न्यायनिर्णयव्याख्या
१ परिच्छेदः
यथोपक्रमादर्थान्तरे प्रसिद्धोऽपि ज्योतिःशब्दः स्वार्थात्प्रच्यावितस्तथाकाशोपक्रमाद्ब्रह्मादिशब्दः स्वार्थात्प्रच्याव्यतामिति मत्वा हेतुमाह —
आकाशेति ।
निर्विशेषे ब्रह्मण्युक्तश्रुतेरन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे वाय्वादिमात्राधिष्ठानाकाशात्मकब्रह्मोपास्त्या क्रममुक्तिः, सिद्धान्ते सर्वाधिष्ठानब्रह्मधिया साक्षान्मुक्तिरिति फलभेदः ।
रूढिग्रहे तस्य नामरूपनिर्वहणमयुक्तमित्याशङ्क्य नामरूपशब्दाभ्यां प्रसिद्धदेवदत्तादिसंज्ञानां सितासितादिरूपाणां च स्वीकारात्तदाश्रयावकाशदानद्वारा भूताकाशेऽपि तन्निर्वहणं युक्तमित्याह —
नामेति ।
‘आकाशस्तल्लिङ्गात्’ इत्यनेन गतार्थत्वमाशङ्क्याह —
स्रष्टृत्वादेश्चेति ।
तत्र हि सर्वजगदुत्पत्तेरेवकारसिद्धनिरपेक्षकारणत्वस्य प्रश्नप्रत्युक्तिसामानाधिकरण्यसामर्थ्यस्य च दृष्टेर्ब्रह्मपरत्वं, नैवमिह तत्परत्वे किञ्चिदसाधारणं लिङ्गमित्यगतार्थतेत्यर्थः । तस्य च श्रुत्या प्रसिद्धवदुपादानात्प्रमितस्य बृहत्त्वाद्ब्रह्मत्वं, आभूतसम्प्लवस्थानादमृतत्वं, आप्नोतीत्यात्मत्वं व्यापित्वात् । तस्मान्नामादिवद्भूताकाशोपास्त्यर्थं वाक्यमित्यर्थः ।
पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति —
एवमिति ।
आकाशशब्दाद्भूताकाशो भाति, कुतो ब्रह्मधीरित्याह —
कस्मादिति ।
हेतुमादायार्थान्तरत्वव्यपदेशं विशदयति —
अर्थान्तरत्वादीति ।
भूताकाशस्यापि नामरूपाभ्यामर्थान्तरत्वं, देवदत्तादिशब्दस्य नामत्वान्नीलपीतादे रूपत्वात्ताभ्यामन्यत्वस्य भूताकाशे सिद्धत्वादित्याशङ्क्याह —
न चेति ।
यत्र नामरूपशब्दौ सम्भूयोक्तौ तत्र शब्दार्थावेव श्रुतिषु गृह्येते ‘तन्नामरूपाभ्यामेव’ इत्यादौ तथा दृष्टेः । न च शब्दार्थान्तर्भूतस्य भूताकाशमपि ततोऽर्थान्तरत्वमित्यर्थः ।
किञ्च भूताकाशमपि विकारतया नामरूपान्तर्भूतं कथमात्मानमुद्वहेत् , न च तन्निर्वाहकत्वं निरङ्कुशं श्रुुतं परतन्त्रभूताकाशे कथञ्चिन्नेयमित्याह —
नामेति ।
अन्यत्र तन्निर्वहणस्य ब्रह्मकर्तृकत्वसिद्धेस्तदेवात्रापि प्रत्यभिज्ञातमित्याह —
अनेनेति ।
नामरूपनिर्वाहकत्वमादिशब्दोक्तं न ब्रह्मसाधारणमिति शङ्कते —
नन्विति ।
जीवस्य तन्निर्वाहकत्वेऽपि ब्रह्माभेदात्तस्य ब्रह्मासाधारणतेत्याह —
बाढमिति ।
स्रष्टृत्वादिब्रह्मलिङ्गमिह नेत्युक्तं प्रत्याह —
नामेति ।
आकाशशब्दस्य ब्रह्मार्थत्वे लिङ्गान्येव सन्ति, भूताकाशार्थत्वे श्रुतिलिङ्गे स्तः । तथा च केवललिङ्गेभ्यस्तयोर्बलीयस्त्वाद्भूताकाशग्रहणमित्याशङ्क्यात्रापि ब्रह्मात्मश्रुती विद्येते इत्याह —
तदिति ।
उपक्रमस्थाकाशश्रुतेः ‘आकाशो वै नाम’ इति प्रसिद्धलिङ्गाच्च नामरूपनिर्वहणतदर्थान्तरत्वामृतत्वलिङ्गानुगृहीते ब्रह्मात्मश्रुती बलवत्याविति भावः ।
‘आकाशस्तल्लिङ्गात् ‘ इत्यत्रोपक्रमोपसंहाराभ्यां प्रतिपाद्यतया तात्पर्यवदानन्त्यलिङ्गादाकाशस्य ब्रह्मत्वमुक्तं, इहापि श्रुत्यन्तरसिद्धनामादिनिर्वाहकत्वसंवादेन तात्पर्यवल्लिङ्गादाकाशस्य ब्रह्मत्वमुच्यते, तत्कथं पृथगारम्भ इत्याशङ्क्याह —
आकाश इति ।
तत्र स्रष्टृत्वस्पाष्ट्यवदिह नेति विशेषोऽस्तीति भावः ॥ ४१ ॥
श्रुत्युपेतलिङ्गेन श्रुतेर्बाधमुक्त्वा लिङ्गेन लिङ्गस्यैव बाधमाह —
सुषुप्तीति ।
साकाङ्क्षत्वं वारयति —
व्यपदेशादिति ।
षष्ठाध्यायवाक्यजातं विषयत्वेनोदाहरति —
बृहदिति ।
देहादीनामन्यतमो वा तदतिरिक्तो वात्मेति जनकस्य प्रश्ने याज्ञवल्क्यस्योत्तरम् —
योऽयमिति ।
विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः । प्राणेषु हृदीति व्यतिरेकार्थे सप्तम्यौ । प्राणबुद्ध्यातिरिक्त इत्यर्थः ।
बुद्धिवृत्तेर्विविनक्ति —
अन्तरिति ।
अज्ञानाद्भिनत्ति —
ज्योतिरिति ।
पुरुषः पूर्णो योऽयमेवंभूतः स आत्मेत्यर्थः ।
तदेव वाक्यमधिकृत्योपक्रमस्थविज्ञानमयशब्दादुपसंहारस्थसर्वेशानादिशब्दाच्च संशयमाह —
तदिति ।
अङ्गुष्ठमात्रश्रुतावुपक्रमोपसंहारौ न जीवार्थावत्र तथेत्यगतार्थत्वं मत्वा प्रश्नपूर्वकं पूर्वपक्षयति —
किं तावदिति ।
नामरूपाभ्यां भेदवादादाकाशं ब्रह्मेत्युक्ते भेदवादो नैकान्तः, असत्यपि भेदे ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ इति भेदोपचारादित्याशङ्क्यात्रापि मुख्यभेदसाधनादधिकरणसङ्गतिः । षष्ठाध्यायस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवानुवादेन कर्तृस्तुतिः, सिद्धान्ते तदनुवादेन तद्याथार्थ्यधीरिति फलभेदः ।
जीवे महानित्याद्ययुक्तमित्याह —
कुत इति ।
आदिमध्यावसानेषु जीवोक्तेस्तत्परे सन्दर्भे महानज इत्यादि तत्रैव कथञ्चिन्नेयमित्याह —
उपक्रम इति ।
जीवानुवादेन कर्मापेक्षितकर्तृस्तुत्या तदधिकारसिद्धिरत्रेष्टेत्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनुभाष्य सिद्धान्तयन्बहिरेव प्रतिज्ञामाह —
एवमिति ।
उपक्रमोपसंहारपरामर्शानां जीवार्थतया तत्परे सन्दर्भे कथमीश्वरोक्तिरित्याह —
कस्मादिति ।
तत्र हेतुं सोपस्कारमवतारयति —
सुषुप्ताविति ।
सौषुप्तं भेदवादमुदाहरति —
सुषुप्तौ तावदिति ।
करशिरश्चरणादिमति शरीरे पुरुषशब्दात्कुतः शारीरात्परस्य भेदः, तत्राह —
तत्रेति ।
तस्य वेदितृत्वेऽपि प्रकृते वेदितृत्वं नापेक्ष्यं, तदा बाह्यान्तरार्थधीनिषेधादित्याशङ्क्याह —
बाह्येति ।
पुरुषस्य शारीरत्वेऽपि प्रकर्षेणाज्ञ इति व्युत्पत्त्या प्राज्ञशब्देनापि तस्यैवोक्तेर्भेदोक्तेरौपचारिकत्वान्न शारीरात्परस्य भेदोक्तिरित्याशङ्क्याह —
प्राज्ञ इति ।
योगाद्रूढेर्बलीयस्त्वं मत्वा हेतुमाह —
सर्वेति ।
औत्क्रान्तिकीमपि भेदोक्तिं दर्शयति —
तथेति ।
अन्वारूढोऽधिष्ठित उत्सर्जन्नानावेदनातः शब्दं कुर्वन्निति यावत् ।
शारीरशब्दस्य शरीरसम्बन्धिमात्रत्वात्प्राज्ञश्च प्रज्ञातिशयत्वात्कुतो भेदधीरित्याशङ्क्य रूढिबलीयस्त्वन्यायेनाह —
तत्रेत्यादिना ।
भेदोक्तिफलमाह —
तस्मादिति ।
पूर्वपक्षबीजमनुभाष्य दूषयति —
यदुक्तमिति ।
उपक्रमस्य संसार्यर्थत्वं निरस्यति —
उपक्रम इति ।
तस्य प्रश्नद्वारा विषयमाह —
किमिति ।
अनुवादमात्रमेवात्रेष्टं किं न स्यादित्याशङ्क्याह —
यत इति ।
बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव चलन्त्यां चलतीव । वस्तुतो न ध्यायति न चलतीत्यर्थः ।
उपसंहारानुसारेणोपक्रमस्यैकस्मिन्वाक्ये नेयत्वात्तस्य संसार्यर्थत्वादुपक्रमस्य तदर्थतेत्याशङ्क्याह —
तथेति ।
तस्य परमार्थत्वं वाक्यार्थोक्त्या वक्ति —
योऽयमिति ।
परामर्शस्य संसारिगामित्वमुक्तमनूद्य पूर्वापरविरोधेन प्रत्याह —
यस्त्विति ।
बुद्धान्तो जागरितम् ।
संसारिस्वरूपबुद्धेर्वाक्याननुगुणत्वे हेतुमाह —
यत इति ।
अवस्थावत्त्वेन संसारित्वे दृष्टेऽपि तद्राहित्यमभिप्रेतमित्यत्र नियामकं पृच्छति —
कथमिति ।
एकस्मिन्वाक्ये प्रसिद्धाप्रसिद्धयोर्लिङ्गेषु प्रसिद्धार्थानुवादेनाप्रसिद्धार्थ एव प्रतिपाद्यो वाक्यस्यापूर्वार्थत्वायेति न्यायेन जीवलिङ्गैस्तदनुवादेन तस्य ब्रह्मता वाक्येनोच्यतेऽन्यथा प्रश्नायोगादित्याह —
