अद्वैतशारदा

न्यायनिर्णयव्याख्या

१ परिच्छेदः

'हन्ता­ह­मे­त­द्भ­ग­वत्तो वेदानि’ इत्युपसन्नः शालावत्यः ‘विद्धि’ इति जैवलिनोक्ते पृच्छति —
अस्येति ।

सर्वस्यैव प्रपञ्चस्य प्रति­ष्ठा­प्रश्ने प्रवा­ह­ण­स्यो­त्त­र­माह —
आकाश इति ।

कथं भूताकाशः सर्व­ज­ग­त्प्र­तिष्ठा, तत्राह —
सर्वाणीति ।
उपनिषदां तदभिज्ञानां च प्रसिद्धमेतदिति द्योतकौ निपातौ ।

निमि­त्त­मा­त्रत्वं निराकर्तुं विशिनष्टि —
आकाशमिति ।

भूता­का­श­व्या­वृ­त्तये हेत्वन्तरमाह —
आकाशो हीति ।

तत्रैव हेत्वन्तरं सूचयति —
आकाश इति ।

विचारबीजं संशयमाह —
तत्रेति ।

अन­ति­प्र­स­ङ्गार्थं प्रश्नद्वारा निमित्तमाह —
कुत इति ।

क्वचिदित्युक्तं स्पष्टयति —
यत्रेति ।

असा­धा­र­ण­गु­ण­श्रु­ते­रा­का­श­श­ब्दस्य ब्रह्मार्थत्वे दृष्टान्तः —
यथेति ।
असा­धा­र­णे­ना­न­न्दे­ना­न्य­त्रा­स­म्भा­वि­तेन सामा­ना­धि­क­र­ण्या­दा­काशो ब्रह्मेत्यर्थः ।

वाक्य­शे­षा­दा­का­शस्य ब्रह्मत्वे दृष्टान्तमाह —
आकाश इति ।
निपातावाकाशस्य नाम­रू­पो­प­ल­क्षि­त­स­र्व­प्र­प­ञ्च­नि­र्वा­ह­क­त्व­प्र­सि­द्ध्यर्थौ । ते नामरूपे यदन्तरा यस्मादन्ये यस्य वा मध्ये स्तः, तन्ना­म­रू­पा­स्पृष्टं ब्रह्मेति वाक्य­शे­षा­द­त्रा­काशो ब्रह्मेत्यर्थः । ‘य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्शेते’ इत्या­दि­वा­क्य­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । यथैवमादावाकाशो ब्रह्म तथात्रापीति योजना ।

रूढिनिरूढिभ्यां संशयमुपसंहरति —
अत इति ।

विमृश्य पूर्वपक्षयति —
किं पुनरिति ।
स्फुट­ब्र­ह्म­लि­ङ्गो­क्त­श्रु­ते­रु­द्गीथे सम्पाद्योपास्ये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूता­का­श­दृ­ष्ट्यो­द्गी­थो­पास्तिः, सिद्धान्ते ब्रह्म­दृ­ष्ट्येति फलम् ।

वैदिकप्रयोगस्य तादृ­क्प्र­यो­गा­द्ब्र­ह्मा­र्थत्वे सिद्धे कुतो भूताकाशार्थतेति शङ्कित्वा हेतुमाह —
कुत इति ।
प्रथ­म­श्रु­ता­का­श­श्रुत्या भूतार्थे रूढ्या चर­म­श्रु­त­ब्र­ह्म­लि­ङ्ग­बा­धान्न श्रुत्यन्तरेण ब्रह्मा­र्थ­ते­त्यर्थः ।

ब्रह्मण्यपि साधा­र­ण­त्वा­न्ना­का­श­श्रु­ति­र्ब्र­ह्म­लि­ङ्ग­बा­धि­के­त्या­श­ङ्क्याह —
नचेति ।

एकस्यापि गोश­ब्द­स्या­ने­का­र्थ­त्व­म­ग­त्याऽ­भीष्टं, ब्रह्मणि त्वाकाशशब्दो गौणत्वेनापि गच्छतीत्याह —
तस्मादिति ।

गौणत्वार्थं गुणयोगमाह —
विभुत्वेति ।

गुणवृत्तेरपि शब्द­वृ­त्ति­त्वा­त्तया किं न ब्रह्म गृह्यते, तत्राह —
नचेति ।

ननु नेह मुख्यं सम्भवति तत्र सर्व­का­र­ण­त्वा­यो­गा­दतो मुख्य­गौ­ण­यो­र्मुख्ये संप्र­त्य­य­न्या­य­स्या­न­व­का­शत्वं, तत्राह —
सम्भवतीति ।

तदेव साधयितुं शङ्कयति —
नन्विति ।

आकाशस्य प्रथ­म­श्रु­त­त्वे­ना­स­ञ्जा­त­वि­रो­धि­त्वा­त्त­द्बुद्धौ तदे­क­वा­क्य­स्थ­मु­प­स्थितं सर्व­मु­प­जा­त­वि­रो­धि­त्वा­त्त­दा­नु­गु­ण्येन नेयमित्याह —
नेति ।

तत्रैव तैत्ति­री­य­क­श्रु­ति­सं­वा­द­माह —
विज्ञायते हीति ।

तथापि कथं वाक्यशेषो भूताकाशे स्यात् , तत्राह —
ज्यायस्त्वेति ।

भूताकाशेऽपि शेषोपपत्तौ फलितमाह —
तस्मादिति ।

भूता­का­श­दृ­ष्ट्यो­द्गी­थो­पा­स्ति­रिति प्राप्तमनूद्य सिद्धान्तयति —
एवमिति ।

रूढ्या प्रयो­ग­बा­हु­ल्याच्च सिद्ध­भू­ता­का­श­त्यागे न हेतुरिति शङ्कित्वा हेतुमादाय व्याचष्टे —
कुत इति ।

ननु वादिनः सर्वयोनित्वं ब्रह्मणो नेच्छन्ति तत्राह —
परस्माद्धीति ।

तस्या­न्य­था­सिद्धिं स्मारयति —
नन्विति ।

उक्तमुपेत्य प्रत्याह —
सत्यमिति ।
तत्र तत्र तेजःप्रभृतिषु वाय्वादेरपि कार­ण­त्वा­द­व­धा­र­णा­सिद्धिः, मूल­का­र­णा­पे­क्षायां ब्रह्मण्येव तद्युक्तम् । सर्वाणीति भूतविशेषणं च भूताकाशपक्षे वाय्वादौ सङ्कुचितं स्यात्त­स्मा­न्ना­न्य­था­सि­द्धि­रि­त्यर्थः ।

सर्व­भू­तो­त्पा­द­क­त्व­व­त्त­ल्ल­या­धा­र­त्व­मपि ब्रह्म­लि­ङ्ग­मि­त्याह —
तथेति ।

ब्रह्मणो लिङ्गद्वयमाह —
आकाशो हीति ।

भूताकाशस्यापि ज्यायस्त्वादि सापे­क्ष­मु­क्त­मि­त्या­श­ङ्क्याह —
ज्यायस्त्वमिति ।
नैरपेक्ष्यधिया तरपो वचनम् ।

न केवलं युक्त्यास्य परायणत्वं, श्रुतेरपीत्याह —
श्रुतिरिति ।
रातेर्धनस्य दातु­र्य­ज­मा­न­स्येति । रातिरितिपाठे बन्धुरित्यर्थः ।

आकाशो ब्रह्मेत्यत्र लिङ्गान्तरमाह —
अपिचेति ।
शालावत्यो दाल्भ्यो जैव­लि­रि­त्यु­द्गी­थ­वि­द्या­कु­श­लानां किं परा­य­ण­मु­द्गी­थ­स्येति विचारे स्वर्गलोक एवेति दाल्भ्योक्तं निरस्यायं लोक इति शालावत्योक्तौ ‘अन्तवद्वै किल ते शालावत्य साम’ इति पृथि­वी­लो­क­स्या­न्त­व­त्त्वा­त्प्र­ति­ष्ठि­तत्वं निन्दित्वा जैवलिना साम प्रति­ष्ठा­रू­प­म­न­न्त­मेव विवक्षता गृहीतमाकाशं नान्तवद्युक्तम् , अतो ब्रह्मै­वा­का­श­मि­त्यर्थः ।

नन्व­न­न्त­मा­का­श­मिह नोपसंह्रियते किन्तूद्गीथः, तत्क­थ­मा­न­न्त्या­दा­काशो ब्रह्म, तत्राह —
तं चेति ।
'स एषः’ इत्या­का­शा­त्म­त्वोक्तिः । देशतोऽनन्तत्वं परत्वम् । गुणत उत्कृष्टत्वं वरीयस्त्वम् । कालतो वस्तु­त­श्चा­प­रि­च्छि­न्न­त्व­मा­न­न्त्यम् । परेभ्यः स्वरा­दि­भ्योऽ­ति­श­येन श्रैष्ठ्यं वा परोवरीयस्त्वम् ।

तथापि कथमाकाशो ब्रह्म तत्राह —
तच्चेति ।
नाब्र­ह्म­ण­स्त्रि­धा­नन्त्यं, तेनो­प­क्र­मो­प­सं­हा­र­प्र­ति­पा­द्य­ता­त्प­र्य­व­दा­न­न्त्य­मा­का­शस्य ब्रह्म­त्व­बो­धी­त्यर्थः ।

श्रुतिबाधो लिङ्गान्न दृष्ट इत्युक्तमनुवदति —
यदिति ।

‘त्यजेदेकं कुलस्यार्थे’ इति­न्या­या­द्भू­य­सीनां ब्रह्म­लि­ङ्ग­श्रू­ती­ना­म­नु­ग्र­हा­या­का­श­श्रु­ते­रे­कस्या बाध इत्याह —
अत्रेति ।

किञ्चा­का­श­श­ब्दस्य ब्रह्मणि प्रयो­ग­प्रा­चु­र्या­द­त्य­न्ता­भ्या­सेन गौणादपि तस्मादाद्या धीः स्यादित्याह —
दर्शितश्चेति ।

नाकाशशब्दस्यैव ब्रह्मणि बहुकृत्वः प्रयोगः, तत्पर्यायाणां चेत्याह —
तथेति ।
व्योम­न्व्योम्नि, परमे प्रकृष्टे, अक्षरे कूटस्थे ब्रह्मणि, ऋगुपलक्षिताः सर्वे वेदा ज्ञापकाः सन्ति, यस्मिन्नक्षरे विश्वे देवा अधि निषे­दु­र­धि­ष्ठिताः, स्वरूपत्वेन प्रविष्टा इत्यर्थः । भार्गवी भृगुणा प्राप्ता । वारुणी वरुणेनोक्ता । सैषा विद्या ‘आन्दो ब्रह्मेति व्यजानात्’ इति प्रकृता पर­स्मि­न्ब्र­ह्मणि व्योम्नि स्थितेत्यर्थः ।

ओङ्कारस्य प्रतीकत्वेन वाचकत्वेन लक्षकत्वेन वा ब्रह्म­त्व­मु­क्तम् —
ओमिति ।

कं सुखं तस्या­र्थे­न्द्रि­य­यो­ग­जत्वं वारयितुम् —
खमिति ।

तस्य भूताकाशत्वं व्यासेद्धुम् —
पुरा­ण­मि­त्यु­क्तम्।

किञ्च तत्रैव प्रथ­मा­नु­गु­ण्ये­नो­त्तरं नीयते, यत्र तन्नेतुं शक्यं, यत्र त्वशक्यं तत्रो­त्त­रा­नु­गु­ण्ये­ने­त­र­न्ने­य­मि­त्याह —
वाक्येति ।

तत्र दृष्टान्तः —
अग्निरिति ।

आका­श­श्रु­ते­र्गौ­णत्वे फलितमुपसंहरति —
तस्मादिति ॥ २२ ॥

आका­श­वा­क्यो­क्त­म­न­न्त­र­वा­क्येऽ­ति­दि­शति —
अत एवेति ।

तत्रोदाहरणम् —
उद्गीथ इति ।
‘परो­व­री­यां­स­मु­द्गी­थ­मु­पास्ते’ इत्युक्तत्वात् । ‘अथातः शौव उद्गीथः’ इति च वक्ष्य­मा­ण­त्वा­दु­द्गी­था­धि­कारे प्रासङ्गिकं प्रस्ता­व­ध्या­न­मिति वक्तुमुद्गीथ इत्युक्तम् । कश्चि­दृ­षि­श्चा­क्रा­यणो नाम धनार्थं राज्ञो यज्ञं गत्वा ज्ञानवैभवं स्वस्य प्रक­ट­य­न्प्र­स्तो­ता­र­मु­वाच, हे प्रस्तोतः, या देवता प्रस्तावं भक्ति­वि­शे­ष­म­न्वा­यत्ता तां चेदविद्वान्मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ।

स भीतः सन्पप्रच्छ —
कतमा
इत्यादिना ।

प्रतिवचनम् —
प्राण इति ।

मुख्यप्राणं व्यावर्तयति —
सर्वाणीति ।
प्राणमभिलक्ष्य लयकाले संविशन्ति, जन्मकाले तमे­वा­भि­ल­क्ष्यो­ज्जि­हत उद्गच्छन्ति, सैषा परा देवता प्रस्तावं भक्ति­वि­शे­ष­म­नु­ग­ते­त्यर्थः ।

अति­दे­श­कृ­त­म­र्थ­माह —
तत्रेति ।

आका­श­श­ब्द­स्यो­भ­यत्र प्रयुक्तेः संशयेऽपि प्राणशब्दस्य नैवमिति कुतः संशयादिः, तत्राह —
प्राणेति ।
मनःशब्दलक्ष्यं तत्सा­क्षि­चै­तन्यं प्राणे परस्मिन्नैक्येन स्थितमित्यर्थः ।

ये प्राणस्य पञ्च­वृ­त्ते­र्वा­यु­वि­का­रस्य प्राणं सत्ता­स्फू­र्ति­द­मा­त्मानं विदुस्ते ब्रह्म जानन्तीत्याह —
प्राणस्येति ।
अमृतः प्राणो ब्रह्मै­वे­त्या­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

