अद्वैतशारदा

न्यायनिर्णयव्याख्या

१ परिच्छेदः

यथो­प­क्र­मा­द­र्था­न्तरे प्रसिद्धोऽपि ज्योतिःशब्दः स्वार्था­त्प्र­च्या­वि­त­स्त­था­का­शो­प­क्र­मा­द्ब्र­ह्मा­दि­शब्दः स्वार्था­त्प्र­च्या­व्य­ता­मिति मत्वा हेतुमाह —
आकाशेति ।
निर्विशेषे ब्रह्म­ण्यु­क्त­श्रु­ते­र­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे वाय्वा­दि­मा­त्रा­धि­ष्ठा­ना­का­शा­त्म­क­ब्र­ह्मो­पास्त्या क्रममुक्तिः, सिद्धान्ते सर्वा­धि­ष्ठा­न­ब्र­ह्म­धिया साक्षा­न्मु­क्ति­रिति फलभेदः ।

रूढिग्रहे तस्य नाम­रू­प­नि­र्व­ह­ण­म­यु­क्त­मि­त्या­शङ्क्य नाम­रू­प­श­ब्दाभ्यां प्रसि­द्ध­दे­व­द­त्ता­दि­सं­ज्ञानां सिता­सि­ता­दि­रू­पाणां च स्वीका­रा­त्त­दा­श्र­या­व­का­श­दा­न­द्वारा भूताकाशेऽपि तन्निर्वहणं युक्तमित्याह —
नामेति ।

‘आका­श­स्त­ल्लि­ङ्गात्’ इत्यनेन गता­र्थ­त्व­मा­श­ङ्क्याह —
स्रष्टृ­त्वा­दे­श्चेति ।
तत्र हि सर्व­ज­ग­दु­त्प­त्ते­रे­व­का­र­सि­द्ध­नि­र­पे­क्ष­का­र­ण­त्वस्य प्रश्न­प्र­त्यु­क्ति­सा­मा­ना­धि­क­र­ण्य­सा­म­र्थ्यस्य च दृष्टे­र्ब्र­ह्म­प­रत्वं, नैवमिह तत्परत्वे किञ्चिदसाधारणं लिङ्ग­मि­त्य­ग­ता­र्थ­ते­त्यर्थः । तस्य च श्रुत्या प्रसि­द्ध­व­दु­पा­दा­ना­त्प्र­मि­तस्य बृह­त्त्वा­द्ब्र­ह्मत्वं, आभू­त­स­म्प्ल­व­स्था­ना­द­मृ­तत्वं, आप्नो­ती­त्या­त्मत्वं व्यापित्वात् । तस्मा­न्ना­मा­दि­व­द्भू­ता­का­शो­पा­स्त्यर्थं वाक्यमित्यर्थः ।

पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति —
एवमिति ।

आका­श­श­ब्दा­द्भू­ता­काशो भाति, कुतो ब्रह्मधीरित्याह —
कस्मादिति ।

हेतु­मा­दा­या­र्था­न्त­र­त्व­व्य­प­देशं विशदयति —
अर्था­न्त­र­त्वा­दीति ।
भूताकाशस्यापि नाम­रू­पा­भ्या­म­र्था­न्त­रत्वं, देव­द­त्ता­दि­श­ब्दस्य नाम­त्वा­न्नी­ल­पी­तादे रूप­त्वा­त्ता­भ्या­म­न्य­त्वस्य भूताकाशे सिद्ध­त्वा­दि­त्या­श­ङ्क्याह —

न चेति ।
यत्र नामरूपशब्दौ सम्भूयोक्तौ तत्र शब्दार्थावेव श्रुतिषु गृह्येते ‘तन्ना­म­रू­पा­भ्या­मेव’ इत्यादौ तथा दृष्टेः । न च शब्दा­र्था­न्त­र्भू­तस्य भूताकाशमपि ततोऽ­र्था­न्त­र­त्व­मि­त्यर्थः ।

किञ्च भूताकाशमपि विकारतया नाम­रू­पा­न्त­र्भूतं कथ­मा­त्मा­न­मु­द्व­हेत् , न च तन्निर्वाहकत्वं निरङ्कुशं श्रुुतं पर­त­न्त्र­भू­ता­काशे कथ­ञ्चि­न्ने­य­मि­त्याह —
नामेति ।

अन्यत्र तन्निर्वहणस्य ब्रह्म­क­र्तृ­क­त्व­सि­द्धे­स्त­दे­वा­त्रापि प्रत्य­भि­ज्ञा­त­मि­त्याह —
अनेनेति ।

नाम­रू­प­नि­र्वा­ह­क­त्व­मा­दि­श­ब्दोक्तं न ब्रह्म­सा­धा­र­ण­मिति शङ्कते —
नन्विति ।

जीवस्य तन्नि­र्वा­ह­क­त्वेऽपि ब्रह्मा­भे­दा­त्तस्य ब्रह्मा­सा­धा­र­ण­ते­त्याह —
बाढमिति ।

स्रष्टृ­त्वा­दि­ब्र­ह्म­लि­ङ्ग­मिह नेत्युक्तं प्रत्याह —
नामेति ।

आकाशशब्दस्य ब्रह्मार्थत्वे लिङ्गान्येव सन्ति, भूताकाशार्थत्वे श्रुतिलिङ्गे स्तः । तथा च केव­ल­लि­ङ्गे­भ्य­स्त­यो­र्ब­ली­य­स्त्वा­द्भू­ता­का­श­ग्र­ह­ण­मि­त्या­श­ङ्क्या­त्रापि ब्रह्मा­त्म­श्रुती विद्येते इत्याह —
तदिति ।
उप­क्र­म­स्था­का­श­श्रुतेः ‘आकाशो वै नाम’ इति प्रसि­द्ध­लि­ङ्गाच्च नाम­रू­प­नि­र्व­ह­ण­त­द­र्था­न्त­र­त्वा­मृ­त­त्व­लि­ङ्गा­नु­गृ­हीते ब्रह्मा­त्म­श्रुती बलवत्याविति भावः ।

‘आका­श­स्त­ल्लि­ङ्गात् ‘ इत्य­त्रो­प­क्र­मो­प­सं­हा­राभ्यां प्रतिपाद्यतया तात्प­र्य­व­दा­न­न्त्य­लि­ङ्गा­दा­का­शस्य ब्रह्म­त्व­मुक्तं, इहापि श्रुत्य­न्त­र­सि­द्ध­ना­मा­दि­नि­र्वा­ह­क­त्व­सं­वा­देन तात्प­र्य­व­ल्लि­ङ्गा­दा­का­शस्य ब्रह्म­त्व­मु­च्यते, तत्कथं पृथगारम्भ इत्याशङ्क्याह —
आकाश इति ।
तत्र स्रष्टृ­त्व­स्पा­ष्ट्य­व­दिह नेति विशेषोऽस्तीति भावः ॥ ४१ ॥

श्रुत्यु­पे­त­लि­ङ्गेन श्रुते­र्बा­ध­मुक्त्वा लिङ्गेन लिङ्गस्यैव बाधमाह —
सुषुप्तीति ।

साकाङ्क्षत्वं वारयति —
व्यपदेशादिति ।

षष्ठा­ध्या­य­वा­क्य­जातं विष­य­त्वे­नो­दा­ह­रति —
बृहदिति ।

देहादीनामन्यतमो वा तदतिरिक्तो वात्मेति जनकस्य प्रश्ने याज्ञ­व­ल्क्य­स्यो­त्त­रम् —
योऽयमिति ।
विज्ञानं बुद्धि­स्त­न्म­य­स्त­त्प्रायः । प्राणेषु हृदीति व्यतिरेकार्थे सप्तम्यौ । प्राण­बु­द्ध्या­ति­रिक्त इत्यर्थः ।

बुद्धि­वृ­त्ते­र्वि­वि­नक्ति —
अन्तरिति ।

अज्ञा­ना­द्भि­नत्ति —
ज्योतिरिति ।
पुरुषः पूर्णो योऽयमेवंभूतः स आत्मेत्यर्थः ।

तदेव वाक्य­म­धि­कृ­त्यो­प­क्र­म­स्थ­वि­ज्ञा­न­म­य­श­ब्दा­दु­प­सं­हा­र­स्थ­स­र्वे­शा­ना­दि­श­ब्दाच्च संशयमाह —
तदिति ।

अङ्गु­ष्ठ­मा­त्र­श्रु­ता­वु­प­क्र­मो­प­सं­हारौ न जीवार्थावत्र तथे­त्य­ग­ता­र्थत्वं मत्वा प्रश्नपूर्वकं पूर्वपक्षयति —
किं तावदिति ।
नामरूपाभ्यां भेदवादादाकाशं ब्रह्मेत्युक्ते भेदवादो नैकान्तः, असत्यपि भेदे ‘प्राज्ञे­ना­त्मना सम्परिष्वक्तः’ इति भेदो­प­चा­रा­दि­त्या­श­ङ्क्या­त्रापि मुख्य­भे­द­सा­ध­ना­द­धि­क­र­ण­स­ङ्गतिः । षष्ठाध्यायस्य निर्विशेषे ब्रह्म­ण्य­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे जीवानुवादेन कर्तृस्तुतिः, सिद्धान्ते तदनुवादेन तद्या­था­र्थ्य­धी­रिति फलभेदः ।

जीवे महा­नि­त्या­द्य­यु­क्त­मि­त्याह —
कुत इति ।

आदिमध्यावसानेषु जीवो­क्ते­स्त­त्परे सन्दर्भे महानज इत्यादि तत्रैव कथ­ञ्चि­न्ने­य­मि­त्याह —
उपक्रम इति ।
जीवानुवादेन कर्मा­पे­क्षि­त­क­र्तृ­स्तुत्या तद­धि­का­र­सि­द्धि­र­त्रे­ष्टे­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

पूर्व­प­क्ष­म­नु­भाष्य सिद्धा­न्त­य­न्ब­हि­रेव प्रतिज्ञामाह —
एवमिति ।

उप­क्र­मो­प­सं­हा­र­प­रा­म­र्शानां जीवार्थतया तत्परे सन्दर्भे कथ­मी­श्व­रो­क्ति­रि­त्याह —
कस्मादिति ।

तत्र हेतुं सोप­स्का­र­म­व­ता­र­यति —
सुषुप्ताविति ।

सौषुप्तं भेदवादमुदाहरति —
सुषुप्तौ तावदिति ।

कर­शि­र­श्च­र­णा­दि­मति शरीरे पुरु­ष­श­ब्दा­त्कुतः शारीरात्परस्य भेदः, तत्राह —
तत्रेति ।

तस्य वेदितृत्वेऽपि प्रकृते वेदितृत्वं नापेक्ष्यं, तदा बाह्या­न्त­रा­र्थ­धी­नि­षे­धा­दि­त्या­श­ङ्क्याह —
बाह्येति ।

पुरुषस्य शारीरत्वेऽपि प्रकर्षेणाज्ञ इति व्युत्पत्त्या प्राज्ञ­श­ब्दे­नापि तस्यै­वो­क्ते­र्भे­दो­क्ते­रौ­प­चा­रि­क­त्वान्न शारीरात्परस्य भेदो­क्ति­रि­त्या­श­ङ्क्याह —
प्राज्ञ इति ।

योगा­द्रू­ढे­र्ब­ली­यस्त्वं मत्वा हेतुमाह —
सर्वेति ।

औत्क्रा­न्ति­की­मपि भेदोक्तिं दर्शयति —
तथेति ।
अन्वा­रू­ढोऽ­धि­ष्ठित उत्स­र्ज­न्ना­ना­वे­द­नातः शब्दं कुर्वन्निति यावत् ।

शारीरशब्दस्य शरी­र­स­म्ब­न्धि­मा­त्र­त्वा­त्प्रा­ज्ञश्च प्रज्ञा­ति­श­य­त्वा­त्कुतो भेद­धी­रि­त्या­शङ्क्य रूढि­ब­ली­य­स्त्व­न्या­ये­नाह —
तत्रेत्यादिना ।

भेदोक्तिफलमाह —
तस्मादिति ।

पूर्व­प­क्ष­बी­ज­म­नु­भाष्य दूषयति —
यदुक्तमिति ।

उपक्रमस्य संसार्यर्थत्वं निरस्यति —
उपक्रम इति ।

तस्य प्रश्नद्वारा विषयमाह —
किमिति ।

अनु­वा­द­मा­त्र­मे­वा­त्रेष्टं किं न स्यादि­त्या­श­ङ्क्याह —
यत इति ।
बुद्धौ ध्याय­न्त्या­मात्मा ध्यायतीव चलन्त्यां चलतीव । वस्तुतो न ध्यायति न चलतीत्यर्थः ।

उप­सं­हा­रा­नु­सा­रे­णो­प­क्र­म­स्यै­क­स्मि­न्वाक्ये नेयत्वात्तस्य संसा­र्य­र्थ­त्वा­दु­प­क्र­मस्य तद­र्थ­ते­त्या­श­ङ्क्याह —
तथेति ।

तस्य परमार्थत्वं वाक्या­र्थोक्त्या वक्ति —
योऽयमिति ।

परामर्शस्य संसा­रि­गा­मि­त्व­मु­क्त­म­नूद्य पूर्वापरविरोधेन प्रत्याह —
यस्त्विति ।
बुद्धान्तो जागरितम् ।

संसा­रि­स्व­रू­प­बु­द्धे­र्वा­क्या­न­नु­गु­णत्वे हेतुमाह —
यत इति ।

अवस्थावत्त्वेन संसारित्वे दृष्टेऽपि तद्रा­हि­त्य­म­भि­प्रे­त­मि­त्यत्र नियामकं पृच्छति —
कथमिति ।

