अद्वैतशारदा

न्यायनिर्णयव्याख्या

२ परिच्छेदः

यत्ता­व­दे­क­त्वै­का­न्ता­भ्यु­प­गमे लौकि­क­वै­दि­क­व्य­व­हा­र­व्या­ह­ति­रिति, तत्राह -
नैष दोष इति ।

तत्त्व­ज्ञा­ना­दूर्ध्वं प्राचि वा काले व्यव­हा­रा­नु­प­प­त्ति­रिति विक­ल्प्या­द्य­म­ङ्गी­कृत्य द्वितीयं प्रत्याह -
सर्व­व्य­व­हा­रा­णा­मिति ।
प्रत्यक्षादीनां द्वैतावगाहिनां तात्त्वि­क­प्र­मा­ण­त्वा­भा­वेऽपि व्यवहारे बाधा­भा­वा­द्व्य­व­हा­र­स­म­र्थ­व­स्त्व­ङ्ग­ता­रू­प­प्रा­मा­ण्य­सिद्धेः सम्य­ग्ज्ञा­ना­त्पूर्वं सर्व­व्य­व­हा­र­सि­द्धि­रि­त्यर्थः ।

तत्त्व­ज्ञा­ना­त्पूर्वं सत्य­त्वा­भि­मा­न­द्वारा व्यवहारोपपत्तौ दृष्टान्तमाह -
स्वप्नेति ।

आत्मनो ब्रह्मात्मतायाः स्वाभा­वि­क­त्वा­द्वि­का­रे­ष्व­नृ­त­त्व­म­नी­षा­स­म­न्मेषे कथं सर्व­व्य­व­हा­र­सि­द्धि­रि­त्या­श­ङ्क्याह -
यावद्वीति ।

तथापि स्वभा­व­सि­द्ध­ब्र­ह्मा­त्म­ता­नु­रो­धेन विका­रे­ष्वौ­दा­सी­न्य­स­म्भ­वा­त्कुतो व्यव­हा­रो­प­प­त्ति­रि­त्या­श­ङ्क्याह -
विकारानिति ।

मिथ्याभिमानवतो वस्तु­स्वा­भा­व्य­म­प­हाय प्राक्त­त्त्व­ज्ञा­ना­द्व्य­व­हा­रो­प­पत्तिं निगमयति -
तस्मादिति ।

यदुक्तं स्वप्न­व्य­व­हा­र­स्येव प्राग्बोधादिति, तद्विवृणोति -
यथेति ।

‘या निशा सर्वभूतानाम्’ इत्या­दि­स्मृ­ते­र्ज्ञानी व्यव­हा­रा­व­स्थायां सुप्तो भवति, ततो व्यावर्तयति -
प्राकृतस्येति ।

प्रत्य­क्षा­भि­म­त­मि­त्यु­क्त­त्वा­दा­भ­स­त्वा­भि­माने प्राप्ते प्रत्याह -
नचेति ।

उक्त­दृ­ष्टा­न्त­व­शा­त्त­त्व­ज्ञा­ना­त्प्रा­च्या­म­व­स्थायां प्रमाणादिषु सत्य­त्वा­भि­मा­न­द्वारा सर्व­व्य­व­हा­र­सि­द्धि­रिति दार्ष्टा­न्ति­क­माह -
तद्वदिति ।

कथं चानृतेन मोक्ष­शा­स्त्रे­णे­त्यु­क्त­म­नु­भा­षते -
कथमिति ।

असत्यान्न सत्य­प्र­ति­प­त्ति­रि­त्यत्र दृष्टान्तमाह -
नहीति ।

असत्यादपि मरणातिरिक्तं सत्यमेव कार्यं भवि­ष्य­ती­त्या­श­ङ्क्याह -
नापीति ।
इतिशब्दो दार्ष्टा­न्ति­क­प्र­द­र्श­नार्थः ।

सत्य­स्या­स­त्या­दु­त्प­त्तिर्वा प्रतिपत्तिर्वा प्रतिषिध्यते । नाद्य, सत्य­स्यो­त्प­त्ते­र­नि­ष्ट­त्वा­दु­त्प­द्य­मा­नस्य सर्वस्यैव वाचा­र­म्भ­ण­त्वा­दि­त्य­भि­प्र­त्याह -
नैष दोष इति ।

सत्यस्यापि केचि­दु­त्प­त्ति­मु­प­ग­च्छन्ति, तत्पक्षेऽपि न दोष इत्याह -
शङ्केति ।
शङ्कायाः स्वरूपेण सत्यत्वेऽपि विष­य­वि­शे­षि­त­त्वे­ना­स­त्य­तेति भावः ।

द्वितीयेऽपि सत्या वाऽसत्या वा प्रति­प­त्ति­र­स­त्या­न्नेति विकल्प्याद्यं निरस्यति -
स्वप्नेति ।

स्वप्न­द­र्श­न­व­त्त­त्का­र्य­स्यापि सर्प­दं­श­ना­दे­र­स­त्य­त्वा­त्त­द्वि­शे­षि­त­द­र्श­न­मपि तथेति नास­त्या­त्स­त्य­प्र­ति­प­त्त्यु­त्प­त्ता­वि­द­मु­दा­ह­र­ण­मिति शङ्कते -
तत्कार्यमपीति ।

विष­य­स्या­स­त्य­त्वेऽपि विषयिणो ज्ञानस्य सत्य­त्वा­न्मै­व­मिति परिहरति -
तत्रेति ।

