अद्वैतशारदा

न्यायनिर्णयव्याख्या

२ परिच्छेदः

अतिदेशाधिकरणे प्रधा­न­व­द­श­ब्दत्वं पर­मा­ण्वा­दी­ना­म­पी­त्यु­क्तम् । सम्प्रति प्रधानस्य वैदि­क­श­ब्द­व­त्त्वा­भा­वेऽपि स्मृति­रू­प­श­ब्द­व­त्त्व­मा­शङ्क्य परिहरति -
स्मृतीति ।

पूर्वो­त्त­रा­ध्या­य­यो­र्वि­ष­य­वि­ष­यि­भा­व­स­म्बन्धं वक्तुं पूर्वा­ध्या­यार्थं सङ्क्षे­प­तोऽ­नु­व­दति -
प्रथम इति ।

जन्मा­दि­सू­त्र­मा­र­भ्यो­त्प­त्त्या­दि­का­रणं ब्रह्मेति तत्र तत्रोक्तं पूर्वा­ध्या­या­र्थ­म­नु­भा­ष्या­त्म­भे­द­वा­दि­सा­ङ्ख्य­स्मृ­ति­वि­रो­धो­द्भा­व­ना­नु­कू­ल­त्वेन ‘शास्त्र­दृष्ट्या’ इत्या­दि­प्र­दे­शेषु दर्शि­त­म­द्वि­ती­य­त्व­म­नु­व­दति -
स एवेति ।

किम्प्र­मा­ण­क­मे­त­दि­त्या­श­ङ्क्यो­क्तम् -
एतदिति ।

चतु­र्थ­पा­दा­र्थ­मु­त्त­रा­र्थ­म­नु­द्र­वति
- प्रधानादीति ।

वृत्त­म­नु­भा­ष्यो­त्त­रा­ध्या­यार्थं पादशः सङ्गृह्णाति -
इदानीमिति ।

न्याया­भा­सो­प­बृं­हि­तत्वं भ्रान्ति­मू­ल­त्वम् । तृती­य­च­तु­र्थ­पा­द­यो­र­र्थ­माह -
प्रतिवेदान्तं चेति ।
सृष्ट्या­दी­त्या­दि­शब्दः सङ्ख्या­क्र­म­स­ङ्ग्र­हार्थः । तत्र तृतीये भूत­भो­क्तृ­वि­ष­य­सृ­ष्ट्या­दि­वा­क्या­ना­म­वि­गानं, चतुर्थे प्राणा­दि­वि­ष­य­सृ­ष्ट्या­दि­वा­क्या­ना­मिति विभागः । उक्त­स­म­न्व­य­स्या­ध्य­क्षा­दि­वि­रोधे तन्निरसनमनेनेति विषयविषयित्वं सम्बन्धः । तत्र पूर्वस्य विषयत्वादस्य विष­यि­त्वा­न्नि­र्वि­ष­य­वि­चा­रा­यो­गा­द्वि­ष­य­सि­द्ध्यु­त्त­र­का­ल­त्वा­त्त­द्वि­ष­य­वि­चा­र­स्येति पूर्वो­त्त­र­त्व­म­न­यो­रु­चि­त­मिति भावः ।

अध्यायमवतार्य तद­व­य­व­मा­द्या­धि­क­र­ण­म­व­ता­र­यति -
तत्रेति ।
समन्वये स्मृति­वि­रो­ध­स­मा­धा­ना­र्थ­त्वा­द­धि­क­र­णस्य श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे स्मृतिविरोधे समन्वयासिद्धिः सिद्धान्ते तदविरोधे तत्सिद्धिः ।

उक्तश्चेतने जगदुपादाने समन्वयो विषयः स किं साङ्ख्यस्मृत्या विरुध्यते न वेति तत्प्रा­मा­ण्या­प्रा­मा­ण्याभ्यां सन्देहे पूर्वपक्षमाह -
यदुक्तमिति ।

हेतुत्वेन सूत्र­प­द­म­व­ता­र­यितुं पृच्छति -
कुत इति ।

सूत्रपदं हेतुमादाय व्याचष्टे -
स्मृतीति ।
तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वा­न्य­ने­नेति तन्त्रं शास्त्रम् , तन्त्र­मि­त्याख्या यस्याः सा तथेति यावत् ।

आप्तप्रणीतत्वेन प्रामाण्यं तस्याः सूचयति -
परमर्षीति ।

बौद्धा­दि­स्मृ­ति­सा­म्य­व्या­वृ­त्त्यर्थं विशिनष्टि -
शिष्टेति ।

अन्याश्चेति ।
आसु­रि­प­ञ्च­शि­खा­दि­प्र­णीताः ।

एवं सतीति ।
ब्रह्म सर्व­ज्ञ­त्वा­दि­वि­शे­षणं जग­त्का­र­ण­मि­त्यु­प­गमे सतीत्यर्थः ।

सति विरोधे निर­व­का­श­त्वा­शङ्का, विरोधस्तु कथ­मि­त्या­श­ङ्क्याह -
तासु हीति ।

उक्तरूपाया माया­श­क्ते­र्ज­ग­त्का­र­ण­त्वेन सिद्धान्तेऽपि स्वीकृ­त­त्वा­न्नास्ति विरो­धा­श­ङ्के­त्या­श­ङ्क्याह -
स्वतन्त्रमिति ।

साङ्ख्य­स्मृ­तीनां सावकाशत्वाय प्रधा­न­वा­दो­पा­दाने मन्वा­दि­स्मृ­तीनां निर­व­का­श­ते­त्या­शङ्क्य तात्प­र्य­वि­ष­य­स्या­नु­ष्ठे­य­स्या­बा­धा­त्त­स्मि­न्वि­षये तासामस्ति साव­का­श­त्व­मि­त्याह -
मन्वादीति ।

क्रत्व­र्थ­स­म­र्प­क­त्वेन मन्वा­दि­स्मृ­तीनां साव­का­श­त्व­म­भि­न­यति -
अस्येति ।

न केवलं क्रत्व­र्थ­प्र­ति­पा­द­क­तया सावकाशत्वं किन्तु पुरु­षा­र्थ­प्र­ति­पा­द­क­त­या­पी­त्याह -
तथेति ।

नन्वनुष्ठेये विषये कपि­ला­दि­स्मृ­त­योऽपि सावकाशाः सत्यो ब्रह्म­का­र­ण­वा­देऽपि न निरवकाशा भविष्यन्ति, नेत्याह -
नैवमिति ।

तत्र हेतुमाह -
मोक्षेति ।

परिशेषायातं फलितमाह -
यदीति ।

साव­का­श­नि­र­व­का­श­यो­र्नि­र­व­काशं बलवदिति न्यायसिद्धमर्थं कथयति -
तस्मादिति ।

पूर्व­प­क्ष­मा­क्षि­पति -
कथमिति ।
माना­न्त­र­नि­र­पे­क्षया श्रुत्या ब्रह्मणि जग­त्का­र­णेऽ­व­धा­रिते तद­पे­क्ष­स्मृ­त्य­व­ष्ट­म्भेन तदाक्षेपो न युक्तः । सापे­क्ष­नि­र­पे­क्ष­यो­र्नि­र­पे­क्षस्य बल­व­त्त्वा­दि­त्यर्थः ।

स्वत­न्त्र­प्र­ज्ञानां पर­त­न्त्र­प्र­ज्ञानां वा यथो­क्ता­क्षे­पा­नु­प­प­त्ति­रिति विक­ल्प्या­द्य­म­ङ्गी­क­रोति -
भवेदिति ।
स्मृत्य­पे­क्षा­म­न्त­रेण पौर्वा­प­र्या­लो­च­नया श्रुतिवशादेव तद­र्थ­प्र­ति­प­त्ति­सा­मर्थ्यं स्वत­न्त्र­प्र­ज्ञ­त्वम् । नहि तान्प्रति स्मृत्य­व­ष्ट­म्भे­ना­क्षेप्तुं युक्तम् , श्रुत्यैव तेषां तद­र्थ­प्र­ति­प­त्ते­रु­प­प­त्ते­रि­त्यर्थः ।

द्वितीयं प्रत्याह -
परतन्त्रेति ।
अस्मदादीनां विना स्मृत्यपेक्षां स्वातन्त्र्येण वेदार्थनिर्णये साम­र्थ्या­भा­वा­त्त­द­र्थ­म­व­श्य­म्भा­वि­न्य­पू­र्व­सि­द्ध­स्मृ­त्य­पे­क्षायां सर्व­ज्ञ­क­पि­ला­दि­प्र­णी­त­स्मृ­ति­वि­रो­धेन श्रुत्य­र्थ­नि­श्च­या­यो­गा­त्त­द­र्थ­स्यो­प­चा­रि­त­त्वो­प­पत्तौ स्मृत्य­व­ष्ट­म्भे­ना­क्षेपः सम्भवतीत्यर्थः ।

स्मृत्य­व­ष्ट­म्भ­म­न्त­रे­णापि केषा­ञ्चि­द्वे­दा­र्थ­नि­र्णयः सिध्यति । नहि स्मृतिकर्तारः स्मृत्य­न्त­रा­पे­क्षया तदर्थं निर्धा­र­य­न्ती­त्य­भि­प्रा­येण प्राये­णे­त्यु­क्तम् । बौद्धा­दि­स्मृ­त्य­व­ष्ट­म्भ­व्या­से­धार्थं प्रख्यातपदम् । तदवलम्बनफलमाह -
तद्बलेनेति ।
श्रुत्यर्थं प्रति­पि­त्से­र­न्निति । उपचरितं तदर्थं प्रति­प­द्ये­र­न्नि­त्यर्थः ।

श्रुती­ना­मु­प­च­रि­ता­र्थ­प्र­ति­पित्सा न युक्ता, मुख्येऽर्थे तासां शक्ति­ता­त्प­र्य­यो­र्व्या­ख्या­त­त्वा­दि­त्या­श­ङ्क्याह -
अस्मत्कृते चेति ।

तत्राविश्वासे हेतुमाह -
बहुमानादिति ।

अस्मदादिष्विव तेष्वपि बहु­मा­ना­नु­प­प­त्ति­मा­श­ङ्क्याह -
कपिलेति ।

तेषा­म­प्र­ति­ह­त­ज्ञा­न­त्व­प्र­ति­पा­दिका स्मृतिः साङ्ख्य­स्मृ­ति­व­द­नि­र्णी­त­प्रा­मा­ण्ये­त्या­श­ङ्क्याह -
श्रुतिश्चेति ।
यस्तावदग्रे सर्गादौ जायमानं कपिलनामानमृषिं स्थितिकाले च प्रसूतं भूत­भ­वि­ष्य­द्व­र्त­मा­ना­र्थ­ज्ञा­नै­र्बि­भर्ति पुष्णाति तमीश्वरं पश्येदिति योजना ।

योगि­प्र­त्य­क्ष­मू­ल­तया साङ्ख्य­स्मृ­तीनां श्रुत्य­न­पे­क्ष­त्वा­त्त­द्वि­रो­धेऽपि नाप्रामाण्यमिति फलितमाह -
तस्मादिति ।

तर्कमूलत्वाच्च कपि­ला­दि­स्मृ­तीनां प्राबल्यमित्याह -
तर्केति ।

‘प्रत्य­क्ष­म­नु­मानं च शास्त्रं च विविधागमम्’ इत्यादिना ‘यस्त­र्के­णा­नु­स­न्धत्ते स धर्मं वेद नेतरः’ इत्यन्तेन तर्कस्य निर्णा­य­क­त्वा­व­ग­मा­त्त­द्ब­ल­प्र­वृ­त्त­क­पि­ला­दि­स्मृ­तीनां प्राबल्ये सिद्धे सिद्धमर्थमाह -
तस्मादिति ।
मूल­द्व­य­सा­हि­त्येन बल­व­त्त्व­स­म्भा­व­ना­र्थोऽ­पि­शब्दः ।

साङ्ख्य­स्मृ­ति­वि­रोधं समन्वयस्य पूर्व­प­क्ष­मुक्त्वा सिद्धान्तयति -
तस्येति ।

ब्रह्मकारणवादे साङ्ख्य­स्मृ­ति­वि­रो­ध­व­त्प्र­धा­न­का­र­ण­वा­देऽपि स्मृत्य­न्त­र­वि­रो­धान्न ब्रह्मवादिनं प्रत्ये­त­दु­द्भा­व­न­मु­चि­त­मिति व्याचष्टे -
यदीति ।

श्रुत्यर्थे स्मृत्य­ब­ष्ट­म्भे­ना­क्षे­प­स्या­व­काशो नास्तीत्यरुचिं सूचयति -
एवमपीति ।

यासां स्मृतीनां प्रधानवादे निरवकाशत्वं ता दर्शयति -
ता इति ।

‘तस्मा­द­व्य­क्तम्’ इत्यत्र तच्छब्देन चेतनमेव कारणं परा­मृ­ष्ट­मि­त्यु­प­देष्टुं चेतनस्य प्रकृतित्वमाह -
यत्तदिति ।

सूक्ष्म­त्व­म­ती­न्द्रि­य­त्वम् । अविज्ञेयत्वं प्रमा­णा­न्त­रा­व­गा­ह्य­त्वम् । तर्हि सर्व­प्र­मा­णा­गो­च­र­त्वा­न्ना­स्त्येव तदित्याशङ्क्य सर्वभूतानां सत्ता­स्फू­र्ति­प्र­द­त्वेन स्वतःसिद्धस्य दुरपह्नवत्वं मन्वानो ब्रूते -
स हीति ।

कार्य­लि­ङ्ग­क­म­नु­मा­न­मपि तत्र सम्भा­व­ना­हे­तु­रि­त्या­श­य­वा­नाह -
तस्मादिति ।
अव्य­क्त­श­ब्दे­ना­व्या­कृ­त­कार्यं भूतसूक्ष्ममत्र विवक्षितम् , अव्या­कृ­त­स्या­ना­दि­त्वे­नो­त्प­त्त्य­न­भ्यु­प­ग­मा­न्नि­मि­त्त­का­र­ण­त्व­मे­वात्र चेतनस्योक्तमिति सेश्व­र­सा­ङ्ख्य­म­तम् ।

अनादिनोऽपि चाव्यक्तस्य सम्भ­व­त्ये­वे­श्व­रा­धी­न­त्व­मि­त्या­श­ङ्क्याह -
तथान्यत्रेति ।

अत्र त्वव्यक्तमिति भूत­सू­क्ष्म­ल­या­धि­क­र­ण­म­व्या­कृतं गृहीतम् । इति­हा­स­स­म­र्पि­तेऽर्थे पौराणिकीं संमतिमाह -
अतश्चेति ।
अन्त­र्या­मि­व्य­ति­रि­क्त­व­स्तुनो दुर्व­च­न­त्व­म­तः­श­ब्दार्थः ।

सर्वात्मत्वे कथमस्य नापक्षयः, सर्व­त्रा­प­क्ष­यो­प­ल­म्भा­दि­त्या­श­ङ्क्याह -
पुराण इति ।

सर्वस्य तदन्तर्भावेऽपि तस्य सर्व­स्मि­न्न­न­न्त­र्भा­वा­दिति हेतुमभिप्रेत्य सर्वात्मत्वं साधयति -
स सर्गेति ।

उक्तेऽर्थे भागवतीं स्मृतिं संवादयति -
भगवद्गीतास्विति ।

प्रभ­व­त्य­स्मा­दिति प्रभवो जन्महेतुः । प्रली­य­तेऽ­स्मि­न्निति प्रलयस्तद्धेतुः । तत्रैव कल्प­सू­त्र­का­र­सं­म­ति­माह -
परमात्मानमिति ।
तस्मा­दि­त्या­त्म­ला­भान्न परमित्यादौ प्रकृतं परमात्मानं परामृशति । सर्वे काया ब्रह्मादयः स्तम्बपर्यन्ता देहा­स्त­स्मा­त्प्र­भ­व­न्तीति निमि­त्त­त्व­मु­क्तम् । स मूल­मि­त्यु­पा­दा­नत्वं विपरीतं वा । शश्वद्भवः शाश्वतिकोऽनादिः । स नित्यो नाशशून्य इत्यर्थः ।

उदाहृतस्मृतीनां तात्पर्यमाह -
एवमिति ।

तात्प­र्य­लि­ङ्ग­म­भ्यासं दर्शयति -
अनेकश इति ।

ननु श्रुति­वि­रो­धो­प­न्यासे सम्भाविते किमिति स्मृतिविरोधः सिद्धा­न्ति­नो­प­न्य­स्यते, तत्राह -
स्मृतीति ।

तर्हि स्मृतीनां परस्परविरोधे तत्त्व­नि­र्ण­या­नु­प­प­त्ति­रि­त्या­श­ङ्क्याह -
दर्शितं त्विति ।
ततश्च मन्वा­दि­स्मृ­तीनां श्रुतिमूलत्वेन प्राब­ल्या­त्त­द­नु­सा­रेण तत्त्व­नि­र्ण­य­सि­द्धि­रि­त्यर्थः ।

नन्व­नु­मि­त­श्रु­ति­मू­ल­तया कपि­ला­दि­स्मृ­ती­ना­मपि मन्वा­दि­स्मृ­तिभिः समा­न­ब­ल­त्वा­द­नि­र्ण­य­ता­द­वस्थ्ये विकल्पः स्यादिति, नेत्याह -
विप्रतिपत्तौ चेति ।
क्रियायामिव वस्तुनि विक­ल्पा­यो­गा­द्वि­रु­द्ध­स्मृ­त्यु­प­ल­ब्धा­व­न्य­त­र­त्या­गे­ना­न्य­त­र­स्वी­का­र­ध्रौव्ये क्लृप्त­श्रु­ति­मूलाः स्मृतयो मान­त्वे­ना­पे­क्ष्यन्ते, कल्प्य­श्रु­ति­मू­लास्तु दुर्ब­ल­त्वा­दु­पे­क्ष्यन्ते, तथाच तत्त्व­नि­र्ण­यो­प­प­त्ति­रि­त्यर्थः ।

