अद्वैतशारदा

न्यायनिर्णयव्याख्या

१ परिच्छेदः

गौणे­क्ष­ण­स­न्नि­धिना समाधत्ते —
तत्तेज इति ।
दर्शनादौपचारिकं सतोऽ­पी­क्षि­तृ­त्व­मिति सम्बन्धः ।

सन्निधिफलमाह —
तस्मादिति ।

तच्छब्दार्थं व्याकरोति —
उपचारेति ।
तत्प्राये तत्प्रकरणे । इतिशब्दः शङ्को­प­क्र­म­स्थ­क्रि­या­प­द­स­म्बन्धी ।

व्यभि­चा­र­श­ङ्का­म­नूद्य सूत्र­मु­त्त­र­त्वे­ना­व­ता­र­यति —
एवमिति ।

अनुवादभागं विभजते —
यदुक्तमिति ।

परिहारभागं व्याकर्तुं नञर्थमुक्त्वा प्रश्नद्वारा हेतुमाह —
तदसदिति ।

परमतं निरसितुं प्रक­र­ण­म­नु­स­न्द­धानो हेतुं व्याचष्टे —
सदेवेति ।
सेति प्रकृ­त­स­दा­त्मोक्तिः । इयमिति सन्नि­हि­ते­क्षि­तृ­त्व­नि­र्देशः । देव­ते­त्य­लौ­कि­क­त्व­मु­क्तम् ।

इक्षणमभिनयति —
हन्तेति ।
सूक्ष्म­भू­त­स­र्गा­न­न्तरं तावता व्यव­हा­रा­यो­गा­त्त­द­पे­क्षा­या­मि­त्यर्थः ।

सृष्टि­वा­क्ये­नो­क्तानि तेजोऽबन्नानि निर्दिशति —
इमा इति ।
सूक्ष्मभूतानां व्यव­हा­रा­ङ्ग­त्वे­ना­प्र­त्य­क्ष­त्वा­त्तेषु देवताशब्दः । अनेन पूर्व­सृ­ष्ट्य­नु­भू­तेन जीवेन प्राण­धृ­ति­हे­तु­ना­त्मना सद्रूपेण यथोक्ता देवताः सर्गानन्तरं प्रविश्य नाम रूपं चेति विस्प­ष्ट­मा­स­म­न्ता­त्का­र­वा­णीति परा देव­ते­क्षि­त­व­ती­त्यर्थः ।

ननु सा जीव­मा­त्म­श­ब्दे­ना­भि­धत्तां, तथापि प्रधानस्य गौणमीक्षितृत्वं किं न स्यात् , तत्राह —
तत्रेति ।
ईक्षणवाक्यं सप्तम्यर्थः । जीवस्य चेत­न­त्वा­द­चे­त­न­प्र­धा­नस्य तदा­त्म­त्वा­यो­गा­दि­त्यर्थः ।

तस्यापि प्राणात्मना प्रधा­न­का­र्य­त्वा­त्तस्य तस्मि­न्ना­त्म­शब्दः स्यादि­त्या­शङ्क्य जीवस्वरूपमाह —
जीवो हीति ।
तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।

चेतनत्वे हेतुः —
शरीरेति ।

तत्र जीव­श­ब्द­प्र­वृत्तौ निमित्तमाह —
जीवो हीति ।
तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।

चेतनत्वे हेतुः —
शरीरेति ।

तत्र जीव­श­ब्द­प्र­वृत्तौ निमित्तमाह —
प्रणानामिति ।

उक्तचेतनस्य जीवत्वे मानमाह —
प्रसिद्धेति ।

प्राण­वि­ष­य­त्वे­नापि लौकिकी प्रसिद्धिः स्यादित्यशङ्क्य ‘जीव प्राणधारणे’ इति धात्व­र्था­नु­रो­धा­दु­क्त­श्चे­तनो जीव इत्याह —
निर्वचनाच्चेति ।

सिद्धे जीवस्य चैतन्ये फलितमाह —
स कथमिति ।

आत्मशब्दार्थं वदन्नसम्भवं साधयति —
आत्मा हीति ।
पूर्ववन्निपातौ ।

संसा­र्य­सं­सा­रि­णो­र्वि­रो­धा­त्त्व­न्म­तेऽपि ब्रह्मणो जीवे कथमात्मपदं प्रत्यु­क्त­मि­त्या­श­ङ्क्याह —
अथ त्विति ।
तत्त्व­तोऽ­वि­रो­धा­द्दृ­ष्टितो विरोधस्य बिम्ब­प्र­ति­बि­म्ब­यो­र्व्य­भि­चा­रा­ज्जी­व­ब्र­ह्मै­क्या­द्ब्र­ह्मणो जीवे युक्त­मा­त्म­प­द­मि­त्यर्थः ।

जीवे सत आत्मशब्दान्न तत्प्र­धा­न­मि­त्युक्त्वा विधान्तरेण हेतुं व्याचष्टे —
तथेति ।
यः सदाख्यः स एषोऽ­णि­माऽ­णो­र्भावो भाव­भ­वि­त्रो­र­भे­दा­द­णु­रिति । ऐत­दा­त्म्य­मे­त­दा­त्मनो भावः । अयमपि प्रयोगो भवितृपरः । सर्वमिदं जगदेतदात्मकमिति यावत् । परमसूक्ष्मं सर्वात्मकं सदेव सत्यं पारमार्थिकं तत्त्वं, ‘मृत्तिकेत्येव सत्यम्’ इति दृष्टा­न्त­स्था­व­धा­र­ण­स्या­त्रापि सम्बन्धात् । यच्च सत्यं स सर्वस्यात्मा निरुपचरितं रूपम् । हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव ब्रह्मे­त्य­क्ष­र­यो­जना ।

तत्रापेक्षितं प्रतीकमादाय विवक्षितमाह —
इत्यत्रेति ।
तथाच चेत­न­स्या­त्म­श­ब्दान्न तस्य प्रधानतेत्यर्थः ।

यत्पु­न­रु­प­चा­र­प्रा­य­पा­ठा­दी­क्षि­तृत्वं सतोऽपि गौणत्वमिति, तत्राह —
अप्ते­ज­सो­स्त्विति ।
युक्त­मी­क्षि­तृ­त्वस्य गौणत्वमिति सम्बन्धः । तत्र हेतुरितिशब्दः, स च प्रत्येकं सम्बध्यते । यत­श्चे­त­न­व्या­पारं प्रति विषयत्वेन निर्दे­शा­त्त­यो­र­चे­त­न­त्वम् । आदिपदेन प्रवे­श­नि­य­म­ना­दि­स­ङ्ग्रहः । यतश्च तत्र तत्र प्रयोज्यत्वेनैव तयोरुक्तिः, यस्माच्च सदीक्षितृत्वस्य मुख्य­त्व­हे­त्वा­त्म­श­ब्द­व­त्त­यो­री­क्षि­तृ­त्वस्य मुख्यत्वे हेतुर्न दृष्टः, तस्मात्कूलस्य गुणवृत्त्या पिप­ति­षा­व­द्यु­क्त­म­प्ते­ज­सो­र्गौ­ण­मी­क्षि­तृ­त्व­मि­त्यर्थः ।

तर्हि प्रायपाठस्य का गतिरित्याशङ्क्य मुख्य­त्व­स्यौ­त्स­र्गि­क­त्वा­द्गौ­णे­ना­तु­ल्य­त्वा­द्वि­श­या­नु­दये प्राय­व­च­न­म­कि­ञ्चि­त्क­र­मि­त्य­भि­प्रे­त्या­प्ते­ज­सो­रपि मुख्य­मे­वे­क्ष­ण­मा­श्र­य­णीयं न गौणमित्याह —
तयोरपीति ।

कारणेक्षणं कार्ये लक्षणयोच्यते चेत्तत्रापि कथं मुख्य­ते­त्या­श­ङ्क्याह —
सतस्त्विति ॥ ६ ॥

आत्मशब्दोऽपि प्रधाने गौणः स्यादिति चोदयति —
अथेति ।

गौणे प्रयोगे गुणयोगं दर्शयति —
आत्मन इति ।

स्वर्गा­र्थ­स्यापि कर्मणः स्वर्ग­श­ब्दा­न­र्ह­त्व­व­दा­त्मा­र्थ­मपि प्रधानं नात्म­श­ब्दा­र्ह­मि­त्या­श­ङ्क्याह —
यथेति ।

प्रधानस्य भृत्य­व­च्चै­त­न्या­भा­वा­दा­त्मा­र्थ­प्र­वृ­त्त्य­यो­गा­न्ना­त्मा­र्थ­का­रि­ते­त्या­श­ङ्क्याह —
प्रधानं हीति ।

भृत्यस्य राज्ञि विवे­का­वि­वे­का­भ्या­म­भ्यु­द­या­द्य­हे­तु­त्वान्न दृष्टा­न्त­ते­त्या­श­ङ्क्यो­प­का­रि­त्व­मात्रं तुल्यमित्याह —
राज्ञ इति ।

गौणत्वं निर­सि­तु­मु­क्ता­त्म­श­ब्दस्य न गौण­ते­त्य­प­रि­तु­ष्य­न्नाह —
अथवेति ।

प्रधानेऽपि शक्तिकल्पने गौरवमाशङ्क्य वृद्ध­प्र­यो­गा­द­ने­कत्र शक्ति­सि­द्धे­र्नै­व­मि­त्याह —
भूतात्मेति ।
प्रधानात्मा चेति परमात्मा चकारार्थः ।

तत्रा­त्म­श­ब्द­स्या­त्म­न्येव मुख्या वृत्तिः, प्रधानादौ गौणीत्याशङ्क्य भिन्न­जा­ती­य­यो­रे­क­श­ब्द­प्र­योगे शक्तिद्वयमेव कल्प्यमित्याह —
यथेति ।

आत्म­श­ब्द­सा­धा­रण्ये फलितमाह —
तत्रेति ।

शङ्कोत्तरत्वेन सूत्रं पातयति —
अत इति ।

हेतुमात्रस्य सूत्रे भाना­त्पू­र्व­सू­त्र­स्थ­न­ञ­मा­कृष्य प्रतिजानीते —
नेति ।

तत्र हेतुं सूत्रं व्याचष्टे —
स इत्यादिना ।

साक्षि­त्वे­ना­ह­ङ्का­रा­द्य­ध्या­स­नि­रा­स­यो­ग्यतां वक्तुं चेत­न­स्ये­त्यु­क्तम् । ऐक्या­पा­रो­क्ष्य­प्र­मि­ति­प्र­ति­ब­न्ध­नि­व­र्तकं सूचयति —
आचार्यवानिति ।

उक्तप्रमित्या सर्व­ब­न्ध­न­नि­वृत्त्या देहादिदृष्टेरपि निवृ­त्ति­प्राप्तौ प्रारब्धकर्मणा तद्दृ­ष्ट्य­नु­वृ­त्ति­मा­चष्टे —
तस्येति ।

कथं तर्हि प्रार­ब्ध­क­र्म­नि­वृ­त्ति­रि­त्या­शङ्क्य भोगादिति मन्वानो ब्रूते —
यावदिति ।

आर­ब्ध­क­र्म­ध्व­स्ता­वपि कथं देहा­दि­धी­ध्व­स्ति­रि­त्या­श­ङ्क्या­प्र­ति­ब­न्धा­दि­त्याह —
अथेति ।
उत्त­म­पु­रु­ष­स्तू­भ­यत्र प्रथमपुरुषे छान्दसत्वात् ।

साङ्ख्यपक्षेऽपि मोक्षो­प­दे­शो­प­प­त्ति­मा­श­ङ्क्याह —
यदीति ।
तदा चेतनं सन्तं मुमु­क्षु­म­चे­त­नोऽ­सीति ब्रुवच्छास्त्रं विपरीतवादि भूत्वा पुंसोऽनर्थायेति कृत्वा स्यादप्रमाणमिति योजना ।

अस्तु शास्त्रा­प्रा­माण्यं, नेत्याह —
नत्विति ।

आत्मनो जडैक्यमपि सत्या­द्यै­क्य­व­द­न­व­च्छि­न्न­तया शास्त्र­प्र­मे­य­मि­त्या­श­ङ्क्याह —
यदि चेति ।

शास्त्रोक्ते विश्वासबुद्ध्यौ हेतुमाह —
श्रद्दधानतयेति ।

अना­त्म­न्या­त्म­दृष्टिं नासौ त्यजेदित्यत्र लौकिकं दृष्टान्तमाह —
अन्धेति ।
कश्चित्किल पश्चिमचेता गह­न­वि­पि­न­स­मी­प­स­ञ्चा­रि­पथि पतितमतिदुःखितं विन­ष्ट­दृ­ष्टि­द्व­य­मपि पुरु­षा­प­स­द­म­व­लोक्य तदन्तिकमुपसृत्य विप्र­ल­ब्धु­मि­च्छति, किमिति भव­ता­ति­ब­हु­त­र­गो­ग­व­या­दि­स­ञ्चा­र­स­ङ्कीर्णे दुर्गे मार्गे प्रचु­र­प­रि­ण­त­त­र­क्षु­रो­ष­णा­दि­प­रि­वृ­त­का­न्ता­र­प­रि­सरे परिहाय सहा­य­स­म्प­द­मा­स्यते । स च विवे­क­प­रि­च­य­वि­धुरो मधुरां गिरमुपश्रुत्य सहर्षं समभाषत । दैवोपहतः पिहितनयनयुगुलो बताहं कयापि विधया पन्था­न­मे­न­मा­साद्य नाना­वि­ध­ब­न्धु­नि­क­र­प­रि­पू­रि­त­म­ति­स­वि­ध­मपि नगरं जिग­मि­षु­रि­है­वा­स­मर्थो बहु­ति­थ­म­त्य­वा­ह­यम् । सम्प्रति तु भवतो दिष्ट्या दृष्टस्य दृष्टि­प­थ­म­व­तीर्णं समासादितमनोरथं शोक­सा­ग­रा­दु­त्ती­र्ण­मा­त्मा­न­मा­लक्ष्य लब्धलक्ष्यो निर्वृतोऽस्मि । स च विप्रलप्सुः शिक्षा­वि­प­क्ष­मु­क्षा­ण­म­भ्या­श­दे­श­नि­वा­सि­न­मु­ल­पादि चर­न्त­मा­क­ल­य्यास्य तु पुच्छं गृहीत्वा गच्छतु भवान् , एष त्वाभिमतं नगरं नेष्य­ती­त्या­भाष्य तदनुमोदनपुरःसरं पुरुषं पशुमानीय तदीयलाङ्गूलं ग्राहयामास । स च गृही­त­त­दी­य­वा­ल­धि­र्वि­विधा वेदनास्तदाहिता इतस्ततो नीय­मा­नोऽ­नु­भ­व­न्नपि नगरजिगमिषया तदा­प्त्या­दे­ष्टु­रा­प्त­ता­दृष्ट्या च स्वयमुपात्तं प्रब­ल­ब­ली­व­र्द­यू­न­श्च­र­म­मङ्गं परित्यक्तुं नैव धियं दधार । स च भूयो भूयो भूयसीर्यातनाः प्रतिलभ्य प्रेप्सि­त­म­प्र­ति­प­द्यैव महति मोहसागरे निपतितः । तेनैव न्यायेनायमपि श्रद्धा­लु­त्वा­द­ना­त्मनि शास्त्रा­हि­ता­मा­त्म­दृ­ष्टि­म­त्य­ज­न्न­न­र्थ­भागी भवेदित्यर्थः ।