नन्ववगतिशब्देन स्वरूपचैतन्यं वृत्तिज्ञानं वोच्यते । प्रथमे तस्या­ज­न्य­त्वा­द­स­त्यान्न सत्य­प्र­ति­प­त्त्यु­त्पत्तौ दृष्टान्तत्वम् । द्वितीये तस्य विष­या­ति­रि­क्ता­का­रा­भा­वात् ‘अर्थेनैव विशेषो हि निराकारतया धियाम्’ इत्य­ङ्गी­का­रा­त्त­द­नि­र्वा­च्य­ता­या­म­नि­र्वा­च्य­त्वे­ना­स­त्य­त्वा­न्ना­स­त्या­त्स­त्य­प्र­ति­प­त्त्यु­त्पत्तिः, तत्राह -
नहीति ।
परपक्षे सत्यस्यापि ज्ञानस्य जन्य­त्वा­भ्यु­प­ग­मा­द­स्म­त्पक्षे चाभि­व्य­क्ति­स्वी­का­रा­द्वृ­त्ति­रू­प­स्यापि ज्ञास्य लौकिकाभिप्रायेण सत्य­त्वा­द­स­त्या­त्स­त्य­प्र­ति­प­त्त्यु­त्पत्तौ दृष्टा­न्त­त्व­म­वि­रु­द्ध­मिति भावः ।

नन्ववगतिर्न स्वरूपचैतन्यं नापि वृत्तिज्ञानं किन्तु शरी­रा­का­र­प­रि­ण­त­भू­त­च­तु­ष्ट­य­नि­विष्टं रूपादितुल्यं ज्ञानमिति लौका­य­ति­क­म­त­मा­श­ङ्क्याह -
एतेनेति ।

एतच्छब्दार्थमेव विशदयति -
स्वप्नदृश इति ।
स्वप्न­जा­ग्र­द्दे­ह­यो­र्व्य­भि­चा­रेऽपि प्रत्य­भि­ज्ञा­ना­त्त­द­नु­ग­ता­त्मै­क्य­सिद्धेः, चैतन्यस्य च देहधर्मत्वे रूपा­दि­व­त्त­द­नु­प­ल­ब्धा­व­नु­प­ल­ब्धि­प्र­स­ङ्गात् , अव­ग­ते­श्चा­बा­धा­त्त­द्रू­प­स्या­त्मनो देह­द्व­या­ति­रे­क­सि­द्धे­र्दे­ह­मा­त्रा­त्म­वादो न युक्त इत्यर्थः ।

सत्या प्रति­प­त्ति­र­स­त्या­द्भ­व­ती­त्यु­प­पाद्य सत्यस्य प्रति­प­त्ति­र्ना­स­त्या­दिति पक्षं श्रुत्या निराचष्टे -
तथाचेति ।

अस­त्या­त्स­त्य­प्र­ति­प­त्त्यु­त्पत्तौ छान्दो­ग्य­श्रु­ति­व­दै­त­रे­य­क­श्रु­ति­रपि भवतीत्याह -
तथेति ।

सत्यस्य प्रति­प­त्ति­र­स­त्या­द्भ­वति, तत्रा­न्व­य­व्य­ति­रे­का­वपि प्रमाणमित्याह -
प्रसिद्धं चेति ।

असत्यात्सत्यस्य प्रतिपत्तौ दृष्टा­न्ता­न्त­र­माह -
तथेति ।
रेखास्वरूपस्य सत्य­त्वेऽ­प्य­का­रा­दि­रू­प­तया तथा­त्वा­भा­वा­द­स­त्या­त्स­त्य­प्र­ति­प­त्ति­रि­त्य­भि­स­न्धा­या­नृ­तेति विशेषणम् ।

आगमादसत्यादेव सत्यस्य ब्रह्मात्मनः सुज्ञानत्वेऽपि पूर्वोक्तनीत्या बल­व­तोऽ­ध्य­क्षा­दे­रा­ग­म­बा­ध्यत्वं कथ­मि­त्या­श­ङ्क्याह -
अपिचेति ।
उक्त­श­ङ्का­नि­वृ­त्त्य­र्थ­म­पि­चे­त्यु­क्तम् ।

निरपेक्षत्वे सत्यु­त्त­र­भा­वि­प्र­मा­ण­त्वा­त्प्र­त्य­क्षा­दि­बा­ध­क­त्व­मा­ग­म­स्ये­त्याह -
अन्त्यमिति ।

आगमप्रामाण्यस्य फल­प­र्य­न्त­त्वा­त्तस्य क्रिया­सा­ध्य­त्वा­त्तस्या भेद­प्र­मि­ति­पू­र्व­क­त्वा­त्क­थ­मा­त्मै­क्य­ज्ञा­न­स्या­न्त्य­ते­त्या­श­ङ्क्याह -
नात इति ।

तदेव व्यति­रे­क­दृ­ष्टा­न्तेन स्पष्टयति -
यथेति ।

तत्त्व­म­सी­त्युक्ते सर्वा­का­ङ्क्षो­प­शा­न्ति­रि­त्यत्र हेतुमाह -
सर्वात्मेति ।
या वाक्या­द­व­ग­ति­रु­त्प­द्यते सा सर्वस्य पूर्णस्य ब्रह्मणः प्रत्य­गा­त्म­न­श्चै­क­र­स्य­म­धि­कृत्य भवति । तथाच प्रत्य­गा­त्मा­ति­रि­क्त­स्या­का­ङ्क्ष­णी­य­स्या­न­व­शि­ष्ट­त्वा­द्युक्ता सर्वा­का­ङ्क्षो­प­शा­न्ति­रि­त्यर्थः ।

श्रुता­द्वा­क्या­द­व­गतौ सत्या­म­व­शि­ष्य­मा­णा­र्था­भा­वे­ना­का­ङ्क्षा­भावं विवृणोति -
सति हीति ।

