अद्वैतशारदा

न्यायनिर्णयव्याख्या

१ परिच्छेदः

ननु परापरत्वेन ब्रह्म विभज्य परमभिध्यायीतेति विशेषोक्तौ कुतः शङ्केति शङ्कते —
कस्मादिति ।

परा­यो­गि­फ­लोक्त्या शङ्कायाः सावकाशत्वमाह —
स इति ।
उपासकः सर्वनामार्थः ।

कथं यथोक्तं फलं पर­स्मि­न्न­स­म्भा­वितं, तदाह —
नहीति ।
तद्विदोऽपि तथाभावादिति शेषः ।

विशे­ष­णा­नु­प­पत्तिं शङ्कते —
नन्विति ।

तदुपपत्तिमाह —
नेति ।
पिण्डः स्थूलो देहः । प्राणः सूत्रात्मा । अप­र­ब्र­ह्मो­पा­स्ति­परं वाक्य­मि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।

तत्र प्रतिज्ञां पूरयति —
परमेवेति ।

लिङ्गा­द्ध्या­य­ते­र­प­र­वि­ष­य­त्वो­क्ते­र्नि­य­मा­सि­द्धि­रि­त्याह —
कस्मादिति ।

सौत्रं हेतुमाह —
ईक्षतीति ।

ईक्ष­ते­र्धा­तो­री­क्ष­ण­मेव कर्म तद्व्य­प­दे­शा­न्ना­पे­क्षि­त­धी­रि­त्या­शङ्क्य व्याकरोति —
ईक्षतिरिति ।

तथापि तदेव क्रिया­त्वा­त्क­र्मेति भ्रान्तिं प्रत्याह —
दर्शनेति ।

तस्य व्यप­दे­शा­दि­त्युक्ते पक्ष­ध­र्म­त्वा­सि­द्धि­मा­श­ङ्क्या­पे­क्षितं पूर­य­न्वि­व­क्षि­त­म­र्थ­माह —
ईक्षतीति ।

ईक्षणविषयत्वेन वाक्यशेषे निर्दिश्यमानमपि ब्रह्मा­प­र­मे­वे­त्या­श­ङ्क्याह —
तत्रेति ।
ईक्ष­ति­ध्या­य­त्यो­र्नि­र्धा­र­णार्था सप्तमी । रज­ता­दि­दृ­ष्टे­रा­भा­स­त्वा­त्त­था­भू­त­मे­वे­त्य­व­ध्रि­यते ।

अत एव दर्शनविशेषणम् —
सम्यगिति ।

अस्तु तर्ही­क्ष­ति­क­र्म­णोऽ­न्य­स्यैव ध्येय­त्व­मि­त्या­शङ्क्य सौत्रं सशब्दं व्याचष्टे —
स एवेति ।

निर्दे­श­वै­ष­म्यान्न प्रत्यभिज्ञेति शङ्कते —
नन्विति ।

वैषम्यमुपेत्य प्रत्य­भि­ज्ञो­प­प­त्ति­माह —
अत्रेति ।

एतच्छब्दस्य प्रकृ­त­गा­मि­त्वा­द्ध्या­य­ति­क­र्म­णश्च प्रकृ­त­त्वा­त्त­स्यै­वै­त­च्छ­ब्द­स­मा­ना­धि­कृ­त­प­ञ्च­म्य­न्त­प­र­श­ब्देन प्रत्य­भि­ज्ञा­ना­द­भि­ध्या­त­व्य­वि­ष­य­प­र­श­ब्दस्य वाक्यशेषे जीव­घ­न­वि­ष­य­त्वा­ज्जी­व­घ­नोऽ­भि­ध्या­तव्यः, तस्मात्परात्परः परमेश्वरोऽन्य एवेक्षतिकर्मभूत इत्याशङ्क्याह —
न चेति ।
यो ध्येयः स एव तदु­त्थ­स­म्य­ग्धि­योऽ­पी­क्ष­णस्य विषयः सम्भवति, एकवाक्यत्वे वाक्य­भे­द­स्या­यो­गात् , एतच्छब्दस्य सन्नि­हि­त­प­रा­म­र्शि­त्वेऽपि सन्नि­हि­त­त­र­जी­व­घ­न­वि­ष­य­त्वात् , जीवघनशब्दस्य च ध्येय­वि­ष­य­त्वा­भा­वात् , तस्ये­क्षि­त­व्यस्य चैकतेत्यर्थः ।

उप­क्र­मो­प­सं­हा­र­यो­रे­क­वा­क्य­ता­र्थ­मु­प­क्रमे यो ध्यातव्यः स एवो­प­सं­हा­रेऽ­पी­क्ष­ण­गो­च­र­श्चे­त्तर्हि जीवघनशब्दस्य पृथगर्थो वक्तव्यः, न हि जीवघनपदं प्रमत्तगीतमिति शङ्कते —
कस्तर्हीति ।

‘मूर्तौ घनः’ इति सूत्रेणाह —
उच्यत इति ।

षष्ठीसमासं व्यावर्तयति —
जीवेति ।

उक्तमर्थं दृष्टान्तेनाह —
सैन्धवेति ।
खिल्य­भा­वोऽ­ल्प­त्वम् ।

कथमनवच्छिन्नस्य परस्याल्पत्वं, तत्राह —
उपाधीति ।

तत्र पञ्च­म्य­न्त­प­र­श­ब्दो­प­प­त्ति­माह —
परश्चेति ।

एतच्छब्दस्य प्रकृ­त­प­रा­म­र्शि­त्व­मा­श्रित्य पक्षान्तरमाह —
अपर इति ।

कया वृत्त्या जीवघनशब्दो ब्रह्मलोकं ब्रूते, तत्राह —
जीवानामिति ।
परि­च्छि­न्न­क­र­णा­व­च्छि­न्ना­ना­म­न­व­च्छि­न्न­क­र­णा­त्मनि हिर­ण्य­ग­र्भेऽ­न्त­र्भा­वा­त्तस्य जीवपूर्णतया तद्घ­न­त्वा­ल्लो­कोऽपि जीवघन इत्युपचर्यत इत्यर्थः ।

तस्य कार­ण­त्वा­त्प­र­मात्मा पर­स्त­स्मा­दि­त्याह —
तस्मादिति ।

ईक्षणध्यानयोः कार्य­का­र­ण­भा­वा­दे­क­वि­ष­य­ते­त्याह —
स एवेति ।

परस्यैव ध्यातव्यत्वे विशेषणमनुकूलयति —
परमिति ।

विराडपेक्षया परत्वं सूत्रेऽ­पी­त्यु­क्त­मा­शङ्क्य मुख्यं परत्वमुत्सर्गतो ब्रह्म­ण्ये­वे­त्याह —
परो हीति ।

‘यस्मात्परं नापरमस्ति किञ्चित् ‘ इति श्रुत्या परमात्मानं विशिनष्टि —
यस्मादिति ।

ईश्वरस्य पर­म­पु­रु­षा­र्थत्वे मानमाह —
पुरुषादिति ।

परापरे ब्रह्मणी प्रकृत्य परशब्देनापरस्य व्यावर्तनादपि परमेव ब्रह्म ध्यातव्यमित्याह —
परं चेति ।

न केव­ल­मु­प­क्र­मा­देवं किन्तु फलोक्तेरपीत्याह —
यथेति ।
पादोदरः सर्पः ।

पूर्व­प­क्ष­बी­ज­म­नूद्य दूषयति —
अथेत्यादिना ।
परि­शु­द्ध­ब्र­ह्मै­क्य­ज्ञाने देशपरिच्छिन्नं फलमयुक्तम् । ओङ्का­रो­पा­धि­ब्र­ह्मो­पास्तौ तद­वि­रु­द्ध­मि­त्यर्थः ।

कथं तर्हि ‘पुरुषमीक्षते’ इति, तत्राह —
क्रमेणेति ।
ब्रह्मलोके सम्य­ग्द­र्श­नो­त्पत्तौ मोक्षं विव­क्षि­त्वे­क्ष­ति­वा­क्य­मि­त्यर्थः ।

एक­वा­क्य­ता­का­ङ्क्ष­प्र­क­र­णा­नु­गृ­ही­त­श्रु­ति­प्र­त्य­भि­ज्ञाया देश­प­रि­च्छि­न्न­फ­ल­त्व­लि­ङ्गा­नु­गृ­ही­त­श्रु­ति­प्र­त्य­भि­ज्ञाया देश­प­रि­च्छि­न्न­फ­ल­त्व­लि­ङ्गा­नु­गृ­ही­त­प्र­त्य­भि­ज्ञातो बली­य­स्त्वा­द्ध्या­तव्यं पर­मे­वे­त्यु­प­सं­ह­रति —
अदोष इति ॥ १३ ॥

‘परात्परं पुरिशयं पुरुषम् ‘ इत्या­दि­वा­क्या­द्ध्या­त­व्य­पु­रु­ष­नि­र्णये परस्य पुरिशयमिति पुर­स­म्ब­न्ध­सि­द्धे­र­य­मपि पुरसम्बन्धी दहराकाशो ब्रह्मेत्याह —
दहर इति ।

छान्दो­ग्य­वा­क्य­मु­दा­ह­रति —
अथेति ।
भूमविद्यानन्तरं विद्या­न्त­रा­र­म्भा­र्थोऽ­थ­शब्दः । यदिदमिति प्रसिद्धं हृदयं परामृष्टम् । अस्मिन्निति प्रत्य­क्ष­त्वोक्तिः । ब्रह्मपुरं शरीरम् । दहरं सूक्ष्मम् । पुण्डरीकं तदा­का­र­त्वा­त्प्र­कृतं हृदयमेव तत्र परस्य नित्य­स­न्नि­धे­र्वे­श्म­शब्दः ।

सन्निहितं हृदयं सप्तम्या परामृश्य तस्या­ति­सू­क्ष्मस्य परस्य तत्र सदा स्थितिं सूच­य­न्वे­श्म­त्व­मेव विशदयति —
दहर इति ।

व्यवहितमपि हृदयं योग्य­त्वा­त्त­च्छ­ब्दे­नोक्त्वा तदन्तराकाशस्य विचार्यतां ज्ञेयतां च दर्शयति —
तस्मिन्निति ।

तस्मिन्निति सप्तम्या हृद­यो­क्ते­स्त­द­न्तस्थं दह­रा­का­श­म­न्वेष्यं जिज्ञास्यं च किंवा तस्याः सन्नि­हि­त­त­र­द­ह­रा­का­शा­र्थ­त्वा­त्त­द­न्तस्थं किञ्चिदन्विष्य ज्ञेयमिति संशयं सूचयति —
तत्रेति ।
वाक्यं सप्तम्यर्थः ।

यदाकाशोऽन्विष्य ज्ञेयस्तदा प्राप्तं संशयमाह —
स इति ।

द्वितीये संशये प्रश्नपूर्वकं हेतुमाह —
कुत इति ।

द्वयोरपि पक्ष­त्र­यो­प­ना­य­कत्वं व्याव­र्त­य­न्ना­का­श­श­ब्दा­धीनं पक्षद्वयमाह —
आकाशेति ।

शब्दा­न्त­रा­त्प­क्ष­द्व­य­प्रा­प्ति­माह —
तथेति ।
इतिशब्दः संशयशब्देन सम्बध्यते ।

नन्वयमन्यः संशयो न प्रकृ­त­स्त­स्या­न्या­दृ­श­त्वात् , तत्राह —
तत्रेति ।
उक्ते संशये सतीति यावत् ।

परपुरुषशब्दस्य ब्रह्मणि मुख्य­त्वा­द्ब्र­ह्मैव ध्येय­मि­त्यु­क्तम् । इहा­प्या­का­श­श­ब्दस्य भूताकाशे रूढे­स्त­स्यै­वो­पा­स्य­तेति पूर्वपक्षमाह —
तत्रेति ।
दहरवाक्यस्य सोपाधिके ब्रह्म­ण्य­न्व­योक्तौ तत्र प्रवृत्तस्य निरुपाधिकं बुभुत्समानस्य तस्मि­न्प्रा­जा­प­त्य­वा­क्या­न्व­योक्तेः सङ्गतयः । पूर्वपक्षे भूता­का­शा­दि­ध्यानं, सिद्धान्ते परोपास्तिद्वारा प्रतिपत्तिरिति फलम् । न च ‘आका­श­स्त­ल्लि­ङ्गात्’ इत्यनेन गत­त्वा­त्पू­र्व­प­क्षा­नु­त्थानं, तत्र वाक्य­शे­ष­स्थ­लि­ङ्गा­ना­मा­का­श­वि­ष­य­त्वात् । प्रकृते तेषां तद­न्त­स्थ­वि­ष­य­त्वेन तदविषयत्वादिति । उपास्त्यर्थं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तद­न्त­स्थ­वि­ष­य­त्वेन तदविषयत्वादिति ।

उपास्त्यर्यं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तदयोगात्कुतो ग्रहणं तत्राह —
तस्येति ।
तद्ध्यानेनापि वाक्यशेषस्थं फलं सम्पद्यते वाक्यादित्यर्थः ।

सति भेदे सादृश्ये चोप­मा­नो­प­मे­य­भा­वा­दे­कत्र तद­सि­द्धि­रि­त्या­श­ङ्क्याह —
यावानिति ।

ब्रह्मणि द्यावा­पृ­थि­व्या­दी­ना­म­न्तः­स­मा­धानं, कारणत्वात् । तदभावादाकाशे नैव­मि­त्या­श­ङ्क्याह —
द्यावा­पृ­थि­व्या­दीति ।

दहरे कथंं तत्समाधानं, तत्राह —
अवकाशेति ।
अपहतपाप्मत्वादि तस्मि­न्नि­त्य­नु­वादः । सत्यकामत्वादि ध्याना­र्थ­म­ध्य­स्त­मिति भावः ।

