न्यायनिर्णयव्याख्या
१ परिच्छेदः
इतश्च परविद्याशेषत्वेनैवापरविद्योक्तिरित्याह —
निन्दित्वेति ।
प्रत्यक्षादिना कर्मसाध्यांल्लोकाननित्यतया ज्ञात्वा निर्वेदं वैराग्यमायाद्गच्छेत्कुर्यात् । कथं, नास्त्यकृतो मोक्षः कृतेन कर्मणा, नित्यफलार्थी चाहं, तस्मात्किं कर्मणेति विरक्तस्तस्य ब्रह्मणो विज्ञानार्थं गुरुमेवाभिगच्छेद्गुरुपादोपसर्पणं कृत्वा मुक्तिहेतुज्ञानाय श्रवणादि कुर्यादित्यर्थः । ‘रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुण् ‘ इति न्यायेन समित्पाणिरित्युक्तम् । श्रोत्रियमित्यादिनाध्ययनहीनस्य वाऽकर्मिणो वा गुरुत्वं वार्यते । कर्मनिन्दया ततो विरक्तस्याधिकारोक्तेरक्षरविद्या ब्रह्मविद्यैवेति समुदायार्थः ।
पूर्वपक्षबीजमनुभाषते —
यत्त्विति ।
सर्वथा वा साम्यं, अंशेन वा नाद्य इत्याह —
तदयुक्तमिति ।
सर्वथा साम्य परस्याप्यनिष्टापत्तिमाह —
अपिचेति ।
कार्यस्य कारणाव्यतिरेको विवक्षितोंऽशस्तेन साम्यमिष्टमेवेति मत्वोपसंहरति —
तस्मादिति ॥ २१ ॥
भूतयोनेर्ब्रह्मत्वे हेत्वन्तरमाह —
विशेषणेति ।
चकारार्थमाह —
इतश्चेति ।
एवकारार्थमाह —
नेतराविति ।
इतःशब्दार्थं स्फुटयन्प्रश्नपूर्वं हेतुद्वयमाह —
कस्मादिति ।
विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति विभज्य व्याकुर्वन्नाद्यं व्याचष्टे —
विशिनष्टीति ।
दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, तत्र श्रुत्यन्तरप्रसिद्ध्यर्थो हिशब्दः । अमूर्तत्वं पूर्णत्वम् ।
आकाशाद्विशेषमाह —
पुरुष इति ।
कार्यकारणाभ्यां परिच्छेदमाशङ्क्याह —
सबाह्येति ।
बाह्यं कार्यमभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन तिष्ठति तस्य सर्वकल्पनाधिष्ठानत्वे श्रुतिप्रसिद्ध्यार्थो हिशब्दः ।
जन्माद्यभावेन कौटस्थ्यमाह —
अज इति ।
प्राणमनोभ्यां संसर्गाभेदाभावात्परिशुद्धिमाह —
अप्राणो हीति ।
शारीरस्यापि विशेषणं स्यादित्याशङ्क्याह —
न हीति ।
तद्धर्मा नामरूपादिधर्मा दृश्यत्वादयः ।
विेशेषणस्यानन्यथासिद्धिफलमाह —
तस्मादिति ।
विशेषणस्य तुल्यत्वेऽपि द्वितीयं हेतुं प्रधानपक्षे योजयति —
तथेति ।
भेदोक्तिं व्यनक्ति —
अक्षरमिति ।
किं तदव्याकृतं, तदाह —
नामेति ।
तयोर्बीजस्येश्वरस्य शक्तिरूपं, तत्पारतन्त्र्यात् । भूतानां लीलानां सूक्ष्मं संस्काररूपं वर्ततेऽत्रेति भूतसूक्ष्मं, ईश्वरपदलक्ष्यं स्वरूपमाश्रयोऽस्येति तथोक्तम् । अन्यस्य तत्कार्यत्वेन तदाश्रयत्वात्तस्यैवेश्वरो जीवो जगदिति बुद्धावुपाधित्वेन स्थितं, विकारहेतुत्वाद्विकारश्चेत्यर्थः । ननु नामरूपयोर्बीजं शक्तिरूपं चाव्याकृतम् । यद्वा नामरूपे एव बीजे तयोः शक्तिरूपं तदेव तच्च भूतसूक्ष्मं तत्कारणत्वादीश्वराश्रयमित्याश्रयशब्दो विषयार्थस्तस्यैवेश्वरस्य जीवत्वं प्राप्तस्य बुद्ध्यादिद्वारा कर्तृत्वादावुपाधिभूतमिति व्याख्येयं भाष्यमिति चेत् । मैवम् । आश्रयशब्दस्य श्रुतार्थत्यागायोगाज्जीवत्वापत्तेश्चाव्याकृतसम्बन्धकृतत्वात्परिशुद्धे चिद्धातौ तत्सम्बन्धध्रौव्यात् । अतो भाष्यबहिर्भूतो नानाजीववादः ।
अक्षरशब्दार्थमुक्त्वा परिशिष्टं व्याचष्टे —
तस्मादिति ।
इहेति प्रकृतवाक्योक्तिः ।
प्रधानाद्ब्रह्मणो भेदे प्रधानमिष्टमसतोऽप्रतियोगित्वादित्याशङ्क्याह —
मात्रेति ।
प्रतियोग्यनङ्गीकारे कथं भेदोक्तिः, तत्राह —
किं तर्हीति ।
भूतसूक्ष्मं भूतानां सूक्ष्मं कारणमित्यर्थः । इहेति श्रूतिसूत्रयोरुक्तिः ॥ २२ ॥
भूतयोनेरीश्वरत्वे हेत्वन्तरमाह —
कुतश्चेति ।
रूपोपन्यासाच्च नेतरावित्यनुषङ्गः ।
वृत्तिकारमतेन व्याकरोति —
अपिचेति ।
अग्निर्द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ इति श्रुतेः । पद्भ्यामिति प्रथमार्थे । पादौ पृथिवी यस्य, स एष सर्वभूतानामन्तश्चात्मा चेत्यर्थः ।
एवं रूपोपन्यासेऽपि किं स्यात् , तदाह —
तच्चेति ।
अन्यथासिद्धिं प्रत्याह —
नेति ।
तनुमहिमत्वं परिच्छिन्नशक्तित्वम् ।
प्रधानविषयत्वं तस्य दूषयति —
नापीति ।
अनन्यथासिद्धिफलमाह —
तस्मादिति ।
मानाभावेन शङ्कते —
कथमिति ।
मानं वदन्नुत्तरमाह —
प्रकरणादीति ।
प्रकृतत्वेऽपि भूतयोनेः ‘अग्निर्मूर्धा’ इत्यादौ कथमनुवृत्तिः, तत्राह —
एष इति ।
तदेव स्फुटयति —
भूतेति ।
दृष्टान्तेनैतदेवस्फुटयति —
यथेति ।
अदृश्यत्वादिधर्मकस्य विग्रहवद्रूपं कथमित्याक्षिपति —
कथमिति ।
समाधत्ते —
सर्वेति ।
यथा कश्चिद्ब्रह्मात्मविदात्मनः सर्वात्मत्वविवक्षया ‘अहमन्नमहमन्नादः’ इति साम गायति, न त्वन्नान्नादत्वमात्मनोऽभिप्रैति, तस्यापुमर्थत्वात्तथेहापीत्याह —
अहमिति ।
एकदेशिनं दूषयति —
अन्ये पुनरिति ।
हेत्वसिद्धिमाशङ्क्य पूर्वोत्तरवाक्येषु जायमानत्वेन तत्तदर्थोक्तेरिहापि जायमानत्वेनोक्तिरस्तीत्याह —
एतस्मादिति ।
यश्च सूर्यो द्युलोकाग्नेः समिध एव भासकः सोऽपि तस्मादेव जायत इत्यर्थः ।
तथापि मध्ये परस्यैव रूपमुक्तमित्याशङ्क्य वाक्यभेदान्नेत्याह —
इहेति ।
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्तदर्थं सार्वात्म्ये वक्तव्ये तदेवेदमुक्तमन्यत्रानुक्तेरित्याशङ्क्याह —
सर्वात्मत्वमिति ।
उत्तरत्रोक्तावपि तस्यैवेदमपि सार्वात्म्यमन्यस्यायोगादित्याशङ्क्याह —
श्रुतीति ।
कस्मै प्रजापतये विधेम परिचरेम ।
हिरण्यगर्भः सृष्ट्यादाववर्तिष्टेत्येतावदिहोक्तं न जन्मेत्याशङ्क्याह —
समावर्ततेति ।
स जातः सन्भूतग्रामस्येश्वराज्ञया पतिर्बभूवेति शेषदर्शनादित्यर्थः ।
अस्तु श्रुत्यादिसिद्धं जन्म, तस्य कथं सर्वभूतान्तरात्मत्वं, तत्राह —
विकारेति ।
पूर्वकल्पे प्रकृष्टधीकर्मानुष्ठाता कश्चिद्यजमानः कल्पादौ हिरण्यगर्भतया प्रादुर्बभूव, तस्य सर्वप्राणाद्यधिष्ठातृत्वादधिष्ठात्रधिष्ठेययोरभेदात्प्राणात्मना सर्वभूतानामध्यात्मं देहे स्थितेर्जायमानेऽपि सार्वात्म्यं सिद्धमित्यर्थः ।
नन्वपञ्चीकृतभूताद्यभिमानिनो हिरण्यगर्भस्य विग्रहविशिष्टरूपेण तदधिष्ठेयप्राणादिजन्मानन्तरं जन्मोच्यते चेत् कस्तर्हि सूत्रार्थः, तत्राह —
अस्मिन्निति ।
विश्वं सर्वं कर्म ससाध्यं तपो ज्ञानं च पुरुष एवेति सार्वात्म्यरूपोपन्यासात्परमात्मैव भूतयोनिरित्यर्थः । ‘न विलक्षणत्वात्’ इत्यत्र परिणामस्य सारूप्यापेक्षाप्रतिक्षेपाद्विवर्तस्य च शङ्खपीतिमादौ विसदृशेऽपि दर्शनात्तदपेक्षानियमाद्भूतयोनिवाक्यं निर्विशेषे ब्रह्मण्यन्वितमिति भावः ॥ २३ ॥
रूपोपन्यासप्रसङ्गान्त्रैलोक्यदेहो वैश्वानरः पर इत्याह —
वैश्वानर इति ।
विषयं वक्तुं वाक्योपक्रममाह —
को न इति ।