एकस्मिन्वाक्ये प्रसि­द्धा­प्र­सि­द्ध­यो­र्लि­ङ्गेषु प्रसि­द्धा­र्था­नु­वा­दे­ना­प्र­सि­द्धार्थ एव प्रतिपाद्यो वाक्य­स्या­पू­र्वा­र्थ­त्वा­येति न्यायेन जीव­लि­ङ्गै­स्त­द­नु­वा­देन तस्य ब्रह्मता वाक्ये­नो­च्य­तेऽ­न्यथा प्रश्ना­यो­गा­दि­त्याह —
यदिति ।
अतः कामा­दि­वि­वे­का­न­न्तरं विमोक्षाय तदौ­प­यि­क­सा­क्षा­त्का­रा­यैव ब्रूहीति पुनः पुना राजा यस्मात्पृच्छति तस्मा­त्प्र­श्न­सा­म­र्थ्या­त्प्र­तीचो ब्रह्मता प्रति­पा­द्ये­त्यर्थः ।

न केवलं प्रश्न­सा­म­र्थ्या­दे­वम् , उत्त­र­सा­म­र्थ्या­द­पी­त्याह —
यच्चेति ।
तेन जाग्र­द्भो­गा­दि­ना­न­न्वा­ग­तोऽ­स्पृष्टो भवति, असङ्गत्वादिति प्रत्यु­क्ते­रि­त्यर्थः ।

प्रतिवचनान्तरं दर्शयति —
अनन्वागतमिति ।
आत्मतत्त्वं पुण्य­पा­पा­भ्या­म­ना­घ्रा­त­मिति यावत् ।

तदा सुप्तौ हृदयस्य बुद्धेः सम्बन्धिनः शोका­न्का­मा­दी­न­शे­षा­न­ति­क्रान्तो भवतीत्याह —
तीर्णो हीति ।

अनुवादमात्रस्य प्रश्न­प्र­त्यु­क्ति­भ्या­म­योगे फलितमाह —
तस्मादिति ॥ ४२ ॥

वाक्य­स्या­सं­सा­रि­प­रत्वे हेत्वन्तरमाह —
पत्यादीति ।

सूत्रे हेत्व­न्त­र­द्यो­ति­च­का­रा­भा­वा­त्त­द­वि­ष­य­त्व­मा­शङ्क्य व्याचष्टे —
इतश्चेति ।

तत्र हेतुभावं योजयति —
यदिति ।

तत्रा­सं­सा­रि­वि­षयं शब्दजातमुदाहरति —
सर्वस्येति ।
स्वाधीनं सर्वमपि नियन्तुं शक्तिरस्तीति वक्तुं द्वितीयं विशेषणम् । स्वाधीनं स्वनियम्यं च सर्वमधिष्ठाय पालयतीति वक्तुं तृतीयम् ।

संसा­रि­स्व­भा­व­नि­षे­धकं शब्दजातमादत्ते —
स नेति ।

श्रुति­लि­ङ्ग­सि­द्ध­मु­प­सं­ह­रति —
तस्मादिति ।

निर्वि­शे­ष­प्र­चु­राणां वाक्यानां सिद्धोऽन्वयो ब्रह्मणीति पादा­र्थ­मु­प­सं­ह­रति —
इत्यवगम्यत इति ॥ ४३ ॥
इति श्रीशु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­वि­र­चिते शारी­र­क­न्या­य­नि­र्णये प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥
॥ इति प्रथमाध्यायस्य ज्ञेय­ब्र­ह्म­प्र­ति­पा­द­का­स्प­ष्ट­श्रु­ति­स­म­न्व­या­ख्य­स्तृ­तीयः पादः ॥

प्रसि­द्ध­गो­च­र­लि­ङ्ग­स्या­प्र­सि­द्ध­गो­च­र­लि­ङ्गेन बाध्य­त्व­व­त्प्र­क­र­णो­पे­त­स्था­ना­त्त­त्तु­ल्य­स्था­न­स्यैव बाध­मा­श­ङ्का­द्वारा कथयति —
आनुमानिकमिति ।

वेदान्तानां ब्रह्मणि सम­न्व­या­र्थ­म­ध्या­या­र­म्भा­दत्र तद­भा­वा­द­ध्या­या­स­ङ्ग­ति­मा­शङ्क्य वृत्तं कीर्तयति —
ब्रह्मेति ।
तदशब्दत्वेन प्रधा­न­वा­दि­वै­दि­क­श­ब्द­शू­न्य­त्वे­ने­त्यर्थः ।

ब्रह्मणोऽपि तुल्य­म­श­ब्द­त्व­मि­त्या­श­ङ्क्याह —
गतीति ।

तर्हि समन्वयस्य सिद्धत्वात्कृतं पादे­ने­त्या­श­ङ्क्याह —
इदमिति ।
अव­शि­ष्ट­म­ना­श­ङ्कि­त­म­नि­रा­कृतं चेत्यर्थः ।

शङ्कामेव दर्शयति —
यदिति ।
प्रतीत्या प्रधा­ना­र्प­क­त्वेऽपि वस्तुतो नेति वक्तुमाभासपदम् ।

ननु प्रधानस्य स्वरू­प­मे­वा­र्प्यते न जगत्कारणत्वं तत्कु­तोऽ­ति­व्याप्तिः शङ्क्यते, तत्राह —
अत इति ।
‘महतः परमव्यक्तम्’ इत्य­त्रा­व्य­क्तस्य प्रधानस्य कारणत्वं परशब्दाद्गम्यते । स हि प्रकर्षवाची । प्रकर्षश्च महतोऽव्यक्तस्य तत्कारणत्वं ‘अजामेकाम्’ इत्यादौ साक्षादेव प्रधानस्य कारणतासिद्धिः । कपि­ला­दि­स्मृ­त­य­श्चो­क्त­श्रु­त्य­नु­सा­रि­ण्य­स्त­दर्थाः । तेन श्रुति­स्मृ­ति­सिद्धा प्रधा­न­का­र­ण­ते­त्य­ति­व्या­प्ति­रि­त्यर्थः ।

तथापि कारणत्वं तद्वा­दि­वा­क्यो­क्ते­र्ब्र­ह्मणो युक्तं, षोड­शि­ग्र­ह­ण­व­त्का­रणे विकल्पसम्भवात् , तत्राह —
तदिति ।
क्रियायामिव वस्तुनि विकल्पायोगादिति भावः ।

सूत्रितं प्रधानाशब्दत्वं समन्वयदार्ढ्याय प्रपञ्चयितुं पादारम्भ इत्यस्त्येव सङ्ग­ति­रि­त्यु­प­सं­ह­रति —
अत इति ।
पूर्वं प्रधानाद्येव वेदान्तार्थ इत्युक्ते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मधीरुक्ता, तामुपेत्याधुना प्रधानाद्यपि कारणत्वेन समन्वयार्थः ।

न चाने­क­का­र­ण­वै­यर्थ्यं, कल्पभेदेन व्यव­स्था­ना­दि­त्याह —
आनुमानिकमिति ।
अपि­श­ब्दा­दे­क­श­ब्दाच्च ब्रह्मा­ङ्गी­का­रेण पूर्वपक्षो विचारश्चायं क्वाचित्क इति सूचितम् ।

अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्त­क्र­म­श्रौ­त­पा­रि­शे­ष्या­भ्या­मु­भ­य­प्र­त्य­भि­ज्ञया संशये प्रसि­द्ध­जी­वो­क्ति­भ­ङ्गे­ना­प्र­सि­द्ध­ब्र­ह्मो­क्ति­व­द­प्र­सि­द्ध­प्र­धा­नो­क्ति­प­र­मेव काठकवाक्यमिति पूर्व­प­क्ष­य­न्नु­प­ल­ब्धि­मु­दा­ह­रति —
काठके हीति ।
अत्र प्रधा­न­स्या­श­ब्द­त्व­प्र­ति­पा­द­नेन सम­न्व­य­दा­र्ढ्या­दस्ति श्रुत्या­दि­स­ङ्गतिः । पूर्वपक्षे प्रधानस्यापि शब्द­व­त्त्वा­द्ब्र­ह्म­ण्य­न्व­या­नि­यतिः, सिद्धान्ते तस्या­श­ब्द­त्वा­द्ब्र­ह्म­ण्य­न्व­य­नि­य­ति­रिति फलभेदः ।

कथमत्र प्रधा­न­म­व्य­क्त­प­दा­दु­क्त­मि­त्या­शङ्क्य प्रधाने स्थानं मानमाह —
तत्रेति ।
स्मृतिः साङ्ख्यस्मृतिः । श्रुतिः सप्तम्यर्थः ।

अव्य­क्त­श्रु­ति­रपि प्रधाने मानमित्याह —
तत्रेति ।

साङ्ख्य­स्मृ­ति­सि­द्ध­प्र­धा­न­स्या­व्य­क्त­श­ब्दे­नोक्तौ तदीयां रूढिं हेतूकरोति —
स्मृतीति ।

पारि­भा­षि­क­त्वा­द­व्य­क्त­श­ब्द­स्या­नि­र्णा­य­क­त्व­मा­श­ङ्क्योक्तं —
शब्दादीति ।

रूढि­यो­गा­भ्या­म­व्य­क्त­श­ब्दस्य प्रधानवाचित्वे फलितमाह —
तस्येति ।

तथापि कारणत्वं तस्या­श­ब्द­मि­त्या­श­ङ्क्याह —
तदिति ।
श्रुतिः ‘अजामेकाम्’ इत्याद्या । स्मृतिः साङ्ख्यीया । ‘विकारांश्च गुणांश्चैव विद्धि प्रकृ­ति­स­म्भ­वान्’ इत्याद्या च । ‘भेदानां परिमाणात्’ इत्यादिर्न्यायः । नच प्रक­र­ण­पा­रि­शे­ष्याभ्यां शरीरमव्यक्तं, तस्य स्पष्टत्वेन तच्छ­ब्दा­न­र्ह­त्वात् । अतो जगत्कारणस्य प्रधानस्य शब्दवत्त्वान्न गति­सा­मा­न्य­मि­त्यर्थः ।

स्थाना­दि­भि­रुक्तं प्रत्याह —
नैतदिति ।

तत्रादौ श्रुतिं निराह —
नहीति ।

कुतो न तदस्तित्वपरं स्मार्त­प्र­धा­न­स्यै­वात्र प्रत्य­भि­ज्ञा­नात् , नेत्याह —
नहीति ।

यादृशमित्यस्य व्याख्यानम् —
स्वत­न्त्र­मि­त्यादि ।

साङ्ख्य­स्मृ­ति­सि­द्धा­व्य­क्त­श­ब्दस्य श्रुतावपि प्रयोगात्तेन प्रत्यभिज्ञातं प्रधा­न­मि­त्यु­क्त­मा­श­ङ्क्याह —
शब्देति ।

शब्द­स्या­र्थ­व्या­प्ते­र­र्थ­स्यापि प्रत्य­भि­ज्ञा­न­मा­शङ्क्य यौगि­क­त्वा­त्त­दे­का­र्था­सि­द्धि­रि­त्याह —
स चेति ।

रूढ्या तन्मात्रसिद्धौ कुतो योगा­द्दु­र्ब­ला­द­र्था­न्तरं शङ्क्यते, तत्राह —
न चेति ।

परस्य प्रधाने रूढि­र­व्य­क्त­श­ब्द­स्या­स्ती­त्या­श­ङ्क्याह —
या त्विति ।
नहि परीक्षकाणां पारिभाषिकी प्रसि­द्धि­र्वे­दा­र्थ­नि­र्ण­य­नि­मित्तं, परी­क्ष­क­वि­प्र­ति­पत्त्या वेदार्थेऽपि तत्प्रसङ्गात् । लौकिकी प्रसिद्धी रूढिः । तथा ‘य एव च लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः’ इति न्यायादित्यर्थः ।

श्रूतिं दूषयित्वा स्थानं दूषयति —
न चेति ।

मात्रचोऽर्थं स्फुटयति —
असतीति ।

स्थानस्यापि नास्ति तद्रू­प­प्र­त्य­भि­ज्ञा­पेक्षा स्वत एव प्रमाणत्वेन निश्चा­य­क­त्वा­दि­त्या­श­ङ्कया तद्रू­प­वि­प­री­त­प्र­त्य­भि­ज्ञा­स­त्त्व­म­त्रे­ष्ट­मिति मत्वा विपरीतरूपज्ञाने स्थाना­द­र्था­सिद्धौ दृष्टान्तमाह —
नहीति ।

कथं तर्हीह विप­री­त­रू­प­प्र­त्य­भि­ज्ञे­त्या­शङ्क्य सूत्रभागमवतार्य विभजते —
प्रकरणेति ।
‘आत्मानं रथिनं विद्धि’ इत्य­स्मि­न्वाक्ये बुद्ध्या­त्म­नो­र्मध्ये शरीरस्य श्रुत­त्वा­त्त­दे­व­त्रापि मह­च्छ­ब्दि­त­बु­द्धि­पु­रु­ष­म­ध्य­स्थ­म­व्य­क्त­श­ब्देन गृह्यते । श्रौतक्रमस्य स्मार्त­क्र­मा­द्ब­ली­य­स्त्वा­दि­त्यर्थः ।

उभयोरपि स्थानत्वात्कुतः श्रौतं स्थानमास्थाय शरीरमेव ग्राह्यमित्याह —
कुत इति ।

प्रक­र­णा­द्य­नु­गृ­ही­त­त्वेन श्रौतक्रमस्य प्राब­ल्या­दि­त्याह —
प्रकरणादिति ।

तदुभयं वक्तुमुपक्रमते —
तथाहीति ।

तत्र प्रकरणं विविच्य दर्शयति —
अतीतेति ।
रूपकक्लृप्तिः सादृश्यकल्पना । आत्मनो भोक्तू रथित्वं शरी­रा­ख्य­र­थ­स्वा­मि­त्वम् ।

तत्र हि भोक्ता प्रधानं स्थूलं शरीरं भोगायतनत्वेन गुणतया रथवदवधेयमित्याह —
आत्मानमिति ।

विवे­का­वि­वे­क­प्र­धा­न­वृ­त्तिभ्यां बुद्धिरेव शरीरद्वारा सुखदुःखे भोक्ता­न­मु­प­न­य­तीति मत्वाह —
बुद्धिमिति ।

मन­साऽ­श्व­र­श­ना­स्था­नी­येन विवेकिना विषयेभ्यः श्रौत्रादीनि निगृह्यन्ते, तेनाविवेकिना तेषु प्रवर्त्यन्ते, तेन मनसो युक्तं प्रग्र­ह­त्व­मि­त्याह —
मन इति ।