तथापि कुतः संशयः, तत्राह —
वाय्विति ।

हेतुमुक्त्वा फलमाह —
अत इति ।
इहेति प्रस्ता­व­वा­क्योक्तिः ।

अन­न्ता­र्थ­प­रो­प­क्र­मो­प­सं­हा­रा­भ्या­मा­का­शस्य ब्रह्म­त्वेऽ­प्यत्र ब्रह्मा­सा­धा­र­ण­ध­र्मो­प­क्र­मा­द्य­दृ­ष्टेर्न ब्रह्मतेति धिया विमृश्य पूर्वपक्षयति —
किमिति ।
प्रस्तावश्रुतेः स्पष्ट­ब्र­ह्म­लि­ङ्ग­तया ब्रह्मणि प्रस्ता­वेऽ­ध्यस्य ध्येये समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्राणदृष्ट्या प्रस्ता­वो­पास्तिः सिद्धान्ते ब्रह्म­दृ­ष्ट्येति फलम् ।

वैदि­क­प्रा­ण­श­ब्दस्य तादृ­क्प्र­यु­क्ति­सिद्धे ब्रह्मणि वाच­क­त्व­मा­श­ङ्क्याह —
तत्रेति ।

तात्प­र्य­र­हि­त­लौ­कि­क­वै­दि­क­प्र­यो­ग­त्या­गा­त्ता­त्प­र्य­व­द­ने­क­लि­ङ्गा­त्पू­र्व­न्या­येन ब्रह्म ग्राह्यमिति शङ्कते —
नन्विति ।

ज्यायस्त्वादि लिङ्गमत्र नास्ती­त्या­श­ङ्क्याह —
इहेति ।

अन्यथासिद्धेर्न श्रुति­बा­ध­क­ते­त्यह —
नेति ।

तदेवं वैदिकं दर्शनमाह —
एवं हीति ।
तर्हि तस्या­म­व­स्था­या­मिति यावत् । वाक् अनु­क्त­क­र्मे­न्द्रि­यो­प­ल­क्ष­णम् । चक्षुःश्रोत्रे तादृ­ग्बु­द्धी­न्द्रि­या­णाम् । बुद्धिरपि मनसा लक्ष्यते ।

प्राणस्यापि स्वापे बुद्ध्या­दि­व­ल्ल­यान्न लय­स्था­न­ते­त्या­श­ङ्क्याह —
प्रत्यक्षं चेति ।

ननु भूता­ना­मु­त्प­त्त्या­दि­वा­क्या­शेषे श्रुतं भूतशब्दश्च प्राणिसमूहस्य महाभूतानां च वाचको नेन्द्रि­य­मा­त्रस्य, तन्न प्राणे वाक्यशेषः सिद्धः तत्राह —
इन्द्रियेति ।
भूते­ष्वि­न्द्रि­याणि सूक्ष्म­त्वा­द्भो­क्तृ­सा­मी­प्याच्च साराणि, अतस्तेषां लयो­द­यो­क्त्ये­त­रे­षा­मपि तत्सिद्धेः शेषघटनेत्यर्थः ।

अब्र­ह्म­सा­ह­च­र्याच्च प्राणो न ब्रह्मेत्याह —
अपिचेति ।
उद्गात्रा कतमा सा देव­तो­द्गी­थ­म­न्वा­य­त्तेति पृष्ट­श्चा­क्रा­यणः प्रत्युवाच, आदित्य इति । प्रतिहर्त्रा च कतमा सा देवता प्रति­हा­र­म­न्वा­य­त्तेति पृष्टोऽ­न्न­मि­त्यु­वा­चे­त्या­दिना भक्तिदेवते कार्य­क­र­ण­व­त्या­वा­दि­त्यान्ने उक्ते । तयोरब्रह्मणोः सन्नि­धा­ना­त्प्रा­ण­स्यापि भक्ति­दे­व­ता­त्वा­द­ब्र­ह्म­ते­त्यर्थः । सन्नि­ध्य­नु­गृ­ही­त­प्र­थ­म­श्रु­त­प्रा­ण­श्रुत्या वायुविकारसिद्धौ तद्दृष्ट्या प्रस्ता­वो­पा­स्ति­रि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।

ज्याय­स्त्वा­दि­व­न्नात्र लिङ्गं भातीत्यशङ्क्याह —
प्राणस्येति ।

ब्रह्मलिङ्गं स्फोरयितुं श्रुतेरर्थमाह —
प्राणेति ।

वाक्य­शे­ष­स्या­न्य­था­सिद्धिं स्मारयति —
नन्विति ।

स्वापाद्युक्तेः संव­र्ग­वि­द्या­धि­का­रा­त्प्र­कृ­तो­क्ते­श्चो­द्गी­थ­स­म्ब­न्धा­न्ना­न­यो­रे­क­वा­क्य­ते­त्याह —
अत्रेति ।

किञ्च वाक्यशेषस्थो भूतशब्दो योगाद्विकारजातं ब्रूयात् , रूढ्या वा महाभूतानि । आद्ये, प्रकृतवाक्यस्य न स्वापादिवाक्येन तुल्या­र्थ­ते­त्याह —
स्वापेति ।

प्रकृ­त­श्रु­ते­र्वि­का­र­मा­त्र­ल­या­द्य­र्थत्वे सर्व­श­ब्द­श्रु­ति­म­नु­कू­ल­यति —
सर्वाणीति ।
तथाच प्राणा­र्थ­त्वेऽपि स्वापो­क्ते­र्ना­स्या­स्ता­द­र्थ्यम् । नहि विका­र­मा­त्र­सं­वे­श­नादि परस्मादन्यत्र लभ्यमित्यर्थः ।

कल्पान्तरं प्रत्याह —
यदेति ।
प्राणस्य भौतिकत्वान्न महा­भू­त­यो­नि­ते­त्यर्थः ।

भूतशब्देन विका­र­जा­त­ग्र­हेऽपि न मुख्य­प्रा­ण­प्र­त्यु­क्ति­रिति शङ्कते —
नन्विति ।

प्राण­श­ब्द­लक्ष्ये चिदात्मनि जीवैक्यापत्तौ भेद­क­वा­द्यु­पा­धीनां जडं प्राणमुद्दिश्य लयः स्यादित्याह —
तदेति ।

जीवनैकतया प्राप्य­त्व­लि­ङ्गा­द­शे­ष­वि­का­र­ल­य­स्था­न­त्व­लि­ङ्गाच्च न मुख्य­प्रा­णा­र्थत्वं तस्यापीत्याह —
तत्रेति ।

सन्नि­धे­र­धि­का­श­ङ्का­मु­क्ता­म­नु­भा­षते —
यदिति ।

लिङ्गेन बाध्यः सन्निधिरित्याह —
तदिति ।
एकवाक्यत्वं वाक्य­शे­ष­स्त­द्बलं तद्गतं लिङ्गं तेन ब्रह्मता प्राणस्य स्थिता, स्ववा­क्य­स्थ­लि­ङ्गस्य वाक्या­न्त­र­स्थ­स­न्नि­धे­र्ब­ली­य­स्त्वात् , अतो नास्या­ब्र­ह्म­ते­त्यर्थः ।

सन्नि­धे­र­ब्र­ह्म­ता­भा­वेऽपि प्राणस्य श्रुते­र­ब्र­ह्म­ते­त्या­श­ङ्क्याह —
यदीति ।

जग­त्प्र­कृ­ति­त्वा­व­धा­र­णो­प­बृं­हितं प्रति­पि­पा­द­यि­षितं देवताशब्दितं चेतनत्वं प्राणश्रुतिं बाधित्वा ब्रह्म लक्षयतीत्याह —
तदिति ।

प्राणशब्देन कार­ण­ब्र­ह्म­ल­क्ष­णा­त्त­द्दृष्ट्या प्रस्ता­वो­पा­स्ति­मु­प­सं­ह­रति —
तस्मादिति ।

वृत्ति­कृ­ता­मु­दा­ह­र­ण­माह —
अत्रेति ।

सर्वत्र सन्दिग्धं वाक्यमुदाहृत्य निर्णीयते, इदं त्वस­न्दे­हा­न्नै­व­मिति दूषयति —
तदिति ।

शब्दभेदं विवृणोति —
यथेति ।
प्राणस्य पञ्चधा वृत्ति­हे­तु­स्त­त्साक्षी तस्य प्राण इत्युच्यते ।

राहोः शिर इति­व­द्व्य­प­दे­श­मा­शङ्क्य घटो घट­स्ये­त्य­दृ­ष्टे­र्नै­व­मि­त्याह —
नहीति ।

प्रकरणं प्रपञ्चयति —
यस्येति ।

तदेव दृष्टान्तेन स्पष्टयति —
यथेति ।
प्राणः परमात्मा बन्धमाश्रयः स्वरूपं यस्येति विग्रहः ।

वाक्य­यो­र्नि­श्चि­ता­र्थत्वे फलितमाह —
अत इति ।

त्वदुदाहरणेऽपि वाक्य­शे­ष­वि­रो­धा­त्तु­ल्य­म­स­न्दि­ग्ध­त्व­मि­त्या­श­ङ्क्याह —
प्रस्तावेति ॥ २३ ॥

आका­श­वा­यु­वा­क्य­यो­र्ब्र­ह्या­र्थ­त्वोक्त्या तेजोवाक्यस्यापि तदर्थत्वमाह —
ज्योतिरिति ।

छान्दोग्यवाक्यं पठति —
इदमिति ।
गाय­त्र्यु­पा­धि­ब्र­ह्मो­पा­स्त्य­न­न्त­र­मु­पा­स्त्य­न्त­रो­क्त्य­र्थोऽ­थ­शब्दः । अतो दिवो द्युलोकात्परः पर­स्ता­द्य­ज्ज्यो­ति­र्दी­प्यते तदिदमिति जाठरे ज्योति­ष्य­ध्य­स्यते ।

कुत्र तद्दीप्यते, तत्राह —
लोकेष्विति ।

तेऽपि क्व सन्ति, तत्राह —
विश्वत इति ।
विश्व­स्मा­त्प्रा­णि­व­र्गा­दु­प­रि­ष्टा­दि­त्यर्थः ।

तेषां प्रसि­द्ध­लो­क­प्र­वे­श­मा­श­ङ्क्याह —
सर्वत इति ।
सर्व­स्मा­द्भू­रा­दि­लो­का­दु­प­री­त्यर्थः ।

उत्तमा न विद्यन्ते येभ्य­स्तेऽ­नु­त्त­मा­स्तेषु । तथापि कथं तेषामुत्कर्षः, तत्राह —
उत्तमेष्विति ।

इदंशब्दार्थं स्फुटयति —
यदीति ।

ज्योतिःशब्दस्य लोके तेजसि रूढेः, श्रुतौ चात्मनि निरू­ढे­र्वि­चा­र­बीजं संशयमाह —
तत्रेति ।

आका­शा­दि­श­ब्द­स्या­र्था­न्तरे रूढस्यापि ब्रह्मा­र्थ­त्व­सि­द्धे­स्ते­नै­त­द्ग­त­मि­त्य­सं­श­यान्न पृथ­गा­र­भ्य­मि­त्या­श­ङ्क्याह —
अर्थान्तरेति ।
स्ववाक्ये ज्योतिषो ब्रह्म­लि­ङ्गा­भा­वा­दु­क्त­न्या­या­न­व­ता­रा­द­ग­ता­र्थ­ते­त्यर्थः ।

वाक्य­शे­ष­स्थ­ब्र­ह्म­लि­ङ्गा­त्प्रा­णा­दि­श­ब्दस्य गौणतोक्ता । प्रकृते ब्रह्म­लि­ङ्गा­दृ­ष्टे­स्ते­जो­लि­ङ्ग­स्यैव दृष्टे­रौ­त्स­र्गि­क­मु­ख्य­सं­प्र­त्य­यस्य नापवाद इत्या­का­ङ्क्षा­द्वारा पूर्वपक्षयति —
किं तावदिति ।
कौक्षेये ज्योति­ष्या­रो­प्यो­पास्ये पर­स्मि­न्ब्र­ह्म­ण्यु­क्त­श्रुतेः समन्वयोक्तेः श्रुत्या­दि­स­ङ्ग­तयः । स्ववाक्ये स्पष्ट­ब्र­ह्म­लि­ङ्गा­भा­वेऽपि ब्रह्म­प्र­त्य­भि­ज्ञा­प­क­लि­ङ्ग­स्यैव तथा­त्वा­त्पा­द­स­ङ्गतिः । फलं पूर्वपक्षे कौक्षेये ज्योति­ष्या­दि­त्या­दि­दृ­ष्ट्यो­पास्तिः, सिद्धान्ते ब्रह्म­दृ­ष्ट्येति ।

ज्योतिःशब्दस्य प्रका­श­वा­चि­त्वा­च्चि­त्प्र­काशं हित्वा किमिति लौकि­क­प्र­का­शा­र्थ­तेति शङ्कते —
कुत इति ।

तमोविरोधिनि ज्योतिःशब्दस्य रूढे­स्ते­ज­स­स्त­था­त्वा­त्त­दे­वात्र ज्योतिरित्याह —
प्रसिद्धेरिति ।

तामेव स्फोरयति —
तम इति ।

अज्ञानतमोविरोधि ब्रह्मापि तर्हि ज्योतिरिति, तत्राह —
चक्षुरिति ।
अर्थावरकत्वेन निरो­ध­क­त्वेक्त्या भावत्वमपि द्योतितम् ।

रूपित्वेनापि तद्वक्तुं विशिनष्टि —
शार्वरादिकमिति ।

एवमपि कुतो ज्योति­र्नि­श्चि­त­मि­त्या­शङ्क्य प्रति­प­क्ष­नि­र्ण­या­दि­त्याह —
तस्या इति ।

ज्योतिःश्रुत्या तेजो ज्योति­रि­त्युक्त्वा तत्रैव लिङ्गमाह —
तथेति ।

ब्रह्मण्यपि युक्ता दीप्ति­रि­त्य­न्य­था­सिद्धिं वारयति —
नहीति ।
रूपादिमतः सावयवस्यैव दीप्ति­यो­गा­दि­त्यर्थः ।

कार्ये ज्योतिषि लिङ्गान्तरमाह —
द्युम­र्या­द­त्वेति ।

अन्यथासिद्धिं निरस्यति —
नहीति ।

असिद्धिं प्रत्याह —
कार्यस्येति ।

ज्योतिषो द्युम­र्या­द­त्व­श्रु­ति­रेव कीदृशी, तत्राह —
पर इति ।

ब्रह्म­व­त्का­र्य­स्यापि मर्या­दा­यो­गा­द­न­र्थकं ब्राह्म­ण­मि­त्या­क्षि­पति —
नन्विति ।

