अद्वैतशारदा

न्यायनिर्णयव्याख्या

१ परिच्छेदः

तेषां भोगायतनत्वमाह —
प्राप्नुयादिति ।

परलोकहितत्वमाह —
कैश्चिदिति ।

तत्पारवश्यं पुंसो निरस्यति —
सङ्क्षिपेच्चेति ।

योगि­ना­म­ने­क­रू­प­प्र­ति­प­त्ता­वपि देवानां किं जातं, तदाह —
प्राप्तेति ।
‘अणिमा लघिमा चैव महिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता ॥ ‘ इत्य­ष्टै­श्व­र्याणि ।

अपि­श­ब्द­सू­चि­त­म­र्थ­माह —
किम्विति ।
आजानसिद्धानां जन्मनैव प्राप्ता­ति­श­या­ना­मि­त्यर्थः ।

तथापि प्रकृते किं जातं तदाह —
अनेकेति ।

श्रुति­स्मृ­तिभ्यां युक्तिविरोधे समाहितेऽपि प्रतीतिविरोधस्य कः समाधिः, तत्राह —
परैश्चेति ।
आदिशब्देन पर­दृ­ष्टि­प्र­ति­बन्धो गृह्यते । उक्त­न्या­या­द्यु­ज्यते देवादीनां विग्र­ह­व­त्त्वो­प­ग­मेन विद्यास्वधिकार इति शेषः ।

सन्नि­हि­त­स्यै­वा­ङ्ग­तेति न निय­मोऽ­स­न्नि­हि­त­स्यापि युगपदनेकत्र कर्म­ण्य­ङ्ग­भा­व­प्र­ति­प­त्ति­र­ङ्ग­भा­व­ग­मनं तस्य दर्श­ना­दि­त्य­र्था­न्त­र­माह —
अनेकेति ।

तदेव स्पष्टयितुं व्यतिरेकं सोदाहरणमाह —
क्वचिदिति ।

संप्र­त्य­भी­ष्टा­ङ्ग­त्वा­र्थ­म­न्वयं सदृ­ष्टा­न्त­मा­चष्टे —
क्वचिच्चेति ।

अन्व­य­व्य­ति­रे­क­सि­द्ध­मर्थं प्रकृते योजयति —
तद्वदिति ।
असन्निधानेऽपि देवताया विप्र­कृ­ष्टा­ने­का­र्थ­दृ­ष्टि­श­क्ते­र्यु­ग­प­द­ने­क­त्रा­ङ्गता सिद्धेत्यर्थः ।

कर्म­ण्य­वि­रो­ध­मु­प­सं­ह­रति —
इति विग्रहेति ॥ २७ ॥

तत्राविरोधेऽपि देवतादीनां विग्रहवत्त्वे शब्दे प्रामा­ण्य­वि­रो­ध­मा­शङ्क्य प्रत्याह —
शब्द इति चेदिति ।

शङ्कां विभजते —
मा नामेति ।

शब्द­स्या­कृ­त्य­र्थ­त्वा­त्तत्र विरोधो नेति शङ्कते —
कथमिति ।

गोत्वा­दि­व­द्व­स्वा­दिषु पूर्वा­प­रा­प­रा­म­र्शा­दु­पा­धे­रपि पाच­क­त्वा­दि­व­द­दृ­ष्टे­रा­का­शा­दि­श­ब्द­व­द्व्य­क्ति­व­चनो वस्वादिशब्द इति मत्वाह —
औत्पत्तिकं हीति ।

अस्माभिरपि तथैव तदिष्टमिति न तस्य विरो­धोऽ­स्ती­त्या­श­ङ्क्याह —
इदानीं त्विति ।
व्यक्ती­ना­म­नि­त्य­त्वा­त्त­त्स­म्ब­न्ध­स्यापि सङ्के­त­व­द­नि­त्य­तया पुन्धी­कृ­त­त्वा­न्मा­ना­न्त­रा­पे­क्ष­पु­न्धी­प्र­भ­व­श­ब्दा­र्थ­स­म्ब­न्धा­धी­न­वा­क्या­र्थ­धि­योऽपि माना­न्त­रा­पे­क्ष­त्वा­द्वे­द­स्या­मा­नत्वं स्यादित्यर्थः ।

परिहारस्थं नञर्थमाह —
नायमिति ।
कर्मण्यविरोधं दृष्टा­न्त­यि­तु­म­पि­शब्दः ।

तत्र प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —
कस्मादिति ।
तथा च देवा­दि­ज­ग­द्धे­तु­त्वेन शब्दस्य नित्य­त्वा­त्त­द­नि­त्य­त्व­कृतो दोषो नास्तीति शेषः ।

पूर्वापरविरोधं शङ्कते —
नन्विति ।

शब्दस्य निमि­त्त­त्वा­द्ब्र­ह्म­ण­श्चो­पा­दा­न­त्वा­दु­भ­य­प्र­भ­वत्वं जगतो युक्त­मि­त्या­श­ङ्क्याह —
अपि चेति ।

आकृतेः शब्दार्थतया विरो­ध­स­मा­धि­रि­त्य­श­ङ्क्याह —
यावतेति ।
मानाभावान्न वसु­त्वा­दि­जा­ति­रस्ति तद्व्यक्तीनां जनि­म­त्त्वा­द­नि­त्य­तेति नाविरोध इत्यर्थः ।

व्यक्ती­ना­म­नि­त्य­त्वेऽपि वाच­क­श­ब्द­नि­त्य­तया सुकरो विरो­ध­स­मा­धि­रि­त्या­श­ङ्क्याह —
तदिति ।

जगतः शब्द­प्र­भ­व­त्व­मु­पेत्य विरोधमुक्त्वा शब्द­स्या­र्थो­त्प­त्त्यु­त्त­र­का­ल­त्वा­द­र्थस्य ततो जन्मायोगात्तदेव नास्तीत्याह —
प्रसिद्धं हीति ।

विरोधं निगमयति —
तस्मादिति ।

वस्वा­दि­श­ब्दा­र्थ­स­म्ब­न्ध­नि­त्यत्वं दृष्टान्तेन वदन्नुत्तरमाह —
नेति ।

तत्रापि व्यक्ते­र­नि­त्य­त्वान्न सम्ब­न्ध­नि­त्य­ते­त्या­श­ङ्क्याह —
न हीति ।

व्यक्ति­भि­र­भे­दा­ज्जा­ति­रपि जाते­त्या­श­ङ्क्यो­क्तम् —
द्रव्येति ।
अभे­द­व­द्भे­द­स्यापि भावा­न्नि­त्य­म­ने­क­स­म­वेतं सामान्यमिति च स्थितेरिति हिशब्दार्थः ।

आकृ­ती­ना­मु­त्प­त्त्य­भा­वेऽपि कुतः सम्बन्धनित्यता, तत्राह —
आकृतिभिश्चेति ।
तास्त्वा­कृ­ति­द्वारा लक्षणया शाब्द्यो भवन्तीति भावः ।

दृष्टा­न्त­मु­प­सं­ह­रति —
व्यक्तिष्विति ।

गवा­दि­श­ब्दा­र्थ­स­म्ब­न्ध­नि­त्य­त्वेऽपि प्रकृते किमित्याशङ्क्य दार्ष्टा­न्ति­क­माह —
तथेति ।

उक्तो देवा­दि­ष्वा­कृ­त्य­भावः साध­का­भा­वा­दि­त्या­श­ङ्क्याह —
आकृतीति ।
अनेकत्र साकल्येन वर्तमाना जाति­रि­त्य­ङ्गी­का­रा­दि­न्द्रा­दीनां मन्त्रा­दि­सि­द्ध­वि­ग्र­हा­दि­प­ञ्च­क­वतां पूर्वा­प­र­व्य­क्त्य­नु­गता जाति­र­नु­ग­त­धी­वेद्या न विरुध्यते । वस्वादिशब्दा जातिवाचिनो बहुषु प्रयु­ज्य­मा­ना­ख­ण्ड­श­ब्द­त्वा­त्प­टा­दि­श­ब्द­व­दिति चानु­मा­ना­दि­त्यर्थः ।

इन्द्रा­दि­श­ब्दा­ना­मु­पा­धि­नि­मि­त्तत्वं पक्षान्तरमाह —
स्थानेति ।

औपाधिकत्वपक्षे शब्दा­र्थ­म­नू­द्या­वा­न्त­र­ल­येऽपि विरोधाभावमाह —
ततश्चेति ।

यत्तु पूर्वापरविरोध इति, तत्राह —
न चेति ।

तर्हि कथं ‘अतः प्रभवात्’ इत्युक्तं, तत्राह —
कथमिति ।

उक्तेऽर्थे मानं पृष्ट्वो­त्त­र­प­द­म­व­ता­र­यति —
कथमित्यादिना ।

नन्वैन्द्रियकं प्रत्यक्षं जगतः शाब्दप्रभवत्वे नास्ति, तत्राह —
प्रत्यक्षमिति ।

तत्रापि श्रुतौ प्रत्यक्षशब्दे हेतुमाह —
प्रामाण्यमिति ।

तथापि तत्रानुमानं कथं प्रमाणं, तत्राह —
अनुमानमिति ।

तत्रापि प्रवृ­त्ति­नि­मि­त्त­माह —
प्रामाण्यमिति ।
अव्य­भि­चा­रि­लि­ङ्गो­त्थ­त्वा­द­नु­मा­नस्य स्वतः­प्रा­मा­ण्येऽ­प्यु­त्पत्तौ सापे­क्ष­त्व­मा­त्र­सा­म्या­द­नु­मा­न­शब्दः स्मृताविति भावः ।

पञ्च­म्या­भी­ष्ट­म­र्थ­माह —
ते हीति ।

तत्र श्रुतिमाह —
एत इति ।
‘एते असृ­ग्र­मि­न्द­व­स्तिरः पवित्रमाशवः । विश्वा­न्य­भि­सौ­भगा’ इत्ये­त­न्म­न्त्र­स्थ­पदैः स्मृत्वा देवादीन्ब्रह्मा ससर्ज । तत्र सन्नि­हि­त­वा­च­कै­त­च्छब्दो देवानां कर­णे­ष्व­नु­ग्रा­ह­क­त्वेन सन्निहितानां स्मारकः । असृग्रुधिरं तत्प्र­धा­न­दे­ह­र­म­णा­न्म­नु­ष्या­णा­म­सृ­ग्र­शब्दः स्मारकः । इन्दु­म­ण्ड­ल­म­ध्य­स्थ­पि­तृ­णा­मि­न्दु­शब्दः स्मारकः । पवित्रं सोमं स्वान्त­स्ति­रः­कु­र्वतां ग्रहाणां तिरःपवित्रशब्दः स्मारकः । ऋचोऽश्नुवतां स्तोत्राणां गीतिरूपाणामाशवः शब्दः स्मारकः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः स्मारकः । व्यापि­व­स्तु­वा­च्य­भि­श­ब्द­सं­युक्तः सौभगेति शब्दः सौभाग्यवाचकः, तेनाभिसौभगेति निर­ति­श­य­सौ­भा­ग्यार्थः शब्दोऽन्यासां प्रजानां स्मारकः । तथा च तत्तत्पदेन तत्त­द्दे­वा­दी­न्स्मृत्वा प्रजापतिः सृष्टवानिति शब्दपूर्विका सृष्टिः श्रौतीत्यर्थः ।

तत्रैव श्रुत्यन्तरमाह —
तथेति ।
स प्रजापतिर्मनसा सह वाचं मिथु­न­भा­व­म­भ­व­द­भा­व­यत् । त्रयीप्रकाशितां सृष्टिं मन­सा­लो­चि­त­वा­नि­त्यर्थः । ‘स भूरिति व्याहरत्स भूमिमसृजत’ इत्या­दि­वा­क्य­मा­दि­श­ब्दार्थः । तत्र तत्रे­त्या­म्ना­य­प्र­दे­शोक्तिः ।

तत्र स्मृतिमाह —
स्मृतीति ।
रूप­स­र्गा­त्प्रा­थ­म्य­मा­दा­वि­त्यु­क्तम् । सम्प्र­दा­या­ति­रे­के­णा­प्रा­प्ति­र्दि­व्य­त्वम् ।

अस्त्वेवं शब्द­सृ­ष्टि­स्त­थापि कथं तत्पू­र्वा­र्थ­सृष्टिः, तत्राह —
यत इति ।

उत्सृ­ष्ट­त्वोक्त्या पौरु­षे­य­त्व­मा­श­ङ्क्यो­क्तम् —
उत्सर्गोऽपीति ।
सम्प्रदायो गुरु­शि­ष्य­प­र­म्प­रा­ध्य­य­नम् ।

उत्सृष्टिरेव किं न स्यात् , तत्राह —
अनादीति ।
कर्मणां प्रवर्तनं सता­म­नु­ष्ठा­प­न­मु­क्तम् । सर्वेषामित्यत्र कर्मणां सृष्टि­रे­वो­क्तेति भेदः । संस्थाशब्दो रूपभेदग्राही ।

अस्मदादिषु पटाद्युत्पत्तेः शब्द­पू­र्व­क­त्व­प्रा­त्य­क्ष्या­ज्ज­ग­तोऽपि सृष्टे­स्त­त्पू­र्व­क­त्व­म­नु­मे­य­मिति प्रत्य­क्षा­नु­मा­ना­भ्या­मि­त्य­त्रा­र्था­न्त­र­माह —
अपि चेति ।

कल्पकालीना सृष्टिः शब्दपूर्विका, सृष्टित्वात् , इदा­नी­न्त­न­सृ­ष्टि­वत् । विमतः शब्दा­र्थ­स­म्ब­न्ध­व्य­व­हारः तथा­वि­ध­स­म्ब­न्धा­नु­स्मृ­ति­पू­र्वकः, अभि­धा­ना­भि­धे­य­स­म्ब­न्ध­व्य­व­हा­र­त्वात् , सम्प्र­ति­प­न्न­व­दि­त्याह —
तथेति ।

प्रत्य­क्षा­दि­सि­द्धेऽर्थे तैत्ति­री­य­श्रु­ति­माह —
तथा चेति ।
‘स भुव इति व्याह­र­त्सोऽ­न्त­रि­क्ष­म­सृ­जत’ इत्या­दि­रा­दि­श­ब्दार्थः ।

उक्त­श्रु­ते­स्ता­त्प­र्य­माह —
भूरादीति ।

यदुक्तं जगतः शब्दप्रभवत्वं तदाक्षिपति —
किमात्मकमिति ।
वर्णातिरिक्तं शब्दमुपेत्य ततो वा जग­दु­त्प­त्ति­रिष्टा वर्णेभ्यो वा । नााद्यः, वर्णातिरिक्ते वाचके शब्दे मानाभावात् । नेतरः, वर्णा­ना­मु­त्प­न्न­प्र­ध्वं­सिनां जग­द्धे­तु­त्वा­सि­द्धे­रि­त्यर्थः ।

तत्र वैयाकरणो वक्ष्यमाणं मानं मत्वाद्यं पक्षमालम्बते —
स्फोटमिति ।
स्फुट्यते व्यज्यते वर्णैरिति स्फोटोऽ­र्थ­व्य­ञ्जकः शब्द­स्त­म­र्थ­सृष्टौ हेतु­म­भि­प्रे­त्ये­द­मुक्तं तस्य नित्य­त्वा­त्का­र­ण­त्व­स­म्भ­वा­दि­त्यर्थः ।

वर्णानामेव प्रत्यभिज्ञया नित्यानां जग­द्धे­तु­त्व­सिद्धौ न स्फोट­क­ल्प­ने­त्या­शङ्क्य प्रत्यभिज्ञाया जाति­गा­मि­त्वा­न्मै­व­मि­त्याह —
वर्णेति ।

हेत्व­सि­द्धि­मा­श­ङ्क्याह —
उत्पन्नेति ।

तदपि न संमतमित्यशङ्क्य पुरु­ष­वि­शे­षा­नु­मा­प­क­त्वेन तत्संमतिं साधयति —
तथाहीति ।

वर्णे­ष्व­न्य­था­त्व­धियो ध्वन्यु­पा­धि­क­त्वेन मिथ्यात्वान्न तद­नि­त्य­त्व­सा­ध­क­ते­त्या­श­ङ्क्याह —
न चेति ।

वर्णा­ना­मु­त्प­त्ति­म­त्त्वा­त्प्र­भ­वत्त्वं जगतो नेत्युक्त्वा तेषा­म­वा­च­क­त्वा­दपि तथेति वक्तु­म­र्थ­प्र­त्या­य­कत्वं प्रत्याचष्टे —
न चेति ।

