न्यायनिर्णयव्याख्या
१ परिच्छेदः
तेषां भोगायतनत्वमाह —
प्राप्नुयादिति ।
परलोकहितत्वमाह —
कैश्चिदिति ।
तत्पारवश्यं पुंसो निरस्यति —
सङ्क्षिपेच्चेति ।
योगिनामनेकरूपप्रतिपत्तावपि देवानां किं जातं, तदाह —
प्राप्तेति ।
‘अणिमा लघिमा चैव महिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता ॥ ‘ इत्यष्टैश्वर्याणि ।
अपिशब्दसूचितमर्थमाह —
किम्विति ।
आजानसिद्धानां जन्मनैव प्राप्तातिशयानामित्यर्थः ।
तथापि प्रकृते किं जातं तदाह —
अनेकेति ।
श्रुतिस्मृतिभ्यां युक्तिविरोधे समाहितेऽपि प्रतीतिविरोधस्य कः समाधिः, तत्राह —
परैश्चेति ।
आदिशब्देन परदृष्टिप्रतिबन्धो गृह्यते । उक्तन्यायाद्युज्यते देवादीनां विग्रहवत्त्वोपगमेन विद्यास्वधिकार इति शेषः ।
सन्निहितस्यैवाङ्गतेति न नियमोऽसन्निहितस्यापि युगपदनेकत्र कर्मण्यङ्गभावप्रतिपत्तिरङ्गभावगमनं तस्य दर्शनादित्यर्थान्तरमाह —
अनेकेति ।
तदेव स्पष्टयितुं व्यतिरेकं सोदाहरणमाह —
क्वचिदिति ।
संप्रत्यभीष्टाङ्गत्वार्थमन्वयं सदृष्टान्तमाचष्टे —
क्वचिच्चेति ।
अन्वयव्यतिरेकसिद्धमर्थं प्रकृते योजयति —
तद्वदिति ।
असन्निधानेऽपि देवताया विप्रकृष्टानेकार्थदृष्टिशक्तेर्युगपदनेकत्राङ्गता सिद्धेत्यर्थः ।
कर्मण्यविरोधमुपसंहरति —
इति विग्रहेति ॥ २७ ॥
तत्राविरोधेऽपि देवतादीनां विग्रहवत्त्वे शब्दे प्रामाण्यविरोधमाशङ्क्य प्रत्याह —
शब्द इति चेदिति ।
शङ्कां विभजते —
मा नामेति ।
शब्दस्याकृत्यर्थत्वात्तत्र विरोधो नेति शङ्कते —
कथमिति ।
गोत्वादिवद्वस्वादिषु पूर्वापरापरामर्शादुपाधेरपि पाचकत्वादिवददृष्टेराकाशादिशब्दवद्व्यक्तिवचनो वस्वादिशब्द इति मत्वाह —
औत्पत्तिकं हीति ।
अस्माभिरपि तथैव तदिष्टमिति न तस्य विरोधोऽस्तीत्याशङ्क्याह —
इदानीं त्विति ।
व्यक्तीनामनित्यत्वात्तत्सम्बन्धस्यापि सङ्केतवदनित्यतया पुन्धीकृतत्वान्मानान्तरापेक्षपुन्धीप्रभवशब्दार्थसम्बन्धाधीनवाक्यार्थधियोऽपि मानान्तरापेक्षत्वाद्वेदस्यामानत्वं स्यादित्यर्थः ।
परिहारस्थं नञर्थमाह —
नायमिति ।
कर्मण्यविरोधं दृष्टान्तयितुमपिशब्दः ।
तत्र प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —
कस्मादिति ।
तथा च देवादिजगद्धेतुत्वेन शब्दस्य नित्यत्वात्तदनित्यत्वकृतो दोषो नास्तीति शेषः ।
पूर्वापरविरोधं शङ्कते —
नन्विति ।
शब्दस्य निमित्तत्वाद्ब्रह्मणश्चोपादानत्वादुभयप्रभवत्वं जगतो युक्तमित्याशङ्क्याह —
अपि चेति ।
आकृतेः शब्दार्थतया विरोधसमाधिरित्यशङ्क्याह —
यावतेति ।
मानाभावान्न वसुत्वादिजातिरस्ति तद्व्यक्तीनां जनिमत्त्वादनित्यतेति नाविरोध इत्यर्थः ।
व्यक्तीनामनित्यत्वेऽपि वाचकशब्दनित्यतया सुकरो विरोधसमाधिरित्याशङ्क्याह —
तदिति ।
जगतः शब्दप्रभवत्वमुपेत्य विरोधमुक्त्वा शब्दस्यार्थोत्पत्त्युत्तरकालत्वादर्थस्य ततो जन्मायोगात्तदेव नास्तीत्याह —
प्रसिद्धं हीति ।
विरोधं निगमयति —
तस्मादिति ।
वस्वादिशब्दार्थसम्बन्धनित्यत्वं दृष्टान्तेन वदन्नुत्तरमाह —
नेति ।
तत्रापि व्यक्तेरनित्यत्वान्न सम्बन्धनित्यतेत्याशङ्क्याह —
न हीति ।
व्यक्तिभिरभेदाज्जातिरपि जातेत्याशङ्क्योक्तम् —
द्रव्येति ।
अभेदवद्भेदस्यापि भावान्नित्यमनेकसमवेतं सामान्यमिति च स्थितेरिति हिशब्दार्थः ।
आकृतीनामुत्पत्त्यभावेऽपि कुतः सम्बन्धनित्यता, तत्राह —
आकृतिभिश्चेति ।
तास्त्वाकृतिद्वारा लक्षणया शाब्द्यो भवन्तीति भावः ।
दृष्टान्तमुपसंहरति —
व्यक्तिष्विति ।
गवादिशब्दार्थसम्बन्धनित्यत्वेऽपि प्रकृते किमित्याशङ्क्य दार्ष्टान्तिकमाह —
तथेति ।
उक्तो देवादिष्वाकृत्यभावः साधकाभावादित्याशङ्क्याह —
आकृतीति ।
अनेकत्र साकल्येन वर्तमाना जातिरित्यङ्गीकारादिन्द्रादीनां मन्त्रादिसिद्धविग्रहादिपञ्चकवतां पूर्वापरव्यक्त्यनुगता जातिरनुगतधीवेद्या न विरुध्यते । वस्वादिशब्दा जातिवाचिनो बहुषु प्रयुज्यमानाखण्डशब्दत्वात्पटादिशब्दवदिति चानुमानादित्यर्थः ।
इन्द्रादिशब्दानामुपाधिनिमित्तत्वं पक्षान्तरमाह —
स्थानेति ।
औपाधिकत्वपक्षे शब्दार्थमनूद्यावान्तरलयेऽपि विरोधाभावमाह —
ततश्चेति ।
यत्तु पूर्वापरविरोध इति, तत्राह —
न चेति ।
तर्हि कथं ‘अतः प्रभवात्’ इत्युक्तं, तत्राह —
कथमिति ।
उक्तेऽर्थे मानं पृष्ट्वोत्तरपदमवतारयति —
कथमित्यादिना ।
नन्वैन्द्रियकं प्रत्यक्षं जगतः शाब्दप्रभवत्वे नास्ति, तत्राह —
प्रत्यक्षमिति ।
तत्रापि श्रुतौ प्रत्यक्षशब्दे हेतुमाह —
प्रामाण्यमिति ।
तथापि तत्रानुमानं कथं प्रमाणं, तत्राह —
अनुमानमिति ।
तत्रापि प्रवृत्तिनिमित्तमाह —
प्रामाण्यमिति ।
अव्यभिचारिलिङ्गोत्थत्वादनुमानस्य स्वतःप्रामाण्येऽप्युत्पत्तौ सापेक्षत्वमात्रसाम्यादनुमानशब्दः स्मृताविति भावः ।
पञ्चम्याभीष्टमर्थमाह —
ते हीति ।
तत्र श्रुतिमाह —
एत इति ।
‘एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभिसौभगा’ इत्येतन्मन्त्रस्थपदैः स्मृत्वा देवादीन्ब्रह्मा ससर्ज । तत्र सन्निहितवाचकैतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहितानां स्मारकः । असृग्रुधिरं तत्प्रधानदेहरमणान्मनुष्याणामसृग्रशब्दः स्मारकः । इन्दुमण्डलमध्यस्थपितृणामिन्दुशब्दः स्मारकः । पवित्रं सोमं स्वान्तस्तिरःकुर्वतां ग्रहाणां तिरःपवित्रशब्दः स्मारकः । ऋचोऽश्नुवतां स्तोत्राणां गीतिरूपाणामाशवः शब्दः स्मारकः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः स्मारकः । व्यापिवस्तुवाच्यभिशब्दसंयुक्तः सौभगेति शब्दः सौभाग्यवाचकः, तेनाभिसौभगेति निरतिशयसौभाग्यार्थः शब्दोऽन्यासां प्रजानां स्मारकः । तथा च तत्तत्पदेन तत्तद्देवादीन्स्मृत्वा प्रजापतिः सृष्टवानिति शब्दपूर्विका सृष्टिः श्रौतीत्यर्थः ।
तत्रैव श्रुत्यन्तरमाह —
तथेति ।
स प्रजापतिर्मनसा सह वाचं मिथुनभावमभवदभावयत् । त्रयीप्रकाशितां सृष्टिं मनसालोचितवानित्यर्थः । ‘स भूरिति व्याहरत्स भूमिमसृजत’ इत्यादिवाक्यमादिशब्दार्थः । तत्र तत्रेत्याम्नायप्रदेशोक्तिः ।
तत्र स्मृतिमाह —
स्मृतीति ।
रूपसर्गात्प्राथम्यमादावित्युक्तम् । सम्प्रदायातिरेकेणाप्राप्तिर्दिव्यत्वम् ।
अस्त्वेवं शब्दसृष्टिस्तथापि कथं तत्पूर्वार्थसृष्टिः, तत्राह —
यत इति ।
उत्सृष्टत्वोक्त्या पौरुषेयत्वमाशङ्क्योक्तम् —
उत्सर्गोऽपीति ।
सम्प्रदायो गुरुशिष्यपरम्पराध्ययनम् ।
उत्सृष्टिरेव किं न स्यात् , तत्राह —
अनादीति ।
कर्मणां प्रवर्तनं सतामनुष्ठापनमुक्तम् । सर्वेषामित्यत्र कर्मणां सृष्टिरेवोक्तेति भेदः । संस्थाशब्दो रूपभेदग्राही ।
अस्मदादिषु पटाद्युत्पत्तेः शब्दपूर्वकत्वप्रात्यक्ष्याज्जगतोऽपि सृष्टेस्तत्पूर्वकत्वमनुमेयमिति प्रत्यक्षानुमानाभ्यामित्यत्रार्थान्तरमाह —
अपि चेति ।
कल्पकालीना सृष्टिः शब्दपूर्विका, सृष्टित्वात् , इदानीन्तनसृष्टिवत् । विमतः शब्दार्थसम्बन्धव्यवहारः तथाविधसम्बन्धानुस्मृतिपूर्वकः, अभिधानाभिधेयसम्बन्धव्यवहारत्वात् , सम्प्रतिपन्नवदित्याह —
तथेति ।
प्रत्यक्षादिसिद्धेऽर्थे तैत्तिरीयश्रुतिमाह —
तथा चेति ।
‘स भुव इति व्याहरत्सोऽन्तरिक्षमसृजत’ इत्यादिरादिशब्दार्थः ।
उक्तश्रुतेस्तात्पर्यमाह —
भूरादीति ।
यदुक्तं जगतः शब्दप्रभवत्वं तदाक्षिपति —
किमात्मकमिति ।
वर्णातिरिक्तं शब्दमुपेत्य ततो वा जगदुत्पत्तिरिष्टा वर्णेभ्यो वा । नााद्यः, वर्णातिरिक्ते वाचके शब्दे मानाभावात् । नेतरः, वर्णानामुत्पन्नप्रध्वंसिनां जगद्धेतुत्वासिद्धेरित्यर्थः ।
तत्र वैयाकरणो वक्ष्यमाणं मानं मत्वाद्यं पक्षमालम्बते —
स्फोटमिति ।
स्फुट्यते व्यज्यते वर्णैरिति स्फोटोऽर्थव्यञ्जकः शब्दस्तमर्थसृष्टौ हेतुमभिप्रेत्येदमुक्तं तस्य नित्यत्वात्कारणत्वसम्भवादित्यर्थः ।
वर्णानामेव प्रत्यभिज्ञया नित्यानां जगद्धेतुत्वसिद्धौ न स्फोटकल्पनेत्याशङ्क्य प्रत्यभिज्ञाया जातिगामित्वान्मैवमित्याह —
वर्णेति ।
हेत्वसिद्धिमाशङ्क्याह —
उत्पन्नेति ।
तदपि न संमतमित्यशङ्क्य पुरुषविशेषानुमापकत्वेन तत्संमतिं साधयति —
तथाहीति ।
वर्णेष्वन्यथात्वधियो ध्वन्युपाधिकत्वेन मिथ्यात्वान्न तदनित्यत्वसाधकतेत्याशङ्क्याह —
न चेति ।
वर्णानामुत्पत्तिमत्त्वात्प्रभवत्त्वं जगतो नेत्युक्त्वा तेषामवाचकत्वादपि तथेति वक्तुमर्थप्रत्यायकत्वं प्रत्याचष्टे —
न चेति ।
