न्यायनिर्णयव्याख्या
१ परिच्छेदः
आकाशात्मत्वस्य निरुक्त्यन्तरमाशङ्क्याङ्गीकरोति —
यदेति ।
सर्वात्मत्वमत एवेत्युक्तम् । आदिपदं सर्वकामादिसङ्ग्रहार्थम् ।
उक्तामुपपत्तिमुपसंहरति —
एवमिति ।
इहेति प्रकरणोक्तिः । तेन तदेवोपास्यमिति शेषः ।
ध्येयस्यापि मनोमयत्वादेर्ब्रह्मणि नोपपत्तिरित्याशङ्क्याह —
यत्त्विति ।
तस्यापि ब्रह्मण्युपपत्तिमाह —
तदपीति ।
कथं जीवगामिनो ब्रह्मणि सिद्धिः, तत्राह —
सर्वेति ।
जीवस्यैवासाधारणं मनोमयत्वादीत्युपेत्य ब्रह्मण्युपपत्तिमुक्त्वा तस्य साधारण्ये मानमाह —
तथाचेति ।
जीर्णः स्थविरो भूत्वा यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्यैवेति सर्वतःश्रुतिमत् ।
ब्रह्मणि मनोमयत्वादि वदतः श्रुत्यन्तरविरोधमाशङ्क्याह —
अप्राणो हीति ।
सूत्रार्थमुपसंहरति —
अत इति ॥ २ ॥
ब्रह्मणि जीवगतं मनोमयत्वादीष्टं चेद्ब्रह्मगतमपि सत्यसङ्कल्पत्वाद्यभेदाज्जीवेऽस्तु, नेत्याह —
अनुपपत्तेस्त्विति ।
सूत्रं व्याख्यातुं सङ्गतिमाह —
पूर्वेणेति ।
आरोप्यरूपेण विषयस्यैव रूपित्वं न विपरीतं, नहि रज्ज्वा रूपेण सर्पो रूपवानित्यर्थः ।
अवधारणमेव स्फोरयन्नेत्यादि विभजते —
ब्रह्मेति ।
सर्वात्मत्वादिरुक्तो न्यायः ।
अनुपपत्तेरिति व्याचष्टे —
यदिति ।
वागेव वाकः सोऽस्यास्तीति वाकी न वाक्यवाकी । वागादिसर्वेन्द्रियरहित इत्यर्थः । आप्तकामत्वान्न कुत्रचिदादरोऽस्तीत्यनादरः ।
शारीरत्वमीश्वरेऽपि व्यापिनि स्यादिति शङ्कते —
नन्विति ।
अयोगव्यवच्छेदमङ्गीकृत्यान्ययोगव्यवच्छेदाभावान्नेत्याह —
सत्यमिति ।
अन्ययोगाव्यवच्छेदे हेतुः —
ज्यायानिति ।
जीवे वा कथं विशिष्टं शारीरत्वं, तत्राह —
जीवस्त्विति ॥ ३ ॥
जीवस्य मनोमयत्वादिगुणत्वाभावे हेत्वन्तरम् —
कर्मेति ।
पूर्वसूत्रान्नेत्याद्याकृष्य चशब्दार्थमाह —
इतश्चेति ।
प्राप्यप्रापकत्वेन कर्मकर्तृव्यपदेशं विशदयति —
एतमिति ।
वाक्यं व्याकरोति —
एतमित्यादिना ।
प्रापकत्वेन व्यपदिशतीति सम्बन्धः ।
मामहं जानामीतिवद्व्यपदेशमाशङ्क्याह —
नचेति ।
कर्मकर्तृव्यपदेशे सूत्राभिप्रेतं प्रकारान्तरमाह —
उपास्येति ।
उक्तव्यपदेशफलमाह —
तस्मादिति ॥ ४ ॥
तत्रैव हेत्वन्तरमाह —
शब्देति ।
सूत्रे हेत्वन्तरद्योतकाभावमाशङ्क्य पूर्वसूत्रस्थं चशब्दमाकृष्य व्याकरोति —
इतश्चेति ।
समानप्रकरणत्वमेकविद्याविषयत्वम् । अन्तरात्मन्निति छान्दसो विभक्तिलोपः ।
शब्दभेदफलमाह —
तस्मादिति ॥ ५ ॥
आत्मान्तःस्थितस्यान्यस्यायोगे ‘स्वे महिम्नि’ इतिवदुपचारादेव शब्दभेदः स्यादित्युक्तमाशङ्क्याह —
स्मृतेश्चेति ।
हृदि स्थितस्य शारीराद्भेदः स्मृत्योच्यते ।
ततो मनोमयत्वादिविशिष्टो हृदि स्थितोऽन्यः शारीरादिति नोपचारशङ्केति व्याचष्टे —
स्मृतिश्चेति ।
‘तमेव शरणं गच्छ’ इत्यादिवाक्यमादिशब्दार्थः ।
ईक्षत्यधिकरणे निरस्तमपि चोद्यं प्रसङ्गादुद्भावयति —
अत्रेति ।
श्रुतिस्मृतिभ्यां भेदवादः सप्तम्यर्थः ।
ननु नान्यत्वं साध्यते किन्त्वन्यस्य मनोमयत्वादि निषिध्यते, तत्राह —
य इति ।
विवक्षितगुणवत्त्वेन जीवस्य ध्येयत्वनिषेधानुपपत्त्या तदन्यत्वधीरित्यर्थः ।
परस्यांशो विकारो वा जीवो नामेत्याशङ्क्य श्रुतिस्मृतिविरोधान्नैवमित्याह —
श्रुतिरिति ।
नच भेदाभेदाभ्यां श्रुतिस्मृत्यविरोधः, तदयोगादिति । किं वस्तुतोऽन्यो जीवो नास्ति, किं वोपाधितोऽपीति विकल्पयति —
अत्रेति ।
आद्यमङ्गीकरोति —
सत्यमिति ।
द्वितीयं दूषयति —
पर इति ।
अपरिच्छिन्नस्योपाधिना परिच्छिन्नत्वदृष्टिं दृष्टान्तेन स्पष्टयति —
यथेति ।
श्रुतौ स्मृतौ च कर्मकर्तृत्वादिव्यवहारात्पारमार्थिक एव भेद इत्याशङ्क्याह —
तदिति ।
अबाधाद्भेदव्यवहारस्य तात्त्विकत्वमाशङ्क्य प्रागूर्ध्वं वा बोधादबाध इति विकल्प्याद्यमनुजानाति —
प्रागिति ।
द्वितीयं प्रत्याह —
गृहीते त्विति ॥ ६ ॥
जैवं लिङ्गद्वयं निरस्यति —
अर्भकेति ।
अर्भकमोको यस्य सोऽर्भकौकास्तस्य भावस्तत्त्वं तस्मादिति यावत् । अर्भकशब्दस्य शिशुविषयत्वनिषेधार्थमल्पमिति पर्यायत्वोक्तिः ।
ओकःशब्दस्याप्रसिद्धार्थतां व्यवच्छिनत्ति —
नीडमिति ।
वाक्यार्थं वदन्नाशङ्कां विवृणोति —
एष इति ।
तत्र लिङ्गयोः सम्भावनार्थं विशिनष्टि —
आराग्रेति ।
परत्र तदसम्भावनार्थम् —
सर्वगत इति ।
तस्यानुपेक्षणीयत्वमाह —
तदिति ।
परिहारभागमवतारयति —
अत्रेति ।
अणीयस्त्वमुपेत्य ज्यायस्त्वं वा बाध्यं, तदपि वा कथञ्चिदनुगन्तव्यम् । नाद्यः, श्रुतस्य बाधायोगादित्याह —
नायमिति ।
द्वितीयं प्रत्याह —
न तावदिति ।
त्वयापि ज्यायस्त्वमुपेत्याणीयस्त्वं बाध्यते, तदपि वा कथञ्चिदनुगम्यते । नाद्यः, श्रुतबाधायोगसाम्यात् । न द्वितीयः, ज्यायसोऽणीयस्त्वस्य सर्वथैवायुक्तत्वात् , तत्राह —
सर्वेति ।
अपरिच्छिन्नस्य परिच्छिन्नदेशोक्तौ दृष्टान्तमाह —
समस्तेति ।
तत्र पुरवासापेक्षया व्यपदेशेऽपि कथमिहेति पृच्छति —
कयेति ।
सूत्रावयवमुत्तरमवतार्य व्याचष्टे —
निचाय्यत्वादिति ।
सर्वगतस्य कथमेकदेशे द्रष्टव्यत्वं, तत्राह —
यथेति ।
तत्र शास्त्रप्रमाण्यात्तथास्तु, प्रस्तुते कथं, तत्राह —
तत्रेति ।
बुद्धिविज्ञानमित्यन्तःकरणस्य प्रमाणजा वृत्तिरुक्ता । सर्वगतस्य कुतो हृदय एव मानग्राह्यत्वं, तत्राह —
सर्वेति ।
अपरिच्छिन्नस्य परिच्छिन्नायतनत्वादिव्यपदेशं सौत्रोदाहरणेन साधयति —
व्योमवदिति ।
ब्रह्मापि हृदयापेक्षया द्विधोक्तिभागिति शेषः ।
दार्ष्टान्तिकमुपसंहरति —
तदेवमिति ।
हृदयायतनस्यातात्त्विकत्वे चोद्यान्तरमपि निरस्तमित्याह —
तत्रेति ।
नहि परोपाधिपरिच्छेदादनित्यात्वादि युक्तं, व्योम्नोऽदृष्टेरिति भावः ॥ ७ ॥
हार्दत्वे ब्रह्मणोऽनिष्ठप्रसङ्गाज्जीवस्यैव हार्दस्योपास्यतेति शङ्कित्वा समाधत्ते —
सम्भोगेति ।
चोद्यं प्रपञ्चपयति —
व्योमवदिति ।
सर्वबुद्धिसम्बन्धेऽपि नभोवदभोगमाशङ्क्योक्तम् —
चिदिति ।
तथापि भोगहेतुसम्बद्धस्यैव भोगो नेतरस्येत्याशङ्क्याह —
एकत्वाच्चेति ।
तत्प्रपञ्चयति —
नहीति ।
अनिष्टप्रसङ्गं निगमयति —
तस्मादिति ।
उत्तरमादत्ते —
नेति ।
यत्तु बुद्धिस्थत्वे सति चैतन्याद्ब्रह्मणो भोक्तृत्वं जीववदिति, तत्राह —
न तावदिति ।
हेतुं विवृणोति —
विशेषो हीति ।
धर्माधर्मवत्त्वस्यैव भोगप्रयोजकत्वादप्रयोजको हेतुरित्यर्थः ।
उक्तवैशेष्यफलमाह —
एतस्मादिति ।
साधनव्याप्तिमाशङ्क्य ‘अन्यत्र धर्मात्’ इत्यादिश्रुतिविरोधान्मैवमित्याह —
यदि चेति ।
किञ्च जीवा विभवो बहवश्चेति स्थितावेकस्मिन्देहदेशे सर्वसंनिध्यविशेषात्तुल्यो भोगः स्यान्न चेन्नैकस्यापि । स्वकर्मार्जिते देहे भोगो नान्यत्रेति चेद्द्वयमपि तथैवाभिदधीमहीत्याह —
