न्यायनिर्णयव्याख्या
१ परिच्छेदः
गौणेक्षणसन्निधिना समाधत्ते —
तत्तेज इति ।
दर्शनादौपचारिकं सतोऽपीक्षितृत्वमिति सम्बन्धः ।
सन्निधिफलमाह —
तस्मादिति ।
तच्छब्दार्थं व्याकरोति —
उपचारेति ।
तत्प्राये तत्प्रकरणे । इतिशब्दः शङ्कोपक्रमस्थक्रियापदसम्बन्धी ।
व्यभिचारशङ्कामनूद्य सूत्रमुत्तरत्वेनावतारयति —
एवमिति ।
अनुवादभागं विभजते —
यदुक्तमिति ।
परिहारभागं व्याकर्तुं नञर्थमुक्त्वा प्रश्नद्वारा हेतुमाह —
तदसदिति ।
परमतं निरसितुं प्रकरणमनुसन्दधानो हेतुं व्याचष्टे —
सदेवेति ।
सेति प्रकृतसदात्मोक्तिः । इयमिति सन्निहितेक्षितृत्वनिर्देशः । देवतेत्यलौकिकत्वमुक्तम् ।
इक्षणमभिनयति —
हन्तेति ।
सूक्ष्मभूतसर्गानन्तरं तावता व्यवहारायोगात्तदपेक्षायामित्यर्थः ।
सृष्टिवाक्येनोक्तानि तेजोऽबन्नानि निर्दिशति —
इमा इति ।
सूक्ष्मभूतानां व्यवहाराङ्गत्वेनाप्रत्यक्षत्वात्तेषु देवताशब्दः । अनेन पूर्वसृष्ट्यनुभूतेन जीवेन प्राणधृतिहेतुनात्मना सद्रूपेण यथोक्ता देवताः सर्गानन्तरं प्रविश्य नाम रूपं चेति विस्पष्टमासमन्तात्कारवाणीति परा देवतेक्षितवतीत्यर्थः ।
ननु सा जीवमात्मशब्देनाभिधत्तां, तथापि प्रधानस्य गौणमीक्षितृत्वं किं न स्यात् , तत्राह —
तत्रेति ।
ईक्षणवाक्यं सप्तम्यर्थः । जीवस्य चेतनत्वादचेतनप्रधानस्य तदात्मत्वायोगादित्यर्थः ।
तस्यापि प्राणात्मना प्रधानकार्यत्वात्तस्य तस्मिन्नात्मशब्दः स्यादित्याशङ्क्य जीवस्वरूपमाह —
जीवो हीति ।
तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।
चेतनत्वे हेतुः —
शरीरेति ।
तत्र जीवशब्दप्रवृत्तौ निमित्तमाह —
जीवो हीति ।
तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।
चेतनत्वे हेतुः —
शरीरेति ।
तत्र जीवशब्दप्रवृत्तौ निमित्तमाह —
प्रणानामिति ।
उक्तचेतनस्य जीवत्वे मानमाह —
प्रसिद्धेति ।
प्राणविषयत्वेनापि लौकिकी प्रसिद्धिः स्यादित्यशङ्क्य ‘जीव प्राणधारणे’ इति धात्वर्थानुरोधादुक्तश्चेतनो जीव इत्याह —
निर्वचनाच्चेति ।
सिद्धे जीवस्य चैतन्ये फलितमाह —
स कथमिति ।
आत्मशब्दार्थं वदन्नसम्भवं साधयति —
आत्मा हीति ।
पूर्ववन्निपातौ ।
संसार्यसंसारिणोर्विरोधात्त्वन्मतेऽपि ब्रह्मणो जीवे कथमात्मपदं प्रत्युक्तमित्याशङ्क्याह —
अथ त्विति ।
तत्त्वतोऽविरोधाद्दृष्टितो विरोधस्य बिम्बप्रतिबिम्बयोर्व्यभिचाराज्जीवब्रह्मैक्याद्ब्रह्मणो जीवे युक्तमात्मपदमित्यर्थः ।
जीवे सत आत्मशब्दान्न तत्प्रधानमित्युक्त्वा विधान्तरेण हेतुं व्याचष्टे —
तथेति ।
यः सदाख्यः स एषोऽणिमाऽणोर्भावो भावभवित्रोरभेदादणुरिति । ऐतदात्म्यमेतदात्मनो भावः । अयमपि प्रयोगो भवितृपरः । सर्वमिदं जगदेतदात्मकमिति यावत् । परमसूक्ष्मं सर्वात्मकं सदेव सत्यं पारमार्थिकं तत्त्वं, ‘मृत्तिकेत्येव सत्यम्’ इति दृष्टान्तस्थावधारणस्यात्रापि सम्बन्धात् । यच्च सत्यं स सर्वस्यात्मा निरुपचरितं रूपम् । हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव ब्रह्मेत्यक्षरयोजना ।
तत्रापेक्षितं प्रतीकमादाय विवक्षितमाह —
इत्यत्रेति ।
तथाच चेतनस्यात्मशब्दान्न तस्य प्रधानतेत्यर्थः ।
यत्पुनरुपचारप्रायपाठादीक्षितृत्वं सतोऽपि गौणत्वमिति, तत्राह —
अप्तेजसोस्त्विति ।
युक्तमीक्षितृत्वस्य गौणत्वमिति सम्बन्धः । तत्र हेतुरितिशब्दः, स च प्रत्येकं सम्बध्यते । यतश्चेतनव्यापारं प्रति विषयत्वेन निर्देशात्तयोरचेतनत्वम् । आदिपदेन प्रवेशनियमनादिसङ्ग्रहः । यतश्च तत्र तत्र प्रयोज्यत्वेनैव तयोरुक्तिः, यस्माच्च सदीक्षितृत्वस्य मुख्यत्वहेत्वात्मशब्दवत्तयोरीक्षितृत्वस्य मुख्यत्वे हेतुर्न दृष्टः, तस्मात्कूलस्य गुणवृत्त्या पिपतिषावद्युक्तमप्तेजसोर्गौणमीक्षितृत्वमित्यर्थः ।
तर्हि प्रायपाठस्य का गतिरित्याशङ्क्य मुख्यत्वस्यौत्सर्गिकत्वाद्गौणेनातुल्यत्वाद्विशयानुदये प्रायवचनमकिञ्चित्करमित्यभिप्रेत्याप्तेजसोरपि मुख्यमेवेक्षणमाश्रयणीयं न गौणमित्याह —
तयोरपीति ।
कारणेक्षणं कार्ये लक्षणयोच्यते चेत्तत्रापि कथं मुख्यतेत्याशङ्क्याह —
सतस्त्विति ॥ ६ ॥
आत्मशब्दोऽपि प्रधाने गौणः स्यादिति चोदयति —
अथेति ।
गौणे प्रयोगे गुणयोगं दर्शयति —
आत्मन इति ।
स्वर्गार्थस्यापि कर्मणः स्वर्गशब्दानर्हत्ववदात्मार्थमपि प्रधानं नात्मशब्दार्हमित्याशङ्क्याह —
यथेति ।
प्रधानस्य भृत्यवच्चैतन्याभावादात्मार्थप्रवृत्त्ययोगान्नात्मार्थकारितेत्याशङ्क्याह —
प्रधानं हीति ।
भृत्यस्य राज्ञि विवेकाविवेकाभ्यामभ्युदयाद्यहेतुत्वान्न दृष्टान्ततेत्याशङ्क्योपकारित्वमात्रं तुल्यमित्याह —
राज्ञ इति ।
गौणत्वं निरसितुमुक्तात्मशब्दस्य न गौणतेत्यपरितुष्यन्नाह —
अथवेति ।
प्रधानेऽपि शक्तिकल्पने गौरवमाशङ्क्य वृद्धप्रयोगादनेकत्र शक्तिसिद्धेर्नैवमित्याह —
भूतात्मेति ।
प्रधानात्मा चेति परमात्मा चकारार्थः ।
तत्रात्मशब्दस्यात्मन्येव मुख्या वृत्तिः, प्रधानादौ गौणीत्याशङ्क्य भिन्नजातीययोरेकशब्दप्रयोगे शक्तिद्वयमेव कल्प्यमित्याह —
यथेति ।
आत्मशब्दसाधारण्ये फलितमाह —
तत्रेति ।
शङ्कोत्तरत्वेन सूत्रं पातयति —
अत इति ।
हेतुमात्रस्य सूत्रे भानात्पूर्वसूत्रस्थनञमाकृष्य प्रतिजानीते —
नेति ।
तत्र हेतुं सूत्रं व्याचष्टे —
स इत्यादिना ।
साक्षित्वेनाहङ्काराद्यध्यासनिरासयोग्यतां वक्तुं चेतनस्येत्युक्तम् । ऐक्यापारोक्ष्यप्रमितिप्रतिबन्धनिवर्तकं सूचयति —
आचार्यवानिति ।
उक्तप्रमित्या सर्वबन्धननिवृत्त्या देहादिदृष्टेरपि निवृत्तिप्राप्तौ प्रारब्धकर्मणा तद्दृष्ट्यनुवृत्तिमाचष्टे —
तस्येति ।
कथं तर्हि प्रारब्धकर्मनिवृत्तिरित्याशङ्क्य भोगादिति मन्वानो ब्रूते —
यावदिति ।
आरब्धकर्मध्वस्तावपि कथं देहादिधीध्वस्तिरित्याशङ्क्याप्रतिबन्धादित्याह —
अथेति ।
उत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसत्वात् ।
साङ्ख्यपक्षेऽपि मोक्षोपदेशोपपत्तिमाशङ्क्याह —
यदीति ।
तदा चेतनं सन्तं मुमुक्षुमचेतनोऽसीति ब्रुवच्छास्त्रं विपरीतवादि भूत्वा पुंसोऽनर्थायेति कृत्वा स्यादप्रमाणमिति योजना ।
अस्तु शास्त्राप्रामाण्यं, नेत्याह —
नत्विति ।
आत्मनो जडैक्यमपि सत्याद्यैक्यवदनवच्छिन्नतया शास्त्रप्रमेयमित्याशङ्क्याह —
यदि चेति ।
शास्त्रोक्ते विश्वासबुद्ध्यौ हेतुमाह —
श्रद्दधानतयेति ।
अनात्मन्यात्मदृष्टिं नासौ त्यजेदित्यत्र लौकिकं दृष्टान्तमाह —
अन्धेति ।
कश्चित्किल पश्चिमचेता गहनविपिनसमीपसञ्चारिपथि पतितमतिदुःखितं विनष्टदृष्टिद्वयमपि पुरुषापसदमवलोक्य तदन्तिकमुपसृत्य विप्रलब्धुमिच्छति, किमिति भवतातिबहुतरगोगवयादिसञ्चारसङ्कीर्णे दुर्गे मार्गे प्रचुरपरिणततरक्षुरोषणादिपरिवृतकान्तारपरिसरे परिहाय सहायसम्पदमास्यते । स च विवेकपरिचयविधुरो मधुरां गिरमुपश्रुत्य सहर्षं समभाषत । दैवोपहतः पिहितनयनयुगुलो बताहं कयापि विधया पन्थानमेनमासाद्य नानाविधबन्धुनिकरपरिपूरितमतिसविधमपि नगरं जिगमिषुरिहैवासमर्थो बहुतिथमत्यवाहयम् । सम्प्रति तु भवतो दिष्ट्या दृष्टस्य दृष्टिपथमवतीर्णं समासादितमनोरथं शोकसागरादुत्तीर्णमात्मानमालक्ष्य लब्धलक्ष्यो निर्वृतोऽस्मि । स च विप्रलप्सुः शिक्षाविपक्षमुक्षाणमभ्याशदेशनिवासिनमुलपादि चरन्तमाकलय्यास्य तु पुच्छं गृहीत्वा गच्छतु भवान् , एष त्वाभिमतं नगरं नेष्यतीत्याभाष्य तदनुमोदनपुरःसरं पुरुषं पशुमानीय तदीयलाङ्गूलं ग्राहयामास । स च गृहीततदीयवालधिर्विविधा वेदनास्तदाहिता इतस्ततो नीयमानोऽनुभवन्नपि नगरजिगमिषया तदाप्त्यादेष्टुराप्ततादृष्ट्या च स्वयमुपात्तं प्रबलबलीवर्दयूनश्चरममङ्गं परित्यक्तुं नैव धियं दधार । स च भूयो भूयो भूयसीर्यातनाः प्रतिलभ्य प्रेप्सितमप्रतिपद्यैव महति मोहसागरे निपतितः । तेनैव न्यायेनायमपि श्रद्धालुत्वादनात्मनि शास्त्राहितामात्मदृष्टिमत्यजन्ननर्थभागी भवेदित्यर्थः ।