आत्मा जडादर्थान्तरं, तत्साक्षित्वात् , घट­सा­क्षि­व­दि­त्य­ति­रि­क्ता­त्म­धिया पुरुषार्थभागी स्यादि­त्या­श­ङ्क्या­ग­म­वि­रो­धा­न्मै­व­मि­त्याह —
तद्व्यतिरिक्तं चेति ।

आत्मज्ञानाभावे दोषमाह —
तथेति ।
विह­ति­र्मु­क्ति­भा­क्त्वा­भावः ।

अनात्मनिष्ठत्वे दोषमाह —
अनर्थं चेति ।
‘तांस्ते प्रेत्या­भि­ग­च्छन्ति ये के चात्महनो जनाः’ इति श्रुतेरित्यर्थः ।

परमते तन्नि­ष्ठा­नु­प­पत्तेः सदा­त्म­त्वो­प­दे­श­मि­च्छता सत­श्चे­त­न­त्व­मे­ष्ट­व्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।

नन्वारोपेणापि शास्त्रे ध्यानो­प­दे­शा­त्कथं तद्य­था­भू­त­मे­वो­प­दि­श­तीति नियम्यतेऽत्राह —
एवं चेति ।
कस्य­चि­दा­रो­पि­त­चो­र­त्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टस्तेन दृष्टान्तेन सत्ये ब्रह्म­ण्य­भि­स­न्धि­मतो मोक्षः ‘तद्यथा परशुं तप्तं प्रतिगृह्णाति’ इत्यत्रोक्तः । स च तत्त्वतो वस्तूपदेशे सम्भवतीत्यर्थः ।

सदा­त्म­त्वो­क्ते­रा­रो­पि­ता­र्थ­त्वेऽपि सत्या­भि­स­न्धि­सिद्धिः, ‘यस्य स्यादद्धा’ इत्या­दि­ध्या­न­वाक्ये तद्दृ­ष्टे­रि­त्या­श­ङ्क्याह —
अन्यथेति ।
उक्थं प्राणः ।

महावाक्योत्थं ज्ञानमिदमुच्यते । तस्य सम्प­न्मा­त्र­त्वे­ना­नि­त्य­फ­लत्वे फलितमाह —
तत्रेति ।
मोक्षस्य तद्वा­दि­भि­र्नि­त्य­त्वो­प­ग­मा­दि­त्यर्थः ।

मोक्षोपदेशस्य पर­प­क्षेऽ­प्य­नु­प­प­त्ति­मु­क्त्वो­प­सं­ह­रति —
तस्मादिति ।

दृष्टान्ते गौण­त्व­म­ङ्गी­क­रेति —
भृत्येति ।

इत­श्चा­त्म­श­ब्दस्य दृष्टान्तेन प्रधानविषयतया न गौणतेत्याह —
अपि चेति ।
मुख्यार्थायोगो गुणायोगश्च गौणत्वे हेतुः ।

तदभावेऽपि तत्क­ल्प­ना­ति­प्र­स­ङ्गि­नीति हेत्वन्तरमेव स्फोटयति —
क्वचिदिति ।

अग्न्या­दि­श­ब्दानां माणवकादिषु गौणत्वदृष्ट्या दहनादिष्वपि तत्प्र­स­क्ते­रि­त्याह —
सर्वत्रेति ।

गौणत्वं निरस्य साधारण्यं निरसितुमनुवदति —
यत्त्विति ।

एकत्र मुख्यशब्दस्य तद्योगादन्यत्र वृत्तिसम्भवे तत्रापि शक्तिकल्पने गौरवानैवमित्याह —
तन्नेति ।
क्वचि­त्त्व­ग­त्या­ने­का­र्थ­ते­त्यर्थः ।

प्रधा­न­मा­त्म­श­ब्दस्य मुख्योऽ­र्थ­स्त­द­वि­वे­का­द­न्यत्र तच्छ­ब्द­ते­त्या­श­ङ्क्या­प्त्या­दि­नि­मि­त्तस्य चेतने मुख्य­त्वा­त्त­त्रै­वा­त्म­श­ब्दस्य मुख्यतेत्याह —
तस्मादिति ।

कथं तर्हि भूता­त्मे­त्या­दि­वा­क्य­मि­त्या­शङ्क्य जीवै­क्या­ध्या­सा­त्प­ञ्च­को­शा­त्म­भू­ता­ना­मि­न्द्रि­याणां चात्मशब्दत्वं, पर­मा­त्मै­क्या­रो­पा­त्प्र­धा­नस्य प्रकृतेरित्याह —
चेतनत्वेति ।

आप्त्या­द्यु­पा­धे­रा­त्म­श­ब्दस्य चेतने मुख्यत्वे प्रधानेऽपि तथैव तन्मु­ख्य­त्व­सिद्धेः साधा­र­ण्य­मि­त्या­श­ङ्क्याह —
साधारणत्वेऽपीति ।

पर­म­सू­क्ष्म­श­क्त्या­त्म­क­प्र­कृ­त्य­र्था­णि­म­श­ब्दा­त्त­ज्जा­ड्य­सि­द्धे­स्त­द्वि­ष­य­त्व­मा­त्म­श­ब्दस्य शक्यं निश्चे­तु­मि­त्या­शङ्क्य शक्ते­र­प्य­न्त­स्थ­चि­दा­त्मनि निर­ङ्कु­श­म­णी­य­स्त्व­मि­त्याह —
न चेति ।
अत्रेति प्रकरणोक्तिः । किञ्चि­त्प्र­क­र­ण­मु­प­पदं वेत्यर्थः ।

कथं तर्हि चेत­न­वि­ष­य­ते­त्या­शङ्क्य क्रमेण प्रकरणोपपदे दर्शयति —
प्रकृतं त्विति ।

चेत­न­स­न्नि­धा­नेऽपि तस्य ‘तत्त्वमसि’ इत्य­चे­त­न­प्र­धा­न­ता­दा­त्म्यो­क्ते­र­हेतुः सन्नि­धि­रि­त्या­श­ङ्क्याह —
नहीति ।

चेतने प्रकरणादिभावे फलितमाह —
तस्मादिति ।

‘जीवेनात्मना’ ‘स आत्मा’ इति च वाक्य­मि­हे­त्यु­क्तम् । आत्म­श­ब्द­सा­धा­रण्ये दृष्टान्तितं ज्योतिःशब्दं विघटयति —
ज्योतिः­श­ब्दोऽ­पीति ।

कथं तर्हि ‘वसन्ते वसन्ते ज्योतिषा यजेत ‘ इत्यत्र कालविधौ प्रकृ­त­ज्यो­ति­ष्टोमे ज्योतिःशब्दः, तत्राह —
अर्थवादेति ।
‘कतमानि ज्योतीषि’ इत्युक्त्वा ‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः’ इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यं त्रिवृ­दा­दि­स्तो­मानां फलप्रकाशकत्वम् । ततो ज्योतिष्ट्वेन निरू­पि­त­त्रि­वृ­दा­दि­स्तु­ति­स­मु­दा­य­त्वा­ज्ज्यो­ति­ष्टोमे ज्योतिःशब्दः । तस्मा­दे­क­स्या­त्म­श­ब्द­स्या­ने­क­सा­धा­रण्ये नेद­मु­दा­ह­र­ण­मि­त्यर्थः ।

आत्मशब्दादिति पूर्व­सू­त्रो­क्त­हे­तु­सा­ध­क­तया तच्छेषत्वेन सूत्रं व्याख्यायाधुना स्वत­न्त्र­हे­तु­प­र­तया व्याकरोति —
अथवेति ।
निरस्ता गौणत्वस्य साधारणत्वस्य च शङ्का यस्मात्स तथा तस्य भावस्तत्ता, तयात्मशब्दं व्याख्यायेति सम्बन्धः । सतश्चेतनस्य च तादात्म्यवचनं पूर्वसूत्रोक्तो हेतुः ।

सदर्थनिष्ठस्य मुक्ति­रू­प­प­रा­न­न्दै­क्यो­क्तेश्च चितो न प्रधानैक्यमिति हेत्व­न्त­र­मि­हो­च्यत इत्याह —
तत इति ।
चेत­ना­चे­त­न­यो­रै­क्या­यो­गा­द­चे­त­न­नि­ष्ठ­तया चेतनस्य मोक्षो­प­दे­शा­सिद्धेः ।

सिद्धमुपसंहरति —
तस्मान्नेति ॥ ७ ॥

यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामियं सेति दर्शयत्येवं दुर्ज्ञे­य­त्वा­दा­त्म­त­त्त्व­स्यादौ प्रधा­ना­त्म­त्व­व­च­ना­त्त­देव सच्छब्दमिति शङ्कते —
कुतश्चेति ।

सूत्रमुत्तरम् —
हेयत्वेति ।

तद्व्याख्यातुं हेयत्वोक्तिं प्रतियोगिनीं प्रसञ्जयति —
यदीति ।

ऐक्यमुक्त्वा तन्निराकरणं पङ्क­प्र­क्षा­ल­न­म­नु­स­र­ती­त्या­शङ्क्य परोक्तं दृष्टान्तेन प्रत्याह —
यथेति ।

प्रति­यो­गि­प्रा­प्ति­मुक्त्वा तन्नि­षे­ध­सू­त्रा­र्थ­माह —
न चेति ।

तत्र हेतुः —
सन्मात्रेति ।
अनृतजडशक्तिशबले सति ‘तत्सत्यम् ‘ इति सत्य­त्व­वि­धा­ना­द­स­त्या­कारं, ‘स आत्मा’ इति चिद्रू­प­त्व­वि­धा­ना­ज्ज­डा­कारं च बाधित्वा सत्यै­क­र­स­चि­दा­त्मा­कारा याऽप­रो­क्ष­प्र­मि­ति­स्त­न्नि­ष्ठ­त्वे­नैव छान्दोग्ये षष्ठ­स­मा­प्ति­द­र्श­ना­त्प्र­कृ­त­स­दा­त्म­त्वा­प्र­त्या­ख्या­नात् ‘तत्त्वमसि ‘ इत्य­मु­ख्या­त्म­त्वो­क्ति­र­यु­क्ते­त्यर्थः ।

पूर्वा­त्त­र­हेत्वोः सम्भू­या­प्र­मा­प­कत्वे कृतं चका­रे­णे­त्या­श­ङ्क्याह —
चशब्द इति ।

हेयत्वावचनादेव प्रधानस्य निरासे किं प्रति­ज्ञा­वि­रो­धो­क्त्ये­त्या­शङ्क्य हेय­त्वो­क्ति­मु­पेत्य चकारार्थं स्फुटयति —
सत्यपीति ।

प्रसङ्गं प्रकटयितुं प्रति­ज्ञा­स्व­रू­प­माह —
कारणेति ।
हे श्वेतकेतो, तम­प्या­दे­श­मा­दि­श्यत इत्यादेशं शास्त्रा­चा­र्यो­क्ति­गम्यं वस्त्व­प्राक्ष्यः पृष्टवानसि त्वमाचार्यम् । येन श्रुतेन शास्त्र­तोऽ­न्य­द­श्रु­त­मपि श्रुतं भवति । येन मतेन तर्क­तोऽ­न्य­द­म­त­मपि मतम् । येन विज्ञा­ते­ना­न्य­द­वि­ज्ञा­त­मपि विज्ञातम् । न तु श्रोतव्यादि शिष्टमिति पितृ­वा­क्य­स्यार्थः ।

अन्य­ज्ञा­ना­द­न्यन्न ज्ञेयमिति पुत्रो ब्रूते —
कथं न्विति ।

नान्यत्वं कार्यस्य कारणादित्याह —
यथेति ।

ज्ञाते मृत्पिण्डे कुत­स्त­द्वि­का­र­धी­रि­त्या­श­ङ्क्याह —
वाचेति ।
यो विकारः स वागा­ल­म्ब­न­मु­च्यते परं न वस्तु­तोऽ­स्ती­त्यर्थः ।

तत्र हेतुः —
नामधेयमिति ।

नाममात्रं नार्थोऽस्ति चेत्तर्हि घटा­दि­व­द­स­त्य­त्व­स­म्भ­वा­त्का­र­ण­स्यापि कथं सत्य­ते­त्या­श­ङ्क्याह —
मृत्तिकेति ।

उक्त­दृ­ष्टा­न्ता­दा­का­शा­दे­रपि मृषा­त्वा­त्का­र­णस्य सन्मात्रस्यैव सत्य­त्वा­त्त­ज्ज्ञाने ज्ञातव्यशेषो नेति दार्ष्टा­न्ति­क­माह —
एवमिति ।

कार्यस्य कार­ण­मा­त्र­त्वो­प­ग­मा­त्प­र­स्यापि प्रति­ज्ञा­सि­द्धि­रि­त्या­श­ङ्क्याह —
नचेति ।

प्रति­ज्ञा­वि­रो­ध­फ­ल­माह —
तस्मादिति ॥ ८ ॥

तत्रैव प्रश्नपूर्वकं हेत्वन्तरमाह —
कुतश्चेति ।

प्रधानं न सच्छ­ब्द­वा­च्य­मि­त्यत्र चित्प्र­ति­बि­म्बानां चिदात्मनि बिम्बे लयादिति व्यधिकरणो हेतु­रि­त्या­शङ्क्य प्रक­र­णा­नु­स­न्न्धा­न­पू­र्वकं सूत्रं व्याचष्टे —
तदेवेति ।
यत्र सुप्तौ पुंसः स्वपि­ती­त्ये­त­न्नाम भवति तदा पुरुषः सता सम्प­न्न­स्ते­नै­की­भूत इति योजना ।

