अद्वैतशारदा

न्यायनिर्णयव्याख्या

१ परिच्छेदः

इतश्च पर­वि­द्या­शे­ष­त्वे­नै­वा­प­र­वि­द्यो­क्ति­रि­त्याह —
निन्दित्वेति ।
प्रत्यक्षादिना कर्म­सा­ध्यां­ल्लो­का­न­नि­त्य­तया ज्ञात्वा निर्वेदं वैरा­ग्य­मा­या­द्ग­च्छे­त्कु­र्यात् । कथं, नास्त्यकृतो मोक्षः कृतेन कर्मणा, नित्यफलार्थी चाहं, तस्मात्किं कर्मणेति विरक्तस्तस्य ब्रह्मणो विज्ञानार्थं गुरु­मे­वा­भि­ग­च्छे­द्गु­रु­पा­दो­प­स­र्पणं कृत्वा मुक्ति­हे­तु­ज्ञा­नाय श्रवणादि कुर्यादित्यर्थः । ‘रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुण् ‘ इति न्यायेन समि­त्पा­णि­रि­त्यु­क्तम् । श्रोत्रि­य­मि­त्या­दि­ना­ध्य­य­न­ही­नस्य वाऽकर्मिणो वा गुरुत्वं वार्यते । कर्मनिन्दया ततो विर­क्त­स्या­धि­का­रो­क्ते­र­क्ष­र­विद्या ब्रह्म­वि­द्यै­वेति समुदायार्थः ।

पूर्व­प­क्ष­बी­ज­म­नु­भा­षते —
यत्त्विति ।

सर्वथा वा साम्यं, अंशेन वा नाद्य इत्याह —
तदयुक्तमिति ।

सर्वथा साम्य पर­स्या­प्य­नि­ष्टा­प­त्ति­माह —
अपिचेति ।

कार्यस्य कारणाव्यतिरेको विव­क्षि­तोंऽ­श­स्तेन साम्य­मि­ष्ट­मे­वेति मत्वोपसंहरति —
तस्मादिति ॥ २१ ॥

भूत­यो­ने­र्ब्र­ह्मत्वे हेत्वन्तरमाह —
विशेषणेति ।

चकारार्थमाह —
इतश्चेति ।

एवकारार्थमाह —
नेतराविति ।

इतःशब्दार्थं स्फुट­य­न्प्र­श्न­पूर्वं हेतुद्वयमाह —
कस्मादिति ।

विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति विभज्य व्याकु­र्व­न्नाद्यं व्याचष्टे —
विशिनष्टीति ।
दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, तत्र श्रुत्य­न्त­र­प्र­सि­द्ध्यर्थो हिशब्दः । अमूर्तत्वं पूर्णत्वम् ।

आकाशाद्विशेषमाह —
पुरुष इति ।

कार्यकारणाभ्यां परि­च्छे­द­मा­श­ङ्क्याह —
सबाह्येति ।
बाह्यं कार्यमभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन तिष्ठति तस्य सर्व­क­ल्प­ना­धि­ष्ठा­नत्वे श्रुति­प्र­सि­द्ध्यार्थो हिशब्दः ।

जन्माद्यभावेन कौटस्थ्यमाह —
अज इति ।

प्राणमनोभ्यां संस­र्गा­भे­दा­भा­वा­त्प­रि­शु­द्धि­माह —
अप्राणो हीति ।

शारीरस्यापि विशेषणं स्यादि­त्या­श­ङ्क्याह —
न हीति ।
तद्धर्मा नामरूपादिधर्मा दृश्यत्वादयः ।

विेशे­ष­ण­स्या­न­न्य­था­सि­द्धि­फ­ल­माह —
तस्मादिति ।

विशेषणस्य तुल्यत्वेऽपि द्वितीयं हेतुं प्रधानपक्षे योजयति —
तथेति ।

भेदोक्तिं व्यनक्ति —
अक्षरमिति ।

किं तदव्याकृतं, तदाह —
नामेति ।
तयो­र्बी­ज­स्ये­श्व­रस्य शक्तिरूपं, तत्पा­र­त­न्त्र्यात् । भूतानां लीलानां सूक्ष्मं संस्काररूपं वर्ततेऽत्रेति भूतसूक्ष्मं, ईश्वरपदलक्ष्यं स्वरू­प­मा­श्र­योऽ­स्येति तथोक्तम् । अन्यस्य तत्कार्यत्वेन तदा­श्र­य­त्वा­त्त­स्यै­वे­श्वरो जीवो जगदिति बुद्धा­वु­पा­धि­त्वेन स्थितं, विका­र­हे­तु­त्वा­द्वि­का­र­श्चे­त्यर्थः । ननु नामरूपयोर्बीजं शक्तिरूपं चाव्याकृतम् । यद्वा नामरूपे एव बीजे तयोः शक्तिरूपं तदेव तच्च भूतसूक्ष्मं तत्का­र­ण­त्वा­दी­श्व­रा­श्र­य­मि­त्या­श्र­य­शब्दो विष­या­र्थ­स्त­स्यै­वे­श्व­रस्य जीवत्वं प्राप्तस्य बुद्ध्या­दि­द्वारा कर्तृ­त्वा­दा­वु­पा­धि­भू­त­मिति व्याख्येयं भाष्यमिति चेत् । मैवम् । आश्रयशब्दस्य श्रुता­र्थ­त्या­गा­यो­गा­ज्जी­व­त्वा­प­त्ते­श्चा­व्या­कृ­त­स­म्ब­न्ध­कृ­त­त्वा­त्प­रि­शुद्धे चिद्धातौ तत्स­म्ब­न्ध­ध्रौ­व्यात् । अतो भाष्यबहिर्भूतो नानाजीववादः ।

अक्ष­र­श­ब्दा­र्थ­मुक्त्वा परिशिष्टं व्याचष्टे —
तस्मादिति ।
इहेति प्रकृ­त­वा­क्योक्तिः ।

प्रधा­ना­द्ब्र­ह्मणो भेदे प्रधा­न­मि­ष्ट­म­स­तोऽ­प्र­ति­यो­गि­त्वा­दि­त्या­श­ङ्क्याह —
मात्रेति ।

प्रति­यो­ग्य­न­ङ्गी­कारे कथं भेदोक्तिः, तत्राह —
किं तर्हीति ।
भूतसूक्ष्मं भूतानां सूक्ष्मं कारणमित्यर्थः । इहेति श्रूति­सू­त्र­यो­रुक्तिः ॥ २२ ॥

भूत­यो­ने­री­श्व­रत्वे हेत्वन्तरमाह —
कुतश्चेति ।
रूपोपन्यासाच्च नेत­रा­वि­त्य­नु­षङ्गः ।

वृत्तिकारमतेन व्याकरोति —
अपिचेति ।
अग्नि­र्द्यु­लोकः, ‘असौ वाव लोको गौतमाग्निः’ इति श्रुतेः । पद्भ्यामिति प्रथमार्थे । पादौ पृथिवी यस्य, स एष सर्व­भू­ता­ना­म­न्त­श्चात्मा चेत्यर्थः ।

एवं रूपोपन्यासेऽपि किं स्यात् , तदाह —
तच्चेति ।

अन्यथासिद्धिं प्रत्याह —
नेति ।
तनुमहिमत्वं परि­च्छि­न्न­श­क्ति­त्वम् ।

प्रधानविषयत्वं तस्य दूषयति —
नापीति ।

अन­न्य­था­सि­द्धि­फ­ल­माह —
तस्मादिति ।

मानाभावेन शङ्कते —
कथमिति ।

मानं वदन्नुत्तरमाह —
प्रकरणादीति ।

प्रकृतत्वेऽपि भूतयोनेः ‘अग्निर्मूर्धा’ इत्यादौ कथमनुवृत्तिः, तत्राह —
एष इति ।

तदेव स्फुटयति —
भूतेति ।

दृष्टा­न्ते­नै­त­दे­व­स्फु­ट­यति —
यथेति ।

अदृ­श्य­त्वा­दि­ध­र्म­कस्य विग्रहवद्रूपं कथमित्याक्षिपति —
कथमिति ।

समाधत्ते —
सर्वेति ।

यथा कश्चि­द्ब्र­ह्मा­त्म­वि­दा­त्मनः सर्वा­त्म­त्व­वि­व­क्षया ‘अह­म­न्न­म­ह­म­न्नादः’ इति साम गायति, न त्वन्ना­न्ना­द­त्व­मा­त्म­नोऽ­भि­प्रैति, तस्या­पु­म­र्थ­त्वा­त्त­थे­हा­पी­त्याह —
अहमिति ।

एकदेशिनं दूषयति —
अन्ये पुनरिति ।

हेत्व­सि­द्धि­मा­शङ्क्य पूर्वो­त्त­र­वा­क्येषु जायमानत्वेन तत्त­द­र्थो­क्ते­रि­हापि जाय­मा­न­त्वे­नो­क्ति­र­स्ती­त्याह —
एतस्मादिति ।
यश्च सूर्यो द्युलोकाग्नेः समिध एव भासकः सोऽपि तस्मादेव जायत इत्यर्थः ।

तथापि मध्ये परस्यैव रूप­मु­क्त­मि­त्या­शङ्क्य वाक्य­भे­दा­न्ने­त्याह —
इहेति ।

एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­ना­त्त­दर्थं सार्वात्म्ये वक्तव्ये तदे­वे­द­मु­क्त­म­न्य­त्रा­नु­क्ते­रि­त्या­श­ङ्क्याह —
सर्वात्मत्वमिति ।

उत्त­र­त्रो­क्ता­वपि तस्यैवेदमपि सार्वा­त्म्य­म­न्य­स्या­यो­गा­दि­त्या­श­ङ्क्याह —
श्रुतीति ।
कस्मै प्रजापतये विधेम परिचरेम ।

हिरण्यगर्भः सृष्ट्या­दा­व­व­र्ति­ष्टे­त्ये­ता­व­दि­होक्तं न जन्मे­त्या­श­ङ्क्याह —
समावर्ततेति ।
स जातः सन्भू­त­ग्रा­म­स्ये­श्व­रा­ज्ञया पतिर्बभूवेति शेष­द­र्श­ना­दि­त्यर्थः ।

अस्तु श्रुत्या­दि­सिद्धं जन्म, तस्य कथं सर्व­भू­ता­न्त­रा­त्मत्वं, तत्राह —
विकारेति ।
पूर्वकल्पे प्रकृ­ष्ट­धी­क­र्मा­नु­ष्ठाता कश्चिद्यजमानः कल्पादौ हिरण्यगर्भतया प्रादुर्बभूव, तस्य सर्व­प्रा­णा­द्य­धि­ष्ठा­तृ­त्वा­द­धि­ष्ठा­त्र­धि­ष्ठे­य­यो­र­भे­दा­त्प्रा­णा­त्मना सर्व­भू­ता­ना­म­ध्यात्मं देहे स्थिते­र्जा­य­मा­नेऽपि सार्वात्म्यं सिद्धमित्यर्थः ।

नन्व­प­ञ्ची­कृ­त­भू­ता­द्य­भि­मा­निनो हिरण्यगर्भस्य विग्र­ह­वि­शि­ष्ट­रू­पेण तद­धि­ष्ठे­य­प्रा­णा­दि­ज­न्मा­न­न्तरं जन्मोच्यते चेत् कस्तर्हि सूत्रार्थः, तत्राह —
अस्मिन्निति ।
विश्वं सर्वं कर्म ससाध्यं तपो ज्ञानं च पुरुष एवेति सार्वा­त्म्य­रू­पो­प­न्या­सा­त्प­र­मा­त्मैव भूत­यो­नि­रि­त्यर्थः । ‘न विलक्षणत्वात्’ इत्यत्र परिणामस्य सारू­प्या­पे­क्षा­प्र­ति­क्षे­पा­द्वि­व­र्तस्य च शङ्खपीतिमादौ विसदृशेऽपि दर्श­ना­त्त­द­पे­क्षा­नि­य­मा­द्भू­त­यो­नि­वाक्यं निर्विशेषे ब्रह्म­ण्य­न्वि­त­मिति भावः ॥ २३ ॥

रूपो­प­न्या­स­प्र­स­ङ्गा­न्त्रै­लो­क्य­देहो वैश्वानरः पर इत्याह —
वैश्वानर इति ।

विषयं वक्तुं वाक्योपक्रममाह —
को न इति ।
आत्म­नोऽ­सं­सा­रि­त्वार्थं ब्रह्मपदम् । तस्या­प­रो­क्ष्या­र्थ­मा­त्म­प­दम् । प्राची­न­शा­ल­स­त्य­य­ज्ञे­न्द्र­द्यु­म्न­ज­न­बु­डिलाः समेत्येत्थं मीमांसां चक्रुः । ते च निश्चि­ची­ष­यो­द्दा­ल­क­मा­जग्मुः । सोऽपि न वेद सम्यगिति सह तेन षडपि ते कैके­य­रा­ज­म­श्व­प­ति­मा­ग­त्योचुः — आत्मानमेव' इत्यादि । अद्येषि स्मरसि । स च तेषां विपरीतधीनिरासेन सम्य­ग्धी­जि­ग्रा­ह­यि­षया तानेव पप्रच्छ । औपमन्यव कं त्वमा­त्मा­न­मु­पास्से । दिव­मे­वे­त्या­हे­तरः । राजा पुनरुवाच, एष सुतेजा वैश्वानरो यं त्वमा­त्मा­न­मु­पास्से । मूर्धा­त्व­य­मा­त्मनो मूर्धा ते व्यप­ति­ष्य­द्यन्मां नागमिष्य इति । ततः सत्य­य­ज्ञ­म­पृ­च्छत् । स चादित्यमूचे । ततश्चैष विश्वरूप आत्मा चक्षु­स्त्वे­त­दा­त्मन इत्य­न्धोऽ­भ­विष्यो यन्मां नागमिष्य इति राजाभाषत । एवं क्रमेण द्युसूर्यदीनां सुते­ज­स्त्व­वि­श्व­रू­प­त्व­पृ­थ­ग्व­र्त्मा­त्म­त्व­ब­हु­ल­त्व­र­यि­त्व­पा­द­त्व­गु­ण­योगं विधाय मूर्ध­पा­ता­न्ध­त्व­प्रा­णो­त्क्र­म­ण­दे­ह­वि­शी­र्ण­ता­ब­स्ति­भे­द­पा­द­शो­ष­णै­रे­कै­को­पा­स्ति­नि­न्दया च तेषां वैश्वानरं प्रति मूर्धा­दि­भा­व­मुक्त्वा सम­स्तो­पा­स­न­मा­म्ना­तम् - ‘यस्त्वेतम् ‘ इत्यादिना । आभिमुख्येन विश्वं मिमीते जाना­ती­त्य­भि­वि­मा­नस्तं प्रादे­श­प­रि­मा­ण­मु­पास्ते यस्तस्य सर्व­लो­का­द्या­श्रयं फलमित्यर्थः । लोका भोगभूमयः, भूतानि तत्तदुपाधयः, भोक्ता­र­स्त्वा­त्मान इति भेदः । तत्त­त्स­म्ब­न्धि­फ­ल­भा­क्त्व­म­न्न­म­त्ती­त्यु­च्यते ।