चोदकैकदेशी परिहरति —
अस्त्विति ।
त्रिवृत्कृतं तेजो दिवोऽर्वागपि गम्यते तथापीतरत्ततः पर­स्ता­द्भ­वि­ष्यति, वेद­स्या­दु­ष्ट­त्वे­ना­न­र्थ­क्या­यो­गा­दि­त्यर्थः ।

त्रिवृ­त्कृ­त­स्यै­वा­र्थ­क्रि­या­व­त्त्वा­द­फ­लेऽ­न्य­स्मिन्न वाक्य­प्रा­मा­ण्य­मि­त्या­क्षेप्ता ब्रूते —
नेति ।

पूर्ववादिदेशीयः शङ्कते —
इदमेवेति ।

निष्फ­ल­स्यो­पा­स्य­तापि नेत्याक्षेप्ताह —
नेति ।

अत्रिवृत्कृतं तेजोऽ­ङ्गी­कृ­त्या­फ­ल­त्व­मुक्त्वा तदेव नेत्याह —
तासामिति ।
देवतानां तेजोऽ­ब­न्ना­ना­मे­कैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकं भागं तथा कृत्वा तदि­त­र­यो­र्नि­क्षिप्य त्रिगु­ण­र­ज्जु­व­त्रि­वृतं कर­वा­णी­त्य­वि­शे­षो­क्ते­र्ना­त्रि­वृ­त्कृतं तेजोऽ­स्ती­त्यर्थः ।

तदस्तित्वेऽपि यच्छ­ब्दो­प­ब­न्धा­त्सि­द्ध­व­त्प­रा­म­र्शा­द­न्य­त­स्तस्य द्युमर्यादत्वं वाच्यं, तन्नास्तीत्याह —
न चेति ।

पूर्व­प­क्षै­क­दे­शिनि परेण परास्ते परमपूर्ववाद्याह —
अस्त्विति ।

तत्राक्षेप्ता स्वोक्तं स्मारयति —
नन्विति ।

पूर्ववाद्याह —
नेति ।

तर्हि ब्रह्मण एव ध्यानार्थो देशविशेषः स्यात् , नेत्याह —
नत्विति ।
अप्रदेशस्य प्रदे­श­क­ल्प­ना­गौ­र­वा­द­यु­क्ते­त्यर्थः ।

इतश्च कार्यमेव ज्योति­र­त्रो­पा­स्य­मि­त्याह —
सर्वत इति ।

ब्रह्म­ण्य­व­च्छे­द­क­ल्प­न­या­धा­र­ब­हु­त्व­यो­गेऽपि कार्ये ज्योतिषि स्वत­स्त­त्सि­द्धि­रि­त्य­ति­श­य­माह —
तारामिति ।

उपास्यज्योतिषो ब्रह्मत्वाभावे हेत्वन्तरमाह —
इदमिति ।

अध्यासेऽपि ज्योति­र्ब्र­ह्मास्तु, नेत्याह —
सारूप्येति ।

तत्र मानमाह —
यथेति ।
एक­त्व­सा­म्या­द्भू­रि­त्य­स्मि­न्न­क्षरे प्रजापतेः शिरो­दृ­ष्टि­रुक्ता तथात्रापि सारूप्यं वाच्यम् , अन्य­था­ध्या­सा­सि­द्धे­रि­त्यर्थः ।

कौक्षेयमपि ज्योति­श्चै­त­न्य­मे­वे­त्य­न­ध्या­सा­त्ता­दा­त्म्यो­क्ति­रे­षे­त्या­श­ङ्क्याह —
कौक्षेयस्येति ।

शब्द­स्प­र्श­व­त्त्वा­भ्या­मपि तदब्रह्मेत्याह —
तस्येति ।
एषा दृष्टि­र्य­दे­त­दु­ष्णि­मानं स्पर्शेन विजानाति । एषा श्रुति­र्य­त्क­र्णा­व­पि­धाय निनदमिव श्रृणोतीति शेषः ।

दृष्ट­श्रु­ति­लि­ङ्ग­त्वान्न ज्योतिषोऽपि तदुच्यते तच्चा­वि­व­क्षि­त­मि­त्या­श­ङ्क्यो­पा­स्य­त्व­श्रु­ते­र्नै­व­मि­त्याह —
तदेतदिति ।

तदब्रह्मत्वे हेत्वन्तरमाह —
चक्षुष्य इति ।
चक्षुष्यो दर्शनीयः । श्रुतो विश्रुतः ।

ब्रह्मो­पा­स्ति­फ­ल­मपि किं न स्यात् , तत्राह —
महते हीति ।
मुक्तिफला ब्रह्मो­पा­स्ति­र्ना­ल्प­फला युक्तेत्यर्थः ।

बहू­न्य­ब्र­ह्म­लि­ङ्गनि स्ववा­क्य­स्था­न्युक्त्वा ब्रह्मलिङ्गं किमपि तत्र नास्तीत्याह —
नचेति ।
ज्योतिषो ब्रह्मलिङ्गमपि किञ्चि­द­न्य­न्ना­स्तीति सम्बन्धः ।

ननु पूर्ववाक्ये ‘त्रिपा­द­स्या­मृतं दिवि’ इत्युक्तं ब्रह्मैवात्र द्युस­म्ब­न्धा­त्प्र­त्य­भि­ज्ञा­यते तत्र यच्छ­ब्द­प­रा­मृष्टे ज्योतिःशब्दो वर्तते, नेत्याह —
नचेति ।

सर्वा­त्म­त्व­भू­ता­दि­पा­द­त्वाभ्यां तदेतद्ब्रह्मेति वाक्या­च्चो­क्त­मेव पूर्ववाक्ये ब्रह्मे­त्या­श­ङ्क्याह —
अथापीति ।

सप्त­मी­प­ञ्च­मी­भ्या­मु­क्ति­भे­दान्न तत्प्र­त्य­भि­ज्ञेति साधयति —
तत्रेति ।

ब्रह्म­लि­ङ्गा­भा­वा­त्ते­जो­लि­ङ्ग­भा­वा­त्त­देव कौक्षे­य­ज्यो­ति­ष्या­रो­प्यो­पा­स्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।
प्राकृतं प्रकृतेर्जातं, कार्यमित्यर्थः ।

पूर्व­प­क्षा­नु­वा­देन सूत्रमवतार्य प्रतिज्ञार्थमाह —
एवमिति ।

निश्चि­त­ब्र­ह्म­लिङ्गं विना नास्य ब्रह्मतेति शङ्कित्वा हेतुमाह —
कुत इति ।

‘रमणीयचरणाः’ इत्यादौ चरणशब्दस्य चारि­त्रा­र्थ­त्वा­द­त्रापि तथे­त्य­सा­ङ्ग­त्य­मा­श­ङ्क्याह —
पादेति ।

पाद­वा­चि­प­द­म­स्मि­न्वाक्ये न दृष्टमिति चेत् , तत्राह —
पूर्वस्मिन्निति ।
‘गायत्री वा इदं सर्वं भूतम् ‘ इत्यादिना भूत­पृ­थि­वी­श­री­र­हृ­द­य­वा­क्प्राणैः षड्विधा चतुष्पदा गाय­त्री­त्यु­क्तम् । एत­द­नु­ग­त­ब्र­ह्म­ण­स्ता­वा­न्म­हिमा विभूतिर्यावानयं प्रपञ्चः । वस्तुतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः ।

तदेव स्फुटयति —
पादोऽस्येति ।
सर्वाणि भूतान्यस्य ब्रह्मण एकः पादः । अस्यैव त्रिपादमृतं दिवि द्योतनवति स्वात्मनि स्थितम् । यथा कार्षा­प­ण­श्च­तुर्धा विभक्तः पादा­दे­क­स्मा­त्पा­द­त्र­यी­कृतो महान् , एवं पुरुषो वास्त­वोऽ­वा­स्त­वा­त्प्र­प­ञ्चा­न्म­हा­नि­त्यर्थः ।

पूर्वं ब्रह्मोक्तावपि कथमुक्तहेतुना ज्योतिषो ब्रह्म­ते­त्या­श­ङ्क्याह —
तत्रेति ।
लिङ्गो­प­स्था­पि­ता­द्ब्र­ह्मणः श्रुत्यु­प­स्था­पि­त­ते­जसो बलीयस्त्वेऽपि यच्छब्दार्थे ज्योतिषि सन्नि­धा­प­क­मा­ना­पे­क्षायां त्रिपा­द्ब्र­ह्मणो ध्याने विनि­यो­गा­का­ङ्क्ष­स्या­न­न्त­र­वाक्ये श्रुत्यो­क्ते­र्वि­जा­ती­य­मा­ना­का­ङ्क्ष­श्रु­त्यु­क्त­ते­जोऽ­भि­धा­ना­ल्लि­ङ्गो­प­नी­ता­ति­स­न्नि­हि­त­स­जा­ती­य­श्रु­ति­सि­द्धै­क­वा­क्य­ता­का­ङ्क्ष­ब्र­ह्मो­क्ति­र्य­च्छ­ब्दस्य युक्ता । तस्मा­द्य­च्छ­ब्दार्थे प्रयुक्तो ज्योतिःशब्दो ब्रह्मार्थ इति भावः ।

यच्छब्दस्य ब्रह्मार्थत्वं हित्वा तेजोवाचित्वे बुद्धि­गौ­र­व­मुक्त्वा दोषान्तरमाह —
तदिति ।

पूर्ववाक्यस्थे ब्रह्मणि द्युस­म्ब­न्धा­ज्ज्यो­ति­र्वा­क्येऽपि प्रत्यभिज्ञाते यच्छब्दार्थे तत्स­मा­ना­धि­कृ­त­ज्यो­तिः­श­ब्द­प्र­वृ­त्ति­रि­त्यु­क्तम् । सम्प्रति ‘सर्वं खल्विदं ब्रह्म’ इत्यु­त्त­र­वा­क्येऽपि ब्रह्मा­नु­वृ­त्ते­र्म­ध्य­स्थ­मपि ज्योतिर्वाक्यं तत्परमेवेति सन्दंशन्यायमाह —
नेति ।

प्रक­र­ण­लि­ङ्ग­श्रु­ति­सि­द्ध­म­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

श्रुति­लि­ङ्गा­भ्या­मु­क्त­म­नु­व­दति —
यत्त्विति ।

मान­त्र­या­न्मा­न­द्वयं दुर्बलमिति दूषयति —
नायमिति ।
प्रकरणं श्रुति­लि­ङ्ग­यो­रु­प­ल­क्ष­णम् । ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तद­भा­वोऽ­वि­शे­ष­क­त्वम् ।

ब्रह्मणि यथो­क्त­श­ब्दा­नु­प­पत्तौ कथं तयोरविशेषकत्वं, तत्राह —
दीप्यमानेति ।

कार्य­वा­चि­श­ब्दाभ्यां कारणलक्षणे सर्वैरपि शब्दैर्ब्रह्मणो लक्षणा स्यादि­त्या­शङ्क्य सूर्या­दि­ज्यो­तिषो विशेषयोगे मानमाह —
येनेति ।
येन तेजसा चैत­न्य­ज्यो­ति­षेद्धो दीप्तः सूर्यः सर्वमपि जगत्तपति प्रकाशयति तज्ज्यो­ति­रा­त्मानं बृह­न्त­म­न­ति­श­य­म­ह­त्त्व­व­न्त­म­वे­द­विन्न मनुत इति योजना ।

कार्ये रूढिमुपेत्य कारणे लाक्षणिको ज्योतिःशब्द इत्युक्तम् । इदानीं कारणेऽपि ब्रह्मणि मुख्य एवेत्याह —
यद्वेति ।
शान्ते सूर्यादौ तिमिरावृते जगति वाचैव ज्योतिषायं कार्यकरणात्मा पुरषो व्यव­हा­र­मा­स­ना­दिकं करोतीत्यर्थः । मनो­भा­स­क­त्वा­ज्ज्यो­ति­स्त­च्चाज्यं जुषतां सेवतां तेन वाक्येन चक्षुर्द्वारा विष­यी­कृ­ते­ना­दु­ष्ट­तया दृष्टेन यज्ञमिमं केनापि हेतुना विच्छि­न्न­म­प्रा­प्ता­नु­ष्ठानंं सन्दधात्वक्षतं कुर्यादित्यर्थः । एकस्य शब्दस्य कथ­म­ने­का­र्थ­ते­त्या­शङ्क्य निमि­त्त­भे­दे­ना­ने­कत्र वृत्तेः ।

शक्त्यै­क्या­न्मै­व­मि­त्याह —
तस्मादिति ।

भासकत्वमेकं निमि­त्ती­कृ­त्या­ने­कत्र ज्योतिःशब्देऽपि कथमसौ ब्रह्मणि स्यादि­त्या­श­ङ्क्याह —
तथेति ।

तस्य सर्व­ज­ग­द्भा­स­कत्वे मानमाह —
तमेवेति ।
पूर्वार्धे विषयसप्तम्या परा­मृ­ष्ट­स्त­च्छ­ब्दार्थः ।

गच्छ­न्त­म­नु­ग­च्छ­ती­त्युक्ते स्वग­त­ग­ति­व­द­नु­भा­नेऽपि स्वग­त­भा­न­मा­श­ङ्क्याह —
तस्येति ।

न केवलं भास­क­त्वा­द्ब्र­ह्मणि ज्योतिःशब्दः, तस्मि­न्प्र­यु­क्त­त्वा­च्चे­त्याह —
तदिति ।
यस्मादर्वागेव संवत्सरोऽहोभिः परिवर्तते तं पर­मा­त्मा­न­मि­न्द्रा­दयो देवा ज्योति­षा­मा­दि­त्या­दीनां ज्योतिर्भासकं जगतो जीवनं कूटस्थमिति च ध्याय­न्ती­त्यर्थः । ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ इत्या­दि­वा­क्य­मा­दि­श­ब्दार्थः । ‘ज्योतिषामपि तज्ज्योति’ इत्या­दि­स्मृ­ति­स­ङ्ग्र­हा­र्थ­श्च­कारः ।