यदिति ।
अतः कामादिविवेकानन्तरं विमोक्षाय तदौपयिकसाक्षात्कारायैव ब्रूहीति पुनः पुना राजा यस्मात्पृच्छति तस्मात्प्रश्नसामर्थ्यात्प्रतीचो ब्रह्मता प्रतिपाद्येत्यर्थः ।
न केवलं प्रश्नसामर्थ्यादेवम् , उत्तरसामर्थ्यादपीत्याह —
यच्चेति ।
तेन जाग्रद्भोगादिनानन्वागतोऽस्पृष्टो भवति, असङ्गत्वादिति प्रत्युक्तेरित्यर्थः ।
प्रतिवचनान्तरं दर्शयति —
अनन्वागतमिति ।
आत्मतत्त्वं पुण्यपापाभ्यामनाघ्रातमिति यावत् ।
तदा सुप्तौ हृदयस्य बुद्धेः सम्बन्धिनः शोकान्कामादीनशेषानतिक्रान्तो भवतीत्याह —
तीर्णो हीति ।
अनुवादमात्रस्य प्रश्नप्रत्युक्तिभ्यामयोगे फलितमाह —
तस्मादिति ॥ ४२ ॥
वाक्यस्यासंसारिपरत्वे हेत्वन्तरमाह —
पत्यादीति ।
सूत्रे हेत्वन्तरद्योतिचकाराभावात्तदविषयत्वमाशङ्क्य व्याचष्टे —
इतश्चेति ।
तत्र हेतुभावं योजयति —
यदिति ।
तत्रासंसारिविषयं शब्दजातमुदाहरति —
सर्वस्येति ।
स्वाधीनं सर्वमपि नियन्तुं शक्तिरस्तीति वक्तुं द्वितीयं विशेषणम् । स्वाधीनं स्वनियम्यं च सर्वमधिष्ठाय पालयतीति वक्तुं तृतीयम् ।
संसारिस्वभावनिषेधकं शब्दजातमादत्ते —
स नेति ।
श्रुतिलिङ्गसिद्धमुपसंहरति —
तस्मादिति ।
निर्विशेषप्रचुराणां वाक्यानां सिद्धोऽन्वयो ब्रह्मणीति पादार्थमुपसंहरति —
इत्यवगम्यत इति ॥ ४३ ॥
इति श्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकन्यायनिर्णये प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥
॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पादः ॥
प्रसिद्धगोचरलिङ्गस्याप्रसिद्धगोचरलिङ्गेन बाध्यत्ववत्प्रकरणोपेतस्थानात्तत्तुल्यस्थानस्यैव बाधमाशङ्काद्वारा कथयति —
आनुमानिकमिति ।
वेदान्तानां ब्रह्मणि समन्वयार्थमध्यायारम्भादत्र तदभावादध्यायासङ्गतिमाशङ्क्य वृत्तं कीर्तयति —
ब्रह्मेति ।
तदशब्दत्वेन प्रधानवादिवैदिकशब्दशून्यत्वेनेत्यर्थः ।
ब्रह्मणोऽपि तुल्यमशब्दत्वमित्याशङ्क्याह —
गतीति ।
तर्हि समन्वयस्य सिद्धत्वात्कृतं पादेनेत्याशङ्क्याह —
इदमिति ।
अवशिष्टमनाशङ्कितमनिराकृतं चेत्यर्थः ।
शङ्कामेव दर्शयति —
यदिति ।
प्रतीत्या प्रधानार्पकत्वेऽपि वस्तुतो नेति वक्तुमाभासपदम् ।
ननु प्रधानस्य स्वरूपमेवार्प्यते न जगत्कारणत्वं तत्कुतोऽतिव्याप्तिः शङ्क्यते, तत्राह —
अत इति ।
‘महतः परमव्यक्तम्’ इत्यत्राव्यक्तस्य प्रधानस्य कारणत्वं परशब्दाद्गम्यते । स हि प्रकर्षवाची । प्रकर्षश्च महतोऽव्यक्तस्य तत्कारणत्वं ‘अजामेकाम्’ इत्यादौ साक्षादेव प्रधानस्य कारणतासिद्धिः । कपिलादिस्मृतयश्चोक्तश्रुत्यनुसारिण्यस्तदर्थाः । तेन श्रुतिस्मृतिसिद्धा प्रधानकारणतेत्यतिव्याप्तिरित्यर्थः ।
तथापि कारणत्वं तद्वादिवाक्योक्तेर्ब्रह्मणो युक्तं, षोडशिग्रहणवत्कारणे विकल्पसम्भवात् , तत्राह —
तदिति ।
क्रियायामिव वस्तुनि विकल्पायोगादिति भावः ।
सूत्रितं प्रधानाशब्दत्वं समन्वयदार्ढ्याय प्रपञ्चयितुं पादारम्भ इत्यस्त्येव सङ्गतिरित्युपसंहरति —
अत इति ।
पूर्वं प्रधानाद्येव वेदान्तार्थ इत्युक्ते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मधीरुक्ता, तामुपेत्याधुना प्रधानाद्यपि कारणत्वेन समन्वयार्थः ।
न चानेककारणवैयर्थ्यं, कल्पभेदेन व्यवस्थानादित्याह —
आनुमानिकमिति ।
अपिशब्दादेकशब्दाच्च ब्रह्माङ्गीकारेण पूर्वपक्षो विचारश्चायं क्वाचित्क इति सूचितम् ।
अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपारिशेष्याभ्यामुभयप्रत्यभिज्ञया संशये प्रसिद्धजीवोक्तिभङ्गेनाप्रसिद्धब्रह्मोक्तिवदप्रसिद्धप्रधानोक्तिपरमेव काठकवाक्यमिति पूर्वपक्षयन्नुपलब्धिमुदाहरति —
काठके हीति ।
अत्र प्रधानस्याशब्दत्वप्रतिपादनेन समन्वयदार्ढ्यादस्ति श्रुत्यादिसङ्गतिः । पूर्वपक्षे प्रधानस्यापि शब्दवत्त्वाद्ब्रह्मण्यन्वयानियतिः, सिद्धान्ते तस्याशब्दत्वाद्ब्रह्मण्यन्वयनियतिरिति फलभेदः ।
कथमत्र प्रधानमव्यक्तपदादुक्तमित्याशङ्क्य प्रधाने स्थानं मानमाह —
तत्रेति ।
स्मृतिः साङ्ख्यस्मृतिः । श्रुतिः सप्तम्यर्थः ।
अव्यक्तश्रुतिरपि प्रधाने मानमित्याह —
तत्रेति ।
साङ्ख्यस्मृतिसिद्धप्रधानस्याव्यक्तशब्देनोक्तौ तदीयां रूढिं हेतूकरोति —
स्मृतीति ।
पारिभाषिकत्वादव्यक्तशब्दस्यानिर्णायकत्वमाशङ्क्योक्तं —
शब्दादीति ।
रूढियोगाभ्यामव्यक्तशब्दस्य प्रधानवाचित्वे फलितमाह —
तस्येति ।
तथापि कारणत्वं तस्याशब्दमित्याशङ्क्याह —
तदिति ।
श्रुतिः ‘अजामेकाम्’ इत्याद्या । स्मृतिः साङ्ख्यीया । ‘विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्’ इत्याद्या च । ‘भेदानां परिमाणात्’ इत्यादिर्न्यायः । नच प्रकरणपारिशेष्याभ्यां शरीरमव्यक्तं, तस्य स्पष्टत्वेन तच्छब्दानर्हत्वात् । अतो जगत्कारणस्य प्रधानस्य शब्दवत्त्वान्न गतिसामान्यमित्यर्थः ।
स्थानादिभिरुक्तं प्रत्याह —
नैतदिति ।
तत्रादौ श्रुतिं निराह —
नहीति ।
कुतो न तदस्तित्वपरं स्मार्तप्रधानस्यैवात्र प्रत्यभिज्ञानात् , नेत्याह —
नहीति ।
यादृशमित्यस्य व्याख्यानम् —
स्वतन्त्रमित्यादि ।
साङ्ख्यस्मृतिसिद्धाव्यक्तशब्दस्य श्रुतावपि प्रयोगात्तेन प्रत्यभिज्ञातं प्रधानमित्युक्तमाशङ्क्याह —
शब्देति ।
शब्दस्यार्थव्याप्तेरर्थस्यापि प्रत्यभिज्ञानमाशङ्क्य यौगिकत्वात्तदेकार्थासिद्धिरित्याह —
स चेति ।
रूढ्या तन्मात्रसिद्धौ कुतो योगाद्दुर्बलादर्थान्तरं शङ्क्यते, तत्राह —
न चेति ।
परस्य प्रधाने रूढिरव्यक्तशब्दस्यास्तीत्याशङ्क्याह —
या त्विति ।
नहि परीक्षकाणां पारिभाषिकी प्रसिद्धिर्वेदार्थनिर्णयनिमित्तं, परीक्षकविप्रतिपत्त्या वेदार्थेऽपि तत्प्रसङ्गात् । लौकिकी प्रसिद्धी रूढिः । तथा ‘य एव च लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः’ इति न्यायादित्यर्थः ।
श्रूतिं दूषयित्वा स्थानं दूषयति —
न चेति ।
मात्रचोऽर्थं स्फुटयति —
असतीति ।
स्थानस्यापि नास्ति तद्रूपप्रत्यभिज्ञापेक्षा स्वत एव प्रमाणत्वेन निश्चायकत्वादित्याशङ्कया तद्रूपविपरीतप्रत्यभिज्ञासत्त्वमत्रेष्टमिति मत्वा विपरीतरूपज्ञाने स्थानादर्थासिद्धौ दृष्टान्तमाह —
नहीति ।
कथं तर्हीह विपरीतरूपप्रत्यभिज्ञेत्याशङ्क्य सूत्रभागमवतार्य विभजते —
प्रकरणेति ।
‘आत्मानं रथिनं विद्धि’ इत्यस्मिन्वाक्ये बुद्ध्यात्मनोर्मध्ये शरीरस्य श्रुतत्वात्तदेवत्रापि महच्छब्दितबुद्धिपुरुषमध्यस्थमव्यक्तशब्देन गृह्यते । श्रौतक्रमस्य स्मार्तक्रमाद्बलीयस्त्वादित्यर्थः ।
उभयोरपि स्थानत्वात्कुतः श्रौतं स्थानमास्थाय शरीरमेव ग्राह्यमित्याह —
कुत इति ।
प्रकरणाद्यनुगृहीतत्वेन श्रौतक्रमस्य प्राबल्यादित्याह —
प्रकरणादिति ।
तदुभयं वक्तुमुपक्रमते —
तथाहीति ।
तत्र प्रकरणं विविच्य दर्शयति —
अतीतेति ।
रूपकक्लृप्तिः सादृश्यकल्पना । आत्मनो भोक्तू रथित्वं शरीराख्यरथस्वामित्वम् ।
तत्र हि भोक्ता प्रधानं स्थूलं शरीरं भोगायतनत्वेन गुणतया रथवदवधेयमित्याह —
आत्मानमिति ।
