अद्वैतशारदा

न्यायनिर्णयव्याख्या

१ परिच्छेदः

आकाशात्मत्वस्य निरु­क्त्य­न्त­र­मा­श­ङ्क्या­ङ्गी­क­रोति —
यदेति ।
सर्वात्मत्वमत एवेत्युक्तम् । आदिपदं सर्व­का­मा­दि­स­ङ्ग्र­हा­र्थम् ।

उक्ता­मु­प­प­त्ति­मु­प­सं­ह­रति —
एवमिति ।
इहेति प्रकरणोक्तिः । तेन तदेवोपास्यमिति शेषः ।

ध्येयस्यापि मनो­म­य­त्वा­दे­र्ब्र­ह्मणि नोप­प­त्ति­रि­त्या­श­ङ्क्याह —
यत्त्विति ।

तस्यापि ब्रह्म­ण्यु­प­प­त्ति­माह —
तदपीति ।

कथं जीवगामिनो ब्रह्मणि सिद्धिः, तत्राह —
सर्वेति ।

जीव­स्यै­वा­सा­धा­रणं मनो­म­य­त्वा­दी­त्यु­पेत्य ब्रह्म­ण्यु­प­प­त्ति­मुक्त्वा तस्य साधारण्ये मानमाह —
तथाचेति ।
जीर्णः स्थविरो भूत्वा यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्रा­ण्य­स्यै­वेति सर्वतःश्रुतिमत् ।

ब्रह्मणि मनोमयत्वादि वदतः श्रुत्य­न्त­र­वि­रो­ध­मा­श­ङ्क्याह —
अप्राणो हीति ।

सूत्रा­र्थ­मु­प­सं­ह­रति —
अत इति ॥ २ ॥

ब्रह्मणि जीवगतं मनोमयत्वादीष्टं चेद्ब्रह्मगतमपि सत्य­स­ङ्क­ल्प­त्वा­द्य­भे­दा­ज्जी­वेऽस्तु, नेत्याह —
अनु­प­प­त्ते­स्त्विति ।

सूत्रं व्याख्यातुं सङ्गतिमाह —
पूर्वेणेति ।
आरोप्यरूपेण विषयस्यैव रूपित्वं न विपरीतं, नहि रज्ज्वा रूपेण सर्पो रूपवानित्यर्थः ।

अवधारणमेव स्फोर­य­न्ने­त्यादि विभजते —
ब्रह्मेति ।
सर्वा­त्म­त्वा­दि­रुक्तो न्यायः ।

अनुपपत्तेरिति व्याचष्टे —
यदिति ।
वागेव वाकः सोऽस्यास्तीति वाकी न वाक्यवाकी । वागा­दि­स­र्वे­न्द्रि­य­र­हित इत्यर्थः । आप्तकामत्वान्न कुत्र­चि­दा­द­रोऽ­स्ती­त्य­ना­दरः ।

शारी­र­त्व­मी­श्व­रेऽपि व्यापिनि स्यादिति शङ्कते —
नन्विति ।

अयो­ग­व्य­व­च्छे­द­म­ङ्गी­कृ­त्या­न्य­यो­ग­व्य­व­च्छे­दा­भा­वा­न्ने­त्याह —
सत्यमिति ।

अन्य­यो­गा­व्य­व­च्छेदे हेतुः —
ज्यायानिति ।

जीवे वा कथं विशिष्टं शारीरत्वं, तत्राह —
जीवस्त्विति ॥ ३ ॥

जीवस्य मनो­म­य­त्वा­दि­गु­ण­त्वा­भावे हेत्वन्तरम् —
कर्मेति ।

पूर्व­सू­त्रा­न्ने­त्या­द्या­कृष्य चशब्दार्थमाह —
इतश्चेति ।

प्राप्य­प्रा­प­क­त्वेन कर्म­क­र्तृ­व्य­प­देशं विशदयति —
एतमिति ।

वाक्यं व्याकरोति —
एतमित्यादिना ।
प्रापकत्वेन व्यपदिशतीति सम्बन्धः ।

मामहं जाना­मी­ति­व­द्व्य­प­दे­श­मा­श­ङ्क्याह —
नचेति ।

कर्म­क­र्तृ­व्य­प­देशे सूत्राभिप्रेतं प्रकारान्तरमाह —
उपास्येति ।

उक्त­व्य­प­दे­श­फ­ल­माह —
तस्मादिति ॥ ४ ॥

तत्रैव हेत्वन्तरमाह —
शब्देति ।

सूत्रे हेत्व­न्त­र­द्यो­त­का­भा­व­मा­शङ्क्य पूर्वसूत्रस्थं चशब्दमाकृष्य व्याकरोति —
इतश्चेति ।
समा­न­प्र­क­र­ण­त्व­मे­क­वि­द्या­वि­ष­य­त्वम् । अन्तरात्मन्निति छान्दसो विभक्तिलोपः ।

शब्दभेदफलमाह —
तस्मादिति ॥ ५ ॥

आत्मा­न्तः­स्थि­त­स्या­न्य­स्या­योगे ‘स्वे महिम्नि’ इतिवदुपचारादेव शब्दभेदः स्यादि­त्यु­क्त­मा­श­ङ्क्याह —
स्मृतेश्चेति ।
हृदि स्थितस्य शारीराद्भेदः स्मृत्योच्यते ।

ततो मनो­म­य­त्वा­दि­वि­शिष्टो हृदि स्थितोऽन्यः शारीरादिति नोपचारशङ्केति व्याचष्टे —
स्मृतिश्चेति ।
‘तमेव शरणं गच्छ’ इत्या­दि­वा­क्य­मा­दि­श­ब्दार्थः ।

ईक्षत्यधिकरणे निरस्तमपि चोद्यं प्रस­ङ्गा­दु­द्भा­व­यति —
अत्रेति ।
श्रुति­स्मृ­तिभ्यां भेदवादः सप्तम्यर्थः ।

ननु नान्यत्वं साध्यते किन्त्वन्यस्य मनोमयत्वादि निषिध्यते, तत्राह —
य इति ।
विव­क्षि­त­गु­ण­व­त्त्वेन जीवस्य ध्येय­त्व­नि­षे­धा­नु­प­पत्त्या तद­न्य­त्व­धी­रि­त्यर्थः ।

परस्यांशो विकारो वा जीवो नामेत्याशङ्क्य श्रुति­स्मृ­ति­वि­रो­धा­न्नै­व­मि­त्याह —
श्रुतिरिति ।

नच भेदाभेदाभ्यां श्रुति­स्मृ­त्य­वि­रोधः, तदयोगादिति । किं वस्तुतोऽन्यो जीवो नास्ति, किं वोपाधितोऽपीति विकल्पयति —
अत्रेति ।

आद्यमङ्गीकरोति —
सत्यमिति ।

द्वितीयं दूषयति —
पर इति ।

अप­रि­च्छि­न्न­स्यो­पा­धिना परि­च्छि­न्न­त्व­दृष्टिं दृष्टान्तेन स्पष्टयति —
यथेति ।

श्रुतौ स्मृतौ च कर्म­क­र्तृ­त्वा­दि­व्य­व­हा­रा­त्पा­र­मा­र्थिक एव भेद इत्याशङ्क्याह —
तदिति ।

अबा­धा­द्भे­द­व्य­व­हा­रस्य तात्त्वि­क­त्व­मा­शङ्क्य प्रागूर्ध्वं वा बोधादबाध इति विक­ल्प्या­द्य­म­नु­जा­नाति —
प्रागिति ।

द्वितीयं प्रत्याह —
गृहीते त्विति ॥ ६ ॥

जैवं लिङ्गद्वयं निरस्यति —
अर्भकेति ।
अर्भकमोको यस्य सोऽर्भ­कौ­का­स्तस्य भावस्तत्त्वं तस्मादिति यावत् । अर्भकशब्दस्य शिशु­वि­ष­य­त्व­नि­षे­धा­र्थ­म­ल्प­मिति पर्यायत्वोक्तिः ।

ओकः­श­ब्द­स्या­प्र­सि­द्धा­र्थतां व्यवच्छिनत्ति —
नीडमिति ।

वाक्यार्थं वदन्नाशङ्कां विवृणोति —
एष इति ।

तत्र लिङ्गयोः सम्भावनार्थं विशिनष्टि —
आराग्रेति ।

परत्र तदसम्भावनार्थम् —
सर्वगत इति ।

तस्या­नु­पे­क्ष­णी­य­त्व­माह —
तदिति ।

परि­हा­र­भा­ग­म­व­ता­र­यति —
अत्रेति ।

अणी­य­स्त्व­मु­पेत्य ज्यायस्त्वं वा बाध्यं, तदपि वा कथ­ञ्चि­द­नु­ग­न्त­व्यम् । नाद्यः, श्रुतस्य बाधायोगादित्याह —
नायमिति ।

द्वितीयं प्रत्याह —
न तावदिति ।

त्वयापि ज्याय­स्त्व­मु­पे­त्या­णी­यस्त्वं बाध्यते, तदपि वा कथञ्चिदनुगम्यते । नाद्यः, श्रुत­बा­धा­यो­ग­सा­म्यात् । न द्वितीयः, ज्याय­सोऽ­णी­य­स्त्वस्य सर्व­थै­वा­यु­क्त­त्वात् , तत्राह —
सर्वेति ।

अपरिच्छिन्नस्य परि­च्छि­न्न­दे­शोक्तौ दृष्टान्तमाह —
समस्तेति ।

तत्र पुरवासापेक्षया व्यपदेशेऽपि कथमिहेति पृच्छति —
कयेति ।

सूत्रा­व­य­व­मु­त्त­र­म­व­तार्य व्याचष्टे —
निचाय्यत्वादिति ।

सर्वगतस्य कथमेकदेशे द्रष्टव्यत्वं, तत्राह —
यथेति ।

तत्र शास्त्र­प्र­मा­ण्या­त्त­थास्तु, प्रस्तुते कथं, तत्राह —
तत्रेति ।

बुद्धि­वि­ज्ञा­न­मि­त्य­न्तः­क­र­णस्य प्रमाणजा वृत्तिरुक्ता । सर्वगतस्य कुतो हृदय एव मानग्राह्यत्वं, तत्राह —
सर्वेति ।

अपरिच्छिन्नस्य परि­च्छि­न्ना­य­त­न­त्वा­दि­व्य­प­देशं सौत्रोदाहरणेन साधयति —
व्योमवदिति ।
ब्रह्मापि हृदयापेक्षया द्विधो­क्ति­भा­गिति शेषः ।

दार्ष्टा­न्ति­क­मु­प­सं­ह­रति —
तदेवमिति ।

हृद­या­य­त­न­स्या­ता­त्त्वि­कत्वे चोद्यान्तरमपि निरस्तमित्याह —
तत्रेति ।
नहि परो­पा­धि­प­रि­च्छे­दा­द­नि­त्या­त्वादि युक्तं, व्योम्नोऽ­दृ­ष्टे­रिति भावः ॥ ७ ॥

हार्दत्वे ब्रह्म­णोऽ­नि­ष्ठ­प्र­स­ङ्गा­ज्जी­व­स्यैव हार्द­स्यो­पा­स्य­तेति शङ्कित्वा समाधत्ते —
सम्भोगेति ।

चोद्यं प्रपञ्चपयति —
व्योमवदिति ।

सर्व­बु­द्धि­स­म्ब­न्धेऽपि नभो­व­द­भो­ग­मा­श­ङ्क्यो­क्तम् —
चिदिति ।

तथापि भोग­हे­तु­स­म्ब­द्ध­स्यैव भोगो नेत­र­स्ये­त्या­श­ङ्क्याह —
एकत्वाच्चेति ।

तत्प्रपञ्चयति —
नहीति ।

अनिष्टप्रसङ्गं निगमयति —
तस्मादिति ।

उत्तरमादत्ते —
नेति ।

यत्तु बुद्धिस्थत्वे सति चैत­न्या­द्ब्र­ह्मणो भोक्तृत्वं जीववदिति, तत्राह —
न तावदिति ।

हेतुं विवृणोति —
विशेषो हीति ।
धर्मा­ध­र्म­व­त्त्व­स्यैव भोग­प्र­यो­ज­क­त्वा­द­प्र­यो­जको हेतुरित्यर्थः ।

उक्त­वै­शे­ष्य­फ­ल­माह —
एतस्मादिति ।

साध­न­व्या­प्ति­मा­शङ्क्य ‘अन्यत्र धर्मात्’ इत्या­दि­श्रु­ति­वि­रो­धा­न्मै­व­मि­त्याह —
यदि चेति ।

किञ्च जीवा विभवो बहवश्चेति स्थिता­वे­क­स्मि­न्दे­ह­देशे सर्व­सं­नि­ध्य­वि­शे­षा­त्तुल्यो भोगः स्यान्न चेन्नैकस्यापि । स्वकर्मार्जिते देहे भोगो नान्यत्रेति चेद्द्वयमपि तथै­वा­भि­द­धी­म­ही­त्याह —
सर्वेति ।

