न्यायनिर्णयव्याख्या
१ परिच्छेदः
'हन्ताहमेतद्भगवत्तो वेदानि’ इत्युपसन्नः शालावत्यः ‘विद्धि’ इति जैवलिनोक्ते पृच्छति —
अस्येति ।
सर्वस्यैव प्रपञ्चस्य प्रतिष्ठाप्रश्ने प्रवाहणस्योत्तरमाह —
आकाश इति ।
कथं भूताकाशः सर्वजगत्प्रतिष्ठा, तत्राह —
सर्वाणीति ।
उपनिषदां तदभिज्ञानां च प्रसिद्धमेतदिति द्योतकौ निपातौ ।
निमित्तमात्रत्वं निराकर्तुं विशिनष्टि —
आकाशमिति ।
भूताकाशव्यावृत्तये हेत्वन्तरमाह —
आकाशो हीति ।
तत्रैव हेत्वन्तरं सूचयति —
आकाश इति ।
विचारबीजं संशयमाह —
तत्रेति ।
अनतिप्रसङ्गार्थं प्रश्नद्वारा निमित्तमाह —
कुत इति ।
क्वचिदित्युक्तं स्पष्टयति —
यत्रेति ।
असाधारणगुणश्रुतेराकाशशब्दस्य ब्रह्मार्थत्वे दृष्टान्तः —
यथेति ।
असाधारणेनानन्देनान्यत्रासम्भावितेन सामानाधिकरण्यादाकाशो ब्रह्मेत्यर्थः ।
वाक्यशेषादाकाशस्य ब्रह्मत्वे दृष्टान्तमाह —
आकाश इति ।
निपातावाकाशस्य नामरूपोपलक्षितसर्वप्रपञ्चनिर्वाहकत्वप्रसिद्ध्यर्थौ । ते नामरूपे यदन्तरा यस्मादन्ये यस्य वा मध्ये स्तः, तन्नामरूपास्पृष्टं ब्रह्मेति वाक्यशेषादत्राकाशो ब्रह्मेत्यर्थः । ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । यथैवमादावाकाशो ब्रह्म तथात्रापीति योजना ।
रूढिनिरूढिभ्यां संशयमुपसंहरति —
अत इति ।
विमृश्य पूर्वपक्षयति —
किं पुनरिति ।
स्फुटब्रह्मलिङ्गोक्तश्रुतेरुद्गीथे सम्पाद्योपास्ये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूताकाशदृष्ट्योद्गीथोपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति फलम् ।
वैदिकप्रयोगस्य तादृक्प्रयोगाद्ब्रह्मार्थत्वे सिद्धे कुतो भूताकाशार्थतेति शङ्कित्वा हेतुमाह —
कुत इति ।
प्रथमश्रुताकाशश्रुत्या भूतार्थे रूढ्या चरमश्रुतब्रह्मलिङ्गबाधान्न श्रुत्यन्तरेण ब्रह्मार्थतेत्यर्थः ।
ब्रह्मण्यपि साधारणत्वान्नाकाशश्रुतिर्ब्रह्मलिङ्गबाधिकेत्याशङ्क्याह —
नचेति ।
एकस्यापि गोशब्दस्यानेकार्थत्वमगत्याऽभीष्टं, ब्रह्मणि त्वाकाशशब्दो गौणत्वेनापि गच्छतीत्याह —
तस्मादिति ।
गौणत्वार्थं गुणयोगमाह —
विभुत्वेति ।
गुणवृत्तेरपि शब्दवृत्तित्वात्तया किं न ब्रह्म गृह्यते, तत्राह —
नचेति ।
ननु नेह मुख्यं सम्भवति तत्र सर्वकारणत्वायोगादतो मुख्यगौणयोर्मुख्ये संप्रत्ययन्यायस्यानवकाशत्वं, तत्राह —
सम्भवतीति ।
तदेव साधयितुं शङ्कयति —
नन्विति ।
आकाशस्य प्रथमश्रुतत्वेनासञ्जातविरोधित्वात्तद्बुद्धौ तदेकवाक्यस्थमुपस्थितं सर्वमुपजातविरोधित्वात्तदानुगुण्येन नेयमित्याह —
नेति ।
तत्रैव तैत्तिरीयकश्रुतिसंवादमाह —
विज्ञायते हीति ।
तथापि कथं वाक्यशेषो भूताकाशे स्यात् , तत्राह —
ज्यायस्त्वेति ।
भूताकाशेऽपि शेषोपपत्तौ फलितमाह —
तस्मादिति ।
भूताकाशदृष्ट्योद्गीथोपास्तिरिति प्राप्तमनूद्य सिद्धान्तयति —
एवमिति ।
रूढ्या प्रयोगबाहुल्याच्च सिद्धभूताकाशत्यागे न हेतुरिति शङ्कित्वा हेतुमादाय व्याचष्टे —
कुत इति ।
ननु वादिनः सर्वयोनित्वं ब्रह्मणो नेच्छन्ति तत्राह —
परस्माद्धीति ।
तस्यान्यथासिद्धिं स्मारयति —
नन्विति ।
उक्तमुपेत्य प्रत्याह —
सत्यमिति ।
तत्र तत्र तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादवधारणासिद्धिः, मूलकारणापेक्षायां ब्रह्मण्येव तद्युक्तम् । सर्वाणीति भूतविशेषणं च भूताकाशपक्षे वाय्वादौ सङ्कुचितं स्यात्तस्मान्नान्यथासिद्धिरित्यर्थः ।
सर्वभूतोत्पादकत्ववत्तल्लयाधारत्वमपि ब्रह्मलिङ्गमित्याह —
तथेति ।
ब्रह्मणो लिङ्गद्वयमाह —
आकाशो हीति ।
भूताकाशस्यापि ज्यायस्त्वादि सापेक्षमुक्तमित्याशङ्क्याह —
ज्यायस्त्वमिति ।
नैरपेक्ष्यधिया तरपो वचनम् ।
न केवलं युक्त्यास्य परायणत्वं, श्रुतेरपीत्याह —
श्रुतिरिति ।
रातेर्धनस्य दातुर्यजमानस्येति । रातिरितिपाठे बन्धुरित्यर्थः ।
आकाशो ब्रह्मेत्यत्र लिङ्गान्तरमाह —
अपिचेति ।
शालावत्यो दाल्भ्यो जैवलिरित्युद्गीथविद्याकुशलानां किं परायणमुद्गीथस्येति विचारे स्वर्गलोक एवेति दाल्भ्योक्तं निरस्यायं लोक इति शालावत्योक्तौ ‘अन्तवद्वै किल ते शालावत्य साम’ इति पृथिवीलोकस्यान्तवत्त्वात्प्रतिष्ठितत्वं निन्दित्वा जैवलिना साम प्रतिष्ठारूपमनन्तमेव विवक्षता गृहीतमाकाशं नान्तवद्युक्तम् , अतो ब्रह्मैवाकाशमित्यर्थः ।
नन्वनन्तमाकाशमिह नोपसंह्रियते किन्तूद्गीथः, तत्कथमानन्त्यादाकाशो ब्रह्म, तत्राह —
तं चेति ।
'स एषः’ इत्याकाशात्मत्वोक्तिः । देशतोऽनन्तत्वं परत्वम् । गुणत उत्कृष्टत्वं वरीयस्त्वम् । कालतो वस्तुतश्चापरिच्छिन्नत्वमानन्त्यम् । परेभ्यः स्वरादिभ्योऽतिशयेन श्रैष्ठ्यं वा परोवरीयस्त्वम् ।
तथापि कथमाकाशो ब्रह्म तत्राह —
तच्चेति ।
नाब्रह्मणस्त्रिधानन्त्यं, तेनोपक्रमोपसंहारप्रतिपाद्यतात्पर्यवदानन्त्यमाकाशस्य ब्रह्मत्वबोधीत्यर्थः ।
श्रुतिबाधो लिङ्गान्न दृष्ट इत्युक्तमनुवदति —
यदिति ।
‘त्यजेदेकं कुलस्यार्थे’ इतिन्यायाद्भूयसीनां ब्रह्मलिङ्गश्रूतीनामनुग्रहायाकाशश्रुतेरेकस्या बाध इत्याह —
अत्रेति ।
किञ्चाकाशशब्दस्य ब्रह्मणि प्रयोगप्राचुर्यादत्यन्ताभ्यासेन गौणादपि तस्मादाद्या धीः स्यादित्याह —
दर्शितश्चेति ।
नाकाशशब्दस्यैव ब्रह्मणि बहुकृत्वः प्रयोगः, तत्पर्यायाणां चेत्याह —
तथेति ।
व्योमन्व्योम्नि, परमे प्रकृष्टे, अक्षरे कूटस्थे ब्रह्मणि, ऋगुपलक्षिताः सर्वे वेदा ज्ञापकाः सन्ति, यस्मिन्नक्षरे विश्वे देवा अधि निषेदुरधिष्ठिताः, स्वरूपत्वेन प्रविष्टा इत्यर्थः । भार्गवी भृगुणा प्राप्ता । वारुणी वरुणेनोक्ता । सैषा विद्या ‘आन्दो ब्रह्मेति व्यजानात्’ इति प्रकृता परस्मिन्ब्रह्मणि व्योम्नि स्थितेत्यर्थः ।
ओङ्कारस्य प्रतीकत्वेन वाचकत्वेन लक्षकत्वेन वा ब्रह्मत्वमुक्तम् —
ओमिति ।
कं सुखं तस्यार्थेन्द्रिययोगजत्वं वारयितुम् —
खमिति ।
तस्य भूताकाशत्वं व्यासेद्धुम् —
पुराणमित्युक्तम्।
किञ्च तत्रैव प्रथमानुगुण्येनोत्तरं नीयते, यत्र तन्नेतुं शक्यं, यत्र त्वशक्यं तत्रोत्तरानुगुण्येनेतरन्नेयमित्याह —
वाक्येति ।
तत्र दृष्टान्तः —
अग्निरिति ।
आकाशश्रुतेर्गौणत्वे फलितमुपसंहरति —
तस्मादिति ॥ २२ ॥
आकाशवाक्योक्तमनन्तरवाक्येऽतिदिशति —
अत एवेति ।
तत्रोदाहरणम् —
उद्गीथ इति ।
‘परोवरीयांसमुद्गीथमुपास्ते’ इत्युक्तत्वात् । ‘अथातः शौव उद्गीथः’ इति च वक्ष्यमाणत्वादुद्गीथाधिकारे प्रासङ्गिकं प्रस्तावध्यानमिति वक्तुमुद्गीथ इत्युक्तम् । कश्चिदृषिश्चाक्रायणो नाम धनार्थं राज्ञो यज्ञं गत्वा ज्ञानवैभवं स्वस्य प्रकटयन्प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं भक्तिविशेषमन्वायत्ता तां चेदविद्वान्मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ।
स भीतः सन्पप्रच्छ —
कतमा
इत्यादिना ।
प्रतिवचनम् —
प्राण इति ।
मुख्यप्राणं व्यावर्तयति —
सर्वाणीति ।
प्राणमभिलक्ष्य लयकाले संविशन्ति, जन्मकाले तमेवाभिलक्ष्योज्जिहत उद्गच्छन्ति, सैषा परा देवता प्रस्तावं भक्तिविशेषमनुगतेत्यर्थः ।
अतिदेशकृतमर्थमाह —
तत्रेति ।
आकाशशब्दस्योभयत्र प्रयुक्तेः संशयेऽपि प्राणशब्दस्य नैवमिति कुतः संशयादिः, तत्राह —
प्राणेति ।
मनःशब्दलक्ष्यं तत्साक्षिचैतन्यं प्राणे परस्मिन्नैक्येन स्थितमित्यर्थः ।
ये प्राणस्य पञ्चवृत्तेर्वायुविकारस्य प्राणं सत्तास्फूर्तिदमात्मानं विदुस्ते ब्रह्म जानन्तीत्याह —