सर्वेति ।
ब्रह्मणो भोक्त्रभिन्नत्वाद्भोक्तृतेत्युक्तमनुभाषते —
यदपीति ।
तत्र प्रतिज्ञैवायुक्तेत्याह —
अत्रेति ।
तदयुक्तिं वक्तुं पृच्छति —
इदमिति ।
किमेकत्वमज्ञातं ज्ञातं वा । आद्ये हेत्वसिद्धिः । द्वितीये तद्धीर्मदुक्तेः शास्त्राद्वेति प्रश्नमेव प्रकटयति —
कथमिति ।
अन्त्यमादत्ते —
तत्त्वमिति ।
शास्त्रानुसरणे तदतिक्रमणमयुक्तमित्याह —
यथेति ।
नहि कुक्कुटादेरेकदेशो भोगाय पच्यत एकदेशस्तु प्रसवाय कल्प्यते, विरोधादित्याह —
नेति ।
ऐक्यं बोधयदपि शास्त्रं न संसारं वारयति । तत्कथमर्धजरतीयप्रसक्तिरित्याशङ्क्याह —
शास्त्रं चेति ।
संसारिणो ब्रह्मणैक्यबोधनायोगाज्जीवस्य संसारित्वनिरासद्वारा शास्त्रमैक्यं बोधयति, अशोधितपदार्थस्य वाक्यार्थज्ञानाभावादित्यर्थः ।
त्वदुक्तेरैक्यं ज्ञातं न शास्त्रादिति द्वितीयमुत्थापयति —
अथेति ।
तत्र वास्तवे भोक्तृत्वे साध्ये साध्यवैकल्यं, अवास्तवे सिद्धसाध्यतेति मत्वाह —
तदेति ।
तदेव दृष्टान्तेनाह —
नहीति ।
तत्र सूत्रभागमवतार्य योजयति —
तदाहेति ।
तयोर्विशेषेऽपि कथं ब्रह्मणि वस्तुतो भोगाभावः, तत्राह —
नचेति ।
हेतुद्वयनिरासमुपसंहरति —
तस्मान्नेति ।
मनोमयत्वादिविशिष्टस्यैवेश्वरस्य ध्यानार्थं हार्दत्वेऽपि निर्दोषत्वात्तस्मिन्नेव शाण्डिल्यविद्यावेद्ये ‘सर्वम्’ इत्यादिवाक्यं समन्वितमित्यर्थः ॥ ८ ॥
ईश्वरस्याभोक्तृत्वे नात्तृत्वमपीत्याशङ्क्याह —
अत्तेति ।
उदाहरति —
कठेति ।
यस्य परस्यात्मनो ब्रह्म च क्षत्रं चोभे जाती प्रसिद्धान्नवदोदनौ भवतः, यस्य मृत्युः सर्वमारकः सन्नुपसेचनमोदनमिश्रघृतवत्तिष्ठति, यत्र सोऽत्ता कारणात्मा वर्तते, तं निर्विशेषमात्मानं ‘नाविरतो दुश्चरितात्’ इतिमन्त्रोक्तोपायवान्यथा वेदेत्थमन्यस्तद्रहितो न वेदेत्यर्थः ।
अत्तुरत्राश्रवणान्न सूत्रानुसारितेत्याशङ्क्याह —
अत्रेति ।
सिद्धेऽत्तरि विचारमूलं संशयमाह —
तत्रेति ।
विशेषानवधारणोत्थः संशयस्त्रिष्वेव कथं नियम्यते, तत्राह —
त्रयाणामिति ।
‘स त्वमग्निम्’ इत्यादिरग्नेः, ‘येयं प्रेते विचिकित्सा’ इत्यादिर्जीवस्य, ‘अन्यत्र धर्मात्’ इत्यादिर्ब्रह्मणः प्रश्नः । प्रतिवचनमपि ‘लोकादिमग्निम्’ इत्याद्यग्नेः, ‘हन्त त इदम् ‘ इत्यादीतरयोरेवं त्रयाणामेव तयोरिहोपलब्धेस्त्रिष्त्रेव संशयः, विशेषानुपलब्धेरित्यर्थः ।
पठितकठश्रुतेर्निर्विशेषब्रह्मणि समन्वयोक्त्या श्रुत्यादिसङ्गतिं गृहीत्वा पूर्वपक्षयति —
किं तावदिति ।
पूर्वपक्षेऽग्नेर्जीवस्य वोपास्तिः, सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् ।
विशेषेऽनवधृते कुतोऽवधृतिरित्याह —
कुत इति ।
'अग्निरन्नादोऽन्नपतिः’ इति श्रुतेः, अग्नेरन्नादत्वप्रसिद्धेश्च विशेषधीरित्याह —
अग्निरिति ।
अग्न्यधिकारमतिक्रम्याध्यात्माधिकारे तदुक्त्ययोगात् , ओदनशब्दस्य च भोग्यत्वगुणाद्ब्रह्मक्षत्रवृत्तेर्भोक्तृगमकत्वात् , अग्नेश्च संहर्तृत्वेऽपि भोक्तृत्वाभावान्नाग्न्युपास्तिरिहेत्यपरितोषादाह —
जीवो वेति ।
ओदनशब्देन कर्मफलोक्तेर्मृत्युशब्दस्य तदनुगुणत्वात् ‘न जायते’ इत्यादेश्च जीवे योगात्तदुपास्तिरत्रेति भावः ।
ओदनशब्देन ब्रह्मक्षत्त्रवृत्तिना जगल्लक्षणात्तत्संहर्तृत्वस्य परस्मिन्प्रसिद्धेस्तद्धीरेवात्रेष्टेत्याशङ्क्याह —
नेति ।
श्रुतिलक्षणाविषये श्रुतेर्न्याय्यत्वादोदनशब्दस्य भोग्यार्थत्वात् , ब्रह्मक्षत्रयोश्च भोग्यत्वात् , भोक्तृत्वस्य परस्मिन्वारितत्वान्न तत्परतेत्यर्थः ।
पूर्वपक्षमनूद्य सिद्धन्तयति —
एवमिति ।
साधिते जीवपक्षे परस्मिन्को हेतुरिति पृच्छति —
कुत इति ।
हेतुमुक्त्वा व्याचष्टे —
चरेति ।
तदत्तृत्वस्यान्यथासिद्धिं निराह —
तादृशस्येति ।
हेतोः पक्षधर्मतामाह —
परमेति ।
ब्रह्मक्षत्त्रयोरेव मृत्यूपसेचनयोरत्र दृष्टेरसिद्धो हेतुरिति शङ्कते —
नन्विति ।
ओदनशब्देन ब्रह्मक्षत्त्रवृत्तिना मृत्यूपसेचनसंनिधानादोदनस्थं नाश्यत्वमाश्रित्य ब्रह्मक्षत्त्रशब्दाभ्यां जगल्लक्ष्यते, तेन तन्नाशकत्वलिङ्गाद्ब्रह्मात्र भातीत्याह —
नैष इति ।
निषेधश्रुत्या परस्य नात्तृतेत्युक्तमनूद्य तस्य गतिमाह —
यत्त्विति ।
तयोरित्यादिना कर्मफलभोगस्य पूर्वोक्तं संनिहितत्वम् ।
अविशेषेण विकारसंहारस्यापि किमित्येतन्न निषेधकं, सर्ववेदान्तविरोधादित्याह —
नेत्यादिना ।
लैङ्गिकमर्थमुपसंहरति —
तस्मादिति ॥ ९ ॥
परमात्मैवात्तेत्यत्र मानान्तरमाह —
प्रकरणाच्चेति ।
सूत्रं व्याचष्टे —
इतश्चेति ।
प्रकृतत्वमप्रयोजकमित्याशङ्क्योक्तम् —
प्रकृतेति ।
न्याय्यम् । अप्रकृतग्रहादिति शेषः ।
इतश्च परमात्मैवात्तेत्याह —
क इति ।
‘यस्य’ इत्यादि वाक्यं ज्ञेये परमात्मनि मायाद्वारा सर्वसंहर्तर्यन्वितमित्यर्थः ॥ १० ॥
पूर्वोदाहृतान्तरमन्त्रार्थनिर्णयार्थमाह —
गुहामिति ।
सङ्गतिं वदन्विषयमाह —
कठेति ।
ऋतं सत्यमावश्यकं कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य लोके सम्यगर्जितस्यादृष्टस्य कार्ये देहे वर्तमानौ, परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं तस्मिन्परमे श्रेष्ठे या गुहा नभोलक्षणा तां प्रविश्य स्थितौ, छायातपवन्मिथो विरुद्धौ, तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितौ यैस्ते त्रिणाचिकेताः, तेऽपि वदन्तीत्यर्थः ।
बुद्ध्यवच्छिन्नस्य जीवस्य परस्य च प्रकृतत्वादृतपानकर्तृत्वस्य जीवेन सह बुद्धेरिव परस्यापि छत्रिन्यायेन लाक्षणिकत्वाविशेषाच्च संशयमाह —
तत्रेति ।
वाक्यभेदशङ्कां परिहरन्पूर्वपक्षे फलमाह —
यदीति ।
प्रकृतं प्रतिपाद्यं कुतो जीवस्तथेति, तत्राह —
तदपीति ।
जीवतत्त्वं तदर्थः । प्रकरणं सप्तम्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोकभोक्तास्तीत्येके नास्तीति चान्ये त्वयोपदिष्टोऽहमेतत्तत्त्वं ज्ञातुमिच्छामीत्यर्थः । वराणां पितुः सौमनस्यमग्निविद्यात्मविद्येत्येतेषामिति निर्धारणे षष्ठी ।
सिद्धन्तेऽपि वाक्यभेदं वारयन्फलमाह —
अथेत्यादिना ।
जीवविलक्षणस्य ब्रह्मणोऽप्रकृतत्वात्कथं प्रतिपाद्यतेत्याशङ्क्याह —
तदपीति ।
परमात्मस्वरूपं तदित्युक्तम् —
अन्यत्रेति ।
अन्यदिति यावत् । कृताकृतात्कारणात्कार्याच्चेत्यर्थः । चकाराभ्यां भवतो ग्रहणम् ।
उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति —
अत्रेति ।
प्रकृतत्वात्तदुपपत्तौ तदसम्भावना नास्तीत्याह —
कस्मादिति ।
पक्षयोरसम्भावनां वक्तुमृतपानशब्दार्थमाह —
ऋतेति ।
तत्कर्त्रोर्देहयोगदृष्टेरिति हेतुमाह —
सुकृतस्येति ।
तथापि कथं पक्षयोरनुपपत्तिरित्याशङ्क्य पूर्वपक्षानुपपत्तिमाह —
तच्चेतनस्येति ।