ध्यानफलमुक्त्वा ध्येयरूपमाह —
तस्येति ।
सुतेजस्त्वगुणा द्यौर्वै­श्वा­न­रस्य मूर्धा । निपा­ता­वे­त­त्प्र­सि­द्ध्यर्थौ । विश्वरूपत्वगुणः सूर्यस्तस्य चक्षुः, ‘एष शुक्ल एष नीलः’ इत्यादिश्रुतेः । पृथङ् नाना वर्त्म गमनमात्मा स्वरूपमस्येति तथा नानागतित्वगुणो वायुरस्य प्राणः । बहुलत्वगुण आकाशः सन्देहोऽस्य देहमध्यम् । रयिर्धनं तद्गुणा अापोऽस्य बस्तिस्थमुदकम् । पृथिव्यां वैश्वानरस्य प्रति­ष्ठा­ना­त्तस्य पादौ पृथिव्येव ।

तस्य होमा­धा­र­त्व­स­म्पा­द­ना­यो­क्तम् —
उर एवेत्यादि ।
‘तद्यद्भक्तं प्रथममागच्छेत्’ इत्या­दि­वा­क्य­मा­दि­श­ब्दार्थः ।

तत्र श्रुतौ वैश्वा­न­रोऽ­ना­त्मात्मा वेति संशयं हृदि निधायाद्ये पक्षत्रयं, द्वितीये पक्षद्वयमाह —
तत्रेति ।

संशयहेतुं प्रश्नपूर्वकमाह —
किमिति ।

सत्यां सामग्र्यां कार्यध्रौव्यं फलितमाह —
तत्रेति ।

वाक्यो­प­क्र­म­स्था­दृ­श्य­त्वा­दि­सा­धा­र­ण­ध­र्मस्य वाक्य­शे­ष­स्थ­स­र्व­ज्ञ­त्वा­द्युक्त्या ब्रह्म­वि­ष­य­त्व­व­दि­हा­प्यु­प­क्र­म­ग­त­सा­धा­र­ण­श­ब्दस्य शेष­स्थ­हो­मा­धा­र­त्व­लि­ङ्गेन प्रसि­द्ध्य­नु­गृ­ही­तेन जाठ­रा­र्थ­त्व­सि­द्धे­स्त­स्यै­वो­पा­स्य­तेति विमृश्य पूर्वपक्षमाह —
किमिति ।
वैश्वा­न­र­वि­द्या­श्रुतेः सवि­शे­ष­ब्र­ह्म­ण्य­न्व­योक्तेः सङ्गतयः । पूर्वपक्षे जठराग्नेः, सिद्धान्ते ब्रह्मणो ध्यानं फलम् ।

साधारणे शब्दे कुतो विशे­ष­प्र­ति­ज्ञे­त्याह —
कुत इति ।

प्रतिज्ञाविशेषे हेतुमाह —
तत्रेति ।

योऽयं वैश्वानरोऽग्निः सोऽयं पुरषाकारे देहेऽ­न्त­रि­त्युक्त्वा तमेव विशिनष्टि —
येनेति ।

पक्षान्तरमाह —
अग्नीति ।

तन्मात्रग्रहे हेतुः —
सामान्येनेति ।
विश्वस्मै भुवनाय वैश्वा­न­र­म­ग्नि­मह्नां केतुं चिह्नं सूर्य­म­कृ­ण्व­न्कृ­त­वन्तो देवाः । तदुदये दिन­व्य­व­हा­रा­दि­त्यर्थः ।

कल्पान्तरमाह —
अग्नीति ।

तद­भि­मा­नि­दे­व­ता­ग्रहे हेतुः —
तस्यामिति ।
वैश्वानरस्य देवस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम । तस्यास्मद्विषया समु­ति­र्भ­व­त्वि­त्यर्थः ।

तत्र हेतुः —
राजा हीति ।
यस्मा­द्भु­व­ना­ना­मयं राजा, कं सुखं सुखहेतुः, अभिमुखा श्रीर­स्ये­त्य­भि­श्री­री­श्व­र­स्त­स्मा­त्तस्य सुमतौ स्यामेत्यर्थः । हिकमित्येकं पदमित्येके । तत्रा­ष्य­य­मे­वार्थः । प्रयोगत्रयेऽपि तुल्य­प्र­यो­ग­ग्र­हा­र्थ­मा­दि­प­दम् ।

कथं देवतार्थत्वमस्य प्रयोगस्येति, तदाह —
एवमाद्याया इति ।
ऐश्व­र्या­दी­त्या­दि­पदं धर्म­ज्ञा­न­वै­रा­ग्या­दि­स­ङ्ग्र­हा­र्थम् ।

पक्ष­त्र­येऽ­प्य­प­रि­तो­ष­माह —
अथेति ।

वाज­स­ने­य­केऽ­ग्नि­वै­श्वा­न­र­श­ब्दा­भ्या­मे­वो­प­क्र­मा­न्ने­श्व­रा­र्थ­तेति पक्षान्तरमाह —
तथापीति ।

शारीरे लक्षणया वैश्वा­न­र­श­ब्दो­प­प­त्ति­माह —
तस्येति ।

तत्रैव हेत्वन्तरमाह —
प्रादेशेति ।
भूता­ग्नि­दे­व­ता­जी­व­वि­षयं पक्ष­त्र­य­मु­प­क्र­म­मात्रं प्राणा­हु­त्या­धा­र­त्वा­दे­र्द्यु­मू­र्ध­त्वा­दे­श्चा­यो­गात् । ‘हृदयं गार्हपत्यः’ इत्यादिना हि देहावयवाः संनि­हि­त­स्यौ­द­र्य­स्या­ग्ने­र्गा­र्ह­प­त्या­दि­त्वेन कल्प्यन्ते । ‘आस्यमाहवनीयः’ ‘तद्यद्भक्तं’ ‘तद्धोमीयम्’ इति च जाठरस्य मुखानुस्यूतस्य प्राणा­हु­त्या­धा­र­स्या­ह­व­नी­य­त्वे­नास्यं कल्प्यते । नच द्युमू­र्ध­त्वा­दे­स्त­त्रा­स­म्भवः । ‘स होवाच मूर्धा­न­मु­प­दि­श­न्नेष वा अतिष्ठा वैश्वानरः’ इत्यादिना मूर्धादीनां द्युलो­का­द्या­त्मना सम्पा­द­ना­त्तै­र्जा­ठ­र­स्यापि द्युमू­र्ध­त्व­दि­सि­द्धे­रा­रो­पि­त­द्यु­मू­र्ध­त्वा­दिना बृह­त्त्वा­त्त­स्यैव ब्रह्म­त्व­मा­प­ना­दा­त्म­त्वम् ।

नच ब्रह्मणयपि द्युमू­र्ध­त्वा­दे­रा­रोपः, जाठरे तत्कल्पनायाः श्रौतत्वेन विशेषात् । अतो जाठरोपास्तिपरं वाक्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।

सिद्धान्तयति —
तत इति ।

हेतुं प्रश्न­पू­र्व­क­मा­दाय व्याचष्टे —
कुत इति ।

कौ तौ साधारणौ शब्दौ, को वा तयोर्विशेषः, तत्राह —
यद्यपीति ।

नायं परमात्मगमको विशेषः, तस्य निर्विशेषस्य द्युमू­र्ध­त्वा­द्य­यो­गा­दि­त्या­श­ङ्क्याह —
अत्रेति ।
अव­स्था­न्त­र­म­ध्या­त्म­म­धि­दै­व­मि­त्ये­वम् ।

तस्य तथै­वो­प­न्या­स­फ­ल­माह —
आध्यानायेति ।

कथं पर­स्या­व­स्था­न्त­र­भाक्त्वं, तदाह —
कारणत्वादिति ।

तदेव स्फुटयति —
कारणस्येति ।
एतेन जाठरे द्युमूर्धत्वादि प्रत्युक्तम् ।

वैश्वा­न­रो­पा­स­कस्य सर्व­लो­का­द्या­श्र­य­फ­ल­श्रु­तेश्च वैश्वा­न­र­स्ये­श्व­र­त्व­मि­त्याह —
स इति ।

वैश्वानरविदः सर्व­पा­प्म­दा­ह­श्रु­तेश्च तस्य परत्वं तद्विज्ञाने तद्दा­ह­प्र­सि­द्धे­रि­त्याह —
एवं हेति ।
यथाग्नौ क्षिप्त­मि­षी­का­तूलं दह्यत एवमस्य विदुषः सर्वाणि कर्मा­ण्य­न­र्थ­हे­तवो दह्यन्त इत्यर्थः ।

उपक्रमादपि तस्य परमात्मता तयोस्तत्रैव रूढेर्जाठरे त्वमु­ख्य­त्वा­दि­त्याह —
को न इति ।

उक्तलिङ्गानां फलमाह —
इत्येवमेतानीति ।

श्रुति­लि­ङ्ग­सि­द्ध­मु­प­सं­ह­रति —
तस्मादिति ॥ २४ ॥

स्मृत्या च श्रुत्यर्थः शक्यो निर्णेतुमित्याह —
स्मर्यमाणमिति ।

तत्र प्रतिज्ञां पूरयति —
इतश्चेति ।

सूत्रं व्याकु­र्व­न्नि­तः­श­ब्दा­र्ध­माह —
यस्मादिति ।

स्मृतिमुदाहरति —
यस्येति ।

तस्याः श्रुति­व­न्मा­नत्वं व्युदस्य तद्द्वारा तदाह —
तदिति ।

इतिशब्दस्य वाक्य­स­मा­प्त्य­र्थत्वं व्यावर्त्य हेत्वर्थत्वं व्यनक्ति —
यस्मादिति ।

स्तुते­र­स­दा­रो­पेऽपि सम्भवान्न मूल­श्रु­त्य­पे­क्षे­त्या­श­ङ्क्याह —
यद्यपीति ।
सद्रूपेण स्तुति­त्व­मौ­त्स­र्ग­क­म­सति श्रुत्यपवादे दुर्वा­र­मि­त्यर्थः ।

अस्तुतिरूपामपि स्मृतिमाह —
द्यामिति ।
इहेति त्रैलोक्यदेहस्य वैश्वा­न­र­स्ये­श्व­र­ता­या­मि­त्यर्थः ॥ २५ ॥

सिद्धान्तं विधा­न्त­रे­णा­क्षिप्य समाधत्ते —
शब्दादिभ्य इति ।

आक्षेपं विवृ­ण्व­न्न­ञ­र्थ­माह —
अत्रेति ।
स्थितः सिद्धान्तः सप्तम्यर्थः ।

श्रुत्यादिना वैश्वा­न­र­स्यो­क्ते­श्व­र­त्वा­क्षेपे प्रश्नद्वारा हेतुमादत्ते —
कुत इति ।

तत्र शब्दं व्याचष्टे —
शब्द इति ।
ईश्वरस्य विरोधीति शेषः ।

तदेव स्फोरयति —
वैश्वानरेति ।

शब्दान्तरमाह —
तथेति ।
सोऽपि श्रौतो वैश्वा­न­र­श­ब्द­व­दी­श्वरे न सम्भवतीति योजना ।

आदिशब्दोपात्तं लिङ्गमाह —
आदीति ।

बहूक्त्यर्थं लिङ्गान्तरमाह —
तद्यदिति ।

अपेक्षितां प्रतिज्ञां पूरयति —
एतेभ्य इति ।
वाज­स­ने­य­केऽ­ग्नि­र­हस्ये वैश्वा­न­रेऽ­ग्नि­श­ब्दा­त्तस्य पर­स्मि­न्न­यो­गा­त्त­त्सा­मा­न्या­च्छा­न्दो­ग्येऽपि वैश्वा­न­रोऽ­ग्नि­रेव, स चाहु­त्या­धा­र­त्वा­दि­लि­ङ्गा­ज्जा­ठर एवेति भावः ।

तत्रैव लिङ्गान्तरमाह —
तथेति ।
यथोक्तहेतुभ्यो वैश्वानरो नेश्वरस्तथा वक्ष्य­मा­ण­हे­तो­र­पी­त्यर्थः । अन्तः­प्र­ति­ष्ठा­न­मपि वैश्वानरस्येति शेषः । अग्निरहस्ये सप्रपञ्चां वैश्वा­न­र­वि­द्या­मुक्त्वा स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरु­षेऽ­न्तः­प्र­ति­ष्ठितं वेद स सर्व­लो­का­द्या­श्रयं फल­म­त्ती­त्यु­क्तम् । पुरु­षे­न्तः­प्र­ति­ष्ठि­त­श्चा­ग्नि­र्जा­ठर एव, प्रसि­द्धे­रि­त्यर्थः ।