प्रत्य­क्षा­दि­वि­रो­धा­द­व­ग­ति­रे­वा­द्वै­त­म­व­गा­ह­माना नोत्पद्यते, कुतः सर्व­का­ङ्क्षा­नि­वृ­त्ति­रि­त्या­श­ङ्क्याह -
न चेति ।
अस्य पितु­र्व­च­ना­त्त­दा­त्म­त­तत्त्वं श्वेत­के­तु­र्वि­ज्ञा­त­वा­न्कि­लेति यावत् । आदिशब्दात् ‘आनन्दो ब्रह्मेति व्यजानात्’ इत्याद्या श्रुतिर्गृह्यते ।

किञ्चा­व­ग­ति­मु­द्दि­श्या­न्त­र­ङ्ग­ब­हि­र­ङ्ग­सा­ध­न­वि­धा­ना­दपि तदु­त्प­त्ति­रे­ष्ट­व्ये­त्याह -
अवगतीति ।

नन्व­व­ग­ति­रु­त्प­न्नापि नार्थवती, सिद्धेऽर्थे स्वरूपेण फला­भा­वा­न्मा­ना­न्त­र­वि­रो­धाद्वा भ्रान्ति­रे­वे­त्या­श­ङ्क्याह -
न चेयमिति ।

आनर्थक्याभावे हेतुमाह -
अविद्येति ।

भ्रान्ति­त्वा­भावे हेतुमाह -
बाधकेति ।
नहि प्रत्यक्षादि बाधकं, तस्य कल्पि­त­द्वै­त­वि­ष­य­त्वेन तात्त्वि­का­द्वै­त­प्र­मि­त्य­वि­रो­धि­त्वा­दि­त्यर्थः ।

ननु सर्वस्य कल्पितत्वे सत्या­स­त्य­व्य­व­हारो लौकिको वैदिकश्च न स्यादि­त्या­शङ्क्य स्वप्न­दृ­ष्टा­न्ते­नोक्तं स्मारयति -
प्राक्चेति ।

आगमादर्थवती सर्वा­का­ङ्क्षा­शा­न्ति­हे­तु­र्ब्र­ह्मा­त्म­प्र­ति­प­त्ति­र्भ­व­तीति स्थिते फलितमाह -
तस्मादिति ।

कल्प­ना­म­मृ­ष्य­माणः श्रौतमेव ब्रह्म­णोऽ­ने­का­त्म­क­त्व­मिति शङ्कते -
नन्विति ।

कथं यथो­क्त­दृ­ष्टा­न्ता­व­ष्ट­म्भा­त्प­रि­णामि ब्रह्म श्रौत­मि­त्या­शङ्क्य दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः साम्य­ध्रौ­व्या­दि­त्याह -
परिणामिनो हीति ।

दृष्टान्तगतं विवक्षितमंशं हित्वा माना­न्त­र­वि­रु­द्धोंऽशो दार्ष्टान्तिके नाभ्यु­पे­त­व्योऽ­ति­प्र­स­ङ्गात् । अस्ति च परिणामित्वे ब्रह्मणो माना­न्त­र­वि­रो­ध­स्तस्य कौट­स्थ्य­श्रु­ते­रिति परिहरति -
नेत्युच्यत इति ।

श्रुति­द्व­या­नु­रो­धा­त्कू­ट­स्थ­त्व­प­रि­णा­मित्वे स्याता­मि­त्या­शङ्क्य युगपत्क्रमेण वेति विकल्प्याद्यं विरोधेन निरस्यति -
नहीति ।

द्वितीयं शङ्कते -
स्थितीति ।

कूटस्थस्य ब्रह्मणो न परिणामितेति विशेषणान्न तस्य कदाचिदपि परिणामयोग्यता स्वरू­प­प्र­च्यु­ति­प्र­स­ङ्गा­दि­त्याह -
नेति ।

तदेव स्फुटयति -
नहीति ।
परिणामिनां हि बाणपाषाणादीनां क्रमेण स्थितिगती युक्ते, नतु परिणामायोग्यस्य क्रमेण परि­णा­म­त­द्रा­हित्ये ब्रह्मणः स्यातामित्यर्थः ।

ब्रह्मणि विरु­द्ध­ध­र्मा­स­म्भवे कूटस्थत्वं हित्वा परि­णा­मि­त्व­मे­वे­ष्य­ता­मि­त्या­श­ङ्क्याह -
कूटस्थं चेति ।

अन­व­य­वा­व­च्छि­न्न­कू­ट­स्थ­ब्र­ह्मणः स्वरू­पा­द­प्र­च्यु­त­स्व­भा­वस्य सर्व­प्र­का­र­त­द्वि­प­री­त­का­र्या­का­र­प­रि­णा­म­श्रु­त्य­नु­प­पत्त्या कार्यप्रपञ्चस्य स्वरू­पा­द­प्र­च्यु­त­शु­क्त्यादे रज­ता­दि­प­रि­णा­म­व­न्मि­थ्या­वि­व­र्तत्वं सिध्य­ती­त्यु­क्तम् । सम्प्रति परिणामश्रुतेः स्वार्थे फलाभावादपि परिणामो न विवक्षित इत्याह -
नचेति ।

यद्ब्र­ह्म­ज्ञा­नस्य फलं तदेव परि­णा­मि­ब्र­ह्म­ज्ञा­न­स्यापि शास्त्रमेव चात्र प्रमा­ण­मि­त्या­श­ङ्क्याह -
कूटस्थेति ।

