यु­त्पा­द्य­त्व­व­त्का­र्या­पेक्षा युक्तेत्यर्थः ।

तर्हि कार्या­नु­प्र­वे­शा­या­न्य­त­र­प­रि­ग्रहः स्यादि­त्या­श­ङ्क्याह —
तयोरिति ।

तदेव व्यतिरेकेण व्यनक्ति —
नहीति ।

अनि­त्य­त्व­नि­वृ­त्तये पूर्वसिद्धस्यैव ब्रह्मणो ग्रामा­दि­व­दा­प्य­तेति तृतीयमाशङ्क्याह —
न चेति ।

ब्रह्म प्रत्यगन्यद्वा । प्रथमं प्रत्याह —
स्वात्मेति ।

द्वितीयेऽपि ब्रह्म सर्वगतं परिच्छिन्नं वा । सर्वगतत्वेऽपि तत्प्राप्तिः संयो­ग­स्ता­दात्म्यं वा । तत्राद्यं दूषयति —
स्वरूपेति ।
तादा­त्म्य­प­क्षस्तु स्थितस्य नष्टस्य वान्य­स्या­न्य­त्वा­यो­गा­दु­पे­क्षितः । अविकृतदेशतया परि­च्छि­न्न­त्वेऽपि ब्रह्मणः संयोगाख्या तत्प्रा­प्ति­र­नि­त्य­त्वा­द­युक्ता । तादात्म्यं तूक्त­न्या­य­नि­र­स्तम् ।

पक्षान्तरं निराह —
नापीति ।

तदभावं वक्तुं संस्का­र­द्वै­वि­ध्य­माह —
संस्कारो हीति ।
प्रका­र­प्र­का­रि­प्र­सि­द्ध्यर्थौ निपातौ ।

गुणाधानेन मुक्तेर्न संस्का­र्य­ते­त्याह —
नेति ।

दोषनिरासेनापि न तस्याः संस्का­र्य­ते­त्याह —
नापीति ।

आग­न्तु­क­गु­ण­दो­ष­यो­र­भा­वेऽपि नैस­र्गि­का­वि­द्या­दो­षा­त्त­न्नि­वृत्त्या मुक्तेः संस्कार्यतेति शङ्कते —
स्वात्मेति ।
वस्तुतः स्वात्मैव प्रतीत्या धर्मः सन्निति यावत् ।

स्वाभाविकस्यापि तिरस्कृतस्य क्रिया­तोऽ­भि­व्यक्तौ दृष्टान्तमाह —
यथेति ।

किमात्मा स्वाश्रयक्रियया दोषापनुत्त्या संस्क्रियते किं वान्या­श्र­य­क्रि­य­येति विकल्प्याद्यं निरस्यति —
नेति ।

आत्म­नोऽ­स­ङ्ग­त्वान्न क्रिया­श्र­य­त्व­यो­ग्य­ते­त्य­युक्तं, क्रिया­व­त्त्व­मि­च्छतां तद्यो­ग्य­त्वा­दि­त्या­श­ङ्क्याह —
यदाश्रयेति ।

आत्मनोऽपि विका­रि­त्व­मा­श­ङ्क्याह —
यदीति ।

न केवलमात्मनो विकारित्वे युक्तिविरोधः, अपि­त्वा­ग­म­वि­रो­धोऽ­पी­त्याह —
अविकार्य इति ।
‘निष्कलं निष्क्रियम् ‘ इत्या­दि­श्रु­ति­स­मु­च्च­या­र्थ­श्च­कारः । ‘न जायते म्रियते वा ‘ इत्या­दि­श्रु­ति­स्मृ­ति­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

तच्चेति ।
आगमबाधनमनिष्टम् । वैदिकानामिति शेषः ।

आद्यपक्षायोगं निगमयति —
तस्मान्नेति ।

द्वितीयं निराह —
अन्येति ।
क्रियायाः स्वाश्रये तद्युक्ते वाति­श­य­हे­तु­त्वात् , अस­ङ्ग­स्या­त्म­न­स्त­दा­श्र­य­बु­द्ध्या­द्य­स­म्ब­न्धात् , तन्निष्ठा क्रिया संस्का­र­मा­त्म­न्या­धा­तु­म­ल­मि­त्यर्थः ।

नान्याश्रया क्रियान्यं संस्करोतीत्यत्र व्यभिचारं शङ्कते —
नन्विति ।
आदिपदं सन्ध्या­व­न्द­ना­दि­स­ङ्ग्र­हा­र्थम् ।

आत्मनो देहा­द्य­ति­रि­क्त­स्यापि देहा­दि­ष्व­वि­द्या­ध्या­सा­त्त­द­भि­न्न­स्यैव तत्क्रियया संस्का­र्य­त्वान्न व्यभिचार इत्याह —
न । देहेति ।

अवि­द्या­गृ­ही­त­स्येति ।
अविद्यया मनुष्योऽहमिति मिथ्या­ज्ञा­न­दृ­ष्ट­स्ये­त्यर्थः ।

देहाश्रयक्रियया देहसंहतस्य तद­भि­न्न­स्या­त्मनः संस्क्रि­य­मा­ण­त्व­मुक्त्वा स्नाना­च­म­ना­दि­क्रि­याया देहाश्रयत्वे मानमाह —
प्रत्यक्षं हीति ।

असं­ह­ता­त्म­स्थ­क्रि­यया तस्यैव संस्कार्यत्वं किं न स्यादि­त्या­श­ङ्क्या­ध्य­क्ष­वि­रो­ध­माह —
तयेति ।
कश्चि­दि­त्य­नि­र्धा­रि­त­वि­शे­ष­मा­मु­ष्मि­क­फ­लो­प­भो­ग­श­क्त­म­स्ती­त्येवं प्रतिपन्नं निर्दिशति ।

दृष्टा­न्ते­नोक्तं स्पष्टयति —
यथेत्यादिना ।

देहसंहतिफलं तदभिमानिन इत्युक्तं, आरोग्यमपि कस्मा­द­सं­ह­ता­त्मगं न स्यादि­त्या­श­ङ्क्या­नु­भ­व­वि­रो­धा­दि­त्याह —
अहमिति ।

संस्कारफलं शुद्ध इत्युक्तम् । आत्मनो यथो­क्त­बु­द्धि­म­तोऽ­सं­ह­त­त्व­म­नु­भ­वेन वारयति —
स चेति ।

कथं तर्हि स्नानादीनां कर्तृ­सं­स्का­र­त्व­प्र­सि­द्धि­रि­त्या­शङ्क्य संहतस्यैव कर्तृ­त्वा­दि­त्याह —
तेनेति ।

प्रयतेऽहमिति कर्तृ­त्व­म­नु­भ­वि­तु­रपि तुल्य­मि­त्या­श­ङ्क्याह —
अहंप्रत्ययेति ।
अनु­भ­वि­तु­र्नि­त्य­प्र­का­शस्य न तद्वि­ष­य­ते­त्यर्थः ।

न केव­ल­म­स्या­ह­न्धी­मात्रे कर्तृत्वं किन्तु धीमात्र इत्याह —
प्रत्ययिनेति ।

आत्मनो भोक्तुरेव कर्तृ­त्व­म­क­र्तु­र्भो­गा­भा­वा­दि­त्या­श­ङ्क्याह —
तत्फलं चेति ।

संहतस्य भोक्तृत्वे मानमाह —
तयोरिति ।
जीवपरयोर्मध्ये जीवो नानारसं कर्मफलं भुङ्क्ते ।

असं­ह­त­स्या­भो­क्तृत्वे मानम् —
अनश्नन्निति ।
परमात्मा स्वयमभुञ्जान एव पश्यन्वर्तते ।

संहतस्य भोक्तृत्वे वाक्यान्तरमाह —
आत्मेति ।
आत्मीयं शरीरमात्मा । देहा­दि­सं­यु­क्त­मा­त्मा­न­मि­त्यर्थः । यद्वात्मा भोक्ते­त्या­हु­रिति सम्बन्धः । इन्द्रियेत्यादि क्रियाविशेषणम् ।

निर्गु­ण­त्वा­न्नि­र्दो­ष­त्वाच्च ब्रह्मात्मनि द्विधापि संस्कारो नेत्युक्तम् । इदानीं तस्मि­न्गु­ण­दो­ष­यो­र­भावे मानमाह —
तथाचेति ।

मूर्ति­त्र­या­त्मना भेदं प्रत्याह —
एक इति ।

यथाहुः - ‘हरिर्ब्रह्मा पिनाकीति बहुधैकोऽपि गीयते ‘ इति अखण्डजाड्यं व्यावर्तयति —
देव इति ।

आदि­त्या­दि­वै­ष­म्य­माह —
सर्वेति ।

तर्हि किमिति सर्वेषां न भाति, तत्राह —
गूढ इति ।

तर्हि तत्त­द्भू­ता­व­च्छि­न्न­त्वेन परिच्छिन्नत्वं, नेत्याह —
सर्वव्यापीति ।

नभोवत्ताटस्थ्यं वारयति —
सर्वभूतेति ।

सर्वेषु भूते­ष्व­न्तः­स्थि­तस्य तत्त­त्क्रि­या­क­र्तृत्वं शङ्कित्वोक्तम् —
कर्मेति ।

सर्व­भू­ते­ष्वि­त्या­दिना भूतानां पृथगुक्तेः सद्वितीयत्वं, तत्राह —
सर्वेति ।
सर्वेषां भूता­ना­म­धि­वा­सोऽ­धि­ष्ठा­नम् । न च कल्पि­त­म­धि­ष्ठा­ना­द­र्था­न्त­र­मि­त्यर्थः ।

न परं कर्म­णा­मे­वा­ध्य­क्षोऽपि तु तद्वतामपीत्याह —
साक्षीति ।

तत्र चैत­न्य­स्वा­भाव्यं हेतुमाह —
चेतेति ।
केवलो दृश्य­व­र्जि­तोऽ­द्वि­तीयः । निर्गुणो ज्ञाना­दि­गु­ण­र­हितः । चकारो दोषा­भा­व­स­मु­च्च­यार्थः ।

ब्रह्मात्मनि गुणदोषाभावे मन्त्रान्तरमाह —
स इति ।
स प्रकृतः ‘यस्य सर्वाणि भूतानि’ इत्यादावात्मा परितः सम­न्ता­द­गा­त्स­र्व­गतः । शुक्र­मि­त्या­दि­शब्दाः पुंलिङ्गत्वेन नेयाः ‘स’ इत्युपक्रमात् , ‘कविर्मनीषी’ इत्यादिना च पुंलि­ङ्ग­त्वे­नो­प­सं­हा­रात् । शुक्रो दीप्तिमानकायो लिङ्गदेहहीनः । अव्र­णोऽ­क्ष­तोऽ­स्ना­विरः शिरा­र­हि­त­स्ताभ्यां स्थूल­दे­हा­स­त्त्व­मु­क्तम् । शुद्धो रागादिशून्यः । अपापविद्धो धर्माधर्मविधुरः ।

मन्त्र­यो­स्ता­त्प­र्य­माह —
एताविति ।

तथापि मोक्षस्य किमायातं, तदाह —
ब्रह्मेति ।

मुक्ति­ब्र­ह्म­णो­रै­क्या­त्तत्र दोषाद्यभावान्न तस्याः संस्का­र्य­ते­त्यु­प­सं­ह­रति —
तस्मादिति ।
उत्पा­द्या­दि­दृ­ष्टा­न्ता­र्थोऽ­पि­शब्दः ।

मुक्ते­रु­त्प­त्त्या­दि­च­तु­ष्टयं क्रिया­नु­प्र­वे­श­द्वारं मा भूत्पञ्चमं तु किञ्चि­द्भ­वि­ष्यति नियमाभावात् , नेत्याह —
अत इति ।
उत्प­त्त्या­दि­च­तु­ष्ट­य­म­तः­श­ब्दार्थः । तस्या लोक­वे­द­प्र­सि­द्ध­त्वा­दि­त्यर्थः ।

मोक्षे क्रियाया अननुप्रवेशे तद­र्थ­प्र­वृ­त्त्या­न­र्थ­क्य­मि­त्या­शङ्क्य ज्ञाना­र्थ­त्वा­न्मै­व­मि­त्याह —
तस्मादिति ।
क्रिया­नु­प्र­वे­श­द्वा­रा­भा­व­स्त­च्छ­ब्दार्थः । उपास्तेरपि मोक्षे साक्षात्प्रवेशो नेति वक्तुं गन्ध­मा­त्र­स्ये­त्यु­क्तम् । बाह्य­क्रि­या­या­स्त­त्रा­प्र­वेशे कैमु­ति­क­न्या­या­र्थोऽ­पि­शब्दः ।

मोक्षे­ज्ञा­न­प्र­वेशे तस्य क्रिया­त्वा­द­स्त्येव तत्प्र­वे­श­स्त­त्रेति शङ्कते —
नन्विति ।
तस्य मान­स­व्या­पा­र­त्वेऽपि न वैधक्रियात्वम् ।