किमेकैकस्माद्वर्णादर्थधीरुत समुदायादिति विकल्प्याद्यं दूषयति —
नहीति ।
एकैकोक्तावर्थधियोऽदृष्टेर्वर्णान्तरोक्तिवैयर्थ्याच्चेत्यर्थः ।
द्वितीयं प्रत्याह —
न चेति ।
तेषामुच्चारणस्य क्रमवत्त्वाद्योग्यानुपलब्धेरभावाधिगमान्न तद्धीरित्यर्थः ।
वर्णानां स्वरूपतोऽसाहित्येऽपि संस्कारद्वारा साहित्यमाग्नेयादिवदित्याह —
पूर्वेति ।
अज्ञातो ज्ञातो वा सोऽर्थधीहेतुरिति विकल्प्याद्यं निराह —
तन्नेति ।
उच्चरितस्य बधिरेणागृहीतस्याप्यगृहीतसङ्गतेरप्रत्यायकत्वादित्यर्थः ।
ज्ञातस्य ज्ञापकत्वे दृष्टान्तः —
धूमादिवदिति ।
द्वितीयेऽध्यक्षेणानुमानेन वा तद्धीरिति विकल्प्याद्यं निरस्यति —
न चेति ।
द्वितीयं शङ्कते —
कार्येति ।
अर्थधीः, स्मरणं वा कार्यम् । नाद्यः, संस्कारावगतेरर्थधीस्ततश्च सेत्यन्योन्याश्रयणादित्याह —
नेति ।
यदि द्वितीयः, तत्राह —
संस्कारेति ।
स्मरणस्यापीति सम्बन्धः । क्रमभाविस्मरणानुमितसंस्काराणामपि क्रमभावेनासाहित्यान्न तत्सहितान्त्यवर्णधीरित्यर्थः ।
वर्णानां वाचकत्वायोगे फलितमाह —
तस्मादिति ।
ननु वर्णानामर्थप्रत्यायकत्वासिद्धावर्थधीदृष्ट्या तद्धेतुत्वेन वा स्फोटो गम्यते मानान्तराद्वा । नाद्यः, तदवगतेरर्थधीः, तया च सेत्यन्योन्याश्रयणात् । न च सत्तामात्रेण स्फोटोऽर्थधीहेतुः, सदा तदापातात् । न द्वितीयः, तदनुपलब्धेः । तत्राह —
स चेति ।
स चैकप्रत्ययविषयतया प्रत्यवभासत इति सम्बन्धः ।
वर्णान्वयव्यतिरेकनियमादर्थधियो वर्णा एव शब्द इत्याशङ्क्य तेषां स्फोटव्यञ्चकत्वेनान्यथासिद्धेर्मैवमित्याह —
एकैकेति ।
एकैकवर्णप्रत्ययैराहितं संस्काराख्यं बीजं यस्मिन्प्रत्ययिनि चित्ते तस्मिन्निति यावत् । न चान्त्यवर्णानर्थक्यं, तद्धीजन्यातिशयवत्त्वाच्चित्तस्येत्याह —
अन्त्येति ।
यथा नानादर्शनसंस्कारपरिपाकसचिवे चेतसि रत्नतत्त्वं चकास्ति तथा यथोक्ते चित्ते विना विचारं सहसैवैकोऽयं शब्द इति धीविषयतया स्फोटो भातीत्याह —
एकेति ।
अन्योन्याश्रयमपाकर्तुं झटितीत्युक्तम् ।
एकधियो वर्णविषयस्मृतित्वान्न स्फोटसाधकतेत्याशङ्क्याह —
न चेति ।
अनेकेष्वेकत्वबुद्धेर्भ्रमत्वात्पदादिधीगोचरः स्फोट एवेत्यर्थः ।
स्फोटस्याप्युत्पन्नप्रध्वंसित्वान्न जगद्धेतुतेत्याशङ्क्याह —
तस्य चेति ।
पुरुषभेदानुमापकतया प्रत्युच्चारणं भिन्नत्वात्कुतोऽस्य नित्यत्वं, तत्राह —
भेदेति ।
स्फोटवादमुपसंहरति —
तस्मादिति ।
आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तमाह —
वर्णा इति ।
गौरित्युक्ते गकारौकारविसर्जनीयातिरिक्तस्य स्वतन्त्रस्य परन्त्रस्य वा श्रौत्रेणाग्रहणादुपवर्षाचार्यो वर्णानामेव तु शब्दत्वं पश्यतीत्यर्थः ।
तेषां क्षणिकत्वान्न जगद्धेतुतेत्युक्तं स्मारयति —
नन्विति ।
प्रत्यभिज्ञया स्थायित्वसिद्धेर्न क्षणिकतेत्याह —
तन्नेति ।
प्रयत्नानन्तरीयकतया वर्णानां भेदसिद्धेरन्यथासिद्धा प्रत्यभिज्ञेत्याह —
सादृश्यादिति ।
किं क्वचिद्व्यभिचारदृष्टेरेवं बाधदृष्टेर्वा । नाद्यः, सर्वत्र संशयप्रसङ्गात् । ज्वालादौ तु प्रभावैतत्यादिकार्यानुपपत्त्या तथात्वादिह तदभावादित्याह —
नेति ।
न द्वितीय इत्याह —
प्रत्यभिज्ञानस्येति ।
गवादौ जातिप्रत्यभिज्ञादृष्टेरिहापि तथेति शङ्कते —
प्रत्यभिज्ञानमिति ।
यत्र जातिप्रत्यभिज्ञा तत्र व्यक्तिभेदो दृष्टः । प्रकृते तदभावान्न जातिविषयतेत्याह —
न व्यक्तीति ।
तदेव स्फुटयति —
यदिहीति ।
युक्तितो व्यक्तिविषया प्रत्यभिज्ञेत्युक्त्वा प्रतीतितोऽपि तथेत्याह —
वर्णेति ।
हिशब्दसूचितमनुभवमभिनयति —
द्विरिति ।
दहनतुहिनवद्विरुद्धधर्मवत्त्वाद्धर्मिभेदजः स्यादिति शङ्कते —
नन्विति ।
भेदप्रत्ययेऽपि प्रत्यभिज्ञाया निरपेक्षस्वरूपविषयत्वेन प्राबल्यात्तस्य च सापेक्षभेदविषयत्वेन दौर्बल्यादेकस्यामाकाशव्यक्तौ कुम्भाकाशः कूपाकाश इतिवद्व्यञ्जकवायुसंयोगविभागवैचित्र्याद्वर्णेषु वैचित्र्यधीर्न स्वत इत्याह —
अत्रेति ।
कल्पनागौरवाच्च वर्णेषु स्वतो वैचित्र्यं नास्तीत्याह —
अपि चेति ।
भेदधीहेतोस्त्वयापि कल्प्यत्वात्तुल्या कल्पनेत्याशङ्क्य जातिकल्पना तवाधिकेत्याह —
तास्विति ।
कथं तर्हि भेदाभेदधियावित्याशङ्क्याह —
तद्वरं वर्णेति ।
नायमौपाधिको भ्रमो बाधकाभावादित्याशङ्क्याह —
एष इति ।
एकत्वनानात्वयोरेकत्र वास्तवत्वोपपत्तौ किमिति बाध्यबाधकत्वं, तत्राह —
कथं हीति ।
एकस्य युगपदनेकरूपत्वानुपपत्तिसहकृतमेकत्वप्रत्यभिज्ञानं भेदधियो बाधकमेवेत्यर्थः ।
कण्ठादिदेशैः सह कोष्ठनिष्ठस्य वायोः सन्नियोगविभागयोर्व्यञ्जकत्वमुपेत्य वर्णेषु भेदधीर्न स्वरूपकृतेति परमतमुक्त्वा स्वमतमाह —
अथवेति ।
अत्र प्रश्नपूर्वकं वर्णेभ्यो ध्वनिं निष्कर्षति —
कः पुनरित्यादिना ।
अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तशब्दो ध्वनिरित्यर्थः ।
स एव प्रत्यासन्नस्य पुंसो वर्णेषु स्वधर्मानारोपयतीत्याह —
प्रत्यासीदतश्चेति ।
वर्णेषूदात्तादिवत्षड्जत्वादिरपि स्वाभाविकः स्यादित्याशङ्क्याह —
तदिति ।
वर्णानामेवाव्यक्तानां ध्वनित्वे कुतो भेदधीस्तेषु तत्कृतेत्याशङ्क्याह —
वर्णानामिति ।
ध्वनेश्च सानुनासिकत्वादिभेदवतस्तदभावात्तेभ्योऽर्थान्तरत्वात्तत्कृता तेषु भेदधीर्युक्तेत्यर्थः । एतेन तस्य जातित्वमपि प्रत्युक्तम् ।
वायुसंयोगविभागयोर्व्यञ्जकत्वं हित्वा किमिति ध्वनीनां तदुपगतं, तत्राह —
एवं चेति ।
पक्षान्तरेऽपि तुल्यमेषां सालम्बनत्वमित्याशङ्क्याह —
इतरथेति ।
अस्तु कल्पना का हानिः, तत्राह —
संयोगेति ।
अप्रत्यक्षत्वमश्रावणत्वम् । पूर्वत्रापरितोषे हेतूक्तिसमाप्तावितिशब्दः ।
अपरितोषहेतुसत्त्वे प्रथमपक्षायोगं फलमाह —
अत इति ।
वर्णमात्रस्याप्रत्यभिज्ञानादुदात्तादिमत्तयैव तद्भानात्तदारोपकल्पनानुपपत्तेर्द्वितीयोऽपि पक्षो नेत्यशङ्क्याह —
अपि चेति ।
विरुद्धधर्मत्वादग्निज्वालादिवद्भेदः स्यादित्याशङ्क्याह —
नहीति ।
तदेवोदाहरणेन स्फोरयति —
नहीति ।
खण्डमुण्डाद्युपरक्ततया प्रत्यभिज्ञायमानगोत्ववदुदात्तादिमत्त्वेन भातानामपि वर्णानां न तात्त्विकं नानात्वमिति भावः ।
प्रत्यभिज्ञया स्थायित्वं वर्णानामुक्त्वा तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति —
वर्णेभ्यश्चेति ।
कल्पनाममृष्यन्नाह —
नेति ।
कथं तर्हि तद्धीः, तत्राह —
प्रत्यक्षमिति ।
तथा स्फोटावगतिं स्कुटयति —
एकैकेति ।
वर्णेषु व्यञ्जकेषु दृष्टेषु तद्व्यङ्ग्यतया स्फोटो विनैव सम्प्रयोगं चकास्तीत्याह —
झटितीति ।
यः खल्वाकारो यस्यां बुद्धौ स्फुरति स तदालम्बनम् ।
न चात्र कश्चिदाकारो वर्णातिरिक्तो भाति । तेनास्या वर्णगामित्वान्नातिरिक्ते स्फोटे मानतेत्याह —
नास्या इति ।
वर्णगामित्वमस्यास्तद्भानोत्तरत्वादसिद्धमित्याशङ्क्याह —
एकैकेति ।
सर्ववर्णविषयत्वे तदितरस्फोटविषयत्वे च तुल्ये न पक्षपातहेतुरिति शङ्कते —
कथमिति ।
पक्षपाते हेतुमाह —
यत इति ।
गौरितिबुद्धौ गकारादिवर्णानामेवानुवृत्तावपि कुतोऽस्यास्तदालम्बनत्वं, स्फोटव्यञ्जकत्वेनापि तदनुवृत्तियोगादित्याशङ्क्याह —
यदीति ।
न खल्वस्यां बुद्धौ विषयभूतस्फोटव्यञ्जकतया वर्णानुवृत्तिर्वह्निबुद्धाविव धूमस्य लक्ष्यबुद्धौ लक्षणस्य भानासिद्धेरिति भावः ।
नन्वस्या बुद्धेः स्फोटाविषयत्वे न वर्णविषयत्वमपि, तेषां प्रागेव प्रत्येकं दृष्टतया प्रकृतबुद्ध्यनपेक्षत्वात् , तत्राह —
तस्मादिति ।
अनेकेष्वेकत्वबुद्धेर्भ्रमत्वमुक्तं स्मारयति —
नन्विति ।
अनेकस्य निरुपाधिकैकबुद्ध्यविषयत्वेऽपि सोपाधिकतया तद्विषयत्वं स्यादित्याह —
तदिति ।
तत्रैकदेशसम्बन्धादिनिबन्धना धीः, इह तु किङ्कृतेत्याशङ्क्याह —
या त्विति ।
न चैकार्थधीहेतुत्वे सत्येकपदत्वं तस्मिंश्च तद्धीहेतुत्वमित्यन्योन्याश्रयत्वम् , अर्थज्ञानात्पूर्वं, केषाञ्चिद्वर्णानामेकस्मृत्यारूढानामेकार्थधीहेतुत्वादेकपदत्वनिश्चयात् । न चानेकसंस्काराणां नैकस्मृतिहेतुत्वम् । कुशकाशादिष्वनेकसंस्कारजन्यैकस्मृतिदर्शनात् । क्रमवद्वर्णसंस्काराणां स्थायित्वादन्त्यवर्णदृष्ट्यनन्तरं साहित्यात्तेषां सर्ववर्णविषयैकस्मृतिहेतुत्वसिद्धेरिति भावः ।
वर्णानामेकस्मृत्यारोहिणामेकपदत्वे पदविशेषसिद्धौ क्रमापेक्षा न स्यादित्याह —
अत्रेति ।
तदपेक्षाभावे हेतुः —
त एवेति ।
दृष्टान्तेन प्रत्याह —
अत्रेति ।
क्रमानुरोधिनां वर्णानां पदधीविषयत्वे फलितमाह —