अस्तु जीवस्यैव चेतनात्वादृतपानं मा वाऽचेतनाया बुद्धेर्भूत्तथापि का क्षतिः, तत्राह —
पिबन्ताविति ।
जीवस्यैव पातृत्वं न बुद्धेरिति स्थिते फलितमाह —
अत इति ।
द्वयोरुक्तं पानायोगं हेतूकृत्य सिद्धान्तयोगमाह —
अत एवेति ।
बुद्धेरचैतन्यात्पानायोगेऽपि परस्य चैतन्यात्तद्योगमाशङ्क्याह —
चेतनेऽपीति ।
संशयायोगादधिकरणाक्षेपमनूद्य परिहरति —
अत्रेति ।
किं पक्षद्वयं कथञ्चिदपि नोपपद्यते किंवा कथञ्चिद्योगेऽपि सम्यक्पक्षान्तरमस्ति । नाद्य इत्याह —
नैष इति ।
सिद्धान्तोपपत्तिं विधान्तरेणाह —
यद्वेति ।
तथापि कथं पिबन्ताविति द्विवचनं, तत्राह —
पाययन्निति ।
प्रधानकर्तरि प्रयोगो गुणकर्तरि कथमित्याशङ्क्याह —
पाचयितरीति ।
यः कारयति स करोत्येवेति न्यायादित्यर्थः ।
पूर्वपक्षेऽपि द्विवचनोपपत्तिमाह —
बुद्धीति ।
सम्भवति द्विवचनमिति शेषः ।
कर्तरि यो व्यपदेशः स कथं करणे स्यात् , तत्राह —
एधांसीति ।
कथञ्चिदुपपत्तिं पक्षयोरुक्त्वा द्वितीयं निराह —
नचेति ।
पक्षद्वयं सम्भाव्याधिकरणारम्भमुपसंहरति —
तस्मादिति ।
ब्रह्मक्षत्त्रशब्दस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबच्छब्दस्य संनिहितगुहाप्रवेशादिना बुद्धिक्षेत्रज्ञपरतेति विमृश्य पूर्वपक्षयति —
किं तावदिति ।
ऋतमिति श्रुतेनिर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः ।
परस्यापि प्रकृतत्वाज्जीवाद्द्वितीयत्वं किं न स्यादित्याह —
कुत इति ।
सूत्रावयवेनोत्तरम् —
गुहामिति ।
हेतुमेव स्फुटयति —
यदीति ।
जीवाद्द्वितीयं ब्रह्मैव गुहां प्रविष्टं ‘यो वेद निहितं गुहायाम् ‘ इति श्रुतेरित्याशङ्क्याह —
नचेति ।
इतश्च न ब्रह्म गुहां प्रविष्टमित्याह —
सुकृतस्येति ।
ब्रह्मणोऽपि सुकृतलोकवर्तित्वमाशङ्क्याह —
परमात्मेति ।
पूर्वपक्षे हेत्वन्तरमाह —
छायेति ।
बु्द्धेर्द्वितीयजीवज्ञानार्थं वाक्यमित्युपसंहरति —
तस्मादिति ।
सिद्धान्तसूत्रमादायात्मानाविति प्रतिज्ञां व्याकरोति —
एवमिति ।
इहेति प्रकृतमन्त्रोक्तिः ।
पूर्णतया प्रवेशानर्हं ब्रह्म कुतोऽद्वितीयं जीवस्येत्याह —
कस्मादिति ।
हीत्युक्तं हेतुमाह —
आत्मानौ हीति ।
चेतनत्वेन समन्वयाज्जीवे पातरि सिद्धे द्वितीयत्वेन परस्यादानं युक्तमित्यर्थः ।
तत्र किं नियामकमित्याशङ्क्य तद्दर्शनादिति व्याचष्टे —
सङ्ख्येति ।
लौकिकीं दृष्टिमेव दृष्टान्तेनाह —
अस्येति ।
एकस्य चेतनत्वे द्वितीयस्यापि तद्धीः, तदेवासिद्धमित्याशङ्क्याह —
तदिति ।
तत्तत्रेत्थं लौकिकदर्शने सतीति यावत् । इहेति वाक्योक्तिः ।
सम्प्रतिपन्नां जातिमुपजीव्य निर्विशेषान्तरग्रहे बुद्धिलाघवाद्विजातीयग्रहे तद्गौरवात्परमात्मैव द्वितीयो जीवस्येति सूचयति —
समानेति ।
कारकत्वेन बुद्धेरपि जीवसाम्यमाशङ्क्य तस्य बहिरङ्ग्त्वाच्चेतनस्य स्वभावत्वेनान्तरङ्गत्वान्मैवमित्याह —
चेतन इति ।
बहिरङ्गमपि कारकत्वमेव ग्राह्यं, गुहाहितत्वलिङ्गादिति शङ्कते —
नन्विति ।
तत्रापि तद्दर्शनादित्युत्तरमाह —
गुहेति ।
तदेव स्फुटयति —
गुहेत्यादिना ।
परस्मिन्गुहाहितत्वोक्तेस्तात्पर्यं वक्तुमसकृदित्युक्तम् । गुहायां बुद्धावाहितं निक्षिप्तं गह्वरे बहुविधानर्थसङ्कटे देहे स्थितं पुराणं चिरन्तनं परं विदित्वा हर्षादि जहातीति सम्बन्धः । परमे बाह्याकाशापेक्षया प्रकृष्टे व्योमन्यन्तःकरणावच्छिन्ने भूताकाशे निहितं परं यो वेद सोऽश्नुते सर्वान्कामानिति सम्बन्धः । अन्विच्छ विचार्य निर्धारयेत्यर्थः । प्रवेशवाक्यसङ्ग्रहार्थमादिपदम् ।
यत्तु सर्वगतस्य ब्रह्मणो न विशिष्टदेशतेति, तत्राह —
सर्वेति ।
यत्तु परस्य न सुकृतलोकवर्तितेति, तत्राह —
सुकृतेति ।
यदपि छायातपाविति चेतनाचेतनोक्तिरिति, तत्राह —
छायेति ।
तद्वैलक्षण्ये तद्वतोरपि तत्सिद्धिरिति हेतुं साधयति —
अविद्येति ।
प्रथमश्रुतचेतनत्ववशाच्चरमश्रुतं गुहाप्रवेशादि नेयमित्युपसंहरति —
तस्मादिति ॥ ११ ॥
धर्मविशिष्टतया विलक्षणग्रहे बुद्धिरेव स्वतो विलक्षणा ग्राह्येति मन्वानो हेत्वन्तरं पृच्छति —
कुतश्चेति ।
परमात्मासाधारणलिङ्गपरं सूत्रं व्याचष्टे —
विशेषणं चेति ।
न बुद्धिजीवयोरित्येवकारार्थः ।
जीवविशेषणं विशदयति —
आत्मानमिति ।
रथित्वकल्पनाफलं सूच्यते —
संसारेति ।
परस्य विशेषणमाह —
स इति ।
जीवः सर्वनामार्थः । अध्वनः संसारमार्गस्य ।
पारमेव विशिनष्टि —
तदिति ।
व्यापनशीलस्य ब्रह्मणः स्वरूपं तदित्यर्थः । परमं कार्यकारणातीतं पदं तदेव ज्ञेयं नान्यदित्यर्थः ।
किञ्चोत्तरवाक्यवत्पूर्वमपि जीवेश्वरयोरेव विशेषणादृतपानवाक्ये जीवद्वितीयत्वमीशस्यैवेत्याह —
तथेति ।
दुर्दर्शं सूक्ष्मत्वाद्दुर्ज्ञानं तत एव गूढमनुप्रविष्टं गहनतां गतमीश्वरं, अध्यात्मयोगः प्रत्यगात्मन्येव चित्तसमाधानं तत्सहकृताद्वाक्यादधिगमो ब्रह्मात्मैक्यव्यञ्जकचित्तवृत्तिविशेषस्तेनाहमेवेति निश्चित्य धीरो विद्वान्हर्षाद्युपलक्षितं संसारं त्यजतीत्यर्थः ।
चकारसूचितमर्थमाह —
प्रकरणं चेति ।
नच पृष्टत्वाविशेषाज्जीवस्यापीदं प्रकरणं, तस्य ब्रह्मत्वेन प्रतिपाद्यत्वादविरोधादिति भावः ।
जीवद्वितीयत्वं परस्यैवेत्यत्र हेत्वन्तरमाह —
ब्रह्मेति ।
ब्रह्मपक्षे हेतुबाहुल्यात् ‘ऋतं पिबन्तौ’ इत्यत्र जीवानुवादेन तदतिरिक्तो वाक्यार्थान्वयितदर्थशोधनाय परात्मा प्रतिपाद्यत इत्युपसंहरति —
तस्मदिति ।
उक्तन्यायमन्यत्र सञ्चारयति —
एष इति ।
‘द्वा सुपर्णा’ इत्यादौ सर्वत्र द्विवचनस्याकारश्छान्दसः । द्वौ सुपर्णाविव सहैव युज्येते नियम्यनियामकत्वेनेति सयुजौ, सखायौ चेतनत्वेन समानस्वभावौ, समानं नियम्यत्वेन तुल्यं वृक्षं छेदनयोग्यं शरीरं, परिषस्वजाते समाश्रितावित्यर्थः ।
पक्षिणौ कौचिदत्र प्रतीयेते न जीवेशौ ततो नेदमुदाहरणं, तत्राह —
तत्रेति ।
तदनेन ‘गुहां प्रविष्टौ’ इति व्याख्यातम् ।
आत्मानौ हीति व्याचष्टे —
तयोरिति ।
तद्दर्शनादित्युभयोर्लिङ्गदर्शनादिति व्याख्येयम् ।
विशेषणाच्चेति व्याकरोति —
अनन्तरे चेति ।
आत्मेश्वरयोस्तुल्यो वृक्षो देहस्तस्मिञ्जीवो मनुष्योऽहमित्यभिनिवेशवाननीशयाऽविद्यया मुह्यमानस्तत्त्वमजानन्ननिशं शोचति संसारमनुभवति । जुष्टं ध्यानादिना सेवितं यदा तत्प्रकर्षदशायामन्यं बिम्बभूतमीशशब्दलक्ष्यं प्रत्यक्त्वेन पश्यति तदास्यैवात्मत्वेन दृष्टस्य महिमानं स्वरूपं प्राप्नोति । ततश्च वीतशोको विगतसंसारो भवति, तत्र हेतुरितिशब्देनोक्तः, बन्धहेत्वविद्यादेर्ज्ञानाग्निना दग्धत्वादित्यर्थः । नचात्र जीवोक्तौ ‘अनश्नन् ‘ इत्ययोगात् , बुद्धिग्रहे च ‘अभिचाकशीति ‘ इत्यसम्भवात्पूर्वपक्षासिद्धिः, करणे कर्तृत्वोपचारादभिचाकशीतीति बुद्धावपि सिद्धत्वात् , जीवे चैतन्यमात्रादनशनसम्भवात् , मुख्ये कर्तृत्वे सम्भवति कर्तृत्वोपचारो नेति सिद्धान्ताभिप्रायः ।