विवेकाविवेकप्रधानवृत्तिभ्यां बुद्धिरेव शरीरद्वारा सुखदुःखे भोक्तानमुपनयतीति मत्वाह —
बुद्धिमिति ।
मनसाऽश्वरशनास्थानीयेन विवेकिना विषयेभ्यः श्रौत्रादीनि निगृह्यन्ते, तेनाविवेकिना तेषु प्रवर्त्यन्ते, तेन मनसो युक्तं प्रग्रहत्वमित्याह —
मन इति ।
असंयतानीन्द्रियाणि पुरुषं संसारानर्थं, संयतानि मुक्तिद्वारं प्रापयन्तीत्याह —
इन्द्रियाणीति ।
यथाश्वोऽध्वानमालक्ष्य चरत्येवमिन्द्रियहयाः ।
स्वार्थमुपलभ्य चरतीत्याह —
विषयानिति ।
शरीरादिषु मध्ये शब्दादीन्विषयानिन्द्रियहयगोचरानाहुरिति योजना ।
ननु मार्गे रथिनो रथाद्यपेक्षा न भोगे चिद्रूपतया स्वभावेनैव तद्योगादतो देहादीनां रथादिकल्पनावैषम्यं, तत्राह —
आत्मेति ।
आत्मा भोक्तेत्याहुरिति सम्बन्धः ।
तस्यासङ्गस्यार्थेन्द्रियासंनिकर्षे भोगायोगादिन्द्रियमनोयोगो यथा भवतीति क्रियाविशेषणेन तस्य भोक्तृत्वमुपपादयति —
इन्द्रियेति ।
यद्वात्मा देहः, देहेन्द्रियादिषु युक्तमात्मानं भोक्तेत्याहुरिति योजना ।
प्राकरणिकसम्बन्धस्याकाङ्क्षाधीनत्वात्पूर्ववाक्यस्थदेहस्याव्यक्तशब्दाकाङ्क्षां वक्तुं रथादिरूपककल्पनाफलं वदन्परमपदस्य प्रकरणिनो मुख्यस्याकाङ्क्षामवतारयति —
तैश्चेति ।
परमपदस्य स्वरूपे परत्वे चाकाङ्क्षामाह —
किमिति ।
आकाङ्क्षाद्वयशान्तयेऽनन्तरं ग्रन्थमादत्ते —
तेभ्य इति ।
पूर्ववाक्ये शरीरस्य प्रकृतत्वेऽपि प्रधानमेवात्राव्यक्तमित्याशङ्क्याह —
तत्रेति ।
प्रकरणं पदर्श्य परिशेषं दर्शयितुमारभते —
तत्रेति ।
पूर्वत्रानुक्तानामर्थानामिहोक्तिवत्प्रधानस्यापि स्यादित्याशङ्क्य तेषां विषयशब्देनोक्तेर्मैवमित्याह —
अर्था इति ।
अर्थशब्देन विषयोक्तिरयुक्ता, विषयाणामिन्द्रियेभ्योऽन्तरङ्गेभ्यो बाह्यतया परत्वायोगादित्याशङ्क्याह —
तेषां चेति ।
आन्तरत्वेन श्रेष्ठत्वाभावेऽपि तेषामतिग्रहतया ग्रहरूपेन्द्रियापेक्षया प्राधान्यस्य श्रुत्युक्तत्वात्परत्वम् । ‘अष्टौ ग्रहा अष्टावतिग्रहाः’ इति श्रुत्या घ्राणजिह्वावाक्चक्षुःश्रोत्रमनोहस्तत्वगिन्द्रियेभ्यो ग्रहेभ्यो गन्धरसनामरूपशब्दकामकर्मस्पर्शविषया अतिग्रहा उक्ताः । तत्र गृह्णन्ति वशीकुर्वन्ति पुरुषमिति ग्रहा इन्द्रियाणि । तेषामपि ग्राहकत्वं विषयाधीनमित्यतिग्रहा विषयास्तेनातिग्रहतया तेषां प्राधान्यमित्यर्थः ।
तर्हि कथमर्थेभ्यो मनसः परत्वं, तस्यापि ग्रहत्वेन घ्राणादिसाम्यादित्याशङ्क्य स्वगतविशेषणार्थेभ्यस्तस्य परत्वमाह —
विषयेभ्यश्चेति ।
तथापि कथं बुद्धेर्मनसः सकाशात्परत्वं, तयोर्भोक्तारं प्रत्यविशेषादित्याशङ्क्याह —
मनसस्त्विति ।
निश्चयद्वारा विषया भोक्तुरुपकुर्वन्ति निश्चयश्च बुद्धिरिति संशयात्मकमनसो बुद्धिप्राधान्यमित्यर्थः ।
बुद्ध्युपहितस्यात्मनस्ततो न परत्वं महत्त्वं चेत्याशङ्क्य यो रथित्वेन पूर्वत्रोक्तः सोऽत्र गृह्यत इत्याह —
बुद्धेरिति ।
तत्प्रत्यभिज्ञानं तत्र हेतूकुर्वंस्तद्धेतुमाह —
आत्मेति ।
यत्तु कथमस्य परत्वमिति, तत्राह —
भोक्तुश्चेति ।
यत्पुनर्न तस्य महत्त्वमिति, तत्राह —
महत्त्वं चेति ।
तर्हि ‘महतः परमव्यक्तम्’ इति न वक्तव्यं, किं त्वात्मनः परमिति, महच्छब्दस्यात्मवाचित्वादित्याशङ्क्याह —
अथवेति ।
सङ्कल्पविकल्परूपमननशक्त्या हैरण्यगर्भी बुद्धिर्मनः ।
तस्या व्यष्टिमनःसु समष्टितया व्याप्तिमाह —
महानिति ।
सङ्कल्पादिशक्तितया तर्हि सन्देहात्मत्वं, तत्राह —
मतिरिति ।
महत्त्वमुपपादयति —
ब्रह्मेति ।
भोग्यजाताधारत्वमाह —
पूरिति ।
निश्चयात्मत्वमाह —
बुद्धिरिति ।
कीर्तिशक्तिमत्त्वमाह —
ख्यातिरिति ।
नियमनशक्तिमत्त्वमाह —
ईश्वर इति ।
लोके यत्प्रकृष्टं ज्ञानं ततोऽनतिरेकमाह —
प्रज्ञेति ।
तत्फलमपि ततो नार्थान्तरविषयमित्याह —
संविदिति ।
चित्प्रधानत्वमाह —
चितिरिति ।
ज्ञातसर्वार्थानुसन्धानशक्तिमाह —
स्मृतिश्चेति ।
सर्वत्र विद्वत्प्रसिद्धिमनुकूलयति —
परिपठ्यत इति ।
श्रुतिरपि हिरण्यगर्भबुद्धौ वेदाविर्भावमीश्वरानुग्रहवशादभिवदन्ती तदीयां बुद्धिमुक्तलक्षणां विवक्षतीत्याह —
य इति ।
परत्वं तस्याः साधयति —
सर्वासामिति ।
तर्हि पूर्वत्रानुक्तहिरण्यगर्भबुद्धेरिव प्रधानस्यापीहोक्तिः स्यात् , नेत्याह —
सा चेति ।
हिरुगिति पृथक्त्वोक्तिः ।
कथं बुद्धेरेव परा बुद्धिरित्याशङ्क्य सर्वासामित्यत्रोक्तं स्फुटयति —
तस्या इति ।
व्यष्टिबुद्ध्याश्रयत्वात्परा समष्टिबुद्धिरिति बुद्धेरित्यादिना तदुक्तिरविरुद्धेत्यर्थः ।
तर्हि पूर्वाक्तस्य रथिनोऽनुक्तिवदिह शरीरस्यापि च रथस्य स्यादित्याशङ्क्याह —
एतस्मिन्निति ।
ननु पुरुषोक्त्या न रथिग्रहस्तस्य जीवत्वात्पुरुषस्य परमात्मत्वात् , तत्राह —
परमार्थत इति ।
परिशेषमुपसंहरति —
तदेवमिति ।
प्रकरणपरिशेषाभ्यामव्यक्तं शरीरमिति प्रतिज्ञातं निगमयति —
इतराणीति ।
देहादिषु रथादिकल्पनाफलालोचनायामपि शरीरमेवाव्यक्तमित्याह —
शरीरेति ।
सुखादिर्वेदना ।
देहादिसंयोगे हेतुः —
अविद्यावत इति ।
तत्संयोगफलमाह —
भोक्तुरिति ।
देहादिव्यतिरेकबोधाधीनमात्मनो ब्रह्मत्वाधिगतिफलम् । नच प्रतियोगिनो देहादेरग्रहे तद्व्यतिरेकधीः । तथाचेन्द्रियादिवदेव शरीरमपि ग्राह्यमित्यव्यक्तशब्दस्य तदर्थतेत्यर्थः ।
प्रत्यग्ब्रह्मधीरिहाभीष्टेति कथं दृष्टिरित्याशङ्क्यात्मनो दुर्बोधत्वोक्त्या तद्धीहेतुविधेरित्याह —
तथाचेति ।
अप्रकाशस्वभावत्वं व्यासेधति —
दृश्यते त्विति ।
श्रवणादिपरिपाकानन्तर्यमाह —
अग्र्ययेति ।
सूक्ष्मार्थविषयतया सूक्ष्मत्वम् , तन्निष्ठानामेवोक्तबुद्धिद्वारा तद्दर्शनं न बहिर्मुखानामित्याह —
सूक्ष्मेति ।
वाक्यतात्पर्यमाह —
वैष्णवस्येति ।
कुतस्तर्हि तद्धीरित्याशङ्क्यानन्तरवाक्यमवतारयति —
तदिति ।
ब्रह्मात्मधीसाधनविधायि वाक्यं व्याकरोति —
एतदिति ।
वागिति द्वितीयालोपस्य छान्दसत्वाद्वाचमित्युक्तम् । वाचो ग्रहणं बाह्येन्द्रियोपलक्षणमित्युपेत्य वाक्यार्थमाह —
वागादीति ।
तथा च सति मनसि सङ्कल्पादिसम्भवान्नैकरसब्रह्मधीरित्याशङ्क्याह —
मनोऽपीति ।
बुद्धेरपि विषयप्रावण्यात्तस्यां सत्यां न ब्रह्मधीरित्याशङ्क्याह —
तामिति ।
महत्यात्मनि पृथगवस्थिते नैक्यधीरित्याशङ्क्याह —
महान्तं त्विति ।
तस्याधिष्ठानान्तरं नेति सूचयति —
परस्यामिति ।
प्रकरणात्परिशेषाच्चाव्यक्तपदं शरीरमेव दर्शयतीति पूर्वत्र व्याख्यातं दर्शयति —
चेति ।
विधान्तरेऽपि पुनर्व्याख्यायाधुना सूत्रार्थमुपसंहरति —
तदेवमिति ॥ १ ॥
अव्यक्तपदस्य देहे प्रवृत्तियोग्यत्वमाह —
सूक्ष्मं त्विति ।
शङ्कोत्तरत्वेन व्याख्यातुं वृत्तमनूद्य शङ्कां दर्शयति —
उक्तमिति ।
प्रवृत्तिनिमित्ताभावान्न शरीरमव्यक्तशब्दमिति शङ्कामेव विशदयति —
कथमिति ।
दुर्निरूपत्वं तत्राव्यक्तशब्दप्रवृत्तिनिमित्तमित्याशङ्क्याह —
यावतेति ।
स्पष्टतरत्वेन व्यक्तशब्दार्हत्वेऽपि तस्मिन्नव्यक्तपदं किं नोच्यते, तत्राह —
अस्पष्टेति ।
उत्तरत्वेन सूत्रमवतार्य तदक्षराणि व्याकरोति —
अत इति ।
इहेत्युदाहरणोक्तिः ।
स्थूलस्य देहस्य कुतः सूक्ष्मत्वं, तदाह —
कारणेति ।