ननु यत्र स्मृत्यो­र्वि­रो­ध­स्तत्र तन्मूलयोः श्रुत्यो­र्वि­रो­ध­प­र्य­व­सा­ना­त्त­योश्च तुल्यबलतया व्यव­स्था­स्थे­येति, तत्राह -
तदुक्तमिति ।

‘औदुम्बरीं स्पृष्ट्वो­द्गा­येत् ‘ इति प्रत्य­क्ष­श्रु­ति­वि­रुद्धा ‘सर्वा वेष्टयितव्या’ इति स्मृतिर्मानं न वेति सन्देहे, वेदा­र्था­नु­ष्ठा­तॄणां स्मृति­भि­र्मू­ल­श्रु­त्य­नु­मा­ना­त्प्र­त्य­क्षा­नु­मि­त­श्रु­त्योश्च तुल्य­ब­ल­त्वा­दु­दि­ता­नु­दि­त­हो­म­व­द्वि­क­ल्प­स­म्भ­वा­न्मा­न­मिति प्राप्ते प्रत्याह -
विरोधे त्विति ।
श्रुतिविरोधे स्मृतीनां प्रामा­ण्य­म­न­पे­क्ष­म­पे­क्षा­व­र्जि­तम् । हेयमिति यावत् । यतोऽसति विरोधे मूल­श्रु­त्य­नु­मानं, प्रत्य­क्ष­श्रु­ति­वि­रुद्धे त्वर्थे कुतः स्मृत्या श्रुत्यनुमानं, अर्थापहारेण मान­स्या­प्य­प­हा­रात् । अतो मूला­भा­वा­द­प्र­माणं सर्व­वे­ष्ट­न­स्मृतिः । तथा कपि­ला­दि­स्मृ­ति­र­पी­त्यर्थः ।

ननु कपि­ला­दि­स्मृ­तेर्न श्रुतिमूलत्वेन प्रामा­ण्य­मि­ष्यते किन्तु प्रत्य­क्ष­मू­ल­त्वे­ने­त्या­श­ङ्क्या­यो­गि­प्र­त्यक्षं योगिप्रत्यक्षं वा तन्मूलमिति विकल्प्याद्यं दूषयति -
न चेति ।

द्वितीयं शङ्कते -
शक्यमिति ।
अती­न्द्रि­या­र्थो­प­ल­म्भनं सम्भावयितुमिति शेषः ।

किं तेषां साधनसाध्या सिद्धिराजानतो वेति विकल्प्याद्ये श्रुति­म­न्त­रे­णा­ती­न्द्रि­या­र्थो­प­ल­ब्धिर्न सिध्यतीत्याह -
न । सिद्धेरपीति ।

योग­मा­हा­त्म्य­रूपा सिद्धिः, तस्याः साध­न­सा­पे­क्ष­त्व­व­द­ती­न्द्रि­या­र्थो­प­ल­ब्धि­रपि कपिलादीनां श्रुत्यपेक्षति वक्तु­म­पी­त्यु­क्तम् । सिद्धेः सापेक्षत्वं स्फुटयति -
धर्मेति ।

तथापि कथ­म­ती­न्द्रि­या­र्थो­प­लब्धेः श्रुत्य­पे­क्षेति, तत्राह -
स चेति ।

चोद­ना­सू­त्र­प्रा­मा­ण्या­द्ध­र्मस्य चोद­ना­ल­क्ष­ण­त्वेऽपि कपि­ला­दि­व­च­ना­नु­सा­रेण श्रुते­र­र्थ­नि­र्णये कानुपपत्तिरिति, तत्राह -
ततश्चेति ।
कपिलादीनां विनि­श्चि­त­वे­द­प्रा­मा­ण्यानां तद­र्था­नु­ष्ठा­न­वतां तत्प्र­भा­व­ल­ब्ध­सि­द्धीनां तद्वि­रु­द्धा­र्था­भि­धा­ना­स­म्भ­वा­त्त­द्व­च­ना­त्प्रा­गे­वा­व­धृ­त­प्रा­मा­ण्यस्य वेदस्य तद­नु­रो­धे­नो­प­च­रि­ता­र्थ­त्व­क­ल्प­न­म­नु­चि­त­मिति भावः ।

अतिशङ्कितुम् ।
मुख्यां वृत्ति­म­ती­त्यो­प­च­रि­त­वृत्त्या शङ्कितुमिति यावत् ।

न द्वितीयः, कपि­ला­दी­ना­मी­श्व­र­व­दा­जा­न­सि­द्धे­र­सि­द्ध­त्वा­त्सि­द्ध­त्वेऽपि तेषां बहु­त्वा­त्त­दु­क्ति­मा­श्रित्य श्रुत्य­र्थ­क­ल्प­नायां तदै­क­म­त्य­स्या­मा­न­त्वा­द­न्य­स्मृ­त्य­न­व­का­श­न्या­येन स्मृतीनामेव मिथो विवादे श्रुत्यवष्टम्भं विना तास्वपि विश्वासाभावान्न तदनुसारेण श्रुत्य­र्थ­नि­र्धा­र­ण­सि­द्धि­रि­त्याह -
सिद्धेति ।

यत्तु पर­त­न्त्र­प्र­ज्ञ­त्वा­द­स्मा­क­म­नि­श्चि­त­वे­दा­र्थानां विरोधेन स्मृते­र­प्रा­मा­ण्य­म­ना­श­ङ्क­नी­य­मपि तु स्मृत्यनुसारेण वेदार्थो निश्चयितव्यः, अन्यथा पर­त­न्त्र­प्र­ज्ञानां वेदा­र्था­नि­श्च­य­प्र­स­ङ्गा­दिति, तत्राह -
परतन्त्रेति ।

कथं तर्हि परि­हृ­त्या­व्य­वस्थां तत्त्वं निर्णेतव्यं, तत्राह -
तस्मादिति ।

तस्यापीति ।
तेन पर­त­न्त्र­प्र­ज्ञे­ना­पी­त्यर्थः । सन्मार्गः श्रुत्य­नु­सा­रि­स्मृ­त्यु­क्तोऽ­र्थ­स्तत्र प्रज्ञा­स­ङ्ग्र­ह­स्त­स्मि­न्नेव बुद्धि­स्थै­र्य­मि­त्यर्थः ।

ननु कपि­ल­स्या­प्र­ति­ह­त­ज्ञा­न­त्व­श्र­व­णा­त्त­दु­क्त­स्मृ­त्य­प्रा­मा­ण्या­ङ्गी­कारे श्रुतिरेव विरु­ध्ये­ते­त्या­श­ङ्क्याह -
या त्विति ।

कपि­ल­श­ब्द­श्रु­त्य­वि­रो­धाय साव­का­शा­न­व­का­श­न्या­येन श्रुति­स्मृ­त्यो­र्व्य­व­स्था­स्थे­ये­त्या­श­ङ्क्याह -
कपिलमितीति ।
शब्दसामान्यादेव साङ्ख्यप्रणेता कपिलः श्रौत इति भ्रान्ति­वि­वे­कि­ना­मि­त्यर्थः ।

श्रुतौ तर्हि कपिलशब्दस्य कोऽर्थः स्यादि­त्या­श­ङ्क्याह -
अन्यस्येति ।
वैदिको हि कपिलो वासुदेवनामा पितु­रा­दे­शा­द­श्व­मे­ध­प­शु­म­न्विष्य परिसरे पश्य­ता­मि­न्द्र­चे­ष्टि­त­म­दृ­ष्ट­वतां षष्टि­स­ह­स्र­स­ङ्ख्या­जु­षा­मा­त्मो­प­रो­धिना सगरसुतानां सहसैव भस्मीभावहेतुः साङ्ख्य­प्र­णे­तु­र­वै­दि­का­दन्यः स्मर्यते । यत्र यत्र वैदिकत्वे सति वासुदेवांशत्वं तत्र तत्र सर्वा­त्म­तो­प­दे­ष्ट्टत्वं दृष्टमिह तु तद्वि­रु­द्धा­र्थो­प­दे­ष्ट्टु­स्त­तोऽ­न्य­त्व­मिति भावः । किञ्च पर­मा­त्म­प्र­ति­प­त्ति­प­र­मिदं वाक्यं, यो ज्ञानैरग्रे प्रसूतं कपिलं बिभर्ति तं पश्येदिति दर्शनात् ।

नच तस्या­नु­ग्रा­ह­क­न्या­या­भावे कपि­ल­ज्ञा­ना­ति­श­या­वे­द­क­त्व­मि­त्याह -
अन्यार्थेति ।

कपिलस्य द्वैतवादिनः श्रौतत्वं निरस्य सर्वा­त्म­त्व­वा­दिनो मनोः श्रौतत्वमाह -
भवति चेति ।

मनोरपि कपि­ले­नै­क­वा­क्यत्वं शङ्कित्वोक्तम् -
मनुना चेति ।

सर्वा­त्म­त्व­प्र­शं­सा­या­मपि कथं कापिलं मतं निन्दि­त­मि­त्या­शङ्क्य तद्दर्शयितुं तदीयं मतमाह -
कपिलो हीति ।

पूर्वं कापिलमतस्य कारणविषये व्यासा­दि­व­च­न­वि­रोधो दर्शितः । सम्प्रति सर्वा­त्म­त्व­वि­ष­येऽपि व्यास­व­च­न­वि­रो­ध­माह -
महाभारतेऽपीति ।
सर्वात्मतैव निर्धा­रि­ते­त्यु­त्त­रत्र सम्बन्धः ।

पुरुषा जीवाः, ते किं स्वभावेनैव बहवः किंवैक एव परमात्मा बहूनां दृश्यानां स्वभाव इति पृच्छति -
बहव इति ।

पूर्व­प­क्ष­म­नु­भाष्य तन्निरासेन सिद्धान्तमाह -
बहव इत्यादिना ।

यथा पुरुषाणां तदाकाराणां बहूनां देहानामेका पृथिवी योनि­र­धि­ष्ठा­न­मु­च्यते, तथा तमेकं पुरुषं परमात्मानं बहुलत्वेन प्रतिप्रन्नानां जीवानां वास्तवं स्वभावं विश्वं परिपूर्णं सर्व­ज्ञ­त्वा­दि­गु­ण­युक्तं कथयिष्यामीत्याह -
बहूनामिति ।

सर्व­ज्ञ­त्वा­दि­गु­ण­कस्य तद्वि­रु­द्ध­प्र­त्य­गा­त्मै­क्य­म­यु­क्त­मि­त्या­शङ्क्य विरोधस्य प्रातीतिकत्वं मत्वोक्तम् -
ममेति ।

सर्वा­न्त­रा­त्मत्वे परस्मिन्नपि संसा­रि­त्व­प्र­स­क्ति­रि­त्या­शङ्क्य वस्तु­त­स्त­द­भा­व­माह -
सर्वेषामिति ।

किमिति तर्हि प्रत्या­त्म­मा­त्म­भूतः परमात्मा नोपलभ्यते, तत्राह -
न ग्राह्य इति ।

तस्यासत्त्वं शङ्कित्वोक्तम् -
विश्वेति ।
विश्वे मूर्धानोऽस्यैव सर्वत्र प्रति­बि­म्बि­त­त्वात् । तथा विश्वभुजादौ योज्यम् -

परमात्मनः सर्वा­त्म­त्वे­नो­क्तस्य निरपेक्षतया स्वतन्त्रस्य परमसुखरूपतामाह -
एक इति ।

कापिलमतस्य वेदा­नु­सा­रि­स्मृ­ति­वि­रो­ध­मुक्त्वा साक्षादेव वेदविरोधमाह -
श्रुतिश्चेति ।
यस्मिन्काले पुरुषस्य विजानतः स्वरू­प­त­या­धि­ग­त­ब्र­ह्मण एव सर्वत्र प्रति­बि­म्बि­त­त्वा­द्भू­तानि सर्वा­ण्या­त्मै­वा­भू­त्त­स्मि­न्काले शोकमोहोपलक्षितः सर्वोऽपि सकारणः संसारो विदुषो नास्तीति श्रुत्यर्थः ।

श्रुति­स्मृ­ति­वि­रोधे पर­म­त­स्या­ना­दे­यत्वं सिद्ध­मि­त्यु­प­सं­ह­रति -
अतश्चेति ।
इतिशब्दः सिद्धमित्यनेन सम्बध्यते ।

वेदविरोधे स्मृतेरेव किमि­त्य­प्रा­माण्यं, विपरीतं किं न स्यादि­त्या­श­ङ्क्याह -
वेदस्येति ।
ईश्व­र­का­र्य­त्वेऽपि तद्धी­पू­र्व­क­त्वा­भा­वा­द्वे­द­स्या­पौ­रु­षे­य­त्वे­ना­न­पे­क्ष­त्वात् , कपि­ला­दि­स्मृ­तीनां तु तद­र्थ­स्मृ­ति­पू­र्व­क­त्वा­त्त­द­र्थ­स्मृ­तीनां च तद­र्था­नु­भ­व­पू­र्व­क­त्वा­दु­क्त­प्रा­मा­ण्य­नि­श्च­याय स्मृत्यनुभवौ यावत्कल्प्येते, तावदेव स्वतः­सि­द्ध­प्रा­मा­ण्य­वे­द­वा­क्या­त्त­दर्थो निश्चित इति झटिति प्रवृ­त्त­वे­द­वा­क्योत्थं ज्ञान­म­स­ञ्जा­त­वि­रोधि स्मृतिविरोधे तत्प्रामाण्यस्य बाधकमिति भावः । विप्रकर्षो विशेषः । श्रुति­स्मृ­त्यो­रिति यावत् ।

सिद्धे विशेषे फलितमाह -
तस्मादिति ॥ १ ॥

उक्तेऽर्थे हेत्व­न्त­र­प­र­त्वे­नो­त्त­र­सू­त्र­मु­त्था­प­यति -
कुतश्चेति ।

सूत्राक्षराणि व्याचष्टे -
प्रधानादिति ।
तथा च मूल­प्र­मा­णा­भा­वा­द­प्र­माणं महदादिविषया स्मृतिरिति शेषः ।

भूता­ना­मि­न्द्रि­याणां च लोक­वे­द­प्र­सि­द्ध­त्वान्न तद्वि­ष­य­स्मृ­त्य­प्रा­मा­ण्य­मि­त्या­श­ङ्क्या­ङ्गी­क­रोति -
भूतेति ।

तथापि मह­द­ह­ङ्का­र­प­ञ्च­त­न्मा­त्राणां मूलाभावान्न स्मृतिः सम्भवतीत्याह -
अलोकेति ।

महदादीनामपि ‘महतः परमव्यक्तम्’ इत्यादावस्ति प्रसि­द्धि­रि­त्या­श­ङ्क्याह -
यदपीति ।

मह­दा­दि­स्मृ­ते­र्मू­ला­भा­वा­त्त­द­प्रा­मा­ण्येऽपि किमायातं प्रधा­न­स्मृ­ते­रि­त्या­शङ्क्य सूत्रस्य तात्पर्यमाह -
कार्येति ।

साङ्ख्य­स्मृ­त्य­प्रा­माण्ये सिद्धे फलितमुपसंहरति -
तस्मादिति ।
मूल­प्र­मा­णा­भा­व­स्त­च्छ­ब्दार्थः । अपिना स्मृत्या­दि­वि­रोधः समुच्चितः ।

स्मृति­वि­रो­धा­भा­वेऽपि ब्रह्मकारणवादो न्यायविरोधान्न सिध्य­ती­त्या­श­ङ्क्याह -
तर्केति ॥ २ ॥

साङ्ख्य­स्मृ­ते­र्म­न्वा­दि­स्मृ­ति­वि­रो­धेऽपि योगस्मृतेर्न सोऽस्तीति मन्वा­दि­स्मृ­ति­ष्वपि योग­स्या­नु­मो­दि­त­त्वा­त्तथा च प्रधा­ना­दि­वि­ष­येऽपि योग­स्मृ­ते­र्मा­न­त्वा­त्त­द्वि­रु­द्ध­स­म­न्वयो न सिद्ध्य­ती­त्या­श­ङ्क्याह -
एतेनेति ।

चेतनं जगदुपादानं वदतः समन्वयस्य प्रधानं वास्त­व­मी­श्व­रा­धि­ष्ठितं जगदुपादानमिति वदन्त्या योगस्मृत्या विरोधोऽस्ति न वेति प्रधानादिविषये तत्प्रा­मा­ण्या­प्रा­मा­ण्याभ्यां सन्देहे पूर्वपक्षमग्रे दर्श­यि­ष्य­न्न­ति­दे­श­सूत्रं व्याकरोति -
एतेनेत्यादिना ।
श्रुत्या­दि­स­ङ्ग­ति­च­तु­ष्टयं फलं च पूर्व­न्या­या­ति­दे­श­त्वा­त्पू­र्व­व­द­त्रापि द्रष्टव्यम् ।

अर्थसाम्याभावे तुल्य­न्या­या­वि­ष­य­त्वा­द­ति­दे­शा­नु­प­प­त्ति­रि­त्या­श­ङ्क्या­र्थ­सा­म्य­माह -
तत्रापीति ।