आत्मनोऽसंसारित्वार्थं ब्रह्मपदम् । तस्यापरोक्ष्यार्थमात्मपदम् । प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्येत्थं मीमांसां चक्रुः । ते च निश्चिचीषयोद्दालकमाजग्मुः । सोऽपि न वेद सम्यगिति सह तेन षडपि ते कैकेयराजमश्वपतिमागत्योचुः — आत्मानमेव' इत्यादि । अद्येषि स्मरसि । स च तेषां विपरीतधीनिरासेन सम्यग्धीजिग्राहयिषया तानेव पप्रच्छ । औपमन्यव कं त्वमात्मानमुपास्से । दिवमेवेत्याहेतरः । राजा पुनरुवाच, एष सुतेजा वैश्वानरो यं त्वमात्मानमुपास्से । मूर्धात्वयमात्मनो मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति । ततः सत्ययज्ञमपृच्छत् । स चादित्यमूचे । ततश्चैष विश्वरूप आत्मा चक्षुस्त्वेतदात्मन इत्यन्धोऽभविष्यो यन्मां नागमिष्य इति राजाभाषत । एवं क्रमेण द्युसूर्यदीनां सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मात्मत्वबहुलत्वरयित्वपादत्वगुणयोगं विधाय मूर्धपातान्धत्वप्राणोत्क्रमणदेहविशीर्णताबस्तिभेदपादशोषणैरेकैकोपास्तिनिन्दया च तेषां वैश्वानरं प्रति मूर्धादिभावमुक्त्वा समस्तोपासनमाम्नातम् - ‘यस्त्वेतम् ‘ इत्यादिना । आभिमुख्येन विश्वं मिमीते जानातीत्यभिविमानस्तं प्रादेशपरिमाणमुपास्ते यस्तस्य सर्वलोकाद्याश्रयं फलमित्यर्थः । लोका भोगभूमयः, भूतानि तत्तदुपाधयः, भोक्तारस्त्वात्मान इति भेदः । तत्तत्सम्बन्धिफलभाक्त्वमन्नमत्तीत्युच्यते ।
ध्यानफलमुक्त्वा ध्येयरूपमाह —
तस्येति ।
सुतेजस्त्वगुणा द्यौर्वैश्वानरस्य मूर्धा । निपातावेतत्प्रसिद्ध्यर्थौ । विश्वरूपत्वगुणः सूर्यस्तस्य चक्षुः, ‘एष शुक्ल एष नीलः’ इत्यादिश्रुतेः । पृथङ् नाना वर्त्म गमनमात्मा स्वरूपमस्येति तथा नानागतित्वगुणो वायुरस्य प्राणः । बहुलत्वगुण आकाशः सन्देहोऽस्य देहमध्यम् । रयिर्धनं तद्गुणा अापोऽस्य बस्तिस्थमुदकम् । पृथिव्यां वैश्वानरस्य प्रतिष्ठानात्तस्य पादौ पृथिव्येव ।
तस्य होमाधारत्वसम्पादनायोक्तम् —
उर एवेत्यादि ।
‘तद्यद्भक्तं प्रथममागच्छेत्’ इत्यादिवाक्यमादिशब्दार्थः ।
तत्र श्रुतौ वैश्वानरोऽनात्मात्मा वेति संशयं हृदि निधायाद्ये पक्षत्रयं, द्वितीये पक्षद्वयमाह —
तत्रेति ।
संशयहेतुं प्रश्नपूर्वकमाह —
किमिति ।
सत्यां सामग्र्यां कार्यध्रौव्यं फलितमाह —
तत्रेति ।
वाक्योपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञत्वाद्युक्त्या ब्रह्मविषयत्ववदिहाप्युपक्रमगतसाधारणशब्दस्य शेषस्थहोमाधारत्वलिङ्गेन प्रसिद्ध्यनुगृहीतेन जाठरार्थत्वसिद्धेस्तस्यैवोपास्यतेति विमृश्य पूर्वपक्षमाह —
किमिति ।
वैश्वानरविद्याश्रुतेः सविशेषब्रह्मण्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे जठराग्नेः, सिद्धान्ते ब्रह्मणो ध्यानं फलम् ।
साधारणे शब्दे कुतो विशेषप्रतिज्ञेत्याह —
कुत इति ।
प्रतिज्ञाविशेषे हेतुमाह —
तत्रेति ।
योऽयं वैश्वानरोऽग्निः सोऽयं पुरषाकारे देहेऽन्तरित्युक्त्वा तमेव विशिनष्टि —
येनेति ।
पक्षान्तरमाह —
अग्नीति ।
तन्मात्रग्रहे हेतुः —
सामान्येनेति ।
विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यमकृण्वन्कृतवन्तो देवाः । तदुदये दिनव्यवहारादित्यर्थः ।
कल्पान्तरमाह —
अग्नीति ।
तदभिमानिदेवताग्रहे हेतुः —
तस्यामिति ।
वैश्वानरस्य देवस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम । तस्यास्मद्विषया समुतिर्भवत्वित्यर्थः ।
तत्र हेतुः —
राजा हीति ।
यस्माद्भुवनानामयं राजा, कं सुखं सुखहेतुः, अभिमुखा श्रीरस्येत्यभिश्रीरीश्वरस्तस्मात्तस्य सुमतौ स्यामेत्यर्थः । हिकमित्येकं पदमित्येके । तत्राष्ययमेवार्थः । प्रयोगत्रयेऽपि तुल्यप्रयोगग्रहार्थमादिपदम् ।
कथं देवतार्थत्वमस्य प्रयोगस्येति, तदाह —
एवमाद्याया इति ।
ऐश्वर्यादीत्यादिपदं धर्मज्ञानवैराग्यादिसङ्ग्रहार्थम् ।
पक्षत्रयेऽप्यपरितोषमाह —
अथेति ।
वाजसनेयकेऽग्निवैश्वानरशब्दाभ्यामेवोपक्रमान्नेश्वरार्थतेति पक्षान्तरमाह —
तथापीति ।
शारीरे लक्षणया वैश्वानरशब्दोपपत्तिमाह —
तस्येति ।
तत्रैव हेत्वन्तरमाह —
प्रादेशेति ।
भूताग्निदेवताजीवविषयं पक्षत्रयमुपक्रममात्रं प्राणाहुत्याधारत्वादेर्द्युमूर्धत्वादेश्चायोगात् । ‘हृदयं गार्हपत्यः’ इत्यादिना हि देहावयवाः संनिहितस्यौदर्यस्याग्नेर्गार्हपत्यादित्वेन कल्प्यन्ते । ‘आस्यमाहवनीयः’ ‘तद्यद्भक्तं’ ‘तद्धोमीयम्’ इति च जाठरस्य मुखानुस्यूतस्य प्राणाहुत्याधारस्याहवनीयत्वेनास्यं कल्प्यते । नच द्युमूर्धत्वादेस्तत्रासम्भवः । ‘स होवाच मूर्धानमुपदिशन्नेष वा अतिष्ठा वैश्वानरः’ इत्यादिना मूर्धादीनां द्युलोकाद्यात्मना सम्पादनात्तैर्जाठरस्यापि द्युमूर्धत्वदिसिद्धेरारोपितद्युमूर्धत्वादिना बृहत्त्वात्तस्यैव ब्रह्मत्वमापनादात्मत्वम् ।
नच ब्रह्मणयपि द्युमूर्धत्वादेरारोपः, जाठरे तत्कल्पनायाः श्रौतत्वेन विशेषात् । अतो जाठरोपास्तिपरं वाक्यमित्युपसंहरति —
तस्मादिति ।
सिद्धान्तयति —
तत इति ।
हेतुं प्रश्नपूर्वकमादाय व्याचष्टे —
कुत इति ।
कौ तौ साधारणौ शब्दौ, को वा तयोर्विशेषः, तत्राह —
यद्यपीति ।
नायं परमात्मगमको विशेषः, तस्य निर्विशेषस्य द्युमूर्धत्वाद्ययोगादित्याशङ्क्याह —
अत्रेति ।
अवस्थान्तरमध्यात्ममधिदैवमित्येवम् ।
तस्य तथैवोपन्यासफलमाह —
आध्यानायेति ।
कथं परस्यावस्थान्तरभाक्त्वं, तदाह —
कारणत्वादिति ।
तदेव स्फुटयति —
कारणस्येति ।
एतेन जाठरे द्युमूर्धत्वादि प्रत्युक्तम् ।
वैश्वानरोपासकस्य सर्वलोकाद्याश्रयफलश्रुतेश्च वैश्वानरस्येश्वरत्वमित्याह —
स इति ।
वैश्वानरविदः सर्वपाप्मदाहश्रुतेश्च तस्य परत्वं तद्विज्ञाने तद्दाहप्रसिद्धेरित्याह —
एवं हेति ।
यथाग्नौ क्षिप्तमिषीकातूलं दह्यत एवमस्य विदुषः सर्वाणि कर्माण्यनर्थहेतवो दह्यन्त इत्यर्थः ।
उपक्रमादपि तस्य परमात्मता तयोस्तत्रैव रूढेर्जाठरे त्वमुख्यत्वादित्याह —
को न इति ।
उक्तलिङ्गानां फलमाह —
इत्येवमेतानीति ।
श्रुतिलिङ्गसिद्धमुपसंहरति —
तस्मादिति ॥ २४ ॥
स्मृत्या च श्रुत्यर्थः शक्यो निर्णेतुमित्याह —
स्मर्यमाणमिति ।
तत्र प्रतिज्ञां पूरयति —
इतश्चेति ।
सूत्रं व्याकुर्वन्नितःशब्दार्धमाह —
यस्मादिति ।
स्मृतिमुदाहरति —
यस्येति ।
तस्याः श्रुतिवन्मानत्वं व्युदस्य तद्द्वारा तदाह —
तदिति ।
इतिशब्दस्य वाक्यसमाप्त्यर्थत्वं व्यावर्त्य हेत्वर्थत्वं व्यनक्ति —
यस्मादिति ।
स्तुतेरसदारोपेऽपि सम्भवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह —
यद्यपीति ।
सद्रूपेण स्तुतित्वमौत्सर्गकमसति श्रुत्यपवादे दुर्वारमित्यर्थः ।
अस्तुतिरूपामपि स्मृतिमाह —
द्यामिति ।
इहेति त्रैलोक्यदेहस्य वैश्वानरस्येश्वरतायामित्यर्थः ॥ २५ ॥
सिद्धान्तं विधान्तरेणाक्षिप्य समाधत्ते —
शब्दादिभ्य इति ।
आक्षेपं विवृण्वन्नञर्थमाह —
अत्रेति ।
स्थितः सिद्धान्तः सप्तम्यर्थः ।
श्रुत्यादिना वैश्वानरस्योक्तेश्वरत्वाक्षेपे प्रश्नद्वारा हेतुमादत्ते —
कुत इति ।
तत्र शब्दं व्याचष्टे —
शब्द इति ।
ईश्वरस्य विरोधीति शेषः ।
तदेव स्फोरयति —
वैश्वानरेति ।
शब्दान्तरमाह —
तथेति ।
सोऽपि श्रौतो वैश्वानरशब्दवदीश्वरे न सम्भवतीति योजना ।
आदिशब्दोपात्तं लिङ्गमाह —
आदीति ।
बहूक्त्यर्थं लिङ्गान्तरमाह —
तद्यदिति ।
अपेक्षितां प्रतिज्ञां पूरयति —
एतेभ्य इति ।