अव्यक्तशब्देन कारणात्मना सूक्ष्मस्य देहस्य वक्तुमिष्टत्वे हेतुमाह —
सूक्ष्मस्येति ।
अक्षरार्थमुक्त्वा प्रवृत्तिनिमित्तं व्यक्तीकर्तुं विवक्षितमर्थमाह —
यद्यपीति ।
भूतसूक्ष्मस्याव्यक्तशब्दार्हत्वेऽपि किं जातं स्थूलस्य देहस्येत्याशङ्क्याह —
प्रकृतीति ।
प्रकृतेर्विकाराणामनन्यत्वाद्विकारे प्रकृतेरव्यक्तत्वमुपचरितमित्यर्थः ।
प्रकृतिशब्दस्य विकारे प्रयोगे श्रौतं दृष्टान्तमाह —
यथेति ।
गोभिस्तद्विकारैः पयोभिर्मत्सरं सोमं श्रीणीत ‘श्रीञ् पाके’ इत्यस्य धातोर्लोटि मध्यमपुरुषबहुवचनम् । विकारापन्नं कुर्यात् । पाकार्थत्वेऽपि हिरण्येन श्रीणीतेतिवदत्र सम्बन्धार्थत्वं श्रीणीतेरिष्टम् । तथा कारणवाचकमव्यक्तपदं तदभिन्नकार्ये भवत्यौपचारिकमित्यर्थः ।
अव्यक्तात्कारणाद्विकाराणामनन्यत्वे हेतुमाह —
श्रुतिश्चेति ।
अव्यक्तमव्याकृतमित्यनर्थान्तरमित्युपेत्य व्याचष्टे —
इदमिति ।
तदास्य स्वरूपेणासत्त्वं व्यावर्तयति —
बीजेति ।
बीजमेव शक्तिरतीन्द्रियत्वात् । तदात्मना स्थितमिति यावत् ॥ २ ॥
उक्तश्रुत्या प्रधानप्रसक्तिं प्रत्याह —
तदधीनत्वादिति ।
तद्व्याख्यातुमादौ व्यावर्त्यां शङ्कां दर्शयति —
अत्रेति ।
प्रकृता श्रुतिः सप्तम्यर्थः ।
जगतोऽव्यक्तशब्दार्हत्वमिदानीमविवक्षितं, शरीरस्य तु कारणात्मना तच्छब्दत्वं प्रतिज्ञातमित्याशङ्क्याह —
तदात्मनेति ।
सिद्धान्तमनूद्यानिष्टं प्रसञ्जयति —
स एवेति ।
तर्हि तस्यां प्रागवस्थायाम् ।
एवं सति ।
प्रागवस्थं जगदव्यक्तशब्दयोग्यमित्यादाविष्टे सतीत्यर्थः ।
सुखदुःखमोहात्मकं कार्यं तादृगेव कारणं गमयतीति हेतुमाह —
अस्यैवेति ।
तत्र सूत्रमुत्तरत्वेन व्याकर्तुं भूमिकां करोति —
अत्रेति ।
कथं तर्हि भवद्भिरभ्युपगम्यते, तदाह —
परमेति ।
तस्यैव जगदुपादानत्वादानर्थक्यादेषा नोपेयेत्याशङ्क्याह —
सा चेति ।
तदधीनत्वादिति व्याख्यायार्थवदित्यंशं व्याख्याति —
अर्थवतीति ।
तदेव समर्थयते —
नहीति ।
कूटस्थासङ्गाद्वयस्य ब्रह्मणः स्रष्टृत्वानुपपत्त्या मायाशक्तिरेष्टव्येत्युक्तम् ।
इदानीं बन्धमोक्षव्यवस्थानुपपत्तेश्चेत्याह —
मुक्तानां चेति ।
यस्यां सत्यां जननमरणादिः संसारः, यन्निवृत्त्या तन्निवृत्तिः, सा मायाशक्तिरेष्टव्येत्यर्थः ।
ननु न बीजशक्तिर्विद्यया दह्यते, वस्तुत्वात् , आत्मवत् , नेत्याह —
अविद्येति ।
केचित्तु प्रतिजीवमविद्याशक्तिभेदमिच्छन्ति । तन्न । अव्यक्ताव्याकृतादिशब्दायास्तस्या भेदकाभावादेकत्वेऽपि स्वशक्त्या विचित्रकार्यकरत्वादित्याह —
अव्यक्तेति।
न च तस्या जीवाश्रयत्वं, जीवशब्दवाच्यस्य कल्पितत्वात्तदविद्यारूपत्वात्तच्छब्दलक्ष्यस्य ब्रह्माव्यतिरेकादित्याह —
परमेश्वरेति ।
मायाविद्ययोर्भेदादीश्वरस्य मायाश्रयत्वं जीवानामविद्याश्रयतेति वदन्तं प्रत्याह —
मायामयीति ।
यथा मायाविनो माया परतन्त्रा तथैषापीत्यर्थः ।
प्रतीतौ तस्याश्चेतनापेक्षायामाह —
महासुप्तिरिति ।
अग्रहवत्त्वेन विपर्यासवत्त्वेन चानन्तजीवनिर्भासहेतुत्वेनापि सार्थवतीत्याह —
यस्यामिति ।
अर्थापत्त्या मायाशक्तेः सत्त्वमुक्तवा तत्रैव श्रुतिमाह —
तदिति ।
अनवच्छिन्नत्वादाकाशत्वं, तत्त्वज्ञानं विनाऽनिवृत्तेरक्षरत्वं, विचित्रकार्यत्वान्मायात्वमिति भेदः ।
इदानीमनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह —
अव्यक्तेति ।
उक्तमर्थं प्रकृतश्रुत्या योजयति —
तदिदमिति ।
कुतस्तस्य महतः सकाशात्परत्वमित्याशङ्क्य बुद्धिपक्षे तावदुपपत्तिमाह —
अव्यक्तेति ।
युक्तं हि कार्यात्कारणस्य परत्वमिति भावः ।
जीवपक्षेऽपि परत्वोपपत्तिमाह —
यदा त्विति ।
दृष्टं हि राजादेः स्वाधीनादमात्यादेः परत्वमिति भावः ।
कुतो जीवभावस्याव्यक्ताधीनत्वमविद्याधीनत्वादित्याशङ्क्याव्यक्तस्योक्तं स्वरूपं स्मारयति —
अविद्येति ।
सम्प्रति जीवभावस्य तदधीनत्वमाह —
अविद्यावत्त्वेनेति ।
तथापि कथं शरीरस्य महतः सकाशात्परत्वं, तत्राह —
तच्चेति ।
इन्द्रियादीनामपि प्रकृत्यभेदादव्यक्तत्वं परत्वं च तुल्यमिति कुतः शरीरस्यैवेह ग्रहणमित्याशङ्क्याह —
सत्यपीति ।
आचार्यदेशीयमतमुत्थापयति —
अन्ये त्विति ।
तन्मतेऽपि सूत्रद्वयं योजयितुं पातनिकामाह —
द्विविधमिति ।
तस्य द्विविधस्यापि प्रामाणिकत्वमाह —
स्थूलमिति ।
देहद्वयस्याप्रस्तुतत्वमाशङ्क्याह —
तच्चेति ।
भूमिकां कृत्वा ‘सूक्ष्मं तु’ इति सूत्रावयवं व्याकरोति —
इहेति ।
पूर्ववाक्ये द्वयोः संनिधौ सूक्ष्मस्यैवात्र ग्रहे को हेतुरित्याशङ्क्य ‘तदर्हत्वात्’ इति हेत्वर्थमाह —
सूक्ष्मस्येति ।
कथं तर्हि तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीये सूत्रे तदधीनत्वं व्याचष्टे —
तदधीनत्वाच्चेति ।
सूक्ष्मदेहाधीनौ विवेकाविवेकाभ्यां बन्धमोक्षौ, तेन तद्वतो जीवात्परत्वमित्यर्थः ।
तत्र सौत्रं दृष्टान्तमाह —
यथेति ।
इतिशब्दो दार्ष्टान्तिकद्योती वृत्तिकारमतसमाप्त्यर्थश्च ।
वृत्तिकृतां मतं निराचष्टे —
तैस्त्विति ।
अव्यक्तपदमेव व्यक्तस्थूलदेहव्यावृत्तिहेतुरित्याह —
अाम्नातस्येति ।
अाम्नातमपि पदमुभयसाधारणमित्याशङ्क्याह —
आम्नातं चेति ।
पूर्वोत्तराम्नातयोरेकवाक्यताधीनत्वादर्थदृष्टेस्त्वन्मते चैकवाक्यताभावात्कुतोऽर्थधीः, कुतश्चाव्यक्तशब्देन स्थूलदेहनिवृत्तिरित्याह —
नेति ।
एकवाक्यताधीनार्थधीरित्येतदेव कथमित्याशङ्क्याह —
नहीति ।
शरीरशब्दस्य स्थूलशरीरे रूढेस्तस्य प्रकृतस्य हानं भूतसूक्ष्मस्याप्रकृतस्याव्यक्तशब्दत्वप्रक्रिया च निष्प्रामाणिकायाता स्यादित्याह —
प्रकृतेति ।
पूर्वोत्तराम्नाते तर्ह्येकवाक्यतामापद्यैवार्थं प्रतिपादयेतां, तत्राह —
न चेति ।
अस्तु तर्हि तद्वशादेकवाक्यतापत्तिः, तत्राह —
तत्रेति ।
आकाङ्क्षाया वाक्यैक्यधीहेतुत्वे सतीति यावत् । उभयमपि प्रकृतत्वाद्ग्राह्यत्वेनाकाङ्क्षितं, तेन तद्वारा पदप्रवृत्तेरव्यक्तपदस्योभयत्रापि प्रवृत्तौ प्रकरणपारिशेष्ययोस्तुल्यत्वान्नैकत्र नियमोऽस्तीत्यर्थः ।
सूक्ष्मस्यैव देहस्याकाङ्क्षा, दुःशोधत्वात् , तस्यात्मनोऽतिसंनिकृष्टस्य सहसा ततो निष्क्रष्टुमशक्यत्वात् । अन्यस्य तु दुष्टत्वेन दृष्टत्वादात्मनो निष्कर्षस्य सुकरत्वादिशङ्क्याह —
न चेति ।
कुतो न मन्तव्यं, तत्राह —
यत इति ।
इहेति प्रकरणोक्तिः ।
वैराग्याय शोधनमत्र नेष्टमिति कथं गम्यते, तत्राह —
नहीति ।
किं तर्हि विवक्षितं, तदाह —
अनन्तरेति ।
तस्य तस्य परत्वेन वचनात्परमपदमेव कथमत्राभीष्टं, तत्राह —
तथाहीति ।
परमपददिदर्शयिषया पारम्पर्यमत्राभीष्टमिति पूर्वोत्तरालोचनातो भातीत्यर्थः ।
किञ्चाव्यक्तपदेन स्थूलमेव शरीरमुक्तं, ‘बुद्धिं तु सारथिं विद्धि’ इत्यादिना सूक्ष्मदेहस्य विभक्तत्वेन रथकल्पनाविषयत्वात्तस्य शरीरपदेनानुक्तत्वात् , इहापि ‘मनसस्तु परा बुद्धिः’ इति गृहीतत्वेनापरिशेषादिति मत्वोपेत्यापि दूषयति —
सर्वथेति ।
स्थूलसूक्ष्मयोरन्यतरग्रहेऽपीति यावत् ।
तथा नामास्त्विति ।
त्वदिच्छया सूक्ष्मदेहस्यैवाव्यक्तशब्दत्वं स्यादित्यर्थः ।
किञ्चिदिति ।
प्रधानवादनिराकरणमुक्तम् ॥ ३ ॥