ब्रह्मणो भोक्त्र­भि­न्न­त्वा­द्भो­क्तृ­ते­त्यु­क्त­म­नु­भा­षते —
यदपीति ।

तत्र प्रति­ज्ञै­वा­यु­क्ते­त्याह —
अत्रेति ।

तदयुक्तिं वक्तुं पृच्छति —
इदमिति ।

किमेकत्वमज्ञातं ज्ञातं वा । आद्ये हेत्वसिद्धिः । द्वितीये तद्धीर्मदुक्तेः शास्त्राद्वेति प्रश्नमेव प्रकटयति —
कथमिति ।

अन्त्यमादत्ते —
तत्त्वमिति ।

शास्त्रानुसरणे तद­ति­क्र­म­ण­म­यु­क्त­मि­त्याह —
यथेति ।

नहि कुक्कु­टा­दे­रे­क­देशो भोगाय पच्यत एकदेशस्तु प्रसवाय कल्प्यते, विरोधादित्याह —
नेति ।

ऐक्यं बोधयदपि शास्त्रं न संसारं वारयति । तत्क­थ­म­र्ध­ज­र­ती­य­प्र­स­क्ति­रि­त्या­श­ङ्क्याह —
शास्त्रं चेति ।
संसारिणो ब्रह्म­णै­क्य­बो­ध­ना­यो­गा­ज्जी­वस्य संसा­रि­त्व­नि­रा­स­द्वारा शास्त्रमैक्यं बोधयति, अशोधितपदार्थस्य वाक्या­र्थ­ज्ञा­ना­भा­वा­दि­त्यर्थः ।

त्वदुक्तेरैक्यं ज्ञातं न शास्त्रादिति द्विती­य­मु­त्था­प­यति —
अथेति ।

तत्र वास्तवे भोक्तृत्वे साध्ये साध्यवैकल्यं, अवास्तवे सिद्धसाध्यतेति मत्वाह —
तदेति ।

तदेव दृष्टान्तेनाह —
नहीति ।

तत्र सूत्रभागमवतार्य योजयति —
तदाहेति ।

तयोर्विशेषेऽपि कथं ब्रह्मणि वस्तुतो भोगाभावः, तत्राह —
नचेति ।

हेतु­द्व­य­नि­रा­स­मु­प­सं­ह­रति —
तस्मान्नेति ।
मनो­म­य­त्वा­दि­वि­शि­ष्ट­स्यै­वे­श्व­रस्य ध्यानार्थं हार्दत्वेऽपि निर्दो­ष­त्वा­त्त­स्मि­न्नेव शाण्डि­ल्य­वि­द्या­वेद्ये ‘सर्वम्’ इत्यादिवाक्यं सम­न्वि­त­मि­त्यर्थः ॥ ८ ॥

ईश्व­र­स्या­भो­क्तृत्वे नात्तृ­त्व­म­पी­त्या­श­ङ्क्याह —
अत्तेति ।

उदाहरति —
कठेति ।
यस्य परस्यात्मनो ब्रह्म च क्षत्रं चोभे जाती प्रसि­द्धा­न्न­व­दो­दनौ भवतः, यस्य मृत्युः सर्वमारकः सन्नु­प­से­च­न­मो­द­न­मि­श्र­घृ­त­व­त्ति­ष्ठति, यत्र सोऽत्ता कारणात्मा वर्तते, तं निर्वि­शे­ष­मा­त्मानं ‘नाविरतो दुश्चरितात्’ इति­म­न्त्रो­क्तो­पा­य­वा­न्यथा वेदे­त्थ­म­न्य­स्त­द्र­हितो न वेदेत्यर्थः ।

अत्तु­र­त्रा­श्र­व­णान्न सूत्रा­नु­सा­रि­ते­त्या­श­ङ्क्याह —
अत्रेति ।

सिद्धेऽत्तरि विचारमूलं संशयमाह —
तत्रेति ।

विशे­षा­न­व­धा­र­णोत्थः संशयस्त्रिष्वेव कथं नियम्यते, तत्राह —
त्रयाणामिति ।
‘स त्वमग्निम्’ इत्यादिरग्नेः, ‘येयं प्रेते विचिकित्सा’ इत्या­दि­र्जी­वस्य, ‘अन्यत्र धर्मात्’ इत्या­दि­र्ब्र­ह्मणः प्रश्नः । प्रतिवचनमपि ‘लोकादिमग्निम्’ इत्याद्यग्नेः, ‘हन्त त इदम् ‘ इत्यादीतरयोरेवं त्रयाणामेव तयो­रि­हो­प­ल­ब्धे­स्त्रि­ष्त्रेव संशयः, विशे­षा­नु­प­ल­ब्धे­रि­त्यर्थः ।

पठि­त­क­ठ­श्रु­ते­र्नि­र्वि­शे­ष­ब्र­ह्मणि समन्वयोक्त्या श्रुत्या­दि­स­ङ्गतिं गृहीत्वा पूर्वपक्षयति —
किं तावदिति ।
पूर्व­प­क्षेऽ­ग्ने­र्जी­वस्य वोपास्तिः, सिद्धान्ते निर्वि­शे­ष­व­स्तु­धी­रिति फलम् ।

विशेषेऽनवधृते कुतोऽ­व­धृ­ति­रि­त्याह —
कुत इति ।

'अग्नि­र­न्ना­दोऽ­न्न­पतिः’ इति श्रुतेः, अग्ने­र­न्ना­द­त्व­प्र­सि­द्धेश्च विशेषधीरित्याह —
अग्निरिति ।

अग्न्य­धि­का­र­म­ति­क्र­म्या­ध्या­त्मा­धि­कारे तदुक्त्ययोगात् , ओदनशब्दस्य च भोग्य­त्व­गु­णा­द्ब्र­ह्म­क्ष­त्र­वृ­त्ते­र्भो­क्तृ­ग­म­क­त्वात् , अग्नेश्च संहर्तृत्वेऽपि भोक्तृ­त्वा­भा­वा­न्ना­ग्न्यु­पा­स्ति­रि­हे­त्य­प­रि­तो­षा­दाह —
जीवो वेति ।
ओदनशब्देन कर्म­फ­लो­क्ते­र्मृ­त्यु­श­ब्दस्य तदनुगुणत्वात् ‘न जायते’ इत्यादेश्च जीवे योगा­त्त­दु­पा­स्ति­र­त्रेति भावः ।

ओदनशब्देन ब्रह्म­क्ष­त्त्र­वृ­त्तिना जग­ल्ल­क्ष­णा­त्त­त्सं­ह­र्तृ­त्वस्य पर­स्मि­न्प्र­सि­द्धे­स्त­द्धी­रे­वा­त्रे­ष्टे­त्या­श­ङ्क्याह —
नेति ।
श्रुति­ल­क्ष­णा­वि­षये श्रुते­र्न्या­य्य­त्वा­दो­द­न­श­ब्दस्य भोग्यार्थत्वात् , ब्रह्म­क्ष­त्र­योश्च भोग्यत्वात् , भोक्तृत्वस्य पर­स्मि­न्वा­रि­त­त्वान्न तत्परतेत्यर्थः ।

पूर्वपक्षमनूद्य सिद्धन्तयति —
एवमिति ।

साधिते जीवपक्षे परस्मिन्को हेतुरिति पृच्छति —
कुत इति ।

हेतुमुक्त्वा व्याचष्टे —
चरेति ।

तद­त्तृ­त्व­स्या­न्य­था­सिद्धिं निराह —
तादृशस्येति ।

हेतोः पक्षधर्मतामाह —
परमेति ।

ब्रह्म­क्ष­त्त्र­यो­रेव मृत्यू­प­से­च­न­यो­रत्र दृष्टेरसिद्धो हेतुरिति शङ्कते —
नन्विति ।

ओदनशब्देन ब्रह्म­क्ष­त्त्र­वृ­त्तिना मृत्यू­प­से­च­न­सं­नि­धा­ना­दो­द­नस्थं नाश्य­त्व­मा­श्रित्य ब्रह्म­क्ष­त्त्र­श­ब्दाभ्यां जगल्लक्ष्यते, तेन तन्ना­श­क­त्व­लि­ङ्गा­द्ब्र­ह्मात्र भातीत्याह —
नैष इति ।

निषेधश्रुत्या परस्य नात्तृ­ते­त्यु­क्त­म­नूद्य तस्य गतिमाह —
यत्त्विति ।
तयोरित्यादिना कर्मफलभोगस्य पूर्वोक्तं संनिहितत्वम् ।

अविशेषेण विका­र­सं­हा­र­स्यापि किमित्येतन्न निषेधकं, सर्व­वे­दा­न्त­वि­रो­धा­दि­त्याह —
नेत्यादिना ।

लैङ्गि­क­म­र्थ­मु­प­सं­ह­रति —
तस्मादिति ॥ ९ ॥

पर­मा­त्मै­वा­त्ते­त्यत्र मानान्तरमाह —
प्रकरणाच्चेति ।

सूत्रं व्याचष्टे —
इतश्चेति ।

प्रकृ­त­त्व­म­प्र­यो­ज­क­मि­त्या­श­ङ्क्यो­क्तम् —
प्रकृतेति ।
न्याय्यम् । अप्र­कृ­त­ग्र­हा­दिति शेषः ।

इतश्च पर­मा­त्मै­वा­त्ते­त्याह —
क इति ।
‘यस्य’ इत्यादि वाक्यं ज्ञेये परमात्मनि मायाद्वारा सर्व­सं­ह­र्त­र्य­न्वि­त­मि­त्यर्थः ॥ १० ॥

पूर्वो­दा­हृ­ता­न्त­र­म­न्त्रा­र्थ­नि­र्ण­या­र्थ­माह —
गुहामिति ।

सङ्गतिं वदन्विषयमाह —
कठेति ।
ऋतं सत्यमावश्यकं कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य लोके सम्य­ग­र्जि­त­स्या­दृ­ष्टस्य कार्ये देहे वर्तमानौ, परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं तस्मिन्परमे श्रेष्ठे या गुहा नभोलक्षणा तां प्रविश्य स्थितौ, छायातपवन्मिथो विरुद्धौ, तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्ना­चि­के­तोऽ­ग्नि­श्चितौ यैस्ते त्रिणाचिकेताः, तेऽपि वदन्तीत्यर्थः ।

बुद्ध्य­व­च्छि­न्नस्य जीवस्य परस्य च प्रकृ­त­त्वा­दृ­त­पा­न­क­र्तृ­त्वस्य जीवेन सह बुद्धेरिव परस्यापि छत्रिन्यायेन लाक्ष­णि­क­त्वा­वि­शे­षाच्च संशयमाह —
तत्रेति ।

वाक्यभेदशङ्कां परि­ह­र­न्पू­र्व­पक्षे फलमाह —
यदीति ।

प्रकृतं प्रतिपाद्यं कुतो जीवस्तथेति, तत्राह —
तदपीति ।
जीवतत्त्वं तदर्थः । प्रकरणं सप्तम्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः पर­लो­क­भो­क्ता­स्ती­त्येके नास्तीति चान्ये त्वयो­प­दि­ष्टोऽ­ह­मे­त­त्तत्त्वं ज्ञातु­मि­च्छा­मी­त्यर्थः । वराणां पितुः सौम­न­स्य­म­ग्नि­वि­द्या­त्म­वि­द्ये­त्ये­ते­षा­मिति निर्धारणे षष्ठी ।

सिद्धन्तेऽपि वाक्यभेदं वारयन्फलमाह —
अथेत्यादिना ।

जीवविलक्षणस्य ब्रह्म­णोऽ­प्र­कृ­त­त्वा­त्कथं प्रति­पा­द्य­ते­त्या­श­ङ्क्याह —
तदपीति ।

परमात्मस्वरूपं तदित्युक्तम् —
अन्यत्रेति ।
अन्यदिति यावत् । कृता­कृ­ता­त्का­र­णा­त्का­र्या­च्चे­त्यर्थः । चकाराभ्यां भवतो ग्रहणम् ।

उभ­यो­र्भो­क्तृ­त्वा­यो­गेन संशयमाक्षिपति —
अत्रेति ।

प्रकृ­त­त्वा­त्त­दु­प­पत्तौ तदसम्भावना नास्तीत्याह —
कस्मादिति ।

पक्ष­यो­र­स­म्भा­वनां वक्तु­मृ­त­पा­न­श­ब्दा­र्थ­माह —
ऋतेति ।

तत्क­र्त्रो­र्दे­ह­यो­ग­दृ­ष्टे­रिति हेतुमाह —
सुकृतस्येति ।

तथापि कथं पक्ष­यो­र­नु­प­प­त्ति­रि­त्या­शङ्क्य पूर्व­प­क्षा­नु­प­प­त्ति­माह —
तच्चेतनस्येति ।