एष आत्मे­त्या­त्म­श­ब्द­सा­म­ञ्ज­स्यार्थं पक्षान्तरमाह —
अथवेति ।

ब्रह्म­श­ब्द­स्या­मु­ख्य­त्वा­ज्जीवे तच्छ­ब्दा­त्प­र­स्मि­ञ्झ­टिति बुद्धिस्थे कुतो जीवो­क्ति­रि­त्या­शङ्क्य पुरसम्बन्धस्य तत्रैव सम्भवादित्याह —
जीवस्येति ।

तस्यापि पुरेण कः सम्बन्धः, तत्राह —
तस्येति ।

तथापि तस्मिन्नौपाधिके कथं ब्रह्मपदं, तत्राह —
भक्त्येति ।
चैत­न्य­गु­ण­यो­गे­ने­त्यर्थः ।

गौण­मु­ख्य­यो­र्मुख्ये संप्र­त्य­य­मा­श­ङ्क्यो­क्तम् —
न हीति ।
कार्य­का­र­ण­स­म्ब­न्धस्य साधा­र­ण्या­द­सा­धा­र­ण्येन व्यप­दे­शा­ज्जी­व­क­र्मा­र्जितं शरीरं तेनैव व्यप­दे­श­मि­त्यर्थः ।

तस्य जीवपुरत्वेऽपि राजपुरे मैत्र­स­द्म­व­त्पु­ण्ड­री­क­द­ह­र­गे­हता ब्रह्मणोऽस्तु, तत्राह —
तत्रेति ।
वेश्मनः खल्वा­धा­र­स्या­धे­या­पे­क्षायां पुरस्वमिनाधेयेन संब­न्धा­न्ना­न्या­पे­क्षे­त्यर्थः ।

जीवस्य देहेन विशे­ष­स­म्ब­न्धेऽपि हृदयेन तदभावात्कथं तस्यैव तद्वेश्मता, तत्राह —
मन इति ।

तस्यापि चञ्चलत्वान्न हृद­ये­ना­सा­धा­रण्यं, तत्राह —
मनश्चेति ।

तथापि तस्य सर्वगतस्य कुतो दहरत्वं, तत्राह —
दहरत्वमिति ।

दहरत्वादेव तर्हि नाका­शो­प­मि­त­त्वा­दी­त्या­श­ङ्क्याह —
आकाशेति ।

यद्भा­व­म­पे­क्ष्यै­त­त्क­ल्प्यते तदेव ब्रह्माकाशशब्दं लाघ­वा­दि­त्या­श­ङ्क्याद्ये संशये पूर्वपक्षमाह —
न चेति ।
पर­वि­शे­ष­ण­त्वे­ने­त्यत्र परो दहराकाश उपा­दा­ना­त्त­स्मि­न्निति सप्त­म्य­न्त­त­च्छ­ब्द­स्येति शेषः । यद्वा पर­श­ब्दोऽ­न्त­स्थ­व­स्तु­वि­ष­य­स्त­द्वि­शे­ष­ण­त्वेन तस्मिन्निति दह­रा­का­श­स्यो­क्ते­रि­त्यर्थः । तच्छब्दस्य सन्नि­कृ­ष्टा­न्व­य­योगे विप्र­कृ­ष्टा­न्व­यस्य जघ­न्य­त्वा­दा­का­शा­न्त­र्गतं ध्येयमिति भावः । भूताकाशस्य जीवस्य वा दह­रा­का­शा­न्त­स्थस्य वा ध्यानार्थं दह­र­वा­क्य­मु­प­सं­ह­र्तु­मि­ति­शब्दः ।

सिद्धान्तयति —
अत इति ।

तत्र प्रतिज्ञां व्याचष्टे —
परमेश्वर इति ।

प्रतिज्ञायां प्रश्नद्वारा हेतूनाह —
कस्मादिति ।

तानेव विवृणोति —
तथाहीति ।
विहितस्य तद­न्वे­ष्ट­व्य­मि­त्या­दि­नेति शेषः । आका­श­स्या­क्षे­प­पू­र्व­क­मिति सम्बन्धः । तमाचार्यं प्रति शिष्या यदि ब्रूयु­रि­त्या­क्षे­प­मु­प­क्र­म्या­व­ता­र्येति योजना ।

आक्षेपप्रकारमाह —
किं तदिति ।
पुण्डरीकमेव तावदल्पमल्पतरं च तदन्तर्गतमाकाशं तथा च किं तद­त्रा­त्य­ल्पेऽस्ति यच्छ्रु­ति­यु­क्ति­भ्या­म­न्वेष्यं यद्वाव साक्षा­त्क­र्त­व्य­मि­त्य­ल्प­ता­दो­षेण दहरस्य ज्ञेय­त्व­मा­क्षिप्य समाहितमित्यर्थः ।

तदेव दर्शयति —
स इति ।
आचार्यः सर्वनामार्थः । अस्मिन्निति हार्दाकाशोक्तिः । ‘उभावग्निश्च वायुश्च' इत्या­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

तस्य विवक्षितमर्थमाह —
तत्रेति ।
निव­र्त­य­न्नि­त्या­चार्यो गृह्यते ।

आकाशशब्दस्य भूताकाशे रूढ­त्वा­त्क­या­नु­प­पत्त्या तन्निवर्तनं, तत्राह —
यद्यपीति ।

परोक्तिं स्मारयित्वा निरस्यति —
नन्वित्यादिना ।
गत्य­न्त­रा­भा­वा­दा­रो­पि­त­भे­दे­नो­प­मा­नस्य क्वाचि­त्क­त्वेऽपि सत्यां गतौ तद­सि­द्धि­रि­त्यर्थः ।

सादृश्ये सत्यु­प­मा­नो­प­मे­यत्वं दृष्टम् । न चोपा­धि­प­रि­च्छि­न्ना­न्त­रा­का­शस्य महत्परिमाणेन बाह्याकाशेन सादृश्यमित्याह —
अपि चेति ।

तर्हि परस्यापि भूताकाशो नोप­मा­न­म­तु­ल्य­प­रि­मा­ण­त्वा­दि­त्याह —
नन्विति ।

नेदं वाक्यं भूता­का­श­तु­ल्य­त्व­वि­षयं किन्तु शङ्कि­ता­ल्प­त्व­व्या­वृ­त्ति­प­र­मि­त्याह —
नेति ।

निवृत्तौ तावत्त्वे च वाक्य­ता­त्प­र्य­मा­श­ङ्क्यो­क्तम् —
उभयेति ।
न च सम्भ­व­त्ये­क­वा­क्यत्वे वाक्यभेदः । न च तावत्त्वमेव प्रतिपाद्यम् , अफलत्वात् । न च शङ्कि­त­द­ह­र­त्व­नि­वृ­त्ति­रेव फलं, तत्रैव वाक्य­ता­त्प­र्य­प्र­स­ङ्गात् । न च साक्षादेव तत्सि­द्धा­वा­र्थि­क­त्व­क­ल्पना युक्तेति भावः ।

भूताकाशाग्रहे लिङ्गान्तरमाह —
न चेति ।

तत्रैव हेत्वन्तरम् —
एष इति ।
विगता जिघत्सा खादितुमिच्छा यस्य स तथा । चकारादुक्तं सर्व­मा­का­श­स्यै­क­देशे नोपपद्यत इति सम्बन्धः ।

तदेव स्पष्टयति —
आत्मत्वेति ।
न तावद्भूताकाशे सम्भ­व­त्या­त्म­त्वम् , अचैतन्यात् । न चाप­ह­त­पा­प्म­त्वा­दे­र्नि­त्या­नु­वा­द­त्वम् । नापि सत्य­का­म­त्वा­दे­रा­रो­पि­त­त्वम् । अगतिका हीयं गतिः । उप­क्र­म­स्था­का­श­श्रु­ते­श्चो­प­सं­हा­र­स्था­त्म­श्रु­ति­रु­क्त­लि­ङ्ग­स­ङ्गता बलीयसी, प्रत्य­य­सं­वा­दा­दि­त्या­का­श­शब्दं ब्रह्मैवेति भावः ।

आका­शो­प­मि­त­त्वा­दि­हे­तुभ्यो भूताकाशं निरस्य तद्बलादेव जीवमपि निरस्यति —
यद्यपीति ।

ननु कथ­मा­का­शो­प­मि­तत्वं जीव­श­ङ्का­नि­व­र्तकं, तस्यापि तदुपमितत्वेन शङ्कि­त­द­ह­र­त्व­नि­वृ­त्त्यो­प­मा­न­प­र्य­व­सा­नात् , तत्राह —
न हीति ।

तादात्म्येन शङ्कते —
ब्रह्मेति ।
आदिपदं सर्वा­धा­र­त्वा­दि­स­ङ्ग्र­हा­र्थम् ।

लाघवेन प्रत्याह —
यदिति ।

ब्रह्म­पु­र­श­ब्दा­ज्जी­वो­पा­दा­न­मु­क्त­म­नु­व­दति —
यदपीति ।

प्रथ­म­श्रु­त­ब्र­ह्म­श­ब्देन चर­म­श्रु­त­वि­भ­क्त्यर्थो नेतव्य इत्याह —
अत्रेति ।
ब्रह्मणः पुरमित्यत्र स्वस्वामित्वं षष्ठ्यर्थं हित्वा ब्रह्मशब्दो मुख्यार्थः स्वीकर्तव्यः, प्रत्ययार्थस्य प्रकृ­त्य­र्था­पे­क्षस्य दौर्ब­ल्या­दि­त्यर्थः ।

ननु ब्रह्मपक्षे प्रत्ययस्य निरालम्बनत्वमेव । जीवपक्षे प्रकृत्यालम्बनं कथञ्चिदस्ति, तदर्थस्य ब्रह्माभेदात् , तत्राह —
तस्येति ।

ब्रह्मणः शरी­र­मु­प­ल­ब्ध्य­धि­ष्ठा­न­मि­त्यत्र मानमाह —
स इति ।
सर्वासु पूर्ष्विति व्यपदिश्य पुरिशय इति विशेषणं हृद­य­स­म्ब­न्ध­वि­व­क्षया नेयम् । आदिपदं ‘यो वेद निहितं गुहायाम् ‘ इत्या­दि­स­ङ्ग्र­हा­र्थम् ।

ननु शारीरः शरी­र­म­न्न­पा­ना­भ्य­व­ह­र­णेन बृंहयतीति तस्मिन्मुख्यं ब्रह्मत्वं, तस्य च स्वक­र्मा­र्जि­त­त्वा­द­सा­धा­रणं शरीरं, तथा च प्रकृतिप्रत्ययौ जीवे मुख्याविति, तत्राह —
अथवेति ।
शारीरसम्बद्धमेव वेश्मो­त्त­र­हे­तुभ्यो ब्रह्मणापि सम्बध्यते । दृष्टं हि राजपुरे मैत्र­स­द्मे­त्यर्थः ।

किञ्च कर्म­फ­ल­नि­त्य­ता­नि­वृत्त्या दह­र­ज्ञा­न­स्या­न­न्त­फ­ल­त्व­श्रु­ते­र्द­ह­रस्य परत्वमित्याह —
तद्यथेति ।
कर्म­ण­स्त­त्फ­ला­च्चो­पे­क्षा­न­न्त­र्य­म­थ­श­ब्दार्थः । इह जीवत्येव देहे दहरमात्मानं तदाश्रितांश्च सत्य­का­मा­दि­गु­णा­ना­चा­र्यो­प­दे­श­म­नु­वि­द्या­नु­भूय ये परलोकं व्रजन्ति तेषां सर्वेषु लोकेषु कामचारः स्वेच्छया चर­ण­म­प्र­ति­ह­त­म­न­न्त­मै­श्व­र्य­मि­त्यर्थः ।

श्रुति­ता­त्प­र्य­माह —
प्रकृतेति ।
क्दन्नि­त्या­चार्यो वेदो वोक्तः । दह­रा­का­श­स्या­न्वे­ष्य­त्वा­दि­सिद्धौ तत्र विचारः ।

न तु तदस्ति, ‘तस्मिन्यदन्तः’ इत्य­न्तः­स्थ­वि­शे­ष­ण­त्वा­द­न्वे­ष­णा­दे­रिति, तत्राह —
यदपीति ।

उत्त­र­त्रा­का­श­स्व­रू­प­प्र­ति­पा­द­ना­नु­प­पत्त्या तस्य ज्ञेय­त्व­म­न्त­स्स­मा­हितैः सहेष्टमित्याह —
अन्नेति ।

तत्प्र­ति­पा­द­न­म­न्य­थो­प­प­न्न­मिति शङ्कते —
नन्विति ।

कथमेतदवगम्यते, तत्राह —
तमिति ।
‘किं तदत्र' इत्याक्षेपात् ‘उभे अस्मिन् ‘ इति चान्त­स्थ­व­स्तूक्त्या समा­धा­ना­धा­र­त्व­मे­वा­का­श­स्ये­त्यर्थः ।

तस्या­धा­र­मा­त्र­त्व­वि­व­क्षा­या­मा­धे­य­स्यैव ध्येयत्वं स्यादित्याह —
नैतदिति ।

अस्तु को दोषः, तत्राह —
तत्रेति ।
दहराकाशस्य प्रकृ­त­स्यै­त­च्छ­ब्देन परा­म­र्शा­त्त­द्वे­द­नस्य फल­व­त्त्व­श्रु­ते­स्त­देव ध्येयम् । न चैतच्छब्देन द्यावा­पृ­थि­वीभ्यां व्यव­धा­ना­न्ना­का­शा­क­र्षणं, ‘अस्मिन्’ ‘एषः’ इति चैकवचनात्तस्यैव परा­म­र्श­यो­ग्य­त्वा­दि­त्यर्थः ।

सत्य­का­म­वे­द­न­स्यै­त­त्फलं, तदान्तर्यात् । न दह­रा­का­श­बु­द्धे­रि­त्या­श­ङ्क्याह —
समुच्चयेति ।
‘सन्दिग्धस्य वाक्य­शे­षा­न्नि­र्णयः’ इति न्यायादादौ ‘तस्मिन्यदन्तः’ इति तच्छ­ब्दोऽ­न­न्त­र­म­प्या­का­श­म­भि­लङ्घ्य हृत्पुण्डरीकं परामृशति ।

