न्यायनिर्णयव्याख्या
१ परिच्छेदः
ननु परापरत्वेन ब्रह्म विभज्य परमभिध्यायीतेति विशेषोक्तौ कुतः शङ्केति शङ्कते —
कस्मादिति ।
परायोगिफलोक्त्या शङ्कायाः सावकाशत्वमाह —
स इति ।
उपासकः सर्वनामार्थः ।
कथं यथोक्तं फलं परस्मिन्नसम्भावितं, तदाह —
नहीति ।
तद्विदोऽपि तथाभावादिति शेषः ।
विशेषणानुपपत्तिं शङ्कते —
नन्विति ।
तदुपपत्तिमाह —
नेति ।
पिण्डः स्थूलो देहः । प्राणः सूत्रात्मा । अपरब्रह्मोपास्तिपरं वाक्यमित्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।
तत्र प्रतिज्ञां पूरयति —
परमेवेति ।
लिङ्गाद्ध्यायतेरपरविषयत्वोक्तेर्नियमासिद्धिरित्याह —
कस्मादिति ।
सौत्रं हेतुमाह —
ईक्षतीति ।
ईक्षतेर्धातोरीक्षणमेव कर्म तद्व्यपदेशान्नापेक्षितधीरित्याशङ्क्य व्याकरोति —
ईक्षतिरिति ।
तथापि तदेव क्रियात्वात्कर्मेति भ्रान्तिं प्रत्याह —
दर्शनेति ।
तस्य व्यपदेशादित्युक्ते पक्षधर्मत्वासिद्धिमाशङ्क्यापेक्षितं पूरयन्विवक्षितमर्थमाह —
ईक्षतीति ।
ईक्षणविषयत्वेन वाक्यशेषे निर्दिश्यमानमपि ब्रह्मापरमेवेत्याशङ्क्याह —
तत्रेति ।
ईक्षतिध्यायत्योर्निर्धारणार्था सप्तमी । रजतादिदृष्टेराभासत्वात्तथाभूतमेवेत्यवध्रियते ।
अत एव दर्शनविशेषणम् —
सम्यगिति ।
अस्तु तर्हीक्षतिकर्मणोऽन्यस्यैव ध्येयत्वमित्याशङ्क्य सौत्रं सशब्दं व्याचष्टे —
स एवेति ।
निर्देशवैषम्यान्न प्रत्यभिज्ञेति शङ्कते —
नन्विति ।
वैषम्यमुपेत्य प्रत्यभिज्ञोपपत्तिमाह —
अत्रेति ।
एतच्छब्दस्य प्रकृतगामित्वाद्ध्यायतिकर्मणश्च प्रकृतत्वात्तस्यैवैतच्छब्दसमानाधिकृतपञ्चम्यन्तपरशब्देन प्रत्यभिज्ञानादभिध्यातव्यविषयपरशब्दस्य वाक्यशेषे जीवघनविषयत्वाज्जीवघनोऽभिध्यातव्यः, तस्मात्परात्परः परमेश्वरोऽन्य एवेक्षतिकर्मभूत इत्याशङ्क्याह —
न चेति ।
यो ध्येयः स एव तदुत्थसम्यग्धियोऽपीक्षणस्य विषयः सम्भवति, एकवाक्यत्वे वाक्यभेदस्यायोगात् , एतच्छब्दस्य सन्निहितपरामर्शित्वेऽपि सन्निहिततरजीवघनविषयत्वात् , जीवघनशब्दस्य च ध्येयविषयत्वाभावात् , तस्येक्षितव्यस्य चैकतेत्यर्थः ।
उपक्रमोपसंहारयोरेकवाक्यतार्थमुपक्रमे यो ध्यातव्यः स एवोपसंहारेऽपीक्षणगोचरश्चेत्तर्हि जीवघनशब्दस्य पृथगर्थो वक्तव्यः, न हि जीवघनपदं प्रमत्तगीतमिति शङ्कते —
कस्तर्हीति ।
‘मूर्तौ घनः’ इति सूत्रेणाह —
उच्यत इति ।
षष्ठीसमासं व्यावर्तयति —
जीवेति ।
उक्तमर्थं दृष्टान्तेनाह —
सैन्धवेति ।
खिल्यभावोऽल्पत्वम् ।
कथमनवच्छिन्नस्य परस्याल्पत्वं, तत्राह —
उपाधीति ।
तत्र पञ्चम्यन्तपरशब्दोपपत्तिमाह —
परश्चेति ।
एतच्छब्दस्य प्रकृतपरामर्शित्वमाश्रित्य पक्षान्तरमाह —
अपर इति ।
कया वृत्त्या जीवघनशब्दो ब्रह्मलोकं ब्रूते, तत्राह —
जीवानामिति ।
परिच्छिन्नकरणावच्छिन्नानामनवच्छिन्नकरणात्मनि हिरण्यगर्भेऽन्तर्भावात्तस्य जीवपूर्णतया तद्घनत्वाल्लोकोऽपि जीवघन इत्युपचर्यत इत्यर्थः ।
तस्य कारणत्वात्परमात्मा परस्तस्मादित्याह —
तस्मादिति ।
ईक्षणध्यानयोः कार्यकारणभावादेकविषयतेत्याह —
स एवेति ।
परस्यैव ध्यातव्यत्वे विशेषणमनुकूलयति —
परमिति ।
विराडपेक्षया परत्वं सूत्रेऽपीत्युक्तमाशङ्क्य मुख्यं परत्वमुत्सर्गतो ब्रह्मण्येवेत्याह —
परो हीति ।
‘यस्मात्परं नापरमस्ति किञ्चित् ‘ इति श्रुत्या परमात्मानं विशिनष्टि —
यस्मादिति ।
ईश्वरस्य परमपुरुषार्थत्वे मानमाह —
पुरुषादिति ।
परापरे ब्रह्मणी प्रकृत्य परशब्देनापरस्य व्यावर्तनादपि परमेव ब्रह्म ध्यातव्यमित्याह —
परं चेति ।
न केवलमुपक्रमादेवं किन्तु फलोक्तेरपीत्याह —
यथेति ।
पादोदरः सर्पः ।
पूर्वपक्षबीजमनूद्य दूषयति —
अथेत्यादिना ।
परिशुद्धब्रह्मैक्यज्ञाने देशपरिच्छिन्नं फलमयुक्तम् । ओङ्कारोपाधिब्रह्मोपास्तौ तदविरुद्धमित्यर्थः ।
कथं तर्हि ‘पुरुषमीक्षते’ इति, तत्राह —
क्रमेणेति ।
ब्रह्मलोके सम्यग्दर्शनोत्पत्तौ मोक्षं विवक्षित्वेक्षतिवाक्यमित्यर्थः ।
एकवाक्यताकाङ्क्षप्रकरणानुगृहीतश्रुतिप्रत्यभिज्ञाया देशपरिच्छिन्नफलत्वलिङ्गानुगृहीतश्रुतिप्रत्यभिज्ञाया देशपरिच्छिन्नफलत्वलिङ्गानुगृहीतप्रत्यभिज्ञातो बलीयस्त्वाद्ध्यातव्यं परमेवेत्युपसंहरति —
अदोष इति ॥ १३ ॥
‘परात्परं पुरिशयं पुरुषम् ‘ इत्यादिवाक्याद्ध्यातव्यपुरुषनिर्णये परस्य पुरिशयमिति पुरसम्बन्धसिद्धेरयमपि पुरसम्बन्धी दहराकाशो ब्रह्मेत्याह —
दहर इति ।
छान्दोग्यवाक्यमुदाहरति —
अथेति ।
भूमविद्यानन्तरं विद्यान्तरारम्भार्थोऽथशब्दः । यदिदमिति प्रसिद्धं हृदयं परामृष्टम् । अस्मिन्निति प्रत्यक्षत्वोक्तिः । ब्रह्मपुरं शरीरम् । दहरं सूक्ष्मम् । पुण्डरीकं तदाकारत्वात्प्रकृतं हृदयमेव तत्र परस्य नित्यसन्निधेर्वेश्मशब्दः ।
सन्निहितं हृदयं सप्तम्या परामृश्य तस्यातिसूक्ष्मस्य परस्य तत्र सदा स्थितिं सूचयन्वेश्मत्वमेव विशदयति —
दहर इति ।
व्यवहितमपि हृदयं योग्यत्वात्तच्छब्देनोक्त्वा तदन्तराकाशस्य विचार्यतां ज्ञेयतां च दर्शयति —
तस्मिन्निति ।
तस्मिन्निति सप्तम्या हृदयोक्तेस्तदन्तस्थं दहराकाशमन्वेष्यं जिज्ञास्यं च किंवा तस्याः सन्निहिततरदहराकाशार्थत्वात्तदन्तस्थं किञ्चिदन्विष्य ज्ञेयमिति संशयं सूचयति —
तत्रेति ।
वाक्यं सप्तम्यर्थः ।
यदाकाशोऽन्विष्य ज्ञेयस्तदा प्राप्तं संशयमाह —
स इति ।
द्वितीये संशये प्रश्नपूर्वकं हेतुमाह —
कुत इति ।
द्वयोरपि पक्षत्रयोपनायकत्वं व्यावर्तयन्नाकाशशब्दाधीनं पक्षद्वयमाह —
आकाशेति ।
शब्दान्तरात्पक्षद्वयप्राप्तिमाह —
तथेति ।
इतिशब्दः संशयशब्देन सम्बध्यते ।
नन्वयमन्यः संशयो न प्रकृतस्तस्यान्यादृशत्वात् , तत्राह —
तत्रेति ।
उक्ते संशये सतीति यावत् ।
परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्मैव ध्येयमित्युक्तम् । इहाप्याकाशशब्दस्य भूताकाशे रूढेस्तस्यैवोपास्यतेति पूर्वपक्षमाह —
तत्रेति ।
दहरवाक्यस्य सोपाधिके ब्रह्मण्यन्वयोक्तौ तत्र प्रवृत्तस्य निरुपाधिकं बुभुत्समानस्य तस्मिन्प्राजापत्यवाक्यान्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूताकाशादिध्यानं, सिद्धान्ते परोपास्तिद्वारा प्रतिपत्तिरिति फलम् । न च ‘आकाशस्तल्लिङ्गात्’ इत्यनेन गतत्वात्पूर्वपक्षानुत्थानं, तत्र वाक्यशेषस्थलिङ्गानामाकाशविषयत्वात् । प्रकृते तेषां तदन्तस्थविषयत्वेन तदविषयत्वादिति । उपास्त्यर्थं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तदन्तस्थविषयत्वेन तदविषयत्वादिति ।
उपास्त्यर्यं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तदयोगात्कुतो ग्रहणं तत्राह —
तस्येति ।
तद्ध्यानेनापि वाक्यशेषस्थं फलं सम्पद्यते वाक्यादित्यर्थः ।
सति भेदे सादृश्ये चोपमानोपमेयभावादेकत्र तदसिद्धिरित्याशङ्क्याह —
यावानिति ।
ब्रह्मणि द्यावापृथिव्यादीनामन्तःसमाधानं, कारणत्वात् । तदभावादाकाशे नैवमित्याशङ्क्याह —
द्यावापृथिव्यादीति ।
दहरे कथंं तत्समाधानं, तत्राह —
अवकाशेति ।