तथापि वाजसनेयके द्युमू­र्ध­त्वा­दि­श्र­व­णान्न जाठरः स्यादि­त्यु­क्त­म­नु­व­दति —
यदपीति ।

अने­क­लि­ङ्गा­नु­गृ­ही­ता­न­न्य­था­सि­द्ध­वै­श्वा­न­रा­ग्नि­श्रु­ति­भ्या­मेकं लिङ्गं नेयमित्याह —
अत्रेति ।
जाठरेऽपि द्युमूर्धत्वादि कथञ्चिन्नीतमिति भावः ।

न जाठरे मुख्यं द्युमू­र्थ­त्वा­दी­त्य­प­रि­तो­षा­दाह —
अथवेति ।
एष निर्देशो वैश्वा­न­रा­ग्नि­श­ब्दा­भ्याा­म­न्तः­प्र­ति­ष्ठानो्क्त्या चेति शेषः ।

तत्रापि कुतो द्यूमूर्धत्वादि सिद्धं, तत्राह —
तस्यापीति ।
अपि­री­श्व­र­दृ­ष्टा­न्तार्थः । इमां पृथिवीमुत द्यामपि द्यावा­पृ­थि­व्या­वेव रोदसी यो भानुरूपेणाततान व्याप्तवान् , अन्तरिक्षं च तयोर्मध्यमाततान स देवो द्युलोकाद्यवयवो ध्येय इत्यर्थः ।

परि­च्छि­न्न­भू­ता­ग्नेर्न द्युलो­का­द्य­व­य­व­त्व­मि­त्य­रुच्या कल्पान्तरमाह —
अथवेति ।

द्युमू­र्ध­त्वा­दि­वि­शे­ष­स्य­न्य­था­सि­द्धत्वे फलितमाह —
तस्मादिति ।

परिहारमवतारयति —
अत्रेति ।

तदक्षराणि व्याचष्टे —
नेत्यादिना ।

दृष्ट्युपदेशं सदृष्टान्तं स्पष्टयति —
परमेति ।

ब्रह्मप्रतीकस्य जाठ­र­स्यो­पा­स्य­ते­ष्टेति शिष्ट्वा सूत्रावयवं तदुपाधिनो ब्रह्मण एवोपास्यतेति विधान्तरेण व्याकरोति —
अथवेति ।
जाठ­र­प्र­ती­क­त्वा­त्त­दु­पा­धि­त्वाद्वा परस्मिन्नपि लक्ष­ण­या­ग्न्या­दि­श­ब्द­सिद्धौ न तस्य तल्लि­ङ्गा­न्य­था­क­रणे शक्तिरिति भावः ।

असम्भवादिति व्याचष्टे —
यदि चेति ।
उपा­स्त्य­र्थ­त्वेऽपि जाठरे द्युमू­र्ध­त्वा­दे­र­सत एवारोपः स्यात् । नच सति सम्भवे स युक्त इत्यर्थः ।

अस्तु तर्हि देवतादिविषयत्वं विशे­ष­स्ये­त्या­श­ङ्क्याह —
यथेति ।

पुरुषमपीत्यादि विभजते —
यदि चेति ।
ब्रह्मो­पा­धि­त्व­त­त्प्र­ती­क­त्व­यो­र­सत्त्वं कैवल्यं तस्य सर्व­लो­का­द्या­श्रयं फलमिति शेषः ।

पुरुषत्वेऽपि कथं ब्रह्म­ण­स्त­द­न्तः­प्र­ति­ष्ठि­तत्वं, तत्राह —
परमेति ।

पाठान्तरमादाय व्याचष्टे —
ये त्विति ।
जाठ­र­स्या­चे­त­न­त्वा­त्पु­रु­ष­त्व­वन्न तद्वि­ध­त्व­म­पी­त्यर्थः ।

ब्रह्मणोऽपि पुरुषत्वमेव न तद्वि­ध­त्व­मि­त्या­श­ङ्क्याह —
पुरुषेति ।
तच्च ब्रह्म­ण्यु­पा­स्त्यर्थं स्यादिति भावः ॥ २६ ॥

द्युमू­र्ध­त्वा­दि­वि­शे­षस्य जाठरविषयत्वं सन्दूष्य देवतादिविषयत्वं दूषयति —
अत एवेति ।

सूत्रं व्याकर्तुं व्यावर्त्यं पक्षद्वयमनूद्य तस्य निरस्यत्वमाह —
यदिति ।

सूत्रमुत्थाप्य व्याकरोति —
अत्रेति ।
द्युमू­र्ध­त्वा­दि­स­म्ब­न्ध­स­र्व­लो­का­द्या­श्र­य­फ­ल­भा­क्त्व­स­र्व­पा­प्म­दा­हा­त्म­ब्र­ह्मो­प­क्रमा उक्ता हेतवः ।

भूतदेवतयोरपि द्युमूर्धत्वादि सिध्यतीत्युक्तं प्रत्याह —
न हीति ।

किञ्च न देवताया निर­ङ्कु­श­मै­श्वर्यं किन्त्वी­श्व­रा­यत्तं, अतस्तस्यैव सर्वकारणस्य द्युमू­र्ध­त्वा­दी­त्याह —
परमेश्वरेति ।

पक्षत्रयसाधारणं दोषमाह —
आत्मेति ।
चकारो ब्रह्म­श­ब्दा­यो­गस्य सर्व­पा­प्म­दा­हा­द्य­यो­गस्य च समुच्चयार्थः ॥ २७ ॥

वाज­स­ने­य­केऽ­ग्नि­शब्दं जाठरार्थमुपेत्य परस्मिन्नपि तत्स­म्ब­न्धा­ल्ल­क्षणां स्वीकृत्य ब्रह्मो­पा­स्ति­रि­त्यु­क्तम् । इदा­नी­म­त्रा­प्य­ग्न्या­दि­शब्दो ब्रह्मार्थः ।

ततो यदधिदैवं द्युलो­का­दि­पृ­थि­व्यन्तं यच्चाध्यात्मं मूर्धा­दि­चु­बु­कान्तं रूपं तदनुगतं ब्रह्मैवोपास्यं न जाठ­रा­व­च्छि­न्न­मि­त्याह —
साक्षादिति ।

वृत्तमनूद्य सूत्रार्थं विवृणोति —
पूर्वमित्यादिना ।

जाठरस्य प्रतीकादित्वेन ग्रहे हेतुं सूचयति —
अन्तरिति ।

साक्षा­दी­श्व­रो­पास्तौ विरोधं शङ्कते —
नन्विति ।

विरोधं व्युदस्यति —
अत्रेति ।

अन्तः­प्र­ति­ष्ठि­त­त्वो­क्ते­र्जा­ठ­रा­ग्र­हेऽ­प्य­वि­रोधं प्रतिज्ञाय हेतुमाह —
न हीति ।
इहेति वाजसनेयकोक्तिः । अन्तः­प्र­ति­ष्ठि­त­त्व­मि­दमा परामृष्टम् ।

प्रक­र­णो­प­प­द­यो­र­भा­वा­ज्जा­ठ­रा­न­भि­प्रा­येऽपि पुरुषशब्देन कर­शि­र­श्च­र­णा­दि­म­तोऽ­भि­धा­ना­त्कथं तद्विधत्वं तद­न्तः­प्र­ति­ष्ठि­तत्वं वा पर­स्या­पी­त्या­श­ङ्क्याह —
कथमिति ।

पुरु­षा­व­य­व­स­म्पत्त्या तद्विधत्वं कार्य­का­र­ण­स­मु­दा­या­त्मनि तस्मि­न्मू­र्धा­दि­चु­बु­का­न्ता­व­य­व­स्थि­तेश्च पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तत्वं समुदायिनां समु­दा­य­म­ध्य­पा­ति­त्वा­दि­त्याह —
यथेति ।

अन्तः­प्र­ति­ष्ठि­त­त्वेन माध्यस्थ्येन साक्षीव लक्ष्यत इति पक्षान्तरमाह —
अथवेति ।

अन्तः­प्र­ति­ष्ठि­त­त्वो­क्ते­र­वि­रो­ध­मु­क्तवा वैश्वा­न­र­श­ब्द­स्या­वि­रो­ध­माह —
निश्चिते चेति ।

तस्य तत्रारूढेर्न तद्वि­ष­य­ते­त्या­श­ङ्क्याह —
केनेति ।

सर्वा­त्म­त्व­मा­श्रित्य योगवृत्तिमेव कथयति —
विश्वश्चेति ।

सर्वकारणत्वेन योगवृत्तिमाह —
विश्वेषामिति ।

सर्वे­श्व­र­त्वे­नापि तामाह —
विश्वे वेति ।
सर्वात्मत्वं सर्वकारणत्वं सर्वे­श्व­र­त्वो­प­ल­क्ष­णम् ।

तथापि विश्वनर इति स्यात्कथं वैश्वानर इत्युच्यते, तत्राह —
विश्वेति ।
‘नरे संज्ञायाम्’ इति दीर्घता ।

अण्प्र­त्य­य­स्तर्हि कथं, तत्राह —
तद्धित इति ।
अनन्यार्थत्वं प्रकृ­त्य­र्था­ति­रि­क्ता­र्थ­शू­न्य­त्वम् ।

तथापि कथं पर­स्मि­न्न­ग्नि­पदं, तदाह —
अग्नीति ।
अगे­र्धा­तो­र्ग­त्य­र्थस्य निप्र­त्य­या­न्त­स्या­ग्नि­रिति रूपं, तत्राङ्गयति गमयति जगतोऽग्रं जन्म प्राप­य­ती­त्य­ग्नि­र­ग्र­णी­रुक्तः । आदि­श­ब्दा­द­भि­तो­ग­तत्वं सर्वज्ञातृत्वं च गृहीतम् । एवं वाजिशाखायामपि परोपास्तिसिद्धौ न तद्ब­ला­च्छा­न्दो­ग्य­वाक्यं विघ­ट­नी­य­मि­त्यु­क्तम् ।

यत्तु छान्दोग्ये परस्मिन्नसम्भवि लिङ्गमुक्तं, तत्राह —
गार्हपत्यादीति ॥ २८ ॥

सूत्र­त्र­य­मा­का­ङ्क्षा­द्वा­रा­दत्ते —
कथमिति ।

मतभेदेन व्याख्यामेव दर्श­य­न्ना­दा­वा­श्म­र­थ्य­म­त­माह —
अभिव्यक्तेरिति ।

विभो­री­श्व­र­स्या­युक्ता प्रादे­श­मा­त्र­तेति शङ्कां निर­स्य­न्व्या­क­रोति —
अतिमात्रस्येति ।
अतिक्रान्ता मात्राः परिमाणं येन तस्येति यावत् ।

अभि­व्य­क्ति­नि­मित्तं प्रादे­श­मा­त्र­त्व­मि­त्ये­त­देव व्यनक्ति —
अभिव्यज्यत इति ।

स्वाभा­वि­का­णि­मा­द्यै­श्व­र्य­ख्या­प­नार्थं मह­तोऽ­पी­श्व­र­स्यो­पा­स­का­न्प्रति सूक्ष्मत्वेन व्यक्तिरिति द्योतयति —
किलेति ।

नियमेन प्रादेशमात्रतया व्यक्तौ हेत्वभावान्नेयं व्याख्ये­त्या­श­ङ्क्याह —
प्रदेशेष्विति ।

अभिव्यक्तिफलमाह —
अत इति ॥ २९ ॥

मतान्तरमाह —
अनुस्मृतेरिति ।

व्याचष्टे —
प्रादेशेति ।
पूर्वेण विकल्पार्थो वाशब्दः ।

अभिव्यञ्जकस्थं परि­मा­ण­म­भि­व्यङ्ग्ये भाती­त्ये­त­द्दृ­ष्टा­न्ते­नाह —
यथेति ।

वैषम्यमाशङ्क्य प्रत्याह —
यद्यपीति ।
हृदयस्थं परिमाणं मनः­प्र­भ­व­स्मृ­ता­वा­रो­पितं स्मृत्यै­क्ये­ना­ध्य­स्त­स्म­र्य­मा­णे­श्व­रेऽ­ध्य­स्त­मा­ल­म्ब­न­मिति यथा­क­थ­ञ्चि­दि­त्यु­क्तम् ।

स्मृति­ग­त­प­रि­मा­णस्य हृद­य­द्वा­रा­रो­पि­तस्य स्मर्यमाणो कथमारोपो विषयविषयित्वेन भेदा­दि­त्या­शङ्क्य व्याख्यान्तरमाह —
प्रादेशेति ।

उपसंहरति —
एवमिति ॥ ३० ॥

प्रादे­श­मा­त्र­श्रु­ते­र्वि­षयं कथञ्चिदुक्त्वा साक्षादेव श्रुत्युक्तं विषयमाह —
सम्पत्तेरिति ।