ततो जन्य­फ­ला­द­ज­न्य­फ­ल­त्वेन विशेषादित्याह —
नेति ।
वैधक्रियात्वम् ।

वैधक्रिया यत्नेच्छासाध्या ज्ञानं न तथेत्यपरं विशेषमाह —
क्रिया हीति ।
यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रिया हि नामेति योजना । क्रिया­त­द्ध­र्म­प्र­सि­द्धार्थौ निपातौ ।

वस्तु चेन्न कारणं किं तर्हि तथा तदाह —
पुरुषेति ।

वस्त्वनपेक्षा पुन्तन्त्रा च क्रियेत्यत्र दृष्टा­न्त­द्व­य­माह —
यथेति ।
गृही­त­म­ध्व­र्यु­णेति शेषः । वष­ट्क­रि­ष्य­न्निति होतोक्तः । सन्ध्यां तदभिमानिनीं देवतामित्यर्थः । ‘नाम ब्रह्मे­त्यु­पा­सीत’ इत्या­दि­ग्र­ही­तु­मा­दि­प­दम् । एवमादिषु वाक्येषु वस्त्वनपेक्षं पुन्तत्त्रं च ध्यानं विधीयते तथा क्रिया­न्त­र­म­पी­त्यर्थः ।

ननु मान­स­त्वा­वि­शे­षा­वि­शे­षा­द्ध्या­न­मपि ज्ञानमेवेति नास्य क्रिया­दृ­ष्टा­न्त­त्वम् , तत्राह —
ध्यानमिति ।

ज्ञानस्यापि तुल्यं पुन्त्न्त्रत्वं तदा­श्र­य­त्वा­त्त­त्राह —
ज्ञानं त्विति ।

प्रमाणद्वारा तस्य पुन्त­न्त्र­त्व­मा­श­ङ्क्याह —
प्रमाणं चेति ।

ज्ञान­स्या­पु­न्त­न्त्रत्वे फलितमाह —
अत इति ।

तर्हि ज्ञानस्य नित्यत्वं, नेत्याह —
केवलेति ।

विशेषणकृत्यमाह —
नेति ।

एव­का­र­व्या­व­र्त्य­माह —
नापीति ।

ज्ञान­ध्या­न­यो­र्मा­न­स­क्रि­या­त्वेऽपि गोब­ली­व­र्द­व­द्भेदं मत्वा वैशेष्यं निगमयति —
तस्मादिति ।
तच्छ­ब्दा­र्थोऽ­पु­न्त­न्त्र­त्वम् ।

ध्यानस्य वस्त्व­न­पे­क्षत्वे दृष्टा­न्ता­वुक्त्वा तस्य तद्विरोधित्वे दृष्टा­न्ता­वा­चष्टे —
यथा चेति ।

सापि धीर्मा­न­स­त्वा­ज्ज्ञा­न­मे­वे­त्या­श­ङ्क्याह —
केवलेति ।
न ज्ञानमिति तुशब्दार्थः । वस्त्वनधीनत्वं कैवल्यम् । एव­का­रोऽ­यो­ग­व्य­व­च्छे­दकः ।

उक्त­बु­द्धे­रु­क्त­क्रि­या­त्व­नि­यमे हेत्वन्तरमाह —
पुरुषेति ।
यथैतौ दृष्टान्तौ तथा क्रियान्तरमपीति यथाशब्दो नेयः ।

ज्ञानमपि योषि­दा­दा­व­ग्नि­धी­तु­ल्य­मिति, नेत्याह —
या त्विति ।

तस्यास्तर्हि किं कारणं, तदाह —
किं तर्हिति ।

प्रकृ­त­दृ­ष्टा­न्त­म­पेक्ष्य प्रत्य­क्ष­वि­ष­य­प­दम् । तेन युक्तमेव वैषम्यं वैध­क्रि­या­धि­यो­रि­त्याह —
इति ज्ञानमिति ।

अध्य­क्ष­धि­योऽ­र्थ­ज­न्य­तया तत्त­न्त्र­त्वेऽपि शब्दा­द्य­र्थ­धि­य­स्त­द­भा­वा­च्चो­द­ना­दि­ज­न्य­ते­त्या­श­ङ्क्याह —
एवमिति ।
अनु­मा­ना­दा­व­र्था­ज­न्य­त्वेऽपि लिङ्गा­दि­ज­न्य­त्वान्न चोद­ना­द्य­पे­क्षेति भावः ।

लौकि­क­धि­य­श्चो­द­ना­द्य­न­पे­क्ष­त्वेऽपि ब्रह्म­धी­र­लौ­कि­क­त्वा­त्त­द­पे­क्षत इत्याशङ्क्य दार्ष्टान्तिकं निगमयति —
तत्रेति ।
पूर्वोक्तरीत्या सम्यग्ज्ञाने वस्तु­मा­त्र­तन्त्रे सतीति यावत् । यथाभूतत्वं सदैकरूप्यम् ।

वैधक्रियातो वैशेष्योक्त्या ज्ञान­स्या­वि­धे­य­त्व­मु­क्तम् । तत्र ज्ञाने लिङादिश्रुत्या दृष्ट­वि­धे­स्त­र्का­नि­र­स्य­त्वा­दि­त्या­श­ङ्क्याह —
तद्विषय इति ।
तदेव ज्ञानं विषयः । तत्र यद्यपि लिङादयः श्रुतास्तथापि स्तुत्य­र्थ­वा­द­तया ‘विष्णुरुपांशु यष्टव्यः’ इत्या­दि­व­द­व­ति­ष्ठन्ते । अनि­यो­ज्य­म­पु­न्त­न्त्र­तया नियोगानर्हं नियोज्येन वा हीनं ज्ञानं तद्वि­ष­य­त्वा­त्ते­षा­म­वि­धा­य­क­त्वा­दि­त्यर्थः ।

कुण्ठीभावे दृष्टान्तमाह —
उपलादिष्विति ।

बिधेयज्ञानस्य कर्मणि ब्रह्म­ण्य­ति­श­या­ज­न­क­त्वाच्च न विधेयतेत्याह —
अहेयेति ।

अनु­ष्ठे­या­नु­ष्ठा­त्रो­र­भा­वा­द्वि­ध्य­भावे श्रुतेरपि तद­पे­क्ष­त्वे­ना­स­म्भ­वा­द्वि­धि­श­ब्द­वै­य­र्थ्य­मिति शङ्कते —
किमर्थानीति ।

यो द्रष्टव्यः स आत्मैवेति तत्त्व­प्र­ति­पा­द­कानि तानीत्यशङ्क्याह —
विधीति ।

तेषामर्थवत्त्वं ब्रुवाणः समाधत्ते —
स्वाभाविकेति ।

सङ्गृहीतं विभजते —
यो हीति ।
बाहिर्मुख्यं शब्दा­दि­प्र­व­ण­त्वम् ।

पुमर्थमुद्दिश्य प्रवृत्तेः श्रुत्या किमिति परावर्त्यते, श्रुते­र­न­र्थ­क­र­त्वा­पा­ता­त्त­त्राह —
न चेति ।
बाह्योऽर्थः सप्तम्यर्थः ।

किमिति तर्हि श्रुतिः सर्वानपि पुरु­षा­न्ना­नु­स­रति, तत्राह —
तमिति ।

अग्ने­र्दा­ह­प्र­वृ­त्ति­व­दा­त्मनो विष­य­प्र­वृ­त्ति­रपि निरो­द्धु­म­श­क्ये­त्या­श­ङ्क्याह —
कार्येति ।

आत्म­धि­योऽ­ना­त्म­द­र्शने सत्यपि सम्भवात्किमिति ततो विमुखीकरणं, तत्राह —
प्रत्यगिति ।
तत्र चेतसः स्रोत­स्त­दा­भि­मुख्यं तद्भावेनेति यावत् । सत्यनात्मदर्शने तत्प्रवणस्य चेतसो न प्रत्य­गा­भि­मु­ख्य­मि­त्य­ना­त्म­धी­नि­रा­सेन फल­भू­ता­त्म­दृ­ष्टि­स्ता­व­क­तया तदा­भि­मु­ख्या­या­न्व­य­व्य­ति­रे­क­सिद्धा एवं श्रवणादयो विधि­स­रू­पै­र्वा­क्यै­र­नू­द्यन्ते । तेन विधि­का­र्य­ले­श­ला­भा­द्वि­धि­च्छा­या­न्ये­तानि न विधय इत्यर्थः ।

अस्तु वा मुमु­क्षु­प्र­वृ­त्ते­र्वै­ध­त्वा­द्वा­क्य­भे­देन श्रवणादिविधिः तथापि वस्तुनो विध्य­यो­ग्य­त्वान्न तज्ज्ञाने विधिरित्याह —
तस्येति ।

यदिदं ब्रह्मक्षत्रादि तत्स­र्व­मा­त्मै­वेति बाधायां सामा­ना­धि­क­र­ण्या­द्द्वै­ता­भा­वो­क्त्या­त्म­नोऽ­द्वि­ती­य­त्वेन पूर्ण­त्वो­क्तेर्न तत्र हेयत्वमादेयत्वं चेत्याह —
इदमिति ।

अवि­द्या­द­शा­या­मा­त्मनः सद्वितीयतया हेय­त्वा­दि­सि­द्धि­मा­श­ङ्क्या­ङ्गी­कु­र्व­न्वि­द्या­व­स्था­या­मा­त्मा­ति­रि­क्त­क्रि­या­द्य­भा­वान्न हेयत्वादीत्याह —
यत्रेति ।

न केवलं विद्या­व­स्था­या­मे­वा­त्मनि ज्ञात्रा­दि­वि­भा­गा­भावः किन्त्व­व­स्था­न्त­रेऽ­पी­त्याह —
विज्ञातारमिति ।

आत्मनः स्वविषये ज्ञेय­त्वा­भा­वेऽपि ब्रह्मणि तद्भावादादेयता तत्र स्यादि­त्या­श­ङ्क्याह —
अयमिति ।
आदिशब्द आत्म­त­त्त्व­वा­दि­स­र्व­वा­क्य­स­ङ्ग्र­हार्थः ।

प्रति­प­त्ति­वि­धि­शे­ष­त­यैव ब्रह्म शास्त्री­य­मि­त्ये­त­न्नि­रा­कृत्य तत्रैवसूचितं पूर्व­प­क्ष­म­नु­व­दति —
यदपीति ।

आत्मधियो हाना­द्य­नु­पा­यत्वं, विफलत्वं वा । तत्रा­द्य­म­ङ्गी­क­रोति —
तथेति ।

द्वितीयं दूषयति —
अलङ्कारो हीति ।

ब्रह्मा­त्मा­व­ग­ते­रु­क्त­फ­लत्वे मानं हिशब्दसूचितमाह —
तथा चेति ।
अयं पर­मा­त्मा­ह­म­स्मी­त्य­प­रो­क्ष­तया यदि कश्चित्पुरुषो जानीयात् । आत्म­सा­क्षा­त्का­र­दौ­र्ल­भ्य­द्योती चेच्छब्दः । स स्वाति­रि­क्त­मा­त्मनः किं फलमिच्छन्कस्य वा पुत्रादेः फलाय तदलाभेन शरीरं तप्यमानमनु तदुपाधिः सञ्ज्व­रे­त्त­प्येत । निरू­पा­ध्या­त्म­विदो नान्यदस्ति फलं नाप्यन्यः पुत्रा­दि­रि­त्या­क्षेपः ।

तत्रैव स्मृतिमाह —
एतदिति ।

गुह्यतमं शास्त्र­मे­त­त्तस्य बुद्धिः अर्थतः विधिशेषत्वेन ब्रह्मणो न शास्त्र­ग­म्य­ते­त्यु­क्त­मु­प­सं­ह­रति —
तस्मादिति ।
ज्ञानस्य विधे­य­त्वा­भा­व­स्त­था­वि­ध­फ­लत्वं च तच्छब्दार्थः । प्रमा­प्र­मा­रू­प­धी­मा­त्र­वि­षयः प्रतिपत्तिशब्दः । तद्वि­धि­वि­ष­य­त­येति पूर्ववत् ।

यूपा­दि­दृ­ष्टा­न्तेन विधिशेषतया ब्रह्मणः शास्त्र­ग­म्य­त्व­मुक्तं निरस्य प्रवृ­त्ति­नि­वृ­त्ती­त्या­दा­वु­क्त­म­नु­भा­षते —
यदपीति ।

किं वस्त्वेव नास्ति वेदान्तवेद्यं, तस्या­प्र­सि­द्ध­त्वा­त्त­दु­द्दिश्य प्रति­पा­द­ना­यो­गात् , आहोस्वित्तस्य क्रियाशेषतेति विकल्प्याद्यं दूषयति —
तन्नेति ।

औपनिषदस्य पुरु­ष­स्ये­त्या­द्य­नि­रासं सूचितं प्रपञ्चयति —
योऽसाविति ।

तस्यापि चैत­न्या­त्क­र्तृ­त्वेन क्रिया­शे­ष­त्व­मा­श­ङ्क्या­न­न्य­शे­ष­त्वा­दिति द्वितीयं निरासमुक्तं विवृणोति —
असंसारीति ।

तत्र पूर्णत्वं हेतुमाह —
ब्रह्मेति ।

कर्तृ­त्वे­ना­न­न्व­येऽपि क्रियायामात्मा कर्म­त्वे­ना­न्वे­ष्य­ती­त्या­श­ङ्क्याह —
उत्पाद्यादीति ।
विनि­यो­ज­क­मा­ना­भा­वा­दपि नान्वयः ।

