न्यायनिर्णयव्याख्या
२ परिच्छेदः
अतिदेशाधिकरणे प्रधानवदशब्दत्वं परमाण्वादीनामपीत्युक्तम् । सम्प्रति प्रधानस्य वैदिकशब्दवत्त्वाभावेऽपि स्मृतिरूपशब्दवत्त्वमाशङ्क्य परिहरति -
स्मृतीति ।
पूर्वोत्तराध्याययोर्विषयविषयिभावसम्बन्धं वक्तुं पूर्वाध्यायार्थं सङ्क्षेपतोऽनुवदति -
प्रथम इति ।
जन्मादिसूत्रमारभ्योत्पत्त्यादिकारणं ब्रह्मेति तत्र तत्रोक्तं पूर्वाध्यायार्थमनुभाष्यात्मभेदवादिसाङ्ख्यस्मृतिविरोधोद्भावनानुकूलत्वेन ‘शास्त्रदृष्ट्या’ इत्यादिप्रदेशेषु दर्शितमद्वितीयत्वमनुवदति -
स एवेति ।
किम्प्रमाणकमेतदित्याशङ्क्योक्तम् -
एतदिति ।
चतुर्थपादार्थमुत्तरार्थमनुद्रवति
- प्रधानादीति ।
वृत्तमनुभाष्योत्तराध्यायार्थं पादशः सङ्गृह्णाति -
इदानीमिति ।
न्यायाभासोपबृंहितत्वं भ्रान्तिमूलत्वम् । तृतीयचतुर्थपादयोरर्थमाह -
प्रतिवेदान्तं चेति ।
सृष्ट्यादीत्यादिशब्दः सङ्ख्याक्रमसङ्ग्रहार्थः । तत्र तृतीये भूतभोक्तृविषयसृष्ट्यादिवाक्यानामविगानं, चतुर्थे प्राणादिविषयसृष्ट्यादिवाक्यानामिति विभागः । उक्तसमन्वयस्याध्यक्षादिविरोधे तन्निरसनमनेनेति विषयविषयित्वं सम्बन्धः । तत्र पूर्वस्य विषयत्वादस्य विषयित्वान्निर्विषयविचारायोगाद्विषयसिद्ध्युत्तरकालत्वात्तद्विषयविचारस्येति पूर्वोत्तरत्वमनयोरुचितमिति भावः ।
अध्यायमवतार्य तदवयवमाद्याधिकरणमवतारयति -
तत्रेति ।
समन्वये स्मृतिविरोधसमाधानार्थत्वादधिकरणस्य श्रुत्यादिसङ्गतयः । पूर्वपक्षे स्मृतिविरोधे समन्वयासिद्धिः सिद्धान्ते तदविरोधे तत्सिद्धिः ।
उक्तश्चेतने जगदुपादाने समन्वयो विषयः स किं साङ्ख्यस्मृत्या विरुध्यते न वेति तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह -
यदुक्तमिति ।
हेतुत्वेन सूत्रपदमवतारयितुं पृच्छति -
कुत इति ।
सूत्रपदं हेतुमादाय व्याचष्टे -
स्मृतीति ।
तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रम् , तन्त्रमित्याख्या यस्याः सा तथेति यावत् ।
आप्तप्रणीतत्वेन प्रामाण्यं तस्याः सूचयति -
परमर्षीति ।
बौद्धादिस्मृतिसाम्यव्यावृत्त्यर्थं विशिनष्टि -
शिष्टेति ।
अन्याश्चेति ।
आसुरिपञ्चशिखादिप्रणीताः ।
एवं सतीति ।
ब्रह्म सर्वज्ञत्वादिविशेषणं जगत्कारणमित्युपगमे सतीत्यर्थः ।
सति विरोधे निरवकाशत्वाशङ्का, विरोधस्तु कथमित्याशङ्क्याह -
तासु हीति ।
उक्तरूपाया मायाशक्तेर्जगत्कारणत्वेन सिद्धान्तेऽपि स्वीकृतत्वान्नास्ति विरोधाशङ्केत्याशङ्क्याह -
स्वतन्त्रमिति ।
साङ्ख्यस्मृतीनां सावकाशत्वाय प्रधानवादोपादाने मन्वादिस्मृतीनां निरवकाशतेत्याशङ्क्य तात्पर्यविषयस्यानुष्ठेयस्याबाधात्तस्मिन्विषये तासामस्ति सावकाशत्वमित्याह -
मन्वादीति ।
क्रत्वर्थसमर्पकत्वेन मन्वादिस्मृतीनां सावकाशत्वमभिनयति -
अस्येति ।
न केवलं क्रत्वर्थप्रतिपादकतया सावकाशत्वं किन्तु पुरुषार्थप्रतिपादकतयापीत्याह -
तथेति ।
नन्वनुष्ठेये विषये कपिलादिस्मृतयोऽपि सावकाशाः सत्यो ब्रह्मकारणवादेऽपि न निरवकाशा भविष्यन्ति, नेत्याह -
नैवमिति ।
तत्र हेतुमाह -
मोक्षेति ।
परिशेषायातं फलितमाह -
यदीति ।
सावकाशनिरवकाशयोर्निरवकाशं बलवदिति न्यायसिद्धमर्थं कथयति -
तस्मादिति ।
पूर्वपक्षमाक्षिपति -
कथमिति ।
मानान्तरनिरपेक्षया श्रुत्या ब्रह्मणि जगत्कारणेऽवधारिते तदपेक्षस्मृत्यवष्टम्भेन तदाक्षेपो न युक्तः । सापेक्षनिरपेक्षयोर्निरपेक्षस्य बलवत्त्वादित्यर्थः ।
स्वतन्त्रप्रज्ञानां परतन्त्रप्रज्ञानां वा यथोक्ताक्षेपानुपपत्तिरिति विकल्प्याद्यमङ्गीकरोति -
भवेदिति ।
स्मृत्यपेक्षामन्तरेण पौर्वापर्यालोचनया श्रुतिवशादेव तदर्थप्रतिपत्तिसामर्थ्यं स्वतन्त्रप्रज्ञत्वम् । नहि तान्प्रति स्मृत्यवष्टम्भेनाक्षेप्तुं युक्तम् , श्रुत्यैव तेषां तदर्थप्रतिपत्तेरुपपत्तेरित्यर्थः ।
द्वितीयं प्रत्याह -
परतन्त्रेति ।
अस्मदादीनां विना स्मृत्यपेक्षां स्वातन्त्र्येण वेदार्थनिर्णये सामर्थ्याभावात्तदर्थमवश्यम्भाविन्यपूर्वसिद्धस्मृत्यपेक्षायां सर्वज्ञकपिलादिप्रणीतस्मृतिविरोधेन श्रुत्यर्थनिश्चयायोगात्तदर्थस्योपचारितत्वोपपत्तौ स्मृत्यवष्टम्भेनाक्षेपः सम्भवतीत्यर्थः ।
स्मृत्यवष्टम्भमन्तरेणापि केषाञ्चिद्वेदार्थनिर्णयः सिध्यति । नहि स्मृतिकर्तारः स्मृत्यन्तरापेक्षया तदर्थं निर्धारयन्तीत्यभिप्रायेण प्रायेणेत्युक्तम् । बौद्धादिस्मृत्यवष्टम्भव्यासेधार्थं प्रख्यातपदम् । तदवलम्बनफलमाह -
तद्बलेनेति ।
श्रुत्यर्थं प्रतिपित्सेरन्निति । उपचरितं तदर्थं प्रतिपद्येरन्नित्यर्थः ।
श्रुतीनामुपचरितार्थप्रतिपित्सा न युक्ता, मुख्येऽर्थे तासां शक्तितात्पर्ययोर्व्याख्यातत्वादित्याशङ्क्याह -
अस्मत्कृते चेति ।
तत्राविश्वासे हेतुमाह -
बहुमानादिति ।
अस्मदादिष्विव तेष्वपि बहुमानानुपपत्तिमाशङ्क्याह -
कपिलेति ।
तेषामप्रतिहतज्ञानत्वप्रतिपादिका स्मृतिः साङ्ख्यस्मृतिवदनिर्णीतप्रामाण्येत्याशङ्क्याह -
श्रुतिश्चेति ।
यस्तावदग्रे सर्गादौ जायमानं कपिलनामानमृषिं स्थितिकाले च प्रसूतं भूतभविष्यद्वर्तमानार्थज्ञानैर्बिभर्ति पुष्णाति तमीश्वरं पश्येदिति योजना ।
योगिप्रत्यक्षमूलतया साङ्ख्यस्मृतीनां श्रुत्यनपेक्षत्वात्तद्विरोधेऽपि नाप्रामाण्यमिति फलितमाह -
तस्मादिति ।
तर्कमूलत्वाच्च कपिलादिस्मृतीनां प्राबल्यमित्याह -
तर्केति ।
‘प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्’ इत्यादिना ‘यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ इत्यन्तेन तर्कस्य निर्णायकत्वावगमात्तद्बलप्रवृत्तकपिलादिस्मृतीनां प्राबल्ये सिद्धे सिद्धमर्थमाह -
तस्मादिति ।
मूलद्वयसाहित्येन बलवत्त्वसम्भावनार्थोऽपिशब्दः ।
साङ्ख्यस्मृतिविरोधं समन्वयस्य पूर्वपक्षमुक्त्वा सिद्धान्तयति -
तस्येति ।
ब्रह्मकारणवादे साङ्ख्यस्मृतिविरोधवत्प्रधानकारणवादेऽपि स्मृत्यन्तरविरोधान्न ब्रह्मवादिनं प्रत्येतदुद्भावनमुचितमिति व्याचष्टे -
यदीति ।
श्रुत्यर्थे स्मृत्यबष्टम्भेनाक्षेपस्यावकाशो नास्तीत्यरुचिं सूचयति -
एवमपीति ।
यासां स्मृतीनां प्रधानवादे निरवकाशत्वं ता दर्शयति -
ता इति ।
‘तस्मादव्यक्तम्’ इत्यत्र तच्छब्देन चेतनमेव कारणं परामृष्टमित्युपदेष्टुं चेतनस्य प्रकृतित्वमाह -
यत्तदिति ।
सूक्ष्मत्वमतीन्द्रियत्वम् । अविज्ञेयत्वं प्रमाणान्तरावगाह्यत्वम् । तर्हि सर्वप्रमाणागोचरत्वान्नास्त्येव तदित्याशङ्क्य सर्वभूतानां सत्तास्फूर्तिप्रदत्वेन स्वतःसिद्धस्य दुरपह्नवत्वं मन्वानो ब्रूते -
स हीति ।
कार्यलिङ्गकमनुमानमपि तत्र सम्भावनाहेतुरित्याशयवानाह -
तस्मादिति ।
अव्यक्तशब्देनाव्याकृतकार्यं भूतसूक्ष्ममत्र विवक्षितम् , अव्याकृतस्यानादित्वेनोत्पत्त्यनभ्युपगमान्निमित्तकारणत्वमेवात्र चेतनस्योक्तमिति सेश्वरसाङ्ख्यमतम् ।
अनादिनोऽपि चाव्यक्तस्य सम्भवत्येवेश्वराधीनत्वमित्याशङ्क्याह -
तथान्यत्रेति ।
अत्र त्वव्यक्तमिति भूतसूक्ष्मलयाधिकरणमव्याकृतं गृहीतम् । इतिहाससमर्पितेऽर्थे पौराणिकीं संमतिमाह -
अतश्चेति ।
अन्तर्यामिव्यतिरिक्तवस्तुनो दुर्वचनत्वमतःशब्दार्थः ।
सर्वात्मत्वे कथमस्य नापक्षयः, सर्वत्रापक्षयोपलम्भादित्याशङ्क्याह -
पुराण इति ।
सर्वस्य तदन्तर्भावेऽपि तस्य सर्वस्मिन्ननन्तर्भावादिति हेतुमभिप्रेत्य सर्वात्मत्वं साधयति -
स सर्गेति ।
उक्तेऽर्थे भागवतीं स्मृतिं संवादयति -
भगवद्गीतास्विति ।
प्रभवत्यस्मादिति प्रभवो जन्महेतुः । प्रलीयतेऽस्मिन्निति प्रलयस्तद्धेतुः । तत्रैव कल्पसूत्रकारसंमतिमाह -
परमात्मानमिति ।
तस्मादित्यात्मलाभान्न परमित्यादौ प्रकृतं परमात्मानं परामृशति । सर्वे काया ब्रह्मादयः स्तम्बपर्यन्ता देहास्तस्मात्प्रभवन्तीति निमित्तत्वमुक्तम् । स मूलमित्युपादानत्वं विपरीतं वा । शश्वद्भवः शाश्वतिकोऽनादिः । स नित्यो नाशशून्य इत्यर्थः ।
उदाहृतस्मृतीनां तात्पर्यमाह -
एवमिति ।
तात्पर्यलिङ्गमभ्यासं दर्शयति -
अनेकश इति ।
ननु श्रुतिविरोधोपन्यासे सम्भाविते किमिति स्मृतिविरोधः सिद्धान्तिनोपन्यस्यते, तत्राह -
स्मृतीति ।
तर्हि स्मृतीनां परस्परविरोधे तत्त्वनिर्णयानुपपत्तिरित्याशङ्क्याह -
दर्शितं त्विति ।
ततश्च मन्वादिस्मृतीनां श्रुतिमूलत्वेन प्राबल्यात्तदनुसारेण तत्त्वनिर्णयसिद्धिरित्यर्थः ।
नन्वनुमितश्रुतिमूलतया कपिलादिस्मृतीनामपि मन्वादिस्मृतिभिः समानबलत्वादनिर्णयतादवस्थ्ये विकल्पः स्यादिति, नेत्याह -
विप्रतिपत्तौ चेति ।