प्रतिज्ञां विभजते —
सम्पत्तीति ।

सम्प­त्ति­र­त्रा­श्रु­तेति पृच्छति —
कुत इति ।

उत्तरम् —
तथाहीति ।

तदेेव ब्राह्म­ण­मु­दा­ह­रति —
प्रादेशेति ।
पर­मे­श्व­र­म­प्रा­दे­श­मा­त्र­मपि सम्पादनेन प्रादेशमात्रमिव सम्य­ग्वि­दि­त­वन्तो देवा­स्त­मे­वे­श्वरं पूर्व­म­भि­स­म्प­न्ना­स्ततो वो युष्मभ्यं तथा द्युप्र­भृ­ती­ने­ता­न­व­य­वा­न्व­क्ष्यामि यथा प्रादेशपरिमाणं वैश्वानरं सम्पा­द­यि­ष्या­मी­त्यौ­प­म­न्य­व­प्र­भृ­ती­न्प्रति वक्तव्यत्वेन प्रति­ज्ञा­या­श्व­पती राजोवाच, किं कुर्व­न्नि­त्युक्ते स्वस्य मूर्धा­न­मु­प­दि­श­न्क­रा­ग्रेण दर्शयन्नेष वै लोका­न्भू­रा­दी­न­तीत्य तिष्ठ­ती­त्य­तिष्ठा द्यौर्वै­श्वा­न­र­स्या­व­यव इति । प्रसिद्धे मूर्धनि वैश्वा­न­र­स्या­धि­दैवं यो मूर्धा द्युलो­क­स्त­द्दृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नुवाचैष वै सुतेजाः शोभनतेजःसहितः सूर्योऽधिदैवं वैश्वानरस्य चक्षुरिति । प्रसि­द्ध­यो­श्च­क्षु­षो­र्वै­श्वा­न­र­स्या­धि­दैवं यदादित्याख्यं चक्षु­स्त­द्दृ­ष्टि­रि­त्यर्थः ।

अध्या­त्म­प्र­सि­द्ध­यो­र्ना­सि­क­यो­र्वै­श्वा­न­र­स्या­धि­दैवं यो वायुः प्राण­स्त­द्दृ­ष्टि­रि­त्याह —
नासिके इति ।

अध्या­त्म­मु­खा­व­च्छिन्ने नभसि वैश्वानरस्य यदधिदैवं सन्देहाख्यं नभ­स्त­द्धी­रि­त्याह —
मुख्यमिति ।

मुख­स­म्भ­वा­स्वप्सु वैश्वा­न­र­स्या­धि­दैवं या बस्तिस्थानीया आप­स्त­द्दृ­ष्टि­माह —
मुख्या इति ।

प्रसिद्धे चुबुके वैश्वानरस्य याधिदैवं पादाख्या पृथिवी तद्दृष्टिमाह —
चुबुकमिति ।

ननु छान्दो­ग्य­वा­ज­स­ने­य­क­यो­र्नैका विद्या गुणवैषम्यादतो न वाज­स­ने­य­का­नु­सा­रेण छान्दोग्ये प्रादे­श­मा­त्र­श्रु­ति­र्ने­त­व्येति, तत्राह —
यद्यपीती ।
अल्पवैषम्येऽपि बहु­त­र­रू­प­प्र­त्य­भि­ज्ञा­ना­द्वि­द्यै­क्य­मि­त्यर्थः । विद्यैक्यं किञ्चि­दि­त्यु­क्तम् ।

तथापि प्रक­र­ण­भे­दा­द्वि­द्या­भे­द­मा­श­ङ्क्याह —
सर्वेति ।
न्यायस्य गुणो­प­सं­हा­रा­धि­कारे वक्ष्य­मा­ण­त्वा­द्वा­ज­स­ने­य­क­स्था­ति­ष्ठा­गु­ण­श्छा­न्दोग्ये तद्गतश्च विश्व­रू­प­गु­णोऽ­न्यत्र ज्ञेय इत्यर्थः ।

छान्दो­ग्य­व­दि­त­रत्र ‘को न आत्मा किं ब्रह्म’ इत्यु­प­क्र­मा­भा­वान्न विद्यै­क्य­मि­त्या­शङ्क्य ‘स एषोऽ­ग्नि­र्वै­श्वा­नरो यत्पुरुषः’ इत्युपसंहारे पुरु­षो­द्दे­शे­ना­ग्र­णी­त्वा­दि­वि­धे­रु­प­क्र­मेऽपि तस्यै­वा­व­ग­मा­त्पु­रु­षस्य च पर­मा­त्म­त्वा­दु­भ­यत्र विद्यै­क्या­द्वा­ज­स­ने­य­का­नु­रो­धा­च्छा­न्दोग्ये प्रादे­श­मा­त्र­श्रु­ति­रि­त्यु­प­सं­ह­रति —
सम्पत्तीति ॥ ३१ ॥

प्रादे­श­मा­त्र­श्रुतिः सम्प­त्ति­नि­मि­त्ते­त्यत्र श्रुत्यन्तरमाह —
आमनन्तीति ।

सूत्रं व्याकरोति —
आमनन्ति चेति ।

य एष प्रसिद्धः परमात्मा नाशाभावादनन्तः, स्वरू­पे­णा­न­भि­व्य­क्ते­र­व्यक्तः, तं कथं विजा­नी­या­मि­त्य­त्रि­प्रश्ने याज्ञ­व­ल्क्य­स्यो­त्त­रम् —
स इति ।
स हि परमात्मा जीवा­त्म­न्य­वि­मुक्ते व्यवहारतः संसारिणि प्रतिष्ठितः परस्यैव प्रत्य­क्त्वा­दि­त्यर्थः ।

पुन­र­त्रि­र­पृ­च्छत् —
स इति ।

तत्र याज्ञवल्क्यो ब्रूते —
वरणायामिति ।
वरणा भ्रूः ।

प्रश्नान्तरं भूमि­का­पू­र्व­मा­दत्ते —
तत्र चेति ।
प्रकृता श्रुतिः सप्तम्यर्थः । इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाशयतीति वरणासहिता नासीति निश्च­ये­नो­क्त्वे­त्यर्थः । अविमुक्तस्य स्थानभूता ‘का वै वरणा का च नासी’ इति प्रश्नस्य प्रत्युक्तिः सर्वा­नि­न्द्रि­य­वृृृृ­त्ति­कृ­ता­न्दो­षा­न्वा­र­यति तेन वरणेति सर्वा­नि­न्द्रि­य­वृ­त्ति­कृ­ता­न्पा­प्मनो नाशयति तेन नासीति । निय­म्य­जी­वा­धि­ष्ठा­न­त्व­द्वारा निय­न्तु­री­श्व­र­स्या­धि­ष्ठा­न­त्वा­न्ना­सा­भ्रुवोः पाप्म­वा­र­क­त्वा­दि­सिद्धिः ।

तयोर्मध्येऽपि स्थान­वि­शे­ष­ग­वे­ष­णया पृच्छति —
कतमच्चेति ।

याज्ञ­व­ल्क्य­स्त्वाह —
भ्रुवोरिति ।

प्राणो नासि­क्य­स्त­यो­र्मध्यं द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येयमित्याह —
स इति ।

श्रुत्य­न्त­र­सं­वा­द­फ­ल­माह —
तस्मादिति ।

विशेषणान्तरं घटयति —
अभिविमानेति ।

प्रत्यक्त्वेन सर्ववेद्यत्वं सर्वात्मत्वे सत्यानन्त्यं सर्वकारणत्वं वा निमि­त्ती­कृ­त्या­भि­प्रा­य­मेव प्रकटयति —
प्रत्यगिति ।

परमेश्वरे साध­क­स­त्त्वा­ज्जा­ठ­रादौ तद­भा­वा­त्प­रो­पा­स्ति­परं वैश्वा­न­र­वा­क्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।

सवि­शे­ष­प्र­चु­राणां वा रूढिबहुलानां वान्य­त­र­त्रा­स्प­ष्ट­लि­ङ्गानां वा वाक्यानां ब्रह्मण्यन्वयः सिद्ध इति पादार्थं निगमयति —
इति सिद्धमिति ॥ ३२ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीशु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­वि­र­चिते शारी­र­क­न्या­य­नि­र्णये प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥

पूर्वस्मिन्पादे सवि­शे­ष­व­स्तु­प्र­चु­राणां वाक्यानां ब्रह्मपरतोक्ता । सम्प्रति निर्वि­शे­ष­ब्र­ह्म­प्र­चु­राणां तेषां तत्परतां वक्तुं पादा­न्त­र­मा­र­भ्यते । तत्र पूर्वाधिकरणे त्रैलोक्यात्मा वैश्वानरः पर­मा­त्मे­त्युक्तं तर्हि त्रैलो­क्या­य­त­न­म­न्य­दि­त्या­श­ङ्क्याह —
द्युभ्वादीति ।

यद्वो­प­क्र­म­स्थ­श्रु­ते­र्वा­क्य­शे­ष­स्थ­लि­ङ्गे­ना­न्य­प­र­त्व­मुक्तं, तत्प्रसङ्गेन जग­दा­य­त­न­त्व­स्या­ने­क­सा­धा­र­णस्य वाक्य­शे­ष­स्था­त्म­श्रुत्या ब्रह्मपरत्वमाह —
द्युभ्वादीति ।

आथ­र्व­ण­वा­क्य­मु­दा­ह­रति —
इदमिति ।

लोक­त्र­य­क­ल्प­ना­धि­ष्ठा­न­त्वोक्त्या पञ्ची­कृ­त­भू­त­प­ञ्च­का­धि­ष्ठा­न­त्व­माह —
यस्मिन्निति ।

कार्य­ब्र­ह्मा­ख्य­स­म­ष्ट्य­न्तः­क­र­णस्य तत्रैव कल्पितत्वमाह —
मन इति ।

इन्द्रि­य­स­म­ष्टि­दे­व­तानां तत्रैव कल्पितत्वं सूचयति —
सहेति ।
चका­रा­द्भू­त­सू­क्ष्मा­व्या­कृ­ते­श्व­रा­न्त­र्या­मि­णा­म­ध्य­स्तत्वं ध्वनितम् ।

मायाख्यां प्रकृतिं कल्पि­त­का­र्य­प­र­म्परां च श्रुत्यु­दि­त­त­र्का­ग्निना विलाप्य तमे­वा­धि­ष्ठा­न­भू­त­म­द्व­य­मा­त्मानं जानथेति मुमु­क्षू­न्प्र­त्याह —
तमेवेति ।

वाच्य­वा­च­क­क­ल्प­ना­ना­मै­क्या­प­रो­क्ष­प्र­मित्या वादमाह —
अन्या इति ।

एष वाग्वि­मो­क­पू­र्व­क­स्त­त्त्व­सा­क्षा­त्कारः सोपा­दा­न­सं­सा­र­नि­वृ­त्ति­त्वे­ना­मृृ­त­त्वस्य व्यवस्थापक इत्याह —
अमृतस्येति ।

आय­त­न­श­ब्दा­श्रु­ते­र्ने­द­मु­दा­ह­र­ण­मि­त्या­श­ङ्क्याह —
अत्रेति ।

आय­त­न­त्व­सा­धा­र­ण­ध­र्म­दृष्ट्या संशयमाह —
तदिति ।
अर्थान्तरं प्रधानम् ।

उपक्रमस्थस्य साधारणशब्दस्य वाक्य­शे­ष­ग­त­द्यु­मू­र्ध­त्वा­दि­लि­ङ्गे­ने­श्व­रा­र्थ­त्व­व­दि­हा­प्यु­प­क्र­म­स्थ­सा­धा­र­णा­य­त­न­त्वस्य वाक्य­शे­ष­ग­त­से­तु­श्रुत्या परिच्छिन्ने सेतुशब्दार्थे व्यवस्थेति पूर्वपक्षयति —
तत्रेति ।
निर्विशेषे ब्रह्म­ण्यु­क्त­श्रु­त्य­न्व­योक्तेः सङ्गतयः । पूर्वपक्षे प्रधानोपास्तिः, सिद्धान्ते परमेश्वरधीरिति फलम् ।

आयतनत्वस्य ब्रह्मण्यपि योगा­न्ना­र्था­न्त­र­मि­त्या­शङ्क्य प्रत्याह —
कस्मादिति ।
अमृतस्येति श्रवणादेष सेतुरिति च श्रवणादिति योजना ।

अमृतस्येति षष्ठी­प्र­यो­गा­द्ब्र­ह्मणः स्वय­म­मृ­त­त्वा­द­न्य­स्या­मृ­त­स्या­भा­वा­त्त­त्प्र­योगो ब्रह्मणि नेति मत्वा सेतुश्रुतिं विशदयति —
पारवानिति ।

तथापि कुतो न ब्रह्मणः सेतुत्वं, तत्राह —
न चेति ।
आन­न्त्य­म­नौ­प­चा­रि­क­मि­त्यु­क्तम् । उभयत्रापि सेतुशब्दस्य मुख्या­र्थ­त्वा­यो­गेऽपि विध­र­ण­स्या­ग­न्तु­क­स्या­श्र­य­णा­न्नि­ज­सि­द्ध­प­रि­च्छि­न्ना­श्र­यणं युक्तमिति भावः ।

किं तदर्थान्तरं, तदाह —
अर्थान्तरे चेति ।

श्रुत्यु­क्त­मा­य­तनं श्रौतमेवोचितं न स्मार्त­मि­त्या­श­ङ्क्याह —
श्रुतीति ।

वायोरायतनत्वं साधयति —
वायुरिति ।

सर्वगतस्य तन्त्वा­दि­व­त्कुतः सूत्र­ते­त्या­शङ्क्य सूक्ष्मतया सूत्र­व­द­व­स्था­ना­दि­त्याह —
वायुनेति ।

आकाशस्यापि सूत्र­व­द­न्त­र्व­र्त­न­म­स्ती­त्या­स­ङ्क्यास्य सर्वं प्रत्ये­क­स्व­भा­व­तया विधारकत्वमाह —
अयं चेति ।
सन्दृब्धानि सङ्ग्रथितानि विधृतानीत्यर्थः ।