वाजसनेयकेऽग्निरहस्ये वैश्वानरेऽग्निशब्दात्तस्य परस्मिन्नयोगात्तत्सामान्याच्छान्दोग्येऽपि वैश्वानरोऽग्निरेव, स चाहुत्याधारत्वादिलिङ्गाज्जाठर एवेति भावः ।
तत्रैव लिङ्गान्तरमाह —
तथेति ।
यथोक्तहेतुभ्यो वैश्वानरो नेश्वरस्तथा वक्ष्यमाणहेतोरपीत्यर्थः । अन्तःप्रतिष्ठानमपि वैश्वानरस्येति शेषः । अग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वलोकाद्याश्रयं फलमत्तीत्युक्तम् । पुरुषेन्तःप्रतिष्ठितश्चाग्निर्जाठर एव, प्रसिद्धेरित्यर्थः ।
तथापि वाजसनेयके द्युमूर्धत्वादिश्रवणान्न जाठरः स्यादित्युक्तमनुवदति —
यदपीति ।
अनेकलिङ्गानुगृहीतानन्यथासिद्धवैश्वानराग्निश्रुतिभ्यामेकं लिङ्गं नेयमित्याह —
अत्रेति ।
जाठरेऽपि द्युमूर्धत्वादि कथञ्चिन्नीतमिति भावः ।
न जाठरे मुख्यं द्युमूर्थत्वादीत्यपरितोषादाह —
अथवेति ।
एष निर्देशो वैश्वानराग्निशब्दाभ्याामन्तःप्रतिष्ठानो्क्त्या चेति शेषः ।
तत्रापि कुतो द्यूमूर्धत्वादि सिद्धं, तत्राह —
तस्यापीति ।
अपिरीश्वरदृष्टान्तार्थः । इमां पृथिवीमुत द्यामपि द्यावापृथिव्यावेव रोदसी यो भानुरूपेणाततान व्याप्तवान् , अन्तरिक्षं च तयोर्मध्यमाततान स देवो द्युलोकाद्यवयवो ध्येय इत्यर्थः ।
परिच्छिन्नभूताग्नेर्न द्युलोकाद्यवयवत्वमित्यरुच्या कल्पान्तरमाह —
अथवेति ।
द्युमूर्धत्वादिविशेषस्यन्यथासिद्धत्वे फलितमाह —
तस्मादिति ।
परिहारमवतारयति —
अत्रेति ।
तदक्षराणि व्याचष्टे —
नेत्यादिना ।
दृष्ट्युपदेशं सदृष्टान्तं स्पष्टयति —
परमेति ।
ब्रह्मप्रतीकस्य जाठरस्योपास्यतेष्टेति शिष्ट्वा सूत्रावयवं तदुपाधिनो ब्रह्मण एवोपास्यतेति विधान्तरेण व्याकरोति —
अथवेति ।
जाठरप्रतीकत्वात्तदुपाधित्वाद्वा परस्मिन्नपि लक्षणयाग्न्यादिशब्दसिद्धौ न तस्य तल्लिङ्गान्यथाकरणे शक्तिरिति भावः ।
असम्भवादिति व्याचष्टे —
यदि चेति ।
उपास्त्यर्थत्वेऽपि जाठरे द्युमूर्धत्वादेरसत एवारोपः स्यात् । नच सति सम्भवे स युक्त इत्यर्थः ।
अस्तु तर्हि देवतादिविषयत्वं विशेषस्येत्याशङ्क्याह —
यथेति ।
पुरुषमपीत्यादि विभजते —
यदि चेति ।
ब्रह्मोपाधित्वतत्प्रतीकत्वयोरसत्त्वं कैवल्यं तस्य सर्वलोकाद्याश्रयं फलमिति शेषः ।
पुरुषत्वेऽपि कथं ब्रह्मणस्तदन्तःप्रतिष्ठितत्वं, तत्राह —
परमेति ।
पाठान्तरमादाय व्याचष्टे —
ये त्विति ।
जाठरस्याचेतनत्वात्पुरुषत्ववन्न तद्विधत्वमपीत्यर्थः ।
ब्रह्मणोऽपि पुरुषत्वमेव न तद्विधत्वमित्याशङ्क्याह —
पुरुषेति ।
तच्च ब्रह्मण्युपास्त्यर्थं स्यादिति भावः ॥ २६ ॥
द्युमूर्धत्वादिविशेषस्य जाठरविषयत्वं सन्दूष्य देवतादिविषयत्वं दूषयति —
अत एवेति ।
सूत्रं व्याकर्तुं व्यावर्त्यं पक्षद्वयमनूद्य तस्य निरस्यत्वमाह —
यदिति ।
सूत्रमुत्थाप्य व्याकरोति —
अत्रेति ।
द्युमूर्धत्वादिसम्बन्धसर्वलोकाद्याश्रयफलभाक्त्वसर्वपाप्मदाहात्मब्रह्मोपक्रमा उक्ता हेतवः ।
भूतदेवतयोरपि द्युमूर्धत्वादि सिध्यतीत्युक्तं प्रत्याह —
न हीति ।
किञ्च न देवताया निरङ्कुशमैश्वर्यं किन्त्वीश्वरायत्तं, अतस्तस्यैव सर्वकारणस्य द्युमूर्धत्वादीत्याह —
परमेश्वरेति ।
पक्षत्रयसाधारणं दोषमाह —
आत्मेति ।
चकारो ब्रह्मशब्दायोगस्य सर्वपाप्मदाहाद्ययोगस्य च समुच्चयार्थः ॥ २७ ॥
वाजसनेयकेऽग्निशब्दं जाठरार्थमुपेत्य परस्मिन्नपि तत्सम्बन्धाल्लक्षणां स्वीकृत्य ब्रह्मोपास्तिरित्युक्तम् । इदानीमत्राप्यग्न्यादिशब्दो ब्रह्मार्थः ।
ततो यदधिदैवं द्युलोकादिपृथिव्यन्तं यच्चाध्यात्मं मूर्धादिचुबुकान्तं रूपं तदनुगतं ब्रह्मैवोपास्यं न जाठरावच्छिन्नमित्याह —
साक्षादिति ।
वृत्तमनूद्य सूत्रार्थं विवृणोति —
पूर्वमित्यादिना ।
जाठरस्य प्रतीकादित्वेन ग्रहे हेतुं सूचयति —
अन्तरिति ।
साक्षादीश्वरोपास्तौ विरोधं शङ्कते —
नन्विति ।
विरोधं व्युदस्यति —
अत्रेति ।
अन्तःप्रतिष्ठितत्वोक्तेर्जाठराग्रहेऽप्यविरोधं प्रतिज्ञाय हेतुमाह —
न हीति ।
इहेति वाजसनेयकोक्तिः । अन्तःप्रतिष्ठितत्वमिदमा परामृष्टम् ।
प्रकरणोपपदयोरभावाज्जाठरानभिप्रायेऽपि पुरुषशब्देन करशिरश्चरणादिमतोऽभिधानात्कथं तद्विधत्वं तदन्तःप्रतिष्ठितत्वं वा परस्यापीत्याशङ्क्याह —
कथमिति ।
पुरुषावयवसम्पत्त्या तद्विधत्वं कार्यकारणसमुदायात्मनि तस्मिन्मूर्धादिचुबुकान्तावयवस्थितेश्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायिनां समुदायमध्यपातित्वादित्याह —
यथेति ।
अन्तःप्रतिष्ठितत्वेन माध्यस्थ्येन साक्षीव लक्ष्यत इति पक्षान्तरमाह —
अथवेति ।
अन्तःप्रतिष्ठितत्वोक्तेरविरोधमुक्तवा वैश्वानरशब्दस्याविरोधमाह —
निश्चिते चेति ।
तस्य तत्रारूढेर्न तद्विषयतेत्याशङ्क्याह —
केनेति ।
सर्वात्मत्वमाश्रित्य योगवृत्तिमेव कथयति —
विश्वश्चेति ।
सर्वकारणत्वेन योगवृत्तिमाह —
विश्वेषामिति ।
सर्वेश्वरत्वेनापि तामाह —
विश्वे वेति ।
सर्वात्मत्वं सर्वकारणत्वं सर्वेश्वरत्वोपलक्षणम् ।
तथापि विश्वनर इति स्यात्कथं वैश्वानर इत्युच्यते, तत्राह —
विश्वेति ।
‘नरे संज्ञायाम्’ इति दीर्घता ।
अण्प्रत्ययस्तर्हि कथं, तत्राह —
तद्धित इति ।
अनन्यार्थत्वं प्रकृत्यर्थातिरिक्तार्थशून्यत्वम् ।
तथापि कथं परस्मिन्नग्निपदं, तदाह —
अग्नीति ।
अगेर्धातोर्गत्यर्थस्य निप्रत्ययान्तस्याग्निरिति रूपं, तत्राङ्गयति गमयति जगतोऽग्रं जन्म प्रापयतीत्यग्निरग्रणीरुक्तः । आदिशब्दादभितोगतत्वं सर्वज्ञातृत्वं च गृहीतम् । एवं वाजिशाखायामपि परोपास्तिसिद्धौ न तद्बलाच्छान्दोग्यवाक्यं विघटनीयमित्युक्तम् ।
यत्तु छान्दोग्ये परस्मिन्नसम्भवि लिङ्गमुक्तं, तत्राह —
गार्हपत्यादीति ॥ २८ ॥
सूत्रत्रयमाकाङ्क्षाद्वारादत्ते —
कथमिति ।
मतभेदेन व्याख्यामेव दर्शयन्नादावाश्मरथ्यमतमाह —
अभिव्यक्तेरिति ।
विभोरीश्वरस्यायुक्ता प्रादेशमात्रतेति शङ्कां निरस्यन्व्याकरोति —
अतिमात्रस्येति ।
अतिक्रान्ता मात्राः परिमाणं येन तस्येति यावत् ।
अभिव्यक्तिनिमित्तं प्रादेशमात्रत्वमित्येतदेव व्यनक्ति —
अभिव्यज्यत इति ।
स्वाभाविकाणिमाद्यैश्वर्यख्यापनार्थं महतोऽपीश्वरस्योपासकान्प्रति सूक्ष्मत्वेन व्यक्तिरिति द्योतयति —
किलेति ।
नियमेन प्रादेशमात्रतया व्यक्तौ हेत्वभावान्नेयं व्याख्येत्याशङ्क्याह —
प्रदेशेष्विति ।
अभिव्यक्तिफलमाह —
अत इति ॥ २९ ॥
मतान्तरमाह —
अनुस्मृतेरिति ।
व्याचष्टे —
प्रादेशेति ।
पूर्वेण विकल्पार्थो वाशब्दः ।
अभिव्यञ्जकस्थं परिमाणमभिव्यङ्ग्ये भातीत्येतद्दृष्टान्तेनाह —
यथेति ।
वैषम्यमाशङ्क्य प्रत्याह —
यद्यपीति ।
हृदयस्थं परिमाणं मनःप्रभवस्मृतावारोपितं स्मृत्यैक्येनाध्यस्तस्मर्यमाणेश्वरेऽध्यस्तमालम्बनमिति यथाकथञ्चिदित्युक्तम् ।
स्मृतिगतपरिमाणस्य हृदयद्वारारोपितस्य स्मर्यमाणो कथमारोपो विषयविषयित्वेन भेदादित्याशङ्क्य व्याख्यान्तरमाह —
प्रादेशेति ।
उपसंहरति —
एवमिति ॥ ३० ॥
प्रादेशमात्रश्रुतेर्विषयं कथञ्चिदुक्त्वा साक्षादेव श्रुत्युक्तं विषयमाह —
सम्पत्तेरिति ।
प्रतिज्ञां विभजते —
सम्पत्तीति ।
सम्पत्तिरत्राश्रुतेति पृच्छति —