क्रियायामिव वस्तुनि विकल्पायोगाद्विरुद्धस्मृत्युपलब्धावन्यतरत्यागेनान्यतरस्वीकारध्रौव्ये क्लृप्तश्रुतिमूलाः स्मृतयो मानत्वेनापेक्ष्यन्ते, कल्प्यश्रुतिमूलास्तु दुर्बलत्वादुपेक्ष्यन्ते, तथाच तत्त्वनिर्णयोपपत्तिरित्यर्थः ।
ननु यत्र स्मृत्योर्विरोधस्तत्र तन्मूलयोः श्रुत्योर्विरोधपर्यवसानात्तयोश्च तुल्यबलतया व्यवस्थास्थेयेति, तत्राह -
तदुक्तमिति ।
‘औदुम्बरीं स्पृष्ट्वोद्गायेत् ‘ इति प्रत्यक्षश्रुतिविरुद्धा ‘सर्वा वेष्टयितव्या’ इति स्मृतिर्मानं न वेति सन्देहे, वेदार्थानुष्ठातॄणां स्मृतिभिर्मूलश्रुत्यनुमानात्प्रत्यक्षानुमितश्रुत्योश्च तुल्यबलत्वादुदितानुदितहोमवद्विकल्पसम्भवान्मानमिति प्राप्ते प्रत्याह -
विरोधे त्विति ।
श्रुतिविरोधे स्मृतीनां प्रामाण्यमनपेक्षमपेक्षावर्जितम् । हेयमिति यावत् । यतोऽसति विरोधे मूलश्रुत्यनुमानं, प्रत्यक्षश्रुतिविरुद्धे त्वर्थे कुतः स्मृत्या श्रुत्यनुमानं, अर्थापहारेण मानस्याप्यपहारात् । अतो मूलाभावादप्रमाणं सर्ववेष्टनस्मृतिः । तथा कपिलादिस्मृतिरपीत्यर्थः ।
ननु कपिलादिस्मृतेर्न श्रुतिमूलत्वेन प्रामाण्यमिष्यते किन्तु प्रत्यक्षमूलत्वेनेत्याशङ्क्यायोगिप्रत्यक्षं योगिप्रत्यक्षं वा तन्मूलमिति विकल्प्याद्यं दूषयति -
न चेति ।
द्वितीयं शङ्कते -
शक्यमिति ।
अतीन्द्रियार्थोपलम्भनं सम्भावयितुमिति शेषः ।
किं तेषां साधनसाध्या सिद्धिराजानतो वेति विकल्प्याद्ये श्रुतिमन्तरेणातीन्द्रियार्थोपलब्धिर्न सिध्यतीत्याह -
न । सिद्धेरपीति ।
योगमाहात्म्यरूपा सिद्धिः, तस्याः साधनसापेक्षत्ववदतीन्द्रियार्थोपलब्धिरपि कपिलादीनां श्रुत्यपेक्षति वक्तुमपीत्युक्तम् । सिद्धेः सापेक्षत्वं स्फुटयति -
धर्मेति ।
तथापि कथमतीन्द्रियार्थोपलब्धेः श्रुत्यपेक्षेति, तत्राह -
स चेति ।
चोदनासूत्रप्रामाण्याद्धर्मस्य चोदनालक्षणत्वेऽपि कपिलादिवचनानुसारेण श्रुतेरर्थनिर्णये कानुपपत्तिरिति, तत्राह -
ततश्चेति ।
कपिलादीनां विनिश्चितवेदप्रामाण्यानां तदर्थानुष्ठानवतां तत्प्रभावलब्धसिद्धीनां तद्विरुद्धार्थाभिधानासम्भवात्तद्वचनात्प्रागेवावधृतप्रामाण्यस्य वेदस्य तदनुरोधेनोपचरितार्थत्वकल्पनमनुचितमिति भावः ।
अतिशङ्कितुम् ।
मुख्यां वृत्तिमतीत्योपचरितवृत्त्या शङ्कितुमिति यावत् ।
न द्वितीयः, कपिलादीनामीश्वरवदाजानसिद्धेरसिद्धत्वात्सिद्धत्वेऽपि तेषां बहुत्वात्तदुक्तिमाश्रित्य श्रुत्यर्थकल्पनायां तदैकमत्यस्यामानत्वादन्यस्मृत्यनवकाशन्यायेन स्मृतीनामेव मिथो विवादे श्रुत्यवष्टम्भं विना तास्वपि विश्वासाभावान्न तदनुसारेण श्रुत्यर्थनिर्धारणसिद्धिरित्याह -
सिद्धेति ।
यत्तु परतन्त्रप्रज्ञत्वादस्माकमनिश्चितवेदार्थानां विरोधेन स्मृतेरप्रामाण्यमनाशङ्कनीयमपि तु स्मृत्यनुसारेण वेदार्थो निश्चयितव्यः, अन्यथा परतन्त्रप्रज्ञानां वेदार्थानिश्चयप्रसङ्गादिति, तत्राह -
परतन्त्रेति ।
कथं तर्हि परिहृत्याव्यवस्थां तत्त्वं निर्णेतव्यं, तत्राह -
तस्मादिति ।
तस्यापीति ।
तेन परतन्त्रप्रज्ञेनापीत्यर्थः । सन्मार्गः श्रुत्यनुसारिस्मृत्युक्तोऽर्थस्तत्र प्रज्ञासङ्ग्रहस्तस्मिन्नेव बुद्धिस्थैर्यमित्यर्थः ।
ननु कपिलस्याप्रतिहतज्ञानत्वश्रवणात्तदुक्तस्मृत्यप्रामाण्याङ्गीकारे श्रुतिरेव विरुध्येतेत्याशङ्क्याह -
या त्विति ।
कपिलशब्दश्रुत्यविरोधाय सावकाशानवकाशन्यायेन श्रुतिस्मृत्योर्व्यवस्थास्थेयेत्याशङ्क्याह -
कपिलमितीति ।
शब्दसामान्यादेव साङ्ख्यप्रणेता कपिलः श्रौत इति भ्रान्तिविवेकिनामित्यर्थः ।
श्रुतौ तर्हि कपिलशब्दस्य कोऽर्थः स्यादित्याशङ्क्याह -
अन्यस्येति ।
वैदिको हि कपिलो वासुदेवनामा पितुरादेशादश्वमेधपशुमन्विष्य परिसरे पश्यतामिन्द्रचेष्टितमदृष्टवतां षष्टिसहस्रसङ्ख्याजुषामात्मोपरोधिना सगरसुतानां सहसैव भस्मीभावहेतुः साङ्ख्यप्रणेतुरवैदिकादन्यः स्मर्यते । यत्र यत्र वैदिकत्वे सति वासुदेवांशत्वं तत्र तत्र सर्वात्मतोपदेष्ट्टत्वं दृष्टमिह तु तद्विरुद्धार्थोपदेष्ट्टुस्ततोऽन्यत्वमिति भावः । किञ्च परमात्मप्रतिपत्तिपरमिदं वाक्यं, यो ज्ञानैरग्रे प्रसूतं कपिलं बिभर्ति तं पश्येदिति दर्शनात् ।
नच तस्यानुग्राहकन्यायाभावे कपिलज्ञानातिशयावेदकत्वमित्याह -
अन्यार्थेति ।
कपिलस्य द्वैतवादिनः श्रौतत्वं निरस्य सर्वात्मत्ववादिनो मनोः श्रौतत्वमाह -
भवति चेति ।
मनोरपि कपिलेनैकवाक्यत्वं शङ्कित्वोक्तम् -
मनुना चेति ।
सर्वात्मत्वप्रशंसायामपि कथं कापिलं मतं निन्दितमित्याशङ्क्य तद्दर्शयितुं तदीयं मतमाह -
कपिलो हीति ।
पूर्वं कापिलमतस्य कारणविषये व्यासादिवचनविरोधो दर्शितः । सम्प्रति सर्वात्मत्वविषयेऽपि व्यासवचनविरोधमाह -
महाभारतेऽपीति ।
सर्वात्मतैव निर्धारितेत्युत्तरत्र सम्बन्धः ।
पुरुषा जीवाः, ते किं स्वभावेनैव बहवः किंवैक एव परमात्मा बहूनां दृश्यानां स्वभाव इति पृच्छति -
बहव इति ।
पूर्वपक्षमनुभाष्य तन्निरासेन सिद्धान्तमाह -
बहव इत्यादिना ।
यथा पुरुषाणां तदाकाराणां बहूनां देहानामेका पृथिवी योनिरधिष्ठानमुच्यते, तथा तमेकं पुरुषं परमात्मानं बहुलत्वेन प्रतिप्रन्नानां जीवानां वास्तवं स्वभावं विश्वं परिपूर्णं सर्वज्ञत्वादिगुणयुक्तं कथयिष्यामीत्याह -
बहूनामिति ।
सर्वज्ञत्वादिगुणकस्य तद्विरुद्धप्रत्यगात्मैक्यमयुक्तमित्याशङ्क्य विरोधस्य प्रातीतिकत्वं मत्वोक्तम् -
ममेति ।
सर्वान्तरात्मत्वे परस्मिन्नपि संसारित्वप्रसक्तिरित्याशङ्क्य वस्तुतस्तदभावमाह -
सर्वेषामिति ।
किमिति तर्हि प्रत्यात्ममात्मभूतः परमात्मा नोपलभ्यते, तत्राह -
न ग्राह्य इति ।
तस्यासत्त्वं शङ्कित्वोक्तम् -
विश्वेति ।
विश्वे मूर्धानोऽस्यैव सर्वत्र प्रतिबिम्बितत्वात् । तथा विश्वभुजादौ योज्यम् -
परमात्मनः सर्वात्मत्वेनोक्तस्य निरपेक्षतया स्वतन्त्रस्य परमसुखरूपतामाह -
एक इति ।
कापिलमतस्य वेदानुसारिस्मृतिविरोधमुक्त्वा साक्षादेव वेदविरोधमाह -
श्रुतिश्चेति ।
यस्मिन्काले पुरुषस्य विजानतः स्वरूपतयाधिगतब्रह्मण एव सर्वत्र प्रतिबिम्बितत्वाद्भूतानि सर्वाण्यात्मैवाभूत्तस्मिन्काले शोकमोहोपलक्षितः सर्वोऽपि सकारणः संसारो विदुषो नास्तीति श्रुत्यर्थः ।
श्रुतिस्मृतिविरोधे परमतस्यानादेयत्वं सिद्धमित्युपसंहरति -
अतश्चेति ।
इतिशब्दः सिद्धमित्यनेन सम्बध्यते ।
वेदविरोधे स्मृतेरेव किमित्यप्रामाण्यं, विपरीतं किं न स्यादित्याशङ्क्याह -
वेदस्येति ।
ईश्वरकार्यत्वेऽपि तद्धीपूर्वकत्वाभावाद्वेदस्यापौरुषेयत्वेनानपेक्षत्वात् , कपिलादिस्मृतीनां तु तदर्थस्मृतिपूर्वकत्वात्तदर्थस्मृतीनां च तदर्थानुभवपूर्वकत्वादुक्तप्रामाण्यनिश्चयाय स्मृत्यनुभवौ यावत्कल्प्येते, तावदेव स्वतःसिद्धप्रामाण्यवेदवाक्यात्तदर्थो निश्चित इति झटिति प्रवृत्तवेदवाक्योत्थं ज्ञानमसञ्जातविरोधि स्मृतिविरोधे तत्प्रामाण्यस्य बाधकमिति भावः । विप्रकर्षो विशेषः । श्रुतिस्मृत्योरिति यावत् ।
सिद्धे विशेषे फलितमाह -
तस्मादिति ॥ १ ॥
उक्तेऽर्थे हेत्वन्तरपरत्वेनोत्तरसूत्रमुत्थापयति -
कुतश्चेति ।
सूत्राक्षराणि व्याचष्टे -
प्रधानादिति ।
तथा च मूलप्रमाणाभावादप्रमाणं महदादिविषया स्मृतिरिति शेषः ।
भूतानामिन्द्रियाणां च लोकवेदप्रसिद्धत्वान्न तद्विषयस्मृत्यप्रामाण्यमित्याशङ्क्याङ्गीकरोति -
भूतेति ।
तथापि महदहङ्कारपञ्चतन्मात्राणां मूलाभावान्न स्मृतिः सम्भवतीत्याह -
अलोकेति ।
महदादीनामपि ‘महतः परमव्यक्तम्’ इत्यादावस्ति प्रसिद्धिरित्याशङ्क्याह -
यदपीति ।
महदादिस्मृतेर्मूलाभावात्तदप्रामाण्येऽपि किमायातं प्रधानस्मृतेरित्याशङ्क्य सूत्रस्य तात्पर्यमाह -
कार्येति ।
साङ्ख्यस्मृत्यप्रामाण्ये सिद्धे फलितमुपसंहरति -
तस्मादिति ।
मूलप्रमाणाभावस्तच्छब्दार्थः । अपिना स्मृत्यादिविरोधः समुच्चितः ।
स्मृतिविरोधाभावेऽपि ब्रह्मकारणवादो न्यायविरोधान्न सिध्यतीत्याशङ्क्याह -
तर्केति ॥ २ ॥
साङ्ख्यस्मृतेर्मन्वादिस्मृतिविरोधेऽपि योगस्मृतेर्न सोऽस्तीति मन्वादिस्मृतिष्वपि योगस्यानुमोदितत्वात्तथा च प्रधानादिविषयेऽपि योगस्मृतेर्मानत्वात्तद्विरुद्धसमन्वयो न सिद्ध्यतीत्याशङ्क्याह -
एतेनेति ।
चेतनं जगदुपादानं वदतः समन्वयस्य प्रधानं वास्तवमीश्वराधिष्ठितं जगदुपादानमिति वदन्त्या योगस्मृत्या विरोधोऽस्ति न वेति प्रधानादिविषये तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमग्रे दर्शयिष्यन्नतिदेशसूत्रं व्याकरोति -
एतेनेत्यादिना ।
श्रुत्यादिसङ्गतिचतुष्टयं फलं च पूर्वन्यायातिदेशत्वात्पूर्ववदत्रापि द्रष्टव्यम् ।
अर्थसाम्याभावे तुल्यन्यायाविषयत्वादतिदेशानुपपत्तिरित्याशङ्क्यार्थसाम्यमाह -