तत्रेति ।
कथमेतेषां वर्णानामेतावतामेतत्क्रमकाणामेतत्पदत्वमित्यादिविशेषधीः, तत्राह —
वृद्धेति ।
व्युत्पत्तिदशा वृद्धव्यवहारः । क्रमादीत्यादिशब्देन सङ्ख्या गृह्यते । स्वव्यवहारो मध्यमवृद्धस्य प्रवृत्त्यवस्था । तादृशत्वं व्युत्पत्तिदशादृष्टक्रमाद्यनुगृहीतत्वम् । तं तमर्थं गृहीतसम्बन्धप्रतियोगिनमिति यावत् ।
‘यावन्तो यादृशा ये च यदर्थप्रतिपादकाः । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥ ‘ इति न्यायेनाह —
इति वर्णेति ।
स्फोटवादिनस्तु यद्दृष्टं वर्णानामर्थबोधकत्वं तस्य हानिरदृष्टस्य स्फोटस्य कल्पना, सा च गौरवदुष्टेत्याह —
स्फोटेति ।
किञ्च येन हेतुना वर्णानामर्थव्यञ्जकत्वं निरस्तं तेनैव तेषां न स्फोटव्यञ्जकत्वमपि । यदि कथञ्चिदमी स्फोटं भासयेयुस्तर्हि तथैवार्थमिति युक्तं लाघवादित्याह —
वर्णाश्चेति ।
स्फोटपक्षं प्रतिक्षिपता वर्णपक्षः समर्थितः ।
सम्प्रति वर्णानामनित्यत्वेऽपि गोत्वादिजात्यभेदेनैव सङ्गतिधीरनादिव्यवहारश्चेति प्रौढिमारूढः सन्नाह —
अथापीति ।
अर्थप्रतिपादनप्रक्रिया ‘वर्णेभ्यश्चार्थप्रतीतेः सम्भवात्’ इत्याद्या ।
वर्णानां नित्यत्ववाचकत्वयोः सिद्धौ फलितमाह —
ततश्चेति ॥ २८ ॥
जगतः शब्दजत्वमुक्तमुपजीव्य शब्दनित्यत्वमाह —
अत एवेति ।
पूर्वमीमांसायामेव वेदनित्यत्वस्य सिद्धत्वादिह तन्नित्यत्वसाधनमकिञ्चित्करमित्याशङ्क्य सूत्रतात्पर्यमाह —
कर्तुरिति ।
पूर्वतन्त्रसिद्धमेव वेदनित्यत्वंं देवादिजगदुत्पत्तौ वाचकशब्दस्यापि तद्भावादयुक्तमिति शङ्किते शब्दादेव नित्याकृतिमतस्तज्जन्मेति समाहितम् । एवं वेदोऽवान्तरप्रलयस्थायी, जगद्धेतुत्वात् , ईश्वरवदित्यनुमानेन दृढीकर्तुमिदं सूत्रमित्यर्थः ।
तत्तात्पर्यमुक्त्वाक्षराणि व्याकरोति —
अत इति ।
अनुमानसिद्धेऽर्थे श्रुतिमनुकूलयति —
तथा चेति ।
यज्ञेन पुण्येन कर्मणा वाचो वेदस्य पदवीयं मार्गयोग्यतां ग्रहणयोग्यतामायन्नाप्तवन्तः, ततस्तां वाचमृषिषु प्रविष्टां विद्यमानामन्वविन्दन्ननुलब्धवन्तो याज्ञिका इति यावत् ।
तस्य तात्पर्यमाह —
स्थितामिति ।
अनुविन्नामनुलब्धामित्येतत् ।
तत्रैव स्मृतिमाह —
वेदेति ।
वेदान्कर्मज्ञानार्थान्मन्त्रब्रह्मणवादान् । सेतिहासानितिहासशब्दितनानार्थवादोपेतान्प्रसिद्धेतिहाससहितान्वा तेषामप्यवान्तरप्रलये सत्त्वात् । पूर्वमवान्तरसर्गादावित्यर्थः ।
तपसापि न तल्लाभोऽध्यापकाभावादित्याशङ्क्याह —
अनुज्ञाता इति ॥ २९ ॥
महाप्रलये जातेरपि सत्त्वासिद्धेः शब्दार्थसम्बन्धानित्यत्वमाशङ्क्य प्रत्याह —
समानेति ।
सूत्रव्यावर्त्यामाशङ्कामाह —
अथापीति ।
अवान्तरलये शब्दार्थसम्बन्धानित्यत्वाभावेऽपीति यावत् ।
तत्र विरोधसमाधिमुक्तमङ्गीकरोति —
यदीति ।
अभिधातृशब्देनाध्यापकाध्येतारावुक्तौ । अभिधानाभिधेयव्यवहाराविच्छेदे सम्बन्धनित्यत्वमध्यापकाध्येतृपरम्पराविच्छेदे च वेदनित्यतेत्यविरोध इत्यर्थः ।
महाप्रलये तु नाविरोध इत्याह —
यदा त्विति ।
जगतो निरन्वयनाशेऽत्यन्तापूर्वस्य चोत्पत्तौ सम्बन्धनित्यत्वाद्यसिद्धिः, सम्बन्धिनोरभावे तदभावात् , अध्यापकाद्यभावे वाश्रयाभावात् , ब्रह्मणश्च केवलस्यातदाश्रयत्वात् । अतो महाप्रलये विरोधतादवस्थ्यमित्यर्थः ।
तं परिहर्तुं सूत्रं पातयति —
तत्रेति ।
तदिदं व्याकुर्वन्ननादित्वं संसारस्य प्रतिजानीते —
तदापीति ।
महाप्रलयमहासर्गाङ्गीकारेऽपीति यावत् ।
तत्र वक्ष्यमाणन्यायं हेतूकरोति —
प्रतिपादयिष्यतीति ।
तस्यानादित्वेऽपि महाप्रलयव्यवधानादस्मरणे वेदानां कुतस्तदीयो व्यवहारः, तत्राह —
अनादौ चेति ।
न कश्चिद्विरोधः, शब्दार्थसम्बन्धनित्यत्वादेरिति शेषः । स्वापे लये च प्राणमात्रावशेषानवशेषाभ्यां विशेषेऽपि कर्मविक्षेपसंस्कारसहिताविद्यावशेषतासाम्यादनयोः साम्यम् ।
कथं पुनःस्वापे प्रलयस्य प्रबोधे च प्रभवस्य श्रवणं, तदाह —
स्वापेति ।
यदेत्युपक्रमादथशब्दस्तदेत्यर्थः । प्राणः परमात्मा । सुषुप्तस्य परस्मिन्नेकीभावावस्था तदेत्युक्ता । एनं प्रकृतं प्राणं परमात्मानमन्तर्बहिरिन्द्रियाणि सविषयाणि स्वापे परमात्मनि लीनानीत्यर्थः ।
प्रबोधे तस्मादेव जगतो जन्मोदाहरति —
स इति ।
स सुषुप्तः पुरुषः । यथेत्यस्मात्प्रागुपक्रमवशात्तदेति द्रष्टव्यम् । एतस्मादात्मन इत्यत्रापादानं प्राणः परमात्मैव । सर्वे प्राणा वागादयस्तेभ्योऽनन्तरं तदनुग्राहका देवा अग्न्यादयस्तदनन्तरं लोकाः शब्दादिविषयाः । कल्पितस्याज्ञातसत्त्वाभावाद्दृष्ट्यदृष्टिभ्यामुत्पत्तिलयावुक्तौ ।
व्यावहारिकसत्त्वे त्वनास्थाश्रुतेरित्यनुसन्धानयोगायोगाभ्यां दृष्टान्तदार्ष्टान्तिकवैषम्यं शङ्कते —
स्यादिति ।
सर्वेषां यौगपद्येनास्वापात्तदा प्रबुद्धेभ्यः सुप्तानां पुनर्व्यवहाराग्रहात्कालविप्रकर्षस्य मरणस्य च वासनोच्छेदिनोऽभावात्तत्र स्मरणम् । इह तु विमतो न जन्मान्तरव्यवहारानुसन्धानार्हः, जनिमृतिव्ययहितत्वात् , अस्मदादिवदित्यनुमानान्न स्मरणम् , अतो दृष्टान्ते शब्दार्थसम्बन्धनित्यत्वाद्यविरुद्धं दार्ष्टान्तिके नैवमित्यर्थः ।
हिरण्यगर्भादीनामनुसन्धानसिद्धेर्न वैषम्यमित्याह —
नैष इति ।
तेषामस्मदादिसाम्यमाशङ्क्योक्तम् —
यद्यपीति ।
इतिशब्दो यद्यपीत्यनेन सम्बध्यते । तथापि न प्राकृतवदिति वक्तव्यम् ।
उक्तमर्थं दृष्टान्तेन साधयति —
यथेति ।
आ मानुषादा च स्थाणोर्ज्ञानादिप्रतिबन्धस्योत्तरोत्तरमुत्कर्षप्रतीतिं प्रमाणयति —
दृश्यत इति ।
आ मनुष्यादा च हिरण्यगर्भादुत्तरोत्तरज्ञानाद्याधिक्ये मानमाह —
इत्येतदिति ।
‘हिरण्यगर्भः समवर्तत’ इत्यादयः श्रुतिवादाः । ‘ज्ञानमप्रतिमं यस्य’ इत्यादयः स्मृतिवादाः ।
तेषामुक्तेऽर्थे तात्पर्यलिङ्गमभ्यासमाह —
असकृदिति ।
पूर्वकल्पीयेश्वराणां कल्पान्तरे मुक्तत्वात्कथं व्यवहितानुसन्धानं, तत्राह —
ततश्चेति ।
पुरुषविशेषाणां व्यवहितानुसन्धानयोगस्य स्थितत्वादिति यावत् ।
पुरुषविशेषानेवाह —
अतीतेति ।
ईश्वराणां तद्भावनाभाजां यजमानानामित्यर्थः । प्रादुर्भवतां हिरण्यगर्भादिभावेनेति शेषः ।
तेषां व्यवहितव्यवहारानुसन्धाने हेतुमाह —
परमेश्वरेति ।
हिरण्यगर्भस्य परानुग्रहे मानमाह —
तथा चेति ।
विपूर्वो दधातिः करोत्यर्थः । पूर्वं कल्पादौ प्रहिणोति ददाति । लटश्चोभयत्राविवक्षा । आत्माकारबुद्धौ प्रकाशत इति तथोक्तः । तत्त्वमस्यादिवाक्योत्थधीवृत्तिव्याप्यमित्येतत् । शरणं मुक्त्यालम्वनमित्यर्थः ।
न केवलमेकस्यैव प्रतिभानं येनाविश्वासः किन्तु तत्तच्छाखाद्रष्टारोऽपि बहवः सन्तीत्याह —
स्मरन्तीति ।
ऋग्वेदो दशमण्डलात्मको मण्डलानां दशतयमत्रास्तीति दाशतय्यस्तत्र भवा ऋचः ।
ऋग्वेदातिरिक्तेष्वपि वेदेषु काण्डसूक्तमन्त्रादिदृशो बौैधायनादिभिः स्मृता इत्याह —
प्रतीति ।
एवमेव मधुच्छन्दः प्रभृतिवदेवेत्यर्थः ।
किञ्चर्ष्यादिधीपूर्वमनुष्ठानं दर्शयन्ती श्रुतिस्तांस्तानृषीन्मन्त्रदृशो दर्शयतीत्याह —
श्रुतिरिति ।
तत्र तत्र प्रथममृष्यादिज्ञानं विनानुष्ठाने दोषमाह —
यो हेति ।
आर्षेयमृषिसम्बन्धं, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगो न विदितान्येतानि यस्य मन्त्रस्य तेन याजयति - यागं कारयत्यध्यापयत्यध्ययनं कारयति, स्थाणुं स्थावरं, गर्तं नरकम् । ऋष्याद्यज्ञाने दोषित्वं तच्छब्दार्थः । भूतप्रेतादीनां जन्मान्तरानुस्मरणदर्शनन्यायानुगृहीतानामृष्यादिषु स्मृत्यादिप्रमितकल्पान्तरीयवेदानुस्मरणसूचकश्रौतलिङ्गानां कल्पान्तरव्यवहारानुस्मरणसाधकत्वम् । न च कालविप्रकर्षस्य जन्मनाशयोश्च सर्वसंस्कारोच्छेदकत्वं, पूर्वाभ्यस्तस्मृत्यनुसन्धानाज्जातमात्रस्य हर्षादिदृष्टेरित्यर्थः ।
कल्पान्तरानुसन्धानेन व्यवहारप्रवर्तनयोगात्पूर्वकल्पतुल्यैवोत्तरकल्पप्रवृत्तिरित्युक्तम् । सम्प्रति सृष्टिनिमित्तादृष्टमहिम्नापि पूर्वसदृष्येवोत्तरसृष्टिरित्याह —
प्राणिनां चेति ।
कथमेतावता पूर्वसृष्टिसादृश्यमुत्तरसृष्टेरित्याशङ्क्याह —
दृष्टेति ।
अन्वयव्यतिरेकसिद्धत्वं दृष्टत्वम् । आगममात्रप्रतिपन्नत्वमानुश्रविकत्वम् । विशिष्टसंस्थानपश्वादिकामनया कृतं कर्म तादृशं पश्वादि भावयतीति दृष्टविषयरागाद्यधीनकर्मफलभूतसृष्टेः श्लिष्टं पूर्वसृष्टिसादृश्यमित्यर्थः ।
पूर्वोत्तरसृष्टिसादृश्ये मानमाह —
स्मृतिश्चेति ।