कृत्वाचिन्तया ‘द्वा सुपर्णो ‘ इत्यादेरेतदधिकरणोदाहरणत्वमुक्त्वा कृत्वाचिन्तामुद्धाटयति —
अपर इति ।
अन्यथा सिद्धान्ताननुगुणत्वेनेति यावत् । सत्त्वमिति बुद्धिरुक्ता ।
सिद्धान्तार्थ व्याचष्टे ब्राह्मणमिति शङ्कते —
सत्वेति ।
प्रसिद्ध्या प्रत्याह —
तन्नेति ।
ब्राह्मणविरोधाच्च न तदन्यथा व्याख्येयमित्याह —
तत्रैवेति ।
प्रकृतं ब्राह्मणं सप्तम्यर्थः । सत्त्वव्याख्यानानन्तर्यमथशब्दार्थः । सत्त्वस्य करणत्वात्क्षेत्रज्ञस्य कर्तृत्वान्न तयोरैक्यमित्यर्थः । तावेतौ करणत्वेन कर्तृत्वेन च भिन्नावित्यर्थः ।
सिद्धान्ताभजनेऽपि पूर्वपक्षमृगेषा भजेतेत्याशङ्क्याह —
नापीति ।
द्वितीयस्य ब्रह्मरूपेणैव प्रतिपादनादिति हेतुमाह —
न हीति ।
अत्रेति मन्त्रब्राह्मणोक्तिः ।
नचायं वाक्यार्थो न युक्तः, श्रुतिस्मृतिसिद्धत्वादित्याह —
तत्त्वमिति ।
इतश्च जीवस्य ब्रह्मत्वदृष्टिरत्रेष्टेत्याह —
तावतेति ।
मन्त्रव्याख्यामात्रेण विद्योपसंहारदर्शनं जीवस्य ब्रह्मत्वोपदेशे घटते न सत्त्वक्षेत्रज्ञविवेकमात्रेण, भेदधियो मिथ्याधीत्वादित्यर्थः ।
अविद्याध्वस्तिफलोक्तिरपि ब्रह्मात्मताज्ञानमिह गमयतीत्याह —
न हेति ।
जीवस्य ब्रह्मत्वोक्तिपरमिदं वाक्यमित्यत्र शङ्कते —
कथमिति ।
बुद्धेर्भोक्तृत्वोक्तावतात्पर्यान्न तत्रोपपत्तिरन्वेष्येत्याह —
उच्यत इति ।
क्व तर्हि श्रुतेस्तात्पर्यं, तत्राह —
किं तर्हीति ।
इतिपदं प्रवृत्तेतिपूर्वेण सम्बध्यते ।
का तर्हि बुद्धेर्भोक्तृत्वधियो गतिः, तत्राह —
तदर्थमिति ।
जीवस्य ब्रह्मत्वसिद्ध्यर्थमिति यावत् ।
चैतन्यच्छायापन्ना धीः सुखादिना परिणमते, तत्र पुरुषोऽपि भोक्तृत्वमिवानुभवति न तत्त्वत इति वक्तुमध्यारोपयतीत्युक्तम् । कुत्रत्यं भोक्तृत्वं बुद्धावारोप्यते तत्राह —
इदं हीति ।
नहि भ्रान्तेरभ्रान्तिपूर्वकत्वं दण्डस्याप्सु वक्रतावदित्युक्तम् —
परमार्थतस्त्विति ।
सत्त्वस्य वस्तुतो भोक्तृत्वाभावे हेत्वन्तरम् —
अविद्येति ।
मिथ्याभोक्तृत्वे मानमाह —
तथाचेति ।
यत्र यस्यामविद्यावस्थायाम् । वैशब्दो निश्चयार्थः । अन्यदिवाभासभूतं नानात्वं दृष्टं स्यात् , तत्र आविद्यकबुद्ध्यादिसम्बन्धादन्यो भूत्वाऽन्यच्चक्षुषा पश्येदन्यच्च श्रोत्रेण शृणुयादित्यर्थः ।
उक्तवाक्यतात्पर्यमाह —
स्वप्नेति ।
वस्तुतो भोक्तृत्वाभावे श्रुतिमाह —
यत्र त्विति ।
यस्यां विद्यावस्थायामस्य विदुषः सर्वं पूर्णं ब्रह्मैवाभूत्तत्राविद्याक्षये भेदभ्रमाभावादारब्धकर्मणा कार्यकरणव्यापारेऽपि स्वगतव्यापारानभिमानात्केन करणेन कः कर्ता पश्येदित्याक्षेपः ।
अनेनापि वाक्येन श्रुत्युक्तमर्थमाह —
विवेकिन इति ।
एवं जीवस्य भोक्तृत्वादेर्मिथ्यात्वात्तदपोहेन तस्य ब्रह्मतामाह पैङ्गिब्राह्मणमिति । पूर्वोत्तरपक्षाननुगुणत्वादनुदाहरणत्वेऽपि कृत्वाचिन्तया ‘द्वा सुपर्णा’ इत्यादीहोदाहृतम् । तच्चाप्रपञ्चे पत्यग्ब्रह्मण्यन्वितम् । ‘ऋतं पिबन्तौ ‘ इति तु जीवद्वितीये परस्मिन्निति स्थितम् ॥ १२ ॥
‘पिबन्तौ’ इति द्वित्वश्रुत्या चेतनत्वेन तुल्यजीवपरदृष्ट्यनुसाराच्चरमश्रुता गुहाप्रवेशादयो नीताः । तर्हि ‘दृश्यते’ इति प्रत्यक्षत्वोक्त्या छायात्मगत्यनुरोधादमृतत्वादयः स्तुत्या कथञ्चिन्नेया इत्याशङ्क्याह —
अन्तर इति ।
उपकोसलविद्यावाक्यमुदाहरति —
य इति ।
छायां निरसितुं विशिनष्टि —
एतदिति ।
क्रियापदेनेतिपदं सम्बध्यते ।
स्थानस्य ब्रह्मानुरूप्यमाह —
तदिति ।
वर्त्मनी पक्ष्मस्थाने । ‘एतं संयद्वाम’ इत्यादि ग्रहीतुमादिपदम् ।
दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह —
तत्रेति ।
तदुक्तिसम्भावनार्थं विशिनष्टि —
अक्षीति ।
देवतां सम्भावयितुम् —
इन्द्रियस्येति ।
आत्मशब्दात्पक्षद्वयमाह —
अथेत्यादिना ।
प्रथमश्रुतवशाच्चरमश्रुतं नेयमिति पूर्वन्यायेन विमृश्य पूर्वपक्षमाह —
किमिति ।
उक्तश्रुतेः सविशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे छायात्मोपास्तिः, ब्रह्मोपास्तिः सिद्धान्ते फलम् ।
अमृतत्वादेरयोगान्न छायात्मेति शङ्कते —
कुत इति ।
‘मनो ब्रह्म’ इत्यादिवदितिशब्दशिरस्कत्वेन वाक्यस्याविवक्षितार्थत्वं मत्वाह —
तस्येति ।
तथापि कथं छायात्मनि वामनीत्वादिकमित्याशङ्क्य चाक्षुषत्वस्यान्यत्रायोगादुपक्रमदृष्ट्या तदपि स्तुत्या नेयमित्याह —
य इति ।
प्रसिद्धवदुपदेशश्चाक्षुषत्वोक्तिरेव । चकारः शङ्कानिरासी ।
सम्भावनामात्रेण पक्षान्तरमाह —
विज्ञानेति ।
तस्य सर्वदेहसाधारण्यात्कुतोऽक्षिस्थानत्वं, तत्राह —
स हीति ।
संनिधिमात्रस्यातिप्रसङ्गित्वमाशङ्क्य हेत्वन्तरमाह —
आत्मेति ।
सम्भावितं पक्षान्तरमाह —
आदित्येति ।
तस्य चक्षुषि विशेषसंनिधिं सूचयति —
चक्षुष इति ।
तस्य तस्मिन्ननुग्राहकत्वेन संनिधौ मानमाह —
रश्मिभिरिति ।
‘एतदमृतम् ‘ इत्यादि कल्पद्वये कथं, तदाह —
अमृतत्वेति ।
जीवपक्षसङ्ग्रहार्थोऽपिशब्दः । कथञ्चिदित्यौपचारिकोक्तिः ।
तेषां मुख्यत्वासम्भवादीश्वरो गृह्यतामित्याशङ्क्य प्रथमदृष्टलिङ्गविरोधान्मैवमित्याह —
नेति ।
सुखविशिष्टब्रह्मप्रकरणं नास्तीति कृत्वाचिन्तया प्राप्तं पक्षमनुभाष्य सिद्धान्तमुत्थाप्य प्रतिज्ञार्थमाह —
एवमिति ।
उक्तेषु पक्षान्तरेषु नियमासिद्धिरित्याह —
कस्मादिति ।
हेतुमादाय व्याकरोति —
उपपत्तेरिति ।
इहेत्यक्षिपुरुषोक्तिः ।
उपपत्तिमेव स्फोरयति —
आत्मत्वमिति ।
गौणमुख्ययोर्मुख्ये संप्रत्ययन्यायं सूचयति —
मुख्ययेति ।
तत्रात्मत्वस्य मुख्यत्वे गमकमाह —
स इति ।
ईश्वरपक्षे हेत्वन्तरमाह —
अमृतत्वेति ।
ईश्वरपक्षे हेत्वन्तरमाह —
तथेति ।
अमृतत्वादिवदित्यर्थः ।
आनुकूल्यमेव स्फोरयति —
यथेति ।
तत्तत्र लोके यद्यपि यदपि किञ्चिदस्मिन्नक्षिणि सर्पिर्घृतमुदकं वा सिञ्चति क्षिपति तत्सर्वं वर्त्मनी पक्ष्मस्थाने एव गच्छति तेन न लिप्यते चक्षुरित्यर्थः । इति ह स्मोपाध्यायो वदतीत्यादावितिशब्दस्योक्तार्थावच्छेदेनोक्तियोगिनोऽर्थपरत्वदृष्टेः ‘इति होवाच’ इत्यत्रापीतिशब्दस्यार्थावच्छेदेनोक्तियोगादर्थपरत्वदृष्टेः, आत्मब्रह्मश्रुतिभ्यां, अमृतत्वादिलिङ्गाच्च दृश्यत इति छायात्मलिङ्गं बाध्यमित्यर्थः ।
किञ्चोपक्रमस्थैकलिङ्गाद्वाक्यशेषस्थानेकलिङ्गानि बलवन्ति, संवादस्य तात्पर्यहेतुत्वादित्याह —
संयदिति ।
कुतोऽस्य संयद्वामत्वं, तत्राह —
एतं हीति ।
वामानि कर्मफलान्येतमक्षिपुरुषं हेतुमाश्रित्याभिसंयन्त्युत्पद्यन्ते, सर्वफलोदयहेतुरयमित्यर्थः ।
वामनीरप्ययमेव पुमानित्याह —
एष इति ।