असं­य­ता­नी­न्द्रि­याणि पुरुषं संसारानर्थं, संयतानि मुक्तिद्वारं प्रापयन्तीत्याह —
इन्द्रियाणीति ।
यथा­श्वोऽ­ध्वा­न­मा­लक्ष्य चर­त्ये­व­मि­न्द्रि­य­हयाः ।

स्वार्थमुपलभ्य चरतीत्याह —
विषयानिति ।
शरीरादिषु मध्ये शब्दा­दी­न्वि­ष­या­नि­न्द्रि­य­ह­य­गो­च­रा­ना­हु­रिति योजना ।

ननु मार्गे रथिनो रथाद्यपेक्षा न भोगे चिद्रूपतया स्वभावेनैव तद्योगादतो देहादीनां रथा­दि­क­ल्प­ना­वै­षम्यं, तत्राह —
आत्मेति ।
आत्मा भोक्ते­त्या­हु­रिति सम्बन्धः ।

तस्या­स­ङ्ग­स्या­र्थे­न्द्रि­या­सं­नि­कर्षे भोगा­यो­गा­दि­न्द्रि­य­म­नो­योगो यथा भवतीति क्रियाविशेषणेन तस्य भोक्तृ­त्व­मु­प­पा­द­यति —
इन्द्रियेति ।
यद्वात्मा देहः, देहे­न्द्रि­या­दिषु युक्तमात्मानं भोक्ते­त्या­हु­रिति योजना ।

प्राक­र­णि­क­स­म्ब­न्ध­स्या­का­ङ्क्षा­धी­न­त्वा­त्पू­र्व­वा­क्य­स्थ­दे­ह­स्या­व्य­क्त­श­ब्दा­काङ्क्षां वक्तुं रथा­दि­रू­प­क­क­ल्प­ना­फलं वदन्परमपदस्य प्रकरणिनो मुख्य­स्या­का­ङ्क्षा­म­व­ता­र­यति —
तैश्चेति ।

परमपदस्य स्वरूपे परत्वे चाकाङ्क्षामाह —
किमिति ।

आका­ङ्क्षा­द्व­य­शा­न्त­येऽ­न­न्तरं ग्रन्थमादत्ते —
तेभ्य इति ।

पूर्ववाक्ये शरीरस्य प्रकृतत्वेऽपि प्रधा­न­मे­वा­त्रा­व्य­क्त­मि­त्या­श­ङ्क्याह —
तत्रेति ।

प्रकरणं पदर्श्य परिशेषं दर्शयितुमारभते —
तत्रेति ।

पूर्व­त्रा­नु­क्ता­ना­म­र्था­ना­मि­हो­क्ति­व­त्प्र­धा­न­स्यापि स्यादि­त्या­शङ्क्य तेषां विष­य­श­ब्दे­नो­क्ते­र्मै­व­मि­त्याह —
अर्था इति ।

अर्थशब्देन विष­यो­क्ति­र­युक्ता, विष­या­णा­मि­न्द्रि­ये­भ्योऽ­न्त­र­ङ्गेभ्यो बाह्यतया पर­त्वा­यो­गा­दि­त्या­श­ङ्क्याह —
तेषां चेति ।
आन्तरत्वेन श्रेष्ठ­त्वा­भा­वेऽपि तेषामतिग्रहतया ग्रह­रू­पे­न्द्रि­या­पे­क्षया प्राधान्यस्य श्रुत्यु­क्त­त्वा­त्प­र­त्वम् । ‘अष्टौ ग्रहा अष्टावतिग्रहाः’ इति श्रुत्या घ्राण­जि­ह्वा­वा­क्च­क्षुः­श्रो­त्र­म­नो­ह­स्त­त्व­गि­न्द्रि­येभ्यो ग्रहेभ्यो गन्ध­र­स­ना­म­रू­प­श­ब्द­का­म­क­र्म­स्प­र्श­वि­षया अतिग्रहा उक्ताः । तत्र गृह्णन्ति वशीकुर्वन्ति पुरुषमिति ग्रहा इन्द्रियाणि । तेषामपि ग्राहकत्वं विष­या­धी­न­मि­त्य­ति­ग्रहा विष­या­स्ते­ना­ति­ग्र­ह­तया तेषां प्राधा­न्य­मि­त्यर्थः ।

तर्हि कथमर्थेभ्यो मनसः परत्वं, तस्यापि ग्रहत्वेन घ्राणा­दि­सा­म्या­दि­त्या­शङ्क्य स्वग­त­वि­शे­ष­णा­र्थे­भ्य­स्तस्य परत्वमाह —
विषयेभ्यश्चेति ।

तथापि कथं बुद्धेर्मनसः सकाशात्परत्वं, तयोर्भोक्तारं प्रत्य­वि­शे­षा­दि­त्या­श­ङ्क्याह —
मनसस्त्विति ।
निश्चयद्वारा विषया भोक्तु­रु­प­कु­र्वन्ति निश्चयश्च बुद्धिरिति संशयात्मकमनसो बुद्धि­प्रा­धा­न्य­मि­त्यर्थः ।

बुद्ध्यु­प­हि­त­स्या­त्म­न­स्ततो न परत्वं महत्त्वं चेत्याशङ्क्य यो रथित्वेन पूर्वत्रोक्तः सोऽत्र गृह्यत इत्याह —
बुद्धेरिति ।

तत्प्र­त्य­भि­ज्ञानं तत्र हेतू­कु­र्वं­स्त­द्धे­तु­माह —
आत्मेति ।

यत्तु कथमस्य परत्वमिति, तत्राह —
भोक्तुश्चेति ।

यत्पुनर्न तस्य महत्त्वमिति, तत्राह —
महत्त्वं चेति ।

तर्हि ‘महतः परमव्यक्तम्’ इति न वक्तव्यं, किं त्वात्मनः परमिति, मह­च्छ­ब्द­स्या­त्म­वा­चि­त्वा­दि­त्या­श­ङ्क्याह —
अथवेति ।
सङ्क­ल्प­वि­क­ल्प­रू­प­म­न­न­शक्त्या हैरण्यगर्भी बुद्धिर्मनः ।

तस्या व्यष्टिमनःसु समष्टितया व्याप्तिमाह —
महानिति ।

सङ्क­ल्पा­दि­श­क्ति­तया तर्हि सन्देहात्मत्वं, तत्राह —
मतिरिति ।

मह­त्त्व­मु­प­पा­द­यति —
ब्रह्मेति ।

भोग्य­जा­ता­धा­र­त्व­माह —
पूरिति ।

निश्च­या­त्म­त्व­माह —
बुद्धिरिति ।

कीर्ति­श­क्ति­म­त्त्व­माह —
ख्यातिरिति ।

निय­म­न­श­क्ति­म­त्त्व­माह —
ईश्वर इति ।

लोके यत्प्रकृष्टं ज्ञानं ततोऽनतिरेकमाह —
प्रज्ञेति ।

तत्फलमपि ततो नार्था­न्त­र­वि­ष­य­मि­त्याह —
संविदिति ।

चित्प्र­धा­न­त्व­माह —
चितिरिति ।

ज्ञात­स­र्वा­र्था­नु­स­न्धा­न­श­क्ति­माह —
स्मृतिश्चेति ।

सर्वत्र विद्व­त्प्र­सि­द्धि­म­नु­कू­ल­यति —
परिपठ्यत इति ।

श्रुतिरपि हिर­ण्य­ग­र्भ­बुद्धौ वेदा­वि­र्भा­व­मी­श्व­रा­नु­ग्र­ह­व­शा­द­भि­व­दन्ती तदीयां बुद्धि­मु­क्त­ल­क्षणां विवक्षतीत्याह —
य इति ।

परत्वं तस्याः साधयति —
सर्वासामिति ।

तर्हि पूर्व­त्रा­नु­क्त­हि­र­ण्य­ग­र्भ­बु­द्धे­रिव प्रधा­न­स्या­पी­होक्तिः स्यात् , नेत्याह —
सा चेति ।
हिरुगिति पृथक्त्वोक्तिः ।

कथं बुद्धेरेव परा बुद्धि­रि­त्या­शङ्क्य सर्वा­सा­मि­त्य­त्रोक्तं स्फुटयति —
तस्या इति ।
व्यष्टि­बु­द्ध्या­श्र­य­त्वा­त्परा सम­ष्टि­बु­द्धि­रिति बुद्धे­रि­त्या­दिना तदु­क्ति­र­वि­रु­द्धे­त्यर्थः ।

तर्हि पूर्वाक्तस्य रथि­नोऽ­नु­क्ति­व­दिह शरीरस्यापि च रथस्य स्यादि­त्या­श­ङ्क्याह —
एतस्मिन्निति ।

ननु पुरुषोक्त्या न रथिग्रहस्तस्य जीव­त्वा­त्पु­रु­षस्य परमात्मत्वात् , तत्राह —
परमार्थत इति ।

परिशेषमुपसंहरति —
तदेवमिति ।

प्रक­र­ण­प­रि­शे­षा­भ्या­म­व्यक्तं शरीरमिति प्रतिज्ञातं निगमयति —
इतराणीति ।

देहादिषु रथा­दि­क­ल्प­ना­फ­ला­लो­च­ना­या­मपि शरी­र­मे­वा­व्य­क्त­मि­त्याह —
शरीरेति ।
सुखादिर्वेदना ।

देहादिसंयोगे हेतुः —
अविद्यावत इति ।

तत्संयोगफलमाह —
भोक्तुरिति ।
देहा­दि­व्य­ति­रे­क­बो­धा­धी­न­मा­त्मनो ब्रह्म­त्वा­धि­ग­ति­फ­लम् । नच प्रतियोगिनो देहादेरग्रहे तद्व्यतिरेकधीः । तथा­चे­न्द्रि­या­दि­व­देव शरीरमपि ग्राह्य­मि­त्य­व्य­क्त­श­ब्दस्य तदर्थतेत्यर्थः ।

प्रत्य­ग्ब्र­ह्म­धी­रि­हा­भी­ष्टेति कथं दृष्टि­रि­त्या­श­ङ्क्या­त्मनो दुर्बो­ध­त्वोक्त्या तद्धी­हे­तु­वि­धे­रि­त्याह —
तथाचेति ।

अप्र­का­श­स्व­भा­वत्वं व्यासेधति —
दृश्यते त्विति ।

श्रव­णा­दि­प­रि­पा­का­न­न्त­र्य­माह —
अग्र्ययेति ।

सूक्ष्मा­र्थ­वि­ष­य­तया सूक्ष्मत्वम् , तन्नि­ष्ठा­ना­मे­वो­क्त­बु­द्धि­द्वारा तद्दर्शनं न बहि­र्मु­खा­ना­मि­त्याह —
सूक्ष्मेति ।

वाक्य­ता­त्प­र्य­माह —
वैष्णवस्येति ।

कुतस्तर्हि तद्धी­रि­त्या­श­ङ्क्या­न­न्त­र­वा­क्य­म­व­ता­र­यति —
तदिति ।

ब्रह्मा­त्म­धी­सा­ध­न­वि­धायि वाक्यं व्याकरोति —
एतदिति ।

वागिति द्वितीयालोपस्य छान्द­स­त्वा­द्वा­च­मि­त्यु­क्तम् । वाचो ग्रहणं बाह्ये­न्द्रि­यो­प­ल­क्ष­ण­मि­त्यु­पेत्य वाक्यार्थमाह —
वागादीति ।

तथा च सति मनसि सङ्क­ल्पा­दि­स­म्भ­वा­न्नै­क­र­स­ब्र­ह्म­धी­रि­त्या­श­ङ्क्याह —
मनोऽपीति ।

बुद्धेरपि विष­य­प्रा­व­ण्या­त्तस्यां सत्यां न ब्रह्म­धी­रि­त्या­श­ङ्क्याह —
तामिति ।

महत्यात्मनि पृथगवस्थिते नैक्य­धी­रि­त्या­श­ङ्क्याह —
महान्तं त्विति ।

तस्या­धि­ष्ठा­ना­न्तरं नेति सूचयति —
परस्यामिति ।

प्रक­र­णा­त्प­रि­शे­षा­च्चा­व्य­क्त­पदं शरीरमेव दर्शयतीति पूर्वत्र व्याख्यातं दर्शयति —
चेति ।

विधान्तरेऽपि पुन­र्व्या­ख्या­या­धुना सूत्रा­र्थ­मु­प­सं­ह­रति —
तदेवमिति ॥ १ ॥

अव्यक्तपदस्य देहे प्रवृ­त्ति­यो­ग्य­त्व­माह —
सूक्ष्मं त्विति ।

शङ्कोत्तरत्वेन व्याख्यातुं वृत्तमनूद्य शङ्कां दर्शयति —
उक्तमिति ।

प्रवृ­त्ति­नि­मि­त्ता­भा­वान्न शरी­र­म­व्य­क्त­श­ब्द­मिति शङ्कामेव विशदयति —
कथमिति ।

दुर्निरूपत्वं तत्रा­व्य­क्त­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­मि­त्या­श­ङ्क्याह —
यावतेति ।

स्पष्टतरत्वेन व्यक्त­श­ब्दा­र्ह­त्वेऽपि तस्मि­न्न­व्य­क्त­पदं किं नोच्यते, तत्राह —
अस्पष्टेति ।

उत्तरत्वेन सूत्रमवतार्य तदक्षराणि व्याकरोति —
अत इति ।
इहे­त्यु­दा­ह­र­णोक्तिः ।

स्थूलस्य देहस्य कुतः सूक्ष्मत्वं, तदाह —
कारणेति ।

अव्यक्तशब्देन कारणात्मना सूक्ष्मस्य देहस्य वक्तुमिष्टत्वे हेतुमाह —
सूक्ष्मस्येति ।

अक्ष­रा­र्थ­मुक्त्वा प्रवृ­त्ति­नि­मित्तं व्यक्तीकर्तुं विवक्षितमर्थमाह —
यद्यपीति ।