तर्हि परि­णा­मि­श्रु­ती­ना­मा­न­र्थ­क्या­द­ध्य­य­न­वि­धि­वि­रोधः स्यादि­त्या­शङ्क्य फलवच्छेषतया साफ­ल्या­न्मै­व­मि­त्याह -
तत्रेति ।
सृष्ट्या­दि­श्रु­तीनां स्वार्थे फलवैकल्ये सतीति यावत् ।

तत्र मीमां­स­क­सं­म­त­मु­दा­ह­र­ण­माह -
फलवदिति ।
यथाहि स्वर्गादिफलवतो दर्श­पू­र्ण­मा­सादेः संनिधाने श्रुतं प्रयाजादि स्वतो विफलं तद­ङ्ग­मि­त्य­ङ्गी­क्रि­यते, तथा सृष्ट्या­दि­द­र्श­न­मपि ब्रह्म­ज्ञा­न­शे­ष­तया तत्फलेनैव फल­व­त्त्वा­त्त­द­ङ्ग­मि­त्यर्थः ।

ननु प्रयाजादेः श्रूयमाणफलेनैव फलवत्त्वसम्भवे फलवदङ्गत्वं किमि­त्य­ङ्गी­क­र्त­व्य­मि­त्या­शङ्क्य प्रधानफलेनैव फलवत्त्वसिद्धौ फलान्तरकल्पने गौरवादङ्गेषु च फल­श्रु­ते­र­र्थ­वा­द­त्वा­ङ्गी­का­रा­दि­त्याह -
नत्विति ।
इतिशब्दः सिद्धं भवतीत्यनेन सम्बध्यते ।

‘तं यथा यथोपासते तदेव भवति’ इति श्रुत्या परि­णा­मि­ब्र­ह्म­ज्ञा­ना­त्त­त्प्रा­प्ति­रेव फल­मि­त्या­श­ङ्क्याह -
नहीति ।
‘तस्य तावदेव’ इत्यादिना प्रतिपन्नं कैवल्यं विहाय सामा­न्य­शा­स्त्र­सि­द्ध­फ­ला­क­र्षणे वाक्यभेदः स्यादिति भावः ।

कूटस्थाद्वयत्वे ब्रह्मणः श्रुति­प्र­ति­ज्ञ­यो­र्वि­रोधः स्यादिति शङ्कते -
कूटस्थेति ।

विरोधद्वयं परिहरति -
नेत्यादिना ।
अविद्यात्मके नामरूपे एव बीजं तस्य व्याकरणं कार्य­प्र­प­ञ्च­स्त­द­पे­क्ष­त्वा­दै­श्व­र्यस्य प्रति­ज्ञा­सू­त्रस्य तद­नु­सा­रि­श्रु­ति­व­च­नस्य च पार­मा­र्थि­क­कू­ट­स्था­द्व­यत्वे न विरो­धोऽ­स्ती­त्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति -
तस्मादित्यादिना ।

उक्तमेवार्थं चोद्य­प­रि­हा­राभ्यां स्फोरयति -
कथमित्यादिना ।

नाम­रू­प­यो­रा­त्म­भू­तत्वे वस्तु­त्व­श­ङ्का­या­मि­वे­त्यु­क्त­मु­प­मा­र्थ­त्व­मि­व­का­रस्य वार­य­न्ना­भा­सा­र्थत्वं स्फुटयति -
अविद्येति ।

तयो­र­वि­द्या­क­ल्पि­तत्वं साधयति -
तत्त्वा­न्य­त्वा­भ्या­मिति ।
न हीश्वरत्वेन ते निरुच्येते, जडा­ज­ड­यो­र­भे­दा­यो­गात् । नापि ततोऽन्यत्वेन निरुक्तिमर्हतः, स्वातन्त्र्येण सत्ता­स्फू­र्त्य­स­म्भ­वात् । नहि जडमजडानपेक्षं सत्ता­स्फू­र्ति­म­दु­प­ल­क्ष्यते, जड­त्व­भ­ङ्ग­प्र­स­ङ्गात् । तस्मा­द­वि­द्या­त्मके नामरूपे इत्यर्थः ।

तयोश्च कार्य­लि­ङ्ग­क­म­नु­मानं प्रमाणयति -
संसारेति ।

तयोराश्रयं विषयं च दर्शयति -
सर्वज्ञस्येति ।

तयोरेव श्रुतिस्मृती प्रमाणयति -
मायेति ।
‘मायां तु प्रकृतिं विद्यात् , ‘ ‘देवा­त्म­श­क्तिम्’ इत्येवंविधा श्रुतिः । ‘प्रकृतिं पुरुषं चैव’ ‘मायाह्येषा’ इत्येवंप्रकारा च स्मृतिः ।

नामरूपे चेदी­श्व­रा­त्म­भूते तर्हि सोऽपि ताभ्या­म­भि­न्न­त्वा­त्त­द्व­देव जडः स्यादि­त्या­श­ङ्क्याह -
ताभ्यामिति ।

ईश्वरस्य नाम­रू­पा­भ्या­म­र्था­न्त­रत्वे प्रमाणमाह -
आकाश इति ।

यत्तु नाम­रू­प­बी­ज­व्या­क­र­णा­पे­क्ष­मै­श्व­र्य­मिति, तत्र तद्व्याकरणे प्रमाणमाह -
नामरूपे इति ।