ज्योतिः­श्रु­ते­र्दी­प्ति­लि­ङ्गस्य चान्य­था­सि­द्ध­त्वेऽपि द्युम­र्या­द­त्व­म­न­न्य­था­सि­द्ध­मि­त्या­श­ङ्क्याह —
यदपीति ।

प्रमि­त्य­र्थ­त्वेन, उपा­स्त्य­र्थ­त्वेन वा मर्यादावत्त्वं नोपपद्यते । तत्रा­द्य­म­ङ्गी­क­रोति —
अत्रेति ।

द्वितीयं प्रत्याह —
सर्वेति ।
योषि­तोऽ­ग्नि­त्व­व­द्ब्र­ह्म­णोऽपि द्युम­र्या­दा­व­त्त्व­मा­रो­प्यो­पा­स्ति­र­वि­रु­द्धे­त्यर्थः ।

अप्रदेशस्य प्रदेशकल्पने गौरवमुक्तं स्मारयति —
नन्विति ।

स्वतो वा तत्क­ल्प­ना­नु­प­पत्तिः, उपाधितो वा । तत्रा­द्य­मु­पे­त्यान्त्यं प्रत्याह —
नायमिति ।

न चेदमपूर्वं कल्प्यते, तादृ­क्क­ल्प­ना­ना­म­न्य­त्रापि दृष्टेरित्याह —
तथेति ।

ब्रह्मणि कथमाधारबहुत्वं, तत्राह —
एतेनेति ।
द्युम­र्या­द­त्व­व­दा­ध्या­ना­र्थ­त्वे­ने­त्यर्थः ।

अत्राध्यासस्य सारू­प्य­कृ­त­त्वा­द­ब्र­ह्म­ण्य­ध्य­स्य­मा­न­मपि ज्योति­र­ब्र­ह्मे­त्यु­क्त­म­नु­भा­षते —
यदपीति ।

आरोपस्य सारूप्याधीनत्वं व्यभिचारयति —
तदपीति ।
उपा­स्ति­स्था­न­त्व­मत्र प्रती­क­त्व­मा­रोप्य ।

ज्योतिषो दृष्ट­त्वा­दि­श्रु­ते­र्ब्र­ह्म­ण­स्त­द­यो­गा­द­ब्र­ह्म­ते­त्या­श­ङ्क्याह —
दृष्टं चेति ।
जाठरज्योतिषो दृष्टत्वादिकृतं तत्रो­पा­स्य­ब्र­ह्मणो दृष्ट­त्वा­दी­त्यर्थः ।

लिङ्गा­न्त­र­म­नूद्य प्रत्याह —
यदपीति ।

वाजि­ना­म­ग्नि­र­ह­स्य­गतां ‘तं यथा यथा’ इत्या­दि­श्रु­ति­मा­श्रि­त्या­नु­प­पत्तिं स्फोरयति —
न हीति ।

ब्रह्मधियो मुक्ति­फ­ल­त्वा­त्त­दै­क­रू­प्या­द­ल्प­फ­लत्वं न तदु­पा­स्ते­रि­त्या­श­ङ्क्याह —
यत्रेति ।

ब्रह्म­वि­ष­य­त्वा­त्प्र­स्तु­तो­पा­स्ते­रपि मुक्ति­फ­ल­ते­त्या­श­ङ्क्याह —
यत्र त्विति ।

‘स वा एष महानज आत्मा’ इत्युक्तः जीवा­त्म­नाऽ­न्नादः, वसु धनं कर्मफलं तद्दाता पर­रू­पे­णे­त्युक्त्वा यः कश्चि­दु­क्त­गु­ण­मा­त्मा­न­मु­पास्ते स धनं लभते दीप्ताग्निश्च भवतीत्याह —
अन्नाद इति ।
आदिपदेन ‘परोवरीय एव हास्या­स्मिं­ल्लोके जीवनम् ‘ इत्यादि गृहीतम् ।

यदुक्तं, न स्ववाक्ये ज्योतिषो ब्रह्म­लि­ङ्ग­मिति, तत्राह —
यद्यपीति ।

उक्तेऽर्थे सूत्रा­नु­गु­ण्य­माह —
तदुक्तमिति ।

प्रकरणेन श्रुति­र­बा­ध्ये­त्याह —
कथमिति ।

न प्रकरणादेव श्रुतिर्बाध्या, प्रक­र­ण­लि­ङ्गा­नु­गृ­ही­त­प्र­थ­म­श्रु­त­य­च्छ­ब्द­श्रु­त्ये­त्याह —
नेत्यादिना ।

द्युस­म्ब­न्धा­दिति ।
प्रधानस्य द्युसम्बन्धस्य प्राति­प­दि­का­र्थ­स्यै­क्येन प्रत्य­भि­ज्ञा­ना­त्त­द्वि­शे­ष­णस्य मर्या­दा­धा­र­वि­भ­क्त्य­र्थ­स्या­न्य­त्व­मा­त्रेण नान्यतेत्यर्थः । यच्छब्देन परामृष्टे सतीति सम्बन्धः । स्वसामर्थ्येन सर्वनाम्नः सन्नि­हि­त­प­रा­म­र्शि­त्व­व­शे­ने­त्यर्थः । अर्था­द्य­च्छ­ब्द­सा­मा­ना­धि­क­र­ण्य­ब­ला­दि­त्यर्थः ।

मानमुक्त्वा मेयमुपसंहरति —
तस्मादिति ॥ २४ ॥

पूर्ववाक्यस्य छन्दो­वि­ष­य­त्वान्न ब्रह्म प्रकृ­त­मि­त्यु­क्त­म­नूद्य निराकरोति —
छन्दोभिधानादिति ।

तत्रानुवादभागं व्याख्याय चोद्यस्य समाधियोग्यतामाह —
अथेत्यादिना ।

पूर्ववाक्ये छन्दसोऽन्यस्य वाभिधानेऽपि ब्रह्मो­क्त­मे­वे­त्ये­क­देशी शङ्कते —
कथमिति ।

मन्त्रस्य ब्राह्म­णो­क्ता­र्थ­त्वा­द्ब्रा­ह्मणे गाय­त्री­क­थ­ना­न्म­न्त्रेऽपि न ब्रह्म प्रकाश्यत इति सौत्रं हेतुं साध­य­न्पू­र्व­वा­द्याह —
नैतदिति ।
‘गायत्री वा इदं सर्वं भूतं यदिदं किञ्च’ इति सर्वात्मिकां गायत्रीमुक्त्वा ‘वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च’ इति तस्याः सर्वभूतमय्या वागा­त्म­त्व­मा­ख्याय ‘या वै सा गायत्रीयं वाव सा येयं पृथिवी या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता यद्वै शरीरमिदं तद्धृ­द­य­म­स्मि­न्हीमे प्राणाः प्रतिष्ठिताः’ इति पृथिव्या भूता­धा­र­त्वा­त्स­र्व­भू­त­म­य­गा­य­त्रीत्वं शरी­र­हृ­द­य­यो­र्भू­ता­त्म­क­प्रा­णा­श्र­य­त्वा­दिति प्रकृतां गायत्रीं भूता­दि­प्र­का­रै­रुक्त्वा सैषा षडक्षरैः पादैश्चतुष्पदा सती छन्दोरूपा गायत्री वाग्भू­त­पृ­थि­वी­श­री­र­प्रा­ण­हृ­द­य­भेदैः षट्प्र­का­रे­त्यु­प­सं­हृत्य तस्यां श्रुतो मन्त्रो न शक्तो ब्रह्म वक्तुमिति हेतु­सि­द्धि­रि­त्यर्थः ।

मन्त्रानन्तरं ‘यद्वै तद्ब्रह्म’ इति ब्रह्म­श­ब्दा­न्म­न्त्रेऽपि ब्रह्मो­क्त­मि­त्या­श­ङ्क्याह —
योऽपीति ।

न प्रक­र­णा­द्ब्र­ह्म­श­ब्दस्य छन्दोवाचित्वं, तस्य सर्वोपनिषदि पर­मा­त्मा­र्थ­त्व­प्र­सि­द्धे­रि­त्या­शङ्क्य वेदविषये प्रयो­गा­त्त­दे­क­दे­श­गा­य­त्र्या­मपि तस्यो­प­प­त्ति­रि­त्याह —
य इति ।
यः कश्चि­द्ध्या­तैतां प्रकृतां ब्रह्मोपनिषदं वेदरहस्यं मधुविद्यारूपं वेद तस्मै विदुषे नोदेति नास्तमेति सविता सदैवाहर्भवत्यतो विद्वा­नु­द­या­स्त­म­या­प­रि­च्छेद्यं नित्यं ब्रह्मैव भवतीति ब्रह्मपदं वेदे प्रयु­क्त­मि­त्यर्थः ।

मन्त्र­ब्रा­ह्म­ण­यो­रै­का­र्थ्या­द्ब्र­ह्म­श­ब्दस्य प्रकृ­त­च्छ­न्दो­गा­मि­त्वा­द्भू­ता­द्य­ध्या­सेन ध्येय­गा­य­त्री­छ­न्दो­वा­चित्वे मन्त्रस्य स्थिते फलितमाह —
तस्मादिति ।

सिद्धा­न्त­भा­गे­ना­र्थ­मुक्त्वा हेतुमादाय व्याचष्टे —
नेत्यादिना ।

गायत्रीशब्दस्य मुख्या­र्थ­सि­द्ध्यर्थं गायत्रीमात्रमेव गृह्य­ता­मि­त्या­श­ङ्क्याह —
नहीति ।

नभसो घटा­व­च्छि­न्न­स्या­न­व­च्छि­न्न­त्वा­यो­ग­व­द्ब्र­ह्मणो गाय­त्री­वि­शि­ष्टस्य न सर्व­त्व­मि­त्या­शङ्क्य गाय­त्र्यु­प­ल­क्षि­त­ब्र­ह्मणः सर्वत्वमित्याह —
तस्मादिति ।
गायत्रीशब्देन छन्दोमात्रोक्तौ सर्व­भू­ता­दि­रू­प­त्व­स्या­स­दा­रो­प­त्वा­पा­ता­द्ब्र­ह्मोक्तौ कार्य­का­र­ण­यो­स्ता­दात्म्ये सदा­रो­पा­त्त­च्छ­ब्देन तदनुगतं ब्रह्मोपलक्ष्य तदु­पा­स्ति­र्वि­धे­ये­त्यर्थः ।

कार्य­का­र­ण­यो­र­भे­दो­क्ति­र­न्य­त्रापि दृष्टेत्याह —
यथेति ।

त्वन्मतेऽपि कार्य­का­र­ण­यो­र­त्य­न्त­भे­दा­द­स­दा­रो­पा­प­त्ति­रि­त्या­श­ङ्क्याह —
कार्यं चेति ।

‘सर्वं खलु’ इत्यत्र कार्य­मा­त्र­वा­चि­स­र्व­श­ब्देन कारणब्रह्मणो लक्ष्यत्वेऽपि कार्यै­क­दे­शा­र्थ­गा­य­त्री­श­ब्देन कुतो लक्ष्य­ते­त्या­शङ्क्य ‘तथाहि दर्शनम्’ इत्यस्यार्थमाह —
तथेति ।
एतमेव पर­मा­त्मा­न­मृ­ग्वे­दिनो महति कस्मिं­श्चि­दु­क्थाख्ये शस्त्रे तदनुगतमुपासते । अध्वर्यवो यजु­र्वे­दि­नोऽग्नौ क्रतौ तद­नु­श्रि­त­मे­त­म­नु­स­न्द­धते । सामवेदिनो महाव्रते क्रता­वे­त­म­नु­स­न्द­ध­ती­त्यै­त­रे­यके दृष्टमित्यर्थः ।

हेतुमुपेत्य तस्या­सा­ध­क­त्व­मु­प­सं­ह­रति —
तस्मादिति ।

तथापि ज्योतिर्वाक्ये किं जातमित्याशङ्क्य प्रकृ­त­प­रा­म­र्शि­य­च्छ­ब्द­मा­श्रि­त्याह —
तदेवेति ।

परामर्शफलमाह —
उपासनान्तरेति ।

गायत्रीपदं ब्रह्मणि लाक्ष­णि­क­मि­त्यु­क्तवा तस्य गौणत्वं ब्रुवाणः सिद्धान्तभागं विधान्तरेण व्याकरोति —
अपर इति ।
साक्षा­द्वि­का­रा­न­व­च्छे­दे­ने­त्यर्थः । तथा गाय­त्री­व­च्च­तु­ष्पा­त्त्व­सा­म्येन ब्रह्मणि येन गायत्रीशब्देन चेतः समर्प्यते तेन ब्रह्मण एव निगदान्न पूर्वं छन्दः प्रकृतमित्यर्थः ।

सङ्ख्यासाम्यं साधयति —
यथेति ।

तस्या­श्च­तु­ष्पात्त्वं व्यनक्ति —
षडिति ।
स्थावरजङ्गमानि सर्वाणि भूतान्यस्यैकः पादः ।

दिवि द्योतनवति चिदात्मनि, प्रसिद्धायां वा दिवि त्रयः पादा अस्येति ब्रह्म­ण­श्च­तु­ष्पा­त्त्व­माह —
तथेति ।

चतु­ष्पा­त्त्व­सा­म्या­द्ब्र­ह्मणि गाय­त्री­प­द­प्र­यो­गेऽ­ति­प्र­स­क्ति­मा­शङ्क्य श्रौत­प्र­यो­गा­न्नि­य­ता­र्थत्वे दृष्टान्तमाह —
तथेति ।