प्रक­र­णे­नै­क्य­प्र­मितेः सच्छ­ब्द­ल­क्ष्य­स्यैव चिद्बि­म्ब­त्वान्न व्यधिकरणतेति सतश्चित्त्वं सूचयति —
स्वमिति ।

तत्र लौकि­क­प्र­सि­द्धि­माह —
तस्मादिति ।

तच्छब्दार्थं स्फुटयति —
स्वं हीति ।

उक्त­श्रु­ते­स्ता­त्प­र्य­माह —
एषेति ।

नाम­नि­रु­क्ति­श्रु­त्य­क्ष­राणि व्याचष्टे —
स्वशब्देनेति ।

कथं भिन्नविषया गतिरात्मानमेव विष­यी­कु­र्या­दि­त्या­श­ङ्क्यो­प­स­र्गा­ल्ल­य­धी­रि­त्याह —
अपिपूर्वस्येति ।

प्रसिद्धिमेव प्रकटयति —
प्रभवेति ।

एते­र्धा­तो­र्ग­त्य­र्थ­स्या­पू­र्वस्य लयार्थत्वेऽपि कथमनाद्यनन्तस्य लयः स्यादि­त्या­शङ्क्य तदी­य­ल­य­स्यौ­पा­धि­कत्वं वक्तुं जागरितमनुवदति —
मन इति ।
बुद्धिपरिणामा एवो­पा­ध­य­स्तै­र­स्या­र्थ­वि­शे­ष­यो­गा­च्च­क्षु­रा­दी­न्द्रि­यै­स्ता­नेव स्थूला­न­र्था­न्प­श्य­ञ्जी­व­स्त­द्वि­शे­षेण स्थूल­दे­हे­नै­क्या­रो­प­मा­पन्नो जागर्तीति व्यवह्रियत इत्यर्थः ।

स्वप्न­मु­प­न्य­स्यति —
तद्वासनेति ।
जाग्र­द्वा­स­ना­भि­र्वि­चि­त्रा­भि­र्वि­शिष्टो मनो­मा­त्रो­पा­धि­र्जीवः स्वप्ना­नु­च्चा­व­चा­न्वा­स­ना­मा­त्र­दे­हा­न­नु­भ­वन् ‘एवमेव खलु सोम्यैतन्मनः’ इति मनःशब्दवाच्य इति मनोद्वारा लक्ष्यो भवतीत्यर्थः ।

तथापि कुतोऽस्य लयो­क्ति­रि­त्या­श­ङ्क्याह —
स इति ।
स्थूलं सूक्ष्मं चोपाधिद्वयं, तत्कृतो विशेषो गन्तृ­त्व­द्र­ष्टृ­त्वादिः ।

स्वपि­ति­ना­म­नि­रु­क्ते­र­र्थ­वा­द­त्वान्न श्रुता­र्थ­ते­त्या­शङ्क्य तद्या­था­र्थ्यार्थं दृष्टा­न्त­द्व­य­माह —
यथेत्यादिना ।
तस्य हृद­य­श­ब्द­स्यै­त­देव निरुक्तं निर्वचनम् । ‘अशनापिपासे मे सोम्य विजानीहि’ इत्यु­प­क्र­म्या­शि­त­स्या­न्नस्य द्रवीकरणेन नय­ना­ज्ज­र­णा­दा­पोऽ­श­नायाः । छान्दसमेकवचनम् । एव­म­श­ना­या­श­ब्द­स्याप्सु प्रवृत्तौ मूलं दर्शयति - ‘आप एव तदशितं नयन्ते’ इति श्रुतिः । द्राव­को­द­क­पा­न­न­य­ना­त्तस्य शोषणादुदन्यं तेजः । आकारश्छान्दसः । एवमुदन्यशब्दस्य तेजसि प्रवृत्तौ निमित्तं ‘तेज एव तत्पीतं नयते’ इति श्रुति­र्द­र्श­य­तीति योजना ।

दृष्टा­न्त­यो­रर्थं दार्ष्टान्तिके योजयति —
एवमिति ।

प्रधानस्य व्यापि­त्वा­द­व्या­पि­जी­व­ल­य­स्था­न­त्व­यो­गा­दु­क्त­हे­तो­र­न्य­था­सि­द्धि­मा­शङ्क्य चितोऽ­चि­त्त्वा­प­त्ति­र­यु­क्ते­त्याह —
नचेति ।

स्वश­ब्द­स्या­त्मी­येऽपि शक्त­त्वा­त्प्र­धाने प्रवृ­त्ते­र­न्य­था­सि­द्धि­ता­द­व­स्थ्य­मा­श­ङ्क्योक्तं स्फोरयति —
यदीति ।
स्वशब्दस्यात्मा मुख्योऽ­र्थ­स्त­त्स­म्ब­न्धा­दा­त्मीयो लक्ष्य इति तद्ग्र­ह­स्या­नौ­चि­त्य­मे­व­म­पी­त्यु­क्तम् । मृदात्मनो घटस्य मृद्येव लयादात्मीये जला­दा­व­दृ­ष्टे­रि­त्यर्थः ।

स्वपि­ति­ना­म­नि­रु­क्ति­श्रु­त्य­नु­ग्रा­ह­क­त्वेन बृह­दा­र­ण्य­क­श्रुतिं पठति —
श्रुत्यन्तरं चेति ।

तस्य तात्पर्यमाह —
सुषुप्तेति ।

हेतो­र­न्य­था­सि­द्ध्य­भावे फलितमाह —
अत इति ॥ ९ ॥

उप­क्र­मो­प­सं­हा­र­यो­र्ब्र­ह्म­ण्ये­क­वा­क्यत्वं तात्प­र्य­लि­ङ्ग­मु­क्त्वा­भ्यासं लिङ्गान्तरं वक्तुं सूत्रान्तरं निक्षिपति —
कुतश्चेति ।

श्रुति­प्रा­मा­ण्यै­क्या­त्प्र­त्यु­प­नि­ष­द­म­भ्या­सेन चेत­न­का­र­ण­ता­व­ग­ति­रे­क­रू­पे­त्य­यु­क्त­म­ने­क­रू­प­त्व­प्र­स­ङ्गा­दि­त्या­शङ्क्य कार­ण­वि­ष­य­त्वा­त्त­र्क­ज­न्य­धी­व­द­तु­ल्य­त्व­प्र­सक्तिं वक्ति —
यदीति ।

वस्तु­त­श्चि­द­चि­दा­त्म­क­म­न्य­दि­त्युक्तं विरु­द्धा­र्थ­त्वा­त्तर्हि त्यागो वेदा­न्ता­ना­मि­त्या­शङ्क्य तेषामेकार्थतया नयनादत्यागमाह —
तत इति ।

अस्तु तर्हि तेष्वपि कार­णा­व­ग­ते­र­ने­क­रू­पत्वं, नेत्याह —
नत्विति ।

तर्हि जडाजडार्थवचसोः सालम्बनत्वाय द्व्यात्मके ब्रह्मण्येव गति­सा­मा­न्य­मि­त्या­शङ्क्य चिदेकरसे तस्याः सामान्यमाह —
समानेति ।
विस्फु­लि­ङ्ग­प्र­स­ङ्गार्थं ज्वलत इत्युक्तम् । विप्र­ति­ष्ठे­र­न्ना­ना­ग­ति­त्वेन दिशो दशापि प्रसृताः स्युरित्यर्थः । प्राणा­श्च­क्षु­रा­दयो यथायतनं यथागोलकं विप्रतिष्ठन्ते । विवि­ध­मु­द्ग­च्छ­न्तीति यावत् । प्राणे­भ्योऽ­न­न्त­र­मा­दि­त्या­द­य­स्त­द­नु­ग्रा­हका देव­ता­स्ता­भ्योऽ­न­न्तरं लोक्यन्त इति लोका विषया भवन्तीत्यर्थः ।

अनुक्तानामपि वेदा­न्ता­ना­मुक्तैः सहास्मिन्नर्थे तात्पर्यं सूचयति —
आत्मन इति ।

जडा­ज­डा­त्म­का­ख­ण्ड­रू­प­मा­त्म­श­ब्द­मिति कुतो विव­क्षि­त­धी­रि­त्या­शङ्क्य जडस्य स्वरू­पा­भा­स­त्वा­द­ख­ण्डा­ज­ड­चै­त­न्य­मे­वा­त्मे­त्याह —
आत्मेति ।

स्वतः­प्रा­मा­ण्या­दे­क­स्यापि वाक्यस्य स्वार्थ­धी­हे­तु­त्वा­त्त­त्रा­नु­ग्रा­ह­क­वा­क्या­न्त­रो­क्ति­र­न­र्थि­के­त्या­श­ङ्क्याह —
महच्चेति ।
एका­र्थ­त्वोक्त्या ज्ञानदार्ढ्याय वाक्या­न्त­र­मि­त्यर्थः ।

वेदान्तानां चेतनकारणे तुल्यगतित्वे दृष्टान्तमाह —
चक्षुरादीनामिति ।
सर्वेषां चक्षू रूपमेव ग्राहयति न रसादि कस्यचिदिति रूपे चक्षुषो गतिसामान्यं दृष्टम् । रसनादीनामपि रसादिषु । तथा वेदान्तानामपि चेतनकारणत्वे तुल्य­ग­ति­त्व­मि­त्यर्थः ।

सूत्रार्थं निगमयति —
अत इति ॥ १० ॥

श्रुत्या स्फुटार्थतया ब्रह्मकारणत्वं वाच्यं, तथा सत्यन्यासां तदै­का­र्थ्य­नि­र्ण­या­दि­त्यु­त्त­र­सू­त्रा­का­ङ्क्षा­माह —
कुतश्चेति ।
‘तदैक्षत’ इत्य­त्रे­क्ष­ण­मात्रं कारणस्य श्रुतं न सर्वज्ञत्वं, तस्य सर्वा­र्थ­त्वा­दा­र्थिकी तद्धीः ।

श्वेताश्वतरे तु सर्वज्ञो जगद्धेतुरिति साक्षादुक्तम् । अतः सर्वोपनिषदां तदे­क­वा­क्य­त्व­धी­रि­त्याह —
श्रुतत्वाच्चेति ।

तद्व्याचष्टे —
स्वशब्देनेति ।
सर्वज्ञस्य वाचकेन शब्देनेति यावत् । सर्वश्चासौ ज्ञश्चेति ।

सर्वबाधशङ्कां वारयति —
ईश्वर इति ।

वक्ष्य­मा­ण­म­न्त्र­स्थ­स­श­ब्दा­र्थ­माह —
सर्वज्ञमिति ।
‘ज्ञः कालकालो गुणी सर्वविद्यः’ इति प्रकृत्य ‘स कारणम्’ इति परा­म­र्शा­ज्ज­ग­द्धेतोः सर्व­ज्ञ­ते­त्यर्थः ।

तस्य सर्वेश्वरत्वमाह —
करणेति ।

तेषामधिपाः स्वामिनो जीवास्तेषामधिपः परमेश्वरः । तस्य सर्व­हे­तु­त्वार्थं विशेषणम् —
न चेति ।

जीवा­न्प्र­ती­श्व­रत्वं हिर­ण्य­ग­र्भा­दे­र­पी­त्या­शङ्क्य नियन्त्रन्तरं निरस्यति —
न चेति ।

महा­प्र­मे­य­मु­प­सं­ह­रति —
तस्मादिति ।
अन्य­दि­त्यु­क्तार्थः ॥ ११ ॥

वृत्त­म­नू­द्यो­त्त­र­स­न्द­र्भ­मा­क्षि­पति —
जन्मादीति ।
ब्रह्मजिज्ञासां प्रतिज्ञायेति वक्तव्यम् ।

तेषा­मे­त­द­र्थ­प्र­ति­पा­द­नो­प­यु­क्त­न्या­य­ग्र­थ­ना­र्थ­मु­त्तरः सन्द­र्भोऽ­र्थ­वा­नि­त्या­श­ङ्क्याह —
न्यायेति ।

अनुक्तवाक्यानां तत्परत्वं वक्तुमुत्तरो ग्रन्थ इत्याशङ्क्याह —
गतीति ।

अनु­क्त­स­म­न्व­या­भा­वा­न्नो­त्त­र­स्यो­त्था­न­मि­त्याह —
अत इति ।

उत्त­र­सू­त्रा­णा­म­ग­ता­र्थत्वं वक्तुमारभते —
उच्यत इति ।

तदर्थं वेदान्तेषु भासमानमर्थं सङ्क्षिपति —
द्विरूपं हीति ।

तत्र सोपाधिकविषयं वाक्यमुदाहरति —
यत्रेति ।
यस्यां खल्व­वि­द्या­व­स्था­या­मा­भा­स­भूतं द्वैतं सदिव भाति तत्रेतरः सन्नितरं पश्यतीति दृष्ट्या­दि­गो­च­र­मु­पा­धि­म­द्वस्तु वदतीत्यर्थः ।

निरूपाधिकविषयं वाक्यं पठति —
यत्र त्विति ।
यस्यां विद्या­व­स्था­या­मस्य विदुषः सर्वं कर्त्रा­द्या­त्मा­ति­रे­के­णा­स­दे­वा­सी­त्तत्र केन करणेन कं विषयं को वा कर्ता पश्ये­दि­त्या­क्षे­पा­द­व्य­व­हा­र्य­म­नौ­पा­धिकं तत्त्वमित्यर्थः ।

निरुपाधिके श्रुत्यन्तरमाह —
यत्रेति ।
यस्मिन्भूम्नि स्थितो विद्वा­न­न्य­द्र­ष्टव्यं चक्षुषा न पश्यति, अन्यच्च श्रोतव्यं श्रोत्रेण न शृणोति, न चान्यन्मन्तव्यं ज्ञातव्यं वा मनसा बुद्ध्या वा मनुते जानाति वा, स भूमा दृष्ट्या­द्य­गो­चरो निर­ति­श­य­म­ह­त्त्व­स­म्पन्नः परमात्मेत्यर्थः ।

तत्रै­वा­वा­न्त­र­वाक्ये सोपाधिकमपि स्वरू­प­मु­क्त­मि­त्याह —
अथेति ।
निरु­पा­धि­क­भू­मो­क्त्य­न­न्तरं सोपाधिकमपि रूपमुच्यते । यस्मि­न्प­रि­च्छिन्ने वस्तुनि निष्ठो योऽवि­द्वा­न­न्य­द्द्र­ष्ट­व्यादि चक्षु­रा­दि­नाऽ­नु­स­न्धत्ते तदल्पं परि­च्छि­न्न­मु­प­हि­त­मि­त्यर्थः ।