जीवस्य व्याकर्तृत्वं व्यासेद्धुं वाक्या­न्त­र­मु­दा­ह­रति -
सर्वाणीति ।

नाम­रू­प­व्या­क­र­णस्य नाना­वि­ध­त्व­सि­द्ध्यर्थं श्रुत्यन्तरं पठति -
एकमिति ।
आदिशब्देन ‘सच्च त्यच्चाभवत्’ इत्याद्या श्रुतिर्गृह्यते । दर्शि­त­श्रु­तिभ्यो नाम­रू­प­व्या­क­र­ण­मी­श्व­रा­यत्तं सिद्धं तदपेक्षं चास्यै­श्व­र्य­मि­त्यर्थः ।

स्वाभा­वि­क­त्वा­दै­श्व­र्यस्य कुतो व्याक­र­णा­पे­क्षे­त्या­श­ङ्क्याह -
एवमिति ।
उक्त­श्रु­ति­स्मृ­त्य­नु­रो­धा­द­वि­द्या­कृते तदात्मके ये नामरूपे तद्रू­पा­न­व­च्छि­न्नो­पा­ध्य­भि­व्य­क्त­श्चि­दात्मा ताभ्यामेव नामरूपाभ्यां विरचितं विचित्रं प्रपञ्चं नियमयन्नीश्वरो नाम । ततो न स्वाभा­वि­क­मै­श्व­र्य­मि­त्यर्थः ।

ईश्व­र­स्यो­पा­ध्य­नु­रो­धित्वे दृष्टान्तमाह -
व्योमेति ।

अवि­द्या­कृ­त­ज­ग­दी­शि­तृ­त्वेऽपि जीवा­ना­म­त­त्कृ­त­त्वा­त्कु­त­स्ता­न्प्र­त्यै­श्व­र्य­मि­त्या­श­ङ्क्याह -
स चेति ।

स्वात्मभूतत्वे भेदाभावात्कुतो निय­म्ये­त्या­श­ङ्क्याह -
घटेति ।

ननु घट­व­दु­पा­धे­र­न­धि­गमे कथ­मौ­पा­धि­क­भे­दा­नु­रो­धेन निय­म्य­नि­य­न्तृत्वं कल्प्यते, तत्राह -
अविद्येति ।

ईश्व­र­स्ये­श्व­रत्वं काल्पनिकमिति स्पष्टयितुं विशिनष्टि -
व्यवहारेति ।

कल्पि­त­मी­श्व­र­त्व­मि­त्यु­प­पा­दितं निगमयति -
तदेवमिति ।

सर्व­ज्ञ­त्वा­दि­व­दी­श्व­र­त्वस्य वास्त­व­त्व­मा­श­ङ्क्याह -
सर्वज्ञत्वमिति ।
सर्वज्ञत्वं चावि­द्या­त्म­को­पा­धि­प­रि­च्छे­दा­पे­क्ष­मिति सम्बन्धः । पूर्वत्रोक्तेन प्रका­रे­णा­वि­द्या­त्मको योऽसा­वु­पा­धि­स्तेन कृतो यो जीवप्रपञ्चाख्यः परि­च्छे­द­स्त­द­पे­क्ष­मिति यावत् ।

अन्व­य­मु­खे­नो­क्त­मर्थं व्यतिरेकद्वारा निरूपयति -
नेत्यादिना ।

पर­मा­र्थ­त­श्चि­द्धा­तो­री­श्व­र­त्वा­नु­प­पत्तौ श्रुतिं प्रमाणयति -
तथाचेति ।

ननु पर­मा­र्था­व­स्थायां दर्श­ना­दि­व्य­व­हा­र­रा­हि­त्य­मि­हो­च्यते न पुन­री­शि­त्री­शि­त­व्या­दि­व्य­व­हा­रा­स­त्त्व­मि­त्या­शङ्क्य दर्श­ना­दि­व्य­व­हा­रा­भा­व­स्यो­प­ल­क्ष­ण­त्वा­दत्र सम­स्त­व्य­व­हा­र­रा­हित्यं विवक्षितमित्याह -
एवमिति ।
बहुवचनं ‘स एष नेति नेत्यात्मा’ ‘अदृ­श्येऽ­नात्म्ये’ ‘यत्त­द­द्रे­श्यम्’ ‘अस्थूलम्’ इत्या­दि­वा­क्य­स­ङ्ग्र­हा­र्थम् ।

श्रौतेऽर्थे भगवतोऽपि संमतिमाह -
तथेति ।
वेदान्तेष्विव भगवद्गीतास्वपि पर­मा­र्था­व­स्थायां व्यवहाराभावः प्रदर्श्यत इति सम्बन्धः ।

कथं तर्हि क्रिया­का­र­क­फ­ल­त­त्स­म्ब­न्ध­बुद्धिः, तत्राह -
स्वभावस्त्विति ।
अना­द्य­वि­द्या­व­शा­त्क्रि­या­का­र­का­दि­प्र­वृ­त्ति­रि­त्यर्थः ।

तथापि भक्ता­नि­त­रां­श्चा­नु­गृ­ह्ण­न्नि­गृ­ह्णंश्च तदी­य­सु­कृ­त­दु­ष्कृते परमेश्वरो वस्तुतो नाश­य­ती­त्या­श­ङ्क्याह -
नादत्त इति ।

सर्वेषां परमात्मैक्य कुतः सुकृ­त­दु­ष्कृ­त­यो­र्वि­भा­गेन प्रवृ­त्ति­रि­त्या­श­ङ्क्याह -
अज्ञानेनेति ।

ऐश्व­र्या­दे­र्व­स्तु­तोऽ­नु­प­प­त्ति­मुक्त्वा कल्पनयोपपत्तौ श्रुतिस्मृती क्रमेणोदाहरति -
व्यवहारेति ।
श्रुता­वि­वे­श्व­र­गाी­ता­स्वपि व्यव­हा­रा­व­स्था­या­मी­श्व­रा­दि­व्य­व­हार उक्त इति सम्बन्धः ।