आत्मा जडादर्थान्तरं, तत्साक्षित्वात् , घटसाक्षिवदित्यतिरिक्तात्मधिया पुरुषार्थभागी स्यादित्याशङ्क्यागमविरोधान्मैवमित्याह —
तद्व्यतिरिक्तं चेति ।
आत्मज्ञानाभावे दोषमाह —
तथेति ।
विहतिर्मुक्तिभाक्त्वाभावः ।
अनात्मनिष्ठत्वे दोषमाह —
अनर्थं चेति ।
‘तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ इति श्रुतेरित्यर्थः ।
परमते तन्निष्ठानुपपत्तेः सदात्मत्वोपदेशमिच्छता सतश्चेतनत्वमेष्टव्यमित्युपसंहरति —
तस्मादिति ।
नन्वारोपेणापि शास्त्रे ध्यानोपदेशात्कथं तद्यथाभूतमेवोपदिशतीति नियम्यतेऽत्राह —
एवं चेति ।
कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टस्तेन दृष्टान्तेन सत्ये ब्रह्मण्यभिसन्धिमतो मोक्षः ‘तद्यथा परशुं तप्तं प्रतिगृह्णाति’ इत्यत्रोक्तः । स च तत्त्वतो वस्तूपदेशे सम्भवतीत्यर्थः ।
सदात्मत्वोक्तेरारोपितार्थत्वेऽपि सत्याभिसन्धिसिद्धिः, ‘यस्य स्यादद्धा’ इत्यादिध्यानवाक्ये तद्दृष्टेरित्याशङ्क्याह —
अन्यथेति ।
उक्थं प्राणः ।
महावाक्योत्थं ज्ञानमिदमुच्यते । तस्य सम्पन्मात्रत्वेनानित्यफलत्वे फलितमाह —
तत्रेति ।
मोक्षस्य तद्वादिभिर्नित्यत्वोपगमादित्यर्थः ।
मोक्षोपदेशस्य परपक्षेऽप्यनुपपत्तिमुक्त्वोपसंहरति —
तस्मादिति ।
दृष्टान्ते गौणत्वमङ्गीकरेति —
भृत्येति ।
इतश्चात्मशब्दस्य दृष्टान्तेन प्रधानविषयतया न गौणतेत्याह —
अपि चेति ।
मुख्यार्थायोगो गुणायोगश्च गौणत्वे हेतुः ।
तदभावेऽपि तत्कल्पनातिप्रसङ्गिनीति हेत्वन्तरमेव स्फोटयति —
क्वचिदिति ।
अग्न्यादिशब्दानां माणवकादिषु गौणत्वदृष्ट्या दहनादिष्वपि तत्प्रसक्तेरित्याह —
सर्वत्रेति ।
गौणत्वं निरस्य साधारण्यं निरसितुमनुवदति —
यत्त्विति ।
एकत्र मुख्यशब्दस्य तद्योगादन्यत्र वृत्तिसम्भवे तत्रापि शक्तिकल्पने गौरवानैवमित्याह —
तन्नेति ।
क्वचित्त्वगत्यानेकार्थतेत्यर्थः ।
प्रधानमात्मशब्दस्य मुख्योऽर्थस्तदविवेकादन्यत्र तच्छब्दतेत्याशङ्क्याप्त्यादिनिमित्तस्य चेतने मुख्यत्वात्तत्रैवात्मशब्दस्य मुख्यतेत्याह —
तस्मादिति ।
कथं तर्हि भूतात्मेत्यादिवाक्यमित्याशङ्क्य जीवैक्याध्यासात्पञ्चकोशात्मभूतानामिन्द्रियाणां चात्मशब्दत्वं, परमात्मैक्यारोपात्प्रधानस्य प्रकृतेरित्याह —
चेतनत्वेति ।
आप्त्याद्युपाधेरात्मशब्दस्य चेतने मुख्यत्वे प्रधानेऽपि तथैव तन्मुख्यत्वसिद्धेः साधारण्यमित्याशङ्क्याह —
साधारणत्वेऽपीति ।
परमसूक्ष्मशक्त्यात्मकप्रकृत्यर्थाणिमशब्दात्तज्जाड्यसिद्धेस्तद्विषयत्वमात्मशब्दस्य शक्यं निश्चेतुमित्याशङ्क्य शक्तेरप्यन्तस्थचिदात्मनि निरङ्कुशमणीयस्त्वमित्याह —
न चेति ।
अत्रेति प्रकरणोक्तिः । किञ्चित्प्रकरणमुपपदं वेत्यर्थः ।
कथं तर्हि चेतनविषयतेत्याशङ्क्य क्रमेण प्रकरणोपपदे दर्शयति —
प्रकृतं त्विति ।
चेतनसन्निधानेऽपि तस्य ‘तत्त्वमसि’ इत्यचेतनप्रधानतादात्म्योक्तेरहेतुः सन्निधिरित्याशङ्क्याह —
नहीति ।
चेतने प्रकरणादिभावे फलितमाह —
तस्मादिति ।
‘जीवेनात्मना’ ‘स आत्मा’ इति च वाक्यमिहेत्युक्तम् । आत्मशब्दसाधारण्ये दृष्टान्तितं ज्योतिःशब्दं विघटयति —
ज्योतिःशब्दोऽपीति ।
कथं तर्हि ‘वसन्ते वसन्ते ज्योतिषा यजेत ‘ इत्यत्र कालविधौ प्रकृतज्योतिष्टोमे ज्योतिःशब्दः, तत्राह —
अर्थवादेति ।
‘कतमानि ज्योतीषि’ इत्युक्त्वा ‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः’ इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यं त्रिवृदादिस्तोमानां फलप्रकाशकत्वम् । ततो ज्योतिष्ट्वेन निरूपितत्रिवृदादिस्तुतिसमुदायत्वाज्ज्योतिष्टोमे ज्योतिःशब्दः । तस्मादेकस्यात्मशब्दस्यानेकसाधारण्ये नेदमुदाहरणमित्यर्थः ।
आत्मशब्दादिति पूर्वसूत्रोक्तहेतुसाधकतया तच्छेषत्वेन सूत्रं व्याख्यायाधुना स्वतन्त्रहेतुपरतया व्याकरोति —
अथवेति ।
निरस्ता गौणत्वस्य साधारणत्वस्य च शङ्का यस्मात्स तथा तस्य भावस्तत्ता, तयात्मशब्दं व्याख्यायेति सम्बन्धः । सतश्चेतनस्य च तादात्म्यवचनं पूर्वसूत्रोक्तो हेतुः ।
सदर्थनिष्ठस्य मुक्तिरूपपरानन्दैक्योक्तेश्च चितो न प्रधानैक्यमिति हेत्वन्तरमिहोच्यत इत्याह —
तत इति ।
चेतनाचेतनयोरैक्यायोगादचेतननिष्ठतया चेतनस्य मोक्षोपदेशासिद्धेः ।
सिद्धमुपसंहरति —
तस्मान्नेति ॥ ७ ॥
यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामियं सेति दर्शयत्येवं दुर्ज्ञेयत्वादात्मतत्त्वस्यादौ प्रधानात्मत्ववचनात्तदेव सच्छब्दमिति शङ्कते —
कुतश्चेति ।
सूत्रमुत्तरम् —
हेयत्वेति ।
तद्व्याख्यातुं हेयत्वोक्तिं प्रतियोगिनीं प्रसञ्जयति —
यदीति ।
ऐक्यमुक्त्वा तन्निराकरणं पङ्कप्रक्षालनमनुसरतीत्याशङ्क्य परोक्तं दृष्टान्तेन प्रत्याह —
यथेति ।
प्रतियोगिप्राप्तिमुक्त्वा तन्निषेधसूत्रार्थमाह —
न चेति ।
तत्र हेतुः —
सन्मात्रेति ।
अनृतजडशक्तिशबले सति ‘तत्सत्यम् ‘ इति सत्यत्वविधानादसत्याकारं, ‘स आत्मा’ इति चिद्रूपत्वविधानाज्जडाकारं च बाधित्वा सत्यैकरसचिदात्माकारा याऽपरोक्षप्रमितिस्तन्निष्ठत्वेनैव छान्दोग्ये षष्ठसमाप्तिदर्शनात्प्रकृतसदात्मत्वाप्रत्याख्यानात् ‘तत्त्वमसि ‘ इत्यमुख्यात्मत्वोक्तिरयुक्तेत्यर्थः ।
पूर्वात्तरहेत्वोः सम्भूयाप्रमापकत्वे कृतं चकारेणेत्याशङ्क्याह —
चशब्द इति ।
हेयत्वावचनादेव प्रधानस्य निरासे किं प्रतिज्ञाविरोधोक्त्येत्याशङ्क्य हेयत्वोक्तिमुपेत्य चकारार्थं स्फुटयति —
सत्यपीति ।
प्रसङ्गं प्रकटयितुं प्रतिज्ञास्वरूपमाह —
कारणेति ।
हे श्वेतकेतो, तमप्यादेशमादिश्यत इत्यादेशं शास्त्राचार्योक्तिगम्यं वस्त्वप्राक्ष्यः पृष्टवानसि त्वमाचार्यम् । येन श्रुतेन शास्त्रतोऽन्यदश्रुतमपि श्रुतं भवति । येन मतेन तर्कतोऽन्यदमतमपि मतम् । येन विज्ञातेनान्यदविज्ञातमपि विज्ञातम् । न तु श्रोतव्यादि शिष्टमिति पितृवाक्यस्यार्थः ।
अन्यज्ञानादन्यन्न ज्ञेयमिति पुत्रो ब्रूते —
कथं न्विति ।
नान्यत्वं कार्यस्य कारणादित्याह —
यथेति ।
ज्ञाते मृत्पिण्डे कुतस्तद्विकारधीरित्याशङ्क्याह —
वाचेति ।
यो विकारः स वागालम्बनमुच्यते परं न वस्तुतोऽस्तीत्यर्थः ।
तत्र हेतुः —
नामधेयमिति ।
नाममात्रं नार्थोऽस्ति चेत्तर्हि घटादिवदसत्यत्वसम्भवात्कारणस्यापि कथं सत्यतेत्याशङ्क्याह —
मृत्तिकेति ।
उक्तदृष्टान्तादाकाशादेरपि मृषात्वात्कारणस्य सन्मात्रस्यैव सत्यत्वात्तज्ज्ञाने ज्ञातव्यशेषो नेति दार्ष्टान्तिकमाह —
एवमिति ।
कार्यस्य कारणमात्रत्वोपगमात्परस्यापि प्रतिज्ञासिद्धिरित्याशङ्क्याह —
नचेति ।
प्रतिज्ञाविरोधफलमाह —
तस्मादिति ॥ ८ ॥
तत्रैव प्रश्नपूर्वकं हेत्वन्तरमाह —
कुतश्चेति ।
प्रधानं न सच्छब्दवाच्यमित्यत्र चित्प्रतिबिम्बानां चिदात्मनि बिम्बे लयादिति व्यधिकरणो हेतुरित्याशङ्क्य प्रकरणानुसन्न्धानपूर्वकं सूत्रं व्याचष्टे —