अधि­का­श­ङ्का­भा­वा­द­धि­क­र­णा­र­म्भ­मा­क्षि­पति -
नन्विति । एवं सतीति ।
साङ्ख्य­यो­ग­स्मृ­त्यो­र­र्थ­साम्ये सतीति यावत् ।

अधिकाशङ्कां दर्श­य­न्न­धि­क­र­णा­रम्भं समर्थयते -
अस्तीति ।

तामेव दर्शयितुमादौ योगस्मृतेः श्रुतिमूलत्वमाह -
सम्यगिति ।

ननु श्रव­ण­म­न­न­नि­दि­ध्या­स­ना­न्ये­वात्र सम्य­ग्धी­हे­तु­त्वेन विधीयन्ते न त्वष्टा­ङ्ग­यो­ग­वि­धि­र­त्रा­स्ती­त्या­शङ्क्य श्रुत्यन्तरमाह -
त्रिरुन्नतमिति ।
त्रीणि देह­ग्री­वा­शि­रां­स्यु­न्न­तानि यस्मिन् । ‘समं कायशिरोग्रीवं धारयन्’ इत्यादिस्मृतेः । तच्छरीरं तथा समं संस्थाप्य युञ्जीतेति योजना ।

न केवलं श्रुत्यनुगृहीतो योगः किन्तु श्रौत­लि­ङ्गा­नु­गृ­ही­त­श्चे­त्याह -
लिङ्गानि चेति ।

तान्येव दर्शयति -
तां योगमित्यादिना ।
इन्द्रि­या­णा­म­न्त­र्ब­हि­र्भा­वेन व्यवस्थितानां स्थिरा­म­वि­चा­लिनीं धार­णा­मै­का­ग्र्य­ल­क्षणां योगविदो योगं मन्यन्ते । यथो­क्त­मै­का­ग्र्य­मेव परमं तप इति वक्तुं योग­श­ब्दा­दु­प­रि­ष्टा­दि­ति­शब्दः ।

एतां ब्रह्मविषयां विद्यां योगप्रकारं च सर्वं मृत्योः सकाशान्नचिकेता लब्ध्वा ब्रह्म प्राप्तोऽ­भू­दि­त्याह -
विद्यामेतामिति ।

श्रुति­व­ल्लि­ङ्गा­नु­गृ­ही­त­यो­गस्य सम्य­ग्ज्ञा­नो­पा­य­त्वेऽपि किमायातं योग­स्मृ­ते­रि­त्या­श­ङ्क्याह -
योग­शा­स्त्रेऽ­पीति ।
आत्मज्ञानस्य मोक्षो­पा­य­त्व­नि­श्च­या­त्त­ज्जि­ज्ञा­सा­न­न्त­र­मि­त्य­थ­श­ब्दार्थः ।

एवं योगस्य सम्य­ग्धी­हे­तु­त्व­मु­प­पा­द्या­धिकां शङ्कां दर्शयति -
अत इति ।

योगः सम्य­ग्द­र्श­नो­पायः सम्प्र­ति­प­न्ना­र्थै­क­दे­श­स्त­द्व­त्त्वा­द्यो­ग­स्मृ­ति­र­नि­रा­का­र्ये­त्यत्र दृष्टान्तमाह -
अष्टकादीति ।
अष्टकाः कर्तव्याः । गुरुरनुगन्तव्यः । तडागं खनितव्यम् । इत्यादिस्मृतयो न प्रमाणं, धर्मस्य वेदै­क­प्र­मा­ण­क­त्वात् । अष्ट­का­दे­रि­ष्ट­सा­ध­नत्वे वेदादृष्टे स्मृतेश्च भ्रान्त्यापि सम्भवादिति प्रापय्य वेदा­र्था­नु­ष्ठा­तॄ­णा­मेव स्मृतिषु सनिबन्धनासु कर्तृ­त्वा­न्मू­ल­भूतं वेद­म­नु­मा­प­यन्त्यः स्मृतयो मानमिति प्रमाणलक्षणे राद्धान्तितम् । तथा योगस्मृतिरपि मानमित्यर्थः ।

अधिकां शङ्कामनूद्य तन्नि­व­र्त­क­त्वे­ना­ति­दे­शा­धि­क­र­ण­स्या­र्थ­व­त्त्व­माह -
इयमिति ।

कथं तर्हि निराकरणं, तदाह -
अर्थैकदेशेति ।
योग­स्मृ­ति­र्यो­ग­वि­षये वेदा­वि­सं­वा­दा­न्मा­न­मपि प्रधानादौ तद्वि­सं­वा­दा­द­मा­न­म­र्थ­वा­दस्य विधिशेषत्वेन प्रामाण्येऽपि विसंवादिनि स्वार्थे तद­न­भ्यु­प­ग­मा­दि­त्यर्थः ।

नन्व­ध्या­त्म­वि­षयाः सन्ति सहस्रं बौद्धा­र्ह­ता­दि­स्मृ­त­यस्ताः किमि­त्यु­प­दे­शा­ति­दे­शाभ्यां न निराक्रियन्ते, तत्राह -
सतीष्वपीति ।

तत्र हेतूनाह -
साङ्ख्ये­त्या­दिना ।

ननु लोके पशुसदृशानां प्राकृतानां पर­म­पु­रु­षा­र्थ­सा­ध­न­त्वेन बौद्धा­दि­द­र्श­न­मपि प्रसि­द्ध­मि­त्या­श­ङ्क्याह -
शिष्टैश्चेति ।

ननु शिष्ट­प­रि­ग्र­ह­स्यापि विशि­ष्ट­प्र­मा­ण­मू­ल­त्व­मे­ष्ट­व्यम् ‘आचाराच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनाम्’ इति न्यायात् , तत्राह -
लिङ्गेन चेति ।
‘एको बहूनां यो विदधाति कामान्’ इत्युपक्रम्य श्रुतं तत्कारणमिति तेषां कामानां कारणं साङ्ख्यै­र्ज्ञा­नि­भि­र्यो­गै­र्ध्या­यि­भि­श्चा­भि­प­न्न­मा­भि­मु­ख्येन प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्व­पा­शै­र­वि­द्या­दि­क्ले­शै­र्मु­च्यत इत्यर्थः ।

तर्हि श्रुति­सि­द्ध­त्वा­दि­का­र­ण­व­शा­न्नि­रा­क­र­ण­म­श­क्य­म­न्यथा श्रुत्या­दि­वि­रो­धा­दि­त्या­श­ङ्क्याह -
निराकरणं त्विति ।

किमत्र प्रमा­ण­मि­त्य­पे­क्षा­या­मु­क्तम् -
श्रुतिर्हीति ।

ननु वैदि­का­दा­त्म­ज्ञा­ना­देव साङ्ख्यादयोऽपि निःश्रेयसं वदन्ति तत्क­थ­म­वै­दि­क­त्वेन ते निरस्यन्ते, तत्राह -
द्वैतिनो हीति ।

तर्हि श्रौतस्य लिङ्गस्य का गतिरित्यत आह -
यत्त्विति ।

प्रसि­द्धि­वि­रो­धेन कथमभ्युपगम्यते, प्रमा­ण­व­शा­दि­त्याह -
प्रत्या­स­त्ते­रिति ।
वैदिकी सम्यग्बुद्धिः सङ्ख्या तया सह वर्तत इति साङ्ख्यम् । योगो ध्यानं चित्त­वृ­त्ति­नि­रो­ध­स्तस्य योगस्य तदु­पा­य­त्वा­त्प्र­त्य­यै­क­ता­न­ताया ध्यानस्य तेनाभेदोपचारात् । अतः संनिकृष्टं सम्यग्ज्ञानं वैदिकं साङ्ख्या­दि­श­ब्दि­त­मि­त्यर्थः ।

तर्हि प्रसिद्धयोः साङ्ख्य­यो­ग­स्मृत्योः सर्वथा नास्ति प्रामाण्यं, नेत्याह -
येन त्विति ।

अविरुद्धमंशमेव स्मृतिद्वयेऽपि विभज्य दर्शयति -
तद्यथेति ।
प्रव्र­ज्या­दी­त्या­दि­श­ब्देन तद्धर्मसङ्ग्रहः ।

अथोक्तविधया साङ्ख्य­यो­ग­स्मृ­ति­वि­रो­धा­भा­वेऽपि काणा­दा­दि­स्मृ­ति­वि­रो­धान्न सम­न्व­य­सि­द्धि­रि­त्यत आह -
एतेनेति ।
साङ्क्य­यो­ग­स्मृ­ति­नि­रा­क­र­ण­न्या­ये­नेति यावत् ।

तेषां निरा­क­र्त­व्य­ता­म­मृ­ष्य­न्ना­श­ङ्कते -
तान्यपीति ।
तर्कोऽ­नु­मा­न­म­नु­ग्राह्यं मानम् । उप­प­त्ति­र­नु­ग्रा­हि­का­यु­क्ति­रिति भेदः ।

तर्कस्मरणानां तत्त्व­ज्ञा­नो­प­का­र­क­त्व­म­ङ्गी­क­रोति -
उपकुर्वन्त्विति ।

तर्हि वैदि­क­वा­क्ये­भ्य­स्तेषां को विशेषः, तत्राह -
तत्त्वज्ञानं त्विति ।

तत्र मानमाह -
नावेदविदिति ॥ ३ ॥

तदेवं वेदविरुद्धानां स्मृती­ना­म­प्रा­मा­ण्यान्न तद्विरोधः समन्वयस्येति सम­न्व­य­वि­रो­धि­नीनां स्मृती­ना­मा­भा­स­ता­मुक्त्वा तद्विरोधिनो न्यायस्याभासतां विवक्षुः साङ्ख्य­यो­ग­न्या­य­स्या­भा­स­त्वार्थं पूर्वपक्षयति -
न विलक्षणत्वादिति ।

चेतनाद्ब्रह्मणो जगदुत्पत्तिं ब्रुवन्समन्वयो विषयः । स किमाकाशादि न चेतनप्रकृतिकं द्रव्य­त्वा­द्ध­टा­दि­व­दिति साङ्ख्य­यो­ग­न्या­येन विरुध्यते न वेति तद­ना­भा­स­त्वा­भा­स­त्वाभ्यां सन्देहे पूर्वा­धि­क­र­णे­नो­त्त­रा­धि­क­र­ण­स­न्द­र्भस्य सङ्गतिमाह -
ब्रह्मेति ।
अत्र च समन्वयस्य यथो­क्त­न्या­य­वि­रो­ध­स­मा­धे­रेव श्रुत्या­दि­स­ङ्ग­तयः । फलं तु पूर्वो­त्त­र­प­क्षयोः सम­न्व­या­सि­द्धि­स्त­त्सि­द्धि­श्चेति ।

पूर्व­प­क्ष­मा­क्षि­पति -
कुत इति ।
ब्रह्मणो माना­न्त­रा­वि­ष­य­त्वे­ना­त­र्क्य­त्वेन चान­पे­क्षा­म्ना­यै­क­ग­म्य­त्वा­त्त­र्का­ग­म­यो­र­तु­ल्या­र्थ­त्वे­ना­वि­रो­धा­दा­ग­मार्थे तर्क­नि­मि­त्ता­क्षे­पस्य निर­व­का­श­ते­त्यर्थः ।

ननु तर्को­प­क­र­णे­ति­क­र्त­व्य­ताया वेदा­न्त­मी­मां­सा­या­स्त­र्को­प­क­र­ण­त्व­मुक्तं प्रथमसूत्रे, तथाच तर्कस्य वेदा­न्तै­स्तु­ल्या­र्थ­त्व­मि­ष्टम् , कर­णो­प­क­र­ण­यो­रे­का­र्थ­त्वा­व­ग­मात् , तत्राह -
नन्विति ।
शक्ति­ता­त्प­र्या­व­धा­रणे परं तर्क­स्यो­प­क­र­णत्वं नतु तस्य ब्रह्मविषयता । ‘नैषा तर्केण’ इति श्रुतेरित्यर्थः ।

सिद्धस्य ब्रह्मणः साध्या­द्ध­र्मा­द्वै­ल­क्ष­ण्ये­ना­ध्य­क्षा­दि­वि­ष­य­त्व­स­म्भ­वा­त्त­र्क­ग­म्य­त्व­मपि सम्भवति । अत­स्तु­ल्य­वि­ष­य­त्वा­दा­ग­मा­र्थेऽपि तर्क­नि­मि­त्ता­क्षे­प­स्या­व­का­शोऽ­स्तीति समाधत्ते -
भवेदित्यादिना ।

एकविषयत्वेन विरोधेऽपि किमिति मानान्तरमेव श्रुतिविरोधान्न बाध्यते, तत्र दृष्टा­न्ते­नो­त्त­र­माह -
यथाचेति ।
यथा सावकाशा भूयस्योऽपि श्रुतयो निर­व­का­शै­क­श्रु­ति­वि­रोधे तदनुरोधेन नीयन्ते तथा निर­व­का­शै­क­त­र्क­वि­रोधे तदनुगुणतया भूयस्योऽपि श्रुतयो गुणकल्पनया व्याख्येयाः । साव­का­श­नि­र­व­का­श­यो­र्नि­र­व­का­शस्य बली­य­स्त्वा­दि­त्यर्थः ।

ब्रह्म­ण्या­म्ना­या­त्त­र्कस्य बलीयस्त्वे हेत्वन्तरमाह -
दृष्टेति ।
ब्रह्म­सा­क्षा­त्का­रस्य मोक्षोपायतया प्राधा­न्या­त्तत्र शब्दादपि परो­क्ष­गो­च­रा­द­प­रो­क्षा­र्थ­सा­ध­र्म्य­गो­च­र­स्त­र्कोऽ­न्त­र­ङ्ग­मिति तस्यैव बल­व­त्त्व­मि­त्यर्थः । ऐतिह्यमात्रेण प्रवा­द­पा­र­म्प­र्य­मा­त्रेण । परोक्षतयेति यावत् । अनुभवस्य प्राधान्ये तर्क­स्यो­क्त­न्या­येन तस्मि­न्न­न्त­र­ङ्ग­त्वा­दा­ग­मस्य च बहिरङ्गत्वात् ‘अन्त­र­ङ्ग­ब­हि­र­ङ्ग­यो­र­न्त­रङ्गं बलवत्’ इति न्यायादुक्तं तर्कस्य बलवत्त्वम् ।

अनुभवप्राधान्यं तु नाद्यापि सिद्ध­मि­त्या­श­ङ्क्याह -
अनुभवेति ।

ननु ब्रह्मज्ञानं वैदि­क­त्वा­द्ध­र्म­व­द­दृ­ष्ट­फ­ल­मे­ष्टव्यं, तत्कु­तोऽ­स्या­नु­भ­वा­व­सा­ना­वि­द्या­नि­व­र्त­कत्वं, तत्राह -
मोक्षेति ।
अधि­ष्ठा­न­सा­क्षा­त्का­रस्य शुक्त्या­दि­ज्ञाने तद­वि­द्या­त­त्का­र्य­नि­व­र्त­क­त्व­दृ­ष्टे­र्ब्र­ह्म­ज्ञा­न­स्यापि तर्क­व­शा­द­स­म्भा­व­ना­दि­नि­रा­स­द्वारा साक्षा­त्का­रा­व­सा­यि­न­स्त­द­वि­द्या­नि­व­र्त­क­त्वे­नैव मुक्तिहेतुतेति नादृ­ष्ट­फ­ल­ते­त्यर्थः ।

यत्तु ‘नैषा’ इत्या­दि­श्रु­ते­र्ब्र­ह्मणि न प्रवे­श­स्त­र्क­स्येति, तत्राह -
श्रुतिरपीति ।
विधि­वि­रो­धेऽ­र्थ­वा­द­श्रु­ति­र­दृ­ढी­भ­व­तीति भावः ।

ब्रह्मणि तर्कप्रवेशे फलितमाह -
अत इति ।

सूत्रा­व­य­व­म­व­ता­रितं व्याकरोति -
यदु­क्त­मि­त्या­दिना ।

ब्रह्मणो जगत्प्रकृतित्वं प्रति­पा­दि­त­त्वा­न्ना­नु­प­प­न्न­मि­त्याह -
कस्मादिति ।

तत्र सोपस्करं हेतुमाह -
विलक्षणत्वादिति ।

जग­द्ब्र­ह्म­णो­र्मिथो विलक्षणत्वं दृष्टि­श्रु­तिभ्यां स्पष्टयति -
इदं हीति ।

तयोर्मिथो वैलक्षण्येऽपि किमा­या­त­मि­त्या­श­ङ्क्याह -
नचेति ।

अदृष्टत्वमेव स्पष्ट­य­न्व्या­प्ति­माह -
नहीति ।

व्यति­रे­क­मु­क्त्वा­न्व­य­मा­चष्टे -
मृदैवेति ।

व्याप्ति­मुक्त्वा पूर्व­प­क्ष­सा­ध­क­म­नु­मा­न­माह -
तथेति ।
विमतं सुख­दुः­ख­मो­ह­सा­मा­न्य­प्र­कृ­तिकं, तद­न्वि­त­स्व­भा­व­त्वात् , यथा मृदन्वितस्वभावा घटादयो मृत्प्र­कृ­ति­का­स्त­थे­त्यर्थः ।

सिद्धान्तं निषे­द्धु­म­नु­मा­न­माह -
न विलक्षणस्येति ।
विमतं न ब्रह्म­प्र­कृ­तिकं, तत्स्व­भा­वे­ना­न­नु­ग­त­त्वात् , यथा मृत्स्व­भा­वे­ना­न­नु­गतं रुचकादि न मृत्प्रकृतिकं तद्वदित्यर्थः ।