पर­मा­र्था­व­स्थायां सर्व­व्य­व­हा­रा­भावे सूत्रकारस्यापि संमतिमाह -
सूत्रेति ।

‘तदनन्यत्वम्’ इत्यनेनायुक्तं कार्यमिथ्यात्वं कथ्यते, ‘स्याल्लोकवत्’ इति पूर्वसूत्रे तत्स­त्य­त्व­व­च­ना­दि­त्या­श­ङ्क्याह -
व्यवहारेति ।

‘आत्मकृतेः परिणामात् ‘ ‘क्षीरवद्धि’ इत्यादिना परि­णा­मो­क्ते­रे­ष्टव्यं कार्यप्रपञ्चस्य सत्य­त्व­मि­त्या­श­ङ्क्या­न्या­र्थ­त्वा­त्प­रि­णा­म­वा­दस्य न तद्विवक्षेत्याह -
परिणामेति ॥ १४ ॥

तद­न­न्य­त्व­मि­त्यस्य श्रुत्या­दि­वि­रोधः समाहितः । सम्प्रति तदनन्यत्वे मानमनुमानमाह -
भावे चेति ।
कारणभावे भाने च कार्यस्य भावाद्भानाच्च तस्य कार­णा­द­न­न्य­त्व­मि­त्यर्थः ।

विमतं कारणानतिरिक्तं, तद्भा­व­भा­न­नि­य­त­भा­व­भा­न­त्वात् , तत्स्व­रू­प­व­दि­त्य­नु­मानं सूत्रयोजनया दर्शयितुं चकारार्थमाह -
इतश्चेति ।

इतःशब्दार्थं स्फुटन्नवशिष्टं व्याचष्टे -
यत्कारणमिति ।

हेतु­मु­दा­ह­र­णा­रू­ढ­तया द्रढयति -
तद्यथेति ।

सत्यपि घटे पटो­प­ल­ब्धि­द­र्श­ना­त्का­र­ण­भावे कार्यो­प­ल­ब्धि­र्ना­भे­द­सा­ध­न­मि­त्या­श­ङ्क्याह -
नचेति ।

अन्यस्य भावेऽ­न्य­स्यो­प­ल­ब्धि­नि­य­ते­त्यत्र दृष्टान्तमाह -
नहीति ।

ननु गवा­श्व­यो­र­का­र्य­का­र­ण­त्वा­द­नि­य­तो­प­ल­म्भेऽपि कार्य­का­र­ण­यो­र­न­न्य­त्व­म­न्त­रे­णैव कार्य­का­र­ण­त्व­कृता निय­तो­प­ल­ब्धि­रि­त्या­श­ङ्क्याह -
नचेति ।

निय­मे­नो­प­ल­म्भेऽपि नानन्यत्वमिति व्यभिचारं शङ्कते -
नन्विति ।

धूम­मा­त्र­स्या­ग्निना निय­तो­प­ल­ब्धि­र्धू­म­वि­शे­षस्य वेति विकल्प्याद्यं प्रत्याह -
नेत्युच्यत इति ।

द्वितीयं शङ्कते -
अथेति ।
ईदृशत्वं बह­लो­र्ध्वा­ग्र­त्वा­दि­वि­शि­ष्ट­त्व­म­स­त्यग्नौ न भवति न भाति चेति द्रष्टव्यम् ।

धूम­वि­शे­ष­स्या­ग्निना निय­तो­प­ल­ब्धि­मु­पेत्य हेतुशिक्षया व्यभिचारं परिहरति -
नैवमिति ।
तद्भा­वा­नु­वि­धा­यि­भा­वत्वं तद्भा­ना­नु­वि­धा­यि­भा­नत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । घूमविशेषस्य चाग्नि­भा­वा­नु­वि­धा­यि­भा­व­त्वेऽपि न तद्भा­ना­नु­वि­धा­यि­भा­वत्वं तद्भा­ना­नु­वि­धा­यि­भा­नत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । धूमविशेषस्य चाग्नि­भा­वा­नु­वि­धा­यि­भा­व­त्वेऽपि न तद्भा­ना­नु­वि­धा­यि­भा­न­त्व­म­ग्नि­भा­नस्य धूम­भा­ना­धी­न­त्वात् । नच तद्भा­ना­नु­वि­धा­यि­भा­न­त्व­मे­वास्तु हेतुः, प्रभा­भा­ना­नु­वि­धा­यि­भाने चाक्षुषरूपे व्यभिचारात् । तस्मा­द्वि­शि­ष्ट­हे­त्व­व­ष्ट­म्भा­त्का­र्यस्य कार­णा­द­न­न्य­त्व­मु­चि­त­मिति भावः ।

एतदेव सूत्रं पाठान्तरेण व्याकु­र्व­न्का­र्यस्य कारणादनन्यत्वे मानान्तरमाह -
भावाच्चेति ।

प्रत्य­क्षो­प­ल­ब्धि­भेव प्रति­ज्ञो­दा­ह­र­णाभ्यां विवृणोति -
भवति हीति ।

तन्तु­व्य­ति­रे­के­णा­ता­न­वि­ता­नाभ्यां पटो भाती­त्या­श­ङ्क्याह -
केवलास्त्विति ।
बहुत्वेऽपि तन्तू­ना­मे­क­प्रा­व­र­णा­र्थ­क्रि­या­व­च्छे­दा­दे­क­श­ब्द­गो­च­रत्वं, बहूनामपि वर्णा­ना­मे­का­र्थ­बु­द्धि­हे­तु­त्व­व­दे­का­र्थ­क्रि­या­का­रित्वं च तेषा­म­वि­रु­द्ध­मिति भावः ।