किमे­कै­क­स्मा­द्व­र्णा­द­र्थ­धी­रुत समुदायादिति विकल्प्याद्यं दूषयति —
नहीति ।
एकै­को­क्ता­व­र्थ­धि­योऽ­दृ­ष्टे­र्व­र्णा­न्त­रो­क्ति­वै­य­र्थ्या­च्चे­त्यर्थः ।

द्वितीयं प्रत्याह —
न चेति ।
तेषामुच्चारणस्य क्रम­व­त्त्वा­द्यो­ग्या­नु­प­ल­ब्धे­र­भा­वा­धि­ग­मान्न तद्धीरित्यर्थः ।

वर्णानां स्वरू­प­तोऽ­सा­हि­त्येऽपि संस्कारद्वारा साहि­त्य­मा­ग्ने­या­दि­व­दि­त्याह —
पूर्वेति ।

अज्ञातो ज्ञातो वा सोऽर्थ­धी­हे­तु­रिति विकल्प्याद्यं निराह —
तन्नेति ।
उच्चरितस्य बधि­रे­णा­गृ­ही­त­स्या­प्य­गृ­ही­त­स­ङ्ग­ते­र­प्र­त्या­य­क­त्वा­दि­त्यर्थः ।

ज्ञातस्य ज्ञापकत्वे दृष्टान्तः —
धूमादिवदिति ।

द्विती­येऽ­ध्य­क्षे­णा­नु­मा­नेन वा तद्धीरिति विकल्प्याद्यं निरस्यति —
न चेति ।

द्वितीयं शङ्कते —
कार्येति ।

अर्थधीः, स्मरणं वा कार्यम् । नाद्यः, संस्का­रा­व­ग­ते­र­र्थ­धी­स्त­तश्च सेत्य­न्यो­न्या­श्र­य­णा­दि­त्याह —
नेति ।

यदि द्वितीयः, तत्राह —
संस्कारेति ।
स्मरणस्यापीति सम्बन्धः । क्रम­भा­वि­स्म­र­णा­नु­मि­त­सं­स्का­रा­णा­मपि क्रम­भा­वे­ना­सा­हि­त्यान्न तत्स­हि­ता­न्त्य­व­र्ण­धी­रि­त्यर्थः ।

वर्णानां वाचकत्वायोगे फलितमाह —
तस्मादिति ।

ननु वर्णा­ना­म­र्थ­प्र­त्या­य­क­त्वा­सि­द्धा­व­र्थ­धी­दृष्ट्या तद्धेतुत्वेन वा स्फोटो गम्यते मानान्तराद्वा । नाद्यः, तदवगतेरर्थधीः, तया च सेत्य­न्यो­न्या­श्र­य­णात् । न च सत्तामात्रेण स्फोटोऽ­र्थ­धी­हेतुः, सदा तदापातात् । न द्वितीयः, तदनुपलब्धेः । तत्राह —
स चेति ।
स चैक­प्र­त्य­य­वि­ष­य­तया प्रत्यवभासत इति सम्बन्धः ।

वर्णा­न्व­य­व्य­ति­रे­क­नि­य­मा­द­र्थ­धियो वर्णा एव शब्द इत्याशङ्क्य तेषां स्फोट­व्य­ञ्च­क­त्वे­ना­न्य­था­सि­द्धे­र्मै­व­मि­त्याह —
एकैकेति ।

एकै­क­व­र्ण­प्र­त्य­यै­रा­हितं संस्काराख्यं बीजं यस्मि­न्प्र­त्य­यिनि चित्ते तस्मिन्निति यावत् । न चान्त्य­व­र्णा­न­र्थक्यं, तद्धी­ज­न्या­ति­श­य­व­त्त्वा­च्चि­त्त­स्ये­त्याह —
अन्त्येति ।

यथा नाना­द­र्श­न­सं­स्का­र­प­रि­पा­क­स­चिवे चेतसि रत्नतत्त्वं चकास्ति तथा यथोक्ते चित्ते विना विचारं सहसैवैकोऽयं शब्द इति धीविषयतया स्फोटो भातीत्याह —
एकेति ।
अन्यो­न्या­श्र­य­म­पा­कर्तुं झटितीत्युक्तम् ।

एकधियो वर्ण­वि­ष­य­स्मृ­ति­त्वान्न स्फोट­सा­ध­क­ते­त्या­श­ङ्क्याह —
न चेति ।
अने­के­ष्वे­क­त्व­बु­द्धे­र्भ्र­म­त्वा­त्प­दा­दि­धी­गो­चरः स्फोट एवेत्यर्थः ।

स्फोट­स्या­प्यु­त्प­न्न­प्र­ध्वं­सि­त्वान्न जग­द्धे­तु­ते­त्या­श­ङ्क्याह —
तस्य चेति ।

पुरु­ष­भे­दा­नु­मा­प­क­तया प्रत्युच्चारणं भिन्न­त्वा­त्कु­तोऽस्य नित्यत्वं, तत्राह —
भेदेति ।

स्फोट­वा­द­मु­प­सं­ह­रति —
तस्मादिति ।

आचा­र्य­स­म्प्र­दा­यो­क्ति­पू­र्वकं सिद्धान्तमाह —
वर्णा इति ।
गौरित्युक्ते गका­रौ­का­र­वि­स­र्ज­नी­या­ति­रि­क्तस्य स्वतन्त्रस्य परन्त्रस्य वा श्रौत्रे­णा­ग्र­ह­णा­दु­प­व­र्षा­चार्यो वर्णानामेव तु शब्दत्वं पश्यतीत्यर्थः ।

तेषां क्षणिकत्वान्न जग­द्धे­तु­ते­त्युक्तं स्मारयति —
नन्विति ।

प्रत्यभिज्ञया स्थायि­त्व­सि­द्धेर्न क्षणिकतेत्याह —
तन्नेति ।

प्रय­त्ना­न­न्त­री­य­क­तया वर्णानां भेद­सि­द्धे­र­न्य­था­सिद्धा प्रत्य­भि­ज्ञे­त्याह —
सादृश्यादिति ।

किं क्वचि­द्व्य­भि­चा­र­दृ­ष्टे­रेवं बाधदृष्टेर्वा । नाद्यः, सर्वत्र संशयप्रसङ्गात् । ज्वालादौ तु प्रभा­वै­त­त्या­दि­का­र्या­नु­प­पत्त्या तथात्वादिह तदभावादित्याह —
नेति ।

न द्वितीय इत्याह —
प्रत्य­भि­ज्ञा­न­स्येति ।

गवादौ जाति­प्र­त्य­भि­ज्ञा­दृ­ष्टे­रि­हापि तथेति शङ्कते —
प्रत्य­भि­ज्ञा­न­मिति ।

यत्र जाति­प्र­त्य­भिज्ञा तत्र व्यक्तिभेदो दृष्टः । प्रकृते तदभावान्न जातिविषयतेत्याह —
न व्यक्तीति ।

तदेव स्फुटयति —
यदिहीति ।

युक्तितो व्यक्तिविषया प्रत्य­भि­ज्ञे­त्युक्त्वा प्रतीतितोऽपि तथेत्याह —
वर्णेति ।

हिश­ब्द­सू­चि­त­म­नु­भ­व­म­भि­न­यति —
द्विरिति ।

दह­न­तु­हि­न­व­द्वि­रु­द्ध­ध­र्म­व­त्त्वा­द्ध­र्मि­भे­दजः स्यादिति शङ्कते —
नन्विति ।

भेदप्रत्ययेऽपि प्रत्यभिज्ञाया निर­पे­क्ष­स्व­रू­प­वि­ष­य­त्वेन प्राबल्यात्तस्य च सापे­क्ष­भे­द­वि­ष­य­त्वेन दौर्ब­ल्या­दे­क­स्या­मा­का­श­व्यक्तौ कुम्भाकाशः कूपाकाश इति­व­द्व्य­ञ्ज­क­वा­यु­सं­यो­ग­वि­भा­ग­वै­चि­त्र्या­द्व­र्णेषु वैचित्र्यधीर्न स्वत इत्याह —
अत्रेति ।

कल्पनागौरवाच्च वर्णेषु स्वतो वैचित्र्यं नास्तीत्याह —
अपि चेति ।

भेद­धी­हे­तो­स्त्व­यापि कल्प्य­त्वा­त्तुल्या कल्प­ने­त्या­शङ्क्य जातिकल्पना तवाधिकेत्याह —
तास्विति ।

कथं तर्हि भेदा­भे­द­धि­या­वि­त्या­श­ङ्क्याह —
तद्वरं वर्णेति ।

नायमौपाधिको भ्रमो बाध­का­भा­वा­दि­त्या­श­ङ्क्याह —
एष इति ।

एक­त्व­ना­ना­त्व­यो­रे­कत्र वास्त­व­त्वो­प­पत्तौ किमिति बाध्यबाधकत्वं, तत्राह —
कथं हीति ।
एकस्य युग­प­द­ने­क­रू­प­त्वा­नु­प­प­त्ति­स­ह­कृ­त­मे­क­त्व­प्र­त्य­भि­ज्ञानं भेदधियो बाधकमेवेत्यर्थः ।

कण्ठादिदेशैः सह कोष्ठनिष्ठस्य वायोः सन्नि­यो­ग­वि­भा­ग­यो­र्व्य­ञ्ज­क­त्व­मु­पेत्य वर्णेषु भेदधीर्न स्वरूपकृतेति परमतमुक्त्वा स्वमतमाह —
अथवेति ।

अत्र प्रश्नपूर्वकं वर्णेभ्यो ध्वनिं निष्कर्षति —
कः पुनरित्यादिना ।
अवतरति स ध्वनिरिति शेषः । वर्णा­ति­रि­क्त­शब्दो ध्वनिरित्यर्थः ।

स एव प्रत्यासन्नस्य पुंसो वर्णेषु स्वध­र्मा­ना­रो­प­य­ती­त्याह —
प्रत्या­सी­द­त­श्चेति ।

वर्णे­षू­दा­त्ता­दि­व­त्ष­ड्ज­त्वा­दि­रपि स्वाभाविकः स्यादि­त्या­श­ङ्क्याह —
तदिति ।

वर्णा­ना­मे­वा­व्य­क्तानां ध्वनित्वे कुतो भेदधीस्तेषु तत्कृ­ते­त्या­श­ङ्क्याह —
वर्णानामिति ।
ध्वनेश्च सानु­ना­सि­क­त्वा­दि­भे­द­व­त­स्त­द­भा­वा­त्ते­भ्योऽ­र्था­न्त­र­त्वा­त्त­त्कृता तेषु भेद­धी­र्यु­क्ते­त्यर्थः । एतेन तस्य जातित्वमपि प्रत्युक्तम् ।

वायु­सं­यो­ग­वि­भा­ग­यो­र्व्य­ञ्ज­कत्वं हित्वा किमिति ध्वनीनां तदुपगतं, तत्राह —
एवं चेति ।

पक्षान्तरेऽपि तुल्यमेषां साल­म्ब­न­त्व­मि­त्या­श­ङ्क्याह —
इतरथेति ।

अस्तु कल्पना का हानिः, तत्राह —
संयोगेति ।
अप्र­त्य­क्ष­त्व­म­श्रा­व­ण­त्वम् । पूर्व­त्रा­प­रि­तोषे हेतू­क्ति­स­मा­प्ता­वि­ति­शब्दः ।

अप­रि­तो­ष­हे­तु­सत्त्वे प्रथमपक्षायोगं फलमाह —
अत इति ।

वर्ण­मा­त्र­स्या­प्र­त्य­भि­ज्ञा­ना­दु­दा­त्ता­दि­म­त्त­यैव तद्भा­ना­त्त­दा­रो­प­क­ल्प­ना­नु­प­प­त्ते­र्द्वि­ती­योऽपि पक्षो नेत्यशङ्क्याह —
अपि चेति ।

विरु­द्ध­ध­र्म­त्वा­द­ग्नि­ज्वा­ला­दि­व­द्भेदः स्यादि­त्या­श­ङ्क्याह —
नहीति ।

तदेवोदाहरणेन स्फोरयति —
नहीति ।
खण्ड­मु­ण्डा­द्यु­प­र­क्त­तया प्रत्य­भि­ज्ञा­य­मा­न­गो­त्व­व­दु­दा­त्ता­दि­म­त्त्वेन भातानामपि वर्णानां न तात्त्विकं नानात्वमिति भावः ।

प्रत्यभिज्ञया स्थायित्वं वर्णानामुक्त्वा तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति —
वर्णेभ्यश्चेति ।

कल्प­ना­म­मृ­ष्य­न्नाह —
नेति ।

कथं तर्हि तद्धीः, तत्राह —
प्रत्यक्षमिति ।

तथा स्फोटावगतिं स्कुटयति —
एकैकेति ।

वर्णेषु व्यञ्जकेषु दृष्टेषु तद्व्यङ्ग्यतया स्फोटो विनैव सम्प्रयोगं चकास्तीत्याह —
झटितीति ।
यः खल्वाकारो यस्यां बुद्धौ स्फुरति स तदालम्बनम् ।

न चात्र कश्चिदाकारो वर्णातिरिक्तो भाति । तेनास्या वर्ण­गा­मि­त्वा­न्ना­ति­रिक्ते स्फोटे मानतेत्याह —
नास्या इति ।

वर्ण­गा­मि­त्व­म­स्या­स्त­द्भा­नो­त्त­र­त्वा­द­सि­द्ध­मि­त्या­श­ङ्क्याह —
एकैकेति ।

सर्व­व­र्ण­वि­ष­यत्वे तदि­त­र­स्फो­ट­वि­ष­यत्वे च तुल्ये न पक्षपातहेतुरिति शङ्कते —
कथमिति ।

पक्षपाते हेतुमाह —
यत इति ।

गौरितिबुद्धौ गका­रा­दि­व­र्णा­ना­मे­वा­नु­वृ­त्ता­वपि कुतोऽ­स्या­स्त­दा­ल­म्ब­नत्वं, स्फोट­व्य­ञ्ज­क­त्वे­नापि तद­नु­वृ­त्ति­यो­गा­दि­त्या­श­ङ्क्याह —
यदीति ।
न खल्वस्यां बुद्धौ विष­य­भू­त­स्फो­ट­व्य­ञ्ज­क­तया वर्णा­नु­वृ­त्ति­र्व­ह्नि­बु­द्धा­विव धूमस्य लक्ष्यबुद्धौ लक्षणस्य भानासिद्धेरिति भावः ।

नन्वस्या बुद्धेः स्फोटाविषयत्वे न वर्णविषयत्वमपि, तेषां प्रागेव प्रत्येकं दृष्टतया प्रकृ­त­बु­द्ध्य­न­पे­क्ष­त्वात् , तत्राह —
तस्मादिति ।

अने­के­ष्वे­क­त्व­बु­द्धे­र्भ्र­म­त्व­मुक्तं स्मारयति —
नन्विति ।

अनेकस्य निरु­पा­धि­कै­क­बु­द्ध्य­वि­ष­य­त्वेऽपि सोपाधिकतया तद्विषयत्वं स्यादित्याह —
तदिति ।

तत्रै­क­दे­श­स­म्ब­न्धा­दि­नि­ब­न्धना धीः, इह तु किङ्कृ­ते­त्या­श­ङ्क्याह —
या त्विति ।
न चैका­र्थ­धी­हे­तुत्वे सत्येकपदत्वं तस्मिंश्च तद्धी­हे­तु­त्व­मि­त्य­न्यो­न्या­श्र­य­त्वम् , अर्थ­ज्ञा­ना­त्पूर्वं, केषा­ञ्चि­द्व­र्णा­ना­मे­क­स्मृ­त्या­रू­ढा­ना­मे­का­र्थ­धी­हे­तु­त्वा­दे­क­प­द­त्व­नि­श्च­यात् । न चाने­क­सं­स्का­राणां नैक­स्मृ­ति­हे­तु­त्वम् । कुश­का­शा­दि­ष्व­ने­क­सं­स्का­र­ज­न्यै­क­स्मृ­ति­द­र्श­नात् । क्रम­व­द्व­र्ण­सं­स्का­राणां स्थायि­त्वा­द­न्त्य­व­र्ण­दृ­ष्ट्य­न­न्तरं साहित्यात्तेषां सर्व­व­र्ण­वि­ष­यै­क­स्मृ­ति­हे­तु­त्व­सि­द्धे­रिति भावः ।

वर्णा­ना­मे­क­स्मृ­त्या­रो­हि­णा­मे­क­प­दत्वे पदविशेषसिद्धौ क्रमापेक्षा न स्यादित्याह —
अत्रेति ।