किञ्च न ब्रह्म जगत्प्रकृतिः, तस्मि­न्न­न­नु­ग­त­स्व­भा­व­त्वात् , यथा घटादिष्वननुगतं सुवर्णादि तत्प्रकृतिर्न भवति तद्व­दि­त्य­नु­मा­न­म­भि­प्रे­त्याह -
ब्रह्मेति ।

तत्रा­शु­द्ध­त्व­मु­प­पा­द­यति -
अशुद्धं हीति ।
विषा­दा­दी­त्या­दि­प­देन रागद्वेषादयो गृह्यन्ते । नर­का­दी­त्या­दि­श­ब्देन लोकभेदानां तत्रा­व­स्थि­त­प्रा­णि­प्र­भे­दानां च ग्रहणम् ।

जगतोऽचेेतनत्वं साधयति -
अचेतनं चेति ।

चेत­न­त्वा­वि­शे­षेऽपि स्यादु­प­का­र्यो­प­का­र­कत्वं, नेत्याह -
नहीति ।

तदेव दृष्टान्तेन स्पष्टयति -
नहि प्रदीपाविति ।

साम्ये सत्यु­प­का­र्यो­प­का­र­कत्वं नास्तीत्यत्र व्यभिचारं चोदयति -
नन्विति ।

स्वामि­भृ­त्य­न्यायं विघ­ट­य­न्नु­त्त­र­माह -
न स्वामीति ।

किं चेतनस्य साक्षादेव चेतनान्तरं प्रत्यु­प­का­र­कत्वं किं वोप­का­र­क­का­र्य­क­र­णा­धि­ष्ठा­तृ­त्वे­नेति विकल्प्याद्यं प्रत्याह -
यो हीति ।

स एवे­त्ये­व­का­र­नि­रस्यं दर्शयति -
नत्विति ।

द्वितीयं निरस्यति -
निरतिशया हीति ।
उप­ज­ना­पा­य­ध­र्म­शू­न्यत्वं निरतिशयत्वम् । अत एवा­क­र्तृ­त्व­म­ति­श­य­म­न्त­रेण सिध्यति तत्कथं परम्परयापि चेत­ना­ना­म­ना­धे­या­ति­श­या­ना­मु­प­का­र्यो­प­का­र­क­त्व­मि­त्यर्थः ।

सम­यो­रु­प­का­र्यो­प­का­र­क­त्वा­स­म्भवे फलितमाह -
तस्मादिति ।

किञ्च कार्यकारणे चेत­न­त्व­श­ङ्का­व­का­श­वती, तत्र चेतनस्य सत्त्वा­त्का­ष्ठा­दिषु तदाशङ्कैव नोदेतीत्याह -
नचेति ।

इतश्च जग­त­श्चे­त­न­त्व­म­यु­क्त­मि­त्याह -
प्रसिद्धश्चेति ।

जग­तोऽ­शु­द्ध­त्वेऽ­चे­त­नत्वे च सिद्धे पूर्वो­क्त­म­नु­मा­न­मु­प­सं­ह­रति -
तस्मादिति ।

श्रुता­र्था­पत्त्या चेतनत्वं जगतोऽवगतमिति सूत्रै­क­दे­श­व्या­व­र्त्या­मा­शङ्कां दर्शयति -
योऽपीति ।

जग­त­श्चे­त­न­प्र­कृ­ति­क­त्व­श्रु­ति­ब­लेन चेत­न­त्वा­व­ग­ति­रि­त्युक्तं व्यनक्ति -
प्रकृतीति ।

अनुपलम्भपराहता श्रुता­र्था­प­त्ति­र­मा­न­मि­त्या­श­ङ्क्याह -
अविभाविनं त्विति ।
समस्ते जगति सतोऽपि चैतन्यस्य तत्र तत्रा­न्तः­क­र­ण­प­रि­णा­मा­दु­प­रा­गा­द­नु­प­ल­ब्धि­र­वि­रु­द्धे­त्यर्थः ।

स्वप्रकाशस्य चैतन्यस्य परि­णा­म­वि­शे­षा­नु­प­रा­गा­द­नु­प­ल­ब्धि­र­सिद्धा स्वप्र­का­श­त्व­वि­रो­धा­दि­त्या­शङ्क्य दृष्टान्तेन परिहरति -
यथेत्यादिना ।

तर्हि चेतनत्वेन तुल्यानां कार्य­का­र­णा­ना­मा­त्मनां च गुण­प्र­धा­न­त्वा­भा­वा­दु­प­का­र्यो­प­का­र­क­त्वा­नु­प­प­त्ति­रुक्ता तद­व­स्थे­त्या­स­ङ्क्याह -
एतस्मादिति ।

साम्येऽपि सम्भ­व­त्यु­प­का­र्यो­प­का­र­क­त्व­मि­त्ये­त­दु­दा­ह­र­णेन स्फोरयति -
यथा चेति ।
प्रत्या­त्म­व­र्तिनो विशे­षा­त्त­द­सा­धा­र­ण­ध­र्म­व­शा­दि­त्यर्थः ।

सर्वस्यापि जगतश्चेतनत्वे कथं चेत­ना­चे­त­न­वि­भा­ग­प्र­सि­द्धि­रत आह -
प्रविभागेति ।
अत एव विभा­वि­त­त्वा­वि­भा­वि­त­त्व­वि­शे­षा­दे­वे­त्यर्थः ।

जग­त­श्चे­त­न­त्व­मु­पे­त्या­पा­ततः समाधानमाह -
तेनापीति ।

परमसमाधानं वक्तुं सूत्रा­व­य­व­म­व­ता­र­यति -
न चेति ।

तस्याभिप्रायं दर्शयितुं पर­की­या­भि­प्रा­य­म­नु­व­दति -
अनवगम्यमानमिति ।

लोका­नु­रो­ध­वै­धुर्यं केवलं चेत्युक्तम् , सम्प्रति सूत्रा­व­य­वा­भि­प्रा­य­माह -
तच्चेति ।
श्रुतिविरोधे श्रुता­र्था­प­त्ति­र­मा­न­मिति भावः ।

विरोधमेव स्फोरयति -
यत इति ।
अनु­भ­व­स­मु­च्च­या­र्थोऽ­पि­शब्दः । न चायं शब्दो विभा­वि­त­त्वा­वि­भा­वि­त­त्व­वि­शे­षा­पेक्षो भवि­ष्य­त्यौ­प­चा­रि­क­त्व­प्र­स­ङ्गा­न्मु­ख्य­स­म्भवे तदयोगादिति भावः ॥ ४ ॥

केव­ल­श्रु­त्य­पे­क्षया तद­नु­गृ­ही­ता­र्था­प­त्ते­र्ब­ली­य­स्त्वा­द्वि­भा­ग­श्रु­त्य­र्थ­स्यौ­प­चा­रि­क­त्व­मे­वेति शङ्कते -
नन्विति ।

यथा­श­ब्द­स्त­था­श­ब्द­म­ध्या­हृ­त्ये­न्द्रि­य­वि­ष­याणि चेत­न­त्व­श्रु­ति­र­स्तीति सम्बध्यते । कासा­वि­न्द्रि­य­वि­षया श्रुति­रि­त्य­पे­क्षा­या­माह -
ते हेति ।

मृदा­दि­श्रु­ति­र­भि­मा­नि­दे­व­ता­वि­ष­य­तया मुख्यार्था सती विभा­ग­श्रु­ते­रु­प­च­रि­ता­र्थतां न कल्पयतीति परिहरति -
अत इति ।

सूत्रं व्याचष्टे -
तुशब्द इति ।

आश­ङ्का­प­नो­द­प्र­का­र­मेव प्रकटयति -
न खल्विति ।

अत्र हेतुत्वेन सूत्रभागमादत्ते -
यत इति ।

तस्यार्थमाह -
मृदादीति ।

भूत­मा­त्र­मि­न्द्रि­य­मात्रं वा चेतनत्वेन व्यपदिश्यमानं न भवतीत्यत्र प्रश्नपूर्वकं हेतुद्वयमाह -
कस्मादिति ।

तत्र विशेषं व्याचष्टे -
विशेषो हीति ।

तस्या­न्य­थो­प­पत्तिं वारयति -
सर्वेति ।
उप­का­र्यो­प­का­र­क­त्वा­धि­गतेः साम्ये च तद­यो­गा­त्प्र­सि­द्धि­श्रु­तिभ्यां चेत­ना­चे­त­न­त्व­वि­भा­गा­व­ग­मा­त्के­व­ल­भू­ते­न्द्रि­य­वि­षया नैषा श्रुतिरित्यर्थः ।

अविशेषेण विशेषं व्याख्याय प्राणेषु विशेषं विशेषतो व्याकरोति -
अपिचेति ।
विशिषन्ति वागा­दी­न्प्रा­णा­दी­निति शेषः । अहंश्रेयसे श्रेया­न­ह­मि­त्यस्मै प्रयोजनाय । स्वकी­य­श्रे­ष्ठ­त्वा­ये­त्यर्थः । निःश्रेयसं श्रैष्ठ्यं प्राणे ज्ञात्वा तदनुवर्तिन्यः सर्वा देवता बभूवुरित्यर्थः ।

इदा­नी­म­नु­ग­ति­म­वि­शे­षतो दर्शयति -
अनुगताश्चेति ।

सर्वत्रेति भूते­न्द्रि­या­दि­ग्र­ह­णम् । सम्प्रति करणेष्वेव देवतानुगतिं श्रुतितो दर्शयति -
अग्निरिति ।

कर­णे­ष्वे­वा­नु­गतिं विधान्तरेण निरूपयति -
प्राणेति ।
क्षेत्र­ज्ञा­धि­ष्ठि­तानां शरीराणामिव प्राणानामपि व्यवहारानुगतिं दर्शयन्ती श्रुतिस्तेषां क्षेत्र­ज्ञा­धि­ष्ठा­ने­नैव चैतन्यं द्रढयतीत्यर्थः ।

भूते­न्द्रि­य­वि­ष­य­चे­त­न­त्व­श्रु­ते­र­भि­मा­नि­नि­मि­त्ततां विशे­षा­नु­ग­ति­भ्या­मुक्त्वा भूतेषु चेत­न­त्वा­भि­धा­न­स्या­भि­मा­नि­नि­मि­त्ततां विशेषतो दर्शयति -
तत्तेज इति ।

सर्वस्य चेतनत्वासम्भवे हेत्व­सि­द्धि­स­मा­धि­मु­प­सं­ह­रति -
तस्मादिति ।

तत्फलमनुमानं निगमयति -
विल­क्ष­ण­त्वा­च्चेति ।

ब्रह्मणि समन्वयो यथो­क्त­न्या­य­वि­रो­धान्न सिध्यतीति पूर्व­प­क्ष­म­नु­भाष्य सिद्धान्तमाह -
इत्याक्षिप्त इति ॥ ५ ॥

सिद्धान्तसूत्रं विभजते -
तुशब्द इति ।

व्याव­र्त्य­प­क्ष­म­नूद्य तद्व्या­वृ­त्ति­प्र­का­र­मेव विवृणोति -
यदुक्तमिति ।

वैलक्षण्ये प्रकृ­ति­वि­कृ­ति­भा­वा­सि­द्धि­रिति नियमभङ्गे हुतेमाह -
दृश्यते हीति ।

दृष्टान्ते वैल­क्ष­ण्य­म­सि­द्ध­मिति शङ्कते -
नन्विति ।

तत्राचेतनानां कार्य­का­र­ण­भा­व­म­भ्यु­पे­त्यैव वैलक्षण्यं साधयति -
उच्यत इति ।

ईदृशं वैल­क्ष­ण्य­म­वि­व­क्षितं कार­ण­ग­ता­सा­धा­र­ण­ध­र्मा­न­नु­ग­ति­रूपं तु तदि­ष्ट­मि­त्या­श­ङ्क्याह -
महांश्चेति ।

पारिणामिकः । तत्त­त्के­शा­दि­ग­त­प­रि­णा­मा­त्मक इति यावत् । रूपा­दी­त्या­दि­श­ब्देन परिमाणादि परिगृह्यते । किञ्च वैल­क्ष­ण्या­त्प्र­कृ­ति­वि­कृ­तित्वं प्रत्याचक्षाणः साल­क्ष­ण्या­त्त­दि­च्छति तच्च कारणधर्माणां सर्वेषामनुगमो वा कस्यचिदेव वा कार­ण­स्व­भा­व­स्येति विकल्प्याद्ये दोषमाह -
अत्यन्तेति ।

द्विती­य­मु­त्था­प­यति -
अथेति ।

तर्हि जगद्ब्रह्मणोरपि किञ्चि­त्स्व­भा­वा­नु­ग­ति­रू­प­सा­रू­प्य­स­म्भ­वान्न प्रकृ­ति­वि­कृ­ति­त्व­प्र­त्या­ख्या­न­मि­त्याह -
ब्रह्मणोऽपीति ।

प्रकृ­ति­वि­कृ­ति­त्व­हेतुं सालक्षण्यं विकल्प्य दूषयित्वा तदभावहेतुं वैलक्षण्यं विकल्पयति -
विलक्षणत्वेनेति ।

आद्य­म­प्र­यो­ज­क­त्वेन प्रत्याचष्टे -
प्रथम इति ।

अस्तु समस्तस्य ब्रह्मस्वभावस्य जग­त्य­न­नु­व­र्त­न­मस्तु च जगतो ब्रह्म­प्र­कृ­ति­कत्वं का हानिः । नच जगतो ब्रह्म­प्र­कृ­ति­कत्वे सम­स्त­त­त्स्व­भा­वस्य जग­त्य­नु­व­र्त­ना­नु­पत्तिः, सर्वस्यापि कार्ये सर्व­का­र­ण­रू­पा­नु­वृ­त्ता­व­सति विशेषे प्रकृ­ति­वि­कृ­ति­त्वा­सि­द्धे­रि­त्यु­क्त­मु­प­पा­द­यति -
नहीति ।

मध्य­म­क­ल्प­म­सिध्या निरस्यति -
द्वितीये चेति ।

अन्ति­म­म­सा­धा­र­ण­त्वेन निराकरोति -
तृतीये त्विति ।

दृष्टा­न्ता­भा­व­मेव स्पष्टयति -
किं हीति ।

आका­शा­दे­र्दृ­ष्टा­न्त­त्व­मा­श­ङ्क्याह -
समस्तस्येति ।

पक्षत्रयेऽपि साधारणं कालातीतत्वमाह -
आगमेति ।

ब्रह्मणो माना­न्त­र­ग­म्य­त्व­म­ङ्गी­कृ­त्योक्तं तदपि नास्ती­त्यु­क्ता­नु­वा­द­पू­र्व­क­माह -
यत्त्विति ।

यथा कार्य­त्वा­वि­शे­षेऽपि ‘आरोग्यकामः पथ्यमश्नीयात्’ ‘स्वर्गकामो यजेत’ इत्यत्रैकस्य माना­न्त­र­यो­ग्यत्वं नेतरस्येति स्वीकृतं तथा भूत­त्वा­वि­शे­षेऽपि पृथि­व्या­दे­र्मा­ना­न्त­र­ग­म्यत्वं ब्रह्म­ण­स्त्वा­म्ना­यै­क­ग­म्य­तेति मन्वानः सन्नाह -
आगममात्रेति ।

ब्रह्मणो माना­न्त­रा­यो­ग्यत्वे मानमाह -
तथाचेति ।
ब्रह्मविषया मतिरेषा तर्केण नापनेया नापनीया । न प्राप­णी­ये­त्यर्थः । यद्वा कुतर्केण नापनेया निरस्या न भवति किं त्वन्ये­नै­वा­चा­र्येण वेदविदा प्रोक्ता सुज्ञानाय फला­व­सा­यि­सा­क्षा­त्का­राय भवति । हे प्रेष्ठ प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् । क इह ब्रह्म व्यव­हा­र­भू­मा­वद्धा साक्षाद्वेद । को वा तत्प्रावोचत । छान्दसो दैर्घ्यलोपः छन्दसि कालानियमात् । ब्रह्म प्रब्रू­या­दि­त्यर्थः । यतो यस्मा­त्प­र­स्मा­दा­त्मनः सकाशादियं विसृ­ष्टि­र्वि­विधा सृष्टिर्बभूव स एव स्वरूपं वेद नान्य इति मन्त्र­प्र­ती­क­यो­रर्थः ।

प्रतीकतो दर्शि­त­यो­र्म­न्त्र­यो­स्ता­त्प­र्य­माह -
एते इति ।

ब्रह्म­ण­स्त­र्का­द्य­गो­च­रत्वे पौराणिकसंमतिमाह -
अचिन्त्या इति ।

भावा­ना­म­चि­न्त्य­त्वेन तर्का­गो­च­र­त्वेऽपि ब्रह्मणि किमा­या­त­मि­त्या­शङ्क्य भग­व­द्वा­क्य­मु­दा­ह­रति -
अव्यक्तोऽयमिति ।

कथ­म­वि­का­र्योऽ­य­मि­त्या­शङ्क्य जन्म­म­र­ण­यो­र्मा­ना­भा­वा­दि­त्याह -
न म इति ।

तेषा­मी­श्व­र­प्र­भ­वा­प्र­मि­ति­क­र्तृत्वे हेतुमाह -
अहमिति ।

श्रुति­स्मृ­तिभ्यां ब्रह्म­ण­स्त­र्का­वि­ष­यत्वे सिद्धे कथं श्रव­णा­ति­रि­क्त­म­न­न­वि­धा­न­मि­त्या­श­ङ्का­म­नु­व­दति -
यदपीति ।