प्राणस्येति ।
अमृतः प्राणो ब्रह्मैवेत्यादिसङ्ग्रहार्थमादिपदम् ।
तथापि कुतः संशयः, तत्राह —
वाय्विति ।
हेतुमुक्त्वा फलमाह —
अत इति ।
इहेति प्रस्ताववाक्योक्तिः ।
अनन्तार्थपरोपक्रमोपसंहाराभ्यामाकाशस्य ब्रह्मत्वेऽप्यत्र ब्रह्मासाधारणधर्मोपक्रमाद्यदृष्टेर्न ब्रह्मतेति धिया विमृश्य पूर्वपक्षयति —
किमिति ।
प्रस्तावश्रुतेः स्पष्टब्रह्मलिङ्गतया ब्रह्मणि प्रस्तावेऽध्यस्य ध्येये समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्राणदृष्ट्या प्रस्तावोपास्तिः सिद्धान्ते ब्रह्मदृष्ट्येति फलम् ।
वैदिकप्राणशब्दस्य तादृक्प्रयुक्तिसिद्धे ब्रह्मणि वाचकत्वमाशङ्क्याह —
तत्रेति ।
तात्पर्यरहितलौकिकवैदिकप्रयोगत्यागात्तात्पर्यवदनेकलिङ्गात्पूर्वन्यायेन ब्रह्म ग्राह्यमिति शङ्कते —
नन्विति ।
ज्यायस्त्वादि लिङ्गमत्र नास्तीत्याशङ्क्याह —
इहेति ।
अन्यथासिद्धेर्न श्रुतिबाधकतेत्यह —
नेति ।
तदेवं वैदिकं दर्शनमाह —
एवं हीति ।
तर्हि तस्यामवस्थायामिति यावत् । वाक् अनुक्तकर्मेन्द्रियोपलक्षणम् । चक्षुःश्रोत्रे तादृग्बुद्धीन्द्रियाणाम् । बुद्धिरपि मनसा लक्ष्यते ।
प्राणस्यापि स्वापे बुद्ध्यादिवल्लयान्न लयस्थानतेत्याशङ्क्याह —
प्रत्यक्षं चेति ।
ननु भूतानामुत्पत्त्यादिवाक्याशेषे श्रुतं भूतशब्दश्च प्राणिसमूहस्य महाभूतानां च वाचको नेन्द्रियमात्रस्य, तन्न प्राणे वाक्यशेषः सिद्धः तत्राह —
इन्द्रियेति ।
भूतेष्विन्द्रियाणि सूक्ष्मत्वाद्भोक्तृसामीप्याच्च साराणि, अतस्तेषां लयोदयोक्त्येतरेषामपि तत्सिद्धेः शेषघटनेत्यर्थः ।
अब्रह्मसाहचर्याच्च प्राणो न ब्रह्मेत्याह —
अपिचेति ।
उद्गात्रा कतमा सा देवतोद्गीथमन्वायत्तेति पृष्टश्चाक्रायणः प्रत्युवाच, आदित्य इति । प्रतिहर्त्रा च कतमा सा देवता प्रतिहारमन्वायत्तेति पृष्टोऽन्नमित्युवाचेत्यादिना भक्तिदेवते कार्यकरणवत्यावादित्यान्ने उक्ते । तयोरब्रह्मणोः सन्निधानात्प्राणस्यापि भक्तिदेवतात्वादब्रह्मतेत्यर्थः । सन्निध्यनुगृहीतप्रथमश्रुतप्राणश्रुत्या वायुविकारसिद्धौ तद्दृष्ट्या प्रस्तावोपास्तिरित्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।
ज्यायस्त्वादिवन्नात्र लिङ्गं भातीत्यशङ्क्याह —
प्राणस्येति ।
ब्रह्मलिङ्गं स्फोरयितुं श्रुतेरर्थमाह —
प्राणेति ।
वाक्यशेषस्यान्यथासिद्धिं स्मारयति —
नन्विति ।
स्वापाद्युक्तेः संवर्गविद्याधिकारात्प्रकृतोक्तेश्चोद्गीथसम्बन्धान्नानयोरेकवाक्यतेत्याह —
अत्रेति ।
किञ्च वाक्यशेषस्थो भूतशब्दो योगाद्विकारजातं ब्रूयात् , रूढ्या वा महाभूतानि । आद्ये, प्रकृतवाक्यस्य न स्वापादिवाक्येन तुल्यार्थतेत्याह —
स्वापेति ।
प्रकृतश्रुतेर्विकारमात्रलयाद्यर्थत्वे सर्वशब्दश्रुतिमनुकूलयति —
सर्वाणीति ।
तथाच प्राणार्थत्वेऽपि स्वापोक्तेर्नास्यास्तादर्थ्यम् । नहि विकारमात्रसंवेशनादि परस्मादन्यत्र लभ्यमित्यर्थः ।
कल्पान्तरं प्रत्याह —
यदेति ।
प्राणस्य भौतिकत्वान्न महाभूतयोनितेत्यर्थः ।
भूतशब्देन विकारजातग्रहेऽपि न मुख्यप्राणप्रत्युक्तिरिति शङ्कते —
नन्विति ।
प्राणशब्दलक्ष्ये चिदात्मनि जीवैक्यापत्तौ भेदकवाद्युपाधीनां जडं प्राणमुद्दिश्य लयः स्यादित्याह —
तदेति ।
जीवनैकतया प्राप्यत्वलिङ्गादशेषविकारलयस्थानत्वलिङ्गाच्च न मुख्यप्राणार्थत्वं तस्यापीत्याह —
तत्रेति ।
सन्निधेरधिकाशङ्कामुक्तामनुभाषते —
यदिति ।
लिङ्गेन बाध्यः सन्निधिरित्याह —
तदिति ।
एकवाक्यत्वं वाक्यशेषस्तद्बलं तद्गतं लिङ्गं तेन ब्रह्मता प्राणस्य स्थिता, स्ववाक्यस्थलिङ्गस्य वाक्यान्तरस्थसन्निधेर्बलीयस्त्वात् , अतो नास्याब्रह्मतेत्यर्थः ।
सन्निधेरब्रह्मताभावेऽपि प्राणस्य श्रुतेरब्रह्मतेत्याशङ्क्याह —
यदीति ।
जगत्प्रकृतित्वावधारणोपबृंहितं प्रतिपिपादयिषितं देवताशब्दितं चेतनत्वं प्राणश्रुतिं बाधित्वा ब्रह्म लक्षयतीत्याह —
तदिति ।
प्राणशब्देन कारणब्रह्मलक्षणात्तद्दृष्ट्या प्रस्तावोपास्तिमुपसंहरति —
तस्मादिति ।
वृत्तिकृतामुदाहरणमाह —
अत्रेति ।
सर्वत्र सन्दिग्धं वाक्यमुदाहृत्य निर्णीयते, इदं त्वसन्देहान्नैवमिति दूषयति —
तदिति ।
शब्दभेदं विवृणोति —
यथेति ।
प्राणस्य पञ्चधा वृत्तिहेतुस्तत्साक्षी तस्य प्राण इत्युच्यते ।
राहोः शिर इतिवद्व्यपदेशमाशङ्क्य घटो घटस्येत्यदृष्टेर्नैवमित्याह —
नहीति ।
प्रकरणं प्रपञ्चयति —
यस्येति ।
तदेव दृष्टान्तेन स्पष्टयति —
यथेति ।
प्राणः परमात्मा बन्धमाश्रयः स्वरूपं यस्येति विग्रहः ।
वाक्ययोर्निश्चितार्थत्वे फलितमाह —
अत इति ।
त्वदुदाहरणेऽपि वाक्यशेषविरोधात्तुल्यमसन्दिग्धत्वमित्याशङ्क्याह —
प्रस्तावेति ॥ २३ ॥
आकाशवायुवाक्ययोर्ब्रह्यार्थत्वोक्त्या तेजोवाक्यस्यापि तदर्थत्वमाह —
ज्योतिरिति ।
छान्दोग्यवाक्यं पठति —
इदमिति ।
गायत्र्युपाधिब्रह्मोपास्त्यनन्तरमुपास्त्यन्तरोक्त्यर्थोऽथशब्दः । अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तदिदमिति जाठरे ज्योतिष्यध्यस्यते ।
कुत्र तद्दीप्यते, तत्राह —
लोकेष्विति ।
तेऽपि क्व सन्ति, तत्राह —
विश्वत इति ।
विश्वस्मात्प्राणिवर्गादुपरिष्टादित्यर्थः ।
तेषां प्रसिद्धलोकप्रवेशमाशङ्क्याह —
सर्वत इति ।
सर्वस्माद्भूरादिलोकादुपरीत्यर्थः ।
उत्तमा न विद्यन्ते येभ्यस्तेऽनुत्तमास्तेषु । तथापि कथं तेषामुत्कर्षः, तत्राह —
उत्तमेष्विति ।
इदंशब्दार्थं स्फुटयति —
यदीति ।
ज्योतिःशब्दस्य लोके तेजसि रूढेः, श्रुतौ चात्मनि निरूढेर्विचारबीजं संशयमाह —
तत्रेति ।
आकाशादिशब्दस्यार्थान्तरे रूढस्यापि ब्रह्मार्थत्वसिद्धेस्तेनैतद्गतमित्यसंशयान्न पृथगारभ्यमित्याशङ्क्याह —
अर्थान्तरेति ।
स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गाभावादुक्तन्यायानवतारादगतार्थतेत्यर्थः ।
वाक्यशेषस्थब्रह्मलिङ्गात्प्राणादिशब्दस्य गौणतोक्ता । प्रकृते ब्रह्मलिङ्गादृष्टेस्तेजोलिङ्गस्यैव दृष्टेरौत्सर्गिकमुख्यसंप्रत्ययस्य नापवाद इत्याकाङ्क्षाद्वारा पूर्वपक्षयति —
किं तावदिति ।
कौक्षेये ज्योतिष्यारोप्योपास्ये परस्मिन्ब्रह्मण्युक्तश्रुतेः समन्वयोक्तेः श्रुत्यादिसङ्गतयः । स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावेऽपि ब्रह्मप्रत्यभिज्ञापकलिङ्गस्यैव तथात्वात्पादसङ्गतिः । फलं पूर्वपक्षे कौक्षेये ज्योतिष्यादित्यादिदृष्ट्योपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति ।
ज्योतिःशब्दस्य प्रकाशवाचित्वाच्चित्प्रकाशं हित्वा किमिति लौकिकप्रकाशार्थतेति शङ्कते —
कुत इति ।
तमोविरोधिनि ज्योतिःशब्दस्य रूढेस्तेजसस्तथात्वात्तदेवात्र ज्योतिरित्याह —
प्रसिद्धेरिति ।
तामेव स्फोरयति —
तम इति ।
अज्ञानतमोविरोधि ब्रह्मापि तर्हि ज्योतिरिति, तत्राह —
चक्षुरिति ।
अर्थावरकत्वेन निरोधकत्वेक्त्या भावत्वमपि द्योतितम् ।
रूपित्वेनापि तद्वक्तुं विशिनष्टि —
शार्वरादिकमिति ।
एवमपि कुतो ज्योतिर्निश्चितमित्याशङ्क्य प्रतिपक्षनिर्णयादित्याह —
तस्या इति ।
ज्योतिःश्रुत्या तेजो ज्योतिरित्युक्त्वा तत्रैव लिङ्गमाह —
तथेति ।
ब्रह्मण्यपि युक्ता दीप्तिरित्यन्यथासिद्धिं वारयति —
नहीति ।
रूपादिमतः सावयवस्यैव दीप्तियोगादित्यर्थः ।
कार्ये ज्योतिषि लिङ्गान्तरमाह —
द्युमर्यादत्वेति ।
अन्यथासिद्धिं निरस्यति —
नहीति ।
असिद्धिं प्रत्याह —
कार्यस्येति ।