तत्रापीति ।
अधिकाशङ्काभावादधिकरणारम्भमाक्षिपति -
नन्विति । एवं सतीति ।
साङ्ख्ययोगस्मृत्योरर्थसाम्ये सतीति यावत् ।
अधिकाशङ्कां दर्शयन्नधिकरणारम्भं समर्थयते -
अस्तीति ।
तामेव दर्शयितुमादौ योगस्मृतेः श्रुतिमूलत्वमाह -
सम्यगिति ।
ननु श्रवणमनननिदिध्यासनान्येवात्र सम्यग्धीहेतुत्वेन विधीयन्ते न त्वष्टाङ्गयोगविधिरत्रास्तीत्याशङ्क्य श्रुत्यन्तरमाह -
त्रिरुन्नतमिति ।
त्रीणि देहग्रीवाशिरांस्युन्नतानि यस्मिन् । ‘समं कायशिरोग्रीवं धारयन्’ इत्यादिस्मृतेः । तच्छरीरं तथा समं संस्थाप्य युञ्जीतेति योजना ।
न केवलं श्रुत्यनुगृहीतो योगः किन्तु श्रौतलिङ्गानुगृहीतश्चेत्याह -
लिङ्गानि चेति ।
तान्येव दर्शयति -
तां योगमित्यादिना ।
इन्द्रियाणामन्तर्बहिर्भावेन व्यवस्थितानां स्थिरामविचालिनीं धारणामैकाग्र्यलक्षणां योगविदो योगं मन्यन्ते । यथोक्तमैकाग्र्यमेव परमं तप इति वक्तुं योगशब्दादुपरिष्टादितिशब्दः ।
एतां ब्रह्मविषयां विद्यां योगप्रकारं च सर्वं मृत्योः सकाशान्नचिकेता लब्ध्वा ब्रह्म प्राप्तोऽभूदित्याह -
विद्यामेतामिति ।
श्रुतिवल्लिङ्गानुगृहीतयोगस्य सम्यग्ज्ञानोपायत्वेऽपि किमायातं योगस्मृतेरित्याशङ्क्याह -
योगशास्त्रेऽपीति ।
आत्मज्ञानस्य मोक्षोपायत्वनिश्चयात्तज्जिज्ञासानन्तरमित्यथशब्दार्थः ।
एवं योगस्य सम्यग्धीहेतुत्वमुपपाद्याधिकां शङ्कां दर्शयति -
अत इति ।
योगः सम्यग्दर्शनोपायः सम्प्रतिपन्नार्थैकदेशस्तद्वत्त्वाद्योगस्मृतिरनिराकार्येत्यत्र दृष्टान्तमाह -
अष्टकादीति ।
अष्टकाः कर्तव्याः । गुरुरनुगन्तव्यः । तडागं खनितव्यम् । इत्यादिस्मृतयो न प्रमाणं, धर्मस्य वेदैकप्रमाणकत्वात् । अष्टकादेरिष्टसाधनत्वे वेदादृष्टे स्मृतेश्च भ्रान्त्यापि सम्भवादिति प्रापय्य वेदार्थानुष्ठातॄणामेव स्मृतिषु सनिबन्धनासु कर्तृत्वान्मूलभूतं वेदमनुमापयन्त्यः स्मृतयो मानमिति प्रमाणलक्षणे राद्धान्तितम् । तथा योगस्मृतिरपि मानमित्यर्थः ।
अधिकां शङ्कामनूद्य तन्निवर्तकत्वेनातिदेशाधिकरणस्यार्थवत्त्वमाह -
इयमिति ।
कथं तर्हि निराकरणं, तदाह -
अर्थैकदेशेति ।
योगस्मृतिर्योगविषये वेदाविसंवादान्मानमपि प्रधानादौ तद्विसंवादादमानमर्थवादस्य विधिशेषत्वेन प्रामाण्येऽपि विसंवादिनि स्वार्थे तदनभ्युपगमादित्यर्थः ।
नन्वध्यात्मविषयाः सन्ति सहस्रं बौद्धार्हतादिस्मृतयस्ताः किमित्युपदेशातिदेशाभ्यां न निराक्रियन्ते, तत्राह -
सतीष्वपीति ।
तत्र हेतूनाह -
साङ्ख्येत्यादिना ।
ननु लोके पशुसदृशानां प्राकृतानां परमपुरुषार्थसाधनत्वेन बौद्धादिदर्शनमपि प्रसिद्धमित्याशङ्क्याह -
शिष्टैश्चेति ।
ननु शिष्टपरिग्रहस्यापि विशिष्टप्रमाणमूलत्वमेष्टव्यम् ‘आचाराच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनाम्’ इति न्यायात् , तत्राह -
लिङ्गेन चेति ।
‘एको बहूनां यो विदधाति कामान्’ इत्युपक्रम्य श्रुतं तत्कारणमिति तेषां कामानां कारणं साङ्ख्यैर्ज्ञानिभिर्योगैर्ध्यायिभिश्चाभिपन्नमाभिमुख्येन प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिक्लेशैर्मुच्यत इत्यर्थः ।
तर्हि श्रुतिसिद्धत्वादिकारणवशान्निराकरणमशक्यमन्यथा श्रुत्यादिविरोधादित्याशङ्क्याह -
निराकरणं त्विति ।
किमत्र प्रमाणमित्यपेक्षायामुक्तम् -
श्रुतिर्हीति ।
ननु वैदिकादात्मज्ञानादेव साङ्ख्यादयोऽपि निःश्रेयसं वदन्ति तत्कथमवैदिकत्वेन ते निरस्यन्ते, तत्राह -
द्वैतिनो हीति ।
तर्हि श्रौतस्य लिङ्गस्य का गतिरित्यत आह -
यत्त्विति ।
प्रसिद्धिविरोधेन कथमभ्युपगम्यते, प्रमाणवशादित्याह -
प्रत्यासत्तेरिति ।
वैदिकी सम्यग्बुद्धिः सङ्ख्या तया सह वर्तत इति साङ्ख्यम् । योगो ध्यानं चित्तवृत्तिनिरोधस्तस्य योगस्य तदुपायत्वात्प्रत्ययैकतानताया ध्यानस्य तेनाभेदोपचारात् । अतः संनिकृष्टं सम्यग्ज्ञानं वैदिकं साङ्ख्यादिशब्दितमित्यर्थः ।
तर्हि प्रसिद्धयोः साङ्ख्ययोगस्मृत्योः सर्वथा नास्ति प्रामाण्यं, नेत्याह -
येन त्विति ।
अविरुद्धमंशमेव स्मृतिद्वयेऽपि विभज्य दर्शयति -
तद्यथेति ।
प्रव्रज्यादीत्यादिशब्देन तद्धर्मसङ्ग्रहः ।
अथोक्तविधया साङ्ख्ययोगस्मृतिविरोधाभावेऽपि काणादादिस्मृतिविरोधान्न समन्वयसिद्धिरित्यत आह -
एतेनेति ।
साङ्क्ययोगस्मृतिनिराकरणन्यायेनेति यावत् ।
तेषां निराकर्तव्यताममृष्यन्नाशङ्कते -
तान्यपीति ।
तर्कोऽनुमानमनुग्राह्यं मानम् । उपपत्तिरनुग्राहिकायुक्तिरिति भेदः ।
तर्कस्मरणानां तत्त्वज्ञानोपकारकत्वमङ्गीकरोति -
उपकुर्वन्त्विति ।
तर्हि वैदिकवाक्येभ्यस्तेषां को विशेषः, तत्राह -
तत्त्वज्ञानं त्विति ।
तत्र मानमाह -
नावेदविदिति ॥ ३ ॥
तदेवं वेदविरुद्धानां स्मृतीनामप्रामाण्यान्न तद्विरोधः समन्वयस्येति समन्वयविरोधिनीनां स्मृतीनामाभासतामुक्त्वा तद्विरोधिनो न्यायस्याभासतां विवक्षुः साङ्ख्ययोगन्यायस्याभासत्वार्थं पूर्वपक्षयति -
न विलक्षणत्वादिति ।
चेतनाद्ब्रह्मणो जगदुत्पत्तिं ब्रुवन्समन्वयो विषयः । स किमाकाशादि न चेतनप्रकृतिकं द्रव्यत्वाद्धटादिवदिति साङ्ख्ययोगन्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वाधिकरणेनोत्तराधिकरणसन्दर्भस्य सङ्गतिमाह -
ब्रह्मेति ।
अत्र च समन्वयस्य यथोक्तन्यायविरोधसमाधेरेव श्रुत्यादिसङ्गतयः । फलं तु पूर्वोत्तरपक्षयोः समन्वयासिद्धिस्तत्सिद्धिश्चेति ।
पूर्वपक्षमाक्षिपति -
कुत इति ।
ब्रह्मणो मानान्तराविषयत्वेनातर्क्यत्वेन चानपेक्षाम्नायैकगम्यत्वात्तर्कागमयोरतुल्यार्थत्वेनाविरोधादागमार्थे तर्कनिमित्ताक्षेपस्य निरवकाशतेत्यर्थः ।
ननु तर्कोपकरणेतिकर्तव्यताया वेदान्तमीमांसायास्तर्कोपकरणत्वमुक्तं प्रथमसूत्रे, तथाच तर्कस्य वेदान्तैस्तुल्यार्थत्वमिष्टम् , करणोपकरणयोरेकार्थत्वावगमात् , तत्राह -
नन्विति ।
शक्तितात्पर्यावधारणे परं तर्कस्योपकरणत्वं नतु तस्य ब्रह्मविषयता । ‘नैषा तर्केण’ इति श्रुतेरित्यर्थः ।
सिद्धस्य ब्रह्मणः साध्याद्धर्माद्वैलक्षण्येनाध्यक्षादिविषयत्वसम्भवात्तर्कगम्यत्वमपि सम्भवति । अतस्तुल्यविषयत्वादागमार्थेऽपि तर्कनिमित्ताक्षेपस्यावकाशोऽस्तीति समाधत्ते -
भवेदित्यादिना ।
एकविषयत्वेन विरोधेऽपि किमिति मानान्तरमेव श्रुतिविरोधान्न बाध्यते, तत्र दृष्टान्तेनोत्तरमाह -
यथाचेति ।
यथा सावकाशा भूयस्योऽपि श्रुतयो निरवकाशैकश्रुतिविरोधे तदनुरोधेन नीयन्ते तथा निरवकाशैकतर्कविरोधे तदनुगुणतया भूयस्योऽपि श्रुतयो गुणकल्पनया व्याख्येयाः । सावकाशनिरवकाशयोर्निरवकाशस्य बलीयस्त्वादित्यर्थः ।
ब्रह्मण्याम्नायात्तर्कस्य बलीयस्त्वे हेत्वन्तरमाह -
दृष्टेति ।
ब्रह्मसाक्षात्कारस्य मोक्षोपायतया प्राधान्यात्तत्र शब्दादपि परोक्षगोचरादपरोक्षार्थसाधर्म्यगोचरस्तर्कोऽन्तरङ्गमिति तस्यैव बलवत्त्वमित्यर्थः । ऐतिह्यमात्रेण प्रवादपारम्पर्यमात्रेण । परोक्षतयेति यावत् । अनुभवस्य प्राधान्ये तर्कस्योक्तन्यायेन तस्मिन्नन्तरङ्गत्वादागमस्य च बहिरङ्गत्वात् ‘अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवत्’ इति न्यायादुक्तं तर्कस्य बलवत्त्वम् ।
अनुभवप्राधान्यं तु नाद्यापि सिद्धमित्याशङ्क्याह -
अनुभवेति ।
ननु ब्रह्मज्ञानं वैदिकत्वाद्धर्मवददृष्टफलमेष्टव्यं, तत्कुतोऽस्यानुभवावसानाविद्यानिवर्तकत्वं, तत्राह -
मोक्षेति ।
अधिष्ठानसाक्षात्कारस्य शुक्त्यादिज्ञाने तदविद्यातत्कार्यनिवर्तकत्वदृष्टेर्ब्रह्मज्ञानस्यापि तर्कवशादसम्भावनादिनिरासद्वारा साक्षात्कारावसायिनस्तदविद्यानिवर्तकत्वेनैव मुक्तिहेतुतेति नादृष्टफलतेत्यर्थः ।
यत्तु ‘नैषा’ इत्यादिश्रुतेर्ब्रह्मणि न प्रवेशस्तर्कस्येति, तत्राह -
श्रुतिरपीति ।
विधिविरोधेऽर्थवादश्रुतिरदृढीभवतीति भावः ।
ब्रह्मणि तर्कप्रवेशे फलितमाह -
अत इति ।
सूत्रावयवमवतारितं व्याकरोति -
यदुक्तमित्यादिना ।
ब्रह्मणो जगत्प्रकृतित्वं प्रतिपादितत्वान्नानुपपन्नमित्याह -
कस्मादिति ।
तत्र सोपस्करं हेतुमाह -
विलक्षणत्वादिति ।
जगद्ब्रह्मणोर्मिथो विलक्षणत्वं दृष्टिश्रुतिभ्यां स्पष्टयति -
इदं हीति ।
तयोर्मिथो वैलक्षण्येऽपि किमायातमित्याशङ्क्याह -
नचेति ।
अदृष्टत्वमेव स्पष्टयन्व्याप्तिमाह -
नहीति ।
व्यतिरेकमुक्त्वान्वयमाचष्टे -
मृदैवेति ।
व्याप्तिमुक्त्वा पूर्वपक्षसाधकमनुमानमाह -
तथेति ।
विमतं सुखदुःखमोहसामान्यप्रकृतिकं, तदन्वितस्वभावत्वात् , यथा मृदन्वितस्वभावा घटादयो मृत्प्रकृतिकास्तथेत्यर्थः ।
सिद्धान्तं निषेद्धुमनुमानमाह -