मन­न­वि­धा­न­सा­म­र्थ्या­त्त­र्क­मा­त्रस्य ब्रह्म­ण्य­नु­प्र­वेशो विवक्षितः श्रुत्य­नु­गृ­ही­तस्य वेति विकल्प्याद्यं दूषयति -
नानेनेति ।
मिषेण । मन­न­वि­धि­व्या­जे­नेति यावत् ।

अनु­ग्रा­ह्य­मा­न­ही­न­तया निरालम्बनत्वं तर्कस्य शुष्कत्वम् । तत्र हेतुं वद­न्द्वि­ती­य­म­ङ्गी­क­रोति -
श्रुतीति ।
श्रुत्य­नु­ग्रा­हको हि तर्क­स्त­द्वि­ष­या­स­म्भा­व­ना­दि­प्र­ति­ब­न्ध­प्र­ध्वं­सेन ब्रह्म­ण्य­नु­भ­वा­ङ्गम् । तदननुगृहीतस्तु निरा­ल­म्ब­न­त्वा­न्ना­त्रो­प­यु­ज्यते । तथाच तर्क­मा­त्र­स्या­त्रा­प्र­वे­शा­त्त­र्क­वि­शे­षस्य च श्रुति­द्वा­राऽ­नु­प्र­वे­शा­वि­रो­धा­त्त­र्का­गो­च­रत्वं मननविधानं चेत्यर्थः ।

श्रुत्या­का­ङ्क्षितं तर्कमेव मन­न­वि­धि­वि­ष­य­मु­दा­ह­रति -
स्वप्नान्तेति ।
स्वप्न­जा­ग­रि­त­यो­र्मिथो व्यभि­चा­रा­दा­त्मनः स्वभा­व­त­स्त­द्व­त्त्वा­भा­वा­द­व­स्था­द्व­येन तस्य स्वतोऽ­स­म्पृ­क्त­त्वम् । अतो जीव­स्या­व­स्था­व­त्त्वेन नाब्र­ह्म­त्व­मि­त्यर्थः ।

तथापि देहा­दि­ता­दा­त्म्ये­ना­त्मनो भानान्न निष्प्र­प­ञ्च­ब्र­ह्म­ते­त्या­श­ङ्क्याह -
सम्प्रसादे चेति ।
‘सता सोम्य तदा सम्प्रन्नो भवति’ इति श्रुतेः सुषुप्ते निष्प्र­प­ञ्च­स­दा­त्म­त्वा­व­ग­मा­दा­त्म­न­स्त­था­वि­ध­ब्र­ह्म­त्व­सि­द्धि­रि­त्यर्थः ।

द्वैत­ग्रा­हि­प्र­त्य­क्षा­दि­वि­रो­धा­त्क­थ­मा­त्म­नोऽ­द्वि­ती­य­ब्र­ह्म­त्व­मि­त्या­शङ्क्य तज्ज­त्वा­दि­हे­तुना ब्रह्मा­ति­रि­क्त­व­स्त्व­भा­व­सि­द्धे­र­ध्य­क्षा­दी­ना­म­त­त्त्वा­वे­द­क­प्रा­मा­ण्या­द­वि­रो­धा­द्यु­क्त­मा­त्म­नोऽ­द्वि­ती­य­ब्र­ह्म­त्व­मि­त्याह -
प्रपञ्चस्येति ।

ब्रह्मणि सावकाशं तर्कं दर्शयित्वा श्रुत्य­न­नु­गृ­ही­त­त­र्कस्य तस्मि­न्न­न­व­का­शत्वं सूत्रकृतोऽपि संमतमित्याह -
तर्केति ।
विप्र­ल­म्भ­क­त्व­म­र्थ­वि­शे­षा­व्य­व­स्था­प­क­त्वम् ।

ब्रह्मणि निरालम्बनस्य तर्क­स्या­प्र­वृत्तेः, श्रुत्य­नु­गृ­ही­तस्य प्रवृत्तावपि जगन्न ब्रह्मकार्यं चैत­न्ये­ना­न­नु­ग­त­त्वा­दि­त्यस्य श्रुत्य­नु­गृ­ही­त­त्वा­भा­वा­त्त­द्वि­रो­धिनो न प्रवृ­त्ति­रि­त्यु­क्तम् । इदानीं घटः प्रकाशत इति प्रत्यक्षेण श्रुता­र्था­पत्त्या च जग­त­श्चै­त­न्या­नु­ग­मा­व­ग­मा­द­सिद्धं चैत­न्ये­ना­न­नु­ग­त­त्व­मि­त्याह -
योऽपीति ।

श्रुता­र्था­पत्तेः श्रुतिविरोधे नास्ति मान­ते­त्यु­क्त­मा­श­ङ्क्याह -
तस्यापीति ।
साव­का­शा­न­व­का­श­न्या­येन सावकाशा विभा­ग­श्रु­ति­र­न­व­का­शा­र्था­पत्त्या विभा­व­ना­वि­भा­व­न­वि­ष­य­तया व्यव­स्था­प­नी­ये­त्यर्थः ।

स्वमते विभा­ग­श्रु­ति­वि­रोधं समाधाय प्रधानवादे तद्विरोधमाह -
परस्येति ।
घटः स्फुरतीति प्रत्य­क्ष­स­ङ्ग्र­हा­र्थ­म­पी­त्यु­क्तम् ।

सत्त्व­र­ज­स्त­म­सा­म­ज्ञा­ना­त्म­क­त्वा­त्पु­रु­षस्य चात­दा­त्म­क­त्वा­द­स्म­न्मते विभा­ग­श्रु­ते­र्ना­नु­प­प­त्ति­रिति शङ्कते -
कथमिति ।

उक्तरीत्या विभागासम्भवं वक्तुं श्रुत्य­भि­म­त­म­र्थ­माह -
परमकारणस्येति ।

प्रधानस्यैव मूल­का­र­ण­त्वा­द­शे­ष­ज­ग­दा­त्म­नाऽ­व­स्था­न­मि­त्या­श­ङ्क्याह -
तत्रेति ।
विभागश्रवणे सतीति यावत् ।

तर्हि त्वन्मतेऽपि चेत­न­स्या­चे­त­न­भा­वा­नु­प­प­त्ति­स्तु­ल्ये­त्या­शङ्क्य चेतनस्यापि कारणस्य स्वापा­दा­वि­वा­ना­वि­र्भा­वि­त­चै­त­न्य­त्व­मु­क्त­मि­त्याह -
प्रत्यु­क्त­त्वा­दिति ।

यद्वा वैलक्षण्ये कार्यकारणत्वं नेत्यु­पे­त्यो­क्तम् । वस्तु­त­स्त्व­चे­त­न­स्यापि चेत­न­का­र्य­त्व­म­वि­रु­द्धम् , गोमयवृश्चिकादौ हेतो­र्व्य­भि­चा­र­स्यो­क्त­त्वा­दि­त्याह -
प्रत्यु­क्त्त्वा­दिति ॥ ६ ॥

अस­त्का­र्य­वा­दा­प­त्ति­मा­शङ्क्य परिहरति -
असदिति चेदिति ।

तत्र चोद्यं विवृणोति -
यदीति ।
कार्य­का­र­ण­यो­र्वि­रु­द्ध­त्वा­त्का­र­णा­त्मना प्राग­न­व­स्था­ना­त्का­र्यस्य प्रागसत्त्वं स्यादित्यर्थः ।

इष्टा­प­त्ति­मा­शङ्क्य निराचष्टे -
अनिष्टं चेति ।
कार्या­स­त्त्व­मे­त­च्छ­ब्दार्थः ।

तत्र हेतुं सूचयति -
सत्कार्यवादिन इति ।
चेतनकार्यस्य कार­णेऽ­व­स्था­न­स्वी­का­रा­दि­त्यर्थः ।

नेत्यादि व्याकु­र्व­न्प­रि­ह­रति -
नैष दोष इति ।

प्राक्का­ली­न­का­र्य­स­त्त्वस्य प्रति­षे­ध्य­त्वा­त्त­द­भा­वा­सि­द्धि­रि­त्या­श­ङ्क्याह -
न हीति ।

यथेह घटो नास्तीति घटसंसर्गसत्ता भूतले वर्तमानकाले निषिध्यते तथा प्रागसदिति कार्यस्य प्राक्कालीनं सत्त्वं शक्यं निषेद्धुमिति शङ्कते –
कथमिति ।

कार्यस्य कारणात्मना सत्त्वं वा निषिध्यम्, सत्त्वान्तरं वा ? नाद्य इत्याह –
यथैवेति ।
कारणात्मना सत्त्वस्य सदातनत्वान्न निषे­ध्य­ते­त्यर्थः ।

द्वितीयं प्रत्याह –
न हीति । कार­ण­स­त्त्वा­ति­रि­क्त­स­त्त्वा­भावे मानमाह -
सर्वमिति ।

सत्यं कारणात्मनैव कार्यस्य सत्त्वं, तदेव कालविशेषे निषे­ध्य­मि­त्या­श­ङ्क्याह -
कारणात्मनेति ।
किं तदा कार्यं नास्ति, किं वा कारणमपि । नाद्यः । सदापि तस्य कार­णा­ति­रि­क्त­स्या­स­त्त्वा­द्वि­शे­ष­ण­वै­य­र्थ्यम् । न द्वीतियः । तस्य सर्वदा सत्त्वा­न्नि­षे­धा­न­व­का­शा­दि­त्यर्थः ।

उक्त­म­भि­प्रा­य­म­वि­द्वा­न्मिथो विरु­द्ध­यो­रै­क्या­यो­गा­द­स­देव शब्दा­दि­म­ज्ज­ग­ज्जा­यत इति शङ्कते -
नन्विति ।

ब्रह्मणः शब्दा­दि­ही­न­त्व­म­ङ्गी­कृत्य परिहरति -
बाढमिति ।

तर्हि प्रागसदेव शब्दा­दि­म­ज्ज­ग­दि­दानीं जायते, नेत्याह -
न त्विति ।
ब्रह्मणः शब्दादिहीनत्वे शब्दा­द्या­त्म­कस्य जगतो ब्रह्मणि कल्पितत्वान्न सत्त्वं वास्तवं पृथगस्तीत्यर्थः ।

कल्पितत्वमेव जगतो ब्रह्मणीति स्थिते फलितमाह -
तेनेति ।

जगतो ब्रह्मणि कल्पि­त­त्व­म­स­म्प्र­ति­प­न्न­मि­त्या­श­ङ्क्याह -
विस्तरेणेति ॥ ७ ॥

जग­द्ब्र­ह्म­णो­रुक्तं कार्य­का­र­ण­त्व­म­मृ­ष्य­मा­ण­श्चो­द­यति -
अपीताविति ।

पूर्वपक्षसूत्रं व्याकरोति -
अत्रेत्यादिना ।
जगतो ब्रह्मकारणत्वं सप्तम्यर्थः ।

तमे­वो­क्ति­प्र­कारं प्रकटयति -
यदीति ।
अशु­द्ध्या­दी­त्या­दि­श­ब्देन राग­द्वे­षा­दि­ग्र­ह­णम् । तदपीतावित्यत्र तत्पदं कार्येण सम्बध्यते ।

प्रति­सं­सृ­ज्य­मा­न­मि­त्य­स्या­र्थ­माह -
कारणेति ।

यथा क्षीरे संसृज्यमानमुदकं स्वधर्मेण क्षीरं दूषयति, यथा वा लवणमुदके सम्बध्यमानमुदकं दूषयेत्तथा कार्यमपि कारणे युज्यमानं स्वधर्मेण कारणं दूषयतीत्याह -
कारणमिति ।

कार्य­स­मा­न­ध­र्म­वत्त्वे ब्रह्मणः स्वीकृते फलितमाह -
इत्यपीताविति ।

सूत्रस्य व्याख्यान्तरमाह -
अपि चेति ।
सर्वस्य कार्यस्य प्रलये कार­ण­व­दै­क­रू­प्य­प्र­स­ङ्गा­त्पु­न­र्वि­भा­गे­नो­त्पत्तौ हेत्व­भा­वा­त्त­द­प्रा­प्ति­रि­त्य­सा­म­ञ्ज­स्य­मि­त्यर्थः ।

प्रका­रा­न्त­रे­णा­सा­म­ञ्ज­स्य­माह -
अपि चेति ।
कर्मादीनां पुन­रु­त्प­त्ति­नि­मि­त्तानां लये सत्यपीति यावत् । प्रलयावस्थायां कर्मादिप्रलये निमि­त्त­म­न्त­रे­णापि पुन­र्भो­क्तॄ­णा­मु­त्पत्तौ तद्वदेव मुक्तानामपि पुन­र्ज­न्म­प्र­स­ङ्गा­द­स­म­ञ्ज­स­मिदं दर्शनमित्यर्थः ।

शङ्कापूर्वकं व्याख्यान्तरमाह -
अथेति ।
स्थिता­वि­वे­त्य­पे­रर्थः । ब्रह्म­वा­दि­ना­मि­त्थ­म­न­ङ्गी­कारं सूच­यि­तु­मे­व­म­पी­त्यु­क्तम् । यदि लयकालेऽपि कार्यं कारणाद्विभक्तं तदा स्थिति­का­ल­व­ल्ल­या­भा­व­प्र­स­ङ्गा­द­स­म­ञ्ज­स­मे­वेदं ब्रह्म­का­र­ण­त्व­मि­त्यर्थः ॥ ८ ॥

सिद्धा­न्त­सू­त्र­म­व­ता­र­यति -
अत्रेति ।

तत्र तुश­ब्द­स्या­व­धा­र­णा­र्थ­त्व­मु­पेत्य प्रतिज्ञाभागं विभजते -
नैवेति ।

तदेव दर्शयितुमादौ परोक्तमनुवदति -
यत्तावदिति ।
कारणमपिगच्छत् , तस्मि­न्न­वि­भा­ग­मा­प­द्य­मा­न­मिति यावत् ।

तस्यादोषत्वं प्रतिज्ञाय प्रश्नपूर्वकं हेतुमवतार्य व्याचष्टे -
तददूषणमिति ।

दृष्टान्तानेव विभजते -
तद्यथेति ।
विभागावस्था स्थितिकालः । पुनरिति प्रलयकालोक्तिः । चतुर्विधो भूतग्रामो जरा­यु­जा­ण्ड­ज­स्वे­द­जो­द्भि­ज्ज­रूपो भूतसमुदायः । अने­क­दृ­ष्टा­न्तो­पा­दानं बुद्धि­सौ­क­र्या­र्थम् ।

परपक्षस्यापि कश्चि­द्दृ­ष्टान्तो भवि­ष्य­ती­त्या­श­ङ्क्याह -
त्वत्पक्षस्येति ।
क्षीर­नी­रा­दी­ना­म­का­र्य­का­र­ण­रू­प­त्वा­त्का­रणे कार्यलये दृष्टा­न्त­त्वा­सि­द्धि­रिति भावः ।

किञ्च लयकाले कार्यधर्मस्थितौ कार्यस्यापि धर्मिणः स्थिते­र्ल­या­सिद्धिः कारणाश्रयत्वेन च तदवस्थाने स्फटि­क­लौ­हि­त्य­व­त्त­द्धी­र्भ्रान्तिः स्यादित्याह -
अपीतिरेवेति ।

ननु प्रलयकाले कार्य­ध­र्मा­श्चे­न्ना­व­ति­ष्ठे­रन्न तर्हि कारणधर्मा अपि तिष्ठे­यु­स्त­यो­र­भे­दात् , तत्राह -
अनन्यत्वेऽपीति ।
अधि­ष्ठा­न­मे­वा­रो­पि­तस्य तत्त्वं न विपरीतमित्यर्थः ।

किञ्च कार्यमात्मीयेन धर्मेण कारणं दूष­य­ती­त्य­त्रा­पी­ति­वि­शे­ष­ण­म­न­र्थ­क­मि­त्याह -
अत्यल्पं चेति ।

विशेषणवैयर्थ्ये हेतुमाह -
स्थिताविति ।

प्रसङ्गसाम्ये हेतुः -
कार्येति ।

अभ्युपगमस्य मानमूलतां दर्शयति -
इदमिति ।

इदमपि दूष­णा­न्त­र­मे­वे­त्या­श­ङ्क्याह -
तत्रेति ।

कार्य­स्या­वि­द्यया विद्य­मा­न­त्वा­त्तेन कारणस्य वस्तु­तोऽ­सं­स्पर्शे दृष्टान्तमाह -
अस्ति चेति ।

तत्र मायाविनो वस्तुत्वेऽपि तदीयमायाया अवस्तुत्वादिति हेतुमाह -
अवस्तुत्वादिति ।

दृष्टा­न्त­नि­वि­ष्ट­मर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
विधान्तरेण सूत्र­यो­ज­ना­स­मा­प्ता­वि­ति­शब्दः ।

मायाविनो मायां प्रत्य­नु­पा­दा­न­त्वा­न्ने­द­म­नु­रू­प­मु­दा­ह­र­ण­मि­त्या­श­ङ्क्याह -
यथा चेति ।
एकः अवस्थान्तरेऽपि स्वय­म­नु­ग­च्छ­न्निति यावत् ।

तया तस्यासंस्पर्शे हेतुमाह -
प्रबोधेति ।
जागरिते सुषुप्ते चानुगच्छतस्तस्य तया­नु­ग­म्य­मा­न­त्वा­भा­वा­दिति हेत्वर्थः । नहि स्वप्नदर्शनरूपा माया जाग­रा­दा­व­नु­व­र्त­माना दृष्टेति भावः ।