भूत­सू­क्ष्म­स्या­व्य­क्त­श­ब्दा­र्ह­त्वेऽपि किं जातं स्थूलस्य देह­स्ये­त्या­श­ङ्क्याह —
प्रकृतीति ।
प्रकृ­ते­र्वि­का­रा­णा­म­न­न्य­त्वा­द्वि­कारे प्रकृ­ते­र­व्य­क्त­त्व­मु­प­च­रि­त­मि­त्यर्थः ।

प्रकृतिशब्दस्य विकारे प्रयोगे श्रौतं दृष्टान्तमाह —
यथेति ।
गोभि­स्त­द्वि­कारैः पयोभिर्मत्सरं सोमं श्रीणीत ‘श्रीञ् पाके’ इत्यस्य धातोर्लोटि मध्य­म­पु­रु­ष­ब­हु­व­च­नम् । विकारापन्नं कुर्यात् । पाकार्थत्वेऽपि हिरण्येन श्रीणीतेतिवदत्र सम्बन्धार्थत्वं श्रीणीतेरिष्टम् । तथा कार­ण­वा­च­क­म­व्य­क्त­पदं तदभिन्नकार्ये भव­त्यौ­प­चा­रि­क­मि­त्यर्थः ।

अव्य­क्ता­त्का­र­णा­द्वि­का­रा­णा­म­न­न्यत्वे हेतुमाह —
श्रुतिश्चेति ।

अव्य­क्त­म­व्या­कृ­त­मि­त्य­न­र्था­न्त­र­मि­त्यु­पेत्य व्याचष्टे —
इदमिति ।

तदास्य स्वरू­पे­णा­सत्त्वं व्यावर्तयति —
बीजेति ।
बीजमेव शक्ति­र­ती­न्द्रि­य­त्वात् । तदात्मना स्थितमिति यावत् ॥ २ ॥

उक्तश्रुत्या प्रधानप्रसक्तिं प्रत्याह —
तदधीनत्वादिति ।

तद्व्या­ख्या­तु­मादौ व्यावर्त्यां शङ्कां दर्शयति —
अत्रेति ।
प्रकृता श्रुतिः सप्तम्यर्थः ।

जग­तोऽ­व्य­क्त­श­ब्दा­र्ह­त्व­मि­दा­नी­म­वि­व­क्षितं, शरीरस्य तु कारणात्मना तच्छब्दत्वं प्रति­ज्ञा­त­मि­त्या­श­ङ्क्याह —
तदात्मनेति ।

सिद्धा­न्त­म­नू­द्या­निष्टं प्रसञ्जयति —
स एवेति ।
तर्हि तस्यां प्रागवस्थायाम् ।

एवं सति ।
प्रागवस्थं जग­द­व्य­क्त­श­ब्द­यो­ग्य­मि­त्या­दा­विष्टे सतीत्यर्थः ।

सुख­दुः­ख­मो­हा­त्मकं कार्यं तादृगेव कारणं गमयतीति हेतुमाह —
अस्यैवेति ।

तत्र सूत्र­मु­त्त­र­त्वेन व्याकर्तुं भूमिकां करोति —
अत्रेति ।

कथं तर्हि भव­द्भि­र­भ्यु­प­ग­म्यते, तदाह —
परमेति ।

तस्यैव जग­दु­पा­दा­न­त्वा­दा­न­र्थ­क्या­देषा नोपे­ये­त्या­श­ङ्क्याह —
सा चेति ।

तदधीनत्वादिति व्याख्या­या­र्थ­व­दि­त्यंशं व्याख्याति —
अर्थवतीति ।

तदेव समर्थयते —
नहीति ।
कूट­स्था­स­ङ्गा­द्व­यस्य ब्रह्मणः स्रष्टृ­त्वा­नु­प­पत्त्या माया­श­क्ति­रे­ष्ट­व्ये­त्यु­क्तम् ।

इदानीं बन्ध­मो­क्ष­व्य­व­स्था­नु­प­प­त्ते­श्चे­त्याह —
मुक्तानां चेति ।
यस्यां सत्यां जननमरणादिः संसारः, यन्निवृत्त्या तन्निवृत्तिः, सा माया­श­क्ति­रे­ष्ट­व्ये­त्यर्थः ।

ननु न बीज­श­क्ति­र्वि­द्यया दह्यते, वस्तुत्वात् , आत्मवत् , नेत्याह —
अविद्येति ।

केचित्तु प्रति­जी­व­म­वि­द्या­श­क्ति­भे­द­मि­च्छन्ति । तन्न । अव्य­क्ता­व्या­कृ­ता­दि­श­ब्दा­या­स्तस्या भेद­का­भा­वा­दे­क­त्वेऽपि स्वशक्त्या विचि­त्र­का­र्य­क­र­त्वा­दि­त्याह —
अव्यक्तेति।

न च तस्या जीवाश्रयत्वं, जीवशब्दवाच्यस्य कल्पि­त­त्वा­त्त­द­वि­द्या­रू­प­त्वा­त्त­च्छ­ब्द­ल­क्ष्यस्य ब्रह्मा­व्य­ति­रे­का­दि­त्याह —
परमेश्वरेति ।

माया­वि­द्य­यो­र्भे­दा­दी­श्व­रस्य मायाश्रयत्वं जीवा­ना­म­वि­द्या­श्र­य­तेति वदन्तं प्रत्याह —
मायामयीति ।
यथा मायाविनो माया परतन्त्रा तथैषापीत्यर्थः ।

प्रतीतौ तस्या­श्चे­त­ना­पे­क्षा­या­माह —
महासुप्तिरिति ।

अग्रहवत्त्वेन विप­र्या­स­व­त्त्वेन चान­न्त­जी­व­नि­र्भा­स­हे­तु­त्वे­नापि सार्थवतीत्याह —
यस्यामिति ।

अर्थापत्त्या मायाशक्तेः सत्त्वमुक्तवा तत्रैव श्रुतिमाह —
तदिति ।
अन­व­च्छि­न्न­त्वा­दा­का­शत्वं, तत्त्वज्ञानं विनाऽ­नि­वृ­त्ते­र­क्ष­रत्वं, विचि­त्र­का­र्य­त्वा­न्मा­या­त्व­मिति भेदः ।

इदा­नी­म­नि­र्वा­च्य­त्वे­ना­व्य­क्त­श­ब्दा­र्ह­त्व­माह —
अव्यक्तेति ।

उक्तमर्थं प्रकृतश्रुत्या योजयति —
तदिदमिति ।

कुतस्तस्य महतः सका­शा­त्प­र­त्व­मि­त्या­शङ्क्य बुद्धिपक्षे तावदुपपत्तिमाह —
अव्यक्तेति ।
युक्तं हि कार्यात्कारणस्य परत्वमिति भावः ।

जीवपक्षेऽपि परत्वोपपत्तिमाह —
यदा त्विति ।
दृष्टं हि राजादेः स्वाधी­ना­द­मा­त्यादेः परत्वमिति भावः ।

कुतो जीव­भा­व­स्या­व्य­क्ता­धी­न­त्व­म­वि­द्या­धी­न­त्वा­दि­त्या­श­ङ्क्या­व्य­क्त­स्योक्तं स्वरूपं स्मारयति —
अविद्येति ।

सम्प्रति जीवभावस्य तदधीनत्वमाह —
अवि­द्या­व­त्त्वे­नेति ।

तथापि कथं शरीरस्य महतः सकाशात्परत्वं, तत्राह —
तच्चेति ।

इन्द्रि­या­दी­ना­मपि प्रकृ­त्य­भे­दा­द­व्य­क्तत्वं परत्वं च तुल्यमिति कुतः शरीरस्यैवेह ग्रह­ण­मि­त्या­श­ङ्क्याह —
सत्यपीति ।

आचा­र्य­दे­शी­य­म­त­मु­त्था­प­यति —
अन्ये त्विति ।

तन्मतेऽपि सूत्रद्वयं योजयितुं पातनिकामाह —
द्विविधमिति ।

तस्य द्विविधस्यापि प्रामाणिकत्वमाह —
स्थूलमिति ।

देह­द्व­य­स्या­प्र­स्तु­त­त्व­मा­श­ङ्क्याह —
तच्चेति ।

भूमिकां कृत्वा ‘सूक्ष्मं तु’ इति सूत्रावयवं व्याकरोति —
इहेति ।

पूर्ववाक्ये द्वयोः संनिधौ सूक्ष्म­स्यै­वात्र ग्रहे को हेतु­रि­त्या­शङ्क्य ‘तदर्हत्वात्’ इति हेत्वर्थमाह —
सूक्ष्मस्येति ।

कथं तर्हि तस्य महतो जीवा­त्प­र­त्व­मि­त्या­शङ्क्य द्वितीये सूत्रे तदधीनत्वं व्याचष्टे —
तदधीनत्वाच्चेति ।
सूक्ष्मदेहाधीनौ विवे­का­वि­वे­काभ्यां बन्धमोक्षौ, तेन तद्वतो जीवा­त्प­र­त्व­मि­त्यर्थः ।

तत्र सौत्रं दृष्टान्तमाह —
यथेति ।
इतिशब्दो दार्ष्टा­न्ति­क­द्योती वृत्ति­का­र­म­त­स­मा­प्त्य­र्थश्च ।

वृत्तिकृतां मतं निराचष्टे —
तैस्त्विति ।

अव्यक्तपदमेव व्यक्त­स्थू­ल­दे­ह­व्या­वृ­त्ति­हे­तु­रि­त्याह —
अाम्नातस्येति ।

अाम्नातमपि पद­मु­भ­य­सा­धा­र­ण­मि­त्या­श­ङ्क्याह —
आम्नातं चेति ।

पूर्वो­त्त­रा­म्ना­त­यो­रे­क­वा­क्य­ता­धी­न­त्वा­द­र्थ­दृ­ष्टे­स्त्व­न्मते चैक­वा­क्य­ता­भा­वा­त्कु­तोऽ­र्थधीः, कुत­श्चा­व्य­क्त­श­ब्देन स्थूल­दे­ह­नि­वृ­त्ति­रि­त्याह —
नेति ।

एक­वा­क्य­ता­धी­ना­र्थ­धी­रि­त्ये­त­देव कथ­मि­त्या­श­ङ्क्याह —
नहीति ।

शरीरशब्दस्य स्थूलशरीरे रूढेस्तस्य प्रकृतस्य हानं भूत­सू­क्ष्म­स्या­प्र­कृ­त­स्या­व्य­क्त­श­ब्द­त्व­प्र­क्रिया च निष्प्रा­मा­णि­का­याता स्यादित्याह —
प्रकृतेति ।

पूर्वो­त्त­रा­म्नाते तर्ह्ये­क­वा­क्य­ता­मा­प­द्यै­वार्थं प्रतिपादयेतां, तत्राह —
न चेति ।

अस्तु तर्हि तद्व­शा­दे­क­वा­क्य­ता­पत्तिः, तत्राह —
तत्रेति ।
आकाङ्क्षाया वाक्यै­क्य­धी­हे­तुत्वे सतीति यावत् । उभयमपि प्रकृ­त­त्वा­द्ग्रा­ह्य­त्वे­ना­का­ङ्क्षितं, तेन तद्वारा पद­प्र­वृ­त्ते­र­व्य­क्त­प­द­स्यो­भ­य­त्रापि प्रवृत्तौ प्रक­र­ण­पा­रि­शे­ष्य­यो­स्तु­ल्य­त्वा­न्नै­कत्र निय­मोऽ­स्ती­त्यर्थः ।

सूक्ष्मस्यैव देह­स्या­काङ्क्षा, दुःशोधत्वात् , तस्या­त्म­नोऽ­ति­सं­नि­कृ­ष्टस्य सहसा ततो निष्क्र­ष्टु­म­श­क्य­त्वात् । अन्यस्य तु दुष्टत्वेन दृष्ट­त्वा­दा­त्मनो निष्कर्षस्य सुक­र­त्वा­दि­श­ङ्क्याह —
न चेति ।

कुतो न मन्तव्यं, तत्राह —
यत इति ।
इहेति प्रकरणोक्तिः ।

वैराग्याय शोधनमत्र नेष्टमिति कथं गम्यते, तत्राह —
नहीति ।

किं तर्हि विवक्षितं, तदाह —
अनन्तरेति ।

तस्य तस्य परत्वेन वचनात्परमपदमेव कथमत्राभीष्टं, तत्राह —
तथाहीति ।
पर­म­प­द­दि­द­र्श­यि­षया पार­म्प­र्य­म­त्रा­भी­ष्ट­मिति पूर्वो­त्त­रा­लो­च­नातो भातीत्यर्थः ।

किञ्चा­व्य­क्त­प­देन स्थूलमेव शरीरमुक्तं, ‘बुद्धिं तु सारथिं विद्धि’ इत्यादिना सूक्ष्मदेहस्य विभक्तत्वेन रथ­क­ल्प­ना­वि­ष­य­त्वा­त्तस्य शरी­र­प­दे­ना­नु­क्त­त्वात् , इहापि ‘मनसस्तु परा बुद्धिः’ इति गृही­त­त्वे­ना­प­रि­शे­षा­दिति मत्वोपेत्यापि दूषयति —
सर्वथेति ।
स्थूल­सू­क्ष्म­यो­र­न्य­त­र­ग्र­हेऽ­पीति यावत् ।

तथा नामास्त्विति ।
त्वदिच्छया सूक्ष्म­दे­ह­स्यै­वा­व्य­क्त­श­ब्दत्वं स्यादित्यर्थः ।

किञ्चिदिति ।
प्रधा­न­वा­द­नि­रा­क­र­ण­मु­क्तम् ॥ ३ ॥

प्रधा­न­स्या­व्य­क्त­श­ब्दा­वा­च्यत्वे हेत्वन्तरमाह —
ज्ञेयत्वेति ।

तद्व्याख्यातुं पातनिकां करोति —
ज्ञेयत्वेनेति ।

गुणानां पुरुषाणां चान्तरं विवेकः, तस्यैव मुक्तिहेतुत्वेन ज्ञेयत्वमिष्टं न प्रधा­न­स्ये­त्य­श­ङ्क्या­र्था­न्त­र­स्यापि तदिष्टमित्याह —
नहीति ।
इति गुण­त्र­य­सा­म्या­व­स्था­रू­प­प्र­धा­न­स्यापि ज्ञेयत्वमिति शेषः ।