न विलक्षणस्येति ।
विमतं न ब्रह्मप्रकृतिकं, तत्स्वभावेनाननुगतत्वात् , यथा मृत्स्वभावेनाननुगतं रुचकादि न मृत्प्रकृतिकं तद्वदित्यर्थः ।
किञ्च न ब्रह्म जगत्प्रकृतिः, तस्मिन्नननुगतस्वभावत्वात् , यथा घटादिष्वननुगतं सुवर्णादि तत्प्रकृतिर्न भवति तद्वदित्यनुमानमभिप्रेत्याह -
ब्रह्मेति ।
तत्राशुद्धत्वमुपपादयति -
अशुद्धं हीति ।
विषादादीत्यादिपदेन रागद्वेषादयो गृह्यन्ते । नरकादीत्यादिशब्देन लोकभेदानां तत्रावस्थितप्राणिप्रभेदानां च ग्रहणम् ।
जगतोऽचेेतनत्वं साधयति -
अचेतनं चेति ।
चेतनत्वाविशेषेऽपि स्यादुपकार्योपकारकत्वं, नेत्याह -
नहीति ।
तदेव दृष्टान्तेन स्पष्टयति -
नहि प्रदीपाविति ।
साम्ये सत्युपकार्योपकारकत्वं नास्तीत्यत्र व्यभिचारं चोदयति -
नन्विति ।
स्वामिभृत्यन्यायं विघटयन्नुत्तरमाह -
न स्वामीति ।
किं चेतनस्य साक्षादेव चेतनान्तरं प्रत्युपकारकत्वं किं वोपकारककार्यकरणाधिष्ठातृत्वेनेति विकल्प्याद्यं प्रत्याह -
यो हीति ।
स एवेत्येवकारनिरस्यं दर्शयति -
नत्विति ।
द्वितीयं निरस्यति -
निरतिशया हीति ।
उपजनापायधर्मशून्यत्वं निरतिशयत्वम् । अत एवाकर्तृत्वमतिशयमन्तरेण सिध्यति तत्कथं परम्परयापि चेतनानामनाधेयातिशयानामुपकार्योपकारकत्वमित्यर्थः ।
समयोरुपकार्योपकारकत्वासम्भवे फलितमाह -
तस्मादिति ।
किञ्च कार्यकारणे चेतनत्वशङ्कावकाशवती, तत्र चेतनस्य सत्त्वात्काष्ठादिषु तदाशङ्कैव नोदेतीत्याह -
नचेति ।
इतश्च जगतश्चेतनत्वमयुक्तमित्याह -
प्रसिद्धश्चेति ।
जगतोऽशुद्धत्वेऽचेतनत्वे च सिद्धे पूर्वोक्तमनुमानमुपसंहरति -
तस्मादिति ।
श्रुतार्थापत्त्या चेतनत्वं जगतोऽवगतमिति सूत्रैकदेशव्यावर्त्यामाशङ्कां दर्शयति -
योऽपीति ।
जगतश्चेतनप्रकृतिकत्वश्रुतिबलेन चेतनत्वावगतिरित्युक्तं व्यनक्ति -
प्रकृतीति ।
अनुपलम्भपराहता श्रुतार्थापत्तिरमानमित्याशङ्क्याह -
अविभाविनं त्विति ।
समस्ते जगति सतोऽपि चैतन्यस्य तत्र तत्रान्तःकरणपरिणामादुपरागादनुपलब्धिरविरुद्धेत्यर्थः ।
स्वप्रकाशस्य चैतन्यस्य परिणामविशेषानुपरागादनुपलब्धिरसिद्धा स्वप्रकाशत्वविरोधादित्याशङ्क्य दृष्टान्तेन परिहरति -
यथेत्यादिना ।
तर्हि चेतनत्वेन तुल्यानां कार्यकारणानामात्मनां च गुणप्रधानत्वाभावादुपकार्योपकारकत्वानुपपत्तिरुक्ता तदवस्थेत्यासङ्क्याह -
एतस्मादिति ।
साम्येऽपि सम्भवत्युपकार्योपकारकत्वमित्येतदुदाहरणेन स्फोरयति -
यथा चेति ।
प्रत्यात्मवर्तिनो विशेषात्तदसाधारणधर्मवशादित्यर्थः ।
सर्वस्यापि जगतश्चेतनत्वे कथं चेतनाचेतनविभागप्रसिद्धिरत आह -
प्रविभागेति ।
अत एव विभावितत्वाविभावितत्वविशेषादेवेत्यर्थः ।
जगतश्चेतनत्वमुपेत्यापाततः समाधानमाह -
तेनापीति ।
परमसमाधानं वक्तुं सूत्रावयवमवतारयति -
न चेति ।
तस्याभिप्रायं दर्शयितुं परकीयाभिप्रायमनुवदति -
अनवगम्यमानमिति ।
लोकानुरोधवैधुर्यं केवलं चेत्युक्तम् , सम्प्रति सूत्रावयवाभिप्रायमाह -
तच्चेति ।
श्रुतिविरोधे श्रुतार्थापत्तिरमानमिति भावः ।
विरोधमेव स्फोरयति -
यत इति ।
अनुभवसमुच्चयार्थोऽपिशब्दः । न चायं शब्दो विभावितत्वाविभावितत्वविशेषापेक्षो भविष्यत्यौपचारिकत्वप्रसङ्गान्मुख्यसम्भवे तदयोगादिति भावः ॥ ४ ॥
केवलश्रुत्यपेक्षया तदनुगृहीतार्थापत्तेर्बलीयस्त्वाद्विभागश्रुत्यर्थस्यौपचारिकत्वमेवेति शङ्कते -
नन्विति ।
यथाशब्दस्तथाशब्दमध्याहृत्येन्द्रियविषयाणि चेतनत्वश्रुतिरस्तीति सम्बध्यते । कासाविन्द्रियविषया श्रुतिरित्यपेक्षायामाह -
ते हेति ।
मृदादिश्रुतिरभिमानिदेवताविषयतया मुख्यार्था सती विभागश्रुतेरुपचरितार्थतां न कल्पयतीति परिहरति -
अत इति ।
सूत्रं व्याचष्टे -
तुशब्द इति ।
आशङ्कापनोदप्रकारमेव प्रकटयति -
न खल्विति ।
अत्र हेतुत्वेन सूत्रभागमादत्ते -
यत इति ।
तस्यार्थमाह -
मृदादीति ।
भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यमानं न भवतीत्यत्र प्रश्नपूर्वकं हेतुद्वयमाह -
कस्मादिति ।
तत्र विशेषं व्याचष्टे -
विशेषो हीति ।
तस्यान्यथोपपत्तिं वारयति -
सर्वेति ।
उपकार्योपकारकत्वाधिगतेः साम्ये च तदयोगात्प्रसिद्धिश्रुतिभ्यां चेतनाचेतनत्वविभागावगमात्केवलभूतेन्द्रियविषया नैषा श्रुतिरित्यर्थः ।
अविशेषेण विशेषं व्याख्याय प्राणेषु विशेषं विशेषतो व्याकरोति -
अपिचेति ।
विशिषन्ति वागादीन्प्राणादीनिति शेषः । अहंश्रेयसे श्रेयानहमित्यस्मै प्रयोजनाय । स्वकीयश्रेष्ठत्वायेत्यर्थः । निःश्रेयसं श्रैष्ठ्यं प्राणे ज्ञात्वा तदनुवर्तिन्यः सर्वा देवता बभूवुरित्यर्थः ।
इदानीमनुगतिमविशेषतो दर्शयति -
अनुगताश्चेति ।
सर्वत्रेति भूतेन्द्रियादिग्रहणम् । सम्प्रति करणेष्वेव देवतानुगतिं श्रुतितो दर्शयति -
अग्निरिति ।
करणेष्वेवानुगतिं विधान्तरेण निरूपयति -
प्राणेति ।
क्षेत्रज्ञाधिष्ठितानां शरीराणामिव प्राणानामपि व्यवहारानुगतिं दर्शयन्ती श्रुतिस्तेषां क्षेत्रज्ञाधिष्ठानेनैव चैतन्यं द्रढयतीत्यर्थः ।
भूतेन्द्रियविषयचेतनत्वश्रुतेरभिमानिनिमित्ततां विशेषानुगतिभ्यामुक्त्वा भूतेषु चेतनत्वाभिधानस्याभिमानिनिमित्ततां विशेषतो दर्शयति -
तत्तेज इति ।
सर्वस्य चेतनत्वासम्भवे हेत्वसिद्धिसमाधिमुपसंहरति -
तस्मादिति ।
तत्फलमनुमानं निगमयति -
विलक्षणत्वाच्चेति ।
ब्रह्मणि समन्वयो यथोक्तन्यायविरोधान्न सिध्यतीति पूर्वपक्षमनुभाष्य सिद्धान्तमाह -
इत्याक्षिप्त इति ॥ ५ ॥
सिद्धान्तसूत्रं विभजते -
तुशब्द इति ।
व्यावर्त्यपक्षमनूद्य तद्व्यावृत्तिप्रकारमेव विवृणोति -
यदुक्तमिति ।
वैलक्षण्ये प्रकृतिविकृतिभावासिद्धिरिति नियमभङ्गे हुतेमाह -
दृश्यते हीति ।
दृष्टान्ते वैलक्षण्यमसिद्धमिति शङ्कते -
नन्विति ।
तत्राचेतनानां कार्यकारणभावमभ्युपेत्यैव वैलक्षण्यं साधयति -
उच्यत इति ।
ईदृशं वैलक्षण्यमविवक्षितं कारणगतासाधारणधर्माननुगतिरूपं तु तदिष्टमित्याशङ्क्याह -
महांश्चेति ।
पारिणामिकः । तत्तत्केशादिगतपरिणामात्मक इति यावत् । रूपादीत्यादिशब्देन परिमाणादि परिगृह्यते । किञ्च वैलक्षण्यात्प्रकृतिविकृतित्वं प्रत्याचक्षाणः सालक्षण्यात्तदिच्छति तच्च कारणधर्माणां सर्वेषामनुगमो वा कस्यचिदेव वा कारणस्वभावस्येति विकल्प्याद्ये दोषमाह -
अत्यन्तेति ।
द्वितीयमुत्थापयति -
अथेति ।
तर्हि जगद्ब्रह्मणोरपि किञ्चित्स्वभावानुगतिरूपसारूप्यसम्भवान्न प्रकृतिविकृतित्वप्रत्याख्यानमित्याह -
ब्रह्मणोऽपीति ।
प्रकृतिविकृतित्वहेतुं सालक्षण्यं विकल्प्य दूषयित्वा तदभावहेतुं वैलक्षण्यं विकल्पयति -
विलक्षणत्वेनेति ।
आद्यमप्रयोजकत्वेन प्रत्याचष्टे -
प्रथम इति ।
अस्तु समस्तस्य ब्रह्मस्वभावस्य जगत्यननुवर्तनमस्तु च जगतो ब्रह्मप्रकृतिकत्वं का हानिः । नच जगतो ब्रह्मप्रकृतिकत्वे समस्ततत्स्वभावस्य जगत्यनुवर्तनानुपत्तिः, सर्वस्यापि कार्ये सर्वकारणरूपानुवृत्तावसति विशेषे प्रकृतिविकृतित्वासिद्धेरित्युक्तमुपपादयति -
नहीति ।
मध्यमकल्पमसिध्या निरस्यति -
द्वितीये चेति ।
अन्तिममसाधारणत्वेन निराकरोति -
तृतीये त्विति ।
दृष्टान्ताभावमेव स्पष्टयति -
किं हीति ।
आकाशादेर्दृष्टान्तत्वमाशङ्क्याह -
समस्तस्येति ।
पक्षत्रयेऽपि साधारणं कालातीतत्वमाह -
आगमेति ।
ब्रह्मणो मानान्तरगम्यत्वमङ्गीकृत्योक्तं तदपि नास्तीत्युक्तानुवादपूर्वकमाह -
यत्त्विति ।
यथा कार्यत्वाविशेषेऽपि ‘आरोग्यकामः पथ्यमश्नीयात्’ ‘स्वर्गकामो यजेत’ इत्यत्रैकस्य मानान्तरयोग्यत्वं नेतरस्येति स्वीकृतं तथा भूतत्वाविशेषेऽपि पृथिव्यादेर्मानान्तरगम्यत्वं ब्रह्मणस्त्वाम्नायैकगम्यतेति मन्वानः सन्नाह -
आगममात्रेति ।
ब्रह्मणो मानान्तरायोग्यत्वे मानमाह -
तथाचेति ।
ब्रह्मविषया मतिरेषा तर्केण नापनेया नापनीया । न प्रापणीयेत्यर्थः । यद्वा कुतर्केण नापनेया निरस्या न भवति किं त्वन्येनैवाचार्येण वेदविदा प्रोक्ता सुज्ञानाय फलावसायिसाक्षात्काराय भवति । हे प्रेष्ठ प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् । क इह ब्रह्म व्यवहारभूमावद्धा साक्षाद्वेद । को वा तत्प्रावोचत । छान्दसो दैर्घ्यलोपः छन्दसि कालानियमात् । ब्रह्म प्रब्रूयादित्यर्थः । यतो यस्मात्परस्मादात्मनः सकाशादियं विसृष्टिर्विविधा सृष्टिर्बभूव स एव स्वरूपं वेद नान्य इति मन्त्रप्रतीकयोरर्थः ।
प्रतीकतो दर्शितयोर्मन्त्रयोस्तात्पर्यमाह -
एते इति ।
ब्रह्मणस्तर्काद्यगोचरत्वे पौराणिकसंमतिमाह -
अचिन्त्या इति ।
भावानामचिन्त्यत्वेन तर्कागोचरत्वेऽपि ब्रह्मणि किमायातमित्याशङ्क्य भगवद्वाक्यमुदाहरति -