तद्धि प्रकरणं, वाक्यं वा । नाद्य इत्याह —
स्वप्रकरणस्थ इति ।
पर्णतावद्वाक्यं विनियोजकमिति ।

द्वितीयं दूषयति —
अनन्येति ।
आत्मनो जुह्वा­दि­व­द­व्य­भि­च­रि­त­क्र­तु­सं­ब­न्धा­भा­वा­दि­त्यर्थः ।

पक्षद्वयनिरासं निगमयति —
नासाविति ।
तस्य न क्रिया­शे­ष­त्व­म­पीति विवक्षितम् ।

वेदा­न्त­वे­द्य­व­स्तुनो निरासायोगे हेत्वन्तरमाह —
स एष इति ।
यः खल्वात्मा ‘अथात आदेशः’ ‘नेति नेति’ इति विश्व­दृ­श्य­नि­षे­धे­नोक्तः स एष पञ्चमेऽपि निरूप्यत इत्यत्र वस्तु­न्या­त्म­श­ब्दात् , तस्य चात्म­त्वा­दे­वा­नि­रा­का­र्य­त्वात् , तत्क­र्तु­रे­वा­त्म­त्वा­त्तत एव तस्योद्दिश्य प्रति­पा­द्य­त्व­मपि सिध्यतीत्यर्थः ।

औपनिषदत्वं पुरु­ष­स्या­मृ­ष्य­न्ना­श­ङ्कते —
नन्विति ।

अहन्धीविषयत्वं दूषयन्विशेषणं समर्थयते —
नेत्यादिना ।
संस्का­र्य­त्व­नि­रासे ‘साक्षी चेता’ इति­म­न्त्रे­णा­त्मनः सर्व­सा­क्षि­त्व­मु­क्तम् । तेना­ह­न्धी­वि­ष­य­त्वस्य प्रत्यु­क्त­त्वा­द­वि­रु­द्ध­मौ­प­नि­ष­द­त्व­मि­त्यर्थः ।

तथापि कर्मकाण्डे तर्कशास्त्रे च सिद्धत्वान्न तस्यौपनिषदत्वम् , तत्राह —
नहीति ।
तत्साक्षीति विधि­का­ण्डा­ग­म्य­त्वोक्तिः ।

बौद्ध­सि­द्धा­न्तेऽ­न­धि­ग­ति­माह —
सर्वेति ।
सर्वेषु नश्यत्सु भूतेषु स्थितो न नश्यतीत्यर्थः ।

नैयायिकादिमते तदनधिगतिमाह —
सम इति ।
निर्विशेष इत्यर्थः ।

साङ्ख्य­स­म­य­सि­द्धत्वं निरस्यति —
एक इति ।
चैत­न्या­न्त­र­शू­न्य­त्व­मै­क्यम् ।

भर्तृ­प्र­प­ञ्चा­दि­मते प्रसिद्धिं प्रत्याह —
कूटस्थेति ।

कौटस्थ्ये कथं कारणत्वम् , तत्राह —
सर्वस्येति ।
सर्पा­धि­ष्ठा­न­र­ज्जो­रिव ब्रह्मणोऽपि द्वैता­धि­ष्ठा­न­त्वा­त्का­र­ण­त्व­मा­वि­द्य­क­मिति भावः ।

अन्यतोऽनधिगतौ फलितमाह —
अत इति ।
ज्ञाते हि बाधो नान्यथेत्यर्थः ।

विधि­का­ण्डा­न­धि­ग­ति­फ­ल­माह —
विधीति ।

तत्र हेत्वन्तरमाह —
आत्मत्वादिति ।
आत्मा सर्व­शे­षि­त्वा­न्ना­न्य­शेषः स कथं विधिशेषः स्यादित्यर्थः । विधि­का­ण्डा­ज्ञा­त­त्व­मुक्तं समुच्चेतुं चशब्दः ।

किं च हेयोपादेयविषयौ विधिनिषेधौ नात्मनि विपरीते स्यातामित्याह —
नेति ।

तस्यापि संसा­रि­णोऽ­ना­शि­तया हेय­त्व­मा­श­ङ्क्यो­क्तम् —
सर्वं हीति ।
निर­व­धि­क­ना­शा­सि­द्धे­रि­त्यर्थः ।

संसारस्यैव नाशो न पुरुषस्येति वक्तुं विका­र­जा­त­मि­त्यु­क्तम् । घटादेर्मृदादौ नाशात्कथं पुरुषावधिः सर्वस्य नाशस्तत्राह —
पुरुष इति ।
कल्पि­त­स्या­न­धि­ष्ठा­न­त्वा­त्पु­रुषो नित्य­स­त्स्व­भा­व­स्त­द­धि­ष्ठा­न­त्वेन विश्वो­द­य­व्य­हे­तु­रि­त्यर्थः ।

पुरुषस्य परि­णा­मि­नि­त्य­त्वात् , परि­णा­मो­द­य­व्य­याभ्यां हानादाने स्याता­मि­त्या­श­ङ्क्याह —
विक्रियेति ।
साव­य­व­त्वा­दि­स्त­द्धेतुः ।

अशु­द्ध­त्वा­दि­त्या­गेन शुद्ध­त्वा­दे­रा­दे­यत्वं शङ्कित्वाह —
अत इति ।
आत्मनि स्वतो धर्म­त­श्चा­न­न्य­था­त्व­म­तः­श­ब्दार्थः ।

पुरुषावधिर्नाशः सर्वस्येत्यत्र श्रुतिमाह —
तस्मादिति ।
कल्पि­त­स्या­क­ल्पि­त­म­धि­ष्ठा­न­मि­त्यु­क्त­यु­क्ति­प­रा­मर्शी तच्छब्दः । यथे­न्द्रि­या­दिभ्यो नैवं पुरुषादस्ति किञ्चित्परं सा पुरुषाख्या काष्ठा सूक्ष्म­त्व­म­ह­त्त्वा­दे­र­वधिः सैव परा गतिः परमपुरुषार्थ इत्यर्थः ।

निर­ति­श­य­स्व­त­न्त्र­तया विध्यशेषत्वे श्रुतिरुक्ता । माना­न्त­रा­ग­म्य­तया वेदा­न्तै­क­वे­द्यत्वे श्रुतिमाह —
तं त्विति ।
यस्त्व­दु­क्त­स­वि­शे­ष­ब्र­ह्मणः ‘पृथिव्येव यस्यायतनम् ‘ इत्यु­प­क्र­म्यो­क्त­म­धि­ष्ठानं तमौपनिषद्भिरेव ज्ञेयं पुरुषं त्वा त्वां पृच्छामि । हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः ।

विशेषणाभिप्रायं विवृणोति —
औपनिषदत्वेति ।

औप­नि­ष­द­त्वेऽ­न­न्य­शे­षत्वे चात्मनः सिद्धे परस्य प्रतिज्ञा निर्मूलेत्याह —
अत इति ।

तथा हीत्यादौ वेदा­न्ता­ना­म­र्थ­व­त्त्व­म­भि­यु­क्तो­क्ति­वि­रु­द्ध­मि­त्यु­क्त­म­नु­व­दति —
यदपीति ।

तस्या­न्य­वि­ष­यत्वं वद­न्प्र­कृ­ता­वि­रो­धि­त्व­माह —
तद्धर्मेति ।
'दृष्टो हि तस्यार्थः फलवदर्थबोधनम् ‘ इति वक्तव्ये धर्म­जि­ज्ञा­सा­प्र­क्र­मा­द्ध­र्म­क­र्म­णो­श्चै­क्या­द्य­दुक्तं कर्माबोधनं तद्वि­धि­नि­षे­ध­वि­व­क्ष­यो­क्तम् । यत्तु चोदनासूत्रे चोद­ना­प­द­व्या­ख्यानं तदप्रतिकूलं, पदा­र्थ­मा­त्र­क­थ­नात् । परी­ष्टि­सू­त्र­प्र­मु­ख­मपि सूत्रजातं पूर्व­सू­त्राभ्यां तत्तद्भाष्यैश्च सह प्रक­म­व­शा­त्क­र्म­का­ण्डा­र्थ­मे­वातो ब्रह्मबोधनमिति वेदैकदेशस्य फल­मि­त्यु­प­नि­ष­द­र्थ­व­त्ते­त्यर्थः ।

अर्थ­वा­दा­धि­क­र­ण­वि­रोधं विधान्तरेण निरस्यति —
अपि चेति ।

तत्र खल्व­क्रि­या­र्थत्वे सत्यानर्थक्यं भूतो­प­दे­श­वि­शे­षस्य वा । तन्मात्रस्य वा । तत्राद्यमुपेत्य द्वितीयं प्रत्याह —
आम्नायस्येति ।
'वष­ट्कर्तुः प्रथमभक्षः’ देवदत्तो भुक्त्वा निर्गत इत्या­दि­भू­तो­प­दे­शस्य सम्ब­न्ध­यो­ग्य­ता­वा­चि­वि­भ­क्ति­यु­क्तस्य द्रव्यादिवाचिनः साक्षा­त्का­र्या­र्थ­त्वा­भा­वा­त्फ­ल­व­द­र्थ­रा­हि­त्यम् । अतोऽ­वि­शे­षा­त्का­र्यो­प­दे­श­स्यापि तत्प्र­स­क्ति­रि­त्यर्थः ।

उक्त­भू­तो­प­दे­शेऽपि कर्त­व्या­दि­प­दा­ध्या­हा­रा­त्का­र्य­शे­ष­द्र­व्या­द्य­र्थ­तया फल­व­द­र्थ­सि­द्धि­रिति शङ्कते —
प्रवृत्तीति ।
तत्सा­ध्या­ति­रे­केण भूतमपि द्रव्यादिवस्तु वष­ट्क­र्तु­रि­त्या­दि­वा­क्य­म­ध्या­हृ­त­का­र्य­शे­ष­त्वे­ना­भि­द­धाति, भूतभव्यन्यायात् । अतो भूतो­प­दे­श­स्या­र्थ­व­त्त्वा­न्ना­ति­प्र­स­क्ति­रि­त्यर्थः ।

कार्या­न्वि­त­स्वा­र्था­भि­धा­नेऽपि योग्या­न्वि­ता­भि­धा­ना­त्ते­नैव कार्या­स्पृ­ष्ट­व­स्तू­प­दे­शोऽपि स्यादित्याह —
कूटस्थेति ।

ननु न तादृगस्ति वस्तु, सर्व­स्यो­प­दि­श्य­मा­न­भू­तस्य कार्यस्पर्शितया कार्यत्वात् , तत्राह —
नहीति ।
क्रिया कार्यम् । भूतस्य तत्सं­स­र्ग­स्ता­दात्म्यं फलफलिभावो वा । नाद्यः, क्रीयाद्वारा हेतु­हे­तु­म­द्भा­वा­भ्यु­प­ग­मात् । द्वितीयेऽपि न तयोरैक्यं फलफलित्वस्य भेद­क­त्वा­दि­त्यर्थः ।

भूत­स्या­का­र्य­त्वेऽपि तद्धे­तु­त्वा­त्त­च्छे­ष­त्वा­त्त­दु­प­दे­शोऽपि तच्छेष एव, गामा­न­ये­त्या­दा­वा­द्य­व्यु­त्पत्तेः कार्या­न्वि­त­वि­ष­य­त्वात् , अतो न कूट­स्थो­प­दे­शोऽ­स्तीति चोदयति —
अक्रि­या­त्वेऽ­पीति ।

कार्य­स्या­का­र्या­न्त­रा­त्का­र्य­प­दस्य तद­न्वि­ता­र्था­वा­चि­त्वा­द्यो­ग्ये­त­रा­न्व­य­स्यैव सर्व­प­द­श­क्ति­वि­ष­य­त्वा­त्पु­त्र­ज­न्मा­दि­वाक्ये वाद्य­व्यु­त्प­त्ते­र­का­र्या­र्थेऽपि दृष्टे­र्भू­तो­क्ते­र­का­र्या­र्थ­त्वा­त्कू­ट­स्थोक्तिः स्यादित्याह —
नैष इति ।
उक्तरीत्या भूतोक्तेर्न कार्यार्थत्वम् । अस्तु वा तत्सा­पे­क्ष­त्वा­द्द्र­व्या­दे­स्त­दु­क्ते­स्ता­दर्थ्यं तथापि यत्का­र्य­नि­व­र्त­न­श­क्ति­म­द्भूतं तदुक्तमेव । न च तत्कार्यं, तद्धेतुत्वात् । तस्य कार्यान्वयेऽपि न तदन्वयित्वं वाच्य­त्व­नि­मित्तं, कार्यस्य तदभावेऽपि वाच्यत्वात् । अतो योग्या­न्वि­त­द्र­व्या­दे­स्त­च्छ­ब्द­वा­च्य­त्व­व­त्का­र्या­न­न्वि­त­स्यापि वस्तुनो वेदा­न्ता­र्थ­ते­त्यर्थः ।