तदपेक्षाभावे हेतुः —
त एवेति ।

दृष्टान्तेन प्रत्याह —
अत्रेति ।

क्रमानुरोधिनां वर्णानां पदधीविषयत्वे फलितमाह —
तत्रेति ।

कथमेतेषां वर्णा­ना­मे­ता­व­ता­मे­त­त्क्र­म­का­णा­मे­त­त्प­द­त्व­मि­त्या­दि­वि­शे­षधीः, तत्राह —
वृद्धेति ।
व्युत्पत्तिदशा वृद्धव्यवहारः । क्रमा­दी­त्या­दि­श­ब्देन सङ्ख्या गृह्यते । स्वव्यवहारो मध्यमवृद्धस्य प्रवृत्त्यवस्था । तादृशत्वं व्युत्प­त्ति­द­शा­दृ­ष्ट­क्र­मा­द्य­नु­गृ­ही­त­त्वम् । तं तमर्थं गृही­त­स­म्ब­न्ध­प्र­ति­यो­गि­न­मिति यावत् ।

‘यावन्तो यादृशा ये च यद­र्थ­प्र­ति­पा­दकाः । वर्णाः प्रज्ञा­त­सा­म­र्थ्यास्ते तथैवावबोधकाः ॥ ‘ इति न्यायेनाह —
इति वर्णेति ।

स्फोटवादिनस्तु यद्दृष्टं वर्णा­ना­म­र्थ­बो­ध­कत्वं तस्य हानिरदृष्टस्य स्फोटस्य कल्पना, सा च गौरवदुष्टेत्याह —
स्फोटेति ।

किञ्च येन हेतुना वर्णा­ना­म­र्थ­व्य­ञ्ज­कत्वं निरस्तं तेनैव तेषां न स्फोट­व्य­ञ्ज­क­त्व­मपि । यदि कथञ्चिदमी स्फोटं भासयेयुस्तर्हि तथैवार्थमिति युक्तं लाघवादित्याह —
वर्णाश्चेति ।
स्फोटपक्षं प्रतिक्षिपता वर्णपक्षः समर्थितः ।

सम्प्रति वर्णा­ना­म­नि­त्य­त्वेऽपि गोत्वा­दि­जा­त्य­भे­दे­नैव सङ्ग­ति­धी­र­ना­दि­व्य­व­हा­र­श्चेति प्रौढिमारूढः सन्नाह —
अथापीति ।
अर्थ­प्र­ति­पा­द­न­प्र­क्रिया ‘वर्णे­भ्य­श्चा­र्थ­प्र­तीतेः सम्भवात्’ इत्याद्या ।

वर्णानां नित्य­त्व­वा­च­क­त्वयोः सिद्धौ फलितमाह —
ततश्चेति ॥ २८ ॥

जगतः शब्द­ज­त्व­मु­क्त­मु­प­जीव्य शब्दनित्यत्वमाह —
अत एवेति ।

पूर्व­मी­मां­सा­या­मेव वेदनित्यत्वस्य सिद्धत्वादिह तन्नि­त्य­त्व­सा­ध­न­म­कि­ञ्चि­त्क­र­मि­त्या­शङ्क्य सूत्र­ता­त्प­र्य­माह —
कर्तुरिति ।
पूर्व­त­न्त्र­सि­द्ध­मेव वेदनित्यत्वंं देवा­दि­ज­ग­दु­त्पत्तौ वाचकशब्दस्यापि तद्भा­वा­द­यु­क्त­मिति शङ्किते शब्दादेव नित्या­कृ­ति­म­त­स्त­ज्ज­न्मेति समाहितम् । एवं वेदोऽ­वा­न्त­र­प्र­ल­य­स्थायी, जगद्धेतुत्वात् , ईश्व­र­व­दि­त्य­नु­मा­नेन दृढीकर्तुमिदं सूत्रमित्यर्थः ।

तत्ता­त्प­र्य­मु­क्त्वा­क्ष­राणि व्याकरोति —
अत इति ।

अनु­मा­न­सि­द्धेऽर्थे श्रुतिमनुकूलयति —
तथा चेति ।
यज्ञेन पुण्येन कर्मणा वाचो वेदस्य पदवीयं मार्गयोग्यतां ग्रह­ण­यो­ग्य­ता­मा­य­न्ना­प्त­वन्तः, ततस्तां वाचमृषिषु प्रविष्टां विद्य­मा­ना­म­न्व­वि­न्द­न्न­नु­ल­ब्ध­वन्तो याज्ञिका इति यावत् ।

तस्य तात्पर्यमाह —
स्थितामिति ।
अनु­वि­न्ना­म­नु­ल­ब्धा­मि­त्ये­तत् ।

तत्रैव स्मृतिमाह —
वेदेति ।
वेदा­न्क­र्म­ज्ञा­ना­र्था­न्म­न्त्र­ब्र­ह्म­ण­वा­दान् । सेति­हा­सा­नि­ति­हा­स­श­ब्दि­त­ना­ना­र्थ­वा­दो­पे­ता­न्प्र­सि­द्धे­ति­हा­स­स­हि­तान्वा तेषा­म­प्य­वा­न्त­र­प्र­लये सत्त्वात् । पूर्व­म­वा­न्त­र­स­र्गा­दा­वि­त्यर्थः ।

तपसापि न तल्ला­भोऽ­ध्या­प­का­भा­वा­दि­त्या­श­ङ्क्याह —
अनुज्ञाता इति ॥ २९ ॥

महाप्रलये जातेरपि सत्त्वासिद्धेः शब्दा­र्थ­स­म्ब­न्धा­नि­त्य­त्व­मा­शङ्क्य प्रत्याह —
समानेति ।

सूत्र­व्या­व­र्त्या­मा­श­ङ्का­माह —
अथापीति ।
अवान्तरलये शब्दा­र्थ­स­म्ब­न्धा­नि­त्य­त्वा­भा­वेऽ­पीति यावत् ।

तत्र विरो­ध­स­मा­धि­मु­क्त­म­ङ्गी­क­रोति —
यदीति ।
अभि­धा­तृ­श­ब्दे­ना­ध्या­प­का­ध्ये­ता­रा­वुक्तौ । अभि­धा­ना­भि­धे­य­व्य­व­हा­रा­वि­च्छेदे सम्ब­न्ध­नि­त्य­त्व­म­ध्या­प­का­ध्ये­तृ­प­र­म्प­रा­वि­च्छेदे च वेद­नि­त्य­ते­त्य­वि­रोध इत्यर्थः ।

महाप्रलये तु नाविरोध इत्याह —
यदा त्विति ।
जगतो निर­न्व­य­ना­शेऽ­त्य­न्ता­पू­र्वस्य चोत्पत्तौ सम्ब­न्ध­नि­त्य­त्वा­द्य­सिद्धिः, सम्बन्धिनोरभावे तदभावात् , अध्यापकाद्यभावे वाश्रयाभावात् , ब्रह्मणश्च केव­ल­स्या­त­दा­श्र­य­त्वात् । अतो महाप्रलये विरो­ध­ता­द­व­स्थ्य­मि­त्यर्थः ।

तं परिहर्तुं सूत्रं पातयति —
तत्रेति ।

तदिदं व्याकु­र्व­न्न­ना­दित्वं संसारस्य प्रतिजानीते —
तदापीति ।
महा­प्र­ल­य­म­हा­स­र्गा­ङ्गी­का­रेऽ­पीति यावत् ।

तत्र वक्ष्यमाणन्यायं हेतूकरोति —
प्रति­पा­द­यि­ष्य­तीति ।

तस्या­ना­दि­त्वेऽपि महा­प्र­ल­य­व्य­व­धा­ना­द­स्म­रणे वेदानां कुतस्तदीयो व्यवहारः, तत्राह —
अनादौ चेति ।
न कश्चिद्विरोधः, शब्दा­र्थ­स­म्ब­न्ध­नि­त्य­त्वा­दे­रिति शेषः । स्वापे लये च प्राण­मा­त्रा­व­शे­षा­न­व­शे­षाभ्यां विशेषेऽपि कर्म­वि­क्षे­प­सं­स्का­र­स­हि­ता­वि­द्या­व­शे­ष­ता­सा­म्या­द­नयोः साम्यम् ।

कथं पुनःस्वापे प्रलयस्य प्रबोधे च प्रभवस्य श्रवणं, तदाह —
स्वापेति ।
यदे­त्यु­प­क्र­मा­द­थ­श­ब्द­स्त­दे­त्यर्थः । प्राणः परमात्मा । सुषुप्तस्य पर­स्मि­न्ने­की­भा­वा­वस्था तदेत्युक्ता । एनं प्रकृतं प्राणं पर­मा­त्मा­न­म­न्त­र्ब­हि­रि­न्द्रि­याणि सविषयाणि स्वापे परमात्मनि लीनानीत्यर्थः ।

प्रबोधे तस्मादेव जगतो जन्मोदाहरति —
स इति ।
स सुषुप्तः पुरुषः । यथे­त्य­स्मा­त्प्रा­गु­प­क्र­म­व­शा­त्त­देति द्रष्टव्यम् । एतस्मादात्मन इत्यत्रापादानं प्राणः परमात्मैव । सर्वे प्राणा वागा­द­य­स्ते­भ्योऽ­न­न्तरं तदनुग्राहका देवा अग्न्या­द­य­स्त­द­न­न्तरं लोकाः शब्दादिविषयाः । कल्पि­त­स्या­ज्ञा­त­स­त्त्वा­भा­वा­द्दृ­ष्ट्य­दृ­ष्टि­भ्या­मु­त्प­त्ति­ल­या­वुक्तौ ।

व्याव­हा­रि­क­सत्त्वे त्वना­स्था­श्रु­ते­रि­त्य­नु­स­न्धा­न­यो­गा­यो­गाभ्यां दृष्टा­न्त­दा­र्ष्टा­न्ति­क­वै­षम्यं शङ्कते —
स्यादिति ।
सर्वेषां यौग­प­द्ये­ना­स्वा­पा­त्तदा प्रबुद्धेभ्यः सुप्तानां पुन­र्व्य­व­हा­रा­ग्र­हा­त्का­ल­वि­प्र­क­र्षस्य मरणस्य च वास­नो­च्छे­दि­नोऽ­भा­वा­त्तत्र स्मरणम् । इह तु विमतो न जन्मा­न्त­र­व्य­व­हा­रा­नु­स­न्धा­नार्हः, जनि­मृ­ति­व्य­य­हि­त­त्वात् , अस्म­दा­दि­व­दि­त्य­नु­मा­नान्न स्मरणम् , अतो दृष्टान्ते शब्दा­र्थ­स­म्ब­न्ध­नि­त्य­त्वा­द्य­वि­रुद्धं दार्ष्टान्तिके नैवमित्यर्थः ।

हिर­ण्य­ग­र्भा­दी­ना­म­नु­स­न्धा­न­सि­द्धेर्न वैषम्यमित्याह —
नैष इति ।

तेषा­म­स्म­दा­दि­सा­म्य­मा­श­ङ्क्यो­क्तम् —
यद्यपीति ।
इतिशब्दो यद्यपीत्यनेन सम्बध्यते । तथापि न प्राकृतवदिति वक्तव्यम् ।

उक्तमर्थं दृष्टान्तेन साधयति —
यथेति ।

आ मानुषादा च स्थाणो­र्ज्ञा­ना­दि­प्र­ति­ब­न्ध­स्यो­त्त­रो­त्त­र­मु­त्क­र्ष­प्र­तीतिं प्रमाणयति —
दृश्यत इति ।

आ मनुष्यादा च हिर­ण्य­ग­र्भा­दु­त्त­रो­त्त­र­ज्ञा­ना­द्या­धिक्ये मानमाह —
इत्येतदिति ।
‘हिरण्यगर्भः समवर्तत’ इत्यादयः श्रुतिवादाः । ‘ज्ञानमप्रतिमं यस्य’ इत्यादयः स्मृतिवादाः ।

तेषामुक्तेऽर्थे तात्प­र्य­लि­ङ्ग­म­भ्या­स­माह —
असकृदिति ।

पूर्व­क­ल्पी­ये­श्व­राणां कल्पान्तरे मुक्तत्वात्कथं व्यव­हि­ता­नु­स­न्धानं, तत्राह —
ततश्चेति ।
पुरुषविशेषाणां व्यव­हि­ता­नु­स­न्धा­न­यो­गस्य स्थितत्वादिति यावत् ।

पुरु­ष­वि­शे­षा­ने­वाह —
अतीतेति ।
ईश्वराणां तद्भावनाभाजां यज­मा­ना­ना­मि­त्यर्थः । प्रादुर्भवतां हिर­ण्य­ग­र्भा­दि­भा­वे­नेति शेषः ।

तेषां व्यव­हि­त­व्य­व­हा­रा­नु­स­न्धाने हेतुमाह —
परमेश्वरेति ।

हिरण्यगर्भस्य परानुग्रहे मानमाह —
तथा चेति ।
विपूर्वो दधातिः करोत्यर्थः । पूर्वं कल्पादौ प्रहिणोति ददाति । लट­श्चो­भ­य­त्रा­वि­वक्षा । आत्माकारबुद्धौ प्रकाशत इति तथोक्तः । तत्त्व­म­स्या­दि­वा­क्यो­त्थ­धी­वृ­त्ति­व्या­प्य­मि­त्ये­तत् । शरणं मुक्त्या­ल­म्व­न­मि­त्यर्थः ।

न केवलमेकस्यैव प्रतिभानं येनाविश्वासः किन्तु तत्त­च्छा­खा­द्र­ष्टा­रोऽपि बहवः सन्तीत्याह —
स्मरन्तीति ।
ऋग्वेदो दशमण्डलात्मको मण्डलानां दशतयमत्रास्तीति दाशतय्यस्तत्र भवा ऋचः ।

ऋग्वे­दा­ति­रि­क्ते­ष्वपि वेदेषु काण्ड­सू­क्त­म­न्त्रा­दि­दृशो बौैधायनादिभिः स्मृता इत्याह —
प्रतीति ।
एवमेव मधुच्छन्दः प्रभृ­ति­व­दे­वे­त्यर्थः ।

किञ्च­र्ष्या­दि­धी­पू­र्व­म­नु­ष्ठानं दर्शयन्ती श्रुति­स्तां­स्ता­नृ­षी­न्म­न्त्र­दृशो दर्शयतीत्याह —
श्रुतिरिति ।

तत्र तत्र प्रथ­म­मृ­ष्या­दि­ज्ञानं विनानुष्ठाने दोषमाह —
यो हेति ।
आर्षे­य­मृ­षि­स­म्बन्धं, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगो न विदितान्येतानि यस्य मन्त्रस्य तेन याजयति - यागं कार­य­त्य­ध्या­प­य­त्य­ध्य­यनं कारयति, स्थाणुं स्थावरं, गर्तं नरकम् । ऋष्याद्यज्ञाने दोषित्वं तच्छब्दार्थः । भूतप्रेतादीनां जन्मा­न्त­रा­नु­स्म­र­ण­द­र्श­न­न्या­या­नु­गृ­ही­ता­ना­मृ­ष्या­दिषु स्मृत्या­दि­प्र­मि­त­क­ल्पा­न्त­री­य­वे­दा­नु­स्म­र­ण­सू­च­क­श्रौ­त­लि­ङ्गानां कल्पा­न्त­र­व्य­व­हा­रा­नु­स्म­र­ण­सा­ध­क­त्वम् । न च कालविप्रकर्षस्य जन्मनाशयोश्च सर्व­सं­स्का­रो­च्छे­द­कत्वं, पूर्वा­भ्य­स्त­स्मृ­त्य­नु­स­न्धा­ना­ज्जा­त­मा­त्रस्य हर्षा­दि­दृ­ष्टे­रि­त्यर्थः ।

कल्पा­न्त­रा­नु­स­न्धा­नेन व्यव­हा­र­प्र­व­र्त­न­यो­गा­त्पू­र्व­क­ल्प­तु­ल्यै­वो­त्त­र­क­ल्प­प्र­वृ­त्ति­रि­त्यु­क्तम् । सम्प्रति सृष्टि­नि­मि­त्ता­दृ­ष्ट­म­हि­म्नापि पूर्व­स­दृ­ष्ये­वो­त्त­र­सृ­ष्टि­रि­त्याह —
प्राणिनां चेति ।

कथमेतावता पूर्व­सृ­ष्टि­सा­दृ­श्य­मु­त्त­र­सृ­ष्टे­रि­त्या­श­ङ्क्याह —
दृष्टेति ।
अन्व­य­व्य­ति­रे­क­सि­द्धत्वं दृष्टत्वम् । आग­म­मा­त्र­प्र­ति­प­न्न­त्व­मा­नु­श्र­वि­क­त्वम् । विशि­ष्ट­सं­स्था­न­प­श्वा­दि­का­म­नया कृतं कर्म तादृशं पश्वादि भावयतीति दृष्ट­वि­ष­य­रा­गा­द्य­धी­न­क­र्म­फ­ल­भू­त­सृष्टेः श्लिष्टं पूर्व­सृ­ष्टि­सा­दृ­श्य­मि­त्यर्थः ।