अस्तु जीवस्यैव चेत­ना­त्वा­दृ­त­पानं मा वाऽचेतनाया बुद्धे­र्भू­त्त­थापि का क्षतिः, तत्राह —
पिबन्ताविति ।

जीवस्यैव पातृत्वं न बुद्धेरिति स्थिते फलितमाह —
अत इति ।

द्वयोरुक्तं पानायोगं हेतूकृत्य सिद्धान्तयोगमाह —
अत एवेति ।

बुद्धे­र­चै­त­न्या­त्पा­ना­यो­गेऽपि परस्य चैत­न्या­त्त­द्यो­ग­मा­श­ङ्क्याह —
चेतनेऽपीति ।

संश­या­यो­गा­द­धि­क­र­णा­क्षे­प­म­नूद्य परिहरति —
अत्रेति ।

किं पक्षद्वयं कथञ्चिदपि नोपपद्यते किंवा कथञ्चिद्योगेऽपि सम्य­क्प­क्षा­न्त­र­मस्ति । नाद्य इत्याह —
नैष इति ।

सिद्धा­न्तो­प­पत्तिं विधान्तरेणाह —
यद्वेति ।

तथापि कथं पिबन्ताविति द्विवचनं, तत्राह —
पाययन्निति ।

प्रधानकर्तरि प्रयोगो गुणकर्तरि कथ­मि­त्या­श­ङ्क्याह —
पाचयितरीति ।
यः कारयति स करोत्येवेति न्यायादित्यर्थः ।

पूर्वपक्षेऽपि द्विव­च­नो­प­प­त्ति­माह —
बुद्धीति ।
सम्भवति द्विवचनमिति शेषः ।

कर्तरि यो व्यपदेशः स कथं करणे स्यात् , तत्राह —
एधांसीति ।

कथञ्चिदुपपत्तिं पक्षयोरुक्त्वा द्वितीयं निराह —
नचेति ।

पक्षद्वयं सम्भा­व्या­धि­क­र­णा­र­म्भ­मु­प­सं­ह­रति —
तस्मादिति ।

ब्रह्म­क्ष­त्त्र­श­ब्दस्य संनि­हि­त­मृ­त्यु­प­दा­द­नि­त्य­व­स्तु­प­र­त्व­व­दि­हापि पिबच्छब्दस्य संनि­हि­त­गु­हा­प्र­वे­शा­दिना बुद्धि­क्षे­त्र­ज्ञ­प­र­तेति विमृश्य पूर्वपक्षयति —
किं तावदिति ।
ऋतमिति श्रुते­नि­र्वि­शेषे ब्रह्म­ण्य­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः ।

परस्यापि प्रकृ­त­त्वा­ज्जी­वा­द्द्वि­ती­यत्वं किं न स्यादित्याह —
कुत इति ।

सूत्रा­व­य­वे­नो­त्त­रम् —
गुहामिति ।

हेतुमेव स्फुटयति —
यदीति ।

जीवाद्द्वितीयं ब्रह्मैव गुहां प्रविष्टं ‘यो वेद निहितं गुहायाम् ‘ इति श्रुते­रि­त्या­श­ङ्क्याह —
नचेति ।

इतश्च न ब्रह्म गुहां प्रविष्टमित्याह —
सुकृतस्येति ।

ब्रह्मणोऽपि सुकृ­त­लो­क­व­र्ति­त्व­मा­श­ङ्क्याह —
परमात्मेति ।

पूर्वपक्षे हेत्वन्तरमाह —
छायेति ।

बु्द्धेर्द्वि­ती­य­जी­व­ज्ञा­नार्थं वाक्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।

सिद्धा­न्त­सू­त्र­मा­दा­या­त्मा­ना­विति प्रतिज्ञां व्याकरोति —
एवमिति ।
इहेति प्रकृ­त­म­न्त्रोक्तिः ।

पूर्णतया प्रवेशानर्हं ब्रह्म कुतोऽद्वितीयं जीवस्येत्याह —
कस्मादिति ।

हीत्युक्तं हेतुमाह —
आत्मानौ हीति ।
चेतनत्वेन समन्वयाज्जीवे पातरि सिद्धे द्वितीयत्वेन परस्यादानं युक्तमित्यर्थः ।

तत्र किं निया­म­क­मि­त्या­शङ्क्य तद्दर्शनादिति व्याचष्टे —
सङ्ख्येति ।

लौकिकीं दृष्टिमेव दृष्टान्तेनाह —
अस्येति ।

एकस्य चेतनत्वे द्वितीयस्यापि तद्धीः, तदे­वा­सि­द्ध­मि­त्या­श­ङ्क्याह —
तदिति ।
तत्तत्रेत्थं लौकिकदर्शने सतीति यावत् । इहेति वाक्योक्तिः ।

सम्प्रतिपन्नां जातिमुपजीव्य निर्वि­शे­षा­न्त­र­ग्रहे बुद्धि­ला­घ­वा­द्वि­जा­ती­य­ग्रहे तद्गौ­र­वा­त्प­र­मा­त्मैव द्वितीयो जीवस्येति सूचयति —
समानेति ।

कारकत्वेन बुद्धेरपि जीव­सा­म्य­मा­शङ्क्य तस्य बहि­र­ङ्ग्त्वा­च्चे­त­नस्य स्वभा­व­त्वे­ना­न्त­र­ङ्ग­त्वा­न्मै­व­मि­त्याह —
चेतन इति ।

बहिरङ्गमपि कारकत्वमेव ग्राह्यं, गुहा­हि­त­त्व­लि­ङ्गा­दिति शङ्कते —
नन्विति ।

तत्रापि तद्द­र्श­ना­दि­त्यु­त्त­र­माह —
गुहेति ।

तदेव स्फुटयति —
गुहेत्यादिना ।
पर­स्मि­न्गु­हा­हि­त­त्वो­क्ते­स्ता­त्पर्यं वक्तु­म­स­कृ­दि­त्यु­क्तम् । गुहायां बुद्धावाहितं निक्षिप्तं गह्वरे बहु­वि­धा­न­र्थ­स­ङ्कटे देहे स्थितं पुराणं चिरन्तनं परं विदित्वा हर्षादि जहातीति सम्बन्धः । परमे बाह्या­का­शा­पे­क्षया प्रकृष्टे व्योम­न्य­न्तः­क­र­णा­व­च्छिन्ने भूताकाशे निहितं परं यो वेद सोऽश्नुते सर्वान्कामानिति सम्बन्धः । अन्विच्छ विचार्य निर्धा­र­ये­त्यर्थः । प्रवे­श­वा­क्य­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

यत्तु सर्वगतस्य ब्रह्मणो न विशिष्टदेशतेति, तत्राह —
सर्वेति ।

यत्तु परस्य न सुकृ­त­लो­क­व­र्ति­तेति, तत्राह —
सुकृतेति ।

यदपि छायातपाविति चेत­ना­चे­त­नो­क्ति­रिति, तत्राह —
छायेति ।

तद्वैलक्षण्ये तद्वतोरपि तत्सिद्धिरिति हेतुं साधयति —
अविद्येति ।

प्रथ­म­श्रु­त­चे­त­न­त्व­व­शा­च्च­र­म­श्रुतं गुहाप्रवेशादि नेय­मि­त्यु­प­सं­ह­रति —
तस्मादिति ॥ ११ ॥

धर्मविशिष्टतया विलक्षणग्रहे बुद्धिरेव स्वतो विलक्षणा ग्राह्येति मन्वानो हेत्वन्तरं पृच्छति —
कुतश्चेति ।

पर­मा­त्मा­सा­धा­र­ण­लि­ङ्ग­परं सूत्रं व्याचष्टे —
विशेषणं चेति ।
न बुद्धि­जी­व­यो­रि­त्ये­व­का­रार्थः ।

जीवविशेषणं विशदयति —
आत्मानमिति ।

रथित्वकल्पनाफलं सूच्यते —
संसारेति ।

परस्य विशेषणमाह —
स इति ।
जीवः सर्वनामार्थः । अध्वनः संसारमार्गस्य ।

पारमेव विशिनष्टि —
तदिति ।
व्यापनशीलस्य ब्रह्मणः स्वरूपं तदित्यर्थः । परमं कार्यकारणातीतं पदं तदेव ज्ञेयं नान्यदित्यर्थः ।

किञ्चो­त्त­र­वा­क्य­व­त्पू­र्व­मपि जीवेश्वरयोरेव विशे­ष­णा­दृ­त­पा­न­वाक्ये जीव­द्वि­ती­य­त्व­मी­श­स्यै­वे­त्याह —
तथेति ।
दुर्दर्शं सूक्ष्म­त्वा­द्दु­र्ज्ञानं तत एव गूढमनुप्रविष्टं गहनतां गतमीश्वरं, अध्यात्मयोगः प्रत्य­गा­त्म­न्येव चित्तसमाधानं तत्स­ह­कृ­ता­द्वा­क्या­द­धि­गमो ब्रह्मा­त्मै­क्य­व्य­ञ्ज­क­चि­त्त­वृ­त्ति­वि­शे­ष­स्ते­ना­ह­मे­वेति निश्चित्य धीरो विद्वा­न्ह­र्षा­द्यु­प­ल­क्षितं संसारं त्यजतीत्यर्थः ।

चका­र­सू­चि­त­म­र्थ­माह —
प्रकरणं चेति ।
नच पृष्ट­त्वा­वि­शे­षा­ज्जी­व­स्या­पीदं प्रकरणं, तस्य ब्रह्मत्वेन प्रति­पा­द्य­त्वा­द­वि­रो­धा­दिति भावः ।

जीवद्वितीयत्वं परस्यैवेत्यत्र हेत्वन्तरमाह —
ब्रह्मेति ।

ब्रह्मपक्षे हेतुबाहुल्यात् ‘ऋतं पिबन्तौ’ इत्यत्र जीवानुवादेन तदतिरिक्तो वाक्या­र्था­न्व­यि­त­द­र्थ­शो­ध­नाय परात्मा प्रतिपाद्यत इत्युपसंहरति —
तस्मदिति ।

उक्त­न्या­य­म­न्यत्र सञ्चारयति —
एष इति ।
‘द्वा सुपर्णा’ इत्यादौ सर्वत्र द्विव­च­न­स्या­का­र­श्छा­न्दसः । द्वौ सुपर्णाविव सहैव युज्येते निय­म्य­नि­या­म­क­त्वे­नेति सयुजौ, सखायौ चेतनत्वेन समानस्वभावौ, समानं नियम्यत्वेन तुल्यं वृक्षं छेदनयोग्यं शरीरं, परिषस्वजाते समा­श्रि­ता­वि­त्यर्थः ।

पक्षिणौ कौचिदत्र प्रतीयेते न जीवेशौ ततो नेदमुदाहरणं, तत्राह —
तत्रेति ।
तदनेन ‘गुहां प्रविष्टौ’ इति व्याख्यातम् ।

आत्मानौ हीति व्याचष्टे —
तयोरिति ।
तद्द­र्श­ना­दि­त्यु­भ­यो­र्लि­ङ्ग­द­र्श­ना­दिति व्याख्येयम् ।

विशेषणाच्चेति व्याकरोति —
अनन्तरे चेति ।
आत्मे­श्व­र­यो­स्तुल्यो वृक्षो देह­स्त­स्मि­ञ्जीवो मनु­ष्योऽ­ह­मि­त्य­भि­नि­वे­श­वा­न­नी­श­याऽ­वि­द्यया मुह्य­मा­न­स्त­त्त्व­म­जा­न­न्न­निशं शोचति संसारमनुभवति । जुष्टं ध्यानादिना सेवितं यदा तत्प्र­क­र्ष­द­शा­या­मन्यं बिम्ब­भू­त­मी­श­श­ब्द­लक्ष्यं प्रत्यक्त्वेन पश्यति तदा­स्यै­वा­त्म­त्वेन दृष्टस्य महिमानं स्वरूपं प्राप्नोति । ततश्च वीतशोको विगतसंसारो भवति, तत्र हेतु­रि­ति­श­ब्दे­नोक्तः, बन्ध­हे­त्व­वि­द्या­दे­र्ज्ञा­ना­ग्निना दग्ध­त्वा­दि­त्यर्थः । नचात्र जीवोक्तौ ‘अनश्नन् ‘ इत्ययोगात् , बुद्धिग्रहे च ‘अभिचाकशीति ‘ इत्य­स­म्भ­वा­त्पू­र्व­प­क्षा­सिद्धिः, करणे कर्तृ­त्वो­प­चा­रा­द­भि­चा­क­शी­तीति बुद्धावपि सिद्धत्वात् , जीवे चैत­न्य­मा­त्रा­द­न­श­न­स­म्भ­वात् , मुख्ये कर्तृत्वे सम्भवति कर्तृत्वोपचारो नेति सिद्धा­न्ता­भि­प्रायः ।