तेषां सृज्यमानानां प्राणिनामिति निर्धारणे षष्ठी । तेषां पौनःपुन्येन सृज्यमानतया सर्गस्य प्रवाहात्मनानादित्वं द्योत्यते ।
पूर्वकृतकर्मपारवश्यमुत्तरसृष्टौ किमिति प्राणिनामित्याशङ्क्याह —
हिंस्रेति ।
व्यवस्थया धर्माधर्मसंस्कृतत्वं कथं तेषामिष्टं, तत्राह —
तस्मादिति ।
सम्प्रतितनधर्मादिरुचिदृष्ट्या प्राचि भवेऽपि तत्तद्भावितत्वधीरित्यर्थः ।
यत्तु निर्लेपं प्रलीयते जगदिति, तत्राह —
प्रलीयमानमिति ।
ततश्चोपासनशक्तिनियमादपि पूर्वसदृश्येवोत्तरसृष्टिरित्यर्थः ।
कार्यस्य कारणमात्रत्वात्तन्नाशान्नोत्तरसृष्टेः सादृश्यमित्याशङ्क्याह —
शक्तीति ।
निरन्वयनाशेन नवस्योदये दोषमाह —
इतरथेति ।
शक्तिवैचित्र्याद्विचित्रसृष्टिमाशङ्क्याह —
न चेति ।
अविद्याशक्तेरेकस्यास्तत्तत्कार्ये शक्तिभेदकल्पने गौरवादात्माविद्यैव नः शक्तिरिति स्थितेरित्यर्थः ।
पूर्वोत्तरसृष्टिसादृश्ये फलितमाह —
ततश्चेति ।
विच्छिद्य महाप्रलयव्यवधानेनापीत्यर्थः । भूरादिलोकप्रवाहा भोगभूमयः । देवादिप्राणिसमूहो भोक्तृवर्गः । वर्णाश्रमादिव्यस्थास्तदीयधर्माधर्म इति भेदः ।
दृष्टान्तं स्पष्टयति —
न हीति ।
‘मनःषष्ठानीन्द्रियाणि’ इति स्मृतेः षष्ठमिन्द्रियं मनस्तस्य नासाधारणो विषयः, सुखादेरपि साक्षिमात्रगम्यत्वात्तत्तुल्यमत्यन्तासदिति यावत् । यद्वा षष्ठमिन्द्रियं ज्ञानेन्द्रियेषु कर्मेन्द्रियेषु वा नास्ति तद्विषयस्तु दूरापास्तस्तथा व्यवहारान्यथात्वं प्रतिकल्पमशक्यं कल्पयितुम् । न हि कस्याञ्चिदि सृष्टौ नेत्रश्रोत्रादेर्गोचरविपर्ययो दृष्टः । तथा सर्वकल्पेषु लोकलोकितद्धर्मनियमसिद्धिरित्यर्थः ।
उक्तमर्थं सङ्क्षिप्य निगमयन्प्रकृतसूत्राक्षराणि योजयति —
अतश्चेति ।
समाननामरूपाणां विशेषाणां प्रतिसर्गं सर्गेऽपि कुतो विरोधसमाधिः, तत्राह —
समानेति ।
प्रादुर्भवतां विशेषाणां समाननामरूपत्वे मानमाह —
समानेति ।
उक्तं व्याकर्तुं श्रुतिं व्याचष्टे —
यथेति ।
तत्रैव श्रुत्यन्तरमाह —
तथेति ।
भाविवृत्त्या यजमानोऽग्निरुच्यते, अग्नेरग्न्यन्तराभावात् ।
यजमानश्चैवं कामयित्वा किं कृतवानिति, तदाह —
स इति ।
कृत्तिकाभ्यः कृत्तिकानश्रत्रदेवतायै बहुवचनं नक्षत्रबहुत्वात् । अष्टाकपालमष्टसु कपालेषु पचनीयं निरवपन्निरुप्तवान् । उक्तपुरोडाशहविष्कामिष्टिं कृतवानित्यर्थः ।
उक्तश्रुतेस्तात्पर्यमाह —
नक्षत्रेति ।
‘मित्रो वा अकामयत चन्द्रमा वा अकामयत’ इत्येवंविधा श्रुतिरेवंजातीयका । पूर्वोत्तरसृष्ट्योः समाननामरूपत्वमिहेत्युक्तम् । स्मृतिरपीह द्रष्टव्येति सम्बन्धः । वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतुलिङ्गानि वसन्तादीनामृतूनां चिह्नानि नवकिसलयप्रसूनादीनि । पर्यये पर्याये पौनःपुन्येन परिवर्तने । ये चक्षुराद्यभिमानिनोऽतीता देवास्ते साम्प्रतैर्देवैरिह चक्षुराद्यभिमानिभिस्तुल्या इति योजना ॥ ३० ॥
देवानां विग्रहवत्त्वे सर्गप्रलयोपगमे च कर्मणि शब्दे च विरोधमाशङ्क्य समाधिरुक्तः । सम्प्रति ‘तदुपर्यपि - ‘ इत्यत्रोक्तमाधिकारमाक्षिपति —
मध्वादिष्विति ।
पूर्वपक्षसूत्रतात्पर्यमाह —
इहेति ।
प्रतिज्ञाभागस्याक्षरार्थमाह —
देवादीनामिति ।
तेषां समर्थिताधिकारस्याक्षेपो न युक्त इत्याह —
कस्मादिति ।
तत्र हेतुमवतार्य व्याकरोति —
मध्वादिष्विति ।
मधुविद्यायां देवानामधिकारायोगं वक्तुं पृच्छति —
कथमिति ।
तेषामनुपासकत्वार्थमुपासकान्तरसत्त्वमाह —
असाविति ।
किमर्थं मनुष्यग्रहणं, तत्राह —
देवादिष्विति ।
उपास्योपासकभावस्य भेदापेक्षत्वात्प्राचामादित्यानामस्मिन्कल्पे क्षीणाधिकारत्वेनादित्यत्वाभावादादित्य एव मधुदृष्टिरादित्यस्यायुक्तेत्यर्थः ।
तर्हि देवतान्तराणामुक्तोपास्त्यधिकारित्वं, नेत्याह —
पुनश्चेति ।
लोहितं, शुक्लं, कृष्णं, परं कृष्णं, मध्ये क्षोभत इव, इत्युक्तानि पञ्च रोहितादीन्यमृतानि प्रागाद्यूर्ध्वदेशस्थितरश्मिनाडीभिस्तत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्तद्वैदिकमन्त्रमधुकरैरादित्यमण्डलमानीतानि सोमाज्यपयःप्रभृतिद्रव्याहुतिनिष्पन्नानि यशस्तेजोवीर्यमिन्द्रियमित्येवमात्मकान्यादित्यमधुसम्बन्धीनि वस्वाद्युपजीव्यानि चिन्तयतां फलं वस्वाद्याप्तिरुच्यते । तेषामुपासकत्वे कर्मकर्तृविरोधः स्यादित्यर्थः ।
आदिशब्दार्थं व्याचष्टे —
तथेति ।
कर्मकर्तृविरोधसाम्यादित्यर्थः ।
तथापि कथमृषीणामनधिकारः, तत्राह —
तथेति ।
सप्तसु शीर्षण्यप्राणेषु द्वयोर्द्वयोर्गोतमादिदृष्ट्योपास्तिः । दक्षिणः कर्णो गोतमः, वामो भरद्वाजः, चक्षुर्दक्षिणं विश्वामित्रः, वामं जमदग्निरित्यादि । न च तत्र तेषामेवाधिकारः, विरोधादित्यर्थः ॥ ३१ ॥
क्वचिदनधिकारान्न सर्वत्रानधिकारः, ब्राह्मणस्य राजसूयानधिकारेऽपि बृहस्पतिसवेऽधिकारादिति शङ्कते —
कुतश्चेति ।
देवादीनां विग्रहाद्यभावादनधिकारं सार्वत्रिकं साधयति —
ज्योतिषीति ।
सूत्रं विभज्यते —
यदिति ।
आदित्यः सविता पूषा चन्द्रमा नक्षत्रमित्यादिशब्दानां ज्योतिर्मण्डलविषयत्वे प्रसिद्धिद्वयं प्रमाणयति —
लोकेति ।
‘यावदादित्यः पुरस्तादुदेता’ इत्यादिः, ‘असौ वा आदित्यो देवमधु’ इत्यादिवाक्यशेषः ।
उदयास्तमयौ च ज्योतिर्मण्डलस्योपलभ्येते, तेन तदेवादित्यपदोक्तमस्तु । तर्हि तस्यैवाधिकारः, तत्राह —
न चेति ।
आदित्यादीनामचैतन्यादनधिकारेऽपि चैतन्यादग्न्यादीनामधिकारः स्यादित्याशङ्क्याह —
एतेनेति ।
न खल्वादित्यादिभ्योऽग्नयादयो विशिष्यन्ते, येन तेषां चेतनत्वादधिकारितेत्यर्थः ।
देवादीनां विग्रहाद्यपरिग्रहादनधिकारितेत्युक्तममृष्यमाणः सिद्धान्ती शङ्कते —
स्यादिति ।
‘वज्रहस्तः पुरन्दरः’ इत्यादयो मन्त्राः । ‘प्रजापतिरात्मनो वपामुदक्खिदत् ‘ इत्यादयोऽर्थवादाः । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । ‘ ‘ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । ‘ इत्यादीनीतिहासपुराणानि । लोकेऽपि यमं दण्डहस्तमालिखन्ति । वरुणं पाशहस्तम् । अतो मन्त्रादिप्रामाण्याद्देवादीनां विग्रहादियोगाद्विद्याधिकारितेत्यर्थः ।
विग्रहवत्त्वादीति ।
आदिशब्देन हविर्भोजनं तृप्तिरैश्वर्यं फलदानं च गृहीतम् ।
देवादीनां विग्रहादिपञ्चकं प्रामाणिकमित्युक्तं दूषयति —
नेतीति ।
यदुक्तं लोकतो विग्रहादिधीरिति, तत्राह —
न तावदिति ।
तर्हि प्रत्यक्षादिप्रसिद्धितो लोकप्रसिद्धेर्न भेदः, तत्राह —
प्रत्यक्षादिभ्य इति ।
अस्तु तर्हि तन्मूला लोकप्रसिद्धिः, नेत्याह —
न चेति ।
देवताविग्रहादिपञ्चकं सप्तम्यर्थः ।
तर्हि लोकप्रसिद्धेरितिहासपुराणं मूलं, तत्राह —
इतिहासेति ।
तस्य यन्मूलं तदेेव लोकप्रसिद्धेर्मूलमिति चेत् , अस्तु तर्हि निर्मूलं तल्लोकप्रसिद्धेर्मूलं, पौरुषेयगिरां मूलाभावे प्रामाण्यासिद्धेः । न च तस्य यन्मूलं तदेव लोकप्रसिद्धेर्मूलं, तन्मूलतया सम्भावितार्थवादमन्त्राणां निरसिष्यमाणत्वादिति भावः ।
अपौरुषेयाणामर्थवादानां तर्हि लोकप्रसिद्धिमूलत्वं, न अर्थवादाधिकरणविरोधादित्याह —
अर्थवादा इति ।
मन्त्राणां तर्हि स्तुत्यर्थत्वाभावात्तन्मूलतेत्याशङ्क्याह —
मन्त्रा इति ।
व्रीह्यादिवत्कर्मणि श्रुतिलिङ्गादिविनियुक्तानां तेषां दृष्टद्वारोपकारे सत्यदृष्टकल्पनायोगात् , अर्थपरत्वस्य शब्दानामौत्सर्गिकत्वात् , प्रयोगसमवेतार्थस्मृतावेव तात्पर्यं, नाज्ञातदेवताविग्रहादावपि, तात्पर्यभेदे वाक्यभेदादिति मत्वा मन्त्राधिकरणमुक्तेऽर्थे प्रमाणयति —
इत्याचक्षत इति ।
विग्रहादिपञ्चके मानाभावे फलितमाह —
तस्मादिति ॥ ३२ ॥
सूत्राभ्यां पूर्वपक्षे सिद्धान्तयति —
भावन्त्विति ।
तत्र परपक्षनिषेधं स्वपक्षप्रतिज्ञां च विभजते —
तुशब्द इति ।
यदुक्तं ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदिति, तत्र मध्वादिविद्यानां देवादिव्यामिश्रत्वान्न तास्तानधिकुर्वन्ति, न विद्यात्वात् । ब्रह्मविद्या तु न व्यामिश्रेत्यतस्तानप्यधिकरोतीत्यप्रयोजकत्वमाह —
यद्यपीति ।
तत्र देवादीनामधिकारस्य सम्भवे हेतुमाह —
अर्थित्वेति ।
वैराग्यादिब्रह्मचर्यादिसङ्ग्रहार्थमादिपदम् । द्विविधसामर्थ्यस्यैव योग्यताख्यस्याधिकारकारणत्वेऽपि तत्प्रयोजकत्वेनार्थित्वाद्यास्थेयम् ।
अतिप्रसङ्गपक्षबाधकोपहतं चेदमनुमानमित्याह —
नेति ।
राजसूयाद्यनधिकृतस्यापि ब्राह्मणस्य बृहस्पतिसवे प्रामाण्यादधिकारः । प्रकृते तु कथमित्याशङ्क्याह —
ब्रह्मेति ।