तत्र यदन्तराकाशं तदन्वेष्टव्यं विजिज्ञासितव्यं चेत्युपसंहरति —
तस्मादिति ।

नन्वेतच्छब्दस्य सन्नि­हि­ता­र्थ­त्वात् , जीवात्मनः सर्वान्प्रति सन्नि­हि­त­त­र­त्वा­त्त­स्यैव तादर्थ्यात् , कामानां च तत्र समाहितत्वेन समु­च्च­य­सि­द्धे­स्त­त्परं वाक्य­मि­त्या­शङ्क्य विजा­ती­या­ध्य­क्षा­दि­सि­द्ध­जी­वा­त्स­जा­ती­य­श्रु­ति­सि­द्ध­द­ह­रा­का­शा­ख्य­प­र­मा­त्म­प­रा­मर्शे लाघवात् , जीवे चाप­ह­त­पा­प्म­त्वा­द्य­यो­गा­द्वा­क्य­भे­दा­प­त्ते­र्मै­व­मि­त्याह —
स चेति ॥ १४ ॥

दह­रा­का­श­स्ये­श्व­रत्वे हेत्वन्तरमाह —
गतीति ।

उत्त­र­सू­त्र­स­न्द­र्भस्य परमसङ्गतिमाह —
दहर इति ।

अव­ता­रि­त­सू­त्र­स्या­वा­न्त­र­स­ङ्ग­ति­माह —
इतश्चेति ।

इतःशब्दार्थमाह —
यस्मादिति ।

तावेवोदाहरति —
इमा इति ।
प्रजाश्चिदाभासा जीवाः । अहरहः स्वापे ।

कथं तर्हि पुनरुत्थानं, तत्राह —
एतमिति ।

उक्त­ग­ति­श­ब्द­यो­र्वि­व­क्षि­त­म­र्थ­माह —
तत्रेति ।
श्रुतिः सप्तम्यर्थः ।

एत­च्छ­ब्दा­ज्जी­वानां स्वापे दहरगमनेऽपि तस्य ब्रह्मत्वे किमायातं, तदाह —
तथाहीति ।
अध्यायभेदधिया श्रुत्य­न्त­र­शब्दः । ‘स्वमपीतो भवति‘ इत्या­दि­वा­क्य­मा­दि­प­दार्थः ।

तथा­ही­त्या­दि­सू­त्रा­व­य­व­स्या­र्था­न्त­र­माह —
लोकेऽपीति ।
प्रसिद्धेः श्रुति­मू­ल­त्वा­त्त­त्प्रा­मा­ण्या­या­नु­दा­हा­र्य­त्वेऽ­पी­दृशी नामेयं वैदिकी प्रसिद्धिरियं लोकेऽप्यस्तीति श्रुति­प्रा­मा­ण्य­दा­र्ढ्याय तदुक्तिरिति मत्वा किलेत्युक्तम् ।

दहरस्य ब्रह्म­त्व­धी­हे­तुतां गतेरुक्त्वा शब्दस्यापि कथयति —
तथेति ।
गतिवदित्येतत् ।

शब्दस्य सिद्धा­न्ता­नु­गुण्यं नेति शङ्कते —
नन्विति ।

षष्ठी­वि­भ­क्त्य­श्रु­ते­स्त­द­र्थ­ल­क्ष­णायां गौरवान्नास्य लोकार्थतेत्याह —
गमयेदिति ।

तथापि कुतोऽस्य ब्रह्मा­र्थ­ते­त्या­शङ्क्य निषा­द­स्थ­प­त्य­धि­क­र­ण­न्या­ये­नाह —
सामा­ना­धि­क­र­ण्येति ।

ननु तेनैव न्यायेन विशेषणसमासो न युक्तः, तन्न्या­या­वि­ष­य­त्वात् । एकस्य शब्दा­र्थ­द्व­य­सा­धा­रण्ये गुरुलघुचिन्तया लघुर्ग्राह्य इति न्यायः । तथा सति लोकविशेषे प्रयो­ग­बा­हु­ल्या­त्त­स्यै­वादौ बुद्धि­स्थ­त्वा­त्कुतो ब्रह्म­वि­ष­य­त्व­मि­त्या­शङ्क्य तत्र ‘लिङ्गं च’ इत्युत्तरत्वेन योजयति —
एतदेवेति ।

तस्य लिङ्ग्त्वं स्फुटयति —
न हीति ॥ १५ ॥

सर्वजगद्धारणस्य परमात्मलिङ्गस्य दहरे दर्शनाच्च तस्य परत्वमित्याह —
धृतेश्चेति ।
अस्य धृत्यात्मनो महिम्नो दहरे श्रुत­स्या­स्मि­न्नी­श्वरे श्रुत्य­न्त­रे­षू­प­ल­ब्धे­स्त­स्ये­श्व­र­त्व­मि­त्यर्थः ।

सूत्रं व्याचष्टे —
धृतेरिति ।

अथशब्देन प्रकरणं विच्छिद्य विधृ­ति­श­ब्दा­त्कथं दहरस्य विधा­र­क­त्व­मि­त्याह —
कथमिति ।

प्रकृतगामिना यच्छ­ब्दे­ना­त्म­श­ब्देन च दहरस्यैव बुद्धि­स्थ­त्वान्न प्रक­र­ण­वि­च्छे­द­कोऽ­थ­शब्दः किन्तु वाक्यो­प­क्र­म­द्यो­ती­त्याह —
दह­रोऽ­स्मि­न्नि­त्या­दिना ।

श्रौत­वि­धृ­ति­श­ब्द­स्या­र्थ­माह —
तत्रेति ।

स्त्रियां भावे क्तिन्विधानान्न विधृतिशब्देन दहरस्य विधा­र­क­त्व­मि­त्या­शङ्क्य प्रकृतिशब्दवदयं न क्तिन्प्र­त्य­यान्तः किन्तु क्तिच्प्र­त्य­यान्त इत्याह —
क्तिच इति ।

सेतुशब्देनापि विधारकोक्त्या पौन­रु­क्त्य­मा­शङ्क्य दृष्टा­न्ते­ना­स­ङ्क­र­हे­तुत्वं सेतु­श­ब्द­स्या­र्थ­माह —
यथेति ।
इतिशब्दः श्रुत्य­क्ष­रा­र्थ­स­मा­प्त्यर्थः ।

उक्तेऽर्थे सूत्रं योजयति —
एवमिति ।

तथापि कथं दह­र­स्ये­श्व­रत्वं, तत्राह —
अयं चेति ।
द्यावा­पृ­थि­व्या­दि­स्थि­ति­र­क्ष­रा­धी­नेति विद्व­द्वा­क्य­मा­दि­श­ब्दार्थः ।

प्रकारान्तरेण धृतिमाचष्टे —
तथेति ।
निश्चितत्वं सन्दे­ह­स्या­प्य­वि­ष­य­त्वम् । राज­कु­मा­र­व्या­वृ­त्त्यर्थं भूता­धि­प­ति­रि­त्यु­क्तम् । लोकपालात्मनापि परस्यैवावस्थानं वक्तुं भूतपालपदम् ।

विधारकतया सेतुरिवेति सर्व­व्य­व­स्था­प­क­त्व­माह —
सेतुरिति ।

तदेव स्फुटयति —
एषामिति ।

सूत्रा­र्थ­मु­प­सं­ह­रति —
एवमिति ॥ १६ ॥

दहरस्य परत्वे हेत्वन्तरम् —
प्रसिद्धेश्चेति ।

चकारार्थमाह —
इतश्चेति ।

इतःशब्दार्थं स्फुटयति —
यदिति ।

नास्ति लौकिकी प्रसिद्धिरिति श्रौतीं प्रसिद्धिमाह —
आकाश इति ।
‘यदेष आकाश आनन्दो न स्यात् ‘ इति ग्रहीतुमादिपदम् ।

ब्रह्म­ण्या­का­श­श­ब्द­प्र­सि­द्ध्युक्त्या जीवपक्षोऽपि निरस्त इत्याह —
जीवे त्विति ।
क्वचिल्लोके वेदे चेत्यर्थः ।

तर्हि लोक­वे­द­प्र­सि­द्धे­र्भू­ता­काशो गृह्यतां, नेत्याह —
भूतेति ॥ १७ ॥

विनि­ग­म­न­हे­त्व­भावं मन्वानस्य प्रत्यवस्थानं प्रत्याह —
इतरेति ।

तत्र चोद्यं व्याचष्टे —
यदिति ।

वाक्यशेषमेवाह —
अथेति ।
दह­रा­का­शा­ख्य­सो­पा­धि­क­व­स्तू­क्त्य­न­न्त­र­मि­त्ये­तत् । सर्वनामभ्यां विद्वानुक्तः ।

तमेव सुप्तं सर्व­का­लु­ष्य­वि­नि­र्मुक्तं वक्ति —
सम्प्रसाद इति ।
अस्मा­द­भि­मा­न­द्व­य­वि­ष­या­दिति यावत् । शरीरशब्दो देहद्वयार्थः ।

ततः समुत्थानं विवि­क्ता­त्म­ज्ञा­न­वत्त्वं तत्फलं स्वरू­पे­णा­भि­नि­ष्प­त्ति­स्त­त्त्व­सा­क्षा­त्का­र­स्त­त्फ­ल­माह —
परमिति ।
उप­स­म्प­द्या­भि­नि­ष्प­द्यत इति मुखं व्यादाय स्वपितीतिवत् ।

ज्योतिः शब्दस्य सूर्या­दि­वि­ष­यत्वं निषेधति —
एष इति ।

कुतो वाक्यशेषस्य जीवविषयत्वं, तत्राह —
अत्रेति ।
‘सम्प्रसादे रत्वा चरित्वा’ इत्यादि बृहदारण्यकं श्रुत्यन्तरम् ।

अव­स्था­व­त्त्व­व­द्दे­हा­दु­त्था­न­मपि जीवलिङ्गमित्याह —
तथेति ।

देहा­श्र­य­श्चे­त्कथं तस्मा­दु­त्ति­ष्ठेत् तत्राह —
यथेति ।

जीवे न कश्चि­दा­का­श­श­ब्दोऽ­स्ती­त्युक्तं विनि­ग­म­न­मि­त्या­शङ्‌क्य ब्रह्मणि तद्ध­र्मा­भि­व्य­व­हा­रा­त्त­च्छ­ब्द­व­ज्जी­वेऽपि वाक्य­शे­ष­लि­ङ्गा­त्त­त्प्र­सिद्धिः स्यादित्याह —
यथा चेति ।

चोद्यमुपसंहरति —
तस्मादिति ।

दहरशेषे जीवपरमर्शेऽपि न तेन दहरो जीवः स्यादिति नञर्थमाह —
नैतदिति ।

तत्र प्रश्नपूर्वकं हेतुमाह —
कस्मादिति ।

यदाकाशोपमितत्वं दहरस्य श्रुतं तन्न जीवे सम्भवतीति विभजते —
नहीति ।

अप­ह­त­पा­प्म­त्वा­दी­ना­मपि दहरोक्तानां जीवे न सम्भावनेत्याह —
न चेति ।
उपाधिधर्माः पाप्मादयः ।

ब्रह्मा­भे­दा­ज्जी­वेऽपि सर्व­मे­त­द्यु­क्त­मि­त्या­श­ङ्क्याह —
प्रपञ्चितं चेति ।

तर्हि पुनरुक्तिः, तत्राह —
अतिरेकेति ।

का तर्हि जीवपरामर्शस्य गतिः, तत्राह —
पठिष्यतीति ।
जीवपरामर्शो जीवस्य स्वापा­धा­र­प­रा­त्म­धी­शेष इत्यर्थः ॥ १८ ॥

उक्ता­स­म्भ­व­स्या­सि­द्धि­मा­शङ्क्य परिहरति —
उत्तराच्चेदिति ।

चोद्यस्य वृत्तमनूद्य तात्पर्यमाह —
इतरपरामर्शादिति ।

निरा­कृ­ता­श­ङ्को­त्थाने निरा­क­र­णा­प­र्य­व­सा­न­मा­श­ङ्क्याह —
अथेति ।

पुनस्तदुत्थाने हेतुमाह —
उत्तरस्मादिति ।
प्राजापत्ये वाक्ये जीवेऽ­प्य­प­ह­त­पा­प्म­त्वा­दि­श्रु­ते­र­स­म्भवो नेति शङ्कते इत्यर्थः ।

कथं तत्र जीवोक्तिः, तत्राह —
तत्रेति ।

प्रति­ज्ञा­वा­क्यस्य पर­मा­त्म­वि­ष­य­त्व­मा­श­ङ्क्या­द्य­प­र्या­यस्य जीव­वि­ष­य­त्वा­दु­प­क्र­म­स्यापि तथेत्याह —
य इति ।

ननु छाया­त्मै­वा­स्मि­न्प­र्याये प्रतिपाद्यते, दृश्यमानत्वस्य तस्मि­न्मु­ख्य­त्वात् , नेत्याह —
द्रष्टारमिति ।

पर­प्र­ति­प­त्त्यर्थं पञ्च­को­शो­क्ति­व­द्भू­म­प्र­ति­प­त्त्यर्थं प्राणा­द्यु­क्ति­वच्च ब्रह्मार्थं जीवोक्तिरपि स्यादि­त्या­शङ्क्य द्विती­य­तृ­ती­य­यो­रपि तद्विषयत्वमाह —
एतं त्विति ।
उत्त­र­त्रा­न्य­स्या­नु­क्ते­र्ना­न्यार्था जीवो­क्ति­रि­त्यर्थः ।