कृत्वाचिन्तया ‘द्वा सुपर्णो ‘ इत्या­दे­रे­त­द­धि­क­र­णो­दा­ह­र­ण­त्व­मुक्त्वा कृत्वा­चि­न्ता­मु­द्धा­ट­यति —
अपर इति ।
अन्यथा सिद्धा­न्ता­न­नु­गु­ण­त्वे­नेति यावत् । सत्त्वमिति बुद्धिरुक्ता ।

सिद्धान्तार्थ व्याचष्टे ब्राह्मणमिति शङ्कते —
सत्वेति ।

प्रसिद्ध्या प्रत्याह —
तन्नेति ।

ब्राह्म­ण­वि­रो­धाच्च न तदन्यथा व्याख्ये­य­मि­त्याह —
तत्रैवेति ।
प्रकृतं ब्राह्मणं सप्तम्यर्थः । सत्त्व­व्या­ख्या­ना­न­न्त­र्य­म­थ­श­ब्दार्थः । सत्त्वस्य कर­ण­त्वा­त्क्षे­त्र­ज्ञस्य कर्तृत्वान्न तयो­रै­क्य­मि­त्यर्थः । तावेतौ करणत्वेन कर्तृत्वेन च भिन्नावित्यर्थः ।

सिद्धा­न्ता­भ­ज­नेऽपि पूर्वपक्षमृगेषा भजे­ते­त्या­श­ङ्क्याह —
नापीति ।

द्वितीयस्य ब्रह्मरूपेणैव प्रतिपादनादिति हेतुमाह —
न हीति ।
अत्रेति मन्त्र­ब्रा­ह्म­णोक्तिः ।

नचायं वाक्यार्थो न युक्तः, श्रुति­स्मृ­ति­सि­द्ध­त्वा­दि­त्याह —
तत्त्वमिति ।

इतश्च जीवस्य ब्रह्म­त्व­दृ­ष्टि­र­त्रे­ष्टे­त्याह —
तावतेति ।
मन्त्र­व्या­ख्या­मा­त्रेण विद्यो­प­सं­हा­र­द­र्शनं जीवस्य ब्रह्मत्वोपदेशे घटते न सत्त्व­क्षे­त्र­ज्ञ­वि­वे­क­मा­त्रेण, भेदधियो मिथ्या­धी­त्वा­दि­त्यर्थः ।

अवि­द्या­ध्व­स्ति­फ­लो­क्ति­रपि ब्रह्मा­त्म­ता­ज्ञा­न­मिह गमयतीत्याह —
न हेति ।

जीवस्य ब्रह्म­त्वो­क्ति­प­र­मिदं वाक्यमित्यत्र शङ्कते —
कथमिति ।

बुद्धे­र्भो­क्तृ­त्वो­क्ता­व­ता­त्प­र्यान्न तत्रो­प­प­त्ति­र­न्वे­ष्ये­त्याह —
उच्यत इति ।

क्व तर्हि श्रुते­स्ता­त्पर्यं, तत्राह —
किं तर्हीति ।
इतिपदं प्रवृ­त्ते­ति­पू­र्वेण सम्बध्यते ।

का तर्हि बुद्धे­र्भो­क्तृ­त्व­धियो गतिः, तत्राह —
तदर्थमिति ।
जीवस्य ब्रह्म­त्व­सि­द्ध्य­र्थ­मिति यावत् ।

चैत­न्य­च्छा­या­पन्ना धीः सुखादिना परिणमते, तत्र पुरुषोऽपि भोक्तृ­त्व­मि­वा­नु­भ­वति न तत्त्वत इति वक्तु­म­ध्या­रो­प­य­ती­त्यु­क्तम् । कुत्रत्यं भोक्तृत्वं बुद्धावारोप्यते तत्राह —
इदं हीति ।

नहि भ्रान्ते­र­भ्रा­न्ति­पू­र्व­कत्वं दण्डस्याप्सु वक्र­ता­व­दि­त्यु­क्तम् —
पर­मा­र्थ­त­स्त्विति ।

सत्त्वस्य वस्तुतो भोक्तृत्वाभावे हेत्वन्तरम् —
अविद्येति ।

मिथ्या­भो­क्तृत्वे मानमाह —
तथाचेति ।
यत्र यस्या­म­वि­द्या­व­स्था­याम् । वैशब्दो निश्चयार्थः । अन्यदिवाभासभूतं नानात्वं दृष्टं स्यात् , तत्र आवि­द्य­क­बु­द्ध्या­दि­स­म्ब­न्धा­दन्यो भूत्वाऽ­न्य­च्च­क्षुषा पश्येदन्यच्च श्रोत्रेण शृणुयादित्यर्थः ।

उक्त­वा­क्य­ता­त्प­र्य­माह —
स्वप्नेति ।

वस्तुतो भोक्तृत्वाभावे श्रुतिमाह —
यत्र त्विति ।
यस्यां विद्या­व­स्था­या­मस्य विदुषः सर्वं पूर्णं ब्रह्मै­वा­भू­त्त­त्रा­वि­द्या­क्षये भेद­भ्र­मा­भा­वा­दा­र­ब्ध­क­र्मणा कार्य­क­र­ण­व्या­पा­रेऽपि स्वग­त­व्या­पा­रा­न­भि­मा­ना­त्केन करणेन कः कर्ता पश्ये­दि­त्या­क्षेपः ।

अनेनापि वाक्येन श्रुत्यु­क्त­म­र्थ­माह —
विवेकिन इति ।
एवं जीवस्य भोक्तृ­त्वा­दे­र्मि­थ्या­त्वा­त्त­द­पो­हेन तस्य ब्रह्मतामाह पैङ्गि­ब्रा­ह्म­ण­मिति । पूर्वो­त्त­र­प­क्षा­न­नु­गु­ण­त्वा­द­नु­दा­ह­र­ण­त्वेऽपि कृत्वाचिन्तया ‘द्वा सुपर्णा’ इत्या­दी­हो­दा­हृ­तम् । तच्चाप्रपञ्चे पत्य­ग्ब्र­ह्म­ण्य­न्वि­तम् । ‘ऋतं पिबन्तौ ‘ इति तु जीवद्वितीये परस्मिन्निति स्थितम् ॥ १२ ॥

‘पिबन्तौ’ इति द्वित्वश्रुत्या चेतनत्वेन तुल्य­जी­व­प­र­दृ­ष्ट्य­नु­सा­रा­च्च­र­म­श्रुता गुहाप्रवेशादयो नीताः । तर्हि ‘दृश्यते’ इति प्रत्य­क्ष­त्वोक्त्या छाया­त्म­ग­त्य­नु­रो­धा­द­मृ­त­त्वा­दयः स्तुत्या कथञ्चिन्नेया इत्याशङ्क्याह —
अन्तर इति ।

उप­को­स­ल­वि­द्या­वा­क्य­मु­दा­ह­रति —
य इति ।

छायां निरसितुं विशिनष्टि —
एतदिति ।
क्रिया­प­दे­ने­ति­पदं सम्बध्यते ।

स्थानस्य ब्रह्मा­नु­रू­प्य­माह —
तदिति ।
वर्त्मनी पक्ष्मस्थाने । ‘एतं संयद्वाम’ इत्यादि ग्रहीतुमादिपदम् ।

दर्शनस्य लौकि­क­त्व­शा­स्त्री­य­त्वाभ्यां संशयमाह —
तत्रेति ।

तदु­क्ति­स­म्भा­व­नार्थं विशिनष्टि —
अक्षीति ।

देवतां सम्भावयितुम् —
इन्द्रियस्येति ।

आत्म­श­ब्दा­त्प­क्ष­द्व­य­माह —
अथेत्यादिना ।

प्रथ­म­श्रु­त­व­शा­च्च­र­म­श्रुतं नेयमिति पूर्वन्यायेन विमृश्य पूर्वपक्षमाह —
किमिति ।
उक्तश्रुतेः सविशेषे ब्रह्म­ण्य­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे छाया­त्मो­पास्तिः, ब्रह्मोपास्तिः सिद्धान्ते फलम् ।

अमृ­त­त्वा­दे­र­यो­गान्न छायात्मेति शङ्कते —
कुत इति ।

‘मनो ब्रह्म’ इत्या­दि­व­दि­ति­श­ब्द­शि­र­स्क­त्वेन वाक्य­स्या­वि­व­क्षि­ता­र्थत्वं मत्वाह —
तस्येति ।

तथापि कथं छायात्मनि वाम­नी­त्वा­दि­क­मि­त्या­शङ्क्य चाक्षु­ष­त्व­स्या­न्य­त्रा­यो­गा­दु­प­क्र­म­दृष्ट्या तदपि स्तुत्या नेयमित्याह —
य इति ।
प्रसि­द्ध­व­दु­प­दे­श­श्चा­क्षु­ष­त्वो­क्ति­रेव । चकारः शङ्कानिरासी ।

सम्भावनामात्रेण पक्षान्तरमाह —
विज्ञानेति ।

तस्य सर्व­दे­ह­सा­धा­र­ण्या­त्कु­तोऽ­क्षि­स्था­नत्वं, तत्राह —
स हीति ।

संनि­धि­मा­त्र­स्या­ति­प्र­स­ङ्गि­त्व­मा­शङ्क्य हेत्वन्तरमाह —
आत्मेति ।

सम्भावितं पक्षान्तरमाह —
आदित्येति ।

तस्य चक्षुषि विशेषसंनिधिं सूचयति —
चक्षुष इति ।

तस्य तस्मि­न्न­नु­ग्रा­ह­क­त्वेन संनिधौ मानमाह —
रश्मिभिरिति ।

‘एतदमृतम् ‘ इत्यादि कल्पद्वये कथं, तदाह —
अमृतत्वेति ।
जीव­प­क्ष­स­ङ्ग्र­हा­र्थोऽ­पि­शब्दः । कथ­ञ्चि­दि­त्यौ­प­चा­रि­कोक्तिः ।

तेषां मुख्य­त्वा­स­म्भ­वा­दी­श्वरो गृह्य­ता­मि­त्या­शङ्क्य प्रथ­म­दृ­ष्ट­लि­ङ्ग­वि­रो­धा­न्मै­व­मि­त्याह —
नेति ।

सुख­वि­शि­ष्ट­ब्र­ह्म­प्र­क­रणं नास्तीति कृत्वाचिन्तया प्राप्तं पक्षमनुभाष्य सिद्धा­न्त­मु­त्थाप्य प्रतिज्ञार्थमाह —
एवमिति ।

उक्तेषु पक्षान्तरेषु निय­मा­सि­द्धि­रि­त्याह —
कस्मादिति ।

हेतुमादाय व्याकरोति —
उपपत्तेरिति ।
इहे­त्य­क्षि­पु­रु­षोक्तिः ।

उपपत्तिमेव स्फोरयति —
आत्मत्वमिति ।

गौण­मु­ख्य­यो­र्मुख्ये संप्रत्ययन्यायं सूचयति —
मुख्ययेति ।

तत्रात्मत्वस्य मुख्यत्वे गमकमाह —
स इति ।

ईश्वरपक्षे हेत्वन्तरमाह —
अमृतत्वेति ।

ईश्वरपक्षे हेत्वन्तरमाह —
तथेति ।
अमृ­त­त्वा­दि­व­दि­त्यर्थः ।

आनुकूल्यमेव स्फोरयति —
यथेति ।
तत्तत्र लोके यद्यपि यदपि किञ्चि­द­स्मि­न्न­क्षिणि सर्पिर्घृतमुदकं वा सिञ्चति क्षिपति तत्सर्वं वर्त्मनी पक्ष्मस्थाने एव गच्छति तेन न लिप्यते चक्षुरित्यर्थः । इति ह स्मोपाध्यायो वद­ती­त्या­दा­वि­ति­श­ब्द­स्यो­क्ता­र्था­व­च्छे­दे­नो­क्ति­यो­गि­नोऽ­र्थ­प­र­त्व­दृष्टेः ‘इति होवाच’ इत्य­त्रा­पी­ति­श­ब्द­स्या­र्था­व­च्छे­दे­नो­क्ति­यो­गा­द­र्थ­प­र­त्व­दृष्टेः, आत्म­ब्र­ह्म­श्रु­तिभ्यां, अमृ­त­त्वा­दि­लि­ङ्गाच्च दृश्यत इति छायात्मलिङ्गं बाध्यमित्यर्थः ।

किञ्चो­प­क्र­म­स्थै­क­लि­ङ्गा­द्वा­क्य­शे­ष­स्था­ने­क­लि­ङ्गानि बलवन्ति, संवादस्य तात्प­र्य­हे­तु­त्वा­दि­त्याह —
संयदिति ।

कुतोऽस्य संयद्वामत्वं, तत्राह —
एतं हीति ।
वामानि कर्म­फ­ला­न्ये­त­म­क्षि­पु­रुषं हेतु­मा­श्रि­त्या­भि­सं­य­न्त्यु­त्प­द्यन्ते, सर्व­फ­लो­द­य­हे­तु­र­य­मि­त्यर्थः ।