तदुपपादयति —
एष हीति ।
वामानि शोभनानि लोकं प्रापयति । लोकस्य सर्वशुभप्रापकोऽयमित्यर्थः ।
भामनीरप्ययमेवेत्याह —
एष इति ।
भामानि भानानि सर्वत्र नयतीति भामनीः । अयमेव प्रकाशकः सर्वत्रेत्यर्थः ।
तदेव स्फुटयति —
एष हीति ।
प्रथमश्रुतस्यापि चरमश्रुतैरनेकैरन्यथयितव्यत्वमुपसंहरति —
अत इति ॥ १३ ॥
पूर्वपक्षबीजं दूषयति —
स्थानादीति ।
स्थानान्यादयो येषां नामरूपाणां तेषां व्यपदेसान्न परस्याक्षिस्थानत्वानुपपत्तिरिति योजना ।
यादसामम्भोधिरिव स्थानिनः स्थानं महद्दृष्टमिति शङ्कते —
कथमिति ।
व्योम्नः सूचीपाशादिवदक्ष्यादिस्थानत्वं महतोऽपि परस्य स्यादित्याह —
अत्रेति ।
एवंजातीयकशब्देन गुणजातं गृहीतम् ।
निर्गुणस्य गुणसम्बन्धोक्तिरप्ययुक्ता, तत्कथमनेकदुर्धटप्रकटनमेव समादिरित्याशङ्क्याह —
निर्गुणमिति ।
चकारार्थमाह —
सर्वेति ॥ १४ ॥
प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —
सुखेति ।
हेत्वन्तरपरं सूत्रमिति स्फोरयितुं चकारार्थमाह —
अपिचेति ।
तदेव वक्तुं प्रतिजानीते —
नैवेति ।
विवादस्याकार्यत्वे हेतुमाह —
सुखेति ।
ब्रह्मणो विशिष्टस्योपक्रमस्थस्याक्षिवाक्येऽपि निर्देशादक्ष्याधारस्य पुंसो ब्रह्मतेत्युक्तमेव विवृणोति —
सुखेत्यादिना ।
प्रक्रान्तत्वेऽपि ब्रह्मणोऽक्षिवाक्ये किं जातं, तदाह —
तदेवेति ।
प्रकृतपरिग्रहस्याक्षिवाक्ये यच्छब्देनेति शेषः । दृश्यत इति लिङ्गोपनीतच्छायात्मार्थो यच्छब्दः ।
लिङ्गस्य प्रकरणाद्वलीयस्त्वादित्याशङ्क्य तथात्वे वाक्यभेदाद्गतिमात्रोक्तिशेषाच्चैकवाक्यत्वाकाङ्क्षायां तदापादकप्रकरणस्य लिङ्गात्प्राबल्यात्प्रकृतं ब्रह्मैव यच्छब्दोक्तमित्याह —
आचार्यस्त्विति ।
उक्तं व्यक्तीकर्तुं शङ्कते —
कथमिति ।
तत्र ब्रह्मोक्तिं वक्तुमुपक्रमं दर्शयति —
उच्यत इति ।
प्राणस्य सूत्रात्मनो बृहत्त्वाद्युक्तं ब्रह्मत्वं कथं पुनरर्थेन्द्रिययोगजं सुखं खं च भूताकाशं तद्ब्रह्मेति ज्ञातुं शक्यमित्याह —
एतदिति ।
शङ्कायामुत्तरम् —
तत्रेति ।
प्रत्येकं ब्रह्मत्वमजानतो मिथो वैशिष्ट्योक्तौ कथं धीरित्याशङ्क्य स्वंशब्दस्येतरव्यभिचारे दोषमाह —
तत्र खमिति ।
प्रतीको नामाश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपः । नचायं तदुपदेशः, ‘अप्रतीकालम्बनान्नयति’ इति न्यायेन वक्ष्यमाणगतिविरोधादिति भावः ।
कंशब्दस्यापीतरव्यभिचारे दोषमाह —
तथेति ।
क्षयिता पारतन्त्र्यादि वामयः । नच तस्मिन्ब्रह्मदृष्टिः, उक्तन्यायादित्यर्थः ।
व्यतिरेके दोषमुक्त्वोभयग्रहे गुणमाह —
इतरेतरेति ।
अर्थयोर्विशेषितत्वेन शब्दावपि विशेषितावुक्तौ । कंशब्देन विशेषितो हि खंशब्दो भूताकाशं त्यक्त्वा तद्गुणयोगाद्ब्रह्मणि वर्तते । किमपि खेन विशेषितं निरामयं भवति । तथाच यथोक्तौ शब्दावनवच्छिन्नसुखगुणकं ब्रह्म गमयित्वा चरितार्थावित्यर्थः ।
एकस्यैव ब्रह्मणो ध्योयत्वाद्ब्रह्मपदाभ्यासो वृथेत्याशङ्क्याह —
तत्रेति ।
विशेषणत्वेन, आकाशविशेषणार्पकत्वेनेति यावत् । उपरि प्रयोगाद्ब्रह्मपदं शिरो ययोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्मशिरस्त्वम् ।
सुखस्याध्येयत्वमेवास्तु को दोष इत्याशङ्क्याह —
इष्टं हीति ।
मार्गोक्त्या सगुणविद्यात्वदृष्टेरित्यर्थः ।
ब्रह्मणः प्रक्रान्तत्वमुक्त्वोपसंहरति —
तदेवमिति ।
तत्रैव हेत्वन्तरमाह —
प्रत्येकं चेति ।
उपकोसलं गार्हपत्योऽनुशशास, पृथिव्यग्निरन्नमादित्य इतीमां मे चतस्रस्तनवः ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि’ इति । अन्वाहार्यपचनोऽपि तदनुशासनमकरोत्, अापो दिशो नक्षत्राणि चन्द्रमा इति मे तनवः 'य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि' इति। अाहवनीयोऽपि तदनुशासनं कृतवान् , प्राण आकाशो द्यौर्विद्युदिति मम तनवः ‘य एष विद्युति पुरुषः सोऽहमस्मि’ इति । एवमेते प्रत्येकमग्नयः स्वं स्वं महिमानं विभूतिं पृथिव्यादिविस्तारमुक्त्वैषा सोम्य ते तुभ्यं प्रत्येकमुक्तास्माद्विद्याऽग्निविषया । पूर्वं च सम्भूय ‘प्रणो ब्रह्म’ इत्यादिनात्मविद्योक्तास्माभिरित्युपसंहरन्तो ब्रह्मोपक्रमं दर्शयन्तीत्यर्थः ।
अग्निवाक्ये ब्रह्मोक्तमपि किमित्याचार्यवाक्येऽनुवर्तते, वक्तृभेदादर्थभेदसिद्धेरित्याशङ्क्याह —
आचार्यस्त्विति ।
वक्तृभेदेऽप्येकवाक्यता, साकाङ्क्षत्वात् । पूर्वोत्तरवाक्ययोरेकार्थत्वं, वाक्यैक्यसम्भवे तद्भेदस्यायोगादित्यर्थः ।
फलोक्तेरपि सिद्धमक्षिस्थस्य ब्रह्मत्वमित्याह —
यथेति ।
प्रकृतपुरुषविदो हि पापाद्यनुपहतत्वं फलमुक्तं, तच्च तदधिगमाधिकरणे ब्रह्मधियोऽभिधास्यते तेनास्य ब्रह्मत्वमित्यर्थः ।
आचार्येण गतिमात्रे वाच्ये किमित्यधिकं सोऽभिदधीतेत्याशङ्र्यापेक्षितं पूरयित्वा गतिर्वाच्येत्युपसंहरन्नाह —
तस्मादिति ।
पूर्वापरालोचनायामेकवाक्यत्वनिश्चयादित्यर्थः ॥ १५ ॥
प्रकरणादक्षिस्थस्य ब्रह्मत्वमुक्त्वा लिङ्गादपि तथेत्याह —
श्रुतेति ।
श्रुता संवृत्तोपनिषद्रहस्यं ज्ञानं यस्य स तथा, तस्य या देवयानाख्या गतिरागमसिद्धा तस्याश्चाक्षुषपुरुषवेदिन्यभिधानात्तद्ब्रह्मतेत्यर्थः ।
चकारार्थमाह —
इतश्चेति ।
अवशिष्टं व्याचष्टे —
यस्मादिति ।
या गतिः श्रुतौ स्मृतौ च प्रसिद्धा सैवेहाभिधीयमनेति सम्बन्धः ।
श्रुतिमाह —
अथेति ।
देहपातानन्तर्यमथशब्दार्थः । तपोब्रह्मचर्याद्युपायेनात्मानमनुसन्धाय तद्विद्यया ध्यानाख्यया हेतुनोत्तरमार्गमर्चिराद्युपलक्षितं प्राप्य तेनादित्यद्वारा कार्यं ब्रह्माप्नुवन्तीत्यर्थः ।
ब्रह्म विशिनष्टि —
एतदिति ।
व्यष्टिसमष्टिकरणात्मकं हैरण्यगर्भं पदमित्यर्थः ।
तस्यैव वास्तवं रूपमाह —
एतदिति ।
उक्तविशेषणसिद्ध्यर्थं हेतुमाह —
एतस्मादिति ।
गतिविषयां श्रुतिमुक्त्वा स्मृतिमाह —
अग्निरिति ।
अग्न्यादिशब्दैरातिवाहिक्यो देवता गृह्यन्ते ।
पथ्यन्तरादत्र विशेषमाह —
तत्रेति ।
पथो देवयानस्य प्रामाणिकत्वेऽपि प्रकृते किमायातमित्याशङ्क्योक्तम् —
सैवेति ।
इहेत्युक्तां श्रुतिमाह —
अथेति ।
देहपातानन्तर्यमेवाथेत्युक्तम् ।
अस्मिन्नुपासके प्रारब्धकर्मसमाप्त्या मृते यदि पुत्रा ज्ञातयो वा शव्यं शवसम्बन्धि संस्कारादिकर्म कुर्वन्ति यदि वा न द्विधाप्यप्रतिहतधीफलास्तेऽर्चिरभिमानिनीं देवतां प्राप्नुवन्ति तदाह —
यदु चेति ।
अर्चिषोऽहर्देवतां ततः शुक्लपक्षदेवतां ततः षण्मासोपलक्षितोत्तरायणदेवतां ततः संवत्सराभिमानिनीं देवतां ततश्चादित्यं ततश्चन्द्रं ततो विद्युतमाप्नुवन्ति । तत्तत्र स्थितानुपासकान्ब्रह्मलोकादागत्यामानवः पुरुषो गन्तव्यं ब्रह्म प्रापयीत्याह —
इत्युपक्रम्येति ।