तदेवोदाहरति —
तद्यथेति ।

संव­र्ग­वि­द्या­या­म­धि­दै­व­म­ग्नि­सू­र्य­च­न्द्रा­म्भांसि वायौ लीयन्ते, अध्यात्मं प्राणे वाक्च­क्षुः­श्रौ­त्र­म­नां­सी­त्यु­क्तम् । ते वायुना सह पञ्चा­ध्या­या­त्मि­के­भ्योऽन्य एते प्राणेन सहा­धि­दै­वि­के­भ्योऽन्ये पञ्च ते सर्वे दश सन्तस्तत्कृतं कृतायोपलक्षितं द्यूतं भवति । अत्र हि चतु­र­ङ्का­य­द्यू­त­ग­च­तु­र­ङ्क­व­च्च­त्वारः पदार्थाः सन्ति । त्र्यङ्का­य­व­त्त्रयः । द्व्यङ्कायवद्वौ । एकाङ्कायवदेकश्च द्यूते च चतुरङ्कायः कृतसंज्ञकः । स च दशात्मकः, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयो­स्त­यो­रे­कस्य चान्तर्भावात् , वायुप्रभृतयोऽपि दश, तस्मात्तेऽपि कृत­मि­त्यु­प­क्र­म्याह —
सैषेति ।
विधेयाभिप्रायः स्त्रीलि­ङ्ग­नि­र्देशः । दश­स­ङ्ख्या­त्वा­द्वि­रा­डन्नं, ‘दशाक्षरा विराडन्नं विराड् ‘ इति श्रुतेः । कृतत्वाच्च सान्नादिनी । कृते खल्वन्नभूता दश­स­ङ्ख्या­न्त­र्भ­व­त्य­त­स्ता­म­त्ती­वे­त्य­न्ना­दिनी विराडित्युच्यते । तथा चान्नादत्वेनापि गुणेन वाय्वा­दी­ना­मु­पा­स्यता । तत्र यथा सङ्ख्या­सा­म्या­द्वि­रा­ट्शब्दो वाय्वादिषु तथा गायत्रीशब्दोऽपि चतु­ष्पा­त्त्व­सा­म्या­द्ब्र­ह्म­णी­त्यर्थः ।

तथाहीत्यादि व्याख्यायास्य पूर्व­स्मा­द्वि­शे­ष­माह —
अस्मिन्निति ।
अभिहितं तात्प­र्य­ग­म्य­मिति यावत् । न छन्दोभिधानं न तत्र तात्प­र्य­मि­त्यर्थः । यद्यपि पूर्वं विकारस्थं ब्रह्म गाय­त्री­प­दा­ल्ल­क्ष­णया तात्प­र्य­तोऽ­भि­हितं तथापि गौणप्रयोगे वाक्यस्थो गुण­स्ता­त्प­र्या­ल्ल­भ्यते । लक्षणायां तु वाच्य­स­म्ब­न्धा­द­र्था­न्तरे तात्पर्यमिति भेदः ।

लाक्षणिकत्वं गौणत्वं वा कतरत्तर्हीष्टं, तदाह —
सर्वथेति ॥ २५ ॥

श्रुत्या­दि­ष्वा­द्यै­क­मा­ना­दु­त्त­रा­ने­क­मानं बलवद्धि संवादस्य तात्प­र्य­हे­तु­त्वा­दिति न्यायेनापि गायत्रीशब्दं ब्रह्मेत्याह —
भूतादीति ।

चशब्दमेवंशब्दं च व्याकरोति —
इतश्चेति ।

तदेव स्फुटयति —
यत इति ।
व्यपदिशति । ‘गायत्री वा’ इत्या­दि­श्रु­ति­रिति शेषः ।

भूता­दी­न्ये­वो­च्यन्ते न तेषां पाद­त्व­मि­त्या­श­ङ्क्याह —
भूतेति ।
पादैः षड­क्ष­रै­श्च­तु­ष्पा­त्त्वेऽ­प्य­न­न्त­रो­क्त­भू­ता­दीनां पादत्वं ‘सैषा’ इत्या­दि­शा­स्त्रा­दि­त्यर्थः । तत्रा­न्या­र्थ­त्वे­नो­क्ता­वपि वाक्प्रा­णा­वु­पेत्य षड्विधत्वम् ।

भूता­दि­पा­द­त्व­स्या­न्य­था­सिद्धिं प्रत्याह —
नहीति ।

चकारसूचितं युक्त्यन्तरमाह —
अपिचेति ।

छन्दोङ्गीकारे कथमृचोऽसङ्गतिः, तत्राह —
अनयेति ।

उत्तरार्धेन पूर्वा­र्ध­वि­व­र­णे­नो­च्य­मा­न­सा­र्वा­त्म्यस्य सर्वकारणे ब्रह्म­ण्यु­प­प­त्ते­रिति स्वारस्यमेव दर्श­य­न्नु­क्तेऽर्थे हिशब्दसूचितं हेतुमाह —
पादोऽस्येति ।

ब्रह्मा­धि­का­रो­त्प­त्ते­रपि तत्परत्वमृचो वाच्यमित्याह —
पुरुषेति ।

ब्रह्म­वि­ष­य­स्मृ­त्य­र्थ­स्यात्र प्रत्य­भि­ज्ञा­नाच्च तथेत्याह —
स्मृतिश्चेति ।

यत्तु मन्त्रा­न­न्त­र­भा­वि­ब्र­ह्म­श­ब्दस्य छन्दोविषयत्वं तद्दूषयति —
यदिति ।
एवं सति पूर्ववाक्ये ब्रह्मोपगमे सतीत्यर्थः ।

इतोऽपि पूर्वं ब्रह्मो­क्त­मि­त्याह —
पञ्चेति ।
गाय­त्र्या­ख्य­ब्र­ह्मणो हार्द­स्यो­पा­स्त्य­ङ्ग­त्वेन द्वार­पा­ला­दि­गु­ण­वि­ध्यर्थं ‘तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः’ इत्यादिवाक्यम् । तत्र च ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ इति प्राच्या­दि­हृ­द­य­च्छि­द्रेषु हार्द­ब्र­ह्म­स­म्ब­न्धा­द्ब्र­ह्म­पु­रु­ष­श्रुतिः । अतोऽप्यस्ति पूर्वं ब्रह्मो­क्त­मि­त्यर्थः ।

गायत्रीवाक्यस्य छन्दो­मा­त्रा­र्थ­त्वा­भावे फलितमाह —
तस्मादिति ।
परामृश्यते यच्छब्देनेति शेषः ॥ २६ ॥

द्युस­म्ब­न्धा­त्प्र­त्य­भि­ज्ञे­त्य­त्रा­नु­प­प­त्ति­मु­द्भाव्य दूषयति —
उपदेशेति ।

अनुवादं विभजते —
यदपीत ।
तस्य पूर्व वाक्यस्थस्य चतुष्पदो ब्रह्मण इति यावत् ।

चोद्यस्य समूलतया समाधियोग्यतामाह —
तदिति ।

तत्र समाधिसत्त्वं ब्रुवाणः सूत्रावयवं पातयति —
अत्रेति ।

उपदेशभेदो दोषो नेति नञर्थमुक्त्वा हेतुमाह —
नायमिति ।

हेतुं व्याकरोति —
उभयस्मिन्निति ।
यदाधारत्वं दिवो मुख्यं तदा कथञ्चिन्मर्यादा वाच्येति ।

दृष्टान्तमाह —
यथेति ।
श्येनो वृक्षाग्रे स्थितोऽपि परतोऽस्त्येव, अग्र­ल­ग्न­भा­गा­ति­रि­क्तो­प­रि­भा­ग­स्थस्य तस्यै­वा­ग्रा­त्प­र­तोऽ­व­स्था­नात् , अतो वृक्षाग्रस्य श्येनं प्रत्याधारत्वे मुख्ये तस्मात्परतः श्येन इत्यत्र श्येन­श­ब्दोऽ­ग्र­ल­ग्ना­व­य­वा­दू­र्ध्वा­व­य­वा­व­च्छि­न्ना­व­य­वि­ल­क्षक इत्यर्थः ।

ब्रह्मणः श्येन­व­द­व­य­वा­भा­वा­दा­धा­रेऽ­मुख्ये मर्यादा भूता­का­शा­पे­क्ष­येति दार्ष्टा­न्ति­क­माह —
एवमिति ।
दिवि द्योतनवति स्वे महिम्नि हार्दे वा नभसीत्यर्थः । दिवो भूता­का­शा­द्बा­ह्या­द­बा­ह्याद्वा तस्मादित्यर्थः ।

यदानौपाधिकं ब्रह्मा­का­शा­स्पृष्टं गृहीत्वा पञ्चम्येव मुख्या तदा सामीप्यं सप्तमी लक्षयतीत्याह —
अपर इति ।

भूता­दि­पा­द­त्व­लि­ङ्गात् , ‘तावानस्य’ इति मन्त्रलिङ्गात् , ‘यद्वै तद्ब्रह्म’ इति­वा­क्या­द्गा­य­त्री­श­ब्दस्य ब्रह्मा­र्थ­त्वा­दु­प­दे­श­भे­देऽ­प्य­र्थै­क्या­द­प्र­त्य­भि­ज्ञाऽ­यो­गा­द्यु­क्तास्य प्रत्य­भि­ज्ञे­त्य­वा­न्त­र­प्र­कृ­त­मु­प­सं­ह­रति —
तस्मादिति ।

प्रत्य­भि­ज्ञा­तस्य यच्छब्दपरामर्शे तदेव ज्योतिरिति पर­म­प्र­कृ­त­मु­प­सं­ह­रति —
अत इति ॥ २७ ॥

अन­न्य­था­सि­द्ध­ता­त्प­र्य­व­द्ब्र­ह्म­लि­ङ्गा­दु­क्त­वा­क्यानां ब्रह्मपरत्वेऽपि प्रातर्दने वाक्ये पदा­र्था­ना­म­ने­के­षा­म­ने­क­लि­ङ्गृ­दृष्ट्या कस्या­नु­सा­रात्किं नेय­मि­त्या­का­ङ्क्षा­या­माह —
प्राण इति ।

विषयं वक्तु­मु­प­क्र­म­म­नु­क्रा­मति —
अस्तीति ।
प्रतर्दनस्य राज्ञो लोक­प्र­सि­द्ध्यर्थौ निपातौ । दिवो­दा­स­स्या­पत्यं दैवो­दा­सि­स्त­त्प्रियं प्रेमास्पदं, धाम गृहं, तद्गतौ हेतु­र्यु­द्धे­नेति । तत्करणेन पुरु­ष­का­र­प्र­द­र्श­नेन चेत्यर्थः ।

आम्नातेति ।
'तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रत­र्द­न­स्त्व­मेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इत्या­द्या­ख्या­यि­का­श्रु­ते­रि­त्यर्थः ।

मुख्य­प्रा­ण­व्या­वृ­त्त्य­र्थम् —
प्रज्ञात्मेति ।

निर्विशेषं चिन्मात्रं व्यावर्तयति —
तं मामिति ।

देवतासम्भावनायै वाक्यमुक्त्वा प्राण­स­म्भा­व­ना­र्त­माह —
तथेति ।
देहधारणं न वागा­दि­कृ­त­मि­त्यु­क्त्य­न­न्त­र­मि­त्य­थ­श­ब्दार्थः ।

प्राणस्य तत्कार्यं प्रसिद्धमिति खल्वित्युक्तम् । जीवं सम्भावयितुमाह —
तथेति ।

परमात्मानं सम्भावयति —
अन्ते चेति ।

आदिपदेन ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ‘ इत्याद्युक्तम् । विष­य­मु­क्त्वा­ने­क­लि­ङ्ग­दृष्ट्या संश्यमाह —
तत्रेति ।

गातार्थत्वेन तमाक्षिपति —
नन्विति ।

ब्रह्म­लि­ङ्गा­त्प्रा­ण­श­ब्दस्य ब्रह्मणि वृत्तिरुक्ता । प्रकृते कथ­मि­त्या­श­ङ्क्याह —
इहापीति ।
‘एष लोकाधिपतिः’ इत्या­दि­स­ङ्ग्र­हा­या­दि­प­दम् ।

अनेकेषु लिङ्गेषु दृष्टेषु कतमल्लिङ्गं, लिङ्गाभासं वा कतमदिति संशयं निर­सि­तु­म­धि­क­र­ण­मि­त्याह —
अनेकेति ।

तदेव विवृणोति —
नेत्यादिना ।

'न गन्धं विजिज्ञासीत घ्रातारं विद्यात् ‘ इत्या­दि­प­दे­नो­क्तम् । अनेकलिङ्गानि दर्शयित्वा तत्कार्यमाह —
अत इति ।

पूर्वत्र प्रकृ­त­त्रि­पा­द्ब्र­ह्म­प­रा­म­र्शि­य­च्छ­ब्द­स­मा­ना­धि­क­रणा ज्योतिः­श्रू­ति­स्त­द­र्थे­त्यु­क्तम् । इह न तथाविधमसाधारणं किञ्चिदस्ति प्राणस्य ब्रह्मत्वे मानमिति प्रसि­द्ध्य­न­ति­क्र­मा­त्प्राणो वायुरेवेत्याह —
तत्रेति ।
स्फुट­ब्र­ह्म­लि­ङ्गनां कौषी­त­कि­श्रु­तीनां ब्रह्म­ण्य­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः पूर्वपक्षे प्राण­दे­व­ता­जी­वा­ना­म­न्य­त­मो­पास्तिः फलं, सिद्धान्ते ब्रह्मोपास्तिः ।

मुख्य­प्रा­ण­प­क्ष­म­नूद्य सूत्रमादाय प्रतिज्ञां विभजते —
इति प्राप्त इति ।

लिङ्गान्तरेषु सत्सु कुतोऽस्य ब्रह्मा­र्थ­ते­त्याह —
कुत इति ।

तेषां वक्ष्य­मा­णा­न्य­था­सिद्धिं मत्वा हेतुमाह —
तथेति ।
ब्रह्म­प्र­ति­पा­द­न­प­र­त्वे­नैव पदा­ना­म­न्व­य­दृ­ष्टे­रि­त्यर्थः ।

हेत्वर्थं प्रपञ्चयति —
तथाहीति ।

तत्रादावुपक्रमे पदानां ब्रह्म­ण्य­न्व­य­माह —
उपक्रम इति ।

यं त्वं मनुष्यायातिशयेन हितं मन्यसे तं वरमभिलपितं मह्यं त्वमेव वृणीष्व प्रयच्छेति प्रतर्दनेनोक्ते ‘मामेव’ इत्यादिना प्राण­स्यो­च्य­मा­नस्य न युक्ता वायु­वि­का­र­ते­त्याह —
तस्मा इति ।

उपा­स्ते­र­चि­न्त्य­श­क्ति­त्वा­त्प्रा­णो­पा­स्ति­रेव मोक्षहेतुरलं ब्रह्म­धि­ये­त्या­श­ङ्क्याह —
नहीति ।