तदेवेति ।
यत्र सुप्तौ पुंसः स्वपितीत्येतन्नाम भवति तदा पुरुषः सता सम्पन्नस्तेनैकीभूत इति योजना ।
प्रकरणेनैक्यप्रमितेः सच्छब्दलक्ष्यस्यैव चिद्बिम्बत्वान्न व्यधिकरणतेति सतश्चित्त्वं सूचयति —
स्वमिति ।
तत्र लौकिकप्रसिद्धिमाह —
तस्मादिति ।
तच्छब्दार्थं स्फुटयति —
स्वं हीति ।
उक्तश्रुतेस्तात्पर्यमाह —
एषेति ।
नामनिरुक्तिश्रुत्यक्षराणि व्याचष्टे —
स्वशब्देनेति ।
कथं भिन्नविषया गतिरात्मानमेव विषयीकुर्यादित्याशङ्क्योपसर्गाल्लयधीरित्याह —
अपिपूर्वस्येति ।
प्रसिद्धिमेव प्रकटयति —
प्रभवेति ।
एतेर्धातोर्गत्यर्थस्यापूर्वस्य लयार्थत्वेऽपि कथमनाद्यनन्तस्य लयः स्यादित्याशङ्क्य तदीयलयस्यौपाधिकत्वं वक्तुं जागरितमनुवदति —
मन इति ।
बुद्धिपरिणामा एवोपाधयस्तैरस्यार्थविशेषयोगाच्चक्षुरादीन्द्रियैस्तानेव स्थूलानर्थान्पश्यञ्जीवस्तद्विशेषेण स्थूलदेहेनैक्यारोपमापन्नो जागर्तीति व्यवह्रियत इत्यर्थः ।
स्वप्नमुपन्यस्यति —
तद्वासनेति ।
जाग्रद्वासनाभिर्विचित्राभिर्विशिष्टो मनोमात्रोपाधिर्जीवः स्वप्नानुच्चावचान्वासनामात्रदेहाननुभवन् ‘एवमेव खलु सोम्यैतन्मनः’ इति मनःशब्दवाच्य इति मनोद्वारा लक्ष्यो भवतीत्यर्थः ।
तथापि कुतोऽस्य लयोक्तिरित्याशङ्क्याह —
स इति ।
स्थूलं सूक्ष्मं चोपाधिद्वयं, तत्कृतो विशेषो गन्तृत्वद्रष्टृत्वादिः ।
स्वपितिनामनिरुक्तेरर्थवादत्वान्न श्रुतार्थतेत्याशङ्क्य तद्याथार्थ्यार्थं दृष्टान्तद्वयमाह —
यथेत्यादिना ।
तस्य हृदयशब्दस्यैतदेव निरुक्तं निर्वचनम् । ‘अशनापिपासे मे सोम्य विजानीहि’ इत्युपक्रम्याशितस्यान्नस्य द्रवीकरणेन नयनाज्जरणादापोऽशनायाः । छान्दसमेकवचनम् । एवमशनायाशब्दस्याप्सु प्रवृत्तौ मूलं दर्शयति - ‘आप एव तदशितं नयन्ते’ इति श्रुतिः । द्रावकोदकपाननयनात्तस्य शोषणादुदन्यं तेजः । आकारश्छान्दसः । एवमुदन्यशब्दस्य तेजसि प्रवृत्तौ निमित्तं ‘तेज एव तत्पीतं नयते’ इति श्रुतिर्दर्शयतीति योजना ।
दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति —
एवमिति ।
प्रधानस्य व्यापित्वादव्यापिजीवलयस्थानत्वयोगादुक्तहेतोरन्यथासिद्धिमाशङ्क्य चितोऽचित्त्वापत्तिरयुक्तेत्याह —
नचेति ।
स्वशब्दस्यात्मीयेऽपि शक्तत्वात्प्रधाने प्रवृत्तेरन्यथासिद्धितादवस्थ्यमाशङ्क्योक्तं स्फोरयति —
यदीति ।
स्वशब्दस्यात्मा मुख्योऽर्थस्तत्सम्बन्धादात्मीयो लक्ष्य इति तद्ग्रहस्यानौचित्यमेवमपीत्युक्तम् । मृदात्मनो घटस्य मृद्येव लयादात्मीये जलादावदृष्टेरित्यर्थः ।
स्वपितिनामनिरुक्तिश्रुत्यनुग्राहकत्वेन बृहदारण्यकश्रुतिं पठति —
श्रुत्यन्तरं चेति ।
तस्य तात्पर्यमाह —
सुषुप्तेति ।
हेतोरन्यथासिद्ध्यभावे फलितमाह —
अत इति ॥ ९ ॥
उपक्रमोपसंहारयोर्ब्रह्मण्येकवाक्यत्वं तात्पर्यलिङ्गमुक्त्वाभ्यासं लिङ्गान्तरं वक्तुं सूत्रान्तरं निक्षिपति —
कुतश्चेति ।
श्रुतिप्रामाण्यैक्यात्प्रत्युपनिषदमभ्यासेन चेतनकारणतावगतिरेकरूपेत्ययुक्तमनेकरूपत्वप्रसङ्गादित्याशङ्क्य कारणविषयत्वात्तर्कजन्यधीवदतुल्यत्वप्रसक्तिं वक्ति —
यदीति ।
वस्तुतश्चिदचिदात्मकमन्यदित्युक्तं विरुद्धार्थत्वात्तर्हि त्यागो वेदान्तानामित्याशङ्क्य तेषामेकार्थतया नयनादत्यागमाह —
तत इति ।
अस्तु तर्हि तेष्वपि कारणावगतेरनेकरूपत्वं, नेत्याह —
नत्विति ।
तर्हि जडाजडार्थवचसोः सालम्बनत्वाय द्व्यात्मके ब्रह्मण्येव गतिसामान्यमित्याशङ्क्य चिदेकरसे तस्याः सामान्यमाह —
समानेति ।
विस्फुलिङ्गप्रसङ्गार्थं ज्वलत इत्युक्तम् । विप्रतिष्ठेरन्नानागतित्वेन दिशो दशापि प्रसृताः स्युरित्यर्थः । प्राणाश्चक्षुरादयो यथायतनं यथागोलकं विप्रतिष्ठन्ते । विविधमुद्गच्छन्तीति यावत् । प्राणेभ्योऽनन्तरमादित्यादयस्तदनुग्राहका देवतास्ताभ्योऽनन्तरं लोक्यन्त इति लोका विषया भवन्तीत्यर्थः ।
अनुक्तानामपि वेदान्तानामुक्तैः सहास्मिन्नर्थे तात्पर्यं सूचयति —
आत्मन इति ।
जडाजडात्मकाखण्डरूपमात्मशब्दमिति कुतो विवक्षितधीरित्याशङ्क्य जडस्य स्वरूपाभासत्वादखण्डाजडचैतन्यमेवात्मेत्याह —
आत्मेति ।
स्वतःप्रामाण्यादेकस्यापि वाक्यस्य स्वार्थधीहेतुत्वात्तत्रानुग्राहकवाक्यान्तरोक्तिरनर्थिकेत्याशङ्क्याह —
महच्चेति ।
एकार्थत्वोक्त्या ज्ञानदार्ढ्याय वाक्यान्तरमित्यर्थः ।
वेदान्तानां चेतनकारणे तुल्यगतित्वे दृष्टान्तमाह —
चक्षुरादीनामिति ।
सर्वेषां चक्षू रूपमेव ग्राहयति न रसादि कस्यचिदिति रूपे चक्षुषो गतिसामान्यं दृष्टम् । रसनादीनामपि रसादिषु । तथा वेदान्तानामपि चेतनकारणत्वे तुल्यगतित्वमित्यर्थः ।
सूत्रार्थं निगमयति —
अत इति ॥ १० ॥
श्रुत्या स्फुटार्थतया ब्रह्मकारणत्वं वाच्यं, तथा सत्यन्यासां तदैकार्थ्यनिर्णयादित्युत्तरसूत्राकाङ्क्षामाह —
कुतश्चेति ।
‘तदैक्षत’ इत्यत्रेक्षणमात्रं कारणस्य श्रुतं न सर्वज्ञत्वं, तस्य सर्वार्थत्वादार्थिकी तद्धीः ।
श्वेताश्वतरे तु सर्वज्ञो जगद्धेतुरिति साक्षादुक्तम् । अतः सर्वोपनिषदां तदेकवाक्यत्वधीरित्याह —
श्रुतत्वाच्चेति ।
तद्व्याचष्टे —
स्वशब्देनेति ।
सर्वज्ञस्य वाचकेन शब्देनेति यावत् । सर्वश्चासौ ज्ञश्चेति ।
सर्वबाधशङ्कां वारयति —
ईश्वर इति ।
वक्ष्यमाणमन्त्रस्थसशब्दार्थमाह —
सर्वज्ञमिति ।
‘ज्ञः कालकालो गुणी सर्वविद्यः’ इति प्रकृत्य ‘स कारणम्’ इति परामर्शाज्जगद्धेतोः सर्वज्ञतेत्यर्थः ।
तस्य सर्वेश्वरत्वमाह —
करणेति ।
तेषामधिपाः स्वामिनो जीवास्तेषामधिपः परमेश्वरः । तस्य सर्वहेतुत्वार्थं विशेषणम् —
न चेति ।
जीवान्प्रतीश्वरत्वं हिरण्यगर्भादेरपीत्याशङ्क्य नियन्त्रन्तरं निरस्यति —
न चेति ।
महाप्रमेयमुपसंहरति —
तस्मादिति ।
अन्यदित्युक्तार्थः ॥ ११ ॥
वृत्तमनूद्योत्तरसन्दर्भमाक्षिपति —
जन्मादीति ।
ब्रह्मजिज्ञासां प्रतिज्ञायेति वक्तव्यम् ।
तेषामेतदर्थप्रतिपादनोपयुक्तन्यायग्रथनार्थमुत्तरः सन्दर्भोऽर्थवानित्याशङ्क्याह —
न्यायेति ।
अनुक्तवाक्यानां तत्परत्वं वक्तुमुत्तरो ग्रन्थ इत्याशङ्क्याह —
गतीति ।
अनुक्तसमन्वयाभावान्नोत्तरस्योत्थानमित्याह —
अत इति ।
उत्तरसूत्राणामगतार्थत्वं वक्तुमारभते —
उच्यत इति ।
तदर्थं वेदान्तेषु भासमानमर्थं सङ्क्षिपति —
द्विरूपं हीति ।
तत्र सोपाधिकविषयं वाक्यमुदाहरति —
यत्रेति ।
यस्यां खल्वविद्यावस्थायामाभासभूतं द्वैतं सदिव भाति तत्रेतरः सन्नितरं पश्यतीति दृष्ट्यादिगोचरमुपाधिमद्वस्तु वदतीत्यर्थः ।
निरूपाधिकविषयं वाक्यं पठति —
यत्र त्विति ।
यस्यां विद्यावस्थायामस्य विदुषः सर्वं कर्त्राद्यात्मातिरेकेणासदेवासीत्तत्र केन करणेन कं विषयं को वा कर्ता पश्येदित्याक्षेपादव्यवहार्यमनौपाधिकं तत्त्वमित्यर्थः ।
निरुपाधिके श्रुत्यन्तरमाह —
यत्रेति ।
यस्मिन्भूम्नि स्थितो विद्वानन्यद्रष्टव्यं चक्षुषा न पश्यति, अन्यच्च श्रोतव्यं श्रोत्रेण न शृणोति, न चान्यन्मन्तव्यं ज्ञातव्यं वा मनसा बुद्ध्या वा मनुते जानाति वा, स भूमा दृष्ट्याद्यगोचरो निरतिशयमहत्त्वसम्पन्नः परमात्मेत्यर्थः ।
तत्रैवावान्तरवाक्ये सोपाधिकमपि स्वरूपमुक्तमित्याह —
अथेति ।
निरुपाधिकभूमोक्त्यनन्तरं सोपाधिकमपि रूपमुच्यते । यस्मिन्परिच्छिन्ने वस्तुनि निष्ठो योऽविद्वानन्यद्द्रष्टव्यादि चक्षुरादिनाऽनुसन्धत्ते तदल्पं परिच्छिन्नमुपहितमित्यर्थः ।