भूम्नोऽल्पस्य च विशेषान्तरमाह —
यो वा इति ।
अथेति द्योतितो विशेषो वाक्येन प्रकटितः ।

सोपा­धि­केऽ­न्त­र्या­मिणि श्रुत्यन्तरमाह —
सर्वाणीति ।
सर्वज्ञो हीश्वरो नामरूपादिकं विश्वं निर्माय तत्र प्रवि­श्या­भि­व­द­नादि कुर्व­न्योऽ­व­ति­ष्ठते तं विद्वा­नि­है­वा­मृतो भवतीत्यर्थः ।

निरुपाधिके श्रुत्यन्तरमाह —
निष्कलमिति ।
निष्कलं निरंशं, निरंशत्वादेव सर्व­क्रि­या­शून्यं निष्क्रियं, तस्मादेव शान्तमपरिणामि, रागादिरहितं निरवद्यं धर्मा­ध­र्मा­द्य­सं­म्बद्धं निरञ्जनम् ।

नभसोऽस्य विशेषमाह —
अमृतस्येति ।

यथा मृद्दारुमयः सेतु­र्न­दी­कु­ल्या­दि­प­र­कू­ल­प्रा­प्ते­रु­पा­य­स्तथा संसारसागरस्य परं पारं परम्ब्रह्म तद्भा­व­स्या­मृ­तस्य वाक्यो­त्थ­बु­द्ध्य­भि­व्यक्तं तदेव साधनं सेतुवदवस्थितम् । तस्योपशान्तत्वे दृष्टान्तमाह —
दग्धेति ।
यथा दग्धे­न्ध­नोऽग्निः शाम्यति तथाऽज्ञानं तदुत्थं च दग्ध्वा स्थितं प्रशान्तं प्रसन्नं विद्यादित्यर्थः ।

इतिभ्यां विश्वं दृश्यमादाय नञ्भ्यां तन्निषेधादपि श्रुत्यन्तरं निरु­पा­धि­का­र्थ­माह —
नेतीति ।

द्रव्य­गु­णा­दि­स­र्व­द्वै­त­नि­षे­धा­दपि वाक्यं तथेत्याह —
अस्थूलमिति ।

रूपद्वये श्रुत्यन्तरमाह —
न्यूनमिति ।
निष्प्र­प­ञ्च­स्थानं न्यूनं परिच्छिन्नं, ततोऽन्यं निष्प्रपञ्चं मुक्तोपसृप्यं त्रिधा­प­रि­च्छि­त्ति­शून्यं सच्चि­दा­न­न्दा­त्म­क­मि­त्यर्थः ।

उक्त­वा­क्या­ना­मु­प­ल­क्ष­णत्वं विव­क्षि­त्वो­क्तम् —
एवमिति ।

ननु ब्रह्मणो न द्वैविध्यं, युगपदेकस्य तद्विरोधात् , तत्राह —
विद्येति ।

अद्वै­त­मे­व­वा­स्तवं चेदु­पा­स्यो­पा­स­का­दि­भे­द­स्या­व­स्तु­त्वा­दु­पा­स्ति­वि­ध्या­न­र्थ­क्य­मि­त्या­श­ङ्क्याह —
तत्रेति ।

उपास्तीनामपि मुक्त्य­र्थ­त्वा­द्वि­द्या­व­द्व­स्तु­गा­मि­ते­त्या­शङ्क्य साक्षान्न मोक्षा­र्थ­ते­त्याह —
तत्रेति ।
अभ्युदयार्थानि प्रतीकोपासनानि । क्रम­मु­क्त्य­र्थानि दहराद्युपासनानि । कर्म­स­मृ­द्ध्य­र्था­न्यु­द्गी­था­दि­ध्या­नानि । यद्यपि विधेयत्वादेतानि कर्मकाण्डे युक्तानि तथापि मानसत्वेन विद्या­सा­म्या­दि­हो­क्ता­नी­त्यर्थः ।

उपा­स्यै­क्या­त्त­त्प्रा­प्ते­रु­पा­स्ति­फ­ल­त्वा­दु­पा­स्ति­त­त्फ­ल­भे­दा­सि­द्धि­मा­श­ङ्क्याह —
तेषामिति ।

परस्य गुण­भे­दा­दु­पा­स्ति­भे­दाच्च भेदेऽपि स्वरू­पा­भे­दा­दु­पा­स्त्या­दि­भे­दा­यो­ग­ता­द­व­स्थ्य­मा­शङ्क्य स्वरू­पा­भे­देऽ­प्यु­प­हि­त­भे­द­माह —
एक इति ।

उपा­स्ति­प्र­च­य­सं­स्का­रा­दु­पा­स्य­त­द्गु­ण­प्रा­प्ति­रि­त्यत्र श्रुत्यन्तरमाह —
यथेति ।
क्रतुः सङ्कल्पो ध्यानम् ।

ध्यान­सं­स्का­र­प्र­च­या­द्ध्ये­या­त्मतां ध्याता देहपाते प्रतिपद्यते किंवा तदापि पूर्व­व­द्ध्या­तृ­त्व­मे­वेति संशये संस्का­र­प्र­क­र्षा­द्दे­व­ता­त्म­त्व­मे­वा­प्नो­तीति निर्णेतुमाह —
स्मृतेश्चेति ।

सर्व­त्रा­त्मै­क्या­त्तस्य कौट­स्थ्या­त्त­स्यै­वो­पा­स्य­त्वा­त्कु­त­स्त­त्ता­र­त­म्य­श्रु­ति­रि­त्या­शङ्क्य नीहा­रा­द्या­व­र­ण­भे­दा­दा­दि­त्य­व­द्वि­द्या­ता­र­त­म्या­दात्मा वस्तुतो निरतिशयोऽपि सातिशयो भातीत्याह —
यद्यपीति ।
यथो­क्त­स्या­प्या­त्मनः स्थावरादारभ्य ब्रह्मान्तेषु प्राणि­षू­त्त­रो­त्त­र­मा­वि­ष्टस्य बुद्ध्यु­पा­धि­शु­द्ध्यु­त्क­र्ष­ता­र­त­म्या­त्प्र­ज्ञा­धी­नै­श्व­र्य­श­क्ति­वि­शे­षै­स्ता­र­त­म्यम् । तस्यो­क्तो­पा­धि­कस्य प्रकृतस्मात्मनो यो ध्याता स्वरू­प­मा­वि­स्त­रा­म­ति­श­येन प्रक­ट­मु­पा­स्ति­व­शा­द्बु­ध्यते सोऽश्नुते ह्यावि­र्भू­ये­त्यै­त­रे­यके श्रुतम् । तथा चोपास्यतारतम्यं श्रौतमौपाधिकं युक्तमित्यर्थः ।

उपा­स्ये­श्व­र­ता­र­तम्यं भगवद्गीतास्वपि सिद्धमित्याह —
स्मृताविति ।

श्रुति­स्मृ­ति­ता­त्प­र्य­माह —
यत्रेति ।

न केवलं द्वैविद्यं ब्रह्मणः श्रुति­स्मृ­त्यो­रेव सिद्धं किन्तु सूत्रकृतोऽपि मतमित्याह —
एवमिति ।

श्रुति­स्मृ­त्यो­रिव प्रकृतेऽपि शास्त्रे द्वैरूप्यं ब्रह्मणो भाति । तत्र सोपा­धि­क­ब्र­ह्म­वि­ष­य­म­न्त­स्त­द्ध­र्मा­धि­क­र­ण­मु­दा­ह­रति —
आदित्येति ।

उक्तन्यायं तुल्यदेशेषु प्रसारयति —
एवमिति ।

सोपा­धि­को­प­दे­श­व­न्नि­रु­पा­धि­को­प­देशं दर्शयति —
एवमित्यादिना ।
आत्मज्ञानं निर्णेतव्यमिति सम्बन्धः ।

निर्णे­य­प्र­स­ङ्ग­माह —
परेति ।

अन्न­म­या­द्यु­पा­धि­द्वा­रो­क्तस्य कथं परविषयत्वं, तत्राह —
उपाधीति ।

निर्णयक्रममाह —
वाक्येति ।

उक्तार्थमधिकरणं क्वास्ती­त्या­श­ङ्क्यो­क्तम् —
यथेति ।
अस्मि­न्ने­वा­धि­क­रणे यथा निरुपाधिकं ब्रह्मैवोच्यते यथा द्युभ्वा­द्या­य­त­न­मि­त्या­दि­ष्व­पी­त्यर्थः ।

श्रुति­स्मृ­ति­सू­त्रेषु दृष्टं ब्रह्म­द्वै­रूप्यं शिष्ट्वाऽ­न­न्त­र­स­न्द­र्भा­रम्भं सम्भावयति —
एवमिति ।
अपे­क्षि­तो­पा­धि­स­म्ब­न्ध­मु­पा­स्य­त्वेन, निर­स्तो­पा­धि­स­म्बन्धं च ज्ञेयत्वेनति सम्बन्धः । तस्या­द्या­प्य­वि­वे­का­त्कु­त्रो­पा­धि­रिष्टः कुत्र वा नेति निरू­प­यि­तु­मु­त्त­र­ग्रन्थ इत्यर्थः ।

सिद्ध­व­दु­क्त­ग­ति­सा­मा­न्य­स्यापि साध­ना­ये­त्यु­त्त­र­स्यो­प­यो­गा­न्त­र­माह —
यच्चेति ।
वाक्यान्तराणि । व्याक्या­ता­ति­रि­क्ता­नीति यावत् ।

वेदा­न्ता­ना­म­वि­शे­षेण निर्विशेषे ब्रह्मणि समन्वये सिद्धे क्वचित्तस्य हिर­ण्म­य­वा­क्या­दा­व­प­वादः, क्वचि­दा­न­न्द­म­य­वा­क्यादौ तदाभासे तदसत्त्वमुच्यत इत्य­ध्या­य­शे­षा­रम्भे स्थिते निर्गुणविषयमेव तावदधिकरणं प्रस्तैति —
आनन्दमय इति ।

तस्य वृत्तिकारमतेन विषयमाह —
तैत्तिरीयक इति ।
अन्नरसविकारो देहोऽन्नमयः, प्राणो­पा­धि­रात्मा प्राणविकारः प्राणमयः, मनो­म­य­स्त­दु­पा­धि­रात्मा तद्विकारः, विज्ञानमयो विज्ञा­नो­पा­धि­रात्मा विज्ञानविकारः । यद्वा भृगु­व­ल्ल्यु­क्ता­धि­दै­वि­का­न्ना­दी­न्प्र­त्या­ध्या­त्मि­का­न्ना­दि­कोशा विका­रा­स्त­दे­त­च्च­तु­ष्टयं ‘स वा एषः’ इत्यादिना क्रमे­णो­क्त्वा­न­न्द­मय उक्तः ‘तस्मा­द­न्योऽ­न्तर आत्मा विज्ञानमयः’ इति सूत्रि­ता­दि­त्ये­त­त्त­स्यैव स्मृत्यर्थो वैशब्दः । एतस्मात् ‘तस्य श्रद्धैव शिरः’ इत्यादिना व्याख्यातात् ।

ततोऽन्यत्वं मनोमयस्यापीत्यत उक्तम् —
अन्तर इति ।

तस्मा­दा­न­न्द­म­य­शब्दे मयटो विका­र­प्रा­चु­र्य­सा­धा­र­ण्या­द्वि­चा­र­बीजं संशयमाह —
तत्रेति ।

ईक्षत्यधिकरणे मुख्यसम्भवे गौण­स्या­न­व­का­श­त्वा­द्वि­ष­या­नु­दये प्राय­पा­ठ­स्या­कि­ञ्चि­त्क­र­त्वा­द­मु­ख्ये­क्ष­ण­प्र­वा­ह­पा­तेऽपि जगत्कारणे मुख्यं तदित्युक्तम् । इह तु मयटो विका­र­प्रा­चु­र्य­यो­र्मु­ख्यत्वे सति विषयोदये प्राचु­र्या­र्था­त्प्रा­य­दृ­ष्टे­र्व्या­व­र्त­क­त्वा­त्पू­र्वा­धि­क­र­ण­सि­द्धा­न्ता­भा­वेन पूर्व­प­क्षो­न्मे­षा­त्प्र­त्यु­दा­ह­र­णा­त्मिकां सङ्गतिं विव­क्ष­न्ना­का­ङ्क्षा­द्वारा पूर्वपक्षयति —
किमिति ।

श्रुत्या­दि­स­ङ्ग­ति­च­तु­ष्टयं फलं च वक्ष्यते । मयटः साधारण्येऽपि विशेषग्रहे हेतुर्नास्तीति —
कस्मादिति ।

विकारप्रायपाठं हेतुमाह —
अन्नेति ।

प्रायपाठेऽपि प्रकरणाल्लिङ्गं बलवदित्याह —
अथापीति ।

साव­य­व­त्व­शा­री­र­त्व­लि­ङ्गाभ्यां मयट्श्रुत्या चानुगृहीतं प्रकरणमेव प्रबलमित्याह —
न स्यादिति ।

साव­य­व­त्व­स्या­न्य­था­सिद्धिं प्रत्याह —
मुख्यश्चेदिति ।
तस्य निष्क­ल­त्व­श्रुत्या निरं­श­त्वा­दि­त्यर्थः ।

आनन्दमयेऽपि कुतः सावयवत्वं, तत्राह —
इह त्विति ।

लिङ्गान्तरं विभजते —
शारीरत्वं चेति ।

व्यव­हि­ता­न्व­ये­ना­भी­ष्टा­र्थ­दृष्टौ व्याचष्टे —
तस्येति ।

शारीरत्वेऽपि परमात्मत्वं किं न स्यात् , तत्राह —
न चेति ।
प्रिया­दि­स्प­र्शित्वे च संसा­रि­त्व­मि­त्यर्थः ।

का तर्हि सर्वान्तरत्वस्य गतिरित्याशङ्क्य चतु­ष्को­शा­न्त­र­त्व­मेव न सर्वा­न्त­र­त्व­मि­त्याह —
तस्मादिति ।
उक्तं प्रकारणादि तच्छब्दार्थः । आनन्दमये संसा­रि­ण्यु­पा­स्ति­द्वारा दुःख­र­हि­त­प्रि­या­दि­यु­क्त­स्व­रू­पा­व­स्थानं फलं वक्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।