ज्योतिषो द्युमर्यादत्वश्रुतिरेव कीदृशी, तत्राह —
पर इति ।
ब्रह्मवत्कार्यस्यापि मर्यादायोगादनर्थकं ब्राह्मणमित्याक्षिपति —
नन्विति ।
चोदकैकदेशी परिहरति —
अस्त्विति ।
त्रिवृत्कृतं तेजो दिवोऽर्वागपि गम्यते तथापीतरत्ततः परस्ताद्भविष्यति, वेदस्यादुष्टत्वेनानर्थक्यायोगादित्यर्थः ।
त्रिवृत्कृतस्यैवार्थक्रियावत्त्वादफलेऽन्यस्मिन्न वाक्यप्रामाण्यमित्याक्षेप्ता ब्रूते —
नेति ।
पूर्ववादिदेशीयः शङ्कते —
इदमेवेति ।
निष्फलस्योपास्यतापि नेत्याक्षेप्ताह —
नेति ।
अत्रिवृत्कृतं तेजोऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नेत्याह —
तासामिति ।
देवतानां तेजोऽबन्नानामेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकं भागं तथा कृत्वा तदितरयोर्निक्षिप्य त्रिगुणरज्जुवत्रिवृतं करवाणीत्यविशेषोक्तेर्नात्रिवृत्कृतं तेजोऽस्तीत्यर्थः ।
तदस्तित्वेऽपि यच्छब्दोपबन्धात्सिद्धवत्परामर्शादन्यतस्तस्य द्युमर्यादत्वं वाच्यं, तन्नास्तीत्याह —
न चेति ।
पूर्वपक्षैकदेशिनि परेण परास्ते परमपूर्ववाद्याह —
अस्त्विति ।
तत्राक्षेप्ता स्वोक्तं स्मारयति —
नन्विति ।
पूर्ववाद्याह —
नेति ।
तर्हि ब्रह्मण एव ध्यानार्थो देशविशेषः स्यात् , नेत्याह —
नत्विति ।
अप्रदेशस्य प्रदेशकल्पनागौरवादयुक्तेत्यर्थः ।
इतश्च कार्यमेव ज्योतिरत्रोपास्यमित्याह —
सर्वत इति ।
ब्रह्मण्यवच्छेदकल्पनयाधारबहुत्वयोगेऽपि कार्ये ज्योतिषि स्वतस्तत्सिद्धिरित्यतिशयमाह —
तारामिति ।
उपास्यज्योतिषो ब्रह्मत्वाभावे हेत्वन्तरमाह —
इदमिति ।
अध्यासेऽपि ज्योतिर्ब्रह्मास्तु, नेत्याह —
सारूप्येति ।
तत्र मानमाह —
यथेति ।
एकत्वसाम्याद्भूरित्यस्मिन्नक्षरे प्रजापतेः शिरोदृष्टिरुक्ता तथात्रापि सारूप्यं वाच्यम् , अन्यथाध्यासासिद्धेरित्यर्थः ।
कौक्षेयमपि ज्योतिश्चैतन्यमेवेत्यनध्यासात्तादात्म्योक्तिरेषेत्याशङ्क्याह —
कौक्षेयस्येति ।
शब्दस्पर्शवत्त्वाभ्यामपि तदब्रह्मेत्याह —
तस्येति ।
एषा दृष्टिर्यदेतदुष्णिमानं स्पर्शेन विजानाति । एषा श्रुतिर्यत्कर्णावपिधाय निनदमिव श्रृणोतीति शेषः ।
दृष्टश्रुतिलिङ्गत्वान्न ज्योतिषोऽपि तदुच्यते तच्चाविवक्षितमित्याशङ्क्योपास्यत्वश्रुतेर्नैवमित्याह —
तदेतदिति ।
तदब्रह्मत्वे हेत्वन्तरमाह —
चक्षुष्य इति ।
चक्षुष्यो दर्शनीयः । श्रुतो विश्रुतः ।
ब्रह्मोपास्तिफलमपि किं न स्यात् , तत्राह —
महते हीति ।
मुक्तिफला ब्रह्मोपास्तिर्नाल्पफला युक्तेत्यर्थः ।
बहून्यब्रह्मलिङ्गनि स्ववाक्यस्थान्युक्त्वा ब्रह्मलिङ्गं किमपि तत्र नास्तीत्याह —
नचेति ।
ज्योतिषो ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीति सम्बन्धः ।
ननु पूर्ववाक्ये ‘त्रिपादस्यामृतं दिवि’ इत्युक्तं ब्रह्मैवात्र द्युसम्बन्धात्प्रत्यभिज्ञायते तत्र यच्छब्दपरामृष्टे ज्योतिःशब्दो वर्तते, नेत्याह —
नचेति ।
सर्वात्मत्वभूतादिपादत्वाभ्यां तदेतद्ब्रह्मेति वाक्याच्चोक्तमेव पूर्ववाक्ये ब्रह्मेत्याशङ्क्याह —
अथापीति ।
सप्तमीपञ्चमीभ्यामुक्तिभेदान्न तत्प्रत्यभिज्ञेति साधयति —
तत्रेति ।
ब्रह्मलिङ्गाभावात्तेजोलिङ्गभावात्तदेव कौक्षेयज्योतिष्यारोप्योपास्यमित्युपसंहरति —
तस्मादिति ।
प्राकृतं प्रकृतेर्जातं, कार्यमित्यर्थः ।
पूर्वपक्षानुवादेन सूत्रमवतार्य प्रतिज्ञार्थमाह —
एवमिति ।
निश्चितब्रह्मलिङ्गं विना नास्य ब्रह्मतेति शङ्कित्वा हेतुमाह —
कुत इति ।
‘रमणीयचरणाः’ इत्यादौ चरणशब्दस्य चारित्रार्थत्वादत्रापि तथेत्यसाङ्गत्यमाशङ्क्याह —
पादेति ।
पादवाचिपदमस्मिन्वाक्ये न दृष्टमिति चेत् , तत्राह —
पूर्वस्मिन्निति ।
‘गायत्री वा इदं सर्वं भूतम् ‘ इत्यादिना भूतपृथिवीशरीरहृदयवाक्प्राणैः षड्विधा चतुष्पदा गायत्रीत्युक्तम् । एतदनुगतब्रह्मणस्तावान्महिमा विभूतिर्यावानयं प्रपञ्चः । वस्तुतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः ।
तदेव स्फुटयति —
पादोऽस्येति ।
सर्वाणि भूतान्यस्य ब्रह्मण एकः पादः । अस्यैव त्रिपादमृतं दिवि द्योतनवति स्वात्मनि स्थितम् । यथा कार्षापणश्चतुर्धा विभक्तः पादादेकस्मात्पादत्रयीकृतो महान् , एवं पुरुषो वास्तवोऽवास्तवात्प्रपञ्चान्महानित्यर्थः ।
पूर्वं ब्रह्मोक्तावपि कथमुक्तहेतुना ज्योतिषो ब्रह्मतेत्याशङ्क्याह —
तत्रेति ।
लिङ्गोपस्थापिताद्ब्रह्मणः श्रुत्युपस्थापिततेजसो बलीयस्त्वेऽपि यच्छब्दार्थे ज्योतिषि सन्निधापकमानापेक्षायां त्रिपाद्ब्रह्मणो ध्याने विनियोगाकाङ्क्षस्यानन्तरवाक्ये श्रुत्योक्तेर्विजातीयमानाकाङ्क्षश्रुत्युक्ततेजोऽभिधानाल्लिङ्गोपनीतातिसन्निहितसजातीयश्रुतिसिद्धैकवाक्यताकाङ्क्षब्रह्मोक्तिर्यच्छब्दस्य युक्ता । तस्माद्यच्छब्दार्थे प्रयुक्तो ज्योतिःशब्दो ब्रह्मार्थ इति भावः ।
यच्छब्दस्य ब्रह्मार्थत्वं हित्वा तेजोवाचित्वे बुद्धिगौरवमुक्त्वा दोषान्तरमाह —
तदिति ।
पूर्ववाक्यस्थे ब्रह्मणि द्युसम्बन्धाज्ज्योतिर्वाक्येऽपि प्रत्यभिज्ञाते यच्छब्दार्थे तत्समानाधिकृतज्योतिःशब्दप्रवृत्तिरित्युक्तम् । सम्प्रति ‘सर्वं खल्विदं ब्रह्म’ इत्युत्तरवाक्येऽपि ब्रह्मानुवृत्तेर्मध्यस्थमपि ज्योतिर्वाक्यं तत्परमेवेति सन्दंशन्यायमाह —
नेति ।
प्रकरणलिङ्गश्रुतिसिद्धमर्थमुपसंहरति —
तस्मादिति ।
श्रुतिलिङ्गाभ्यामुक्तमनुवदति —
यत्त्विति ।
मानत्रयान्मानद्वयं दुर्बलमिति दूषयति —
नायमिति ।
प्रकरणं श्रुतिलिङ्गयोरुपलक्षणम् । ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तदभावोऽविशेषकत्वम् ।
ब्रह्मणि यथोक्तशब्दानुपपत्तौ कथं तयोरविशेषकत्वं, तत्राह —
दीप्यमानेति ।
कार्यवाचिशब्दाभ्यां कारणलक्षणे सर्वैरपि शब्दैर्ब्रह्मणो लक्षणा स्यादित्याशङ्क्य सूर्यादिज्योतिषो विशेषयोगे मानमाह —
येनेति ।
येन तेजसा चैतन्यज्योतिषेद्धो दीप्तः सूर्यः सर्वमपि जगत्तपति प्रकाशयति तज्ज्योतिरात्मानं बृहन्तमनतिशयमहत्त्ववन्तमवेदविन्न मनुत इति योजना ।
कार्ये रूढिमुपेत्य कारणे लाक्षणिको ज्योतिःशब्द इत्युक्तम् । इदानीं कारणेऽपि ब्रह्मणि मुख्य एवेत्याह —
यद्वेति ।
शान्ते सूर्यादौ तिमिरावृते जगति वाचैव ज्योतिषायं कार्यकरणात्मा पुरषो व्यवहारमासनादिकं करोतीत्यर्थः । मनोभासकत्वाज्ज्योतिस्तच्चाज्यं जुषतां सेवतां तेन वाक्येन चक्षुर्द्वारा विषयीकृतेनादुष्टतया दृष्टेन यज्ञमिमं केनापि हेतुना विच्छिन्नमप्राप्तानुष्ठानंं सन्दधात्वक्षतं कुर्यादित्यर्थः । एकस्य शब्दस्य कथमनेकार्थतेत्याशङ्क्य निमित्तभेदेनानेकत्र वृत्तेः ।
शक्त्यैक्यान्मैवमित्याह —
तस्मादिति ।
भासकत्वमेकं निमित्तीकृत्यानेकत्र ज्योतिःशब्देऽपि कथमसौ ब्रह्मणि स्यादित्याशङ्क्याह —
तथेति ।
तस्य सर्वजगद्भासकत्वे मानमाह —
तमेवेति ।
पूर्वार्धे विषयसप्तम्या परामृष्टस्तच्छब्दार्थः ।
गच्छन्तमनुगच्छतीत्युक्ते स्वगतगतिवदनुभानेऽपि स्वगतभानमाशङ्क्याह —
तस्येति ।
न केवलं भासकत्वाद्ब्रह्मणि ज्योतिःशब्दः, तस्मिन्प्रयुक्तत्वाच्चेत्याह —
तदिति ।
यस्मादर्वागेव संवत्सरोऽहोभिः परिवर्तते तं परमात्मानमिन्द्रादयो देवा ज्योतिषामादित्यादीनां ज्योतिर्भासकं जगतो जीवनं कूटस्थमिति च ध्यायन्तीत्यर्थः । ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ इत्यादिवाक्यमादिशब्दार्थः । ‘ज्योतिषामपि तज्ज्योति’ इत्यादिस्मृतिसङ्ग्रहार्थश्चकारः ।