‘अन्तर उपपत्तेः’ इत्यत्र पर­स्या­क्षि­स्था­न­ताया दर्शि­त­त्वा­दा­द्य­प­र्या­यस्य पर­वि­ष­य­त्वा­दु­त्त­र­यो­रपि तद्वि­ष­य­ते­त्या­श­ङ्क्याह —
य इति ।

स्वप्ने वास­ना­म­यै­र्वि­ष­यै­र्म­ही­य­मा­नता परस्यैव रुक्माभं स्वप्न­धी­ग­म्य­मि­त्यु­क्ते­रि­त्या­श­ङ्क्याह —
तदिति ।
तदेतदिति सम्बन्धः । यत्र यस्यामवस्थायां तदेतत्स्वपनं यथा स्यात्तथा सुप्तः स्वापावस्थां प्राप्तो भवति तस्या­म­व­स्था­या­मु­प­सं­हृ­त­क­र­ण­ग्रा­म­स्त­द्व्या­पा­र­कृ­त­का­लु­ष्य­हीनः स्वप्न­म­ज्ञा­न­मा­त्र­तया विला­प­य­न्मु­क्ता­द्व्या­वृ­त्त­स्तै­ज­सा­न­न्त­र­भावी प्राज्ञो ज्ञानक्रियां विना स्वरू­प­चै­त­न्ये­ना­ज्ञा­न­साक्षी साक्ष्यस्य देहादेः सत्ता­स्फू­र्ति­प्र­द­त्वेन चात्मेत्यर्थः ।

तथा चाव­स्था­व­त्त्वा­ज्जी­वोऽ­य­मिति श्रुत्यर्थं सङ्क्षिप्याह —
जीवमिति ।
स्वप्ना­व­स्था­तोऽन्या स्वापा­व­स्था­व­स्था­न्त­रम् ।

तथापि तस्मि­न्न­प­ह­त­पा­प्म­त्वादि कथमित्याशङ्क्य विनापि ब्रह्म­रू­प­ता­मु­पास्त्या तद्धीरित्याह —
तस्येति ।

‘य आत्मापहतपाप्मा’ इत्या­दि­नो­प­क्रान्तः स परमात्मतया चतुर्थपर्याये कथ्यते, तेन तत्प्र­ति­पा­द­न­सि­द्धि­रि­त्याश्ङ्क्य चतु­र्थ­प­र्या­य­स्यापि जीवविषयत्वमाह —
नाहेति ।
अहेति निपातः खेदार्थे । खिद्यमानो हीन्द्रः प्रोवाच, अयं सुप्तः पुमा­न­य­म­स्म्य­ह­मि­त्येवं नात्मा­न­म­स्या­म­व­स्थायां जानाति, नो एवेमानि भूतानि, विनाशमेवापीतो भवति, नाहमत्र भोग्यं पश्यामीत्येवं स्वापे दोषं दृष्ट्वा पुन­रु­प­स­सा­दे­त्यर्थः । तं प्रजापतिरुवाच, ‘एतं त्वेव' इति प्रकृ­त­मे­वा­त्मानं ते तुभ्यं पुनरपि व्याख्यास्यामि नैत­स्मा­द­न्य­मि­त्यु­प­क्र­मार्थः ।

तथापि जीव­स्या­प­ह­त­पा­प्म­त्वा­द्यु­प­ग­मेऽ­ध्य­क्षा­दि­वि­रोधो न हेत्वधीनस्य देहोत्तरकालं जीवेऽपि योगादित्याह —
शरीरेति ।
‘मघवन्मर्त्यं वा इदम् ‘ इत्यादिना देहसम्बन्धं निन्दित्वा तस्मादुत्थितं जीव­मे­वो­त्त­म­पु­रुषं ‘एष सम्प्र­सा­दोऽ­स्मात् ‘ इत्यादिना दर्शयतीति योजना ।

असम्भवासिद्धि निगमयति —
तस्मादिति ।

हेत्व­सि­द्धि­फ­ल­माह —
अत इति ।

सिद्धा­न्त­मा­दत्ते —
तं प्रतीति ।

आविर्भावस्य विशे­ष­वि­ष­य­त्वा­त्त­द­र्थ­स्तु­शब्दो वृथे­त्या­श­ङ्क्याह —
तुशब्द इति ।

पक्ष­व्या­वृ­त्ति­मेव स्फुटयति —
नेति ।
इहेति दहरवाक्योक्तिः ।

पर्या­य­च­तु­ष्ट­यस्य जीवा­र्थ­त्वा­त्कु­त­स्त­दा­शङ्का नेति शङ्कते —
कस्मादिति ।

सौत्रं हेतुमाह —
यत इति ।
पर्यायचतुष्टयं सप्तम्यर्थः ।

पुंलिङ्गसूचितं बहु­व्री­हि­स­मा­स­माह —
आविर्भूतमिति ।

तस्य ब्रह्मत्वात्कथं जीवो विशेष्यते, तत्राह —
भूतेति ।
अवि­द्या­त­त्का­र्य­प्र­ति­बि­म्बि­त­त्वेन चिद्धा­तो­र्जी­व­भा­वोऽ­भू­दिति बिम्ब­ब्र­ह्मै­क्य­ज्ञा­नेऽपि जीव­त्वो­क्ति­रि­त्यर्थः ।

स्वरू­पा­वि­र्भा­वेऽपि जीवस्य जीव­त्वा­न­पा­या­त्कुतो ब्रह्म­ते­त्या­शङ्क्य प्राजा­प­त्य­वा­क्य­ता­त्प­र्य­माह —
एतदिति ।

अव­स्था­वि­शे­ष­वि­शि­ष्टस्य परै­क्या­यो­ग­मा­श­ङ्क्याह —
अक्षीति ।

उप­ज­ना­पा­य­व­त्त्वा­त्प्र­ति­बि­म्ब­व­द­नात्मा देहादिरिति वक्तुमुदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूत­मि­त्यु­त्तरो ग्रन्थ इत्याह —
उदशरावेति ।
प्रकृतो द्रष्टा द्वितीयार्थः । व्युत्थापनं बाधः ।

प्रकरणविच्छेदं व्यावर्तयति —
एतमिति ।

अवस्थानां व्यभिचारित्वेन कल्पि­त­त्वा­त्त­द­स्पृष्टं वस्तू­प­दे­ष्टु­म­व­स्थो­क्ति­रिति तदुक्तिफलमाह —
स्वप्नेति ।

परं ज्योति­रि­त्या­दि­श्रु­ते­स्ता­त्प­र्य­माह —
यदिति ।

परं ज्योति­रे­वो­प­स­म्प­त्तव्यं श्रूयते न ब्रह्मे­त्या­श­ङ्क्याह —
यत्तदिति ।

यत्तु जीवस्य नाप­ह­त­पा­प्म­त्वा­दीति, तत्राह —
तच्चेति ।
जीवस्य ब्रह्मा­भे­दा­त्त­द्रू­पेण स्वाभा­वि­का­वि­र्भू­ता­प­ह­त­पा­प्म­त्वा­दि­स्व­रूपं तद्वदति वाक्यमित्यर्थः ।

कथं मिथो विरु­द्ध्यो­र्जी­व­ब्र­ह्म­णो­रैक्यं, तत्राह —
तदेवेति ।

विरु­द्ध­त्व­बुद्धौ कथं शास्त्रमपि तद्बो­धी­त्या­श­ङ्क्याह —
नेतरदिति ।
प्राती­ति­क­वि­रु­द्धा­का­र­स्यौ­पा­धि­क­त्वा­दा­ग­मा­व­गतं स्वाभा­वि­क­मै­क्य­म­वि­रु­द्ध­मि­त्यर्थः ।

अवि­द्या­न्व­य­व्य­ति­रे­काभ्यां संसा­रि­त्व­स्या­वि­द्यात्वं वक्तुं दृष्टा­न्ते­ना­न्व­य­माह —
यावदिति ।

व्यतिरेकमाह —
यदेति ।

व्युत्था­प­न­द्वारा प्रति­बो­ध­न­म­भि­न­यति —
नासीति ।

व्युत्था­प­न­फ­ल­सं­सा­रि­त्व­मुक्त्वा तत्फ­ल­मा­का­ङ्क्षा­पू­र्व­क­माह —
किमिति ।

शास्त्री­य­मा­त्म­ज्ञा­न­म­नूद्य तत्फलमाह —
तदेति ।

विदुषो ब्रह्मत्वे मानमाह —
स इति ।

किमित्यन्यतरस्य कल्पितत्वं, द्वयोरपि वस्तुत्वं किं न स्यात् , तत्राह —
तदेवेति ।
शरीरविशिष्टं रूपं कल्पितमन्यथा तस्मादुत्थितस्य स्वेना­भि­नि­ष्प­त्त्य­यो­गा­दि­त्यर्थः ।

स्वेन रूपे­णा­भि­नि­ष्प­त्ति­रि­त्यत्र विरोधं चोदयति —
कथमिति ।

तत्र हेतुं सूचयति —
कूटस्थेति ।

विशे­ष­ण­व्या­वृ­त्ति­माह —
सुवर्णादीनामिति ।
पार्थिवं रजो द्रव्यान्तरम् । असाधारणो विशेषः स्वर्ण­त्व­भा­स्व­र­त्वादिः । दाह­च्छे­दा­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

स्वर्णा­दि­व­न्न­क्ष­त्रा­दी­ना­म­भि­भा­व­क­द्र­व्य­स­म्प­र्का­वि­ना­शेऽपि स्वरू­पा­भि­नि­ष्प­त्ति­व­त्प्र­कृ­तेऽपि स्यादि­त्या­श­ङ्क्याह —
तथेति ।
स्वर्णा­दी­ना­मि­वेति यावत् । अभिभावकं सावित्रं तेजोऽभीष्टम् ।

दार्ष्टान्तिके वैषम्यमाह —
न त्विति ।
द्रव्या­न्त­र­सं­सृष्टं तेनाभिभूतं ततो विवि­क्त­म­भि­व्य­क्ति­म­र्हति, कूटस्थनित्यं त्वन्ये­ना­स­म्पृ­क्त­म­स­ङ्गा­द्वि­तीयं ततो विवेकद्वारा नाभि­व्य­क्ति­भा­गि­त्यर्थः । वस्तु­तोऽ­सं­स­र्गित्वे व्योमोदाहरणम् ।

जीव­स्या­भि­भू­त­स्व­रू­प­तया ज्ञाना­त्त­द­भि­व्यक्तिः स्वरू­पे­णा­भि­नि­ष्प­त्ति­रि­त्या­श­ङ्क्याह —
दृष्टेति ।
जीव­स्व­रू­प­स्या­न­भि­व्यक्तौ दृष्टः सर्वो व्यवहारो विरुध्येत । तस्याहमिति तद्धी­पू­र्व­क­त्वा­त्तथा च तद­न­भि­व्य­क्ति­र­यु­क्ते­त्यर्थः ।

उक्तमेव व्यक्ती­कु­र्व­न्नादौ तदीयं स्वरूपमनुवदति —
दृष्टीति ।
‘विज्ञानघन एव’ इत्या­दि­श्रु­ते­श्चि­न्मा­त्र­स्व­भा­व­स्ता­व­दात्मा । तच्चैतन्यं चक्षुरादिद्वारा व्यज्यमानं दृष्ट्या­दि­श­ब्दि­तम् । अतो दृष्ट्यादयोऽस्य स्वरूपमित्यर्थः ।

अथोक्तं रूपमदेहस्यैव व्यज्यते सदेहस्य तद्व्य­क्ति­वि­रो­धि­त­त्वात् । न हि देहसम्बन्धे जीवस्यासाधारणं रूपं प्रकटीभवति, तत्राह —
तच्चेति ।

तामेव दृष्टिं व्याचष्टे —
सर्वो हीति ।

सदा दृश्यादिरूपं जीवस्य व्यक्त­मि­त्य­त्रा­र्था­प­त्ति­माह —
अन्यथेति ।

अनुपपत्तिमेव स्फुटयति —
तच्चेदिति ।
दृष्ट्यादिरूपं सर्वनामार्थः । निष्प­त्ति­र­भि­व्यक्तिः ।

जीवस्य सदा स्वरूपव्यक्तौ फलितमाह —
अत इति ।

काल­प­रि­पा­क­नि­मित्तं प्रय­त्न­वि­शे­ष­नि­मित्तं वेति सन्देहादाह —
किमिति ।

काल­कृ­त­प्र­ति­ब­न्ध­ध्वं­सो­पा­धिका वा पुरु­ष­व्या­पा­रो­पा­धिका वेति संशयादुक्तम् —
किमात्मिकेति ।

वस्तु­तोऽ­सं­स­र्गेऽपि देहा­दि­भि­र­वि­द्यया संसृष्टमिवास्य दृष्ट्यादिरूपम् , अत­स्त­द्वि­वे­का­पे­क्षया स्वरू­पा­भि­नि­ष्प­त्ति­रि­त्यु­त्त­र­माह —
अत्रेति ।
वेदना हर्षादयः ।

मिथ्या­सं­सृ­ष्टत्वे दृष्टान्तः —
यथेति ।

विवेकादूर्ध्वं स्वरू­पे­णा­भि­नि­ष्प­त्ति­रपि दृष्टेत्याह —
प्रमाणेति ।

उच्यत इत्यु­क्ति­ता­त्प­र्य­माह —
प्रागपीति ।

शरी­रा­त्स­मु­त्था­ये­त्या­दि­श्रु­त्यर्थं दर्श­य­न्दा­र्ष्टा­न्ति­क­माह —
तथेति ।
श्रुतिकृतं अन्व­य­व्य­ति­रे­क­स­हि­तया ‘योऽयंं विज्ञानमयः’ इत्यादिश्रुत्या सिद्धमिति यावत् । विवेकाज्ञानं त्वम्प­दा­र्थ­शो­ध­नम् ।