सौत्रीं प्रतिज्ञां विभजते —
पर एवेति ।

प्रकरणादिना तस्य संसारित्वे प्रति­ज्ञा­नु­प­प­त्ति­रि­त्याह —
कुत इति ।

हेतुमादाय व्याकरोति —
अभ्यासादिति ।

आन­न्द­श­ब्दा­भ्यासे कथमानन्दमयस्य ब्रह्म­ते­त्या­शङ्क्य ब्रह्मणि प्रयु­क्त­पू­र्वस्य तस्य प्रक­र­णा­दा­न­न्द­मये प्रयो­गा­ज्ज्यो­ति­ष्टो­मा­धि­कारे ज्योतिः­श­ब्दा­भ्या­स­व­दा­न­न्द­म­या­धि­कारे तत्पदाभ्यासस्य तद्वि­ष­य­त्वा­दि­त्याह —
आनन्दमयमिति ।
रसः सारः । अन्न­म­या­दि­को­श­च­तु­ष्ट­या­न्त­र­त्वा­दा­न­न्द­म­योऽ­यम् । लब्ध्वा ध्याता ।

पूर्ण­श्चे­दा­नन्दः सर्वसाक्षी सर्वप्रेरको न स्यात्तदा प्राणा­दे­र­चे­त­नस्य चेष्टा न युक्तेत्याह —
को हीति ।

सर्वा­न­न्द­यि­तृ­त्वा­दपि परा­न­न्द­त्व­म­स्ये­त्याह —
एष हीति ।

'युवा स्यात्’ इत्यादिना सार्वभौममारभ्य ब्रह्मा­न्त­मु­त्त­रो­त्त­र­मु­त्कु­ष्टा­न­न्दस्य ब्रह्मणि समाप्तिफला मीमांसा ‘सैषा’ इत्युक्ता । मय­ड­न्त­स्या­भ्या­स­माह —
एतमिति ।
उपसङ्क्रमणं प्राप्ति­र्ब्र­ह्मणः स्वरूपमिति शेषः ।

गतिसामान्यार्थं ब्रह्म­ण्या­न­न्द­श­ब्द­स्या­न्य­त्रापि प्रयुक्तत्वमाह —
श्रुत्यन्तरे चेति ।

तथापि कथमानन्दमयस्य ब्रह्म­त्व­मि­त्या­शङ्क्य हेत्व­र्थ­मु­प­सं­ह­रति —
एवमिति ।
अभ्यासात्तस्य चाधि­का­रा­दा­न­न्द­म­या­र्थ­त्वा­दिति शेषः ।

लिङ्गात्तस्य ब्रह्म­त्व­मुक्त्वा तद­ब्र­ह्म­त्व­हेतुं प्रायपाठमनुवदति —
यत्त्विति ।

लिङ्गबाध्यः सन्निधिरित्याह —
नासाविति ।

तस्य चतु­ष्को­शा­न्त­र­त्व­मेव न सर्वा­न्त­र­त्व­मि­त्यु­क्त­मा­शङ्क्य तात्पार्यमाह —
मुख्यमिति ।

किमिति तर्हि प्रथ­म­म­न्न­म­या­दि­च­तु­ष्ट­य­मा­दिष्टं, तत्राह —
लोकेति ।

कथं तर्हि देहे मनु­ष्योऽ­ह­मि­त्या­त्म­त्व­धी­रि­त्या­श­ङ्क्या­वि­वे­का­दि­त्याह —
अत्यन्तेति ।

अन्न­म­या­त्प्रा­ण­म­यस्य ततो मनोमयस्य तस्मादपि विज्ञानमयस्य तत­श्चा­न­न्द­म­य­स्या­न्त­रत्वे दृष्टान्तः —
मूषेति ।

तर्हि प्राण­म­या­दे­रे­वा­न्य­त­म­स्या­त्म­त्व­स­म्भवे किमा­न­न्द­म­ये­ने­त्या­श­ङ्क्याह —
पूर्वेणेति ।

अनात्मत्वेन साम्ये तत्त­ज्ज्ञा­प­न­म­कि­ञ्चि­त्क­र­मि­त्या­शङ्क्य लोक­बु­द्धि­म­नु­व­द­न्न­नु­स­र­दि­त्युक्तं स्मारयति —
प्रतिपत्तीति ।

आन­न्द­म­या­द­न्य­स्या­न्त­र­स्या­नु­क्ते­रस्य निर­ङ्कु­श­मा­न्त­र­त्व­मि­त्याह —
सर्वेति ।

अमु­ख्य­प्र­वा­ह­पा­तेऽपि मुख्यत्वे दृष्टान्तमाह —
यथेति ।

इहापीति ।
अमुख्यप्रवाहे पतितस्यापीति यावत् ।

लिङ्गेन सन्निधिबाधेऽपि साव­य­व­त्व­लि­ङ्गा­नु­गृ­हीतः स बल­वा­नि­त्या­श­ङ्क्यो­क्त­म­नु­व­दति —
यत्त्विति ।

तस्य विज्ञा­न­म­य­को­शो­पा­ध्य­धी­न­त्वे­ना­न्य­था­सि­द्धेर्न सन्नि­धि­स­हा­य­ते­त्याह —
अतीतेति ।

लिङ्गान्तरं सन्नि­धि­स­हा­य­त्वे­नो­क्त­म­नु­व­दति —
शारीरत्वमिति ।

लिङ्ग­यो­र­न्य­था­सि­द्धत्वे लिङ्गेन केवलसन्निधिबाधे फलितमाह —
तस्मादिति ॥ १२ ॥

मयट्शब्दश्रुतिः सन्नि­ध्य­नु­ग्रा­हि­के­त्यु­क्त­म­नूद्य निरस्यति —
विकारेति ।

तत्रानुवादं व्याख्याति —
अत्राहेति ।

अभ्यासादिना तस्य परत्वे स्थिते कुत­श्चो­द्य­मि­त्याह —
कस्मादिति ।

बलवत्या श्रुत्योत्तरमाह —
विकारेति ।

यथा ‘विकारे च प्रकृतिशब्दः’ इत्यत्र शालिविकारं भुङ्क्ते मुद्ग­वि­का­रे­णे­त्य­स्मि­न्नर्थे शालीन्भुङ्क्ते मुद्गैरिति प्रकृतिशब्दो विकारे प्रयुक्तः, तथा विकारशब्दोऽपि प्रकृतौ स्यादि­त्या­शङ्क्य व्याचष्टे —
प्रकृतीति ।

कः पुनरत्र विकारशब्द इत्युक्ते ‘मयड्वा - ‘ इति सूत्रा­न्म­य­ट्श­ब्दस्य विका­र­वा­चि­त्वा­न्ना­न­न्द­म­यस्य मुख्या­त्म­ते­त्याह —
आनन्देति ।

श्रुते­र्वि­का­रा­र्थत्वे तद्युक्तः सन्निधिः संसारिणमेव गोचरयतीत्याह —
तस्मादिति ।

मयटो विका­रा­र्थ­त्वा­नि­य­मान्न श्रुत्यनुग्रहः सन्निधेरित्याह —
नेति ।

तदेव स्फुटयति —
तत्प्रकृतेति ।
प्राचुर्येण प्रस्तुतं प्रकृतं, तदु­च्य­तेऽ­स्मि­न्निति प्रकृ­त­व­च­न­म­न्नादि । तदिति प्रथ­मा­स­म­र्था­द्य­थो­क्तेऽ­भि­धेये मयट्प्रत्ययो भवतीति प्रचु­र­ता­यु­क्तेऽपि वस्तुनि विका­र­व­न्म­य­ट्स्म­र­णान्न विकारार्थता नियतेत्यर्थः ।

प्राचु­र्या­र्थत्वं मयटो दृष्टान्तेन स्पष्टयति —
यथेति ।

आन­न्द­म­य­श­ब्द­स्या­न­न्द­प्रा­चु­र्या­र्थत्वे तद्वि­प­री­त­दुः­ख­स्यापि लेशतो ब्रह्मणि प्राप्ति­रि­त्या­श­ङ्क्याह —
आनन्देति ।
ब्रह्मानन्दस्य मनुष्यत्वावधिषु पूर्वस्थानेषु सुखा­ल्प­त्वा­पेक्षं प्राचुर्यं न स्वग­त­दुः­ख­ले­शा­पे­क्षम् । अतो ब्रह्म­ण्या­न­न्दै­क­रस्यं युक्तमित्यर्थः ।

श्रुतेर्न सन्नि­धि­स­हा­य­ते­त्यु­प­सं­ह­रति —
तस्मादिति ॥ १३ ॥

सूत्रस्थं चकारं व्याकरोति —
इतश्चेति ।

अवशिष्टं व्याकु­र्व­न्नि­तः­श­ब्दार्थं स्फुटयति —
यस्मादिति ।

ब्रह्मणो नात्रा­न­न्द­हे­तुत्वं भाती­त्या­श­ङ्क्याह —
आनन्दयतीत्यर्थ इति ।

ब्रह्मणो लौकि­का­न­न्द­हे­तु­त्वेऽपि कथं प्राचुर्यार्थता मयटः स्यादि­त्या­श­ङ्क्याह —
यो हीति ।

तदेव तद्दृष्टान्तेन स्फोरयति —
यथेति ।

प्राचु­र्या­र्थत्वे मयटः स्थिते फलितमाह —
तस्मादिति ॥ १४ ॥

चशब्दार्थमाह —
इतश्चेति ।

तदेव हेत्वन्तरमाह —
यस्मादिति ।
तस्मादिति व्यवहितेन सम्बन्धः । यन्निर्धारितं तदेवेह गीयत इति योजना ।

प्रक­र­णा­वि­च्छे­दार्थं तदनुसन्धत्ते —
यस्मादिति ।

भूतयोनेरेव सर्व­प्र­त्य­क्त­म­त्वेन सर्वान्तरत्वमाह —
यच्चेति ।

तस्यैव ज्ञेयत्वेन प्रकृतत्वमाह —
यस्येति ।

तदे­वा­त्रो­च्य­मा­न­मिति कुतो गम्यते, तत्राह —
मन्त्रेति ।

अविरोधादिति ।
एकार्थत्वे सत्यु­पा­यो­पे­य­त्व­यो­गा­दि­त्यर्थः ।

तयोरनेकार्थत्वे दोषमाह —
अन्यथेति ।

अन्न­म­या­दी­ना­म­ना­त्म­त्वेऽ­प्य­वि­रो­ध­व­दि­हापि स्यादि­त्या­श­ङ्क्याह —
नचेति ।
ब्रह्म­ण­स्त­दा­न्त­रत्वं पुच्छ­श्रु­ति­ह­त­मिति भावः ।

किञ्च भृगुवल्ल्यां पञ्च­म­प­र्या­ये­णो­प­सं­हा­रा­त्तस्य ब्रह्मा­र्थ­त्व­व­द­त्रापि तस्य स्थाना­त्त­द­र्थ­ते­त्याह —
एतन्निष्ठेति ।

प्रक­र­णा­दि­सि­द्ध­म­र्थ­मु­प­सं­ह­रति —
तस्मादिति ॥ १५ ॥

पूर्वसूत्रस्थं चकारमाकृष्य सूत्रस्य हेत्व­न्त­र­प­र­त्व­माह —
इतश्चेति ।

जीवस्य प्रति­पा­द्य­त्वा­प्राप्त्या किं निषे­ध्य­मि­त्य­श­ङ्क्या­न­न्द­म­य­श­ब्द­वा­च्य­ते­त्याह —
नेति ।

तस्यापि वैष­यि­क­वि­वि­धा­न­न्द­भा­क्त्वा­त्त­च्छ­ब्दत्वं किं न स्यादित्याह —
कस्मादिति ।

हेतुमादाय व्याकर्तुं भूमिकां करोति —
अनुपपत्तिरिति ।
आलोचनं तपो नायासमयम् ।

असत्वेवं कानुपपत्तिः, तत्राह —
तत्रेति ॥ १६ ॥

जीव­स्या­न­न्द­म­य­त्व­नि­षेधे हेत्वन्तरमाह —
भेदेति ।

चकारार्थं प्रतिज्ञाय प्रक­ट­य­न्भे­द­व्य­प­देशं विशदयति —
इतश्चेत्यादिना ।

स इत्या­न­न्द­म­य­प­रा­मर्श इति वक्तु­मा­न­न्द­म­या­धि­कार इत्युक्तम् । श्रुतेरर्थमाह —
जीवेति ।

कयानुपपत्त्या भेदोक्तिः, तत्राह —
नहीति ।

लब्धैव लब्धव्यो नचेत् तर्हि श्रुति­स्मृ­त्यो­र­नु­प­प­त्ति­रिति शङ्कते —
कथमिति ।

का तयोरनुपपत्तिः, तत्राह —
यावतेति ।

किमेकत्र वस्तुतो न लब्धृ­ल­ब्ध­व्यत्वं किंवा कल्पनयापि । तत्रा­द्य­म­ङ्गी­क­रोति —
बाढमिति ।

श्रुत्या­द्यु­प­प­त्तये द्वितीयं प्रत्याह —
तथापीति ।
अप्र­च्यु­ता­त्म­भा­वोऽ­ख­ण्डै­क­र­स्यम् । लौकिको लोका­द­न­पे­तोऽ­प्रा­मा­णिकः ।

तस्य फलवत्त्वमाह —
तेनेति ।
अन्वेषणं विचा­रा­र­म्भ­मात्रं, तत्फ­ला­प्ति­र्लाभः, श्रवणं शक्ति­ता­त्प­र्य­धी­रिति भेदः । द्रष्टृ­द्र­ष्ट­व्य­त्वा­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् जीव­त्वे­ना­न­न्द­म­यस्य जीव­स्या­वि­द्य­यापि जीवा­द्भे­दा­भा­वान्न भेदव्यपदेशः स्यादिति भावः ।

किमिति कल्पितभेदेन लब्धृ­ल­ब्ध­व्य­त्वा­द्यु­च्यते, श्रुत्या­दि­व­शा­द्वा­स्तावो भेदोऽ­स्त्वि­त्या­श­ङ्क्याह —
प्रतिषिध्यत इति ।

जीव­श्चे­न्ने­श्व­रा­द­न्य­स्तर्हि सोऽपि ततोऽन्यो नेति तस्यापि कल्पि­त­त्व­मि­त्या­श­ङ्क्याह —
पर­मे­श्व­र­स्त्विति ।

कल्पि­त­स्या­धि­ष्ठा­ना­दृते सत्त्वा­द्य­यो­गा­द्भे­दे­ना­स­त्त्वेऽपि ततोऽ­न्य­दे­वा­धि­ष्ठानं, सत्ता­स्फूर्त्योः स्वात­न्त्र्या­दिति मत्वा दृष्टान्तमाह —
यथेति ।

सूत्रारूढः स्वतोऽपि मिथ्या, जीवे भेदमात्रं तथा, न स्वरू­प­मि­त्य­प­रि­तो­षा­दु­क्तम् —
यथा वेति ।