अपहतपाप्मत्वादि तस्मिन्नित्यनुवादः । सत्यकामत्वादि ध्यानार्थमध्यस्तमिति भावः ।
एष आत्मेत्यात्मशब्दसामञ्जस्यार्थं पक्षान्तरमाह —
अथवेति ।
ब्रह्मशब्दस्यामुख्यत्वाज्जीवे तच्छब्दात्परस्मिञ्झटिति बुद्धिस्थे कुतो जीवोक्तिरित्याशङ्क्य पुरसम्बन्धस्य तत्रैव सम्भवादित्याह —
जीवस्येति ।
तस्यापि पुरेण कः सम्बन्धः, तत्राह —
तस्येति ।
तथापि तस्मिन्नौपाधिके कथं ब्रह्मपदं, तत्राह —
भक्त्येति ।
चैतन्यगुणयोगेनेत्यर्थः ।
गौणमुख्ययोर्मुख्ये संप्रत्ययमाशङ्क्योक्तम् —
न हीति ।
कार्यकारणसम्बन्धस्य साधारण्यादसाधारण्येन व्यपदेशाज्जीवकर्मार्जितं शरीरं तेनैव व्यपदेशमित्यर्थः ।
तस्य जीवपुरत्वेऽपि राजपुरे मैत्रसद्मवत्पुण्डरीकदहरगेहता ब्रह्मणोऽस्तु, तत्राह —
तत्रेति ।
वेश्मनः खल्वाधारस्याधेयापेक्षायां पुरस्वमिनाधेयेन संबन्धान्नान्यापेक्षेत्यर्थः ।
जीवस्य देहेन विशेषसम्बन्धेऽपि हृदयेन तदभावात्कथं तस्यैव तद्वेश्मता, तत्राह —
मन इति ।
तस्यापि चञ्चलत्वान्न हृदयेनासाधारण्यं, तत्राह —
मनश्चेति ।
तथापि तस्य सर्वगतस्य कुतो दहरत्वं, तत्राह —
दहरत्वमिति ।
दहरत्वादेव तर्हि नाकाशोपमितत्वादीत्याशङ्क्याह —
आकाशेति ।
यद्भावमपेक्ष्यैतत्कल्प्यते तदेव ब्रह्माकाशशब्दं लाघवादित्याशङ्क्याद्ये संशये पूर्वपक्षमाह —
न चेति ।
परविशेषणत्वेनेत्यत्र परो दहराकाश उपादानात्तस्मिन्निति सप्तम्यन्ततच्छब्दस्येति शेषः । यद्वा परशब्दोऽन्तस्थवस्तुविषयस्तद्विशेषणत्वेन तस्मिन्निति दहराकाशस्योक्तेरित्यर्थः । तच्छब्दस्य सन्निकृष्टान्वययोगे विप्रकृष्टान्वयस्य जघन्यत्वादाकाशान्तर्गतं ध्येयमिति भावः । भूताकाशस्य जीवस्य वा दहराकाशान्तस्थस्य वा ध्यानार्थं दहरवाक्यमुपसंहर्तुमितिशब्दः ।
सिद्धान्तयति —
अत इति ।
तत्र प्रतिज्ञां व्याचष्टे —
परमेश्वर इति ।
प्रतिज्ञायां प्रश्नद्वारा हेतूनाह —
कस्मादिति ।
तानेव विवृणोति —
तथाहीति ।
विहितस्य तदन्वेष्टव्यमित्यादिनेति शेषः । आकाशस्याक्षेपपूर्वकमिति सम्बन्धः । तमाचार्यं प्रति शिष्या यदि ब्रूयुरित्याक्षेपमुपक्रम्यावतार्येति योजना ।
आक्षेपप्रकारमाह —
किं तदिति ।
पुण्डरीकमेव तावदल्पमल्पतरं च तदन्तर्गतमाकाशं तथा च किं तदत्रात्यल्पेऽस्ति यच्छ्रुतियुक्तिभ्यामन्वेष्यं यद्वाव साक्षात्कर्तव्यमित्यल्पतादोषेण दहरस्य ज्ञेयत्वमाक्षिप्य समाहितमित्यर्थः ।
तदेव दर्शयति —
स इति ।
आचार्यः सर्वनामार्थः । अस्मिन्निति हार्दाकाशोक्तिः । ‘उभावग्निश्च वायुश्च' इत्यादिसङ्ग्रहार्थमादिपदम् ।
तस्य विवक्षितमर्थमाह —
तत्रेति ।
निवर्तयन्नित्याचार्यो गृह्यते ।
आकाशशब्दस्य भूताकाशे रूढत्वात्कयानुपपत्त्या तन्निवर्तनं, तत्राह —
यद्यपीति ।
परोक्तिं स्मारयित्वा निरस्यति —
नन्वित्यादिना ।
गत्यन्तराभावादारोपितभेदेनोपमानस्य क्वाचित्कत्वेऽपि सत्यां गतौ तदसिद्धिरित्यर्थः ।
सादृश्ये सत्युपमानोपमेयत्वं दृष्टम् । न चोपाधिपरिच्छिन्नान्तराकाशस्य महत्परिमाणेन बाह्याकाशेन सादृश्यमित्याह —
अपि चेति ।
तर्हि परस्यापि भूताकाशो नोपमानमतुल्यपरिमाणत्वादित्याह —
नन्विति ।
नेदं वाक्यं भूताकाशतुल्यत्वविषयं किन्तु शङ्किताल्पत्वव्यावृत्तिपरमित्याह —
नेति ।
निवृत्तौ तावत्त्वे च वाक्यतात्पर्यमाशङ्क्योक्तम् —
उभयेति ।
न च सम्भवत्येकवाक्यत्वे वाक्यभेदः । न च तावत्त्वमेव प्रतिपाद्यम् , अफलत्वात् । न च शङ्कितदहरत्वनिवृत्तिरेव फलं, तत्रैव वाक्यतात्पर्यप्रसङ्गात् । न च साक्षादेव तत्सिद्धावार्थिकत्वकल्पना युक्तेति भावः ।
भूताकाशाग्रहे लिङ्गान्तरमाह —
न चेति ।
तत्रैव हेत्वन्तरम् —
एष इति ।
विगता जिघत्सा खादितुमिच्छा यस्य स तथा । चकारादुक्तं सर्वमाकाशस्यैकदेशे नोपपद्यत इति सम्बन्धः ।
तदेव स्पष्टयति —
आत्मत्वेति ।
न तावद्भूताकाशे सम्भवत्यात्मत्वम् , अचैतन्यात् । न चापहतपाप्मत्वादेर्नित्यानुवादत्वम् । नापि सत्यकामत्वादेरारोपितत्वम् । अगतिका हीयं गतिः । उपक्रमस्थाकाशश्रुतेश्चोपसंहारस्थात्मश्रुतिरुक्तलिङ्गसङ्गता बलीयसी, प्रत्ययसंवादादित्याकाशशब्दं ब्रह्मैवेति भावः ।
आकाशोपमितत्वादिहेतुभ्यो भूताकाशं निरस्य तद्बलादेव जीवमपि निरस्यति —
यद्यपीति ।
ननु कथमाकाशोपमितत्वं जीवशङ्कानिवर्तकं, तस्यापि तदुपमितत्वेन शङ्कितदहरत्वनिवृत्त्योपमानपर्यवसानात् , तत्राह —
न हीति ।
तादात्म्येन शङ्कते —
ब्रह्मेति ।
आदिपदं सर्वाधारत्वादिसङ्ग्रहार्थम् ।
लाघवेन प्रत्याह —
यदिति ।
ब्रह्मपुरशब्दाज्जीवोपादानमुक्तमनुवदति —
यदपीति ।
प्रथमश्रुतब्रह्मशब्देन चरमश्रुतविभक्त्यर्थो नेतव्य इत्याह —
अत्रेति ।
ब्रह्मणः पुरमित्यत्र स्वस्वामित्वं षष्ठ्यर्थं हित्वा ब्रह्मशब्दो मुख्यार्थः स्वीकर्तव्यः, प्रत्ययार्थस्य प्रकृत्यर्थापेक्षस्य दौर्बल्यादित्यर्थः ।
ननु ब्रह्मपक्षे प्रत्ययस्य निरालम्बनत्वमेव । जीवपक्षे प्रकृत्यालम्बनं कथञ्चिदस्ति, तदर्थस्य ब्रह्माभेदात् , तत्राह —
तस्येति ।
ब्रह्मणः शरीरमुपलब्ध्यधिष्ठानमित्यत्र मानमाह —
स इति ।
सर्वासु पूर्ष्विति व्यपदिश्य पुरिशय इति विशेषणं हृदयसम्बन्धविवक्षया नेयम् । आदिपदं ‘यो वेद निहितं गुहायाम् ‘ इत्यादिसङ्ग्रहार्थम् ।
ननु शारीरः शरीरमन्नपानाभ्यवहरणेन बृंहयतीति तस्मिन्मुख्यं ब्रह्मत्वं, तस्य च स्वकर्मार्जितत्वादसाधारणं शरीरं, तथा च प्रकृतिप्रत्ययौ जीवे मुख्याविति, तत्राह —
अथवेति ।
शारीरसम्बद्धमेव वेश्मोत्तरहेतुभ्यो ब्रह्मणापि सम्बध्यते । दृष्टं हि राजपुरे मैत्रसद्मेत्यर्थः ।
किञ्च कर्मफलनित्यतानिवृत्त्या दहरज्ञानस्यानन्तफलत्वश्रुतेर्दहरस्य परत्वमित्याह —
तद्यथेति ।
कर्मणस्तत्फलाच्चोपेक्षानन्तर्यमथशब्दार्थः । इह जीवत्येव देहे दहरमात्मानं तदाश्रितांश्च सत्यकामादिगुणानाचार्योपदेशमनुविद्यानुभूय ये परलोकं व्रजन्ति तेषां सर्वेषु लोकेषु कामचारः स्वेच्छया चरणमप्रतिहतमनन्तमैश्वर्यमित्यर्थः ।
श्रुतितात्पर्यमाह —
प्रकृतेति ।
क्दन्नित्याचार्यो वेदो वोक्तः । दहराकाशस्यान्वेष्यत्वादिसिद्धौ तत्र विचारः ।
न तु तदस्ति, ‘तस्मिन्यदन्तः’ इत्यन्तःस्थविशेषणत्वादन्वेषणादेरिति, तत्राह —
यदपीति ।
उत्तरत्राकाशस्वरूपप्रतिपादनानुपपत्त्या तस्य ज्ञेयत्वमन्तस्समाहितैः सहेष्टमित्याह —
अन्नेति ।
तत्प्रतिपादनमन्यथोपपन्नमिति शङ्कते —
नन्विति ।
कथमेतदवगम्यते, तत्राह —
तमिति ।
‘किं तदत्र' इत्याक्षेपात् ‘उभे अस्मिन् ‘ इति चान्तस्थवस्तूक्त्या समाधानाधारत्वमेवाकाशस्येत्यर्थः ।
तस्याधारमात्रत्वविवक्षायामाधेयस्यैव ध्येयत्वं स्यादित्याह —
नैतदिति ।
अस्तु को दोषः, तत्राह —
तत्रेति ।
दहराकाशस्य प्रकृतस्यैतच्छब्देन परामर्शात्तद्वेदनस्य फलवत्त्वश्रुतेस्तदेव ध्येयम् । न चैतच्छब्देन द्यावापृथिवीभ्यां व्यवधानान्नाकाशाकर्षणं, ‘अस्मिन्’ ‘एषः’ इति चैकवचनात्तस्यैव परामर्शयोग्यत्वादित्यर्थः ।
सत्यकामवेदनस्यैतत्फलं, तदान्तर्यात् । न दहराकाशबुद्धेरित्याशङ्क्याह —
समुच्चयेति ।