स्वरू­पा­भि­नि­ष्प­त्ति­मेव विवेकफलभूतां विशिनष्टि —
केवलेति ।

ननु देहादुत्थानं नामोत्क्रमणं न पदार्थशोधनं, सदेहत्वं च वास्तवं नाविद्यं, प्रसि­द्धि­वि­रो­धात् , तत्राह —
तथेति ।
उक्त­श्रु­त्य­नु­रो­धे­नेति यावत् । देहासम्बन्धिनो देहे स्थिति­रि­त्युक्ते विरोधं निरसितुं विवे­क­तोऽ­दे­ह­त्व­म­वि­वे­कतः सदेहत्वं मान्त्र­व­र्णि­क­मि­त्यर्थः ।

स्वकर्मार्जिते देहे दुःखा­दि­भो­ग­स्या­व­र्ज­नी­य­त्वान्न जीवतः स्वरूपाविर्भाव इत्याशङ्क्याह —
शरीरेति ।
अश­री­र­व­दि­त्य­पे­रर्थः । जीवतोऽपि स्वरू­प­स्या­वि­र्भावः स्यादिति शेषः ।

अविरुद्धे श्रुत्यर्थे सौत्र­मा­वि­र्भा­व­पदं युक्तमित्याह —
तस्मादिति ।

मुख्यावेव तौ किं न स्यातां, तत्राह —
न त्विति ।

ज्ञाना­ज्ञा­ना­भ्या­मा­वि­र्भा­वा­ना­वि­र्भा­वा­वि­त्येवं स्थिते सत्यां­शां­शि­त्वा­दि­कृतो भेदोऽपि निरस्त इत्याह —
एवमिति ।

न्याय­स­हि­त­श्रुत्या जीव­ब्र­ह्म­णो­र्भेदो मिथ्येत्युक्तम् । सम्प्रति प्राजा­प­त्य­वा­क्या­दपि तद्भेदो मिथ्येत्याह —
कुतश्चेति ।
एतद्भिन्नस्य जीव­स्या­प्र­ति­पा­द्य­त्वात् । तन्ना­स्ति­त्व­मे­व­मि­त्यु­च्यते ।

कुतःशब्दोक्तं हेत्वन्तरं स्फोरयति —
यत इति ।
अतो ब्रह्म प्रत्यग्भूतमत्र प्रतिपाद्यमिति शेषः ।

उक्तं व्यतिरेकेण विवृणोति —
योऽक्षिणीति ।
श्रुति­लि­ङ्गाभ्यां केवलं जीवलिङ्गं बाधित्वा जीवो ब्रह्मतयोच्यते नान्य­त्वे­ने­त्यर्थः ।

प्रती­का­भि­प्रा­येण छायया ब्रह्मणः सामानाधिकरण्यं न जीवेनेति नास्ति लिङ्ग­मि­त्या­श­ङ्क्याह —
नापीति ।
उपा­स्ति­वि­ध्य­श्र­व­णा­त्प्र­ति­पा­द­क­त्व­स­म्भवे प्रती­को­क्ति­क­ल्प­ना­यो­गा­दा­त्मा­न्वे­ष­णाय प्रवृत्तयोः सुरा­सु­र­रा­ज­यो­र­ना­त्मानं वद­न्प्र­जा­प­ति­र्मृ­षा­वादी विप्रलम्भकः स्यादतो ब्रह्मणो जीवेन सामा­ना­धि­क­र­ण्या­ल्लि­ङ्ग­सि­द्धि­रि­त्यर्थः ।

द्वितीये पर्याये जीव­स्या­व­स्था­वेै­शि­ष्ट्य­दृ­ष्टे­रा­द्येऽपि पर्याये न ब्रह्मै­क्य­मि­ष्ट­मि­त्या­श­ङ्क्याह —
तथेति ।
आद्ये पर्याये जीव­ब्र­ह्म­सा­मा­ना­धि­क­र­ण्या­त्त­दै­क्य­व­दि­त्यर्थः । अवस्थानां व्यभि­चा­रि­त्वा­ज्जी­व­स्या­स­ङ्ग­त्वा­द्युक्तां द्विती­य­प­र्या­य­स्यै­क्य­प­र­तेति भावः ।

अवस्थाव्यभिचारे तद्वतोऽपि तद्भा­वा­त्कु­तोऽ­स­ङ्ग­ते­त्या­श­ङ्क्याह —
किञ्चेति ।

आत्मनो ज्ञान­रू­प­त्वा­त्तस्य च स्वापेऽ­भा­वा­त्कथं तद­व्य­भि­चा­रि­ते­त्या­श­ङ्क्याह —
तथेति ।
पर्यायद्वयं दृष्टान्तयितुं तथेत्युक्तम् । विज्ञातृनिषेधे परा­मा­र्शा­सि­द्धि­रिति भावः ।

ज्ञातु­र­भा­वो­क्ति­रपि तत्रा­स्ती­त्या­श­ङ्क्याह —
यत्त्विति ।

तत्र बृह­दा­र­ण्य­क­श्रुतिं संवादयति —
न हीति ।
आत्मनः स्वभा­व­भू­त­वि­ज्ञ­प्ते­र्ना­न्य­था­भावो योग्य­त्वा­दि­त्यर्थः ।

पर्या­य­त्र­य­व­च्च­तु­र्थ­प­र्या­या­लो­च­ना­या­मपि ब्रह्मा­व्य­ति­रि­क्त­जी­वस्य प्रति­पा­द्य­त्व­मि­त्याह —
तथेति ।

कथ­मु­प­हि­त­स्या­नु­प­हि­त­प­रै­क्य­मि­त्या­श­ङ्क्याह —
मघवन्निति ।

सम्प्रसादस्यैव परेणैक्यमुच्यते न जीव­स्ये­त्या­श­ङ्क्याह —
सम्प्रसादेति ।

स्वरू­पे­णा­भि­नि­ष्प­त्ति­व­च­ना­द्ब्र­ह्म­स्व­रू­पा­प­न्न­त्वेऽपि न ततोऽन्यत्वं निरस्यते भिन्ना­भि­न्न­त्वा­दि­त्या­शङ्क्य विरो­धा­दे­को­पाद्यौ तदयोगादभेदाभावे स्वरू­पा­भि­नि­ष्य­त्ते­र­यु­क्त­त्वा­त्त­द्ग­त­भे­दस्य कल्पि­त­त्व­मे­वे­त्याह —
नेति ।

एक­दे­शि­व्या­ख्या­म­नु­व­दति —
केचित्त्विति ।
जीव­स्या­प­ह­त­पा­प्म­त्वा­द्य­यो­गा­त्त­दा­क­र्ष­ण­स्या­न्या­य्य­त्वम् ।

कथं तर्हि प्रकृतानुगुणतया वाक्यं व्याख्यायते, एतच्छब्देन पूर्वपर्यायेषु प्रकृ­त­जी­वा­ना­क­र्षणे तदा­ल­म्ब­ना­भा­वा­द्वा­क्या­र्थ­धि­योऽ­नु­द­यात् , तत्राह —
एतमिति ।

सर्वनामश्रुत्या दूषयति —
तेषामिति ।

किञ्चो­प­क्र­म­सू­चि­तोऽ­र्थ­श्च­तुर्थ एव पर्याये सर्वनामार्थः, सर्वत्र वा । तत्राद्यं प्रत्याह —
भूयः­श्रु­ति­श्चेति ।

उपक्रान्तोऽर्थः सर्वत्र सर्वनामार्थोऽपि न प्रति­पा­द्य­को­टि­नि­वे­शीति द्विती­य­मा­श­ङ्क्याह —
एतं त्विति ।

स्वयूथ्यमतायोगे फलितमाह —
तस्मादिति ।

ब्रह्मैव जीवस्तदित्थं कथ­मि­त्या­श­ङ्क्याह —
कर्त्रिति ।

तस्य विला­प­न­यो­ग्य­ता­माह —
अनेकेति ।

कथं तर्हि तत्परिहार्या पार­मा­र्थि­क­रू­पा­प­त्ति­रि­त्या­शङ्क्य सदृष्टान्तमाह —
तदिति ।
रज्ज्वादीनेषा रज्जु­रि­त्या­दि­वि­द्यया पुरो­व­र्त्य­धि­ष्ठा­न­त्व­मिति शेषः ।

पौर्वा­प­र्या­लो­च­नया प्राजा­प­त्य­वाक्ये जीवानुवादेन ब्रह्मत्वं तस्ये­ष्ट­मि­त्यु­क्तम् । सम्प्रति सूत्र­सा­म­र्थ्या­त्प्र­त्य­क्षा­दि­प्रा­मा­ण्याच्च जैवं रूपं वास्तवमिति मतान्तरमाह —
अपरे त्विति ।

शारीरकमेव तेषा­मु­त्त­र­मि­त्याह —
तेषामिति ।

तत्प्र­ति­षे­धार्थं नैतदारब्धं, सम्य­ग्ज्ञा­ना­र्थ­त्वा­दि­त्या­श­ङ्क्याह —
आत्मेति ।

कथमिदमेव तेषा­मु­त्त­र­मि­त्युक्ते तदर्थं सङ्गृह्णाति —
एक इति ।

तस्य परिणामित्वं वारयति —
कूटस्थेति ।

ज्ञाना­दि­गु­ण­वत्त्वं प्रत्याह —
विज्ञानेति ।

कथं तस्यैकत्वं, चेत­ना­चे­त­ना­भे­द­धी­वि­रो­धा­दि­त्या­श­ङ्क्याह —
अविद्ययेति ।
माया ततोऽन्येति वादं व्युदसितुं माययेत्युक्तम् । साधा­र­णा­सा­धा­र­ण­प्र­प­ञ्च­भे­द­स्या­प्रा­मा­णि­क­त्वात् , अविद्यादिभेदे च मानाभावात् , एक­स्मा­दे­वा­ज्ञा­ना­द्वि­चि­त्र­श­क्तितो विश्वधीसम्भवे तद्भेदे गौरवान्न सोऽस्तीत्यर्थः ।

एकस्यानेकधा भानं नाविद्ययापि दृष्ट­मि­त्या­शङ्क्य विवर्तानुगुणं दृष्टान्तमाह —
मायावीति ।

‘नान्योऽ­तोऽस्ति’ इत्या­दि­श्रु­ते­र­व­धा­र­णा­र्थ­माह —
नेति ।
शारी­र­का­र्थ­स­ङ्क्षे­प­स­मा­प्ता­वि­ति­शब्दः ।

श्रुति­सा­म­र्थ्या­द­ति­रि­क्त­जी­वा­भा­वेऽपि सूत्र­सा­म­र्थ्या­दन्यो जीवोऽ­स्ती­त्य­श­ङ्क्याह —
यत्त्विति ।
आदिशब्देन ‘नेत­रोऽ­नु­प­पत्तेः’ इति गृह्यते ।

संसारिणो जीवा­द्भे­दोक्त्या याव­दी­श्व­र­स्या­सं­सा­रित्वं नोच्यते ताव­द­भे­द­व्य­प­दे­शेऽपि जीव­स्या­सं­सा­रित्वं न सिध्य­ती­त्या­पा­तिकं भेदं सूत्र­का­रोऽ­नु­व­द­ती­त्याह —
तत्रेति ।

तत्र तत्र श्रुति­स्मृ­ती­ति­हा­स­पु­रा­णेषु प्रमितं परमात्मरूपनूद्य ततो विपरीतं प्रातीतिकं जीवरूपं तत्र कल्पितमिति सोदाहरणमाह —
नित्येति ।

कथं तर्हि तस्य निर­स­न­मि­त्या­श­ङ्क्याह —
तदात्मेति ।
वाक्यानि तत्त्व­म­सी­त्या­दीनि । जीव­ब्र­ह्म­णो­श्चै­त­न्या­वि­शे­षा­त्त­दा­का­रे­णा­का­रा­न्त­रेण वा भेदायोगो न्याय्यः । ‘नेह नाना’ इत्यादयो द्वैतवादनिषेधाः ।

परस्य जीवादन्यत्वे तस्यापि ततोऽन्यत्वं स्यादिशङ्क्याह —
जीवस्येति ।
अधि­ष्ठा­न­स्या­रो­प्या­द­न्य­त्वेऽपि न तस्या­धि­ष्ठा­ना­द­न्य­ते­त्यर्थः ।

कथं तर्हि तस्य परस्मादन्यत्वं, तत्राह —
किन्त्विति ।

अनुवादस्य प्रमित्यपेक्षां प्रत्याह —
अविद्येति ।

अपू­र्व­त्वा­भा­वाच्च तस्या­प्र­ति­पा­द्य­ते­त्याह —
लोकेति ।

जीव­भे­द­स्या­प्रा­मा­णि­कत्वे कुतो निरधिकाराणां विधीनां प्रामा­ण्य­मि­त्या­श­ङ्क्या­नु­वा­द­फ­ल­माह —
एवं हीति ।

ननु जीव­ब्र­ह्म­णो­रैक्यं न क्वापि सूत्रकारो मुखतो वदति किन्तु सर्वत्र भेदमेवातो नैक्यमिष्टं, तत्राह —
प्रति­पा­द्य­न्त्विति ।
आदिपदं ‘आत्मेति तूपगच्छन्ती’ त्यादि­स­ङ्ग्र­हा­र्थम् ।

‘विद्वान्यजेत’ इत्यादिश्रुत्या कर्म­स्वा­त्म­वि­दोऽ­धि­का­रा­त्क­र्तृ­त्वा­दे­र्वा­स्त­वत्वे कुतो जीवस्य ब्रह्मैक्यं तदैक्ये वा कुतो विधिविरोधो नेत्याशङ्क्य विशि­ष्ट­स्या­मु­ख्या­त्म­त्वा­त्त­द्वि­दश्च कर्मा­धि­का­रा­न्मु­ख्या­त्म­वि­द्या­व­त­स्त­त्त्या­गा­धि­का­रान्न काण्ड­यो­र्वि­रो­धोऽ­स्ती­त्युक्तं स्मारयति —
वर्णितश्चेति ॥ १९ ॥