कुत इति ।
उत्तरम् —
तथाहीति ।
तदेेव ब्राह्मणमुदाहरति —
प्रादेशेति ।
परमेश्वरमप्रादेशमात्रमपि सम्पादनेन प्रादेशमात्रमिव सम्यग्विदितवन्तो देवास्तमेवेश्वरं पूर्वमभिसम्पन्नास्ततो वो युष्मभ्यं तथा द्युप्रभृतीनेतानवयवान्वक्ष्यामि यथा प्रादेशपरिमाणं वैश्वानरं सम्पादयिष्यामीत्यौपमन्यवप्रभृतीन्प्रति वक्तव्यत्वेन प्रतिज्ञायाश्वपती राजोवाच, किं कुर्वन्नित्युक्ते स्वस्य मूर्धानमुपदिशन्कराग्रेण दर्शयन्नेष वै लोकान्भूरादीनतीत्य तिष्ठतीत्यतिष्ठा द्यौर्वैश्वानरस्यावयव इति । प्रसिद्धे मूर्धनि वैश्वानरस्याधिदैवं यो मूर्धा द्युलोकस्तद्दृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नुवाचैष वै सुतेजाः शोभनतेजःसहितः सूर्योऽधिदैवं वैश्वानरस्य चक्षुरिति । प्रसिद्धयोश्चक्षुषोर्वैश्वानरस्याधिदैवं यदादित्याख्यं चक्षुस्तद्दृष्टिरित्यर्थः ।
अध्यात्मप्रसिद्धयोर्नासिकयोर्वैश्वानरस्याधिदैवं यो वायुः प्राणस्तद्दृष्टिरित्याह —
नासिके इति ।
अध्यात्ममुखावच्छिन्ने नभसि वैश्वानरस्य यदधिदैवं सन्देहाख्यं नभस्तद्धीरित्याह —
मुख्यमिति ।
मुखसम्भवास्वप्सु वैश्वानरस्याधिदैवं या बस्तिस्थानीया आपस्तद्दृष्टिमाह —
मुख्या इति ।
प्रसिद्धे चुबुके वैश्वानरस्य याधिदैवं पादाख्या पृथिवी तद्दृष्टिमाह —
चुबुकमिति ।
ननु छान्दोग्यवाजसनेयकयोर्नैका विद्या गुणवैषम्यादतो न वाजसनेयकानुसारेण छान्दोग्ये प्रादेशमात्रश्रुतिर्नेतव्येति, तत्राह —
यद्यपीती ।
अल्पवैषम्येऽपि बहुतररूपप्रत्यभिज्ञानाद्विद्यैक्यमित्यर्थः । विद्यैक्यं किञ्चिदित्युक्तम् ।
तथापि प्रकरणभेदाद्विद्याभेदमाशङ्क्याह —
सर्वेति ।
न्यायस्य गुणोपसंहाराधिकारे वक्ष्यमाणत्वाद्वाजसनेयकस्थातिष्ठागुणश्छान्दोग्ये तद्गतश्च विश्वरूपगुणोऽन्यत्र ज्ञेय इत्यर्थः ।
छान्दोग्यवदितरत्र ‘को न आत्मा किं ब्रह्म’ इत्युपक्रमाभावान्न विद्यैक्यमित्याशङ्क्य ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः’ इत्युपसंहारे पुरुषोद्देशेनाग्रणीत्वादिविधेरुपक्रमेऽपि तस्यैवावगमात्पुरुषस्य च परमात्मत्वादुभयत्र विद्यैक्याद्वाजसनेयकानुरोधाच्छान्दोग्ये प्रादेशमात्रश्रुतिरित्युपसंहरति —
सम्पत्तीति ॥ ३१ ॥
प्रादेशमात्रश्रुतिः सम्पत्तिनिमित्तेत्यत्र श्रुत्यन्तरमाह —
आमनन्तीति ।
सूत्रं व्याकरोति —
आमनन्ति चेति ।
य एष प्रसिद्धः परमात्मा नाशाभावादनन्तः, स्वरूपेणानभिव्यक्तेरव्यक्तः, तं कथं विजानीयामित्यत्रिप्रश्ने याज्ञवल्क्यस्योत्तरम् —
स इति ।
स हि परमात्मा जीवात्मन्यविमुक्ते व्यवहारतः संसारिणि प्रतिष्ठितः परस्यैव प्रत्यक्त्वादित्यर्थः ।
पुनरत्रिरपृच्छत् —
स इति ।
तत्र याज्ञवल्क्यो ब्रूते —
वरणायामिति ।
वरणा भ्रूः ।
प्रश्नान्तरं भूमिकापूर्वमादत्ते —
तत्र चेति ।
प्रकृता श्रुतिः सप्तम्यर्थः । इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाशयतीति वरणासहिता नासीति निश्चयेनोक्त्वेत्यर्थः । अविमुक्तस्य स्थानभूता ‘का वै वरणा का च नासी’ इति प्रश्नस्य प्रत्युक्तिः सर्वानिन्द्रियवृृृृत्तिकृतान्दोषान्वारयति तेन वरणेति सर्वानिन्द्रियवृत्तिकृतान्पाप्मनो नाशयति तेन नासीति । नियम्यजीवाधिष्ठानत्वद्वारा नियन्तुरीश्वरस्याधिष्ठानत्वान्नासाभ्रुवोः पाप्मवारकत्वादिसिद्धिः ।
तयोर्मध्येऽपि स्थानविशेषगवेषणया पृच्छति —
कतमच्चेति ।
याज्ञवल्क्यस्त्वाह —
भ्रुवोरिति ।
प्राणो नासिक्यस्तयोर्मध्यं द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येयमित्याह —
स इति ।
श्रुत्यन्तरसंवादफलमाह —
तस्मादिति ।
विशेषणान्तरं घटयति —
अभिविमानेति ।
प्रत्यक्त्वेन सर्ववेद्यत्वं सर्वात्मत्वे सत्यानन्त्यं सर्वकारणत्वं वा निमित्तीकृत्याभिप्रायमेव प्रकटयति —
प्रत्यगिति ।
परमेश्वरे साधकसत्त्वाज्जाठरादौ तदभावात्परोपास्तिपरं वैश्वानरवाक्यमित्युपसंहरति —
तस्मादिति ।
सविशेषप्रचुराणां वा रूढिबहुलानां वान्यतरत्रास्पष्टलिङ्गानां वा वाक्यानां ब्रह्मण्यन्वयः सिद्ध इति पादार्थं निगमयति —
इति सिद्धमिति ॥ ३२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकन्यायनिर्णये प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥
पूर्वस्मिन्पादे सविशेषवस्तुप्रचुराणां वाक्यानां ब्रह्मपरतोक्ता । सम्प्रति निर्विशेषब्रह्मप्रचुराणां तेषां तत्परतां वक्तुं पादान्तरमारभ्यते । तत्र पूर्वाधिकरणे त्रैलोक्यात्मा वैश्वानरः परमात्मेत्युक्तं तर्हि त्रैलोक्यायतनमन्यदित्याशङ्क्याह —
द्युभ्वादीति ।
यद्वोपक्रमस्थश्रुतेर्वाक्यशेषस्थलिङ्गेनान्यपरत्वमुक्तं, तत्प्रसङ्गेन जगदायतनत्वस्यानेकसाधारणस्य वाक्यशेषस्थात्मश्रुत्या ब्रह्मपरत्वमाह —
द्युभ्वादीति ।
आथर्वणवाक्यमुदाहरति —
इदमिति ।
लोकत्रयकल्पनाधिष्ठानत्वोक्त्या पञ्चीकृतभूतपञ्चकाधिष्ठानत्वमाह —
यस्मिन्निति ।
कार्यब्रह्माख्यसमष्ट्यन्तःकरणस्य तत्रैव कल्पितत्वमाह —
मन इति ।
इन्द्रियसमष्टिदेवतानां तत्रैव कल्पितत्वं सूचयति —
सहेति ।
चकाराद्भूतसूक्ष्माव्याकृतेश्वरान्तर्यामिणामध्यस्तत्वं ध्वनितम् ।
मायाख्यां प्रकृतिं कल्पितकार्यपरम्परां च श्रुत्युदिततर्काग्निना विलाप्य तमेवाधिष्ठानभूतमद्वयमात्मानं जानथेति मुमुक्षून्प्रत्याह —
तमेवेति ।
वाच्यवाचककल्पनानामैक्यापरोक्षप्रमित्या वादमाह —
अन्या इति ।
एष वाग्विमोकपूर्वकस्तत्त्वसाक्षात्कारः सोपादानसंसारनिवृत्तित्वेनामृृतत्वस्य व्यवस्थापक इत्याह —
अमृतस्येति ।
आयतनशब्दाश्रुतेर्नेदमुदाहरणमित्याशङ्क्याह —
अत्रेति ।
आयतनत्वसाधारणधर्मदृष्ट्या संशयमाह —
तदिति ।
अर्थान्तरं प्रधानम् ।
उपक्रमस्थस्य साधारणशब्दस्य वाक्यशेषगतद्युमूर्धत्वादिलिङ्गेनेश्वरार्थत्ववदिहाप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषगतसेतुश्रुत्या परिच्छिन्ने सेतुशब्दार्थे व्यवस्थेति पूर्वपक्षयति —
तत्रेति ।
निर्विशेषे ब्रह्मण्युक्तश्रुत्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानोपास्तिः, सिद्धान्ते परमेश्वरधीरिति फलम् ।
आयतनत्वस्य ब्रह्मण्यपि योगान्नार्थान्तरमित्याशङ्क्य प्रत्याह —
कस्मादिति ।
अमृतस्येति श्रवणादेष सेतुरिति च श्रवणादिति योजना ।
अमृतस्येति षष्ठीप्रयोगाद्ब्रह्मणः स्वयममृतत्वादन्यस्यामृतस्याभावात्तत्प्रयोगो ब्रह्मणि नेति मत्वा सेतुश्रुतिं विशदयति —
पारवानिति ।
तथापि कुतो न ब्रह्मणः सेतुत्वं, तत्राह —
न चेति ।
आनन्त्यमनौपचारिकमित्युक्तम् । उभयत्रापि सेतुशब्दस्य मुख्यार्थत्वायोगेऽपि विधरणस्यागन्तुकस्याश्रयणान्निजसिद्धपरिच्छिन्नाश्रयणं युक्तमिति भावः ।
किं तदर्थान्तरं, तदाह —
अर्थान्तरे चेति ।
श्रुत्युक्तमायतनं श्रौतमेवोचितं न स्मार्तमित्याशङ्क्याह —
श्रुतीति ।
वायोरायतनत्वं साधयति —
वायुरिति ।
सर्वगतस्य तन्त्वादिवत्कुतः सूत्रतेत्याशङ्क्य सूक्ष्मतया सूत्रवदवस्थानादित्याह —
वायुनेति ।