‘सन्दिग्धस्य वाक्यशेषान्निर्णयः’ इति न्यायादादौ ‘तस्मिन्यदन्तः’ इति तच्छब्दोऽनन्तरमप्याकाशमभिलङ्घ्य हृत्पुण्डरीकं परामृशति ।
तत्र यदन्तराकाशं तदन्वेष्टव्यं विजिज्ञासितव्यं चेत्युपसंहरति —
तस्मादिति ।
नन्वेतच्छब्दस्य सन्निहितार्थत्वात् , जीवात्मनः सर्वान्प्रति सन्निहिततरत्वात्तस्यैव तादर्थ्यात् , कामानां च तत्र समाहितत्वेन समुच्चयसिद्धेस्तत्परं वाक्यमित्याशङ्क्य विजातीयाध्यक्षादिसिद्धजीवात्सजातीयश्रुतिसिद्धदहराकाशाख्यपरमात्मपरामर्शे लाघवात् , जीवे चापहतपाप्मत्वाद्ययोगाद्वाक्यभेदापत्तेर्मैवमित्याह —
स चेति ॥ १४ ॥
दहराकाशस्येश्वरत्वे हेत्वन्तरमाह —
गतीति ।
उत्तरसूत्रसन्दर्भस्य परमसङ्गतिमाह —
दहर इति ।
अवतारितसूत्रस्यावान्तरसङ्गतिमाह —
इतश्चेति ।
इतःशब्दार्थमाह —
यस्मादिति ।
तावेवोदाहरति —
इमा इति ।
प्रजाश्चिदाभासा जीवाः । अहरहः स्वापे ।
कथं तर्हि पुनरुत्थानं, तत्राह —
एतमिति ।
उक्तगतिशब्दयोर्विवक्षितमर्थमाह —
तत्रेति ।
श्रुतिः सप्तम्यर्थः ।
एतच्छब्दाज्जीवानां स्वापे दहरगमनेऽपि तस्य ब्रह्मत्वे किमायातं, तदाह —
तथाहीति ।
अध्यायभेदधिया श्रुत्यन्तरशब्दः । ‘स्वमपीतो भवति‘ इत्यादिवाक्यमादिपदार्थः ।
तथाहीत्यादिसूत्रावयवस्यार्थान्तरमाह —
लोकेऽपीति ।
प्रसिद्धेः श्रुतिमूलत्वात्तत्प्रामाण्यायानुदाहार्यत्वेऽपीदृशी नामेयं वैदिकी प्रसिद्धिरियं लोकेऽप्यस्तीति श्रुतिप्रामाण्यदार्ढ्याय तदुक्तिरिति मत्वा किलेत्युक्तम् ।
दहरस्य ब्रह्मत्वधीहेतुतां गतेरुक्त्वा शब्दस्यापि कथयति —
तथेति ।
गतिवदित्येतत् ।
शब्दस्य सिद्धान्तानुगुण्यं नेति शङ्कते —
नन्विति ।
षष्ठीविभक्त्यश्रुतेस्तदर्थलक्षणायां गौरवान्नास्य लोकार्थतेत्याह —
गमयेदिति ।
तथापि कुतोऽस्य ब्रह्मार्थतेत्याशङ्क्य निषादस्थपत्यधिकरणन्यायेनाह —
सामानाधिकरण्येति ।
ननु तेनैव न्यायेन विशेषणसमासो न युक्तः, तन्न्यायाविषयत्वात् । एकस्य शब्दार्थद्वयसाधारण्ये गुरुलघुचिन्तया लघुर्ग्राह्य इति न्यायः । तथा सति लोकविशेषे प्रयोगबाहुल्यात्तस्यैवादौ बुद्धिस्थत्वात्कुतो ब्रह्मविषयत्वमित्याशङ्क्य तत्र ‘लिङ्गं च’ इत्युत्तरत्वेन योजयति —
एतदेवेति ।
तस्य लिङ्ग्त्वं स्फुटयति —
न हीति ॥ १५ ॥
सर्वजगद्धारणस्य परमात्मलिङ्गस्य दहरे दर्शनाच्च तस्य परत्वमित्याह —
धृतेश्चेति ।
अस्य धृत्यात्मनो महिम्नो दहरे श्रुतस्यास्मिन्नीश्वरे श्रुत्यन्तरेषूपलब्धेस्तस्येश्वरत्वमित्यर्थः ।
सूत्रं व्याचष्टे —
धृतेरिति ।
अथशब्देन प्रकरणं विच्छिद्य विधृतिशब्दात्कथं दहरस्य विधारकत्वमित्याह —
कथमिति ।
प्रकृतगामिना यच्छब्देनात्मशब्देन च दहरस्यैव बुद्धिस्थत्वान्न प्रकरणविच्छेदकोऽथशब्दः किन्तु वाक्योपक्रमद्योतीत्याह —
दहरोऽस्मिन्नित्यादिना ।
श्रौतविधृतिशब्दस्यार्थमाह —
तत्रेति ।
स्त्रियां भावे क्तिन्विधानान्न विधृतिशब्देन दहरस्य विधारकत्वमित्याशङ्क्य प्रकृतिशब्दवदयं न क्तिन्प्रत्ययान्तः किन्तु क्तिच्प्रत्ययान्त इत्याह —
क्तिच इति ।
सेतुशब्देनापि विधारकोक्त्या पौनरुक्त्यमाशङ्क्य दृष्टान्तेनासङ्करहेतुत्वं सेतुशब्दस्यार्थमाह —
यथेति ।
इतिशब्दः श्रुत्यक्षरार्थसमाप्त्यर्थः ।
उक्तेऽर्थे सूत्रं योजयति —
एवमिति ।
तथापि कथं दहरस्येश्वरत्वं, तत्राह —
अयं चेति ।
द्यावापृथिव्यादिस्थितिरक्षराधीनेति विद्वद्वाक्यमादिशब्दार्थः ।
प्रकारान्तरेण धृतिमाचष्टे —
तथेति ।
निश्चितत्वं सन्देहस्याप्यविषयत्वम् । राजकुमारव्यावृत्त्यर्थं भूताधिपतिरित्युक्तम् । लोकपालात्मनापि परस्यैवावस्थानं वक्तुं भूतपालपदम् ।
विधारकतया सेतुरिवेति सर्वव्यवस्थापकत्वमाह —
सेतुरिति ।
तदेव स्फुटयति —
एषामिति ।
सूत्रार्थमुपसंहरति —
एवमिति ॥ १६ ॥
दहरस्य परत्वे हेत्वन्तरम् —
प्रसिद्धेश्चेति ।
चकारार्थमाह —
इतश्चेति ।
इतःशब्दार्थं स्फुटयति —
यदिति ।
नास्ति लौकिकी प्रसिद्धिरिति श्रौतीं प्रसिद्धिमाह —
आकाश इति ।
‘यदेष आकाश आनन्दो न स्यात् ‘ इति ग्रहीतुमादिपदम् ।
ब्रह्मण्याकाशशब्दप्रसिद्ध्युक्त्या जीवपक्षोऽपि निरस्त इत्याह —
जीवे त्विति ।
क्वचिल्लोके वेदे चेत्यर्थः ।
तर्हि लोकवेदप्रसिद्धेर्भूताकाशो गृह्यतां, नेत्याह —
भूतेति ॥ १७ ॥
विनिगमनहेत्वभावं मन्वानस्य प्रत्यवस्थानं प्रत्याह —
इतरेति ।
तत्र चोद्यं व्याचष्टे —
यदिति ।
वाक्यशेषमेवाह —
अथेति ।
दहराकाशाख्यसोपाधिकवस्तूक्त्यनन्तरमित्येतत् । सर्वनामभ्यां विद्वानुक्तः ।
तमेव सुप्तं सर्वकालुष्यविनिर्मुक्तं वक्ति —
सम्प्रसाद इति ।
अस्मादभिमानद्वयविषयादिति यावत् । शरीरशब्दो देहद्वयार्थः ।
ततः समुत्थानं विविक्तात्मज्ञानवत्त्वं तत्फलं स्वरूपेणाभिनिष्पत्तिस्तत्त्वसाक्षात्कारस्तत्फलमाह —
परमिति ।
उपसम्पद्याभिनिष्पद्यत इति मुखं व्यादाय स्वपितीतिवत् ।
ज्योतिः शब्दस्य सूर्यादिविषयत्वं निषेधति —
एष इति ।
कुतो वाक्यशेषस्य जीवविषयत्वं, तत्राह —
अत्रेति ।
‘सम्प्रसादे रत्वा चरित्वा’ इत्यादि बृहदारण्यकं श्रुत्यन्तरम् ।
अवस्थावत्त्ववद्देहादुत्थानमपि जीवलिङ्गमित्याह —
तथेति ।
देहाश्रयश्चेत्कथं तस्मादुत्तिष्ठेत् तत्राह —
यथेति ।
जीवे न कश्चिदाकाशशब्दोऽस्तीत्युक्तं विनिगमनमित्याशङ्क्य ब्रह्मणि तद्धर्माभिव्यवहारात्तच्छब्दवज्जीवेऽपि वाक्यशेषलिङ्गात्तत्प्रसिद्धिः स्यादित्याह —
यथा चेति ।
चोद्यमुपसंहरति —
तस्मादिति ।
दहरशेषे जीवपरमर्शेऽपि न तेन दहरो जीवः स्यादिति नञर्थमाह —
नैतदिति ।
तत्र प्रश्नपूर्वकं हेतुमाह —
कस्मादिति ।
यदाकाशोपमितत्वं दहरस्य श्रुतं तन्न जीवे सम्भवतीति विभजते —
नहीति ।
अपहतपाप्मत्वादीनामपि दहरोक्तानां जीवे न सम्भावनेत्याह —
न चेति ।
उपाधिधर्माः पाप्मादयः ।
ब्रह्माभेदाज्जीवेऽपि सर्वमेतद्युक्तमित्याशङ्क्याह —
प्रपञ्चितं चेति ।
तर्हि पुनरुक्तिः, तत्राह —
अतिरेकेति ।
का तर्हि जीवपरामर्शस्य गतिः, तत्राह —
पठिष्यतीति ।
जीवपरामर्शो जीवस्य स्वापाधारपरात्मधीशेष इत्यर्थः ॥ १८ ॥
उक्तासम्भवस्यासिद्धिमाशङ्क्य परिहरति —
उत्तराच्चेदिति ।
चोद्यस्य वृत्तमनूद्य तात्पर्यमाह —
इतरपरामर्शादिति ।
निराकृताशङ्कोत्थाने निराकरणापर्यवसानमाशङ्क्याह —
अथेति ।
पुनस्तदुत्थाने हेतुमाह —
उत्तरस्मादिति ।
प्राजापत्ये वाक्ये जीवेऽप्यपहतपाप्मत्वादिश्रुतेरसम्भवो नेति शङ्कते इत्यर्थः ।
कथं तत्र जीवोक्तिः, तत्राह —
तत्रेति ।
प्रतिज्ञावाक्यस्य परमात्मविषयत्वमाशङ्क्याद्यपर्यायस्य जीवविषयत्वादुपक्रमस्यापि तथेत्याह —
य इति ।
ननु छायात्मैवास्मिन्पर्याये प्रतिपाद्यते, दृश्यमानत्वस्य तस्मिन्मुख्यत्वात् , नेत्याह —
द्रष्टारमिति ।
परप्रतिपत्त्यर्थं पञ्चकोशोक्तिवद्भूमप्रतिपत्त्यर्थं प्राणाद्युक्तिवच्च ब्रह्मार्थं जीवोक्तिरपि स्यादित्याशङ्क्य द्वितीयतृतीययोरपि तद्विषयत्वमाह —
एतं त्विति ।
उत्तरत्रान्यस्यानुक्तेर्नान्यार्था जीवोक्तिरित्यर्थः ।