वामनीरप्ययमेव पुमानित्याह —
एष इति ।

तदुपपादयति —
एष हीति ।
वामानि शोभनानि लोकं प्रापयति । लोकस्य सर्व­शु­भ­प्रा­प­कोऽ­य­मि­त्यर्थः ।

भाम­नी­र­प्य­य­मे­वे­त्याह —
एष इति ।
भामानि भानानि सर्वत्र नयतीति भामनीः । अयमेव प्रकाशकः सर्वत्रेत्यर्थः ।

तदेव स्फुटयति —
एष हीति ।

प्रथ­म­श्रु­त­स्यापि चर­म­श्रु­तै­र­ने­कै­र­न्य­थ­यि­त­व्य­त्व­मु­प­सं­ह­रति —
अत इति ॥ १३ ॥

पूर्वपक्षबीजं दूषयति —
स्थानादीति ।
स्थानान्यादयो येषां नामरूपाणां तेषां व्यपदेसान्न पर­स्या­क्षि­स्था­न­त्वा­नु­प­प­त्ति­रिति योजना ।

यादसामम्भोधिरिव स्थानिनः स्थानं महद्दृष्टमिति शङ्कते —
कथमिति ।

व्योम्नः सूची­पा­शा­दि­व­द­क्ष्या­दि­स्था­नत्वं महतोऽपि परस्य स्यादित्याह —
अत्रेति ।
एवंजातीयकशब्देन गुणजातं गृहीतम् ।

निर्गुणस्य गुण­स­म्ब­न्धो­क्ति­र­प्य­युक्ता, तत्क­थ­म­ने­क­दु­र्ध­ट­प्र­क­ट­न­मेव समा­दि­रि­त्या­श­ङ्क्याह —
निर्गुणमिति ।

चकारार्थमाह —
सर्वेति ॥ १४ ॥

प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —
सुखेति ।

हेत्वन्तरपरं सूत्रमिति स्फोरयितुं चकारार्थमाह —
अपिचेति ।

तदेव वक्तुं प्रतिजानीते —
नैवेति ।

विवा­द­स्या­का­र्यत्वे हेतुमाह —
सुखेति ।

ब्रह्मणो विशि­ष्ट­स्यो­प­क्र­म­स्थ­स्या­क्षि­वा­क्येऽपि निर्दे­शा­द­क्ष्या­धा­रस्य पुंसो ब्रह्म­ते­त्यु­क्त­मेव विवृणोति —
सुखेत्यादिना ।

प्रक्रा­न्त­त्वेऽपि ब्रह्म­णोऽ­क्षि­वाक्ये किं जातं, तदाह —
तदेवेति ।
प्रकृ­त­प­रि­ग्र­ह­स्या­क्षि­वाक्ये यच्छब्देनेति शेषः । दृश्यत इति लिङ्गो­प­नी­त­च्छा­या­त्मार्थो यच्छब्दः ।

लिङ्गस्य प्रक­र­णा­द्व­ली­य­स्त्वा­दि­त्या­शङ्क्य तथात्वे वाक्य­भे­दा­द्ग­ति­मा­त्रो­क्ति­शे­षा­च्चै­क­वा­क्य­त्वा­का­ङ्क्षायां तदा­पा­द­क­प्र­क­र­णस्य लिङ्गा­त्प्रा­ब­ल्या­त्प्र­कृतं ब्रह्मैव यच्छ­ब्दो­क्त­मि­त्याह —
आचार्यस्त्विति ।

उक्तं व्यक्तीकर्तुं शङ्कते —
कथमिति ।

तत्र ब्रह्मोक्तिं वक्तुमुपक्रमं दर्शयति —
उच्यत इति ।

प्राणस्य सूत्रात्मनो बृह­त्त्वा­द्युक्तं ब्रह्मत्वं कथं पुन­र­र्थे­न्द्रि­य­यो­गजं सुखं खं च भूताकाशं तद्ब्रह्मेति ज्ञातुं शक्यमित्याह —
एतदिति ।

शङ्कायामुत्तरम् —
तत्रेति ।

प्रत्येकं ब्रह्मत्वमजानतो मिथो वैशिष्ट्योक्तौ कथं धीरित्याशङ्क्य स्वंश­ब्द­स्ये­त­र­व्य­भि­चारे दोषमाह —
तत्र खमिति ।
प्रतीको नामा­श्र­या­न्त­र­प्र­त्य­य­स्या­श्र­या­न्तरे क्षेपः । नचायं तदुपदेशः, ‘अप्र­ती­का­ल­म्ब­ना­न्न­यति’ इति न्यायेन वक्ष्य­मा­ण­ग­ति­वि­रो­धा­दिति भावः ।

कंश­ब्द­स्या­पी­त­र­व्य­भि­चारे दोषमाह —
तथेति ।
क्षयिता पारतन्त्र्यादि वामयः । नच तस्मि­न्ब्र­ह्म­दृष्टिः, उक्त­न्या­या­दि­त्यर्थः ।

व्यतिरेके दोष­मु­क्त्वो­भ­य­ग्रहे गुणमाह —
इतरेतरेति ।
अर्थ­यो­र्वि­शे­षि­त­त्वेन शब्दावपि विशेषितावुक्तौ । कंशब्देन विशेषितो हि खंशब्दो भूताकाशं त्यक्त्वा तद्गु­ण­यो­गा­द्ब्र­ह्मणि वर्तते । किमपि खेन विशेषितं निरामयं भवति । तथाच यथोक्तौ शब्दा­व­न­व­च्छि­न्न­सु­ख­गु­णकं ब्रह्म गमयित्वा चरि­ता­र्था­वि­त्यर्थः ।

एकस्यैव ब्रह्मणो ध्योय­त्वा­द्ब्र­ह्म­प­दा­भ्यासो वृथे­त्या­श­ङ्क्याह —
तत्रेति ।
विशेषणत्वेन, आका­श­वि­शे­ष­णा­र्प­क­त्वे­नेति यावत् । उपरि प्रयो­गा­द्ब्र­ह्म­पदं शिरो ययोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्म­शि­र­स्त्वम् ।

सुख­स्या­ध्ये­य­त्व­मे­वास्तु को दोष इत्याशङ्क्याह —
इष्टं हीति ।
मार्गोक्त्या सगु­ण­वि­द्या­त्व­दृ­ष्टे­रि­त्यर्थः ।

ब्रह्मणः प्रक्रा­न्त­त्व­मु­क्त्वो­प­सं­ह­रति —
तदेवमिति ।

तत्रैव हेत्वन्तरमाह —
प्रत्येकं चेति ।
उपकोसलं गार्ह­प­त्योऽ­नु­श­शास, पृथि­व्य­ग्नि­र­न्न­मा­दित्य इतीमां मे चतस्रस्तनवः ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि’ इति । अन्वा­हा­र्य­प­च­नोऽपि तदनुशासनमकरोत्, अापो दिशो नक्षत्राणि चन्द्रमा इति मे तनवः 'य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि' इति। अाहवनीयोऽपि तदनुशासनं कृतवान् , प्राण आकाशो द्यौर्वि­द्यु­दिति मम तनवः ‘य एष विद्युति पुरुषः सोऽहमस्मि’ इति । एवमेते प्रत्येकमग्नयः स्वं स्वं महिमानं विभूतिं पृथि­व्या­दि­वि­स्ता­र­मु­क्त्वैषा सोम्य ते तुभ्यं प्रत्ये­क­मु­क्ता­स्मा­द्वि­द्याऽ­ग्नि­वि­षया । पूर्वं च सम्भूय ‘प्रणो ब्रह्म’ इत्या­दि­ना­त्म­वि­द्यो­क्ता­स्मा­भि­रि­त्यु­प­सं­ह­रन्तो ब्रह्मोपक्रमं दर्श­य­न्ती­त्यर्थः ।

अग्निवाक्ये ब्रह्मोक्तमपि किमि­त्या­चा­र्य­वा­क्येऽ­नु­व­र्तते, वक्तृ­भे­दा­द­र्थ­भे­द­सि­द्धे­रि­त्या­श­ङ्क्याह —
आचार्यस्त्विति ।
वक्तृ­भे­देऽ­प्ये­क­वा­क्यता, साकाङ्क्षत्वात् । पूर्वो­त्त­र­वा­क्य­यो­रे­का­र्थत्वं, वाक्यैक्यसम्भवे तद्भे­द­स्या­यो­गा­दि­त्यर्थः ।

फलोक्तेरपि सिद्ध­म­क्षि­स्थस्य ब्रह्म­त्व­मि­त्याह —
यथेति ।
प्रकृतपुरुषविदो हि पापा­द्य­नु­प­ह­तत्वं फलमुक्तं, तच्च तदधिगमाधिकरणे ब्रह्म­धि­योऽ­भि­धा­स्यते तेनास्य ब्रह्म­त्व­मि­त्यर्थः ।

आचार्येण गतिमात्रे वाच्ये किमित्यधिकं सोऽभि­द­धी­ते­त्या­श­ङ्र्या­पे­क्षितं पूरयित्वा गति­र्वा­च्ये­त्यु­प­सं­ह­र­न्नाह —
तस्मादिति ।
पूर्वा­प­रा­लो­च­ना­या­मे­क­वा­क्य­त्व­नि­श्च­या­दि­त्यर्थः ॥ १५ ॥

प्रक­र­णा­द­क्षि­स्थस्य ब्रह्म­त्व­मुक्त्वा लिङ्गादपि तथेत्याह —
श्रुतेति ।
श्रुता संवृ­त्तो­प­नि­ष­द्र­हस्यं ज्ञानं यस्य स तथा, तस्य या देवयानाख्या गतिरागमसिद्धा तस्या­श्चा­क्षु­ष­पु­रु­ष­वे­दि­न्य­भि­धा­ना­त्त­द्ब्र­ह्म­ते­त्यर्थः ।

चकारार्थमाह —
इतश्चेति ।

अवशिष्टं व्याचष्टे —
यस्मादिति ।
या गतिः श्रुतौ स्मृतौ च प्रसिद्धा सैवे­हा­भि­धी­य­म­नेति सम्बन्धः ।

श्रुतिमाह —
अथेति ।
देह­पा­ता­न­न्त­र्य­म­थ­श­ब्दार्थः । तपो­ब्र­ह्म­च­र्या­द्यु­पा­ये­ना­त्मा­न­म­नु­स­न्धाय तद्विद्यया ध्यानाख्यया हेतु­नो­त्त­र­मा­र्ग­म­र्चि­रा­द्यु­प­ल­क्षितं प्राप्य तेनादित्यद्वारा कार्यं ब्रह्मा­प्नु­व­न्ती­त्यर्थः ।

ब्रह्म विशिनष्टि —
एतदिति ।
व्यष्टि­स­म­ष्टि­क­र­णा­त्मकं हैरण्यगर्भं पदमित्यर्थः ।

तस्यैव वास्तवं रूपमाह —
एतदिति ।

उक्त­वि­शे­ष­ण­सि­द्ध्यर्थं हेतुमाह —
एतस्मादिति ।

गतिविषयां श्रुतिमुक्त्वा स्मृतिमाह —
अग्निरिति ।
अग्न्या­दि­श­ब्दै­रा­ति­वा­हिक्यो देवता गृह्यन्ते ।

पथ्यन्तरादत्र विशेषमाह —
तत्रेति ।

पथो देवयानस्य प्रामा­णि­क­त्वेऽपि प्रकृते किमा­या­त­मि­त्या­श­ङ्क्यो­क्तम् —
सैवेति ।

इहेत्युक्तां श्रुतिमाह —
अथेति ।
देह­पा­ता­न­न्त­र्य­मे­वा­थे­त्यु­क्तम् ।

अस्मिन्नुपासके प्रार­ब्ध­क­र्म­स­माप्त्या मृते यदि पुत्रा ज्ञातयो वा शव्यं शवसम्बन्धि संस्कारादिकर्म कुर्वन्ति यदि वा न द्विधा­प्य­प्र­ति­ह­त­धी­फ­ला­स्तेऽ­र्चि­र­भि­मा­निनीं देवतां प्राप्नुवन्ति तदाह —
यदु चेति ।

अर्चि­षोऽ­ह­र्दे­वतां ततः शुक्लपक्षदेवतां ततः षण्मा­सो­प­ल­क्षि­तो­त्त­रा­य­ण­दे­वतां ततः संव­त्स­रा­भि­मा­निनीं देवतां ततश्चादित्यं ततश्चन्द्रं ततो विद्यु­त­मा­प्नु­वन्ति । तत्तत्र स्थिता­नु­पा­स­का­न्ब्र­ह्म­लो­का­दा­ग­त्या­मा­नवः पुरुषो गन्तव्यं ब्रह्म प्रापयीत्याह —
इत्युपक्रम्येति ।
देवै­र्ने­तृ­भि­र­धि­ष्ठितः पन्था देवपथः । ब्रह्मणा गन्त­व्य­त्वे­नो­प­ल­क्षितो ब्रह्मपथः ।