आकाशस्यापि सूत्रवदन्तर्वर्तनमस्तीत्यासङ्क्यास्य सर्वं प्रत्येकस्वभावतया विधारकत्वमाह —
अयं चेति ।
सन्दृब्धानि सङ्ग्रथितानि विधृतानीत्यर्थः ।
आयतनस्यात्मत्वश्रुतेर्नैवमित्याशङ्क्याह —
शारीरो वेति ।
तस्य परिच्छिन्नत्वान्न सर्वविधारकतेत्याशङ्क्य कर्मोपास्त्यादिद्वारा सर्वस्थितिहेतुत्वमाह —
तस्येति ।
विश्वायतनत्वेन प्रधानस्य वायोर्भोक्तुर्वा ध्यानार्थं वाक्यमित्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्योत्तरपक्षप्रतिज्ञामादाय विगृह्णाति —
एवमिति ।
‘न भूसुधियोः’ इति निषेधाद्द्युभ्वादीति यणादेशासिद्धिरिति चेन्न । ‘गतिकारकोपपदाभ्यामन्यपूर्वस्य नेष्यते’ इति विशेषणात् , अस्य च कारकोपपदत्वात् । द्वन्द्वे द्वयोः समत्वादुपपदत्वं दिवो नेति चेन्न । समत्वेऽपि प्रथमप्रयुक्ताया दिवश्चरमप्रयुक्तां भुवं प्रत्युपपदत्वमारोप्य समासे यणादेशसिद्धेः । न च द्वन्द्वे समस्यमानानां समत्वनियमः, राजपुरुषादिषु व्यभिचारात् । तस्माद्वर्षाभ्वादिवद्द्युभ्वादीत्यविरुद्धम् ।
द्वन्द्वे तद्गुणसंविज्ञाने च कृते तस्यायतनमिति स्थिते प्रतिज्ञाया विवक्षितमर्थमाह —
यदिति ।
जगदायतनत्वस्यान्यत्रापि योगे विशेषोक्तिरयुक्तेत्याह —
कुत इति ।
तत्र हेतुमादाय योजयति —
स्वशब्दादिति ।
आयतनशब्दसमानाधिकृतात्मशब्दस्यादृष्टिमाशङ्क्याह —
आत्मेति ।
जीवादावपि तदुपपत्तिमाशङ्क्योक्तम् —
आत्मशब्दश्चेति ।
पक्षान्तरे मुख्यमाप्त्याद्ययुक्तमित्यर्थः ।
स्वशब्देन ब्रह्मोक्त्वा तस्यासाधारणसच्छब्देनायतनत्वोक्तिरिति योजनान्तरमाह —
क्वचिच्चेति ।
स्वस्यायतनस्यासाधारणायतनशब्दादिति योजनान्तरं मत्वा श्रुतिमाह —
सदिति ।
सतो निमित्तत्वेनैव मूलत्वं प्रत्याह —
सदायतना इति ।
असमवायिकारणस्यैव सतः स्थितिहेतुत्वमेवेत्याशङ्क्याह —
सत्पतिष्ठा इति ।
स्वशब्देन ब्रह्मोक्त्वा तदसाधारणपुरुषशब्देन ब्रह्मशब्देन परशब्देनामृतशब्देन चोक्तेरित्यर्थान्तरमाह —
स्वशब्देनेति ।
इहेति प्रकरणोक्तिः । ‘यस्मिन्द्यौः’ इत्यादिवाक्यात्पूर्वोत्तरवाक्ययोर्ब्रह्मोक्तेर्मध्येऽपि तदेव युक्तं, आदिमध्यावसानानामैकार्थ्ये वाक्यैक्यादित्यर्थः ।
पुरस्ताद्ब्रह्मोक्तिमाह —
पुरुष इति ।
पुरस्तादपि तदुक्तिमाह —
ब्रह्मैवेति ।
पुरस्तात्पूर्वस्यां दिशि पश्चात्पश्चिमायां दक्षिणतो दक्षिणस्यामुत्तरेणोत्तरस्यां यदिदं दृश्यते तद्ब्रह्मैवेत्यर्थः ।
सर्वत्र ब्रह्मोक्तावपि तदनेकरसत्वमाशङ्क्याह —
तत्रेति ।
उक्तवाक्यं सप्तम्यर्थः । सामानाधिकरण्याद्विचित्र आत्मेत्याशङ्का सम्भवतीति सम्बन्धः ।
वैचित्र्यं दृष्टान्तेनाह —
यथेति ।
कथं तर्हि तन्निरसनं, तदाह —
तामिति ।
जगदायतनं ब्रह्म ज्ञेयमित्युक्ते कुतस्तदैकरस्यं, तत्राह —
एतदिति ।
तथापि कथं प्रपञ्चायतनस्य निष्कृष्य ज्ञानं, तत्राह —
यथेति ।
एकशब्दादेवकाराच्चायतनपदलक्ष्यमेकरसं ब्रह्मात्मत्वेन ज्ञेयमित्युक्त्वा तत्रैव हेत्वन्तरमाह —
विकारेति ।
वाचारम्भणश्रुतेर्दृश्यत्वादित्युक्तेश्च विकारो मिथ्या तस्मिन्ननृतेऽनिर्वाच्येऽभिसन्धाभिमानो यस्य तस्येति यावत् । द्वैतं सत्यं पश्यतो निन्दाश्रुतेरप्येकरसं ब्रह्मेत्यर्थः ।
ब्रह्मैकरस्यं सामानाधिकरण्यश्रुतिविरुद्धमित्याशङ्क्य पुरुषः स्थाणुरितिवज्जाड्यादिना विरुद्धस्य द्वैतस्य ब्रह्मणा सामानाधिकरण्यं बाधार्थमित्याह —
सर्वमिति ।
यदविद्यारोपितं तत्सर्वं वस्तुतो ब्रह्म न तु यद्ब्रह्म तत्सर्वमतो न श्रुतिविरुद्धमित्यर्थः ।
ब्रह्मानूद्य सर्वत्वविधावप्रसिद्धानुवादेन प्रसिद्धविधिप्रसक्तिरित्यभिप्रेत्य ब्रह्मणो नानारसत्वे श्रुत्यन्तरविरोधमाह —
स यथेति ।
सैन्धवखिल्योऽन्तर्बहिर्विभागहीनः सर्वात्मना लवणैकरसो यथा तथात्मापि सर्वथा चिदेकरसमूर्तिरिति श्रुत्यर्थः ।
ब्रह्मणश्चिदेकरसस्य प्रतिपाद्यत्वे फलितमाह —
तस्मादिति ।
तस्यैकरस्यात्प्रधानादेस्तद्विरहादित्यर्थः ।
सेतुश्रुतेर्गतिं वक्तुमुक्तमनुवदति —
यत्त्विति ।
तस्याविवक्षितां गतिमाह —
अत्रेति ।
अत्रेति सप्तम्या भावप्रधानममृतं वाक्यं चोक्तम् । सावयवत्वाचेतनत्वादि वक्तुमादिपदम् ।
ननु सेतुनाऽविनाभूतत्वात्पारवत्त्वादेस्तत्र तच्छब्दाद्धीरिति चेन्नेत्याह —
नहीति ।
अत्रापीति प्रकृतवाक्योक्तिः अभ्युपगम्यते, परेणापीति शेषः ।
विधरणत्वस्यागन्तुकत्वात्पारवत्त्वादेः स्वाभाव्यात्तदेव सेतुश्रुत्या ग्राह्यमिति चेत् , तत्राह —
सेत्विति ।
गुणवृत्त्यापि शब्दैकदेशार्थविधरणगुणस्वीकरणमेव युक्तं न त्वत्यन्तबहिरर्थपारवत्त्वाद्यङ्गीकरणं मुख्यार्थैकदेशलाभेन विधरणस्य बुद्धिस्थत्वात् , अमृतस्येति षष्ठी च ब्रह्मपक्षे भावार्थस्वीकारादिति भावः ।
सेतुशब्दं ब्रह्मेत्युपेत्य सेतुश्रुतेर्गतिमुक्त्वा विषयान्तरोक्त्यापि तद्गतिमाह —
अपर इति ।
सेतुशब्दस्य वाग्विमोकपूर्वकमात्मज्ञानमर्थो न ब्रह्मेति स्थिते फलितमाह —
तत्रेति ॥ १ ॥
द्युभ्वाद्यायतनं ब्रह्मेत्यत्र हेत्वन्तरमाह —
मुक्तेति ।
तद्व्याख्यातुं प्रतिज्ञां पूरयति —
इतश्चेति ।
इतःशब्दार्थं स्पष्टयति —
यस्मादिति ।
मुक्तेन ब्रह्मणा कुतस्तदेवोपसृप्यमित्याशङ्क्याह —
मुक्तैरिति ।
बन्धविश्लेषं मुक्तिशब्दार्थं वक्तुं बन्धमनुवदति —
देहादिष्विति ।
अविद्याफलमाह —
तत इति ।
अनर्थसमुदायस्य सम्यग्ज्ञानादृते विच्छेदाभावं सूचयति —
सन्तत इति ।
तत्र स्वानुभवं प्रमाणयति —
सर्वेषामिति ।
बन्धमनूद्य तद्विश्लेषं मोक्षमाचक्षाणः सूत्रं योजयति —
तदिति ।
उक्तमुक्त्यनन्तरं प्राप्यं ब्रह्मेति श्रुतिरसिद्धेति शङ्कते —
कथमिति ।
मुक्तौ श्रुतिमाह —
भिद्यत इति ।
तथापि कथं द्युभ्वाद्यायतनस्य मुक्तोपसृप्यत्वं, तत्रापि श्रुतिमाह —
इत्युक्त्वेति ।
यथा नद्यो गङ्गाद्या नामरूपाभ्यां निर्मुक्ता समुद्रं प्राप्य तदात्मनावतिष्ठन्ते, तथा विद्वानपि साक्षात्कृतब्रह्मा तद्बलादेव नामरूपादविद्यातत्कार्यात्मनो विमुक्तः परादव्याकृतात्परमस्पृष्टानर्थं पुरुषं पूर्णमात्मानं दिव्यमखण्डं चिद्धातुमुपैत्यात्मत्वेनाप्नोतीत्यर्थः ।
प्रधानादीनामन्यतमस्यापि मुक्तोपसृप्यत्वसिद्धेरन्यथासिद्धिरित्याशङ्क्याह —
ब्रह्मणश्चेति ।
ज्ञानावस्था यदेत्युक्ता । मुमुक्षुरस्येत्युक्तः । हृदीत्युक्त्या कामानामात्मनिष्ठता निरस्ता । प्रतिबन्धाभावावस्थां वक्तुमथेत्युक्तम् । अत्रेति जीवदवस्थोक्तिः । ‘स यो ह वै तत्परमं ब्रह्म वेद’ इत्यादिसङ्ग्रहार्थमादिपदम् ।
परपक्षव्यावृत्तिं स्फोरयति —
प्रधानादीनां त्विति ।
क्वचिदिति श्रुतिस्मृतिलोकोक्तिः ।
वाग्विमुक्तैर्ज्ञेयत्वव्यपदेशादपि द्युभ्वाद्यायतनं ब्रह्मेति व्याख्यान्तरमाह —
अपि चेति ।
इहेत्युदाहरणोक्तिः ।
वाग्विमोकद्वारा द्युभ्वाद्यायतनस्य ज्ञेयत्वोक्तावपि कुतस्तद्ब्रह्मैव, तत्राह —
तच्चेति ।
धीरो विवेकज्ञानी, विज्ञानं पदार्थज्ञानं, प्रज्ञा वाक्यार्थधीः, ज्ञातपदार्थस्यैव हि वाक्यार्थधीः । ब्राह्मणपदमनुक्तद्विजोपलक्षणम् ।
वाक्यार्थधीहेतुत्वेन कर्मकाण्डवैमुख्यमधिकारिणा कार्यमित्याह —