पूर्वो­त्त­र­सृ­ष्टि­सा­दृश्ये मानमाह —
स्मृतिश्चेति ।
तेषां सृज्यमानानां प्राणिनामिति निर्धारणे षष्ठी । तेषां पौनःपुन्येन सृज्यमानतया सर्गस्य प्रवा­हा­त्म­ना­ना­दित्वं द्योत्यते ।

पूर्व­कृ­त­क­र्म­पा­र­व­श्य­मु­त्त­र­सृष्टौ किमिति प्राणि­ना­मि­त्या­श­ङ्क्याह —
हिंस्रेति ।

व्यवस्थया धर्मा­ध­र्म­सं­स्कृ­तत्वं कथं तेषामिष्टं, तत्राह —
तस्मादिति ।
सम्प्र­ति­त­न­ध­र्मा­दि­रु­चि­दृष्ट्या प्राचि भवेऽपि तत्त­द्भा­वि­त­त्व­धी­रि­त्यर्थः ।

यत्तु निर्लेपं प्रलीयते जगदिति, तत्राह —
प्रलीयमानमिति ।
तत­श्चो­पा­स­न­श­क्ति­नि­य­मा­दपि पूर्व­स­दृ­श्ये­वो­त्त­र­सृ­ष्टि­रि­त्यर्थः ।

कार्यस्य कार­ण­मा­त्र­त्वा­त्त­न्ना­शा­न्नो­त्त­र­सृष्टेः सादृ­श्य­मि­त्या­श­ङ्क्याह —
शक्तीति ।

निरन्वयनाशेन नवस्योदये दोषमाह —
इतरथेति ।

शक्ति­वै­चि­त्र्या­द्वि­चि­त्र­सृ­ष्टि­मा­श­ङ्क्याह —
न चेति ।
अवि­द्या­श­क्ते­रे­क­स्या­स्त­त्त­त्कार्ये शक्तिभेदकल्पने गौर­वा­दा­त्मा­वि­द्यैव नः शक्तिरिति स्थितेरित्यर्थः ।

पूर्वो­त्त­र­सृ­ष्टि­सा­दृश्ये फलितमाह —
ततश्चेति ।
विच्छिद्य महा­प्र­ल­य­व्य­व­धा­ने­ना­पी­त्यर्थः । भूरा­दि­लो­क­प्र­वाहा भोगभूमयः । देवा­दि­प्रा­णि­स­मूहो भोक्तृवर्गः । वर्णा­श्र­मा­दि­व्य­स्था­स्त­दी­य­ध­र्मा­धर्म इति भेदः ।

दृष्टान्तं स्पष्टयति —
न हीति ।
‘मनः­ष­ष्ठा­नी­न्द्रि­याणि’ इति स्मृतेः षष्ठमिन्द्रियं मनस्तस्य नासाधारणो विषयः, सुखादेरपि साक्षि­मा­त्र­ग­म्य­त्वा­त्त­त्तु­ल्य­म­त्य­न्ता­स­दिति यावत् । यद्वा षष्ठमिन्द्रियं ज्ञाने­न्द्रि­येषु कर्मेन्द्रियेषु वा नास्ति तद्विषयस्तु दूरापास्तस्तथा व्यव­हा­रा­न्य­थात्वं प्रतिकल्पमशक्यं कल्पयितुम् । न हि कस्याञ्चिदि सृष्टौ नेत्र­श्रो­त्रा­दे­र्गो­च­र­वि­प­र्ययो दृष्टः । तथा सर्वकल्पेषु लोक­लो­कि­त­द्ध­र्म­नि­य­म­सि­द्धि­रि­त्यर्थः ।

उक्तमर्थं सङ्क्षिप्य निग­म­य­न्प्र­कृ­त­सू­त्रा­क्ष­राणि योजयति —
अतश्चेति ।

समाननामरूपाणां विशेषाणां प्रतिसर्गं सर्गेऽपि कुतो विरोधसमाधिः, तत्राह —
समानेति ।

प्रादुर्भवतां विशेषाणां समाननामरूपत्वे मानमाह —
समानेति ।

उक्तं व्याकर्तुं श्रुतिं व्याचष्टे —
यथेति ।

तत्रैव श्रुत्यन्तरमाह —
तथेति ।
भाविवृत्त्या यज­मा­नोऽ­ग्नि­रु­च्यते, अग्ने­र­ग्न्य­न्त­रा­भा­वात् ।

यजमानश्चैवं कामयित्वा किं कृतवानिति, तदाह —
स इति ।
कृत्तिकाभ्यः कृत्ति­का­न­श्र­त्र­दे­व­तायै बहुवचनं नक्ष­त्र­ब­हु­त्वात् । अष्टाकपालमष्टसु कपालेषु पचनीयं निर­व­प­न्नि­रु­प्त­वान् । उक्त­पु­रो­डा­श­ह­वि­ष्का­मिष्टिं कृतवानित्यर्थः ।

उक्त­श्रु­ते­स्ता­त्प­र्य­माह —
नक्षत्रेति ।
‘मित्रो वा अकामयत चन्द्रमा वा अकामयत’ इत्येवंविधा श्रुति­रे­वं­जा­ती­यका । पूर्वो­त्त­र­सृष्ट्योः समा­न­ना­म­रू­प­त्व­मि­हे­त्यु­क्तम् । स्मृतिरपीह द्रष्टव्येति सम्बन्धः । वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतुलिङ्गानि वस­न्ता­दी­ना­मृ­तूनां चिह्नानि नव­कि­स­ल­य­प्र­सू­ना­दीनि । पर्यये पर्याये पौनःपुन्येन परिवर्तने । ये चक्षु­रा­द्य­भि­मा­नि­नोऽ­तीता देवास्ते साम्प्र­तै­र्दे­वै­रिह चक्षु­रा­द्य­भि­मा­नि­भि­स्तुल्या इति योजना ॥ ३० ॥

देवानां विग्रहवत्त्वे सर्गप्रलयोपगमे च कर्मणि शब्दे च विरोधमाशङ्क्य समाधिरुक्तः । सम्प्रति ‘तदुपर्यपि - ‘ इत्य­त्रो­क्त­मा­धि­का­र­मा­क्षि­पति —
मध्वादिष्विति ।

पूर्व­प­क्ष­सू­त्र­ता­त्प­र्य­माह —
इहेति ।

प्रति­ज्ञा­भा­ग­स्या­क्ष­रा­र्थ­माह —
देवादीनामिति ।

तेषां सम­र्थि­ता­धि­का­र­स्या­क्षेपो न युक्त इत्याह —
कस्मादिति ।

तत्र हेतुमवतार्य व्याकरोति —
मध्वादिष्विति ।

मधुविद्यायां देवा­ना­म­धि­का­रा­योगं वक्तुं पृच्छति —
कथमिति ।

तेषा­म­नु­पा­स­क­त्वा­र्थ­मु­पा­स­का­न्त­र­स­त्त्व­माह —
असाविति ।

किमर्थं मनुष्यग्रहणं, तत्राह —
देवादिष्विति ।
उपा­स्यो­पा­स­क­भा­वस्य भेदा­पे­क्ष­त्वा­त्प्रा­चा­मा­दि­त्या­ना­म­स्मि­न्कल्पे क्षीणा­धि­का­र­त्वे­ना­दि­त्य­त्वा­भा­वा­दा­दित्य एव मधु­दृ­ष्टि­रा­दि­त्य­स्या­यु­क्ते­त्यर्थः ।

तर्हि देव­ता­न्त­रा­णा­मु­क्तो­पा­स्त्य­धि­का­रित्वं, नेत्याह —
पुनश्चेति ।
लोहितं, शुक्लं, कृष्णं, परं कृष्णं, मध्ये क्षोभत इव, इत्युक्तानि पञ्च रोहि­ता­दी­न्य­मृ­तानि प्रागा­द्यू­र्ध्व­दे­श­स्थि­त­र­श्मि­ना­डी­भि­स्त­त्त­द्वे­दो­क्त­क­र्म­कु­सु­मे­भ्य­स्त­त्त­द्वै­दि­क­म­न्त्र­म­धु­क­रै­रा­दि­त्य­म­ण्ड­ल­मा­नी­तानि सोमा­ज्य­प­यः­प्र­भृ­ति­द्र­व्या­हु­ति­नि­ष्प­न्नानि यश­स्ते­जो­वी­र्य­मि­न्द्रि­य­मि­त्ये­व­मा­त्म­का­न्या­दि­त्य­म­धु­स­म्ब­न्धीनि वस्वा­द्यु­प­जी­व्यानि चिन्तयतां फलं वस्वा­द्या­प्ति­रु­च्यते । तेषामुपासकत्वे कर्मकर्तृविरोधः स्यादित्यर्थः ।

आदिशब्दार्थं व्याचष्टे —
तथेति ।
कर्म­क­र्तृ­वि­रो­ध­सा­म्या­दि­त्यर्थः ।

तथापि कथ­मृ­षी­णा­म­न­धि­कारः, तत्राह —
तथेति ।
सप्तसु शीर्ष­ण्य­प्रा­णेषु द्वयो­र्द्व­यो­र्गो­त­मा­दि­दृ­ष्ट्यो­पास्तिः । दक्षिणः कर्णो गोतमः, वामो भरद्वाजः, चक्षुर्दक्षिणं विश्वामित्रः, वामं जमदग्निरित्यादि । न च तत्र तेषामेवाधिकारः, विरोधादित्यर्थः ॥ ३१ ॥

क्वचि­द­न­धि­का­रान्न सर्व­त्रा­न­धि­कारः, ब्राह्मणस्य राज­सू­या­न­धि­का­रेऽपि बृह­स्प­ति­स­वेऽ­धि­का­रा­दिति शङ्कते —
कुतश्चेति ।

देवादीनां विग्र­हा­द्य­भा­वा­द­न­धि­कारं सार्वत्रिकं साधयति —
ज्योतिषीति ।

सूत्रं विभज्यते —
यदिति ।

आदित्यः सविता पूषा चन्द्रमा नक्ष­त्र­मि­त्या­दि­श­ब्दानां ज्योति­र्म­ण्ड­ल­वि­ष­यत्वे प्रसिद्धिद्वयं प्रमाणयति —
लोकेति ।
‘यावदादित्यः पुरस्तादुदेता’ इत्यादिः, ‘असौ वा आदित्यो देवमधु’ इत्या­दि­वा­क्य­शेषः ।

उदयास्तमयौ च ज्योति­र्म­ण्ड­ल­स्यो­प­ल­भ्येते, तेन तदे­वा­दि­त्य­प­दो­क्त­मस्तु । तर्हि तस्यैवाधिकारः, तत्राह —
न चेति ।

आदि­त्या­दी­ना­म­चै­त­न्या­द­न­धि­का­रेऽपि चैत­न्या­द­ग्न्या­दी­ना­म­धि­कारः स्यादि­त्या­श­ङ्क्याह —
एतेनेति ।
न खल्वा­दि­त्या­दि­भ्योऽ­ग्न­या­दयो विशिष्यन्ते, येन तेषां चेत­न­त्वा­द­धि­का­रि­ते­त्यर्थः ।

देवादीनां विग्र­हा­द्य­प­रि­ग्र­हा­द­न­धि­का­रि­ते­त्यु­क्त­म­मृ­ष्य­माणः सिद्धान्ती शङ्कते —
स्यादिति ।
‘वज्रहस्तः पुरन्दरः’ इत्यादयो मन्त्राः । ‘प्रजा­प­ति­रा­त्मनो वपामुदक्खिदत् ‘ इत्या­द­योऽ­र्थ­वादाः । ‘इष्टा­न्भो­गान्हि वो देवा दास्यन्ते यज्ञभाविताः । ‘ ‘ते तृप्ता­स्त­र्प­य­न्त्येनं सर्वकामफलैः शुभैः । ‘ इत्या­दी­नी­ति­हा­स­पु­रा­णानि । लोकेऽपि यमं दण्ड­ह­स्त­मा­लि­खन्ति । वरुणं पाशहस्तम् । अतो मन्त्रा­दि­प्रा­मा­ण्या­द्दे­वा­दीनां विग्र­हा­दि­यो­गा­द्वि­द्या­धि­का­रि­ते­त्यर्थः ।

विग्र­ह­व­त्त्वा­दीति ।
आदिशब्देन हविर्भोजनं तृप्तिरैश्वर्यं फलदानं च गृहीतम् ।

देवादीनां विग्रहादिपञ्चकं प्रामा­णि­क­मि­त्युक्तं दूषयति —
नेतीति ।

यदुक्तं लोकतो विग्र­हा­दि­धी­रिति, तत्राह —
न तावदिति ।

तर्हि प्रत्य­क्षा­दि­प्र­सि­द्धितो लोकप्रसिद्धेर्न भेदः, तत्राह —
प्रत्यक्षादिभ्य इति ।

अस्तु तर्हि तन्मूला लोकप्रसिद्धिः, नेत्याह —
न चेति ।
देव­ता­वि­ग्र­हा­दि­प­ञ्चकं सप्तम्यर्थः ।

तर्हि लोक­प्र­सि­द्धे­रि­ति­हा­स­पु­राणं मूलं, तत्राह —
इतिहासेति ।
तस्य यन्मूलं तदेेव लोक­प्र­सि­द्धे­र्मू­ल­मिति चेत् , अस्तु तर्हि निर्मूलं तल्लो­क­प्र­सि­द्धे­र्मूलं, पौरुषेयगिरां मूलाभावे प्रामा­ण्या­सिद्धेः । न च तस्य यन्मूलं तदेव लोक­प्र­सि­द्धे­र्मूलं, तन्मूलतया सम्भा­वि­ता­र्थ­वा­द­म­न्त्राणां निर­सि­ष्य­मा­ण­त्वा­दिति भावः ।

अपौ­रु­षे­या­णा­म­र्थ­वा­दानां तर्हि लोक­प्र­सि­द्धि­मू­लत्वं, न अर्थ­वा­दा­धि­क­र­ण­वि­रो­धा­दि­त्याह —
अर्थवादा इति ।

मन्त्राणां तर्हि स्तुत्य­र्थ­त्वा­भा­वा­त्त­न्मू­ल­ते­त्या­श­ङ्क्याह —
मन्त्रा इति ।

व्रीह्या­दि­व­त्क­र्मणि श्रुति­लि­ङ्गा­दि­वि­नि­यु­क्तानां तेषां दृष्ट­द्वा­रो­प­कारे सत्य­दृ­ष्ट­क­ल्प­ना­यो­गात् , अर्थपरत्वस्य शब्दा­ना­मौ­त्स­र्गि­क­त्वात् , प्रयो­ग­स­म­वे­ता­र्थ­स्मृ­ता­वेव तात्पर्यं, नाज्ञा­त­दे­व­ता­वि­ग्र­हा­दा­वपि, तात्पर्यभेदे वाक्यभेदादिति मत्वा मन्त्रा­धि­क­र­ण­मु­क्तेऽर्थे प्रमाणयति —
इत्याचक्षत इति ।

विग्रहादिपञ्चके मानाभावे फलितमाह —
तस्मादिति ॥ ३२ ॥

सूत्राभ्यां पूर्वपक्षे सिद्धान्तयति —
भावन्त्विति ।

तत्र परपक्षनिषेधं स्वप­क्ष­प्र­तिज्ञां च विभजते —
तुशब्द इति ।

यदुक्तं ब्रह्मविद्या देवा­दी­न्ना­धि­क­रोति, विद्यात्वात् , मध्वा­दि­वि­द्या­व­दिति, तत्र मध्वा­दि­वि­द्यानां देवा­दि­व्या­मि­श्र­त्वान्न तास्ता­न­धि­कु­र्वन्ति, न विद्यात्वात् । ब्रह्मविद्या तु न व्यामि­श्रे­त्य­त­स्ता­न­प्य­धि­क­रो­ती­त्य­प्र­यो­ज­क­त्व­माह —
यद्यपीति ।

तत्र देवा­दी­ना­म­धि­का­रस्य सम्भवे हेतुमाह —
अर्थित्वेति ।
वैरा­ग्या­दि­ब्र­ह्म­च­र्या­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । द्विवि­ध­सा­म­र्थ्य­स्यैव योग्य­ता­ख्य­स्या­धि­का­र­का­र­ण­त्वेऽपि तत्प्र­यो­ज­क­त्वे­ना­र्थि­त्वा­द्या­स्थे­यम् ।