तथापि विवेकगुणतया प्रधानस्य ज्ञेयत्वं न स्वप्र­धा­न­त­ये­त्या­शङ्क्य प्रकृ­ति­ल­या­दि­सि­द्ध्यर्थं स्वप्रधानतयापि तज्ज्ञे­य­त्व­मि­ष्ट­मि­त्याह —
क्वचिच्चेति ।

इहापि ज्ञेय­त्व­म­व्य­क्त­श­ब्दे­नो­क्त­मि­त्या­शङ्क्य सूत्रार्थमाह —
न चेति ।

तदेव स्पष्टयति —
पदेति ।

नन्वव्यक्तशब्दे प्रयुक्ते तद­र्थ­स्या­र्था­देव ज्ञेयत्वमज्ञाते शब्दाप्रयोगात् , नेत्याह —
न चेति ।
आर्थि­क­धि­योऽ­पु­म­र्थ­त्व­स­म्भ­वा­च्छा­ब्द­मेव फलवज्ज्ञानं, न चाव्यक्ते तथाविधा धीरित्यर्थः ।

पञ्च­म्य­र्थ­म­नूद्य चकारद्योत्यमाह —
तस्मादिति ।

त्वन्म­तेऽ­प्यु­क्त­नी­त्या­व्य­क्त­प­द­म­न­र्थ­क­मि­त्या­श­ङ्क्याह —
अस्माकं त्विति ।
परमपदस्य सर्व­स्मा­त्प­र­त्व­ज्ञा­नार्थं देहा­द्यु­प­न्या­सोऽ­स्म­त्पक्षे स्यादि­त्य­व्य­क्त­श­ब्देन स्थूल­दे­हो­क्ति­र­र्थ­व­ती­त्यर्थः ॥ ४ ॥

ज्ञेय­त्वा­व­च­न­स्या­सि­द्धि­मा­शङ्क्य परिहरति —
वदतीत्यादिना ।

चोद्यं विवृणोति —
अत्रेति ।
उक्तहेतोर्न प्रधा­न­म­व्य­क्त­मि­त्युक्ते सतीत्यर्थः ।

साधि­त­त्वा­न्ना­सि­द्धि­रिति शङ्कते —
कथमिति ।

वाक्य­शे­षे­णो­त्त­रम् —
श्रूयते हीति ।
अशब्दमित्यादिषु प्रत्येकं नित्यशब्दः सम्बध्यते ।

ननु निष्प्रपञ्चं ब्रह्मोक्त्वा तस्य प्रत्यक्त्वेन ज्ञाना­न्मु­क्ति­र­त्रो­च्यते न प्रधानस्यात्र प्रसङ्गोऽस्ति, तत्राह —
अत्रेति ।

शब्दादिशून्यतया स्मार्त­प्र­धा­नस्य प्रत्य­भि­ज्ञा­ना­त्त­दे­वा­त्रो­क्त­मि­त्याह —
तस्मादिति ।

तथापि ‘महतः परमव्यक्तम्’ इत्यत्र किं जातं, तदाह —
तदेवेति ।

उत्तरमाह —
अत्रेति ।

तत्र नञोऽर्थमाह —
नेहेति ।

कस्य तर्हि ज्ञेय­त्वे­ना­त्रोक्तिः, तत्राह —
प्राज्ञो हीति ।

प्रधानेऽपि सम्भवति परमात्मग्रहे को हेतुरित्याह —
कुत इति ।

तत्र हेतुमुक्त्वा विभजते —
प्रकरणादिति ।

पर­मा­त्म­प्र­क­र­णस्य प्रकृतत्वे हेतुमाह —
पुरुषादिति ।

इत­श्चा­श­ब्दा­दि­वाक्ये परस्यैवात्मनो ज्ञेयत्वमित्याह —
एष इति ।

तत्रैव हेत्वन्तरमाह —
तस्यैवेति ।
‘दृश्यते त्वग्र्यया बुद्ध्या’ इत्या­दि­त­दा­का­ङ्क्ष­णम् ।

तस्यैव ज्ञेय­त्व­मि­त्यत्र हेत्वन्तरमाह —
यच्छेदिति ।

फल­वि­शे­ष­श्रु­ते­रपि परस्यैव ज्ञेयत्वमित्याह —
मृत्य्विति ।

प्रधानेऽपि तद­वि­रु­द्ध­मि­त्या­श­ङ्क्याह —
नहीति ।

कथं तर्हि तेषामभ्युपगमः, तत्राह —
चेतनेति ।

सर्वो­प­नि­ष­दा­लो­च­ना­या­मपि परस्यैव ज्ञेय­त्व­म­त्रे­ष्ट­मि­त्याह —
सर्वेष्विति ।

तुल्य­श्रु­ति­सि­द्ध­ब्र­ह्मो­क्ति­स­म्भवे विजा­ती­य­स्मृ­ति­सि­द्ध­प्र­धा­नो­क्त्य­यो­गान्न प्रधा­न­धी­रि­त्यु­प­सं­ह­रति —
तस्मादिति ॥ ५ ॥

प्रतिज्ञाद्वये युक्त्यन्तरमाह —
त्रयाणामिति ।

प्राथमिकं चकारं प्रति­ज्ञा­प­र­त्वेन व्याकरोति —
इतश्चेति ।

प्रधा­न­स्या­प्र­का­न्त­त्व­मि­तः­श­ब्दार्थं स्फुटयति —
यस्मादिति ।
कठानां वल्ली­भि­र­व­च्छिन्ने ग्रन्थे त्रयाणामेव प्रश्नप्रतिवचने दृष्टे, मृत्यो­र्न­चि­के­तसं प्रति वर­त्र­य­दा­न­स्या­न्य­था­नु­प­प­त्ते­रि­त्यर्थः ।

सौत्रमेवकारं व्याचष्टे —
नेति ।

क्रमेण प्रश्न­त्र­य­मु­दा­ह­रति —
तत्रेत्यादिना ।
हे मृत्यो, स मदर्थं दत्तवरस्त्वं स्वर्ग्यं स्वर्ग­हे­तु­म­ग्नि­म­ध्येषि स्मरसि, तेन तद्विषयां विद्यां मदर्थं वदेत्यर्थः ।

मनुष्ये तद्देहे प्रेते त्यक्तप्राणे सति । येयं विचिकित्सा तामेव पक्षभेदेन दर्शयति —
अस्तीति ।
सन्दि­ग्ध­मा­त्म­त­त्त्व­मे­त­दि­त्यु­क्तम् ।

प्रतिवचनत्रयमपि क्रमेण कथयति —
प्रतीति ।
लोक­हे­तु­वि­रा­ड्दृ­ष्ट्यो­पा­स्य­त्वा­ल्लो­का­दि­श्चि­त्योऽ­ग्नि­स्त­मु­क्त­वा­न्मृ­त्यु­र्न­चि­के­तसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वाग्निश्चीयते तत्सर्वमुवाचेति सम्बन्धः ।

हन्तेदानीं गुह्यं गोप्यं सनातनं चिरन्तनं ब्रह्म ते तुभ्यं प्रवक्ष्यामीति प्रतिज्ञाय जीवमपि ब्रवीति —
यथेति ।
आत्मा मरणं प्राप्य यथा भवति तथा च वक्ष्यामीति योजना ।

कथं स मरणे भवति, तत्राह —
योनिमिति ।

मृतानां पुन­र्वि­चि­त्र­ज­न्मा­पत्तौ निमित्तमाह —
यथेति ।

यथाश्रुतमिति ।
येन .यादृशं देव­ता­ज्ञा­न­म­नु­ष्ठितं स तदनुरूपामेव .योनिं प्राप्नो­ती­त्यर्थः ।

‘देवैरत्रापि विचिकित्सितं पुरा’ इत्यारभ्य ‘यस्मि­न्ने­ता­वु­पा­श्रितौ’ इत्यनेन सन्दर्भेण पर­मा­त्म­प्र­ति­व­च­न­रू­पेण जीव­प्र­श्ना­द्व्य­व­हि­त­मपि यथोक्तं वचो योग्य­त्वा­ज्जी­व­वि­ष­य­मि­त्याह —
व्यवहितमिति ।

एव­मि­ति­सू­त्रा­व­य­वार्थं विवृणोति —
नैवमिति ।

सूत्राक्षराणि योजयित्वा तद­र्थो­क्त्य­र्थ­मा­क्षि­पति —
अत्रेति ।
परापरार्थे प्रश्नप्रस्तावे सतीति यावत् ।

उक्तिप्रकारं प्रकटयति —
योऽयमिति ।
इतिशब्दो विम­र्शा­व­सा­न­द्योती ।

कल्पद्वयेऽपि फलं पृच्छति —
किञ्चेति ।

तत्राद्यमनूद्य सूत्रावयवायोगं फलमाह —
स एवेति ।

कल्पा­न्त­र­म­नू­द्या­क्षेप्ता स्वपक्षसिद्धिं फलमाह —
अथेत्यादिना ।
न चात्म­ज्ञा­न­व­र­दा­ना­न्त­र्भू­त­मेव परमात्मज्ञानमपि प्रधा­न­ज्ञा­न­स्यापि तद­न्त­र्भा­व­स­म्भ­वा­दिति भावः ।

सूत्रा­व­य­व­वि­रो­ध­मग्रे परि­ह­रि­ष्य­न्नाद्यं पक्ष­म­ङ्गी­कृ­त्याह —
अत्रेति ।

द्विती­य­स्त्व­न­भ्यु­प­ग­मा­देव परास्त इत्याह —
नैवेति ।
प्रकृतो ग्रन्थः सप्तम्यर्थः । अतो न प्रधा­नो­क्ति­प्र­स­क्ति­रिति शेषः ।

वरदानं विनाऽ­पू­र्व­प्र­श्न­क­ल्प­ना­भावे हेतुमाह —
वाक्येति ।

कथं वाक्योपक्रमः, तद्विरोधो वा प्रश्ना­न्त­रो­प­गमे कथमित्याशङ्क्य वाक्योपक्रमं दर्शयति —
वरेति ।

उप­क्र­मा­नु­सा­रि­त्व­मु­प­सं­हा­र­स्यापि सूचयति —
आ समाप्तेरिति ।

आद्य­न्त­यो­रे­क­रू­प­तया वाक्यवृत्तिमेव विशदयति —
मृत्युरिति ।
वर­दा­न­त­दु­पा­दा­न­वि­ष­या­ख्या­यि­का­द्यो­त­ना­र्थ­मु­भ­यत्र किलेत्युक्तम् ।

वरत्रयमेव विशेषतो बुभुत्समानं प्रकटयति —
नचिकेता इति ।

ननु पितुः सौमनस्यं वरो न भवति, तत्र प्रश्नाभावात् , किन्तु अग्नि­जी­व­प­रा­त्मार्थाः प्रश्नरूपा वराः, तेषु प्रत्युक्तेरपि भावात् , तत्राह —
येयमिति ।
प्रेते सतीत्युपक्रमे सतीति शेषः ।

वाक्योपक्रमं दर्शयित्वा प्रश्ना­न्त­र­क­ल्पने तद्विरोधं दर्शयति —
तत्रेति ।

वाक्य­ब­ला­त्प्र­श्नै­क्य­म­युक्तं लिङ्गा­त्त­द्भे­द­सि­द्धे­रिति शङ्कते —
नन्विति ।

प्रष्टव्यभेदं स्पष्टयति —
पूर्वो हीति ।
नहि तस्य परविषयत्वं, तत्रास्ति नास्तीति विचि­कि­त्सा­यो­गा­त्तस्य सदे­क­ता­न­त्वा­दि­त्यर्थः ।

तथापि न प्रष्टव्यभेदः, द्वितीयेऽपि प्रश्ने जीव­स्यै­वो­क्ते­रि­त्या­श­ङ्क्याह —
जीवश्चेति ।

कस्तर्हि द्विती­य­प्र­श्नार्थो न परो जीवादन्योऽस्ति, तत्राह —
प्राज्ञस्त्विति ।
धर्मा­दि­गो­च­र­त्वा­गो­च­र­त्वाभ्यां तद्भे­द­धी­रि­त्यर्थः ।

अर्थ­स्व­भा­वा­लो­च­नया प्रश्न­भे­द­मुक्त्वा प्रश्न­स्व­भा­वा­लो­च­न­यापि तद्भेदमाह —
प्रश्नेति ।

वैषम्यं स्फोरयति —
पूर्वस्येति ।

आर्थे शाब्दे च वैषम्ये फलितमाह —
तस्मादिति ।

प्रष्ट­व्य­भे­दा­दुक्तं प्रश्नभेदं प्रत्याह —
नेति ।

तदेव व्यतिरेकद्वारा स्फोरयति —
भवेदिति ।

ननु प्राज्ञादन्यो जीवो वादिभिरिष्यते, नेत्याह —
नन्विति ।
कठ­श्रु­ति­म­पे­क्ष्या­न्त­र­शब्दः ।

एत­द्वा­क्य­ग­त­लि­ङ्गे­भ्योऽपि जीवपरयोरैक्यं वक्तुं क्रमेण लिङ्गा­न्यु­प­न्य­स्यति —
इहेति ।

यद्यपि पर­मा­त्म­प्र­श्नस्य प्रत्युक्तिं जन्मादिनिषेधेन मृत्युराह, तथापि कथमैक्यं, तत्राह —
सतीति ।

अप्र­स­क्त­नि­षे­ध­स्या­ति­प्र­स­ङ्गि­त्वा­त्प्र­सङ्गे सत्येव निषेधो युक्त­श्चे­ज्जी­व­स्यापि ब्रह्म­व­न्नि­त्य­त्वा­ज्ज­न्मा­द्य­यो­गान्न तन्निषेधः स्यादि­त्या­श­ङ्क्याह —
प्रसङ्गश्चेति ।
पर­स्मि­न्ने­वा­वि­द्यया देह­यो­गा­ज्ज­न्मा­दि­प्र­स­ङ्गा­द­ध्य­स्ता­त्त­द्ध­र्म­व्यु­दा­सेन जीव­त­त्त्व­वे­द­न­मेव पर­प्र­श्न­स्यो­त्तरं मन्वा­न­स्त­यो­रैक्यं सूचयतीत्यर्थः ।