नेति ।
बहूनिति विशेषणादात्मार्थोपनिषदनुचिन्तनमनुज्ञातम् ।
अनात्मार्थशब्दानामननुसन्धेयत्वे हेतुः —
वाच इति ।
अष्टावपि स्थानानि वाक्शब्देनोक्तानि । ताल्वादिशोषणमेव बहुशब्दानुचिन्तनं न फलवदित्यर्थः ।
मुक्तोपसृप्यत्वोक्तिफलमाह —
तस्मादिति ॥ २ ॥
सिद्धान्तमुक्त्वा प्रधानपक्षं निषेधति —
नेति ।
सूत्रतात्पर्यमाह —
यथेति ।
वैशेषिकत्वमसाधारणत्वम् ।
तदाक्षराणि व्याचष्टे —
नेत्यादिना ।
इहेति वाक्योक्तिः ।
प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —
कस्मादित्यादिना ।
प्रकरणमत्रेत्युक्तम् ।
प्रधानसाधकशब्दाभावे फलमाह —
येनेति ।
प्रधानवाचिशब्दस्य सत्त्वेनेति यावत् । न तथा तद्वाचिशब्दोऽस्तीति शेषः ।
अतच्छब्दादित्यर्थान्तरमाह —
तदिति ।
सप्तमी पूर्ववत् ।
प्रधानस्य द्युभ्वाद्यायतनत्वाभावेऽपि सूत्रात्मनः स्यादित्याशङ्क्याह —
अत इति ।
अतच्छब्दादित्यतःशब्दार्थः ॥ ३ ॥
अस्तु तर्हि शारीरो द्युभ्वाद्यायतनं, तस्मिन्नात्मत्वादियोगात् , तत्राह —
प्राणभृच्चेति ।
तद्व्याचष्टे —
यद्यपीति ।
भोग्यस्य भोक्तृशेषत्वात्तस्यायतनत्वमुक्तमाशङ्क्याह —
न चेति ।
जीवस्यादृष्टद्वारा द्युभ्वादिनिमित्तत्वेऽपि न साक्षात्तदायतनत्वमौपाधिकत्वेनाविभुत्वादित्यर्थः ।
नन्वतच्छब्दादिति हेतुरिहापि चेदनुकृष्यते तर्हि ‘न प्राणभृदनुमाने अतच्छब्दात् ‘ इत्येकमेव सूत्रमस्तु, तत्राह —
पृथगिति ।
उत्तरसूत्रैः प्राणभृदेव निरस्यते न प्रधानं तच्चैकसूत्रकरणे दुर्ज्ञानं, तेनोत्तरसूत्रेषु जीवमात्रनिरासज्ञापनार्थं पृथक्करणं सूत्रयोरित्यर्थः ॥ ४ ॥
परिच्छेदस्याभासत्वाद्ब्रह्मैक्याभिप्रायेण सर्वज्ञत्वमायतनत्वं च जीवेऽपि स्यादिति मत्वा पृच्छति —
कुतश्चेति ।
सूत्रमुत्तरम् —
भेदेति ।
विभजते —
भेदेत्यादिना ।
इहेत्युदाहरणोक्तिः ।
तथापि ज्ञेयमायतनं प्राणभृदस्तु, नेत्याह —
तत्रेति ।
निर्धारणार्था सप्तमी ॥ ५ ॥
भिन्नस्य ब्रह्मणो ज्ञेयत्वनिरासेन स्वात्मानमेव जानथेति वचनपर्यवसानाज्जीवस्यायतनत्वज्ञेयत्वनिरासे हेत्वन्तरं वाच्यमित्याह —
कुतश्चेति ।
सूत्र मुत्तरमादाय व्याचष्टे —
प्रकरणं चेति ।
तस्य परमात्मविषयत्वे हेतुमाह —
कस्मिन्निति ।
प्राणभृति ज्ञातेऽपि तच्छेषत्वेन सर्वविज्ञानात्तद्विषयत्वं प्रकरणस्येत्याशङ्क्याह —
परमात्मनीति ॥ ६ ॥
जीवस्योपाध्यैक्येनाविवक्षितत्वात्तज्ज्ञानेऽपि सर्वज्ञानसिद्धेस्तस्यायतनत्वाद्यभावे हेत्वन्तरं वाच्यमित्याशङ्क्य सूत्रेण परिहरति —
कुतश्चेत्यादिना ।
व्याचष्टे —
द्युभ्वादीति ।
निर्देशमेव दर्शयति —
तयोरिति ।
विभक्त्यर्थमाह —
ताभ्यां चेति ।
स्थित्येश्वरस्यादनाज्जीवस्य सङ्ग्रहेऽपि कथमीश्वरस्यैव विश्वायतनत्वं, तदाह —
यदीति ।
ईश्वरस्यायतनत्वेनाप्रकृतत्वे जीवात्पृथक्कथनानुपपत्तिरित्युक्तमेव व्यतिरेकद्वाराह —
अन्यथेति ।
जीवस्याप्यायतनत्वेनाप्रकृतत्वे तुल्यानुपपत्तिरिति शङ्कते —
नन्विति ।
तस्यैक्यार्थं लोकसिद्धस्यानुवादत्वान्नैवमित्याह —
नेति ।
जीवस्यापूर्वत्वाभावेनाप्रतिपाद्यत्वमेव प्रकटयति —
क्षेत्रज्ञो हीति ।
ईश्वरस्यापि लोकवादिसिद्धत्वादप्रतिपाद्यतेत्याशङ्क्याह —
ईश्वरस्त्विति ।
तयोरित्यादौ बुद्धिजीवयोरेवोक्तत्वात्कथमिदं सूत्रं, तत्राह —
गुहामिति ।
गुहाधिकरणे नेदमुदाहरणम् , ‘ऋतं पिबन्तौ’ इत्युदाहृतत्वात् , तत्राह —
यदेति ।
तर्हीह परानुक्तेर्बुद्धिजीवयोरेवोक्तत्वात्कथं परस्याधिगतिरित्याह —
कथमिति ।
जीवस्यापि परात्मत्वेनात्रेष्टत्वादुपाध्यनादरादुपहितनिषेधेऽपि तदस्पृष्टस्य परस्यायतनत्वमित्याह —
प्राणेति ।
कथमेकस्यैवोपाधिविशिष्टत्वाविशिष्टत्वेन भेदाभेदौ, तत्राह —
यथेति ।
प्राणभृतोऽनुपहितस्यात्रेष्टस्येति शेषः ।
तस्य चेदायतनत्वं न निषिध्यते किंविषयस्तर्हि निषेधः, तत्राह —
तस्मादिति ।
पक्षान्तरायोगे सिद्धान्तमुपसंहरति —
तस्मादिति ।
इतश्चायतनवाक्यं ज्ञेयब्रह्मपरमित्याह —
तदिति ।
तेनैव सिद्धत्वे हेतुमाह —
तस्येति ।
तर्हि गतार्धमधिकरणमनर्थकमित्याशङ्क्य भूतयोनिवाक्यमध्यस्थं नैतदिति कृत्वाचिन्तयेदमधिकरणमित्याह —
प्रपञ्चार्थमिति ॥ ७ ॥
आत्मशब्दाद्द्युभ्वाद्यायतनं ब्रह्मेत्युक्तं, तत्रात्मशब्दः ‘तरति शोकमात्मवित् ‘ इत्यत्र ब्रह्मणि प्राणे प्रयोगादनैकान्तिकः स्यादित्याशङ्क्याह —
भूमेति ।
पूर्णसुखात्मनि निर्विशेषे ब्रह्मणि भूमविद्याश्रुतेरन्वयोक्तेः सङ्गतिरिति मत्वा छान्दोग्यवाक्यं पठति —
इदमिति ।
नाल्पे सुखमस्ति भूमैव सुखं, तस्मान्निरतिशयं सुखमिच्छता भूमैव विशेषेण ज्ञातुमेष्टव्यो न परिच्छिन्नमिति सनत्कुमारोक्तिमादत्ते —
भूमा त्विति ।
तदुपश्रुत्य नारदो भगवन् , भूमानमेव विशेषेण ज्ञातुमिच्छामीति पृच्छति सनत्कुमारम् —
भूमानमिति ।
भूम्नो लक्षणमाह —
यत्रेति ।
व्यवहारातीतं पूर्णं वस्तु भूमेत्यर्थः ।
लक्षणं व्यतिरेकेण स्फोरयितुं परिच्छिन्नस्य लक्षणमाह —
अथेति ।
अन्वयवद्व्यतिरेकस्यापीष्टसिद्धौ हेतुत्वद्योतकोऽथशब्दः । आदिपदं ‘यो वै भूमा तदमृतम् ‘ इत्यादिसङ्ग्रहार्थम् ।
उक्ते वाक्ये भूम्नि संशयमाह —
तत्रेति ।
निर्बीजे संशयेऽतिप्रसङ्गात्पृच्छति —
कुत इति ।
तत्र हेतुं वक्तुं भूमशब्दार्थमाह —
भूमेतीति ।
बहोर्भाव इति विग्रहे ‘पृथ्वादिभ्य इमनिज्वा’ इतीमन्प्रत्यये कृते ‘बहोर्लोपो भू च बहोः’ इति सूत्रेण बहोरुत्तरस्येमन्प्रत्ययस्येकारलोपे बहोः स्थाने भूशब्दादेशे च भूमन्निति प्रातिपदिकं सिध्यति । तस्य च भावार्थे विहितेमन्प्रत्ययान्तत्वाद्बहुत्ववाचितेत्यर्थः ।
तथापि संशये को हेतुरित्याशङ्क्यावान्तरप्रकरणं महाप्रकरणं चेत्याह —
किमित्यादिना ।
तथा सन्निधानात्प्राणभानवदित्यर्थः । भावभवित्रोस्तादात्म्यविवक्षया प्राणो भूमा परमात्मा भूमेति सामानाधिकरण्यम् ।
सत्यां सामग्र्यां कार्यसिद्धिमाह —
तत्रेति ।
आकाङ्क्षापूर्वकं पूर्वपक्षं गृह्णाति —
किमिति ।
पूर्वपक्षे प्राणोपास्तिरुत्तरपक्षे परमात्मधीरिति फलम् ।
अवान्तरप्रकरणस्य सन्निहितत्वेऽपि महाप्रकरणशेषत्वेन दुर्बलत्वान्न प्राणस्य प्रमेयतेत्याह —
कस्मादिति ।
महाप्रकरणादवान्तरप्रकरणस्य प्राबल्यार्थं लिङ्गमाह —
भूय इति ।
प्राणादूर्ध्वं महत्तरार्थविषयत्वेन प्रश्नस्य प्रतिवचनस्य वाऽदृष्टेरित्यर्थः ।
अन्यत्र तदभावेऽपि मेयभेदधीवदत्रापि स्यादित्याशङ्क्यास्मिन्प्रकरणे तयोः सतोरेवार्थभेदभानान्मैवमित्याह —
यथेति ।
दृष्टिविषयत्वेन निषेध्यं प्रश्नादिकमभिनयति —
अस्तीति ।
ननु ‘एष तु वा अतिवदति’ इति तुशब्देन प्राणविदोऽतिवादित्वं व्यावर्त्य, ‘यः सत्येनातिवदति’ इति सत्येनातिवदनं वदन्प्राणं भूमानं न मृश्यते, तत्राह —
प्राणमिति ।
अतिवादित्वलिङ्गेन प्राणस्य प्रत्यभिज्ञानात् , एष इति प्रकृताकर्षणात्प्रकरणाविच्छेदात् , अतिवादित्वे सत्यशब्दस्य सत्यवदनगुणविधायकत्वात् , तुशब्दस्यापि नामाद्याशान्तवादिनोऽतिवादित्वव्यावर्तकत्वात्प्राणं गृहीत्वैव सत्यादिद्वारा भूम्नोऽवतारात्तस्यैव भूमतेत्यर्थः ।