‘अन्तर उपपत्तेः’ इत्यत्र परस्याक्षिस्थानताया दर्शितत्वादाद्यपर्यायस्य परविषयत्वादुत्तरयोरपि तद्विषयतेत्याशङ्क्याह —
य इति ।
स्वप्ने वासनामयैर्विषयैर्महीयमानता परस्यैव रुक्माभं स्वप्नधीगम्यमित्युक्तेरित्याशङ्क्याह —
तदिति ।
तदेतदिति सम्बन्धः । यत्र यस्यामवस्थायां तदेतत्स्वपनं यथा स्यात्तथा सुप्तः स्वापावस्थां प्राप्तो भवति तस्यामवस्थायामुपसंहृतकरणग्रामस्तद्व्यापारकृतकालुष्यहीनः स्वप्नमज्ञानमात्रतया विलापयन्मुक्ताद्व्यावृत्तस्तैजसानन्तरभावी प्राज्ञो ज्ञानक्रियां विना स्वरूपचैतन्येनाज्ञानसाक्षी साक्ष्यस्य देहादेः सत्तास्फूर्तिप्रदत्वेन चात्मेत्यर्थः ।
तथा चावस्थावत्त्वाज्जीवोऽयमिति श्रुत्यर्थं सङ्क्षिप्याह —
जीवमिति ।
स्वप्नावस्थातोऽन्या स्वापावस्थावस्थान्तरम् ।
तथापि तस्मिन्नपहतपाप्मत्वादि कथमित्याशङ्क्य विनापि ब्रह्मरूपतामुपास्त्या तद्धीरित्याह —
तस्येति ।
‘य आत्मापहतपाप्मा’ इत्यादिनोपक्रान्तः स परमात्मतया चतुर्थपर्याये कथ्यते, तेन तत्प्रतिपादनसिद्धिरित्याश्ङ्क्य चतुर्थपर्यायस्यापि जीवविषयत्वमाह —
नाहेति ।
अहेति निपातः खेदार्थे । खिद्यमानो हीन्द्रः प्रोवाच, अयं सुप्तः पुमानयमस्म्यहमित्येवं नात्मानमस्यामवस्थायां जानाति, नो एवेमानि भूतानि, विनाशमेवापीतो भवति, नाहमत्र भोग्यं पश्यामीत्येवं स्वापे दोषं दृष्ट्वा पुनरुपससादेत्यर्थः । तं प्रजापतिरुवाच, ‘एतं त्वेव' इति प्रकृतमेवात्मानं ते तुभ्यं पुनरपि व्याख्यास्यामि नैतस्मादन्यमित्युपक्रमार्थः ।
तथापि जीवस्यापहतपाप्मत्वाद्युपगमेऽध्यक्षादिविरोधो न हेत्वधीनस्य देहोत्तरकालं जीवेऽपि योगादित्याह —
शरीरेति ।
‘मघवन्मर्त्यं वा इदम् ‘ इत्यादिना देहसम्बन्धं निन्दित्वा तस्मादुत्थितं जीवमेवोत्तमपुरुषं ‘एष सम्प्रसादोऽस्मात् ‘ इत्यादिना दर्शयतीति योजना ।
असम्भवासिद्धि निगमयति —
तस्मादिति ।
हेत्वसिद्धिफलमाह —
अत इति ।
सिद्धान्तमादत्ते —
तं प्रतीति ।
आविर्भावस्य विशेषविषयत्वात्तदर्थस्तुशब्दो वृथेत्याशङ्क्याह —
तुशब्द इति ।
पक्षव्यावृत्तिमेव स्फुटयति —
नेति ।
इहेति दहरवाक्योक्तिः ।
पर्यायचतुष्टयस्य जीवार्थत्वात्कुतस्तदाशङ्का नेति शङ्कते —
कस्मादिति ।
सौत्रं हेतुमाह —
यत इति ।
पर्यायचतुष्टयं सप्तम्यर्थः ।
पुंलिङ्गसूचितं बहुव्रीहिसमासमाह —
आविर्भूतमिति ।
तस्य ब्रह्मत्वात्कथं जीवो विशेष्यते, तत्राह —
भूतेति ।
अविद्यातत्कार्यप्रतिबिम्बितत्वेन चिद्धातोर्जीवभावोऽभूदिति बिम्बब्रह्मैक्यज्ञानेऽपि जीवत्वोक्तिरित्यर्थः ।
स्वरूपाविर्भावेऽपि जीवस्य जीवत्वानपायात्कुतो ब्रह्मतेत्याशङ्क्य प्राजापत्यवाक्यतात्पर्यमाह —
एतदिति ।
अवस्थाविशेषविशिष्टस्य परैक्यायोगमाशङ्क्याह —
अक्षीति ।
उपजनापायवत्त्वात्प्रतिबिम्बवदनात्मा देहादिरिति वक्तुमुदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्युत्तरो ग्रन्थ इत्याह —
उदशरावेति ।
प्रकृतो द्रष्टा द्वितीयार्थः । व्युत्थापनं बाधः ।
प्रकरणविच्छेदं व्यावर्तयति —
एतमिति ।
अवस्थानां व्यभिचारित्वेन कल्पितत्वात्तदस्पृष्टं वस्तूपदेष्टुमवस्थोक्तिरिति तदुक्तिफलमाह —
स्वप्नेति ।
परं ज्योतिरित्यादिश्रुतेस्तात्पर्यमाह —
यदिति ।
परं ज्योतिरेवोपसम्पत्तव्यं श्रूयते न ब्रह्मेत्याशङ्क्याह —
यत्तदिति ।
यत्तु जीवस्य नापहतपाप्मत्वादीति, तत्राह —
तच्चेति ।
जीवस्य ब्रह्माभेदात्तद्रूपेण स्वाभाविकाविर्भूतापहतपाप्मत्वादिस्वरूपं तद्वदति वाक्यमित्यर्थः ।
कथं मिथो विरुद्ध्योर्जीवब्रह्मणोरैक्यं, तत्राह —
तदेवेति ।
विरुद्धत्वबुद्धौ कथं शास्त्रमपि तद्बोधीत्याशङ्क्याह —
नेतरदिति ।
प्रातीतिकविरुद्धाकारस्यौपाधिकत्वादागमावगतं स्वाभाविकमैक्यमविरुद्धमित्यर्थः ।
अविद्यान्वयव्यतिरेकाभ्यां संसारित्वस्याविद्यात्वं वक्तुं दृष्टान्तेनान्वयमाह —
यावदिति ।
व्यतिरेकमाह —
यदेति ।
व्युत्थापनद्वारा प्रतिबोधनमभिनयति —
नासीति ।
व्युत्थापनफलसंसारित्वमुक्त्वा तत्फलमाकाङ्क्षापूर्वकमाह —
किमिति ।
शास्त्रीयमात्मज्ञानमनूद्य तत्फलमाह —
तदेति ।
विदुषो ब्रह्मत्वे मानमाह —
स इति ।
किमित्यन्यतरस्य कल्पितत्वं, द्वयोरपि वस्तुत्वं किं न स्यात् , तत्राह —
तदेवेति ।
शरीरविशिष्टं रूपं कल्पितमन्यथा तस्मादुत्थितस्य स्वेनाभिनिष्पत्त्ययोगादित्यर्थः ।
स्वेन रूपेणाभिनिष्पत्तिरित्यत्र विरोधं चोदयति —
कथमिति ।
तत्र हेतुं सूचयति —
कूटस्थेति ।
विशेषणव्यावृत्तिमाह —
सुवर्णादीनामिति ।
पार्थिवं रजो द्रव्यान्तरम् । असाधारणो विशेषः स्वर्णत्वभास्वरत्वादिः । दाहच्छेदादिसङ्ग्रहार्थमादिपदम् ।
स्वर्णादिवन्नक्षत्रादीनामभिभावकद्रव्यसम्पर्काविनाशेऽपि स्वरूपाभिनिष्पत्तिवत्प्रकृतेऽपि स्यादित्याशङ्क्याह —
तथेति ।
स्वर्णादीनामिवेति यावत् । अभिभावकं सावित्रं तेजोऽभीष्टम् ।
दार्ष्टान्तिके वैषम्यमाह —
न त्विति ।
द्रव्यान्तरसंसृष्टं तेनाभिभूतं ततो विविक्तमभिव्यक्तिमर्हति, कूटस्थनित्यं त्वन्येनासम्पृक्तमसङ्गाद्वितीयं ततो विवेकद्वारा नाभिव्यक्तिभागित्यर्थः । वस्तुतोऽसंसर्गित्वे व्योमोदाहरणम् ।
जीवस्याभिभूतस्वरूपतया ज्ञानात्तदभिव्यक्तिः स्वरूपेणाभिनिष्पत्तिरित्याशङ्क्याह —
दृष्टेति ।
जीवस्वरूपस्यानभिव्यक्तौ दृष्टः सर्वो व्यवहारो विरुध्येत । तस्याहमिति तद्धीपूर्वकत्वात्तथा च तदनभिव्यक्तिरयुक्तेत्यर्थः ।
उक्तमेव व्यक्तीकुर्वन्नादौ तदीयं स्वरूपमनुवदति —
दृष्टीति ।
‘विज्ञानघन एव’ इत्यादिश्रुतेश्चिन्मात्रस्वभावस्तावदात्मा । तच्चैतन्यं चक्षुरादिद्वारा व्यज्यमानं दृष्ट्यादिशब्दितम् । अतो दृष्ट्यादयोऽस्य स्वरूपमित्यर्थः ।
अथोक्तं रूपमदेहस्यैव व्यज्यते सदेहस्य तद्व्यक्तिविरोधितत्वात् । न हि देहसम्बन्धे जीवस्यासाधारणं रूपं प्रकटीभवति, तत्राह —
तच्चेति ।
तामेव दृष्टिं व्याचष्टे —
सर्वो हीति ।
सदा दृश्यादिरूपं जीवस्य व्यक्तमित्यत्रार्थापत्तिमाह —
अन्यथेति ।
अनुपपत्तिमेव स्फुटयति —
तच्चेदिति ।
दृष्ट्यादिरूपं सर्वनामार्थः । निष्पत्तिरभिव्यक्तिः ।
जीवस्य सदा स्वरूपव्यक्तौ फलितमाह —
अत इति ।
कालपरिपाकनिमित्तं प्रयत्नविशेषनिमित्तं वेति सन्देहादाह —
किमिति ।
कालकृतप्रतिबन्धध्वंसोपाधिका वा पुरुषव्यापारोपाधिका वेति संशयादुक्तम् —
किमात्मिकेति ।
वस्तुतोऽसंसर्गेऽपि देहादिभिरविद्यया संसृष्टमिवास्य दृष्ट्यादिरूपम् , अतस्तद्विवेकापेक्षया स्वरूपाभिनिष्पत्तिरित्युत्तरमाह —
अत्रेति ।
वेदना हर्षादयः ।
मिथ्यासंसृष्टत्वे दृष्टान्तः —
यथेति ।
विवेकादूर्ध्वं स्वरूपेणाभिनिष्पत्तिरपि दृष्टेत्याह —
प्रमाणेति ।
उच्यत इत्युक्तितात्पर्यमाह —
प्रागपीति ।
शरीरात्समुत्थायेत्यादिश्रुत्यर्थं दर्शयन्दार्ष्टान्तिकमाह —
तथेति ।
श्रुतिकृतं अन्वयव्यतिरेकसहितया ‘योऽयंं विज्ञानमयः’ इत्यादिश्रुत्या सिद्धमिति यावत् । विवेकाज्ञानं त्वम्पदार्थशोधनम् ।
स्वरूपाभिनिष्पत्तिमेव विवेकफलभूतां विशिनष्टि —
केवलेति ।