ज्योतिःश्रुतेर्दीप्तिलिङ्गस्य चान्यथासिद्धत्वेऽपि द्युमर्यादत्वमनन्यथासिद्धमित्याशङ्क्याह —
यदपीति ।
प्रमित्यर्थत्वेन, उपास्त्यर्थत्वेन वा मर्यादावत्त्वं नोपपद्यते । तत्राद्यमङ्गीकरोति —
अत्रेति ।
द्वितीयं प्रत्याह —
सर्वेति ।
योषितोऽग्नित्ववद्ब्रह्मणोऽपि द्युमर्यादावत्त्वमारोप्योपास्तिरविरुद्धेत्यर्थः ।
अप्रदेशस्य प्रदेशकल्पने गौरवमुक्तं स्मारयति —
नन्विति ।
स्वतो वा तत्कल्पनानुपपत्तिः, उपाधितो वा । तत्राद्यमुपेत्यान्त्यं प्रत्याह —
नायमिति ।
न चेदमपूर्वं कल्प्यते, तादृक्कल्पनानामन्यत्रापि दृष्टेरित्याह —
तथेति ।
ब्रह्मणि कथमाधारबहुत्वं, तत्राह —
एतेनेति ।
द्युमर्यादत्ववदाध्यानार्थत्वेनेत्यर्थः ।
अत्राध्यासस्य सारूप्यकृतत्वादब्रह्मण्यध्यस्यमानमपि ज्योतिरब्रह्मेत्युक्तमनुभाषते —
यदपीति ।
आरोपस्य सारूप्याधीनत्वं व्यभिचारयति —
तदपीति ।
उपास्तिस्थानत्वमत्र प्रतीकत्वमारोप्य ।
ज्योतिषो दृष्टत्वादिश्रुतेर्ब्रह्मणस्तदयोगादब्रह्मतेत्याशङ्क्याह —
दृष्टं चेति ।
जाठरज्योतिषो दृष्टत्वादिकृतं तत्रोपास्यब्रह्मणो दृष्टत्वादीत्यर्थः ।
लिङ्गान्तरमनूद्य प्रत्याह —
यदपीति ।
वाजिनामग्निरहस्यगतां ‘तं यथा यथा’ इत्यादिश्रुतिमाश्रित्यानुपपत्तिं स्फोरयति —
न हीति ।
ब्रह्मधियो मुक्तिफलत्वात्तदैकरूप्यादल्पफलत्वं न तदुपास्तेरित्याशङ्क्याह —
यत्रेति ।
ब्रह्मविषयत्वात्प्रस्तुतोपास्तेरपि मुक्तिफलतेत्याशङ्क्याह —
यत्र त्विति ।
‘स वा एष महानज आत्मा’ इत्युक्तः जीवात्मनाऽन्नादः, वसु धनं कर्मफलं तद्दाता पररूपेणेत्युक्त्वा यः कश्चिदुक्तगुणमात्मानमुपास्ते स धनं लभते दीप्ताग्निश्च भवतीत्याह —
अन्नाद इति ।
आदिपदेन ‘परोवरीय एव हास्यास्मिंल्लोके जीवनम् ‘ इत्यादि गृहीतम् ।
यदुक्तं, न स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गमिति, तत्राह —
यद्यपीति ।
उक्तेऽर्थे सूत्रानुगुण्यमाह —
तदुक्तमिति ।
प्रकरणेन श्रुतिरबाध्येत्याह —
कथमिति ।
न प्रकरणादेव श्रुतिर्बाध्या, प्रकरणलिङ्गानुगृहीतप्रथमश्रुतयच्छब्दश्रुत्येत्याह —
नेत्यादिना ।
द्युसम्बन्धादिति ।
प्रधानस्य द्युसम्बन्धस्य प्रातिपदिकार्थस्यैक्येन प्रत्यभिज्ञानात्तद्विशेषणस्य मर्यादाधारविभक्त्यर्थस्यान्यत्वमात्रेण नान्यतेत्यर्थः । यच्छब्देन परामृष्टे सतीति सम्बन्धः । स्वसामर्थ्येन सर्वनाम्नः सन्निहितपरामर्शित्ववशेनेत्यर्थः । अर्थाद्यच्छब्दसामानाधिकरण्यबलादित्यर्थः ।
मानमुक्त्वा मेयमुपसंहरति —
तस्मादिति ॥ २४ ॥
पूर्ववाक्यस्य छन्दोविषयत्वान्न ब्रह्म प्रकृतमित्युक्तमनूद्य निराकरोति —
छन्दोभिधानादिति ।
तत्रानुवादभागं व्याख्याय चोद्यस्य समाधियोग्यतामाह —
अथेत्यादिना ।
पूर्ववाक्ये छन्दसोऽन्यस्य वाभिधानेऽपि ब्रह्मोक्तमेवेत्येकदेशी शङ्कते —
कथमिति ।
मन्त्रस्य ब्राह्मणोक्तार्थत्वाद्ब्राह्मणे गायत्रीकथनान्मन्त्रेऽपि न ब्रह्म प्रकाश्यत इति सौत्रं हेतुं साधयन्पूर्ववाद्याह —
नैतदिति ।
‘गायत्री वा इदं सर्वं भूतं यदिदं किञ्च’ इति सर्वात्मिकां गायत्रीमुक्त्वा ‘वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च’ इति तस्याः सर्वभूतमय्या वागात्मत्वमाख्याय ‘या वै सा गायत्रीयं वाव सा येयं पृथिवी या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता यद्वै शरीरमिदं तद्धृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिताः’ इति पृथिव्या भूताधारत्वात्सर्वभूतमयगायत्रीत्वं शरीरहृदययोर्भूतात्मकप्राणाश्रयत्वादिति प्रकृतां गायत्रीं भूतादिप्रकारैरुक्त्वा सैषा षडक्षरैः पादैश्चतुष्पदा सती छन्दोरूपा गायत्री वाग्भूतपृथिवीशरीरप्राणहृदयभेदैः षट्प्रकारेत्युपसंहृत्य तस्यां श्रुतो मन्त्रो न शक्तो ब्रह्म वक्तुमिति हेतुसिद्धिरित्यर्थः ।
मन्त्रानन्तरं ‘यद्वै तद्ब्रह्म’ इति ब्रह्मशब्दान्मन्त्रेऽपि ब्रह्मोक्तमित्याशङ्क्याह —
योऽपीति ।
न प्रकरणाद्ब्रह्मशब्दस्य छन्दोवाचित्वं, तस्य सर्वोपनिषदि परमात्मार्थत्वप्रसिद्धेरित्याशङ्क्य वेदविषये प्रयोगात्तदेकदेशगायत्र्यामपि तस्योपपत्तिरित्याह —
य इति ।
यः कश्चिद्ध्यातैतां प्रकृतां ब्रह्मोपनिषदं वेदरहस्यं मधुविद्यारूपं वेद तस्मै विदुषे नोदेति नास्तमेति सविता सदैवाहर्भवत्यतो विद्वानुदयास्तमयापरिच्छेद्यं नित्यं ब्रह्मैव भवतीति ब्रह्मपदं वेदे प्रयुक्तमित्यर्थः ।
मन्त्रब्राह्मणयोरैकार्थ्याद्ब्रह्मशब्दस्य प्रकृतच्छन्दोगामित्वाद्भूताद्यध्यासेन ध्येयगायत्रीछन्दोवाचित्वे मन्त्रस्य स्थिते फलितमाह —
तस्मादिति ।
सिद्धान्तभागेनार्थमुक्त्वा हेतुमादाय व्याचष्टे —
नेत्यादिना ।
गायत्रीशब्दस्य मुख्यार्थसिद्ध्यर्थं गायत्रीमात्रमेव गृह्यतामित्याशङ्क्याह —
नहीति ।
नभसो घटावच्छिन्नस्यानवच्छिन्नत्वायोगवद्ब्रह्मणो गायत्रीविशिष्टस्य न सर्वत्वमित्याशङ्क्य गायत्र्युपलक्षितब्रह्मणः सर्वत्वमित्याह —
तस्मादिति ।
गायत्रीशब्देन छन्दोमात्रोक्तौ सर्वभूतादिरूपत्वस्यासदारोपत्वापाताद्ब्रह्मोक्तौ कार्यकारणयोस्तादात्म्ये सदारोपात्तच्छब्देन तदनुगतं ब्रह्मोपलक्ष्य तदुपास्तिर्विधेयेत्यर्थः ।
कार्यकारणयोरभेदोक्तिरन्यत्रापि दृष्टेत्याह —
यथेति ।
त्वन्मतेऽपि कार्यकारणयोरत्यन्तभेदादसदारोपापत्तिरित्याशङ्क्याह —
कार्यं चेति ।
‘सर्वं खलु’ इत्यत्र कार्यमात्रवाचिसर्वशब्देन कारणब्रह्मणो लक्ष्यत्वेऽपि कार्यैकदेशार्थगायत्रीशब्देन कुतो लक्ष्यतेत्याशङ्क्य ‘तथाहि दर्शनम्’ इत्यस्यार्थमाह —
तथेति ।
एतमेव परमात्मानमृग्वेदिनो महति कस्मिंश्चिदुक्थाख्ये शस्त्रे तदनुगतमुपासते । अध्वर्यवो यजुर्वेदिनोऽग्नौ क्रतौ तदनुश्रितमेतमनुसन्दधते । सामवेदिनो महाव्रते क्रतावेतमनुसन्दधतीत्यैतरेयके दृष्टमित्यर्थः ।
हेतुमुपेत्य तस्यासाधकत्वमुपसंहरति —
तस्मादिति ।
तथापि ज्योतिर्वाक्ये किं जातमित्याशङ्क्य प्रकृतपरामर्शियच्छब्दमाश्रित्याह —
तदेवेति ।
परामर्शफलमाह —
उपासनान्तरेति ।
गायत्रीपदं ब्रह्मणि लाक्षणिकमित्युक्तवा तस्य गौणत्वं ब्रुवाणः सिद्धान्तभागं विधान्तरेण व्याकरोति —
अपर इति ।
साक्षाद्विकारानवच्छेदेनेत्यर्थः । तथा गायत्रीवच्चतुष्पात्त्वसाम्येन ब्रह्मणि येन गायत्रीशब्देन चेतः समर्प्यते तेन ब्रह्मण एव निगदान्न पूर्वं छन्दः प्रकृतमित्यर्थः ।
सङ्ख्यासाम्यं साधयति —
यथेति ।
तस्याश्चतुष्पात्त्वं व्यनक्ति —
षडिति ।
स्थावरजङ्गमानि सर्वाणि भूतान्यस्यैकः पादः ।
दिवि द्योतनवति चिदात्मनि, प्रसिद्धायां वा दिवि त्रयः पादा अस्येति ब्रह्मणश्चतुष्पात्त्वमाह —
तथेति ।
चतुष्पात्त्वसाम्याद्ब्रह्मणि गायत्रीपदप्रयोगेऽतिप्रसक्तिमाशङ्क्य श्रौतप्रयोगान्नियतार्थत्वे दृष्टान्तमाह —
तथेति ।
तदेवोदाहरति —
तद्यथेति ।
संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयन्ते, अध्यात्मं प्राणे वाक्चक्षुःश्रौत्रमनांसीत्युक्तम् । ते वायुना सह पञ्चाध्यायात्मिकेभ्योऽन्य एते प्राणेन सहाधिदैविकेभ्योऽन्ये पञ्च ते सर्वे दश सन्तस्तत्कृतं कृतायोपलक्षितं द्यूतं भवति । अत्र हि चतुरङ्कायद्यूतगचतुरङ्कवच्चत्वारः पदार्थाः सन्ति । त्र्यङ्कायवत्त्रयः । द्व्यङ्कायवद्वौ । एकाङ्कायवदेकश्च द्यूते च चतुरङ्कायः कृतसंज्ञकः । स च दशात्मकः, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयोस्तयोरेकस्य चान्तर्भावात् , वायुप्रभृतयोऽपि दश, तस्मात्तेऽपि कृतमित्युपक्रम्याह —