अति­प्र­स­ङ्ग­प­क्ष­बा­ध­को­प­हतं चेद­म­नु­मा­न­मि­त्याह —
नेति ।

राज­सू­या­द्य­न­धि­कृ­त­स्यापि ब्राह्मणस्य बृहस्पतिसवे प्रामा­ण्या­द­धि­कारः । प्रकृते तु कथ­मि­त्या­श­ङ्क्याह —
ब्रह्मेति ।
तत्र ब्रह्म­वे­द­ना­त्स­र्व­भावे स्थिते देवानां मध्ये यो यो देवः प्रति­बु­द्ध­वा­ना­त्मा­न­महं ब्रह्मस्मीति स स प्रतिबोद्धैव तद्ब्रह्माभवत् ।

तथापि जातित्रयस्यैव विद्या­धि­का­र­मा­श­ङ्क्याह —
ते हेति ।
ते देवा­श्चा­सु­रा­श्चा­न्यो­न्य­मु­क्त­वन्तः किल, हन्त यद्य­नु­म­ति­र्भ­वतां तर्हि तमात्मानं विचारयामः । यं विचारतो ज्ञात्वा सर्वाणि फला­न्या­प्नो­ती­त्युक्त्वा विद्या­ग्र­ह­णा­ये­न्द्र­वि­रो­चनौ प्रजा­प­ति­मा­ज­ग्म­तु­रि­त्यर्थः । चकारो बृह­दा­र­ण्य­क­श्रुत्या छान्दो­ग्य­श्रुतेः समुच्चयार्थः ।

श्रौत­लि­ङ्गे­ना­नु­मा­न­बाधं दर्शयित्वा स्मार्तेनापि तद्बाधं दर्शयति —
स्मार्तमिति ।
‘किमत्र ब्रह्म अमृतं किंस्वि­द्वे­द्य­म­नु­त्त­मम् । चिन्तयेत्तत्र वै गत्वा गन्धर्वो मामपृच्छत ॥ विश्वावसुस्ततो राजा वेदा­न्त­ज्ञा­न­को­विदः । ‘इति मोक्षधर्मे जन­क­या­ज्ञ­व­ल्क्य­सं­वा­दा­त्प्र­ह्ला­दा­ज­ग­र­स­म्बा­दा­च्चो­क्ता­नु­मा­ना­सि­द्धि­रि­त्यर्थः ।

आदि­त्या­दि­श­ब्दानां ज्योति­र्म­ण्ड­ल­वि­ष­य­त्वा­त्त­स्या­चे­त­नस्य विग्र­हा­दि­र­हि­तस्य नाधि­का­रोऽ­स्ती­त्युक्तं, तत्राह —
यदपीति ।

गोलकादिषु प्रयु­क्त­च­क्षु­रा­दि­श­ब्दा­ना­म­ति­रि­क्ते­न्द्रि­या­र्थ­त्व­व­दा­दि­त्या­दि­श­ब्दानां ज्योतिरादिषु प्रयोगेऽपि तदतिरिक्ते चेतने प्रवृ­त्ति­रि­त्याह —
ज्योतिरिति ।

दृष्टा­न्तेऽ­ति­रि­क्ते­न्द्रि­य­सत्त्वे मानवत्प्रकृते तन्ना­स्ती­त्या­श­ङ्क्याह —
मन्त्रेति ।
यथा चेतने देव­ता­त्म­न्या­दि­त्या­दि­श­ब्द­स्तथा मन्त्रादिषु शाब्द­व्य­व­हा­रा­दिति हेत्वर्थः ।

कथं तर्हि ज्योति­रा­दि­ष्वा­दि­त्या­दि­शब्दः, तत्राह —
अस्तीति ।
देवा­दी­ना­म­ने­क­रू­प­प्र­ति­प­त्ति­यो­गा­च्चे­त­ना­चे­त­न­यो­रा­दि­त्या­दि­श­ब्दानां मुख्य­त्व­सि­द्धि­रि­त्यर्थः ।

देवादीनां विवि­ध­वि­ग्र­ह­ग्र­ह­सा­मर्थ्ये मानमाह —
तथाहीति ।
सुब्रह्मण्यो नामो­द्गा­तृ­ग­ण­प्र­विष्टः कश्चि­दृ­त्वि­ग्वि­शे­ष­स्त­त्स­म्ब­न्द्धा­र्थ­वादः ‘इन्द्र, आगच्छ’ इत्यादिः ।

तत्र मेधातिथेः मेष, इती­न्द्र­स­म्बो­धनं मन्त्रपदं श्रुतं, तद्व्याचष्टे —
मेधेति ।

इन्द्रस्य नाना­वि­ग्र­ह­यो­गेऽपि देवतान्तरस्य किमि­त्या­श­ङ्क्याह —
स्मर्यते चेति ।
धर्मो वायुरिन्द्रश्च पुरुषो भूत्वा तामेवोपजग्मुः अश्विनौ च पुरुषौ भूत्वा माद्री­मु­प­ज­ग्म­तु­रिति महाभारते प्रसि­द्ध­मि­त्यर्थः ।

यत्तु मृदा­दि­व­द­चे­त­नत्वं, तत्रा­धि­ष्ठा­तृ­वि­व­क्षया, अधि­ष्ठे­य­वि­व­क्षया वाचेतनत्वम् । प्रथमं प्रत्याह —
मृदादिष्विति ।

तेष्व­धि­ष्ठा­तृ­चे­त­नो­प­गमे मानमाह —
मृदिति ।
आदिशब्देन वागादिसंवादो गृहीतः ।

द्वितीये दार्ष्टा­न्ति­केऽपि तदिष्टमेवेत्याह —
ज्योतिरादेरिति ।

मृदा­दि­ष्व­धि­ष्ठा­तृ­चै­तन्ये मानवदत्र तद­भा­वा­द­धि­ष्ठे­य­व­द­धि­ष्ठा­तु­रपि न चैत­न्य­मि­त्या­श­ङ्क्याह —
चेतनास्त्विति ।

मन्त्रादयो न स्वार्थे मानम् , अन्य­प­र­वा­क्य­त्वात् , विष­भ­क्ष­ण­वा­क्य­व­दि­त्यु­क्त­म­नु­व­दति —
यदपीति ।
यस्मा­न्मा­ना­द्य­स्मि­न्न­बा­धिता धीस्त­स्मा­त्त­द्भावः सिध्यति । यत्र तु यतो मानान्न तथा धीर्न तत­स्त­त्सि­द्धि­रि­त्यु­त्सर्गः ।

तथा च मन्त्रा­दि­भ्योऽपि स्वार्थे चेदबाधिता धीस्ततस्तेषां तत्र प्रामा­ण्य­मि­त्याह —
अत्रेति ।

अनन्यार्थत्वेे स्वार्थे प्रामाण्यमन्यथा नेत्यु­क्त­मा­श­ङ्क्याह —
नेति ।
न हि विष­भ­क्ष­ण­वा­क्य­म­न्या­र्थ­त्वान्न स्वार्थे मानं किन्तु माना­न्त­र­वि­रो­धात् । अवेक्षणस्य च संस्कारार्थस्य स्वार्थ­प­रि­च्छे­द­क­त्वात् । न च तथाविधं वाक्यं न परिच्छेदकं, संवा­द­वि­सं­वा­द­यो­र­स­तो­र­वा­न्त­र­ता­त्प­र्या­त्त­त्प­रि­च्छे­द­ध्रौ­व्यात् । न चानन्यार्थत्वं प्रामाण्ये प्रयोजकम् , अबा­धि­त­स्वा­र्थ­ज्ञाने तदभावेन प्रामा­ण्या­भा­वा­दृ­ष्टे­रि­त्यर्थः ।

अन्या­र्थ­त्व­म­प्र­यो­ज­क­मि­त्यत्र दृष्टान्तमाह —
तथाहीति ।
प्रति­सं­यो­गि­व­स्तु­ता­त्प­र्या­न­पे­क्ष­मेव मानं चक्षुः ।

वाक्यं तु यत्र तात्पर्यं तत्र मानं न प्रत्यर्थमिति वैशेष्यमाह —
अत्रेति ।
विध्युद्देशो विधिवाक्यं, विधि­रु­द्दि­श्य­तेऽ­नेे­नेति व्युत्पत्तेः । स्तुत्यर्थत्वं विधेः प्राश­स्त्य­ल­क्ष­णा­प­र­त्वम् । वृत्तान्तो भूतार्थः ।

महा­वा­क्या­वा­न्त­र­वा­क्य­भे­देन पृथ­क्प्र­त्या­य­कत्वं मन्त्रा­दे­र्वि­धे­श्चे­त्या­श­ङ्क्याह —
नहीति ।

तत्र दृष्टान्तः —
यथेति ।

पद­द्व­य­स­म्ब­न्धा­द्वि­धि­रपि तत्र भाति, अप्रा­प्त­नि­षे­धा­यो­गा­दि­त्या­श­ङ्क्याह —
नेति ।
न प्रत्य­य­मा­त्रा­द­र्थ­सिद्धिः, तत्प्रत्ययस्य रागप्राप्ततया भ्रमत्वात् , तत्प्राप्तस्य च रज­ता­दि­व­न्नि­षे­धा­दि­त्यर्थः ।

यद्यपि पदैकवाक्यतायां नार्था­न्त­र­धी­र्वि­शि­ष्ट­बो­ध­न­प्र­यु­क्त­प­दा­ना­म­न्य­त्रा­प­र्य­व­सा­नात् , तथापि वाक्यै­क­वा­क्य­तायां द्वारार्थे वाक्यार्थधीः । यथा देवदत्तस्य गौः क्रेतव्या बहु­क्षी­रे­त्युक्ते बहु­क्षी­र­त्व­द्वारा क्रयणे तात्प­र्य­मि­त्यु­भयं तात्प­र्य­भे­दा­द्भाति तथेहापीत्याह —
अत्रेति ।

आर्थवादिकानां पदानां साक्षादेव विध्यन्वये किमिति पृथ­ग­न्व­य­प्र­ति­पत्तिः, तत्राह —
यथाहीति ।

अर्थ­वा­द­स्थ­प­दानां विधिना साक्षादसम्बन्धे योग्यत्वाभावं हेतुमाह —
नहीति ।

कथं तर्हि विधिना तेषामन्वयः, तत्राह —
वाय्विति ।
अध्य­य­न­वि­ध्यु­पा­त्त­स्या­क्ष­र­मा­त्र­स्यापि नैष्फ­ल्या­यो­गा­त्त­त्फ­ला­का­ङ्क्षा­या­म­र्थ­वा­दानां विधे­य­स्तु­ति­ल­क्ष­णया तदेकवाक्यत्वम् । न चान्वयभेदेऽपि वाक्यभेदः, तात्पर्यभेदस्य तद्भे­द­क­स्या­भा­वा­दि­त्यर्थः ।

तर्हि सर्व­त्रा­र्थ­वा­दानां स्वार्थे प्रामाण्यात् ‘अग्निर्हिमस्य’ इत्याद्यपि स्वार्थे प्रमाणं, नेत्याह —
तदिति ।

माना­न्त­र­सं­वा­दा­भा­वात् ‘आदित्यो यूपः’ इत्यादीनां स्वार्थे प्रमा­ण्य­मा­श­ङ्क्यो­क्तम् —
यत्रेति ।

'वज्रहस्तः पुरन्दरः’ इत्यादिषु संवा­द­वि­सं­वा­द­यो­र­भा­वेऽपि सन्देहान्न स्वार्थे मान­ते­त्या­श­ङ्क्याह —
यत्र त्विति ।
इति­श­ब्दा­दूर्ध्वं विचा­र्ये­त्य­ध्या­हा­र्यम् । उक्तं हि - ‘विरोधे गुणवादः स्याद­नु­वा­दोऽ­व­धा­रिते । भूता­र्थ­वा­द­स्त­द्धा­ना­द­र्थ­वा­द­स्त्रिधा मतः ॥ ‘ इति । यत्र विद्य­मा­ना­र्थत्वं तत्र संवादो दृष्टः । प्रकृते तदभावात्किं गुणवादः ।

किंवा यत्र विरोधस्तत्रैव तद्दृष्टेरिह तद­भा­वा­द्वि­द्य­मा­ना­र्थ­तेति सन्देहे मानानां स्वतो मान­त्वा­द्वि­द्य­मा­ना­र्थता, सति च मुख्ये गुणा­ना­श्र­य­णा­द­र्थ­वा­द­वा­क्यानि स्वार्थ­प्र­मि­ता­व­न­न्या­र्था­न्येव फल­व­शा­द­न्या­र्थानि, विधि­प्र­क­र­ण­स्था­नु­वा­द­वि­रो­ध­वि­धु­र­वा­क्य­त्वात् , प्रया­जा­दि­वा­क्य­व­दि­त्य­नु­मा­ना­दि­त्याह —
प्रतीतीति ।

अर्थवादानां संवा­द­वि­सं­वा­दा­सत्त्वे स्वार्थे प्रामा­ण्योक्त्या मन्त्राणामपि तदु­क्त­मे­वे­त्य­ति­दि­शति —
एतेनेति ।
तस्यापि संवादाद्यभावे स्वार्थे मान­त्वा­वि­शे­षा­त्प्र­तीते देवतारूपे प्रामा­ण्य­मा­व­श्य­क­मि­त्यर्थः ।

न केवलं मन्त्रा­दि­प्र­मा­ण­क­मेव देवतारूपं विधि­प्र­मा­ण­क­म­पी­त्यु­पा­दानं प्रमाणयति —
अपि चेति ।
यथा स्वर्गकामवाक्ये विध्यपेक्षितं स्वर्गरूपं ‘यन्न दुःखेन सम्भिन्नम्’ इत्य­र्थ­वा­द­सिद्धं विधिप्रमाणकं तथा यागविधिनैव देव­ता­रू­पा­पे­क्ष­णा­द­र्थ­वा­दा­दि­सि­द्ध­मपि तद्रूपं तत्प्र­मा­ण­क­मे­वे­त्यर्थः ।

कथ­मि­न्द्रा­दि­स्व­रू­पा­पेक्षा विधीनां, ते हि कर­णे­ति­क­र्त­व्य­ता­भा­व्य­मा­त्रा­पे­क्षिणः, तत्राह —
न हीति ।
दर्श­पू­र्ण­मा­सा­धि­का­र­पा­ठा­त्प्र­या­जा­द्य­नु­ष्ठा­ना­दे­वा­पू­र्व­सिद्धिः । तथौ­त्स­र्गि­क­प्र­ती­ति­का­र्या­र्थ­वा­द­प्र­मि­त­दे­व­ता­प्र­मि­ति­मतो यागा­द­पू­र्व­सि­द्धि­र­वि­शे­षा­दि­त्यर्थः ।

चेतसि देव­ता­रू­पा­रो­प­ण­मपि मा भूत् , तत्स­म्प्र­दा­न­क­ह­वि­र्दा­न­कस्य तद­पे­क्षा­त्वा­भा­वा­दि­त्या­श­ङ्क्याह —
न चेति ।
देवतामुद्दिश्य हविरवमृश्य तदी­य­स्व­त्व­त्या­गा­त्म­क­त्वा­द्या­ग­स्ये­त्यर्थः ।

न केवलं यागदेहालोचनया चेतसि देवतारोपः, किन्तु श्रूय­मा­ण­त्वा­च्चे­त्याह —
श्रावयतीति ।

विध्यपेक्षायां मन्त्रादिभ्यो देवताविग्रहादि ग्राह्यं, तदपेक्षैव नास्ति, शब्दरूपस्यैव देवतात्वात् , तस्य च माना­न्त­र­सि­द्ध­त्वात् , तत्राह —
न चेति ।
विमता बुद्धिः शब्या­ति­रि­क्ता­र्था­कारा, कार­क­बु­द्धि­त्वात् , कर्तृबुद्धिवत् । न च मन्त्र­रू­प­का­र­क­बुद्धौ व्यभिचारः, तथापि ‘ऐन्द्र्या गार्हपत्यम्‘ इत्या­दि­का­र­क­त्व­वा­दि­श­ब्दा­ति­रि­क्त­म­न्त्र­रू­पा­र्था­का­र­बु­द्धि­त्वो­प­ग­मा­दिति भावः ।

ननु तथापि देव­ता­रू­प­ज्ञा­न­मु­द्दे­शोऽ­पे­क्षते, न तद्रूपसत्त्वम् , आरोपादपि तद्धी­यो­गा­द्यो­षि­द­ग्नि­धी­वत् , तत्राह —
तत्रेति ।
दृष्टस्यासति बाधके न मिथ्यात्वम् । न च कर्मणो देव­ता­गु­ण­त्वा­त्त­स्मा­देव फलोत्पादे यागस्य फलवत्त्वविरोधः, अपू­र्व­व­द्दे­व­ता­प्र­सा­द­स्यापि यागा­वा­न्त­र­व्या­पा­र­त्वा­दि­त्यर्थः ।

न केवलं मन्त्रा­र्थ­वा­देभ्यो देव­ता­वि­ग्र­हा­दि­सिद्धिः किं त्विति­हा­स­पु­रा­णा­द­पी­त्याह —
इतिहासेति ।
मन्त्रा­दा­वु­क्त­प्रा­मा­ण्य­प्र­कारो व्याख्यातो मार्गः ।