भूम्नोऽल्पस्य च विशेषान्तरमाह —
यो वा इति ।
अथेति द्योतितो विशेषो वाक्येन प्रकटितः ।
सोपाधिकेऽन्तर्यामिणि श्रुत्यन्तरमाह —
सर्वाणीति ।
सर्वज्ञो हीश्वरो नामरूपादिकं विश्वं निर्माय तत्र प्रविश्याभिवदनादि कुर्वन्योऽवतिष्ठते तं विद्वानिहैवामृतो भवतीत्यर्थः ।
निरुपाधिके श्रुत्यन्तरमाह —
निष्कलमिति ।
निष्कलं निरंशं, निरंशत्वादेव सर्वक्रियाशून्यं निष्क्रियं, तस्मादेव शान्तमपरिणामि, रागादिरहितं निरवद्यं धर्माधर्माद्यसंम्बद्धं निरञ्जनम् ।
नभसोऽस्य विशेषमाह —
अमृतस्येति ।
यथा मृद्दारुमयः सेतुर्नदीकुल्यादिपरकूलप्राप्तेरुपायस्तथा संसारसागरस्य परं पारं परम्ब्रह्म तद्भावस्यामृतस्य वाक्योत्थबुद्ध्यभिव्यक्तं तदेव साधनं सेतुवदवस्थितम् । तस्योपशान्तत्वे दृष्टान्तमाह —
दग्धेति ।
यथा दग्धेन्धनोऽग्निः शाम्यति तथाऽज्ञानं तदुत्थं च दग्ध्वा स्थितं प्रशान्तं प्रसन्नं विद्यादित्यर्थः ।
इतिभ्यां विश्वं दृश्यमादाय नञ्भ्यां तन्निषेधादपि श्रुत्यन्तरं निरुपाधिकार्थमाह —
नेतीति ।
द्रव्यगुणादिसर्वद्वैतनिषेधादपि वाक्यं तथेत्याह —
अस्थूलमिति ।
रूपद्वये श्रुत्यन्तरमाह —
न्यूनमिति ।
निष्प्रपञ्चस्थानं न्यूनं परिच्छिन्नं, ततोऽन्यं निष्प्रपञ्चं मुक्तोपसृप्यं त्रिधापरिच्छित्तिशून्यं सच्चिदानन्दात्मकमित्यर्थः ।
उक्तवाक्यानामुपलक्षणत्वं विवक्षित्वोक्तम् —
एवमिति ।
ननु ब्रह्मणो न द्वैविध्यं, युगपदेकस्य तद्विरोधात् , तत्राह —
विद्येति ।
अद्वैतमेववास्तवं चेदुपास्योपासकादिभेदस्यावस्तुत्वादुपास्तिविध्यानर्थक्यमित्याशङ्क्याह —
तत्रेति ।
उपास्तीनामपि मुक्त्यर्थत्वाद्विद्यावद्वस्तुगामितेत्याशङ्क्य साक्षान्न मोक्षार्थतेत्याह —
तत्रेति ।
अभ्युदयार्थानि प्रतीकोपासनानि । क्रममुक्त्यर्थानि दहराद्युपासनानि । कर्मसमृद्ध्यर्थान्युद्गीथादिध्यानानि । यद्यपि विधेयत्वादेतानि कर्मकाण्डे युक्तानि तथापि मानसत्वेन विद्यासाम्यादिहोक्तानीत्यर्थः ।
उपास्यैक्यात्तत्प्राप्तेरुपास्तिफलत्वादुपास्तितत्फलभेदासिद्धिमाशङ्क्याह —
तेषामिति ।
परस्य गुणभेदादुपास्तिभेदाच्च भेदेऽपि स्वरूपाभेदादुपास्त्यादिभेदायोगतादवस्थ्यमाशङ्क्य स्वरूपाभेदेऽप्युपहितभेदमाह —
एक इति ।
उपास्तिप्रचयसंस्कारादुपास्यतद्गुणप्राप्तिरित्यत्र श्रुत्यन्तरमाह —
यथेति ।
क्रतुः सङ्कल्पो ध्यानम् ।
ध्यानसंस्कारप्रचयाद्ध्येयात्मतां ध्याता देहपाते प्रतिपद्यते किंवा तदापि पूर्ववद्ध्यातृत्वमेवेति संशये संस्कारप्रकर्षाद्देवतात्मत्वमेवाप्नोतीति निर्णेतुमाह —
स्मृतेश्चेति ।
सर्वत्रात्मैक्यात्तस्य कौटस्थ्यात्तस्यैवोपास्यत्वात्कुतस्तत्तारतम्यश्रुतिरित्याशङ्क्य नीहाराद्यावरणभेदादादित्यवद्विद्यातारतम्यादात्मा वस्तुतो निरतिशयोऽपि सातिशयो भातीत्याह —
यद्यपीति ।
यथोक्तस्याप्यात्मनः स्थावरादारभ्य ब्रह्मान्तेषु प्राणिषूत्तरोत्तरमाविष्टस्य बुद्ध्युपाधिशुद्ध्युत्कर्षतारतम्यात्प्रज्ञाधीनैश्वर्यशक्तिविशेषैस्तारतम्यम् । तस्योक्तोपाधिकस्य प्रकृतस्मात्मनो यो ध्याता स्वरूपमाविस्तरामतिशयेन प्रकटमुपास्तिवशाद्बुध्यते सोऽश्नुते ह्याविर्भूयेत्यैतरेयके श्रुतम् । तथा चोपास्यतारतम्यं श्रौतमौपाधिकं युक्तमित्यर्थः ।
उपास्येश्वरतारतम्यं भगवद्गीतास्वपि सिद्धमित्याह —
स्मृताविति ।
श्रुतिस्मृतितात्पर्यमाह —
यत्रेति ।
न केवलं द्वैविद्यं ब्रह्मणः श्रुतिस्मृत्योरेव सिद्धं किन्तु सूत्रकृतोऽपि मतमित्याह —
एवमिति ।
श्रुतिस्मृत्योरिव प्रकृतेऽपि शास्त्रे द्वैरूप्यं ब्रह्मणो भाति । तत्र सोपाधिकब्रह्मविषयमन्तस्तद्धर्माधिकरणमुदाहरति —
आदित्येति ।
उक्तन्यायं तुल्यदेशेषु प्रसारयति —
एवमिति ।
सोपाधिकोपदेशवन्निरुपाधिकोपदेशं दर्शयति —
एवमित्यादिना ।
आत्मज्ञानं निर्णेतव्यमिति सम्बन्धः ।
निर्णेयप्रसङ्गमाह —
परेति ।
अन्नमयाद्युपाधिद्वारोक्तस्य कथं परविषयत्वं, तत्राह —
उपाधीति ।
निर्णयक्रममाह —
वाक्येति ।
उक्तार्थमधिकरणं क्वास्तीत्याशङ्क्योक्तम् —
यथेति ।
अस्मिन्नेवाधिकरणे यथा निरुपाधिकं ब्रह्मैवोच्यते यथा द्युभ्वाद्यायतनमित्यादिष्वपीत्यर्थः ।
श्रुतिस्मृतिसूत्रेषु दृष्टं ब्रह्मद्वैरूप्यं शिष्ट्वाऽनन्तरसन्दर्भारम्भं सम्भावयति —
एवमिति ।
अपेक्षितोपाधिसम्बन्धमुपास्यत्वेन, निरस्तोपाधिसम्बन्धं च ज्ञेयत्वेनति सम्बन्धः । तस्याद्याप्यविवेकात्कुत्रोपाधिरिष्टः कुत्र वा नेति निरूपयितुमुत्तरग्रन्थ इत्यर्थः ।
सिद्धवदुक्तगतिसामान्यस्यापि साधनायेत्युत्तरस्योपयोगान्तरमाह —
यच्चेति ।
वाक्यान्तराणि । व्याक्यातातिरिक्तानीति यावत् ।
वेदान्तानामविशेषेण निर्विशेषे ब्रह्मणि समन्वये सिद्धे क्वचित्तस्य हिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादौ तदाभासे तदसत्त्वमुच्यत इत्यध्यायशेषारम्भे स्थिते निर्गुणविषयमेव तावदधिकरणं प्रस्तैति —
आनन्दमय इति ।
तस्य वृत्तिकारमतेन विषयमाह —
तैत्तिरीयक इति ।
अन्नरसविकारो देहोऽन्नमयः, प्राणोपाधिरात्मा प्राणविकारः प्राणमयः, मनोमयस्तदुपाधिरात्मा तद्विकारः, विज्ञानमयो विज्ञानोपाधिरात्मा विज्ञानविकारः । यद्वा भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिकान्नादिकोशा विकारास्तदेतच्चतुष्टयं ‘स वा एषः’ इत्यादिना क्रमेणोक्त्वानन्दमय उक्तः ‘तस्मादन्योऽन्तर आत्मा विज्ञानमयः’ इति सूत्रितादित्येतत्तस्यैव स्मृत्यर्थो वैशब्दः । एतस्मात् ‘तस्य श्रद्धैव शिरः’ इत्यादिना व्याख्यातात् ।
ततोऽन्यत्वं मनोमयस्यापीत्यत उक्तम् —
अन्तर इति ।
तस्मादानन्दमयशब्दे मयटो विकारप्राचुर्यसाधारण्याद्विचारबीजं संशयमाह —
तत्रेति ।
ईक्षत्यधिकरणे मुख्यसम्भवे गौणस्यानवकाशत्वाद्विषयानुदये प्रायपाठस्याकिञ्चित्करत्वादमुख्येक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यं तदित्युक्तम् । इह तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विषयोदये प्राचुर्यार्थात्प्रायदृष्टेर्व्यावर्तकत्वात्पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोन्मेषात्प्रत्युदाहरणात्मिकां सङ्गतिं विवक्षन्नाकाङ्क्षाद्वारा पूर्वपक्षयति —
किमिति ।
श्रुत्यादिसङ्गतिचतुष्टयं फलं च वक्ष्यते । मयटः साधारण्येऽपि विशेषग्रहे हेतुर्नास्तीति —
कस्मादिति ।
विकारप्रायपाठं हेतुमाह —
अन्नेति ।
प्रायपाठेऽपि प्रकरणाल्लिङ्गं बलवदित्याह —
अथापीति ।
सावयवत्वशारीरत्वलिङ्गाभ्यां मयट्श्रुत्या चानुगृहीतं प्रकरणमेव प्रबलमित्याह —
न स्यादिति ।
सावयवत्वस्यान्यथासिद्धिं प्रत्याह —
मुख्यश्चेदिति ।
तस्य निष्कलत्वश्रुत्या निरंशत्वादित्यर्थः ।
आनन्दमयेऽपि कुतः सावयवत्वं, तत्राह —
इह त्विति ।
लिङ्गान्तरं विभजते —
शारीरत्वं चेति ।
व्यवहितान्वयेनाभीष्टार्थदृष्टौ व्याचष्टे —
तस्येति ।
शारीरत्वेऽपि परमात्मत्वं किं न स्यात् , तत्राह —
न चेति ।
प्रियादिस्पर्शित्वे च संसारित्वमित्यर्थः ।
का तर्हि सर्वान्तरत्वस्य गतिरित्याशङ्क्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्याह —
तस्मादिति ।
उक्तं प्रकारणादि तच्छब्दार्थः । आनन्दमये संसारिण्युपास्तिद्वारा दुःखरहितप्रियादियुक्तस्वरूपावस्थानं फलं वक्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।
सौत्रीं प्रतिज्ञां विभजते —
पर एवेति ।