देवैर्नेतृभिरधिष्ठितः पन्था देवपथः । ब्रह्मणा गन्तव्यत्वेनोपलक्षितो ब्रह्मपथः ।
एतेन पथा कार्यं ब्रह्म प्रतिपद्यमानाः पुनरिमं मनोः सर्गं जन्ममरणाद्यावृत्तियुक्तं नावर्तन्ते न प्रविशन्तीत्याह —
एष इति ।
तथापि प्रकृते किं जातं, तदाह —
तदिति ।
प्रकरणमिहेत्युक्तम् ॥ १६ ॥
सिद्धान्तमुपपाद्य परोक्तं प्रत्याह —
अनवस्थितेरिति ।
तद्व्याकर्तुं व्यावर्त्यमनुकीर्तयति —
यदिति ।
सूत्रमुत्तरत्वेन योजयति —
अत्रेति ।
इहेति स्थानं वाक्यं चोक्तम् ।
प्रश्नपूर्वकं हेतुं छायात्मनि व्याचष्टे —
कस्मादिति ।
उक्तमन्वयव्यतिरेकाभ्यां व्यनक्ति —
यदेति ।
स्वचक्षुषि नित्यं संनिध्यभावेऽपि यत्र क्वापि छायात्मनः सम्भवादुपास्यतेत्याशङ्क्याह —
य इति ।
दृश्यत इत्युक्ते स्वेनान्येन वेत्यविशेषाच्चरमश्रुतत्वाच्च प्रथमश्रुतमक्षि स्वकीयमेव युक्तं, संनिधेः स्वस्मिन्नतिशयादित्याह —
संनिधानादिति ।
तर्हि पुरुषान्तरं संनिधाप्य स्वचक्षुषि तद्दृश्यस्योपास्यता स्यादित्याशङ्क्य गौरवान्नेत्याह —
नचेति ।
युक्त्यानवस्थितत्वमुक्त्वा तत्रैव श्रुतिमाह —
अस्येति ।
छायाकरस्येत्यर्थः । आनन्तर्यार्थोऽनुशब्दः । एषशब्दश्छायात्मार्थः ।
हेत्वन्तरमादाय व्याख्याति —
असम्भवाच्चेति ।
जीवनिरासेऽप्यनवस्थितिं व्याचष्टे —
तथेति ।
छायात्मवदित्यर्थः । नहि तस्य चक्षुष्येव व्यक्तियोग्यता, येन तत्रोपास्तिः । विनापि स्थानविशेषमहमिति व्यक्तेरित्यर्थः ।
तर्हि ब्रह्मणोऽपि सर्वत्र सत्त्वान्न चक्षुष्येव स्थितिः, तत्राह —
ब्रह्मणस्त्विति ।
दृष्टः । श्रुताविति शेषः ।
हेत्वन्तरं जीवेऽपि योजयति —
समानश्चेति ।
जीवस्य ब्रह्माभेदात्तत्रामृतत्वादि स्यादित्याशङ्क्याह —
यद्यपीति ।
अनवस्थितिर्देवतात्मन्यसिद्धेत्याशङ्क्य हेत्वन्तरेण निराह —
देवतेति ।
देवेष्वमरत्वप्रसिद्धिवाधितं तदुत्पत्त्यादिवाक्यमित्याशङ्क्याह —
अमरत्वमिति ।
संयद्वामत्वादिकमपि न तत्रेत्याह —
ऐश्वर्यमिति ।
तस्येश्वरायत्तत्वे भयास्तित्वे च मानमाह —
भीषेति ।
भयेनास्मादीश्वरात्पवते चलति । वायुरित्यर्थः ।
पक्षत्रयायोगे फलितमाह —
तस्मादिति ।
ईश्वरेऽपि दृश्यत इत्ययुक्तं, तस्यादृश्यत्वादित्याशङ्क्याह —
अस्मिन्निति ।
उपलब्धिर्दर्शनं तत्र शास्त्रीयदर्शनस्य शास्रमेव संनिहितं करणमिति विद्वत्प्रसिद्धं शास्त्रीयमेव दर्शनं सिद्धवदनूद्यते । तत्राज्ञानामनुरागार्थमित्यर्थः । शास्त्रादीत्यादिपदं विद्वदनुभवार्थम् ।
तद्विषयदर्शनोक्तेरुपयोगमाह —
प्ररोचनेति ।
उक्तं तत्त्वदर्शनमयोग्यमित्युक्ते न तद्दर्शने फलवति भवत्यभिरुचिरित्यर्थः । तदेवमुपकोसलवाक्यं सविशेषे ब्रह्मण्यन्वितमिति ॥ १७ ॥
स्थानादिव्यपदेशसूत्रे पृथिव्यादीनि ब्रह्मणः स्थानानीत्युक्तं, तदसिद्धिमाशङ्क्याह —
अन्तर्यामीति ।
अन्तर्यामिब्राह्मणमुदाहरति —
य इति ।
मनुष्यादिभिर्देवादिभिश्चाधिष्ठितमिमममुं च लोकं योऽन्तरो यमयति, यश्च लोकद्वयवर्तीनि भूतान्यन्तरः सन्यमयति, तं किं वेत्थेत्यन्तर्यामिणमुपक्रम्य श्रुतमित्यर्थः ।
पृथिव्यां तिष्ठन्नन्तर्यामीत्युक्ते सर्वत्रापि चराचरे प्रसक्तावुक्तम् —
पृथिव्या इति ।
तद्देवतां प्रत्याह —
यमिति ।
ईश्वरस्याप्यकार्यकरणस्य न नियन्तृतेत्याशङ्क्याह —
यस्येति ।
नियम्यकार्यकरणैरेव नियन्तृत्वम् ।
फलितमाह —
य इति ।
तस्याताटस्थ्यमाह —
एष इति ।
ते मम चेत्यर्थः । आदिपदं ‘योऽप्सु तिष्ठन्’ इत्यादिसङ्ग्रहार्थम् ।
आपातिकं श्रुत्यर्थमाह —
अत्रेति ।
‘यः पृथिव्याम्’ इत्याद्यधिदैवतम् । ‘यः सर्वेषु लोकेषु ‘ इत्यधिलोकम् । ‘यः सर्वेषु वेदेषु’ इत्यधिवेदम् । ‘यः सर्वेषु यज्ञेषु’ इत्यधियज्ञम् । ‘यः सर्वेषु भूतेषु’ इत्यधिभूतम् । ‘यः प्राणेषु’ इत्यादि ‘य आत्मनि’ इत्यन्तमध्यात्ममिति भेदः ।
अदेहस्य नियन्तृत्वासम्भवसम्भवाभ्यां संशयमाह —
स किमिति ।
अर्थान्तरे सन्दिह्यमाने हेतुमाह —
अपूर्वेति ।
दृश्यत इति श्रुतिर्बहुतरलिङ्गाद्यनुरोधेनार्थविशेषपरतया नीता, अत्र त्वन्तर्यामिशब्दस्याप्रसिद्धार्थत्वान्नार्थो निर्णीतो डित्थादिशब्दवदित्याह —
किं तावदिति ।
अन्तर्यामिब्राह्मणस्य सविशेषे ब्रह्मण्यन्वयोक्तेः । सङ्गतयः पूर्वपक्षे विशिष्टस्य योगिनोऽन्तर्यामिणः, सिद्धान्ते परस्यैव तस्योपास्तिरिति फलम् ।
तत्र पूर्वपक्षाभासमाह —
संज्ञाया इति ।
अध्ययनविध्युपात्तस्य पुमर्थान्वयध्रौव्यादनिर्धारितस्य तदयोगादन्तर्यमिरूपं निर्धारणीयमिति पक्षान्तरमाह —
अथवेति ।
अप्रसिद्धत्वात्संज्ञायाः संज्ञिनापि तथा भाव्यं व्याप्तेरित्याशङ्क्याह —
अन्तर्यामीति ।
अर्थान्तरायोगे फलितमाह —
तस्मादिति ।
तत्र शाकल्यवाक्यं प्रमाणयति —
तथाचेति ।
आयतनं शरीरं, लोको लोक्यतेऽनेनेत्यसाधारणं, ज्योतिः साधारणं करणम् । सशरीरा देवता चक्षुर्मनोभ्यां सर्वं वेत्तीत्यर्थः । ‘यस्तं विद्यात्स एव वेदिता’ इत्यादि ग्रहीतुमादिपदम् ।
ईश्वरेऽपि सर्वमिदं स्यादित्याशङ्क्याह —
स चेति ।
उपक्रमोपसंहाराभ्यामेकस्मिन्नन्तर्यामिणि सिद्धे कथं पृथिव्याद्यनेकदेवतोक्तिरित्याशङ्क्याह —
योगिनो वेति ।
यदनुग्रहाद्योगिनो नियमनादिसामर्थ्यं स किमित्युपेक्ष्यते, तत्राह —
न त्विति ।
विशिष्टस्य योगिनोऽन्तर्यामिणो ध्यानार्थं ब्राह्माणमित्युपसंहर्तुमितिशब्दः ।
सिद्धान्तयति —
एवमिति ।
प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमुपस्थाप्य व्याचष्टे —
कुत इति ।
इहेत्यन्तर्यामिग्रहणम् ।
के ते परस्यासाधारणा धर्मा येऽन्तर्यामिणि व्यपदिश्यन्ते, तत्र सर्वनियन्तृत्वं तावदाह —
पृथिव्यादीति ।
साधनाधीनशक्त्या तद्वतो ज्ञाने तद्धियोपेक्षणाद्धीगौरवात् , नित्यसिद्धशक्त्येश्वरग्रहे लाघवात्तस्यैव सर्वनियन्तृतेति भावः ।
परस्यैवासाधारणधर्मद्वयमाह —
एष इति ।
देवपक्षे दोषान्तरमाह —
यमिति ।
एकस्य कर्मकर्तृत्वायोगात्पृथिव्यपि देवता न स्वात्मानं जानीयादिति कुतस्ततोऽन्यत्वं, तत्राह —
पृथिवीति ।
अहमित्यात्मधीः सर्वेषामनुभवसिद्धा देवतायामपि नापह्नोतुं शक्येत्यर्थः ।
इतोऽपि परमात्मैवान्तर्यामीत्याह —
तथेति ।
अकार्यकरणत्वान्न परोऽन्तर्यामी घटयदित्युक्तमनुवदति —
यत्त्विति ।
किमीश्वरस्य नियम्यातिरिक्तदेहादिराहित्यं वा देहाद्यसंबन्धो वा तत्राभोक्तृत्वं वा हेतूक्रियते । नाद्यः तक्षादेः स्वदेहादिनियमने देहान्तराद्यभावेन व्यभिचारात् । द्वितीये स्वाविद्यार्जितदेहादेरीश्वरेण सम्बन्धादसिद्धिः । तृतीये त्वभोक्तृत्वादीश्वरो न नियन्तेत्यत्राचेतनत्वमुपाधिः ।
नच मुक्तात्मसु साध्याव्याप्तिः । तेषामीश्वराभेदेन पक्षत्वादिति विवक्षन्नाह —
नैष इति ।