तत्रैव लिङ्गान्तरमाह —
तथेति ।
अन्तशब्दो मध्यवाची । येन साक्षिणा लोको भूयो भूयः पश्यति तमात्मानमिति सम्बन्धः ।

वाक्य­ता­त्प­र्य­माह —
स्वप्नेति ।

यद्यपि जीवतत्त्वधिया शोको­च्छि­त्ति­स्त­थापि कथं जीव­प्रा­ज्ञ­यो­रैक्यं, तत्राह —
प्राज्ञेति ।
‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ इत्या­दि­द­र्श­ना­दिति शेषः ।

इतश्च तयोरैक्यमित्याह —
तथेति ।
इह देहे यच्चैतन्यं तदेवामुत्र पर­त्रा­दि­त्या­दा­व­सं­सारि ब्रह्म, यच्चामुत्र तदेवेह देहेऽ­नु­प्र­वि­ष्ट­मि­त्य­न्यो­न्यै­क्य­मि­त्यर्थः ।

भेद­दृ­ष्ट्य­प­वा­दाच्च तयोरैक्यमित्याह —
मृत्योरिति ।
यः कश्चिदिह ब्रह्मात्मनि नानेव मिथ्याभेदं पश्यति स मरणं प्राप्नोति । पुनः पुनर्म्रियते न पुम­र्थ­भा­गि­त्यर्थः ।

जीव­प्र­श्रा­न­न्तरं तत्त­त्का­मो­क्ति­पू­र्वकं प्रलो­भ­ने­ना­ति­दु­र्ल­भ­त्व­ख्या­प­ना­दपि जीवो ब्रह्मा­त्म­ना­भीष्ट इत्याह —
तथेति ।

अधि­का­रि­त्व­जि­ज्ञा­स­ना­दपि जीवस्य ब्रह्मात्मना प्रति­पा­द्य­ते­त्याह —
यदेति ।
‘नान्यं तस्मात्’ इत्या­दि­श्रु­ते­र­च­लनं नचिकेतसोऽवसीयते ।

वक्ष्य­मा­ण­वि­द्याया मुक्ति­हे­तु­त्व­ख्या­प­ना­दपि जीवस्य ब्रह्मा­त्म­ता­व­द­न­मि­त्याह —
तदेति ।
‘अन्य­च्छ्रे­योऽ­न्य­दु­तैव प्रेयः’ इत्या­द्य­भ्यु­द­य­निः­श्रे­य­स­वि­भा­गोक्तिः । ‘दूरमेते विपरीते’ इत्या­दि­वि­द्या­वि­द्या­वि­भा­ग­गी­रिति विभागः । त्वा त्वां बहवोऽपि कामा नालोलुपन्त श्रेयसो विच्छेदं न कृतवन्तस्ततो विद्यार्थिनं त्वां मन्येऽहमिति योजना । ‘त्वादृङ् नो भूयात्’ इति प्रश्नं प्रशंसन्यदुवाच तेनापीति सम्बन्धः ।

जीवप्रश्नस्य पर­मा­त्म­वा­क्ये­नो­त्त­रो­क्ते­रपि तयोरैक्यमित्याह —
तमिति ।

प्रशं­सा­नु­प­प­त्ति­रपि प्रश्न­यो­र­र्थैक्यं गमयतीत्याह —
यदिति ।
यद्विषयः प्रश्नो यत्प्रश्नस्तं विहायेति सम्बन्धः । प्रस्तु­त­प्र­श्न­वाची तच्छब्दः ।

प्रष्ट­व्य­भे­दा­भावे फलितमाह —
तस्मादिति ।

प्रश्न­स्व­भा­वा­लो­च­नया प्रष्ट­व्य­भे­द­मु­क्त­म­नूद्य प्रत्याह —
यत्त्विति ।

विशेषमेव दर्शयति —
पूर्वत्रेति ।
विशे­षो­क्ति­स­मा­प्ता­वि­ति­शब्दः ।

जीवस्य धर्मादिमतो न तद्र­हि­त­ब्र­ह्मै­क्य­मिति प्रष्ट­व्य­भे­द­मा­श­ङ्क्याह —
यावदिति ।

कथं तर्हि जीव­स्या­वि­द्या­व­त­स्त­द्धी­न­ब्र­ह्मैक्यं, तत्राह —
तदिति ।

अवि­द्या­नि­वृ­त्त्यु­त्त­र­का­ल­त्वा­दै­क्यस्य तर्हि कृत­क­त्वे­ना­नि­त्यत्वं, नेत्याह —
न चेति ।

उक्तं दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।

जीवब्रह्मैक्ये वर­दा­नो­प­क्र­मा­वि­रो­ध­मुक्त्वा जीव­प्र­श्न­स्या­व्य­व­हि­त­प्र­त्यु­क्ति­मत्त्वं, लाभान्तरमाह —
ततश्चेति ।

जीव­ब्र­ह्म­णो­रै­क्येन प्रश्नैक्ये कथं त्रयाणामिति सूत्रं, तत्राह —
सूत्रं त्विति ।

योजनामभिनयति —
एकत्वेऽपीति ।
कल्पितभेदेन सूत्र­यो­ज­ना­प्र­का­र­स­मा­प्ता­वि­ति­शब्दः ।

कल्पितभेदेन प्रश्नभेदे फलितमाह —
ततश्चेति ।

पर­मा­त्म­क­ल्प­ना­व­त्प्र­धा­न­क­ल्प­नापि किं न स्यात् , तत्राह —
प्रधानेति ।
वैषम्यं पर­स्मा­त्प्र­दा­न­स्येति शेषः ॥ ६ ॥

साङ्ख्य­प्र­सि­द्धे­र्वे­द­प्र­सिद्ध्या विरोधाच्च न सा वेदा­र्थ­नि­र्ण­य­हे­तु­रि­त्याह —
महद्वच्चेति ।

दृष्टान्तं व्याचष्टे —
यथेति ।
भोगा­प­व­र्ग­पु­रु­षा­र्थस्य मह­च्छ­ब्दि­त­बु­द्धि­का­र्य­त्वा­त्पु­रु­षा­पे­क्षि­त­फ­ल­का­रणं सदुच्यते । तत्र भावप्रत्ययोऽपि स्वरूपार्थो न सामान्यवाची । कार्यानुमेयं महन्न प्रत्यक्षमिति मात्र­श­ब्द­स्त­स्मि­न्प्र­थ­मजे प्रयुक्तोऽपीति सम्बन्धः ।

वैदि­क­प्र­यो­ग­मे­वाह —
बुद्धेरिति ।

तत्र महच्छब्देन साङ्ख्यी­य­म­ह­तोऽ­नुक्तौ हेतुसमाह —
आत्मेति ।
आदिशब्देन फल­भे­दो­क्ति­पु­रु­ष­श­ब्द­प्र­यो­गा­दयो गृह्यन्ते ।

सूत्रेऽभीष्टं दार्ष्टा­न्ति­क­माह —
तथेति ।

‘महतः परम्’ इत्य­त्रा­व्य­क्त­स्या­प्र­धा­नत्वे फलितमुपसंहरति —
अतश्चेति ॥ ७ ॥

कार­ण­वा­च­का­व्य­क्त­श­ब्देन कार्यं शरीरं लक्ष्य­मि­त्यु­क्तम् । इदानीं धर्म­वा­चि­लो­हि­ता­दि­प­दै­स्त­द्ध­र्मीणि तेजोऽबन्नानि लक्ष्यन्त इत्यु­पे­त्या­जा­म­न्त्रस्य प्रधानपरत्वं प्रत्याह —
चमसवदिति ।

अजाशब्दस्य छागतोऽपकृष्टस्य प्रधा­न­मा­य­यो­स्ते­जोऽ­बन्ने च गुणतो वृत्ति­यो­गा­द­जा­मन्त्रः प्रधानपरो वा तेजोऽ­ब­न्ना­ख्या­वा­न्त­र­प्र­कृ­ति­मा­या­रू­प­प­र­म­प्र­कृ­त्यो­र­न्य­त­र­परो वेति संशये पूर्वपक्षयति —
पुनरिति ।

प्रधा­न­स्या­श­ब्द­तायाः साधि­त­त्वा­द­स्थाने प्रत्य­व­स्था­न­मि­त्याह —
कस्मादिति ।

प्रधा­न­स्या­र्थ­तोऽ­प्र­त्य­भि­ज्ञा­ना­त्त­स्या­व्य­क्त­प­दा­वा­च्य­त्वेऽपि त्रिगु­ण­त्वा­दि­नाऽ­जा­मन्त्रे तत्प्र­त्य­भि­ज्ञा­ना­त्त­त्प­र­तेति मत्वाह —
मन्त्रेति ।
अजा­म­न्त्र­स्या­प्र­धा­न­प­र­त्वा­त्त­द­श­ब्द­त्वोक्त्या समन्वयस्यैव दार्ढ्या­त्पा­दा­दि­स­ङ्ग­तयः । पूर्वपक्षे प्रधानस्य शब्दवत्त्वेन गति­सा­मा­न्या­सिद्धिः, सिद्धान्ते तस्या­श­ब्द­त्वा­त्त­त्सि­द्धि­रिति फलभेदः ।

मन्त्र­व­र्ण­मे­वा­नु­क्रा­मति —
अजामिति ।

प्रधानस्य रूप­रा­हि­त्या­दे­त­त्प्र­ति­पा­द्यत्वं नास्ती­त्या­श­ङ्क्याह —
अत्रेति ।

रूढ्यभावे कथमभिधानं, गुण­वृ­त्त्ये­त्याह —
लोहितमिति ।

कुसु­म्भ­व­द­म्भो­व­न्मे­घ­वच्च तेषां तथात्वेऽपि प्रधानस्य किमायातं, तदाह —
तेषामिति ।
अवयवधर्मैरवयवाः प्रधानस्य सत्त्वा­द­य­स्तेषां धर्माः शुक्ला­द­य­स्तै­रि­त्यर्थः ।

लोहि­ता­दि­श­ब्दानां रञ्ज­नी­य­त्वा­दि­गु­ण­यो­गा­द्र­ज­आ­दि­प­रत्वे व्यवहितलक्षणा स्यात् , धर्मिणां तेजोऽबन्नानां ग्रहे नैवमित्याशङ्क्य तेषु जनि­म­त्त्वा­दा­कृ­त्य­भा­वा­च्चा­जा­श­ब्दा­यो­गान्न तल्लक्षणेत्याह —
नेति ।

‘रूढि­र्यो­ग­म­प­ह­रति’ इति न्यायेन शङ्कते —
नन्विति ।

रूढ्ययोगे योगवृत्त्यादानं युक्तमित्याह —
बाढमिति ।

वाक्यशेषस्य प्रधा­ना­नु­गु­ण्याच्च मन्त्रस्य तत्परतेत्याह —
सा चेति ।
त्रैगु­ण्या­न्विताः सुख­दुः­ख­मो­हा­न्विताः ।

आत्म­भे­द­वा­दि­त्वाच्च मन्त्रस्य प्रधानपरतेत्याह —
तामिति ।

अनुशयनमेव विशदयति —
तामेवेति ।

चतुर्थं पादं व्याकरोति —
अन्य इति ।

भुक्तभोगामिति व्याचष्टे —
कृतेति ।
शब्दा­द्यु­प­ल­ब्धि­र्भोगः । गुण­पु­रु­षा­न्य­ता­धी­र­प­वृ­ज्य­तेऽ­ने­ने­त्य­प­वर्गः ।

स्वरू­प­स्थि­ते­र­कृ­त­क­त्वा­त्पु­न­र्मु­क्ति­व­च­ना­च्चा­जा­म­न्त्रस्य प्रधा­न­वा­दा­नु­कूल्ये फलितमाह —
तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।

सौत्र­हे­तु­साध्यां प्रतिज्ञां पूरयति —
नेति ।

तदेव स्पष्टयति —
नहीति ।

तत्र हेत्वपेक्षायां प्रक­र­णो­प­प­द­वा­क्य­शे­षा­भा­वा­दिति सौत्रं हेतुं व्याचष्टे —
सर्वत्रेति ।

दृष्टान्तमादाय कर्माङ्गं व्याव­र्त्यो­प­नि­ष­त्प्र­सिद्धं चमसं दर्शयति —
चमसवदिति ।

अर्वा­ग्बि­ल­त्वा­दिना विशे­ष­सि­द्धि­मा­श­ङ्क्याह —
सर्वत्रेति ।
गिरि­गु­हा­दा­वि­त्यर्थः ।

दृष्टा­न्त­स्थ­मर्थं दार्ष्टान्तिके योजयति —
एवमिति ॥ ८ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं चोदयति —
तत्रेति ।
दृष्टान्तवाक्यं सप्तम्यर्थः । इहे­त्य­जा­म­न्त्रोक्तिः । चम­स­दृ­ष्टा­न्त­व­द­जा­मन्त्रे विशे­षा­श्र­व­णा­त्प्र­धा­न­मेव स्मार्तं ग्राह्य­मि­त्यर्थः ।

सूत्रमवतारयति —
अत्रेति ।

विजातीयस्मृतेः सजातीयश्रुतेः संनिधेर्लाघवेन श्रुत्य­न्त­रा­द­र्थ­नि­र्ण­योऽ­जा­म­न्त्र­स्येति व्याचष्टे —
परमेश्वरादिति ।
‘तत्तेजोऽसृजत’ इत्या­दि­श्रु­ते­र्वि­शे­ष­णम् । जरा­यु­जा­ण्ड­ज­स्वे­द­जो­द्भि­ज्ज­भे­दा­च्चा­तु­र्वि­ध्यम् । इयमजेति मान्त्रवर्णिकी प्रकृतिरुक्ता ।

ज्योति­रु­प­क्र­मेति विशेषोक्तौ तुशब्देन विशे­ष­गी­र्वृ­थे­त्या­श­ङ्क्याह —
तुशब्द इति ।