प्रकरणादिना तस्य संसारित्वे प्रतिज्ञानुपपत्तिरित्याह —
कुत इति ।
हेतुमादाय व्याकरोति —
अभ्यासादिति ।
आनन्दशब्दाभ्यासे कथमानन्दमयस्य ब्रह्मतेत्याशङ्क्य ब्रह्मणि प्रयुक्तपूर्वस्य तस्य प्रकरणादानन्दमये प्रयोगाज्ज्योतिष्टोमाधिकारे ज्योतिःशब्दाभ्यासवदानन्दमयाधिकारे तत्पदाभ्यासस्य तद्विषयत्वादित्याह —
आनन्दमयमिति ।
रसः सारः । अन्नमयादिकोशचतुष्टयान्तरत्वादानन्दमयोऽयम् । लब्ध्वा ध्याता ।
पूर्णश्चेदानन्दः सर्वसाक्षी सर्वप्रेरको न स्यात्तदा प्राणादेरचेतनस्य चेष्टा न युक्तेत्याह —
को हीति ।
सर्वानन्दयितृत्वादपि परानन्दत्वमस्येत्याह —
एष हीति ।
'युवा स्यात्’ इत्यादिना सार्वभौममारभ्य ब्रह्मान्तमुत्तरोत्तरमुत्कुष्टानन्दस्य ब्रह्मणि समाप्तिफला मीमांसा ‘सैषा’ इत्युक्ता । मयडन्तस्याभ्यासमाह —
एतमिति ।
उपसङ्क्रमणं प्राप्तिर्ब्रह्मणः स्वरूपमिति शेषः ।
गतिसामान्यार्थं ब्रह्मण्यानन्दशब्दस्यान्यत्रापि प्रयुक्तत्वमाह —
श्रुत्यन्तरे चेति ।
तथापि कथमानन्दमयस्य ब्रह्मत्वमित्याशङ्क्य हेत्वर्थमुपसंहरति —
एवमिति ।
अभ्यासात्तस्य चाधिकारादानन्दमयार्थत्वादिति शेषः ।
लिङ्गात्तस्य ब्रह्मत्वमुक्त्वा तदब्रह्मत्वहेतुं प्रायपाठमनुवदति —
यत्त्विति ।
लिङ्गबाध्यः सन्निधिरित्याह —
नासाविति ।
तस्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्युक्तमाशङ्क्य तात्पार्यमाह —
मुख्यमिति ।
किमिति तर्हि प्रथममन्नमयादिचतुष्टयमादिष्टं, तत्राह —
लोकेति ।
कथं तर्हि देहे मनुष्योऽहमित्यात्मत्वधीरित्याशङ्क्याविवेकादित्याह —
अत्यन्तेति ।
अन्नमयात्प्राणमयस्य ततो मनोमयस्य तस्मादपि विज्ञानमयस्य ततश्चानन्दमयस्यान्तरत्वे दृष्टान्तः —
मूषेति ।
तर्हि प्राणमयादेरेवान्यतमस्यात्मत्वसम्भवे किमानन्दमयेनेत्याशङ्क्याह —
पूर्वेणेति ।
अनात्मत्वेन साम्ये तत्तज्ज्ञापनमकिञ्चित्करमित्याशङ्क्य लोकबुद्धिमनुवदन्ननुसरदित्युक्तं स्मारयति —
प्रतिपत्तीति ।
आनन्दमयादन्यस्यान्तरस्यानुक्तेरस्य निरङ्कुशमान्तरत्वमित्याह —
सर्वेति ।
अमुख्यप्रवाहपातेऽपि मुख्यत्वे दृष्टान्तमाह —
यथेति ।
इहापीति ।
अमुख्यप्रवाहे पतितस्यापीति यावत् ।
लिङ्गेन सन्निधिबाधेऽपि सावयवत्वलिङ्गानुगृहीतः स बलवानित्याशङ्क्योक्तमनुवदति —
यत्त्विति ।
तस्य विज्ञानमयकोशोपाध्यधीनत्वेनान्यथासिद्धेर्न सन्निधिसहायतेत्याह —
अतीतेति ।
लिङ्गान्तरं सन्निधिसहायत्वेनोक्तमनुवदति —
शारीरत्वमिति ।
लिङ्गयोरन्यथासिद्धत्वे लिङ्गेन केवलसन्निधिबाधे फलितमाह —
तस्मादिति ॥ १२ ॥
मयट्शब्दश्रुतिः सन्निध्यनुग्राहिकेत्युक्तमनूद्य निरस्यति —
विकारेति ।
तत्रानुवादं व्याख्याति —
अत्राहेति ।
अभ्यासादिना तस्य परत्वे स्थिते कुतश्चोद्यमित्याह —
कस्मादिति ।
बलवत्या श्रुत्योत्तरमाह —
विकारेति ।
यथा ‘विकारे च प्रकृतिशब्दः’ इत्यत्र शालिविकारं भुङ्क्ते मुद्गविकारेणेत्यस्मिन्नर्थे शालीन्भुङ्क्ते मुद्गैरिति प्रकृतिशब्दो विकारे प्रयुक्तः, तथा विकारशब्दोऽपि प्रकृतौ स्यादित्याशङ्क्य व्याचष्टे —
प्रकृतीति ।
कः पुनरत्र विकारशब्द इत्युक्ते ‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दस्य विकारवाचित्वान्नानन्दमयस्य मुख्यात्मतेत्याह —
आनन्देति ।
श्रुतेर्विकारार्थत्वे तद्युक्तः सन्निधिः संसारिणमेव गोचरयतीत्याह —
तस्मादिति ।
मयटो विकारार्थत्वानियमान्न श्रुत्यनुग्रहः सन्निधेरित्याह —
नेति ।
तदेव स्फुटयति —
तत्प्रकृतेति ।
प्राचुर्येण प्रस्तुतं प्रकृतं, तदुच्यतेऽस्मिन्निति प्रकृतवचनमन्नादि । तदिति प्रथमासमर्थाद्यथोक्तेऽभिधेये मयट्प्रत्ययो भवतीति प्रचुरतायुक्तेऽपि वस्तुनि विकारवन्मयट्स्मरणान्न विकारार्थता नियतेत्यर्थः ।
प्राचुर्यार्थत्वं मयटो दृष्टान्तेन स्पष्टयति —
यथेति ।
आनन्दमयशब्दस्यानन्दप्राचुर्यार्थत्वे तद्विपरीतदुःखस्यापि लेशतो ब्रह्मणि प्राप्तिरित्याशङ्क्याह —
आनन्देति ।
ब्रह्मानन्दस्य मनुष्यत्वावधिषु पूर्वस्थानेषु सुखाल्पत्वापेक्षं प्राचुर्यं न स्वगतदुःखलेशापेक्षम् । अतो ब्रह्मण्यानन्दैकरस्यं युक्तमित्यर्थः ।
श्रुतेर्न सन्निधिसहायतेत्युपसंहरति —
तस्मादिति ॥ १३ ॥
सूत्रस्थं चकारं व्याकरोति —
इतश्चेति ।
अवशिष्टं व्याकुर्वन्नितःशब्दार्थं स्फुटयति —
यस्मादिति ।
ब्रह्मणो नात्रानन्दहेतुत्वं भातीत्याशङ्क्याह —
आनन्दयतीत्यर्थ इति ।
ब्रह्मणो लौकिकानन्दहेतुत्वेऽपि कथं प्राचुर्यार्थता मयटः स्यादित्याशङ्क्याह —
यो हीति ।
तदेव तद्दृष्टान्तेन स्फोरयति —
यथेति ।
प्राचुर्यार्थत्वे मयटः स्थिते फलितमाह —
तस्मादिति ॥ १४ ॥
चशब्दार्थमाह —
इतश्चेति ।
तदेव हेत्वन्तरमाह —
यस्मादिति ।
तस्मादिति व्यवहितेन सम्बन्धः । यन्निर्धारितं तदेवेह गीयत इति योजना ।
प्रकरणाविच्छेदार्थं तदनुसन्धत्ते —
यस्मादिति ।
भूतयोनेरेव सर्वप्रत्यक्तमत्वेन सर्वान्तरत्वमाह —
यच्चेति ।
तस्यैव ज्ञेयत्वेन प्रकृतत्वमाह —
यस्येति ।
तदेवात्रोच्यमानमिति कुतो गम्यते, तत्राह —
मन्त्रेति ।
अविरोधादिति ।
एकार्थत्वे सत्युपायोपेयत्वयोगादित्यर्थः ।
तयोरनेकार्थत्वे दोषमाह —
अन्यथेति ।
अन्नमयादीनामनात्मत्वेऽप्यविरोधवदिहापि स्यादित्याशङ्क्याह —
नचेति ।
ब्रह्मणस्तदान्तरत्वं पुच्छश्रुतिहतमिति भावः ।
किञ्च भृगुवल्ल्यां पञ्चमपर्यायेणोपसंहारात्तस्य ब्रह्मार्थत्ववदत्रापि तस्य स्थानात्तदर्थतेत्याह —
एतन्निष्ठेति ।
प्रकरणादिसिद्धमर्थमुपसंहरति —
तस्मादिति ॥ १५ ॥
पूर्वसूत्रस्थं चकारमाकृष्य सूत्रस्य हेत्वन्तरपरत्वमाह —
इतश्चेति ।
जीवस्य प्रतिपाद्यत्वाप्राप्त्या किं निषेध्यमित्यशङ्क्यानन्दमयशब्दवाच्यतेत्याह —
नेति ।
तस्यापि वैषयिकविविधानन्दभाक्त्वात्तच्छब्दत्वं किं न स्यादित्याह —
कस्मादिति ।
हेतुमादाय व्याकर्तुं भूमिकां करोति —
अनुपपत्तिरिति ।
आलोचनं तपो नायासमयम् ।
असत्वेवं कानुपपत्तिः, तत्राह —
तत्रेति ॥ १६ ॥
जीवस्यानन्दमयत्वनिषेधे हेत्वन्तरमाह —
भेदेति ।
चकारार्थं प्रतिज्ञाय प्रकटयन्भेदव्यपदेशं विशदयति —
इतश्चेत्यादिना ।
स इत्यानन्दमयपरामर्श इति वक्तुमानन्दमयाधिकार इत्युक्तम् । श्रुतेरर्थमाह —
जीवेति ।
कयानुपपत्त्या भेदोक्तिः, तत्राह —
नहीति ।
लब्धैव लब्धव्यो नचेत् तर्हि श्रुतिस्मृत्योरनुपपत्तिरिति शङ्कते —
कथमिति ।
का तयोरनुपपत्तिः, तत्राह —
यावतेति ।
किमेकत्र वस्तुतो न लब्धृलब्धव्यत्वं किंवा कल्पनयापि । तत्राद्यमङ्गीकरोति —
बाढमिति ।
श्रुत्याद्युपपत्तये द्वितीयं प्रत्याह —
तथापीति ।
अप्रच्युतात्मभावोऽखण्डैकरस्यम् । लौकिको लोकादनपेतोऽप्रामाणिकः ।
तस्य फलवत्त्वमाह —
तेनेति ।
अन्वेषणं विचारारम्भमात्रं, तत्फलाप्तिर्लाभः, श्रवणं शक्तितात्पर्यधीरिति भेदः । द्रष्टृद्रष्टव्यत्वादिसङ्ग्रहार्थमादिपदम् जीवत्वेनानन्दमयस्य जीवस्याविद्ययापि जीवाद्भेदाभावान्न भेदव्यपदेशः स्यादिति भावः ।
किमिति कल्पितभेदेन लब्धृलब्धव्यत्वाद्युच्यते, श्रुत्यादिवशाद्वास्तावो भेदोऽस्त्वित्याशङ्क्याह —
प्रतिषिध्यत इति ।
जीवश्चेन्नेश्वरादन्यस्तर्हि सोऽपि ततोऽन्यो नेति तस्यापि कल्पितत्वमित्याशङ्क्याह —
परमेश्वरस्त्विति ।
कल्पितस्याधिष्ठानादृते सत्त्वाद्ययोगाद्भेदेनासत्त्वेऽपि ततोऽन्यदेवाधिष्ठानं, सत्तास्फूर्त्योः स्वातन्त्र्यादिति मत्वा दृष्टान्तमाह —