तत्र ब्रह्मवेदनात्सर्वभावे स्थिते देवानां मध्ये यो यो देवः प्रतिबुद्धवानात्मानमहं ब्रह्मस्मीति स स प्रतिबोद्धैव तद्ब्रह्माभवत् ।
तथापि जातित्रयस्यैव विद्याधिकारमाशङ्क्याह —
ते हेति ।
ते देवाश्चासुराश्चान्योन्यमुक्तवन्तः किल, हन्त यद्यनुमतिर्भवतां तर्हि तमात्मानं विचारयामः । यं विचारतो ज्ञात्वा सर्वाणि फलान्याप्नोतीत्युक्त्वा विद्याग्रहणायेन्द्रविरोचनौ प्रजापतिमाजग्मतुरित्यर्थः । चकारो बृहदारण्यकश्रुत्या छान्दोग्यश्रुतेः समुच्चयार्थः ।
श्रौतलिङ्गेनानुमानबाधं दर्शयित्वा स्मार्तेनापि तद्बाधं दर्शयति —
स्मार्तमिति ।
‘किमत्र ब्रह्म अमृतं किंस्विद्वेद्यमनुत्तमम् । चिन्तयेत्तत्र वै गत्वा गन्धर्वो मामपृच्छत ॥ विश्वावसुस्ततो राजा वेदान्तज्ञानकोविदः । ‘इति मोक्षधर्मे जनकयाज्ञवल्क्यसंवादात्प्रह्लादाजगरसम्बादाच्चोक्तानुमानासिद्धिरित्यर्थः ।
आदित्यादिशब्दानां ज्योतिर्मण्डलविषयत्वात्तस्याचेतनस्य विग्रहादिरहितस्य नाधिकारोऽस्तीत्युक्तं, तत्राह —
यदपीति ।
गोलकादिषु प्रयुक्तचक्षुरादिशब्दानामतिरिक्तेन्द्रियार्थत्ववदादित्यादिशब्दानां ज्योतिरादिषु प्रयोगेऽपि तदतिरिक्ते चेतने प्रवृत्तिरित्याह —
ज्योतिरिति ।
दृष्टान्तेऽतिरिक्तेन्द्रियसत्त्वे मानवत्प्रकृते तन्नास्तीत्याशङ्क्याह —
मन्त्रेति ।
यथा चेतने देवतात्मन्यादित्यादिशब्दस्तथा मन्त्रादिषु शाब्दव्यवहारादिति हेत्वर्थः ।
कथं तर्हि ज्योतिरादिष्वादित्यादिशब्दः, तत्राह —
अस्तीति ।
देवादीनामनेकरूपप्रतिपत्तियोगाच्चेतनाचेतनयोरादित्यादिशब्दानां मुख्यत्वसिद्धिरित्यर्थः ।
देवादीनां विविधविग्रहग्रहसामर्थ्ये मानमाह —
तथाहीति ।
सुब्रह्मण्यो नामोद्गातृगणप्रविष्टः कश्चिदृत्विग्विशेषस्तत्सम्बन्द्धार्थवादः ‘इन्द्र, आगच्छ’ इत्यादिः ।
तत्र मेधातिथेः मेष, इतीन्द्रसम्बोधनं मन्त्रपदं श्रुतं, तद्व्याचष्टे —
मेधेति ।
इन्द्रस्य नानाविग्रहयोगेऽपि देवतान्तरस्य किमित्याशङ्क्याह —
स्मर्यते चेति ।
धर्मो वायुरिन्द्रश्च पुरुषो भूत्वा तामेवोपजग्मुः अश्विनौ च पुरुषौ भूत्वा माद्रीमुपजग्मतुरिति महाभारते प्रसिद्धमित्यर्थः ।
यत्तु मृदादिवदचेतनत्वं, तत्राधिष्ठातृविवक्षया, अधिष्ठेयविवक्षया वाचेतनत्वम् । प्रथमं प्रत्याह —
मृदादिष्विति ।
तेष्वधिष्ठातृचेतनोपगमे मानमाह —
मृदिति ।
आदिशब्देन वागादिसंवादो गृहीतः ।
द्वितीये दार्ष्टान्तिकेऽपि तदिष्टमेवेत्याह —
ज्योतिरादेरिति ।
मृदादिष्वधिष्ठातृचैतन्ये मानवदत्र तदभावादधिष्ठेयवदधिष्ठातुरपि न चैतन्यमित्याशङ्क्याह —
चेतनास्त्विति ।
मन्त्रादयो न स्वार्थे मानम् , अन्यपरवाक्यत्वात् , विषभक्षणवाक्यवदित्युक्तमनुवदति —
यदपीति ।
यस्मान्मानाद्यस्मिन्नबाधिता धीस्तस्मात्तद्भावः सिध्यति । यत्र तु यतो मानान्न तथा धीर्न ततस्तत्सिद्धिरित्युत्सर्गः ।
तथा च मन्त्रादिभ्योऽपि स्वार्थे चेदबाधिता धीस्ततस्तेषां तत्र प्रामाण्यमित्याह —
अत्रेति ।
अनन्यार्थत्वेे स्वार्थे प्रामाण्यमन्यथा नेत्युक्तमाशङ्क्याह —
नेति ।
न हि विषभक्षणवाक्यमन्यार्थत्वान्न स्वार्थे मानं किन्तु मानान्तरविरोधात् । अवेक्षणस्य च संस्कारार्थस्य स्वार्थपरिच्छेदकत्वात् । न च तथाविधं वाक्यं न परिच्छेदकं, संवादविसंवादयोरसतोरवान्तरतात्पर्यात्तत्परिच्छेदध्रौव्यात् । न चानन्यार्थत्वं प्रामाण्ये प्रयोजकम् , अबाधितस्वार्थज्ञाने तदभावेन प्रामाण्याभावादृष्टेरित्यर्थः ।
अन्यार्थत्वमप्रयोजकमित्यत्र दृष्टान्तमाह —
तथाहीति ।
प्रतिसंयोगिवस्तुतात्पर्यानपेक्षमेव मानं चक्षुः ।
वाक्यं तु यत्र तात्पर्यं तत्र मानं न प्रत्यर्थमिति वैशेष्यमाह —
अत्रेति ।
विध्युद्देशो विधिवाक्यं, विधिरुद्दिश्यतेऽनेेनेति व्युत्पत्तेः । स्तुत्यर्थत्वं विधेः प्राशस्त्यलक्षणापरत्वम् । वृत्तान्तो भूतार्थः ।
महावाक्यावान्तरवाक्यभेदेन पृथक्प्रत्यायकत्वं मन्त्रादेर्विधेश्चेत्याशङ्क्याह —
नहीति ।
तत्र दृष्टान्तः —
यथेति ।
पदद्वयसम्बन्धाद्विधिरपि तत्र भाति, अप्राप्तनिषेधायोगादित्याशङ्क्याह —
नेति ।
न प्रत्ययमात्रादर्थसिद्धिः, तत्प्रत्ययस्य रागप्राप्ततया भ्रमत्वात् , तत्प्राप्तस्य च रजतादिवन्निषेधादित्यर्थः ।
यद्यपि पदैकवाक्यतायां नार्थान्तरधीर्विशिष्टबोधनप्रयुक्तपदानामन्यत्रापर्यवसानात् , तथापि वाक्यैकवाक्यतायां द्वारार्थे वाक्यार्थधीः । यथा देवदत्तस्य गौः क्रेतव्या बहुक्षीरेत्युक्ते बहुक्षीरत्वद्वारा क्रयणे तात्पर्यमित्युभयं तात्पर्यभेदाद्भाति तथेहापीत्याह —
अत्रेति ।
आर्थवादिकानां पदानां साक्षादेव विध्यन्वये किमिति पृथगन्वयप्रतिपत्तिः, तत्राह —
यथाहीति ।
अर्थवादस्थपदानां विधिना साक्षादसम्बन्धे योग्यत्वाभावं हेतुमाह —
नहीति ।
कथं तर्हि विधिना तेषामन्वयः, तत्राह —
वाय्विति ।
अध्ययनविध्युपात्तस्याक्षरमात्रस्यापि नैष्फल्यायोगात्तत्फलाकाङ्क्षायामर्थवादानां विधेयस्तुतिलक्षणया तदेकवाक्यत्वम् । न चान्वयभेदेऽपि वाक्यभेदः, तात्पर्यभेदस्य तद्भेदकस्याभावादित्यर्थः ।
तर्हि सर्वत्रार्थवादानां स्वार्थे प्रामाण्यात् ‘अग्निर्हिमस्य’ इत्याद्यपि स्वार्थे प्रमाणं, नेत्याह —
तदिति ।
मानान्तरसंवादाभावात् ‘आदित्यो यूपः’ इत्यादीनां स्वार्थे प्रमाण्यमाशङ्क्योक्तम् —
यत्रेति ।
'वज्रहस्तः पुरन्दरः’ इत्यादिषु संवादविसंवादयोरभावेऽपि सन्देहान्न स्वार्थे मानतेत्याशङ्क्याह —
यत्र त्विति ।
इतिशब्दादूर्ध्वं विचार्येत्यध्याहार्यम् । उक्तं हि - ‘विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ ‘ इति । यत्र विद्यमानार्थत्वं तत्र संवादो दृष्टः । प्रकृते तदभावात्किं गुणवादः ।
किंवा यत्र विरोधस्तत्रैव तद्दृष्टेरिह तदभावाद्विद्यमानार्थतेति सन्देहे मानानां स्वतो मानत्वाद्विद्यमानार्थता, सति च मुख्ये गुणानाश्रयणादर्थवादवाक्यानि स्वार्थप्रमितावनन्यार्थान्येव फलवशादन्यार्थानि, विधिप्रकरणस्थानुवादविरोधविधुरवाक्यत्वात् , प्रयाजादिवाक्यवदित्यनुमानादित्याह —
प्रतीतीति ।
अर्थवादानां संवादविसंवादासत्त्वे स्वार्थे प्रामाण्योक्त्या मन्त्राणामपि तदुक्तमेवेत्यतिदिशति —
एतेनेति ।
तस्यापि संवादाद्यभावे स्वार्थे मानत्वाविशेषात्प्रतीते देवतारूपे प्रामाण्यमावश्यकमित्यर्थः ।
न केवलं मन्त्रादिप्रमाणकमेव देवतारूपं विधिप्रमाणकमपीत्युपादानं प्रमाणयति —
अपि चेति ।
यथा स्वर्गकामवाक्ये विध्यपेक्षितं स्वर्गरूपं ‘यन्न दुःखेन सम्भिन्नम्’ इत्यर्थवादसिद्धं विधिप्रमाणकं तथा यागविधिनैव देवतारूपापेक्षणादर्थवादादिसिद्धमपि तद्रूपं तत्प्रमाणकमेवेत्यर्थः ।
कथमिन्द्रादिस्वरूपापेक्षा विधीनां, ते हि करणेतिकर्तव्यताभाव्यमात्रापेक्षिणः, तत्राह —
न हीति ।
दर्शपूर्णमासाधिकारपाठात्प्रयाजाद्यनुष्ठानादेवापूर्वसिद्धिः । तथौत्सर्गिकप्रतीतिकार्यार्थवादप्रमितदेवताप्रमितिमतो यागादपूर्वसिद्धिरविशेषादित्यर्थः ।
चेतसि देवतारूपारोपणमपि मा भूत् , तत्सम्प्रदानकहविर्दानकस्य तदपेक्षात्वाभावादित्याशङ्क्याह —
न चेति ।
देवतामुद्दिश्य हविरवमृश्य तदीयस्वत्वत्यागात्मकत्वाद्यागस्येत्यर्थः ।
न केवलं यागदेहालोचनया चेतसि देवतारोपः, किन्तु श्रूयमाणत्वाच्चेत्याह —
श्रावयतीति ।
विध्यपेक्षायां मन्त्रादिभ्यो देवताविग्रहादि ग्राह्यं, तदपेक्षैव नास्ति, शब्दरूपस्यैव देवतात्वात् , तस्य च मानान्तरसिद्धत्वात् , तत्राह —
न चेति ।
विमता बुद्धिः शब्यातिरिक्तार्थाकारा, कारकबुद्धित्वात् , कर्तृबुद्धिवत् । न च मन्त्ररूपकारकबुद्धौ व्यभिचारः, तथापि ‘ऐन्द्र्या गार्हपत्यम्‘ इत्यादिकारकत्ववादिशब्दातिरिक्तमन्त्ररूपार्थाकारबुद्धित्वोपगमादिति भावः ।
ननु तथापि देवतारूपज्ञानमुद्देशोऽपेक्षते, न तद्रूपसत्त्वम् , आरोपादपि तद्धीयोगाद्योषिदग्निधीवत् , तत्राह —
तत्रेति ।
दृष्टस्यासति बाधके न मिथ्यात्वम् । न च कर्मणो देवतागुणत्वात्तस्मादेव फलोत्पादे यागस्य फलवत्त्वविरोधः, अपूर्ववद्देवताप्रसादस्यापि यागावान्तरव्यापारत्वादित्यर्थः ।
न केवलं मन्त्रार्थवादेभ्यो देवताविग्रहादिसिद्धिः किं त्वितिहासपुराणादपीत्याह —
इतिहासेति ।
मन्त्रादावुक्तप्रामाण्यप्रकारो व्याख्यातो मार्गः ।
न केवलं मन्त्राद्येव तन्मूलं किं तु प्रत्यक्षाद्यपीत्याह —
प्रत्यक्षादीति ।