ईश्वरस्य नियन्तृत्वे कार्यकारणवत्त्वमपि शक्यमस्मदादिवदनुमातुमित्याशङ्क्य नियम्यकार्यकरणवत्त्वे सिद्धसाधनमतिरिक्ततद्वत्त्वे श्रुतिविरुद्धतेत्याह —
यानिति ।
स्वदेहादिनियन्तुरपि जीवस्यान्यो नियन्ता चेत्तस्याप्यन्यो नियन्ता स्यादविशेषादित्याशङ्क्याह —
तस्यापीति ।
निरङ्कुशं सर्वनियन्तृत्वं श्रौतम् । नच तादृशि सर्वनियन्तरि भेदः । न चानुमानं श्रुतिबाधितमुत्तिष्ठति । तन्नानवस्थेत्यर्थः ।
योगिपक्षे तु स्यादनवस्थेत्याह —
भेदे हीति ।
तत्रापि नियन्तृत्वं क्वापि तिष्ठति चेदिष्टसिद्धिरिति भावः ।
सूत्रार्थमुपसंहरति —
तस्मादिति ॥ १८ ॥
सूत्रव्यावर्त्यां शङ्कामाह —
स्यादेतदिति ।
यौक्तिकेऽर्थे स्मृतिमपि संवादयति —
अप्रतर्क्यमिति ।
इत्थं महदादिरूपेण प्रधानं किमिति प्रवर्तते कस्मान्नान्यथेति तर्कस्याविषयो गूढत्वादित्यर्थः । रूपादिराहित्यादविज्ञेयं चक्षुराद्यग्राह्यं, प्रसुप्तमिव सर्वतः सर्वासु दिक्षु जडिमव्याप्तमित्यर्थः ।
कथं तस्याचेतनस्यान्तर्यामित्वं, तत्राह —
तस्येति ।
अदृष्टत्वादीनां प्रधाने सम्भवे फलितमाह —
तस्मादिति ।
प्रागेव प्रयुक्तं प्रधानं किमिति पुनः शङ्क्यते, तत्राह —
ईक्षतेरिति ।
प्रासङ्गिकशङ्कोत्तरत्वेन सूत्रमादाय व्याकरोति —
अत इति ।
अदृष्टत्वादिसम्भवात्प्रधानस्यान्तर्यामित्वमुक्तमित्याशङ्क्य हेतुमाह —
कस्मादिति ।
हेत्वसिद्धिं शङ्कित्वा तदर्थमाह —
यद्यपीति ।
अन्तर्यामिणि द्रष्टृत्वादिव्यपदेशं दर्शयति —
अदृष्ट इति ।
इहेति ब्राह्मणोक्तिः ।
प्रधानपक्षे दोषान्तरमाह —
आत्मत्वमिति ॥ १९ ॥
उत्तरसूत्रव्यावर्त्याशङ्कामाह —
यदीति ।
द्रष्ट्टत्वाद्यसम्भवस्य तत्रापि तुल्यत्वमाशङ्क्योक्तम् —
शारीरो हीति ।
तथापि कथं तत्रामृतत्वं, स हि देहापाये म्रियते, तत्राह —
अमृतश्चेति ।
अन्यथाऽकृतागमादिप्रसङ्गात् ‘जीवापेतं वाव’ इत्यादिश्रुतेश्चेत्यर्थः ।
तथापि कथमदृष्टत्वादीनां तत्रोपपत्तिस्तस्याहन्धीव्याप्यत्वात् , तत्राह —
अदृष्टत्वेति ।
सकर्मिका क्रिया कर्म व्याप्नोति न कर्तारं तेन कर्तर्यात्मनि दर्शनादिवृत्तौ कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यं चेत्येकस्यां क्रियायां युगपद्गुणप्रधानत्वविरोधादिति हेतुमाह —
दर्शनादीति ।
जीवस्यादृष्टत्वादयो न केवलं यौक्तिकाः । किन्तु श्रौताश्चेत्याह —
नेति ।
लौकिक्या दृष्टेर्बुद्धिपरिणतेर्द्रष्टारमात्मानं तयैव दृष्ट्या त्वं न पश्येर्न शक्नोषि द्रष्टुमित्यर्थः । ‘न श्रुतेः श्रोतारम्’ इत्यादिसङ्ग्रहार्थमादिपदम् ।
तथापि कथं तस्यान्तर्यामित्वं नियम्यनिविष्टत्वात् , तत्राह —
तस्येति ।
अन्तर्यामिधर्माणां शारीरे सम्भावनाफलमाह —
तस्मादिति ।
सूत्रमवतारयति —
अत इति ।
अपेक्षितं पूरयित्वा प्रतिज्ञां विभजते —
नेत्यादिना ।
चकारादनुवृत्तिः ।
द्रष्ट्टत्वादिधर्माणां सम्भवात्तदन्तर्यामित्वं दुर्वारमिति शङ्कते —
कस्मादिति ।
चशब्दसूचितं ब्रुवन्परिहरति —
यद्यपीति ।
उभयेऽपीत्यादि व्याकरोति —
अपि चेति ।
माध्यन्दिनपाठे भेदोक्तिं व्यनक्ति —
य आत्मनीति ।
काण्वानां पाठे भेदोक्तिं व्यनक्ति —
विज्ञान इति ।
काण्वपाठे शारीरवाचिपदाभावात्कुतो भेदोक्तिः, तत्राह —
विज्ञानेति ।
विज्ञानशब्दस्य बुद्ध्यर्थस्य कथं शारीरे वृत्तिरित्याशङ्क्य रूढ्यभावेऽपि वृत्त्यन्तरमाह —
विज्ञानेति ।
भेदोक्तिफलमाह —
तस्मादिति ।
भेदेनेत्यादिसूत्रात्तात्त्विकभेदाशङ्कां निरसितुं शङ्कते —
कथमिति ।
द्रष्ट्टद्वयमेव विशिनष्टि —
यश्चेति ।
न खल्वेकस्मिन्देहे द्रष्ट्टद्वयं युक्तं, विरुद्धाभिप्रायानेकचेतनाधिष्ठितस्य देहस्याव्यवस्थितत्वप्रसङ्गादित्यर्थः ।
कश्चित्कार्यकरणसंहतो भोक्ता तद्रहितोऽन्योऽधिष्ठाता पश्यत्येवेति विभागे नावद्यमिति शङ्कते —
का पुनरिति ।
अनुपपत्तिमाह —
नेति ।
विरोधं स्फोरयितुं प्रतीतमर्थमाह —
अत्रेति ।
अस्मिन्ग्रामे मैत्र एवाद्वितीय इतिवत्तत्तुल्यद्रष्ट्रन्तरनिवारकमेव तदिति शङ्कते —
नियन्त्रन्तरेति ।
सर्वनियन्तुः स्वनियन्त्रा नियन्तव्यत्वशङ्काभावात् , नान्योऽतोऽस्ति नियन्ता द्रष्टेति विशेषाश्रुतेश्च नैवमित्याह —
नेति ।
आत्मनि तिष्ठन्नित्यौपाधिकभेदार्थं वाक्यं, ‘नान्योऽतोऽस्ति’ इति तु तत्त्वविषयमिति परिहरति —
अत्रेति ।
भेदोक्तेस्तत्त्वविषयत्वं, निषेधोक्तेश्चातत्त्वविषयतेति वैपरीत्यमाशङ्क्याह —
एको हीति ।
प्रत्यक्त्वात्मत्वयोरेकत्रैव मुख्यत्वादित्यर्थः ।
एकत्वमेव तत्त्वं चेत्कुतो भेदोक्तिः, तत्राह —
एकस्येति ।
औपाधिकभेदोक्तिमुदाहरति —
यथेति ।
तात्त्विकभेदाभावे कथं श्रुत्याद्युपपत्तिः, तत्राह —
ततश्चेति ।
प्राप्तृप्राप्तव्यादिसङ्ग्रहार्थमादिपदम् ।
आविद्याद्भेदाद्व्यावहारमात्रसिद्धावन्वयव्यतिरेकश्रुतिमाह —
तथा चेति ।
आविद्यभेदानुवादेन नियन्तृनियम्यत्वम् । वस्तुतस्त्वद्वितीयः परमात्मा, तत्राविद्यया सर्वनियन्तर्यन्वितमन्तर्यामिब्राह्मणं, तस्यानुध्यानादापरोक्ष्यान्मोक्ष इति भावः ॥ २० ॥
अदृष्टत्वादीनां प्रधानगामित्वेऽपि द्रष्ट्टत्वादीनां तत्रायोगान्न तदन्तर्यामीत्युक्तम् । तर्हि भूतयोनिवाक्ये द्रष्ट्टत्वादीनामनुक्तेरदृश्यत्वादिगुणको भूतयोनिः प्रधानमेवेत्याशङ्क्याह —
अदृश्यत्वादीति ।
अथर्वणवाक्यमाह —
अथेति ।
अपरविद्योक्त्यनन्तरं या परा विद्योच्यते तां विशिनष्टि —
ययेति ।
अक्षरं वर्णसमुदायाद्व्यवच्छिनत्ति —
यदिति ।
अद्रेश्यमदृश्यं ज्ञानेन्द्रियाविषयः, अग्राह्यं कर्मेन्द्रियाविषयः, अगोत्रं वंशशून्यम् , अवर्णं जातिहीनम् ।
न केवलमिन्द्रियाविषयः, तद्धीनं चेत्याह —
अचक्षुरिति ।
न विद्येेते चक्षुःश्रोत्रे यस्य तत्तथा । चक्षुःश्रोत्रोक्तिरनुक्तज्ञानेन्द्रियोपलक्षणार्थम् ।
कर्मेन्द्रयराहित्यमाह —
अपाणीति ।
पाणिश्च पादश्च पाणिपादं तन्नास्ति यस्य तत्तथा । उभयोक्तिरनुक्तकर्मेन्द्रियोपलक्षणम् । नित्यमनाशोपलक्षितसत्ताकम् । विभुं प्रभुम् , सर्वगतं सर्वकल्पनाधिष्ठानम् । सुसूक्ष्मं दुर्ज्ञानत्वात् , तदव्ययमपक्षयाभावात् , यथोक्तमक्षरं भूतयोनिं भूतकारणं धीराः पण्डिताः पश्यन्तिः, तदक्षरं ययाधिगम्यते सा परा विद्येत्यर्थः ।
अदृश्यत्वादिसाधारणधर्मदृष्ट्या संशयमाह —
तत्रेति ।
भूतयोनिः सप्तम्यर्थः ।
साधारणस्याप्यन्तर्यामिशब्दस्य लाघवसाहाय्यान्नित्यसिद्धनियन्तृत्वादिनेश्वरपरत्वमुक्तम् । इहापि साधारणादृश्यत्वादिधर्मस्याचेतनदृष्टान्तोपादानबलात्प्रधाननिष्ठतेति पूर्वपक्षमाह —
तत्रेति ।
भूतयोनिवाक्यस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानस्य शारीरस्य वा ध्यानं सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् ।
दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतानियमाद्दृष्टान्तस्याचेतनत्वाद्दार्ष्टान्तिकस्यापि भूतयोनेरचेतनत्वमिति हेतुमाह —
अचेतनानामिति ।
ऊर्णनाभिर्लूताकीटः स्वदेहाव्यतिरेकिणस्तन्तून्सृजत्युपसंहरति चेत्यर्थः । सतो विद्यमानात् । जीवत इति यावत् । इहेति सर्गावस्थोक्तिः ।
दृष्टान्तमाक्षिप्य समाधत्ते —
नन्विति ।
इहेत्यक्षराद्विश्वोत्पत्तावित्यर्थः ।
केवलचेतनस्य वा कारणत्वं, चेतनाधिष्ठिताचेतनस्य वा । तत्राद्यं प्रत्याह —
न हीति ।
शरीरस्यापि तत्रान्वयव्यतिरेकित्वादित्यर्थः ।
द्वितीयमङ्गीकरोति —
चेतनेति ।
दार्ष्टान्तिकेऽपि चेतनाधिष्ठितं प्रधानं जगद्धेतुरिति भावः ।
पूर्वं प्रधानस्य प्रत्युक्तत्वात्कथं पुनस्तदाशङ्का, तत्राह —
अपिचेति ।
इहेत्यत्रेति च भूतयोनिवाक्योक्तिः । विरुध्यमानत्वमप्रधानविषयत्वम् । यद्वात्रेति प्रधानमुक्तम् । विरुध्यमानत्वं धर्मस्य तस्मिन्नसम्भवित्वम् ।
स्ववाक्ये प्रधाने विरुद्धधर्माभावेऽपि वाक्यशेषे सोऽस्तीति शङ्कते —
नन्विति ।
भूतयोनेरक्षरस्य पञ्चम्यन्ताक्षरश्रुत्या प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य सर्वज्ञत्वादीति वाक्यशेषस्याक्षरातिरिक्तं विषयं दर्शयन्नाह —
अत्रेति ।
अक्षरस्य जगद्योनित्वमुक्त्वा ‘यः सर्वज्ञः सर्ववित् ‘ इति सर्वज्ञस्य तदुक्तेर्लिङ्गप्रत्यभिज्ञानादक्षरस्यैव सर्वज्ञत्वादीति चेत् , न, अक्षरश्रुतिप्रत्यभिज्ञातो लिङ्गप्रत्यभिज्ञाया दुर्बलत्वात् , ‘येनाक्षरं पुरुषं वेद’ इति चेतनेऽपि भूतयोनौ श्रुत्या प्रत्यभिज्ञानात् , जगत्प्रकृतित्वलिङ्गानुगृहीतश्रुतिप्रत्यभिज्ञया केवलश्रुतिप्रत्यभिज्ञा बाध्येति चेत् , न, तस्मादिति निमित्तेऽपि पञ्चमीसम्भवात् ।
नचैवमपि प्रत्यभिज्ञायाः साम्यं, अचेतनदृष्टान्तानुगृहीतप्रत्यभिज्ञाप्राबल्यात् । तस्मात्प्रधानमेव भूतयोनिरित्याह —
प्रधानमेवेति ।
सर्वज्ञाद्विवेकायात्र प्रधानं ग्राह्यमित्युक्त्वा जीवो देहाद्यतिरिक्तोऽभ्युदयनिःश्रेयसाप्तये निरूप्यतेऽत्रेति पक्षान्तरमाह —
यदेति ।
योनिशब्दस्य प्रकृत्यर्थत्वे निमित्तार्थत्वे च प्रधानस्य सर्वज्ञाद्विविक्तस्य जीवस्य वा देहाद्यतिरिक्तस्य द्विविधपुमर्थाप्तये ध्यानार्थमेतदित्युपसंहर्तुमितिशब्दः ।
सिद्धान्तसूत्रमवतारयति —
एवमिति ।
तत्र प्रतिज्ञां व्याचष्टे —
योऽयमिति ।
प्रधानादौ सम्भवति नियमासिद्धिरित्याह —
कथमिति ।
नियामकं हेतुमवतार्य व्याचष्टे —
धर्मेति ।
भूतयोनिरिहेत्युक्तः । हेतोरन्यथासिद्धिं धुनीते —
नहीति ।
‘अक्ताः शर्करा उपदधाति’ इत्यत्र ‘तेजो वै घृतम्’ इति शेषान्निर्णयवदिहापि साधारणोपक्रमस्थस्यादृश्यत्वादेः शेषाद्ब्रह्मनिष्ठता निर्णेयेत्यर्थः ।
वाक्यशेषो भूतयोनिविषयो नेत्युक्तं स्मारयति —
नन्विति ।
‘जनिकर्तुः प्रकृतिः’ इति स्मृतेरक्षरादिति पञ्चम्या जायमानप्रकृतित्वेनोक्तमक्षरं ‘तस्मादेतद्ब्रह्म’ इत्यत्रापि पञ्चम्या प्रत्यभिज्ञायते । तेन भूतयोन्यर्थ एव वाक्यशेष इत्याह —
अत्रेति ।
तस्मादविशेषेण सर्वज्ञाद्विशेषेण सर्वविदो ज्ञानमयतपःसहितात्कार्यं ब्रह्म सूक्ष्मभूतात्मकं नाम रूपं च स्थूलभूतात्मकमन्नं च ब्रीहियवादि सर्वं भौतिकं तद्द्वारा सत्तां प्राप्नोतीत्याह —
तस्मादिति ।
लिङ्गप्रत्यभिज्ञाफलमाह —
तस्मादिति ।
श्रुतिप्रत्यभिज्ञा लिङ्गप्रत्यभिज्ञातो बलवती दर्शितेत्याशङ्क्य पञ्चम्यन्ताक्षरपदं न प्रकृताक्षरगामीत्याह —
अक्षरादिति ।
तत्र गमकं पृच्छति —
कथमिति ।
चेतने भूतयोनौ प्रथममेव श्रुतिप्रत्यभिज्ञानादित्याह —
येनेति ।
येन ज्ञानेनाक्षरं प्रकृतं भूतयोनिं सर्वज्ञं पुरुषं सत्यं वेद तां ब्रह्मविद्यामुपसन्नाय शान्तायाचार्यः प्रोवाच प्रब्रूयादित्युपक्रम्य ‘अक्षरात्परतः परः’ इत्युच्यमानः परो न भूतयोनेरतिरिच्यते । तथाच क्वचिज्जगत्प्रकृतित्वं क्वचित्तन्निमित्ततेति न वैषम्यमिति भावः ।
पञ्चम्यन्ताक्षरपदस्य भूतयोन्यर्थत्वाभावे तद्वाक्यं वाच्यमिति शङ्कते —
कथमिति ।
तत्र भाविनं परिहारं सूचयति —
उत्तरेति ।
परा विद्येति समाख्यानादपि भूतयोनेरक्षरस्य ब्रह्मतेत्याह —
अपिचेति ।
भूतयोनेरपरविद्यागम्यत्वं निराह —
तत्रेति ।
उदाहृते वाक्ये प्रतीतमर्थमाह —
तत्रेति ।
तथापि प्रधानं जीवो वा परविद्यागम्यमक्षरं स्यादित्याशङ्क्याह —
यदीति ।
कार्यकारणविषयतया भोक्तृभोग्यविषयतया वा परापरविभागमाशङ्क्याह —
परेति ।
प्रधानादिविद्या मुक्तिफलतया परा स्यादित्याशङ्क्याह —
नचेति ।
जडमात्रस्य तद्युक्ताजडस्य वा धीनं मुक्तिहेतुः, चिन्मात्रधियस्तद्भावादित्यर्थः ।
यदि प्रधानस्य जीवस्य वा भूतयोनित्वेन तद्विद्या परविद्या तदोत्तरत्रोच्यमानसर्वविज्ञानस्यापीष्टत्वाद्द्वे विद्ये इति द्वित्वश्रवणं न स्यादित्याह —
तिस्रश्चेति ।
इष्टापत्तिं प्रात्याचष्टे —
द्वे इति ।
इहेत्युपक्रमोक्तिः ।
इतश्च भूतयोनिवाक्यं ब्रह्मनिष्ठमित्याह —
कस्मिन्निति ।
एकविज्ञानेन सर्वं विज्ञानं पक्षान्तरेऽपि स्यादित्याशङ्क्याह —
नेति ।
अचेतनस्य भोग्यमात्रस्यैकमयनमाश्रयस्तस्मिन्नित्यर्थः । मात्रशब्देनात्मभ्यो भेदमाह । प्रधाने ज्ञाते भोग्यवर्गज्ञानेऽपि न भोक्तृज्ञानमित्यर्थः ।
जीवपक्षे तज्ज्ञाने भोग्यधीरपि नेत्याह —
भोग्येति ।
ब्रह्मविद्येति समाख्ययापि भूतयोनेर्ब्रह्मतेत्याह —
अपिचेति ।
सर्वविद्यानां प्रतिष्ठा समाप्तिर्यस्यां ततो निरतिशयपुरुषार्थलाभात्तां ब्रह्मविद्यां सर्वविद्यावेद्यवस्त्वधिष्ठानविषयतया वा सर्वविद्याप्रतिष्ठामथर्वनाम्ने कुत्रचित्सृष्टावाद्याय पुत्राय स ब्रह्मोक्तवानित्यर्थः ।
‘ब्रह्मा देवानाम् ‘ इति वक्ता तत्रोपक्रान्त एवेत्याशङ्कवाह —
प्राधान्येति ।
तथापि कथमक्षरस्य ब्रह्मत्वं, तदाह —
सा चेति ।
ब्रह्मविद्योपक्रमेऽप्यपरविद्यावदक्षरविद्यापि ब्रह्मविद्या मा भूदित्याशङ्क्य प्रक्रान्ताया अन्यत्रानुक्तिवदत्राप्यनुक्तौ बाधादक्षरविद्या ब्रह्मविद्यैवेत्याह —
अपरेति ।
तस्यास्तत्प्रशंसार्थत्वं कथं, तत्राह —
प्लवा हीति ।
प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, तत्प्रसिद्धौ हिशब्दः ।
तदेवोत्पत्त्यादिमत्त्वेन साधयति —
अदृढा इति ।
के ते यज्ञरूपाः यज्ञो रूपमुपाधिर्येषां ते तथा, ऋत्विगादिशब्दस्य यज्ञोपाधिकत्वात् । अष्टादश षोडशर्त्विजः पत्नी यजमानश्च । क्षयिफलत्वादवरं कर्म येषु यदाश्रयमुक्तं श्रुत्या विहितमेतदेव कर्म श्रेयोहेतुर्न ब्रह्मधीरिति ये मूढा हृष्यन्ति ते पुनः पुनर्जरापूर्वं मरणमेवाप्नुवन्तीत्यर्थः । आदिपदं ‘अविद्यायामन्तरे वर्तमानाः’ इत्यादिसङ्ग्रहार्थम् ।