आय­त­न­स्या­त्म­त्व­श्रु­ते­र्नै­व­मि­त्या­श­ङ्क्याह —
शारीरो वेति ।

तस्य परि­च्छि­न्न­त्वान्न सर्व­वि­धा­र­क­ते­त्या­शङ्क्य कर्मो­पा­स्त्या­दि­द्वारा सर्व­स्थि­ति­हे­तु­त्व­माह —
तस्येति ।
विश्वायतनत्वेन प्रधानस्य वायो­र्भो­क्तुर्वा ध्यानार्थं वाक्य­मि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

पूर्व­प­क्ष­म­नू­द्यो­त्त­र­प­क्ष­प्र­ति­ज्ञा­मा­दाय विगृह्णाति —
एवमिति ।
‘न भूसुधियोः’ इति निषे­धा­द्द्यु­भ्वा­दीति यणा­दे­शा­सि­द्धि­रिति चेन्न । ‘गति­का­र­को­प­प­दा­भ्या­म­न्य­पू­र्वस्य नेष्यते’ इति विशेषणात् , अस्य च कारकोपपदत्वात् । द्वन्द्वे द्वयोः समत्वादुपपदत्वं दिवो नेति चेन्न । समत्वेऽपि प्रथ­म­प्र­यु­क्ताया दिव­श्च­र­म­प्र­युक्तां भुवं प्रत्यु­प­प­द­त्व­मा­रोप्य समासे यणादेशसिद्धेः । न च द्वन्द्वे समस्यमानानां समत्वनियमः, राजपुरुषादिषु व्यभिचारात् । तस्मा­द्व­र्षा­भ्वा­दि­व­द्द्यु­भ्वा­दी­त्य­वि­रु­द्धम् ।

द्वन्द्वे तद्गु­ण­सं­वि­ज्ञाने च कृते तस्यायतनमिति स्थिते प्रतिज्ञाया विवक्षितमर्थमाह —
यदिति ।

जग­दा­य­त­न­त्व­स्या­न्य­त्रापि योगे विशे­षो­क्ति­र­यु­क्ते­त्याह —
कुत इति ।

तत्र हेतुमादाय योजयति —
स्वशब्दादिति ।

आय­त­न­श­ब्द­स­मा­ना­धि­कृ­ता­त्म­श­ब्द­स्या­दृ­ष्टि­मा­श­ङ्क्याह —
आत्मेति ।

जीवादावपि तदु­प­प­त्ति­मा­श­ङ्क्यो­क्तम् —
आत्मशब्दश्चेति ।
पक्षान्तरे मुख्य­मा­प्त्या­द्य­यु­क्त­मि­त्यर्थः ।

स्वशब्देन ब्रह्मोक्त्वा तस्या­सा­धा­र­ण­स­च्छ­ब्दे­ना­य­त­न­त्वो­क्ति­रिति योजनान्तरमाह —
क्वचिच्चेति ।

स्वस्या­य­त­न­स्या­सा­धा­र­णा­य­त­न­श­ब्दा­दिति योजनान्तरं मत्वा श्रुतिमाह —
सदिति ।

सतो निमित्तत्वेनैव मूलत्वं प्रत्याह —
सदायतना इति ।

अस­म­वा­यि­का­र­ण­स्यैव सतः स्थिति­हे­तु­त्व­मे­वे­त्या­श­ङ्क्याह —
सत्पतिष्ठा इति ।

स्वशब्देन ब्रह्मोक्त्वा तद­सा­धा­र­ण­पु­रु­ष­श­ब्देन ब्रह्मशब्देन पर­श­ब्दे­ना­मृ­त­श­ब्देन चोक्ते­रि­त्य­र्था­न्त­र­माह —
स्वशब्देनेति ।
इहेति प्रकरणोक्तिः । ‘यस्मिन्द्यौः’ इत्या­दि­वा­क्या­त्पू­र्वो­त्त­र­वा­क्य­यो­र्ब्र­ह्मो­क्ते­र्म­ध्येऽपि तदेव युक्तं, आदि­म­ध्या­व­सा­ना­ना­मै­कार्थ्ये वाक्यै­क्या­दि­त्यर्थः ।

पुर­स्ता­द्ब्र­ह्मो­क्ति­माह —
पुरुष इति ।

पुरस्तादपि तदुक्तिमाह —
ब्रह्मैवेति ।
पुर­स्ता­त्पू­र्वस्यां दिशि पश्चा­त्प­श्चि­मायां दक्षिणतो दक्षि­ण­स्या­मु­त्त­रे­णो­त्त­रस्यां यदिदं दृश्यते तद्ब्र­ह्मै­वे­त्यर्थः ।

सर्वत्र ब्रह्मोक्तावपि तद­ने­क­र­स­त्व­मा­श­ङ्क्याह —
तत्रेति ।
उक्तवाक्यं सप्तम्यर्थः । सामा­ना­धि­क­र­ण्या­द्वि­चित्र आत्मेत्याशङ्का सम्भवतीति सम्बन्धः ।

वैचित्र्यं दृष्टान्तेनाह —
यथेति ।

कथं तर्हि तन्निरसनं, तदाह —
तामिति ।

जगदायतनं ब्रह्म ज्ञेयमित्युक्ते कुतस्तदैकरस्यं, तत्राह —
एतदिति ।

तथापि कथं प्रपञ्चायतनस्य निष्कृष्य ज्ञानं, तत्राह —
यथेति ।

एक­श­ब्दा­दे­व­का­रा­च्चा­य­त­न­प­द­ल­क्ष्य­मे­क­रसं ब्रह्मात्मत्वेन ज्ञेय­मि­त्युक्त्वा तत्रैव हेत्वन्तरमाह —
विकारेति ।
वाचा­र­म्भ­ण­श्रु­ते­र्दृ­श्य­त्वा­दि­त्यु­क्तेश्च विकारो मिथ्या तस्मि­न्न­नृ­तेऽ­नि­र्वा­च्येऽ­भि­स­न्धा­भि­मानो यस्य तस्येति यावत् । द्वैतं सत्यं पश्यतो निन्दा­श्रु­ते­र­प्ये­क­रसं ब्रह्मेत्यर्थः ।

ब्रह्मैकरस्यं सामा­ना­धि­क­र­ण्य­श्रु­ति­वि­रु­द्ध­मि­त्या­शङ्क्य पुरुषः स्थाणु­रि­ति­व­ज्जा­ड्या­दिना विरुद्धस्य द्वैतस्य ब्रह्मणा सामानाधिकरण्यं बाधार्थमित्याह —
सर्वमिति ।
यदविद्यारोपितं तत्सर्वं वस्तुतो ब्रह्म न तु यद्ब्रह्म तत्सर्वमतो न श्रुति­वि­रु­द्ध­मि­त्यर्थः ।

ब्रह्मानूद्य सर्व­त्व­वि­धा­व­प्र­सि­द्धा­नु­वा­देन प्रसि­द्ध­वि­धि­प्र­स­क्ति­रि­त्य­भि­प्रेत्य ब्रह्मणो नानारसत्वे श्रुत्य­न्त­र­वि­रो­ध­माह —
स यथेति ।
सैन्ध­व­खि­ल्योऽ­न्त­र्ब­हि­र्वि­भा­ग­हीनः सर्वात्मना लवणैकरसो यथा तथात्मापि सर्वथा चिदे­क­र­स­मू­र्ति­रिति श्रुत्यर्थः ।

ब्रह्म­ण­श्चि­दे­क­र­सस्य प्रतिपाद्यत्वे फलितमाह —
तस्मादिति ।
तस्यै­क­र­स्या­त्प्र­धा­ना­दे­स्त­द्वि­र­हा­दि­त्यर्थः ।

सेतु­श्रु­ते­र्गतिं वक्तु­मु­क्त­म­नु­व­दति —
यत्त्विति ।

तस्याविवक्षितां गतिमाह —
अत्रेति ।
अत्रेति सप्तम्या भावप्रधानममृतं वाक्यं चोक्तम् । साव­य­व­त्वा­चे­त­न­त्वादि वक्तुमादिपदम् ।

ननु सेतु­नाऽ­वि­ना­भू­त­त्वा­त्पा­र­व­त्त्वा­दे­स्तत्र तच्छ­ब्दा­द्धी­रिति चेन्नेत्याह —
नहीति ।
अत्रापीति प्रकृ­त­वा­क्योक्तिः अभ्युपगम्यते, परेणापीति शेषः ।

विध­र­ण­त्व­स्या­ग­न्तु­क­त्वा­त्पा­र­व­त्त्वादेः स्वाभा­व्या­त्त­देव सेतुश्रुत्या ग्राह्यमिति चेत् , तत्राह —
सेत्विति ।
गुणवृत्त्यापि शब्दै­क­दे­शा­र्थ­वि­ध­र­ण­गु­ण­स्वी­क­र­ण­मेव युक्तं न त्वत्य­न्त­ब­हि­र­र्थ­पा­र­व­त्त्वा­द्य­ङ्गी­क­रणं मुख्या­र्थै­क­दे­श­ला­भेन विधरणस्य बुद्धिस्थत्वात् , अमृतस्येति षष्ठी च ब्रह्मपक्षे भावा­र्थ­स्वी­का­रा­दिति भावः ।

सेतुशब्दं ब्रह्मे­त्यु­पेत्य सेतु­श्रु­ते­र्ग­ति­मुक्त्वा विष­या­न्त­रो­क्त्यापि तद्गतिमाह —
अपर इति ।

सेतुशब्दस्य वाग्वि­मो­क­पू­र्व­क­मा­त्म­ज्ञा­न­मर्थो न ब्रह्मेति स्थिते फलितमाह —
तत्रेति ॥ १ ॥

द्युभ्वा­द्या­य­तनं ब्रह्मेत्यत्र हेत्वन्तरमाह —
मुक्तेति ।

तद्व्याख्यातुं प्रतिज्ञां पूरयति —
इतश्चेति ।

इतःशब्दार्थं स्पष्टयति —
यस्मादिति ।

मुक्तेन ब्रह्मणा कुत­स्त­दे­वो­प­सृ­प्य­मि­त्या­श­ङ्क्याह —
मुक्तैरिति ।

बन्धविश्लेषं मुक्तिशब्दार्थं वक्तुं बन्धमनुवदति —
देहादिष्विति ।

अविद्याफलमाह —
तत इति ।

अनर्थसमुदायस्य सम्य­ग्ज्ञा­ना­दृते विच्छेदाभावं सूचयति —
सन्तत इति ।

तत्र स्वानुभवं प्रमाणयति —
सर्वेषामिति ।

बन्धमनूद्य तद्विश्लेषं मोक्षमाचक्षाणः सूत्रं योजयति —
तदिति ।

उक्त­मु­क्त्य­न­न्तरं प्राप्यं ब्रह्मेति श्रुतिरसिद्धेति शङ्कते —
कथमिति ।

मुक्तौ श्रुतिमाह —
भिद्यत इति ।

तथापि कथं द्युभ्वा­द्या­य­त­नस्य मुक्तो­प­सृ­प्यत्वं, तत्रापि श्रुतिमाह —
इत्युक्त्वेति ।
यथा नद्यो गङ्गाद्या नामरूपाभ्यां निर्मुक्ता समुद्रं प्राप्य तदा­त्म­ना­व­ति­ष्ठन्ते, तथा विद्वानपि साक्षा­त्कृ­त­ब्रह्मा तद्बलादेव नाम­रू­पा­द­वि­द्या­त­त्का­र्या­त्मनो विमुक्तः परा­द­व्या­कृ­ता­त्प­र­म­स्पृ­ष्टा­नर्थं पुरुषं पूर्णमात्मानं दिव्यमखण्डं चिद्धा­तु­मु­पै­त्या­त्म­त्वे­ना­प्नो­ती­त्यर्थः ।

प्रधा­ना­दी­ना­म­न्य­त­म­स्यापि मुक्तो­प­सृ­प्य­त्व­सि­द्धे­र­न्य­था­सि­द्धि­रि­त्या­श­ङ्क्याह —
ब्रह्मणश्चेति ।
ज्ञानावस्था यदेत्युक्ता । मुमु­क्षु­र­स्ये­त्युक्तः । हृदीत्युक्त्या कामा­ना­मा­त्म­नि­ष्ठता निरस्ता । प्रति­ब­न्धा­भा­वा­वस्थां वक्तु­म­थे­त्यु­क्तम् । अत्रेति जीवदवस्थोक्तिः । ‘स यो ह वै तत्परमं ब्रह्म वेद’ इत्या­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

पर­प­क्ष­व्या­वृत्तिं स्फोरयति —
प्रधानादीनां त्विति ।
क्वचिदिति श्रुति­स्मृ­ति­लो­कोक्तिः ।

वाग्वि­मु­क्तै­र्ज्ञे­य­त्व­व्य­प­दे­शा­दपि द्युभ्वा­द्या­य­तनं ब्रह्मेति व्याख्यान्तरमाह —
अपि चेति ।
इहे­त्यु­दा­ह­र­णोक्तिः ।

वाग्विमोकद्वारा द्युभ्वा­द्या­य­त­नस्य ज्ञेय­त्वो­क्ता­वपि कुत­स्त­द्ब्र­ह्मैव, तत्राह —
तच्चेति ।
धीरो विवेकज्ञानी, विज्ञानं पदार्थज्ञानं, प्रज्ञा वाक्यार्थधीः, ज्ञात­प­दा­र्थ­स्यैव हि वाक्यार्थधीः । ब्राह्म­ण­प­द­म­नु­क्त­द्वि­जो­प­ल­क्ष­णम् ।

वाक्या­र्थ­धी­हे­तु­त्वेन कर्म­का­ण्ड­वै­मु­ख्य­म­धि­का­रिणा कार्यमित्याह —
नेति ।
बहूनिति विशे­ष­णा­दा­त्मा­र्थो­प­नि­ष­द­नु­चि­न्त­न­म­नु­ज्ञा­तम् ।