तथापि कार्य­शे­ष­त्वे­नै­वा­न्यत्र भूतोक्तेर्न स्वत­न्त्र­भू­तो­क्ति­रि­त्या­श­ङ्क्याह —
क्रिया­र्थ­त्व­मिति ।
भूतोपदेशस्य कार्यशेषत्वं फल­व­त्त्वा­ये­ष्टम् । न च कार्यस्य वाच्य­को­टि­नि­वे­शोऽ­स्ती­त्यर्थः ।

कार्यार्थत्वेन भूतोक्तौ कार्यशेषेऽपि कथं सिद्धे शब्दप्रामाण्यं, तत्राह —
न चेति ।
भूतोपदेशस्य कार्य­शे­ष­त्व­मा­त्रेण तदशेषभूतं भूतं नैवानुपदिष्टं, तदु­प­दे­श­स्या­ज्ञा­ता­र्थ­ग­न्तृ­त्वे­ना­ध्य­क्षा­दि­व­न्मा­न­त्वा­दि­त्यर्थः ।

अज्ञा­ता­र्थो­प­दे­शि­त्वेऽपि वेदा­न्ता­ना­म­का­र्य­शे­ष­त्वेन वैफल्यान्न प्रामाण्यं, वाक्य­प्रा­मा­ण्यस्य फलाधीनत्वादिति शङ्कते —
यदीति ।
भूतं यद्यु­प­दि­ष्ट­मु­प­दि­श्यतां नाम तथापि किं तेनोपदिष्टेन तव श्रोतु­र्व­क्तुर्वा स्यादिति योजना ।

कार्यो­प­दे­श­व­द­ज्ञा­ता­त्मो­प­दे­शा­त्मकं वेदा­न्त­वा­क्य­म­न­न्य­शे­ष­त्वेऽपि फलवत्त्वेन मानमित्याह —
उच्यत इति ।

कार्य­शे­षो­प­दे­शस्य कार्यफलेन फल­व­त्त्वा­त्प्रा­मा­ण्येऽपि कथमात्मोपदेशस्य फलवत्त्वेन तथा­त्व­मि­त्या­श­ङ्क्याह —
तदवगत्येति ।

मिथ्या च तदज्ञानं चेति विग्रहः तस्य भ्रान्तित्वं व्यवच्छिनत्ति —
संसारेति ।

वेदा­न्त­प्रा­माण्यं फलवत्त्वेन सदृ­ष्टा­न्त­मुक्तं निगमयति —
इत्यविशिष्टमिति ।

विधि­वा­क्य­स्थ­द्र­व्या­दि­श­ब्दानां शुद्ध­सि­द्धा­र्थ­ता­मि­त्थ­मा­पाद्य तथैव ब्रह्म शाब्द­मि­त्यु­क्तम् । इदानीं निषे­ध­वा­क्य­व­द्वे­दा­न्तानां सिद्धा­र्थ­ते­त्याह —
अपि चेति ।

कृते­र्भा­वा­र्थ­वि­ष­य­त्वा­न्नि­षे­धेषु भावा­र्था­भा­वा­त्कृ­ति­नि­वृत्तौ तदविनाभूतं कार्यमपि निवर्तत इति मत्वाह —
ब्रह्मण इति

निवृत्तिरेव कार्यं तद्धेतुर्वेति कुतो निषे­धा­ना­म­का­र्या­र्थ­ते­त्या­श­ङ्क्याह —
न चेति ।
प्राप्त­क्रि­या­नि­वृ­त्ति­त्वा­त्तस्या नोभयार्थत्वम् । विमतं, न कार्यं, तद्धेतुर्वा, निवृत्तित्वात् , घट­नि­वृ­त्ति­व­दि­त्यर्थः ।

निवृ­त्ते­रु­भ­य­भा­वा­भा­वेऽपि किमायातं तदुपदेशानां, तदाह —
अक्रियेति ।
अका­र्या­र्था­न­मिति यावत् ।

ननु ‘न हन्तव्यः’ इत्यत्र हननं न कुर्यादिति न वाक्यार्थः किं त्वहननं कुर्यादिति । ततो हननविरोधिनी सङ्कल्पक्रिया हननं न कुर्या­मि­त्ये­वं­रूपा कार्यतया विधीयते, तेन निषेधवाक्यमपि नियोगनिष्ठमेव, नेत्याह —
न चेति ।
स्वभावतः शास्त्रादृते रागादेव प्राप्तो यो हन्ते­र्धा­तो­रर्थो हननं तेन नञोऽनुरागः सम्बन्धो यदा तदा भवत्यहननमिति । तत्का­र्य­मि­त्युक्ते हननविरोधिनी सङ्कल्पक्रिया, हन­न­प्र­वृ­त्ते­र्वि­धा­रको यत्नो वा कार्यत्वेन विधीयते विना विधि­म­प्रा­प्त­त्वात् । तथा च तथा­वि­ध­क्रि­या­वि­धि­निष्ठं निषेधवाक्यमिति कल्पयितुं नैव शक्यमित्यर्थः ।

क्क तर्हीदं वाक्यं त्वन्मते पर्यवसितं, तदाह —
हननेति ।

औदासीन्यं स्वास्थ्या­द­प्र­च्युतिः स्वतोऽपि स्यादिति प्रस­क्त­क्रि­या­नि­वृ­त्त्यो­प­लक्ष्यं विशिनष्टि —
हननेत्यादिना ।
तस्मि­न्प­र्य­व­सि­त­म­स्म­न्मते निषेधवाक्यम् । तद्व्य­ति­रे­के­णा­र्था­न्तरं तस्याशक्यं वक्तुमित्यर्थः ।

तत्र हेतुमाह —
नञश्चेति ।
चकारोऽवधारणे । एष एव च नञः स्वभावो यत्प्र­ति­यो­गि­नोऽ­भा­व­बो­ध­नम् । न च तद­न्य­त­द्वि­रो­धि­नो­रपि तदर्थत्वं, अभावार्थस्यैव तस्य स्वार्थ­स­म्ब­न्धि­न्य­र्था­न्तरे लाक्षणिकत्वे तत्रापि शक्तिकल्पनायां गौरवात् । ‘नाम­धा­त्व­र्थ­योगी तु नैव नञ् प्रतिषेधकः । वद­त्य­ब्रा­ह्म­णा­ध­र्मा­व­न्य­मा­त्र­वि­रो­धिनौ ‘ इत्यपि लक्ष­ण­यै­वा­र्था­न्तरे नञः प्रवृ­त्ति­रु­क्तेति भावः ।

तर्हि नञर्थे हननाभावे नियो­गा­त्त­न्निष्ठं वाक्य­मि­त्या­श­ङ्क्याह —
अभावेति ।
भावार्थो दध्यादिर्वा नियोगविषयतया तन्नि­ष्प­त्ति­हे­तु­र्ना­भावः, तस्या­ना­दि­त्वा­त्त­द्वि­ष­यत्वे नियो­ग­स्या­न­नु­ष्ठे­य­त्वा­पा­तात् । न चैत­त्प्रा­ग­भा­व­पा­लनं कार्यं, स्वास्थ्या­द­प्र­च्यु­ति­रू­पौ­दा­सी­न्या­देव तत्सिद्धेः । नञोऽर्थो दृष्टः सन्नौदासीन्यं पुंसः स्थाप­य­त्य­तोऽ­नु­ष्ठे­या­भा­वान्न नियोगनिष्ठं वाक्यमित्यर्थः ।

यद्वा न निषेधवाक्ये प्रकृत्यर्थेन नञः सम्बन्धोऽपि तु प्रत्ययार्थेन, तस्य प्राधा­न्या­त्प्र­कृ­त्य­र्थ­स्या­न्यो­प­स­र्ज­न­त्वात् । अतो हननस्य यदिष्टोपायत्वं प्रवर्तकं तदेव प्रत्ययेनानूद्य नञा निषिध्यते, ब्रह्म­ह­न­न­मि­ष्टो­पायो नेति । तथा चौदासीन्ये पुरुषः स्थास्यति, तदाह —
अभावेति ।

प्रत्ययार्थेन नञः सम्बन्धे कथं प्रकृत्यर्थस्य हननक्रियाया निवृत्तिः, तत्राह —
सा चेति ।
प्रत्य­या­र्थे­ष्टो­पा­य­ता­नि­षेधे प्रकृत्यर्थः स्वयमेव निवर्तते आपाततो हितो­पा­य­त्व­बुद्ध्या प्रवृत्तस्व ततोऽ­धि­क­त­रा­न­र्थ­हे­तु­त्व­बुद्धौ प्रवृ­त्त्य­यो­गा­दि­त्यर्थः ।

निषे­ध­वा­क्या­ना­मि­त्थ­म­र्थ­मुक्त्वा सिद्धा­र्थ­त्व­मु­प­सं­ह­रति —
तस्मादिति ।
भावार्थाभावे कृत्य­भा­वा­त्त­द­वि­ना­भू­त­का­र्या­भा­व­स्त­च्छ­ब्दार्थः । प्रकृत्यर्थस्य हन­ना­दे­रि­ष्टो­पा­यत्वं भ्रान्ति­प्राप्तं प्रत्ययेनानूद्य नञा तन्निषेधे तस्या­न­र्थ­हे­तु­त्व­बो­धि­नि­षे­ध­वाक्यं तन्नि­वृ­त्त्यु­प­ल­क्षि­तौ­दा­सीन्ये पर्य­व­स्य­ती­त्यर्थः ।

ननु ‘नेेक्षे­तो­द्य­न्त­मा­दि­त्यम् ‘ इत्या­दा­वी­क्ष­ण­वि­रुद्धा सङ्कल्पक्रिया नेक्ष इत्येवंलक्षणा विधीयते, तथात्रापि हननविरूद्धा न हन्यामिति सङ्कल्पक्रिया विधीयतां, तत्कथं निषे­ध­वा­क्य­स्यो­क्ता­र्थत्वं, तत्राह —
अन्यत्रेति ।
तत्र हि ‘तस्य ब्रह्मचारिणो व्रतम् ‘ इत्य­नु­ष्ठे­य­वा­चि­व्र­त­श­ब्दो­प­क्र­मा­दे­क­स्मि­न्वाक्ये प्रक्र­मा­धी­न­त्वा­दु­प­सं­हा­र­स्या­ख्या­ता­न्वि­तेन नञा दृष्टोऽपि निषे­धोऽ­न­नु­ष्ठे­य­त्वा­दु­पे­क्ष्यते । धात्वर्थयोगेन च पर्युदासो लक्ष्यते । तथा चेक्षणविरुद्धा क्रिया सामान्येन प्राप्ता, तद्वि­शे­ष­बु­भु­त्सायां सर्व­क्रि­या­प्र­त्या­सन्नः सङ्कल्प इत्यवगतम् । ईक्ष इति तु सङ्कल्पो नाद्रियते, तत्प­र्यु­दा­स­वि­रो­धात् । अतोऽ­नी­क्ष­ण­स­ङ्क­ल्प­ल­क्ष­णया तद्विधिपरत्वं युक्तम् । नैवं निषे­धे­ष्व­प­वा­द­क­म­स्तीति विरो­धि­क्रि­या­ल­क्ष­णया नानु­ष्ठा­न­नि­ष्ठ­ते­त्यर्थः । आदिपदं सम­स्त­प­र्यु­दा­स­वि­ष­य­स­ङ्ग्र­हा­र्थम् । हन­ना­दा­वु­द्यु­क्त­प­र­श्वा­दि­प­रा­व­र्त­नस्य तन्नि­वृ­त्ति­त्वा­त्त­द्भावे हन­ना­दि­प्रा­ग­भा­व­पा­ल­न­स­म्भ­वा­दु­क्त­नि­वृ­त्तेश्च नञ­र्थ­धी­फ­ल­त्वा­त्त­दर्थो हन­ना­दि­ग­ते­ष्टो­पा­य­त्वा­भाव एवेति द्रष्टव्यम् ।

ननु निषे­ध­वा­क्य­व­द­का­र्या­र्थ­त्वेऽपि वेदा­न्ता­ना­म­र्थ­वत्त्वं चेद­र्थ­वा­दा­धि­क­रणं कथमित्याशङ्क्य क्रिया­सं­नि­हि­ता­र्थ­वा­दा­दि­वि­षयं तदित्याह —
तस्मादिति ।
उप­नि­ष­दा­मु­क्त­री­त्या­र्थ­वत्त्वं तच्छब्दार्थः । उपाख्यानशब्दः समान्यार्थः । आदि­श­ब्द­स्त­द्वि­शे­षार्थः ।

आम्नायस्य क्रिया­र्थ­त्वा­दि­ति­हे­तो­स्त­द्ब­ले­ना­क्रिा­य­र्था­ना­म­प्रा­मा­ण्य­पू­र्व­प­क्षस्य विध्ये­क­वा­क्य­त्वेन प्रामा­ण्य­सि­द्धा­न्तस्य चोप­ल­क्ष­णा­र्थ­मा­न­र्थ­क्या­भि­धा­न­मि­त्यु­क्तम् । सर्वे­षा­मे­षा­मु­क्त­वि­ष­य­त्वा­वि­शे­षा­दु­प­नि­ष­दा­मपि पुरु­षा­र्था­न­व­सा­यि­त्वा­द­र्थ­वा­दा­धि­क­र­ण­वि­ष­य­ते­त्या­शङ्क्य पूर्व­प­क्षो­क्त­म­नु­व­नदि —
यदपीति ।