सैषेति ।
विधेयाभिप्रायः स्त्रीलिङ्गनिर्देशः । दशसङ्ख्यात्वाद्विराडन्नं, ‘दशाक्षरा विराडन्नं विराड् ‘ इति श्रुतेः । कृतत्वाच्च सान्नादिनी । कृते खल्वन्नभूता दशसङ्ख्यान्तर्भवत्यतस्तामत्तीवेत्यन्नादिनी विराडित्युच्यते । तथा चान्नादत्वेनापि गुणेन वाय्वादीनामुपास्यता । तत्र यथा सङ्ख्यासाम्याद्विराट्शब्दो वाय्वादिषु तथा गायत्रीशब्दोऽपि चतुष्पात्त्वसाम्याद्ब्रह्मणीत्यर्थः ।
तथाहीत्यादि व्याख्यायास्य पूर्वस्माद्विशेषमाह —
अस्मिन्निति ।
अभिहितं तात्पर्यगम्यमिति यावत् । न छन्दोभिधानं न तत्र तात्पर्यमित्यर्थः । यद्यपि पूर्वं विकारस्थं ब्रह्म गायत्रीपदाल्लक्षणया तात्पर्यतोऽभिहितं तथापि गौणप्रयोगे वाक्यस्थो गुणस्तात्पर्याल्लभ्यते । लक्षणायां तु वाच्यसम्बन्धादर्थान्तरे तात्पर्यमिति भेदः ।
लाक्षणिकत्वं गौणत्वं वा कतरत्तर्हीष्टं, तदाह —
सर्वथेति ॥ २५ ॥
श्रुत्यादिष्वाद्यैकमानादुत्तरानेकमानं बलवद्धि संवादस्य तात्पर्यहेतुत्वादिति न्यायेनापि गायत्रीशब्दं ब्रह्मेत्याह —
भूतादीति ।
चशब्दमेवंशब्दं च व्याकरोति —
इतश्चेति ।
तदेव स्फुटयति —
यत इति ।
व्यपदिशति । ‘गायत्री वा’ इत्यादिश्रुतिरिति शेषः ।
भूतादीन्येवोच्यन्ते न तेषां पादत्वमित्याशङ्क्याह —
भूतेति ।
पादैः षडक्षरैश्चतुष्पात्त्वेऽप्यनन्तरोक्तभूतादीनां पादत्वं ‘सैषा’ इत्यादिशास्त्रादित्यर्थः । तत्रान्यार्थत्वेनोक्तावपि वाक्प्राणावुपेत्य षड्विधत्वम् ।
भूतादिपादत्वस्यान्यथासिद्धिं प्रत्याह —
नहीति ।
चकारसूचितं युक्त्यन्तरमाह —
अपिचेति ।
छन्दोङ्गीकारे कथमृचोऽसङ्गतिः, तत्राह —
अनयेति ।
उत्तरार्धेन पूर्वार्धविवरणेनोच्यमानसार्वात्म्यस्य सर्वकारणे ब्रह्मण्युपपत्तेरिति स्वारस्यमेव दर्शयन्नुक्तेऽर्थे हिशब्दसूचितं हेतुमाह —
पादोऽस्येति ।
ब्रह्माधिकारोत्पत्तेरपि तत्परत्वमृचो वाच्यमित्याह —
पुरुषेति ।
ब्रह्मविषयस्मृत्यर्थस्यात्र प्रत्यभिज्ञानाच्च तथेत्याह —
स्मृतिश्चेति ।
यत्तु मन्त्रानन्तरभाविब्रह्मशब्दस्य छन्दोविषयत्वं तद्दूषयति —
यदिति ।
एवं सति पूर्ववाक्ये ब्रह्मोपगमे सतीत्यर्थः ।
इतोऽपि पूर्वं ब्रह्मोक्तमित्याह —
पञ्चेति ।
गायत्र्याख्यब्रह्मणो हार्दस्योपास्त्यङ्गत्वेन द्वारपालादिगुणविध्यर्थं ‘तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः’ इत्यादिवाक्यम् । तत्र च ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ इति प्राच्यादिहृदयच्छिद्रेषु हार्दब्रह्मसम्बन्धाद्ब्रह्मपुरुषश्रुतिः । अतोऽप्यस्ति पूर्वं ब्रह्मोक्तमित्यर्थः ।
गायत्रीवाक्यस्य छन्दोमात्रार्थत्वाभावे फलितमाह —
तस्मादिति ।
परामृश्यते यच्छब्देनेति शेषः ॥ २६ ॥
द्युसम्बन्धात्प्रत्यभिज्ञेत्यत्रानुपपत्तिमुद्भाव्य दूषयति —
उपदेशेति ।
अनुवादं विभजते —
यदपीत ।
तस्य पूर्व वाक्यस्थस्य चतुष्पदो ब्रह्मण इति यावत् ।
चोद्यस्य समूलतया समाधियोग्यतामाह —
तदिति ।
तत्र समाधिसत्त्वं ब्रुवाणः सूत्रावयवं पातयति —
अत्रेति ।
उपदेशभेदो दोषो नेति नञर्थमुक्त्वा हेतुमाह —
नायमिति ।
हेतुं व्याकरोति —
उभयस्मिन्निति ।
यदाधारत्वं दिवो मुख्यं तदा कथञ्चिन्मर्यादा वाच्येति ।
दृष्टान्तमाह —
यथेति ।
श्येनो वृक्षाग्रे स्थितोऽपि परतोऽस्त्येव, अग्रलग्नभागातिरिक्तोपरिभागस्थस्य तस्यैवाग्रात्परतोऽवस्थानात् , अतो वृक्षाग्रस्य श्येनं प्रत्याधारत्वे मुख्ये तस्मात्परतः श्येन इत्यत्र श्येनशब्दोऽग्रलग्नावयवादूर्ध्वावयवावच्छिन्नावयविलक्षक इत्यर्थः ।
ब्रह्मणः श्येनवदवयवाभावादाधारेऽमुख्ये मर्यादा भूताकाशापेक्षयेति दार्ष्टान्तिकमाह —
एवमिति ।
दिवि द्योतनवति स्वे महिम्नि हार्दे वा नभसीत्यर्थः । दिवो भूताकाशाद्बाह्यादबाह्याद्वा तस्मादित्यर्थः ।
यदानौपाधिकं ब्रह्माकाशास्पृष्टं गृहीत्वा पञ्चम्येव मुख्या तदा सामीप्यं सप्तमी लक्षयतीत्याह —
अपर इति ।
भूतादिपादत्वलिङ्गात् , ‘तावानस्य’ इति मन्त्रलिङ्गात् , ‘यद्वै तद्ब्रह्म’ इतिवाक्याद्गायत्रीशब्दस्य ब्रह्मार्थत्वादुपदेशभेदेऽप्यर्थैक्यादप्रत्यभिज्ञाऽयोगाद्युक्तास्य प्रत्यभिज्ञेत्यवान्तरप्रकृतमुपसंहरति —
तस्मादिति ।
प्रत्यभिज्ञातस्य यच्छब्दपरामर्शे तदेव ज्योतिरिति परमप्रकृतमुपसंहरति —
अत इति ॥ २७ ॥
अनन्यथासिद्धतात्पर्यवद्ब्रह्मलिङ्गादुक्तवाक्यानां ब्रह्मपरत्वेऽपि प्रातर्दने वाक्ये पदार्थानामनेकेषामनेकलिङ्गृदृष्ट्या कस्यानुसारात्किं नेयमित्याकाङ्क्षायामाह —
प्राण इति ।
विषयं वक्तुमुपक्रममनुक्रामति —
अस्तीति ।
प्रतर्दनस्य राज्ञो लोकप्रसिद्ध्यर्थौ निपातौ । दिवोदासस्यापत्यं दैवोदासिस्तत्प्रियं प्रेमास्पदं, धाम गृहं, तद्गतौ हेतुर्युद्धेनेति । तत्करणेन पुरुषकारप्रदर्शनेन चेत्यर्थः ।
आम्नातेति ।
'तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनस्त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इत्याद्याख्यायिकाश्रुतेरित्यर्थः ।
मुख्यप्राणव्यावृत्त्यर्थम् —
प्रज्ञात्मेति ।
निर्विशेषं चिन्मात्रं व्यावर्तयति —
तं मामिति ।
देवतासम्भावनायै वाक्यमुक्त्वा प्राणसम्भावनार्तमाह —
तथेति ।
देहधारणं न वागादिकृतमित्युक्त्यनन्तरमित्यथशब्दार्थः ।
प्राणस्य तत्कार्यं प्रसिद्धमिति खल्वित्युक्तम् । जीवं सम्भावयितुमाह —
तथेति ।
परमात्मानं सम्भावयति —
अन्ते चेति ।
आदिपदेन ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ‘ इत्याद्युक्तम् । विषयमुक्त्वानेकलिङ्गदृष्ट्या संश्यमाह —
तत्रेति ।
गातार्थत्वेन तमाक्षिपति —
नन्विति ।
ब्रह्मलिङ्गात्प्राणशब्दस्य ब्रह्मणि वृत्तिरुक्ता । प्रकृते कथमित्याशङ्क्याह —
इहापीति ।
‘एष लोकाधिपतिः’ इत्यादिसङ्ग्रहायादिपदम् ।
अनेकेषु लिङ्गेषु दृष्टेषु कतमल्लिङ्गं, लिङ्गाभासं वा कतमदिति संशयं निरसितुमधिकरणमित्याह —
अनेकेति ।
तदेव विवृणोति —
नेत्यादिना ।
'न गन्धं विजिज्ञासीत घ्रातारं विद्यात् ‘ इत्यादिपदेनोक्तम् । अनेकलिङ्गानि दर्शयित्वा तत्कार्यमाह —
अत इति ।
पूर्वत्र प्रकृतत्रिपाद्ब्रह्मपरामर्शियच्छब्दसमानाधिकरणा ज्योतिःश्रूतिस्तदर्थेत्युक्तम् । इह न तथाविधमसाधारणं किञ्चिदस्ति प्राणस्य ब्रह्मत्वे मानमिति प्रसिद्ध्यनतिक्रमात्प्राणो वायुरेवेत्याह —
तत्रेति ।
स्फुटब्रह्मलिङ्गनां कौषीतकिश्रुतीनां ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः पूर्वपक्षे प्राणदेवताजीवानामन्यतमोपास्तिः फलं, सिद्धान्ते ब्रह्मोपास्तिः ।
मुख्यप्राणपक्षमनूद्य सूत्रमादाय प्रतिज्ञां विभजते —
इति प्राप्त इति ।
लिङ्गान्तरेषु सत्सु कुतोऽस्य ब्रह्मार्थतेत्याह —
कुत इति ।
तेषां वक्ष्यमाणान्यथासिद्धिं मत्वा हेतुमाह —
तथेति ।
ब्रह्मप्रतिपादनपरत्वेनैव पदानामन्वयदृष्टेरित्यर्थः ।
हेत्वर्थं प्रपञ्चयति —
तथाहीति ।
तत्रादावुपक्रमे पदानां ब्रह्मण्यन्वयमाह —
उपक्रम इति ।
यं त्वं मनुष्यायातिशयेन हितं मन्यसे तं वरमभिलपितं मह्यं त्वमेव वृणीष्व प्रयच्छेति प्रतर्दनेनोक्ते ‘मामेव’ इत्यादिना प्राणस्योच्यमानस्य न युक्ता वायुविकारतेत्याह —
तस्मा इति ।
उपास्तेरचिन्त्यशक्तित्वात्प्राणोपास्तिरेव मोक्षहेतुरलं ब्रह्मधियेत्याशङ्क्याह —
नहीति ।
एवकारार्थमाह —
नान्य इति ।