अना­त्मा­र्थ­श­ब्दा­ना­म­न­नु­स­न्धे­यत्वे हेतुः —
वाच इति ।
अष्टावपि स्थानानि वाक्श­ब्दे­नो­क्तानि । ताल्वादिशोषणमेव बहु­श­ब्दा­नु­चि­न्तनं न फलवदित्यर्थः ।

मुक्तो­प­सृ­प्य­त्वो­क्ति­फ­ल­माह —
तस्मादिति ॥ २ ॥

सिद्धा­न्त­मुक्त्वा प्रधानपक्षं निषेधति —
नेति ।

सूत्र­ता­त्प­र्य­माह —
यथेति ।
वैशे­षि­क­त्व­म­सा­धा­र­ण­त्वम् ।

तदाक्षराणि व्याचष्टे —
नेत्यादिना ।
इहेति वाक्योक्तिः ।

प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —
कस्मादित्यादिना ।
प्रक­र­ण­म­त्रे­त्यु­क्तम् ।

प्रधा­न­सा­ध­क­श­ब्दा­भावे फलमाह —
येनेति ।
प्रधा­न­वा­चि­श­ब्दस्य सत्त्वेनेति यावत् । न तथा तद्वा­चि­श­ब्दोऽ­स्तीति शेषः ।

अत­च्छ­ब्दा­दि­त्य­र्था­न्त­र­माह —
तदिति ।
सप्तमी पूर्ववत् ।

प्रधानस्य द्युभ्वा­द्या­य­त­न­त्वा­भा­वेऽपि सूत्रात्मनः स्यादि­त्या­श­ङ्क्याह —
अत इति ।
अत­च्छ­ब्दा­दि­त्य­तः­श­ब्दार्थः ॥ ३ ॥

अस्तु तर्हि शारीरो द्युभ्वा­द्या­य­तनं, तस्मि­न्ना­त्म­त्वा­दि­यो­गात् , तत्राह —
प्राणभृच्चेति ।

तद्व्याचष्टे —
यद्यपीति ।

भोग्यस्य भोक्तृ­शे­ष­त्वा­त्त­स्या­य­त­न­त्व­मु­क्त­मा­श­ङ्क्याह —
न चेति ।
जीव­स्या­दृ­ष्ट­द्वारा द्युभ्वा­दि­नि­मि­त्त­त्वेऽपि न साक्षा­त्त­दा­य­त­न­त्व­मौ­पा­धि­क­त्वे­ना­वि­भु­त्वा­दि­त्यर्थः ।

नन्व­त­च्छ­ब्दा­दिति हेतुरिहापि चेदनुकृष्यते तर्हि ‘न प्राणभृदनुमाने अतच्छब्दात् ‘ इत्येकमेव सूत्रमस्तु, तत्राह —
पृथगिति ।
उत्तरसूत्रैः प्राणभृदेव निरस्यते न प्रधानं तच्चैकसूत्रकरणे दुर्ज्ञानं, तेनो­त्त­र­सू­त्रेषु जीव­मा­त्र­नि­रा­स­ज्ञा­प­नार्थं पृथक्करणं सूत्र­यो­रि­त्यर्थः ॥ ४ ॥

परि­च्छे­द­स्या­भा­स­त्वा­द्ब्र­ह्मै­क्या­भि­प्रा­येण सर्व­ज्ञ­त्व­मा­य­त­नत्वं च जीवेऽपि स्यादिति मत्वा पृच्छति —
कुतश्चेति ।

सूत्रमुत्तरम् —
भेदेति ।

विभजते —
भेदेत्यादिना ।
इहे­त्यु­दा­ह­र­णोक्तिः ।

तथापि ज्ञेयमायतनं प्राणभृदस्तु, नेत्याह —
तत्रेति ।
निर्धारणार्था सप्तमी ॥ ५ ॥

भिन्नस्य ब्रह्मणो ज्ञेयत्वनिरासेन स्वात्मानमेव जानथेति वच­न­प­र्य­व­सा­ना­ज्जी­व­स्या­य­त­न­त्व­ज्ञे­य­त्व­नि­रासे हेत्वन्तरं वाच्यमित्याह —
कुतश्चेति ।

सूत्र मुत्तरमादाय व्याचष्टे —
प्रकरणं चेति ।

तस्य परमात्मविषयत्वे हेतुमाह —
कस्मिन्निति ।

प्राणभृति ज्ञातेऽपि तच्छेषत्वेन सर्व­वि­ज्ञा­ना­त्त­द्वि­ष­यत्वं प्रक­र­ण­स्ये­त्या­श­ङ्क्याह —
परमात्मनीति ॥ ६ ॥

जीव­स्यो­पा­ध्यै­क्ये­ना­वि­व­क्षि­त­त्वा­त्त­ज्ज्ञा­नेऽपि सर्व­ज्ञा­न­सि­द्धे­स्त­स्या­य­त­न­त्वा­द्य­भावे हेत्वन्तरं वाच्य­मि­त्या­शङ्क्य सूत्रेण परिहरति —
कुतश्चेत्यादिना ।

व्याचष्टे —
द्युभ्वादीति ।

निर्देशमेव दर्शयति —
तयोरिति ।

विभक्त्यर्थमाह —
ताभ्यां चेति ।

स्थित्ये­श्व­र­स्या­द­ना­ज्जी­वस्य सङ्ग्रहेऽपि कथमीश्वरस्यैव विश्वायतनत्वं, तदाह —
यदीति ।

ईश्व­र­स्या­य­त­न­त्वे­ना­प्र­कृ­तत्वे जीवा­त्पृ­थ­क्क­थ­ना­नु­प­प­त्ति­रि­त्यु­क्त­मेव व्यतिरेकद्वाराह —
अन्यथेति ।

जीव­स्या­प्या­य­त­न­त्वे­ना­प्र­कृ­तत्वे तुल्या­नु­प­प­त्ति­रिति शङ्कते —
नन्विति ।

तस्यैक्यार्थं लोक­सि­द्ध­स्या­नु­वा­द­त्वा­न्नै­व­मि­त्याह —
नेति ।

जीव­स्या­पू­र्व­त्वा­भा­वे­ना­प्र­ति­पा­द्य­त्व­मेव प्रकटयति —
क्षेत्रज्ञो हीति ।

ईश्वरस्यापि लोक­वा­दि­सि­द्ध­त्वा­द­प्र­ति­पा­द्य­ते­त्या­श­ङ्क्याह —
ईश्वरस्त्विति ।

तयोरित्यादौ बुद्धि­जी­व­यो­रे­वो­क्त­त्वा­त्क­थ­मिदं सूत्रं, तत्राह —
गुहामिति ।

गुहाधिकरणे नेदमुदाहरणम् , ‘ऋतं पिबन्तौ’ इत्यु­दा­हृ­त­त्वात् , तत्राह —
यदेति ।

तर्हीह परा­नु­क्ते­र्बु­द्धि­जी­व­यो­रे­वो­क्त­त्वा­त्कथं पर­स्या­धि­ग­ति­रि­त्याह —
कथमिति ।

जीवस्यापि परा­त्म­त्वे­ना­त्रे­ष्ट­त्वा­दु­पा­ध्य­ना­द­रा­दु­प­हि­त­नि­षे­धेऽपि तदस्पृष्टस्य पर­स्या­य­त­न­त्व­मि­त्याह —
प्राणेति ।

कथ­मे­क­स्यै­वो­पा­धि­वि­शि­ष्ट­त्वा­वि­शि­ष्ट­त्वेन भेदाभेदौ, तत्राह —
यथेति ।
प्राण­भृ­तोऽ­नु­प­हि­त­स्या­त्रे­ष्ट­स्येति शेषः ।

तस्य चेदायतनत्वं न निषिध्यते किंविषयस्तर्हि निषेधः, तत्राह —
तस्मादिति ।

पक्षान्तरायोगे सिद्धा­न्त­मु­प­सं­ह­रति —
तस्मादिति ।

इतश्चायतनवाक्यं ज्ञेय­ब्र­ह्म­प­र­मि­त्याह —
तदिति ।

तेनैव सिद्धत्वे हेतुमाह —
तस्येति ।

तर्हि गता­र्ध­म­धि­क­र­ण­म­न­र्थ­क­मि­त्या­शङ्क्य भूत­यो­नि­वा­क्य­म­ध्यस्थं नैतदिति कृत्वा­चि­न्त­ये­द­म­धि­क­र­ण­मि­त्याह —
प्रपञ्चार्थमिति ॥ ७ ॥

आत्म­श­ब्दा­द्द्यु­भ्वा­द्या­य­तनं ब्रह्मे­त्युक्तं, तत्रात्मशब्दः ‘तरति शोकमात्मवित् ‘ इत्यत्र ब्रह्मणि प्राणे प्रयो­गा­द­नै­का­न्तिकः स्यादि­त्या­श­ङ्क्याह —
भूमेति ।

पूर्णसुखात्मनि निर्विशेषे ब्रह्मणि भूम­वि­द्या­श्रु­ते­र­न्व­योक्तेः सङ्गतिरिति मत्वा छान्दोग्यवाक्यं पठति —
इदमिति ।

नाल्पे सुखमस्ति भूमैव सुखं, तस्मान्निरतिशयं सुखमिच्छता भूमैव विशेषेण ज्ञातुमेष्टव्यो न परिच्छिन्नमिति सन­त्कु­मा­रो­क्ति­मा­दत्ते —
भूमा त्विति ।

तदुपश्रुत्य नारदो भगवन् , भूमानमेव विशेषेण ज्ञातु­मि­च्छा­मीति पृच्छति सनत्कुमारम् —
भूमानमिति ।

भूम्नो लक्षणमाह —
यत्रेति ।
व्यवहारातीतं पूर्णं वस्तु भूमेत्यर्थः ।

लक्षणं व्यतिरेकेण स्फोरयितुं परिच्छिन्नस्य लक्षणमाह —
अथेति ।
अन्व­य­व­द्व्य­ति­रे­क­स्या­पी­ष्ट­सिद्धौ हेतु­त्व­द्यो­त­कोऽ­थ­शब्दः । आदिपदं ‘यो वै भूमा तदमृतम् ‘ इत्या­दि­स­ङ्ग्र­हा­र्थम् ।

उक्ते वाक्ये भूम्नि संशयमाह —
तत्रेति ।

निर्बीजे संश­येऽ­ति­प्र­स­ङ्गा­त्पृ­च्छति —
कुत इति ।

तत्र हेतुं वक्तुं भूमशब्दार्थमाह —
भूमेतीति ।
बहोर्भाव इति विग्रहे ‘पृथ्वादिभ्य इमनिज्वा’ इतीमन्प्रत्यये कृते ‘बहोर्लोपो भू च बहोः’ इति सूत्रेण बहो­रु­त्त­र­स्ये­म­न्प्र­त्य­य­स्ये­का­र­लोपे बहोः स्थाने भूशब्दादेशे च भूमन्निति प्रातिपदिकं सिध्यति । तस्य च भावार्थे विहि­ते­म­न्प्र­त्य­या­न्त­त्वा­द्ब­हु­त्व­वा­चि­ते­त्यर्थः ।

तथापि संशये को हेतु­रि­त्या­श­ङ्क्या­वा­न्त­र­प्र­क­रणं महाप्रकरणं चेत्याह —
किमित्यादिना ।
तथा सन्नि­धा­ना­त्प्रा­ण­भा­न­व­दि­त्यर्थः । भाव­भ­वि­त्रो­स्ता­दा­त्म्य­वि­व­क्षया प्राणो भूमा परमात्मा भूमेति सामानाधिकरण्यम् ।

सत्यां सामग्र्यां कार्यसिद्धिमाह —
तत्रेति ।

आका­ङ्क्षा­पू­र्वकं पूर्वपक्षं गृह्णाति —
किमिति ।
पूर्वपक्षे प्राणो­पा­स्ति­रु­त्त­र­पक्षे परमात्मधीरिति फलम् ।

अवा­न्त­र­प्र­क­र­णस्य सन्निहितत्वेऽपि महा­प्र­क­र­ण­शे­ष­त्वेन दुर्बलत्वान्न प्राणस्य प्रमेयतेत्याह —
कस्मादिति ।

महा­प्र­क­र­णा­द­वा­न्त­र­प्र­क­र­णस्य प्राबल्यार्थं लिङ्गमाह —
भूय इति ।
प्राणादूर्ध्वं मह­त्त­रा­र्थ­वि­ष­य­त्वेन प्रश्नस्य प्रतिवचनस्य वाऽदृ­ष्टे­रि­त्यर्थः ।

अन्यत्र तदभावेऽपि मेय­भे­द­धी­व­द­त्रापि स्यादि­त्या­श­ङ्क्या­स्मि­न्प्र­क­रणे तयोः सतो­रे­वा­र्थ­भे­द­भा­ना­न्मै­व­मि­त्याह —
यथेति ।

दृष्टिविषयत्वेन निषेध्यं प्रश्ना­दि­क­म­भि­न­यति —
अस्तीति ।

ननु ‘एष तु वा अतिवदति’ इति तुशब्देन प्राण­वि­दोऽ­ति­वा­दित्वं व्यावर्त्य, ‘यः सत्येनातिवदति’ इति सत्येनातिवदनं वदन्प्राणं भूमानं न मृश्यते, तत्राह —
प्राणमिति ।
अति­वा­दि­त्व­लि­ङ्गेन प्राणस्य प्रत्य­भि­ज्ञा­नात् , एष इति प्रकृ­ता­क­र्ष­णा­त्प्र­क­र­णा­वि­च्छे­दात् , अतिवादित्वे सत्यशब्दस्य सत्य­व­द­न­गु­ण­वि­धा­य­क­त्वात् , तुशब्दस्यापि नामा­द्या­शा­न्त­वा­दि­नोऽ­ति­वा­दि­त्व­व्या­व­र्त­क­त्वा­त्प्राणं गृहीत्वैव सत्यादिद्वारा भूम्नोऽ­व­ता­रा­त्त­स्यैव भूमतेत्यर्थः ।