न केवलं मन्त्राद्येव तन्मूलं किं तु प्रत्य­क्षा­द्य­पी­त्याह —
प्रत्यक्षादीति ।

ननु न तत्तस्य मूलं, न हि देवा­दि­वि­ष­य­म­स्म­दा­दी­ना­मस्ति प्रत्यक्षं, तत्राह —
भवतीति ।

व्यासादीनां तद्विषयं प्रत्य­क्ष­म­स्ती­त्यत्र मानमाह —
तथा चेति ।
न चार्षं प्रत्य­क्ष­मि­ति­हा­सा­दि­सिद्धं तच्च तन्मूलतया मान­मि­त्य­न्यो­न्या­श्र­यत्वं, आर्ष­प्र­त्य­क्षस्य योगि­प्र­त्य­क्षा­न्त­र्भू­त­स्या­नु­मा­ना­ग­मा­भ्या­मेव सिद्धत्वात् , इतिहासादौ च तन्मू­ल­त्व­व्य­क्ती­क­र­णाय तद­नु­वा­दा­दि­त्यर्थः ।

ननु पूर्वेऽपि व्यासादयो न देवा­दी­न्प्र­त्य­क्ष­यन्ति, प्राणित्वात् , अस्म­दा­दि­व­दि­त्य­नु­मा­नान्न योगिप्रत्यक्षं तन्मूलमिति शङ्कते —
यस्त्विति ।

सामान्यतो दृष्ट­म­ति­प्र­सक्त्या प्रत्याचष्टे —
स इति ।
विमतं घटमात्रं, वस्तुत्वात् , घटवदित्यपि सम्भवादित्यर्थः ।

अतीतानागतौ कालौ, सार्वभौमशून्यौ, कालत्वात् , वर्त­मा­न­व­दि­त्य­ति­प्र­स­ङ्गा­न्त­र­माह —
इदानीमिवेति ।

तत्रापि सिद्धसाध्यत्वं प्रत्याह —
ततश्चेति ।

विमतः कालोऽ­व्य­व­स्थि­त­प्रा­य­व­र्णा­श्र­म­शाली, कालत्वात् , संम­त­व­दि­त्य­ति­प्र­स­ङ्गा­न्त­र­माह —
इदानीमिवेति ।

तत्रापि सिद्ध­सा­ध्य­त्व­मा­श­ङ्क्याह —
ततश्चेति ।
व्यवस्थाविधायि तत्तद्युगेषु तत्त­द्व­र्णा­श्र­म­यो­गि­तया तत्त­द­स­ङ्की­र्ण­ध­र्म­बो­ध­क­मि­त्यर्थः ।

सामान्यतो दृष्ट­स्या­ति­प्र­स­क्ति­प्र­ह­तत्वे फलितमाह —
तस्मादिति ।

इष्ट­दे­व­ता­सा­क्षा­त्का­रो­द्दे­शेन जपविधानादपि युक्तमेतदित्याह —
अपि चेति ।
आदिपदेन संयोगफलं देव­ता­सा­क्षा­त्का­र­स्त­त्फलं व्यव­हा­र­श्चो­च्यते ।

योगशास्त्रादपि योगिनो देवतादिभिः सह प्रत्यक्षं व्यवहरन्तीति दृष्टमित्याह —
योगोऽपीति ।

न केवलं योग­शा­स्त्रा­द्यो­ग­मा­हा­त्म्यधीः किं तु श्रुतेरपीत्याह —
श्रुतिश्चेति ।
पाद­त­ल­मा­र­भ्या­जा­नो­र्जा­नो­रा­ना­भे­र्ना­भे­रा­ग्रीवं ग्रीवा­या­श्चा­के­श­प्र­रोहं तत­श्चा­ब्र­ह्म­रन्ध्रं क्रमेण पृथि­व्या­दि­धा­र­णया पृथि­व्या­दि­प­ञ्चा­त्मके भूतसमुदाये समुत्थिते प्रति­प­त्ति­द्वारा वशीकृते योगगुणे चाणिमादौ प्रवृत्ते योगाभिव्यक्तं तेजोमयं देहं प्राप्तस्य योगिनो न जरा­दि­स­ङ्ग­ति­रि­त्यर्थः ।

किञ्च मन्त्रा­दि­दृ­शा­मृ­षीणां शक्ति­र­स्म­दा­दि­श­क्ति­स­दृशी नेत्य­भ्यु­प­ग­न्त­व्यम् । तथा व्यासादीनामपि शक्ते­र­स्म­दा­दि­श­क्त्य­ति­शा­यि­तया न तत्प्रत्यक्षं प्रतिक्षेप्तुं शक्यमित्याह —
ऋषीणामिति ।

सिद्धे व्यासा­दी­ना­म­ती­न्द्रि­या­र्थ­द­र्शित्वे फलितमाह —
तस्मादिति ।
तथा चेति­हा­सा­दि­प्रा­मा­ण्या­द्धे­व­ता­वि­ग्र­हा­दि­प­ञ्च­क­सि­द्धि­रि­त्यर्थः ।

लोक­प्र­सि­द्ध्यापि तत्सि­द्धि­रि­त्याह —
लोकेति ।

प्रमा­ण­स्या­दु­ष्टत्वे प्रमे­य­सि­द्धि­र­व­श्य­म्भा­वि­नी­त्य­वा­न्त­र­प्र­कृ­त­मु­प­सं­ह­रति —
तस्मादिति ।

तेषां विग्रहवत्त्वादौ सिद्धे प्रकृते किमित्याशङ्क्य पर­म­प्र­कृ­त­मु­प­सं­ह­रति —
ततश्चेति ।

किञ्च ब्रह्म­लो­का­दि­प्रा­प्तानां देवादिभावं प्राप्तानां तत्रो­त्प­न्ना­प­रो­क्ष­धियां मुक्तिवादीन्यपि श्रुति­स्मृ­ति­वा­क्यानि देवादीनामधिकारं सूचयन्तीति तेषां विद्याधिकारे श्रूता­र्था­प­त्ति­माह —
क्रमेति ॥ ३३ ॥

मनु­ष्या­धि­का­र­नि­य­मा­प­वा­देन देवा­दी­ना­म­धि­का­र­व­द्वि­जा­त्य­धि­का­र­नि­यमं निरस्य शूद्रस्यापि स्यादधिकारः, संव­र्ग­वि­द्या­धि­का­रिणी जानश्रुतौ शूद्र­श­ब्दा­दि­त्या­श­ङ्क्याह —
शुगस्येति ।

प्रासङ्गिकीं सङ्गतिं वदन्नधिकरणस्य तात्पर्यमाह —
यथेति ।
पूर्व­त्रा­त्रै­व­र्णि­क­दे­वा­द्य­धि­का­रोक्त्या मन्त्रादीनां स्वार्थे समन्वयः साधितः । सम्प्रति विद्याधिकारिणि शूद्र­श­ब्द­दृ­ष्टे­र्जा­ति­शू­द्र­स्यापि विद्या­हे­तु­वे­दा­न्त­वि­चा­रा­दि­ष्व­धि­का­र­मा­शङ्क्य शूद्रशब्दस्य क्षत्रिये सम­न्व­यो­क्ते­रे­त­द­ध्या­या­न्त­र्भा­वोऽस्य युक्तः । अर्थ­वा­दि­क­शू­द्र­श­ब्द­स्यैव पौर्वा­प­र्या­लो­च­नया वेदान्तानां स्वार्थे समन्वयसिद्धेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे जातिशूद्रस्यापि ब्रह्मविद्यायां त्रैव­र्णि­का­द­वि­शेषः, सिद्धान्ते ततो विशेषः फलति । ब्रह्मविद्या विषयः ।

तस्यां शूद्र­स्या­धि­का­रोऽस्ति न वेत्य­धि­का­र­हे­तु­स­त्त्वा­स­त्त्वाभ्यां सन्देहे पूर्वपक्षयति —
तत्रेति ।

सत्यपि लौकिके सामर्थ्ये शास्त्री­य­सा­म­र्थ्या­भा­वा­द­न­धि­का­र­मा­श­ङ्क्याह —
तस्मादिति ।
अन­ग्नि­त्वा­दि­त्यर्थः । अन­व­क्लृ­प्त­त्व­म­यो­ग्य­त्वम् ।

कर्मानधिकारे तेनैव न्यायेन विद्यायामपि नाधिकारः, तत्राह —
यच्चेति ।

किमा­ह­व­नी­या­द्य­भा­वा­द­न­धि­कारः शूद्रस्य विद्या­या­मु­च्यते, किंवाऽधिकारे मानाभावात् । तत्राद्यं दूषयति —
नहीति ।
विद्याया दृष्ट­सा­ध­न­त्वा­दा­ह­व­नी­या­दे­स्त­त्रा­कि­ञ्चि­त्क­र­त्वा­त्त­द्र­हि­त­स्यापि तद्धे­तु­म­त­स्त­त्प्रा­प्ति­रिति भावः ।

द्वितीयं निराह —
भवतीति ।
अहेति खेदार्थो निपातः । हारेण सहित इत्वा रथः स तवैव हे शूद्र, गोभिः सहास्तु, किमनेनात्यल्पेन गार्हस्थ्यं निर्वो­ढु­म­स­म­र्थे­नेति रैक्वो जानश्रुतिं विद्याधिकारिणं शूद्र­श­ब्दे­नो­क्त­वा­नि­त्यर्थः ।

न केवलं शूद्राधिकारे श्रौतं लिङ्गं, स्मार्तमपीत्याह —
विदुरेति ।

अर्थित्वादिमतः साधने फलवति स्वाभाविकी प्रवृ­त्ति­रि­ति­न्या­या­नु­गृ­ही­तेन ‘तद्यो यो देवानाम्’ इति ब्रह्म­धी­स­म्ब­न्ध­लि­ङ्गेन देवादीनामधिकारो यथो­क्त­स्त­था­त्रा­प्य­र्थि­त्वा­दि­मतः शूद्रशब्देन परा­म­र्श­लि­ङ्गा­द­स्त्य­धि­का­र­स्त­स्ये­त्यु­प­सं­ह­रति —
तस्मदिति ।

सूत्राद्बहिरेव सिद्धान्तयति —
एवमिति ।

अध्ययनाभावेऽपि किमित्यधिकारो विद्याहेतुषु नेष्यते, तत्राह —
अधीतेति ।
साङ्गा­ध्य­य­न­वि­धि­र­दृ­ष्ट­सं­स्का­र­स­हि­त­वे­द­वा­क्यो­त्थ­प्र­मि­ति­मत एवो­त्त­र­वि­धि­ष्व­धि­कारो नान्यस्येति नियमयन्वैदिकेषु ब्रह्म­धी­फ­ल­प­र्य­न्तो­पा­य­वि­धिषु शूद्र­स्या­न­धी­या­न­स्या­धि­कारं वारयतीति भावः ।

अध्ययनमपि तर्हि तस्य किं न स्यात् , तत्राह —
न चेति ।

उपनयनमपि तस्य स्यादि­त्या­श­ङ्क्याह —
उपनयनस्येति ।
वक्ष्यते हि तस्य वर्ण­त्र­य­वि­ष­य­त्वम् ।

यदु­क्त­म­र्थि­त्व­सा­म­र्थ्ययोः सम्भवादिति, तत्रा­र्थि­त्व­मु­पेत्य सामर्थ्यं प्रत्याह —
यत्त्विति ।

सामर्थ्यमपि तस्य सम्भ­व­ती­त्या­शङ्क्य लौकिकं वैदिकं वेति विकल्प्याद्यं निराह —
सामर्थ्यमिति ।

ननु लिखितपाठादिना प्राप्त­स्वा­ध्या­या­द­र्थ­धी­यो­गा­दस्ति तस्य वैदिकमपि सामर्थ्यम् । न च निषि­द्धा­ध्य­य­ना­द्दु­रि­तो­द­य­भ­यान्न प्रवर्तते लिखि­त­पा­ठा­दि­ज­नि­त­वि­द्यया तन्निबर्हणात् , तत्राह —
शास्त्रीयस्येति ।
लिखि­त­पा­ठा­दि­ज­न्य­वि­द्यया दुरि­त­नि­वृ­त्ता­व­ध्य­य­न­वि­ध्या­न­र्थ­क्या­न्मै­व­मि­त्यर्थः ।

यत्तु ‘शूद्रो विद्या­या­म­न­व­क्लृप्तः’ इति पर्युदासो न श्रुत इति, तत्राह —
यच्चेति ।

संस्कृ­त­वे­दा­र्थ­ज्ञा­ना­भा­वे­ना­सा­म­र्थ्यस्य यज्ञ­व­ज्ज्ञा­नेऽपि तुल्य­त्वा­द्य­ज्ञो­क्ते­रु­प­ल­क्ष­ण­त्वा­द­न­धि­कारो ज्ञानेऽपि वाचनिकः शूद्रस्येत्याह —
न्यायस्येति ।

पूर्व­प­क्ष­बी­ज­म­नु­भाष्य दूषयति —
यदिति ।

तदभावेऽपि स्वतन्त्रमेव लिङ्गदर्शनं द्योत­क­मि­त्या­श­ङ्क्याह —
न्यायेति ।
‘निषादस्थपतिं याजयेत् ‘ इति­व­च्चो­द­ना­भा­वा­द­र्थ­वा­द­स्थ­शू­द्र­श­ब्दस्य चान्यतः सिद्धा­र्था­व­द्यो­तिनः स्वतोऽ­प्रा­प­क­त्वा­द­न्य­प­रस्य मानान्तराविरोध एव प्रामाण्यादत्र न्याय­वि­रो­ध­स्यो­क्त­त्वा­द­सा­धकं लिङ्गमित्यर्थः ।

शूद्राधिकारेऽपि तर्हि लिङ्गानुग्राहको न्यायोऽस्तु, नेत्याह —
न चेति ।

किञ्चा­र्थ­वा­द­व­शा­द्वि­द्या­मात्रे वा शूद्राधिकारः, संव­र्ग­वि­द्या­या­मेव वा । नाद्य इत्याह —
कामं चेति ।
तद्वि­ष­य­त्वा­त्सं­व­र्ग­वि­द्या­वि­ष­या­र्थ­वा­द­स्थ­त्वा­द­स्येति यावत् ।

संव­र्ग­वि­द्या­धि­कारे शूद्रशब्दसिद्धे विद्या­त्वा­द­न्य­त्रापि तद­धि­का­रोऽ­स्त्विति द्विती­य­मा­श­ङ्क्याह —
अर्थवादेति ।

तर्हि वैदि­क­शू­द्र­प­द­स्या­न­र्थ­क्य­मि­त्या­शङ्क्य सूत्रं योजयति —
शक्यते चेति ।

जात्यन्तरे रूढस्य कथमन्यार्थतेति शङ्कते —
कथमिति ।

यौगि­का­र्थ­स­न्नि­धा­व­दृ­ष्ट­रू­ढि­ग्र­हा­द्वरं दृष्ट­यो­ग­ग्र­ह­ण­मि­त्याह —
उच्यत इति ।
जानश्रूती राजा बहु­वि­धा­न्न­पा­न­दा­न­शूरो ग्रीष्मे रात्रौ हर्म्ये सुष्वाप । तस्यो­र्ध्व­म­न्त­रिक्षे दृष्टिगोचरं हंसेषु गच्छत्सु पृष्ठगामी हंसो हंसमग्रेसरं प्रत्युवाच, किं न पश्यसि परमधार्निकस्य जान­श्रु­ते­र्ज्यो­ति­र्द्यु­लो­क­सं­लग्नं तत्त्वां धक्ष्यतीति । ततः सोऽब्रवीत्कमेनं वराकं प्राणिमात्रं सन्तमरे सयुग्वानमिव रैक्वमेतद्वचनं ब्रवीषि । उशब्दोऽवधारणे । युग्वा गन्त्री तया सह वर्तते यो रैक्वः । यस्य धीफले कर्मफलं सर्वमन्तर्भूतं स एवै­त­दु­क्ति­योग्यो नायमज्ञो राजेत्यर्थः ।

श्रुति­मे­ता­मा­श्रित्य शुग­स्ये­त्या­द्य­क्ष­राणि योजयति —
इत्यस्मादिति ।

उत्प­न्न­शो­क­सू­च­न­म­नु­प­यो­गी­त्या­श­ङ्क्याह —
आत्मन इति ।

शूद्रशब्दस्य मुख्यार्थत्यागे हेतुमाह —
जातीति ।

तदा­द्र­व­णा­दि­त्यस्य शङ्कामाह —
कथमिति ।

व्याख्येयमादाय त्रिधा व्याख्याति —
उच्यतइति ।
शुचं शोकमभिदुद्राव प्राप्त­वा­नि­त्यर्थः । शुचा वा कर्त्र्या स्वयमभिदुद्रुवे प्राप्त इत्यर्थः । शुचा वा करणभूतया रैक्वं गतवानित्यर्थः । एवं ताव­त्त­दा­द्र­व­णा­दिति तच्छब्देन शुग्जानश्रुती रैक्वो वा गृह्यते ।