तत्रोक्तं परिहारं स्मारयति —
तदिति ।

उक्तं वैषम्यं शङ्कते —
नन्विति ।

ज्ञान­मा­त्रा­दूर्ध्वं वा संसारित्वं, तत्त्व­सा­क्षा­त्का­राद्वा । तत्रा­द्य­म­ङ्गी­कु­र्व­न्नाह —
अत्रेति ।

द्वितीयं निरस्यति —
नेत्यादिना ।

तत्प्रपञ्चयति —
नहीति ।
शाब्द­ज्ञा­ना­भ्या­स­सं­स्कृतं चेतो ब्रह्मा­त्म­सा­क्षा­त्का­र­हे­तु­रिति पक्षं प्रतिक्षेप्तुं वेदेत्यादिपदम् ।

तत्त्व­सा­क्षा­त्का­र­वतो दुःखानुदये दृष्टान्तमाह —
नहीति ।

तस्यैव सांसा­रि­क­सु­खा­नु­त्पादे दृष्टान्तमाह —
नचेति ।

तत्त्वविदो देहा­द्य­भि­मा­न­ही­नस्य सांसा­रि­क­स­र्व­ध­र्मा­स्पर्शे मानमाह —
तदुक्तमिति ।

जीवतोऽशरीरत्वं मम माता वन्ध्ये­ति­व­द्वि­रु­द्ध­मिति शङ्कते —
शरीर इति ।

आत्मनो देह­स­ङ्ग­ते­रा­वि­द्य­क­त्वा­त्त­त्त्व­ज्ञा­नेन तद्ध्व­स्ते­र्जी­व­तोऽपि युक्त­म­श­री­र­त्व­मि­त्याह —
नेत्यादिना ।

तस्या­वि­द्य­क­त्व­म­न्व­य­व्य­ति­रे­काभ्यां साधयति —
न हीति ।

अशरीरत्वस्य स्वतस्त्वादपि जीव­त­स्त­द­वि­रु­द्ध­मि­त्याह —
नित्यमिति ।

आत्मनः सश­री­र­त्व­म­ज्ञा­ना­दि­त्यु­क्त­म­मृ­ष्य­न्ना­श­ङ्कते —
तत्कृतेति ।
न ह्यात्मन इत्यत्र प्रकृतात्मा तच्छब्दार्थः ।

आत्मनो देह­स­म्ब­न्धा­द्ध­र्मा­दि­क­र्तृत्वं, स्वतो वा । आद्ये तस्य तद्योगः स्वतोऽन्यतो वा । नाद्यः, तत्कृ­त­ध­र्मा­दि­नि­मित्तं सश­री­र­त्व­मि­त्यु­क्ति­वि­रो­धात् । न द्वितीयः, तस्या­वि­द्या­म­नि­च्छतो वस्तु­त्वो­प­ग­मा­द्ध­र्मा­दि­क­र्तृ­क­त्वा­दृते तस्या­त­न्नि­मि­त्त­त्वा­द्देहे धर्मा­दि­का­र्य­दृ­ष्टे­स्त­द­सिद्धौ तद्द्वारा धर्मा­दे­रा­त्म­कृ­त­त्वा­सि­द्धे­रि­त्याह —
नेत्यादिना ।

स्यादा­त्म­कृ­त­ध­र्मा­द्य­पे­क्षया तस्य देहयोगे तद्द्वारा तयो­रा­त्म­कृ­त­त्व­मि­त्याह —
शरीरेति ।

ननु प्राक्त­न­क­र्म­नि­मित्तं सम्प्रतितनं शरीरं, तच्च कर्म प्राक्त­न­दे­ह­यो­गा­धीनं, सोऽपि प्राचीनकर्मणेति नेत­रे­त­रा­श्र­य­त्वम् । न चानवस्था, बीजा­ङ्कु­र­व­त्क­र्म­दे­ह­यो­ग­यो­र­ना­दि­त्वात् , तत्राह —
अन्धेति ।
आत्मनि कर्मयोगस्य देहयोगस्य वाऽवि­द्य­मा­न­त्वा­दि­त्यर्थः ।

आत्मनः स्वतो धर्मा­दि­क­र्तृ­ते­ति­पक्षं प्रत्याह —
क्रियेति ।
कूट­स्था­न­न्त­चि­द्धा­तो­र­क्रि­य­त्वा­त्तस्य स्वतो धर्मा­द्य­क­र्तृ­त्वान्न तत्कृ­त­क­र्म­कृ­त­मा­त्मनः सश­री­र­त्व­मि­त्यर्थः ।

स्वग­त­क्रि­या­भा­वेऽपि कारकेषु संनि­धि­मा­त्रे­णास्य कर्तृतेति दृष्टान्तेन शङ्कते —
संनिधीति ।

वैषम्योक्त्या प्रत्याह —
नेति ।
उपार्जनं स्वीकरणम् ।

अस्तु प्रस्तुतेऽपि किञ्चि­द्ध­न­दा­ना­दि­तुल्यं सम्ब­न्ध­नि­मि­त्त­मि­त्या­श­ङ्क्या­स­ङ्ग­त्वा­दा­त्मनो वस्तु­त­स्त­स्या­यो­गा­द­व­स्तुत्वे त्वन्मतहानिरिति मत्वाह —
नत्विति ।

स्वकृ­त­ध­र्मा­दि­कृ­ता­त्मनः सदे­ह­ते­त्ये­त­द­प्रा­मा­णि­क­मि­त्युक्त्वा स्वपक्षे मानमाह —
मिथ्येति ।

ननु ममे­ति­धी­स­क्त­म­धि­का­रिणं कर्तारं चोद्दिश्य यागा­दि­वि­धे­श्चे­त­न­स्यैव कर्तृत्वम् । यथाहुः - ‘यज­मा­न­त्व­म­प्यात्मा सक्रि­य­त्वा­त्प्र­प­द्यते । न परिस्पन्द एकैका क्रिया नः कणभोजिवत् ॥ ‘ इति, तत्राह —
एतेनेति ।
क्रिया­धा­र­त्व­नि­रा­से­ने­त्यर्थः ।

देहा­दा­वा­त्म­धी­र्मि­थ्ये­त्यत्र मीमांसकश्चोदयति —
अत्रेति ।
आत्मनः स्वकीये देहादावात्मधी राज्ञो भृत्यादाविव गौणी ततः स्वीय­दे­हा­दि­नि­मित्तं तस्य कर्तृत्वादि वास्तवमित्यर्थः ।

नात्मनो देहा­दा­वा­त्म­धी­र्गौणी, तद्व्या­प­का­भा­वा­दि­त्याह —
नेति ।
प्रसिद्धो वस्तुभेदो यस्य पुंसस्तस्येति यावत् ।

उक्तमेव व्यनक्ति —
यस्येति ।
तस्या­न्य­त्रा­न्य­श­ब्द­प्र­त्ययौ गौणाविति सम्बन्धः ।

तत्रोदाहरणम् —
यथेति ।
तत्रैव सिंह­श­ब्द­स्त­द्धीश्च, नान्य­त्रे­त्य­न्व­य­व्य­ति­रेकौ । अन्यः पुरुषादिति शेषः । ततश्च । सिंहादित्येतत् । यः सिंह­पु­रु­ष­यो­रु­क्त­रीत्या भेदं वेत्ति तस्येति षष्ठी नेया । यथा सिंहः पुमा­नि­त्यु­दा­ह­रणं तथाग्निर्माणवक इत्यादि ग्राह्यमिति यथाशब्दो योज्यः ।

शब्द­धि­यो­र­गौ­ण­त्व­वि­ष­य­माह —
नेति ।

न प्रसिद्धो भेदो यस्य तस्य पुंसोऽ­न्य­त्रा­न्य­श­ब्द­प्र­त्ययौ न गौणौ चेत्कथं तर्हि तस्या­न्य­त्रा­न्य­श­ब्द­प्र­त्य­या­वि­त्या­श­ङ्क्याह —
तस्य त्विति ।

तत्र संशये समारोपितांशगतौ शब्द­प्र­त्य­या­वु­दा­ह­रति —
यथेति ।

पुरोवर्तिनः स्थाणुत्वेऽपि स्थाणु­र­य­मि­त्य­गृ­ह्य­मा­ण­वि­शे­षत्वे हेतुमाह —
मन्देति ।
तत्र पुरु­ष­श­ब्द­प्र­त्ययौ पाक्षिकाविति शेषः । वस्तुतः स्थाणुविषयत्वं, न प्रतीतितः । प्रती­ति­त­स्त्वा­रो­पि­त­वि­ष­य­त्वम् ।

संशये समारोपितगतौ पाक्षिकौ शब्द­प्र­त्य­या­वु­दा­हृत्य विपर्यये तथाविधौ निश्चि­ता­वु­दा­ह­रति —
यथा वेति ।
शुक्तिकायामिति वस्तु­प्र­वृ­त्त्यो­क्तम् ।

संशये विपर्यये च दृष्ट­हे­तु­सा­धा­र­ण­ध­र्म­द­र्श­नादेः सम­त्वा­द्वि­प­र्य­य­स्यै­वो­त्पत्तौ को हेतु­रि­त्या­श­ङ्क्याह —
अकस्मादिति ।
दृष्ट­हे­त्व­वि­शे­षेऽ­प्य­दृ­ष्ट­व­शा­दि­त्यर्थः ।

दृष्टा­न्त­मि­थु­नस्य दार्ष्टा­न्ति­क­माह —
तद्वदिति ।

अविवेकिनां देहा­दा­व­ह­न्धी­श­ब्द­यो­र्मि­थ्या­त्वेऽपि विवेकिनां तत्र तौ गौणा­वि­त्या­श­ङ्क्याह —
आत्मेति ।

अवि­वि­क्ता­व­वि­वे­को­त्थ­भ्रा­न्ति­कृ­ता­विति यावत् । आत्मीयेऽपि देहा­दा­वा­त्म­बु­द्धा­वा­त्मी­यत्वं तिरोहितं सर्पबुद्धाविव रज्जुत्वमिति मत्वा पर­म­त­नि­रा­स­मु­प­सं­ह­रति —
तस्मादिति ।

तत्राहन्धियो मिथ्यात्वेऽपि किं सिध्यति, तदाह —
तस्मान्मिथ्येति ।

न केवलं विदुषो जीव­तोऽ­प्य­श­री­रत्वं यौक्तिकं किन्तु श्रौतं चेत्याह —
तथा चेति ।

‘अत्र ब्रह्म समश्नुते’ इति पूर्ववाक्ये जीव­न्मु­क्ति­रुक्ता स जीवन्मुक्तो देहस्थोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तमाह —
तद्यथेति ।
तत्तत्र जीवन्मुक्तदेहे जीवन्मुक्ते च दृष्टान्तः । यथा लोकेऽ­हि­नि­र्ल्व­यनी सर्प­नि­र्मो­क­स्त­दीया देह­त्व­ग्व­ल्मी­कादौ प्रत्यस्ता प्रक्षिप्ता मृता पूर्व­मि­वा­हि­ना­त्म­त्वे­ना­निष्टा वर्तेत तथैवेदं विदुषः शरीरं मुक्तेन प्रागि­वा­त्म­त्वे­ना­निष्टं तिष्ठतीत्यर्थः ।

सर्प­दृ­ष्टा­न्तस्य दार्ष्टा­न्ति­क­माह —
अथेति ।
तथार्थोऽथशब्दः । यथा प्रत्यस्तया त्वचा मुक्तोऽपि तामहमिति नाहिरभिमन्यते, तथायं जीवन्मुक्तो देहस्थोऽपि न तत्रा­ह­न्धि­य­मा­द­धाति । अत एवामृतः । देहाभिमानवतो हि मृतिः । निरुपाधिः सन्प्राणिति जीवतीति प्राणः साक्षीः । स च ब्रह्मैव । तच्च तेजो विज्ञानं ज्योति­रे­वे­त्यर्थः ।

तत्रैव श्रुत्यन्तरमाह —
सचक्षुरिति ।
वस्तु­तोऽ­च­क्षु­रपि बाधि­ता­नु­वृत्त्या सच­क्षु­रि­वे­त्यादि योज्यम् ।

श्रौतेऽर्ये स्मृतिमपि संवादयति —
स्मृतिरपीति ।

विदुषो जीवन्मुक्तौ प्रमितायां फलितमाह —
तस्मान्नेति ।
प्रमितं जीव­न्मु­क्ति­सत्वं तच्छब्दार्थः ।

प्रती­ति­मा­त्र­श­रीरं संसा­रि­त्व­म­नु­जा­नाति —
यथेति ।

ननु ब्रह्म­वि­दा­मे­वा­स्माकं संसा­रि­त्व­म­बा­धि­त­म­नु­भू­यते, नेत्याह —
यस्येति ।

साक्षा­त्कृ­त­स­त्त­त्त्वस्य पूर्वमिव संसा­रि­त्वा­यो­गा­द्युक्ता वस्तुमात्रोक्ते रज्जु­स्व­रू­पो­क्ति­व­द­र्थ­व­त्ते­त्यु­प­सं­ह­रति —
अनवद्यमिति ।