प्राणपक्षे लक्षणविरोधं शङ्कते —
कथमिति ।
अवस्थाविशेषमाश्रित्याह —
उच्यत इति ।
लोकप्रसिद्ध्या सम्भावितं श्रुत्या स्पष्टयति —
तथा चेति ।
‘गार्हपत्यो ह वा एषोऽपानः' इत्यादिनाऽग्नित्वेन निरूपितत्वात्प्राणा एवाग्नयः । ते च पुरे शरीरेऽभिमानतो गृहीते स्वापेऽपि व्यापारवन्तो भवन्तीत्यर्थः । यद्वा तत्राप्यात्मन्येव लक्षणं तस्यास्तत्प्राधान्यादित्याशङ्क्य तथा चेत्यादि योज्यम् ।
‘यो वै भूमा तत्सुखम् ‘ इति प्राणपक्षे कथं निर्वक्ष्यते, तत्राह —
यच्चेति ।
यस्यामवस्थायामेष देवो बुद्ध्याद्युपाधिको जीवः स्वप्नानुच्चावचान्नोपलभते, तदा यत्सुखं यदस्मिञ्शरीरे भवति, नोपायान्तरसाध्यमिति श्रुत्यर्थः । सुषुप्तेश्च प्राणप्राधान्यात्तस्यैव तत्सुखमिति शेषः ।
भूम्नोऽमृतत्वश्रुत्या प्राणादर्थान्तरत्वं, प्राणस्याल्पत्वेन मर्त्यत्वादित्याशङ्क्याह —
यच्चेति ।
प्राणे भूम्नि प्रकरणविरोधं शङ्कते —
कथमिति ।
प्राणस्यैवात्रात्मत्वान्न तद्विरोधोऽस्तीत्याह —
प्राण एवेति ।
सम्भवति मुख्येऽर्थे किमित्यात्मशब्देन गौणार्थग्रहणमित्याशङ्क्य सार्वात्म्यादात्मशब्दस्तत्र मुख्य एवेत्याह —
तथा हीति ।
प्राणस्य सर्वकल्पनाधिष्ठानत्वाच्च मुख्यात्मत्वमित्याह —
यथेति ।
तथापि परमात्मैव सर्वकारणत्वान्मुख्यो भूमा, प्राणस्तु नैवमित्याशङ्क्याह —
सर्वेति ।
प्राणस्य सिद्धे भूमत्वे तदुपास्तिपरं भूमवाक्यमित्युपसंहरति —
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।
तत्र प्रतिज्ञां व्याकरोति —
परमात्मेति ।
प्राणो भूमेत्युक्तत्वान्नेयं प्रतिज्ञेति शङ्कते —
कस्मादिति ।
सौत्रं हेतुमादत्ते —
सम्प्रसादादिति ।
‘एष सम्प्रसादः’ इति सम्प्रसादशब्दास्य जीवार्थत्वादत्रापि तस्मात्परत्वोक्त्या न प्राणप्रत्युक्तिरित्याशङ्क्य सम्प्रसादशब्दस्य विवक्षितं वक्तुं प्रसिद्धमर्थमाह —
सम्प्रसाद इति ।
जीवे सुप्तौ च शक्तिकल्पनायां गौरवं शङ्कित्वोक्तम् —
सम्यगिति ।
न केवलं निरुक्त्या सम्प्रसादशब्दः स्वापविषयः, किन्तु ‘स एष एतस्मिन्सम्प्रसादे रत्वा’ इत्यादिप्रयोगादपीत्याह —
बृहदिति ।
तर्हि स्वापादुपर्युपदेशस्ततोऽन्यस्य प्राणस्यापि स्यादित्याशङ्क्यावस्थावाचिशब्दस्य लक्षणया प्राणविषयत्वमाह —
तस्यांं चेति ।
सम्प्रसादशब्दस्य लाक्षणिकार्थग्रहे सिद्धं हेत्वर्थमाह —
प्राणादिति ।
भूम्नो धर्म्याकाङ्क्षायां ब्रह्मणः सत्यस्याधिकारात्तदेव सम्बध्यत इति भावः ।
प्राणे हेतोरयोगमाह —
प्राण इति ।
दृष्टान्तद्वारोक्तं व्यनक्ति —
न हीति ।
अस्मिन्प्रकरणे यस्मादूर्ध्वं यो निर्दिश्यते स ततोऽतिरिच्यते, प्राणाच्चोपरिष्टादुपदिष्टो भूमेति सोऽपि ततोऽन्यः स्यादिति भावः । तत्र तत्रेति पर्यायभेदोक्तिः ।
हेत्वसिद्धिं शङ्कते —
नन्विति ।
प्रतिवचनद्वारा प्रश्नकल्पनामाशङ्क्योक्तम् —
नापीति ।
स्वपक्षे पूर्वपक्षी हेतोः सत्त्वमाह —
प्राणेति ।
सिद्धान्ते हेत्वसिद्धिं निगमयति —
तस्मादिति ।
सिद्धान्ती हेतुसमर्थनार्थमाह —
अत्रेति ।
तत्र परकीयहेतुं निरस्यति —
न तावदिति ।
एवशब्दस्य यच्छब्दपारतन्त्र्यान्न प्रकृतप्राणपरामर्शित्वमतोऽवान्तरप्रकरणं विच्छिन्नमित्युक्ते शङ्कते —
नन्विति ।
सत्यस्य प्रधानत्वाद्विशेषवादस्य तद्विषयत्वमेव न प्राणविषयतेत्याह —
कथमिति ।
सत्यशब्दो यथार्थोक्तिवाचीत्यङ्गीकृत्य दृष्टान्तेन प्रत्याह —
यथेति ।
तृतीयाश्रुत्या साधकतमार्थया सत्यज्ञानेनातिवादित्वान्तरविधानात्प्रकरणेन श्रुत्यर्थपरित्यागासिद्धिरित्याह —
नेतीति ।
श्रुत्यर्थमेव स्फुटयति —
श्रुत्येति ।
वाक्यमत्रेत्युक्तम् ।
अतिवादित्वलिङ्गप्रत्यभिज्ञातप्राणस्यैव प्रतिपाद्यत्वे सत्यशब्दस्तदीयगुणविधायकः स्यादित्युक्तमित्याशङ्क्याह —
नेति ।
अतिवादित्ववाक्यं सप्तम्यर्थः ।
का तर्हि प्राणविज्ञानस्य प्रसक्तिः, तत्राह —
प्रकरणात्त्विति ।
सम्बध्येत अतिवादित्वे हेतुत्वेनेति शेषः ।
प्रकरणस्य प्रमाणत्वात्तत्कृतोऽपि सम्बन्धोऽनुरोद्धव्य इत्याशङ्क्याह —
तत्रेति ।
न परं प्रकरणानुरोधेन तृतीयाश्रुतिर्विरुध्येत किन्तु तुशब्दश्चेत्याह —
प्रकृतेति ।
न च लिङ्गोपेतप्रकरणं श्रुतिमात्राद्बलीयः, लिङ्गस्यातद्विषयोक्तेरिति भावः ।
यत्तु सत्यशब्दस्य गुणविधिपरत्वं, तन्न, वाक्यान्तरविरोधादित्याह —
सत्यं त्विति ।
तुशब्देनाङ्गविशेषविधिः सूच्यते किंवा प्रकृतव्यावृत्तिरिति सन्देहापोहार्थमाह —
तस्मादिति ।
अवान्तराधिकारविच्छेदादिति हेत्वर्थः ।
प्राणादेरर्थान्तरं सत्यं प्रशंसितुं सत्यज्ञानेनातिवादित्वमुक्तमित्याह —
तादृगिति ।
यत्तूक्तं प्राणादधि भूयःप्रश्नप्रत्युक्ती नेति, तत्राह —
न चेति ।
किं तर्हि कारणमर्थान्तरविवक्षायामित्याशङ्क्याह —
प्रकृतेति ।
असति प्रकृतसम्बन्धायोगे सतोरपि प्रश्नप्रतिवचनयोरर्थैक्यस्य मैत्रेय्यादौ दृष्टत्वात् , तदभावेऽपि प्रकृतसम्बन्धायोगे तद्भेदस्य दर्शनात् , प्रश्नादिसत्त्वमर्थान्तरत्वानिमित्तमिति भावः ।
‘नापृष्टः कस्यचिद्ब्रूयात् ‘ इति स्मृतेरप्रश्ने प्रत्युक्तिरयुक्तेत्याशङ्क्यापृष्टेनापि बोधनीयः शिष्यो जिज्ञासुरिति मत्वाह —
तत्रेति ।
वाक्यं सप्तम्यर्थः ।
परस्मिन्ब्रह्मणि सत्यशब्दस्य प्रयुक्तपूर्वकत्वाच्च तद्विषयतेत्याह —
सत्यमिति ।
तथापि विज्ञानमननश्रद्धानिष्ठाकृतीनामन्यतमो भूमा, न सत्यं ब्रह्मेत्याशङ्क्याह —
तथेति ।
तेषां साधनत्वादेव फलभूतभूमतासिद्धिरित्यर्थः ।
तथापि कथं सत्यस्यैव तथात्वमत आह —
तत्रेति ।
हेतूक्तिद्वारा भूमोपदेशे प्रस्तुते सतीत्यर्थः । इहेति वाक्योक्तिः ।
हेत्वसिद्धिमुद्धृत्य फलितमाह —
तस्मादिति ।
परात्मा भूमेत्यत्र महाप्रकरणमनुगृहीतमिति हेत्वन्तरमाह —
एवं चेति ।
यत्तु प्राणविषयत्वमात्मशब्दस्योक्तं तदनूद्य दूषयति —
प्राण इति ।
शोकनिवृत्तिवाक्यमिहेत्युक्तम् ।
विशिष्टफलदृष्टेरपि परात्मैवात्मशब्दार्थो न प्राण इत्याह —
न चेति ।
नात्र मुख्यं शोकतरणं किन्त्वौपचारिकमित्याशङ्क्योपक्रमोपसंहारैकरूप्यान्मैवमित्याह —
तमिति ।
उपक्रमे शोकस्योपसंहारे तमसो निवृत्तिवचनाद्विप्रतिपत्तिमाशङ्क्याह —
तम इतीति ।
कारणनिवृत्त्या कार्यनिवृत्तिरुपसंहारे कार्यनिवृत्त्या कारणनिवृत्तिरुपक्रमे विवक्षितेत्यविप्रतिपत्तिरित्यर्थः ।
किञ्च प्राणो यदायत्तस्तस्येदं प्रकरणमित्यात्मैव प्रकरणी भूमेत्याह —
प्राणान्ते चेति ।
प्राणस्यान्यायत्ततैव कुतोऽत्रोच्यते, तत्राह —
आत्मत इति ।
प्राणाधिकारसमाप्तौ परात्मवचनात्पूर्वोक्तस्य भूम्नो न परमात्मतेति शङ्कते —
प्रकरणेति ।
भूम्न एव सर्वनाम्नानुकर्षणाद्वाक्यशेषस्यापि तदर्थत्वात्तस्यैवेदं प्रकरणमिति न प्राणस्य भूमतेत्याह —
नेत्यादिना ।
किञ्च भूमरूपतापि प्राणे न मुख्येत्याह —
वैपुल्येति ।
प्राणस्य स्वविकारापेक्षया भूमत्वेऽपि न मुख्यमिति वक्तुं सुतरामित्युक्तम् ॥ ८ ॥
परो भूमेत्यत्र लिङ्गान्तरमाह —