उक्त­व्यु­त्पत्त्या शूद्र­श­ब्द­स्या­धि­कृ­ता­र्थत्वे पूर्वोक्तं न्यायं सूचयति —
अवयवेति ।

हंस­वा­क्या­दा­त्म­नोऽ­ना­दरं श्रुत्वा जानश्रुतेः शुगु­त्प­न्ने­त्ये­त­देव कथं गम्यते, येनासौ शूद्रशब्देन सूच्यते, तत्राह —
दृश्यते चेति ॥ ३४ ॥

शूद्रशब्दस्य यौगिकत्वे हेत्वन्तरमाह —
क्षत्रियत्वेति ।

चशब्दार्थमाह —
इतश्चेति ।

हेत्वन्तरमेव स्फोरयति —
यदिति ।

कथ­म­भि­प्र­ता­रि­ण­श्चै­त्र­र­थित्वं, चैत्ररथस्य वा कथं क्षत्रियत्वं, कथं वा जानश्रुतेस्तेन समभिव्याहारः, तस्मिन्सत्यपि वा कथं तस्य क्षत्रियत्वं, तदाह —
उत्तरत्रेति ।
संव­र्ग­वि­द्या­वि­ध्य­न­न्त­र­म­र्थ­वा­दा­र­म्भा­र्थोऽ­थ­शब्दः । हशब्दो वृत्ता­न्ता­व­द्योती । शौनकः शुनकस्यापत्यं कापेयं कपिगोत्रं पुरो­हि­त­म­भि­प्र­ता­रिणं च नाम्ना राजानं काक्षसेनिं कक्ष­से­न­स्या­पत्यं तौ भोक्तुमुपविष्टौ सूदेन परिविष्यमाणौ ब्रह्मचारी, भिक्षि­त­वा­नि­त्यर्थः ।

ब्रह्म­चा­रि­भि­क्ष­या­स्याऽ­शू­द्र­त्वेऽपि कथं चैत्ररथित्वं, तदाह —
चैत्रेति ।

कापेययोगेऽपि कथं तस्य चैत्र­र­थि­त्व­प्रथा, तत्राह —
कापेयेति ।

अवगतिमेव छान्दो­ग्य­श्रुत्या स्फुटयति —
एतेनेति ।
द्विरात्रेणेति यावत् ।

चित्ररथस्य कापेययोगेऽपि कथ­म­भि­प्र­ता­रि­ण­श्चै­त्र­र­थित्वं, तत्राह —
समानेति ।
चित्ररथस्य याजकेन कापेयेन योगा­द्या­ज्योऽ­भि­प्र­तारी चैत्ररथिः सिद्धः, तत्त­त्पु­रो­हि­त­वं­श्या­ना­मेव तत्त­द्रा­ज­वं­श्येषु प्रायो याजकत्वात् । चैत्ररथित्वाच्च क्षत्रि­योऽ­भि­प्र­तारि, चित्ररथस्य क्षत्रि­त्वा­त्त­द्वं­श्यस्य तद्यो­गा­दि­त्यर्थः ।

वचनादपि तस्य क्षत्रि­य­त्व­मि­त्याह —
तस्मादिति ।
चित्र­र­था­दि­त्यर्थः ।

तथापि क्षत्रियत्वे किं जातं जान­श्रु­ते­रि­त्या­श­ङ्क्याह —
तेनेति ।

समभिव्याहारेऽपि कुतोऽस्य क्षत्रियत्वं, तत्राह —
समानानामिति ।
शिष्याचार्ययोः स्वामि­भृ­त्य­योश्च समभिव्याहारेऽपि वैषम्यमस्तीति प्राये­णे­त्यु­क्तम् ।

तस्य क्षत्रियत्वे हेत्वन्तरमाह —
क्षत्त्रिति ।
आदिशब्देन गोदा­ना­दि­स­ङ्ग्रहः ।

क्षत्रियत्वे संव­र्ग­वि­द्या­धि­का­रिणः सिद्धे फलितमाह —
अत इति ॥ ३५ ॥

शूद्र­स्या­न­धि­कारे लिङ्गान्तरमाह —
संस्कारेति ।

चशब्दार्थमाह —
इतश्चेति ।

हेत्वन्तरं स्फोरयति —
यदिति ।
आदि­श­ब्दे­ना­ध्य­य­ना­चा­र्य­शु­श्रू­षा­दयो गृह्यन्ते ।

परामर्शं विशदयति —
तं हेति ।
विद्यार्थिनं शिष्यमाचार्यः किलोपनीतवान् । अनुपनीताय विद्या­दा­ना­यो­गा­दिति यावत् ।

सनत्कुमारं प्रति नारदोऽपि विद्यार्थी मन्त्र­मु­च्चा­र­य­न्नु­प­सत्तिं कृतवानित्याह —
अधीहीति ।

भारद्वाजादयः षड्ऋषयः परं ब्रह्म परत्वेनावगतवन्त इति ब्रह्म­प­रा­स्त­द्ध्या­न­नि­ष्ठाश्च ब्रह्मनिष्ठाः, परं च परमार्थभूतं ब्रह्म विचारयन्तो निर्णयार्थमेष पिप्प­ला­द­स्त­ज्जि­ज्ञा­सितं सर्वं वक्ष्यतीति निश्चित्य रिक्तहस्तानां गुरूपगमनायोगं मन्यमानाः समि­त्पा­ण­य­स्त­मु­प­सन्नाः किलेत्याह —
ब्रह्मेति ।

अनुपनीतानामपि वैश्वा­न­र­वि­द्या­या­म­धि­का­र­श्रु­ते­र­नि­य­त­मु­प­न­य­न­मि­त्या­श­ङ्क्याह —
तानिति ।
औप­म­न्य­व­प्र­भृ­ती­न्ब्रा­ह्म­णा­न­नु­प­नी­यै­वा­श्व­पती राजोवाचेति निषेधात्तस्य प्राप्ति­पू­र्व­त्वा­त्प्रा­प्तो­प­न­य­नानां द्विजा­ना­मे­वा­धि­कार इत्यर्थः ।

संस्का­र­प­रा­म­र्शा­दिति व्याख्या­या­व­शिष्टं व्याचष्टे —
शूद्रस्येति ।
एक­जा­ति­रु­प­न­य­न­र­हितः । पातकं भक्ष्या­भ­क्ष्य­वि­भा­गा­भा­व­कृ­तम् । आदिशब्देन ‘पद्यु ह वा एतत् ‘ इत्यादि गृह्यते ॥ ३६ ॥

शूद्रस्य विद्यानधिकारे लिङ्गान्तरमाह —
तदभावेति ।

चकारार्थमाह —
इतश्चेति ।

तदेव स्फुटयति —
यदिति ।
सत्यकामो जाबालो ब्रह्म­च­र्य­का­ल­मा­लक्ष्य प्रमीतपितृकः स्वां मातरं जबालामपृच्छत् , भगवति, कस्य­चि­द्‌गु­रो­रा­वा­स­मा­साद्य ब्रह्म­च­र्य­मा­च­रि­तु­मि­च्छामि, ब्रवीतु भवती किङ्गो­त्रोऽ­ह­मिति । सा तु त्वत्पि­तृ­प­रि­च­र­ण­प­र­तया नाहं तदवेदिषं, जबालाहमस्मि त्वं जाबा­लोऽ­सी­त्ये­ता­व­द­व­ग­त­म­वा­दीत् । ततः सत्यकामो गौत­म­म­भ्ये­त्या­भ्य­भा­षत, ब्रह्मचर्यं भगवति चरि­तु­मि­च्छा­म्य­नु­गृ­ह्णातु मां भवानिति । ततो गौतमेन किङ्गोत्रोऽसीति पृष्टो नाहं वेद, नापि मातेति तेनोक्ते तदीयसत्यवचनेन शूद्रस्य माया­वि­त्व­यो­गा­त्त­द­शू­द्रत्वे सिद्धे तमु­प­ने­तु­म­ध्या­प­यितुं चाचार्यो यस्मा­त्प्र­वृ­त्त­स्त­स्मान्न शूद्र­स्या­धि­का­रोऽ­स्ती­त्यर्थः ।

कथमुक्तनीत्या गौतमस्य प्रवृ­त्त्यौ­न्मुख्यं, तत्राह —
नेति ।
एतत्सत्यवचनं विवक्तुं विविच्य निःसन्दिग्धं वक्तुमित्येतत् । ‘न सत्यादगाः’ सत्य­व­च­ना­न्ना­ति­ग­तोऽ­सी­त्यर्थः ॥ ३७ ॥

श्रौतमिव लिङ्गं शूद्रस्य विद्यानधिकारे स्मार्तं तद्दर्शयति —
श्रवणेति ।

तद्व्याकरोति —
इतश्चेति ।

उक्तमेव विभजते —
वेदेति ।

तत्र श्रवणप्रतिषेधं स्वहस्तयति —
श्रवणेति ।
पठ्यमानं वेदं समीपे प्रमादादेव श्रृण्वतः शूद्रस्य प्रत्य­वा­य­प्रा­य­श्चि­त्ता­लो­च­नायां सीसलाक्षाभ्यां सन्त­प्ता­भ्या­म­ति­द्रु­ताभ्यां श्रोत्र­द्व­य­पू­रणं कार्यमित्यर्थः । पद्यु पदा युक्तम् । सञ्चारसमर्थमिति यावत् ।

श्रव­ण­नि­षे­धा­दे­वा­र्था­द­ध्य­य­न­नि­षे­धोऽपि सिध्यतीत्याह —
अत इति ।

तदेव स्फुटयति —
यस्येति ।

न केव­ल­मा­र्थि­कोऽ­ध्य­य­न­नि­षेधः, श्रौतश्चेत्याह —
भवतीति ।

अध्य­य­न­नि­षे­धा­नु­प­पत्त्या ज्ञाना­नु­ष्ठा­न­यो­रपि स सिध्यतीत्याह —
अत इति ।

साक्षादपि ज्ञाननिषेधमाह —
भवतीति ।

अनु­ष्ठा­न­नि­षे­ध­मपि शाब्दं दर्शयति —
द्विजातीनामिति ।
दानमत्र नित्यमिष्टं, नैमित्तिकस्य शूद्रेऽपि योगात् ।

यत्तु विदुरादीनां ज्ञानित्वं स्मृति­सि­द्ध­मिति, तत्राह —
येषामिति ।

साध­क­स्या­धि­का­र­चिन्ता न सिद्धस्येत्याह —
तेषामिति ।
विदुरादीनां ज्ञानाभावस्य स्मृतिविरोधेन दुर्व­च­त्वा­दु­त्प­न्न­ज्ञा­नानां तेषां मुक्तिरेव । सामग्र्याः साध्या­व्य­भि­चा­रा­दि­त्यर्थः ।

कुतस्तर्हि शूद्राणां ज्ञानोत्पत्तिः, तत्राह —
श्रावयेदिति ।

कुत्र तर्हि तदधिकारो वार्यते, तत्राह —
वेदेति ।

आर्थ­वा­दि­क­शू­द्र­श­ब्द­स्यो­क्त­नीत्या क्षत्रि­येऽ­न्व­यान्न जातिशूद्रस्य वेदद्वाराधिकारो विद्या­या­मि­त्यु­प­सं­ह­रति —
इति स्थितमिति ॥ ३८ ॥

बहु­लि­ङ्ग­वि­रो­धा­दे­कस्य शूद्रशब्दस्य मुख्या­र्थ­बा­ध­व­द्वा­यु­स­हि­त­ज­ग­त्क­म्प­ना­श्र­य­त्व­भ­य­हे­तु­त्वा­मृ­त­त्व­सा­ध­न­त्व­लि­ङ्गै­र्ब­हु­भि­र्वि­रो­धा­त्प्रा­ण­श्रु­ते­रे­कस्या मुख्या­र्थ­त्या­ग­माह —
कम्पनादिति ।

आपा­द­स­मा­प्ते­रु­त्त­र­स­न्द­र्भस्य सङ्गतिमाह —
अवसित इति ।

अस्या­धि­क­र­ण­स्यो­दा­ह­र­ण­तया काठकवाक्यं पठति —
यदिति ।
यत्कि­ञ्चे­द­म­वि­शिष्टं जगत्तत्सर्वं प्राणे निमित्ते सत्येजति चेष्टते । तच्च तस्मादेव निःसृ­त­मु­त्प­न्नम् । तच्च प्राणाख्यं जगत्कारणं महदपरिच्छिन्नं बिभेत्यस्मादिति भयम् ।

तदेव भयहेतुत्वं निरूपयति —
वज्रमिति ।
उद्यतं वज्रमिवेत्यर्थः ।

प्राण­त­त्त्व­धि­योऽ­मृ­त­त्व­हे­तु­त्व­माह —
य इति ।

सूत्रा­क्ष­रा­न­नु­ग­मा­न्ने­द­मु­दा­ह­र­ण­मि­त्या­श­ङ्क्याह —
एतदिति ।
एजतिधात्वर्थस्य कम्पनस्य सूत्र­णा­दे­ज­ति­प­द­यु­क्त­मे­त­द्वाक्यं सूत्रि­त­मि­त्यर्थः ।

वाक्ये प्रातीतिकमर्थं सङ्क्षिप्याह —
अस्मिन्निति ।

सहेतुकं संशयमुक्त्वा श्रुत्या पूर्वपक्षयति —
तत्रेत्यादिना ।
‘शब्दादेव प्रमितः’ इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मै­क्य­ज्ञा­ना­ये­त्यु­क्तम् । इह तु प्राणस्य स्वरूपेण कल्पितस्य न ब्रह्मैक्यं, यतोऽनूद्येत, तस्मा­दु­पा­स्ति­वि­धि­रिति प्रत्यवस्थीयते । सिद्धान्ते तु निर्विशेषे ब्रह्म­ण्यु­क्त­श्रु­त्य­न्व­या­दस्ति श्रुत्या­दि­स­ङ्गतिः । फलं तु पूर्वो­त्त­र­प­क्ष­यो­रु­पा­स्ति­र्ज्ञानं चेति ।

नन्व­ति­दे­शा­धि­क­रणे प्रातर्दने विचारे च प्राणशब्दस्य ब्रह्मा­र्थ­त्व­मुक्तं तथे­हा­पी­त्य­न­र्थ­क­म­धि­क­र­णम् । मैवम् । ‘प्राण­मे­वा­भि­सं­वि­शन्ति’ इत्यत्र निर­पे­क्ष­का­र­ण­त्व­प­रै­व­का­र­वत् ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्या­दा­वु­प­क्र­मो­प­सं­हा­रै­क­रू­प्य­व­च्चात्र तद­भा­वा­द­ग­ता­र्थ­त्वा­दि­त्य­भि­प्रे­त्याह —
वायोश्चेति ।

जग­त्क­म्प­न­हे­तुत्वं ब्रह्म­लि­ङ्ग­मि­हापि भाति, तत्कथं वायोरिदं माहा­त्म्य­मि­त्याह —
कथमिति ।

उक्त­लि­ङ्ग­म­न्य­थ­यति —
सर्वमिति ।

तथापि जगद्भयहेतुत्वं ब्रह्म­लि­ङ्ग­मि­त्या­श­ङ्क्याह —
वाय्विति ।
न तावदत्रोपमा, तद्वाचकाभावात् । न च ब्रह्मनिमित्तं भयानकं वज्रमुद्यम्यते, मानाभावात् । न चेदमेव मानं वायु­नि­मि­त्त­त्वेन तदु­द्य­म­नो­क्ते­रि­त्यर्थः ।

कथं वायोरपि वज्रो­द्य­म­हे­तुत्वं, तत्रापि माना­भा­वा­द्वा­क्यस्य साधारण्यात् । तत्राह —
वायौ हीति ।

तथापि ज्ञान­स्या­मृ­त­त्व­हे­तुत्वं ब्रह्म­लि­ङ्ग­मि­त्या­श­ङ्क्याह —
वाय्विति ।

तत्र बृह­दा­र­ण्य­क­म­नु­कू­ल­यति —
तथाहीति ।
व्यष्टिर्विशेषः । समष्टिः सामान्यम् ।

प्राण­व­ज्र­श्रु­तिभ्यां सिद्धमुपसंहरति —
तस्मादिति ।

आध्या­त्मि­का­धि­दै­वि­क­वा­यू­पा­स्त्यर्थं वाक्य­मि­त्यु­क्त­म­नूद्य सिद्धान्तयति —
एवमिति ।