आदिशब्देन ‘तमेवं विद्वान् ‘ इत्याद्या श्रुतिरुक्ता । उपक्रमवन्मध्येऽपि पदानां ब्रह्मण्यन्वयमाह —
तथेति ।
स यः कश्चिदधिकृतो मां ब्रह्मरूपं साक्षादनुभवति तस्य विदुषो लोको मोक्षो महतापि पातकेन न मीयते न हिंस्यते न प्रतिबद्ध्यते, ज्ञानमाहात्म्येन सर्वस्यापि पापस्य दग्धत्वादित्याह —
स य इति ।
केनचन कर्मणेत्युक्तं स्पष्टयति —
नेत्यादिना ।
‘न मातृवधेन न पितृवधेन’ इत्यादि वक्तुमादिपदम् । श्रुतस्य सर्वपापदाहस्यान्यथासिद्धिं प्रत्याह —
ब्रह्मेति ।
‘एवं न हास्य’ इत्यादिश्रुतिसङ्ग्रहार्थमेवमाद्यास्वित्युक्तम् । इतश्च ब्रह्मैव प्राणशब्दमित्याह —
ब्रह्मेति ।
अन्ययोगव्यावृत्तिमाह —
नहीति ।
प्रक्रमादिवदुपसंहारेऽपि पदानां ब्रह्मार्थत्वमाह —
तथेति ।
आनन्दस्य दुःखाभावत्वान्मुख्येऽपि प्राणे योगाददेहस्य जरामरणयोरभावादजरत्वादेरपि तत्रोपपत्तेर्नोपसंहारस्य ब्रह्मार्थतेत्याशङ्क्याह —
आनन्दत्वादीनीति ।
प्राणशब्दं ब्रह्मेत्यत्र लिङ्गान्तराण्याह —
स नेत्यादिना ।
धर्माद्यस्पृष्टत्वं, तत्कारयितृत्वं, तदीशितृत्वं, च सर्वमुक्तम् । उक्तलिङ्गफलमाह —
तस्मादिति ॥ २८ ॥
देवतापक्षमुत्थाप्य प्रत्याह —
नेत्यादिना ।
चोद्यतात्पर्यमाह —
यदुक्तमिति ।
तत्र नञर्थमाह —
नेति ।
उक्तहेतुषु सत्सु निषेधासिद्धिरित्याह —
कस्मादिति ।
हेतुमादाय व्याचष्टे —
वक्तुरिति ।
अहङ्कारवादेनेति क्रियापदेन सम्बध्यते ।
कथमितिसूचितानुपपत्तिं स्फुटयति —
नहीति ।
‘अवाक्यनादरः’ इत्यादिश्रुतिरादिशब्दार्थः ।
ब्रह्मणो वक्तृत्वाभावादत्र वक्त्रा स्वस्यैव ज्ञेयत्वोक्तेरिन्द्रोपास्तिपरं वाक्यमित्यत्रैव हेत्वन्तरमाह —
तथेति ।
त्रीणि शीर्षाणि शिरांसि यस्य स त्रिशीर्षा विश्वरूपः स च त्वाष्ट्रस्त्वष्टुरपत्यं तमहनं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मुखास्ततोऽन्ये चारुन्मुखास्तान्वेदान्तबहिर्मुखानित्यर्थः । शालावृका वन्यश्वानः । बह्वीः सन्ध्या अतिक्रम्य दिवि प्रह्रादिनमतृणमित्यादिरादिशब्दार्थः ।
तथापि प्राणशब्दान्नेन्द्रस्योपास्यतेत्याशङ्क्याह —
प्राणत्वं चेति ।
बलवत्त्वाद्बलशब्दोपचारेऽपि कथं प्राणशब्दत्वमस्येत्याशङ्क्याह —
प्राण इति ।
बलवत्त्वमेवेन्द्रस्य कथं, तत्राह —
बलस्येति ।
प्रसिद्धिं लौकिकत्वेन प्रकटयति —
येति ।
तथापि प्रज्ञात्मत्वविरोधादनुपास्यता, नेत्याह —
प्रज्ञेति ।
कथमप्रतिहतज्ञानत्वं, लोकवेदप्रसिद्धेरित्याह —
अप्रतिहतेति ।
तथापि हिततममपुरुषार्थहेतुत्वाद्युक्तिविरोधे कुतोऽस्योपास्यता, तत्राह —
निश्चिते चेति ।
शक्त्यतिशयादुक्तपुमर्थहेतुत्वं, कर्मानधिकाराद्भ्रूणहत्याद्यपरामृष्टत्वं, लोकपालत्वाल्लोकाधिपत्यं, स्वर्गस्यानन्दत्वादानन्दत्वम् , अमृतत्वाजरत्वे चाभूतसम्प्लवं स्थितेरिति भावः ।
आक्षेपमुपसंहरति —
तस्मादिति ।
तमनूद्य समाधिमवतारयति —
इत्याक्षिप्येति ।
तस्यार्थमाह —
अध्यात्मेति ।
अस्मिन्नध्याये ।
यत्र ‘मामेव विजानीहि’ इत्यादि श्रूयते तत्रेति यावत् ।
बाहुल्यमेवाह —
यावद्धीति ।
तस्यार्थमाह —
प्राणस्येति ।
एवकारार्थमाह —
नेति ।
तथेति ।
आयुष्प्रदानोपसंहारयोः स्वातन्त्र्यवदित्यर्थः ।
अस्तित्वे प्राणस्थितौ प्रणानामिन्द्रियाणां स्थितिरिति ‘अथातो निःश्रेयसादानम्’ इत्याद्यर्थतो गृहीत्वा तदर्थमाह —
अस्तित्वे चेति ।
इन्द्रियाणां प्राणाश्रयत्ववदिति तथार्थः । इत्यध्यात्ममेव प्राणस्य देहधारयितृत्वमाहेति शेषः ।
ततश्च देवता न प्राणा इत्याह —
नेति ।
इति च प्रत्यगात्मन एव वक्तृत्वमुक्तमिति शेषः ।
देवातात्मनोऽपि वक्तृत्वात् ‘न वाच्यम्’ इत्याद्यविरुद्धमित्याशङ्क्याह —
उपक्रम्येति ।
तत्र च प्रज्ञामात्राणां भूतमात्राणां च नानात्वं नेत्यत्र दृष्टान्तः —
यथेति ।
यथा लोके प्रसिद्धस्य रथस्यारेषु मध्यवर्तिशलाकासु चक्रोपान्तनेमिरर्पितश्चक्रपिण्डिकायां च नाभावराः । तथा भूतान्येव पृथिव्यादीनि शब्दादयश्च विषया मीयन्त इति मात्राः प्रज्ञामात्रासु स्वविषयज्ञानेष्विन्द्रियेषु चार्पिताः, तदधीनत्वात्तद्व्यवहारस्य । ताश्च प्रज्ञामात्राः प्राणे परस्मिन्नर्पिताः । सच प्राणः परमात्मा, तल्लिङ्गादित्याह —
स इति ।
वाक्यतात्पर्यमाह —
विषयेति ।
स प्राणो ममात्मेत्यात्मशब्दसामानाधिकरण्याच्च प्राणशब्दस्य न देवतार्थतेत्याह —
स म इति ।
तर्हि प्रत्यगात्मनि समन्वयो न ब्रह्मणि, तत्राह —
अयमिति ।
सूत्रार्थमुपसंहरति —
तस्मादिति ॥ २९ ॥
अनन्यथासिद्धलिङ्गैः श्रुतितात्पर्याच्च प्राणस्य ब्रह्मत्वे देवतालिङ्गानां गतिर्वाच्येति पृच्छति —
कथमिति ।
सूत्रमुत्तरम् ।
तद्व्याख्याति —
इन्द्र इति ।
कथं तस्य गुर्वाद्यभावे ज्ञानं तत्राह —
आर्षेणेति ।
तस्य तर्हि प्रतिभात्वेनामानत्वं, नेत्याह —
यथेति ।
श्रवणाद्यभावे कुतो ब्रह्मास्मीतिधीः, तद्विधिविरोधात् , तत्राह —
यथेति ।
जन्मान्तरीयश्रवणादेराधुनिकधीरविरुद्धेति भावः ।
अध्ययनाभावे कथं यथाशास्त्रमैक्यधीरित्याशङ्क्य देवताधिकरणन्यायेनाह —
तदिति ।
इन्द्रश्चेद्ब्रह्मात्मना स्वात्मानमुपदिशति, कथं त्वाष्ट्रवधादिना स्तुतिः, तत्राह —
यदिति ।
नेयं विज्ञेयस्तुतिः, अपितु विज्ञानस्तुतिरित्याह —
अत्रेति ।
तत्र गमकमाह —
यदिति ।
तत्र क्रूरकर्मणि निमित्ते सतीत्यर्थः ।
कथमत्र ज्ञानस्तुतिः, तत्राह —
एतदिति ।
तस्मान्महाभागधेयं ज्ञानमिति शेषः ।
त्वदीयज्ञानस्यैवंरूपत्वेऽपि किमधिकृतस्य स्यात् , तदाह —
स य इति ।
ननु स्तूयमानज्ञानस्य ज्ञेयाकाङ्क्षायामिन्द्र एव सम्बध्यते, नेत्याह —
विज्ञेयं त्विति ।
अध्यात्मबाहुल्यात्पराचीनदेवतोक्त्ययोगात् , प्राणोऽस्मीत्यादि ब्रह्मार्थमेवेत्युपसंहरति —
तस्मादिति ॥ ३० ॥
प्रकारान्तरेण ब्रह्मपरत्वमाक्षिप्य समाधत्ते —
जीवेति ।
‘प्राणोऽस्मि’ इत्यादि देवतापरं नेत्युक्तमङ्गीकरोति —
यद्यपीति ।
तर्हि ब्रह्मपक्ष एवायं परिशिष्यते, नेत्याह —
तथापीति ।
पूर्वोत्तरपक्षयोरनुपपत्तिरयुक्तेत्याह —
कुत इति ।
देवतापक्षस्यातिफल्गुतया निरासेऽपि पक्षान्तरसद्भावान्मैवमित्याह —
जीवेति ।
तत्राद्यं व्यनक्ति —
जीवस्येति ।
वक्तुरेवात्र वेद्यता भाति न किञ्चिज्जीवलिङ्गमित्याशङ्क्याह —
अत्रेति ।
द्वितीयं विवृणोति —
तथेति ।
वक्तृत्वाद्युपदेशानन्तर्यमथशब्दार्थः ।
देहोत्थापनमपि जीवलिङ्गं किं न स्यात् , तत्राह —
शरीरेति ।
वागादयः सर्वे प्रत्येकं श्रेष्ठत्वमात्मनो मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति । तस्मिन्नेवमुक्तवति क्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यस्य प्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्ताौ तान्प्रति प्राणो व्याहृतवान् , मा मोहमापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणादिभेदेनात्मानं विभज्यैतद्बाणं वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्य विधारयामीत्युक्तेर्न देहधारणमन्यस्येत्यर्थः ।
क्वचिदिममित्युक्तेर्न देहधारणमिष्टमित्याशङ्क्याह —
ये त्विति ।
कथमुपहिते जीवात्मन्यचेतने च प्राणे प्रज्ञात्मत्वं, तत्राह —
प्रज्ञेति ।
द्विवचनसहभावोत्क्रमणश्रवणादपि न ब्रह्म ग्राह्यमित्याह —
जीवेति ।
अभेदनिर्देशमाह —
यो वा इति ।
भेदनिर्देशमाह —
सहेति ।
ब्रह्मपक्षेऽप्यभेदोपपत्तिमाशङ्क्याङ्गीकृत्य भेदानुपपत्तिमाह —
ब्रह्मेति ।