तन्तु­व्य­ति­रि­क्त­प­टा­भा­व­व­दं­शु­व्य­ति­रि­क्त­त­न्त्व­भा­वोऽपि प्रत्यक्षः सिध्यतीत्याह -
तथेति ।

अंशवोऽपि स्वाव­य­व­व्य­ति­रे­केण न सन्तीति प्रत्य­क्ष­मि­त्याह -
अंशुष्विति ।

ननु प्रत्यक्षे कार्यकारणभावे कार्यं कारणमात्रमिति शक्यं प्रत्यक्षयितुं, यत्र त्वसौ प्रत्यक्षो न भवति तत्र कथमिति, तत्राह -
अनयेति ।
विमतं स्वोपा­दा­ना­व्य­ति­रिक्तं, कार्यत्वात् , पटवदित्यनुमानं मूलकारणपर्यन्तं धावतीत्यर्थः ।

प्रत्य­क्षा­नु­मा­नाभ्यां फलितमर्थमाह -
तत इति ।
ब्रह्मैव मूलकारणं पर­मा­र्थ­स­द­वा­न्त­र­क­र­णानि त्वनि­र्वा­च्य­नी­त्यर्थः ।

कार­ण­त्वा­वि­शे­षा­त्त­न्त्वा­दि­व­द्ब्र­ह्म­णोऽपि कार­णा­न्त­र­म­नु­मे­य­मि­त्या­श­ङ्क्याह -
तत्रेति ।
सर्व­ज­ग­द्भ्र­मा­धि­ष्ठा­न­तया तस्या­क­ल्पि­त­त्वा­न्ना­धि­ष्ठा­ना­न्त­रा­पे­क्षेति भावः ॥ १५ ॥

कार्यस्य कारणादनन्यत्वे श्रुता­र्था­पत्तिं प्रमाणान्तरमाह -
सत्त्वाच्चेति ।

श्रुता­र्था­प­त्ति­मेव स्फोरयितुं प्रथमं चश­ब्द­व्या­ख्या­न­पू­र्वकं श्रुतिमुदाहरति -
इतश्चेति ।

प्रागुत्पत्तेः सत्त्वं कारणस्यैवात्र श्रुतं न कार्य­स्ये­त्या­श­ङ्क्याह -
इदंशब्देति ।
यदिदानीं स्थूलकार्यं दृष्टं तस्य सृष्टेः प्राक्का­र­ण­सा­मा­ना­धि­क­र­ण्या­नु­प­पत्त्या तत्ता­दा­त्म्या­वा­ग­मान्न वस्तु­भे­दोऽ­स्ती­त्यर्थः ।

कार्य­का­र­ण­यो­र­न­न्यत्वे प्रमिते प्रमा­णा­नु­ग्रा­हिकां युक्तिमपि समुच्चिनोति -
यच्चेति ।

कार्यस्य प्रागवस्थायां कारणात्मना सत्त्वेऽपि निष्पन्नं ततो भिन्नं स्यादि­त्या­श­ङ्क्याह -
तस्मादिति ।
यथा सिक­ता­स्व­वि­द्य­मानं तैलं न ततो जायते, तथात्मनोऽपि जगन्न जायेत यद्यात्मरूपेण प्रागवस्थायां नासीत् । जायते च । तस्मा­दा­त्मा­त्मना प्रागासीदिति निश्च­य­सि­द्धि­रि­त्यर्थः ।

कार्य­का­र­ण­यो­र­न­न्यत्वे युक्त्यन्तरं वक्तुं भूमिकां करोति -
यथा चेति ।
यथा घटः सदा घट एव न जातु पटो भवत्येवं सदपि कारणं सदा सदेव न कदाचिदसदिष्टं, तथा कार्यमपि सच्चेन्न कदा­चि­द­स­द्भ­वि­तु­म­र्ह­ती­त्यर्थः ।

कार्य­का­र­ण­यो­र्भे­दे­नापि सत्त्व­स­म्भ­वा­द­न­न्यत्वं कथ­मि­त्या­श­ङ्क्याह -
एकं चेति ।
सतोऽसतो वा सद्भे­द­क­त्वा­भा­वा­त्त­दे­क­ते­त्यर्थः ।

अभि­न्न­स­त्त्वा­भि­न्न­त्वा­न्मि­थोऽपि कार्यकारणेन न भिद्येते सत्त्ववदिति फलितमाह -
अतोऽपीति ॥ १६ ॥

प्रागुत्पत्तेः सत्त्वं कारणात्मना कार्य­स्ये­त्यु­क्त­मा­क्षिप्य समाधत्ते -
असदिति ।

तत्र चोद्यं विभजते -
निन्वित्यादिना ।

परि­हा­र­भा­ग­म­व­ता­र­यति -
नेतीति ।

नञर्थमाह -
नहीति ।

तर्हि केना­भि­प्रा­ये­णा­य­म­स­द्व्य­प­देश इत्याशङ्क्य धर्मान्तरेणेति व्याचष्टे -
किं तर्हीति ।

तत्र प्रश्नपूर्वकं गमकं कथयति -
कथमिति ।

सूत्रावयवं व्याख्याति -
यदिति ।
‘ अक्ताः शर्करा उपदधाति’ इत्यत्र केनेति तैलघृतादौ सन्देहे ‘तेजो वै घृतम्’ इति वाक्य­शे­षा­द्धृ­ते­नेति निश्चि­त­मि­त्यर्थः ।