बहिरेव प्रतिजानीते —
ब्रह्मेति ।

वाक्यस्य वायू­पा­स्ति­प­रत्वे श्रौते कुतो ब्रह्मधीरित्याह —
कुत इति ।

पूर्वो­त्त­र­वा­क्यै­क­वा­क्य­ता­नु­गृ­हीतं सर्व­लो­का­श्र­य­त्वा­दि­लिङ्गं प्राण­श्रु­ते­र्बा­ध­क­मि­त्याह —
पूर्वेति ।

तत्र वाक्यै­क­वा­क्यत्वं विवृणोति —
पूर्वो­त्त­र­यो­रिति ।

तथा­प्ये­ज­ति­वाक्ये वायु­रु­च्य­ता­मि­त्या­शङ्क्य वाक्यैक्यसम्भवे न तद्भे­त्त­व्य­मि­त्याह —
इहैवेति ।

पूर्ववाक्यस्य कुतो ब्रह्मार्थत्वं, तत्राह —
पूर्वत्रेति ।
शुक्रं शुभ्रं ज्योतिष्मत् ।

तस्यैव पूर्णतामाह —
तद्ब्रह्मेति ।

तस्य कूटस्थतामाह —
तदेवेति ।

तस्य सर्वा­धि­ष्ठा­न­ता­माह —
तस्मिन्निति ।

तदेव व्यतिरेकमुखेनाह —
तदु नेति ।

तथापि कथं तदेवात्र वाच्य­मि­त्या­शङ्क्य प्रक­र­णा­ल्लि­ङ्ग­प्र­त्य­भि­ज्ञा­ना­च्चे­त्याह —
तदेवेति ।

प्राणश्रुत्या मुख्यप्राणे सिद्धे कथं प्रक­र­णा­दि­ना­र्था­न्त­र­धी­रि­त्या­श­ङ्क्याह —
प्राणेति ।
एक­वा­क्य­ता­का­ङ्क्ष­प्र­क­र­णा­नु­गृ­ही­त­ब­हु­लि­ङ्ग­वि­रोधे ब्रह्मणि प्रयु­क्त­पू­र्व­प्रा­ण­श­ब्दस्य न मुख्या­र्थोऽ­स्ती­त्यर्थः ।

उत्सूत्रं सिद्धा­न्त­मुक्त्वा सर्व­ज­ग­त्क­म्प­हे­तुत्वं लिङ्गान्तरं सूत्रयोजनया दर्शयति —
एजयितृत्वमिति ।

तत्र हेतुः —
तथा चेति ।

केन तर्हि मर्त्यानां जीवनं, तत्राह —
इतरेणेति ।

इतरं स्फोरयति —
यस्मिन्निति ।
पूर्वत्र ब्रह्मो­क्ते­र­त्रापि तदे­क­वा­क्य­त्वा­त्त­दे­वो­क्त­मि­त्यु­क्तम् ।

इदा­नी­मु­त्त­र­वा­क्येऽपि ब्रह्मोक्तिमाह —
उत्तरत्रेति ।
अस्येश्वरस्य भयादग्निसूर्यौ तपतः । इन्द्रादयः स्वव्यापारेषु धावन्ति । मृत्यो­रु­क्ता­न­पेक्ष्य पञ्चमत्वम् ।

कथमत्र ब्रह्मोक्तं, वायु­रे­वा­ग्न्या­दि­भ­य­का­रणं किं न स्यात् , तत्राह —
सवायुकस्येति ।

तथापि कथं प्रकृते ब्रह्मो­क्ति­रि­त्या­शङ्क्य प्रक­र­णा­नु­गृ­ही­त­भ­य­हे­तु­त्व­लि­ङ्ग­प्र­त्य­भि­ज्ञा­ना­दि­त्याह —
तदेवेति ।

अशनौ प्रसि­द्ध­व­ज्र­श­ब्दस्य ब्रह्म­वि­रो­धि­त्वा­न्नात्र ब्रह्मो­क्त­मि­त्या­श­ङ्क्याह —
वज्रेति ।

तस्य भयहेतौ ब्रह्मणि प्रवृत्तिं दृष्टान्तेन स्फुटयति —
यथेति ।

भयहेतुत्वस्य श्रुत्यन्तरे ब्रह्मणः सिद्धे­स्त­त्प्र­त्य­भि­ज्ञा­ना­दपि ब्रह्मै­वे­द­मि­त्याह —
तथा चेति ।
भीषा भये­ना­स्मा­द्ब्र­ह्मणो निमित्तादिति यावत् ।

ब्रह्मैवात्र प्रति­पा­द्य­मि­त्यत्र लिङ्गान्तरमाह —
अमृतत्वेति ।

श्रुतस्य फलस्य ब्रह्मधिया व्याप्तिमाह —
ब्रह्मेति ।

व्याप्ति­भ­ङ्ग­मु­क्त­म­नूद्य प्रत्याह —
यत्त्विति ।
'अप­पु­न­र्मृत्युं जयति’ इत्य­प­मृ­त्यु­ज­य­स्यो­क्ते­रि­त्यर्थः ।

तस्या­पे­क्षि­कत्वे हेत्वन्तरमाह —
तत्रैवेति ।
पञ्चमेऽध्याये सूत्रो­क्त्य­न­न्त­र­मेव पर­मा­त्मा­न­म­न्त­र्या­मिणं प्रकृत्य ततोऽन्यस्य नाशि­त्वो­क्ते­र्वा­यु­ज्ञा­ना­धी­न­म­मृ­त­त्व­मा­पे­क्षि­क­मि­त्यर्थः ।

एजतिवाक्ये ब्रह्मैव प्रति­पा­द्य­मि­त्यत्र मानान्तरमाह —
प्रकरणादिति ।

तस्य परमात्मविषयत्वे हेतुमाह —
अन्यत्रेति ॥ ३९ ॥

बहुलिङ्गविरोधेन श्रुति­बा­ध­व­त्प्र­क­र­णा­नु­गृ­ही­तो­त्त­म­पु­रु­ष­श्रुत्या ज्योतिः­श्रु­ते­र्मु­ख्या­र्थ­बा­ध­माह —
ज्योतिरिति ।
दहराधिकरणे ज्योतिःशब्दं ब्रह्मेति सिद्धवदादाय ब्रह्म­रू­पे­णो­च्यते जीव इत्युक्तम् ।

इदानीं ब्रह्मैव ज्योतिः­श­ब्द­मि­त्ये­त­द्वि­श­द­यितुं तदेव वाक्यमाह —
एष इति ।

परं ज्योतिरिति श्रुतिभ्यां संशयमाह —
तत्रेति ।
विषयो घटा­दि­स्त­स्या­व­रकं बाह्यं तम­स्त­द­प­ह­ति­का­र­ण­मा­दि­त्याख्यं तेजस्तदिह ज्योतिरुच्यते, ज्योतिः­श्रु­ते­स्तत्र रूढत्वादित्येकः पक्षः ।

ज्योति­र्वि­शे­ष­णस्य परत्वस्य निरतिशयत्वस्य ब्रह्म­णोऽ­न्य­त्रा­यो­गा­त्त­देव ज्योतिरिति पक्षान्तरं प्रश्नपूर्वकं पूर्वपक्षयति —
किमिति ।
न च प्रक­र­णा­त्प्रा­ण­स्येव ज्योतिषो ब्रह्मत्वं, तत्र सर्व­श­ब्द­श्रु­ति­स­ङ्को­च­व­त्प्र­कृते प्रक­र­णा­नु­ग्रा­ह­का­भा­वात् , परशब्दस्य विशेषणार्थस्य विशे­ष्या­नु­सा­रे­णा­दि­त्येऽपि नेय­त्वा­दु­क्त­श्रु­ते­र्नि­र्वि­शेषे ब्रह्म­ण्य­न्व­योक्तेः श्रूत्या­दि­स­ङ्ग­तयः । पूर्वो­त्त­र­प­क्ष­यो­रा­दि­त्यो­पास्त्या क्रममुक्तिः, ब्रह्म­ज्ञा­ना­न्मु­क्ति­रिति फलभेदः । सर्व­श­ब्द­स्ये­वात्र कस्याश्चिदपि क्षुते­र­स­ङ्को­चा­त्प्रा­गि­वे­हापि ‘समुत्थाय’ इत्या­दि­श्रु­त्य­स­ङ्को­चाद्वा युक्त­मा­दि­त्य­ग्र­ह­ण­मिति भावः ।

प्रसि­द्ध­स्या­प्र­ति­पा­द्य­त्वा­त्त­द्ग्र­हणं नेति शङ्कते —
कुत इति ।

अप्र­ति­पा­द्य­त्वेऽपि तस्यो­पा­स्य­त्वे­ना­दे­य­त्व­माह —
तत्रेति ।

ज्योति­र­धि­क­र­ण­न्या­ये­ना­स्यापि निर्ण­या­त्पू­र्व­प­क्षा­नु­त्था­ना­द­ना­र­भ्य­मे­त­द­धि­क­र­ण­मि­त्या­श­ङ्क्याह —
ज्योतिरिति ।
ब्रह्मणो गायत्रीवाक्ये प्रकृ­त­त्वा­त्तस्य सर्वनाम्ना परामृष्टस्य द्युस­म्ब­न्ध­लि­ङ्गा­त्प्र­त्य­भि­ज्ञा­ना­त्तत्र ज्योतिःशब्दो ब्रह्मणि प्रसि­द्धि­मु­ल्लङ्घ्य नीतः । न च तथास्मिन्वाक्ये ज्योतिःशब्दस्य स्वार्थत्यागे हेतु­र­दृ­ष्ट­त्वा­दि­त्य­ग­ता­र्थ­ते­त्यर्थः ।

नन्वत्रापि परं ज्योतिरिति ज्योतिषो विशेषणं स्वरू­पा­भि­नि­ष्प­त्ति­रु­त्त­म­पु­रु­षत्वं चादि­त्येऽ­नु­प­पन्नं ज्योतिःशब्दस्य प्रसि­द्धा­र्थ­त्यागे हेतुरस्तु, नेत्याह —
तथा चेति ।
‘अथ या एता हृदयस्य नाड्यः’ इत्यादि नाडीखण्डः । तत्रा­दि­त्य­ग्र­हा­नु­रो­धेन मुमु­क्षो­स्त­त्प्रा­प्ति­र­भि­हि­तेति सम्बन्धः । विशे­ष­ज्ञा­नो­प­र­मा­न­न्त­र्य­म­थ­श­ब्दार्थः । यत्रे­त्या­र­ब्ध­क­र्मा­व­सा­न­का­लोक्तिः । एतदुत्क्रमणं यथा तथेति क्रियाविशेषणम् । अस्मा­द­भि­मा­न­वि­ष­या­द्दे­हा­दु­त्क्र­मणं यदा करोत्यथ तदैतैरादित्यस्य रश्मि­भि­रा­ल­म्ब­नै­रूर्ध्वः सन्नाक्रमत उपरि गच्छ­ती­त्यु­प­क्र­म्या­दित्यं गच्छ­ती­त्यु­प­स­म्प­त्त­व्यस्य ज्योतिषो यथादित्यत्वं तथा श्रुतं तस्यापि पर­त्व­म­र्चि­रा­दिभ्यो युक्तं समु­त्था­यो­प­स­म्प­द्येति च पूर्व­का­ला­र्थ­क्त्वा­श्रु­ते­र्ब्र­ह्म­पक्षे बाधा­द्दे­हा­भि­मा­न­त्या­ग­रू­प­मु­त्थानं कृत्वोपसम्पद्य कार्यब्रह्मलोकं गत्वा स्वेन रूपे­णा­भि­नि­ष्प­द्यते स चोत्तमः पुरुष इत्यङ्गीकारे सर्वा­वि­रो­धा­दा­दि­त्य­पक्षो ज्योतिःश्रुत्या क्त्वाश्रु­तिभ्यां चाभ्युपेय इत्यर्थः ।

भार्ग­प­र्व­भू­ता­दि­त्यो­पास्त्या तत्प्रा­प्ति­द्वारा क्रममुक्तिपरं वाक्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धा­न्त­म­व­तार्य प्रतिज्ञामाह —
एवमिति ।

श्रुतिभिस्तेजसो ग्राह्यत्वे कुतो ब्रह्मधीरिति पृच्छति —
कस्मादिति ।

हेतुमादाय व्याचष्टे —
दर्शनादिति ।

परस्य ब्रह्म­णोऽ­स्मि­न्प्र­क­रणे वक्त­व्य­त्वे­ना­नु­वृ­त्ति­द­र्शनं हेतुना साधयति —
य इति ।

प्रकरणाविच्छेदं कथयति —
एतमिति ।
किञ्चा­र्चि­रा­द्य­पे­क्षया परं ज्योति­रा­दि­त्य­श्चे­त्त­त्प्राप्त्या विदुषो नाशरीरत्वं, आदित्यस्य देवतात्मनः सशरीरत्वात् ।

न च तत्प्राप्त्या स्वरू­पा­भि­नि­ष्पत्तिः, अन्य­स्या­न्या­त्म­ता­यो­गा­दि­त्याह —
अशरीरमिति ।

उपास्त्या तत्प्रा­प्ता­व­श­री­र­त्व­मा­श­ङ्क्याह —
ब्रह्मेति ।

इतश्चात्र ब्रह्मैव ज्योतिरित्याह —
परमिति ।
शरी­रा­दु­त्थि­त­स्या­न­न्त­र­मु­प­स­म्प­त्त­व्य­त्व­मा­दि­त्यस्य नाडीखण्डे दृष्टमिति लिङ्गानुगृहीतां ज्योति­रा­दि­श्रु­ति­म­प­ह­त­पा­प्म­त्वा­दि­प­र­मा­त्म­प्र­क­र­णा­नु­गृ­ही­तो­त्त­म­पु­रु­षा­दि­श्रुत्या बाधित्वा परं ब्रह्म ज्योतिरास्थेयं, एक­वा­क्य­ता­पा­द­क­फ­ल­व­त्प्र­क­र­णो­पे­त­श्रु­ते­र्वि­फ­ल­लि­ङ्ग­स­ङ्ग­ति­श्रु­तितो बलीयसीत्वात् , अस्य हि निर्गु­ण­वि­द्यायां श्रूता­श­री­र­ता­फ­ला­या­म­र्चि­रा­द्य­न­व­ता­रा­दा­दि­त्या­न­र्थ­क्या­न्मा­र्ग­प­र्व­त्वेन तस्य सगु­ण­वि­द्या­सू­प­दि­ष्ट­त्वा­दे­वो­त्क­र्षा­यो­गा­दत्र ज्योति­र्मा­त्र­श्रु­ते­र्मा­र्गा­नु­क्ते­रा­दि­त्योक्तौ श्रुति­त्र­या­न­र्थ­क्यात् , ‘आन­र्थ­क्य­प्र­ति­ह­तानां विपरीतं बलाबलम् ‘इति न्याया­द्ब­ल­व­त्प्र­क­र­णो­पे­त­प्रा­गु­क्त­श्रुत्या ब्रह्मैव ज्योतिरिति भावः ।

परोक्तमनुभाष्य दूषयति —
यत्त्विति ।

आत्यन्तिकेऽपि मोक्षे तदुभयं स्यादि­त्या­शङ्क्य बाद­र्य­धि­क­र­ण­वि­रो­धा­न्मै­व­मि­त्याह —
नहीति ।
पूर्वा­प­रा­लो­च­ना­या­मत्र क्रम­मु­क्त्य­प्र­ती­ते­र्बा­धित्वा क्त्वाश्रुतिं परस्य ज्योतिषो ब्रह्मणः प्राप्तिरेव स्वरू­पा­भि­नि­ष्पत्तिः, तस्यै­वो­त्त­म­पु­रु­ष­ते­त्यु­पेत्य वाक्यस्य ब्रह्म­प­र­त्व­मा­स्थे­यम् । अतो ब्रह्मा­ज्ञा­ना­त्त­त्प्रा­प्ति­रिति भावः ॥ ४० ॥

प्रक­र­णो­पे­तो­त्त­म­पु­रु­षा­दि­श्रुत्या ज्योति­रा­दि­श्रु­ते­र्बाध उक्तः । इदा­नी­मा­त्म­ब्र­ह्म­श्रु­तिभ्यां लिङ्गा­नु­गृ­ही­ता­भ्या­मा­का­श­श्रु­ते­र्बा­ध­माह —
आकाश इति ।

छान्दो­ग्य­वा­क्य­मु­दा­ह­रति —
आकाश इति ।

आका­श­ब्र­ह्म­श्रु­तिभ्यां संशयमुक्त्वा पूर्वपक्षयति —
तदित्यादिना ।