अव्यक्तोऽयमिति ।
कथमविकार्योऽयमित्याशङ्क्य जन्ममरणयोर्मानाभावादित्याह -
न म इति ।
तेषामीश्वरप्रभवाप्रमितिकर्तृत्वे हेतुमाह -
अहमिति ।
श्रुतिस्मृतिभ्यां ब्रह्मणस्तर्काविषयत्वे सिद्धे कथं श्रवणातिरिक्तमननविधानमित्याशङ्कामनुवदति -
यदपीति ।
मननविधानसामर्थ्यात्तर्कमात्रस्य ब्रह्मण्यनुप्रवेशो विवक्षितः श्रुत्यनुगृहीतस्य वेति विकल्प्याद्यं दूषयति -
नानेनेति ।
मिषेण । मननविधिव्याजेनेति यावत् ।
अनुग्राह्यमानहीनतया निरालम्बनत्वं तर्कस्य शुष्कत्वम् । तत्र हेतुं वदन्द्वितीयमङ्गीकरोति -
श्रुतीति ।
श्रुत्यनुग्राहको हि तर्कस्तद्विषयासम्भावनादिप्रतिबन्धप्रध्वंसेन ब्रह्मण्यनुभवाङ्गम् । तदननुगृहीतस्तु निरालम्बनत्वान्नात्रोपयुज्यते । तथाच तर्कमात्रस्यात्राप्रवेशात्तर्कविशेषस्य च श्रुतिद्वाराऽनुप्रवेशाविरोधात्तर्कागोचरत्वं मननविधानं चेत्यर्थः ।
श्रुत्याकाङ्क्षितं तर्कमेव मननविधिविषयमुदाहरति -
स्वप्नान्तेति ।
स्वप्नजागरितयोर्मिथो व्यभिचारादात्मनः स्वभावतस्तद्वत्त्वाभावादवस्थाद्वयेन तस्य स्वतोऽसम्पृक्तत्वम् । अतो जीवस्यावस्थावत्त्वेन नाब्रह्मत्वमित्यर्थः ।
तथापि देहादितादात्म्येनात्मनो भानान्न निष्प्रपञ्चब्रह्मतेत्याशङ्क्याह -
सम्प्रसादे चेति ।
‘सता सोम्य तदा सम्प्रन्नो भवति’ इति श्रुतेः सुषुप्ते निष्प्रपञ्चसदात्मत्वावगमादात्मनस्तथाविधब्रह्मत्वसिद्धिरित्यर्थः ।
द्वैतग्राहिप्रत्यक्षादिविरोधात्कथमात्मनोऽद्वितीयब्रह्मत्वमित्याशङ्क्य तज्जत्वादिहेतुना ब्रह्मातिरिक्तवस्त्वभावसिद्धेरध्यक्षादीनामतत्त्वावेदकप्रामाण्यादविरोधाद्युक्तमात्मनोऽद्वितीयब्रह्मत्वमित्याह -
प्रपञ्चस्येति ।
ब्रह्मणि सावकाशं तर्कं दर्शयित्वा श्रुत्यननुगृहीततर्कस्य तस्मिन्ननवकाशत्वं सूत्रकृतोऽपि संमतमित्याह -
तर्केति ।
विप्रलम्भकत्वमर्थविशेषाव्यवस्थापकत्वम् ।
ब्रह्मणि निरालम्बनस्य तर्कस्याप्रवृत्तेः, श्रुत्यनुगृहीतस्य प्रवृत्तावपि जगन्न ब्रह्मकार्यं चैतन्येनाननुगतत्वादित्यस्य श्रुत्यनुगृहीतत्वाभावात्तद्विरोधिनो न प्रवृत्तिरित्युक्तम् । इदानीं घटः प्रकाशत इति प्रत्यक्षेण श्रुतार्थापत्त्या च जगतश्चैतन्यानुगमावगमादसिद्धं चैतन्येनाननुगतत्वमित्याह -
योऽपीति ।
श्रुतार्थापत्तेः श्रुतिविरोधे नास्ति मानतेत्युक्तमाशङ्क्याह -
तस्यापीति ।
सावकाशानवकाशन्यायेन सावकाशा विभागश्रुतिरनवकाशार्थापत्त्या विभावनाविभावनविषयतया व्यवस्थापनीयेत्यर्थः ।
स्वमते विभागश्रुतिविरोधं समाधाय प्रधानवादे तद्विरोधमाह -
परस्येति ।
घटः स्फुरतीति प्रत्यक्षसङ्ग्रहार्थमपीत्युक्तम् ।
सत्त्वरजस्तमसामज्ञानात्मकत्वात्पुरुषस्य चातदात्मकत्वादस्मन्मते विभागश्रुतेर्नानुपपत्तिरिति शङ्कते -
कथमिति ।
उक्तरीत्या विभागासम्भवं वक्तुं श्रुत्यभिमतमर्थमाह -
परमकारणस्येति ।
प्रधानस्यैव मूलकारणत्वादशेषजगदात्मनाऽवस्थानमित्याशङ्क्याह -
तत्रेति ।
विभागश्रवणे सतीति यावत् ।
तर्हि त्वन्मतेऽपि चेतनस्याचेतनभावानुपपत्तिस्तुल्येत्याशङ्क्य चेतनस्यापि कारणस्य स्वापादाविवानाविर्भावितचैतन्यत्वमुक्तमित्याह -
प्रत्युक्तत्वादिति ।
यद्वा वैलक्षण्ये कार्यकारणत्वं नेत्युपेत्योक्तम् । वस्तुतस्त्वचेतनस्यापि चेतनकार्यत्वमविरुद्धम् , गोमयवृश्चिकादौ हेतोर्व्यभिचारस्योक्तत्वादित्याह -
प्रत्युक्त्त्वादिति ॥ ६ ॥
असत्कार्यवादापत्तिमाशङ्क्य परिहरति -
असदिति चेदिति ।
तत्र चोद्यं विवृणोति -
यदीति ।
कार्यकारणयोर्विरुद्धत्वात्कारणात्मना प्रागनवस्थानात्कार्यस्य प्रागसत्त्वं स्यादित्यर्थः ।
इष्टापत्तिमाशङ्क्य निराचष्टे -
अनिष्टं चेति ।
कार्यासत्त्वमेतच्छब्दार्थः ।
तत्र हेतुं सूचयति -
सत्कार्यवादिन इति ।
चेतनकार्यस्य कारणेऽवस्थानस्वीकारादित्यर्थः ।
नेत्यादि व्याकुर्वन्परिहरति -
नैष दोष इति ।
प्राक्कालीनकार्यसत्त्वस्य प्रतिषेध्यत्वात्तदभावासिद्धिरित्याशङ्क्याह -
न हीति ।
यथेह घटो नास्तीति घटसंसर्गसत्ता भूतले वर्तमानकाले निषिध्यते तथा प्रागसदिति कार्यस्य प्राक्कालीनं सत्त्वं शक्यं निषेद्धुमिति शङ्कते –
कथमिति ।
कार्यस्य कारणात्मना सत्त्वं वा निषिध्यम्, सत्त्वान्तरं वा ? नाद्य इत्याह –
यथैवेति ।
कारणात्मना सत्त्वस्य सदातनत्वान्न निषेध्यतेत्यर्थः ।
द्वितीयं प्रत्याह –
न हीति । कारणसत्त्वातिरिक्तसत्त्वाभावे मानमाह -
सर्वमिति ।
सत्यं कारणात्मनैव कार्यस्य सत्त्वं, तदेव कालविशेषे निषेध्यमित्याशङ्क्याह -
कारणात्मनेति ।
किं तदा कार्यं नास्ति, किं वा कारणमपि । नाद्यः । सदापि तस्य कारणातिरिक्तस्यासत्त्वाद्विशेषणवैयर्थ्यम् । न द्वीतियः । तस्य सर्वदा सत्त्वान्निषेधानवकाशादित्यर्थः ।
उक्तमभिप्रायमविद्वान्मिथो विरुद्धयोरैक्यायोगादसदेव शब्दादिमज्जगज्जायत इति शङ्कते -
नन्विति ।
ब्रह्मणः शब्दादिहीनत्वमङ्गीकृत्य परिहरति -
बाढमिति ।
तर्हि प्रागसदेव शब्दादिमज्जगदिदानीं जायते, नेत्याह -
न त्विति ।
ब्रह्मणः शब्दादिहीनत्वे शब्दाद्यात्मकस्य जगतो ब्रह्मणि कल्पितत्वान्न सत्त्वं वास्तवं पृथगस्तीत्यर्थः ।
कल्पितत्वमेव जगतो ब्रह्मणीति स्थिते फलितमाह -
तेनेति ।
जगतो ब्रह्मणि कल्पितत्वमसम्प्रतिपन्नमित्याशङ्क्याह -
विस्तरेणेति ॥ ७ ॥
जगद्ब्रह्मणोरुक्तं कार्यकारणत्वममृष्यमाणश्चोदयति -
अपीताविति ।
पूर्वपक्षसूत्रं व्याकरोति -
अत्रेत्यादिना ।
जगतो ब्रह्मकारणत्वं सप्तम्यर्थः ।
तमेवोक्तिप्रकारं प्रकटयति -
यदीति ।
अशुद्ध्यादीत्यादिशब्देन रागद्वेषादिग्रहणम् । तदपीतावित्यत्र तत्पदं कार्येण सम्बध्यते ।
प्रतिसंसृज्यमानमित्यस्यार्थमाह -
कारणेति ।
यथा क्षीरे संसृज्यमानमुदकं स्वधर्मेण क्षीरं दूषयति, यथा वा लवणमुदके सम्बध्यमानमुदकं दूषयेत्तथा कार्यमपि कारणे युज्यमानं स्वधर्मेण कारणं दूषयतीत्याह -
कारणमिति ।
कार्यसमानधर्मवत्त्वे ब्रह्मणः स्वीकृते फलितमाह -
इत्यपीताविति ।
सूत्रस्य व्याख्यान्तरमाह -
अपि चेति ।
सर्वस्य कार्यस्य प्रलये कारणवदैकरूप्यप्रसङ्गात्पुनर्विभागेनोत्पत्तौ हेत्वभावात्तदप्राप्तिरित्यसामञ्जस्यमित्यर्थः ।
प्रकारान्तरेणासामञ्जस्यमाह -
अपि चेति ।
कर्मादीनां पुनरुत्पत्तिनिमित्तानां लये सत्यपीति यावत् । प्रलयावस्थायां कर्मादिप्रलये निमित्तमन्तरेणापि पुनर्भोक्तॄणामुत्पत्तौ तद्वदेव मुक्तानामपि पुनर्जन्मप्रसङ्गादसमञ्जसमिदं दर्शनमित्यर्थः ।
शङ्कापूर्वकं व्याख्यान्तरमाह -
अथेति ।
स्थिताविवेत्यपेरर्थः । ब्रह्मवादिनामित्थमनङ्गीकारं सूचयितुमेवमपीत्युक्तम् । यदि लयकालेऽपि कार्यं कारणाद्विभक्तं तदा स्थितिकालवल्लयाभावप्रसङ्गादसमञ्जसमेवेदं ब्रह्मकारणत्वमित्यर्थः ॥ ८ ॥
सिद्धान्तसूत्रमवतारयति -
अत्रेति ।
तत्र तुशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञाभागं विभजते -
नैवेति ।
तदेव दर्शयितुमादौ परोक्तमनुवदति -
यत्तावदिति ।
कारणमपिगच्छत् , तस्मिन्नविभागमापद्यमानमिति यावत् ।
तस्यादोषत्वं प्रतिज्ञाय प्रश्नपूर्वकं हेतुमवतार्य व्याचष्टे -
तददूषणमिति ।
दृष्टान्तानेव विभजते -
तद्यथेति ।
विभागावस्था स्थितिकालः । पुनरिति प्रलयकालोक्तिः । चतुर्विधो भूतग्रामो जरायुजाण्डजस्वेदजोद्भिज्जरूपो भूतसमुदायः । अनेकदृष्टान्तोपादानं बुद्धिसौकर्यार्थम् ।
परपक्षस्यापि कश्चिद्दृष्टान्तो भविष्यतीत्याशङ्क्याह -
त्वत्पक्षस्येति ।
क्षीरनीरादीनामकार्यकारणरूपत्वात्कारणे कार्यलये दृष्टान्तत्वासिद्धिरिति भावः ।
किञ्च लयकाले कार्यधर्मस्थितौ कार्यस्यापि धर्मिणः स्थितेर्लयासिद्धिः कारणाश्रयत्वेन च तदवस्थाने स्फटिकलौहित्यवत्तद्धीर्भ्रान्तिः स्यादित्याह -
अपीतिरेवेति ।
ननु प्रलयकाले कार्यधर्माश्चेन्नावतिष्ठेरन्न तर्हि कारणधर्मा अपि तिष्ठेयुस्तयोरभेदात् , तत्राह -
अनन्यत्वेऽपीति ।
अधिष्ठानमेवारोपितस्य तत्त्वं न विपरीतमित्यर्थः ।
किञ्च कार्यमात्मीयेन धर्मेण कारणं दूषयतीत्यत्रापीतिविशेषणमनर्थकमित्याह -
अत्यल्पं चेति ।
विशेषणवैयर्थ्ये हेतुमाह -
स्थिताविति ।
प्रसङ्गसाम्ये हेतुः -
कार्येति ।
अभ्युपगमस्य मानमूलतां दर्शयति -
इदमिति ।
इदमपि दूषणान्तरमेवेत्याशङ्क्याह -
तत्रेति ।
कार्यस्याविद्यया विद्यमानत्वात्तेन कारणस्य वस्तुतोऽसंस्पर्शे दृष्टान्तमाह -
अस्ति चेति ।
तत्र मायाविनो वस्तुत्वेऽपि तदीयमायाया अवस्तुत्वादिति हेतुमाह -
अवस्तुत्वादिति ।
दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
विधान्तरेण सूत्रयोजनासमाप्तावितिशब्दः ।