वेदान्तेषु नास्ति वस्तु­मा­त्रोक्तिः, मन­ना­दि­वि­धि­शे­ष­त्वेन ब्रह्मो­क्ते­रि­त्या­श­ङ्क्यो­क्त­म­नु­व­दति —
यत्पुनरिति ।

श्रुतमात्रस्य मननादियोगो नावगतस्येत्याह —
नेत्यादिना ।
वेदा­न्ता­ना­मे­क­रसे ब्रह्मणि शक्ति­ता­त्प­र्य­नि­श्चयः श्रवणम् । तस्मिन्नेव श्रुत्य­नु­सा­रिण्या युक्त्या सम्भावनाधानं मननम् । श्रुते मते च बुद्धेः स्थैर्यं निदिध्यासनम् । तेषा­मै­क्या­प­रो­क्ष­प्र­ती­ति­व्य­ञ्ज­कत्वे तच्छे­ष­त्वा­न्ना­व­ग­त­म­न्यत्र विनि­यु­क्त­मि­त्यर्थः ।

अव­ग­त­स्या­न्य­त्रा­वि­नि­यो­गेऽपि ब्रह्मणो विधिशेषत्वं किं न स्यात् , तत्राह —
यदीति ।

ब्रह्मणि मितेऽमिते वा तद्धियो विध्य­सि­द्धे­रा­पा­त­दृष्टेः साक्षा­त्का­रार्थं श्रवणादिषु विहितेषु तेभ्य­स्त­द्भा­वान्न तस्य विधि­शे­ष­ते­त्यु­प­सं­ह­रति —
तस्मान्नेति ।
न च वस्तुप्रकरणे श्रव­णा­दि­वि­ध्य­योगः, वाक्यभेदोपगमात् । न च ‘तद्विषये लिङादयः’ इत्या­दि­भा­ष्य­वि­रोधः, तस्य ज्ञान­वि­धि­नि­रा­सा­र्थ­त्वात् । अत एवात्र प्रतिपत्तिशब्दः । न चैवं वेदान्तानां श्रव­णा­दि­वि­धि­प­रत्वं, वाक्य­भे­द­स्यो­क्त­त्वात् । न चान्व­या­दि­सि­द्ध­हे­तु­भा­वेषु तेषु न विधिः, अवघातेऽपि तदभावापातात् । निय­मा­दृ­ष्ट­स्यो­भ­यत्र तुल्य­त्वा­त्स­र्वा­पे­क्षा­धि­क­र­णा­त्तस्य ज्ञानो­त्प­त्त्यु­प­यो­गा­दिति भावः ।

उक्तेऽर्थे सूत्रं संयोजयति —
अत इति ।
विधिशेषत्वेन शास्त्र­प्र­मा­ण­क­त्वा­सि­द्धि­रि­त्य­तः­श­ब्दार्थः ।

वेदान्तानां विध्य­न­पे­क्ष­सि­द्ध­बो­धित्वे शास्त्रा­र­म्भ­भेदं प्रमाणयति —
एवं चेति ।

विधिशेषत्वेन ब्रह्मार्पणेऽपि शास्त्रं पृथ­गा­र­भ्ये­ते­त्या­श­ङ्क्याह —
प्रतिपत्तीति ।

नन्वाद्ये काण्डे बाह्य­क्रि­या­वि­धि­र­धि­गतः, मान­स­ज्ञा­न­वि­धि­वि­चा­राय काण्डा­न्त­र­मा­र­भ्यते, नेत्याह —
आरभ्यमाणं चेति ।
देहा­दि­सा­ध्य­क­र्म­वि­चा­रा­न­न्त­र्य­म­थे­त्यु­क्तम् । तस्यैव चित्त­शु­द्धि­द्वारा ज्ञान­वि­धि­वि­चा­रो­प­यो­गि­ता­तः­श­ब्दार्थः ।

तत्र चातु­र्थि­क­मु­दा­ह­र­ण­माह —
अथात इति ।
तृतीये श्रुत्यादिभिः शेषशेषित्वे सिद्धे सत्यनन्तरं शेषिणैव शेषस्य प्रयु­क्ति­स­म्भ­वात्को नाम क्रतवे प्रकुरुते को वा पुरुषार्थायेति क्रत्व­र्थ­पु­रु­षा­र्थ­यो­र्जि­ज्ञासा ज्ञातुमिच्छा प्रवृत्तेति चतुर्थादौ प्रति­ज्ञा­सू­त्र­व­दि­द­मपि ब्रूयात् । न चैवं ब्रवीति । तस्मा­न्नो­क्त­वि­भा­ग­धी­रि­त्यर्थः ।

त्वन्मतेऽपि कथं पृथगारम्भः शास्त्र­स्ये­त्या­शङ्क्य मेय­फ­ल­भे­दा­दि­त्याह —
ब्रह्मेति ।

स्वातन्त्र्येण ब्रह्मा­त्मै­क्य­नि­ष्ठत्वे वेदान्तानां तदेव तात्त्विकमिति कथं द्वैतालम्बनस्य विधि­का­ण्ड­स्या­ध्य­क्षा­देश्च मान­ते­त्या­श­ङ्क्यो­प­सं­ह­र­न्प­रि­ह­रति —
तस्मादिति ।
अद्वैतधियो भेदा­धि­ष्ठा­न­मा­न­वि­रो­धित्वं तच्छब्दार्थः । इतिना ज्ञानं परामृष्टम् ।

तस्मादित्युक्तं हेतु व्यनक्ति —
नहीति ।
तत्त्व­सा­क्षा­त्कारे तदज्ञानध्वस्तौ तदु­त्थ­मा­त्रा­दि­स­र्व­भे­द­ध्व­स्ते­र­वि­द्या­व­स्था­या­मे­वा­शेषो व्यवहार इत्यर्थः । कार्यास्पृष्टे सिद्धे ब्रह्मण्यद्वये सिद्धा वेदा­न्त­मा­न­ते­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

न केव­ल­म­स्मा­भि­र­य­म­र्थोऽ­भ्यु­प­गतः किं त्वन्यैरपि ब्रह्म­वि­द्भि­रि­त्याह —
अपि चेति ।
सत्पा­र­मा­र्थि­क­म­बा­धितं ब्रह्मा­ह­मि­त्येवं बोधे जाते पुत्रदेहादेः सक्ता­बा­ध­ना­न्मा­या­मा­त्र­त्वा­व­ग­मा­द­य­म­ह­मे­वेति पुत्रा­दा­व­ह­म­भि­मा­नस्य गौणात्मनो मनुष्योऽहमिति देहा­दा­व­ह­म­भि­मा­नस्य च मिथ्या­त्म­नोऽ­सत्त्वे कार्यं कथं भवेत् । तन्नि­मि­त्ता­भा­वा­द्वि­धि­वि­धे­या­दि­व्य­व­हारो न कथञ्चिदित्यर्थः ।

यद्यात्मा सद्ब्रह्मैव कस्तर्हि प्रमाता । यद्ययमेव कथं तर्हि ब्रह्म­ता­स्ये­त्या­श­ङ्क्याह —
अन्वेष्टव्येति ।
‘य आत्मापहतपाप्मा’ इत्या­दि­श्रु­ति­सिद्ध आत्मा­न्वे­ष्टव्यः, ‘सोऽन्वे­ष्टव्यः’ इति श्रुतेः । तद्वि­ज्ञा­ना­त्पू­र्व­मा­त्मनो मातृत्वं, प्रमा­तै­वा­न्विष्टः सन्निर्दोषः परमात्मा स्यात् । अतोऽ­न्व­य­व्य­ति­रे­का­भ्या­मा­त्मनो मातृ­त्व­मा­वि­द्य­क­मि­त्यर्थः ।

तस्याविद्यकत्वे कथमध्यक्षादीनां श्रुतेश्च मानता, कार­ण­दो­षा­दि­त्या­श­ङ्क्याह —
देहेति ।
यथा देहा­ति­रि­क्ता­त्म­वादे कल्पितापि देहा­त्म­त्व­धी­र्व्य­व­हा­रा­ङ्ग­तया मानमिष्यते तथा तत्त्व­सा­क्षा­त्का­र­प­र्यन्तं व्यव­हा­रा­ङ्ग­त्वा­द्व्य­व­हारे बाधा­भा­वा­च्चा­ध्य­क्षा­द्य­त­त्त्वा­वे­द­क­मपि व्यावहारिकं मानम् । श्रुतेस्तु वर्ण­दै­र्घ्या­दि­व­दा­त्म­धी­हे­तो­स्ता­त्त्वि­क्येव मानतेत्यर्थः ॥ ४ ॥
इति चतुःसूत्री समाप्ता ।

शास्त्रार्थं चतुर्भिः सूत्रैः सङ्क्षिप्य वक्ष्य­मा­णा­धि­क­र­णा­ना­म­पु­न­रु­क्त­मर्थं वक्तुं वृत्तं सङ्कीर्तयति —
एवमिति ।

तेषां तत्फलत्वे हेतुः —
तात्पर्येणेति ।

कार्यान्विते ब्रह्मणि तात्पर्यं तेषा­मि­त्या­श­ङ्क्याह —
अन्तरेणेति ।

सम­न्व­य­सू­त्रा­र्थ­म­नू­द्या­ती­त­सू­त्र­त्र­या­र्थ­म­नु­व­दति —
ब्रह्म चेति ।
उक्ते लक्षणे तद­ति­व्या­प्ति­श­ङ्कायां निरासस्य साव­का­श­त्वा­द्ब्र­ह्मणो जिज्ञास्यस्य लक्षणमपि शास्त्री­य­स्यो­क्त­मि­त्यर्थः ।

तस्मिन्ब्रह्मणि सिद्धे समन्वये सम­न्व­या­ध्या­य­स­मा­प्ते­रु­त्त­र­स­न्द­र्भा­न­र्थ­क्य­मि­त्याह —
साङ्ख्या­द­य­स्त्विति ।
सिद्धेऽर्थे मान­त्व­वि­रो­धि­का­र्या­नु­प्र­वेशे प्रत्युक्तेऽपि ब्रह्मण्येव समन्वयो नान्य­त्रे­त्य­नि­र्धा­र­णा­द्ब्र­ह्म­का­र­ण­ता­वि­रो­धि­प्र­धा­ना­दि­वा­द­नि­रा­सा­यो­त्त­र­स­न्दर्भ इत्यर्थः ।

परिनिष्ठितस्य माना­न्त­र­ग­म्यत्वे तत्संवादादिना तत्र वेदा­न्ता­प्रा­मा­ण्यान्न ततो जग­द्धे­तु­र्ब्रह्म सिध्यतीति चेत्तर्हि केन मानेन तद्धे­तु­धी­रि­त्या­श­ङ्क्यो­क्तम् —
प्रधानादीनीति ।

का तर्हि वेदान्तानां गतिः, परा­र्था­नु­मा­न­ते­त्याह —
तत्परतयेति ।

हेत्वा­द्य­नु­क्ते­स्तेषां न परा­र्था­नु­मा­न­ते­त्या­श­ङ्क्याह —
सर्वेष्विति ।
‘तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ इत्या­दि­ष्व­नु­मा­नता भातीत्यर्थः ।

कार्य­लि­ङ्ग­क­म­नु­मानं ब्रह्मैव गम­यि­ष्य­ती­त्या­शङ्क्य सुख­दुः­ख­मो­हा­त्मकं कार्यं तादृगेव कार­ण­म­नु­मा­प­य­ती­त्याह —
प्रधानेति ।

तस्याचेतनस्य स्वार्था­भा­वा­त्पु­म­र्थ­प्र­वृत्तौ पुंसि मानं वाच्यमिति मत्वाह —
पुरुषेति ।
बुद्धौ यः प्रतिबिम्बः, स तादृ­श­बि­म्ब­पू­र्वकः, प्रति­बि­म्ब­त्वात् , दर्पणे मुखा­भा­स­व­दि­त्यर्थः । सम्बन्धाभावे ताद­र्थ्या­यो­गा­त्त­त्रापि माना­का­ङ्क्षायां, विमतं चेतनसंयुक्तम् , अचेतनत्वात् , द्रव्यादिवदिति बुद्ध्या संयोगग्रहणम् ।

मतान्तरमाह —
काणादास्त्विति ।
‘यतो वा इमानि’ इत्या­दि­वा­क्येभ्यो यच्छब्दोपबन्धेन सिद्ध­व­ज्ज­ग­द्धे­तु­प­रा­म­र्शात् , यत्कार्यं तद्बु­द्धि­म­त्क­र्तृ­क­मिति सामा­न्य­तो­दृ­ष्टा­दी­श्वरं कल्प­य­न्ती­त्यर्थः ।

स्वप­रि­मा­णा­द­ल्प­प­रि­मा­णा­रब्धं पटादि दृष्ट्वाद्यमपि कार्यं तथेति समवायित्वेन चतु­र्वि­धा­न­णू­न्क­ल्प­य­न्ती­त्याह —
अणूंश्चेति ।