तथापि सूत्र­द्व­य­सा­म­र्थ्या­त्पा­र­मा­र्थिकं भेदमाशङ्क्याह —
ईदृशं चेति ।
अन्यथा श्रुति­सू­त्र­वि­रोध इति भावः ॥ १७ ॥

नन्वौपचारिकस्य कामयितृत्वस्य प्रधानेऽपि सम्भ­वा­त्त­दे­वा­न­न्द­म­य­त्वेन कारणत्वेन वापेक्ष्यतां, न पर­मा­त्मे­त्या­श­ङ्क्याह —
कामाच्चेति ।

तद्व्याख्याति —
आनन्देति ।

ईक्षत्यधिकरणे प्रधानस्य निर­स्त­त्वा­दि­हापि तन्निरासे पुन­रु­क्ति­रि­त्या­श­ङ्क्याह —
ईक्षतेरिति ।

प्रास­ङ्गि­क­नि­रा­सस्य प्रकृतोपयोगमाह —
गतीति ॥ १८ ॥

आनन्दमयस्य प्रधा­न­जी­व­यो­र­न्य­त­र­त्वा­भावे हेत्वन्तरं काम­यि­तृ­त्व­स्या­गौ­णत्वं सूचयन्नाह —
अस्मिन्निति ।

चशब्दार्थमाह —
इतश्चेति ।

अस्मिन्नित्यादि व्याकु­र्व­न्नि­तः­श­ब्दार्थं स्पष्टयति —
यस्मादिति ।

प्रधानपक्षेऽपि तद्योगः स्यादि­त्या­श­ङ्क्याह —
तदात्मनेति ।

स्वतो भिन्न­यो­स्ता­दा­त्म्य­स­म्बन्धं व्यावर्तयति —
तद्भावेति ।

उक्तार्थं पदमनूद्य क्रिया­प­दा­पे­क्षितं पूरयति —
तद्योगमिति ।
यस्या­मै­क्य­ज्ञा­ना­व­स्थायां विद्वा­ने­त­स्मि­न्ब्र­ह्मणि पञ्ची­कृ­त­भू­त­प­ञ्च­केन, तत्कार्येण च सम­ष्टि­स्थू­ल­दे­हेन विराजा दृश्य­श­ब्दि­ते­नै­क्य­ता­दा­त्म्य­शून्ये, स्वस­म्ब­न्धि­त­या­ध्य­स्ते­न्द्र­य­जा­ते­ना­प­ञ्ची­कृ­त­भू­त­का­र्ये­णा­त्म्येन तादा­त्म्या­दि­हीने, निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चा­भे­द­व­र्जिते, निःशेषलयस्थानं निलयनमिति मूल­प्र­कृ­ते­रु­क्ते­स्त­त्ता­दा­त्म्या­दि­र­हिते, प्रकर्षेण स्थितिं पुन­रा­वृ­त्ति­र­हितां लभते ।

अभयं यथा स्यादित्युक्तं व्यनक्ति —
अथेति ।

ज्ञाने फलमुक्त्वा ज्ञानाभावे दोषमाह —
यदा हीति ।

भेद­स्या­ना­दि­त्वा­त्त­त्का­र­णा­धी­न­दो­षो­क्ति­र­यु­क्ते­त्या­श­ङ्क्याह —
एतदिति ।

‘अभयं प्रतिष्ठाम् ‘ इत्युक्त्वा पुनः ‘अभयं गतो भवति’ इत्युक्ते पुन­रु­क्ति­रि­त्या­श­ङ्क्याह —
यदा त्विति ।

शास्त्र­स्या­न्य­था­सिद्धिं प्रत्याह —
तच्चेति ।

वृत्तिकृतां मतमुपसंहरति —
तस्मादिति ।

परस्य ज्ञेयत्वे कैवल्यं फलतीति मत्वाह —
इति स्थितमिति ।

अत्र चानन्दमये परस्मिन्नात्मनि स्पष्ट­ब्र­ह्म­लि­ङ्गानां तैत्ति­री­य­क­श्रु­तीनां समन्वयादस्ति सङ्ग­ति­च­तु­ष्ट­य­मिति स्वम­त­स­ङ्ग्र­हार्थं स्वयूथ्यमतं दूषयति —
इदं त्विति ।
इहेति परस्य व्याख्योक्तिः ।

पर्यायचतुष्टये मयटो विका­रा­र्थ­त्वा­त्प­ञ्चमे पर्याये तादर्थ्यमिति प्रकरणं दर्शयति —
स वा इति ।
‘मयड्वा - ‘ इति सूत्रा­न्म­य­ट्शब्दो विकारे श्रुतिरिति वक्तुं विकारार्थे मयडित्युक्तम् । विकारप्रकरणं प्रकटयितुं प्रवाहपदम् ।

प्रिया­द्य­व­य­व­त्वस्य विकारार्थे लिङ्ग­त्वा­त्प्रा­चु­र्या­र्थत्वे च हेत्वभावान्मयटो न तदर्थतेत्याह —
आनन्देति ।

एकस्यैव मयटोऽर्थद्वयं नेत्यत्र दृष्टान्तमाह —
अर्धेति ।

श्रुति­लि­ङ्ग­प्र­क­र­ण­वि­रो­धेन प्राचु­र्या­र्थत्वे मयटो दृष्टान्तोऽपि नास्तीत्याह —
कथमिति ।

विकारार्थत्वे निश्चिते तद्वाक्यस्य न ब्रह्मा­र्थ­ते­त्याह —
ब्रह्मेति ।

कथंशब्दस्य प्रश्ना­र्थ­ता­मु­पेत्य प्रकरणेन शङ्कते —
मान्त्रेति ।

न प्रकरणमात्रं निया­म­क­म­ति­प्र­स­क्ते­रि­त्याह —
अन्नेति ।

तेषामब्रह्मत्वं लिङ्गादिति शङ्कते —
अत्रेति ।

आनन्दमयादपि पुच्छं ब्रह्मा­न्य­दा­न्त­र­मु­क्त­मि­त्या­श­ङ्क्याह —
आनन्देति ।
ब्रह्म­ण्या­न्त­र­त्व­म­श्रुतं, पुच्छत्वं तु श्रुतमित्यर्थः ।

तस्मा­दा­न्त­र­स्या­नुक्तौ प्राक­र­णि­क­म­र्थ­माह —
तेनेति ।

तस्याब्रह्मत्वे दोषमाह —
अन्यथेति ।

किमा­न­न्द­म­या­दा­न्त­र­त्वे­ना­न्य­स्या­नु­क्ते­स्तस्य ब्रह्मत्वं, किंवा­न्य­स्यै­वा­नु­क्ते­रिति विकल्पयति —
अत्रेति ।

तत्रा­न­न्द­म­या­दा­न्त­र­स्या­श्रु­ति­मु­पेत्य ब्रह्मत्वं प्रत्याह —
यद्यपीति ।

अन्यस्य पुच्छ­ब्र­ह्म­णोऽ­भि­धा­ना­दिति हेतुं ब्रुवन्द्वितीयं निराह —
यत इति ।
इष्टार्थदृष्टौ व्यक्तं हर्षमात्रं प्रियम् । इष्टस्मृतौ हर्षो मोदः । स चाभ्या­सा­त्प्र­कृष्टः प्रमोदः । सुखमात्रमानन्दः ।

मन्त्रवर्णोक्तं ब्रह्म, पुच्छवाक्ये ब्रह्म­श­ब्दा­त्प्र­त्य­भि­ज्ञा­तम् । ब्रह्मत्वे त्वानन्दमयस्य ब्रह्म­श­ब्द­स्या­न्यत्र वृत्तिः, आनन्दमयशब्दस्य ब्रह्म­ण्य­प्र­यु­क्तस्य तस्मि­न्प्र­यु­क्ति­श्चे­त्य­युक्तं स्यादिति श्रुति­ता­त्प­र्य­माह —
तत्रेति ।

आन­न्द­म­य­स्या­ब्र­ह्मत्वे तदु­क्ति­वै­य­र्थ्य­मा­श­ङ्क्या­न्न­म­या­दि­व­त्पु­च्छ­ब्र­ह्म­ज्ञा­प­नार्था तदुक्तिरित्याह —
तदिति ।

यदु­क्त­मा­न­न्द­म­य­स्या­ब्र­ह्मत्वे प्रकृ­त­हा­न­म­प्र­कृ­त­प्र­क्रिया चेति, तत्राह —
तत्रेति ।
पुच्छ­ब्र­ह्म­वा­क्यस्य स्वप्र­धा­न­ब्र­ह्मा­र्थत्वे सतीति यावत् ।

पुच्छ­श्रु­ति­वि­रो­धान्न तस्य स्वप्र­धा­ना­र्थ­तेति शङ्कते —
नन्विति ।

पुच्छ­श­ब्द­स्या­त्रा­व­य­वा­र्थ­त्वा­भावे प्रकरणविरोधमाह —
अन्नेति ।

पुच्छ­श्रु­ते­र­व­य­वा­र्थत्वे फलितमाह —
तत्रेति ।

स्वप्र­धा­न­ब्र­ह्मा­धि­का­रा­द्ब्र­ह्म­श­ब्दा­त्त­थैव तत्प्र­त्य­भि­ज्ञाने पुच्छशब्दविरोधे सत्ये­क­स्मि­न्वाक्ये प्रथ­म­च­र­म­श्रु­त­श­ब्द­यो­रा­द्य­स्या­नु­प­स­ञ्जा­त­वि­रो­धिनो बली­य­स्त्वा­त्पु­च्छ­त्वेन गुणत्वबाधया स्वप्र­धा­न­ब्र­ह्म­धी­रि­त्याह —
प्रकृतत्वादिति ।

अन्यथापि प्रकृतत्वं स्यादित्याह —
नन्विति ।

किं प्रकृतं ब्रह्मा­न­न्द­म­य­वाक्ये पुच्छवाक्ये चोच्यते, किंवैकत्रेति विकल्पयति —
अत्रेति ।

प्रथमं प्रत्याह —
तथेति ।
अवयवावयवित्वस्य कल्पि­त­त्वेऽ­प्य­न्न­म­या­दि­ष्वि­वै­कत्र गुण­प्र­धा­न­त्वा­यो­गात् ।

यदि द्वितीयः, तत्राह —
अन्यतरेति ।
अन्य­त­र­स्मि­न्वाक्ये ब्रह्मो­क्ति­स्वी­कारे सतीत्यर्थः ।

वाक्यशेषादपि पुच्छवाक्य एवोच्यते स्वप्रधानं ब्रह्मेत्याह —
अपिचेति ।

श्लोक­स्या­न­न्द­म­या­र्थ­त्व­मा­शङ्क्य तात्पर्यमाह —
अस्मिंश्चेति ।
प्रति­ष्ठे­त्य­त्रै­वेति सम्बन्धः ।

आनन्दमयस्यैव ब्रह्मणो भावा­भा­व­धि­यो­र्गु­ण­दो­षो­क्ति­रि­त्या­श­ङ्क्‌याह —
न चेति ।

पुच्छवाक्ये ब्रह्मशब्देन स्वप्रधानोक्तौ पुच्छशब्दस्य का गतिरिति पृच्छति —
कथमिति ।

तस्य ब्रह्मणि वृत्तिमात्रं वान्विष्यते किं मुख्या वा वृत्तिः । आद्ये, पूर्वो­क्त­पृ­थि­व्या­दि­पु­च्छे­ष्वा­धा­र­त्व­दृष्ट्या ब्रह्मण्यपि सर्वाधारे लक्षणया पुच्छपदमित्याह —
नेति ।

न द्वितीयः, प्रति­ष्ठा­श­ब्द­वि­रो­धा­दि­त्याह —
प्रतिष्ठेति ।

पुच्छत्वेऽपि परायणत्वं वारयति —
एकेति ।

नीड­त्व­मा­श्रि­ता­पेक्षं, तदाह —
लौकिकस्येति ।

पूर्वस्योत्तरेण निर्ण­या­न्ना­व­य­वा­र्थ­तेति फलितमाह —
अनेनेति ।

उक्तेऽर्थे बृहदारण्यकं संवादयति —
एतस्येति ।

ननु वृत्तिकारैरपि तैत्ति­री­य­क­वाक्यं ब्रह्मण्येव समन्वितमिष्टं, तत्र किमु­दा­ह­र­ण­भे­दे­ने­त्या­श­ङ्क्याह —
अपिचेति ।

नन्विह सविशेषमेव ब्रह्मेष्टं, वाक्यशेषे रागा­दि­म­तो­र्वा­ङ्भ­न­स­यो­र­गो­चरो ब्रह्म, शुद्धधियोस्तु गोचर इत्य­भ्यु­प­ग­मा­दि­त्या­शङ्क्य सविशेषस्य मृषा­त्वा­द­प्रा­प्त­नि­षे­धा­पा­ताच्च मैवमित्याह —
निर्विशेषं त्विति ।
अतोऽ­भी­ष्ट­नि­र्वि­शे­ष­ब्र­ह्म­सि­द्धये पुच्छ­वा­क्य­मे­वो­दा­ह­र्त­व्य­मिति भावः ।

मयटो विका­रा­र्थ­त्वोक्त्या प्राचु­र्या­र्थत्वं निरस्यता पुच्छवाक्ये स्वप्र­धा­न­ब्र­ह्मो­क्ति­रुक्ता । सम्प्रति प्राचु­र्या­र्थत्वे दोषान्तरमाह —
अपिचेति ।
स्वप्र­कृ­त्य­र्थ­प्र­ति­यो­ग्य­ल्प­ता­म­त्रै­वा­न­पेक्ष्य स्थाना­न्त­र­स्थ­त­त्स­जा­ती­या­ल्प­त्वा­पे­क्षा­मा­त्रेण मय­टोऽ­प्र­यो­गा­दि­त्यर्थः ।

अतिमधुरे रुच्यर्थं रसा­न्त­रा­नु­वे­ध­व­दा­नन्दे प्रीत्यु­त्क­र्षा­र्थ­मी­ष­द्दुः­खा­नु­ष­क्ति­रि­ष्टे­त्या­श­ङ्क्याह —
तथाचेति ।

प्राचु­र्या­र्थ­ता­भा­वा­न्म­यटो नानन्दमयो ब्रह्मेत्यत्रैव हेत्वन्तरमाह —
प्रतिशरीरं चेति ।
प्रतिदेहं सातिशयत्वेन भिन्ना­दा­न­न्द­म­या­द्ब्रह्म सर्वा­नु­ग­त­म­न्य­दे­वे­त्यर्थः ।