एवकारार्थमाह —
नान्य इति ।

आदिशब्देन ‘तमेवं विद्वान् ‘ इत्याद्या श्रुतिरुक्ता । उप­क्र­म­व­न्म­ध्येऽपि पदानां ब्रह्म­ण्य­न्व­य­माह —
तथेति ।

स यः कश्चिदधिकृतो मां ब्रह्मरूपं साक्षादनुभवति तस्य विदुषो लोको मोक्षो महतापि पातकेन न मीयते न हिंस्यते न प्रतिबद्ध्यते, ज्ञान­मा­हा­त्म्येन सर्वस्यापि पापस्य दग्धत्वादित्याह —
स य इति ।

केनचन कर्मणेत्युक्तं स्पष्टयति —
नेत्यादिना ।

‘न मातृवधेन न पितृवधेन’ इत्यादि वक्तुमादिपदम् । श्रुतस्य सर्व­पा­प­दा­ह­स्या­न्य­था­सिद्धिं प्रत्याह —
ब्रह्मेति ।

‘एवं न हास्य’ इत्या­दि­श्रु­ति­स­ङ्ग्र­हा­र्थ­मे­व­मा­द्या­स्वि­त्यु­क्तम् । इतश्च ब्रह्मैव प्राण­श­ब्द­मि­त्याह —
ब्रह्मेति ।

अन्य­यो­ग­व्या­वृ­त्ति­माह —
नहीति ।

प्रक्र­मा­दि­व­दु­प­सं­हा­रेऽपि पदानां ब्रह्मा­र्थ­त्व­माह —
तथेति ।

आनन्दस्य दुःखा­भा­व­त्वा­न्मु­ख्येऽपि प्राणे योगाददेहस्य जरा­म­र­ण­यो­र­भा­वा­द­ज­र­त्वा­दे­रपि तत्रो­प­प­त्ते­र्नो­प­सं­हा­रस्य ब्रह्मा­र्थ­ते­त्या­श­ङ्क्याह —
आनन्दत्वादीनीति ।

प्राणशब्दं ब्रह्मेत्यत्र लिङ्गा­न्त­रा­ण्याह —
स नेत्यादिना ।

धर्मा­द्य­स्पृ­ष्टत्वं, तत्कारयितृत्वं, तदीशितृत्वं, च सर्वमुक्तम्‌ । उक्तलिङ्गफलमाह —
तस्मादिति ॥ २८ ॥

देव­ता­प­क्ष­मु­त्थाप्य प्रत्याह —
नेत्यादिना ।

चोद्य­ता­त्प­र्य­माह —
यदुक्तमिति ।

तत्र नञर्थमाह —
नेति ।

उक्तहेतुषु सत्सु निषे­धा­सि­द्धि­रि­त्याह —
कस्मादिति ।

हेतुमादाय व्याचष्टे —
वक्तुरिति ।
अहङ्कारवादेनेति क्रियापदेन सम्बध्यते ।

कथ­मि­ति­सू­चि­ता­नु­प­पत्तिं स्फुटयति —
नहीति ।
‘अवाक्यनादरः’ इत्या­दि­श्रु­ति­रा­दि­श­ब्दार्थः ।

ब्रह्मणो वक्तृ­त्वा­भा­वा­दत्र वक्त्रा स्वस्यैव ज्ञेय­त्वो­क्ते­रि­न्द्रो­पा­स्ति­परं वाक्यमित्यत्रैव हेत्वन्तरमाह —
तथेति ।
त्रीणि शीर्षाणि शिरांसि यस्य स त्रिशीर्षा विश्वरूपः स च त्वाष्ट्र­स्त्व­ष्टु­र­पत्यं तमहनं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मु­खा­स्त­तोऽन्ये चारु­न्मु­खा­स्ता­न्वे­दा­न्त­ब­हि­र्मु­खा­नि­त्यर्थः । शालावृका वन्यश्वानः । बह्वीः सन्ध्या अतिक्रम्य दिवि प्रह्रा­दि­न­म­तृ­ण­मि­त्या­दि­रा­दि­श­ब्दार्थः ।

तथापि प्राण­श­ब्दा­न्ने­न्द्र­स्यो­पा­स्य­ते­त्या­श­ङ्क्याह —
प्राणत्वं चेति ।

बल­व­त्त्वा­द्ब­ल­श­ब्दो­प­चा­रेऽपि कथं प्राण­श­ब्द­त्व­म­स्ये­त्या­श­ङ्क्याह —
प्राण इति ।

बल­व­त्त्व­मे­वे­न्द्रस्य कथं, तत्राह —
बलस्येति ।

प्रसिद्धिं लौकिकत्वेन प्रकटयति —
येति ।

तथापि प्रज्ञा­त्म­त्व­वि­रो­धा­द­नु­पा­स्यता, नेत्याह —
प्रज्ञेति ।

कथ­म­प्र­ति­ह­त­ज्ञा­नत्वं, लोक­वे­द­प्र­सि­द्धे­रि­त्याह —
अप्रतिहतेति ।

तथापि हित­त­म­म­पु­रु­षा­र्थ­हे­तु­त्वा­द्यु­क्ति­वि­रोधे कुतोऽ­स्यो­पा­स्यता, तत्राह —
निश्चिते चेति ।
शक्त्य­ति­श­या­दु­क्त­पु­म­र्थ­हे­तुत्वं, कर्मा­न­धि­का­रा­द्भ्रू­ण­ह­त्या­द्य­प­रा­मृ­ष्टत्वं, लोक­पा­ल­त्वा­ल्लो­का­धि­पत्यं, स्वर्ग­स्या­न­न्द­त्वा­दा­न­न्द­त्वम् , अमृतत्वाजरत्वे चाभूतसम्प्लवं स्थितेरिति भावः ।

आक्षेपमुपसंहरति —
तस्मादिति ।

तमनूद्य समाधिमवतारयति —
इत्याक्षिप्येति ।

तस्यार्थमाह —
अध्यात्मेति ।

अस्मिन्नध्याये ।
यत्र ‘मामेव विजानीहि’ इत्यादि श्रूयते तत्रेति यावत् ।

बाहुल्यमेवाह —
यावद्धीति ।

तस्यार्थमाह —
प्राणस्येति ।

एवकारार्थमाह —
नेति ।

तथेति ।
आयु­ष्प्र­दा­नो­प­सं­हा­रयोः स्वात­न्त्र्य­व­दि­त्यर्थः ।

अस्तित्वे प्राणस्थितौ प्रणा­ना­मि­न्द्रि­याणां स्थितिरिति ‘अथातो निःश्रे­य­सा­दा­नम्’ इत्याद्यर्थतो गृहीत्वा तदर्थमाह —
अस्तित्वे चेति ।
इन्द्रियाणां प्राणा­श्र­य­त्व­व­दिति तथार्थः । इत्यध्यात्ममेव प्राणस्य देह­धा­र­यि­तृ­त्व­मा­हेति शेषः ।

ततश्च देवता न प्राणा इत्याह —
नेति ।
इति च प्रत्यगात्मन एव वक्तृ­त्व­मु­क्त­मिति शेषः ।

देवातात्मनोऽपि वक्तृत्वात् ‘न वाच्यम्’ इत्या­द्य­वि­रु­द्ध­मि­त्या­श­ङ्क्याह —
उपक्रम्येति ।

तत्र च प्रज्ञा­मा­त्राणां भूतमात्राणां च नानात्वं नेत्यत्र दृष्टान्तः —
यथेति ।

यथा लोके प्रसिद्धस्य रथस्यारेषु मध्य­व­र्ति­श­ला­कासु चक्रो­पा­न्त­ने­मि­र­र्पि­त­श्च­क्र­पि­ण्डि­कायां च नाभावराः । तथा भूतान्येव पृथिव्यादीनि शब्दादयश्च विषया मीयन्त इति मात्राः प्रज्ञामात्रासु स्ववि­ष­य­ज्ञा­ने­ष्वि­न्द्रि­येषु चार्पिताः, तद­धी­न­त्वा­त्त­द्व्य­व­हा­रस्य । ताश्च प्रज्ञामात्राः प्राणे पर­स्मि­न्न­र्पिताः । सच प्राणः परमात्मा, तल्लि­ङ्गा­दि­त्याह —
स इति ।

वाक्य­ता­त्प­र्य­माह —
विषयेति ।

स प्राणो ममा­त्मे­त्या­त्म­श­ब्द­सा­मा­ना­धि­क­र­ण्याच्च प्राणशब्दस्य न देवतार्थतेत्याह —
स म इति ।

तर्हि प्रत्यगात्मनि समन्वयो न ब्रह्मणि, तत्राह —
अयमिति ।

सूत्रा­र्थ­मु­प­सं­ह­रति —
तस्मादिति ॥ २९ ॥

अन­न्य­था­सि­द्ध­लिङ्गैः श्रुति­ता­त्प­र्याच्च प्राणस्य ब्रह्मत्वे देवतालिङ्गानां गतिर्वाच्येति पृच्छति —
कथमिति ।
सूत्रमुत्तरम् ।

तद्व्याख्याति —
इन्द्र इति ।

कथं तस्य गुर्वाद्यभावे ज्ञानं तत्राह —
आर्षेणेति ।

तस्य तर्हि प्रति­भा­त्वे­ना­मा­नत्वं, नेत्याह —
यथेति ।

श्रवणाद्यभावे कुतो ब्रह्मा­स्मी­तिधीः, तद्विधिविरोधात् , तत्राह —
यथेति ।
जन्मा­न्त­री­य­श्र­व­णा­दे­रा­धु­नि­क­धी­र­वि­रु­द्धेति भावः ।

अध्ययनाभावे कथं यथा­शा­स्त्र­मै­क्य­धी­रि­त्या­शङ्क्य देव­ता­धि­क­र­ण­न्या­ये­नाह —
तदिति ।

इन्द्र­श्चे­द्ब्र­ह्मा­त्मना स्वात्मा­न­मु­प­दि­शति, कथं त्वाष्ट्र­व­धा­दिना स्तुतिः, तत्राह —
यदिति ।

नेयं विज्ञेयस्तुतिः, अपितु विज्ञा­न­स्तु­ति­रि­त्याह —
अत्रेति ।

तत्र गमकमाह —
यदिति ।
तत्र क्रूरकर्मणि निमित्ते सतीत्यर्थः ।

कथमत्र ज्ञानस्तुतिः, तत्राह —
एतदिति ।
तस्मा­न्म­हा­भा­ग­धेयं ज्ञानमिति शेषः ।

त्वदी­य­ज्ञा­न­स्यै­वं­रू­प­त्वेऽपि किमधिकृतस्य स्यात् , तदाह —
स य इति ।

ननु स्तूय­मा­न­ज्ञा­नस्य ज्ञेया­का­ङ्क्षा­या­मिन्द्र एव सम्बध्यते, नेत्याह —
विज्ञेयं त्विति ।

अध्या­त्म­बा­हु­ल्या­त्प­रा­ची­न­दे­व­तो­क्त्य­यो­गात् , प्राणोऽ­स्मी­त्यादि ब्रह्मा­र्थ­मे­वे­त्यु­प­सं­ह­रति —
तस्मादिति ॥ ३० ॥

प्रकारान्तरेण ब्रह्म­प­र­त्व­मा­क्षिप्य समाधत्ते —
जीवेति ।

‘प्राणोऽस्मि’ इत्यादि देवतापरं नेत्यु­क्त­म­ङ्गी­क­रोति —
यद्यपीति ।

तर्हि ब्रह्मपक्ष एवायं परिशिष्यते, नेत्याह —
तथापीति ।

पूर्वो­त्त­र­प­क्ष­यो­र­नु­प­प­त्ति­र­यु­क्ते­त्याह —
कुत इति ।

देव­ता­प­क्ष­स्या­ति­फ­ल्गु­तया निरासेऽपि पक्षा­न्त­र­स­द्भा­वा­न्मै­व­मि­त्याह —
जीवेति ।

तत्राद्यं व्यनक्ति —
जीवस्येति ।

वक्तुरेवात्र वेद्यता भाति न किञ्चि­ज्जी­व­लि­ङ्ग­मि­त्या­श­ङ्क्याह —
अत्रेति ।

द्वितीयं विवृणोति —
तथेति ।
वक्तृ­त्वा­द्यु­प­दे­शा­न­न्त­र्य­म­थ­श­ब्दार्थः ।

देहोत्थापनमपि जीवलिङ्गं किं न स्यात् , तत्राह —
शरीरेति ।
वागादयः सर्वे प्रत्येकं श्रेष्ठ­त्व­मा­त्मनो मन्य­मा­ना­स्त­न्नि­र्दि­धा­र­यि­षया प्रजा­प­ति­मु­प­जग्मुः । स च तानुवाच, यस्मि­न्नु­त्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति । तस्मि­न्ने­व­मु­क्त­वति क्रमेण वागा­दि­षू­त्क्रा­न्ते­ष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यस्य प्राण­स्यो­च्चि­क्र­मि­षायां सर्वेषां व्याकु­ल­त्वाप्ताौ तान्प्रति प्राणो व्याहृतवान् , मा मोहमापद्यथ यतोऽ­ह­मे­वै­त­त्क­रोमि । किं तत् , पञ्चधा प्राणा­दि­भे­दे­ना­त्मानं विभज्यैतद्बाणं वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्य विधा­र­या­मी­त्यु­क्तेर्न देह­धा­र­ण­म­न्य­स्ये­त्यर्थः ।

क्वचि­दि­म­मि­त्यु­क्तेर्न देह­धा­र­ण­मि­ष्ट­मि­त्या­श­ङ्क्याह —
ये त्विति ।

कथमुपहिते जीवात्मन्यचेतने च प्राणे प्रज्ञात्मत्वं, तत्राह —
प्रज्ञेति ।

द्विव­च­न­स­ह­भा­वो­त्क्र­म­ण­श्र­व­णा­दपि न ब्रह्म ग्राह्यमित्याह —
जीवेति ।

अभेदनिर्देशमाह —
यो वा इति ।

भेदनिर्देशमाह —
सहेति ।

ब्रह्म­प­क्षेऽ­प्य­भे­दो­प­प­त्ति­मा­श­ङ्क्या­ङ्गी­कृत्य भेदानुपपत्तिमाह —
ब्रह्मेति ।