एतेन पथा कार्यं ब्रह्म प्रतिपद्यमानाः पुनरिमं मनोः सर्गं जन्म­म­र­णा­द्या­वृ­त्ति­युक्तं नावर्तन्ते न प्रविशन्तीत्याह —
एष इति ।

तथापि प्रकृते किं जातं, तदाह —
तदिति ।
प्रक­र­ण­मि­हे­त्यु­क्तम् ॥ १६ ॥

सिद्धा­न्त­मु­प­पाद्य परोक्तं प्रत्याह —
अनवस्थितेरिति ।

तद्व्याकर्तुं व्याव­र्त्य­म­नु­की­र्त­यति —
यदिति ।

सूत्र­मु­त्त­र­त्वेन योजयति —
अत्रेति ।
इहेति स्थानं वाक्यं चोक्तम् ।

प्रश्नपूर्वकं हेतुं छायात्मनि व्याचष्टे —
कस्मादिति ।

उक्त­म­न्व­य­व्य­ति­रे­काभ्यां व्यनक्ति —
यदेति ।

स्वचक्षुषि नित्यं संनिध्यभावेऽपि यत्र क्वापि छायात्मनः सम्भ­वा­दु­पा­स्य­ते­त्या­श­ङ्क्याह —
य इति ।

दृश्यत इत्युक्ते स्वेनान्येन वेत्य­वि­शे­षा­च्च­र­म­श्रु­त­त्वाच्च प्रथमश्रुतमक्षि स्वकीयमेव युक्तं, संनिधेः स्वस्मि­न्न­ति­श­या­दि­त्याह —
संनिधानादिति ।

तर्हि पुरुषान्तरं संनिधाप्य स्वचक्षुषि तद्दृ­श्य­स्यो­पा­स्यता स्यादि­त्या­शङ्क्य गौरवान्नेत्याह —
नचेति ।

युक्त्या­न­व­स्थि­त­त्व­मुक्त्वा तत्रैव श्रुतिमाह —
अस्येति ।
छाया­क­र­स्ये­त्यर्थः । आन­न्त­र्या­र्थोऽ­नु­शब्दः । एष­श­ब्द­श्छा­या­त्मार्थः ।

हेत्वन्तरमादाय व्याख्याति —
असम्भवाच्चेति ।

जीव­नि­रा­सेऽ­प्य­न­व­स्थितिं व्याचष्टे —
तथेति ।
छाया­त्म­व­दि­त्यर्थः । नहि तस्य चक्षुष्येव व्यक्तियोग्यता, येन तत्रोपास्तिः । विनापि स्थान­वि­शे­ष­म­ह­मिति व्यक्ते­रि­त्यर्थः ।

तर्हि ब्रह्मणोऽपि सर्वत्र सत्त्वान्न चक्षुष्येव स्थितिः, तत्राह —
ब्रह्मणस्त्विति ।
दृष्टः । श्रुताविति शेषः ।

हेत्वन्तरं जीवेऽपि योजयति —
समानश्चेति ।

जीवस्य ब्रह्मा­भे­दा­त्त­त्रा­मृ­त­त्वादि स्यादि­त्या­श­ङ्क्याह —
यद्यपीति ।

अन­व­स्थि­ति­र्दे­व­ता­त्म­न्य­सि­द्धे­त्या­शङ्क्य हेत्वन्तरेण निराह —
देवतेति ।

देवे­ष्व­म­र­त्व­प्र­सि­द्धि­वा­धितं तदु­त्प­त्त्या­दि­वा­क्य­मि­त्या­श­ङ्क्याह —
अमरत्वमिति ।

संय­द्वा­म­त्वा­दि­क­मपि न तत्रेत्याह —
ऐश्वर्यमिति ।

तस्ये­श्व­रा­य­त्तत्वे भयास्तित्वे च मानमाह —
भीषेति ।
भये­ना­स्मा­दी­श्व­रा­त्प­वते चलति । वायुरित्यर्थः ।

पक्षत्रयायोगे फलितमाह —
तस्मादिति ।

ईश्वरेऽपि दृश्यत इत्ययुक्तं, तस्या­दृ­श्य­त्वा­दि­त्या­श­ङ्क्याह —
अस्मिन्निति ।
उपलब्धिर्दर्शनं तत्र शास्त्री­य­द­र्श­नस्य शास्रमेव संनिहितं करणमिति विद्व­त्प्र­सिद्धं शास्त्रीयमेव दर्शनं सिद्धवदनूद्यते । तत्रा­ज्ञा­ना­म­नु­रा­गा­र्थ­मि­त्यर्थः । शास्त्रा­दी­त्या­दि­पदं विद्व­द­नु­भ­वा­र्थम् ।

तद्वि­ष­य­द­र्श­नो­क्ते­रु­प­यो­ग­माह —
प्ररोचनेति ।
उक्तं तत्त्व­द­र्श­न­म­यो­ग्य­मि­त्युक्ते न तद्दर्शने फलवति भव­त्य­भि­रु­चि­रि­त्यर्थः । तदे­व­मु­प­को­स­ल­वाक्यं सविशेषे ब्रह्म­ण्य­न्वि­त­मिति ॥ १७ ॥

स्थाना­दि­व्य­प­दे­श­सूत्रे पृथिव्यादीनि ब्रह्मणः स्थाना­नी­त्युक्तं, तद­सि­द्धि­मा­श­ङ्क्याह —
अन्तर्यामीति ।

अन्त­र्या­मि­ब्रा­ह्म­ण­मु­दा­ह­रति —
य इति ।
मनु­ष्या­दि­भि­र्दे­वा­दि­भि­श्चा­धि­ष्ठि­त­मि­म­ममुं च लोकं योऽन्तरो यमयति, यश्च लोकद्वयवर्तीनि भूतान्यन्तरः सन्यमयति, तं किं वेत्थे­त्य­न्त­र्या­मि­ण­मु­प­क्रम्य श्रुतमित्यर्थः ।

पृथिव्यां तिष्ठ­न्न­न्त­र्या­मी­त्युक्ते सर्वत्रापि चराचरे प्रसक्तावुक्तम् —
पृथिव्या इति ।

तद्देवतां प्रत्याह —
यमिति ।

ईश्व­र­स्या­प्य­का­र्य­क­र­णस्य न निय­न्तृ­ते­त्या­श­ङ्क्याह —
यस्येति ।
निय­म्य­का­र्य­क­र­णै­रेव नियन्तृत्वम् ।

फलितमाह —
य इति ।

तस्या­ता­ट­स्थ्य­माह —
एष इति ।
ते मम चेत्यर्थः । आदिपदं ‘योऽप्सु तिष्ठन्’ इत्या­दि­स­ङ्ग्र­हा­र्थम् ।

आपातिकं श्रुत्यर्थमाह —
अत्रेति ।
‘यः पृथिव्याम्’ इत्या­द्य­धि­दै­व­तम् । ‘यः सर्वेषु लोकेषु ‘ इत्यधिलोकम् । ‘यः सर्वेषु वेदेषु’ इत्यधिवेदम् । ‘यः सर्वेषु यज्ञेषु’ इत्यधियज्ञम् । ‘यः सर्वेषु भूतेषु’ इत्यधिभूतम् । ‘यः प्राणेषु’ इत्यादि ‘य आत्मनि’ इत्य­न्त­म­ध्या­त्म­मिति भेदः ।

अदेहस्य निय­न्तृ­त्वा­स­म्भ­व­स­म्भ­वाभ्यां संशयमाह —
स किमिति ।

अर्थान्तरे सन्दिह्यमाने हेतुमाह —
अपूर्वेति ।

दृश्यत इति श्रुति­र्ब­हु­त­र­लि­ङ्गा­द्य­नु­रो­धे­ना­र्थ­वि­शे­ष­प­र­तया नीता, अत्र त्वन्त­र्या­मि­श­ब्द­स्या­प्र­सि­द्धा­र्थ­त्वा­न्नार्थो निर्णीतो डित्था­दि­श­ब्द­व­दि­त्याह —
किं तावदिति ।
अन्त­र्या­मि­ब्रा­ह्म­णस्य सविशेषे ब्रह्म­ण्य­न्व­योक्तेः । सङ्गतयः पूर्वपक्षे विशिष्टस्य योगि­नोऽ­न्त­र्या­मिणः, सिद्धान्ते परस्यैव तस्योपास्तिरिति फलम् ।

तत्र पूर्व­प­क्षा­भा­स­माह —
संज्ञाया इति ।

अध्य­य­न­वि­ध्यु­पा­त्तस्य पुम­र्था­न्व­य­ध्रौ­व्या­द­नि­र्धा­रि­तस्य तद­यो­गा­द­न्त­र्य­मि­रूपं निर्धारणीयमिति पक्षान्तरमाह —
अथवेति ।

अप्र­सि­द्ध­त्वा­त्सं­ज्ञायाः संज्ञिनापि तथा भाव्यं व्याप्ते­रि­त्या­श­ङ्क्याह —
अन्तर्यामीति ।

अर्थान्तरायोगे फलितमाह —
तस्मादिति ।

तत्र शाकल्यवाक्यं प्रमाणयति —
तथाचेति ।
आयतनं शरीरं, लोको लोक्य­तेऽ­ने­ने­त्य­सा­धा­रणं, ज्योतिः साधारणं करणम् । सशरीरा देवता चक्षुर्मनोभ्यां सर्वं वेत्तीत्यर्थः । ‘यस्तं विद्यात्स एव वेदिता’ इत्यादि ग्रहीतुमादिपदम् ।

ईश्वरेऽपि सर्वमिदं स्यादि­त्या­श­ङ्क्याह —
स चेति ।

उप­क्र­मो­प­सं­हा­रा­भ्या­मे­क­स्मि­न्न­न्त­र्या­मिणि सिद्धे कथं पृथि­व्या­द्य­ने­क­दे­व­तो­क्ति­रि­त्या­श­ङ्क्याह —
योगिनो वेति ।

यद­नु­ग्र­हा­द्यो­गिनो निय­म­ना­दि­सा­मर्थ्यं स किमि­त्यु­पे­क्ष्यते, तत्राह —
न त्विति ।
विशिष्टस्य योगि­नोऽ­न्त­र्या­मिणो ध्यानार्थं ब्राह्मा­ण­मि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

सिद्धान्तयति —
एवमिति ।

प्रति­ज्ञा­तेऽर्थे प्रश्नपूर्वकं हेतुमुपस्थाप्य व्याचष्टे —
कुत इति ।
इहे­त्य­न्त­र्या­मि­ग्र­ह­णम् ।

के ते परस्यासाधारणा धर्मा येऽन्तर्यामिणि व्यपदिश्यन्ते, तत्र सर्वनियन्तृत्वं तावदाह —
पृथिव्यादीति ।
साधनाधीनशक्त्या तद्वतो ज्ञाने तद्धि­यो­पे­क्ष­णा­द्धी­गौ­र­वात् , नित्य­सि­द्ध­श­क्त्ये­श्व­र­ग्रहे लाघवात्तस्यैव सर्वनियन्तृतेति भावः ।

पर­स्यै­वा­सा­धा­र­ण­ध­र्म­द्व­य­माह —
एष इति ।

देवपक्षे दोषान्तरमाह —
यमिति ।

एकस्य कर्म­क­र्तृ­त्वा­यो­गा­त्पृ­थि­व्यपि देवता न स्वात्मानं जानीयादिति कुत­स्त­तोऽ­न्यत्वं, तत्राह —
पृथिवीति ।
अहमित्यात्मधीः सर्वे­षा­म­नु­भ­व­सिद्धा देवतायामपि नापह्नोतुं शक्येत्यर्थः ।

इतोऽपि पर­मा­त्मै­वा­न्त­र्या­मी­त्याह —
तथेति ।

अका­र्य­क­र­ण­त्वान्न परोऽन्तर्यामी घट­य­दि­त्यु­क्त­म­नु­व­दति —
यत्त्विति ।
किमीश्वरस्य निय­म्या­ति­रि­क्त­दे­हा­दि­रा­हित्यं वा देहाद्यसंबन्धो वा तत्राभोक्तृत्वं वा हेतूक्रियते । नाद्यः तक्षादेः स्वदेहादिनियमने देहा­न्त­रा­द्य­भा­वेन व्यभिचारात् । द्वितीये स्वावि­द्या­र्जि­त­दे­हा­दे­री­श्व­रेण सम्ब­न्धा­द­सिद्धिः । तृतीये त्वभो­क्तृ­त्वा­दी­श्वरो न निय­न्ते­त्य­त्रा­चे­त­न­त्व­मु­पाधिः ।

नच मुक्तात्मसु साध्याव्याप्तिः । तेषा­मी­श्व­रा­भे­देन पक्षत्वादिति विवक्षन्नाह —
नैष इति ।

ईश्वरस्य नियन्तृत्वे कार्य­का­र­ण­व­त्त्व­मपि शक्य­म­स्म­दा­दि­व­द­नु­मा­तु­मि­त्या­शङ्क्य निय­म्य­का­र्य­क­र­ण­वत्त्वे सिद्ध­सा­ध­न­म­ति­रि­क्त­त­द्वत्त्वे श्रुति­वि­रु­द्ध­ते­त्याह —
यानिति ।