'असद्वा इदमग्र आसीत् ‘ इत्या­दि­वा­क्या­भा­सा­द्दी­पा­दे­र्नि­र­न्व­य­ना­श­दृष्ट्या पृथिव्यादेरपि तथा नष्टस्यासत एवो­त्प­त्ति­रि­त्या­दि­यु­क्त्या­भा­सा­च्चा­द्वै­त­वादे माध्यमिकादयो विरोधिनो भवन्तीत्याह —
एवमिति ।

वादि­वि­प्र­ति­प­त्ती­रुक्त्वा तन्नि­रा­सा­यो­त्त­र­ग्र­न्थ­म­व­ता­र­यति —
तत्रेति ।
तत्र वादिषु भिन्न­प्र­स्था­नेषु सत्स्विति यावत् । वाक्याभासेषु युक्त्याभासेषु च प्रति­प­त्ति­र्येषां ते तथा ।

उत्त­र­ग्र­न्थ­ता­त्प­र्य­मुक्त्वा ‘सदेव’ इत्यादौ सच्छ­ब्दि­त­मी­क्षितृ सर्वज्ञं जगदुपादानं प्रधानं ब्रह्मैवेति वादि­वि­वा­दा­ज्ज्ञा­तृ­त्व­ज्ञा­नाभ्यां संश­य्या­न­न्त­रा­धि­क­र­ण­पू­र्व­प­क्ष­माह —
तत्रेति ।
स्थितं समुदायतात्पर्यं सप्तम्यर्थः । सर्वज्ञे जगद्धेतौ समन्वयोक्त्या तच्चै­त­न्य­मा­क्षिप्य समर्थ्यत इत्य­धि­क­र­ण­स­ङ्गतिः । नाना­शा­खा­स्थ­स्फु­ट­ब्र­ह्म­लि­ङ्ग­वा­क्यानां ब्रह्मण्येव समन्वयोक्तेः श्रुत्या­दि­स­ङ्ग­तयः । ‘तत्त्वमसि’ इति तच्छ­ब्दि­त­प्र­धा­नै­क्य­स­म्पत्तिः पूर्वपक्षे । सिद्धान्ते चिदात्मनो ब्रह्मैक्यं फलम् ।

प्रकर्षेण धीयते सर्वं जगदस्मिन्निति ब्रह्मापि प्रधानं, ततो विशिनष्टि —
त्रिगुणमिति ।

परि­णा­म­यो­ग्य­त्व­माह —
अचेतनमिति ।

साङ्ख्यीयमतं श्रुति­वि­रो­धा­त्त्या­ज्य­मि­त्या­श­ङ्क्याह —
यानीति ।

जीवा­ख्य­चि­त्प्र­ति­बि­म्बानां स्वतो विभ­ज­न­नि­य­मे­नै­की­क­र­ण­श­क्तयो न प्रधा­न­स्या­चे­त­न­स्ये­त्य­न्य­देव सर्व­श­क्ति­म­दे­ष्ट­व्य­मि­त्या­शङ्क्य चित्प्र­ति­बि­म्बा­ना­म­नु­त्पा­द्य­त्वा­दु­त्पा­द्या­र्थ­श­क्ति­र­स्यापि स्यादित्याह —
सर्वेति ।

तथापि कुतोऽ­स्या­चे­त­नत्वे सर्वज्ञता, तत्राह —
एवमिति ।

यस्य न ज्ञत्वमेव तस्य कुतः सर्वज्ञतेत्याह —
कथमिति ।

प्रधाने ज्ञानकर्तृत्वं सम्भावयितुं ज्ञानस्वरूपमाह —
यदिति ।

ननूक्तज्ञानेन चेतनानामेव योगिनां सर्व­ज्ञा­त्वा­त्त­द­चे­तनं प्रधानं कथं तेन सर्वज्ञमुच्यते, तत्राह —
तेनेति ।

कार्यकरणवन्त इत्य­चै­त­न्य­मु­क्तम् । तत्रापि चेतनांशस्यैव सर्वज्ञत्वं, सत्त्वस्य सहायतया तदु­त्क­र्षा­न्व­य­व्य­ति­रे­क­यो­र­न्य­था­सि­द्धे­रि­त्या­श­ङ्क्याह —
सत्त्वस्येति ।
केव­ल­व्य­ति­रे­का­भा­वान्न चेतनांशस्यैव सर्व­ज्ञ­ते­त्यर्थः ।

किञ्च तस्य सर्वज्ञत्वं दुर्ज्ञानं, चिन्मात्रस्य ज्ञान­क­र्तृ­त्वा­यो­गा­दि­त्याह —
नेति ।

कार्य­क­र­ण­वि­र­हि­त­त्वाच्च नास्य ज्ञान­क­र्तृ­ते­त्याह —
अकार्येति ।

पूर्णत्वाच्च तथेत्याह —
पुरुषस्येति ।

प्रधानावस्थायां गुणसाम्ये सत्त्वो­त्क­र्षा­यो­गान्न तस्य ज्ञान­क­र्तृ­ते­त्याह —
त्रिगुणत्वादिति ।

नच ज्ञान­प्र­ति­ब­न्ध­क­र­ज­स्त­म­सो­रपि तत्र भावान्न सार्वज्ञ्यं, वस्तु­त­स्त­द्भा­वेऽपि, माण­व­क­स्या­ग्नि­त्व­व­त्त­दु­प­चा­रात् , तदाह —
उपचर्यत इति ।

गौण­मु­ख्य­यो­र्मुख्ये संप्र­त्य­या­न्मु­ख्य­ग्र­ह­ण­मा­श­ङ्क्याह —
अवश्यमिति ।

तत्र हेतुमाह —
नहीति ।

तथात्वे कानु­प­प­त्ति­रि­त्या­शङ्क्य तज्ज्ञानं नित्यमनित्यं वेति विकल्पयति —
तथाहीति ।

तत्राद्यं दूषयति —
ज्ञानेति ।

द्वितीयमनूद्य स्वम­त­सि­द्धा­न्त­माह —
अथेत्यादना ।

अनि­त्य­ज्ञा­न­पक्षे ब्रह्मणः सर्व­ज्ञा­न­श­क्ति­म­त्त्वे­नैव सर्वज्ञतेत्यत्र हेत्वन्तरमाह —
अपि चेति ।

तथापि तस्य सर्वविषयं ज्ञानं किमिति नोत्पद्यते, तत्राह —
न चेति ।
आदिपदेन ज्ञेय­ज्ञा­त्रा­दि­स­ङ्ग्रहः ।

उभ­य­त्रा­प्य­नु­प­प­त्ति­साम्ये कथं पक्षि­वि­शे­ष­प­क्ष­पात इत्याशङ्क्य प्रधानपक्षे विशेषमाह —
अपि चेति ।

एकस्यापि ब्रह्मणः साम­ग्री­स­न्नि­धा­ना­त्का­र­ण­त्व­मा­शङ्क्य तस्या­स­ङ्ग­त्वा­द­द्व­य­त्वाच्च नैवमित्याह —
नेति ।

जग­दु­पा­दा­न­वा­दि­वे­दा­न्तानां प्रधानपरतेति पूर्वपक्षमनूद्य सूत्रेण सिद्धान्तयति —
एवमिति ।

सूत्रस्थं नञ्पदं व्याचष्टे —
नेति ।

तत्र सौत्रमेव हेतुमाह —
अशब्दं हीति ।

‘सदेव’ इत्यत्र सच्छब्दस्य सच्छ­ब्द­त्वा­न्ना­श­ब्द­त्व­मि­त्याह —
कथमिति ।

सौत्रं पदमवतार्य व्याकरोति —
ईक्षतेरिति ।

अनुमेयं प्रधानं हित्वा तद­नु­वा­दि­श्रु­ति­सि­द्धस्य कथं कारणत्वमित्याह —
कथमिति ।

कार्येण कार­ण­मा­त्र­म­नु­मातुं शक्यं न तद्विशेषः । तत्र श्रुतिरेव मानमिति मत्वाह —
एवंहीति ।

श्रुतोपादानस्य चेतनार्थत्वमाह —
तदैक्षतेति ।

केचि­दी­क्षि­ता­र­मी­श्वरं सद्वितीयं सङ्गिरन्ते, तान्प्रत्याह —
एकमेवेति ।

तस्यो­पा­दा­ना­र्थ­त्व­माह —
बहु स्यामिति ।

ईक्षणफलमाह —
तदिति ।
तदाकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्यर्थः ।

श्रुते­र­नु­मि­ता­र्था­नु­वा­दि­त्व­व्यु­दा­सा­र्थ­म­र्थ­माह —
तत्रेत्यादिना ।
उक्तश्रुतिः सप्तम्यर्थः ।

छन्दो­ग­श्रु­ति­व­दै­त­रे­य­श्रु­ति­रपि प्रधा­न­वा­द­वि­रो­धि­नी­त्यह —
तथेति ।
मिषच्चलत् । सत्त्वा­क्रा­न्त­मिति यावत् ।

प्रश्नश्रुतिरपि प्रधानकारणतां वारयतीत्याह —
क्वचिच्चेति ।
'स प्राणमसृजत प्राणा­च्छ्रद्धां खंवा­यु­र्ज्यो­ति­रापः पृथिवीन्द्रियं मनोऽ­न्न­म­न्ना­द्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च’ इत्युक्ताः षोडशकलाः ।

‘इक्शितपौ धातुनिर्देशे’ इति स्मर­णा­दी­क्ष­ते­रिति श्तिपा धातु­स्व­रू­प­क­थ­नान्न तस्य चेत­नो­पा­दा­न­त्व­सा­ध­न­ते­त्या­श­ङ्क्याह —
ईक्षतेरितीति ।
विषयिणा विषयस्य लक्षणादित्यर्थः ।

प्रसिद्धा चेयं लक्षणेत्याह —
यजतेरितिवदिति ।
सप्तमे स्थितम् - ‘इति­क­र्त­व्य­ता­वि­धे­र्य­जतेः पूर्ववत्त्वम् । ‘ इतिकर्तव्यतायाः सौर्यादिषु विकृ­ति­ष्व­वि­धा­ना­द­नि­ति­क­र्त­व्य­ता­कत्वे प्राप्ते प्रत्युच्यते - यथा लोके शाकादिषु सिद्धेषु वदन्त्योदनं पचेति, तथेह सिद्धवत्कृत्य सामा­न्ये­ने­ति­क­र्त­व्य­ता­क­रणं विहितं तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शा­दि­प्र­कृ­ति­वि­हि­त­पू­र्वे­ति­क­र्त­व्य­ता­व­त्त्व­मिति । तत्र यथा यजतेरिति यागो गृही­त­स्त­थे­हा­पी­क्ष­ते­रि­ती­क्ष­ण­मि­त्यर्थः ।

ईक्ष­ते­रि­त्यु­क्ते­र­र्थ­प­रत्वे वाक्या­न्त­रा­ण्यपि प्रधा­न­प­क्ष­प्र­ति­क्षे­पा­यात्र सूचितानि भवन्तीत्याह —
तेनेति ।
सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमयं ज्ञानात्मकं तपो न त्वायासरूपम् । एतद्ब्रह्म जायमानं हिरण्यगर्भाख्यं कार्यम् । नाम देवदत्तादि । रूपं नीलपीतादि । अन्नं व्रीहियवादि । आदिपदेन ‘ज्ञःकालकालो गुणी सर्वविद्यः स कारणम्‘ इत्यादि गृहीतम् ।

सिद्धा­न्त­मु­प­पाद्य परोक्तमनुवदति —
यत्त्विति ।

प्रधाने गुणानां तुल्यतया सत्त्वकार्यस्य ज्ञान­स्यै­वा­स­म्भवे सर्वज्ञत्वं दूर­नि­र­स्त­मि­त्याह —
तन्नेति ।

औपचारिकं सर्व­ज्ञ­त्व­मुक्तं स्मारयति —
नन्विति ।

सत्त्वस्य सूक्ष्मरूपेण ज्ञान­हे­तु­त्व­व­दि­त­र­यो­रपि तेनात्मना तत्प्र­ति­ब­न्ध­क­त्वान्न सर्वज्ञतेत्याह —
तदपीति ।

केव­ल­स­त्त्व­वृ­त्ते­र्ज्ञा­न­त्व­मु­पेत्य सत्त्वधर्मेण तेन न सर्व­ज्ञ­ते­त्यु­क्तम् । इदानीं न केवला सत्त्व­वृ­त्ति­र्ज्ञानं किन्तु तद­भि­व्य­क्त­श्चि­त्प्र­काशः, तथा­वि­ध­ज्ञा­न­वत्त्वं च न प्रधानस्येत्याह —
अपिचेति ।

तर्हि प्रधानमेव चिदात्मना परि­ण­त­म­व­च्छे­द­क­वृ­त्त्या­त्मना विपरिणंस्यते, नेत्याह —
न चेति ।

हेतु­र­चे­त­न­स्ये­त्युक्तः । प्रधा­न­स्या­स­र्व­ज्ञ­त्व­मुक्तं निगमयति —
तस्मादिति ।
अचे­त­न­स्या­ज्ञा­तृत्वं तच्छब्दार्थः ।

परोक्तं दृष्टान्तं विघटयति —
योगिनां त्विति ।
सत्त्वो­त्क­र्षोऽपि चेतनस्योपकरोति नाचेतनस्य प्रधानस्य, अन्ध­स्ये­वा­द­र्शो­त्कर्ष इत्यर्थः ।