अव­धा­र­णा­रू­प­म­र्थ­मेव स्फोरयति —
भूतेति ।

स्मृतिमनुसृत्य गुणत्रयात्मिका कुतोऽसौ नेष्टेत्याह —
कस्मादिति ।

सूत्रा­व­य­वे­नो­त्त­र­माह —
तथेति ।

छान्दोग्ये तेजोऽ­ब­न्ना­ना­मी­श्व­र­का­र्याणां रोहि­ता­दि­रू­प­व­ता­मु­क्त­त्वेऽपि किमि­त्य­जा­मन्त्रे तान्येव वक्तव्यानीति, एकार्थत्वे हेत्व­भा­वा­दि­त्या­श­ङ्क्याह —
तानीति ।

स्मार्ते प्रधानेऽपि रोहि­ता­दि­श­ब्दानां नीतत्वात्तदेव किमित्यत्र न ग्राह्य­मि­त्या­शङ्क्य मुख्यसम्भवे रञ्जनादिना रोहि­ता­द्यु­प­चा­र­स्या­यो­गा­दि­त्याह —
रोहितादीनां चेति ।

शाखा­न्त­री­य­वा­क्येन शाखान्तरस्थं वाक्यं कथं निर्णे­त­व्य­मि­त्या­शङ्क्य सर्व­शा­खा­प्र­त्य­य­न्या­या­दि­त्याह —
असन्दिग्धेनेति ।

न पर­शा­खा­न्त­र­स्थ­वा­क्या­दि­ष्ट­सिद्धिः किन्तु पूर्वा­प­रा­लो­च­ना­या­मि­य­मपि श्वेता­श्व­त­र­श्रु­ति­र­स्म­द­नु­गु­णे­त्याह —
तथेति ।

ब्रह्मणः शुद्धत्वान्न जगद्धेतुतेति पृच्छति —
किमिति ।
यज्जगत्कारणं तत्किं ब्रह्म किं वाऽन्यदिति वा प्रश्नः, जगदुत्पत्तौ किमु­प­क­र­ण­व­द्ब्र­ह्मेति वा । ते ब्रह्म­वा­दि­नोऽ­नया रीत्या विमृश्य ध्यानाख्येन योगेनानुगताः पर­मा­त्मा­न­म­नु­प्र­वि­ष्टा­स्त­स्यैव देव­स्या­त्म­भू­ता­मै­क्ये­ना­ध्यस्तां मायाशक्तिं गुणत्रयात्मिकां त्रिगु­ण­ज­ग­न्नि­र्मा­ण­स­ह­का­रि­णी­म­प­श्य­न्निति श्रुते­र­जा­म­न्त्र­स्यापि मूल­प्र­कृ­ति­वि­ष­य­ते­त्यर्थः ।

न केव­ल­मु­प­क्र­मा­दे­व­मु­प­सं­हा­रा­द­पी­त्याह —
वाक्येति ।

परकीये प्रधाने मायाशब्दं वारयति —
मायिनं त्विति ।
अवि­द्या­श­क्ति­र्योनिः, तस्याश्चाभेदेन कार्यभेदेन भेदाद्वीप्सा । नच सा परेष्टा प्रकृतिः, एकस्य देवस्य तद­धि­ष्ठा­तृ­त्व­श्रुतेः ।

पूर्वो­त्त­र­वि­रो­धा­द­जा­म­न्त्रस्य प्रधा­ना­र्थ­त्वा­भावे स्थिते तदु­भ­या­नु­गु­ण्या­न्मा­या­श­क्ति­वि­ष­य­त्व­मेव तस्येत्याह —
प्रकरणात्त्विति ।

दैव्याः शक्तेः ‘तद्धेदं तर्ह्य­व्या­कृ­तम्’ इति श्रुत्य­न्त­र­प्र­सिद्धिं सूचयति —
अव्याकृतेति ।

तस्या­म­भि­व्य­क्त­ना­म­रू­प­का­र्य­लि­ङ्ग­क­म­नु­मा­न­माह —
नामेति ।
पूर्वो­त्त­र­वा­क्या­भ्या­मि­वेति वक्तुमपिशब्दः ।

कथमस्मिन्पक्षे लोहि­त­शु­क्ल­कृ­ष्णा­मिति कार­ण­भू­त­मा­या­श­क्ते­स्त्रै­रूप्यं, वैश्वरूप्यात् , तत्राह —
तस्याश्चेति ॥ ९ ॥

अवा­न्त­र­प­र­म­प्र­कृ­त्यो­र­न्य­त­रा­र्थत्वे मन्त्रस्योक्ते सत्य­वा­न्त­र­प्र­कृ­त्य­र्थ­त्व­म­मृ­श्य­न्नाह —
कथमिति ।

कानु­प­प­त्ति­रि­त्या­शङ्क्य रूढ्या योगाद्वा तद्धीरिति विकल्प्याद्यं दूषयति —
यावतेति ।
आकृतिर्जातिः ।

द्वितीयं प्रत्याह —
न चेति ।
जातिर्जन्म तदभावोऽजातिरेवं रूढियोगाभ्यां यस्मादजाशब्देन तेजोऽबन्नाख्या प्रकृतिर्न ज्ञातुं शक्या तस्मा­न्ना­जा­म­न्त्र­स्या­वा­न्त­र­प्र­कृ­त्य­र्थ­ते­त्यर्थः ।

तत्र सूत्र­मु­त्त­र­मि­त्याह —
अत इति ।

पक्ष­द्व­य­म­न­ङ्गी­का­र­प­रा­स्त­मि­त्याह —
नायमिति ।

अजाशब्दस्तर्हि कथ­म­वा­न्त­र­प्र­कृतौ वर्तते, तत्राह —
किमिति ।

कल्पनोपदेशं दर्शयति —
अजेति ।

तमेवोपदेशं दृष्टान्तेन स्पष्टयति —
यथेति ।

ननु छाया न लोहि­त­शु­क्ल­कृ­ष्णै­वा­न्य­थापि भानात् , तत्राह —
यदृच्छयेति ।
बर्करो बालपशुः ।

यत्तु क्षेत्र­ज्ञ­भे­दो­प­ल­म्भा­त्प्र­धा­न­वा­द­प्र­त्य­भि­ज्ञेति, तत्राह —
न चेति ।

तत्र हेतुः —
नहीति ।

व्यवस्थावादि शास्त्रं तदर्थं भेदमपि साध­यि­ष्य­ती­त्या­श­ङ्क्याह —
प्रसिद्धं त्विति ।

प्रमाणातिरेकेण प्रसि­द्ध्य­यो­गा­त्त­त्प्र­सि­द्धस्य तस्य प्रामाणिकतया वस्तु­ते­त्या­श­ङ्क्याह —
भेदस्त्विति ।

कथं तस्य कल्पि­त­त्व­मि­त्या­श­ङ्क्यै­क्य­वा­दि­वा­क्य­व­शा­दि­त्याह —
एक इति ।
श्रुत्य­न्त­र­मै­क्य­वादि सङ्ग्र­ही­तु­मा­दि­प­दम् ।

दृष्टा­न्त­म­व­तार्य व्याचष्टे —
मध्वादिवदिति ।

रोहि­ता­दि­श­ब्दानां रञ्ज­नी­य­त्वा­दि­गु­ण­सा­मा­न्य­व्य­व­धा­नेव रजः­स­त्त्वा­दि­व्य­व­हि­त­ल­क्ष­णा­नु­गृ­ही­ता­म­जा­श­ब्दस्य योगवृत्तिं प्रधाने बाधित्वा रोहि­ता­दि­गु­ण­सं­ह­ति­प्र­धानं तेजोऽ­ब­न्न­म­जा­कारं परि­क­ल्प्या­जा­श­ब्दस्य रूढिग्रहो युक्तः, समु­दा­य­प्र­सि­द्धि­त्या­गे­ना­व­य­व­प्र­सि­द्ध्या­श्र­य­ण­स्या­यु­क्त­त्वात् । इह च रूपकल्पनया समु­दा­य­प्र­सि­द्धे­र­न­पे­क्षा­यो­गा­दिति चका­रा­र्थ­म­भि­प्रे­त्या­वि­रोधं व्याकु­र्व­न्नु­प­सं­ह­रति —
तस्मादिति ।
तथा चाजा­म­न्त्र­स्या­वा­न्त­र­प­र­म­प्र­कृ­त्यो­र­न्य­त­रा­र्थ­त्वे­ना­प्र­धा­न­वि­ष­य­त्वा­त्त­स्या­श­ब्दत्वं सिद्धमित्यर्थः ॥ १० ॥

अजाशब्दस्य योगं निर­स्या­जा­म­न्त्रस्य प्रधानार्थत्वं निरस्तम् । इदानीं पञ्चजनशब्दस्य योगनिरासेन ‘यस्मिन्’ इत्या­दि­म­न्त्रस्य प्रधानार्थत्वं निरस्यति —
न सङ्ख्येति ।

पञ्चजनमन्त्रः साङ्ख्यी­य­त­त्त्व­परो वार्थान्तरपरो वेति योग­रू­ढ्य­वि­नि­ग­मा­द्वि­शये सङ्गतिमाह —
एवमिति ।
अध्यात्माधिकारे प्रसि­द्ध­च्छा­गाया अयोगादजा तेज­आ­दि­के­त्यु­क्तम् । अत्रापि प्रसि­द्ध­म­नु­ष्य­ग्रहे वाक्यस्य निस्ता­त्प­र्या­द­व­य­व­वृत्त्या साङ्ख्य­त­त्त्व­प­र­तेति सङ्गतिरित्यर्थः । पञ्च­ज­न­म­न्त्र­स्या­प्र­धा­न­प­र­त्वेन तद­श­ब्द­त्वोक्त्या सम­न्व­य­दृ­ढी­क­र­णा­त्पा­दा­दि­स­ङ्गतिः । पूर्वपक्षे प्रधा­न­श­ब्द­त्व­नि­वृत्त्या गति­सा­मा­न्या­सिद्धिः, सिद्धान्ते तद­श­ब्द­त्व­स्थित्या तत्सिद्धिरिति फलम् ।

तमेव मन्त्रं बृहदारण्यकस्थं पठति —
यस्मिन्निति ।
पञ्चजना वाक्यशेषस्थाः प्राणादयः पञ्चा­व्या­कृ­ता­ख्य­श्चा­काशो यस्मि­न्प्र­ति­ष्ठि­त­स्त­मेव निष्प्र­प­ञ्च­ब्र­ह्मा­त्म­क­म­मृ­त­मा­त्मानं मन्ये ।

यद्यपि पूर्वं मर्त्योऽभूतं तथापीदानीं विद्वा­न­मृ­तोऽ­स्मीति मन्त्रदृशो वचनम् । कथ­म­स्मा­न्म­न्त्रा­त्प्र­त्य­व­स्थानं साङ्ख्य­स्ये­त्या­श­ङ्क्याह —
अस्मिन्निति ।

तथापि कथं साङ्ख्य­वा­द­प्र­सङ्गः, तत्राह —
त इति ।

पञ्च­विं­श­ति­स­ङ्ख्या­दृ­ष्टा­वपि साङ्ख्यी­य­त­त्त्वा­सि­द्धि­रि­त्या­शङ्क्य सङ्ख्यैव सङ्ख्ये­या­का­ङ्क्षायां स्मृति­सि­द्ध­त­त्त्वानि सङ्गृ­ह्णा­ती­त्याह —
तथेति ।

न चाधा­र­त्वे­ना­त्म­नोऽ­व­स्था­ना­दा­का­शस्य च पृथ­क्क­थ­ना­त्र­यो­विं­श­ति­र्जना इति वाच्यं, मूलप्रकृतिं सत्त्वा­दि­भि­र्वि­भज्य पञ्च­विं­श­ति­त्व­क­ल्प­नात् । न चैव­मा­त्मा­का­शाभ्यां सप्तविंशतित्वं, गुणानां मूल­प्र­कृ­ति­मा­त्रे­णै­की­क­र­णा­दि­त्य­भि­प्रे­त्याह —
तावन्तीति ।

तत्र साङ्ख्य­स्मृ­ति­माह —
मूलेति ।
अविकृतिरन्यस्य कस्यचिद्विकारो नेति यावत् । मह­द­ह­ङ्का­र­प­ञ्च­त­न्मा­त्राणि सप्त प्रकृतिविकृतयः । महानहङ्कारस्य प्रकृ­ति­र्मू­ल­प्र­कृ­ते­र्वि­कृतिः । अहङ्कारोऽपि ताम­स­स्त­न्मा­त्राणां प्रकृतिः । सात्त्वि­क­स्त्वे­का­द­शे­न्द्रि­या­णाम् । तन्मा­त्रा­ण्या­का­शा­दीनां स्थूलानां प्रकृतयः । पञ्च­भू­ता­न्ये­का­द­शे­न्द्रि­याणि षोडशको गणो विकार एव । पृथिव्यादीनां घटा­दि­प्र­कृ­ति­त्वेऽपि तत्त्वा­न्त­र­प्र­कृ­ति­त्वा­द्वि­कृ­तय एव । पुरुषस्तु कौट­स्थ्या­त्प्र­कृ­ति­वि­कृ­ति­त्व­वि­र­ही­त्यर्थः ।

सङ्ख्यो­प­स­ङ्ग्र­हा­दिति व्याकु­र्व­न्पू­र्व­प­क्ष­मु­प­सं­ह­रति —
तथेति ।

सिद्धा­न्त­सू­त्र­म­व­तार्य प्रतिज्ञां विभजते —
तत इति ।

श्रुत्यु­क्त­स­ङ्ख्य­याऽ­पे­क्षि­त­स­ङ्ख्ये­य­वि­शे­षा­र्पणं स्मृतेर्युक्तं तयो­र्मू­ल­मू­लि­त्वा­दि­त्याह —
कस्मादिति ।