चेत­नो­पा­दा­न­त्वा­नु­गुणं दृष्टा­न्त­मुक्त्वा दार्ष्टन्तिकमाह -
एवमिति ।
अव­स्था­त्र­य­मु­त्प­त्ति­स्थि­ति­प्र­ल­य­रू­पम् ।

स्वप्नदर्शनं मायामात्रमिति वस्तु­त­स्ते­ना­स्प­र्शेऽपि पर­मा­त्म­नोऽ­व­स्था­त्र­येण संस्पर्शो दुर्वारस्तस्य वस्तु­त्वा­दि­त्या­श­ङ्क्याह -
मायामात्रमिति ।
अत्रापि सूत्रस्य विधान्तरेण योजनां विव­क्षि­त्वे­ति­शब्दः ।

परमात्मनो वस्तु­तोऽ­व­स्था­त्र­या­स­म्बन्धे वृद्धसंमतिमाह -
अत्रेति ।
यदे­त्या­चा­र्य­प्र­ति­बो­ध­ना­व­स्थोक्तिः । अज­मि­त्यु­त्प­त्त्य­व­स्थया स्पर्श­शू­न्य­त्व­म­नि­द्र­मिति लया­व­स्थ­याऽ­स्व­प्न­मिति स्थित्यवस्थया चेति विवेक्तव्यम् । अद्वैतमिति पूर्णतोक्तिः ।

पर­स्या­व­स्था­त्र­या­स­म्बन्धे फलितमाह -
तत्रेति ।

उक्त­म­सा­म­ञ्ज­स्या­न्त­र­म­नु­व­दति -
यत्पुनरिति ।

न त्वित्या­दि­सू­त्रेण परिहरति -
अयमपीति ।

दृष्टान्तभावमेव विभजते -
यथा हीति ।
मिथ्याज्ञानस्य मिथ्या­भू­त­स्या­ज्ञा­न­स्येति यावत् ।

दृष्टान्ते सम्प्र­ति­प­त्त्य­भावं मन्वानं प्रत्याह -
श्रुतिश्चेति ।

सुषुप्तिसमये सत्स­म्प­त्ते­र­ज्ञा­न­स­द्भा­वस्य च श्रुतत्वेऽपि कथं सति सम्पन्नस्य पूर्व­व­त्पु­न­र्वि­भा­गे­नो­त्था­न­मि­त्या­श­ङ्क्याह -
त इहेति ।

सुषु­प्ता­द­य­स्त­च्छ­ब्देन परामृश्यन्ते -
इहेति
पूर्व­बो­धा­दे­रुक्तिः । यद्यदिति कर्माद्यर्जितं जाति­वि­शे­ष­रू­प­मु­क्तम् । तदा भव­न्ती­त्यु­त्त­र­प्र­बो­धा­दे­र­ती­त­वा­स­ना­नु­सा­रिणो ग्रहणम् ।

ननु न किञ्चि­द­वे­दि­ष­मि­त्यु­त्थि­तेन परा­मृ­श्य­मा­ना­ज्ञा­नस्य सुषुप्ते सत्त्वात्पुनः प्रबोधे पूर्ववदुत्थानं युक्तम् । प्रलये तु तथा­वि­धा­ज्ञा­न­स­द्भावे मानाभावात्कुतो विभा­गे­नो­त्प­त्ति­र्नि­य­म्यते, तत्राह -
यथा हीति ।

तत्त्व­ज्ञा­न­प­र्यन्तं विभा­ग­व्य­व­हा­र­स्या­व्या­ह­तत्वे दृष्टान्तमाह -
स्वप्नवदिति ।
सुषु­प्त्य­व­स्थायां परस्मिन्नज्ञाते ब्रह्मणि समस्तस्य कार्यजातस्य लीनत्वेऽपि लय­स्या­वि­द्या­शे­ष­त्वा­त्पु­न­रु­त्थि­ता­वु­त्त­र­प्र­बो­धा­व­स्थायां सौषु­प्ता­वि­द्या­नि­मित्तो विभागव्यवहारः स्वप्ना­व­स्था­या­मिव याव­त्त­त्त्व­ज्ञा­न­म­बा­धि­तोऽ­भ्यु­प­ग­म्यते । तथा प्रल­या­व­स्था­या­मपि विभा­ग­श­क्ति­र्वि­भ­क्त­का­र्य­ल­य­ल­क्षणा मिथ्या­ज्ञा­न­श­ब्दि­ता­वि­द्या­प्र­ति­बद्धा तच्छे­षै­वा­नु­मा­स्यते । विमतो लयः सावशेषः, तत्त्व­ज्ञा­ना­धी­न­ल­य­त्वात् , सौषुप्तलयवत् । तथा चावि­द्या­श­क्ते­र्नि­य­त­त्वा­दु­त्प­त्ति­नि­य­ति­रि­त्यर्थः ।

असा­म­ञ्ज­स्या­न्त­र­मु­क्त­म­ति­दे­शेन शिथिलयति -
एतेनेति ।
अवि­द्या­श­क्ति­व­शा­देव पुन­र्वि­भा­गे­नो­त्प­त्ति­रि­त्यु­क्त­न्या­ये­नेति यावत् ।

तथापि कथं तेषां पुन­रु­त्प­त्ति­प्र­सङ्गो निवार्यते, कारणाभावे कार्या­भा­वा­दि­त्याह -
सम्यगिति ।

परि­चो­द­ना­पू­र्व­क­मु­क्त­म­सा­म­ञ्ज­स्या­न्तरं निरस्यति -
यः पुनरिति ।

आश­ङ्कि­ता­सा­म­ञ्ज­स्य­नि­र­स­न­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ॥ ९ ॥

स्वपक्षे विल­क्ष­ण­त्वा­दि­दो­षा­न्प­रि­हृत्य ‘यश्चोभयोः’ इत्या­दि­न्या­या­द­नु­द्भा­व्य­त्व­मेव तेषामित्याह -
स्वपक्षेति ।

सूत्राक्षराणि व्याचष्टे -
स्वपक्षे चेति ।
तथा च वादिनं प्रत्य­नु­द्भा­व्यता तेषामिति शेषः ।

ब्रह्म­वा­दि­न्यु­क्तानां विल­क्ष­ण­त्वा­दीनां प्रधानवादिनि प्रस­ङ्गा­भा­वा­त्कुतः साधारण्यमिति शङ्कते -
कथमिति ।

प्रधानवादिनि दोष­सा­म्य­मा­पा­द­यि­तु­मा­र­भते -
उच्यत इति ।

उक्तप्रकारमेव प्रक­ट­य­न्वि­ल­क्ष­ण­त्वा­दि­त्य­त्रो­क्त­म­नूद्य साम्यमाह -
यत्तावदिति ।

‘असदिति चेत्’ इत्य­त्रो­क्त­स्यापि दोषस्य साधारण्यमाह -
अत एवेति ।
अतः­श­ब्द­स्यै­वा­र्थ­क­थनं प्रागु­त्प­त्ते­र्व­र्तितुं पारयति, प्रल­य­प्र­ति­ह­ति­प्र­स­ङ्गात् । तेन प्रागसदेव कार्यं भव­न्म­तेऽ­पी­त्यर्थः ।

अपी­ति­सू­त्रो­क्त­म­सा­म­ञ्जस्यं परमतेऽपि प्रसञ्जयति -
तथेति ।

यत्तु समस्तस्य विभा­ग­स्या­वि­भा­ग­प्राप्तेः पुनरुत्पत्तौ निया­म­का­भा­वा­द्भो­क्तृणां भोगस्य च विभा­गे­नो­त्प­त्तिर्न प्राप्नोतीति, अत्राह -
तथा मृदितेति ।
उपादानं सुखादिकारणं क्लेशकर्माशयादि ।

यत्तु भोक्तॄणां परेणाविभागं गतानामित्यादि, तत्राह -
विनैवेति ।

प्रतिपुरुषं प्रति­नि­य­ता­न्भे­दा­न्वि­हाय साधारणानामेव भेदानां प्रल­या­भ्यु­प­ग­मा­न्ना­ति­प्र­स­क्ति­रिति चोदयति -
अथेति ।

ये प्रतिपुरुषं प्रतिनियता भेदास्ते नित्याः स्युरनित्या वा । नित्यत्वे पुरुषेषु गुणेषु वान्तर्भावान्न प्रतिपुरुषं प्रति­नि­य­म­स्त­दा­त्म­त्वा­त्त­त्सा­धा­र­ण्याच्च । अनित्यत्वे प्रधा­न­का­र्य­त्व­स्या­व­श्य­क­त्वा­त्ते­षा­म­पी­ता­व­वि­भा­गा­ना­प­त्ति­र­यु­क्तेति परिहरति -
ये नापद्यन्त इति ।

विल­क्ष­ण­त्वा­दीनां साधारणत्वे फलितमाह -
इत्येवमिति ।

तर्हि दोष­सा­म्या­न्ना­न्य­त­र­प­क्ष­स्या­दे­य­ते­त्या­श­ङ्क्या­स्म­त्पक्षे परि­हा­र­स्यो­क्त­त्वा­न्मै­व­मि­त्याह -
इत्यदोषतामिति ॥ १० ॥

विल­क्ष­ण­त्वा­दि­त­र्का­च­ष्ट­म्भेन ब्रह्म­का­र­ण­वा­द­प्र­ति­क्षे­पा­स­म्भवे हेत्वन्तरमाह -
तर्का­प्र­ति­ष्ठा­ना­दिति ।

सौत्रमपिपदं व्याकरोति -
इतश्चेति ।
तर्कस्य कैव­ल्य­म­नु­ग्रा­ह्या­ग­म­रा­हि­त्यम् ।

इतःशब्दार्थमेव स्फुटयति -
यस्मादिति ।

आगममूलविकलानां कुतस्तर्काणां प्रादुर्भावः, तत्राह -
पुरुषेति ।

औत्प्रे­क्षि­क­त­र्का­णा­म­प्र­ति­ष्ठि­तत्वे हेतुमाह -
उत्प्रेक्षाया इति ।

तर्का­णा­म­प्र­ति­ष्ठि­तत्वं विवृणोति -
तथाहीति ।

पुरु­ष­म­ती­ना­म­ने­क­रू­प­त्वेऽपि कपिलादौ पुरुषविशेषे माहात्म्यस्य प्रसि­द्ध­त्वा­त्त­दी­य­स्त­र्कोऽ­प्र­ति­ष्ठितो न भवतीति शङ्कते -
अथेति ।

कपि­ला­दे­र्मा­हा­त्म्य­प्र­सि­द्धि­म­भ्यु­पेत्यु परिहरति -
एवमपीति ।

अन्य­थे­त्या­दि­सू­त्रा­व­य­वेन चोदयति -
अथोच्येतेति ।
यथा तर्कस्य नाप्र­ति­ष्ठि­त­त्व­दो­ष­स्तथा व्याप्ति­म­नु­स­न्धा­या­सा­वु­त्प्र­क्ष्यते । तथा च विल­क्ष­ण­त्वा­दीनां व्यभि­चा­रि­णा­म­सा­ध­क­त्वेऽपि व्याप्ति­म­त­स्त­र्कस्य साध­क­त्व­सि­द्धि­रि­त्यर्थः ।

सोऽपि तर्क­स्त­र्क­त्वा­द­प्र­ति­ष्ठितः स्यादि­त्या­शङ्क्य सर्वस्य वा तर्क­स्या­प्र­ति­ष्ठि­तत्वं कस्यचिदेवेति विकल्प्याद्यं दूषयति -
नहीति ।

तत्र हेतुमाह -
एतदपीति ।

तदेव स्पष्टयति -
केषाञ्चिदिति ।
यस्त­र्का­णा­म­प्र­ति­ष्ठि­त­त्व­सा­धकः स प्रतिष्ठितो न वा । प्रथमे कुतः सर्व­त­र्का­प्र­ति­ष्ठि­तत्वं, तदुपपादके तर्के तदभावात् । द्वितीयेऽपि कुतः सर्व­त­र्का­प्र­ति­ष्ठि­तत्वं, तत्प्र­सा­ध­क­त­र्क­स्यै­वा­प्र­ति­ष्ठि­त­त्वा­दि­त्यर्थः ।

लोक­व्य­व­हा­र­हे­तु­त्वा­दपि प्रतिष्ठितत्वं तर्क­स्या­स्थे­य­मि­त्याह -
सर्वेति ।

तदेवोपपादयति -
अतीतेति ।
अध्वा प्रवृ­त्ति­नि­वृ­त्ति­व्य­व­हा­र­वि­ष­य­स्त­त्सा­मान्यं तत्सजातीयत्वम् । अनागतेऽध्वनि । अननुभूते व्यवहारविषय इति यावत् । अनु­भू­ते­ष्टा­नि­ष्ट­सा­ध­न­जा­ती­य­स­न्द­र्श­ना­त्त­स्यापि समी­हि­त­सा­ध­न­त्व­म­स­मी­हि­त­सा­ध­नत्वं वानुमाय लोकस्तत्र प्रवर्तते ततो वा निवर्तते । तदेवं लोक­या­त्रा­मु­द्व­ह­न्न­नु­मा­ना­ख्य­स्तर्को नाप्रतिष्ठितो भवि­तु­म­र्ह­ती­त्यर्थः ।

ननु लोकयात्रा यथा­क­थ­ञ्चि­त्प्र­ति­ष्ठि­ते­ना­प्र­ति­ष्ठि­तेन वा तर्केण निर्वहति, तस्या­दृ­ष्ट­त्वा­देव दुर्निवारत्वात् । वेदा­र्थ­नि­र्ण­या­नु­प­यो­गि­त्वात्तु तर्क­स्या­प्र­ति­ष्ठि­तत्वं वैदिकैरुच्यते, तत्राह -
श्रुत्यर्थेति ।

पूर्वो­त्त­र­त­न्त्र­प्र­ण­य­ना­नु­प­पत्त्या तर्क­स्य­प्र­ति­ष्ठि­त­त्व­मे­ष्ट­व्यम् । न हि प्रति­ष्ठि­त­त­र्का­व­ष्ट­म्भ­म­न्त­रेण तन्त्राभ्यां वाक्या­र्थ­नि­र्धा­र­ण­सि­द्धि­रिति भावः । न केवलं लौकि­क­वै­दि­क­व्य­व­हा­रा­नु­प­प­त्ति­रेव तर्कस्य प्रतिष्ठितत्वे मानं किन्तु मनुवचनमपीत्यह -
मनुरपीति ।
शास्त्रस्य नाना­चा­र्य­मु­ख­प्रा­प्त­स­म्प्र­दा­य­सा­हित्यं विविधागमत्वम् । धर्मस्य शुद्धि­र­ध­र्मा­न्नि­ष्कृष्य निर्धारणम् । तत्र शास्त्रं निर्धा­रि­त­श­क्ति­ता­त्प­र्य­व­द­व्य­व­धा­ने­नो­प­युक्तं, प्रत्य­क्षा­नु­माने तद्व्यवधानेनेति विभागः । अत्रानुमानं चेत्ये­त­दु­प­जी­व्यम् । आर्षो धर्मोपदेशो मन्व­त्रि­वि­ष्णु­हा­री­त­या­ज्ञ­व­ल्क्या­दि­प्र­णीतं धर्मशास्त्रम् । वेद­शा­स्त्रा­वि­रो­धि­नेति विशे­ष­णा­ध­र्म­नि­र्णये शुष्क­त­र्का­नु­प्र­वेशो नेति सूचितम् । धर्म­श­ब्दा­च्चात्र साधा­र­णा­द्ब्र­ह्मापि गृहीतम् ।

सर्वस्य तर्क­स्या­प्र­ति­ष्ठि­त­त्व­प­क्ष­मेवं दूषयित्वा कस्य­चि­द­प्र­ति­ष्ठि­त­त्व­म­ङ्गी­क­रोति -
अयमेवेति ।

तदेवोपपादयति -
एवं हीति ।
तर्को हि विचा­रा­त्म­क­स्त­र्कि­त­पू­र्व­प­क्ष­प्र­ति­क्षे­प­मु­खेन तर्कि­त­सि­द्धा­न्ता­भ्यु­प­ग­म­मू­लम् । स च पूर्वपक्षविषये तर्के प्रतिष्ठारहिते सति प्रवर्तते, तद­प्र­ति­ष्ठि­त­त्वा­भावे विफलतया विचा­रा­प्र­वृ­त्ते­रि­त्यर्थः ।

पूर्व­त­र्क­व­दु­त्त­र­त­र्क­स्यापि तर्क­त्वा­द­प्र­ति­ष्ठि­त­त्व­म­नु­मे­य­मि­त्या­श­ङ्क्या­प्र­ति­ष्ठि­तत्वे तर्कस्य मूलशैथिल्यादि प्रयोजकं न तर्कत्वमिति मत्वाह -
नहीति ।

अन्य­थे­त्या­दि­चो­द्य­वि­भ­ज­न­मु­प­सं­ह­रति -
तस्मादिति ।
सर्व­त­र्का­प्र­ति­ष्ठाया दुरु­प­पा­द­न­त्वा­त्कि­ञ्चि­त्त­र्का­प्र­ति­ष्ठाया गुण­त्वा­दि­त्यर्थः ।

परिहारमवतारयति -
एवमपीति ।

प्रतिष्ठितोऽपि कश्चि­त्त­र्कोऽ­स्तीति वा जग­त्का­र­ण­वि­ष­य­स्त­र्क­स्त­थेति वा साध्यते । तत्रा­द्य­म­ङ्गी­क­रोति -
यद्यपीति ।