जीवानुवादेन ब्रह्मताविधाने विरो­धा­भा­वा­त्प्रा­जा­पत्ये वाक्ये जीव­स्या­प्र­ति­पा­द्य­त्वान्न तदवष्टम्भेन दहरवाक्ये जीवा­श­ङ्के­त्यु­क्तम् । इदानीं दहरवाक्यशेषस्य गतिमाह —
अन्यार्थश्चेति ।

सूत्र­व्या­व­र्त्या­श­ङ्का­माह —
अथेति ।

वाक्य­भे­द­प्र­सङ्गं हेतूकृत्योक्तम् —
न जीवेति ।

प्रकृतो विशेषो दह­रा­का­श­स्त­स्यापि नाय­मु­प­दे­श­स्त­स्या­जी­व­त्वा­दि­त्याह —
नेति ।

उत्तरत्वेन सूत्रमवतार्य व्याकरोति —
अत इति ।

अन्या­र्थ­त्व­मे­वा­का­ङ्क्षा­द्वारा स्फोरयति —
किं तर्हीति ।

सम्प्रसादपदे जीववादिनि श्रुते नेश्वरपरत्वं वाक्य­स्ये­त्या­क्षि­पति —
कथमिति ।

व्याख्यया वाक्यस्य परस्मिन्नेव तात्पर्यमाह —
सम्प्रसादेति ।
तादा­त्म्य­वि­ष­यत्वं सम्बन्धविषयत्वं चोभयरूपत्वं देहद्वयविषयत्वं वा ।

यत्तु जीवस्य नाप­ह­त­पा­प्म­त्वा­दिति, तत्राह —
यदीति ।

जीवपरामर्शस्य गतिमुक्त्वा दहरश्रुतेः शङ्काद्वारा गतिमाह —
अल्पेति ॥ २० ॥

शङ्काभागं विभजते —
यदपीति ।
तस्य पर­म­म­ह­त्त्वा­दि­त्यर्थः ।

जीवेऽपि कथमल्पा श्रुति­र्म­ह­त्त्वा­वि­शे­षात् , तत्राह —
जीवस्येति ।

तदु­क्त­मि­त्ये­त­द्व्या­चष्टे —
उक्तो हीति ।

तमेव स्मारयति —
परमेति ।

कुत्रेदं समाधानमुक्तं, तत्राह —
अर्भकेति ।

तथापि परस्य परममहतो नास्ति दहरत्वमित्यत्र किमायातं, तत्राह —
स एवेति ।

तदुक्तमित्यस्य व्याख्यान्तरमाह —
श्रुत्येति ।
तदेवं श्रुति­लि­ङ्गाभ्यां दहरवाक्यं ध्येये पर­स्मि­न्न­न्वितं, प्राजा­प­त्य­वाक्यं तु ज्ञेये पर­स्मि­न्न­न्वि­त­मिति स्थितम् ॥ २१ ॥

‘परं ज्योति­रु­प­स­म्पद्य’ इत्या­दि­वा­क्या­र्थ­वि­चा­र­प्र­स­ङ्गात् ‘तच्छुभ्रं ज्योतिषां ज्योतिः’ इति वाक्यो­क्त­प­र­ञ्ज्यो­ति­ष्ट्वा­सा­धकं न तत्रे­त्या­दि­वाक्यं विमृशति —
अनुकृतेरिति ।

आथ­र्व­ण­वा­क्य­मा­दत्ते —
न तत्रेति ।

सूर्य­स्या­ना­भा­स­क­त्वेऽपि रात्राविव चन्द्रा­दे­र्भा­स­कत्वं, नेत्याह —
नेति ।

विद्युतामपि फल्गु­त्व­म­नु­भ­व­सि­द्ध­मिति मत्वोक्तम् —
नेमा इति ।

कैमुतिकन्यायमाह —
कुत इति ।

इतश्च सूर्यादेर्न ब्रह्मणि भासकत्वमित्याह —
तमेवेति ।

अनुगमनवदनुभानं स्वग­त­भा­न­कृ­त­मि­त्या­श­ङ्क्याह —
तस्येति ।

उक्ते वाक्ये विषयंं निष्कृष्य सप्तम्याः सति विषये च साधारण्यहेतोः संशयमाह —
तत्रेति ।

पूर्व­त्रा­त्म­श्रु­त्या­द्य­वि­रो­धा­दा­का­श­श­ब्दस्य रूढि­त्या­गे­ने­श्वरे वृत्तिरुक्ता, तथेहापि सतिसप्तम्यां योग्या­नु­प­ल­ब्धि­वि­रो­धान्न भातीत्यस्य वर्त­मा­ना­र्थ­ता­त्या­गा­द्य­स्मि­न्सति सूर्यो न भास्यति स तेजो­धा­तु­रु­पा­स्य­त्वे­नो­च्यत इति पूर्वपक्षमाह —
तेज इति ।
उक्ता­थ­र्वा­ण­श्रु­ते­र्नि­र्वि­शेषे ज्ञेये ब्रह्म­ण्य­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे तेजो­धा­तो­र्ध्यानं, सिद्धान्ते निर्वि­शे­ष­ब्र­ह्म­धी­रिति फलभेदः ।

सप्तम्या विषयेऽपि सम्भ­वा­द­ध्या­हा­र­स्या­यु­क्त­त्वान्न तेजोधातुरिति शङ्कते —
कुत इति ।

विषयसप्तम्या णिज­ध्या­हा­रा­दि­त­रत्र लिङ्गा­नु­ग्र­हा­त्ते­जो­धा­तु­रे­वा­य­मि­त्याह —
तेजोधातूनामिति ।

कुतोऽस्य तेजो­धा­तो­र्लि­ङ्ग­ते­त्या­श­ङ्क्याह —
तेजःस्वभावकमिति ।

प्रसि­द्धि­म­नु­रुध्य दृष्टा­न्त­मुक्त्वा दार्ष्टा­न्ति­क­माह —
तथेति ।

यस्मिन्सति यन्न भाति तत्तमनुभातीति विरुद्धमिति कुतः सति­स­प्त­मी­त्या­श­ङ्क्याह —
अनुभानमिति ।
तमनुभातीति तदपेक्षया निकृ­ष्ट­प्र­का­श­त्व­मि­ष्ट­मि­त्यर्थः ।

अनु­भा­न­स्या­वि­रो­धि­त्वा­त्प्रा­गु­क्त­लि­ङ्गाच्च कस्य­चि­त्ते­जो­धा­तो­रु­पा­स्य­ता­त्रा­भी­ष्टे­त्यु­प­सं­ह­रति —
तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धा­न्त­म­व­तार्य प्रति­ज्ञा­म­ध्या­ह­रति —
एवमिति ।

लिङ्गसिद्धं तेजोधातुं त्यक्त्वा कुतोऽयं नियमः स्यादिति शङ्कते —
कस्मादिति ।

हेतुमादाय व्याकरोति —
अनुकृतेरिति ।

किं तदनुकरणं, तदाह —
यदेतदिति ।

तेजसामनुभानं कथं प्राज्ञं ज्ञाप­य­ती­त्या­शङ्क्य श्रुत्यन्तरे तस्य भारू­प­त्वा­व­धा­र­णा­दि­त्याह —
भारूप इति ।

तेजोन्तरे मानाभावाच्च न तदिह ग्राह्य­मि­त्य­नु­भा­न­स्या­न्य­था­सिद्धिं निराह —
नत्विति ।
न चेदमेव वाक्यं तत्र मानमन्यपरस्य मानान्तरविरोधे देव­ता­धि­क­र­ण­न्या­या­न­व­ता­रा­दिति भावः ।

विरो­धा­च्चा­नु­भानं परपक्षे न स्यादित्याह —
समत्वाच्चेति ।

ननु सूर्या­द­य­श्चा­क्षुषं तेजोऽपेक्ष्य भासन्ते, चक्षु­ष्म­त­स्त­द्भा­नात् , तत्राह —
यमिति ।
चक्षु­षोऽ­नु­द्भू­त­प्र­का­श­त्वा­ज्ज­न्य­ज्ञा­न­वि­ष­यत्वे सूर्यादेर्न सजातीयापेक्षेति भावः ।

तदेव दृष्टान्तेन स्पष्टयति —
नहीति ।

पूर्व­वा­दि­नो­क्त­म­नु­भा­षते —
यदपीति ।
गच्छ­न्त­म­नु­ग­च्छ­तीति समा­न­स्व­भा­व­के­ष्व­नु­का­रा­द­नु­भा­ना­त्ते­जसां सूर्यादीनां सति यस्मिन्भानं निषिध्यते सोऽपि कश्चि­त्ते­जो­धा­तु­रि­त्य­नु­वा­दार्थः ।

अनुकारः स्वभा­व­सा­म्य­म­पे­क्षते, क्रियासाम्यं वा । नाद्य इत्याह —
नायमिति ।

द्विती­य­म­ङ्गी­कु­र्व­न्नाह —
भौमं वेति ।
अग्न्य­यः­पि­ण्ड­यो­र्द­ह­न­क्रि­या­भे­दा­भा­वेऽपि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासाम्यम् । वायुरजसोस्तु निय­त­दि­ग्दे­श­ग­म­न­म­स्त्येव । प्रकृतेऽपि सूर्या­दे­र्ब्र­ह्म­णश्च तुल्यं भानमिति भावः ।

हेतो­र­सू­त्रा­नु­सा­रि­त्व­मा­श­ङ्क्यो­क्तम् —
अनुकृतेरितीति ।

सूत्रस्य द्वितीयं पदं हेत्व­न्त­र­त्वे­ना­व­ता­र­यति —
तस्य चेति ।

चतु­र्थ­पा­दो­पात्तं हेत्वन्तरं स्फोरयति —
तस्येति ।

कथमेतावता तस्य प्राज्ञत्वंं, तत्राह —
तदिति ।

स्वपक्षे मानमुक्त्वा परपक्षे तदभावमाह —
तेजोन्तरेणेति ।

न केवलं मानाभावः, तद्वि­रो­ध­श्चे­त्याह —
विरुद्धं चेति ।

प्रकृ­त­सू­र्या­दि­वि­ष­य­तया सर्वशब्दो व्याख्यातः । सम्प्रति तस्याः सङ्कु­च­द्वृ­त्तित्वं मत्वा व्याख्यान्तरमाह —
अथवेति ।

कुतो ब्रह्म­ज्यो­ति­र्ग­त­वि­का­रा­ति­रे­केण तत्स­त्ता­मा­त्रा­यत्तं सर्वभानं, तत्राह —
यथेति ।

प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —
नेति ।

सर्वनाम्ना प्रकृ­त­प­रा­म­र्शेऽपि कुतो ब्रह्म गृह्यते तत्राह —
प्रकृतं चेति ।

प्रकृतमपि ब्रह्म व्यव­हि­त­त्वा­न्नेह सम्ब­न्धा­र्ह­मि­त्या­श­ङ्क्याह —
अनन्तरं चेति ।
हिरण्मयो ज्योति­र्म­योऽ­न्न­म­या­द्य­पे­क्षया परश्चायं कोशो यमा­न­न्द­म­य­मा­च­क्षते, तत्र ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति यत्प्‌र­ति­ष्ठा­भूतं ब्रह्म तत्प्रतिष्ठितं, तच्च विर­ज­मा­ग­न्तु­क­म­ल­वि­कलं, निष्कलं निरवयवं, शुभ्रं नैस­र्गि­क­दो­ष­र­हि­तम् । ज्योतिषां सूर्यादीनां ज्योतिरवभासकम् । तच्च विदु­षा­म­नु­भ­व­सि­द्ध­मि­त्यर्थः ।

उदा­ह­र­ण­म­पे­क्ष्या­व्य­व­हितं ब्रह्मे­त्यु­क्तम् । संप्र­त्य­पे­क्षि­ता­न­पे­क्षि­ता­भि­धा­न­यो­र­पे­क्षि­ता­भि­धानं न्याय्य­मा­का­ङ्क्षा­पू­र­क­त्वेन दृष्टा­र्थ­त्वा­दिति विव­क्षि­त्वो­क्तम् —
कथमित ।
स्पष्ट­ब्र­ह्म­वा­दि­पू­र्व­म­न्त्रा­का­ङ्क्षा­पू­र­क­त्वा­दु­त्त­रोऽपि मन्त्रो ब्रह्मपर इत्यर्थः ।

सति­स­प्त­मी­मा­दा­यो­क्त­म­नु­भा­षते —
यदपीति ।
सूर्या­द्य­भि­भा­वके तेजोधातौ प्रामाणिके तस्येह ग्रहो न वेति चिन्ता ।

तद्भावे मानाभावान्न सोऽस्तीत्याह —
तत्रेति ।

ननु ब्रह्मणि प्रामाणिकेऽपि तस्मिन्सति सूर्यादयो न भान्ति तस्य सदाभावात्तेषां सदा­भा­ना­भा­व­प्र­स­ङ्गात् , तत्राह —
ब्रह्मणीति ।
तत्रेति न सतिसप्तमी किन्तु विषयसप्तमी । ततो ब्रह्मणि विषये सूर्यादयो न भान्ति ब्रह्मैव तेषु प्रकाशकत्वेन भवतीत्यर्थः । यद्वा सतिसप्तमीं गृहीत्वा तेजोन्तरोक्तौ न भातीति वर्तमानापदेशे माना­न्त­र­वि­रो­धान्न भास्यतीति लक्षणायां श्रुत­त्या­गे­ना­श्रु­त­स्वी­कारे गौर­वा­त्त­द­त्या­गे­ना­ध्या­हारे लाघवान्न भासयतीति णिज­र्थ­म­ध्या­हृत्य सूर्याद्यभास्यं ब्रह्मैव तद्भा­स­क­मि­हा­भी­ष्ट­मिति भावः ।