सौत्रं हेतुमुपादाय व्याचष्टे —
नामेति ।

नानात्वमेव न विरु­द्ध­मि­त्या­श­ङ्क्या­भि­प्रेतं नानात्वमाह —
नैषामिति ।
नहि सत्त्व­र­ज­स्त­मो­म­ह­द­ह­ङ्का­राणां क्रिया­गु­ण­जा­ती­ना­म­न्य­त­म­स्त­न्मा­त्रा­दिभ्यो व्यावृत्तः सत्त्वादिषु चानुवृत्तः कश्चिदेको धर्मोऽस्ति । नापि पृथि­व्य­प्ते­जो­वा­यु­घ्रा­णा­ना­मुक्तो धर्मः सम्भवति, आकाशस्य पृथ­गु­क्ते­र­प्र­वे­शात् । एवं रसनादिष्वपि पञ्चशः । साधा­र­ण­ध­र्म­वै­धु­र्य­मिति भावः ।

किं तेना­नु­प­यो­गि­ने­त्या­श­ङ्क्याह —
येनेति ।

पञ्च­विं­श­ति­स­ङ्ख्या­न्त­राले पञ्चानामपि पञ्चसङ्ख्यानां भावा­त्त­थो­क्ति­रि­त्या­श­ङ्क्याह —
नहीति ।
त्रय­स्त्रिं­श­द्देवा इति महासङ्ख्यामष्टौ वसव इत्य­वा­न्त­र­सङ्ख्या साधा­र­ण­ध­र्मा­धीना, तथात्रापि न साधारणधर्मादृते महा­स­ङ्ख्या­या­म­वा­न्त­र­स­ङ्ख्या­सि­द्धि­रि­त्यर्थः ।

अप­र­स­ङ्ख्या­पू­र्व­त्वा­त्प­र­स­ङ्ख्या­या­स्त­त्पौ­र्वा­प­र्य­ल­क्ष­ण­प्र­त्या­सत्त्या पर­स­ङ्ख्या­ल­क्ष­णा­र्थ­म­प­र­स­ङ्ख्यो­क्ति­रिति पूर्व­प­क्ष­दे­शी­य­श्चो­द­यति —
अथेति ।

तदेवोदाहरणेन स्फोरयति —
यथेति ।

असमासमङ्गीकृत्य पञ्च­श­ब्द­द्व­य­द­र्श­नेऽपि पञ्च­स­ङ्ख्या­द्व­य­रू­पा­वा­न्त­र­स­ङ्ख्यया पञ्च­विं­श­ति­ल­क्ष­ण­म­हा­स­ङ्ख्यो­प­ल­क्ष्यत्वे श्रुतिसम्भवे लक्षणा न युक्तेति परिहरति —
तदिति ।

किञ्च पञ्चशब्दस्य जनशब्देन सम­स्त­त्वा­त्प­ञ्च­स­ङ्ख्या­द्व­या­सिद्ध्या तद्वारा पञ्च­विं­श­ति­स­ङ्ख्यापि न सिध्यतीत्याह —
परश्चेति ।

समस्तत्वे हेतुमाह —
पारिभाषिकेणेति ।
अन्ता­नु­दा­त्त­स्वरो भाषि­त­ग्र­न्थ­सि­द्धोऽत्र पारिभाषिकः । तथाहि - प्रथ­मोऽ­स्मि­न्मन्त्रे पञ्चशब्दो भवत्युदात्तः, द्वितीयः सर्वानुदात्तः, जन­श­ब्द­श्चा­न्तो­दात्तः । तथाच न द्विती­य­प­ञ्च­श­ब्द­ज­न­श­ब्दयोः समा­स­म­न्त­रे­णा­न्त्य­स्या­का­र­स्यो­दा­त्त­त्व­मि­त­रेषां चानुदात्तत्वं, ‘समासस्य’ इति सूत्रेण समा­स­स्या­न्तो­दा­त्त­त्व­वि­धा­नात् । ‘अनुदात्तं पदमेकवर्जम्’ इति च सूत्रेणोदात्तः स्वरितो वा यस्मिन्पदे विधीयते तदेकं हित्वा शिष्ट­स्या­नु­दा­त्तत्वं स्मर्यते । एव­म­न्तो­दा­त्त­स्व­र­ब­ला­त्तत्र समासो निर्धारितः । भाषिके तु शत­प­थ­ब्र­ह्म­ण­स्व­र­वि­धा­य­क­ग्रन्थे ‘स्वरि­तोऽ­नु­दात्तो वा’ इति सूत्रेण यो मन्त्र­द­शा­या­म­नु­दात्तः स्वरितो वा स ब्रह्म­णा­व­स्था­या­मु­दात्तो भवतीत्यपवादः स्वीकृतः । तत­श्चा­न्त्या­दा­का­रा­दि­त­रे­षा­म­नु­दा­त्ता­दीनां ब्राह्म­ण­द­शा­या­म­नु­दा­त्तत्वं प्राप्तं ‘उदा­त्त­म­नु­दा­त्त­म­न­न्त्यम्’ इति सूत्रेण मन्त्र­द­शा­या­मु­दा­त्त­स्या­न­न्त्यस्य पर­ल­ग्न­त­यो­च्चा­र्य­मा­ण­स्या­नु­दा­त्तत्वं विहितं, तदत्राकारो नकारादुपरितनः सन्ना­का­श­श्चे­त्य­नेन लग्न­त­यो­च्चा­र्य­मा­णोऽ­नु­दात्तो भवति स चैव­म­न्ता­नु­दा­त्त­स्वरः पारिभाषिकः । अन्तोदात्तो भाषिक इति पक्षे त्वध्ययनविरोधः । तेन पारिभाषिकेण स्वरे­णै­क­प­द­त्व­नि­श्च­या­द­स­मा­सा­सि­द्धि­रिति भावः ।

अन्यत्र चैवं­वि­ध­प्र­यो­ग­स्यै­क­प­द­त्व­नि­श्च­या­दि­हापि तत्सा­मा­न्या­दे­क­प­द­तेति समासे हेत्वन्तरमाह —
प्रयोगान्तरे चेति ।
‘आज्यमसि’ इत्या­ज्य­स्या­धि­का­रा­दाज्यं सम्बोध्य ‘पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि’ इति तैत्ति­री­य­क­श्रुतेः, पञ्चानां पञ्चजनानां देवताविशेषणानां कृते यन्त्र­व­द्व्य­व­स्थितं यन्मदीयं शरीरं तदेव धर्त्र­मै­हि­का­मु­ष्मि­क­भो­ग­धा­र­ण­स­मर्थं तदवैकल्यार्थं गृह्णामीति यजमानोक्तिः ।

समासेऽपि किं स्यात् , तत्राह —
समस्तत्वाच्चेति ।
वीप्साभावे पञ्च­स­ङ्ख्या­द्व­या­सि­द्धे­स्त­द्वारा पञ्च­विं­श­ति­स­ङ्ख्याया न लक्ष्यतेत्यर्थः ।

किं चासमासेऽपि पञ्च­श­ब्द­द्व­य­प्र­योगे दशानामेव लाभान्न साङ्ख्य­स्मृ­ति­प्र­त्य­भि­ज्ञे­त्याह —
न चेति ।
पञ्च पञ्चेति पञ्च­क­द्व­य­ग्र­हेऽपि दशैव तत्त्वानि सिध्यन्ति न पञ्च­विं­श­ते­स्त­त्त्वानां प्रत्य­भि­ज्ञे­त्यर्थः । यद्वा समास एव पञ्चपञ्चेति । पञ्च­क­द्व­या­ग्र­हान्न लक्षणयापि पञ्च­विं­श­ति­स­ङ्ख्या­धी­रि­त्यर्थः ।

नन्वसमासेऽपि वीप्सां हित्वा दण्डिन्यायेन जाय­मा­ना­जा­य­मा­न­सा­धा­र­ण­ज­न­श­ब्दो­क्त­त­त्त्व­वि­शे­ष­णी­भू­त­प­ञ्च­स­ङ्ख्या­वि­शे­ष­ण­त्वा­दा­द्य­प­ञ्च­स­ङ्ख्यायाः संख्यी­य­प­ञ्च­विं­श­ति­धी­रिति, नेत्याह — न चेति । शुक्ला­दि­श­ब्द­व­त्प­ञ्च­श­ब्दस्य सङ्ख्यो­प­स­र्ज­न­द्र­व्य­प­र­त्वा­द्गु­ण­भू­त­स­ङ्ख्याया न सङ्ख्यान्तरेण विशेषणम् । तथा सति विशेष्येण द्रव्येण विशेषणेन च सङ्ख्यया युगपदाकृष्टा सङ्ख्या नैके­ना­प्य­न्वि­या­दि­त्याह —
उपसर्जनस्येति ।
न खलू­प­स­र्ज­न­मु­प­स­र्ज­ना­न्त­रेण साक्षादेव सम्बध्यते, प्रधा­ना­नु­या­यि­त्वा­त्तेषां मिथः­स­ङ्ग­त्य­यो­गात् । अतः सङ्ख्य­यो­र्वि­शे­ष­ण­वि­शे­ष्य­तया न परा­भी­ष्ट­स­ङ्ख्या­धी­रि­त्यर्थः ।

नानाभावेन दूषितमपि परमपूर्वपक्षिणं सङ्ख्या­न्त­रा­ना­का­ङ्क्षा­नो­प­स­र्ज­न­न्या­याभ्यां दूष­यि­तु­मु­त्था­प­यति —
नन्विति ।

प्राप्त­प­ञ्च­स­ङ्ख्या­कानां जनानां पञ्चसङ्ख्यया विशेषणे पञ्च­विं­श­ति­त­त्त्व­धी­रि­त्ये­त­द्दृ­ष्टा­न्तेन साधयति —
यथेति ।

जायन्त इति जनाः पञ्च च ते जनाश्चेति पञ्चजना इति यौगिकत्वमुपेत्य प्रत्याह —
नेतीति ।

दृष्टान्ते सङ्ख्या­न्त­रा­काङ्क्षां दर्शयति —
युक्तमिति ।
द्विगुसमासेन समा­हा­रा­भि­धा­ना­त्प­दा­न्त­रो­क्त­स­ङ्ख्यया समा­हा­रोऽ­व­च्छेत्तुं युक्तः । उत्पत्तिशिष्टया तुल्य­प­द­स्थ­स­ङ्ख्यया समाहारिणः पूला अवच्छिद्यन्ते, तेन पञ्च­पू­ली­त्य­त्रा­स्त्या­का­ङ्क्षेति विशे­ष­ण­वि­शे­ष्य­धी­रि­त्यर्थः ।

दार्ष्टान्तिके नैव­मा­का­ङ्क्षे­त्याह —
इहेति ।
पञ्चजना इत्यत्र डीब­न्त­त्वा­श्रुत्या समा­हा­रा­दृ­ष्टे­र्ज­नानां च स्वग­त­स­ङ्ख्या­व­च्छि­न्न­त्वान्न सङ्ख्या­न्त­रा­का­ङ्क्षेति कुतो विशे­ष­ण­वि­शे­ष्य­ते­त्यर्थः ।

जना­ना­मु­त्प­त्ति­शि­ष्ट­स­ङ्ख्या­व­रु­द्धानां शब्दा­न्त­रो­क्त­स­ङ्ख्या­न­व­रो­धेऽपि पञ्चसङ्ख्यायाः सङ्ख्या­न्त­रा­न­व­रु­द्ध­त्वा­त्त­या­व­रोधः स्यादि­त्या­शङ्क्य नोप­स­र्ज­न­न्या­य­म­व­ता­र­यति —
भवदिति ।

इष्टा­प­त्ति­मा­श­ङ्क्याह —
तत्रेति ।
विशे­ष­ण­वि­शे­ष्य­यो­रेव योगो न विशे­ष­ण­यो­र­न्यो­प­स­र्ज­न­त्वा­दि­त्यु­क्त­मि­त्यर्थः ।

नानाभावादिना सिद्धमुपसंहरति —
तस्मादिति ।

पञ्चपञ्चजनशब्दो न पञ्च­विं­श­ति­त­त्त्व­वा­ची­त्यत्र सूत्रावयवं हेत्वन्तरमाह —
अतिरेकाच्चेति ।

तदेव स्फोरयति —
अतिरेको हीति ।

तत्रा­त्म­कृ­त­स­ङ्ख्या­ति­रेकं विवृणोति —
आत्मेति ।
इहेति मन्त्रोक्तिः ।

यच्छब्दस्य सर्वनामत्वेन साधारण्यात्कथं तस्मा­दा­त्म­धी­रि­त्या­श­ङ्क्याह —
यस्मिन्निति ।

आधा­र­त्वे­ना­त्म­नि­र्दे­शेऽपि तस्य तत्त्वा­न्त­र्भा­वा­न्ना­ति­रेकः स्यादि­त्या­श­ङ्क्याह —
आत्मा चेति ।

आधारानन्तर्भावे दोषमाह —
अर्थान्तरेति ।

आत्म­ने­वा­का­शे­नापि सङ्ख्यातिरेकं दर्शयति —
तथेति ।

स हि तत्त्वे­ष्व­न्त­र्भूतो न वेति विकल्प्याद्ये दोषमाह —
आकाशश्चेति ।

द्वितीयं प्रत्याह —
अर्थान्तरेति ।
नच सत्त्व­र­ज­स्त­मांसि प्रधा­ने­नै­की­कृ­त्या­त्मा­काशौ पृथगुक्तौ, तत्र पञ्च पञ्चजना इति पञ्च­विं­श­ति­त­त्त्वानां पृथ­गु­क्ते­र­प­सि­द्धा­न्तात् । गुणानां मिथोभेद आधा­र­त्वे­ना­त्म­नि­ष्क­र्षेऽपि नभसो नाधेयान्तरेभ्यो युक्ता पृथगुक्तिरिति भावः ।

किञ्च पञ्च­विं­श­ति­स­ङ्ख्या­दृ­ष्टा­वपि न साङ्ख्यी­य­त­त्त्वधीः, सङ्ख्येयमात्रेण सङ्ख्याया युक्त­त्वा­दि­त्याह —
कथं चेति ।

कथं तत्त्वा­ना­म­श्रु­तत्वं जनशब्देन श्रुतत्वात् , तत्राह —
जनेति ।

सङ्ख्यैव सङ्ख्येयं कल्पयन्ती साङ्ख्यी­य­त­त्त्वानि विष­यी­क­रि­ष्य­ती­त्य­र्थो­प­प­त्ति­मा­श­ङ्क्याह —
अर्थान्तरेति ।