स्वदे­हा­दि­नि­य­न्तु­रपि जीवस्यान्यो नियन्ता चेत्त­स्या­प्यन्यो नियन्ता स्याद­वि­शे­षा­दि­त्या­श­ङ्क्याह —
तस्यापीति ।
निरङ्कुशं सर्वनियन्तृत्वं श्रौतम् । नच तादृशि सर्वनियन्तरि भेदः । न चानुमानं श्रुति­बा­धि­त­मु­त्ति­ष्ठति । तन्ना­न­व­स्थे­त्यर्थः ।

योगिपक्षे तु स्याद­न­व­स्थे­त्याह —
भेदे हीति ।
तत्रापि नियन्तृत्वं क्वापि तिष्ठति चेदि­ष्ट­सि­द्धि­रिति भावः ।

सूत्रा­र्थ­मु­प­सं­ह­रति —
तस्मादिति ॥ १८ ॥

सूत्र­व्या­वर्त्यां शङ्कामाह —
स्यादेतदिति ।

यौक्तिकेऽर्थे स्मृतिमपि संवादयति —
अप्रतर्क्यमिति ।
इत्थं महदादिरूपेण प्रधानं किमिति प्रवर्तते कस्मा­न्ना­न्य­थेति तर्कस्याविषयो गूढ­त्वा­दि­त्यर्थः । रूपा­दि­रा­हि­त्या­द­वि­ज्ञेयं चक्षु­रा­द्य­ग्राह्यं, प्रसुप्तमिव सर्वतः सर्वासु दिक्षु जडि­म­व्या­प्त­मि­त्यर्थः ।

कथं तस्या­चे­त­न­स्या­न्त­र्या­मित्वं, तत्राह —
तस्येति ।

अदृष्टत्वादीनां प्रधाने सम्भवे फलितमाह —
तस्मादिति ।

प्रागेव प्रयुक्तं प्रधानं किमिति पुनः शङ्क्यते, तत्राह —
ईक्षतेरिति ।

प्रास­ङ्गि­क­श­ङ्को­त्त­र­त्वेन सूत्रमादाय व्याकरोति —
अत इति ।

अदृ­ष्ट­त्वा­दि­स­म्भ­वा­त्प्र­धा­न­स्या­न्त­र्या­मि­त्व­मु­क्त­मि­त्या­शङ्क्य हेतुमाह —
कस्मादिति ।

हेत्वसिद्धिं शङ्कित्वा तदर्थमाह —
यद्यपीति ।

अन्तर्यामिणि द्रष्टृ­त्वा­दि­व्य­प­देशं दर्शयति —
अदृष्ट इति ।
इहेति ब्राह्मणोक्तिः ।

प्रधानपक्षे दोषान्तरमाह —
आत्मत्वमिति ॥ १९ ॥

उत्त­र­सू­त्र­व्या­व­र्त्या­श­ङ्का­माह —
यदीति ।

द्रष्ट्ट­त्वा­द्य­स­म्भ­वस्य तत्रापि तुल्य­त्व­मा­श­ङ्क्यो­क्तम् —
शारीरो हीति ।

तथापि कथं तत्रामृतत्वं, स हि देहापाये म्रियते, तत्राह —
अमृतश्चेति ।
अन्य­थाऽ­कृ­ता­ग­मा­दि­प्र­स­ङ्गात् ‘जीवापेतं वाव’ इत्या­दि­श्रु­ते­श्चे­त्यर्थः ।

तथापि कथ­म­दृ­ष्ट­त्वा­दीनां तत्रो­प­प­त्ति­स्त­स्या­ह­न्धी­व्या­प्य­त्वात् , तत्राह —
अदृष्टत्वेति ।

सकर्मिका क्रिया कर्म व्याप्नोति न कर्तारं तेन कर्तर्यात्मनि दर्शनादिवृत्तौ कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यं चेत्येकस्यां क्रियायां युग­प­द्गु­ण­प्र­धा­न­त्व­वि­रो­धा­दिति हेतुमाह —
दर्शनादीति ।

जीव­स्या­दृ­ष्ट­त्वा­दयो न केवलं यौक्तिकाः । किन्तु श्रौताश्चेत्याह —
नेति ।
लौकिक्या दृष्टे­र्बु­द्धि­प­रि­ण­ते­र्द्र­ष्टा­र­मा­त्मानं तयैव दृष्ट्या त्वं न पश्येर्न शक्नोषि द्रष्टु­मि­त्यर्थः । ‘न श्रुतेः श्रोतारम्’ इत्या­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

तथापि कथं तस्या­न्त­र्या­मित्वं निय­म्य­नि­वि­ष्ट­त्वात् , तत्राह —
तस्येति ।

अन्त­र्या­मि­ध­र्माणां शारीरे सम्भावनाफलमाह —
तस्मादिति ।

सूत्रमवतारयति —
अत इति ।

अपेक्षितं पूरयित्वा प्रतिज्ञां विभजते —
नेत्यादिना ।
चकारादनुवृत्तिः ।

द्रष्ट्ट­त्वा­दि­ध­र्माणां सम्भ­वा­त्त­द­न्त­र्या­मित्वं दुर्वारमिति शङ्कते —
कस्मादिति ।

चशब्दसूचितं ब्रुवन्परिहरति —
यद्यपीति ।

उभयेऽपीत्यादि व्याकरोति —
अपि चेति ।

माध्यन्दिनपाठे भेदोक्तिं व्यनक्ति —
य आत्मनीति ।

काण्वानां पाठे भेदोक्तिं व्यनक्ति —
विज्ञान इति ।

काण्वपाठे शारी­र­वा­चि­प­दा­भा­वा­त्कुतो भेदोक्तिः, तत्राह —
विज्ञानेति ।

विज्ञानशब्दस्य बुद्ध्यर्थस्य कथं शारीरे वृत्ति­रि­त्या­शङ्क्य रूढ्यभावेऽपि वृत्त्यन्तरमाह —
विज्ञानेति ।

भेदोक्तिफलमाह —
तस्मादिति ।

भेदे­ने­त्या­दि­सू­त्रा­त्ता­त्त्वि­क­भे­दा­शङ्कां निरसितुं शङ्कते —
कथमिति ।

द्रष्ट्टद्वयमेव विशिनष्टि —
यश्चेति ।
न खल्वे­क­स्मि­न्देहे द्रष्ट्टद्वयं युक्तं, विरु­द्धा­भि­प्रा­या­ने­क­चे­त­ना­धि­ष्ठि­तस्य देह­स्या­व्य­व­स्थि­त­त्व­प्र­स­ङ्गा­दि­त्यर्थः ।

कश्चि­त्का­र्य­क­र­ण­सं­हतो भोक्ता तद्र­हि­तोऽ­न्योऽ­धि­ष्ठाता पश्यत्येवेति विभागे नावद्यमिति शङ्कते —
का पुनरिति ।

अनुपपत्तिमाह —
नेति ।

विरोधं स्फोरयितुं प्रतीतमर्थमाह —
अत्रेति ।

अस्मिन्ग्रामे मैत्र एवाद्वितीय इति­व­त्त­त्तु­ल्य­द्र­ष्ट्र­न्त­र­नि­वा­र­क­मेव तदिति शङ्कते —
नियन्त्रन्तरेति ।

सर्वनियन्तुः स्वनियन्त्रा निय­न्त­व्य­त्व­श­ङ्का­भा­वात् , नान्योऽतोऽस्ति नियन्ता द्रष्टेति विशेषाश्रुतेश्च नैवमित्याह —
नेति ।

आत्मनि तिष्ठ­न्नि­त्यौ­पा­धि­क­भे­दार्थं वाक्यं, ‘नान्योऽ­तोऽस्ति’ इति तु तत्त्वविषयमिति परिहरति —
अत्रेति ।

भेदो­क्ते­स्त­त्त्व­वि­ष­यत्वं, निषे­धो­क्ते­श्चा­त­त्त्व­वि­ष­य­तेति वैप­री­त्य­मा­श­ङ्क्याह —
एको हीति ।
प्रत्य­क्त्वा­त्म­त्व­यो­रे­क­त्रैव मुख्य­त्वा­दि­त्यर्थः ।

एकत्वमेव तत्त्वं चेत्कुतो भेदोक्तिः, तत्राह —
एकस्येति ।

औपा­धि­क­भे­दो­क्ति­मु­दा­ह­रति —
यथेति ।

तात्त्वि­क­भे­दा­भावे कथं श्रुत्या­द्यु­प­पत्तिः, तत्राह —
ततश्चेति ।
प्राप्तृ­प्रा­प्त­व्या­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

आवि­द्या­द्भे­दा­द्व्या­व­हा­र­मा­त्र­सि­द्धा­व­न्व­य­व्य­ति­रे­क­श्रु­ति­माह —
तथा चेति ।
आवि­द्य­भे­दा­नु­वा­देन निय­न्तृ­नि­य­म्य­त्वम् । वस्तु­त­स्त्व­द्वि­तीयः परमात्मा, तत्राविद्यया सर्व­नि­य­न्त­र्य­न्वि­त­म­न्त­र्या­मि­ब्रा­ह्मणं, तस्या­नु­ध्या­ना­दा­प­रो­क्ष्या­न्मोक्ष इति भावः ॥ २० ॥

अदृष्टत्वादीनां प्रधा­न­गा­मि­त्वेऽपि द्रष्ट्ट­त्वा­दीनां तत्रायोगान्न तद­न्त­र्या­मी­त्यु­क्तम् । तर्हि भूतयोनिवाक्ये द्रष्ट्ट­त्वा­दी­ना­म­नु­क्ते­र­दृ­श्य­त्वा­दि­गु­णको भूतयोनिः प्रधा­न­मे­वे­त्या­श­ङ्क्याह —
अदृश्यत्वादीति ।

अथर्वणवाक्यमाह —
अथेति ।

अप­र­वि­द्यो­क्त्य­न­न्तरं या परा विद्योच्यते तां विशिनष्टि —
ययेति ।

अक्षरं वर्ण­स­मु­दा­या­द्व्य­व­च्छि­नत्ति —
यदिति ।
अद्रेश्यमदृश्यं ज्ञाने­न्द्रि­या­वि­षयः, अग्राह्यं कर्मे­न्द्रि­या­वि­षयः, अगोत्रं वंशशून्यम् , अवर्णं जातिहीनम् ।

न केव­ल­मि­न्द्रि­या­वि­षयः, तद्धीनं चेत्याह —
अचक्षुरिति ।
न विद्येेते चक्षुःश्रोत्रे यस्य तत्तथा । चक्षुः­श्रो­त्रो­क्ति­र­नु­क्त­ज्ञा­ने­न्द्रि­यो­प­ल­क्ष­णा­र्थम् ।

कर्मे­न्द्र­य­रा­हि­त्य­माह —
अपाणीति ।
पाणिश्च पादश्च पाणिपादं तन्नास्ति यस्य तत्तथा । उभ­यो­क्ति­र­नु­क्त­क­र्मे­न्द्रि­यो­प­ल­क्ष­णम् । नित्य­म­ना­शो­प­ल­क्षि­त­स­त्ता­कम् । विभुं प्रभुम् , सर्वगतं सर्व­क­ल्प­ना­धि­ष्ठा­नम् । सुसूक्ष्मं दुर्ज्ञानत्वात् , तद­व्य­य­म­प­क्ष­या­भा­वात् , यथोक्तमक्षरं भूतयोनिं भूतकारणं धीराः पण्डिताः पश्यन्तिः, तदक्षरं ययाधिगम्यते सा परा विद्येत्यर्थः ।

अदृ­श्य­त्वा­दि­सा­धा­र­ण­ध­र्म­दृष्ट्या संशयमाह —
तत्रेति ।
भूतयोनिः सप्तम्यर्थः ।

साधा­र­ण­स्या­प्य­न्त­र्या­मि­श­ब्दस्य लाघ­व­सा­हा­य्या­न्नि­त्य­सि­द्ध­नि­य­न्तृ­त्वा­दि­ने­श्व­र­प­र­त्व­मु­क्तम् । इहापि साधा­र­णा­दृ­श्य­त्वा­दि­ध­र्म­स्या­चे­त­न­दृ­ष्टा­न्तो­पा­दा­न­ब­ला­त्प्र­धा­न­नि­ष्ठ­तेति पूर्वपक्षमाह —
तत्रेति ।
भूतयोनिवाक्यस्य निर्विशेषे ब्रह्म­ण्य­न्व­योक्तेः सङ्गतयः । पूर्वपक्षे प्रधानस्य शारीरस्य वा ध्यानं सिद्धान्ते निर्वि­शे­ष­व­स्तु­धी­रिति फलम् ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­स्तु­ल्य­ता­नि­य­मा­द्दृ­ष्टा­न्त­स्या­चे­त­न­त्वा­द्दा­र्ष्टा­न्ति­क­स्यापि भूत­यो­ने­र­चे­त­न­त्व­मिति हेतुमाह —
अचेतनानामिति ।
ऊर्ण­ना­भि­र्लू­ता­कीटः स्वदे­हा­व्य­ति­रे­कि­ण­स्त­न्तू­न्सृ­ज­त्यु­प­सं­ह­रति चेत्यर्थः । सतो विद्यमानात् । जीवत इति यावत् । इहेति सर्गावस्थोक्तिः ।