यस्मा­द्ध­टा­दि­रु­प­ल­भ्यते तदपि ब्रह्मणोपलभ्यते चेद्ब्रह्मापि केन­चि­द­न्ये­नो­प­ल­भ्ये­ता­वि­शे­षा­दि­त्या­श­ङ्क्याह —
ब्रह्म त्विति ।
येनोपलभ्यत्वेन सूर्या­द­य­स्त­स्मि­न्ब्र­ह्मणि विषये भायुस्तथा ब्रह्म नान्येनोपलभ्यते स्वय­ञ्ज्यो­तिः­स्व­रू­प­त्वा­द­न्य­कृ­तो­प­ल­म्भा­न­पे­क्ष­णा­दि­त्य­क्ष­र­यो­जना ।

तदुपपादयति —
ब्रह्म हीति ।
स्वप्रकाशस्य प्रका­श्य­त्वा­द­र्श­ना­द­शे­ष­प्र­का­शकं ब्रह्म नान्य­प्र­का­श्य­मि­त्यर्थः ।

ब्रह्मणः स्वय­ञ्ज्यो­ति­ष्ट्वेन सर्वभासकत्वे मानमाह —
आत्मनेति ।

तस्या­न्या­न­व­भा­स्य­त्वेऽपि श्रुतिमाह —
अगृह्य इति ॥ २२ ॥

णिजध्याहारेण ब्रह्मणः सूर्या­द्य­वि­ष­यत्वे श्रुत्युक्ते स्मृतिमाह —
अपीति ।

सूत्रं व्याकरोति —
अपि चेति ।

तत्रा­ग्रा­ह्यत्वे स्मृतिमाह —
न तदिति ।

ग्राहकत्वेऽपि तामाह —
यदादित्येति ।
तदेवं ‘न तत्र’ इत्यादिवाक्यं ज्योतिषां ज्योतिषि ज्ञेये पर­स्मि­न्न­न्वि­त­मिति ॥ २३ ॥

परस्य ज्योति­ष्ट्वोक्ते ज्योति­रि­वे­त्यु­प­मी­य­मा­न­पु­रु­षस्य ततोऽ­र्था­न्त­र­त्व­मा­श­ङ्क्यो­क्तम् —
शब्दादिति ।

काठकवाक्यं पठति —
अङ्गुष्ठेति ।

स्वाभाविकं परिच्छेदं वारयति —
पुरुष इति ।

पूर्ण­त्वा­त्स­र्व­त्रो­प­ल­ब्धे­र्ना­ङ्गु­ष्ठ­मा­त्र­ते­त्या­शङ्क्य विशे­ष­व्य­क्ति­स्था­न­द्वारा तद्योगमाह —
मध्य इति ।
आत्मनि देहे मध्ये हृद­य­स­द्म­नी­त्यर्थः ।

तस्यैव परा­त्म­त्व­वा­दि­वा­क्या­न्त­र­माह —
तथेति ।

अधूमकं ज्योति­र­क­लु­षि­त­मे­क­रूपं प्रकाशमात्रं यथा दृष्टं तथायमपि कूट­स्थ­प्र­का­श­धा­तु­रि­त्याह —
ज्योतिरिति ।
ज्योतिः­प­र­त्वा­द­धू­म­क­मिति लिङ्गव्यत्ययः ।

शोधितत्वमर्थस्य तदर्थतामाह —
ईशान इति ।
भूतभव्यग्रहणं भवतोऽपि प्रदर्शनार्थम् । काल­त्र­य­प­रि­च्छे­द्यस्य नियन्तेति यावत् ।

अद्वितीयत्वमाह —
स एवेति ।
वर्तमाने काले स एवास्ति, श्वो भविष्यत्यपि काले स एव भविता, अतीतेऽपि काले स एवासीत् ।

यन्नचिकेतसा पृष्टम् ‘अन्यत्र धर्मात् ‘ इत्यादिना, तदेतदेवेत्याह —
एतदिति ।

विषयमनूद्य परि­मा­णो­क्ते­री­शा­न­श­ब्दाच्च संशयमाह —
तत्रेति ।

पूर्व­त्रा­नु­भा­ना­दिना विषयसप्तम्या णिजध्याहारेण सूर्यादेरगोचरो ब्रह्मे­त्युक्तं, तथेहापि परि­मा­ण­लि­ङ्गा­ज्जी­व­मा­दा­ये­शा­नोऽ­स्मीति चेतो धारयेदिति विध्य­ध्या­हा­रे­णो­पा­स्ति­परं वाक्यमिति पूर्वपक्षयित —
तत्रेति ।
पठि­त­का­ठ­क­श्रु­ते­र्नि­र्वि­शे­षे­प्र­त्य­ग्ब्र­ह्म­ण्य­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे जीवस्योपास्तिः, सिद्धान्ते तस्यैव परात्मतया धीरिति फलभेदः ।

परस्योपासनायै क्वचि­त्प­रि­मा­णो­क्ता­वपि वस्तुपरत्वेन त्वदिष्टे वाक्ये तद­यो­गा­ज्जी­व­ग्र­होऽ­त्रेति मत्वोक्तम् —
परिमाणेति ।

श्रुतेरेव लिङ्गा­द्ब­ली­य­स्त्वा­दी­शा­न­श्रुत्या परमात्मावगतौ कुतो जीव­श­ङ्के­त्या­शङ्क्य परमात्मनि परि­मा­णो­क्ते­र­त्य­न्त­बा­धा­ज्जीवे कति­प­ये­शि­तृ­त्वा­दी­शा­न­त्व­सि­द्धे­र्गौणी श्रुति­रि­त्या­श­ये­नाह —
नहीति ।

जीवस्यापि विभु­त्वा­दु­क्त­प­रि­मा­णा­सि­द्धि­रि­त्या­श­ङ्क्याह —
विज्ञानेति ।
कयाचिदिति हृदयकमलकोशस्य जीवो­प­ल­ब्धि­स्था­न­स्या­ङ्गु­ष्ठ­मा­त्र­त­ये­त्यर्थः ।

किञ्च यथा सति विषये च साधारणी सप्तमी ‘न तद्भासयते’ इति स्मृत्या विषये व्यवस्थापिता, तथा परिमाणमपि जैवमैश्वरं वेति संशये सति ‘अङ्गुष्ठमात्रं निश्चकर्ष’ इति स्मृत्या निश्च­य­सि­द्धि­रि­त्याह —
स्मृतेश्चेति ।
मर­णा­न­न्त­र्य­म­थ­श­ब्दार्थः ।

तत्रापि वरमात्मैव प्रति­पा­द्योऽस्तु, नेत्याह —
नहीति ।
‘प्रभवति संयमने ममापि विष्णुः’ इति यमस्य तद­धी­न­त्व­स्मृ­ते­रि­त्यर्थः ।

स्मृतेः संसारिविषयत्वं निगमयति —
तेनेति ।

निश्चि­ता­र्थ­स्मृत्या सन्दि­ग्धा­र्थ­श्रु­ते­रपि जीवा­र्थ­तै­वे­त्याह —
स इति ।
वाक्यस्य जीवगामित्वे स्थिते तस्ये­शा­नोऽ­स्मीति ध्यानं फल­ती­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

पूर्वपक्षमनूद्य सिद्धा­न्त­म­व­तार्य प्रतिज्ञां व्याकरोति —
एवमिति ।

जीवे लिङ्गसिद्धे निय­मा­सि­द्धि­रि­त्याह —
कस्मादिति ।

श्रुतिलिङ्गयोः श्रुति­र्ब­ली­य­सीति मत्वा हेतुमाह —
शब्दादिति ।

जीवेऽपि कति­प­ये­शि­तृ­त्वा­द­वि­रुद्धा श्रुति­रि­त्युक्तं, तन्न, भूत­भ­व्य­स्ये­त्य­वि­शे­ष­श्रु­ते­रि­त्याह —
नहीति ।

प्रक­र­ण­म­पी­श्व­र­वि­ष­य­मि­त्याह —
एतदिति ।

उक्तमर्थं वाक्ययोजनया स्पष्टयति —
एतद्वा इति ।

जीवस्यैव पृष्टत्वेन प्रकृ­त­त्व­मा­श­ङ्क्यो­क्तम् —
पृष्टं चेति ।
उपहिते तु जीवे काल­त्र­या­प­रि­च्छे­द्यत्वं कार्य­का­र­णा­स्पृ­ष्टत्वं च दुर्योजमिति भावः ।

सूत्रे शब्दादिति वाक्यो­क्ते­स्तस्य लिङ्गा­द्दु­र्ब­ल­त्वा­द्ब­ल­वतो लिङ्गा­ज्जी­वोक्तिः स्यादि­त्या­श­ङ्क्याह —
शब्दादिति ।
श्रुति­लि­ङ्ग­वि­रोधे श्रुतिरेव बाधिका न लिङ्गमिति मर्यादां वक्तुं सूत्र­भा­ष्य­यो­रे­व­कारः ॥ २४ ॥

सिद्धान्ते परस्य विभु­त्वा­द­ङ्गु­ष्ठ­मा­त्र­त्व­म­यु­क्त­मि­त्यु­त्त­र­सू­त्र­व्या­व­र्त्य­माह —
कथमिति ।

सूत्रमवतारयति —
अत्रेति ।

तदवयवं व्याचष्टे —
सर्वेति ।

तुशब्दसूचितं दृष्टान्तमाह —
आकाशस्येति ।
करः सक­नि­ष्ठि­कोऽ­रत्निः ।

किमिति हृद्य­व­स्था­ना­द­ङ्गु­ष्ठ­मा­त्रत्वं परस्य गौणमिष्टं, तत्राह —
न हीति ।

तर्हि परि­मा­ण­मु­ख्य­त्वाय जीव एव गृह्यतां, नेत्याह —
न चेति ।
मुख्यसम्भवे गौण­मु­ख्य­यो­र्मुख्ये संप्रत्ययो मुख्या­स­म्भ­व­श्चा­त्रो­क्त­स्तेन गौणं परिमाणमित्यर्थः ।

सूत्रा­व­य­व­व्या­वर्त्यां शङ्कामाह —
नन्विति ।

तदुत्तरत्वेन तं पातयति —
अत इति ।

स्वर्ग­का­मा­दि­वाक्ये स्वर्गादिकामिन एवा­वि­शे­षे­णा­धि­का­रित्वं न मनु­ष्य­स्ये­त्या­श­ङ्क्याह —
शास्त्रमिति ।

मनु­ष्य­श­ब्द­स्त्रै­व­र्णि­क­वि­षयः । तेषां शास्त्राधिकारे हेतुमाह —
शक्तत्वादिति ।
तेन तिरश्चां देवतानामृषीणां चाधिकारो वारितः । तिर्यञ्चो वेदा­र्थ­ज्ञा­ना­दि­सा­म­ग्र्य­भा­वा­द्व्य­क्त­म­शक्ताः । देवानां स्वदेवत्ये कर्म­ण्या­त्मो­द्दे­शेन द्रव्य­त्या­गा­यो­गा­द­शक्तिः । ऋषी­णा­मा­र्षे­य­व­र­णादौ तदभावात् ।

स्थावराणां मुमुक्षूणां च कर्मण्यधिकारं निवर्तयति —
अर्थित्वादिति ।
मुमुक्षोः शुद्ध्यर्थं नित्ये­ष्व­धि­का­रेऽपि काम्येषु तदभावः ।

शूद्राधिकारं वारयति —
अप­र्यु­द­स्त­त्वा­दिति ।
ते हि ‘शूद्रो यज्ञेऽ­न­व­क्लृप्तः’ इति पर्युदासान्न वैदिके कर्मण्यधिकारिणः ।

तत्रैव हेत्वन्तरमाह —
उपनयनादीति ।
न हि शूद्रा­णा­मे­क­जा­ति­त्व­स्मृ­ते­रु­प­न­यनं, तदभावे कुतोऽध्ययनं, तस्य तदङ्गत्वात् , अध्ययनाभावे कुत­स्त­द­र्थेऽ­धि­कारः ।

अत्र चापे­क्षि­त­न्या­यस्य षष्ठेऽध्याये सिद्धत्वान्नेह तदर्थं यत्यत इत्याह —
इति वर्णितमिति ।
फलार्थे कर्मणि तिर्यगादेरपि सुख­का­म­स्या­धि­कारः स स्वर्ग­का­म­श्रु­ते­र­वि­शे­षा­दि­त्या­श­ङ्क्या­ङ्ग­श्रु­त्य­र्थ­व­त्त्वाय समर्थविषयतया तिर्य­गा­दे­स्त­द­भा­वेन स्वर्गकामपदं सङ्कोच्य मनु­ष्या­धि­का­रत्वे स्थिते चातु­र्व­र्ण्य­म­धि­क­रोति शास्त्रमिति प्रापय्य ‘वसन्ते ब्राह्म­णोऽ­ग्नी­ना­द­धीत ग्रीष्मे राजन्यः शरदि वैश्यः’ इति त्रया­णा­मे­वा­ग्नि­स­म्ब­न्ध­श्र­व­णा­त्ते­षा­मे­वा­धि­कार इति प्रति­ष्ठा­पि­त­मि­त्यर्थः ।

मनुष्याणामपि कथ­मु­च्चा­व­चा­व­य­वानां नियतपरिमाणं हृदयं, तत्राह —
मनुष्याणां चेति ।

अस्म­दा­दि­दे­ह­स्यापि परिमाणमनियतं दृष्टं, तत्राह —
औचित्येनेति ।

देहस्य निय­त­प­रि­मा­ण­त्वेऽपि हृदयस्य किमायातं, तदाह —
नियतेति ।

पर­स्मि­न्प­रि­मा­णो­क्ते­र्यो­ग­मु­प­सं­ह­रति —
अत इति ।

अङ्गु­ष्ठ­मा­त्र­पु­रु­षस्य जीवत्वेऽपि वाक्यस्य परार्थतेति वक्तु­मु­क्त­म­नु­व­दति —
यदपीति ।

परमात्मपरे वाक्येऽ­नू­द्य­मा­न­जी­व­स्थ­म­ङ्गु­ष्ठ­मा­त्रत्वं प्रति­पा­द्य­मा­न­प­रा­त्म­ध­र्म­वि­रो­धा­द्बाध्यं, प्रतिपाद्यस्य तात्प­र्य­वि­ष­य­त्वा­दि­त्याह —
तदिति ।