यथेति ।
सूत्रारूढः स्वतोऽपि मिथ्या, जीवे भेदमात्रं तथा, न स्वरूपमित्यपरितोषादुक्तम् —
यथा वेति ।
तथापि सूत्रद्वयसामर्थ्यात्पारमार्थिकं भेदमाशङ्क्याह —
ईदृशं चेति ।
अन्यथा श्रुतिसूत्रविरोध इति भावः ॥ १७ ॥
नन्वौपचारिकस्य कामयितृत्वस्य प्रधानेऽपि सम्भवात्तदेवानन्दमयत्वेन कारणत्वेन वापेक्ष्यतां, न परमात्मेत्याशङ्क्याह —
कामाच्चेति ।
तद्व्याख्याति —
आनन्देति ।
ईक्षत्यधिकरणे प्रधानस्य निरस्तत्वादिहापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह —
ईक्षतेरिति ।
प्रासङ्गिकनिरासस्य प्रकृतोपयोगमाह —
गतीति ॥ १८ ॥
आनन्दमयस्य प्रधानजीवयोरन्यतरत्वाभावे हेत्वन्तरं कामयितृत्वस्यागौणत्वं सूचयन्नाह —
अस्मिन्निति ।
चशब्दार्थमाह —
इतश्चेति ।
अस्मिन्नित्यादि व्याकुर्वन्नितःशब्दार्थं स्पष्टयति —
यस्मादिति ।
प्रधानपक्षेऽपि तद्योगः स्यादित्याशङ्क्याह —
तदात्मनेति ।
स्वतो भिन्नयोस्तादात्म्यसम्बन्धं व्यावर्तयति —
तद्भावेति ।
उक्तार्थं पदमनूद्य क्रियापदापेक्षितं पूरयति —
तद्योगमिति ।
यस्यामैक्यज्ञानावस्थायां विद्वानेतस्मिन्ब्रह्मणि पञ्चीकृतभूतपञ्चकेन, तत्कार्येण च समष्टिस्थूलदेहेन विराजा दृश्यशब्दितेनैक्यतादात्म्यशून्ये, स्वसम्बन्धितयाध्यस्तेन्द्रयजातेनापञ्चीकृतभूतकार्येणात्म्येन तादात्म्यादिहीने, निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चाभेदवर्जिते, निःशेषलयस्थानं निलयनमिति मूलप्रकृतेरुक्तेस्तत्तादात्म्यादिरहिते, प्रकर्षेण स्थितिं पुनरावृत्तिरहितां लभते ।
अभयं यथा स्यादित्युक्तं व्यनक्ति —
अथेति ।
ज्ञाने फलमुक्त्वा ज्ञानाभावे दोषमाह —
यदा हीति ।
भेदस्यानादित्वात्तत्कारणाधीनदोषोक्तिरयुक्तेत्याशङ्क्याह —
एतदिति ।
‘अभयं प्रतिष्ठाम् ‘ इत्युक्त्वा पुनः ‘अभयं गतो भवति’ इत्युक्ते पुनरुक्तिरित्याशङ्क्याह —
यदा त्विति ।
शास्त्रस्यान्यथासिद्धिं प्रत्याह —
तच्चेति ।
वृत्तिकृतां मतमुपसंहरति —
तस्मादिति ।
परस्य ज्ञेयत्वे कैवल्यं फलतीति मत्वाह —
इति स्थितमिति ।
अत्र चानन्दमये परस्मिन्नात्मनि स्पष्टब्रह्मलिङ्गानां तैत्तिरीयकश्रुतीनां समन्वयादस्ति सङ्गतिचतुष्टयमिति स्वमतसङ्ग्रहार्थं स्वयूथ्यमतं दूषयति —
इदं त्विति ।
इहेति परस्य व्याख्योक्तिः ।
पर्यायचतुष्टये मयटो विकारार्थत्वात्पञ्चमे पर्याये तादर्थ्यमिति प्रकरणं दर्शयति —
स वा इति ।
‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दो विकारे श्रुतिरिति वक्तुं विकारार्थे मयडित्युक्तम् । विकारप्रकरणं प्रकटयितुं प्रवाहपदम् ।
प्रियाद्यवयवत्वस्य विकारार्थे लिङ्गत्वात्प्राचुर्यार्थत्वे च हेत्वभावान्मयटो न तदर्थतेत्याह —
आनन्देति ।
एकस्यैव मयटोऽर्थद्वयं नेत्यत्र दृष्टान्तमाह —
अर्धेति ।
श्रुतिलिङ्गप्रकरणविरोधेन प्राचुर्यार्थत्वे मयटो दृष्टान्तोऽपि नास्तीत्याह —
कथमिति ।
विकारार्थत्वे निश्चिते तद्वाक्यस्य न ब्रह्मार्थतेत्याह —
ब्रह्मेति ।
कथंशब्दस्य प्रश्नार्थतामुपेत्य प्रकरणेन शङ्कते —
मान्त्रेति ।
न प्रकरणमात्रं नियामकमतिप्रसक्तेरित्याह —
अन्नेति ।
तेषामब्रह्मत्वं लिङ्गादिति शङ्कते —
अत्रेति ।
आनन्दमयादपि पुच्छं ब्रह्मान्यदान्तरमुक्तमित्याशङ्क्याह —
आनन्देति ।
ब्रह्मण्यान्तरत्वमश्रुतं, पुच्छत्वं तु श्रुतमित्यर्थः ।
तस्मादान्तरस्यानुक्तौ प्राकरणिकमर्थमाह —
तेनेति ।
तस्याब्रह्मत्वे दोषमाह —
अन्यथेति ।
किमानन्दमयादान्तरत्वेनान्यस्यानुक्तेस्तस्य ब्रह्मत्वं, किंवान्यस्यैवानुक्तेरिति विकल्पयति —
अत्रेति ।
तत्रानन्दमयादान्तरस्याश्रुतिमुपेत्य ब्रह्मत्वं प्रत्याह —
यद्यपीति ।
अन्यस्य पुच्छब्रह्मणोऽभिधानादिति हेतुं ब्रुवन्द्वितीयं निराह —
यत इति ।
इष्टार्थदृष्टौ व्यक्तं हर्षमात्रं प्रियम् । इष्टस्मृतौ हर्षो मोदः । स चाभ्यासात्प्रकृष्टः प्रमोदः । सुखमात्रमानन्दः ।
मन्त्रवर्णोक्तं ब्रह्म, पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञातम् । ब्रह्मत्वे त्वानन्दमयस्य ब्रह्मशब्दस्यान्यत्र वृत्तिः, आनन्दमयशब्दस्य ब्रह्मण्यप्रयुक्तस्य तस्मिन्प्रयुक्तिश्चेत्ययुक्तं स्यादिति श्रुतितात्पर्यमाह —
तत्रेति ।
आनन्दमयस्याब्रह्मत्वे तदुक्तिवैयर्थ्यमाशङ्क्यान्नमयादिवत्पुच्छब्रह्मज्ञापनार्था तदुक्तिरित्याह —
तदिति ।
यदुक्तमानन्दमयस्याब्रह्मत्वे प्रकृतहानमप्रकृतप्रक्रिया चेति, तत्राह —
तत्रेति ।
पुच्छब्रह्मवाक्यस्य स्वप्रधानब्रह्मार्थत्वे सतीति यावत् ।
पुच्छश्रुतिविरोधान्न तस्य स्वप्रधानार्थतेति शङ्कते —
नन्विति ।
पुच्छशब्दस्यात्रावयवार्थत्वाभावे प्रकरणविरोधमाह —
अन्नेति ।
पुच्छश्रुतेरवयवार्थत्वे फलितमाह —
तत्रेति ।
स्वप्रधानब्रह्माधिकाराद्ब्रह्मशब्दात्तथैव तत्प्रत्यभिज्ञाने पुच्छशब्दविरोधे सत्येकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात्पुच्छत्वेन गुणत्वबाधया स्वप्रधानब्रह्मधीरित्याह —
प्रकृतत्वादिति ।
अन्यथापि प्रकृतत्वं स्यादित्याह —
नन्विति ।
किं प्रकृतं ब्रह्मानन्दमयवाक्ये पुच्छवाक्ये चोच्यते, किंवैकत्रेति विकल्पयति —
अत्रेति ।
प्रथमं प्रत्याह —
तथेति ।
अवयवावयवित्वस्य कल्पितत्वेऽप्यन्नमयादिष्विवैकत्र गुणप्रधानत्वायोगात् ।
यदि द्वितीयः, तत्राह —
अन्यतरेति ।
अन्यतरस्मिन्वाक्ये ब्रह्मोक्तिस्वीकारे सतीत्यर्थः ।
वाक्यशेषादपि पुच्छवाक्य एवोच्यते स्वप्रधानं ब्रह्मेत्याह —
अपिचेति ।
श्लोकस्यानन्दमयार्थत्वमाशङ्क्य तात्पर्यमाह —
अस्मिंश्चेति ।
प्रतिष्ठेत्यत्रैवेति सम्बन्धः ।
आनन्दमयस्यैव ब्रह्मणो भावाभावधियोर्गुणदोषोक्तिरित्याशङ्क्याह —
न चेति ।
पुच्छवाक्ये ब्रह्मशब्देन स्वप्रधानोक्तौ पुच्छशब्दस्य का गतिरिति पृच्छति —
कथमिति ।
तस्य ब्रह्मणि वृत्तिमात्रं वान्विष्यते किं मुख्या वा वृत्तिः । आद्ये, पूर्वोक्तपृथिव्यादिपुच्छेष्वाधारत्वदृष्ट्या ब्रह्मण्यपि सर्वाधारे लक्षणया पुच्छपदमित्याह —
नेति ।
न द्वितीयः, प्रतिष्ठाशब्दविरोधादित्याह —
प्रतिष्ठेति ।
पुच्छत्वेऽपि परायणत्वं वारयति —
एकेति ।
नीडत्वमाश्रितापेक्षं, तदाह —
लौकिकस्येति ।
पूर्वस्योत्तरेण निर्णयान्नावयवार्थतेति फलितमाह —
अनेनेति ।
उक्तेऽर्थे बृहदारण्यकं संवादयति —
एतस्येति ।
ननु वृत्तिकारैरपि तैत्तिरीयकवाक्यं ब्रह्मण्येव समन्वितमिष्टं, तत्र किमुदाहरणभेदेनेत्याशङ्क्याह —
अपिचेति ।
नन्विह सविशेषमेव ब्रह्मेष्टं, वाक्यशेषे रागादिमतोर्वाङ्भनसयोरगोचरो ब्रह्म, शुद्धधियोस्तु गोचर इत्यभ्युपगमादित्याशङ्क्य सविशेषस्य मृषात्वादप्राप्तनिषेधापाताच्च मैवमित्याह —
निर्विशेषं त्विति ।
अतोऽभीष्टनिर्विशेषब्रह्मसिद्धये पुच्छवाक्यमेवोदाहर्तव्यमिति भावः ।
मयटो विकारार्थत्वोक्त्या प्राचुर्यार्थत्वं निरस्यता पुच्छवाक्ये स्वप्रधानब्रह्मोक्तिरुक्ता । सम्प्रति प्राचुर्यार्थत्वे दोषान्तरमाह —
अपिचेति ।
स्वप्रकृत्यर्थप्रतियोग्यल्पतामत्रैवानपेक्ष्य स्थानान्तरस्थतत्सजातीयाल्पत्वापेक्षामात्रेण मयटोऽप्रयोगादित्यर्थः ।
अतिमधुरे रुच्यर्थं रसान्तरानुवेधवदानन्दे प्रीत्युत्कर्षार्थमीषद्दुःखानुषक्तिरिष्टेत्याशङ्क्याह —
तथाचेति ।
प्राचुर्यार्थताभावान्मयटो नानन्दमयो ब्रह्मेत्यत्रैव हेत्वन्तरमाह —