मायाविनो मायां प्रत्यनुपादानत्वान्नेदमनुरूपमुदाहरणमित्याशङ्क्याह -
यथा चेति ।
एकः अवस्थान्तरेऽपि स्वयमनुगच्छन्निति यावत् ।
तया तस्यासंस्पर्शे हेतुमाह -
प्रबोधेति ।
जागरिते सुषुप्ते चानुगच्छतस्तस्य तयानुगम्यमानत्वाभावादिति हेत्वर्थः । नहि स्वप्नदर्शनरूपा माया जागरादावनुवर्तमाना दृष्टेति भावः ।
चेतनोपादानत्वानुगुणं दृष्टान्तमुक्त्वा दार्ष्टन्तिकमाह -
एवमिति ।
अवस्थात्रयमुत्पत्तिस्थितिप्रलयरूपम् ।
स्वप्नदर्शनं मायामात्रमिति वस्तुतस्तेनास्पर्शेऽपि परमात्मनोऽवस्थात्रयेण संस्पर्शो दुर्वारस्तस्य वस्तुत्वादित्याशङ्क्याह -
मायामात्रमिति ।
अत्रापि सूत्रस्य विधान्तरेण योजनां विवक्षित्वेतिशब्दः ।
परमात्मनो वस्तुतोऽवस्थात्रयासम्बन्धे वृद्धसंमतिमाह -
अत्रेति ।
यदेत्याचार्यप्रतिबोधनावस्थोक्तिः । अजमित्युत्पत्त्यवस्थया स्पर्शशून्यत्वमनिद्रमिति लयावस्थयाऽस्वप्नमिति स्थित्यवस्थया चेति विवेक्तव्यम् । अद्वैतमिति पूर्णतोक्तिः ।
परस्यावस्थात्रयासम्बन्धे फलितमाह -
तत्रेति ।
उक्तमसामञ्जस्यान्तरमनुवदति -
यत्पुनरिति ।
न त्वित्यादिसूत्रेण परिहरति -
अयमपीति ।
दृष्टान्तभावमेव विभजते -
यथा हीति ।
मिथ्याज्ञानस्य मिथ्याभूतस्याज्ञानस्येति यावत् ।
दृष्टान्ते सम्प्रतिपत्त्यभावं मन्वानं प्रत्याह -
श्रुतिश्चेति ।
सुषुप्तिसमये सत्सम्पत्तेरज्ञानसद्भावस्य च श्रुतत्वेऽपि कथं सति सम्पन्नस्य पूर्ववत्पुनर्विभागेनोत्थानमित्याशङ्क्याह -
त इहेति ।
सुषुप्तादयस्तच्छब्देन परामृश्यन्ते -
इहेति
पूर्वबोधादेरुक्तिः । यद्यदिति कर्माद्यर्जितं जातिविशेषरूपमुक्तम् । तदा भवन्तीत्युत्तरप्रबोधादेरतीतवासनानुसारिणो ग्रहणम् ।
ननु न किञ्चिदवेदिषमित्युत्थितेन परामृश्यमानाज्ञानस्य सुषुप्ते सत्त्वात्पुनः प्रबोधे पूर्ववदुत्थानं युक्तम् । प्रलये तु तथाविधाज्ञानसद्भावे मानाभावात्कुतो विभागेनोत्पत्तिर्नियम्यते, तत्राह -
यथा हीति ।
तत्त्वज्ञानपर्यन्तं विभागव्यवहारस्याव्याहतत्वे दृष्टान्तमाह -
स्वप्नवदिति ।
सुषुप्त्यवस्थायां परस्मिन्नज्ञाते ब्रह्मणि समस्तस्य कार्यजातस्य लीनत्वेऽपि लयस्याविद्याशेषत्वात्पुनरुत्थितावुत्तरप्रबोधावस्थायां सौषुप्ताविद्यानिमित्तो विभागव्यवहारः स्वप्नावस्थायामिव यावत्तत्त्वज्ञानमबाधितोऽभ्युपगम्यते । तथा प्रलयावस्थायामपि विभागशक्तिर्विभक्तकार्यलयलक्षणा मिथ्याज्ञानशब्दिताविद्याप्रतिबद्धा तच्छेषैवानुमास्यते । विमतो लयः सावशेषः, तत्त्वज्ञानाधीनलयत्वात् , सौषुप्तलयवत् । तथा चाविद्याशक्तेर्नियतत्वादुत्पत्तिनियतिरित्यर्थः ।
असामञ्जस्यान्तरमुक्तमतिदेशेन शिथिलयति -
एतेनेति ।
अविद्याशक्तिवशादेव पुनर्विभागेनोत्पत्तिरित्युक्तन्यायेनेति यावत् ।
तथापि कथं तेषां पुनरुत्पत्तिप्रसङ्गो निवार्यते, कारणाभावे कार्याभावादित्याह -
सम्यगिति ।
परिचोदनापूर्वकमुक्तमसामञ्जस्यान्तरं निरस्यति -
यः पुनरिति ।
आशङ्कितासामञ्जस्यनिरसनफलमुपसंहरति -
तस्मादिति ॥ ९ ॥
स्वपक्षे विलक्षणत्वादिदोषान्परिहृत्य ‘यश्चोभयोः’ इत्यादिन्यायादनुद्भाव्यत्वमेव तेषामित्याह -
स्वपक्षेति ।
सूत्राक्षराणि व्याचष्टे -
स्वपक्षे चेति ।
तथा च वादिनं प्रत्यनुद्भाव्यता तेषामिति शेषः ।
ब्रह्मवादिन्युक्तानां विलक्षणत्वादीनां प्रधानवादिनि प्रसङ्गाभावात्कुतः साधारण्यमिति शङ्कते -
कथमिति ।
प्रधानवादिनि दोषसाम्यमापादयितुमारभते -
उच्यत इति ।
उक्तप्रकारमेव प्रकटयन्विलक्षणत्वादित्यत्रोक्तमनूद्य साम्यमाह -
यत्तावदिति ।
‘असदिति चेत्’ इत्यत्रोक्तस्यापि दोषस्य साधारण्यमाह -
अत एवेति ।
अतःशब्दस्यैवार्थकथनं प्रागुत्पत्तेर्वर्तितुं पारयति, प्रलयप्रतिहतिप्रसङ्गात् । तेन प्रागसदेव कार्यं भवन्मतेऽपीत्यर्थः ।
अपीतिसूत्रोक्तमसामञ्जस्यं परमतेऽपि प्रसञ्जयति -
तथेति ।
यत्तु समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियामकाभावाद्भोक्तृणां भोगस्य च विभागेनोत्पत्तिर्न प्राप्नोतीति, अत्राह -
तथा मृदितेति ।
उपादानं सुखादिकारणं क्लेशकर्माशयादि ।
यत्तु भोक्तॄणां परेणाविभागं गतानामित्यादि, तत्राह -
विनैवेति ।
प्रतिपुरुषं प्रतिनियतान्भेदान्विहाय साधारणानामेव भेदानां प्रलयाभ्युपगमान्नातिप्रसक्तिरिति चोदयति -
अथेति ।
ये प्रतिपुरुषं प्रतिनियता भेदास्ते नित्याः स्युरनित्या वा । नित्यत्वे पुरुषेषु गुणेषु वान्तर्भावान्न प्रतिपुरुषं प्रतिनियमस्तदात्मत्वात्तत्साधारण्याच्च । अनित्यत्वे प्रधानकार्यत्वस्यावश्यकत्वात्तेषामपीतावविभागानापत्तिरयुक्तेति परिहरति -
ये नापद्यन्त इति ।
विलक्षणत्वादीनां साधारणत्वे फलितमाह -
इत्येवमिति ।
तर्हि दोषसाम्यान्नान्यतरपक्षस्यादेयतेत्याशङ्क्यास्मत्पक्षे परिहारस्योक्तत्वान्मैवमित्याह -
इत्यदोषतामिति ॥ १० ॥
विलक्षणत्वादितर्काचष्टम्भेन ब्रह्मकारणवादप्रतिक्षेपासम्भवे हेत्वन्तरमाह -
तर्काप्रतिष्ठानादिति ।
सौत्रमपिपदं व्याकरोति -
इतश्चेति ।
तर्कस्य कैवल्यमनुग्राह्यागमराहित्यम् ।
इतःशब्दार्थमेव स्फुटयति -
यस्मादिति ।
आगममूलविकलानां कुतस्तर्काणां प्रादुर्भावः, तत्राह -
पुरुषेति ।
औत्प्रेक्षिकतर्काणामप्रतिष्ठितत्वे हेतुमाह -
उत्प्रेक्षाया इति ।
तर्काणामप्रतिष्ठितत्वं विवृणोति -
तथाहीति ।
पुरुषमतीनामनेकरूपत्वेऽपि कपिलादौ पुरुषविशेषे माहात्म्यस्य प्रसिद्धत्वात्तदीयस्तर्कोऽप्रतिष्ठितो न भवतीति शङ्कते -
अथेति ।
कपिलादेर्माहात्म्यप्रसिद्धिमभ्युपेत्यु परिहरति -
एवमपीति ।
अन्यथेत्यादिसूत्रावयवेन चोदयति -
अथोच्येतेति ।
यथा तर्कस्य नाप्रतिष्ठितत्वदोषस्तथा व्याप्तिमनुसन्धायासावुत्प्रक्ष्यते । तथा च विलक्षणत्वादीनां व्यभिचारिणामसाधकत्वेऽपि व्याप्तिमतस्तर्कस्य साधकत्वसिद्धिरित्यर्थः ।
सोऽपि तर्कस्तर्कत्वादप्रतिष्ठितः स्यादित्याशङ्क्य सर्वस्य वा तर्कस्याप्रतिष्ठितत्वं कस्यचिदेवेति विकल्प्याद्यं दूषयति -
नहीति ।
तत्र हेतुमाह -
एतदपीति ।
तदेव स्पष्टयति -
केषाञ्चिदिति ।
यस्तर्काणामप्रतिष्ठितत्वसाधकः स प्रतिष्ठितो न वा । प्रथमे कुतः सर्वतर्काप्रतिष्ठितत्वं, तदुपपादके तर्के तदभावात् । द्वितीयेऽपि कुतः सर्वतर्काप्रतिष्ठितत्वं, तत्प्रसाधकतर्कस्यैवाप्रतिष्ठितत्वादित्यर्थः ।
लोकव्यवहारहेतुत्वादपि प्रतिष्ठितत्वं तर्कस्यास्थेयमित्याह -
सर्वेति ।
तदेवोपपादयति -
अतीतेति ।
अध्वा प्रवृत्तिनिवृत्तिव्यवहारविषयस्तत्सामान्यं तत्सजातीयत्वम् । अनागतेऽध्वनि । अननुभूते व्यवहारविषय इति यावत् । अनुभूतेष्टानिष्टसाधनजातीयसन्दर्शनात्तस्यापि समीहितसाधनत्वमसमीहितसाधनत्वं वानुमाय लोकस्तत्र प्रवर्तते ततो वा निवर्तते । तदेवं लोकयात्रामुद्वहन्ननुमानाख्यस्तर्को नाप्रतिष्ठितो भवितुमर्हतीत्यर्थः ।
ननु लोकयात्रा यथाकथञ्चित्प्रतिष्ठितेनाप्रतिष्ठितेन वा तर्केण निर्वहति, तस्यादृष्टत्वादेव दुर्निवारत्वात् । वेदार्थनिर्णयानुपयोगित्वात्तु तर्कस्याप्रतिष्ठितत्वं वैदिकैरुच्यते, तत्राह -
श्रुत्यर्थेति ।
पूर्वोत्तरतन्त्रप्रणयनानुपपत्त्या तर्कस्यप्रतिष्ठितत्वमेष्टव्यम् । न हि प्रतिष्ठिततर्कावष्टम्भमन्तरेण तन्त्राभ्यां वाक्यार्थनिर्धारणसिद्धिरिति भावः । न केवलं लौकिकवैदिकव्यवहारानुपपत्तिरेव तर्कस्य प्रतिष्ठितत्वे मानं किन्तु मनुवचनमपीत्यह -
मनुरपीति ।
शास्त्रस्य नानाचार्यमुखप्राप्तसम्प्रदायसाहित्यं विविधागमत्वम् । धर्मस्य शुद्धिरधर्मान्निष्कृष्य निर्धारणम् । तत्र शास्त्रं निर्धारितशक्तितात्पर्यवदव्यवधानेनोपयुक्तं, प्रत्यक्षानुमाने तद्व्यवधानेनेति विभागः । अत्रानुमानं चेत्येतदुपजीव्यम् । आर्षो धर्मोपदेशो मन्वत्रिविष्णुहारीतयाज्ञवल्क्यादिप्रणीतं धर्मशास्त्रम् । वेदशास्त्राविरोधिनेति विशेषणाधर्मनिर्णये शुष्कतर्कानुप्रवेशो नेति सूचितम् । धर्मशब्दाच्चात्र साधारणाद्ब्रह्मापि गृहीतम् ।
सर्वस्य तर्कस्याप्रतिष्ठितत्वपक्षमेवं दूषयित्वा कस्यचिदप्रतिष्ठितत्वमङ्गीकरोति -
अयमेवेति ।
तदेवोपपादयति -
एवं हीति ।
तर्को हि विचारात्मकस्तर्कितपूर्वपक्षप्रतिक्षेपमुखेन तर्कितसिद्धान्ताभ्युपगममूलम् । स च पूर्वपक्षविषये तर्के प्रतिष्ठारहिते सति प्रवर्तते, तदप्रतिष्ठितत्वाभावे विफलतया विचाराप्रवृत्तेरित्यर्थः ।
पूर्वतर्कवदुत्तरतर्कस्यापि तर्कत्वादप्रतिष्ठितत्वमनुमेयमित्याशङ्क्याप्रतिष्ठितत्वे तर्कस्य मूलशैथिल्यादि प्रयोजकं न तर्कत्वमिति मत्वाह -
नहीति ।
अन्यथेत्यादिचोद्यविभजनमुपसंहरति -
तस्मादिति ।