प्रधानस्याव्यक्तशब्दावाच्यत्वे हेत्वन्तरमाह —
ज्ञेयत्वेति ।
तद्व्याख्यातुं पातनिकां करोति —
ज्ञेयत्वेनेति ।
गुणानां पुरुषाणां चान्तरं विवेकः, तस्यैव मुक्तिहेतुत्वेन ज्ञेयत्वमिष्टं न प्रधानस्येत्यशङ्क्यार्थान्तरस्यापि तदिष्टमित्याह —
नहीति ।
इति गुणत्रयसाम्यावस्थारूपप्रधानस्यापि ज्ञेयत्वमिति शेषः ।
तथापि विवेकगुणतया प्रधानस्य ज्ञेयत्वं न स्वप्रधानतयेत्याशङ्क्य प्रकृतिलयादिसिद्ध्यर्थं स्वप्रधानतयापि तज्ज्ञेयत्वमिष्टमित्याह —
क्वचिच्चेति ।
इहापि ज्ञेयत्वमव्यक्तशब्देनोक्तमित्याशङ्क्य सूत्रार्थमाह —
न चेति ।
तदेव स्पष्टयति —
पदेति ।
नन्वव्यक्तशब्दे प्रयुक्ते तदर्थस्यार्थादेव ज्ञेयत्वमज्ञाते शब्दाप्रयोगात् , नेत्याह —
न चेति ।
आर्थिकधियोऽपुमर्थत्वसम्भवाच्छाब्दमेव फलवज्ज्ञानं, न चाव्यक्ते तथाविधा धीरित्यर्थः ।
पञ्चम्यर्थमनूद्य चकारद्योत्यमाह —
तस्मादिति ।
त्वन्मतेऽप्युक्तनीत्याव्यक्तपदमनर्थकमित्याशङ्क्याह —
अस्माकं त्विति ।
परमपदस्य सर्वस्मात्परत्वज्ञानार्थं देहाद्युपन्यासोऽस्मत्पक्षे स्यादित्यव्यक्तशब्देन स्थूलदेहोक्तिरर्थवतीत्यर्थः ॥ ४ ॥
ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य परिहरति —
वदतीत्यादिना ।
चोद्यं विवृणोति —
अत्रेति ।
उक्तहेतोर्न प्रधानमव्यक्तमित्युक्ते सतीत्यर्थः ।
साधितत्वान्नासिद्धिरिति शङ्कते —
कथमिति ।
वाक्यशेषेणोत्तरम् —
श्रूयते हीति ।
अशब्दमित्यादिषु प्रत्येकं नित्यशब्दः सम्बध्यते ।
ननु निष्प्रपञ्चं ब्रह्मोक्त्वा तस्य प्रत्यक्त्वेन ज्ञानान्मुक्तिरत्रोच्यते न प्रधानस्यात्र प्रसङ्गोऽस्ति, तत्राह —
अत्रेति ।
शब्दादिशून्यतया स्मार्तप्रधानस्य प्रत्यभिज्ञानात्तदेवात्रोक्तमित्याह —
तस्मादिति ।
तथापि ‘महतः परमव्यक्तम्’ इत्यत्र किं जातं, तदाह —
तदेवेति ।
उत्तरमाह —
अत्रेति ।
तत्र नञोऽर्थमाह —
नेहेति ।
कस्य तर्हि ज्ञेयत्वेनात्रोक्तिः, तत्राह —
प्राज्ञो हीति ।
प्रधानेऽपि सम्भवति परमात्मग्रहे को हेतुरित्याह —
कुत इति ।
तत्र हेतुमुक्त्वा विभजते —
प्रकरणादिति ।
परमात्मप्रकरणस्य प्रकृतत्वे हेतुमाह —
पुरुषादिति ।
इतश्चाशब्दादिवाक्ये परस्यैवात्मनो ज्ञेयत्वमित्याह —
एष इति ।
तत्रैव हेत्वन्तरमाह —
तस्यैवेति ।
‘दृश्यते त्वग्र्यया बुद्ध्या’ इत्यादितदाकाङ्क्षणम् ।
तस्यैव ज्ञेयत्वमित्यत्र हेत्वन्तरमाह —
यच्छेदिति ।
फलविशेषश्रुतेरपि परस्यैव ज्ञेयत्वमित्याह —
मृत्य्विति ।
प्रधानेऽपि तदविरुद्धमित्याशङ्क्याह —
नहीति ।
कथं तर्हि तेषामभ्युपगमः, तत्राह —
चेतनेति ।
सर्वोपनिषदालोचनायामपि परस्यैव ज्ञेयत्वमत्रेष्टमित्याह —
सर्वेष्विति ।
तुल्यश्रुतिसिद्धब्रह्मोक्तिसम्भवे विजातीयस्मृतिसिद्धप्रधानोक्त्ययोगान्न प्रधानधीरित्युपसंहरति —
तस्मादिति ॥ ५ ॥
प्रतिज्ञाद्वये युक्त्यन्तरमाह —
त्रयाणामिति ।
प्राथमिकं चकारं प्रतिज्ञापरत्वेन व्याकरोति —
इतश्चेति ।
प्रधानस्याप्रकान्तत्वमितःशब्दार्थं स्फुटयति —
यस्मादिति ।
कठानां वल्लीभिरवच्छिन्ने ग्रन्थे त्रयाणामेव प्रश्नप्रतिवचने दृष्टे, मृत्योर्नचिकेतसं प्रति वरत्रयदानस्यान्यथानुपपत्तेरित्यर्थः ।
सौत्रमेवकारं व्याचष्टे —
नेति ।
क्रमेण प्रश्नत्रयमुदाहरति —
तत्रेत्यादिना ।
हे मृत्यो, स मदर्थं दत्तवरस्त्वं स्वर्ग्यं स्वर्गहेतुमग्निमध्येषि स्मरसि, तेन तद्विषयां विद्यां मदर्थं वदेत्यर्थः ।
मनुष्ये तद्देहे प्रेते त्यक्तप्राणे सति । येयं विचिकित्सा तामेव पक्षभेदेन दर्शयति —
अस्तीति ।
सन्दिग्धमात्मतत्त्वमेतदित्युक्तम् ।
प्रतिवचनत्रयमपि क्रमेण कथयति —
प्रतीति ।
लोकहेतुविराड्दृष्ट्योपास्यत्वाल्लोकादिश्चित्योऽग्निस्तमुक्तवान्मृत्युर्नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वाग्निश्चीयते तत्सर्वमुवाचेति सम्बन्धः ।
हन्तेदानीं गुह्यं गोप्यं सनातनं चिरन्तनं ब्रह्म ते तुभ्यं प्रवक्ष्यामीति प्रतिज्ञाय जीवमपि ब्रवीति —
यथेति ।
आत्मा मरणं प्राप्य यथा भवति तथा च वक्ष्यामीति योजना ।
कथं स मरणे भवति, तत्राह —
योनिमिति ।
मृतानां पुनर्विचित्रजन्मापत्तौ निमित्तमाह —
यथेति ।
यथाश्रुतमिति ।
येन .यादृशं देवताज्ञानमनुष्ठितं स तदनुरूपामेव .योनिं प्राप्नोतीत्यर्थः ।
‘देवैरत्रापि विचिकित्सितं पुरा’ इत्यारभ्य ‘यस्मिन्नेतावुपाश्रितौ’ इत्यनेन सन्दर्भेण परमात्मप्रतिवचनरूपेण जीवप्रश्नाद्व्यवहितमपि यथोक्तं वचो योग्यत्वाज्जीवविषयमित्याह —
व्यवहितमिति ।
एवमितिसूत्रावयवार्थं विवृणोति —
नैवमिति ।
सूत्राक्षराणि योजयित्वा तदर्थोक्त्यर्थमाक्षिपति —
अत्रेति ।
परापरार्थे प्रश्नप्रस्तावे सतीति यावत् ।
उक्तिप्रकारं प्रकटयति —
योऽयमिति ।
इतिशब्दो विमर्शावसानद्योती ।
कल्पद्वयेऽपि फलं पृच्छति —
किञ्चेति ।
तत्राद्यमनूद्य सूत्रावयवायोगं फलमाह —
स एवेति ।
कल्पान्तरमनूद्याक्षेप्ता स्वपक्षसिद्धिं फलमाह —
अथेत्यादिना ।
न चात्मज्ञानवरदानान्तर्भूतमेव परमात्मज्ञानमपि प्रधानज्ञानस्यापि तदन्तर्भावसम्भवादिति भावः ।
सूत्रावयवविरोधमग्रे परिहरिष्यन्नाद्यं पक्षमङ्गीकृत्याह —
अत्रेति ।
द्वितीयस्त्वनभ्युपगमादेव परास्त इत्याह —
नैवेति ।
प्रकृतो ग्रन्थः सप्तम्यर्थः । अतो न प्रधानोक्तिप्रसक्तिरिति शेषः ।
वरदानं विनाऽपूर्वप्रश्नकल्पनाभावे हेतुमाह —
वाक्येति ।
कथं वाक्योपक्रमः, तद्विरोधो वा प्रश्नान्तरोपगमे कथमित्याशङ्क्य वाक्योपक्रमं दर्शयति —
वरेति ।
उपक्रमानुसारित्वमुपसंहारस्यापि सूचयति —
आ समाप्तेरिति ।
आद्यन्तयोरेकरूपतया वाक्यवृत्तिमेव विशदयति —
मृत्युरिति ।
वरदानतदुपादानविषयाख्यायिकाद्योतनार्थमुभयत्र किलेत्युक्तम् ।
वरत्रयमेव विशेषतो बुभुत्समानं प्रकटयति —
नचिकेता इति ।
ननु पितुः सौमनस्यं वरो न भवति, तत्र प्रश्नाभावात् , किन्तु अग्निजीवपरात्मार्थाः प्रश्नरूपा वराः, तेषु प्रत्युक्तेरपि भावात् , तत्राह —
येयमिति ।
प्रेते सतीत्युपक्रमे सतीति शेषः ।
वाक्योपक्रमं दर्शयित्वा प्रश्नान्तरकल्पने तद्विरोधं दर्शयति —
तत्रेति ।
वाक्यबलात्प्रश्नैक्यमयुक्तं लिङ्गात्तद्भेदसिद्धेरिति शङ्कते —
नन्विति ।
प्रष्टव्यभेदं स्पष्टयति —
पूर्वो हीति ।
नहि तस्य परविषयत्वं, तत्रास्ति नास्तीति विचिकित्सायोगात्तस्य सदेकतानत्वादित्यर्थः ।
तथापि न प्रष्टव्यभेदः, द्वितीयेऽपि प्रश्ने जीवस्यैवोक्तेरित्याशङ्क्याह —
जीवश्चेति ।
कस्तर्हि द्वितीयप्रश्नार्थो न परो जीवादन्योऽस्ति, तत्राह —
प्राज्ञस्त्विति ।
धर्मादिगोचरत्वागोचरत्वाभ्यां तद्भेदधीरित्यर्थः ।
अर्थस्वभावालोचनया प्रश्नभेदमुक्त्वा प्रश्नस्वभावालोचनयापि तद्भेदमाह —
प्रश्नेति ।
वैषम्यं स्फोरयति —
पूर्वस्येति ।
आर्थे शाब्दे च वैषम्ये फलितमाह —
तस्मादिति ।
प्रष्टव्यभेदादुक्तं प्रश्नभेदं प्रत्याह —
नेति ।
तदेव व्यतिरेकद्वारा स्फोरयति —
भवेदिति ।
ननु प्राज्ञादन्यो जीवो वादिभिरिष्यते, नेत्याह —
नन्विति ।
कठश्रुतिमपेक्ष्यान्तरशब्दः ।