प्रतिशरीरं चेति ।
प्रतिदेहं सातिशयत्वेन भिन्नादानन्दमयाद्ब्रह्म सर्वानुगतमन्यदेवेत्यर्थः ।
यत्त्वभ्यासात् ‘आनन्दमयो ब्रह्म’ इति तत्र किमानन्दमयशब्दस्याभ्यासः किं वानन्दशब्दस्येति विकल्प्याद्येऽसिद्धिमाह —
न चेति ।
आनन्दमयं प्रकृत्य ब्रह्मणि प्रयुक्तपूर्वानन्दशब्दस्याभ्यासो हेतुरिति द्वितीयं निरस्यति —
यदिचेति ।
आनन्दमयस्य ब्रह्मत्वे प्रातिपदिकमात्राभ्यासोऽपि प्रकृतानन्दमयार्थः । ततस्तस्य ब्रह्मताधीरित्यन्योन्याश्रयतेति भावः ।
आनन्दपदाभ्यासस्तर्हि किंविषयः, पुच्छवाक्योक्तब्रह्मविषयः, इत्याह —
तस्मादिति ।
आनन्दाभ्यासस्यानन्दमयार्थत्वायोगस्तच्छब्दार्थः ।
मयडन्तस्याप्यभ्यासात्कथं तदभ्याससिद्धिः, तत्राह —
यस्त्विति ।
उपसङ्क्रमितव्यानां विवेकेन त्याज्यानामित्यर्थः ।
अन्नमयादावुपसङ्क्रमस्य विद्वत्फलाप्त्यर्थत्वादानन्दमयस्याब्रह्मत्वे ब्रह्माप्तेरनुक्तेः प्रक्रमभङ्ग इति शङ्कते —
नन्विति ।
किमिहोपसङ्क्रमणं प्राप्तिः, अतिक्रमो वा । आद्ये, अवयविप्राप्त्याऽवयवप्राप्तेरार्थिकत्वात्पुच्छब्रह्माप्तिरुक्तैव । द्वितीये, न ह्यतिक्रमस्य परतीराप्तिवत्कोशातिक्रमस्य ब्रह्माप्तित्वात्तत्प्राप्तिरर्थादुक्तेत्याह —
नैष इति ।
ब्रह्माप्तेर्मन्त्रेण वक्ष्यमाणत्वाच्च तदनुक्तिरसिद्धेत्याह —
तदपीति ।
यत्तु ‘सोऽकामयत’ इत्याद्यानन्दमयार्थं सत्तद्ब्रह्मत्ववोधीति, तत्राह —
या त्विति ।
‘रसो वै सः’ इत्यादेरुत्तरस्यानन्दमयार्थमुक्तं प्रत्याह —
तदपेक्षत्वादिति ।
‘सोऽकामयत’ इत्यादि ब्रह्मण्ययुक्तं, नपुंसके पुंलिङ्गायोगादिति शङ्कते —
नन्विति ।
प्रक्रमेण समाधत्ते —
नायमिति ।
यत्तु भृगुवल्ल्यां पञ्चमपर्यायस्य ब्रह्मार्थत्वादिहापि तादर्थ्यं स्थानादिति, तत्राह —
या त्विति ।
इह मयटो विकारार्थस्य प्रियशिरस्त्वादेश्च श्रुतेरान्दमयस्याब्रह्मतेति शेषः ।
ब्रह्मणो निर्विशेषस्य नानन्दमयतेत्युपसंहरति —
तस्मादिति ।
इष्टदृष्टेः तल्लाभात् , तत्स्मृतेश्चाभिव्यक्ताः मुखविशेषाः तन्मात्रं च प्रियादिशब्दार्थ इत्युक्तम् । सत्त्वोपसर्जनात्तमसस्तदुपसर्जनाद्रजसो द्वयोरुपसर्जनात्सत्त्वात्केवलाच्चाभिव्यक्तं सुखं तत्तच्छब्दवाच्यमित्याचार्याः । तेन विषयसम्बन्धं सत्त्वादिसम्बन्धं वा विशेषमीषन्मात्रमप्यनाश्रित्य ब्रह्मणः स्वतो न प्रियशिरस्त्वादि युक्तम् । तस्मादानन्दमयस्य सविशेषत्वात्प्रतिपाद्या ब्रह्मणोऽन्यतेत्यर्थः ।
इहापि सविशेषमेव प्रतिपाद्यमित्याशङ्क्योक्तं स्मारयति —
नचेति ।
परमतनिरासमुपसंहरति —
तस्मादिति ।
स्वमते सूत्राणामननुगुणत्वमाशङ्क्य तानि योजयितुमुपक्रमते —
सूत्राणीति ।
व्याख्यामेवाख्यातुं विषयमुक्त्वा पुच्छब्रह्मशब्दाभ्यां संशयमाह —
ब्रह्मेति ।
स्वप्रधानत्वेनेति ।
संशये सतीति शेषः ।
पूर्वाधिकरणे मुख्येक्षणाद्ब्रह्मनिर्णये गौणः प्रायपाठो बाधितः । इह त्वाधारमात्रत्वेऽवयवमात्रत्वे च पुच्छशब्दस्य लाक्षणिकत्वसाम्येऽवयवप्रायदृष्टेरवयवार्थतेति सङ्गत्या पूर्वपक्षयति —
पुच्छेति ।
तैत्तिरीयोपनिषदः स्पष्टब्रह्मलिङ्गाया निर्गुणब्रह्मान्वयोक्तेः श्रुत्यादिसङ्गतयः । परपक्षे पूर्वोत्तरपक्षयोरुपास्तिरेव फलम् । इह पूर्वपक्षे तथा सिद्धान्ते प्रमितिः ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
इति प्राप्त इति ।
स्वयूथ्यव्याख्यां व्यावृत्य स्वाभिमतां व्याख्यामाह —
आनन्दमय इति ।
आनन्दमयशब्देन पञ्चमपर्यायस्थपुच्छवाक्यस्थं ब्रह्मपदमुपलक्ष्य तेन स्वप्रधानमेव ब्रह्मोच्यत इति प्रतिज्ञायां हेतुं व्याख्याति —
असन्नेवेति ।
पूर्वपक्षबीजमनुभाष्यं दूषयति —
विकारेति ।
वाचकत्वाभावादभिप्रेत इत्युक्तम् । परिहारभागमवतार्य व्याकरोति —
अत्रेत्यादिना ।
ब्रह्माधिकरणमिति वाच्ये पूर्वत्रावयवप्रधानप्रयोगात्तस्य बुद्धिस्थत्वात्तेनाप्यधिकरणलक्षणात्पुच्छोक्तिरिति तात्पर्यमाह —
अवयवेति ।
तदेव प्रपञ्चयति —
अन्नेति ।
तत्र गमकमाह —
यदिति ।
इतश्च पुच्छवाक्ये पुच्छशब्देनावयवो नोच्यते किन्त्वाधारो लक्ष्यत इत्याह —
तद्धेत्विति ।
तद्व्याचष्टे —
सर्वस्येति ।
तथापि कस्मादानन्दमयावयवत्वं ब्रह्मणो नेष्यते, तत्राह —
नचेति ।
इतश्चानन्दमयः परमात्मा, यतः ‘सत्यम् ‘ इत्यादिमन्त्रवर्णेन यद्ब्रह्मोक्तं तदेवानन्दमयशब्देन विशिष्टद्वारा लक्ष्यमाणजीवचैतन्यस्य स्वरूपमिति पुच्छवाक्येन ‘तत्त्वमसि’ इतिवद्गीयते, ‘ब्रह्मविदाप्नोति’ इति ब्रह्मविदस्तत्प्राप्त्यभिधानेन ब्रह्मात्मनोरैक्योपक्रमात् । ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ‘ इत्यैक्योपसंहारात् ।
मध्येऽपि विशिष्टद्वारा स्वरूपैक्ये तात्पर्यस्य युक्तत्वादित्याह —
मान्त्रवर्णिकमिति ।
इतश्च पुच्छवाक्यस्थं ब्रह्मैव स्वप्रधानं प्रतिपाद्यं, इतरस्त्वानन्दमयो न प्रतिपाद्यः, वैषयिकप्रियादिमत्त्वेन तत्र मुख्यस्रष्टृत्वाद्यनुपपत्तेरित्याह —
नेतर इति ।
इतश्च नानन्दमयोऽत्र प्रतिपाद्यते, ब्रह्मानन्दप्रतिबिम्बितं रसशब्दितं लब्ध्वायमानन्दमयः स्वयमानन्दी भवतीति ब्रह्मणो भेदेन तस्योक्तेर्ब्रह्मत्वायोगादित्याह —
भेेदेनेति ।
ननु भृगुवल्ल्यामानन्दस्य ब्रह्मत्वादानन्दमयस्यापि ब्रह्मत्वं पञ्चमपर्यायस्थत्वादनुमीयते, तत्राह —
कामाच्चेति ।
काम्यत इति काम आनन्दः । तस्य ब्रह्मत्वदृष्टेर्नानुमानेनानन्दमयस्यापि ब्रह्मत्वमपेक्षितव्यम् । विकारार्थमयङ्विरोधादित्यर्थः ।
इतोऽपि नानन्दमयोऽत्र प्रतिपाद्यते, पुच्छवाक्योक्ते ब्रह्मणि प्रतिबुद्धस्यानन्दमयस्य ‘यदा हि’ इत्यादिना तत्प्राप्तिमोक्षाभिधानात् । तस्मादानन्दमयशब्दवाच्यस्याप्रतिपाद्यत्वात्तल्लक्ष्यस्य ब्रह्मणोऽव्यतिरेकात्पुच्छवाक्यस्थं ब्रह्मैवात्र स्वप्रधानं प्रतिपाद्यमिति तत्प्रमित्या कैवल्यं फलतीत्याह —
अस्मिन्निति ।
तदेतदाह —
अपराण्यपीति ॥ १९ ॥
समन्वयस्य सविशेषपरत्वमपोद्योत्सर्गः स्थापितः । अधुनापवादार्थत्वेनाधिकरणमवतारयति —
अन्तरिति ।
छान्दोग्यस्थं वाक्यमुदाहरति —
इदमिति ।
ऋक्सामयोः पृथिव्यग्न्याद्यात्मत्वोक्त्यनन्तरमुपास्तिप्रस्तावार्थोऽथशब्दः ।
‘य एष’ इति शास्त्रप्रसिद्धिः, सन्निधिश्चोक्ता । तस्योपास्त्यर्थमाधिदैविकं स्थानमाह —
अन्तरिति ।
आदित्यमण्डलस्य मध्ये स्थित इति यावत् ।
ध्यानार्थमेव रूपविशेषमाह —
हिरण्मय इति ।
ज्योतिर्मय इत्यर्थः ।
स्थानकृतं परिच्छेदं व्यवच्छिनत्ति —
पुरुष इति ।
तत्रावहितधियामनुभवं प्रमाणयति —
दृश्यत इति ।
तर्हि पुरुषत्वात्पूर्णस्य कथमुपास्तिः, तत्राह —
हिरण्येति ।
तद्वज्ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेति तथोक्तः । किं बहुना, आप्रणखात् प्रणखो नखाग्रं तेन सह सर्व एव सुवर्णो ज्योतिर्मयः ।
चक्षुषोर्विशेषमाह —
तस्येति ।
कपेर्मर्कटस्यासः पृष्ठभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथात्यन्तदीप्तिमत्तथास्य देवस्याक्षिणी प्रकृष्टदीप्तिमती ।
ध्यानार्थमेव नाम करोति —
तस्येति ।
कथं तस्योदितिनामत्वं, तदाह —
स इति ।
उदित उद्गतः । सकार्यसर्वपापास्पृष्ट इत्यर्थः । ध्यानफलमुदेतीति । आदिशब्दात् ‘तस्यर्च्क साम च गेष्णौ’ इत्याद्युक्तमधिदैवतं, देवतामधिकृत्योपास्तिवाक्यमित्यर्थः ।
आधिदैवध्यानोक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह —
अथेति ।
ऋक्सामयोर्वाक्प्राणाद्यात्मत्वोक्त्यानन्तर्यमथेत्युक्तम् । आदिशब्दात् ‘सैवर्क् तत्साम’ इत्याद्युक्तम् ।
स्थानद्वयस्थं पुरुषं विषयीकृत्य रूपत्त्वश्रुत्या सर्वपापास्पर्शश्रुत्या च संशयमाह —
तत्रेति ।
कश्चिदित्यादित्यक्षेत्रज्ञ उक्तः । पूर्वसूत्रे ब्रह्मपदमानन्दमयपदमानन्दपदार्थाभ्यासश्चेति मुख्यत्रयार्थबहुप्रमाणवशान्निर्विशेषनिर्णयवद्रूपवत्त्वादिबहुप्रमाणात्संसारी हिरण्मयः पुरुष इति सङ्गत्या पूर्वपक्षमाकाङ्क्षापूर्वकमाह —
किं तावदिति ।
स्फुटब्रह्मलिङ्गोक्तश्रुते सगुणे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वोत्तरपक्षयोरपरस्य परस्य चोपास्तिरेव फलम् ।
सर्वैरुपास्यत्वाय पर एव कस्मान्नेति पृष्ट्वा हेतुमाह —
कुत इति ।
चाक्षुषे पुरुषे यथोक्तं रूपं न श्रुतमित्याशङ्क्याह —
अक्षीति ।
परस्यैव स्थानभेदाद्रूपवत्त्वमुपदेशातिदेशाभ्यामिति चेत् , नेत्याह —
नचेति ।
परापरिग्रहे हेत्वन्तरमाह —
आधारेति ।
अनन्तशक्तित्वात्तस्याप्याधारश्रुतिरित्याशङ्क्याह —
नहीति ।
परस्यानाधारत्वे स्वमहिमप्रतिष्ठत्वं हेतुः । तत्र मानं ‘स भगवः’ इति । तत्रैव हेत्वन्तरं सर्वव्यापित्वम् । तत्रापि मानमाह —
आकाशवदिति ।
ईश्वराग्रहे हेत्वन्तरमाह —
ऐश्वर्येति ।
‘स एषः’ इत्याधिदैविकपुरुषोक्तिः । अमुष्मादादित्यादूर्ध्वगा ये लोकास्तेषामीशिता, ये च देवानां कामा भोगास्तेषां चेत्यर्थः । ‘स एषः’ इत्याध्यात्मिकपुरुषोक्तिः । एतस्माच्चक्षुषः सकाशादर्वाग्गता ये लोकास्तेषामीशिता, ये च मनुष्याणां कामा भोगास्तेषां चेत्येतस्य मर्यादावदैश्वर्यमुक्तमित्यर्थः ।
परस्यापि ध्यानार्थं तादृगैश्वर्यं स्यात् , नेत्याह —
न चेति ।
‘एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः ।
कथमेतस्य सर्वेश्वरत्वं, यतो भूतानां नियन्ता यमोऽस्ति, नेत्याह —
एष इति ।
कथं परो भूतानामधिष्ठाय पालयिता, पालयितुरिन्द्रादेः सत्त्वात् , तत्राह —
एष भूतेति ।
तथापि ब्रह्मा मर्यादास्थापकोऽस्ति कुतोऽस्य सर्वेश्वरत्वं, तत्राह —
एष इति ।
यथा मृद्दारुमयः सेतुर्जलव्यूहस्य क्षेत्रसम्पदामसम्भेदाय धारयिता तथैषोऽपि सर्वेषां वर्णादीनामसङ्कराय धारयिता स्यादित्यर्थः ।
मर्यादाधाररूपश्रुतेरादित्यक्षेत्रज्ञ एवात्रोपास्य इत्युपसंहरति —
तस्मादिति ।
तस्य कर्मानधिकारात्सर्वपाप्मविगमः । सर्वात्मत्वमुपासनायै स्तुत्यर्थमनूद्यत इति भावः ।
पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति —
एवमित्यादिना ।
प्रथमश्रुतरूपवत्त्वादिना चरमश्रुतसर्वपाप्मविगमादेर्नेयत्वान्न परस्य प्राप्तिरित्याह —
कुत इति ।
फलवत्पाप्मविगमादिलिङ्गस्य चरमस्यापि तच्छून्यत्वेनाविवक्षिताल्लिङ्गादाद्यादपि बलीयस्त्वात्तद्वशेनेतरन्नेयमित्याह —
तद्धर्मेति ।
इहेति स्थानद्वयस्थपुरुषोक्तिः ।
आदित्यक्षेत्रज्ञस्यापि कर्मानधिकारात्पाप्मास्पर्शो युक्तः, ‘न ह वै देवान्पापम् ‘ इति श्रुतेरित्याशङ्क्याह —
सर्वेति ।
देवादिषु पश्वादिवत्कर्मानधिकारेऽपि प्राचिभवे सञ्चितपापयोगात्तदल्पत्वात् ‘न ह वै देवान् ‘ इत्युक्तेर्न जीवः सर्वपापास्पृष्टः । प्रदेशान्तरे च तस्य परस्मिन्नेव श्रुतेरत्रापि तद्दृष्ट्या तत्प्रत्यभिज्ञानात्तस्यैवोपास्यतेति भावः ।
सार्वात्म्यमपि श्रुतं न संसारिणि युक्तमित्याह —
तथेति ।
तत्र तच्छब्दैश्चाक्षुषनरोक्तिः । ऋगादिविधेयापेक्षया विलक्षणलिङ्गोक्तिः । उक्थं शस्त्रविशेषः । तत्साहचर्यात्तत्साम स्तोत्रं, उक्थादन्यच्छस्त्रमृगुच्यते ।
ब्रह्म त्रयोवेदाः ऋगाद्यात्मना चाक्षुषस्य संसारित्वेऽपि स्तुतिरुपास्त्यर्थमित्याशङ्क्य मुख्यसम्भवे नामुख्यकल्पनेत्याह —
सा चेति ।
तत्रैव हेत्वन्तरमाह —
पृथिवीति ।
ऋगधिदैवतं पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा । साम चाग्निवाय्वादित्यचन्द्रादित्यगतपरकृष्णाख्यातिकृष्णरूपं ‘इयमेवर्गग्निः साम’ इत्यादिनोक्तम् । अध्यात्मं च वाक्चक्षुःश्रोत्राक्षिगतशुक्लभालक्षणा तावदृगुक्ता । साम च प्राणच्छायात्ममनोऽक्षिस्थकृष्णभारूपं ‘वागेवर्क्प्राणः साम’ इत्यादिनोक्तम् । एवमुभयत्रोक्तरूपे ऋक्सामे क्रमेणोक्त्वा पुरुषस्योक्तप्रकारर्क्चाभिहितप्रकारं साम चेत्येते द्वे गेष्णौ पादपर्वणी इति देवतायामुक्त्वात्मन्यपि तयोर्ऋक्सामयोरतिदेशेन गेष्णत्वमुक्तमित्यर्थः ।
तदपि संसारिविषयं किं न स्यात् , नेत्याह —
तच्चेति ।
तत्रैव हेत्वन्तरमाह —
तद्य इति ।
व्यवहारभूमिस्तच्छब्दार्थः । धनसनयो धनस्य लब्धारः । विभूतिमन्त इत्यर्थः ।
राजादीनामपि श्रीमतां गीयमानत्वदृष्टेरन्यथासिद्धिमाशङ्क्याह —
तच्चेति ।
उक्तेऽर्थे स्मृतिमनुकूलयति —
यद्यदिति ।
धनादिसमृद्धिमत्त्वं विभूतिमत्त्वम् । कान्तिमत्त्वं श्रीमत्त्वम् । बलवत्त्वमौर्जित्यम् ।
ईश्वरपक्षे हेत्वन्तरमाह —
लोकेति ।
निरङ्कुशमनन्याधीनम् ।
सर्वपाप्मविरहादिना तस्यैवोपास्यतेत्युक्त्वा परोक्तमनुवदति —
यत्त्विति ।
रूपवत्त्वं नावश्यं संसारिलिङ्गमित्याह —
अत्रेति ।
मायामयस्यापि रूपस्य हिरण्यश्मश्रुत्वादिनियमे हेतुमाह —
इच्छेति ।
तथाविधरूपोपयोगमाह —
साधकेति ।
तस्येच्छापि मायामयीति मत्वाह —
मायेति ।
यथादृष्टि देहादिवैशिष्ट्यमीश्वरस्य तात्त्विकमित्याशङ्क्याह —
सर्वेति ।
अरूपश्रुतिविरुद्धं रूपवत्त्वमित्युक्तमाशङ्क्य विषयभेदमाह —
अपिचेति ।
तात्त्विकमैश्वरं रूपमाश्रित्याशब्दादिशास्त्रे कथं तस्य रूपादिमत्त्वोक्तिः, तत्राह —
सर्वेति ।
निर्विशेषमेव ब्रह्मात्र प्रतिपाद्यं तज्ज्ञानादेव मुक्तिरित्याशङ्क्योपास्तिवाक्यत्वात्सविशेषोक्तिरित्याह —
तथेति ।
स्वमहिमप्रतिष्ठस्याधारायोगादत्र चाधारश्रुतेरीश्वरादर्थान्तरतेत्युक्तमनुवदति —
यदपीति ।
आधारानपेक्षस्यापि फलवशात्तदुक्तेर्नानीश्वरतेत्याह —
अत्रेति ।
किमित्युपासनायै तदुक्तिः, साक्षादेव किं न स्यात् , तत्राह —
सर्वगतत्वादिति ।
मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं प्रत्याह —
ऐश्वर्येति ।
एकस्यैवेश्वरस्य स्थानभेदावच्छेदादैश्वर्यमर्यादाकरणं पृथगनुध्यानार्थं न परिच्छेदप्राप्त्यर्थमित्यर्थः ।
परोक्तलिङ्गानामन्यथात्वे फलितमाह —
तस्मादिति ॥ २० ॥
उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्री्ह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह —
भेदेति ।
आदित्यक्षेत्रज्ञादन्तर्यामिणः ।
श्रुत्यन्तरे भेदोक्तेस्ततोऽन्य ईश्वरः सिद्ध इत्यक्षरार्थमाह —
अस्तीति ।
आदित्यमण्डले स्थितरश्मिपुञ्जस्यापि स्यादित्यत उक्तम् —
आदित्यादिति ।
तज्जीवं व्युदस्यति —
यमिति ।
तस्य देहित्वे जीवत्वमदेहित्वे न नियन्तृतेत्याशङ्क्याह —
यस्येति ।
इतश्चादित्यजीवादन्योऽसावित्याह —
य इति ।
तस्य ताटस्थ्यं वारयति —
एष इति ।
श्रुत्यन्तरस्याप्यनीश्वरविषयत्वमाशङ्क्याह —
तत्रेति ।
तथापि प्रत्यभिज्ञापकाभावान्नेह तदुपास्तिरित्याशङ्क्याह —
स एवेति ।
आदित्यान्तःस्थत्वश्रुतिसाम्यात्प्रत्यभिज्ञया पर एवोद्गीथे ध्येयत्वेनोपदिश्यत इत्युपसंहरति —
तस्मादिति ॥ २१ ॥
पूर्वत्राव्यभिचारिलिङ्गेन रूपवत्त्वाद्यन्यथा नीतम् । इह तु लिङ्गान्न श्रुतिरन्यथयितव्येति प्राप्ते प्रत्याह —
आकाश इति ।
छान्दोग्यवाक्यमेवोदाहरति —
इदमिति ।