सेश्व­र­सा­ङ्ख्य­म­त­माह —
अथेति ।

यस्य स्वतो नेक्षितृत्वं तस्य कथं तदन्यकृतमपि स्यादि­त्या­श­ङ्क्याह —
यथेति ।

लाघवेन सिद्धान्तयति —
तथेति ।

सिद्धान्ते परो­क्ता­म­नु­प­प­त्ति­म­नु­भा­षते —
यत्पुनरिति ।

तस्य मुख्यं सर्वज्ञत्वं प्रतिजानीते —
अत्रेति ।

तत्र परो­क्त्य­नु­प­पत्तिं निरसितुं पृच्छति —
इदमिति ।

प्रकृ­त्य­र्था­भा­वा­त्प्र­त्या­र्था­भा­वाद्वा ब्रह्म­णोऽ­स­र्व­ज्ञ­तेति प्रश्नमेव प्रकटयति —
कथमिति ।

प्रथमं प्रत्यह —
यस्येति ।

उक्तं व्यतिरेकद्वारा विवृणोति —
अनित्यत्वे हीति ।

द्वितीयं शङ्कते —
ज्ञानेति ।

स्वतो नित्यस्यापि ज्ञानस्य तत्त­द­र्था­व­च्छि­न्नस्य कार्यत्वात्तत्र स्वातन्त्र्यं प्रत्ययार्थो ब्रह्मणः सिध्यतीत्याह —
नेत्यादिना ।

वैषम्यं शङ्कते —
नन्विति ।

ब्रह्मणोऽपि विषयसम्बन्धे जानातीति स्यादि­त्या­श­ङ्क्याह —
नत्विति ।

यत्र स्वातन्त्र्यं तत्र क्रिया­श्र­य­त्व­मे­वा­व्य­भि­चा­रा­दिति दूषयति —
न । असत्यपीति ।

प्रका­श­ते­र­क­र्म­क­त्वा­त्त­था­व्य­प­दे­शेऽपि जानातेः सक­र्म­क­त्वा­त्क­र्मा­भावे तथाव्यपदेशो न स्यादि­त्य­श­ङ्क्याह —
कर्मेति ।
प्रकृ­त्य­र्थ­व­त्प्र­त्य­या­र्थ­स्यापि बाधा­भा­वा­त्सु­त­रा­मि­त्यु­क्तम् । यथा कुम्भकारस्य व्याचि­की­र्षि­ता­का­रस्य स्वोपा­ध्य­न्तः­क­र­ण­प­रि­ण­ति­री­क्षणं तथा ब्रह्म­णोऽ­प्य­वि­द्यायाः स्वोपा­धे­र­ना­दि­प्र­वृ­त्त­स­र्ग­सं­स्का­रायाः प्रल­य­हे­तु­क­र्म­क्ष­यो­त्था­पि­त­सं­स्का­रा­दि­नि­मि­त्त­व­शेन सर्गोन्मुखा परिणतिरीक्षणम् । ततोऽन्यस्य मुख्य­स्या­स­म्भ­वा­दि­द­मेव मुख्यम् । तत्र चास्या­दि­क­र्तु­रस्ति कर्तृतेति भावः ।

नन्वपेक्षितं कर्म ब्रह्मणो भिन्नमभिन्नं वा । आद्ये तदद्वैतहानिः, द्वितीये सर्व­ज्ञ­त्वा­सि­द्धि­रि­त्याह —
किमिति ।

‘तन्ना­म­रू­पा­भ्या­मेव’ इत्यादिश्रुतेः सर्वस्य कार्यप्रपञ्चस्य नाम­रू­पा­त्म­क­त्वा­त्त­योश्च ब्रह्मणो भेदाभेदाभ्यां दुर्भ­ण­त्वा­न्नै­व­मि­त्याह —
तत्त्वेति ।

प्रागेव तयोः सत्त्वे सर्गा­सि­द्धि­मा­श­ङ्क्याह —
अव्याकृत इति ।

तयो­स्त­था­स्वा­भाव्ये कुतः सृष्टि­रि­त्या­श­ङ्क्यो­क्तम् —
व्याचिकीर्षिते इति ।

निरीश्वरवादिनं प्रति ब्रह्मणः सर्व­ज्ञ­त्व­मुक्त्वा सेश्वरवादिनं प्रत्याह —
यत्प्रसादादिति ।

‘ततः प्रत्य­क्चे­त­ना­धि­ग­मोऽ­न्त­रा­या­भा­वश्च’ इति योगसूत्रस्य ‘भक्ति­वि­शे­षा­दा­व­र्जित ईश्व­र­स्त­म­नु­गृ­ह्णाति ज्ञान­वै­र­ग्या­दिना ‘ इति तद्भाष्यस्य च दृष्टे­र्यो­ग­शा­स्त्र­विद इत्युक्तम् । अपिना सूचितं कैमुतिकं न्यायमाह —
किम्विति ।
तथा च सेश्वरवादे ब्रह्मणः सार्व­ज्ञ्य­म­ना­या­स­ल­भ्य­मिति शेषः ।

जीव­स्ये­वे­श्व­र­स्यापि ज्ञाना­नु­गु­ण­हे­त्व­पे­क्षा­म­नु­व­दति —
यदपीति ।

वस्तुतो नित्यस्य स्वतो हेत्व­न­पे­क्ष­त्वा­न्नै­व­मि­त्याह —
न तदिति ।

तदेव व्यतिरेकेण साधयति —
अपि चेति ।
अविद्या मिथ्याज्ञानम् । आदि­श­ब्दे­ना­स्मि­ता­दि­रुक्तः ।

ननु संसारिणोऽपि ज्ञानस्य नित्यत्वात्तत्र हेत्वपेक्षा स्याच्चे­दी­श्व­र­स्यापि स्याद­भे­दा­दि­त्या­श­ङ्क्या­विद्यं भेदमादाय विशेषमाह —
न ज्ञानेति ।

सोऽपि ज्ञान­प्र­ति­ब­न्ध­का­र­ण­वा­नि­त­र­व­च्चे­त­न­त्वात् । अतस्तस्यापि देहाद्यपेक्षा ज्ञानो­त्प­त्ति­रि­त्या­शङ्क्य काला­त्य­या­प­दि­ष्ट­त्व­माह —
मन्त्रौ चेति ।
चकारः शङ्कानिरासार्थः । कार्यं शरीरं कर­ण­मि­न्द्रि­य­जातं, समः समा­न­जा­ती­योऽ­भ्य­धिको विजातीयो दृश्यत इति नञान्वितं द्वयं मानाभावपरम् । सत्त्वा­स­त्त्वा­दि­ना­न­व­गा­ह्यत्वं परत्वम् । शक्तिर्मूलकारणं माया तस्या विवि­ध­त्व­मा­का­शा­द्य­शे­षा­का­र­त्वम् । ऐति­ह्य­मा­त्र­सिद्धा सा न प्रामाणिकीति वक्तुं श्रूयत इत्युक्तम् । उक्त­मा­या­नु­सा­रित्वं स्वाभाविकत्वं, ज्ञानमेव बलं तेन क्रिया जगतः सर्गाद्या सा च स्वाभाविकीति । अपाणिरपि ग्रहीता, अपादोऽपि जवनो वेगवद्विहरणवान् , अचक्षुरपि पश्यति, अकर्णोऽपि शृणोति । किं बहुना सर्वमपि वेदनयोग्यं कार्य­क­र­णा­न­पेक्षो वेत्ति । पर्यवसितं तस्मि­न्वे­दि­तृ­त्व­मतो न तस्यान्यो वेदितास्ति, नित्य­स्फु­र­ण­त्वाच्च । तं चादिकर्तारं महान्तमाचक्षते ब्रह्मविदः । न च तन्म­ह­त्त्व­मा­पे­क्षि­क­मिति पुरुषपदम् ।

अविद्यादिमतः संसारिणो देहाद्यपेक्षा ज्ञानो­त्प­त्ति­र्ने­श्व­र­स्ये­त्य­त्रा­प­सि­द्धान्तं शङ्कते —
नन्विति ।

न केव­ल­म­प­रा­द्धा­न्ता­दी­श्व­रा­दन्यो न संसारी किन्तु श्रुति­वि­रो­धा­द­पी­त्यह —
नेति ।

व्यतिरिक्ते संसारिण्यसति विभा­गो­क्ति­र­यु­क्तेति फलितमाह —
तत्रेति ।

स्वाभा­वि­क­मौ­पा­धिकं वान्यत्वं नास्तीति विकल्पयति —
अत्रेति ।

तत्रा­द्य­म­ङ्गी­क­रोति —
सत्यमिति ।

द्वितीयं प्रत्याह —
तथापीति ।
तत्कृतमन्यत्वं चेष्टमेवेति शेषः ।

अपरिच्छिन्नस्य परि­च्छि­न्नो­पा­धि­स­म्बन्धे दृष्टान्तमाह —
घटेति ।

विमतौ तत्त्वतो भिन्नौ, अपु­न­रु­क्त­श­ब्द­धी­ग­म्य­त्वात् , घटा­दि­व­दि­त्या­शङ्क्य व्यभिचारमाह —
तत्कृतश्चेति ।
उपा­धि­स­म्ब­न्ध­स्त­च्छ­ब्दार्थः ।

हेतुमदाकाशे साध्यं व्यावर्तयति —
आकाशेति ।
तस्य तत्त्वतो भेदाभावेऽपीति यावत् ।

परा­प­रो­स्ता­त्त्वि­क­भे­दा­भावे कथं तत्प्र­थे­त्या­श­ङ्क्याह —
तत्कृतेति ।
पूर्व­व­त्त­च्छब्दः ।

दृष्टा­न्त­स्थ­मर्थं दार्ष्टान्तिके योजयति —
तथेति ।
चिदात्मा सप्तम्यर्थः । विशि­ष्टो­पा­धि­यो­गा­द­वि­वे­क­स्तेन कृतेत्येतत् ।

व्योमा­दा­व­ना­त्मनि भ्रान्ति­स­म्भ­वेऽपि कथमात्मनि स्वप्रकाशे स्यादि­त्या­श­ङ्क्याह —
दृश्यते चेति ।
तत्त्व­तोऽ­ति­रि­क्त­स्यैव सत आत्मन इति योजना ।

तत्र कारणमाह —
मिथ्येति
पूर्व­भ्रा­न्ते­रेव संस्का­र­द्वा­रो­त्त­र­भ्रा­न्ति­का­र­ण­त्व­म­व­धा­र­यितुं तन्मात्रग्रहणं न, किन्तु तद्धे­तो­र्वि­चा­रा­स­हत्वं वक्तुम् , अतो हेत्व­न्त­र­म­वि­रु­द्धम् ।

उपाधिद्वारा चिदात्मनि संसारित्वेऽपि प्रकृते किं जातं तदाह —
सति चेति ।
ईश्व­र­स्या­सं­सा­रिणो महा­का­श­स्था­नी­यस्य तद­न­पे­क्ष­मी­क्षि­तृ­त्व­मिति शेषः ।

प्रधानस्य परोक्तं सर्वज्ञत्वं निरस्य ब्रह्म­ण­स्त­दु­प­प­त्ति­रुक्ता । सम्प्रति प्रधानस्यैव कार­ण­त्व­यो­ग्य­ते­त्यु­क्त­म­नु­वदि —
यदपीति ।

तस्य कारणत्वं शब्दतस्तर्कतो वा । नाद्य इत्याह —
तदिति ।

द्वितीयं निरस्यति —
यथा त्विति ॥ ५ ॥

प्रधानस्य न कारणतेत्युक्ते सतीक्षितृत्वस्य चेत­न­का­र­ण­त्व­हे­तो­र्व्य­भि­चारं चोदयति —
अत्रेति ।

उक्तमनूद्य व्यभिचारं स्फोटयति —
यदुक्तमिति ।
हेतुश्रवणं तदा परामृष्टम् । अन्यथापि जग­त्का­र­ण­स्या­चे­त­न­त्वेऽ­पी­त्यर्थः ।

कथमुपपत्तिर्नहि तत्र मुख्य­मी­क्षि­तृत्वं, तत्राह —
अचेतनेऽपीति ।

तदेव दृष्टान्तेन व्याचष्टे —
प्रत्यासन्नेति ।

तथापि कथं प्रधाने 'तदै­क्षत' इति व्यपदेशः, तत्राह —
तद्वदिति ।

उपचारे निमित्तम् —
प्रत्या­स­न्ने­त्यादि ।

तथाविधेऽपि प्रधाने सिसृक्षतीति स्यात्क­थ­मै­क्ष­तेति तत्र —
चेतनवदिति ।

विरुद्धमुक्तं दृष्टान्तं व्याकुर्वाणो लौकि­के­क्षि­तृ­सा­म्या­न्नि­य­त­क्रि­या­का­रि­त्वा­दि­रि­त्याह —
यथेति ।
तस्मादिति निय­त­प्र­वृ­त्ति­मत्त्वं हेतूकृतम् ।

मुख्य­गौ­ण­यो­र्मु­ख्य­ग्र­हणं न्याय्यमिति सिद्धान्ती शङ्कते —
कस्मादिति ।