दृष्टा­न्त­मा­क्षिप्य समाधत्ते —
नन्विति ।
इहे­त्य­क्ष­रा­द्वि­श्वो­त्प­त्ता­वि­त्यर्थः ।

केवलचेतनस्य वा कारणत्वं, चेत­ना­धि­ष्ठि­ता­चे­त­नस्य वा । तत्राद्यं प्रत्याह —
न हीति ।
शरीरस्यापि तत्रा­न्व­य­व्य­ति­रे­कि­त्वा­दि­त्यर्थः ।

द्विती­य­म­ङ्गी­क­रोति —
चेतनेति ।
दार्ष्टा­न्ति­केऽपि चेतनाधिष्ठितं प्रधानं जगद्धेतुरिति भावः ।

पूर्वं प्रधानस्य प्रत्यु­क्त­त्वा­त्कथं पुनस्तदाशङ्का, तत्राह —
अपिचेति ।
इहेत्यत्रेति च भूत­यो­नि­वा­क्योक्तिः । विरु­ध्य­मा­न­त्व­म­प्र­धा­न­वि­ष­य­त्वम् । यद्वात्रेति प्रधानमुक्तम् । विरुध्यमानत्वं धर्मस्य तस्मि­न्न­स­म्भ­वि­त्वम् ।

स्ववाक्ये प्रधाने विरु­द्ध­ध­र्मा­भा­वेऽपि वाक्यशेषे सोऽस्तीति शङ्कते —
नन्विति ।

भूतयोनेरक्षरस्य पञ्च­म्य­न्ता­क्ष­र­श्रुत्या प्रत्य­भि­ज्ञा­ना­त्प्र­थ­मा­न्त­प­र­श­ब्दो­क्तस्य सर्वज्ञत्वादीति वाक्य­शे­ष­स्या­क्ष­रा­ति­रिक्तं विषयं दर्शयन्नाह —
अत्रेति ।
अक्षरस्य जग­द्यो­नि­त्व­मुक्त्वा ‘यः सर्वज्ञः सर्ववित् ‘ इति सर्वज्ञस्य तदु­क्ते­र्लि­ङ्ग­प्र­त्य­भि­ज्ञा­ना­द­क्ष­र­स्यैव सर्वज्ञत्वादीति चेत् , न, अक्ष­र­श्रु­ति­प्र­त्य­भि­ज्ञातो लिङ्ग­प्र­त्य­भि­ज्ञाया दुर्बलत्वात् , ‘येनाक्षरं पुरुषं वेद’ इति चेतनेऽपि भूतयोनौ श्रुत्या प्रत्य­भि­ज्ञा­नात् , जग­त्प्र­कृ­ति­त्व­लि­ङ्गा­नु­गृ­ही­त­श्रु­ति­प्र­त्य­भि­ज्ञया केव­ल­श्रु­ति­प्र­त्य­भिज्ञा बाध्येति चेत् , न, तस्मादिति निमित्तेऽपि पञ्चमीसम्भवात् ।

नचैवमपि प्रत्यभिज्ञायाः साम्यं, अचे­त­न­दृ­ष्टा­न्ता­नु­गृ­ही­त­प्र­त्य­भि­ज्ञा­प्रा­ब­ल्यात् । तस्मा­त्प्र­धा­न­मेव भूतयोनिरित्याह —
प्रधानमेवेति ।

सर्व­ज्ञा­द्वि­वे­का­यात्र प्रधानं ग्राह्य­मि­त्युक्त्वा जीवो देहा­द्य­ति­रि­क्तोऽ­भ्यु­द­य­निः­श्रे­य­सा­प्तये निरू­प्य­तेऽ­त्रेति पक्षान्तरमाह —
यदेति ।
योनिशब्दस्य प्रकृत्यर्थत्वे निमित्तार्थत्वे च प्रधानस्य सर्व­ज्ञा­द्वि­वि­क्तस्य जीवस्य वा देहा­द्य­ति­रि­क्तस्य द्विवि­ध­पु­म­र्था­प्तये ध्याना­र्थ­मे­त­दि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

सिद्धा­न्त­सू­त्र­म­व­ता­र­यति —
एवमिति ।

तत्र प्रतिज्ञां व्याचष्टे —
योऽयमिति ।

प्रधानादौ सम्भवति निय­मा­सि­द्धि­रि­त्याह —
कथमिति ।

नियामकं हेतुमवतार्य व्याचष्टे —
धर्मेति ।

भूत­यो­नि­रि­हे­त्युक्तः । हेतो­र­न्य­था­सिद्धिं धुनीते —
नहीति ।
‘अक्ताः शर्करा उपदधाति’ इत्यत्र ‘तेजो वै घृतम्’ इति शेषा­न्नि­र्ण­य­व­दि­हापि साधा­र­णो­प­क्र­म­स्थ­स्या­दृ­श्य­त्वादेः शेषा­द्ब्र­ह्म­नि­ष्ठता निर्णेयेत्यर्थः ।

वाक्यशेषो भूतयोनिविषयो नेत्युक्तं स्मारयति —
नन्विति ।

‘जनिकर्तुः प्रकृतिः’ इति स्मृते­र­क्ष­रा­दिति पञ्चम्या जाय­मा­न­प्र­कृ­ति­त्वे­नो­क्त­म­क्षरं ‘तस्मा­दे­त­द्ब्रह्म’ इत्यत्रापि पञ्चम्या प्रत्यभिज्ञायते । तेन भूतयोन्यर्थ एव वाक्यशेष इत्याह —
अत्रेति ।

तस्मादविशेषेण सर्व­ज्ञा­द्वि­शे­षेण सर्वविदो ज्ञान­म­य­त­पः­स­हि­ता­त्कार्यं ब्रह्म सूक्ष्म­भू­ता­त्मकं नाम रूपं च स्थूल­भू­ता­त्म­क­मन्नं च ब्रीहियवादि सर्वं भौतिकं तद्द्वारा सत्तां प्राप्नोतीत्याह —
तस्मादिति ।

लिङ्ग­प्र­त्य­भि­ज्ञा­फ­ल­माह —
तस्मादिति ।

श्रुति­प्र­त्य­भिज्ञा लिङ्ग­प्र­त्य­भि­ज्ञातो बलवती दर्शि­ते­त्या­शङ्क्य पञ्च­म्य­न्ता­क्ष­र­पदं न प्रकृ­ता­क्ष­र­गा­मी­त्याह —
अक्षरादिति ।

तत्र गमकं पृच्छति —
कथमिति ।

चेतने भूतयोनौ प्रथममेव श्रुति­प्र­त्य­भि­ज्ञा­ना­दि­त्याह —
येनेति ।
येन ज्ञानेनाक्षरं प्रकृतं भूतयोनिं सर्वज्ञं पुरुषं सत्यं वेद तां ब्रह्म­वि­द्या­मु­प­स­न्नाय शान्तायाचार्यः प्रोवाच प्रब्रू­या­दि­त्यु­प­क्रम्य ‘अक्षरात्परतः परः’ इत्युच्यमानः परो न भूत­यो­ने­र­ति­रि­च्यते । तथाच क्वचि­ज्ज­ग­त्प्र­कृ­तित्वं क्वचि­त्त­न्नि­मि­त्त­तेति न वैषम्यमिति भावः ।

पञ्च­म्य­न्ता­क्ष­र­प­दस्य भूत­यो­न्य­र्थ­त्वा­भावे तद्वाक्यं वाच्यमिति शङ्कते —
कथमिति ।

तत्र भाविनं परिहारं सूचयति —
उत्तरेति ।

परा विद्येति समाख्यानादपि भूतयोनेरक्षरस्य ब्रह्मतेत्याह —
अपिचेति ।

भूत­यो­ने­र­प­र­वि­द्या­ग­म्यत्वं निराह —
तत्रेति ।

उदाहृते वाक्ये प्रतीतमर्थमाह —
तत्रेति ।

तथापि प्रधानं जीवो वा पर­वि­द्या­ग­म्य­म­क्षरं स्यादि­त्या­श­ङ्क्याह —
यदीति ।

कार्य­का­र­ण­वि­ष­य­तया भोक्तृ­भो­ग्य­वि­ष­य­तया वा परा­प­र­वि­भा­ग­मा­श­ङ्क्याह —
परेति ।

प्रधानादिविद्या मुक्तिफलतया परा स्यादि­त्या­श­ङ्क्याह —
नचेति ।
जडमात्रस्य तद्युक्ताजडस्य वा धीनं मुक्तिहेतुः, चिन्मा­त्र­धि­य­स्त­द्भा­वा­दि­त्यर्थः ।

यदि प्रधानस्य जीवस्य वा भूतयोनित्वेन तद्विद्या परविद्या तदो­त्त­र­त्रो­च्य­मा­न­स­र्व­वि­ज्ञा­न­स्या­पी­ष्ट­त्वाद्द्वे विद्ये इति द्वित्वश्रवणं न स्यादित्याह —
तिस्रश्चेति ।

इष्टापत्तिं प्रात्याचष्टे —
द्वे इति ।
इहे­त्यु­प­क्र­मोक्तिः ।

इतश्च भूतयोनिवाक्यं ब्रह्म­नि­ष्ठ­मि­त्याह —
कस्मिन्निति ।

एकविज्ञानेन सर्वं विज्ञानं पक्षान्तरेऽपि स्यादि­त्या­श­ङ्क्याह —
नेति ।
अचेतनस्य भोग्य­मा­त्र­स्यै­क­म­य­न­मा­श्र­य­स्त­स्मि­न्नि­त्यर्थः । मात्र­श­ब्दे­ना­त्मभ्यो भेदमाह । प्रधाने ज्ञाते भोग्य­व­र्ग­ज्ञा­नेऽपि न भोक्तृ­ज्ञा­न­मि­त्यर्थः ।

जीवपक्षे तज्ज्ञाने भोग्यधीरपि नेत्याह —
भोग्येति ।

ब्रह्मविद्येति समाख्ययापि भूत­यो­ने­र्ब्र­ह्म­ते­त्याह —
अपिचेति ।
सर्वविद्यानां प्रतिष्ठा समाप्तिर्यस्यां ततो निर­ति­श­य­पु­रु­षा­र्थ­ला­भात्तां ब्रह्मविद्यां सर्व­वि­द्या­वे­द्य­व­स्त्व­धि­ष्ठा­न­वि­ष­य­तया वा सर्व­वि­द्या­प्र­ति­ष्ठा­म­थ­र्व­नाम्ने कुत्र­चि­त्सृ­ष्टा­वा­द्याय पुत्राय स ब्रह्मो­क्त­वा­नि­त्यर्थः ।

‘ब्रह्मा देवानाम् ‘ इति वक्ता तत्रोपक्रान्त एवेत्याशङ्कवाह —
प्राधान्येति ।

तथापि कथमक्षरस्य ब्रह्मत्वं, तदाह —
सा चेति ।

ब्रह्म­वि­द्यो­प­क्र­मेऽ­प्य­प­र­वि­द्या­व­द­क्ष­र­वि­द्यापि ब्रह्मविद्या मा भूदित्याशङ्क्य प्रक्रान्ताया अन्य­त्रा­नु­क्ति­व­द­त्रा­प्य­नुक्तौ बाधादक्षरविद्या ब्रह्म­वि­द्यै­वे­त्याह —
अपरेति ।

तस्या­स्त­त्प्र­शं­सा­र्थत्वं कथं, तत्राह —
प्लवा हीति ।
प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, तत्प्रसिद्धौ हिशब्दः ।

तदे­वो­त्प­त्त्या­दि­म­त्त्वेन साधयति —
अदृढा इति ।
के ते यज्ञरूपाः यज्ञो रूप­मु­पा­धि­र्येषां ते तथा, ऋत्वि­गा­दि­श­ब्दस्य यज्ञो­पा­धि­क­त्वात् । अष्टादश षोडशर्त्विजः पत्नी यजमानश्च । क्षयिफलत्वादवरं कर्म येषु यदाश्रयमुक्तं श्रुत्या विहितमेतदेव कर्म श्रेयोहेतुर्न ब्रह्मधीरिति ये मूढा हृष्यन्ति ते पुनः पुनर्जरापूर्वं मर­ण­मे­वा­प्नु­व­न्ती­त्यर्थः । आदिपदं ‘अवि­द्या­या­म­न्तरे वर्तमानाः’ इत्या­दि­स­ङ्ग्र­हा­र्थम् ।