ननु न तत्तस्य मूलं, न हि देवादिविषयमस्मदादीनामस्ति प्रत्यक्षं, तत्राह —
भवतीति ।
व्यासादीनां तद्विषयं प्रत्यक्षमस्तीत्यत्र मानमाह —
तथा चेति ।
न चार्षं प्रत्यक्षमितिहासादिसिद्धं तच्च तन्मूलतया मानमित्यन्योन्याश्रयत्वं, आर्षप्रत्यक्षस्य योगिप्रत्यक्षान्तर्भूतस्यानुमानागमाभ्यामेव सिद्धत्वात् , इतिहासादौ च तन्मूलत्वव्यक्तीकरणाय तदनुवादादित्यर्थः ।
ननु पूर्वेऽपि व्यासादयो न देवादीन्प्रत्यक्षयन्ति, प्राणित्वात् , अस्मदादिवदित्यनुमानान्न योगिप्रत्यक्षं तन्मूलमिति शङ्कते —
यस्त्विति ।
सामान्यतो दृष्टमतिप्रसक्त्या प्रत्याचष्टे —
स इति ।
विमतं घटमात्रं, वस्तुत्वात् , घटवदित्यपि सम्भवादित्यर्थः ।
अतीतानागतौ कालौ, सार्वभौमशून्यौ, कालत्वात् , वर्तमानवदित्यतिप्रसङ्गान्तरमाह —
इदानीमिवेति ।
तत्रापि सिद्धसाध्यत्वं प्रत्याह —
ततश्चेति ।
विमतः कालोऽव्यवस्थितप्रायवर्णाश्रमशाली, कालत्वात् , संमतवदित्यतिप्रसङ्गान्तरमाह —
इदानीमिवेति ।
तत्रापि सिद्धसाध्यत्वमाशङ्क्याह —
ततश्चेति ।
व्यवस्थाविधायि तत्तद्युगेषु तत्तद्वर्णाश्रमयोगितया तत्तदसङ्कीर्णधर्मबोधकमित्यर्थः ।
सामान्यतो दृष्टस्यातिप्रसक्तिप्रहतत्वे फलितमाह —
तस्मादिति ।
इष्टदेवतासाक्षात्कारोद्देशेन जपविधानादपि युक्तमेतदित्याह —
अपि चेति ।
आदिपदेन संयोगफलं देवतासाक्षात्कारस्तत्फलं व्यवहारश्चोच्यते ।
योगशास्त्रादपि योगिनो देवतादिभिः सह प्रत्यक्षं व्यवहरन्तीति दृष्टमित्याह —
योगोऽपीति ।
न केवलं योगशास्त्राद्योगमाहात्म्यधीः किं तु श्रुतेरपीत्याह —
श्रुतिश्चेति ।
पादतलमारभ्याजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चाब्रह्मरन्ध्रं क्रमेण पृथिव्यादिधारणया पृथिव्यादिपञ्चात्मके भूतसमुदाये समुत्थिते प्रतिपत्तिद्वारा वशीकृते योगगुणे चाणिमादौ प्रवृत्ते योगाभिव्यक्तं तेजोमयं देहं प्राप्तस्य योगिनो न जरादिसङ्गतिरित्यर्थः ।
किञ्च मन्त्रादिदृशामृषीणां शक्तिरस्मदादिशक्तिसदृशी नेत्यभ्युपगन्तव्यम् । तथा व्यासादीनामपि शक्तेरस्मदादिशक्त्यतिशायितया न तत्प्रत्यक्षं प्रतिक्षेप्तुं शक्यमित्याह —
ऋषीणामिति ।
सिद्धे व्यासादीनामतीन्द्रियार्थदर्शित्वे फलितमाह —
तस्मादिति ।
तथा चेतिहासादिप्रामाण्याद्धेवताविग्रहादिपञ्चकसिद्धिरित्यर्थः ।
लोकप्रसिद्ध्यापि तत्सिद्धिरित्याह —
लोकेति ।
प्रमाणस्यादुष्टत्वे प्रमेयसिद्धिरवश्यम्भाविनीत्यवान्तरप्रकृतमुपसंहरति —
तस्मादिति ।
तेषां विग्रहवत्त्वादौ सिद्धे प्रकृते किमित्याशङ्क्य परमप्रकृतमुपसंहरति —
ततश्चेति ।
किञ्च ब्रह्मलोकादिप्राप्तानां देवादिभावं प्राप्तानां तत्रोत्पन्नापरोक्षधियां मुक्तिवादीन्यपि श्रुतिस्मृतिवाक्यानि देवादीनामधिकारं सूचयन्तीति तेषां विद्याधिकारे श्रूतार्थापत्तिमाह —
क्रमेति ॥ ३३ ॥
मनुष्याधिकारनियमापवादेन देवादीनामधिकारवद्विजात्यधिकारनियमं निरस्य शूद्रस्यापि स्यादधिकारः, संवर्गविद्याधिकारिणी जानश्रुतौ शूद्रशब्दादित्याशङ्क्याह —
शुगस्येति ।
प्रासङ्गिकीं सङ्गतिं वदन्नधिकरणस्य तात्पर्यमाह —
यथेति ।
पूर्वत्रात्रैवर्णिकदेवाद्यधिकारोक्त्या मन्त्रादीनां स्वार्थे समन्वयः साधितः । सम्प्रति विद्याधिकारिणि शूद्रशब्ददृष्टेर्जातिशूद्रस्यापि विद्याहेतुवेदान्तविचारादिष्वधिकारमाशङ्क्य शूद्रशब्दस्य क्षत्रिये समन्वयोक्तेरेतदध्यायान्तर्भावोऽस्य युक्तः । अर्थवादिकशूद्रशब्दस्यैव पौर्वापर्यालोचनया वेदान्तानां स्वार्थे समन्वयसिद्धेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जातिशूद्रस्यापि ब्रह्मविद्यायां त्रैवर्णिकादविशेषः, सिद्धान्ते ततो विशेषः फलति । ब्रह्मविद्या विषयः ।
तस्यां शूद्रस्याधिकारोऽस्ति न वेत्यधिकारहेतुसत्त्वासत्त्वाभ्यां सन्देहे पूर्वपक्षयति —
तत्रेति ।
सत्यपि लौकिके सामर्थ्ये शास्त्रीयसामर्थ्याभावादनधिकारमाशङ्क्याह —
तस्मादिति ।
अनग्नित्वादित्यर्थः । अनवक्लृप्तत्वमयोग्यत्वम् ।
कर्मानधिकारे तेनैव न्यायेन विद्यायामपि नाधिकारः, तत्राह —
यच्चेति ।
किमाहवनीयाद्यभावादनधिकारः शूद्रस्य विद्यायामुच्यते, किंवाऽधिकारे मानाभावात् । तत्राद्यं दूषयति —
नहीति ।
विद्याया दृष्टसाधनत्वादाहवनीयादेस्तत्राकिञ्चित्करत्वात्तद्रहितस्यापि तद्धेतुमतस्तत्प्राप्तिरिति भावः ।
द्वितीयं निराह —
भवतीति ।
अहेति खेदार्थो निपातः । हारेण सहित इत्वा रथः स तवैव हे शूद्र, गोभिः सहास्तु, किमनेनात्यल्पेन गार्हस्थ्यं निर्वोढुमसमर्थेनेति रैक्वो जानश्रुतिं विद्याधिकारिणं शूद्रशब्देनोक्तवानित्यर्थः ।
न केवलं शूद्राधिकारे श्रौतं लिङ्गं, स्मार्तमपीत्याह —
विदुरेति ।
अर्थित्वादिमतः साधने फलवति स्वाभाविकी प्रवृत्तिरितिन्यायानुगृहीतेन ‘तद्यो यो देवानाम्’ इति ब्रह्मधीसम्बन्धलिङ्गेन देवादीनामधिकारो यथोक्तस्तथात्राप्यर्थित्वादिमतः शूद्रशब्देन परामर्शलिङ्गादस्त्यधिकारस्तस्येत्युपसंहरति —
तस्मदिति ।
सूत्राद्बहिरेव सिद्धान्तयति —
एवमिति ।
अध्ययनाभावेऽपि किमित्यधिकारो विद्याहेतुषु नेष्यते, तत्राह —
अधीतेति ।
साङ्गाध्ययनविधिरदृष्टसंस्कारसहितवेदवाक्योत्थप्रमितिमत एवोत्तरविधिष्वधिकारो नान्यस्येति नियमयन्वैदिकेषु ब्रह्मधीफलपर्यन्तोपायविधिषु शूद्रस्यानधीयानस्याधिकारं वारयतीति भावः ।
अध्ययनमपि तर्हि तस्य किं न स्यात् , तत्राह —
न चेति ।
उपनयनमपि तस्य स्यादित्याशङ्क्याह —
उपनयनस्येति ।
वक्ष्यते हि तस्य वर्णत्रयविषयत्वम् ।
यदुक्तमर्थित्वसामर्थ्ययोः सम्भवादिति, तत्रार्थित्वमुपेत्य सामर्थ्यं प्रत्याह —
यत्त्विति ।
सामर्थ्यमपि तस्य सम्भवतीत्याशङ्क्य लौकिकं वैदिकं वेति विकल्प्याद्यं निराह —
सामर्थ्यमिति ।
ननु लिखितपाठादिना प्राप्तस्वाध्यायादर्थधीयोगादस्ति तस्य वैदिकमपि सामर्थ्यम् । न च निषिद्धाध्ययनाद्दुरितोदयभयान्न प्रवर्तते लिखितपाठादिजनितविद्यया तन्निबर्हणात् , तत्राह —
शास्त्रीयस्येति ।
लिखितपाठादिजन्यविद्यया दुरितनिवृत्तावध्ययनविध्यानर्थक्यान्मैवमित्यर्थः ।
यत्तु ‘शूद्रो विद्यायामनवक्लृप्तः’ इति पर्युदासो न श्रुत इति, तत्राह —
यच्चेति ।
संस्कृतवेदार्थज्ञानाभावेनासामर्थ्यस्य यज्ञवज्ज्ञानेऽपि तुल्यत्वाद्यज्ञोक्तेरुपलक्षणत्वादनधिकारो ज्ञानेऽपि वाचनिकः शूद्रस्येत्याह —
न्यायस्येति ।
पूर्वपक्षबीजमनुभाष्य दूषयति —
यदिति ।
तदभावेऽपि स्वतन्त्रमेव लिङ्गदर्शनं द्योतकमित्याशङ्क्याह —
न्यायेति ।
‘निषादस्थपतिं याजयेत् ‘ इतिवच्चोदनाभावादर्थवादस्थशूद्रशब्दस्य चान्यतः सिद्धार्थावद्योतिनः स्वतोऽप्रापकत्वादन्यपरस्य मानान्तराविरोध एव प्रामाण्यादत्र न्यायविरोधस्योक्तत्वादसाधकं लिङ्गमित्यर्थः ।
शूद्राधिकारेऽपि तर्हि लिङ्गानुग्राहको न्यायोऽस्तु, नेत्याह —
न चेति ।
किञ्चार्थवादवशाद्विद्यामात्रे वा शूद्राधिकारः, संवर्गविद्यायामेव वा । नाद्य इत्याह —
कामं चेति ।
तद्विषयत्वात्संवर्गविद्याविषयार्थवादस्थत्वादस्येति यावत् ।
संवर्गविद्याधिकारे शूद्रशब्दसिद्धे विद्यात्वादन्यत्रापि तदधिकारोऽस्त्विति द्वितीयमाशङ्क्याह —
अर्थवादेति ।
तर्हि वैदिकशूद्रपदस्यानर्थक्यमित्याशङ्क्य सूत्रं योजयति —
शक्यते चेति ।
जात्यन्तरे रूढस्य कथमन्यार्थतेति शङ्कते —
कथमिति ।
यौगिकार्थसन्निधावदृष्टरूढिग्रहाद्वरं दृष्टयोगग्रहणमित्याह —
उच्यत इति ।
जानश्रूती राजा बहुविधान्नपानदानशूरो ग्रीष्मे रात्रौ हर्म्ये सुष्वाप । तस्योर्ध्वमन्तरिक्षे दृष्टिगोचरं हंसेषु गच्छत्सु पृष्ठगामी हंसो हंसमग्रेसरं प्रत्युवाच, किं न पश्यसि परमधार्निकस्य जानश्रुतेर्ज्योतिर्द्युलोकसंलग्नं तत्त्वां धक्ष्यतीति । ततः सोऽब्रवीत्कमेनं वराकं प्राणिमात्रं सन्तमरे सयुग्वानमिव रैक्वमेतद्वचनं ब्रवीषि । उशब्दोऽवधारणे । युग्वा गन्त्री तया सह वर्तते यो रैक्वः । यस्य धीफले कर्मफलं सर्वमन्तर्भूतं स एवैतदुक्तियोग्यो नायमज्ञो राजेत्यर्थः ।
श्रुतिमेतामाश्रित्य शुगस्येत्याद्यक्षराणि योजयति —
इत्यस्मादिति ।
उत्पन्नशोकसूचनमनुपयोगीत्याशङ्क्याह —
आत्मन इति ।
शूद्रशब्दस्य मुख्यार्थत्यागे हेतुमाह —
जातीति ।
तदाद्रवणादित्यस्य शङ्कामाह —
कथमिति ।
व्याख्येयमादाय त्रिधा व्याख्याति —
उच्यतइति ।