प्राणपक्षे लक्षणविरोधं शङ्कते —
कथमिति ।

अव­स्था­वि­शे­ष­मा­श्रि­त्याह —
उच्यत इति ।

लोकप्रसिद्ध्या सम्भावितं श्रुत्या स्पष्टयति —
तथा चेति ।
‘गार्हपत्यो ह वा एषोऽपानः' इत्या­दि­नाऽ­ग्नि­त्वेन निरू­पि­त­त्वा­त्प्राणा एवाग्नयः । ते च पुरे शरीरेऽभिमानतो गृहीते स्वापेऽपि व्यापारवन्तो भवन्तीत्यर्थः । यद्वा तत्रा­प्या­त्म­न्येव लक्षणं तस्या­स्त­त्प्रा­धा­न्या­दि­त्या­शङ्क्य तथा चेत्यादि योज्यम् ।

‘यो वै भूमा तत्सुखम् ‘ इति प्राणपक्षे कथं निर्वक्ष्यते, तत्राह —
यच्चेति ।
यस्या­म­व­स्था­या­मेष देवो बुद्ध्या­द्यु­पा­धिको जीवः स्वप्ना­नु­च्चा­व­चा­न्नो­प­ल­भते, तदा यत्सुखं यदस्मिञ्शरीरे भवति, नोपा­या­न्त­र­सा­ध्य­मिति श्रुत्यर्थः । सुषुप्तेश्च प्राण­प्रा­धा­न्या­त्त­स्यैव तत्सुखमिति शेषः ।

भूम्नोऽ­मृ­त­त्व­श्रुत्या प्राणा­द­र्था­न्त­रत्वं, प्राण­स्या­ल्प­त्वेन मर्त्य­त्वा­दि­त्या­श­ङ्क्याह —
यच्चेति ।

प्राणे भूम्नि प्रकरणविरोधं शङ्कते —
कथमिति ।

प्राण­स्यै­वा­त्रा­त्म­त्वान्न तद्वि­रो­धोऽ­स्ती­त्याह —
प्राण एवेति ।

सम्भवति मुख्येऽर्थे किमि­त्या­त्म­श­ब्देन गौणा­र्थ­ग्र­ह­ण­मि­त्या­शङ्क्य सार्वा­त्म्या­दा­त्म­श­ब्द­स्तत्र मुख्य एवेत्याह —
तथा हीति ।

प्राणस्य सर्व­क­ल्प­ना­धि­ष्ठा­न­त्वाच्च मुख्या­त्म­त्व­मि­त्याह —
यथेति ।

तथापि परमात्मैव सर्व­का­र­ण­त्वा­न्मुख्यो भूमा, प्राणस्तु नैव­मि­त्या­श­ङ्क्याह —
सर्वेति ।

प्राणस्य सिद्धे भूमत्वे तदुपास्तिपरं भूम­वा­क्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।

तत्र प्रतिज्ञां व्याकरोति —
परमात्मेति ।

प्राणो भूमे­त्यु­क्त­त्वा­न्नेयं प्रतिज्ञेति शङ्कते —
कस्मादिति ।

सौत्रं हेतुमादत्ते —
सम्प्रसादादिति ।

‘एष सम्प्रसादः’ इति सम्प्र­सा­द­श­ब्दास्य जीवा­र्थ­त्वा­द­त्रापि तस्मा­त्प­र­त्वोक्त्या न प्राण­प्र­त्यु­क्ति­रि­त्या­शङ्क्य सम्प्र­सा­द­श­ब्दस्य विवक्षितं वक्तुं प्रसिद्धमर्थमाह —
सम्प्रसाद इति ।

जीवे सुप्तौ च शक्तिकल्पनायां गौरवं शङ्कित्वोक्तम् —
सम्यगिति ।

न केवलं निरुक्त्या सम्प्रसादशब्दः स्वापविषयः, किन्तु ‘स एष एत­स्मि­न्स­म्प्र­सादे रत्वा’ इत्या­दि­प्र­यो­गा­द­पी­त्याह —
बृहदिति ।

तर्हि स्वापा­दु­प­र्यु­प­दे­श­स्त­तोऽ­न्यस्य प्राणस्यापि स्यादि­त्या­श­ङ्क्या­व­स्था­वा­चि­श­ब्दस्य लक्षणया प्राणविषयत्वमाह —
तस्यांं चेति ।

सम्प्र­सा­द­श­ब्दस्य लाक्ष­णि­का­र्थ­ग्रहे सिद्धं हेत्वर्थमाह —
प्राणादिति ।
भूम्नो धर्म्या­का­ङ्क्षायां ब्रह्मणः सत्य­स्या­धि­का­रा­त्त­देव सम्बध्यत इति भावः ।

प्राणे हेतोरयोगमाह —
प्राण इति ।

दृष्टा­न्त­द्वा­रोक्तं व्यनक्ति —
न हीति ।
अस्मिन्प्रकरणे यस्मादूर्ध्वं यो निर्दिश्यते स ततोऽतिरिच्यते, प्राणा­च्चो­प­रि­ष्टा­दु­प­दिष्टो भूमेति सोऽपि ततोऽन्यः स्यादिति भावः । तत्र तत्रेति पर्यायभेदोक्तिः ।

हेत्वसिद्धिं शङ्कते —
नन्विति ।

प्रतिवचनद्वारा प्रश्न­क­ल्प­ना­मा­श­ङ्क्यो­क्तम् —
नापीति ।

स्वपक्षे पूर्वपक्षी हेतोः सत्त्वमाह —
प्राणेति ।

सिद्धान्ते हेत्वसिद्धिं निगमयति —
तस्मादिति ।

सिद्धान्ती हेतु­स­म­र्थ­ना­र्थ­माह —
अत्रेति ।

तत्र परकीयहेतुं निरस्यति —
न तावदिति ।

एवशब्दस्य यच्छ­ब्द­पा­र­त­न्त्र्यान्न प्रकृ­त­प्रा­ण­प­रा­म­र्शि­त्व­म­तोऽ­वा­न्त­र­प्र­क­रणं विच्छि­न्न­मि­त्युक्ते शङ्कते —
नन्विति ।

सत्यस्य प्रधा­न­त्वा­द्वि­शे­ष­वा­दस्य तद्विषयत्वमेव न प्राण­वि­ष­य­ते­त्याह —
कथमिति ।

सत्यशब्दो यथा­र्थो­क्ति­वा­ची­त्य­ङ्गी­कृत्य दृष्टान्तेन प्रत्याह —
यथेति ।

तृतीयाश्रुत्या साधकतमार्थया सत्य­ज्ञा­ने­ना­ति­वा­दि­त्वा­न्त­र­वि­धा­ना­त्प्र­क­र­णेन श्रुत्य­र्थ­प­रि­त्या­गा­सि­द्धि­रि­त्याह —
नेतीति ।

श्रुत्यर्थमेव स्फुटयति —
श्रुत्येति ।
वाक्य­म­त्रे­त्यु­क्तम् ।

अति­वा­दि­त्व­लि­ङ्ग­प्र­त्य­भि­ज्ञा­त­प्रा­ण­स्यैव प्रतिपाद्यत्वे सत्य­श­ब्द­स्त­दी­य­गु­ण­वि­धा­यकः स्यादि­त्यु­क्त­मि­त्या­श­ङ्क्याह —
नेति ।
अति­वा­दि­त्व­वाक्यं सप्तम्यर्थः ।

का तर्हि प्राणविज्ञानस्य प्रसक्तिः, तत्राह —
प्रकरणात्त्विति ।
सम्बध्येत अतिवादित्वे हेतुत्वेनेति शेषः ।

प्रकरणस्य प्रमा­ण­त्वा­त्त­त्कृ­तोऽपि सम्ब­न्धोऽ­नु­रो­द्धव्य इत्याशङ्क्याह —
तत्रेति ।

न परं प्रकरणानुरोधेन तृती­या­श्रु­ति­र्वि­रु­ध्येत किन्तु तुशब्दश्चेत्याह —
प्रकृतेति ।
न च लिङ्गो­पे­त­प्र­क­रणं श्रुति­मा­त्रा­द्ब­लीयः, लिङ्ग­स्या­त­द्वि­ष­यो­क्ते­रिति भावः ।

यत्तु सत्यशब्दस्य गुणविधिपरत्वं, तन्न, वाक्या­न्त­र­वि­रो­धा­दि­त्याह —
सत्यं त्विति ।

तुश­ब्दे­ना­ङ्ग­वि­शे­ष­विधिः सूच्यते किंवा प्रकृ­त­व्या­वृ­त्ति­रिति सन्दे­हा­पो­हा­र्थ­माह —
तस्मादिति ।
अवा­न्त­रा­धि­का­र­वि­च्छे­दा­दिति हेत्वर्थः ।

प्राणा­दे­र­र्था­न्तरं सत्यं प्रशंसितुं सत्य­ज्ञा­ने­ना­ति­वा­दि­त्व­मु­क्त­मि­त्याह —
तादृगिति ।

यत्तूक्तं प्राणादधि भूयः­प्र­श्न­प्र­त्युक्ती नेति, तत्राह —
न चेति ।

किं तर्हि कार­ण­म­र्था­न्त­र­वि­व­क्षा­या­मि­त्या­श­ङ्क्याह —
प्रकृतेति ।
असति प्रकृ­त­स­म्ब­न्धा­योगे सतोरपि प्रश्न­प्र­ति­व­च­न­यो­र­र्थै­क्यस्य मैत्रेय्यादौ दृष्टत्वात् , तदभावेऽपि प्रकृ­त­स­म्ब­न्धा­योगे तद्भेदस्य दर्शनात् , प्रश्ना­दि­स­त्त्व­म­र्था­न्त­र­त्वा­नि­मि­त्त­मिति भावः ।

‘नापृष्टः कस्य­चि­द्ब्रू­यात् ‘ इति स्मृतेरप्रश्ने प्रत्यु­क्ति­र­यु­क्ते­त्या­श­ङ्क्या­पृ­ष्टे­नापि बोधनीयः शिष्यो जिज्ञासुरिति मत्वाह —
तत्रेति ।
वाक्यं सप्तम्यर्थः ।

पर­स्मि­न्ब्र­ह्मणि सत्यशब्दस्य प्रयु­क्त­पू­र्व­क­त्वाच्च तद्विषयतेत्याह —
सत्यमिति ।

तथापि विज्ञा­न­म­न­न­श्र­द्धा­नि­ष्ठा­कृ­ती­ना­म­न्य­तमो भूमा, न सत्यं ब्रह्मे­त्या­श­ङ्क्याह —
तथेति ।
तेषां साधनत्वादेव फल­भू­त­भू­म­ता­सि­द्धि­रि­त्यर्थः ।

तथापि कथं सत्यस्यैव तथात्वमत आह —
तत्रेति ।
हेतूक्तिद्वारा भूमोपदेशे प्रस्तुते सतीत्यर्थः । इहेति वाक्योक्तिः ।

हेत्व­सि­द्धि­मु­द्धृत्य फलितमाह —
तस्मादिति ।

परात्मा भूमेत्यत्र महा­प्र­क­र­ण­म­नु­गृ­ही­त­मिति हेत्वन्तरमाह —
एवं चेति ।

यत्तु प्राण­वि­ष­य­त्व­मा­त्म­श­ब्द­स्योक्तं तदनूद्य दूषयति —
प्राण इति ।
शोक­नि­वृ­त्ति­वा­क्य­मि­हे­त्यु­क्तम् ।

विशि­ष्ट­फ­ल­दृ­ष्टे­रपि परा­त्मै­वा­त्म­श­ब्दार्थो न प्राण इत्याह —
न चेति ।

नात्र मुख्यं शोकतरणं किन्त्वौ­प­चा­रि­क­मि­त्या­श­ङ्क्यो­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­न्मै­व­मि­त्याह —
तमिति ।

उपक्रमे शोकस्योपसंहारे तमसो निवृ­त्ति­व­च­ना­द्वि­प्र­ति­प­त्ति­मा­श­ङ्क्याह —
तम इतीति ।
कारणनिवृत्त्या कार्य­नि­वृ­त्ति­रु­प­सं­हारे कार्यनिवृत्त्या कार­ण­नि­वृ­त्ति­रु­प­क्रमे विव­क्षि­ते­त्य­वि­प्र­ति­प­त्ति­रि­त्यर्थः ।

किञ्च प्राणो यदा­य­त्त­स्त­स्येदं प्रक­र­ण­मि­त्या­त्मैव प्रकरणी भूमेत्याह —
प्राणान्ते चेति ।

प्राण­स्या­न्या­य­त्त­तैव कुतोऽत्रोच्यते, तत्राह —
आत्मत इति ।

प्राणा­धि­का­र­स­माप्तौ परा­त्म­व­च­ना­त्पू­र्वो­क्तस्य भूम्नो न परमात्मतेति शङ्कते —
प्रकरणेति ।

भूम्न एव सर्व­ना­म्ना­नु­क­र्ष­णा­द्वा­क्य­शे­ष­स्यापि तद­र्थ­त्वा­त्त­स्यै­वेदं प्रकरणमिति न प्राणस्य भूमतेत्याह —
नेत्यादिना ।

किञ्च भूमरूपतापि प्राणे न मुख्येत्याह —
वैपुल्येति ।
प्राणस्य स्ववि­का­रा­पे­क्षया भूमत्वेऽपि न मुख्यमिति वक्तुं सुत­रा­मि­त्यु­क्तम् ॥ ८ ॥