ननु देहादुत्थानं नामोत्क्रमणं न पदार्थशोधनं, सदेहत्वं च वास्तवं नाविद्यं, प्रसिद्धिविरोधात् , तत्राह —
तथेति ।
उक्तश्रुत्यनुरोधेनेति यावत् । देहासम्बन्धिनो देहे स्थितिरित्युक्ते विरोधं निरसितुं विवेकतोऽदेहत्वमविवेकतः सदेहत्वं मान्त्रवर्णिकमित्यर्थः ।
स्वकर्मार्जिते देहे दुःखादिभोगस्यावर्जनीयत्वान्न जीवतः स्वरूपाविर्भाव इत्याशङ्क्याह —
शरीरेति ।
अशरीरवदित्यपेरर्थः । जीवतोऽपि स्वरूपस्याविर्भावः स्यादिति शेषः ।
अविरुद्धे श्रुत्यर्थे सौत्रमाविर्भावपदं युक्तमित्याह —
तस्मादिति ।
मुख्यावेव तौ किं न स्यातां, तत्राह —
न त्विति ।
ज्ञानाज्ञानाभ्यामाविर्भावानाविर्भावावित्येवं स्थिते सत्यांशांशित्वादिकृतो भेदोऽपि निरस्त इत्याह —
एवमिति ।
न्यायसहितश्रुत्या जीवब्रह्मणोर्भेदो मिथ्येत्युक्तम् । सम्प्रति प्राजापत्यवाक्यादपि तद्भेदो मिथ्येत्याह —
कुतश्चेति ।
एतद्भिन्नस्य जीवस्याप्रतिपाद्यत्वात् । तन्नास्तित्वमेवमित्युच्यते ।
कुतःशब्दोक्तं हेत्वन्तरं स्फोरयति —
यत इति ।
अतो ब्रह्म प्रत्यग्भूतमत्र प्रतिपाद्यमिति शेषः ।
उक्तं व्यतिरेकेण विवृणोति —
योऽक्षिणीति ।
श्रुतिलिङ्गाभ्यां केवलं जीवलिङ्गं बाधित्वा जीवो ब्रह्मतयोच्यते नान्यत्वेनेत्यर्थः ।
प्रतीकाभिप्रायेण छायया ब्रह्मणः सामानाधिकरण्यं न जीवेनेति नास्ति लिङ्गमित्याशङ्क्याह —
नापीति ।
उपास्तिविध्यश्रवणात्प्रतिपादकत्वसम्भवे प्रतीकोक्तिकल्पनायोगादात्मान्वेषणाय प्रवृत्तयोः सुरासुरराजयोरनात्मानं वदन्प्रजापतिर्मृषावादी विप्रलम्भकः स्यादतो ब्रह्मणो जीवेन सामानाधिकरण्याल्लिङ्गसिद्धिरित्यर्थः ।
द्वितीये पर्याये जीवस्यावस्थावेैशिष्ट्यदृष्टेराद्येऽपि पर्याये न ब्रह्मैक्यमिष्टमित्याशङ्क्याह —
तथेति ।
आद्ये पर्याये जीवब्रह्मसामानाधिकरण्यात्तदैक्यवदित्यर्थः । अवस्थानां व्यभिचारित्वाज्जीवस्यासङ्गत्वाद्युक्तां द्वितीयपर्यायस्यैक्यपरतेति भावः ।
अवस्थाव्यभिचारे तद्वतोऽपि तद्भावात्कुतोऽसङ्गतेत्याशङ्क्याह —
किञ्चेति ।
आत्मनो ज्ञानरूपत्वात्तस्य च स्वापेऽभावात्कथं तदव्यभिचारितेत्याशङ्क्याह —
तथेति ।
पर्यायद्वयं दृष्टान्तयितुं तथेत्युक्तम् । विज्ञातृनिषेधे परामार्शासिद्धिरिति भावः ।
ज्ञातुरभावोक्तिरपि तत्रास्तीत्याशङ्क्याह —
यत्त्विति ।
तत्र बृहदारण्यकश्रुतिं संवादयति —
न हीति ।
आत्मनः स्वभावभूतविज्ञप्तेर्नान्यथाभावो योग्यत्वादित्यर्थः ।
पर्यायत्रयवच्चतुर्थपर्यायालोचनायामपि ब्रह्माव्यतिरिक्तजीवस्य प्रतिपाद्यत्वमित्याह —
तथेति ।
कथमुपहितस्यानुपहितपरैक्यमित्याशङ्क्याह —
मघवन्निति ।
सम्प्रसादस्यैव परेणैक्यमुच्यते न जीवस्येत्याशङ्क्याह —
सम्प्रसादेति ।
स्वरूपेणाभिनिष्पत्तिवचनाद्ब्रह्मस्वरूपापन्नत्वेऽपि न ततोऽन्यत्वं निरस्यते भिन्नाभिन्नत्वादित्याशङ्क्य विरोधादेकोपाद्यौ तदयोगादभेदाभावे स्वरूपाभिनिष्यत्तेरयुक्तत्वात्तद्गतभेदस्य कल्पितत्वमेवेत्याह —
नेति ।
एकदेशिव्याख्यामनुवदति —
केचित्त्विति ।
जीवस्यापहतपाप्मत्वाद्ययोगात्तदाकर्षणस्यान्याय्यत्वम् ।
कथं तर्हि प्रकृतानुगुणतया वाक्यं व्याख्यायते, एतच्छब्देन पूर्वपर्यायेषु प्रकृतजीवानाकर्षणे तदालम्बनाभावाद्वाक्यार्थधियोऽनुदयात् , तत्राह —
एतमिति ।
सर्वनामश्रुत्या दूषयति —
तेषामिति ।
किञ्चोपक्रमसूचितोऽर्थश्चतुर्थ एव पर्याये सर्वनामार्थः, सर्वत्र वा । तत्राद्यं प्रत्याह —
भूयःश्रुतिश्चेति ।
उपक्रान्तोऽर्थः सर्वत्र सर्वनामार्थोऽपि न प्रतिपाद्यकोटिनिवेशीति द्वितीयमाशङ्क्याह —
एतं त्विति ।
स्वयूथ्यमतायोगे फलितमाह —
तस्मादिति ।
ब्रह्मैव जीवस्तदित्थं कथमित्याशङ्क्याह —
कर्त्रिति ।
तस्य विलापनयोग्यतामाह —
अनेकेति ।
कथं तर्हि तत्परिहार्या पारमार्थिकरूपापत्तिरित्याशङ्क्य सदृष्टान्तमाह —
तदिति ।
रज्ज्वादीनेषा रज्जुरित्यादिविद्यया पुरोवर्त्यधिष्ठानत्वमिति शेषः ।
पौर्वापर्यालोचनया प्राजापत्यवाक्ये जीवानुवादेन ब्रह्मत्वं तस्येष्टमित्युक्तम् । सम्प्रति सूत्रसामर्थ्यात्प्रत्यक्षादिप्रामाण्याच्च जैवं रूपं वास्तवमिति मतान्तरमाह —
अपरे त्विति ।
शारीरकमेव तेषामुत्तरमित्याह —
तेषामिति ।
तत्प्रतिषेधार्थं नैतदारब्धं, सम्यग्ज्ञानार्थत्वादित्याशङ्क्याह —
आत्मेति ।
कथमिदमेव तेषामुत्तरमित्युक्ते तदर्थं सङ्गृह्णाति —
एक इति ।
तस्य परिणामित्वं वारयति —
कूटस्थेति ।
ज्ञानादिगुणवत्त्वं प्रत्याह —
विज्ञानेति ।
कथं तस्यैकत्वं, चेतनाचेतनाभेदधीविरोधादित्याशङ्क्याह —
अविद्ययेति ।
माया ततोऽन्येति वादं व्युदसितुं माययेत्युक्तम् । साधारणासाधारणप्रपञ्चभेदस्याप्रामाणिकत्वात् , अविद्यादिभेदे च मानाभावात् , एकस्मादेवाज्ञानाद्विचित्रशक्तितो विश्वधीसम्भवे तद्भेदे गौरवान्न सोऽस्तीत्यर्थः ।
एकस्यानेकधा भानं नाविद्ययापि दृष्टमित्याशङ्क्य विवर्तानुगुणं दृष्टान्तमाह —
मायावीति ।
‘नान्योऽतोऽस्ति’ इत्यादिश्रुतेरवधारणार्थमाह —
नेति ।
शारीरकार्थसङ्क्षेपसमाप्तावितिशब्दः ।
श्रुतिसामर्थ्यादतिरिक्तजीवाभावेऽपि सूत्रसामर्थ्यादन्यो जीवोऽस्तीत्यशङ्क्याह —
यत्त्विति ।
आदिशब्देन ‘नेतरोऽनुपपत्तेः’ इति गृह्यते ।
संसारिणो जीवाद्भेदोक्त्या यावदीश्वरस्यासंसारित्वं नोच्यते तावदभेदव्यपदेशेऽपि जीवस्यासंसारित्वं न सिध्यतीत्यापातिकं भेदं सूत्रकारोऽनुवदतीत्याह —
तत्रेति ।
तत्र तत्र श्रुतिस्मृतीतिहासपुराणेषु प्रमितं परमात्मरूपनूद्य ततो विपरीतं प्रातीतिकं जीवरूपं तत्र कल्पितमिति सोदाहरणमाह —
नित्येति ।
कथं तर्हि तस्य निरसनमित्याशङ्क्याह —
तदात्मेति ।
वाक्यानि तत्त्वमसीत्यादीनि । जीवब्रह्मणोश्चैतन्याविशेषात्तदाकारेणाकारान्तरेण वा भेदायोगो न्याय्यः । ‘नेह नाना’ इत्यादयो द्वैतवादनिषेधाः ।
परस्य जीवादन्यत्वे तस्यापि ततोऽन्यत्वं स्यादिशङ्क्याह —
जीवस्येति ।
अधिष्ठानस्यारोप्यादन्यत्वेऽपि न तस्याधिष्ठानादन्यतेत्यर्थः ।
कथं तर्हि तस्य परस्मादन्यत्वं, तत्राह —
किन्त्विति ।
अनुवादस्य प्रमित्यपेक्षां प्रत्याह —
अविद्येति ।
अपूर्वत्वाभावाच्च तस्याप्रतिपाद्यतेत्याह —
लोकेति ।
जीवभेदस्याप्रामाणिकत्वे कुतो निरधिकाराणां विधीनां प्रामाण्यमित्याशङ्क्यानुवादफलमाह —
एवं हीति ।
ननु जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति किन्तु सर्वत्र भेदमेवातो नैक्यमिष्टं, तत्राह —
प्रतिपाद्यन्त्विति ।
आदिपदं ‘आत्मेति तूपगच्छन्ती’ त्यादिसङ्ग्रहार्थम् ।
‘विद्वान्यजेत’ इत्यादिश्रुत्या कर्मस्वात्मविदोऽधिकारात्कर्तृत्वादेर्वास्तवत्वे कुतो जीवस्य ब्रह्मैक्यं तदैक्ये वा कुतो विधिविरोधो नेत्याशङ्क्य विशिष्टस्यामुख्यात्मत्वात्तद्विदश्च कर्माधिकारान्मुख्यात्मविद्यावतस्तत्त्यागाधिकारान्न काण्डयोर्विरोधोऽस्तीत्युक्तं स्मारयति —
वर्णितश्चेति ॥ १९ ॥
जीवानुवादेन ब्रह्मताविधाने विरोधाभावात्प्राजापत्ये वाक्ये जीवस्याप्रतिपाद्यत्वान्न तदवष्टम्भेन दहरवाक्ये जीवाशङ्केत्युक्तम् । इदानीं दहरवाक्यशेषस्य गतिमाह —