अमृतत्वादीन्यपि यथायोग्यं नेया­नी­त्यु­प­सं­ह­रति —
तस्मादिति ।
इहेति प्रकृ­त­स­न्द­र्भोक्तिः । अन्यतर इत्यु­प­क्र­म­मा­त्रम् , उभाविति तत्त्वम् । ब्रह्म त्वान­न्दा­दि­श्रु­ते­रा­व­श्य­कम् । न ब्रह्मेति तन्मा­त्र­व्या­वृत्तिः । तथाच जीव­मु­ख्य­प्रा­ण­ब्र­ह्मणां यथा­य­थ­मु­पा­स्ति­रिष्टा । नच ‘प्राणोऽस्मि’ इत्युपक्रमात् ‘स एष प्राण एव’ इत्युपसंहाराच्च वाक्यै­क्या­व­ग­ते­रे­का­र्थत्वं, वाक्या­र्था­व­ग­मस्य पदा­र्था­व­ग­म­ज­न्य­त्वे­नो­प­जी­व्या­द्दौ­र्ब­ल्यात् । नचैवं सर्वत्र वाक्यार्थभङ्गः, गुण­प्र­धा­न­भू­त­प­दा­र्थ­धियो वाक्या­र्थै­क्या­वि­रो­धि­त्वात् । अत्र तु पदार्थानां स्वातन्त्र्यं नैकवाक्यतेति भावः ।

परिहारमवतार्य व्याचष्टे —
नैतदिति ।

अस्तू­पा­स्ति­त्रै­विध्यं, नेत्याह —
नचेति ।

अर्थभेदे वाक्यभेदात्कथं सिद्ध­व­दे­क­वा­क्य­त्वोक्तिः, तत्राह —
उपक्रमेति ।

तदेव स्फुटवति —
मामेवेति ।

वाक्यैक्येऽपि किमित्यर्थभेदो न स्यात् , तत्राह —
तत्रेति ।
पदार्थधियो वाक्या­र्थ­धी­हे­तु­त्वेऽपि वाक्या­र्थ­बो­ध­स्यो­द्दे­श्य­त्वेन प्राधा­न्या­त्प­दानां पदार्थबोधे फले पर्य­व­सा­ना­भा­वा­त्तस्य नान्त­री­य­क­त्वा­त्प्र­धा­नी­भू­त­वा­क्या­र्थ­स्यो­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­व­ग­तस्य युक्तमैक्यमिति भावः ।

उपा­स­ना­त्रै­वि­ध्य­नि­रा­साय ब्रह्मलिङ्गं जीवादिविषयं नेय­मि­त्या­श­ङ्क्याह —
नचेति ।
पञ्च शब्दादयः पञ्च पृथिव्यादयश्च दश भूतमात्राः । पञ्च बुद्धी­न्द्रि­याणि पञ्च बुद्धय इति दश प्रज्ञामात्राः । यद्वा ज्ञाने­न्द्रि­यार्थाः पञ्च कर्मे­न्द्रि­या­र्थोश्च पञ्चेति दश भूतमात्राः, द्विवि­धा­नी­न्द्रि­याणि प्रज्ञामात्रा दशेति भावः ।

प्राणशब्दस्य ब्रह्म­ण्य­वृ­त्ते­स्त्रै­विध्यं तवापि स्यादि­त्या­श­ङ्क्याह —
आश्रि­त­त्वा­च्चेति ।

तत्र ब्रह्म­लि­ङ्गा­द्ब्र­ह्मणि वृत्तिराश्रिता प्रकृते कथ­मि­त्या­श­ङ्क्याह —
इहापीति ।

प्राणस्य ब्रह्मत्वे मुख्य­प्रा­ण­लिङ्गं विरु­ध्ये­ते­त्या­श­ङ्क्याह —
यत्त्विति ।

प्राणव्यापारस्य पर­मा­त्मा­य­त्तत्वे मानमाह —
नेति ।
कारणस्य कार्याकारेण स्थितस्य तद्धर्मेणापि सम्ब­न्धा­त्का­र्यस्य व्यावृत्तस्य कार्या­न्त­रे­ष्वपि स्थित­का­र­ण­ध­र्मे­णा­स­म्ब­न्धा­त्प्रा­णा­दि­लि­ङ्गानि ब्रह्मणि युज्यन्ते, न तल्लिङ्गानि तत्रेति भावः ।

जीवलिङ्गमपि ब्रह्म­वि­रो­धी­त्य­नु­वा­द­पू­र्व­क­माह —
यदपीति ।

कथं तर्हि ब्रह्मण एव सतो जीवस्य संसारित्वं, तत्राह —
बुद्ध्यादीति ।

जीवो ब्रह्मैव चेन्न तस्य वक्तृत्वं, तस्य ब्रह्म­त्व­वि­रो­धि­त्वात् , तत्राह —
तस्येति ।
‘वक्तारं विद्यात्’ इति न विधिः, वक्तृ­त्व­स्या­ध्य­क्ष­त्वात् । किन्तु तदु­द्दे­शे­ना­प्र­सिद्धं ब्रह्मत्वं विधि­त्सि­त­मि­त्यर्थः ।

प्रत्य­गा­त्मा­भि­मु­ख्योऽर्थो लिङादिरिति समन्वयसूत्रेऽपि दर्शि­त­मि­त्या­श­ये­नाह —
प्रत्यगिति ।

तत्र तलवकारश्रुतिमाह —
यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते प्रेर्यते वद­न­सा­म­र्थ्य­मा­पा­द्यते तदेव वागादेरगम्यं ब्रह्मेत्यर्थः ।

तस्य तात्पर्यमाह —
वचनादीति ।

द्विव­च­न­स­ह­भा­वो­त्क्र­म­ण­श्र­वणं सिद्धान्ते दुर्यो­ज­मि­त्यु­क्त­म­नूद्य दूषयति —
यदित्यादिना ।

उपा­धि­भे­दा­त्त­द्वि­शि­ष्टस्य भिन्नतेति विशिनष्टि —
प्रत्यगिति ।

अभेदस्तर्हि कथं, तत्राह —
उपाधीति ।
उप­हि­त­द्वा­रो­प­ल­क्षि­त­स्ये­त्यर्थः ।

स्वमते सूत्रावयवं व्याख्याय वृत्तिकारमते व्याकरोति —
अथवेति ।

तत्र नञर्थमाह —
नेति ।

ब्रह्मवाक्यत्वे जीव­प्र­ण­यो­र­ध्ये­य­त्वा­त्त­ल्लि­ङ्ग­वि­रो­धोऽ­स्त्ये­वे­त्याह —
कथमिति ।

हेतुमुक्तवा व्याख्याति —
उपासेति ।
स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, न त्वेकस्यैव ब्रह्म­ण­स्त­द्ध­र्मे­णे­त्यर्थः ।

उक्तमेव विभजते —
तत्रेति ।

‘प्राणो हि भूतानामायुः’ इति श्रुत्यन्तरेणाह —
आयुरिति ।
तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् । प्राणस्यैव देहा­द्यु­त्था­प­कत्वं तस्मा­दि­त्यु­च्यते । उत्थापयति देहादीत्युक्थं प्राणः । सहवासः सहो­त्क्रा­न्ति­श्चे­त्यु­क्त्या­न­न्त­र्य­म­थ­श­ब्दार्थः ।

अस्या जीवा­ख्य­प्र­ज्ञायाः सम्बन्धीनि भूत्वा सर्वाणि भूतानि तद्दृश्यत्वेन कल्पितानि वस्तुतो यथैकं भवन्ति तथा तद्वस्तु व्याख्यास्याम इत्यु­प­क्र­म्यो­क्तम् —
‘वागेव’ इत्यादि ।
बुद्धेः साभासायाः स्वरूपतो जातत्वेऽपि विष­यि­त्व­मि­न्द्रि­य­सा­ध्यम् । तत्र कर्मेन्द्रियेषु मध्ये वागेवास्याः प्रज्ञाया देहा­र्ध­मे­क­म­ङ्ग­म­दू­दु­ह­द्रे­चि­त­वती पूरयामास । नामरूपात्मा प्रपञ्चो विषयस्तत्र नामप्रपञ्चे वाग्द्वारा प्रविष्टा धीस्तं प्रति विष­यि­त्व­मा­प्नो­ती­त्यर्थः ।

तस्याः प्रज्ञायाः पुनर्नाम किल परस्तादपरभागे चक्षुरादिना प्रतिविहिता समुत्थापिता भूतमात्रा रूपादिरूपा चक्षुरादिना रूपाद्यर्पणेन बुद्धे­र­प­र­भा­ग­रूपं रूपप्रपञ्चं प्रति विषयित्वं निर्वर्त्यत इत्याह —
तस्या इति ।

बुद्ध्यु­प­हि­त­चै­त­न्य­द्वारा स्वरूपे द्रष्टृ­त्वा­ध्या­स­माह —
प्रज्ञयेति ।
तया द्वारा चिदात्मा वाचं करणं प्रति कर्ते­त्य­ध्या­स­म­नु­भूय वाचा करणेन सर्वाणि नामानि वक्त­व्य­त्वे­ना­प्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्ट्ट­त्व­म­नु­भ­व­ती­त्यर्थः ।

सर्व­भू­त­वि­ष­यि­त्व­मा­त्मनि विशि­ष्ट­द्र­ष्ट्ट­त्वा­दि­क­रत्वं च बुद्धेर्धर्म इत्युक्तम् । सर्वा­धा­र­त्वा­न­न्द­त्वादि ब्रह्मधर्म इत्याह —
ता वा एता इति ।
उक्ता भूतमात्राः प्रज्ञा­श­ब्दि­ते­न्द्रि­याणि । तदुत्थज्ञानानि चाधिकृत्य प्रवर्तन्ते । प्रज्ञा­मा­त्रा­श्चोक्ता भूतशब्दितानि पृथिव्यादीनि शब्दादीनि चाधिकृत्य भवन्ति ।

ग्राह्य­ग्रा­ह­क­यो­र्मिथः सापेक्षकत्वं साधयति —
यदिति ।

तदेव स्पष्टयति —
नहीति ।

अन्यो­न्या­पे­क्ष­म­प्ये­त­द्वि­ष­य­वि­ष­यि­द्वयं न द्वैत­प­क्ष­व­न्नाना वस्तुतो भिन्नं किन्त्वे­क­स्मि­न्ने­वा­रो­पि­त­मि­त्याह —
नो इति ।
तद्यथेत्यादि व्याख्यातम् ।

नोपा­सा­त्रै­वि­ध्या­दि­त्य­स्या­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

अन्य­ध­र्मे­णा­न्य­स्यो­पा­सनं कथ­मि­त्या­श­ङ्क्या­श्रि­त­त्वा­दि­त्याह —
अन्यत्रापीति ।

तत्रोपक्रमे ब्रह्मणः श्रुत­त्वा­द्युक्ता मनो­म­य­त्वा­दि­वि­शि­ष्ट­स्यो­पास्तिः, इह कथमित्याशङ्क्य तद्योगादित्याह —
इहापीति ।

उपास्तेस्तर्हि कथं त्रैविध्यं, तत्राह —
प्राणेति ।
वाक्यभेदस्तु ब्रह्मण एक­स्यै­वो­पा­सा­त्रै­वि­ध्योक्त्या प्रयुक्तः ।

किम­त्रो­पा­सा­त्र­य­वि­शिष्टं ब्रह्म विधेयमुत ब्रह्म­वि­शि­ष्ट­मु­पा­सा­त्रयं किं वा तदनुवादेन तदा­श्रि­त्यो­पा­सा­त्र­यम् । नाद्यः, ब्रह्मणः सिद्ध­त्वा­द्वि­ध्य­न­र्ह­त्वात् । न द्वितीयः, वाक्यान्तरेभ्यो ब्रह्मणो ज्ञातत्वात् । न तृतीयः, ब्रह्मा­नु­वा­दे­नो­पा­स्ति­वि­धा­वे­क­वि­शे­ष्या­व­शी­का­रा­दु­पा­स्तीनां मिथो­स­म्ब­न्धा­त्प्र­त्यु­पा­स्ति­वि­ध्या­वृत्त्या वाक्य­भे­दा­दि­त्ये­की­य­व्या­ख्या­मु­पेक्ष्य स्वप­क्ष­मु­प­सं­ह­रति —
तस्मादिति ।
प्राक­र­णि­क­त्वेऽपि ब्रह्म­णोऽ­वा­न्त­र­वा­क्य­भे­देन श्रव­णा­दि­व­द्वि­वि­दि­षार्थं यज्ञा­दि­व­च्चो­पा­स्ति­त्रयं विधेयं, विधे­य­त्र­य­ध­र्म­व­द्ब्र­ह्मो­पा­स्ति­श्चै­केति कुतो वाक्यभेद इत्येके । तन्न । अन्त­स्त­द्ध­र्मा­धि­क­र­णेन गतत्वात् । तत्र हि सार्वा­त्म्य­स­र्व­दु­रि­त­वि­र­हाभ्यां सर्वकारणे ब्रह्मणि सिद्धे रूप­व­त्त्वा­दि­का­र्य­धर्मा नीतास्तयात्रापि प्रागु­क्त­न्या­येन प्राणा­दि­ध­र्माणां ब्रह्मणि सम्भवान्न पृथग्विचारावसरः । तस्मा­ज्जी­व­प्रा­ण­ब्र­ह्माणि सहोपास्यानि ब्रह्मैव वा प्रतिपाद्यमिति पदा­र्थ­वा­क्या­र्थ­यो­र्ब­ला­ब­ल­ज्ञा­नेन सन्दिह्य दिवो दिवीत्यत्र प्रधा­न­प्र­कृ­त्य­र्था­भे­देन गुण­भू­त­प्र­त्य­या­र्थ­भे­द­न­य­न­व­द­त्रापि स्वत­न्त्र­प्रा­णा­दि­प­दा­र्थ­भे­द­दृष्टौ तदपेक्षत्वेन गुण­भू­त­वा­क्या­र्थ­दृ­ष्टे­र­न्य­था­न­य­ना­त्प­दा­र्थ­बु­द्धे­र्वा­क्या­र्थ­बु­द्ध्यो­प­जी­व्य­त्वेन स्वात­त्र्या­द्वा­क्यैक्यं भङ्क्त्वा त्रीणि सहोपास्यानीति प्रापय्य पदानां वाक्या­र्थ­बो­धो­द्दे­शेन प्रवृ­त्त­त्वा­त्प­दा­र्थ­बो­धस्य नान्त­री­य­क­त्वा­द्वा­क्या­र्थ­बो­ध­प्रा­धा­न्या­दु­प­क्र­मो­प­सं­हा­रै­क­रू­प्य­सि­द्ध­प्र­धा­न­वा­क्या­र्थ­भ­ङ्गा­यो­गात् , प्राणा­दि­लि­ङ्गानां च ब्रह्मणि नीतत्वात् , अन­न्य­था­सि­द्ध­ब्र­ह्म­लि­ङ्गा­द्ब्र­ह्मै­वात्र प्रतिपाद्यमिति सिद्धा­न्त­यि­त­व्यम् । सर्वथापि प्रातर्दनं वाक्यं ब्रह्मणि ज्ञेये समन्वितमिति ॥ ३१ ॥
इति श्रिम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­वि­र­चिते शारी­र­क­भा­ष्य­नि­र्णये प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥
॥ इति प्रथ­म­स्या­ध्या­यस्य स्पष्ट­ब्र­ह्म­लि­ङ्ग­श्रु­ति­स­म­न्व­याख्यः प्रथमः पादः ॥