परमात्मपरे वाक्ये तस्यैव वक्तव्यत्वे कुतो जीवो­क्ति­रि­त्या­शङ्क्य वाक्य­प्र­वृ­त्ते­र्वौ­रू­प्य­माह —
द्विरूपेति ।

कथं प्रकृते वाक्य­प्र­वृत्तिः, तत्राह —
तदत्रेति ।
न हि परैक्यं जीवस्योक्तिं विना शक्यं वक्तुमिति तदु­क्ति­रि­त्यर्थः ।

प्रत्य­क्षा­दि­वि­रोधे किमुत्तरं, तत्राह —
एतमिति ।
विरु­द्धां­श­त्या­गे­ना­वि­रु­द्धां­श­ल­क्ष­ण­यैक्ये वाक्यार्थे न विरो­ध­धी­रि­त्यर्थः । यतोऽन्तरात्मा पुरु­ष­त्वा­त्पू­र्णोऽपि जनानां हृदये सदा सन्नि­वि­ष्ट­स्त­तोऽ­ङ्गु­ष्ठ­मात्र इति त्वमर्थानुवादः ।

तस्या­न्व­य­व्य­ति­रे­काभ्यां तद­नु­सा­रि­श्रुत्या च शोध्यत्वमाह —
तमिति ।
शरीरं स्थूलं सूक्षमं च । प्रवृ­हे­त्पृ­थ­क्कु­र्यात् । धैर्येण शमादिनेति यावत् ।

तं च विविक्तमात्मानं विशुद्धममृतं ब्रह्मैव जानीयादित्याह —
तमिति ।
तदेवं काठकवाक्यं प्रत्य­ग्ब्र­ह्मणि ज्ञातव्ये समन्वितमिति ॥ २५ ॥

मनु­ष्या­धि­का­र­त्वा­दि­त्यु­क्ते­र­म­नु­ष्याणां देवा­दी­ना­म­न­धि­का­र­मा­श­ङ्क्यो­क्तम् —
तदुपर्यपीति ।

निर्गु­ण­वि­द्या­हे­तु­वे­दा­न्त­वि­चा­रा­दिषु देवा­दी­ना­म­धि­का­रोऽस्ति न वेति साम­र्थ्या­द्य­स­म्भ­व­स­म्भ­वाभ्यां सन्देहे शास्त्र­सा­ङ्ग­त्येऽपि लक्षणासङ्गतेयं चिन्तेत्यशङ्क्य प्रासङ्गिकीं सङ्गतिमाह —
अङ्गुष्ठेति ।
अत्र चाधि­का­र­नि­रू­प­ण­द्वारा मन्त्रा­र्थ­वा­दा­दीनां प्राप्ति­वि­रो­ध­यो­र­स­तो­र्दे­व­ता­वि­ग्र­हा­दा­व­न्व­यो­क्ते­र­ध्या­य­स­ङ्गतिः । मन्त्रा­दि­प्रा­माण्ये न्याय­सा­म्या­दु­प­स­द­ना­दि­गि­रा­म­धि­का­र्या­दि­स­म­र्प­काणां श्रुतेऽर्थे प्रामा­ण्या­त्त­त्त्व­मा­दि­व­च­सोऽपि ब्रह्मैक्ये पर्यवसानमिति श्रुति­शा­स्त्रा­ध्या­य­पा­द­स­ङ्ग­तयः । पूर्वपक्षे मन्त्रा­द्य­प्रा­मा­ण्या­दु­प­ग­म­ना­दि­गि­रा­मपि स्वार्थे तद­यो­गा­त्त­त्त्व­मा­दे­रपि नैक्यनिष्ठतेति फलम् । सिद्धान्ते तत्त­त्प्रा­मा­ण्यस्य तत्तदर्थे सम्भ­वा­त्त­त्त्व­म­स्या­दे­रपि सम्भ­व­त्यै­क्य­नि­ष्ठ­तेति फलम् । यद्वा देव­ता­दी­ना­म­न­धि­का­र­न्या­येन क्रम­मु­क्ति­फ­लो­पा­स्तिषु भोगद्वारा मोक्ष­का­म­म­नु­ष्य­प्र­वृ­त्ति­र­प्य­नि­य­तेति पूर्वपक्षे फलम् । सिद्धान्ते देवा­द्य­धि­का­र­वि­चा­रस्य देवा­दि­प्र­वृ­त्त्य­ङ्ग­त्वा­भा­वेऽपि यथोक्तोपास्तिषु मनु­ष्य­प्र­वृ­त्त्यर्थं साक्षा­न्मो­क्ष­फ­ल­नि­र्गु­ण­वि­द्यायां तेषामपि प्रवृत्तिरिति प्रयोजनम् ।

तत्रादौ सिद्धान्तमेव दर्श­य­न्म­नु­ष्या­धि­का­रत्वं शास्त्र­स्या­यो­ग­व्य­व­च्छे­दा­द­न्य­यो­ग­व्य­व­च्छे­दा­द्वेति विक­ल्प्या­द्य­म­ङ्गी­क­रोति —
बाढमिति ।

द्वितीयं दूषयति —
नत्विति ।

नियमाभावं सूत्रा­क्ष­र­व्या­ख्यया विशदयति —
तेषामिति ।

ब्रह्म­वि­द्या­त­द­ङ्ग­वि­धयो देवा­दी­न्ना­धि­कु­र्वन्ति, वैदिकविधित्वात् , अग्नि­हो­त्रा­दि­वि­धि­व­दिति शङ्कते —
कस्मादिति ।
अनुमानमग्रे दूष्यम् ।

आदौ हेतुमुत्थाप्य व्याचष्टे —
सम्भवादिति ।

ननु देवतादीनां विवि­ध­भो­ग­भा­जा­म­वै­रा­ग्यान्न मोक्षेऽ­र्थित्वं, तत्राह —
तत्रेति ।
वैष­यि­क­सु­ख­स्या­नि­त्य­त्व­पा­र­त­न्त्र्या­दि­दो­ष­दृष्ट्या तत्र वैराग्यसिद्धौ परमपुरुषार्थतया मोक्षेऽ­र्थित्वं, महाधियां तेषा­मु­दे­ष्य­ती­त्यर्थः ।

चतु­र्थ्य­न्त­श­ब्दा­ति­रि­क्त­दे­व­ता­भा­वा­त्त­स्याश्च विग्रहायोगान्न ज्ञान­हे­त्व­नु­ष्ठा­न­श­क्ति­रि­त्या­श­ङ्क्याह —
तथेति ।

तयोः सतोरपि शूद्रवदनधिकारं शङ्कित्वोक्तम् —
न चेति ।

त्रैव­र्णि­का­ना­मे­वो­प­न­य­ना­द्दे­वा­दीनां तदभावे वैदि­क­श­क्त्य­भा­वा­न्ना­धि­कार इत्याशङ्क्याह —
न चेति ।

तर्हि तद­भा­वा­द­ङ्गि­नोऽ­ध्य­य­न­स्या­भावे कुतो वेदा­र्थेऽ­धि­कारः, तत्राह —
तेषां चेति ।
जन्म­म­र­ण­व्य­व­धा­नेऽपि भूतप्रेतादिषु स्मृतिदर्शनान्न तदस्मृतिरिति भावः ।

तथापि पूर्वो­क्ता­नु­माने जाग्रति कुतो देवादयो ब्रह्म­वि­द्या­या­म­धि­क्रि­ये­र­न्नि­त्या­शङ्क्य कालातीतत्वमाह —
अपि चेति ।
ब्रह्म­च­र्या­दी­त्या­दि­प­दे­नो­प­ग­म­न­शु­श्रू­षादि गृह्यते । द्वितीयमादिपदं सन­त्कु­मा­र­ना­र­द­सं­वा­दा­दि­स­ङ्ग्र­हा­र्थम् ।

न केवलं लिङ्गविरोधादेव कालातीतत्वं कितुं ‘तद्यो यो देवानाम् ‘ इत्या­दि­वा­क्य­वि­रो­धा­द­पीति मत्वाह —
यदपीति ।
देवानां कर्मसु नाधिकारः, देव­ता­न्त­रा­णा­मु­द्दे­श्या­ना­म­भा­वा­त्त­द­नु­ष्ठा­ना­श­क्ते­रिति सूत्रार्थः । ऋषीणामपि भृग्वा­दी­ना­मा­र्षे­य­क­र्मणि नाधिकारः, भृग्वा­द्य­न्त­रा­भा­वा­त्त­द्युक्ते कर्म­ण्य­श­क्ते­रिति सूत्रान्तरार्थः ।

अधि­का­र­हे­त्व­सत्त्वं ज्ञानेऽपि तुल्यं तेषामिति कुतो वाक्या­र्थ­धी­रि­त्ये­त­द्दू­ष­यति —
न तदिति ।

तदेव स्पष्टयति —
नहीति ।

साध­क­बा­ध­क­स­त्त्वा­स­त्त्व­फ­ल­माह —
तस्मादिति ।

ननु देवादीनामधिकारे कथ­म­ङ्गु­ष्ठ­मा­त्र­श्रुतिः, न हि तेषां महादेहानां हृद­य­म­ङ्गु­ष्ठ­मात्रं, तत्राह —
देवादीति ।
साधारणी खल्व­ङ्गु­ष्ठ­मा­त्र­श्रु­ति­स्तत्र तत्र तत्त­द­ङ्गु­ष्ठ­प­रि­मि­त­हृ­द­या­पे­क्षया निर्व­क्ष्य­ती­त्यर्थः ॥ २६ ॥

मन्त्रा­दि­प्रा­मा­ण्येन विग्र­हा­दि­मत्त्वं गृहीत्वा देव­ता­दी­ना­म­धि­कारो निरूपितः । सम्प्रति देव­ता­वि­ग्र­हा­दि­म­न्त्रा­दी­ना­म­न्य­प­रा­णा­म­वि­रोधे प्रामा­ण्या­त्प्र­त्य­क्षा­दि­वि­रो­ध­मा­शङ्क्य परिहर्तुं सूत्रचतुष्टये स्थिते प्रथमं कर्मणि विरोधमाशङ्क्य परिहरति —
विरोध इति ।

माना­न्त­र­वि­रु­द्धेऽर्थे मन्त्रा­दी­ना­म­न्य­प­रा­णा­म­प्रा­मा­ण्या­द्वि­ग्र­ह­व­द्दे­व­ता­दि­वि­ष­याणां तेषा­मु­प­च­रि­ता­र्थ­तया शब्दो­प­हि­तोऽ­र्थ­स्त­दु­प­हितो वा शब्दो देवा­दि­रि­त्य­चे­त­न­त्वा­त्तस्य नाधि­का­र­सि­द्धि­रि­त्य­भि­स­न्धाय शङ्कां विभजते —
स्यादेतदिति ।

अभ्यु­प­ग­म्य­ता­मि­न्द्रा­दी­ना­म­ध्व­र्यु­प्र­भृ­ति­व­द­ध्वरे स्वरू­प­स­न्नि­धा­ने­ना­ङ्गत्वं, तत्राह —
तदा चेति ।

कथं विरोधप्रसक्तिः, तत्राह —
नहीति ।

दर्श­ना­भा­व­मुक्त्वा युक्त्यभावमाह —
न चेति ।

इन्द्रादीनां स्वरू­प­स­न्नि­धि­द्वारा यागाङ्गत्वायोगे हेतुमाह —
बहुष्विति ।

उद्दिश्य त्याग­त्वा­द्या­गस्य न विरो­धोऽ­स्ती­त्याह —
नायमिति ।

विरो­ध­म­ङ्गी­कृ­त्यापि परिहर्तुं प्रश्नपूर्वकं हेतुमादाय व्याख्याति —
कस्मादिति ।

एकस्य युग­प­द­ने­क­त्वा­प­त्ति­र्वि­रु­द्धे­त्याह —
कथमिति ।

प्रामाणिकत्वेन विरोधं समाधत्ते —
दर्शनादिति ।

तत्र श्रौतं दर्शनमाह —
तथाहीति ।

वैश्वदेवस्य निविदि कति देवाः शस्यमाना इति शाकल्येन पृष्टे याज्ञ­व­ल्क्य­स्यो­त्त­रम् —
त्रयश्चेति ।
शस्य­मा­न­दे­व­ता­स­ङ्ख्या­वा­चि­म­न्त्र­पदं निविदुच्यते ।

षड­धि­क­त्रि­श­ता­धि­क­त्रि­स­हस्रं देवा इति सङ्ख्या­नि­र्ण­या­न­न्तरं सङ्ख्येयप्रश्ने वसवोऽष्टावेकादश रुद्रा द्वादशादित्याः प्रजा­प­ति­रि­न्द्र­श्चेति त्रय­स्त्रिं­श­द्दे­वेषु पूर्वे­षा­म­न्त­र्भावो दर्शित इत्याह —
कतम इति ।

अन्त­र्भा­व­श्रु­ते­स्ता­त्प­र्य­माह —
एकैकस्येति ।

तेऽपि देवाः षण्णा­म­ग्नि­पृ­थि­वी­वा­य्व­न्त­रि­क्षा­दि­त्य­दिवां महिमानः, तेऽपि त्रयाणां लोकानां, ते च द्वयो­र­न्न­प्रा­णयोः, तौ चैकस्य प्राणस्येति प्राणस्य सर्वे महिमान इत्ये­क­स्या­ने­क­रू­प­ता­धी­रि­त्याह —
तथेति ।
त्रय­स्त्रिं­श­तोऽपि देवानामिति सम्बन्धः ।

श्रौतं दर्शनमुक्त्वा स्मार्तं दर्शनमाह —
तथेति ।
बलं योगमाहात्म्यम् ।

तेषा­म­र्थ­क्रि­या­माह —
तैश्चेति ।