अमृतत्वादीन्यपि यथायोग्यं नेयानीत्युपसंहरति —
तस्मादिति ।
इहेति प्रकृतसन्दर्भोक्तिः । अन्यतर इत्युपक्रममात्रम् , उभाविति तत्त्वम् । ब्रह्म त्वानन्दादिश्रुतेरावश्यकम् । न ब्रह्मेति तन्मात्रव्यावृत्तिः । तथाच जीवमुख्यप्राणब्रह्मणां यथायथमुपास्तिरिष्टा । नच ‘प्राणोऽस्मि’ इत्युपक्रमात् ‘स एष प्राण एव’ इत्युपसंहाराच्च वाक्यैक्यावगतेरेकार्थत्वं, वाक्यार्थावगमस्य पदार्थावगमजन्यत्वेनोपजीव्याद्दौर्बल्यात् । नचैवं सर्वत्र वाक्यार्थभङ्गः, गुणप्रधानभूतपदार्थधियो वाक्यार्थैक्याविरोधित्वात् । अत्र तु पदार्थानां स्वातन्त्र्यं नैकवाक्यतेति भावः ।
परिहारमवतार्य व्याचष्टे —
नैतदिति ।
अस्तूपास्तित्रैविध्यं, नेत्याह —
नचेति ।
अर्थभेदे वाक्यभेदात्कथं सिद्धवदेकवाक्यत्वोक्तिः, तत्राह —
उपक्रमेति ।
तदेव स्फुटवति —
मामेवेति ।
वाक्यैक्येऽपि किमित्यर्थभेदो न स्यात् , तत्राह —
तत्रेति ।
पदार्थधियो वाक्यार्थधीहेतुत्वेऽपि वाक्यार्थबोधस्योद्देश्यत्वेन प्राधान्यात्पदानां पदार्थबोधे फले पर्यवसानाभावात्तस्य नान्तरीयकत्वात्प्रधानीभूतवाक्यार्थस्योपक्रमोपसंहारैकरूप्यावगतस्य युक्तमैक्यमिति भावः ।
उपासनात्रैविध्यनिरासाय ब्रह्मलिङ्गं जीवादिविषयं नेयमित्याशङ्क्याह —
नचेति ।
पञ्च शब्दादयः पञ्च पृथिव्यादयश्च दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः । यद्वा ज्ञानेन्द्रियार्थाः पञ्च कर्मेन्द्रियार्थोश्च पञ्चेति दश भूतमात्राः, द्विविधानीन्द्रियाणि प्रज्ञामात्रा दशेति भावः ।
प्राणशब्दस्य ब्रह्मण्यवृत्तेस्त्रैविध्यं तवापि स्यादित्याशङ्क्याह —
आश्रितत्वाच्चेति ।
तत्र ब्रह्मलिङ्गाद्ब्रह्मणि वृत्तिराश्रिता प्रकृते कथमित्याशङ्क्याह —
इहापीति ।
प्राणस्य ब्रह्मत्वे मुख्यप्राणलिङ्गं विरुध्येतेत्याशङ्क्याह —
यत्त्विति ।
प्राणव्यापारस्य परमात्मायत्तत्वे मानमाह —
नेति ।
कारणस्य कार्याकारेण स्थितस्य तद्धर्मेणापि सम्बन्धात्कार्यस्य व्यावृत्तस्य कार्यान्तरेष्वपि स्थितकारणधर्मेणासम्बन्धात्प्राणादिलिङ्गानि ब्रह्मणि युज्यन्ते, न तल्लिङ्गानि तत्रेति भावः ।
जीवलिङ्गमपि ब्रह्मविरोधीत्यनुवादपूर्वकमाह —
यदपीति ।
कथं तर्हि ब्रह्मण एव सतो जीवस्य संसारित्वं, तत्राह —
बुद्ध्यादीति ।
जीवो ब्रह्मैव चेन्न तस्य वक्तृत्वं, तस्य ब्रह्मत्वविरोधित्वात् , तत्राह —
तस्येति ।
‘वक्तारं विद्यात्’ इति न विधिः, वक्तृत्वस्याध्यक्षत्वात् । किन्तु तदुद्देशेनाप्रसिद्धं ब्रह्मत्वं विधित्सितमित्यर्थः ।
प्रत्यगात्माभिमुख्योऽर्थो लिङादिरिति समन्वयसूत्रेऽपि दर्शितमित्याशयेनाह —
प्रत्यगिति ।
तत्र तलवकारश्रुतिमाह —
यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापाद्यते तदेव वागादेरगम्यं ब्रह्मेत्यर्थः ।
तस्य तात्पर्यमाह —
वचनादीति ।
द्विवचनसहभावोत्क्रमणश्रवणं सिद्धान्ते दुर्योजमित्युक्तमनूद्य दूषयति —
यदित्यादिना ।
उपाधिभेदात्तद्विशिष्टस्य भिन्नतेति विशिनष्टि —
प्रत्यगिति ।
अभेदस्तर्हि कथं, तत्राह —
उपाधीति ।
उपहितद्वारोपलक्षितस्येत्यर्थः ।
स्वमते सूत्रावयवं व्याख्याय वृत्तिकारमते व्याकरोति —
अथवेति ।
तत्र नञर्थमाह —
नेति ।
ब्रह्मवाक्यत्वे जीवप्रणयोरध्येयत्वात्तल्लिङ्गविरोधोऽस्त्येवेत्याह —
कथमिति ।
हेतुमुक्तवा व्याख्याति —
उपासेति ।
स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, न त्वेकस्यैव ब्रह्मणस्तद्धर्मेणेत्यर्थः ।
उक्तमेव विभजते —
तत्रेति ।
‘प्राणो हि भूतानामायुः’ इति श्रुत्यन्तरेणाह —
आयुरिति ।
तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् । प्राणस्यैव देहाद्युत्थापकत्वं तस्मादित्युच्यते । उत्थापयति देहादीत्युक्थं प्राणः । सहवासः सहोत्क्रान्तिश्चेत्युक्त्यानन्तर्यमथशब्दार्थः ।
अस्या जीवाख्यप्रज्ञायाः सम्बन्धीनि भूत्वा सर्वाणि भूतानि तद्दृश्यत्वेन कल्पितानि वस्तुतो यथैकं भवन्ति तथा तद्वस्तु व्याख्यास्याम इत्युपक्रम्योक्तम् —
‘वागेव’ इत्यादि ।
बुद्धेः साभासायाः स्वरूपतो जातत्वेऽपि विषयित्वमिन्द्रियसाध्यम् । तत्र कर्मेन्द्रियेषु मध्ये वागेवास्याः प्रज्ञाया देहार्धमेकमङ्गमदूदुहद्रेचितवती पूरयामास । नामरूपात्मा प्रपञ्चो विषयस्तत्र नामप्रपञ्चे वाग्द्वारा प्रविष्टा धीस्तं प्रति विषयित्वमाप्नोतीत्यर्थः ।
तस्याः प्रज्ञायाः पुनर्नाम किल परस्तादपरभागे चक्षुरादिना प्रतिविहिता समुत्थापिता भूतमात्रा रूपादिरूपा चक्षुरादिना रूपाद्यर्पणेन बुद्धेरपरभागरूपं रूपप्रपञ्चं प्रति विषयित्वं निर्वर्त्यत इत्याह —
तस्या इति ।
बुद्ध्युपहितचैतन्यद्वारा स्वरूपे द्रष्टृत्वाध्यासमाह —
प्रज्ञयेति ।
तया द्वारा चिदात्मा वाचं करणं प्रति कर्तेत्यध्यासमनुभूय वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्ट्टत्वमनुभवतीत्यर्थः ।
सर्वभूतविषयित्वमात्मनि विशिष्टद्रष्ट्टत्वादिकरत्वं च बुद्धेर्धर्म इत्युक्तम् । सर्वाधारत्वानन्दत्वादि ब्रह्मधर्म इत्याह —
ता वा एता इति ।
उक्ता भूतमात्राः प्रज्ञाशब्दितेन्द्रियाणि । तदुत्थज्ञानानि चाधिकृत्य प्रवर्तन्ते । प्रज्ञामात्राश्चोक्ता भूतशब्दितानि पृथिव्यादीनि शब्दादीनि चाधिकृत्य भवन्ति ।
ग्राह्यग्राहकयोर्मिथः सापेक्षकत्वं साधयति —
यदिति ।
तदेव स्पष्टयति —
नहीति ।
अन्योन्यापेक्षमप्येतद्विषयविषयिद्वयं न द्वैतपक्षवन्नाना वस्तुतो भिन्नं किन्त्वेकस्मिन्नेवारोपितमित्याह —
नो इति ।
तद्यथेत्यादि व्याख्यातम् ।
नोपासात्रैविध्यादित्यस्यार्थमुपसंहरति —
तस्मादिति ।
अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह —
अन्यत्रापीति ।
तत्रोपक्रमे ब्रह्मणः श्रुतत्वाद्युक्ता मनोमयत्वादिविशिष्टस्योपास्तिः, इह कथमित्याशङ्क्य तद्योगादित्याह —
इहापीति ।
उपास्तेस्तर्हि कथं त्रैविध्यं, तत्राह —
प्राणेति ।
वाक्यभेदस्तु ब्रह्मण एकस्यैवोपासात्रैविध्योक्त्या प्रयुक्तः ।
किमत्रोपासात्रयविशिष्टं ब्रह्म विधेयमुत ब्रह्मविशिष्टमुपासात्रयं किं वा तदनुवादेन तदाश्रित्योपासात्रयम् । नाद्यः, ब्रह्मणः सिद्धत्वाद्विध्यनर्हत्वात् । न द्वितीयः, वाक्यान्तरेभ्यो ब्रह्मणो ज्ञातत्वात् । न तृतीयः, ब्रह्मानुवादेनोपास्तिविधावेकविशेष्यावशीकारादुपास्तीनां मिथोसम्बन्धात्प्रत्युपास्तिविध्यावृत्त्या वाक्यभेदादित्येकीयव्याख्यामुपेक्ष्य स्वपक्षमुपसंहरति —
तस्मादिति ।
प्राकरणिकत्वेऽपि ब्रह्मणोऽवान्तरवाक्यभेदेन श्रवणादिवद्विविदिषार्थं यज्ञादिवच्चोपास्तित्रयं विधेयं, विधेयत्रयधर्मवद्ब्रह्मोपास्तिश्चैकेति कुतो वाक्यभेद इत्येके । तन्न । अन्तस्तद्धर्माधिकरणेन गतत्वात् । तत्र हि सार्वात्म्यसर्वदुरितविरहाभ्यां सर्वकारणे ब्रह्मणि सिद्धे रूपवत्त्वादिकार्यधर्मा नीतास्तयात्रापि प्रागुक्तन्यायेन प्राणादिधर्माणां ब्रह्मणि सम्भवान्न पृथग्विचारावसरः । तस्माज्जीवप्राणब्रह्माणि सहोपास्यानि ब्रह्मैव वा प्रतिपाद्यमिति पदार्थवाक्यार्थयोर्बलाबलज्ञानेन सन्दिह्य दिवो दिवीत्यत्र प्रधानप्रकृत्यर्थाभेदेन गुणभूतप्रत्ययार्थभेदनयनवदत्रापि स्वतन्त्रप्राणादिपदार्थभेददृष्टौ तदपेक्षत्वेन गुणभूतवाक्यार्थदृष्टेरन्यथानयनात्पदार्थबुद्धेर्वाक्यार्थबुद्ध्योपजीव्यत्वेन स्वातत्र्याद्वाक्यैक्यं भङ्क्त्वा त्रीणि सहोपास्यानीति प्रापय्य पदानां वाक्यार्थबोधोद्देशेन प्रवृत्तत्वात्पदार्थबोधस्य नान्तरीयकत्वाद्वाक्यार्थबोधप्राधान्यादुपक्रमोपसंहारैकरूप्यसिद्धप्रधानवाक्यार्थभङ्गायोगात् , प्राणादिलिङ्गानां च ब्रह्मणि नीतत्वात् , अनन्यथासिद्धब्रह्मलिङ्गाद्ब्रह्मैवात्र प्रतिपाद्यमिति सिद्धान्तयितव्यम् । सर्वथापि प्रातर्दनं वाक्यं ब्रह्मणि ज्ञेये समन्वितमिति ॥ ३१ ॥