शुचं शोकमभिदुद्राव प्राप्तवानित्यर्थः । शुचा वा कर्त्र्या स्वयमभिदुद्रुवे प्राप्त इत्यर्थः । शुचा वा करणभूतया रैक्वं गतवानित्यर्थः । एवं तावत्तदाद्रवणादिति तच्छब्देन शुग्जानश्रुती रैक्वो वा गृह्यते ।
उक्तव्युत्पत्त्या शूद्रशब्दस्याधिकृतार्थत्वे पूर्वोक्तं न्यायं सूचयति —
अवयवेति ।
हंसवाक्यादात्मनोऽनादरं श्रुत्वा जानश्रुतेः शुगुत्पन्नेत्येतदेव कथं गम्यते, येनासौ शूद्रशब्देन सूच्यते, तत्राह —
दृश्यते चेति ॥ ३४ ॥
शूद्रशब्दस्य यौगिकत्वे हेत्वन्तरमाह —
क्षत्रियत्वेति ।
चशब्दार्थमाह —
इतश्चेति ।
हेत्वन्तरमेव स्फोरयति —
यदिति ।
कथमभिप्रतारिणश्चैत्ररथित्वं, चैत्ररथस्य वा कथं क्षत्रियत्वं, कथं वा जानश्रुतेस्तेन समभिव्याहारः, तस्मिन्सत्यपि वा कथं तस्य क्षत्रियत्वं, तदाह —
उत्तरत्रेति ।
संवर्गविद्याविध्यनन्तरमर्थवादारम्भार्थोऽथशब्दः । हशब्दो वृत्तान्तावद्योती । शौनकः शुनकस्यापत्यं कापेयं कपिगोत्रं पुरोहितमभिप्रतारिणं च नाम्ना राजानं काक्षसेनिं कक्षसेनस्यापत्यं तौ भोक्तुमुपविष्टौ सूदेन परिविष्यमाणौ ब्रह्मचारी, भिक्षितवानित्यर्थः ।
ब्रह्मचारिभिक्षयास्याऽशूद्रत्वेऽपि कथं चैत्ररथित्वं, तदाह —
चैत्रेति ।
कापेययोगेऽपि कथं तस्य चैत्ररथित्वप्रथा, तत्राह —
कापेयेति ।
अवगतिमेव छान्दोग्यश्रुत्या स्फुटयति —
एतेनेति ।
द्विरात्रेणेति यावत् ।
चित्ररथस्य कापेययोगेऽपि कथमभिप्रतारिणश्चैत्ररथित्वं, तत्राह —
समानेति ।
चित्ररथस्य याजकेन कापेयेन योगाद्याज्योऽभिप्रतारी चैत्ररथिः सिद्धः, तत्तत्पुरोहितवंश्यानामेव तत्तद्राजवंश्येषु प्रायो याजकत्वात् । चैत्ररथित्वाच्च क्षत्रियोऽभिप्रतारि, चित्ररथस्य क्षत्रित्वात्तद्वंश्यस्य तद्योगादित्यर्थः ।
वचनादपि तस्य क्षत्रियत्वमित्याह —
तस्मादिति ।
चित्ररथादित्यर्थः ।
तथापि क्षत्रियत्वे किं जातं जानश्रुतेरित्याशङ्क्याह —
तेनेति ।
समभिव्याहारेऽपि कुतोऽस्य क्षत्रियत्वं, तत्राह —
समानानामिति ।
शिष्याचार्ययोः स्वामिभृत्ययोश्च समभिव्याहारेऽपि वैषम्यमस्तीति प्रायेणेत्युक्तम् ।
तस्य क्षत्रियत्वे हेत्वन्तरमाह —
क्षत्त्रिति ।
आदिशब्देन गोदानादिसङ्ग्रहः ।
क्षत्रियत्वे संवर्गविद्याधिकारिणः सिद्धे फलितमाह —
अत इति ॥ ३५ ॥
शूद्रस्यानधिकारे लिङ्गान्तरमाह —
संस्कारेति ।
चशब्दार्थमाह —
इतश्चेति ।
हेत्वन्तरं स्फोरयति —
यदिति ।
आदिशब्देनाध्ययनाचार्यशुश्रूषादयो गृह्यन्ते ।
परामर्शं विशदयति —
तं हेति ।
विद्यार्थिनं शिष्यमाचार्यः किलोपनीतवान् । अनुपनीताय विद्यादानायोगादिति यावत् ।
सनत्कुमारं प्रति नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन्नुपसत्तिं कृतवानित्याह —
अधीहीति ।
भारद्वाजादयः षड्ऋषयः परं ब्रह्म परत्वेनावगतवन्त इति ब्रह्मपरास्तद्ध्याननिष्ठाश्च ब्रह्मनिष्ठाः, परं च परमार्थभूतं ब्रह्म विचारयन्तो निर्णयार्थमेष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य रिक्तहस्तानां गुरूपगमनायोगं मन्यमानाः समित्पाणयस्तमुपसन्नाः किलेत्याह —
ब्रह्मेति ।
अनुपनीतानामपि वैश्वानरविद्यायामधिकारश्रुतेरनियतमुपनयनमित्याशङ्क्याह —
तानिति ।
औपमन्यवप्रभृतीन्ब्राह्मणाननुपनीयैवाश्वपती राजोवाचेति निषेधात्तस्य प्राप्तिपूर्वत्वात्प्राप्तोपनयनानां द्विजानामेवाधिकार इत्यर्थः ।
संस्कारपरामर्शादिति व्याख्यायावशिष्टं व्याचष्टे —
शूद्रस्येति ।
एकजातिरुपनयनरहितः । पातकं भक्ष्याभक्ष्यविभागाभावकृतम् । आदिशब्देन ‘पद्यु ह वा एतत् ‘ इत्यादि गृह्यते ॥ ३६ ॥
शूद्रस्य विद्यानधिकारे लिङ्गान्तरमाह —
तदभावेति ।
चकारार्थमाह —
इतश्चेति ।
तदेव स्फुटयति —
यदिति ।
सत्यकामो जाबालो ब्रह्मचर्यकालमालक्ष्य प्रमीतपितृकः स्वां मातरं जबालामपृच्छत् , भगवति, कस्यचिद्गुरोरावासमासाद्य ब्रह्मचर्यमाचरितुमिच्छामि, ब्रवीतु भवती किङ्गोत्रोऽहमिति । सा तु त्वत्पितृपरिचरणपरतया नाहं तदवेदिषं, जबालाहमस्मि त्वं जाबालोऽसीत्येतावदवगतमवादीत् । ततः सत्यकामो गौतममभ्येत्याभ्यभाषत, ब्रह्मचर्यं भगवति चरितुमिच्छाम्यनुगृह्णातु मां भवानिति । ततो गौतमेन किङ्गोत्रोऽसीति पृष्टो नाहं वेद, नापि मातेति तेनोक्ते तदीयसत्यवचनेन शूद्रस्य मायावित्वयोगात्तदशूद्रत्वे सिद्धे तमुपनेतुमध्यापयितुं चाचार्यो यस्मात्प्रवृत्तस्तस्मान्न शूद्रस्याधिकारोऽस्तीत्यर्थः ।
कथमुक्तनीत्या गौतमस्य प्रवृत्त्यौन्मुख्यं, तत्राह —
नेति ।
एतत्सत्यवचनं विवक्तुं विविच्य निःसन्दिग्धं वक्तुमित्येतत् । ‘न सत्यादगाः’ सत्यवचनान्नातिगतोऽसीत्यर्थः ॥ ३७ ॥
श्रौतमिव लिङ्गं शूद्रस्य विद्यानधिकारे स्मार्तं तद्दर्शयति —
श्रवणेति ।
तद्व्याकरोति —
इतश्चेति ।
उक्तमेव विभजते —
वेदेति ।
तत्र श्रवणप्रतिषेधं स्वहस्तयति —
श्रवणेति ।
पठ्यमानं वेदं समीपे प्रमादादेव श्रृण्वतः शूद्रस्य प्रत्यवायप्रायश्चित्तालोचनायां सीसलाक्षाभ्यां सन्तप्ताभ्यामतिद्रुताभ्यां श्रोत्रद्वयपूरणं कार्यमित्यर्थः । पद्यु पदा युक्तम् । सञ्चारसमर्थमिति यावत् ।
श्रवणनिषेधादेवार्थादध्ययननिषेधोऽपि सिध्यतीत्याह —
अत इति ।
तदेव स्फुटयति —
यस्येति ।
न केवलमार्थिकोऽध्ययननिषेधः, श्रौतश्चेत्याह —
भवतीति ।
अध्ययननिषेधानुपपत्त्या ज्ञानानुष्ठानयोरपि स सिध्यतीत्याह —
अत इति ।
साक्षादपि ज्ञाननिषेधमाह —
भवतीति ।
अनुष्ठाननिषेधमपि शाब्दं दर्शयति —
द्विजातीनामिति ।
दानमत्र नित्यमिष्टं, नैमित्तिकस्य शूद्रेऽपि योगात् ।
यत्तु विदुरादीनां ज्ञानित्वं स्मृतिसिद्धमिति, तत्राह —
येषामिति ।
साधकस्याधिकारचिन्ता न सिद्धस्येत्याह —
तेषामिति ।
विदुरादीनां ज्ञानाभावस्य स्मृतिविरोधेन दुर्वचत्वादुत्पन्नज्ञानानां तेषां मुक्तिरेव । सामग्र्याः साध्याव्यभिचारादित्यर्थः ।
कुतस्तर्हि शूद्राणां ज्ञानोत्पत्तिः, तत्राह —
श्रावयेदिति ।
कुत्र तर्हि तदधिकारो वार्यते, तत्राह —
वेदेति ।
आर्थवादिकशूद्रशब्दस्योक्तनीत्या क्षत्रियेऽन्वयान्न जातिशूद्रस्य वेदद्वाराधिकारो विद्यायामित्युपसंहरति —
इति स्थितमिति ॥ ३८ ॥
बहुलिङ्गविरोधादेकस्य शूद्रशब्दस्य मुख्यार्थबाधवद्वायुसहितजगत्कम्पनाश्रयत्वभयहेतुत्वामृतत्वसाधनत्वलिङ्गैर्बहुभिर्विरोधात्प्राणश्रुतेरेकस्या मुख्यार्थत्यागमाह —
कम्पनादिति ।
आपादसमाप्तेरुत्तरसन्दर्भस्य सङ्गतिमाह —
अवसित इति ।
अस्याधिकरणस्योदाहरणतया काठकवाक्यं पठति —
यदिति ।
यत्किञ्चेदमविशिष्टं जगत्तत्सर्वं प्राणे निमित्ते सत्येजति चेष्टते । तच्च तस्मादेव निःसृतमुत्पन्नम् । तच्च प्राणाख्यं जगत्कारणं महदपरिच्छिन्नं बिभेत्यस्मादिति भयम् ।
तदेव भयहेतुत्वं निरूपयति —
वज्रमिति ।
उद्यतं वज्रमिवेत्यर्थः ।
प्राणतत्त्वधियोऽमृतत्वहेतुत्वमाह —
य इति ।
सूत्राक्षराननुगमान्नेदमुदाहरणमित्याशङ्क्याह —
एतदिति ।
एजतिधात्वर्थस्य कम्पनस्य सूत्रणादेजतिपदयुक्तमेतद्वाक्यं सूत्रितमित्यर्थः ।
वाक्ये प्रातीतिकमर्थं सङ्क्षिप्याह —
अस्मिन्निति ।
सहेतुकं संशयमुक्त्वा श्रुत्या पूर्वपक्षयति —
तत्रेत्यादिना ।
‘शब्दादेव प्रमितः’ इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानायेत्युक्तम् । इह तु प्राणस्य स्वरूपेण कल्पितस्य न ब्रह्मैक्यं, यतोऽनूद्येत, तस्मादुपास्तिविधिरिति प्रत्यवस्थीयते । सिद्धान्ते तु निर्विशेषे ब्रह्मण्युक्तश्रुत्यन्वयादस्ति श्रुत्यादिसङ्गतिः । फलं तु पूर्वोत्तरपक्षयोरुपास्तिर्ज्ञानं चेति ।
नन्वतिदेशाधिकरणे प्रातर्दने विचारे च प्राणशब्दस्य ब्रह्मार्थत्वमुक्तं तथेहापीत्यनर्थकमधिकरणम् । मैवम् । ‘प्राणमेवाभिसंविशन्ति’ इत्यत्र निरपेक्षकारणत्वपरैवकारवत् ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यादावुपक्रमोपसंहारैकरूप्यवच्चात्र तदभावादगतार्थत्वादित्यभिप्रेत्याह —
वायोश्चेति ।
जगत्कम्पनहेतुत्वं ब्रह्मलिङ्गमिहापि भाति, तत्कथं वायोरिदं माहात्म्यमित्याह —
कथमिति ।
उक्तलिङ्गमन्यथयति —
सर्वमिति ।
तथापि जगद्भयहेतुत्वं ब्रह्मलिङ्गमित्याशङ्क्याह —
वाय्विति ।
न तावदत्रोपमा, तद्वाचकाभावात् । न च ब्रह्मनिमित्तं भयानकं वज्रमुद्यम्यते, मानाभावात् । न चेदमेव मानं वायुनिमित्तत्वेन तदुद्यमनोक्तेरित्यर्थः ।
कथं वायोरपि वज्रोद्यमहेतुत्वं, तत्रापि मानाभावाद्वाक्यस्य साधारण्यात् । तत्राह —
वायौ हीति ।
तथापि ज्ञानस्यामृतत्वहेतुत्वं ब्रह्मलिङ्गमित्याशङ्क्याह —