यत्त्वभ्यासात् ‘आनन्दमयो ब्रह्म’ इति तत्र किमा­न­न्द­म­य­श­ब्द­स्या­भ्यासः किं वान­न्द­श­ब्द­स्येति विक­ल्प्या­द्येऽ­सि­द्धि­माह —
न चेति ।

आनन्दमयं प्रकृत्य ब्रह्मणि प्रयु­क्त­पू­र्वा­न­न्द­श­ब्द­स्या­भ्यासो हेतुरिति द्वितीयं निरस्यति —
यदिचेति ।
आनन्दमयस्य ब्रह्मत्वे प्राति­प­दि­क­मा­त्रा­भ्या­सोऽपि प्रकृ­ता­न­न्द­म­यार्थः । ततस्तस्य ब्रह्म­ता­धी­रि­त्य­न्यो­न्या­श्र­य­तेति भावः ।

आन­न्द­प­दा­भ्या­स­स्तर्हि किंविषयः, पुच्छ­वा­क्यो­क्त­ब्र­ह्म­वि­षयः, इत्याह —
तस्मादिति ।
आन­न्दा­भ्या­स­स्या­न­न्द­म­या­र्थ­त्वा­यो­ग­स्त­च्छ­ब्दार्थः ।

मय­ड­न्त­स्या­प्य­भ्या­सा­त्कथं तदभ्याससिद्धिः, तत्राह —
यस्त्विति ।
उप­स­ङ्क्र­मि­त­व्यानां विवेकेन त्याज्या­ना­मि­त्यर्थः ।

अन्न­म­या­दा­वु­प­स­ङ्क्र­मस्य विद्व­त्फ­ला­प्त्य­र्थ­त्वा­दा­न­न्द­म­य­स्या­ब्र­ह्मत्वे ब्रह्मा­प्ते­र­नुक्तेः प्रक्रमभङ्ग इति शङ्कते —
नन्विति ।

किमि­हो­प­स­ङ्क्र­मणं प्राप्तिः, अतिक्रमो वा । आद्ये, अव­य­वि­प्रा­प्त्याऽ­व­य­व­प्रा­प्ते­रा­र्थि­क­त्वा­त्पु­च्छ­ब्र­ह्मा­प्ति­रु­क्तैव । द्वितीये, न ह्यतिक्रमस्य पर­ती­रा­प्ति­व­त्को­शा­ति­क्र­मस्य ब्रह्मा­प्ति­त्वा­त्त­त्प्रा­प्ति­र­र्था­दु­क्ते­त्याह —
नैष इति ।

ब्रह्मा­प्ते­र्म­न्त्रेण वक्ष्य­मा­ण­त्वाच्च तद­नु­क्ति­र­सि­द्धे­त्याह —
तदपीति ।

यत्तु ‘सोऽकामयत’ इत्या­द्या­न­न्द­म­यार्थं सत्त­द्ब्र­ह्म­त्व­वो­धीति, तत्राह —
या त्विति ।

‘रसो वै सः’ इत्या­दे­रु­त्त­र­स्या­न­न्द­म­या­र्थ­मुक्तं प्रत्याह —
तदपेक्षत्वादिति ।

‘सोऽकामयत’ इत्यादि ब्रह्म­ण्य­युक्तं, नपुंसके पुंलि­ङ्गा­यो­गा­दिति शङ्कते —
नन्विति ।

प्रक्रमेण समाधत्ते —
नायमिति ।

यत्तु भृगुवल्ल्यां पञ्चमपर्यायस्य ब्रह्मा­र्थ­त्वा­दि­हापि तादर्थ्यं स्थानादिति, तत्राह —
या त्विति ।
इह मयटो विकारार्थस्य प्रिय­शि­र­स्त्वा­देश्च श्रुते­रा­न्द­म­य­स्या­ब्र­ह्म­तेति शेषः ।

ब्रह्मणो निर्विशेषस्य नान­न्द­म­य­ते­त्यु­प­सं­ह­रति —
तस्मादिति ।
इष्टदृष्टेः तल्लाभात् , तत्स्मृ­ते­श्चा­भि­व्यक्ताः मुखविशेषाः तन्मात्रं च प्रिया­दि­श­ब्दार्थ इत्युक्तम् । सत्त्वो­प­स­र्ज­ना­त्त­म­स­स्त­दु­प­स­र्ज­ना­द्र­जसो द्वयो­रु­प­स­र्ज­ना­त्स­त्त्वा­त्के­व­ला­च्चा­भि­व्यक्तं सुखं तत्त­च्छ­ब्द­वा­च्य­मि­त्या­चार्याः । तेन विषयसम्बन्धं सत्त्वा­दि­स­म्बन्धं वा विशे­ष­मी­ष­न्मा­त्र­म­प्य­ना­श्रित्य ब्रह्मणः स्वतो न प्रिय­शि­र­स्त्वादि युक्तम् । तस्मा­दा­न­न्द­म­यस्य सवि­शे­ष­त्वा­त्प्र­ति­पाद्या ब्रह्म­णोऽ­न्य­ते­त्यर्थः ।

इहापि सविशेषमेव प्रति­पा­द्य­मि­त्या­श­ङ्क्योक्तं स्मारयति —
नचेति ।

पर­म­त­नि­रा­स­मु­प­सं­ह­रति —
तस्मादिति ।

स्वमते सूत्रा­णा­म­न­नु­गु­ण­त्व­मा­शङ्क्य तानि योज­यि­तु­मु­प­क्र­मते —
सूत्राणीति ।

व्याख्या­मे­वा­ख्यातुं विषयमुक्त्वा पुच्छ­ब्र­ह्म­श­ब्दाभ्यां संशयमाह —
ब्रह्मेति ।

स्वप्र­धा­न­त्वे­नेति ।
संशये सतीति शेषः ।

पूर्वाधिकरणे मुख्ये­क्ष­णा­द्ब्र­ह्म­नि­र्णये गौणः प्रायपाठो बाधितः । इह त्वाधा­र­मा­त्र­त्वेऽ­व­य­व­मा­त्रत्वे च पुच्छशब्दस्य लाक्ष­णि­क­त्व­सा­म्येऽ­व­य­व­प्रा­य­दृ­ष्टे­र­व­य­वा­र्थ­तेति सङ्गत्या पूर्वपक्षयति —
पुच्छेति ।
तैत्ति­री­यो­प­नि­षदः स्पष्ट­ब्र­ह्म­लि­ङ्गाया निर्गु­ण­ब्र­ह्मा­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः । परपक्षे पूर्वो­त्त­र­प­क्ष­यो­रु­पा­स्ति­रेव फलम् । इह पूर्वपक्षे तथा सिद्धान्ते प्रमितिः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —
इति प्राप्त इति ।

स्वयू­थ्य­व्याख्यां व्यावृत्य स्वाभिमतां व्याख्यामाह —
आनन्दमय इति ।

आनन्दमयशब्देन पञ्च­म­प­र्या­य­स्थ­पु­च्छ­वा­क्यस्थं ब्रह्म­प­द­मु­प­लक्ष्य तेन स्वप्रधानमेव ब्रह्मोच्यत इति प्रतिज्ञायां हेतुं व्याख्याति —
असन्नेवेति ।

पूर्व­प­क्ष­बी­ज­म­नु­भाष्यं दूषयति —
विकारेति ।

वाच­क­त्वा­भा­वा­द­भि­प्रेत इत्युक्तम् । परि­हा­र­भा­ग­म­व­तार्य व्याकरोति —
अत्रेत्यादिना ।

ब्रह्मा­धि­क­र­ण­मिति वाच्ये पूर्व­त्रा­व­य­व­प्र­धा­न­प्र­यो­गा­त्तस्य बुद्धि­स्थ­त्वा­त्ते­ना­प्य­धि­क­र­ण­ल­क्ष­णा­त्पु­च्छो­क्ति­रिति तात्पर्यमाह —
अवयवेति ।

तदेव प्रपञ्चयति —
अन्नेति ।

तत्र गमकमाह —
यदिति ।

इतश्च पुच्छवाक्ये पुच्छ­श­ब्दे­ना­व­यवो नोच्यते किन्त्वाधारो लक्ष्यत इत्याह —
तद्धेत्विति ।

तद्व्याचष्टे —
सर्वस्येति ।

तथापि कस्मा­दा­न­न्द­म­या­व­य­वत्वं ब्रह्मणो नेष्यते, तत्राह —
नचेति ।
इतश्चानन्दमयः परमात्मा, यतः ‘सत्यम् ‘ इत्या­दि­म­न्त्र­व­र्णेन यद्ब्रह्मोक्तं तदे­वा­न­न्द­म­य­श­ब्देन विशिष्टद्वारा लक्ष्य­मा­ण­जी­व­चै­त­न्यस्य स्वरूपमिति पुच्छवाक्येन ‘तत्त्वमसि’ इतिवद्गीयते, ‘ब्रह्म­वि­दा­प्नोति’ इति ब्रह्म­वि­द­स्त­त्प्रा­प्त्य­भि­धा­नेन ब्रह्मा­त्म­नो­रै­क्यो­प­क्र­मात् । ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ‘ इत्यै­क्यो­प­सं­हा­रात् ।

मध्येऽपि विशिष्टद्वारा स्वरूपैक्ये तात्पर्यस्य युक्त­त्वा­दि­त्याह —
मान्त्र­व­र्णि­क­मिति ।

इतश्च पुच्छवाक्यस्थं ब्रह्मैव स्वप्रधानं प्रतिपाद्यं, इत­र­स्त्वा­न­न्द­मयो न प्रतिपाद्यः, वैष­यि­क­प्रि­या­दि­म­त्त्वेन तत्र मुख्य­स्र­ष्टृ­त्वा­द्य­नु­प­प­त्ते­रि­त्याह —
नेतर इति ।

इतश्च नानन्दमयोऽत्र प्रतिपाद्यते, ब्रह्मा­न­न्द­प्र­ति­बि­म्बितं रसशब्दितं लब्ध्वा­य­मा­न­न्द­मयः स्वयमानन्दी भवतीति ब्रह्मणो भेदेन तस्यो­क्ते­र्ब्र­ह्म­त्वा­यो­गा­दि­त्याह —
भेेदेनेति ।

ननु भृगु­व­ल्ल्या­मा­न­न्दस्य ब्रह्म­त्वा­दा­न­न्द­म­य­स्यापि ब्रह्मत्वं पञ्च­म­प­र्या­य­स्थ­त्वा­द­नु­मी­यते, तत्राह —
कामाच्चेति ।
काम्यत इति काम आनन्दः । तस्य ब्रह्म­त्व­दृ­ष्टे­र्ना­नु­मा­ने­ना­न­न्द­म­य­स्यापि ब्रह्म­त्व­म­पे­क्षि­त­व्यम् । विका­रा­र्थ­म­य­ङ्वि­रो­धा­दि­त्यर्थः ।

इतोऽपि नानन्दमयोऽत्र प्रतिपाद्यते, पुच्छवाक्योक्ते ब्रह्मणि प्रति­बु­द्ध­स्या­न­न्द­म­यस्य ‘यदा हि’ इत्यादिना तत्प्रा­प्ति­मो­क्षा­भि­धा­नात् । तस्मा­दा­न­न्द­म­य­श­ब्द­वा­च्य­स्या­प्र­ति­पा­द्य­त्वा­त्त­ल्ल­क्ष्यस्य ब्रह्म­णोऽ­व्य­ति­रे­का­त्पु­च्छ­वा­क्यस्थं ब्रह्मैवात्र स्वप्रधानं प्रतिपाद्यमिति तत्प्रमित्या कैवल्यं फलतीत्याह —
अस्मिन्निति ।

तदेतदाह —
अपराण्यपीति ॥ १९ ॥

समन्वयस्य सवि­शे­ष­प­र­त्व­म­पो­द्यो­त्सर्गः स्थापितः । अधु­ना­प­वा­दा­र्थ­त्वे­ना­धि­क­र­ण­म­व­ता­र­यति —
अन्तरिति ।

छान्दोग्यस्थं वाक्यमुदाहरति —
इदमिति ।
ऋक्सामयोः पृथि­व्य­ग्न्या­द्या­त्म­त्वो­क्त्य­न­न्त­र­मु­पा­स्ति­प्र­स्ता­वा­र्थोऽ­थ­शब्दः ।

‘य एष’ इति शास्त्र­प्र­सिद्धिः, सन्निधिश्चोक्ता । तस्यो­पा­स्त्य­र्थ­मा­धि­दै­विकं स्थानमाह —
अन्तरिति ।
आदित्यमण्डलस्य मध्ये स्थित इति यावत् ।

ध्यानार्थमेव रूपविशेषमाह —
हिरण्मय इति ।
ज्योतिर्मय इत्यर्थः ।

स्थानकृतं परिच्छेदं व्यवच्छिनत्ति —
पुरुष इति ।

तत्रा­व­हि­त­धि­या­म­नु­भवं प्रमाणयति —
दृश्यत इति ।

तर्हि पुरु­ष­त्वा­त्पू­र्णस्य कथमुपास्तिः, तत्राह —
हिरण्येति ।
तद्व­ज्ज्यो­ति­र्म­या­न्ये­वास्य श्मश्रूणि केशाश्चेति तथोक्तः । किं बहुना, आप्रणखात् प्रणखो नखाग्रं तेन सह सर्व एव सुवर्णो ज्योतिर्मयः ।

चक्षु­षो­र्वि­शे­ष­माह —
तस्येति ।
कपे­र्म­र्क­ट­स्यासः पृष्ठ­भा­गोऽ­त्य­न्त­ते­जस्वी तत्तुल्यं पुण्डरीकं यथा­त्य­न्त­दी­प्ति­म­त्त­थास्य देवस्याक्षिणी प्रकृ­ष्ट­दी­प्ति­मती ।

ध्यानार्थमेव नाम करोति —
तस्येति ।

कथं तस्यो­दि­ति­ना­मत्वं, तदाह —
स इति ।
उदित उद्गतः । सका­र्य­स­र्व­पा­पा­स्पृष्ट इत्यर्थः । ध्यानफलमुदेतीति । आदिशब्दात् ‘तस्यर्च्क साम च गेष्णौ’ इत्या­द्यु­क्त­म­धि­दै­वतं, देव­ता­म­धि­कृ­त्यो­पा­स्ति­वा­क्य­मि­त्यर्थः ।