इति श्रिमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकभाष्यनिर्णये प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥
॥ इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः ॥
पूर्वोपजीवनेनोत्तरोत्थानाद्धेतुहेतुमत्त्वं सम्बन्धं वक्तुं वृत्तमनुवदति —
प्रथम इति ।
कारणत्वमात्रं नात्रोपयुक्तं, व्यापित्वादेरपि सिद्धवद्धेतुतयोपादानात् , अतस्तदनुक्तौ कथं सङ्गतिरित्याशङ्क्याह —
तस्येति ।
उक्तमुपजीव्योत्तरप्रवृत्तौ कथं पादभेद इत्याशङ्क्याह —
अर्थान्तरेति ।
उत्तरपादद्वयस्यानधिगतमर्थमाह —
पुनरिति ।
पूर्वं भूताकाशादिषु रूढाकाशादिशब्दानां ब्रह्मपरत्वे तल्लिङ्गादितिहेतूक्त्या स्पष्टब्रह्मलिङ्गानि नीतानि । अथास्पष्टब्रह्मलिङ्गवाक्यान्यर्थान्तरार्थतया शङ्क्यमानानि ब्रह्मणि नीयन्ते । तत्र द्वितीयतृतीयपादयोरवान्तरभेदस्तु प्रायशः सविशेषनिर्विशेषार्थतया रूढियोगबहुलतया वेति भावः ।
पूर्वं जीवलिङ्गबाधया ब्रह्मपरत्ववन्मनोमयादिवाक्येऽपि तद्बाधेन तत्परत्वमाह —
सर्वत्रेति ।
छान्दोग्यवाक्यमुदाहरति —
इदमिति ।
सर्वं जगद्ब्रह्मैवेत्यत्र हेतुमाह —
तज्जेति ।
तस्माज्जायत इति तज्जं, तस्मिंल्लीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं, तज्जं च तल्लं च तदनं च तदिति तञ्जलान् । अवयवलोपश्छान्दसः । इति हेतौ । यस्मादेवं जगत्तस्माद्ब्रह्मैव सर्वं जगदित्यर्थः ।
अतो धियो रागादिविषयाभावादुपासीत स शान्तः स्यादित्याह —
शान्त इति ।
गुणं विधाय गुणिविधित्सया पुम्प्रयत्नस्य साफल्यमाह —
अथेति ।
पुरुषोऽधिकृतः क्रतुमयः सङ्कल्पप्रधानः । तत्र हेतुर्यथेति । ज्ञानं कर्म वा यथास्मिन्देहे स्थितः सङ्कल्पयते तथा तदनुसारेण फलं परत्र लभते सोऽधिकृतः क्रतुं ध्यानं कुर्वीत ।
किं ध्यायेदित्याकाङ्क्षायामाह —
मनोमय इति ।
विभक्तिव्यत्ययेन मनोमयं प्राणशरीरं ध्यायेदित्यर्थः । आदिशब्दाद्भारूपः सत्यसङ्कल्प इत्यादि गृहीतम् ।
मनोमयत्वादीनां प्रकृतब्रह्मानपेक्षत्वसापेक्षत्वाभ्यां सन्देहमाह —
तत्रेति ।
एकवाक्यस्थब्रह्माब्रह्मलिङ्गयोर्ब्रह्मलिङ्गवशादब्रह्मलिङ्गं नीतम् । इह ब्रह्माब्रह्मप्रकरणलिङ्गसंनिपाते किं युक्तमिति पृच्छति —
किमिति ।
‘सर्वम्’ इत्यादिश्रुतेः सविशेषार्थाया ध्येये ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पर्वपक्षे जीवस्य, सिद्धान्ते परस्योपास्तिः फलम् ।
रात्रिसत्रन्यायेनोपास्त्या वाक्यशेषस्थो जीवः सम्बध्यत इति पूर्वपक्षयति —
शारीर इति ।
विश्वजिन्न्यायेन सर्वाभीष्टं ब्रह्मैव मनोमयादौ विशेष्याकाङ्क्षायामुपास्तिसम्बन्धीत्याह —
कुत इति ।
विशेष्याकाङ्क्षायामपि जीव एव लिङ्गबलीयस्तया सम्बध्यत इत्याह —
तस्येति ।
तदन्यथासिद्धिं प्रत्याह —
नेति ।
आदिपदेन ‘अवागमनाः’ इत्याद्या श्रुतिरुक्ता ।
श्रुत्या शङ्कते —
नन्विति ।
न लिङ्गं श्रुत्या बाध्यमित्याह —
नैष इति ।
किं पूर्ववाक्ये ब्रह्मोपास्तिर्विहितेत्युच्यते किं वा प्रकृतं ब्रह्मैवोत्तरत्र सम्बद्धमिति । नाद्य इत्याह —
नेदमिति ।
शमविधिपरत्वे हेतुः —
यदिति ।
‘उपासीत’ इत्युपास्तिविधौ श्रुते कथं गुणविधिः, तत्राह —
एतदिति ।
सर्वस्यैकात्मत्वेऽपि कथं शमविधिः, तत्राह —
नचेति ।
तर्हि शमो ध्यानमित्युभयं विधीयतां, नेत्याह —
नचेति ।
वाक्यभेदापत्तेरिति भावः ।
‘दध्ना जुहोति’ इति होमानुवादेन गुणविधिवदिहापि शमविधौ वाक्यान्तरसिद्धोपास्तिरनूद्यत इत्याशङ्क्याह —
उपासनं त्विति ।
क्रतुरेव तत्र विधीयते नोपास्तिरित्याशङ्क्योक्तम् —
क्रतुरिति ।
द्वितीयं प्रत्याह —
तस्य चेति ।
ब्रह्मैव मनोमयादिशब्दमित्याशङ्क्य मनआदियोगस्य जीवलिङ्गत्वान्नेत्याह —
जीवेति ।
तस्योपास्यत्वे वाक्यशेषस्थं सर्वकर्मत्वादि कथमित्याशङ्क्य क्रमेणेत्याह —
सर्वेति ।
जीवपक्षे लिङ्गद्वयमाह —
एष इति ।
जीवे ज्यायस्त्वायोगं शङ्कते —
नन्विति ।
किं ज्यायस्त्वमणीयस्त्वं चोभयं सत्यमन्यतरद्वेति विकल्पयति —
अत्रेति ।
आद्यं दूषयति —
न तावदिति ।
द्वितीयं निराह —
अन्यतरेति ।
तच्चाराग्रमात्रस्य जीवस्य युक्तमिति तस्यैवोपास्यतेत्यर्थः ।
श्रुत्या ज्यायस्त्वस्यात्यन्तबाधे श्रुतिबाधमाशङ्क्याह —
ज्यायस्त्वं त्विति ।
जीवपक्षे कथमन्ते ब्रह्मपदं, तत्राह —
निश्चिते चेति ।
जीवेऽपि देहादिबृंहणाज्ज्यायस्त्वन्यायाद्वा ब्रह्मतेत्यर्थः ।
‘एतमितः प्रेत्याभिसम्भवितास्मि’ इति कर्मकर्तृव्यपदेशात् , ‘अन्तरात्मन्पुरुषः’ इति च तुल्याधिकारे भेदोक्तेर्न जीवस्योपास्यतेत्याशङ्क्य साधनफलावस्थापेक्षया कर्मकर्तृत्वस्यान्यस्य च ‘स्वे महिम्नि’ इतिवदुपचाराज्जीवस्यैवोपास्यतेत्युपसंहरति —
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयन्सूत्राद्बहिरेव प्रतिजानीते —
एवमिति ।
मनोमयादिशब्दा ध्येये जीवे भान्ति । न ब्रह्म तथेत्याह —
कुत इति ।
सूत्रमादाय व्याचष्टे —
सर्वत्रेति ।
रात्रिसत्रन्यायस्य लघुत्वेऽपि जीवगामित्वेनाफलत्वाद्विश्वजिन्न्यायस्य गुरोरपि ब्रह्मगामित्वेन फलवतः श्रुतितात्पर्यगमकस्य बलीयस्त्वाद्ब्रह्मैवात्रोपास्यमितिभावः ।
किञ्च मनोमयत्वादिलिङ्गं बाधित्वा ब्रह्मश्रुत्या ब्रह्मैवोपास्यमित्याह —
इह चेति ।
किञ्चाफललिङ्गोपनीतं जीवं हित्वा फलवत्प्रकरणप्राप्तं ब्रह्म ग्राह्यमित्याह —
एवमिति ।
प्राणः शरीरमस्येति समासगतसर्वनाम्ना संनिहितार्थेन प्रकृतं ब्रह्म हित्वा जीवमप्रकृतमिच्छतः प्रकृतहानिरप्रकृतप्रक्रिया चेत्यर्थः ।
आगतो राजपुरुषस्तं भोजयेदितिवदन्यशेषस्य ब्रह्मणः सर्वनामादिना न परामर्शः स्यादित्याशङ्कते —
नन्विति ।
‘तस्मिन्सीद’ इत्यादौ सदनस्येवोपसर्जनस्यापि परामर्शमाह —
अत्रेति ।
जीवस्यापि लिङ्गादस्ति संनिधिरित्याशङ्क्य तस्योपास्तिधियो विशेषणवैयर्थ्यादविवक्षितं लिङ्गमित्याह —
जीवस्त्विति ।
तथापि मनोमयादिशब्दात्तदुक्तिः, नेत्याह —
नचेति ।
तस्य तदवाचित्वादित्यर्थः । वैषम्यं जीवब्रह्मणोरिति शेषः ॥ १ ॥
इतश्च ब्रह्मैवात्रोपास्यमित्याह —
विवक्षितेति ।
ननु शास्त्रयोनित्वेऽपीश्वरस्य रचनायामस्वातन्त्र्यादपौरुषेयत्वं वेदस्योक्तम् । तत्र वक्तुरभावादित्थं विवक्षितपदं कथं विगृह्यते, तत्राह —
यद्यपीति ।
विवक्षितस्योपादानादुपास्तावुपादानस्य विवक्षाफलस्य सत्यसङ्कल्पादिगुणेषु दृष्टेर्विवक्षितत्वमुपचर्य विग्रह इत्यर्थः ।
उक्तोपचारस्यालौकिकत्वं प्रत्याह —
लोकेऽपीति ।
विवक्षितत्वोपादेयत्वयोरन्योन्याश्रयत्वमाशङ्क्याह —
उपादानेति ।
परिग्रहपरित्यागावुपादानानुपादाने ।
प्रसङ्गागतमुक्त्वा सूत्रं व्याचष्टे —
तदिहेति ।
तच्छब्दो यथोक्तसमासोपपत्तिपरामर्शी ।
प्रकृतं प्रकरणमिहेत्युक्तम् । ब्रह्मण्येव सत्यसङ्कल्पत्वं साधयति —
सत्येति ।
श्रुतिरपि युक्तिवदिहास्तीत्याह —
परमात्मेति ।
आकाशात्मत्वं वक्तुं तन्निरुक्तिं करोति —
आकाशेति ।
कथं जडाजडयोः साम्यं, तदाह —
सर्वेति ।
ज्यायस्त्वं सर्वगतत्वसाधकमित्याह —
ज्यायानिति ।