वाय्विति ।
तत्र बृहदारण्यकमनुकूलयति —
तथाहीति ।
व्यष्टिर्विशेषः । समष्टिः सामान्यम् ।
प्राणवज्रश्रुतिभ्यां सिद्धमुपसंहरति —
तस्मादिति ।
आध्यात्मिकाधिदैविकवायूपास्त्यर्थं वाक्यमित्युक्तमनूद्य सिद्धान्तयति —
एवमिति ।
बहिरेव प्रतिजानीते —
ब्रह्मेति ।
वाक्यस्य वायूपास्तिपरत्वे श्रौते कुतो ब्रह्मधीरित्याह —
कुत इति ।
पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वलोकाश्रयत्वादिलिङ्गं प्राणश्रुतेर्बाधकमित्याह —
पूर्वेति ।
तत्र वाक्यैकवाक्यत्वं विवृणोति —
पूर्वोत्तरयोरिति ।
तथाप्येजतिवाक्ये वायुरुच्यतामित्याशङ्क्य वाक्यैक्यसम्भवे न तद्भेत्तव्यमित्याह —
इहैवेति ।
पूर्ववाक्यस्य कुतो ब्रह्मार्थत्वं, तत्राह —
पूर्वत्रेति ।
शुक्रं शुभ्रं ज्योतिष्मत् ।
तस्यैव पूर्णतामाह —
तद्ब्रह्मेति ।
तस्य कूटस्थतामाह —
तदेवेति ।
तस्य सर्वाधिष्ठानतामाह —
तस्मिन्निति ।
तदेव व्यतिरेकमुखेनाह —
तदु नेति ।
तथापि कथं तदेवात्र वाच्यमित्याशङ्क्य प्रकरणाल्लिङ्गप्रत्यभिज्ञानाच्चेत्याह —
तदेवेति ।
प्राणश्रुत्या मुख्यप्राणे सिद्धे कथं प्रकरणादिनार्थान्तरधीरित्याशङ्क्याह —
प्राणेति ।
एकवाक्यताकाङ्क्षप्रकरणानुगृहीतबहुलिङ्गविरोधे ब्रह्मणि प्रयुक्तपूर्वप्राणशब्दस्य न मुख्यार्थोऽस्तीत्यर्थः ।
उत्सूत्रं सिद्धान्तमुक्त्वा सर्वजगत्कम्पहेतुत्वं लिङ्गान्तरं सूत्रयोजनया दर्शयति —
एजयितृत्वमिति ।
तत्र हेतुः —
तथा चेति ।
केन तर्हि मर्त्यानां जीवनं, तत्राह —
इतरेणेति ।
इतरं स्फोरयति —
यस्मिन्निति ।
पूर्वत्र ब्रह्मोक्तेरत्रापि तदेकवाक्यत्वात्तदेवोक्तमित्युक्तम् ।
इदानीमुत्तरवाक्येऽपि ब्रह्मोक्तिमाह —
उत्तरत्रेति ।
अस्येश्वरस्य भयादग्निसूर्यौ तपतः । इन्द्रादयः स्वव्यापारेषु धावन्ति । मृत्योरुक्तानपेक्ष्य पञ्चमत्वम् ।
कथमत्र ब्रह्मोक्तं, वायुरेवाग्न्यादिभयकारणं किं न स्यात् , तत्राह —
सवायुकस्येति ।
तथापि कथं प्रकृते ब्रह्मोक्तिरित्याशङ्क्य प्रकरणानुगृहीतभयहेतुत्वलिङ्गप्रत्यभिज्ञानादित्याह —
तदेवेति ।
अशनौ प्रसिद्धवज्रशब्दस्य ब्रह्मविरोधित्वान्नात्र ब्रह्मोक्तमित्याशङ्क्याह —
वज्रेति ।
तस्य भयहेतौ ब्रह्मणि प्रवृत्तिं दृष्टान्तेन स्फुटयति —
यथेति ।
भयहेतुत्वस्य श्रुत्यन्तरे ब्रह्मणः सिद्धेस्तत्प्रत्यभिज्ञानादपि ब्रह्मैवेदमित्याह —
तथा चेति ।
भीषा भयेनास्माद्ब्रह्मणो निमित्तादिति यावत् ।
ब्रह्मैवात्र प्रतिपाद्यमित्यत्र लिङ्गान्तरमाह —
अमृतत्वेति ।
श्रुतस्य फलस्य ब्रह्मधिया व्याप्तिमाह —
ब्रह्मेति ।
व्याप्तिभङ्गमुक्तमनूद्य प्रत्याह —
यत्त्विति ।
'अपपुनर्मृत्युं जयति’ इत्यपमृत्युजयस्योक्तेरित्यर्थः ।
तस्यापेक्षिकत्वे हेत्वन्तरमाह —
तत्रैवेति ।
पञ्चमेऽध्याये सूत्रोक्त्यनन्तरमेव परमात्मानमन्तर्यामिणं प्रकृत्य ततोऽन्यस्य नाशित्वोक्तेर्वायुज्ञानाधीनममृतत्वमापेक्षिकमित्यर्थः ।
एजतिवाक्ये ब्रह्मैव प्रतिपाद्यमित्यत्र मानान्तरमाह —
प्रकरणादिति ।
तस्य परमात्मविषयत्वे हेतुमाह —
अन्यत्रेति ॥ ३९ ॥
बहुलिङ्गविरोधेन श्रुतिबाधवत्प्रकरणानुगृहीतोत्तमपुरुषश्रुत्या ज्योतिःश्रुतेर्मुख्यार्थबाधमाह —
ज्योतिरिति ।
दहराधिकरणे ज्योतिःशब्दं ब्रह्मेति सिद्धवदादाय ब्रह्मरूपेणोच्यते जीव इत्युक्तम् ।
इदानीं ब्रह्मैव ज्योतिःशब्दमित्येतद्विशदयितुं तदेव वाक्यमाह —
एष इति ।
परं ज्योतिरिति श्रुतिभ्यां संशयमाह —
तत्रेति ।
विषयो घटादिस्तस्यावरकं बाह्यं तमस्तदपहतिकारणमादित्याख्यं तेजस्तदिह ज्योतिरुच्यते, ज्योतिःश्रुतेस्तत्र रूढत्वादित्येकः पक्षः ।
ज्योतिर्विशेषणस्य परत्वस्य निरतिशयत्वस्य ब्रह्मणोऽन्यत्रायोगात्तदेव ज्योतिरिति पक्षान्तरं प्रश्नपूर्वकं पूर्वपक्षयति —
किमिति ।
न च प्रकरणात्प्राणस्येव ज्योतिषो ब्रह्मत्वं, तत्र सर्वशब्दश्रुतिसङ्कोचवत्प्रकृते प्रकरणानुग्राहकाभावात् , परशब्दस्य विशेषणार्थस्य विशेष्यानुसारेणादित्येऽपि नेयत्वादुक्तश्रुतेर्निर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रूत्यादिसङ्गतयः । पूर्वोत्तरपक्षयोरादित्योपास्त्या क्रममुक्तिः, ब्रह्मज्ञानान्मुक्तिरिति फलभेदः । सर्वशब्दस्येवात्र कस्याश्चिदपि क्षुतेरसङ्कोचात्प्रागिवेहापि ‘समुत्थाय’ इत्यादिश्रुत्यसङ्कोचाद्वा युक्तमादित्यग्रहणमिति भावः ।
प्रसिद्धस्याप्रतिपाद्यत्वात्तद्ग्रहणं नेति शङ्कते —
कुत इति ।
अप्रतिपाद्यत्वेऽपि तस्योपास्यत्वेनादेयत्वमाह —
तत्रेति ।
ज्योतिरधिकरणन्यायेनास्यापि निर्णयात्पूर्वपक्षानुत्थानादनारभ्यमेतदधिकरणमित्याशङ्क्याह —
ज्योतिरिति ।
ब्रह्मणो गायत्रीवाक्ये प्रकृतत्वात्तस्य सर्वनाम्ना परामृष्टस्य द्युसम्बन्धलिङ्गात्प्रत्यभिज्ञानात्तत्र ज्योतिःशब्दो ब्रह्मणि प्रसिद्धिमुल्लङ्घ्य नीतः । न च तथास्मिन्वाक्ये ज्योतिःशब्दस्य स्वार्थत्यागे हेतुरदृष्टत्वादित्यगतार्थतेत्यर्थः ।
नन्वत्रापि परं ज्योतिरिति ज्योतिषो विशेषणं स्वरूपाभिनिष्पत्तिरुत्तमपुरुषत्वं चादित्येऽनुपपन्नं ज्योतिःशब्दस्य प्रसिद्धार्थत्यागे हेतुरस्तु, नेत्याह —
तथा चेति ।
‘अथ या एता हृदयस्य नाड्यः’ इत्यादि नाडीखण्डः । तत्रादित्यग्रहानुरोधेन मुमुक्षोस्तत्प्राप्तिरभिहितेति सम्बन्धः । विशेषज्ञानोपरमानन्तर्यमथशब्दार्थः । यत्रेत्यारब्धकर्मावसानकालोक्तिः । एतदुत्क्रमणं यथा तथेति क्रियाविशेषणम् । अस्मादभिमानविषयाद्देहादुत्क्रमणं यदा करोत्यथ तदैतैरादित्यस्य रश्मिभिरालम्बनैरूर्ध्वः सन्नाक्रमत उपरि गच्छतीत्युपक्रम्यादित्यं गच्छतीत्युपसम्पत्तव्यस्य ज्योतिषो यथादित्यत्वं तथा श्रुतं तस्यापि परत्वमर्चिरादिभ्यो युक्तं समुत्थायोपसम्पद्येति च पूर्वकालार्थक्त्वाश्रुतेर्ब्रह्मपक्षे बाधाद्देहाभिमानत्यागरूपमुत्थानं कृत्वोपसम्पद्य कार्यब्रह्मलोकं गत्वा स्वेन रूपेणाभिनिष्पद्यते स चोत्तमः पुरुष इत्यङ्गीकारे सर्वाविरोधादादित्यपक्षो ज्योतिःश्रुत्या क्त्वाश्रुतिभ्यां चाभ्युपेय इत्यर्थः ।
भार्गपर्वभूतादित्योपास्त्या तत्प्राप्तिद्वारा क्रममुक्तिपरं वाक्यमित्युपसंहरति —
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञामाह —
एवमिति ।
श्रुतिभिस्तेजसो ग्राह्यत्वे कुतो ब्रह्मधीरिति पृच्छति —
कस्मादिति ।
हेतुमादाय व्याचष्टे —
दर्शनादिति ।
परस्य ब्रह्मणोऽस्मिन्प्रकरणे वक्तव्यत्वेनानुवृत्तिदर्शनं हेतुना साधयति —
य इति ।
प्रकरणाविच्छेदं कथयति —
एतमिति ।
किञ्चार्चिराद्यपेक्षया परं ज्योतिरादित्यश्चेत्तत्प्राप्त्या विदुषो नाशरीरत्वं, आदित्यस्य देवतात्मनः सशरीरत्वात् ।
न च तत्प्राप्त्या स्वरूपाभिनिष्पत्तिः, अन्यस्यान्यात्मतायोगादित्याह —
अशरीरमिति ।
उपास्त्या तत्प्राप्तावशरीरत्वमाशङ्क्याह —
ब्रह्मेति ।
इतश्चात्र ब्रह्मैव ज्योतिरित्याह —
परमिति ।
शरीरादुत्थितस्यानन्तरमुपसम्पत्तव्यत्वमादित्यस्य नाडीखण्डे दृष्टमिति लिङ्गानुगृहीतां ज्योतिरादिश्रुतिमपहतपाप्मत्वादिपरमात्मप्रकरणानुगृहीतोत्तमपुरुषादिश्रुत्या बाधित्वा परं ब्रह्म ज्योतिरास्थेयं, एकवाक्यतापादकफलवत्प्रकरणोपेतश्रुतेर्विफललिङ्गसङ्गतिश्रुतितो बलीयसीत्वात् , अस्य हि निर्गुणविद्यायां श्रूताशरीरताफलायामर्चिराद्यनवतारादादित्यानर्थक्यान्मार्गपर्वत्वेन तस्य सगुणविद्यासूपदिष्टत्वादेवोत्कर्षायोगादत्र ज्योतिर्मात्रश्रुतेर्मार्गानुक्तेरादित्योक्तौ श्रुतित्रयानर्थक्यात् , ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम् ‘इति न्यायाद्बलवत्प्रकरणोपेतप्रागुक्तश्रुत्या ब्रह्मैव ज्योतिरिति भावः ।
परोक्तमनुभाष्य दूषयति —
यत्त्विति ।
आत्यन्तिकेऽपि मोक्षे तदुभयं स्यादित्याशङ्क्य बादर्यधिकरणविरोधान्मैवमित्याह —
नहीति ।
पूर्वापरालोचनायामत्र क्रममुक्त्यप्रतीतेर्बाधित्वा क्त्वाश्रुतिं परस्य ज्योतिषो ब्रह्मणः प्राप्तिरेव स्वरूपाभिनिष्पत्तिः, तस्यैवोत्तमपुरुषतेत्युपेत्य वाक्यस्य ब्रह्मपरत्वमास्थेयम् । अतो ब्रह्माज्ञानात्तत्प्राप्तिरिति भावः ॥ ४० ॥
प्रकरणोपेतोत्तमपुरुषादिश्रुत्या ज्योतिरादिश्रुतेर्बाध उक्तः । इदानीमात्मब्रह्मश्रुतिभ्यां लिङ्गानुगृहीताभ्यामाकाशश्रुतेर्बाधमाह —
आकाश इति ।
छान्दोग्यवाक्यमुदाहरति —
आकाश इति ।
आकाशब्रह्मश्रुतिभ्यां संशयमुक्त्वा पूर्वपक्षयति —
तदित्यादिना ।