अन्यार्थश्चेति ।
सूत्रव्यावर्त्याशङ्कामाह —
अथेति ।
वाक्यभेदप्रसङ्गं हेतूकृत्योक्तम् —
न जीवेति ।
प्रकृतो विशेषो दहराकाशस्तस्यापि नायमुपदेशस्तस्याजीवत्वादित्याह —
नेति ।
उत्तरत्वेन सूत्रमवतार्य व्याकरोति —
अत इति ।
अन्यार्थत्वमेवाकाङ्क्षाद्वारा स्फोरयति —
किं तर्हीति ।
सम्प्रसादपदे जीववादिनि श्रुते नेश्वरपरत्वं वाक्यस्येत्याक्षिपति —
कथमिति ।
व्याख्यया वाक्यस्य परस्मिन्नेव तात्पर्यमाह —
सम्प्रसादेति ।
तादात्म्यविषयत्वं सम्बन्धविषयत्वं चोभयरूपत्वं देहद्वयविषयत्वं वा ।
यत्तु जीवस्य नापहतपाप्मत्वादिति, तत्राह —
यदीति ।
जीवपरामर्शस्य गतिमुक्त्वा दहरश्रुतेः शङ्काद्वारा गतिमाह —
अल्पेति ॥ २० ॥
शङ्काभागं विभजते —
यदपीति ।
तस्य परममहत्त्वादित्यर्थः ।
जीवेऽपि कथमल्पा श्रुतिर्महत्त्वाविशेषात् , तत्राह —
जीवस्येति ।
तदुक्तमित्येतद्व्याचष्टे —
उक्तो हीति ।
तमेव स्मारयति —
परमेति ।
कुत्रेदं समाधानमुक्तं, तत्राह —
अर्भकेति ।
तथापि परस्य परममहतो नास्ति दहरत्वमित्यत्र किमायातं, तत्राह —
स एवेति ।
तदुक्तमित्यस्य व्याख्यान्तरमाह —
श्रुत्येति ।
तदेवं श्रुतिलिङ्गाभ्यां दहरवाक्यं ध्येये परस्मिन्नन्वितं, प्राजापत्यवाक्यं तु ज्ञेये परस्मिन्नन्वितमिति स्थितम् ॥ २१ ॥
‘परं ज्योतिरुपसम्पद्य’ इत्यादिवाक्यार्थविचारप्रसङ्गात् ‘तच्छुभ्रं ज्योतिषां ज्योतिः’ इति वाक्योक्तपरञ्ज्योतिष्ट्वासाधकं न तत्रेत्यादिवाक्यं विमृशति —
अनुकृतेरिति ।
आथर्वणवाक्यमादत्ते —
न तत्रेति ।
सूर्यस्यानाभासकत्वेऽपि रात्राविव चन्द्रादेर्भासकत्वं, नेत्याह —
नेति ।
विद्युतामपि फल्गुत्वमनुभवसिद्धमिति मत्वोक्तम् —
नेमा इति ।
कैमुतिकन्यायमाह —
कुत इति ।
इतश्च सूर्यादेर्न ब्रह्मणि भासकत्वमित्याह —
तमेवेति ।
अनुगमनवदनुभानं स्वगतभानकृतमित्याशङ्क्याह —
तस्येति ।
उक्ते वाक्ये विषयंं निष्कृष्य सप्तम्याः सति विषये च साधारण्यहेतोः संशयमाह —
तत्रेति ।
पूर्वत्रात्मश्रुत्याद्यविरोधादाकाशशब्दस्य रूढित्यागेनेश्वरे वृत्तिरुक्ता, तथेहापि सतिसप्तम्यां योग्यानुपलब्धिविरोधान्न भातीत्यस्य वर्तमानार्थतात्यागाद्यस्मिन्सति सूर्यो न भास्यति स तेजोधातुरुपास्यत्वेनोच्यत इति पूर्वपक्षमाह —
तेज इति ।
उक्ताथर्वाणश्रुतेर्निर्विशेषे ज्ञेये ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे तेजोधातोर्ध्यानं, सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः ।
सप्तम्या विषयेऽपि सम्भवादध्याहारस्यायुक्तत्वान्न तेजोधातुरिति शङ्कते —
कुत इति ।
विषयसप्तम्या णिजध्याहारादितरत्र लिङ्गानुग्रहात्तेजोधातुरेवायमित्याह —
तेजोधातूनामिति ।
कुतोऽस्य तेजोधातोर्लिङ्गतेत्याशङ्क्याह —
तेजःस्वभावकमिति ।
प्रसिद्धिमनुरुध्य दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह —
तथेति ।
यस्मिन्सति यन्न भाति तत्तमनुभातीति विरुद्धमिति कुतः सतिसप्तमीत्याशङ्क्याह —
अनुभानमिति ।
तमनुभातीति तदपेक्षया निकृष्टप्रकाशत्वमिष्टमित्यर्थः ।
अनुभानस्याविरोधित्वात्प्रागुक्तलिङ्गाच्च कस्यचित्तेजोधातोरुपास्यतात्राभीष्टेत्युपसंहरति —
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञामध्याहरति —
एवमिति ।
लिङ्गसिद्धं तेजोधातुं त्यक्त्वा कुतोऽयं नियमः स्यादिति शङ्कते —
कस्मादिति ।
हेतुमादाय व्याकरोति —
अनुकृतेरिति ।
किं तदनुकरणं, तदाह —
यदेतदिति ।
तेजसामनुभानं कथं प्राज्ञं ज्ञापयतीत्याशङ्क्य श्रुत्यन्तरे तस्य भारूपत्वावधारणादित्याह —
भारूप इति ।
तेजोन्तरे मानाभावाच्च न तदिह ग्राह्यमित्यनुभानस्यान्यथासिद्धिं निराह —
नत्विति ।
न चेदमेव वाक्यं तत्र मानमन्यपरस्य मानान्तरविरोधे देवताधिकरणन्यायानवतारादिति भावः ।
विरोधाच्चानुभानं परपक्षे न स्यादित्याह —
समत्वाच्चेति ।
ननु सूर्यादयश्चाक्षुषं तेजोऽपेक्ष्य भासन्ते, चक्षुष्मतस्तद्भानात् , तत्राह —
यमिति ।
चक्षुषोऽनुद्भूतप्रकाशत्वाज्जन्यज्ञानविषयत्वे सूर्यादेर्न सजातीयापेक्षेति भावः ।
तदेव दृष्टान्तेन स्पष्टयति —
नहीति ।
पूर्ववादिनोक्तमनुभाषते —
यदपीति ।
गच्छन्तमनुगच्छतीति समानस्वभावकेष्वनुकारादनुभानात्तेजसां सूर्यादीनां सति यस्मिन्भानं निषिध्यते सोऽपि कश्चित्तेजोधातुरित्यनुवादार्थः ।
अनुकारः स्वभावसाम्यमपेक्षते, क्रियासाम्यं वा । नाद्य इत्याह —
नायमिति ।
द्वितीयमङ्गीकुर्वन्नाह —
भौमं वेति ।
अग्न्ययःपिण्डयोर्दहनक्रियाभेदाभावेऽपि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासाम्यम् । वायुरजसोस्तु नियतदिग्देशगमनमस्त्येव । प्रकृतेऽपि सूर्यादेर्ब्रह्मणश्च तुल्यं भानमिति भावः ।
हेतोरसूत्रानुसारित्वमाशङ्क्योक्तम् —
अनुकृतेरितीति ।
सूत्रस्य द्वितीयं पदं हेत्वन्तरत्वेनावतारयति —
तस्य चेति ।
चतुर्थपादोपात्तं हेत्वन्तरं स्फोरयति —
तस्येति ।
कथमेतावता तस्य प्राज्ञत्वंं, तत्राह —
तदिति ।
स्वपक्षे मानमुक्त्वा परपक्षे तदभावमाह —
तेजोन्तरेणेति ।
न केवलं मानाभावः, तद्विरोधश्चेत्याह —
विरुद्धं चेति ।
प्रकृतसूर्यादिविषयतया सर्वशब्दो व्याख्यातः । सम्प्रति तस्याः सङ्कुचद्वृत्तित्वं मत्वा व्याख्यान्तरमाह —
अथवेति ।
कुतो ब्रह्मज्योतिर्गतविकारातिरेकेण तत्सत्तामात्रायत्तं सर्वभानं, तत्राह —
यथेति ।
प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —
नेति ।
सर्वनाम्ना प्रकृतपरामर्शेऽपि कुतो ब्रह्म गृह्यते तत्राह —
प्रकृतं चेति ।
प्रकृतमपि ब्रह्म व्यवहितत्वान्नेह सम्बन्धार्हमित्याशङ्क्याह —
अनन्तरं चेति ।
हिरण्मयो ज्योतिर्मयोऽन्नमयाद्यपेक्षया परश्चायं कोशो यमानन्दमयमाचक्षते, तत्र ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति यत्प्रतिष्ठाभूतं ब्रह्म तत्प्रतिष्ठितं, तच्च विरजमागन्तुकमलविकलं, निष्कलं निरवयवं, शुभ्रं नैसर्गिकदोषरहितम् । ज्योतिषां सूर्यादीनां ज्योतिरवभासकम् । तच्च विदुषामनुभवसिद्धमित्यर्थः ।
उदाहरणमपेक्ष्याव्यवहितं ब्रह्मेत्युक्तम् । संप्रत्यपेक्षितानपेक्षिताभिधानयोरपेक्षिताभिधानं न्याय्यमाकाङ्क्षापूरकत्वेन दृष्टार्थत्वादिति विवक्षित्वोक्तम् —
कथमित ।
स्पष्टब्रह्मवादिपूर्वमन्त्राकाङ्क्षापूरकत्वादुत्तरोऽपि मन्त्रो ब्रह्मपर इत्यर्थः ।
सतिसप्तमीमादायोक्तमनुभाषते —
यदपीति ।
सूर्याद्यभिभावके तेजोधातौ प्रामाणिके तस्येह ग्रहो न वेति चिन्ता ।
तद्भावे मानाभावान्न सोऽस्तीत्याह —
तत्रेति ।
ननु ब्रह्मणि प्रामाणिकेऽपि तस्मिन्सति सूर्यादयो न भान्ति तस्य सदाभावात्तेषां सदाभानाभावप्रसङ्गात् , तत्राह —
ब्रह्मणीति ।
तत्रेति न सतिसप्तमी किन्तु विषयसप्तमी । ततो ब्रह्मणि विषये सूर्यादयो न भान्ति ब्रह्मैव तेषु प्रकाशकत्वेन भवतीत्यर्थः । यद्वा सतिसप्तमीं गृहीत्वा तेजोन्तरोक्तौ न भातीति वर्तमानापदेशे मानान्तरविरोधान्न भास्यतीति लक्षणायां श्रुतत्यागेनाश्रुतस्वीकारे गौरवात्तदत्यागेनाध्याहारे लाघवान्न भासयतीति णिजर्थमध्याहृत्य सूर्याद्यभास्यं ब्रह्मैव तद्भासकमिहाभीष्टमिति भावः ।