द्वितीयं दूषयति -
तथापीति ।

जगत्कारणमपि कार्य­लि­ङ्ग­का­नु­मा­न­गो­च­र­तया तर्क­ग­म्य­मि­त्या­शङ्क्य कारणमात्रस्य तद्गम्यत्वेऽपि तद्ग­तै­क­त्वा­दि­वि­शे­षस्य नास्ति­त­द्ग­म्य­ते­त्याह -
नहीति ।

अति­ग­म्भी­र­त्व­मा­ग­मा­ति­रे­कि­मा­ना­यो­ग्य­त्वम् । भावयाथात्म्यं कार­ण­ग­त­म­द्वि­ती­य­त्वम् । मुक्तिनिबन्धनं पर­मा­न­न्द­स­च्चि­दे­क­ता­न­त्वम् । यदु­क्त­म­ति­ग­म्भी­रत्वं तदेव प्रागुक्तं स्मार­य­न्नु­प­पा­द­यति -
रूपादीति ।

एवमपीत्यादिभागं विधान्तरेण व्याकर्तुमारभते -
अपिचेति ।

तर्क­प्र­ति­ष्ठि­त­त्व­वा­दि­नापि तार्किकं वा वैदिकं वा ज्ञानं मोक्षसाधनं विवक्षितमिति विकल्प्याद्यं दूषयितुं सम्प्र­ति­प­न्न­म­र्थ­माह -
सम्यगिति ।

तस्य तर्क­स­मु­त्थ­त्वा­स­म्भवं वक्तु­मे­क­रू­प­त्व­माह -
तच्चेति ।

वस्तु­त­न्त्र­त्वेऽपि स्थाणु­पु­रु­ष­वि­ष­य­ज्ञा­न­व­द­ने­क­रू­प­त्व­मा­श­ङ्क्याह -
एकरूपेणेति ।
नहि स्थाणुर्वा पुरुषो वेति ज्ञानं वस्तुतन्त्रं किन्तु पुरुषतन्त्रमिति भावः ।

ऐकरूप्येऽपि वस्तुतस्तस्य भ्रान्ति­वि­क­ल्पि­तानि सन्त्ये­वा­ने­क­रू­पा­णी­त्या­श­ङ्क्या­ग्न्यौ­ष्ण्य­ज्ञा­न­वे­द­क­रू­प­व­स्तु­वि­ष­य­मेव सम्य­ग्ज्ञा­न­मि­त्याह -
तद्विषयमिति ।

मोक्ष­सा­ध­न­स­म्य­ग्ज्ञा­न­स्यो­क्त­प्र­का­रे­णै­क­रू­प्येऽपि किमायातमिति, तत्राह -
तत्रेति ।

अविप्रतिपन्नमपि सम्यग्ज्ञानं तर्कसमुत्थं भवि­ष्य­ती­त्या­श­ङ्क्याह -
तर्केति ।

विप्रतिपत्तिमेव तार्किके ज्ञाने प्रकटयति -
यद्धीति ।
व्युत्थापनं बाधनम् ।

सत्यां विप्रतिपत्तौ फलितमाह -
कथमिति ।
एक­रू­पे­णा­न­व­स्थि­तोऽर्थो विषयो यस्य ज्ञानस्य तत्तथा ।

प्रधा­न­ब्र­ह्म­वा­दिनः सर्वोत्कृष्टतया सर्वै­रि­ष्ट­त्वा­त्त­दु­त्प्रे­क्षि­त­त­र्क­प्र­सूतं ज्ञानं सम्यग्ज्ञानं भवि­ष्य­ती­त्या­श­ङ्क्याह -
नचेति ।

तैर­प­रि­गृ­ही­त­त्वेऽपि तन्मतनिरासेन प्रधानवादिना स्वमतस्य स्थापि­त­त्वा­त्त­स्यै­वा­दे­यत्वं सर्व­ता­र्कि­क­सं­म­त­मि­त्य­श­ङ्क्याह -
न च शक्यन्त इति ।
एकरूपो योऽसावेकार्थः साङ्ख्यै­रु­क्त­स्त­द्वि­ष­येति यावत् ।

तर्कोत्थज्ञानं मोक्षहेतुरिति पक्षं प्रतिक्षिप्य वैदिकज्ञानं तथे­त्य­ङ्गी­कर्तुं वेदार्थेऽपि वेदविदां विवा­दा­त्त­ज्ज­न्य­मपि ज्ञानमेकरूपं न भवतीत्यशङ्क्याह -
वेदस्येति ।
स हि स्वसा­म­र्थ्या­दे­क­रू­पा­र्थ­धी­प्र­स­व­हेतुः पुरु­ष­म­ति­दो­षा­त्त्व­न्यथा प्रतिभासत इत्यर्थः ।

वैदिकस्य ज्ञान­स्या­स­म्य­ग्ज्ञा­न­त्वा­पा­द­क­त्वा­भावे फलितमाह -
अत इति ।

वैदिकादेव सम्य­ग्ज्ञा­ना­न्मो­क्ष­स­म्भ­वा­त्प­क्षा­न्त­रेषु मोक्ष­हे­तु­स­म्य­ग्ज्ञा­ना­भा­वा­न्मो­क्षा­सि­द्धि­रिति सूत्रा­व­य­वा­र्थ­मु­प­सं­ह­रति -
अतोऽन्यत्रेति ।

तर्कावष्टम्भेन ब्रह्मणि प्रत्य­व­स्था­ना­स­म्भवं प्रसाध्य प्रकृ­त­म­धि­क­र­णा­र्थ­मु­प­सं­ह­रति -
अत आगमवशेनेति ॥ ११ ॥

समन्वयस्व साङ्ख्य­न्या­या­वि­रो­धेऽपि पर­मा­ण्वा­दि­वा­दि­भि­रु­द्भा­वि­त­न्या­य­वि­रो­धा­न्नासौ सिध्यति तेषां तार्किकत्वेन प्रसि­द्ध­त्वा­त्त­दी­य­न्या­या­ना­म­बा­ध्य­त्वा­दि­त्या­शङ्क्य तन्नि­रा­सा­यो­क्त­न्या­य­म­ति­दि­शति -
एतेनेति ।

अति­दे­श­त्वा­दु­प­दे­श­व­त्पा­दा­दि­स­ङ्ग­ति­च­तु­ष्टयं फलभेदश्च । चेतनाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किमीश्वरो न द्रव्योपादानं, व्यापित्वात् , दिगा­दि­व­दि­त्या­दिना तार्किकन्यायेन तद­ना­भा­स­त्वा­भा­स­त्वाभ्यां विरुध्यते न वेति सन्देहे पूर्वो­त्त­रा­धि­क­र­ण­यो­रु­प­दे­शा­ति­दे­श­भा­वेन सम्बन्धे कारणमाह -
वैदिकस्येति ।
कार्य­का­र­ण­यो­र­भे­द­स्या­त्मनः स्वप्र­का­श­त्वा­स­ङ्ग­त्वयोः सम्य­ग्द­र्श­न­स्या­स­हा­यस्य मुक्ति­हे­तु­ते­त्ये­व­मा­दी­ना­म­भ्यु­प­ग­मा­त्प्र­त्या­स­न्न­त्वम् । परि­मा­ण­स­म­न्व­या­दि­र्गु­रु­त­र­स्तर्कः । देवलप्रभृतयः शिष्टाः ।

केनचिदंशेन ।
कार्य­का­र­ण­यो­र­न­न्य­त्वा­दि­नेति यावत् ।

अण्वादीति ।
आदिपदेन स्वभावाभाववादौ गृहीतौ ।

तर्कनिमित्त आक्षेप इति ।
अयमर्थः - विमतं कार्यद्रव्यं नेश्वरोपादानकं, गुण­त्वा­न­धि­क­र­ण­त्वात् ईश्वरवत् । ईश्वरो न कार्य­द्र­व्यो­पा­दानं, कार्यद्रव्ये समा­न­जा­ती­य­वि­शे­ष­गु­णा­र­म्भ­क­वि­शे­ष­गु­णा­न­धि­क­र­ण­त्वा­द्व्या­पि­त्वाद्वा, दिगादिवत् ।

ब्रह्मचैतन्यं जग­त्स­म­वा­यि­का­र­ण­वि­शे­ष­गुणो न भवति, कार्ये समा­न­जा­ती­य­वि­शे­ष­गु­णा­ना­र­म्भ­क­त्वात् , यथा तन्तुगतं शौक्ल्यं न घट­स­म­वा­यि­का­र­ण­वि­शे­ष­गुण इत्ये­वं­वि­धा­नु­मा­न­वि­रोधं समन्वयस्य कश्चि­च्चो­द­ये­दिति तामेतामाशङ्कां निराकर्तुमिदं सूत्रमित्याह -
इत्यत इति ।

सूत्राक्षराणि व्याचष्टे -
परिगृह्यन्त इति ।

शिष्टा­प­रि­ग्र­ह­श­ब्दस्य समासमुक्त्वा वाक्यार्थमाह -
शिष्टैरिति ।

अतिदेशेन निराकरणे हेतुमाह -
तुल्यत्वादिति ।

पूर्वो­क्ता­नु­मा­ने­ष्व­दू­षि­तेषु कथ­मि­ष्ट­सि­द्धि­रि­त्या­श­ङ्क्याह -
नात्रेति ।
समन्वयः सप्तम्यर्थः । गुण­त्वा­न­धि­क­र­ण­त्वा­दि­त्य­त्रा­नु­पा­दा­न­त्व­स्यै­वो­पा­धि­त्वा­दी­श्वरो द्रव्यो­पा­दा­न­वृ­त्ति­द्र­व्य­त्वा­वा­न्त­र­जा­ति­मा­न­श्रा­व­ण­वि­शे­ष­गु­ण­व­त्त्वा­त्पृ­थि­वी­व­दिति परमतेन व्यापित्वादेः सत्प्र­ति­प­क्ष­त्वा­त्कार्ये समा­न­जा­ती­य­गु­णा­न्त­रा­ना­र­म्भ­क­त्व­स्या­ति­लो­हि­त­वृ­श्चि­क­स­म­वा­यि­का­र­ण­गो­म­य­वि­शे­ष­गु­ण­श्या­मत्वे व्यभिचारत् । विम­त­मी­श्व­रो­पा­दा­नकं, उपादानवत्त्वात् , ईश्व­र­नि­ष्ठ­सं­यो­ग­व­दि­त्य­नु­मा­नान्न प्रकृते समन्वये किञ्चि­दा­श­ङ्कि­त­व्य­मिति भावः ।

यदुक्तं तुल्य­त्वा­न्नि­रा­क­र­ण­का­र­ण­स्येति तदेव व्यनक्ति -
तुल्यमिति ।
वैशे­षि­का­दि­प­क्षा­नु­सारि चोद्यं सप्तम्यर्थः । तुल्यमत्रापि निराकरणकारणमिति सम्बन्धः ।

तदेवं प्रागुक्तं सङ्क्षिपति -
पर­म­ग­म्भी­र­स्ये­त्या­दिना ॥ १२ ॥

वैशे­षि­का­दि­त­र्क­वि­रोधं समन्वयस्य परि­हृ­त्या­ध्य­क्षा­दि­वि­रो­ध­मा­शङ्क्य परिहरति -
भोक्त्रा­प­त्ते­रिति ।

अद्वि­ती­या­द्ब्र­ह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः स किं द्वैत­ग्रा­हि­प्र­त्य­क्षा­दिना विरुध्यते न वेति तस्य तत्त्वा­वे­द­क­त्वा­ना­वे­द­क­त्वाभ्यां सन्देहे जगत्कारणे तर्क­स्या­प्र­ति­ष्ठि­त­त्वेऽपि जगद्भेदे तस्य प्रति­ष्ठि­त­त्व­स­म्भ­वा­द­द्वै­ता­सि­द्धि­रि­त्य­भि­स­न्धाय पूर्वपक्षयति -
अन्यथेति ।
सम­न्व­य­स्या­ध्य­क्षा­दि­वि­रो­ध­स­मा­ना­त्पा­दा­दि­स­ङ्ग­ति­सौ­ल­भ्यम् । फलं तु पूर्व­व­त्त­र्क­श­ब्दोऽ­मा­न­वि­ष­योऽ­व­धा­र­ण­म­यो­ग­व्या­वृ­त्त्य­र्थम् ।

आम्नायैकगम्ये माना­न्त­र­नि­मि­त्ता­क्षे­प­स्या­न­व­का­श­त्व­मा­श­ङ्क्याह -
यद्यपीति ।
निर्णी­ता­र्थ­श्रु­ति­वि­रोधे माना­न्त­र­स्यै­वा­प्रा­मा­ण्य­म­नि­र्णी­तार्था तु श्रुति­र्मा­ना­न्त­र­वि­रोधे सत्युपचरितार्था स्यादित्यर्थः ।

मानान्तरेण श्रुते­र्वि­ष­या­प­हारे सत्य­न्य­प­र­ते­त्य­त्रो­दा­ह­र­ण­माह -
यथेति ।

यत्तु तर्क­स्या­प्र­ति­ष्ठि­त­त्वान्न श्रुत्यर्थे तन्नि­मि­त्त­स्या­क्षे­पस्य सावकाशत्वमिति, तत्राह -
तर्कोऽपीति ।
श्रुति­व­दि­त्य­पे­रर्थः ।

तर्कस्य स्वविषये प्रति­ष्ठि­त­त्वेऽपि श्रुत्या तुल्य­वि­ष­य­त्वा­भा­वान्न तयो­र्वि­रो­ध­श­ङ्केति शङ्कते -
किमत इति ।

श्रुत्या सहै­क­वि­ष­य­त्वा­भा­वेऽपि स्ववि­ष­य­स्था­प­ने­ना­र्था­त्त­र्कस्य तद्विरोधे श्रुतिरमानं तदु­त्त­र­का­ल­त्वा­त्त­त्प्र­वृ­त्ते­रिति मत्वाह -
अत इति ।

श्रुतेः स्वार्थ­बो­ध­नो­प­क्ष­या­द­न्य­बा­ध­स्या­न­व­का­श­त्वान्न विरोध शङ्केति पुनः सिद्धान्ती शङ्कतेे -
कथमिति ।

अद्वैतं स्वार्थं बोधयन्त्येव श्रुति­र­र्था­द्द्वै­त­म­प­बा­ध­माना तद्वि­ष­या­ध्य­क्षा­दि­भि­र्वि­रु­ध्ये­तेति पूर्ववाद्याह -
उच्यत इति ।

तत्रा­दा­व­ध्य­क्ष­वि­रोधं श्रुतेरादर्शयति -
प्रसिद्धो हीति ।

लौकिकीं प्रसिद्धिमेव दृष्टा­न्त­द्वा­रे­णा­भि­न­यति -
भोक्तेति ।

प्रसिद्धो विभा­ग­स्त­थै­वास्तां, श्रुतिश्च स्वार्थं बोधयिष्यति, का हानि­रि­त्या­श­ङ्क्याह -
तस्य चेति ।

भोक्तृ­भो­ग्य­यो­रे­कता नास्मा­भि­रु­क्ते­त्या­श­ङ्क्याह -
तयोश्चेति ।

अस्तु तर्हि श्रुत्याद्वैतं बोधयन्त्या बाधोऽस्येति, नेत्याह -
न चेति ।
श्रुते­रु­प­च­रि­ता­र्थ­त्वेन साव­का­श­त्वा­न्नि­र­व­काशं प्रत्यक्षं बलवदिति भावः ।

अनु­मा­न­वि­रो­ध­म­धुना श्रुते­रु­प­न्य­स्यति -
यथेति ।
विमतौ भोक्तृ­भो­ग्य­वि­भा­ग­व्य­व­हा­र­वन्तौ, कालत्वात् , वर्तमानकालवत् । यद्वा विमतो विभागोऽबाधितः, विभागत्वात् , इदा­नी­न्त­न­वि­भा­ग­व­दि­त्यर्थः ।

उक्ता­ध्य­क्षा­नु­मा­न­वि­रो­धा­द­सिद्धिः सम­न्व­य­स्ये­त्यु­प­सं­ह­रति -
तस्मादिति ।

तामि­मा­मा­श­ङ्का­मा­पा­ततो लोक­सि­द्ध­दृ­ष्टा­न्ता­व­ष्ट­म्मेन प्रत्याचष्टे -
तंं प्रतीति ।

सूत्रावयवं व्याकरोति -
उपपद्यत इति ।

लोके दृष्टत्वमेव स्फुटयति -
तथाहीति ।
इत­रे­त­र­सं­श्ले­षा­दी­त्या­दि­श­ब्देन विश्ले­ष­प­रि­मा­ण­वि­शे­षादि गृह्यते ।

ननु फेनादीनां समुद्रादभेदे पर­स्प­र­भा­वा­प­त्ते­र्ने­त­रे­त­र­वि­भा­गादि सम्भवति । न खल्वे­क­स्मा­द­भि­न्नानां मिथो भिन्न­त्व­मे­क­स्यै­वो­प­प­द्यते, तत्राह -
नचेति ।

फेनादीनां मिथो भिन्न­त्वे­नै­क­स्मा­द­भि­न्न­त्व­म­न्यथा समुद्रस्यापि तदभेदेन भेद­प्र­स­ङ्गा­दि­त्या­श­ङ्क्याह -
नच तेषामिति ।