सर्वतर्काप्रतिष्ठाया दुरुपपादनत्वात्किञ्चित्तर्काप्रतिष्ठाया गुणत्वादित्यर्थः ।
परिहारमवतारयति -
एवमपीति ।
प्रतिष्ठितोऽपि कश्चित्तर्कोऽस्तीति वा जगत्कारणविषयस्तर्कस्तथेति वा साध्यते । तत्राद्यमङ्गीकरोति -
यद्यपीति ।
द्वितीयं दूषयति -
तथापीति ।
जगत्कारणमपि कार्यलिङ्गकानुमानगोचरतया तर्कगम्यमित्याशङ्क्य कारणमात्रस्य तद्गम्यत्वेऽपि तद्गतैकत्वादिविशेषस्य नास्तितद्गम्यतेत्याह -
नहीति ।
अतिगम्भीरत्वमागमातिरेकिमानायोग्यत्वम् । भावयाथात्म्यं कारणगतमद्वितीयत्वम् । मुक्तिनिबन्धनं परमानन्दसच्चिदेकतानत्वम् । यदुक्तमतिगम्भीरत्वं तदेव प्रागुक्तं स्मारयन्नुपपादयति -
रूपादीति ।
एवमपीत्यादिभागं विधान्तरेण व्याकर्तुमारभते -
अपिचेति ।
तर्कप्रतिष्ठितत्ववादिनापि तार्किकं वा वैदिकं वा ज्ञानं मोक्षसाधनं विवक्षितमिति विकल्प्याद्यं दूषयितुं सम्प्रतिपन्नमर्थमाह -
सम्यगिति ।
तस्य तर्कसमुत्थत्वासम्भवं वक्तुमेकरूपत्वमाह -
तच्चेति ।
वस्तुतन्त्रत्वेऽपि स्थाणुपुरुषविषयज्ञानवदनेकरूपत्वमाशङ्क्याह -
एकरूपेणेति ।
नहि स्थाणुर्वा पुरुषो वेति ज्ञानं वस्तुतन्त्रं किन्तु पुरुषतन्त्रमिति भावः ।
ऐकरूप्येऽपि वस्तुतस्तस्य भ्रान्तिविकल्पितानि सन्त्येवानेकरूपाणीत्याशङ्क्याग्न्यौष्ण्यज्ञानवेदकरूपवस्तुविषयमेव सम्यग्ज्ञानमित्याह -
तद्विषयमिति ।
मोक्षसाधनसम्यग्ज्ञानस्योक्तप्रकारेणैकरूप्येऽपि किमायातमिति, तत्राह -
तत्रेति ।
अविप्रतिपन्नमपि सम्यग्ज्ञानं तर्कसमुत्थं भविष्यतीत्याशङ्क्याह -
तर्केति ।
विप्रतिपत्तिमेव तार्किके ज्ञाने प्रकटयति -
यद्धीति ।
व्युत्थापनं बाधनम् ।
सत्यां विप्रतिपत्तौ फलितमाह -
कथमिति ।
एकरूपेणानवस्थितोऽर्थो विषयो यस्य ज्ञानस्य तत्तथा ।
प्रधानब्रह्मवादिनः सर्वोत्कृष्टतया सर्वैरिष्टत्वात्तदुत्प्रेक्षिततर्कप्रसूतं ज्ञानं सम्यग्ज्ञानं भविष्यतीत्याशङ्क्याह -
नचेति ।
तैरपरिगृहीतत्वेऽपि तन्मतनिरासेन प्रधानवादिना स्वमतस्य स्थापितत्वात्तस्यैवादेयत्वं सर्वतार्किकसंमतमित्यशङ्क्याह -
न च शक्यन्त इति ।
एकरूपो योऽसावेकार्थः साङ्ख्यैरुक्तस्तद्विषयेति यावत् ।
तर्कोत्थज्ञानं मोक्षहेतुरिति पक्षं प्रतिक्षिप्य वैदिकज्ञानं तथेत्यङ्गीकर्तुं वेदार्थेऽपि वेदविदां विवादात्तज्जन्यमपि ज्ञानमेकरूपं न भवतीत्यशङ्क्याह -
वेदस्येति ।
स हि स्वसामर्थ्यादेकरूपार्थधीप्रसवहेतुः पुरुषमतिदोषात्त्वन्यथा प्रतिभासत इत्यर्थः ।
वैदिकस्य ज्ञानस्यासम्यग्ज्ञानत्वापादकत्वाभावे फलितमाह -
अत इति ।
वैदिकादेव सम्यग्ज्ञानान्मोक्षसम्भवात्पक्षान्तरेषु मोक्षहेतुसम्यग्ज्ञानाभावान्मोक्षासिद्धिरिति सूत्रावयवार्थमुपसंहरति -
अतोऽन्यत्रेति ।
तर्कावष्टम्भेन ब्रह्मणि प्रत्यवस्थानासम्भवं प्रसाध्य प्रकृतमधिकरणार्थमुपसंहरति -
अत आगमवशेनेति ॥ ११ ॥
समन्वयस्व साङ्ख्यन्यायाविरोधेऽपि परमाण्वादिवादिभिरुद्भावितन्यायविरोधान्नासौ सिध्यति तेषां तार्किकत्वेन प्रसिद्धत्वात्तदीयन्यायानामबाध्यत्वादित्याशङ्क्य तन्निरासायोक्तन्यायमतिदिशति -
एतेनेति ।
अतिदेशत्वादुपदेशवत्पादादिसङ्गतिचतुष्टयं फलभेदश्च । चेतनाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किमीश्वरो न द्रव्योपादानं, व्यापित्वात् , दिगादिवदित्यादिना तार्किकन्यायेन तदनाभासत्वाभासत्वाभ्यां विरुध्यते न वेति सन्देहे पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावेन सम्बन्धे कारणमाह -
वैदिकस्येति ।
कार्यकारणयोरभेदस्यात्मनः स्वप्रकाशत्वासङ्गत्वयोः सम्यग्दर्शनस्यासहायस्य मुक्तिहेतुतेत्येवमादीनामभ्युपगमात्प्रत्यासन्नत्वम् । परिमाणसमन्वयादिर्गुरुतरस्तर्कः । देवलप्रभृतयः शिष्टाः ।
केनचिदंशेन ।
कार्यकारणयोरनन्यत्वादिनेति यावत् ।
अण्वादीति ।
आदिपदेन स्वभावाभाववादौ गृहीतौ ।
तर्कनिमित्त आक्षेप इति ।
अयमर्थः - विमतं कार्यद्रव्यं नेश्वरोपादानकं, गुणत्वानधिकरणत्वात् ईश्वरवत् । ईश्वरो न कार्यद्रव्योपादानं, कार्यद्रव्ये समानजातीयविशेषगुणारम्भकविशेषगुणानधिकरणत्वाद्व्यापित्वाद्वा, दिगादिवत् ।
ब्रह्मचैतन्यं जगत्समवायिकारणविशेषगुणो न भवति, कार्ये समानजातीयविशेषगुणानारम्भकत्वात् , यथा तन्तुगतं शौक्ल्यं न घटसमवायिकारणविशेषगुण इत्येवंविधानुमानविरोधं समन्वयस्य कश्चिच्चोदयेदिति तामेतामाशङ्कां निराकर्तुमिदं सूत्रमित्याह -
इत्यत इति ।
सूत्राक्षराणि व्याचष्टे -
परिगृह्यन्त इति ।
शिष्टापरिग्रहशब्दस्य समासमुक्त्वा वाक्यार्थमाह -
शिष्टैरिति ।
अतिदेशेन निराकरणे हेतुमाह -
तुल्यत्वादिति ।
पूर्वोक्तानुमानेष्वदूषितेषु कथमिष्टसिद्धिरित्याशङ्क्याह -
नात्रेति ।
समन्वयः सप्तम्यर्थः । गुणत्वानधिकरणत्वादित्यत्रानुपादानत्वस्यैवोपाधित्वादीश्वरो द्रव्योपादानवृत्तिद्रव्यत्वावान्तरजातिमानश्रावणविशेषगुणवत्त्वात्पृथिवीवदिति परमतेन व्यापित्वादेः सत्प्रतिपक्षत्वात्कार्ये समानजातीयगुणान्तरानारम्भकत्वस्यातिलोहितवृश्चिकसमवायिकारणगोमयविशेषगुणश्यामत्वे व्यभिचारत् । विमतमीश्वरोपादानकं, उपादानवत्त्वात् , ईश्वरनिष्ठसंयोगवदित्यनुमानान्न प्रकृते समन्वये किञ्चिदाशङ्कितव्यमिति भावः ।
यदुक्तं तुल्यत्वान्निराकरणकारणस्येति तदेव व्यनक्ति -
तुल्यमिति ।
वैशेषिकादिपक्षानुसारि चोद्यं सप्तम्यर्थः । तुल्यमत्रापि निराकरणकारणमिति सम्बन्धः ।
तदेवं प्रागुक्तं सङ्क्षिपति -
परमगम्भीरस्येत्यादिना ॥ १२ ॥
वैशेषिकादितर्कविरोधं समन्वयस्य परिहृत्याध्यक्षादिविरोधमाशङ्क्य परिहरति -
भोक्त्रापत्तेरिति ।
अद्वितीयाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः स किं द्वैतग्राहिप्रत्यक्षादिना विरुध्यते न वेति तस्य तत्त्वावेदकत्वानावेदकत्वाभ्यां सन्देहे जगत्कारणे तर्कस्याप्रतिष्ठितत्वेऽपि जगद्भेदे तस्य प्रतिष्ठितत्वसम्भवादद्वैतासिद्धिरित्यभिसन्धाय पूर्वपक्षयति -
अन्यथेति ।
समन्वयस्याध्यक्षादिविरोधसमानात्पादादिसङ्गतिसौलभ्यम् । फलं तु पूर्ववत्तर्कशब्दोऽमानविषयोऽवधारणमयोगव्यावृत्त्यर्थम् ।
आम्नायैकगम्ये मानान्तरनिमित्ताक्षेपस्यानवकाशत्वमाशङ्क्याह -
यद्यपीति ।
निर्णीतार्थश्रुतिविरोधे मानान्तरस्यैवाप्रामाण्यमनिर्णीतार्था तु श्रुतिर्मानान्तरविरोधे सत्युपचरितार्था स्यादित्यर्थः ।
मानान्तरेण श्रुतेर्विषयापहारे सत्यन्यपरतेत्यत्रोदाहरणमाह -
यथेति ।
यत्तु तर्कस्याप्रतिष्ठितत्वान्न श्रुत्यर्थे तन्निमित्तस्याक्षेपस्य सावकाशत्वमिति, तत्राह -
तर्कोऽपीति ।
श्रुतिवदित्यपेरर्थः ।
तर्कस्य स्वविषये प्रतिष्ठितत्वेऽपि श्रुत्या तुल्यविषयत्वाभावान्न तयोर्विरोधशङ्केति शङ्कते -
किमत इति ।
श्रुत्या सहैकविषयत्वाभावेऽपि स्वविषयस्थापनेनार्थात्तर्कस्य तद्विरोधे श्रुतिरमानं तदुत्तरकालत्वात्तत्प्रवृत्तेरिति मत्वाह -
अत इति ।
श्रुतेः स्वार्थबोधनोपक्षयादन्यबाधस्यानवकाशत्वान्न विरोध शङ्केति पुनः सिद्धान्ती शङ्कतेे -
कथमिति ।
अद्वैतं स्वार्थं बोधयन्त्येव श्रुतिरर्थाद्द्वैतमपबाधमाना तद्विषयाध्यक्षादिभिर्विरुध्येतेति पूर्ववाद्याह -
उच्यत इति ।
तत्रादावध्यक्षविरोधं श्रुतेरादर्शयति -
प्रसिद्धो हीति ।
लौकिकीं प्रसिद्धिमेव दृष्टान्तद्वारेणाभिनयति -
भोक्तेति ।
प्रसिद्धो विभागस्तथैवास्तां, श्रुतिश्च स्वार्थं बोधयिष्यति, का हानिरित्याशङ्क्याह -
तस्य चेति ।
भोक्तृभोग्ययोरेकता नास्माभिरुक्तेत्याशङ्क्याह -
तयोश्चेति ।
अस्तु तर्हि श्रुत्याद्वैतं बोधयन्त्या बाधोऽस्येति, नेत्याह -
न चेति ।
श्रुतेरुपचरितार्थत्वेन सावकाशत्वान्निरवकाशं प्रत्यक्षं बलवदिति भावः ।
अनुमानविरोधमधुना श्रुतेरुपन्यस्यति -
यथेति ।
विमतौ भोक्तृभोग्यविभागव्यवहारवन्तौ, कालत्वात् , वर्तमानकालवत् । यद्वा विमतो विभागोऽबाधितः, विभागत्वात् , इदानीन्तनविभागवदित्यर्थः ।
उक्ताध्यक्षानुमानविरोधादसिद्धिः समन्वयस्येत्युपसंहरति -
तस्मादिति ।
तामिमामाशङ्कामापाततो लोकसिद्धदृष्टान्तावष्टम्मेन प्रत्याचष्टे -
तंं प्रतीति ।
सूत्रावयवं व्याकरोति -
उपपद्यत इति ।
लोके दृष्टत्वमेव स्फुटयति -
तथाहीति ।
इतरेतरसंश्लेषादीत्यादिशब्देन विश्लेषपरिमाणविशेषादि गृह्यते ।
ननु फेनादीनां समुद्रादभेदे परस्परभावापत्तेर्नेतरेतरविभागादि सम्भवति । न खल्वेकस्मादभिन्नानां मिथो भिन्नत्वमेकस्यैवोपपद्यते, तत्राह -
नचेति ।
फेनादीनां मिथो भिन्नत्वेनैकस्मादभिन्नत्वमन्यथा समुद्रस्यापि तदभेदेन भेदप्रसङ्गादित्याशङ्क्याह -
नच तेषामिति ।
दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह -
एवमिति ।
इहेति । ब्रह्मवादोक्तिः ।
फेनादीनां समुद्रकार्यत्वात्तदभेदेऽपि जीवानां ब्रह्मकार्यतया तदभेदायोगादस्ति वैलक्षण्यमित्याशङ्क्याह -
यद्यपीति ।
तर्हि जीवब्रह्मणोरत्यन्ताभेदाद्भोक्तृविभागाभावाद्भोग्यस्यापि प्रतिनियमासिद्धेर्विभागावगाहिप्रमाणविरोधतादवस्थ्यमित्यशङ्क्याह -
तथापीति ।
दार्ष्टान्तिकमुपसंहरति -
इत्यत इति ।
समुद्रतरङ्गादिन्यायेन समुद्रादभेदेऽपि फेनतरङ्गादीनां मिथो भेददृष्टान्तेनेत्यर्थः ।
विभागोपपत्तौ तद्विषयाध्यक्षादेरविरुद्धतेति युक्तमेव जगतो ब्रह्मकारणत्वमुक्तमित्यधिकरणार्थं निगमयति -
उक्तमिति ॥ १३ ॥
परिणामवादमवलम्ब्यापाततो विरोधं समाधाय विवर्तवादमाश्रित्य परमसमाधानमाह -
तदनन्यत्वमिति ।
अद्वितीयब्रह्मणो जगत्सर्गवादिनः समन्वयस्य पूर्ववद्भेदग्राहिप्रत्यक्षादिविरोधसन्देहे पूर्वाधिकरणेऽपि भेदग्राहिमानाविरोधोपपादनात्पुनरुक्तिमाशङ्क्य सङ्गतिं वदन्नगतार्थत्वमाह -
अभ्युपगम्येति ।
अङ्गीकृत्य हि भेदग्राहिप्रमाणस्य प्रामाण्यं भेदाभेदयो रूपभेदेन विरोधः समाहितः । सम्प्रति स्वीकृतं प्रामाण्यं तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे व्यवस्थाप्यते । तथाच विषयभेदादपौनरुक्त्यम् । सङ्गतिफले तु पूर्ववदिति भावः ।
यथोक्तविभागस्य वस्तुतोऽसत्त्वे हेतुत्वेन तदनन्यत्वमिति सूत्रावयवं विभजते -
यस्मादिति ।
कार्ये विप्रतिपत्तिनिरासार्थं विशिनष्टि -
कार्यमिति ।
कारणेऽपि विप्रतिपत्तिं निराकर्तुं विशेषमादत्ते -
कारणमिति ।
कार्यकारणयोरनन्यत्वमित्युक्ते मिथोऽनन्यत्वं शङ्कितं व्यावर्तयति -
तस्मादिति ।
ननु कार्यप्रपञ्चस्य भेदाभेदाभ्यामनिर्वाच्यतामिच्छन्कारणात्परमार्थतोऽनन्यत्वं व्याचक्षाणः स्वोक्तिविरोधं कथं नाधिगच्छति, तत्राह -
व्यतिरेकेणेति ।
यस्मादेवमवगम्यते तस्मात्परमार्थतो विभागो नास्तीति तद्ग्राहि मानं व्यावहारिकमानत्वात्तात्त्विकमानस्य समन्वयस्याविरोधीत्यर्थः ।
कार्यस्य कारणातिरेकेणाभावे हेतुं पृच्छति -
कुत इति ।
बुभुत्सितहेतुविषयं सूत्रभागमवतारयति -
आरम्भणेति ।
तत्र भेदनिषेधहेतुमारम्भणशब्दं व्याकरोति -
आरम्भणशब्दस्तावदिति ।
घटादिविषयत्वादेषशब्दो जगद्विषयो न भवति, तत्कथं मिथ्यात्वं तेन सिध्यतीत्याशङ्क्य जगतो मिथ्यात्वसाधनार्थमादिष्टदृष्टान्तनिविष्टं वाचारम्भणत्वं दार्ष्टान्तिकेऽपि साम्यार्थमास्थेयमित्यभिप्रेत्याह -
एतदुक्तमिति ।
परमार्थतो विज्ञातमिति सम्बन्धः ।
कथमन्यस्मिन्विदितेऽन्यद्विज्ञातं स्यादित्याशङ्क्याह -
यत इति ।
कारणमपि विकारवदनृतमेव शब्दमात्रत्वाविशेषादित्याशङ्क्याह -
मृत्तिकेति ।
एवशब्देनेतिशब्दः सम्बध्यते ।
तथापि ब्रह्मणि किमायातं, तत्राह -
एष इति ।
दृष्टान्तस्य कारणातिरिक्तकार्याभावविषयत्वेऽपि दार्ष्टान्तिकस्य नैवमित्याशङ्क्य फलितमाह -
तत्रेति ।
संनिहितो दृष्टान्तः सप्तम्यर्थः ।
प्रकारान्तरेणारम्भणशब्दं व्याचष्टे -
पुनश्चेति ।
दृष्टान्तवशाद्दार्ष्टान्तिके ब्रह्मातिरेकिकार्याभावप्रतिपत्त्यनन्तरं चेत्यर्थः । ब्रह्मकार्याणां मिथ्यात्वं तत्कार्याणां मिथ्यात्वोक्त्यापि दर्शितमिति भावः ।
आदिशब्दं व्याख्याति -
आरम्भणेति ।
एवमादीत्यादिशब्दात् ‘तदात्मनं स्वयमकुरुत’ इत्यादि गृहीतम् । एकविज्ञानेन सर्वविज्ञानप्रिज्ञानुपपत्तिरपि भेदाभावे मानतया सौत्रेणादिशब्देन गृहीतेत्याह -
न चेति ।
यदि जगतो ब्रह्मैव तत्त्वं तदा तज्ज्ञानेन तत्त्वतो ज्ञायेत, यथा रज्जुतत्त्वज्ञानेन भुजङ्गादितत्त्वम् । तत्त्वज्ञानमेव च ज्ञानं ततोऽन्यस्य मिथ्याज्ञानत्वेनाज्ञानत्वादिति भावः ।
सिद्धान्तमुपसंहरति -
तस्मादिति ।
जीवप्रपञ्चयोर्ब्रह्मणोऽनन्यत्वे क्रमेण दृष्टान्तद्वयम् । तेषामूषरादिभ्योऽनन्यत्वे हेतुमाह -
दृष्टेति ।
कदाचिद्दृष्टं पुनर्नष्टम् । अनित्यमिति यावत् । तत्स्वभावत्वान्मृगतृष्णिकोदकादीनामूषरादिभ्यो भेदेन नास्तित्वम् । विमतमधिष्ठानातिरिक्तसत्ताशून्यं, सावधित्वात् , चिदात्मवदिति व्यतिरेकानुमानादित्यर्थः ।
दृष्टग्रहणसूचितं प्रतीतिकालेऽपि सत्ताराहित्यं तत्रैव हेत्वन्तरमाह -
स्वरूपेणेति ।
एकत्वैकान्ताभ्युपगमे द्वैतग्राहिप्रत्यक्षादिविरोधान्नाद्वितीये ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षयन्ननेकान्तवादमुत्थापयति -
नन्विति ।
एकस्यानेकात्मकत्वं विप्रतिषिद्धमितित्याशङ्क्याह -
यथेति ।
अनेकाभिः शक्तिभिश्चिद्रूपाभिस्तदधीनप्रवृत्तिभिश्च युक्तमिति यावत् ।
एकस्यानेकात्मकत्वे सम्भाविते फलितमाह -
अत इति ।
उभयसत्यत्वमपि वृक्षदृष्टान्ते दृष्टमित्याह -
यथेति ।
प्रतिपत्तिदार्ढ्यार्थमुदाहरणान्तरमाह -
यथा चेति ।
अंशांशिभावेन जीवब्रह्मणोर्भिन्नाभिन्नत्वे दृष्टान्तावुक्त्वा कार्यकारणात्मना जगद्ब्रह्मणोस्तथात्वे दृष्टान्तमाह -
यथा चेति ।
दृष्टान्तसामर्थ्यादुक्तार्थसम्भावनायामपि मानं विना निर्धारणासिद्धिरित्याशङ्क्य व्यवस्थानुपपत्तिं प्रमाणयति -
तत्रेति ।
विशिष्टदृष्टान्तप्रदर्शनानुपपत्तिरपि प्रकृतेऽर्थे प्रमाणमित्याह -
एवं चेति ।
जीवजगतोर्ब्रह्मणो भिन्नाभिन्नत्वे प्रत्यक्षाद्यविरोधेऽपि, केवलाभेदे तद्विरोधः स्यादेवेति प्राप्तभेदाभेदवादं दूषयति -
नैवमिति ।
यदुक्तमेकत्वं नानात्वं चोभयमपि सत्यमिति, तत्राह -
मृत्तिकेति ।
न केवलमेवकारसामर्थ्याद्विकारानृतत्वं किन्तु वाचारम्भणश्रुतेश्चेत्याह -
वाचारम्भणेति ।
तथापि कथमाकाशादिविकारवैतथ्यं दार्ष्टन्तिके पूर्वोक्तावधारणादेरभावादित्याशङ्क्य तत्रापि दृष्टान्तनिविष्टार्थानुषक्तेर्मैवमित्याह -
दार्ष्टन्तिकेऽपीति ।
किञ्च कार्यप्रपञ्चस्यापि ब्रह्मवत्सत्यत्वे तद्विशिष्टजीवस्य तद्भावोपदेशासिद्धिरित्याह -
स आत्मेति ।
जीवस्य ब्रह्मैक्यं ध्यानादिसाध्यमभिसन्धायोपदेशो भविष्यतीत्यशङ्क्याह -
स्वयमिति ।
जीवब्रह्मणोः संसारित्वासंसारित्वेन विरुद्धत्वादैक्यायोगात्तत्त्वं भविष्यसीति वाक्यविपरिणामः स्यादित्याशङ्क्याह -
अतश्चेति ।
उपदेशवशादित्येतत् । स्वाभाविकस्यानाद्यविद्याकृतस्येति यावत् । विरुद्धत्वस्य काल्पनिकत्वेनोपपत्तौ वाक्यस्वारस्यं भङ्क्त्वा विपरिणामकल्पना न युक्तेति भावः ।
यदुक्तं नानात्वांशेन सर्वव्यवहारोपपत्तिरिति, तत्र किमैक्यज्ञानोत्तरकालीनव्यवहारसिद्धये भेदांशस्य सत्यत्वं कल्प्यते किं वा प्राक्तनव्यवहारसिद्ध्यर्थमिति विकल्प्याद्यं दूषयति -
बाधिते चेति ।
प्रमातृत्वादिबाधात्तदाश्रयव्यवहारो नास्तीति व्यवहाराभावेऽर्थापत्तिमुक्त्वा श्रुतिमुपन्यस्यति -
दर्शयतीति ।
द्वितीये प्राक्तनव्यवहारस्य भ्रान्तत्वमभ्रान्तत्वं वा । प्रथमे तथाविधव्यवहारस्य काल्पनिकभेदेनोपपत्तिरिति मत्वा चरमं निरस्यति -
न चेति ।
तत्र श्रुतितात्पर्यविरोधं हेतुमाह -
तत्त्वमिति ।
‘पुरुषं सोम्योत हस्तगृहीतमानयन्ति’ इत्यादिना सत्यानृताभिसन्धपुरुषनिदर्शनप्रदर्शनसामर्थ्यादपि सिद्धमैक्यस्यैव सत्यत्वमित्याह –
तस्करेति ।
कथमेतावता सत्यत्वमेकस्यैव नियम्यते, तत्राह -
उभयेति ।
विपरीतमपि किं न स्यादित्यपेरर्थः ।
इतश्चैकत्वमेवैकं पारमार्थिकं न नानात्वमपीत्याह -
मृत्योरिति ।
एकत्वधियो मुक्तिहेतुत्वोक्तिरपि भेदाभेदवादेऽनुपपन्नेत्याह -
न चेति ।
भेदांशधियोऽभेदांशधिया बाध्यत्वादपनोदनीयाभवासिद्धिरित्याशङ्क्य वैपरीत्यस्यापि सम्भवान्मैवमित्याह -
उभयेति ।
इदानीं पूर्ववादी स्वाभिप्रायं प्रकटयति -
नन्विति ।
प्रत्यक्षादेरागमेन स्वसिद्ध्यर्थमपेक्ष्यमाणत्वाददृष्टव्यभिचारत्वादव्याकुलत्वादन्यत्रानवकाशत्वात्पूर्वभावित्वेन प्रतिष्ठितत्वात्पदपदार्थविभागव्यवहारहेतुत्वाच्च प्राबल्यात्तद्विरोधे सत्याम्नायतो नात्यन्तिकमैक्यमादेयमिति भावः ।
निरालम्बनत्वेनाप्रामाण्ये दृष्टान्तः -
स्थाण्वादिष्विवेति ।
न केवलमेकत्वैकान्ताभ्युपगमे प्रत्यक्षादिविरोधः किन्तु कर्मकाण्डविरोधश्चेत्याह -
तथेति ।
भेदापेक्षत्वात् । भावनाभाव्यकरणेतिकर्तव्यतादिसापेक्षत्वादिति यावत् ।
ननु प्रत्यक्षादीनां कर्मकाण्डस्य चाप्रामाण्यमद्वैतवादिनां नानिष्टं, ते हि ज्ञानकाण्डमेवैकं प्रमाणमाश्रयन्ते, तत्राह -
मोक्षशास्त्रस्येति ।
ननु मिथ्याभूतशिष्यादिभेदपराधीनस्य मोक्षशास्त्रस्य मिथ्यात्वेऽपि तत्प्रमेयस्य प्रत्यगैक्यस्य सत्यत्वादस्मत्पक्षसिद्धिरिति, तत्राह -
कथं चेति ।
प्रत्यक्षादिना काण्डद्वयेन न विरोधान्न समन्वयाधिगम्यमैक्यं सम्भावितमिति चोदिते परिहरति -
अत्रेति ।