एतद्वाक्यगतलिङ्गेभ्योऽपि जीवपरयोरैक्यं वक्तुं क्रमेण लिङ्गान्युपन्यस्यति —
इहेति ।
यद्यपि परमात्मप्रश्नस्य प्रत्युक्तिं जन्मादिनिषेधेन मृत्युराह, तथापि कथमैक्यं, तत्राह —
सतीति ।
अप्रसक्तनिषेधस्यातिप्रसङ्गित्वात्प्रसङ्गे सत्येव निषेधो युक्तश्चेज्जीवस्यापि ब्रह्मवन्नित्यत्वाज्जन्माद्ययोगान्न तन्निषेधः स्यादित्याशङ्क्याह —
प्रसङ्गश्चेति ।
परस्मिन्नेवाविद्यया देहयोगाज्जन्मादिप्रसङ्गादध्यस्तात्तद्धर्मव्युदासेन जीवतत्त्ववेदनमेव परप्रश्नस्योत्तरं मन्वानस्तयोरैक्यं सूचयतीत्यर्थः ।
तत्रैव लिङ्गान्तरमाह —
तथेति ।
अन्तशब्दो मध्यवाची । येन साक्षिणा लोको भूयो भूयः पश्यति तमात्मानमिति सम्बन्धः ।
वाक्यतात्पर्यमाह —
स्वप्नेति ।
यद्यपि जीवतत्त्वधिया शोकोच्छित्तिस्तथापि कथं जीवप्राज्ञयोरैक्यं, तत्राह —
प्राज्ञेति ।
‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ इत्यादिदर्शनादिति शेषः ।
इतश्च तयोरैक्यमित्याह —
तथेति ।
इह देहे यच्चैतन्यं तदेवामुत्र परत्रादित्यादावसंसारि ब्रह्म, यच्चामुत्र तदेवेह देहेऽनुप्रविष्टमित्यन्योन्यैक्यमित्यर्थः ।
भेददृष्ट्यपवादाच्च तयोरैक्यमित्याह —
मृत्योरिति ।
यः कश्चिदिह ब्रह्मात्मनि नानेव मिथ्याभेदं पश्यति स मरणं प्राप्नोति । पुनः पुनर्म्रियते न पुमर्थभागित्यर्थः ।
जीवप्रश्रानन्तरं तत्तत्कामोक्तिपूर्वकं प्रलोभनेनातिदुर्लभत्वख्यापनादपि जीवो ब्रह्मात्मनाभीष्ट इत्याह —
तथेति ।
अधिकारित्वजिज्ञासनादपि जीवस्य ब्रह्मात्मना प्रतिपाद्यतेत्याह —
यदेति ।
‘नान्यं तस्मात्’ इत्यादिश्रुतेरचलनं नचिकेतसोऽवसीयते ।
वक्ष्यमाणविद्याया मुक्तिहेतुत्वख्यापनादपि जीवस्य ब्रह्मात्मतावदनमित्याह —
तदेति ।
‘अन्यच्छ्रेयोऽन्यदुतैव प्रेयः’ इत्याद्यभ्युदयनिःश्रेयसविभागोक्तिः । ‘दूरमेते विपरीते’ इत्यादिविद्याविद्याविभागगीरिति विभागः । त्वा त्वां बहवोऽपि कामा नालोलुपन्त श्रेयसो विच्छेदं न कृतवन्तस्ततो विद्यार्थिनं त्वां मन्येऽहमिति योजना । ‘त्वादृङ् नो भूयात्’ इति प्रश्नं प्रशंसन्यदुवाच तेनापीति सम्बन्धः ।
जीवप्रश्नस्य परमात्मवाक्येनोत्तरोक्तेरपि तयोरैक्यमित्याह —
तमिति ।
प्रशंसानुपपत्तिरपि प्रश्नयोरर्थैक्यं गमयतीत्याह —
यदिति ।
यद्विषयः प्रश्नो यत्प्रश्नस्तं विहायेति सम्बन्धः । प्रस्तुतप्रश्नवाची तच्छब्दः ।
प्रष्टव्यभेदाभावे फलितमाह —
तस्मादिति ।
प्रश्नस्वभावालोचनया प्रष्टव्यभेदमुक्तमनूद्य प्रत्याह —
यत्त्विति ।
विशेषमेव दर्शयति —
पूर्वत्रेति ।
विशेषोक्तिसमाप्तावितिशब्दः ।
जीवस्य धर्मादिमतो न तद्रहितब्रह्मैक्यमिति प्रष्टव्यभेदमाशङ्क्याह —
यावदिति ।
कथं तर्हि जीवस्याविद्यावतस्तद्धीनब्रह्मैक्यं, तत्राह —
तदिति ।
अविद्यानिवृत्त्युत्तरकालत्वादैक्यस्य तर्हि कृतकत्वेनानित्यत्वं, नेत्याह —
न चेति ।
उक्तं दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।
जीवब्रह्मैक्ये वरदानोपक्रमाविरोधमुक्त्वा जीवप्रश्नस्याव्यवहितप्रत्युक्तिमत्त्वं, लाभान्तरमाह —
ततश्चेति ।
जीवब्रह्मणोरैक्येन प्रश्नैक्ये कथं त्रयाणामिति सूत्रं, तत्राह —
सूत्रं त्विति ।
योजनामभिनयति —
एकत्वेऽपीति ।
कल्पितभेदेन सूत्रयोजनाप्रकारसमाप्तावितिशब्दः ।
कल्पितभेदेन प्रश्नभेदे फलितमाह —
ततश्चेति ।
परमात्मकल्पनावत्प्रधानकल्पनापि किं न स्यात् , तत्राह —
प्रधानेति ।
वैषम्यं परस्मात्प्रदानस्येति शेषः ॥ ६ ॥
साङ्ख्यप्रसिद्धेर्वेदप्रसिद्ध्या विरोधाच्च न सा वेदार्थनिर्णयहेतुरित्याह —
महद्वच्चेति ।
दृष्टान्तं व्याचष्टे —
यथेति ।
भोगापवर्गपुरुषार्थस्य महच्छब्दितबुद्धिकार्यत्वात्पुरुषापेक्षितफलकारणं सदुच्यते । तत्र भावप्रत्ययोऽपि स्वरूपार्थो न सामान्यवाची । कार्यानुमेयं महन्न प्रत्यक्षमिति मात्रशब्दस्तस्मिन्प्रथमजे प्रयुक्तोऽपीति सम्बन्धः ।
वैदिकप्रयोगमेवाह —
बुद्धेरिति ।
तत्र महच्छब्देन साङ्ख्यीयमहतोऽनुक्तौ हेतुसमाह —
आत्मेति ।
आदिशब्देन फलभेदोक्तिपुरुषशब्दप्रयोगादयो गृह्यन्ते ।
सूत्रेऽभीष्टं दार्ष्टान्तिकमाह —
तथेति ।
‘महतः परम्’ इत्यत्राव्यक्तस्याप्रधानत्वे फलितमुपसंहरति —
अतश्चेति ॥ ७ ॥
कारणवाचकाव्यक्तशब्देन कार्यं शरीरं लक्ष्यमित्युक्तम् । इदानीं धर्मवाचिलोहितादिपदैस्तद्धर्मीणि तेजोऽबन्नानि लक्ष्यन्त इत्युपेत्याजामन्त्रस्य प्रधानपरत्वं प्रत्याह —
चमसवदिति ।
अजाशब्दस्य छागतोऽपकृष्टस्य प्रधानमाययोस्तेजोऽबन्ने च गुणतो वृत्तियोगादजामन्त्रः प्रधानपरो वा तेजोऽबन्नाख्यावान्तरप्रकृतिमायारूपपरमप्रकृत्योरन्यतरपरो वेति संशये पूर्वपक्षयति —
पुनरिति ।
प्रधानस्याशब्दतायाः साधितत्वादस्थाने प्रत्यवस्थानमित्याह —
कस्मादिति ।
प्रधानस्यार्थतोऽप्रत्यभिज्ञानात्तस्याव्यक्तपदावाच्यत्वेऽपि त्रिगुणत्वादिनाऽजामन्त्रे तत्प्रत्यभिज्ञानात्तत्परतेति मत्वाह —
मन्त्रेति ।
अजामन्त्रस्याप्रधानपरत्वात्तदशब्दत्वोक्त्या समन्वयस्यैव दार्ढ्यात्पादादिसङ्गतयः । पूर्वपक्षे प्रधानस्य शब्दवत्त्वेन गतिसामान्यासिद्धिः, सिद्धान्ते तस्याशब्दत्वात्तत्सिद्धिरिति फलभेदः ।
मन्त्रवर्णमेवानुक्रामति —
अजामिति ।
प्रधानस्य रूपराहित्यादेतत्प्रतिपाद्यत्वं नास्तीत्याशङ्क्याह —
अत्रेति ।
रूढ्यभावे कथमभिधानं, गुणवृत्त्येत्याह —
लोहितमिति ।
कुसुम्भवदम्भोवन्मेघवच्च तेषां तथात्वेऽपि प्रधानस्य किमायातं, तदाह —
तेषामिति ।
अवयवधर्मैरवयवाः प्रधानस्य सत्त्वादयस्तेषां धर्माः शुक्लादयस्तैरित्यर्थः ।
लोहितादिशब्दानां रञ्जनीयत्वादिगुणयोगाद्रजआदिपरत्वे व्यवहितलक्षणा स्यात् , धर्मिणां तेजोऽबन्नानां ग्रहे नैवमित्याशङ्क्य तेषु जनिमत्त्वादाकृत्यभावाच्चाजाशब्दायोगान्न तल्लक्षणेत्याह —
नेति ।
‘रूढिर्योगमपहरति’ इति न्यायेन शङ्कते —
नन्विति ।
रूढ्ययोगे योगवृत्त्यादानं युक्तमित्याह —
बाढमिति ।
वाक्यशेषस्य प्रधानानुगुण्याच्च मन्त्रस्य तत्परतेत्याह —
सा चेति ।
त्रैगुण्यान्विताः सुखदुःखमोहान्विताः ।
आत्मभेदवादित्वाच्च मन्त्रस्य प्रधानपरतेत्याह —
तामिति ।
अनुशयनमेव विशदयति —
तामेवेति ।
चतुर्थं पादं व्याकरोति —
अन्य इति ।
भुक्तभोगामिति व्याचष्टे —
कृतेति ।
शब्दाद्युपलब्धिर्भोगः । गुणपुरुषान्यताधीरपवृज्यतेऽनेनेत्यपवर्गः ।
स्वरूपस्थितेरकृतकत्वात्पुनर्मुक्तिवचनाच्चाजामन्त्रस्य प्रधानवादानुकूल्ये फलितमाह —
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।
सौत्रहेतुसाध्यां प्रतिज्ञां पूरयति —
नेति ।
तदेव स्पष्टयति —
नहीति ।
तत्र हेत्वपेक्षायां प्रकरणोपपदवाक्यशेषाभावादिति सौत्रं हेतुं व्याचष्टे —
सर्वत्रेति ।
दृष्टान्तमादाय कर्माङ्गं व्यावर्त्योपनिषत्प्रसिद्धं चमसं दर्शयति —
चमसवदिति ।
अर्वाग्बिलत्वादिना विशेषसिद्धिमाशङ्क्याह —
सर्वत्रेति ।
गिरिगुहादावित्यर्थः ।
दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —
एवमिति ॥ ८ ॥
सूत्रान्तरमवतारयितुं चोदयति —
तत्रेति ।
दृष्टान्तवाक्यं सप्तम्यर्थः । इहेत्यजामन्त्रोक्तिः । चमसदृष्टान्तवदजामन्त्रे विशेषाश्रवणात्प्रधानमेव स्मार्तं ग्राह्यमित्यर्थः ।