यस्माद्धटादिरुपलभ्यते तदपि ब्रह्मणोपलभ्यते चेद्ब्रह्मापि केनचिदन्येनोपलभ्येताविशेषादित्याशङ्क्याह —
ब्रह्म त्विति ।
येनोपलभ्यत्वेन सूर्यादयस्तस्मिन्ब्रह्मणि विषये भायुस्तथा ब्रह्म नान्येनोपलभ्यते स्वयञ्ज्योतिःस्वरूपत्वादन्यकृतोपलम्भानपेक्षणादित्यक्षरयोजना ।
तदुपपादयति —
ब्रह्म हीति ।
स्वप्रकाशस्य प्रकाश्यत्वादर्शनादशेषप्रकाशकं ब्रह्म नान्यप्रकाश्यमित्यर्थः ।
ब्रह्मणः स्वयञ्ज्योतिष्ट्वेन सर्वभासकत्वे मानमाह —
आत्मनेति ।
तस्यान्यानवभास्यत्वेऽपि श्रुतिमाह —
अगृह्य इति ॥ २२ ॥
णिजध्याहारेण ब्रह्मणः सूर्याद्यविषयत्वे श्रुत्युक्ते स्मृतिमाह —
अपीति ।
सूत्रं व्याकरोति —
अपि चेति ।
तत्राग्राह्यत्वे स्मृतिमाह —
न तदिति ।
ग्राहकत्वेऽपि तामाह —
यदादित्येति ।
तदेवं ‘न तत्र’ इत्यादिवाक्यं ज्योतिषां ज्योतिषि ज्ञेये परस्मिन्नन्वितमिति ॥ २३ ॥
परस्य ज्योतिष्ट्वोक्ते ज्योतिरिवेत्युपमीयमानपुरुषस्य ततोऽर्थान्तरत्वमाशङ्क्योक्तम् —
शब्दादिति ।
काठकवाक्यं पठति —
अङ्गुष्ठेति ।
स्वाभाविकं परिच्छेदं वारयति —
पुरुष इति ।
पूर्णत्वात्सर्वत्रोपलब्धेर्नाङ्गुष्ठमात्रतेत्याशङ्क्य विशेषव्यक्तिस्थानद्वारा तद्योगमाह —
मध्य इति ।
आत्मनि देहे मध्ये हृदयसद्मनीत्यर्थः ।
तस्यैव परात्मत्ववादिवाक्यान्तरमाह —
तथेति ।
अधूमकं ज्योतिरकलुषितमेकरूपं प्रकाशमात्रं यथा दृष्टं तथायमपि कूटस्थप्रकाशधातुरित्याह —
ज्योतिरिति ।
ज्योतिःपरत्वादधूमकमिति लिङ्गव्यत्ययः ।
शोधितत्वमर्थस्य तदर्थतामाह —
ईशान इति ।
भूतभव्यग्रहणं भवतोऽपि प्रदर्शनार्थम् । कालत्रयपरिच्छेद्यस्य नियन्तेति यावत् ।
अद्वितीयत्वमाह —
स एवेति ।
वर्तमाने काले स एवास्ति, श्वो भविष्यत्यपि काले स एव भविता, अतीतेऽपि काले स एवासीत् ।
यन्नचिकेतसा पृष्टम् ‘अन्यत्र धर्मात् ‘ इत्यादिना, तदेतदेवेत्याह —
एतदिति ।
विषयमनूद्य परिमाणोक्तेरीशानशब्दाच्च संशयमाह —
तत्रेति ।
पूर्वत्रानुभानादिना विषयसप्तम्या णिजध्याहारेण सूर्यादेरगोचरो ब्रह्मेत्युक्तं, तथेहापि परिमाणलिङ्गाज्जीवमादायेशानोऽस्मीति चेतो धारयेदिति विध्यध्याहारेणोपास्तिपरं वाक्यमिति पूर्वपक्षयित —
तत्रेति ।
पठितकाठकश्रुतेर्निर्विशेषेप्रत्यग्ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवस्योपास्तिः, सिद्धान्ते तस्यैव परात्मतया धीरिति फलभेदः ।
परस्योपासनायै क्वचित्परिमाणोक्तावपि वस्तुपरत्वेन त्वदिष्टे वाक्ये तदयोगाज्जीवग्रहोऽत्रेति मत्वोक्तम् —
परिमाणेति ।
श्रुतेरेव लिङ्गाद्बलीयस्त्वादीशानश्रुत्या परमात्मावगतौ कुतो जीवशङ्केत्याशङ्क्य परमात्मनि परिमाणोक्तेरत्यन्तबाधाज्जीवे कतिपयेशितृत्वादीशानत्वसिद्धेर्गौणी श्रुतिरित्याशयेनाह —
नहीति ।
जीवस्यापि विभुत्वादुक्तपरिमाणासिद्धिरित्याशङ्क्याह —
विज्ञानेति ।
कयाचिदिति हृदयकमलकोशस्य जीवोपलब्धिस्थानस्याङ्गुष्ठमात्रतयेत्यर्थः ।
किञ्च यथा सति विषये च साधारणी सप्तमी ‘न तद्भासयते’ इति स्मृत्या विषये व्यवस्थापिता, तथा परिमाणमपि जैवमैश्वरं वेति संशये सति ‘अङ्गुष्ठमात्रं निश्चकर्ष’ इति स्मृत्या निश्चयसिद्धिरित्याह —
स्मृतेश्चेति ।
मरणानन्तर्यमथशब्दार्थः ।
तत्रापि वरमात्मैव प्रतिपाद्योऽस्तु, नेत्याह —
नहीति ।
‘प्रभवति संयमने ममापि विष्णुः’ इति यमस्य तदधीनत्वस्मृतेरित्यर्थः ।
स्मृतेः संसारिविषयत्वं निगमयति —
तेनेति ।
निश्चितार्थस्मृत्या सन्दिग्धार्थश्रुतेरपि जीवार्थतैवेत्याह —
स इति ।
वाक्यस्य जीवगामित्वे स्थिते तस्येशानोऽस्मीति ध्यानं फलतीत्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —
एवमिति ।
जीवे लिङ्गसिद्धे नियमासिद्धिरित्याह —
कस्मादिति ।
श्रुतिलिङ्गयोः श्रुतिर्बलीयसीति मत्वा हेतुमाह —
शब्दादिति ।
जीवेऽपि कतिपयेशितृत्वादविरुद्धा श्रुतिरित्युक्तं, तन्न, भूतभव्यस्येत्यविशेषश्रुतेरित्याह —
नहीति ।
प्रकरणमपीश्वरविषयमित्याह —
एतदिति ।
उक्तमर्थं वाक्ययोजनया स्पष्टयति —
एतद्वा इति ।
जीवस्यैव पृष्टत्वेन प्रकृतत्वमाशङ्क्योक्तम् —
पृष्टं चेति ।
उपहिते तु जीवे कालत्रयापरिच्छेद्यत्वं कार्यकारणास्पृष्टत्वं च दुर्योजमिति भावः ।
सूत्रे शब्दादिति वाक्योक्तेस्तस्य लिङ्गाद्दुर्बलत्वाद्बलवतो लिङ्गाज्जीवोक्तिः स्यादित्याशङ्क्याह —
शब्दादिति ।
श्रुतिलिङ्गविरोधे श्रुतिरेव बाधिका न लिङ्गमिति मर्यादां वक्तुं सूत्रभाष्ययोरेवकारः ॥ २४ ॥
सिद्धान्ते परस्य विभुत्वादङ्गुष्ठमात्रत्वमयुक्तमित्युत्तरसूत्रव्यावर्त्यमाह —
कथमिति ।
सूत्रमवतारयति —
अत्रेति ।
तदवयवं व्याचष्टे —
सर्वेति ।
तुशब्दसूचितं दृष्टान्तमाह —
आकाशस्येति ।
करः सकनिष्ठिकोऽरत्निः ।
किमिति हृद्यवस्थानादङ्गुष्ठमात्रत्वं परस्य गौणमिष्टं, तत्राह —
न हीति ।
तर्हि परिमाणमुख्यत्वाय जीव एव गृह्यतां, नेत्याह —
न चेति ।
मुख्यसम्भवे गौणमुख्ययोर्मुख्ये संप्रत्ययो मुख्यासम्भवश्चात्रोक्तस्तेन गौणं परिमाणमित्यर्थः ।
सूत्रावयवव्यावर्त्यां शङ्कामाह —
नन्विति ।
तदुत्तरत्वेन तं पातयति —
अत इति ।
स्वर्गकामादिवाक्ये स्वर्गादिकामिन एवाविशेषेणाधिकारित्वं न मनुष्यस्येत्याशङ्क्याह —
शास्त्रमिति ।
मनुष्यशब्दस्त्रैवर्णिकविषयः । तेषां शास्त्राधिकारे हेतुमाह —
शक्तत्वादिति ।
तेन तिरश्चां देवतानामृषीणां चाधिकारो वारितः । तिर्यञ्चो वेदार्थज्ञानादिसामग्र्यभावाद्व्यक्तमशक्ताः । देवानां स्वदेवत्ये कर्मण्यात्मोद्देशेन द्रव्यत्यागायोगादशक्तिः । ऋषीणामार्षेयवरणादौ तदभावात् ।
स्थावराणां मुमुक्षूणां च कर्मण्यधिकारं निवर्तयति —
अर्थित्वादिति ।
मुमुक्षोः शुद्ध्यर्थं नित्येष्वधिकारेऽपि काम्येषु तदभावः ।
शूद्राधिकारं वारयति —
अपर्युदस्तत्वादिति ।
ते हि ‘शूद्रो यज्ञेऽनवक्लृप्तः’ इति पर्युदासान्न वैदिके कर्मण्यधिकारिणः ।
तत्रैव हेत्वन्तरमाह —
उपनयनादीति ।
न हि शूद्राणामेकजातित्वस्मृतेरुपनयनं, तदभावे कुतोऽध्ययनं, तस्य तदङ्गत्वात् , अध्ययनाभावे कुतस्तदर्थेऽधिकारः ।
अत्र चापेक्षितन्यायस्य षष्ठेऽध्याये सिद्धत्वान्नेह तदर्थं यत्यत इत्याह —
इति वर्णितमिति ।
फलार्थे कर्मणि तिर्यगादेरपि सुखकामस्याधिकारः स स्वर्गकामश्रुतेरविशेषादित्याशङ्क्याङ्गश्रुत्यर्थवत्त्वाय समर्थविषयतया तिर्यगादेस्तदभावेन स्वर्गकामपदं सङ्कोच्य मनुष्याधिकारत्वे स्थिते चातुर्वर्ण्यमधिकरोति शास्त्रमिति प्रापय्य ‘वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः’ इति त्रयाणामेवाग्निसम्बन्धश्रवणात्तेषामेवाधिकार इति प्रतिष्ठापितमित्यर्थः ।
मनुष्याणामपि कथमुच्चावचावयवानां नियतपरिमाणं हृदयं, तत्राह —
मनुष्याणां चेति ।
अस्मदादिदेहस्यापि परिमाणमनियतं दृष्टं, तत्राह —
औचित्येनेति ।
देहस्य नियतपरिमाणत्वेऽपि हृदयस्य किमायातं, तदाह —