दृष्टा­न्त­मुक्त्वा दार्ष्टा­न्ति­क­माह -
एवमिति ।
इहेति । ब्रह्मवादोक्तिः ।

फेनादीनां समु­द्र­का­र्य­त्वा­त्त­द­भे­देऽपि जीवानां ब्रह्मकार्यतया तदभेदायोगादस्ति वैल­क्ष­ण्य­मि­त्या­श­ङ्क्याह -
यद्यपीति ।

तर्हि जीव­ब्र­ह्म­णो­र­त्य­न्ता­भे­दा­द्भो­क्तृ­वि­भा­गा­भा­वा­द्भो­ग्य­स्यापि प्रति­नि­य­मा­सि­द्धे­र्वि­भा­गा­व­गा­हि­प्र­मा­ण­वि­रो­ध­ता­द­व­स्थ्य­मि­त्य­श­ङ्क्याह -
तथापीति ।

दार्ष्टा­न्ति­क­मु­प­सं­ह­रति -
इत्यत इति ।
समु­द्र­त­र­ङ्गा­दि­न्या­येन समुद्रादभेदेऽपि फेनतरङ्गादीनां मिथो भेद­दृ­ष्टा­न्ते­ने­त्यर्थः ।

विभागोपपत्तौ तद्वि­ष­या­ध्य­क्षा­दे­र­वि­रु­द्ध­तेति युक्तमेव जगतो ब्रह्म­का­र­ण­त्व­मु­क्त­मि­त्य­धि­क­र­णार्थं निगमयति -
उक्तमिति ॥ १३ ॥

परि­णा­म­वा­द­म­व­ल­म्ब्या­पा­ततो विरोधं समाधाय विव­र्त­वा­द­मा­श्रित्य परमसमाधानमाह -
तदनन्यत्वमिति ।

अद्वि­ती­य­ब्र­ह्मणो जगत्सर्गवादिनः समन्वयस्य पूर्व­व­द्भे­द­ग्रा­हि­प्र­त्य­क्षा­दि­वि­रो­ध­स­न्देहे पूर्वाधिकरणेऽपि भेद­ग्रा­हि­मा­ना­वि­रो­धो­प­पा­द­ना­त्पु­न­रु­क्ति­मा­शङ्क्य सङ्गतिं वद­न्न­ग­ता­र्थ­त्व­माह -
अभ्युपगम्येति ।
अङ्गीकृत्य हि भेद­ग्रा­हि­प्र­मा­णस्य प्रामाण्यं भेदाभेदयो रूपभेदेन विरोधः समाहितः । सम्प्रति स्वीकृतं प्रामाण्यं तत्त्वा­वे­द­क­त्वा­त्प्र­च्याव्य व्यावहारिकत्वे व्यवस्थाप्यते । तथाच विष­य­भे­दा­द­पौ­न­रु­क्त्यम् । सङ्गतिफले तु पूर्ववदिति भावः ।

यथोक्तविभागस्य वस्तुतोऽसत्त्वे हेतुत्वेन तदनन्यत्वमिति सूत्रावयवं विभजते -
यस्मादिति ।

कार्ये विप्र­ति­प­त्ति­नि­रा­सार्थं विशिनष्टि -
कार्यमिति ।

कारणेऽपि विप्रतिपत्तिं निराकर्तुं विशेषमादत्ते -
कारणमिति ।

कार्य­का­र­ण­यो­र­न­न्य­त्व­मि­त्युक्ते मिथोऽनन्यत्वं शङ्कितं व्यावर्तयति -
तस्मादिति ।

ननु कार्यप्रपञ्चस्य भेदा­भे­दा­भ्या­म­नि­र्वा­च्य­ता­मि­च्छ­न्का­र­णा­त्प­र­मा­र्थ­तोऽ­न­न्यत्वं व्याचक्षाणः स्वोक्तिविरोधं कथं नाधिगच्छति, तत्राह -
व्यतिरेकेणेति ।
यस्मा­दे­व­म­व­ग­म्यते तस्मा­त्प­र­मा­र्थतो विभागो नास्तीति तद्ग्राहि मानं व्याव­हा­रि­क­मा­न­त्वा­त्ता­त्त्वि­क­मा­नस्य सम­न्व­य­स्या­वि­रो­धी­त्यर्थः ।

कार्यस्य कार­णा­ति­रे­के­णा­भावे हेतुं पृच्छति -
कुत इति ।

बुभु­त्सि­त­हे­तु­वि­षयं सूत्र­भा­ग­म­व­ता­र­यति -
आरम्भणेति ।

तत्र भेद­नि­षे­ध­हे­तु­मा­र­म्भ­ण­शब्दं व्याकरोति -
आर­म्भ­ण­श­ब्द­स्ता­व­दिति ।

घटा­दि­वि­ष­य­त्वा­दे­ष­शब्दो जगद्विषयो न भवति, तत्कथं मिथ्यात्वं तेन सिध्य­ती­त्या­शङ्क्य जगतो मिथ्या­त्व­सा­ध­ना­र्थ­मा­दि­ष्ट­दृ­ष्टा­न्त­नि­विष्टं वाचारम्भणत्वं दार्ष्टा­न्ति­केऽपि साम्या­र्थ­मा­स्थे­य­मि­त्य­भि­प्रे­त्याह -
एतदुक्तमिति ।
परमार्थतो विज्ञातमिति सम्बन्धः ।

कथ­म­न्य­स्मि­न्वि­दि­तेऽ­न्य­द्वि­ज्ञातं स्यादि­त्या­श­ङ्क्याह -
यत इति ।

कारणमपि विकारवदनृतमेव शब्द­मा­त्र­त्वा­वि­शे­षा­दि­त्या­श­ङ्क्याह -
मृत्तिकेति ।
एव­श­ब्दे­ने­ति­शब्दः सम्बध्यते ।

तथापि ब्रह्मणि किमायातं, तत्राह -
एष इति ।

दृष्टान्तस्य कार­णा­ति­रि­क्त­का­र्या­भा­व­वि­ष­य­त्वेऽपि दार्ष्टा­न्ति­कस्य नैवमित्याशङ्क्य फलितमाह -
तत्रेति ।
संनिहितो दृष्टान्तः सप्तम्यर्थः ।

प्रका­रा­न्त­रे­णा­र­म्भ­ण­शब्दं व्याचष्टे -
पुनश्चेति ।
दृष्टा­न्त­व­शा­द्दा­र्ष्टा­न्तिके ब्रह्मा­ति­रे­कि­का­र्या­भा­व­प्र­ति­प­त्त्य­न­न्तरं चेत्यर्थः । ब्रह्मकार्याणां मिथ्यात्वं तत्कार्याणां मिथ्या­त्वो­क्त्यापि दर्शितमिति भावः ।

आदिशब्दं व्याख्याति -
आरम्भणेति ।

एव­मा­दी­त्या­दि­श­ब्दात् ‘तदात्मनं स्वयमकुरुत’ इत्यादि गृहीतम् । एकविज्ञानेन सर्व­वि­ज्ञा­न­प्रि­ज्ञा­नु­प­प­त्ति­रपि भेदाभावे मानतया सौत्रे­णा­दि­श­ब्देन गृहीतेत्याह -
न चेति ।
यदि जगतो ब्रह्मैव तत्त्वं तदा तज्ज्ञानेन तत्त्वतो ज्ञायेत, यथा रज्जु­त­त्त्व­ज्ञा­नेन भुज­ङ्गा­दि­त­त्त्वम् । तत्त्वज्ञानमेव च ज्ञानं ततोऽन्यस्य मिथ्या­ज्ञा­न­त्वे­ना­ज्ञा­न­त्वा­दिति भावः ।

सिद्धा­न्त­मु­प­सं­ह­रति -
तस्मादिति ।

जीव­प्र­प­ञ्च­यो­र्ब्र­ह्म­णोऽ­न­न्यत्वे क्रमेण दृष्टान्तद्वयम् । तेषा­मू­ष­रा­दि­भ्योऽ­न­न्यत्वे हेतुमाह -
दृष्टेति ।
कदाचिद्दृष्टं पुनर्नष्टम् । अनित्यमिति यावत् । तत्स्व­भा­व­त्वा­न्मृ­ग­तृ­ष्णि­को­द­का­दी­ना­मू­ष­रा­दिभ्यो भेदेन नास्तित्वम् । विम­त­म­धि­ष्ठा­ना­ति­रि­क्त­स­त्ता­शून्यं, सावधित्वात् , चिदात्मवदिति व्यति­रे­का­नु­मा­ना­दि­त्यर्थः ।

दृष्ट­ग्र­ह­ण­सू­चितं प्रतीतिकालेऽपि सत्ताराहित्यं तत्रैव हेत्वन्तरमाह -
स्वरूपेणेति ।

एक­त्वै­का­न्ता­भ्यु­प­गमे द्वैत­ग्रा­हि­प्र­त्य­क्षा­दि­वि­रो­धा­न्ना­द्वि­तीये ब्रह्मणि सम­न्व­य­सि­द्धि­रिति पूर्व­प­क्ष­य­न्न­ने­का­न्त­वा­द­मु­त्था­प­यति -
नन्विति ।

एक­स्या­ने­का­त्म­कत्वं विप्र­ति­षि­द्ध­मि­ति­त्या­श­ङ्क्याह -
यथेति ।
अनेकाभिः शक्ति­भि­श्चि­द्रू­पा­भि­स्त­द­धी­न­प्र­वृ­त्ति­भिश्च युक्तमिति यावत् ।

एक­स्या­ने­का­त्म­कत्वे सम्भाविते फलितमाह -
अत इति ।

उभयसत्यत्वमपि वृक्षदृष्टान्ते दृष्टमित्याह -
यथेति ।

प्रति­प­त्ति­दा­र्ढ्या­र्थ­मु­दा­ह­र­णा­न्त­र­माह -
यथा चेति ।

अंशांशिभावेन जीव­ब्र­ह्म­णो­र्भि­न्ना­भि­न्नत्वे दृष्टा­न्ता­वुक्त्वा कार्यकारणात्मना जग­द्ब्र­ह्म­णो­स्त­थात्वे दृष्टान्तमाह -
यथा चेति ।

दृष्टा­न्त­सा­म­र्थ्या­दु­क्ता­र्थ­स­म्भा­व­ना­या­मपि मानं विना निर्धा­र­णा­सि­द्धि­रि­त्या­शङ्क्य व्यव­स्था­नु­प­पत्तिं प्रमाणयति -
तत्रेति ।

विशि­ष्ट­दृ­ष्टा­न्त­प्र­द­र्श­ना­नु­प­प­त्ति­रपि प्रकृतेऽर्थे प्रमाणमित्याह -
एवं चेति ।

जीव­ज­ग­तो­र्ब्र­ह्मणो भिन्नाभिन्नत्वे प्रत्य­क्षा­द्य­वि­रो­धेऽपि, केवलाभेदे तद्विरोधः स्यादेवेति प्राप्त­भे­दा­भे­द­वादं दूषयति -
नैवमिति ।

यदुक्तमेकत्वं नानात्वं चोभयमपि सत्यमिति, तत्राह -
मृत्तिकेति ।

न केव­ल­मे­व­का­र­सा­म­र्थ्या­द्वि­का­रा­नृ­तत्वं किन्तु वाचा­र­म्भ­ण­श्रु­ते­श्चे­त्याह -
वाचारम्भणेति ।

तथापि कथ­मा­का­शा­दि­वि­का­र­वै­तथ्यं दार्ष्टन्तिके पूर्वो­क्ता­व­धा­र­णा­दे­र­भा­वा­दि­त्या­शङ्क्य तत्रापि दृष्टा­न्त­नि­वि­ष्टा­र्था­नु­ष­क्ते­र्मै­व­मि­त्याह -
दार्ष्ट­न्ति­केऽ­पीति ।

किञ्च कार्य­प्र­प­ञ्च­स्यापि ब्रह्म­व­त्स­त्यत्वे तद्वि­शि­ष्ट­जी­वस्य तद्भा­वो­प­दे­शा­सि­द्धि­रि­त्याह -
स आत्मेति ।

जीवस्य ब्रह्मैक्यं ध्याना­दि­सा­ध्य­म­भि­स­न्धा­यो­प­देशो भवि­ष्य­ती­त्य­श­ङ्क्याह -
स्वयमिति ।

जीवब्रह्मणोः संसा­रि­त्वा­सं­सा­रि­त्वेन विरु­द्ध­त्वा­दै­क्या­यो­गा­त्तत्त्वं भविष्यसीति वाक्यविपरिणामः स्यादि­त्या­श­ङ्क्याह -
अतश्चेति ।
उप­दे­श­व­शा­दि­त्ये­तत् । स्वाभा­वि­क­स्या­ना­द्य­वि­द्या­कृ­त­स्येति यावत् । विरुद्धत्वस्य काल्प­नि­क­त्वे­नो­प­पत्तौ वाक्यस्वारस्यं भङ्क्त्वा विपरिणामकल्पना न युक्तेति भावः ।

यदुक्तं नानात्वांशेन सर्व­व्य­व­हा­रो­प­प­त्ति­रिति, तत्र किमै­क्य­ज्ञा­नो­त्त­र­का­ली­न­व्य­व­हा­र­सि­द्धये भेदांशस्य सत्यत्वं कल्प्यते किं वा प्राक्त­न­व्य­व­हा­र­सि­द्ध्य­र्थ­मिति विकल्प्याद्यं दूषयति -
बाधिते चेति ।

प्रमा­तृ­त्वा­दि­बा­धा­त्त­दा­श्र­य­व्य­व­हारो नास्तीति व्यव­हा­रा­भा­वेऽ­र्था­प­त्ति­मुक्त्वा श्रुति­मु­प­न्य­स्यति -
दर्शयतीति ।

द्वितीये प्राक्त­न­व्य­व­हा­रस्य भ्रान्त­त्व­म­भ्रा­न्तत्वं वा । प्रथमे तथा­वि­ध­व्य­व­हा­रस्य काल्प­नि­क­भे­दे­नो­प­प­त्ति­रिति मत्वा चरमं निरस्यति -
न चेति ।

तत्र श्रुति­ता­त्प­र्य­वि­रोधं हेतुमाह -
तत्त्वमिति ।

‘पुरुषं सोम्योत हस्त­गृ­ही­त­मा­न­यन्ति’ इत्यादिना सत्या­नृ­ता­भि­स­न्ध­पु­रु­ष­नि­द­र्श­न­प्र­द­र्श­न­सा­म­र्थ्या­दपि सिद्धमैक्यस्यैव सत्यत्वमित्याह –
तस्करेति ।

कथमेतावता सत्यत्वमेकस्यैव नियम्यते, तत्राह -
उभयेति ।
विपरीतमपि किं न स्यादि­त्य­पे­रर्थः ।

इत­श्चै­क­त्व­मे­वैकं पारमार्थिकं न नानात्वमपीत्याह -
मृत्योरिति ।

एकत्वधियो मुक्ति­हे­तु­त्वो­क्ति­रपि भेदा­भे­द­वा­देऽ­नु­प­प­न्ने­त्याह -
न चेति ।

भेदां­श­धि­योऽ­भे­दां­श­धिया बाध्य­त्वा­द­प­नो­द­नी­या­भ­वा­सि­द्धि­रि­त्या­शङ्क्य वैपरीत्यस्यापि सम्भ­वा­न्मै­व­मि­त्याह -
उभयेति ।

इदानीं पूर्ववादी स्वाभिप्रायं प्रकटयति -
नन्विति ।
प्रत्य­क्षा­दे­रा­ग­मेन स्वसि­द्ध्य­र्थ­म­पे­क्ष्य­मा­ण­त्वा­द­दृ­ष्ट­व्य­भि­चा­र­त्वा­द­व्या­कु­ल­त्वा­द­न्य­त्रा­न­व­का­श­त्वा­त्पू­र्व­भा­वि­त्वेन प्रति­ष्ठि­त­त्वा­त्प­द­प­दा­र्थ­वि­भा­ग­व्य­व­हा­र­हे­तु­त्वाच्च प्राब­ल्या­त्त­द्वि­रोधे सत्याम्नायतो नात्य­न्ति­क­मै­क्य­मा­दे­य­मिति भावः ।

निरा­ल­म्ब­न­त्वे­ना­प्रा­माण्ये दृष्टान्तः -
स्थाण्वा­दि­ष्वि­वेति ।

न केव­ल­मे­क­त्वै­का­न्ता­भ्यु­प­गमे प्रत्य­क्षा­दि­वि­रोधः किन्तु कर्म­का­ण्ड­वि­रो­ध­श्चे­त्याह -
तथेति ।
भेदापेक्षत्वात् । भाव­ना­भा­व्य­क­र­णे­ति­क­र्त­व्य­ता­दि­सा­पे­क्ष­त्वा­दिति यावत् ।

ननु प्रत्यक्षादीनां कर्मकाण्डस्य चाप्रा­मा­ण्य­म­द्वै­त­वा­दिनां नानिष्टं, ते हि ज्ञान­का­ण्ड­मे­वैकं प्रमा­ण­मा­श्र­यन्ते, तत्राह -
मोक्ष­शा­स्त्र­स्येति ।

ननु मिथ्या­भू­त­शि­ष्या­दि­भे­द­प­रा­धी­नस्य मोक्षशास्त्रस्य मिथ्यात्वेऽपि तत्प्रमेयस्य प्रत्यगैक्यस्य सत्य­त्वा­द­स्म­त्प­क्ष­सि­द्धि­रिति, तत्राह -
कथं चेति ।

प्रत्यक्षादिना काण्डद्वयेन न विरोधान्न सम­न्व­या­धि­ग­म्य­मैक्यं सम्भावितमिति चोदिते परिहरति -
अत्रेति ।