सूत्रमवतारयति —
अत्रेति ।
विजातीयस्मृतेः सजातीयश्रुतेः संनिधेर्लाघवेन श्रुत्यन्तरादर्थनिर्णयोऽजामन्त्रस्येति व्याचष्टे —
परमेश्वरादिति ।
‘तत्तेजोऽसृजत’ इत्यादिश्रुतेर्विशेषणम् । जरायुजाण्डजस्वेदजोद्भिज्जभेदाच्चातुर्विध्यम् । इयमजेति मान्त्रवर्णिकी प्रकृतिरुक्ता ।
ज्योतिरुपक्रमेति विशेषोक्तौ तुशब्देन विशेषगीर्वृथेत्याशङ्क्याह —
तुशब्द इति ।
अवधारणारूपमर्थमेव स्फोरयति —
भूतेति ।
स्मृतिमनुसृत्य गुणत्रयात्मिका कुतोऽसौ नेष्टेत्याह —
कस्मादिति ।
सूत्रावयवेनोत्तरमाह —
तथेति ।
छान्दोग्ये तेजोऽबन्नानामीश्वरकार्याणां रोहितादिरूपवतामुक्तत्वेऽपि किमित्यजामन्त्रे तान्येव वक्तव्यानीति, एकार्थत्वे हेत्वभावादित्याशङ्क्याह —
तानीति ।
स्मार्ते प्रधानेऽपि रोहितादिशब्दानां नीतत्वात्तदेव किमित्यत्र न ग्राह्यमित्याशङ्क्य मुख्यसम्भवे रञ्जनादिना रोहिताद्युपचारस्यायोगादित्याह —
रोहितादीनां चेति ।
शाखान्तरीयवाक्येन शाखान्तरस्थं वाक्यं कथं निर्णेतव्यमित्याशङ्क्य सर्वशाखाप्रत्ययन्यायादित्याह —
असन्दिग्धेनेति ।
न परशाखान्तरस्थवाक्यादिष्टसिद्धिः किन्तु पूर्वापरालोचनायामियमपि श्वेताश्वतरश्रुतिरस्मदनुगुणेत्याह —
तथेति ।
ब्रह्मणः शुद्धत्वान्न जगद्धेतुतेति पृच्छति —
किमिति ।
यज्जगत्कारणं तत्किं ब्रह्म किं वाऽन्यदिति वा प्रश्नः, जगदुत्पत्तौ किमुपकरणवद्ब्रह्मेति वा । ते ब्रह्मवादिनोऽनया रीत्या विमृश्य ध्यानाख्येन योगेनानुगताः परमात्मानमनुप्रविष्टास्तस्यैव देवस्यात्मभूतामैक्येनाध्यस्तां मायाशक्तिं गुणत्रयात्मिकां त्रिगुणजगन्निर्माणसहकारिणीमपश्यन्निति श्रुतेरजामन्त्रस्यापि मूलप्रकृतिविषयतेत्यर्थः ।
न केवलमुपक्रमादेवमुपसंहारादपीत्याह —
वाक्येति ।
परकीये प्रधाने मायाशब्दं वारयति —
मायिनं त्विति ।
अविद्याशक्तिर्योनिः, तस्याश्चाभेदेन कार्यभेदेन भेदाद्वीप्सा । नच सा परेष्टा प्रकृतिः, एकस्य देवस्य तदधिष्ठातृत्वश्रुतेः ।
पूर्वोत्तरविरोधादजामन्त्रस्य प्रधानार्थत्वाभावे स्थिते तदुभयानुगुण्यान्मायाशक्तिविषयत्वमेव तस्येत्याह —
प्रकरणात्त्विति ।
दैव्याः शक्तेः ‘तद्धेदं तर्ह्यव्याकृतम्’ इति श्रुत्यन्तरप्रसिद्धिं सूचयति —
अव्याकृतेति ।
तस्यामभिव्यक्तनामरूपकार्यलिङ्गकमनुमानमाह —
नामेति ।
पूर्वोत्तरवाक्याभ्यामिवेति वक्तुमपिशब्दः ।
कथमस्मिन्पक्षे लोहितशुक्लकृष्णामिति कारणभूतमायाशक्तेस्त्रैरूप्यं, वैश्वरूप्यात् , तत्राह —
तस्याश्चेति ॥ ९ ॥
अवान्तरपरमप्रकृत्योरन्यतरार्थत्वे मन्त्रस्योक्ते सत्यवान्तरप्रकृत्यर्थत्वममृश्यन्नाह —
कथमिति ।
कानुपपत्तिरित्याशङ्क्य रूढ्या योगाद्वा तद्धीरिति विकल्प्याद्यं दूषयति —
यावतेति ।
आकृतिर्जातिः ।
द्वितीयं प्रत्याह —
न चेति ।
जातिर्जन्म तदभावोऽजातिरेवं रूढियोगाभ्यां यस्मादजाशब्देन तेजोऽबन्नाख्या प्रकृतिर्न ज्ञातुं शक्या तस्मान्नाजामन्त्रस्यावान्तरप्रकृत्यर्थतेत्यर्थः ।
तत्र सूत्रमुत्तरमित्याह —
अत इति ।
पक्षद्वयमनङ्गीकारपरास्तमित्याह —
नायमिति ।
अजाशब्दस्तर्हि कथमवान्तरप्रकृतौ वर्तते, तत्राह —
किमिति ।
कल्पनोपदेशं दर्शयति —
अजेति ।
तमेवोपदेशं दृष्टान्तेन स्पष्टयति —
यथेति ।
ननु छाया न लोहितशुक्लकृष्णैवान्यथापि भानात् , तत्राह —
यदृच्छयेति ।
बर्करो बालपशुः ।
यत्तु क्षेत्रज्ञभेदोपलम्भात्प्रधानवादप्रत्यभिज्ञेति, तत्राह —
न चेति ।
तत्र हेतुः —
नहीति ।
व्यवस्थावादि शास्त्रं तदर्थं भेदमपि साधयिष्यतीत्याशङ्क्याह —
प्रसिद्धं त्विति ।
प्रमाणातिरेकेण प्रसिद्ध्ययोगात्तत्प्रसिद्धस्य तस्य प्रामाणिकतया वस्तुतेत्याशङ्क्याह —
भेदस्त्विति ।
कथं तस्य कल्पितत्वमित्याशङ्क्यैक्यवादिवाक्यवशादित्याह —
एक इति ।
श्रुत्यन्तरमैक्यवादि सङ्ग्रहीतुमादिपदम् ।
दृष्टान्तमवतार्य व्याचष्टे —
मध्वादिवदिति ।
रोहितादिशब्दानां रञ्जनीयत्वादिगुणसामान्यव्यवधानेव रजःसत्त्वादिव्यवहितलक्षणानुगृहीतामजाशब्दस्य योगवृत्तिं प्रधाने बाधित्वा रोहितादिगुणसंहतिप्रधानं तेजोऽबन्नमजाकारं परिकल्प्याजाशब्दस्य रूढिग्रहो युक्तः, समुदायप्रसिद्धित्यागेनावयवप्रसिद्ध्याश्रयणस्यायुक्तत्वात् । इह च रूपकल्पनया समुदायप्रसिद्धेरनपेक्षायोगादिति चकारार्थमभिप्रेत्याविरोधं व्याकुर्वन्नुपसंहरति —
तस्मादिति ।
तथा चाजामन्त्रस्यावान्तरपरमप्रकृत्योरन्यतरार्थत्वेनाप्रधानविषयत्वात्तस्याशब्दत्वं सिद्धमित्यर्थः ॥ १० ॥
अजाशब्दस्य योगं निरस्याजामन्त्रस्य प्रधानार्थत्वं निरस्तम् । इदानीं पञ्चजनशब्दस्य योगनिरासेन ‘यस्मिन्’ इत्यादिमन्त्रस्य प्रधानार्थत्वं निरस्यति —
न सङ्ख्येति ।
पञ्चजनमन्त्रः साङ्ख्यीयतत्त्वपरो वार्थान्तरपरो वेति योगरूढ्यविनिगमाद्विशये सङ्गतिमाह —
एवमिति ।
अध्यात्माधिकारे प्रसिद्धच्छागाया अयोगादजा तेजआदिकेत्युक्तम् । अत्रापि प्रसिद्धमनुष्यग्रहे वाक्यस्य निस्तात्पर्यादवयववृत्त्या साङ्ख्यतत्त्वपरतेति सङ्गतिरित्यर्थः । पञ्चजनमन्त्रस्याप्रधानपरत्वेन तदशब्दत्वोक्त्या समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे प्रधानशब्दत्वनिवृत्त्या गतिसामान्यासिद्धिः, सिद्धान्ते तदशब्दत्वस्थित्या तत्सिद्धिरिति फलम् ।
तमेव मन्त्रं बृहदारण्यकस्थं पठति —
यस्मिन्निति ।
पञ्चजना वाक्यशेषस्थाः प्राणादयः पञ्चाव्याकृताख्यश्चाकाशो यस्मिन्प्रतिष्ठितस्तमेव निष्प्रपञ्चब्रह्मात्मकममृतमात्मानं मन्ये ।
यद्यपि पूर्वं मर्त्योऽभूतं तथापीदानीं विद्वानमृतोऽस्मीति मन्त्रदृशो वचनम् । कथमस्मान्मन्त्रात्प्रत्यवस्थानं साङ्ख्यस्येत्याशङ्क्याह —
अस्मिन्निति ।
तथापि कथं साङ्ख्यवादप्रसङ्गः, तत्राह —
त इति ।
पञ्चविंशतिसङ्ख्यादृष्टावपि साङ्ख्यीयतत्त्वासिद्धिरित्याशङ्क्य सङ्ख्यैव सङ्ख्येयाकाङ्क्षायां स्मृतिसिद्धतत्त्वानि सङ्गृह्णातीत्याह —
तथेति ।
न चाधारत्वेनात्मनोऽवस्थानादाकाशस्य च पृथक्कथनात्रयोविंशतिर्जना इति वाच्यं, मूलप्रकृतिं सत्त्वादिभिर्विभज्य पञ्चविंशतित्वकल्पनात् । न चैवमात्माकाशाभ्यां सप्तविंशतित्वं, गुणानां मूलप्रकृतिमात्रेणैकीकरणादित्यभिप्रेत्याह —
तावन्तीति ।
तत्र साङ्ख्यस्मृतिमाह —
मूलेति ।
अविकृतिरन्यस्य कस्यचिद्विकारो नेति यावत् । महदहङ्कारपञ्चतन्मात्राणि सप्त प्रकृतिविकृतयः । महानहङ्कारस्य प्रकृतिर्मूलप्रकृतेर्विकृतिः । अहङ्कारोऽपि तामसस्तन्मात्राणां प्रकृतिः । सात्त्विकस्त्वेकादशेन्द्रियाणाम् । तन्मात्राण्याकाशादीनां स्थूलानां प्रकृतयः । पञ्चभूतान्येकादशेन्द्रियाणि षोडशको गणो विकार एव । पृथिव्यादीनां घटादिप्रकृतित्वेऽपि तत्त्वान्तरप्रकृतित्वाद्विकृतय एव । पुरुषस्तु कौटस्थ्यात्प्रकृतिविकृतित्वविरहीत्यर्थः ।
सङ्ख्योपसङ्ग्रहादिति व्याकुर्वन्पूर्वपक्षमुपसंहरति —
तथेति ।
सिद्धान्तसूत्रमवतार्य प्रतिज्ञां विभजते —
तत इति ।
श्रुत्युक्तसङ्ख्ययाऽपेक्षितसङ्ख्येयविशेषार्पणं स्मृतेर्युक्तं तयोर्मूलमूलित्वादित्याह —