धर्मेति ।
सूत्रं व्याकरोति —
अपि चेति ।
उपपत्तिं दर्शयितुं भूम्नि दर्शनाद्यभावं दर्शयति —
यत्रेति ।
कथमेतावता परात्मधीः, तत्राह —
परमात्मनीति ।
प्राणेऽपि तदुपपत्तिरुक्तेत्याशङ्क्याह —
योऽपीति ।
उक्तो ‘न श्रृणोति’ इत्यादिनेति शेषः ।
प्राणस्वभावविवक्षया तस्यानुक्तत्वे हेतुमाह —
परमात्मेति ।
तत्प्रकरणे ‘न शृणोति’ इत्यादेरुक्तेरित्यर्थः । स्वप्नजागरितयोः सति मनसि दर्शनादिव्यवहारात्तदभावे स्वापे तदभावादन्वयव्यतिरेकाभ्यां मनोधीनो दर्शनादिर्नात्मकृतः । स तु स्वतोऽलिङ्गं इति मत्वा ‘न शृणोति’ इत्यादिना सर्वव्यवहाराभावः सुषुप्तावुक्तो न प्राणविवक्षया परप्रकरणविरोधादित्यर्थः ।
भूम्नः श्रुुतं सुखत्वं प्राणेऽपि स्यादित्युक्तं प्रत्याह —
यदपीति ।
तस्य सुखत्वे मानमाह —
यत इति ।
इतश्चात्मन एव सुखत्वमित्याह —
इहापीति ।
तस्यैव सुखत्वं प्रतियोगिप्रत्युक्त्या स्फुटयति —
नेति ।
उक्तश्रुतेरर्थमाह —
सामयेति ।
आमयेन दुःखेन सहितं सामयम् ।
धर्मद्वयमुक्त्वा धर्मान्तरमाह —
यो वा इति ।
प्राणस्यापि दर्शितममृतत्वमित्याशङ्क्याह —
विकाराणामिति ।
इतश्च न प्राणस्य मुख्यममृतत्वमित्याह —
अत इति ।
आर्तमार्तिग्रस्तम् । नाशीति यावत् ।
प्रकृतोपयुक्तानि धर्मान्तराण्याह —
तथेति ।
‘स एवाधस्तात्स उपरिष्टात्’ इत्यादिना सर्वगतत्वं, ‘स एवेदं सर्वम् ‘ इति सर्वात्मत्वमुक्तम् ।
श्रुतिलिङ्गप्रकरणेभ्यो भूमा परमात्मेति तत्प्रतिपत्त्यर्थं भूमवाक्यमित्युपसंहरति —
तस्मादिति ॥ ९ ॥
भूम्नि श्रुतधर्माणां परत्रोपपत्त्या परो भूमेत्युक्तम् । अधुना तेनैव न्यायेनाक्षरे श्रुतजगद्विधारणस्य परस्मिन्नुपपत्तेरक्षरं परं ब्रह्मेत्याह —
अक्षरमिति ।
बृहदारण्यकवाक्यं पठति —
कस्मिन्निति ।
यदूर्ध्वं दिवो यदधस्तात्पृथिव्या ये चोभे द्यावापृथिव्यौ यदन्तरिक्षं यद्भूतं भवद्भविष्यच्च तत्सर्वं कस्मिन्नोतं प्रोतं चेति प्रश्ने याज्ञवल्क्येनाकाशे तदोतं च प्रोतं चेति निरस्ते, गार्गी पुनरपृच्छत् , आकाशोऽव्याकृताख्यः कस्मिन्नोतप्रोतत्वेन तिष्ठतीति । याज्ञवल्क्यस्त्वाह, हे गार्गि, यत्त्वया पृष्टमाकाशस्याधिकरणं तदेतदक्षरमस्थूलादिविशेषणं ब्रह्मविदो वदन्तीत्युदाहरणार्थः ।
उभयत्राक्षरशब्दप्रयोगप्रतीत्या संशयमाह —
तत्रेति ।
सत्यशब्दस्य ब्रह्मणि मुख्यत्वात्परो भूमेत्युक्तत्वादत्राप्यक्षरशब्दस्य वर्णे मुख्यत्वादोङ्कार एवाक्षरमिति पूर्वपक्षयति —
तत्रेत्यादिना ।
अक्षरब्राह्मणस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः सङ्गतयः । ओङ्कारोपास्तिर्ब्रह्मधीरित्युभयत्र फलम् ।
न क्षरतीत्यक्षरमित्यवयवप्रसिद्ध्या परस्मिन्नपि शब्दोपपत्तिमाशङ्क्य ‘रूढिर्योगमपहरति’ इति न्यायेनाह —
प्रसिद्धीति ।
वर्णपक्षे तस्याम्बरान्तधारणायोगादपुमर्थत्वाच्च तद्ध्यानाद्ब्रह्मैव ग्राह्यमित्याशङ्क्याह —
ओङ्कार इति ।
उपास्तिद्वारा पुमर्थत्वे सिद्धे, अभिधेयस्य च गौरयं वृक्षोऽयमिति शब्दसामानाधिकारण्यात् , धूमाग्निवदुपायोपेयतामात्रेण तदयोगात् , अतदुपाये लिङ्गाद्युत्थज्ञाने नामसम्भेदादभिधानाभिधेययोरैक्यात् , ओङ्कारमात्रतायाश्च सर्वस्य श्रुतत्वात्तदुक्तिरित्यर्थः ।
रूढेरिदं ब्राह्मणमोङ्कारोपास्तिपरमित्युपसंहरति —
वर्ण इति ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —
एवमिति ।
रूढेरोङ्कारविषयत्वमक्षरशब्दस्योक्तं, तत्कथं प्रतिज्ञेत्याह —
कस्मादिति ।
हेतुमुक्त्वा व्याकरोति —
अम्बरान्तेति ।
आकाशस्यैव प्रश्ने श्रवणात्तदधिकरणं पृष्टं न पृथिव्यादेरित्याशङ्क्याह —
तत्रेति ।
तथापि रूढिर्योगाद्बलीयसीत्युक्तमित्याशङ्क्य तात्पर्यवदम्बरान्तधृतिलिङ्गसङ्गतयोगवृत्तिर्बलीयसीत्युपेत्योपक्रमोपसंहारयोरैकरूप्यावगमात्तात्पर्यसिद्धिरित्याह —
तथा चेति ।
लिङ्गस्यान्यथासिद्धिं प्रत्याह —
न चेति ।
ओङ्कारस्य सर्वात्मत्वश्रुतेस्तत्र सम्भवति लिङ्गमित्याशङ्क्याह —
यदपीति ।
स्वरूपभेदादुपायोपेयभेदादर्थक्रियाभेदाच्च शब्दार्थयोरभेदासिद्धिरित्यर्थः ।
प्रकृते रूढेर्योगस्य बलीयस्त्वे फलितमाह —
तस्मान्नेति ॥ १० ॥
उत्तरसूत्रापोह्यं चोद्यमाह —
स्यादिति ।
केयमम्बरान्तधृतिस्तन्निमित्तत्वं तदुपादानत्वं वा । नाद्यः, घटकुलालवदाश्रयाश्रयित्वायोगात् । द्वितीये व्यभिचारादसाधकतेति मत्वा फलितमाह —
कथमिति ।
सूत्रमवतारयति —
अत इति ।
प्रतिज्ञां व्याचष्टे —
सा चेति ।
प्रधानस्यापि तदुपपत्तेरुक्तत्वादवधारणासिद्धिरित्याह —
कस्मादिति ।
हेतुमुत्थाप्य नियमं साधयति —
प्रशासनादिति ।
अक्षरस्य सूर्यादौ प्रशासने श्रुतेऽपि कथमीश्वरत्वं, तत्राह —
प्रशासनं चेति ।
तस्यान्यथासिद्धिं धुनीते —
नेति ।
तस्यापि स्वकार्ये प्रशासनं सिध्यति, नेत्याह —
नहीति ।
तथा चाज्ञाख्यप्रशासनलिङ्गान्न प्रधानमक्षरमित्यर्थः ॥ ११ ॥
ओङ्कारादिनिरासेन ब्रह्मादाने हेत्वन्तरमाह —
अन्येति ।
प्रतिज्ञाभ्यां सूत्रं योजयति —
अन्यभावेति ।
हेत्वर्थं प्रश्नपूर्वकमाह —
किमित्यादिना ।
अन्यभावाद्व्यावृत्त्याक्षरस्याभावत्वं विधेयमिति भ्रमव्यावृत्त्यर्थमभिप्रेतमर्थमाह —
एतदिति ।
प्रधानमन्यदित्युक्तम् । इहेति प्रकृतोदाहरणम् ।
प्रधानस्यापि रूपादिराहित्याददृष्टत्वादियोगादुक्तश्रुतौ कुतोऽक्षरस्य ततो व्यावृत्तिः, तत्राह —
तत्रेति ।
एतेन सूत्रेणाक्षरत्वं जीवस्यापि निरस्तमित्याह —
तथेति ।
अक्षरमतःशब्दार्थः ।
इतश्च जीवस्य नाक्षरशब्दतेत्याह —
अचक्षुष्कमिति ।
उपाधिसम्बन्धनिषेधेऽपि तद्वतो निषेधाभावाद्युक्तं तस्याक्षरत्वमित्याशङ्क्याह —
नहीति ।
अनन्यथासिद्धलिङ्गसङ्गियोगवृत्त्या ज्ञेयब्रह्मपरमक्षरब्राह्मणमित्युपसंहरति —
तस्मादिति ॥ १२ ॥
ओङ्कारस्याक्षरत्वेन पूर्वपक्षे बुद्धिसांनिध्यात्तेन ध्यातव्यं पुरुषं निरूपयति —
ईक्षतीति ।
आथर्वणवाक्यं पठति —
एतदिति ।
पिप्पलादो नामाचार्यः सत्यकामेन पृष्टो व्याचष्टे । हे सत्यकाम, परं निर्विशेषमपरं च कार्यं यद्ब्रह्म तदेतदेव योऽयमोङ्कारः । स हि प्रतिमेव विष्णोस्तस्य प्रतीकः । तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनोङ्कारध्यानेनायतनेन प्राप्तिसाधनेन परापरयोरेकतरं यथाध्यानमनुगच्छतीति प्रकृत्यैकमात्रद्विमात्रोपास्तिं दर्शयित्वा ब्रवीति, यः पुनरोमित्येतदक्षरं त्रिमात्रमिति । त्रिमात्रेणेति तृतीया द्वितीयात्वेन नेया, ब्रह्मोङ्काराभेदोपक्रमात् । तथाविधमक्षरं सूर्यान्तस्थं परं ध्यायीत, स सूर्यं प्राप्तः सामभिर्ब्रह्मलोकं प्रति नीयत इत्युदाहरणार्थः ।
सनिमित्तं संशयमाह —
किमिति ।
अक्षरशब्दस्य वर्णे रूढस्यापि जगदायतनत्वलिङ्गेन जघन्या योगवृत्तिराश्रिता तथा देशपरिच्छिन्नफलश्रुतिलिङ्गेन परशब्दस्यापेक्षिकपरत्वविशिष्टे हिरण्यगर्भे वृत्तिरिति पूर्वपक्षयति —
तत्रेति ।
उक्तश्रुतेर्ध्येये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । अपरस्य परस्य वा ब्रह्मणो ध्यानं पूर्वोत्तरपक्षयोः फलम् ।