परो भूमेत्यत्र लिङ्गान्तरमाह —
धर्मेति ।

सूत्रं व्याकरोति —
अपि चेति ।

उपपत्तिं दर्शयितुं भूम्नि दर्शनाद्यभावं दर्शयति —
यत्रेति ।

कथमेतावता परात्मधीः, तत्राह —
परमात्मनीति ।

प्राणेऽपि तदु­प­प­त्ति­रु­क्ते­त्या­श­ङ्क्याह —
योऽपीति ।
उक्तो ‘न श्रृणोति’ इत्यादिनेति शेषः ।

प्राण­स्व­भा­व­वि­व­क्षया तस्यानुक्तत्वे हेतुमाह —
परमात्मेति ।
तत्प्रकरणे ‘न शृणोति’ इत्या­दे­रु­क्ते­रि­त्यर्थः । स्वप्नजागरितयोः सति मनसि दर्श­ना­दि­व्य­व­हा­रा­त्त­द­भावे स्वापे तद­भा­वा­द­न्व­य­व्य­ति­रे­काभ्यां मनोधीनो दर्श­ना­दि­र्ना­त्म­कृतः । स तु स्वतोऽलिङ्गं इति मत्वा ‘न शृणोति’ इत्यादिना सर्व­व्य­व­हा­रा­भावः सुषुप्तावुक्तो न प्राणविवक्षया पर­प्र­क­र­ण­वि­रो­धा­दि­त्यर्थः ।

भूम्नः श्रुुतं सुखत्वं प्राणेऽपि स्यादित्युक्तं प्रत्याह —
यदपीति ।

तस्य सुखत्वे मानमाह —
यत इति ।

इतश्चात्मन एव सुखत्वमित्याह —
इहापीति ।

तस्यैव सुखत्वं प्रति­यो­गि­प्र­त्युक्त्या स्फुटयति —
नेति ।

उक्त­श्रु­ते­र­र्थ­माह —
सामयेति ।
आमयेन दुःखेन सहितं सामयम् ।

धर्म­द्व­य­मुक्त्वा धर्मान्तरमाह —
यो वा इति ।

प्राणस्यापि दर्शि­त­म­मृ­त­त्व­मि­त्या­श­ङ्क्याह —
विकाराणामिति ।

इतश्च न प्राणस्य मुख्य­म­मृ­त­त्व­मि­त्याह —
अत इति ।
आर्त­मा­र्ति­ग्र­स्तम् । नाशीति यावत् ।

प्रकृ­तो­प­यु­क्तानि धर्मान्तराण्याह —
तथेति ।
‘स एवाधस्तात्स उपरिष्टात्’ इत्यादिना सर्वगतत्वं, ‘स एवेदं सर्वम् ‘ इति सर्वा­त्म­त्व­मु­क्तम् ।

श्रुति­लि­ङ्ग­प्र­क­र­णेभ्यो भूमा परमात्मेति तत्प्र­ति­प­त्त्यर्थं भूम­वा­क्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ॥ ९ ॥

भूम्नि श्रुतधर्माणां परत्रोपपत्त्या परो भूमेत्युक्तम् । अधुना तेनैव न्यायेनाक्षरे श्रुत­ज­ग­द्वि­धा­र­णस्य पर­स्मि­न्नु­प­प­त्ते­र­क्षरं परं ब्रह्मेत्याह —
अक्षरमिति ।

बृह­दा­र­ण्य­क­वाक्यं पठति —
कस्मिन्निति ।
यदूर्ध्वं दिवो यद­ध­स्ता­त्पृ­थिव्या ये चोभे द्यावापृथिव्यौ यदन्तरिक्षं यद्भूतं भवद्भविष्यच्च तत्सर्वं कस्मिन्नोतं प्रोतं चेति प्रश्ने याज्ञ­व­ल्क्ये­ना­काशे तदोतं च प्रोतं चेति निरस्ते, गार्गी पुनरपृच्छत् , आका­शोऽ­व्या­कृ­ताख्यः कस्मि­न्नो­त­प्रो­त­त्वेन तिष्ठतीति । याज्ञ­व­ल्क्य­स्त्वाह, हे गार्गि, यत्त्वया पृष्ट­मा­का­श­स्या­धि­क­रणं तदे­त­द­क्ष­र­म­स्थू­ला­दि­वि­शे­षणं ब्रह्मविदो वद­न्ती­त्यु­दा­ह­र­णार्थः ।

उभ­य­त्रा­क्ष­र­श­ब्द­प्र­यो­ग­प्र­तीत्या संशयमाह —
तत्रेति ।

सत्यशब्दस्य ब्रह्मणि मुख्यत्वात्परो भूमे­त्यु­क्त­त्वा­द­त्रा­प्य­क्ष­र­श­ब्दस्य वर्णे मुख्य­त्वा­दो­ङ्कार एवाक्षरमिति पूर्वपक्षयति —
तत्रेत्यादिना ।
अक्ष­र­ब्रा­ह्म­णस्य निर्विशेषे ब्रह्म­ण्य­न्व­योक्तेः सङ्गतयः । ओङ्का­रो­पा­स्ति­र्ब्र­ह्म­धी­रि­त्यु­भ­यत्र फलम् ।

न क्षर­ती­त्य­क्ष­र­मि­त्य­व­य­व­प्र­सिद्ध्या परस्मिन्नपि शब्दो­प­प­त्ति­मा­शङ्क्य ‘रूढि­र्यो­ग­म­प­ह­रति’ इति न्यायेनाह —
प्रसिद्धीति ।

वर्णपक्षे तस्या­म्ब­रा­न्त­धा­र­णा­यो­गा­द­पु­म­र्थ­त्वाच्च तद्ध्या­ना­द्ब्र­ह्मैव ग्राह्य­मि­त्या­श­ङ्क्याह —
ओङ्कार इति ।
उपास्तिद्वारा पुमर्थत्वे सिद्धे, अभिधेयस्य च गौरयं वृक्षोऽयमिति शब्द­सा­मा­ना­धि­का­र­ण्यात् , धूमा­ग्नि­व­दु­पा­यो­पे­य­ता­मा­त्रेण तदयोगात् , अतदुपाये लिङ्गा­द्यु­त्थ­ज्ञाने नाम­स­म्भे­दा­द­भि­धा­ना­भि­धे­य­यो­रै­क्यात् , ओङ्का­र­मा­त्र­ता­याश्च सर्वस्य श्रुत­त्वा­त्त­दु­क्ति­रि­त्यर्थः ।

रूढेरिदं ब्राह्म­ण­मो­ङ्का­रो­पा­स्ति­प­र­मि­त्यु­प­सं­ह­रति —
वर्ण इति ।

पूर्वपक्षमनूद्य सिद्धा­न्त­म­व­तार्य प्रतिज्ञां व्याकरोति —
एवमिति ।

रूढे­रो­ङ्का­र­वि­ष­य­त्व­म­क्ष­र­श­ब्द­स्योक्तं, तत्कथं प्रतिज्ञेत्याह —
कस्मादिति ।

हेतुमुक्त्वा व्याकरोति —
अम्बरान्तेति ।

आकाशस्यैव प्रश्ने श्रव­णा­त्त­द­धि­क­रणं पृष्टं न पृथि­व्या­दे­रि­त्या­श­ङ्क्याह —
तत्रेति ।

तथापि रूढि­र्यो­गा­द्ब­ली­य­सी­त्यु­क्त­मि­त्या­शङ्क्य तात्प­र्य­व­द­म्ब­रा­न्त­धृ­ति­लि­ङ्ग­स­ङ्ग­त­यो­ग­वृ­त्ति­र्ब­ली­य­सी­त्यु­पे­त्यो­प­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्या­व­ग­मा­त्ता­त्प­र्य­सि­द्धि­रि­त्याह —
तथा चेति ।

लिङ्ग­स्या­न्य­था­सिद्धिं प्रत्याह —
न चेति ।

ओङ्कारस्य सर्वा­त्म­त्व­श्रु­ते­स्तत्र सम्भवति लिङ्ग­मि­त्या­श­ङ्क्याह —
यदपीति ।
स्वरू­प­भे­दा­दु­पा­यो­पे­य­भे­दा­द­र्थ­क्रि­या­भे­दाच्च शब्दा­र्थ­यो­र­भे­दा­सि­द्धि­रि­त्यर्थः ।

प्रकृते रूढेर्योगस्य बलीयस्त्वे फलितमाह —
तस्मान्नेति ॥ १० ॥

उत्त­र­सू­त्रा­पोह्यं चोद्यमाह —
स्यादिति ।

केय­म­म्ब­रा­न्त­धृ­ति­स्त­न्नि­मि­त्तत्वं तदुपादानत्वं वा । नाद्यः, घट­कु­ला­ल­व­दा­श्र­या­श्र­यि­त्वा­यो­गात् । द्वितीये व्यभि­चा­रा­द­सा­ध­क­तेति मत्वा फलितमाह —
कथमिति ।

सूत्रमवतारयति —
अत इति ।

प्रतिज्ञां व्याचष्टे —
सा चेति ।

प्रधानस्यापि तदु­प­प­त्ते­रु­क्त­त्वा­द­व­धा­र­णा­सि­द्धि­रि­त्याह —
कस्मादिति ।

हेतुमुत्थाप्य नियमं साधयति —
प्रशासनादिति ।

अक्षरस्य सूर्यादौ प्रशासने श्रुतेऽपि कथमीश्वरत्वं, तत्राह —
प्रशासनं चेति ।

तस्या­न्य­था­सिद्धिं धुनीते —
नेति ।

तस्यापि स्वकार्ये प्रशासनं सिध्यति, नेत्याह —
नहीति ।
तथा चाज्ञा­ख्य­प्र­शा­स­न­लि­ङ्गान्न प्रधा­न­म­क्ष­र­मि­त्यर्थः ॥ ११ ॥

ओङ्का­रा­दि­नि­रा­सेन ब्रह्मादाने हेत्वन्तरमाह —
अन्येति ।

प्रतिज्ञाभ्यां सूत्रं योजयति —
अन्यभावेति ।

हेत्वर्थं प्रश्नपूर्वकमाह —
किमित्यादिना ।

अन्य­भा­वा­द्व्या­वृ­त्त्या­क्ष­र­स्या­भा­वत्वं विधेयमिति भ्रम­व्या­वृ­त्त्य­र्थ­म­भि­प्रे­त­म­र्थ­माह —
एतदिति ।
प्रधा­न­म­न्य­दि­त्यु­क्तम् । इहेति प्रकृतोदाहरणम् ।

प्रधानस्यापि रूपा­दि­रा­हि­त्या­द­दृ­ष्ट­त्वा­दि­यो­गा­दु­क्त­श्रुतौ कुतोऽक्षरस्य ततो व्यावृत्तिः, तत्राह —
तत्रेति ।

एतेन सूत्रे­णा­क्ष­रत्वं जीवस्यापि निरस्तमित्याह —
तथेति ।
अक्ष­र­म­तः­श­ब्दार्थः ।

इतश्च जीवस्य नाक्ष­र­श­ब्द­ते­त्याह —
अचक्षुष्कमिति ।

उपा­धि­स­म्ब­न्ध­नि­षे­धेऽपि तद्वतो निषे­धा­भा­वा­द्युक्तं तस्या­क्ष­र­त्व­मि­त्या­श­ङ्क्याह —
नहीति ।

अन­न्य­था­सि­द्ध­लि­ङ्ग­स­ङ्गि­यो­ग­वृत्त्या ज्ञेय­ब्र­ह्म­प­र­म­क्ष­र­ब्रा­ह्म­ण­मि­त्यु­प­सं­ह­रति —
तस्मादिति ॥ १२ ॥

ओङ्का­र­स्या­क्ष­र­त्वेन पूर्वपक्षे बुद्धि­सां­नि­ध्या­त्तेन ध्यातव्यं पुरुषं निरूपयति —
ईक्षतीति ।

आथर्वणवाक्यं पठति —
एतदिति ।
पिप्पलादो नामाचार्यः सत्यकामेन पृष्टो व्याचष्टे । हे सत्यकाम, परं निर्विशेषमपरं च कार्यं यद्ब्रह्म तदेतदेव योऽयमोङ्कारः । स हि प्रतिमेव विष्णोस्तस्य प्रतीकः । तस्मात्प्रणवं ब्रह्मात्मना विद्वा­ने­ते­नो­ङ्का­र­ध्या­ने­ना­य­त­नेन प्राप्तिसाधनेन परापरयोरेकतरं यथा­ध्या­न­म­नु­ग­च्छ­तीति प्रकृ­त्यै­क­मा­त्र­द्वि­मा­त्रो­पास्तिं दर्शयित्वा ब्रवीति, यः पुन­रो­मि­त्ये­त­द­क्षरं त्रिमात्रमिति । त्रिमात्रेणेति तृतीया द्वितीयात्वेन नेया, ब्रह्मो­ङ्का­रा­भे­दो­प­क्र­मात् । तथाविधमक्षरं सूर्यान्तस्थं परं ध्यायीत, स सूर्यं प्राप्तः साम­भि­र्ब्र­ह्म­लोकं प्रति नीयत इत्युदाहरणार्थः ।

सनिमित्तं संशयमाह —
किमिति ।

अक्षरशब्दस्य वर्णे रूढस्यापि जग­दा­य­त­न­त्व­लि­ङ्गेन जघन्या योग­वृ­त्ति­रा­श्रिता तथा देश­प­रि­च्छि­न्न­फ­ल­श्रु­ति­लि­ङ्गेन पर­श­ब्द­स्या­पे­क्षि­क­प­र­त्व­वि­शिष्टे हिरण्यगर्भे वृत्तिरिति पूर्वपक्षयति —
तत्रेति ।
उक्त­श्रु­ते­र्ध्येये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । अपरस्य परस्य वा ब्रह्मणो ध्यानं पूर्वो­त्त­र­प­क्षयोः फलम् ।