कस्मादिति ।
सौत्रं हेतुमुपादाय व्याचष्टे —
नामेति ।
नानात्वमेव न विरुद्धमित्याशङ्क्याभिप्रेतं नानात्वमाह —
नैषामिति ।
नहि सत्त्वरजस्तमोमहदहङ्काराणां क्रियागुणजातीनामन्यतमस्तन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुवृत्तः कश्चिदेको धर्मोऽस्ति । नापि पृथिव्यप्तेजोवायुघ्राणानामुक्तो धर्मः सम्भवति, आकाशस्य पृथगुक्तेरप्रवेशात् । एवं रसनादिष्वपि पञ्चशः । साधारणधर्मवैधुर्यमिति भावः ।
किं तेनानुपयोगिनेत्याशङ्क्याह —
येनेति ।
पञ्चविंशतिसङ्ख्यान्तराले पञ्चानामपि पञ्चसङ्ख्यानां भावात्तथोक्तिरित्याशङ्क्याह —
नहीति ।
त्रयस्त्रिंशद्देवा इति महासङ्ख्यामष्टौ वसव इत्यवान्तरसङ्ख्या साधारणधर्माधीना, तथात्रापि न साधारणधर्मादृते महासङ्ख्यायामवान्तरसङ्ख्यासिद्धिरित्यर्थः ।
अपरसङ्ख्यापूर्वत्वात्परसङ्ख्यायास्तत्पौर्वापर्यलक्षणप्रत्यासत्त्या परसङ्ख्यालक्षणार्थमपरसङ्ख्योक्तिरिति पूर्वपक्षदेशीयश्चोदयति —
अथेति ।
तदेवोदाहरणेन स्फोरयति —
यथेति ।
असमासमङ्गीकृत्य पञ्चशब्दद्वयदर्शनेऽपि पञ्चसङ्ख्याद्वयरूपावान्तरसङ्ख्यया पञ्चविंशतिलक्षणमहासङ्ख्योपलक्ष्यत्वे श्रुतिसम्भवे लक्षणा न युक्तेति परिहरति —
तदिति ।
किञ्च पञ्चशब्दस्य जनशब्देन समस्तत्वात्पञ्चसङ्ख्याद्वयासिद्ध्या तद्वारा पञ्चविंशतिसङ्ख्यापि न सिध्यतीत्याह —
परश्चेति ।
समस्तत्वे हेतुमाह —
पारिभाषिकेणेति ।
अन्तानुदात्तस्वरो भाषितग्रन्थसिद्धोऽत्र पारिभाषिकः । तथाहि - प्रथमोऽस्मिन्मन्त्रे पञ्चशब्दो भवत्युदात्तः, द्वितीयः सर्वानुदात्तः, जनशब्दश्चान्तोदात्तः । तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासमन्तरेणान्त्यस्याकारस्योदात्तत्वमितरेषां चानुदात्तत्वं, ‘समासस्य’ इति सूत्रेण समासस्यान्तोदात्तत्वविधानात् । ‘अनुदात्तं पदमेकवर्जम्’ इति च सूत्रेणोदात्तः स्वरितो वा यस्मिन्पदे विधीयते तदेकं हित्वा शिष्टस्यानुदात्तत्वं स्मर्यते । एवमन्तोदात्तस्वरबलात्तत्र समासो निर्धारितः । भाषिके तु शतपथब्रह्मणस्वरविधायकग्रन्थे ‘स्वरितोऽनुदात्तो वा’ इति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्रह्मणावस्थायामुदात्तो भवतीत्यपवादः स्वीकृतः । ततश्चान्त्यादाकारादितरेषामनुदात्तादीनां ब्राह्मणदशायामनुदात्तत्वं प्राप्तं ‘उदात्तमनुदात्तमनन्त्यम्’ इति सूत्रेण मन्त्रदशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितं, तदत्राकारो नकारादुपरितनः सन्नाकाशश्चेत्यनेन लग्नतयोच्चार्यमाणोऽनुदात्तो भवति स चैवमन्तानुदात्तस्वरः पारिभाषिकः । अन्तोदात्तो भाषिक इति पक्षे त्वध्ययनविरोधः । तेन पारिभाषिकेण स्वरेणैकपदत्वनिश्चयादसमासासिद्धिरिति भावः ।
अन्यत्र चैवंविधप्रयोगस्यैकपदत्वनिश्चयादिहापि तत्सामान्यादेकपदतेति समासे हेत्वन्तरमाह —
प्रयोगान्तरे चेति ।
‘आज्यमसि’ इत्याज्यस्याधिकारादाज्यं सम्बोध्य ‘पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि’ इति तैत्तिरीयकश्रुतेः, पञ्चानां पञ्चजनानां देवताविशेषणानां कृते यन्त्रवद्व्यवस्थितं यन्मदीयं शरीरं तदेव धर्त्रमैहिकामुष्मिकभोगधारणसमर्थं तदवैकल्यार्थं गृह्णामीति यजमानोक्तिः ।
समासेऽपि किं स्यात् , तत्राह —
समस्तत्वाच्चेति ।
वीप्साभावे पञ्चसङ्ख्याद्वयासिद्धेस्तद्वारा पञ्चविंशतिसङ्ख्याया न लक्ष्यतेत्यर्थः ।
किं चासमासेऽपि पञ्चशब्दद्वयप्रयोगे दशानामेव लाभान्न साङ्ख्यस्मृतिप्रत्यभिज्ञेत्याह —
न चेति ।
पञ्च पञ्चेति पञ्चकद्वयग्रहेऽपि दशैव तत्त्वानि सिध्यन्ति न पञ्चविंशतेस्तत्त्वानां प्रत्यभिज्ञेत्यर्थः । यद्वा समास एव पञ्चपञ्चेति । पञ्चकद्वयाग्रहान्न लक्षणयापि पञ्चविंशतिसङ्ख्याधीरित्यर्थः ।
नन्वसमासेऽपि वीप्सां हित्वा दण्डिन्यायेन जायमानाजायमानसाधारणजनशब्दोक्ततत्त्वविशेषणीभूतपञ्चसङ्ख्याविशेषणत्वादाद्यपञ्चसङ्ख्यायाः संख्यीयपञ्चविंशतिधीरिति, नेत्याह — न चेति । शुक्लादिशब्दवत्पञ्चशब्दस्य सङ्ख्योपसर्जनद्रव्यपरत्वाद्गुणभूतसङ्ख्याया न सङ्ख्यान्तरेण विशेषणम् । तथा सति विशेष्येण द्रव्येण विशेषणेन च सङ्ख्यया युगपदाकृष्टा सङ्ख्या नैकेनाप्यन्वियादित्याह —
उपसर्जनस्येति ।
न खलूपसर्जनमुपसर्जनान्तरेण साक्षादेव सम्बध्यते, प्रधानानुयायित्वात्तेषां मिथःसङ्गत्ययोगात् । अतः सङ्ख्ययोर्विशेषणविशेष्यतया न पराभीष्टसङ्ख्याधीरित्यर्थः ।
नानाभावेन दूषितमपि परमपूर्वपक्षिणं सङ्ख्यान्तरानाकाङ्क्षानोपसर्जनन्यायाभ्यां दूषयितुमुत्थापयति —
नन्विति ।
प्राप्तपञ्चसङ्ख्याकानां जनानां पञ्चसङ्ख्यया विशेषणे पञ्चविंशतितत्त्वधीरित्येतद्दृष्टान्तेन साधयति —
यथेति ।
जायन्त इति जनाः पञ्च च ते जनाश्चेति पञ्चजना इति यौगिकत्वमुपेत्य प्रत्याह —
नेतीति ।
दृष्टान्ते सङ्ख्यान्तराकाङ्क्षां दर्शयति —
युक्तमिति ।
द्विगुसमासेन समाहाराभिधानात्पदान्तरोक्तसङ्ख्यया समाहारोऽवच्छेत्तुं युक्तः । उत्पत्तिशिष्टया तुल्यपदस्थसङ्ख्यया समाहारिणः पूला अवच्छिद्यन्ते, तेन पञ्चपूलीत्यत्रास्त्याकाङ्क्षेति विशेषणविशेष्यधीरित्यर्थः ।
दार्ष्टान्तिके नैवमाकाङ्क्षेत्याह —
इहेति ।
पञ्चजना इत्यत्र डीबन्तत्वाश्रुत्या समाहारादृष्टेर्जनानां च स्वगतसङ्ख्यावच्छिन्नत्वान्न सङ्ख्यान्तराकाङ्क्षेति कुतो विशेषणविशेष्यतेत्यर्थः ।
जनानामुत्पत्तिशिष्टसङ्ख्यावरुद्धानां शब्दान्तरोक्तसङ्ख्यानवरोधेऽपि पञ्चसङ्ख्यायाः सङ्ख्यान्तरानवरुद्धत्वात्तयावरोधः स्यादित्याशङ्क्य नोपसर्जनन्यायमवतारयति —
भवदिति ।
इष्टापत्तिमाशङ्क्याह —
तत्रेति ।
विशेषणविशेष्ययोरेव योगो न विशेषणयोरन्योपसर्जनत्वादित्युक्तमित्यर्थः ।
नानाभावादिना सिद्धमुपसंहरति —
तस्मादिति ।
पञ्चपञ्चजनशब्दो न पञ्चविंशतितत्त्ववाचीत्यत्र सूत्रावयवं हेत्वन्तरमाह —
अतिरेकाच्चेति ।
तदेव स्फोरयति —
अतिरेको हीति ।
तत्रात्मकृतसङ्ख्यातिरेकं विवृणोति —
आत्मेति ।
इहेति मन्त्रोक्तिः ।
यच्छब्दस्य सर्वनामत्वेन साधारण्यात्कथं तस्मादात्मधीरित्याशङ्क्याह —
यस्मिन्निति ।
आधारत्वेनात्मनिर्देशेऽपि तस्य तत्त्वान्तर्भावान्नातिरेकः स्यादित्याशङ्क्याह —
आत्मा चेति ।
आधारानन्तर्भावे दोषमाह —
अर्थान्तरेति ।
आत्मनेवाकाशेनापि सङ्ख्यातिरेकं दर्शयति —
तथेति ।
स हि तत्त्वेष्वन्तर्भूतो न वेति विकल्प्याद्ये दोषमाह —
आकाशश्चेति ।
द्वितीयं प्रत्याह —
अर्थान्तरेति ।
नच सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ पृथगुक्तौ, तत्र पञ्च पञ्चजना इति पञ्चविंशतितत्त्वानां पृथगुक्तेरपसिद्धान्तात् । गुणानां मिथोभेद आधारत्वेनात्मनिष्कर्षेऽपि नभसो नाधेयान्तरेभ्यो युक्ता पृथगुक्तिरिति भावः ।
किञ्च पञ्चविंशतिसङ्ख्यादृष्टावपि न साङ्ख्यीयतत्त्वधीः, सङ्ख्येयमात्रेण सङ्ख्याया युक्तत्वादित्याह —
कथं चेति ।
कथं तत्त्वानामश्रुतत्वं जनशब्देन श्रुतत्वात् , तत्राह —
जनेति ।
सङ्ख्यैव सङ्ख्येयं कल्पयन्ती साङ्ख्यीयतत्त्वानि विषयीकरिष्यतीत्यर्थोपपत्तिमाशङ्क्याह —
अर्थान्तरेति ।