नियतेति ।
परस्मिन्परिमाणोक्तेर्योगमुपसंहरति —
अत इति ।
अङ्गुष्ठमात्रपुरुषस्य जीवत्वेऽपि वाक्यस्य परार्थतेति वक्तुमुक्तमनुवदति —
यदपीति ।
परमात्मपरे वाक्येऽनूद्यमानजीवस्थमङ्गुष्ठमात्रत्वं प्रतिपाद्यमानपरात्मधर्मविरोधाद्बाध्यं, प्रतिपाद्यस्य तात्पर्यविषयत्वादित्याह —
तदिति ।
परमात्मपरे वाक्ये तस्यैव वक्तव्यत्वे कुतो जीवोक्तिरित्याशङ्क्य वाक्यप्रवृत्तेर्वौरूप्यमाह —
द्विरूपेति ।
कथं प्रकृते वाक्यप्रवृत्तिः, तत्राह —
तदत्रेति ।
न हि परैक्यं जीवस्योक्तिं विना शक्यं वक्तुमिति तदुक्तिरित्यर्थः ।
प्रत्यक्षादिविरोधे किमुत्तरं, तत्राह —
एतमिति ।
विरुद्धांशत्यागेनाविरुद्धांशलक्षणयैक्ये वाक्यार्थे न विरोधधीरित्यर्थः । यतोऽन्तरात्मा पुरुषत्वात्पूर्णोऽपि जनानां हृदये सदा सन्निविष्टस्ततोऽङ्गुष्ठमात्र इति त्वमर्थानुवादः ।
तस्यान्वयव्यतिरेकाभ्यां तदनुसारिश्रुत्या च शोध्यत्वमाह —
तमिति ।
शरीरं स्थूलं सूक्षमं च । प्रवृहेत्पृथक्कुर्यात् । धैर्येण शमादिनेति यावत् ।
तं च विविक्तमात्मानं विशुद्धममृतं ब्रह्मैव जानीयादित्याह —
तमिति ।
तदेवं काठकवाक्यं प्रत्यग्ब्रह्मणि ज्ञातव्ये समन्वितमिति ॥ २५ ॥
मनुष्याधिकारत्वादित्युक्तेरमनुष्याणां देवादीनामनधिकारमाशङ्क्योक्तम् —
तदुपर्यपीति ।
निर्गुणविद्याहेतुवेदान्तविचारादिषु देवादीनामधिकारोऽस्ति न वेति सामर्थ्याद्यसम्भवसम्भवाभ्यां सन्देहे शास्त्रसाङ्गत्येऽपि लक्षणासङ्गतेयं चिन्तेत्यशङ्क्य प्रासङ्गिकीं सङ्गतिमाह —
अङ्गुष्ठेति ।
अत्र चाधिकारनिरूपणद्वारा मन्त्रार्थवादादीनां प्राप्तिविरोधयोरसतोर्देवताविग्रहादावन्वयोक्तेरध्यायसङ्गतिः । मन्त्रादिप्रामाण्ये न्यायसाम्यादुपसदनादिगिरामधिकार्यादिसमर्पकाणां श्रुतेऽर्थे प्रामाण्यात्तत्त्वमादिवचसोऽपि ब्रह्मैक्ये पर्यवसानमिति श्रुतिशास्त्राध्यायपादसङ्गतयः । पूर्वपक्षे मन्त्राद्यप्रामाण्यादुपगमनादिगिरामपि स्वार्थे तदयोगात्तत्त्वमादेरपि नैक्यनिष्ठतेति फलम् । सिद्धान्ते तत्तत्प्रामाण्यस्य तत्तदर्थे सम्भवात्तत्त्वमस्यादेरपि सम्भवत्यैक्यनिष्ठतेति फलम् । यद्वा देवतादीनामनधिकारन्यायेन क्रममुक्तिफलोपास्तिषु भोगद्वारा मोक्षकाममनुष्यप्रवृत्तिरप्यनियतेति पूर्वपक्षे फलम् । सिद्धान्ते देवाद्यधिकारविचारस्य देवादिप्रवृत्त्यङ्गत्वाभावेऽपि यथोक्तोपास्तिषु मनुष्यप्रवृत्त्यर्थं साक्षान्मोक्षफलनिर्गुणविद्यायां तेषामपि प्रवृत्तिरिति प्रयोजनम् ।
तत्रादौ सिद्धान्तमेव दर्शयन्मनुष्याधिकारत्वं शास्त्रस्यायोगव्यवच्छेदादन्ययोगव्यवच्छेदाद्वेति विकल्प्याद्यमङ्गीकरोति —
बाढमिति ।
द्वितीयं दूषयति —
नत्विति ।
नियमाभावं सूत्राक्षरव्याख्यया विशदयति —
तेषामिति ।
ब्रह्मविद्यातदङ्गविधयो देवादीन्नाधिकुर्वन्ति, वैदिकविधित्वात् , अग्निहोत्रादिविधिवदिति शङ्कते —
कस्मादिति ।
अनुमानमग्रे दूष्यम् ।
आदौ हेतुमुत्थाप्य व्याचष्टे —
सम्भवादिति ।
ननु देवतादीनां विविधभोगभाजामवैराग्यान्न मोक्षेऽर्थित्वं, तत्राह —
तत्रेति ।
वैषयिकसुखस्यानित्यत्वपारतन्त्र्यादिदोषदृष्ट्या तत्र वैराग्यसिद्धौ परमपुरुषार्थतया मोक्षेऽर्थित्वं, महाधियां तेषामुदेष्यतीत्यर्थः ।
चतुर्थ्यन्तशब्दातिरिक्तदेवताभावात्तस्याश्च विग्रहायोगान्न ज्ञानहेत्वनुष्ठानशक्तिरित्याशङ्क्याह —
तथेति ।
तयोः सतोरपि शूद्रवदनधिकारं शङ्कित्वोक्तम् —
न चेति ।
त्रैवर्णिकानामेवोपनयनाद्देवादीनां तदभावे वैदिकशक्त्यभावान्नाधिकार इत्याशङ्क्याह —
न चेति ।
तर्हि तदभावादङ्गिनोऽध्ययनस्याभावे कुतो वेदार्थेऽधिकारः, तत्राह —
तेषां चेति ।
जन्ममरणव्यवधानेऽपि भूतप्रेतादिषु स्मृतिदर्शनान्न तदस्मृतिरिति भावः ।
तथापि पूर्वोक्तानुमाने जाग्रति कुतो देवादयो ब्रह्मविद्यायामधिक्रियेरन्नित्याशङ्क्य कालातीतत्वमाह —
अपि चेति ।
ब्रह्मचर्यादीत्यादिपदेनोपगमनशुश्रूषादि गृह्यते । द्वितीयमादिपदं सनत्कुमारनारदसंवादादिसङ्ग्रहार्थम् ।
न केवलं लिङ्गविरोधादेव कालातीतत्वं कितुं ‘तद्यो यो देवानाम् ‘ इत्यादिवाक्यविरोधादपीति मत्वाह —
यदपीति ।
देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावात्तदनुष्ठानाशक्तेरिति सूत्रार्थः । ऋषीणामपि भृग्वादीनामार्षेयकर्मणि नाधिकारः, भृग्वाद्यन्तराभावात्तद्युक्ते कर्मण्यशक्तेरिति सूत्रान्तरार्थः ।
अधिकारहेत्वसत्त्वं ज्ञानेऽपि तुल्यं तेषामिति कुतो वाक्यार्थधीरित्येतद्दूषयति —
न तदिति ।
तदेव स्पष्टयति —
नहीति ।
साधकबाधकसत्त्वासत्त्वफलमाह —
तस्मादिति ।
ननु देवादीनामधिकारे कथमङ्गुष्ठमात्रश्रुतिः, न हि तेषां महादेहानां हृदयमङ्गुष्ठमात्रं, तत्राह —
देवादीति ।
साधारणी खल्वङ्गुष्ठमात्रश्रुतिस्तत्र तत्र तत्तदङ्गुष्ठपरिमितहृदयापेक्षया निर्वक्ष्यतीत्यर्थः ॥ २६ ॥
मन्त्रादिप्रामाण्येन विग्रहादिमत्त्वं गृहीत्वा देवतादीनामधिकारो निरूपितः । सम्प्रति देवताविग्रहादिमन्त्रादीनामन्यपराणामविरोधे प्रामाण्यात्प्रत्यक्षादिविरोधमाशङ्क्य परिहर्तुं सूत्रचतुष्टये स्थिते प्रथमं कर्मणि विरोधमाशङ्क्य परिहरति —
विरोध इति ।
मानान्तरविरुद्धेऽर्थे मन्त्रादीनामन्यपराणामप्रामाण्याद्विग्रहवद्देवतादिविषयाणां तेषामुपचरितार्थतया शब्दोपहितोऽर्थस्तदुपहितो वा शब्दो देवादिरित्यचेतनत्वात्तस्य नाधिकारसिद्धिरित्यभिसन्धाय शङ्कां विभजते —
स्यादेतदिति ।
अभ्युपगम्यतामिन्द्रादीनामध्वर्युप्रभृतिवदध्वरे स्वरूपसन्निधानेनाङ्गत्वं, तत्राह —
तदा चेति ।
कथं विरोधप्रसक्तिः, तत्राह —
नहीति ।
दर्शनाभावमुक्त्वा युक्त्यभावमाह —
न चेति ।
इन्द्रादीनां स्वरूपसन्निधिद्वारा यागाङ्गत्वायोगे हेतुमाह —
बहुष्विति ।
उद्दिश्य त्यागत्वाद्यागस्य न विरोधोऽस्तीत्याह —
नायमिति ।
विरोधमङ्गीकृत्यापि परिहर्तुं प्रश्नपूर्वकं हेतुमादाय व्याख्याति —
कस्मादिति ।
एकस्य युगपदनेकत्वापत्तिर्विरुद्धेत्याह —
कथमिति ।
प्रामाणिकत्वेन विरोधं समाधत्ते —
दर्शनादिति ।
तत्र श्रौतं दर्शनमाह —
तथाहीति ।
वैश्वदेवस्य निविदि कति देवाः शस्यमाना इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरम् —
त्रयश्चेति ।
शस्यमानदेवतासङ्ख्यावाचिमन्त्रपदं निविदुच्यते ।
षडधिकत्रिशताधिकत्रिसहस्रं देवा इति सङ्ख्यानिर्णयानन्तरं सङ्ख्येयप्रश्ने वसवोऽष्टावेकादश रुद्रा द्वादशादित्याः प्रजापतिरिन्द्रश्चेति त्रयस्त्रिंशद्देवेषु पूर्वेषामन्तर्भावो दर्शित इत्याह —
कतम इति ।
अन्तर्भावश्रुतेस्तात्पर्यमाह —
एकैकस्येति ।
तेऽपि देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानः, तेऽपि त्रयाणां लोकानां, ते च द्वयोरन्नप्राणयोः, तौ चैकस्य प्राणस्येति प्राणस्य सर्वे महिमान इत्येकस्यानेकरूपताधीरित्याह —
तथेति ।
त्रयस्त्रिंशतोऽपि देवानामिति सम्बन्धः ।
श्रौतं दर्शनमुक्त्वा स्मार्तं दर्शनमाह —
तथेति ।
बलं योगमाहात्म्यम् ।
तेषामर्थक्रियामाह —
तैश्चेति ।