पूर्वो­प­जी­व­ने­नो­त्त­रो­त्था­ना­द्धे­तु­हे­तु­मत्त्वं सम्बन्धं वक्तुं वृत्तमनुवदति —
प्रथम इति ।

कारणत्वमात्रं नात्रोपयुक्तं, व्यापित्वादेरपि सिद्ध­व­द्धे­तु­त­यो­पा­दा­नात् , अतस्तदनुक्तौ कथं सङ्ग­ति­रि­त्या­श­ङ्क्याह —
तस्येति ।

उक्त­मु­प­जी­व्यो­त्त­र­प्र­वृत्तौ कथं पादभेद इत्याशङ्क्याह —
अर्थान्तरेति ।

उत्त­र­पा­द­द्व­य­स्या­न­धि­ग­त­म­र्थ­माह —
पुनरिति ।
पूर्वं भूताकाशादिषु रूढा­का­शा­दि­श­ब्दानां ब्रह्मपरत्वे तल्लि­ङ्गा­दि­ति­हे­तूक्त्या स्पष्ट­ब्र­ह्म­लि­ङ्गानि नीतानि । अथा­स्प­ष्ट­ब्र­ह्म­लि­ङ्ग­वा­क्या­न्य­र्था­न्त­रा­र्थ­तया शङ्क्यमानानि ब्रह्मणि नीयन्ते । तत्र द्विती­य­तृ­ती­य­पा­द­यो­र­वा­न्त­र­भे­दस्तु प्रायशः सवि­शे­ष­नि­र्वि­शे­षा­र्थ­तया रूढियोगबहुलतया वेति भावः ।

पूर्वं जीवलिङ्गबाधया ब्रह्म­प­र­त्व­व­न्म­नो­म­या­दि­वा­क्येऽपि तद्बाधेन तत्परत्वमाह —
सर्वत्रेति ।

छान्दो­ग्य­वा­क्य­मु­दा­ह­रति —
इदमिति ।

सर्वं जग­द्ब्र­ह्मै­वे­त्यत्र हेतुमाह —
तज्जेति ।
तस्माज्जायत इति तज्जं, तस्मिंल्लीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं, तज्जं च तल्लं च तदनं च तदिति तञ्जलान् । अव­य­व­लो­प­श्छा­न्दसः । इति हेतौ । यस्मादेवं जग­त्त­स्मा­द्ब्र­ह्मैव सर्वं जगदित्यर्थः ।

अतो धियो रागा­दि­वि­ष­या­भा­वा­दु­पा­सीत स शान्तः स्यादित्याह —
शान्त इति ।

गुणं विधाय गुणिविधित्सया पुम्प्रयत्नस्य साफल्यमाह —
अथेति ।
पुरुषोऽधिकृतः क्रतुमयः सङ्कल्पप्रधानः । तत्र हेतुर्यथेति । ज्ञानं कर्म वा यथास्मिन्देहे स्थितः सङ्कल्पयते तथा तदनुसारेण फलं परत्र लभते सोऽधिकृतः क्रतुं ध्यानं कुर्वीत ।

किं ध्याये­दि­त्या­का­ङ्क्षा­या­माह —
मनोमय इति ।
विभ­क्ति­व्य­त्य­येन मनोमयं प्राणशरीरं ध्यायेदित्यर्थः । आदि­श­ब्दा­द्भा­रूपः सत्यसङ्कल्प इत्यादि गृहीतम् ।

मनोमयत्वादीनां प्रकृ­त­ब्र­ह्मा­न­पे­क्ष­त्व­सा­पे­क्ष­त्वाभ्यां सन्देहमाह —
तत्रेति ।

एक­वा­क्य­स्थ­ब्र­ह्मा­ब्र­ह्म­लि­ङ्ग­यो­र्ब्र­ह्म­लि­ङ्ग­व­शा­द­ब्र­ह्म­लिङ्गं नीतम् । इह ब्रह्मा­ब्र­ह्म­प्र­क­र­ण­लि­ङ्ग­सं­नि­पाते किं युक्तमिति पृच्छति —
किमिति ।
‘सर्वम्’ इत्यादिश्रुतेः सविशेषार्थाया ध्येये ब्रह्म­ण्य­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पर्वपक्षे जीवस्य, सिद्धान्ते परस्योपास्तिः फलम् ।

रात्रि­स­त्र­न्या­ये­नो­पास्त्या वाक्यशेषस्थो जीवः सम्बध्यत इति पूर्वपक्षयति —
शारीर इति ।

विश्व­जि­न्न्या­येन सर्वाभीष्टं ब्रह्मैव मनोमयादौ विशे­ष्या­का­ङ्क्षा­या­मु­पा­स्ति­स­म्ब­न्धी­त्याह —
कुत इति ।

विशे­ष्या­का­ङ्क्षा­या­मपि जीव एव लिङ्गबलीयस्तया सम्बध्यत इत्याह —
तस्येति ।

तदन्यथासिद्धिं प्रत्याह —
नेति ।
आदिपदेन ‘अवागमनाः’ इत्याद्या श्रुतिरुक्ता ।

श्रुत्या शङ्कते —
नन्विति ।

न लिङ्गं श्रुत्या बाध्यमित्याह —
नैष इति ।

किं पूर्ववाक्ये ब्रह्मो­पा­स्ति­र्वि­हि­ते­त्यु­च्यते किं वा प्रकृतं ब्रह्मै­वो­त्त­रत्र सम्बद्धमिति । नाद्य इत्याह —
नेदमिति ।

शमविधिपरत्वे हेतुः —
यदिति ।

‘उपासीत’ इत्युपास्तिविधौ श्रुते कथं गुणविधिः, तत्राह —
एतदिति ।

सर्व­स्यै­का­त्म­त्वेऽपि कथं शमविधिः, तत्राह —
नचेति ।

तर्हि शमो ध्यानमित्युभयं विधीयतां, नेत्याह —
नचेति ।
वाक्य­भे­दा­प­त्ते­रिति भावः ।

‘दध्ना जुहोति’ इति होमानुवादेन गुणविधिवदिहापि शमविधौ वाक्या­न्त­र­सि­द्धो­पा­स्ति­र­नू­द्यत इत्याशङ्क्याह —
उपासनं त्विति ।

क्रतुरेव तत्र विधीयते नोपा­स्ति­रि­त्या­श­ङ्क्यो­क्तम् —
क्रतुरिति ।

द्वितीयं प्रत्याह —
तस्य चेति ।

ब्रह्मैव मनो­म­या­दि­श­ब्द­मि­त्या­शङ्क्य मनआदियोगस्य जीव­लि­ङ्ग­त्वा­न्ने­त्याह —
जीवेति ।

तस्योपास्यत्वे वाक्यशेषस्थं सर्वकर्मत्वादि कथमित्याशङ्क्य क्रमेणेत्याह —
सर्वेति ।

जीवपक्षे लिङ्गद्वयमाह —
एष इति ।

जीवे ज्यायस्त्वायोगं शङ्कते —
नन्विति ।

किं ज्याय­स्त्व­म­णी­यस्त्वं चोभयं सत्य­म­न्य­त­र­द्वेति विकल्पयति —
अत्रेति ।

आद्यं दूषयति —
न तावदिति ।

द्वितीयं निराह —
अन्यतरेति ।
तच्चा­रा­ग्र­मा­त्रस्य जीवस्य युक्तमिति तस्यै­वो­पा­स्य­ते­त्यर्थः ।

श्रुत्या ज्याय­स्त्व­स्या­त्य­न्त­बाधे श्रुति­बा­ध­मा­श­ङ्क्याह —
ज्यायस्त्वं त्विति ।

जीवपक्षे कथमन्ते ब्रह्मपदं, तत्राह —
निश्चिते चेति ।
जीवेऽपि देहा­दि­बृं­ह­णा­ज्ज्या­य­स्त्व­न्या­याद्वा ब्रह्मतेत्यर्थः ।

‘एतमितः प्रेत्या­भि­स­म्भ­वि­तास्मि’ इति कर्म­क­र्तृ­व्य­प­दे­शात् , ‘अन्त­रा­त्म­न्पु­रुषः’ इति च तुल्याधिकारे भेदोक्तेर्न जीव­स्यो­पा­स्य­ते­त्या­शङ्क्य साध­न­फ­ला­व­स्था­पे­क्षया कर्म­क­र्तृ­त्व­स्या­न्यस्य च ‘स्वे महिम्नि’ इति­व­दु­प­चा­रा­ज्जी­व­स्यै­वो­पा­स्य­ते­त्यु­प­सं­ह­रति —
तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धा­न्त­य­न्सू­त्रा­द्ब­हि­रेव प्रतिजानीते —
एवमिति ।

मनोमयादिशब्दा ध्येये जीवे भान्ति । न ब्रह्म तथेत्याह —
कुत इति ।

सूत्रमादाय व्याचष्टे —
सर्वत्रेति ।
रात्रि­स­त्र­न्या­यस्य लघुत्वेऽपि जीव­गा­मि­त्वे­ना­फ­ल­त्वा­द्वि­श्व­जि­न्न्या­यस्य गुरोरपि ब्रह्मगामित्वेन फलवतः श्रुति­ता­त्प­र्य­ग­म­कस्य बली­य­स्त्वा­द्ब्र­ह्मै­वा­त्रो­पा­स्य­मि­ति­भावः ।

किञ्च मनो­म­य­त्वा­दि­लिङ्गं बाधित्वा ब्रह्मश्रुत्या ब्रह्मै­वो­पा­स्य­मि­त्याह —
इह चेति ।

किञ्चा­फ­ल­लि­ङ्गो­प­नीतं जीवं हित्वा फल­व­त्प्र­क­र­ण­प्राप्तं ब्रह्म ग्राह्यमित्याह —
एवमिति ।
प्राणः शरीरमस्येति समा­स­ग­त­स­र्व­नाम्ना संनिहितार्थेन प्रकृतं ब्रह्म हित्वा जीव­म­प्र­कृ­त­मि­च्छतः प्रकृ­त­हा­नि­र­प्र­कृ­त­प्र­क्रिया चेत्यर्थः ।

आगतो राजपुरुषस्तं भोज­ये­दि­ति­व­द­न्य­शे­षस्य ब्रह्मणः सर्वनामादिना न परामर्शः स्यादि­त्या­श­ङ्कते —
नन्विति ।

‘तस्मिन्सीद’ इत्यादौ सद­न­स्ये­वो­प­स­र्ज­न­स्यापि परामर्शमाह —
अत्रेति ।

जीवस्यापि लिङ्गादस्ति संनि­धि­रि­त्या­शङ्क्य तस्योपास्तिधियो विशे­ष­ण­वै­य­र्थ्या­द­वि­व­क्षितं लिङ्गमित्याह —
जीवस्त्विति ।

तथापि मनो­म­या­दि­श­ब्दा­त्त­दुक्तिः, नेत्याह —
नचेति ।
तस्य तद­वा­चि­त्वा­दि­त्यर्थः । वैषम्यं जीवब्रह्मणोरिति शेषः ॥ १ ॥

इतश्च ब्रह्मै­वा­त्रो­पा­स्य­मि­त्याह —
विवक्षितेति ।

ननु शास्त्र­यो­नि­त्वेऽ­पी­श्व­रस्य रच­ना­या­म­स्वा­त­न्त्र्या­द­पौ­रु­षे­यत्वं वेदस्योक्तम् । तत्र वक्तु­र­भा­वा­दित्थं विवक्षितपदं कथं विगृह्यते, तत्राह —
यद्यपीति ।
विव­क्षि­त­स्यो­पा­दा­ना­दु­पा­स्ता­वु­पा­दा­नस्य विवक्षाफलस्य सत्य­स­ङ्क­ल्पा­दि­गु­णेषु दृष्टे­र्वि­व­क्षि­त­त्व­मु­प­चर्य विग्रह इत्यर्थः ।

उक्तो­प­चा­र­स्या­लौ­कि­कत्वं प्रत्याह —
लोकेऽपीति ।

विव­क्षि­त­त्वो­पा­दे­य­त्व­यो­र­न्यो­न्या­श्र­य­त्व­मा­श­ङ्क्याह —
उपादानेति ।
परि­ग्र­ह­प­रि­त्या­गा­वु­पा­दा­ना­नु­पा­दाने ।

प्रस­ङ्गा­ग­त­मुक्त्वा सूत्रं व्याचष्टे —
तदिहेति ।
तच्छब्दो यथो­क्त­स­मा­सो­प­प­त्ति­प­रा­मर्शी ।

प्रकृतं प्रक­र­ण­मि­हे­त्यु­क्तम् । ब्रह्मण्येव सत्यसङ्कल्पत्वं साधयति —
सत्येति ।

श्रुतिरपि युक्ति­व­दि­हा­स्ती­त्याह —
परमात्मेति ।

आकाशात्मत्वं वक्तुं तन्निरुक्तिं करोति —
आकाशेति ।

कथं जडाजडयोः साम्यं, तदाह —
सर्वेति ।

ज्यायस्त्वं सर्व­ग­त­त्व­सा­ध­क­मि­त्याह —
ज्यायानिति ।