आधि­दै­व­ध्या­नो­क्त्य­न­न्त­र­मा­त्मानं देहमधिकृत्यापि तदुक्तिरित्याह —
अथेति ।
ऋक्सा­म­यो­र्वा­क्प्रा­णा­द्या­त्म­त्वो­क्त्या­न­न्त­र्य­म­थे­त्यु­क्तम् । आदिशब्दात् ‘सैवर्क् तत्साम’ इत्याद्युक्तम् ।

स्थानद्वयस्थं पुरुषं विषयीकृत्य रूप­त्त्व­श्रुत्या सर्व­पा­पा­स्प­र्श­श्रुत्या च संशयमाह —
तत्रेति ।

कश्चि­दि­त्या­दि­त्य­क्षे­त्रज्ञ उक्तः । पूर्वसूत्रे ब्रह्म­प­द­मा­न­न्द­म­य­प­द­मा­न­न्द­प­दा­र्था­भ्या­स­श्चेति मुख्य­त्र­या­र्थ­ब­हु­प्र­मा­ण­व­शा­न्नि­र्वि­शे­ष­नि­र्ण­य­व­द्रू­प­व­त्त्वा­दि­ब­हु­प्र­मा­णा­त्सं­सारी हिरण्मयः पुरुष इति सङ्गत्या पूर्व­प­क्ष­मा­का­ङ्क्षा­पू­र्व­क­माह —
किं तावदिति ।
स्फुट­ब्र­ह्म­लि­ङ्गो­क्त­श्रुते सगुणे ब्रह्म­ण्य­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वो­त्त­र­प­क्ष­यो­र­प­रस्य परस्य चोपास्तिरेव फलम् ।

सर्वै­रु­पा­स्य­त्वाय पर एव कस्मान्नेति पृष्ट्वा हेतुमाह —
कुत इति ।

चाक्षुषे पुरुषे यथोक्तं रूपं न श्रुत­मि­त्या­श­ङ्क्याह —
अक्षीति ।

परस्यैव स्थान­भे­दा­द्रू­प­व­त्त्व­मु­प­दे­शा­ति­दे­शा­भ्या­मिति चेत् , नेत्याह —
नचेति ।

परापरिग्रहे हेत्वन्तरमाह —
आधारेति ।

अन­न्त­श­क्ति­त्वा­त्त­स्या­प्या­धा­र­श्रु­ति­रि­त्या­श­ङ्क्याह —
नहीति ।

परस्यानाधारत्वे स्वम­हि­म­प्र­ति­ष्ठत्वं हेतुः । तत्र मानं ‘स भगवः’ इति । तत्रैव हेत्वन्तरं सर्वव्यापित्वम् । तत्रापि मानमाह —
आकाशवदिति ।

ईश्वराग्रहे हेत्वन्तरमाह —
ऐश्वर्येति ।
‘स एषः’ इत्या­धि­दै­वि­क­पु­रु­षोक्तिः । अमु­ष्मा­दा­दि­त्या­दू­र्ध्वगा ये लोका­स्ते­षा­मी­शिता, ये च देवानां कामा भोगास्तेषां चेत्यर्थः । ‘स एषः’ इत्या­ध्या­त्मि­क­पु­रु­षोक्तिः । एतस्माच्चक्षुषः सकाशादर्वाग्गता ये लोका­स्ते­षा­मी­शिता, ये च मनुष्याणां कामा भोगास्तेषां चेत्येतस्य मर्या­दा­व­दै­श्व­र्य­मु­क्त­मि­त्यर्थः ।

परस्यापि ध्यानार्थं तादृगैश्वर्यं स्यात् , नेत्याह —
न चेति ।
‘एष सर्वे­श्वरः' इत्य­वि­शे­ष­श्रु­ते­रिति सम्बन्धः ।

कथमेतस्य सर्वेश्वरत्वं, यतो भूतानां नियन्ता यमोऽस्ति, नेत्याह —
एष इति ।

कथं परो भूतानामधिष्ठाय पालयिता, पाल­यि­तु­रि­न्द्रादेः सत्त्वात् , तत्राह —
एष भूतेति ।

तथापि ब्रह्मा मर्या­दा­स्था­प­कोऽस्ति कुतोऽस्य सर्वेश्वरत्वं, तत्राह —
एष इति ।
यथा मृद्दारुमयः सेतु­र्ज­ल­व्यू­हस्य क्षेत्र­स­म्प­दा­म­स­म्भे­दाय धारयिता तथैषोऽपि सर्वेषां वर्णा­दी­ना­म­स­ङ्क­राय धारयिता स्यादित्यर्थः ।

मर्या­दा­धा­र­रू­प­श्रु­ते­रा­दि­त्य­क्षे­त्रज्ञ एवात्रोपास्य इत्युपसंहरति —
तस्मादिति ।
तस्य कर्मा­न­धि­का­रा­त्स­र्व­पा­प्म­वि­गमः । सर्वा­त्म­त्व­मु­पा­स­नायै स्तुत्य­र्थ­म­नू­द्यत इति भावः ।

पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति —
एवमित्यादिना ।

प्रथ­म­श्रु­त­रू­प­व­त्त्वा­दिना चर­म­श्रु­त­स­र्व­पा­प्म­वि­ग­मा­दे­र्ने­य­त्वान्न परस्य प्राप्तिरित्याह —
कुत इति ।

फल­व­त्पा­प्म­वि­ग­मा­दि­लि­ङ्गस्य चरमस्यापि तच्छू­न्य­त्वे­ना­वि­व­क्षि­ता­ल्लि­ङ्गा­दा­द्या­दपि बली­य­स्त्वा­त्त­द्व­शे­ने­त­र­न्ने­य­मि­त्याह —
तद्धर्मेति ।
इहेति स्थान­द्व­य­स्थ­पु­रु­षोक्तिः ।

आदि­त्य­क्षे­त्र­ज्ञ­स्यापि कर्मा­न­धि­का­रा­त्पा­प्मा­स्पर्शो युक्तः, ‘न ह वै देवान्पापम् ‘ इति श्रुते­रि­त्या­श­ङ्क्याह —
सर्वेति ।
देवादिषु पश्वा­दि­व­त्क­र्मा­न­धि­का­रेऽपि प्राचिभवे सञ्चि­त­पा­प­यो­गा­त्त­द­ल्प­त्वात् ‘न ह वै देवान् ‘ इत्युक्तेर्न जीवः सर्व­पा­पा­स्पृष्टः । प्रदेशान्तरे च तस्य परस्मिन्नेव श्रुतेरत्रापि तद्दृष्ट्या तत्प्र­त्य­भि­ज्ञा­ना­त्त­स्यै­वो­पा­स्य­तेति भावः ।

सार्वात्म्यमपि श्रुतं न संसारिणि युक्तमित्याह —
तथेति ।
तत्र तच्छ­ब्दै­श्चा­क्षु­ष­न­रोक्तिः । ऋगा­दि­वि­धे­या­पे­क्षया विल­क्ष­ण­लि­ङ्गोक्तिः । उक्थं शस्त्रविशेषः । तत्सा­ह­च­र्या­त्त­त्साम स्तोत्रं, उक्था­द­न्य­च्छ­स्त्र­मृ­गु­च्यते ।

ब्रह्म त्रयोवेदाः ऋगाद्यात्मना चाक्षुषस्य संसारित्वेऽपि स्तुति­रु­पा­स्त्य­र्थ­मि­त्या­शङ्क्य मुख्यसम्भवे नामु­ख्य­क­ल्प­ने­त्याह —
सा चेति ।

तत्रैव हेत्वन्तरमाह —
पृथिवीति ।
ऋगधिदैवतं पृथि­व्य­न्त­रि­क्ष­द्यु­न­क्ष­त्रा­दि­त्य­ग­त­शु­क्ल­भा­रूपा । साम चाग्नि­वा­य्वा­दि­त्य­च­न्द्रा­दि­त्य­ग­त­प­र­कृ­ष्णा­ख्या­ति­कृ­ष्ण­रूपं ‘इयमेवर्गग्निः साम’ इत्यादिनोक्तम् । अध्यात्मं च वाक्च­क्षुः­श्रो­त्रा­क्षि­ग­त­शु­क्ल­भा­ल­क्षणा तावदृगुक्ता । साम च प्राण­च्छा­या­त्म­म­नोऽ­क्षि­स्थ­कृ­ष्ण­भा­रूपं ‘वागे­व­र्क्प्राणः साम’ इत्यादिनोक्तम् । एव­मु­भ­य­त्रो­क्त­रूपे ऋक्सामे क्रमेणोक्त्वा पुरु­ष­स्यो­क्त­प्र­का­र­र्क्चा­भि­हि­त­प्र­कारं साम चेत्येते द्वे गेष्णौ पादपर्वणी इति देव­ता­या­मु­क्त्वा­त्म­न्यपि तयो­र्ऋ­क्सा­म­यो­र­ति­दे­शेन गेष्ण­त्व­मु­क्त­मि­त्यर्थः ।

तदपि संसारिविषयं किं न स्यात् , नेत्याह —
तच्चेति ।

तत्रैव हेत्वन्तरमाह —
तद्य इति ।
व्यव­हा­र­भू­मि­स्त­च्छ­ब्दार्थः । धनसनयो धनस्य लब्धारः । विभूतिमन्त इत्यर्थः ।

राजादीनामपि श्रीमतां गीय­मा­न­त्व­दृ­ष्टे­र­न्य­था­सि­द्धि­मा­श­ङ्क्याह —
तच्चेति ।

उक्तेऽर्थे स्मृतिमनुकूलयति —
यद्यदिति ।
धना­दि­स­मृ­द्धि­मत्त्वं विभूतिमत्त्वम् । कान्तिमत्त्वं श्रीमत्त्वम् । बल­व­त्त्व­मौ­र्जि­त्यम् ।

ईश्वरपक्षे हेत्वन्तरमाह —
लोकेति ।
निर­ङ्कु­श­म­न­न्या­धी­नम् ।

सर्व­पा­प्म­वि­र­हा­दिना तस्यै­वो­पा­स्य­ते­त्युक्त्वा परोक्तमनुवदति —
यत्त्विति ।

रूपवत्त्वं नावश्यं संसा­रि­लि­ङ्ग­मि­त्याह —
अत्रेति ।

मायामयस्यापि रूपस्य हिर­ण्य­श्म­श्रु­त्वा­दि­नि­यमे हेतुमाह —
इच्छेति ।

तथा­वि­ध­रू­पो­प­यो­ग­माह —
साधकेति ।

तस्येच्छापि मायामयीति मत्वाह —
मायेति ।

यथादृष्टि देहा­दि­वै­शि­ष्ट्य­मी­श्व­रस्य तात्त्वि­क­मि­त्या­श­ङ्क्याह —
सर्वेति ।

अरू­प­श्रु­ति­वि­रुद्धं रूप­व­त्त्व­मि­त्यु­क्त­मा­शङ्क्य विषयभेदमाह —
अपिचेति ।

तात्त्वि­क­मै­श्वरं रूप­मा­श्रि­त्या­श­ब्दा­दि­शास्त्रे कथं तस्य रूपा­दि­म­त्त्वोक्तिः, तत्राह —
सर्वेति ।

निर्विशेषमेव ब्रह्मात्र प्रतिपाद्यं तज्ज्ञानादेव मुक्ति­रि­त्या­श­ङ्क्यो­पा­स्ति­वा­क्य­त्वा­त्स­वि­शे­षो­क्ति­रि­त्याह —
तथेति ।

स्वम­हि­म­प्र­ति­ष्ठ­स्या­धा­रा­यो­गा­दत्र चाधा­र­श्रु­ते­री­श्व­रा­द­र्था­न्त­र­ते­त्यु­क्त­म­नु­व­दति —
यदपीति ।

आधा­रा­न­पे­क्ष­स्यापि फल­व­शा­त्त­दु­क्ते­र्ना­नी­श्व­र­ते­त्याह —
अत्रेति ।

किमित्युपासनायै तदुक्तिः, साक्षादेव किं न स्यात् , तत्राह —
सर्वगतत्वादिति ।

मर्या­दा­व­दै­श्व­र्य­मी­श्व­रस्य नेत्युक्तं प्रत्याह —
ऐश्वर्येति ।
एकस्यैवेश्वरस्य स्थान­भे­दा­व­च्छे­दा­दै­श्व­र्य­म­र्या­दा­क­रणं पृथ­ग­नु­ध्या­नार्थं न परि­च्छे­द­प्रा­प्त्य­र्थ­मि­त्यर्थः ।

परो­क्त­लि­ङ्गा­ना­म­न्य­थात्वे फलितमाह —
तस्मादिति ॥ २० ॥

उपा­स्यो­द्दे­शे­नो­पा­स्ति­वि­धे­र्वि­धे­य­क्रि­या­क­र्म­णो­र्व्री्ह्या­दि­व­द­न्यतः सिद्धि­र्वा­च्ये­त्या­श­ङ्क्याह —
भेदेति ।
आदि­त्य­क्षे­त्र­ज्ञा­द­न्त­र्या­मिणः ।

श्रुत्यन्तरे भेदो­क्ते­स्त­तोऽन्य ईश्वरः सिद्ध इत्यक्षरार्थमाह —
अस्तीति ।

आदित्यमण्डले स्थित­र­श्मि­पु­ञ्ज­स्यापि स्यादित्यत उक्तम् —
आदित्यादिति ।

तज्जीवं व्युदस्यति —
यमिति ।

तस्य देहित्वे जीवत्वमदेहित्वे न निय­न्तृ­ते­त्या­श­ङ्क्याह —
यस्येति ।

इत­श्चा­दि­त्य­जी­वा­द­न्योऽ­सा­वि­त्याह —
य इति ।

तस्य ताटस्थ्यं वारयति —
एष इति ।

श्रुत्य­न्त­र­स्या­प्य­नी­श्व­र­वि­ष­य­त्व­मा­श­ङ्क्याह —
तत्रेति ।

तथापि प्रत्य­भि­ज्ञा­प­का­भा­वा­न्नेह तदु­पा­स्ति­रि­त्या­श­ङ्क्याह —
स एवेति ।

आदि­त्या­न्तः­स्थ­त्व­श्रु­ति­सा­म्या­त्प्र­त्य­भि­ज्ञया पर एवोद्गीथे ध्येय­त्वे­नो­प­दि­श्यत इत्युपसंहरति —
तस्मादिति ॥ २१ ॥

पूर्व­त्रा­व्य­भि­चा­रि­लि­ङ्गेन रूप­व­त्त्वा­द्य­न्यथा नीतम् । इह तु लिङ्गान्न श्रुति­र­न्य­थ­यि­त­व्येति प्राप्ते प्रत्याह —
आकाश इति ।

छान्दो­ग्य­वा­क्य­मे­वो­दा­ह­रति —
इदमिति ।