सामान्यन्यायं प्रकृते दर्शयति -
इह चेति ।
‘असदेवेदम्’ इत्या­दा­व­स­च्छ­ब्देन तुच्छमुच्यते किंवा सदे­वा­न­भि­व्य­क्त­ना­म­रू­प­मिति सन्देहे ‘तत्सदासीत्’ इति वाक्य­शे­षा­त्तु­च्छ­व्या­वृत्तं सदे­वा­न­भि­व्य­क्त­ना­म­रू­प­म­स­च्छ­ब्दि­त­मिति निश्चीयते, तस्य तच्छब्देन परामृष्टस्य सच्छब्देन निर्दे­शा­दि­त्यर्थः ।

इतश्चात्र तुच्छ­म­स­च्छ­ब्द­वाच्यं न भवतीत्याह -
असतश्चेति ।

‘असद्वा इदम्’ इत्यत्र ‘तत्सदासीत्’ इति वाक्य­शे­षा­भा­वा­त्कुतो निश्च­य­सि­द्धि­रि­त्या­श­ङ्क्याह -
असद्वेति ।

वाक्यशेषस्य सत्का­र्य­वि­ष­यत्वे फलितमाह -
तस्मादिति ।

वृद्ध­व्य­व­हा­रा­भावे कथमसच्छब्दस्य सति प्रयोग इत्या­श­ङ्क्यो­प­चा­रा­दि­त्याह -
नामेति ॥ १७ ॥

ननु कार्य­स्या­स­तोऽ­र्था­न्त­रत्वे सत्त्वमास्थेयं, पर­स्प­र­वि­रो­धि­नो­र्वि­धा­न्त­रा­भा­वात् । तथाच कार्य­स्या­नि­र्वा­च्य­त्वा­भ्यु­प­ग­म­भ­ङ्ग­प्र­स­ङ्गा­द­प­सि­द्धान्तः स्यादि­त्या­शङ्क्य कार­ण­स्यै­वा­प्रा­कृ­त­का­र­ण­त्वस्य सत्त्वं, कार्यस्य पुन­र­नि­र्वा­च्य­त्व­मे­वेति प्रतिपादयितुं प्रक्रमते -
युक्तेरिति ।

हेतुद्वयं प्रतिज्ञाद्वयेन योजयति -
युक्तेश्चेति ।

कासौ युक्ति­रि­त्य­पे­क्षायां युक्तिं प्रक­ट­य­न्न­स­दु­त्पत्तिं तावत्प्रत्याह -
युक्तिरिति ।

प्रतिनियममेव प्रकटयति -
नेत्यादिना ।

कार्यार्थिनां प्रति­नि­य­त­का­र­णो­पा­दा­ना­नु­प­पत्त्या कार्यस्य तत्र सत्त्वं सिद्ध­य­ती­त्य­र्था­प­त्ति­माह -
तदिति ।

नन्व­पे­क्ष्य­मा­ण­घ­टा­दि­ज­न­क­त्वा­न्मृ­दा­दि­रे­वो­पा­दानं न तु मृदादौ घटादेः सत्त्वा­दि­त्य­न्य­थो­प­प­त्ति­र­र्था­प­त्ते­रिति, तत्राह -
अविशिष्टे हीति ।
निया­म­का­भा­वा­द­स­ज्ज­न­ना­स­म्भ­वा­न्ना­न्य­थो­प­प­त्ति­रि­त्यर्थः ।

निया­म­क­म­ति­श­य­मा­श­ङ्कते -
अथेति ।

अतिशयो हि कार्यस्य कारणस्य वेति विकल्प्याद्ये धर्मस्य धर्मि­प­र­त­न्त्र­त्वा­द­प­सि­द्धा­न्ता­प­त्ति­रि­त्याह -
अत इति ।
सार्व­वि­भ­क्ति­क­त्वा­त्तसिः सप्तम्यर्थे शङ्कितपक्षवाची । प्रागवस्था दध्या­दि­का­र्या­वस्था ।

द्वितीयं दूषयति -
शक्तिश्चेति ।

कारणस्य हि धर्मः । शक्ति­र­ति­श­य­श­ब्दिता निया­म­क­त्वे­नेष्टा कार्य­का­र­णा­भ्या­मन्या कार्यात्मना चासती कार्यं न नियच्छेदिति । अत्र हेतुमाह -
असत्त्वेति ।
कार्यात्मना शक्तेरसत्त्वे तथै­वा­नि­या­म­क­त्व­म­स­त्त्व­स्यो­भ­यत्र तुल्यत्वात् । द्वाभ्या­म­न्यत्वे च तस्या न नियामकत्वं, तयोरिवान्योन्यं शक्ते­स्ता­भ्या­म­न्य­त्व­स्ये­ष्ट­त्वा­दि­त्यर्थः ।

शक्ते­र­स­त्त्वेऽ­न्यत्वे च निया­म­क­त्वा­स­म्भवे फलितमाह -
तस्मादिति ।
तथा­चा­प­सि­द्धा­न्त­ता­द­व­स्थ्य­मिति शेषः ।

असत्कार्यवादे दोषान्तरमाह -
अपिचेति ।

भेदबुद्ध्यभावे समवायो निमित्तं न तु तादा­त्म्य­मि­त्या­शङ्क्य समवायस्तर्हि परतन्त्रः स्वतन्त्रो वेति विकल्प्याद्ये सम्बन्धद्वारा स्वभावाद्वा पारतन्त्र्यमिति पुन­र्वि­क­ल्प्याद्यं प्रत्याह -
समवायेति ।

समवायस्य स्वात­न्त्र्य­पक्षं दूषयति -
अनभ्युगम्यमाने चेति ।
समवायस्य समवायिभिः सम्बन्धो नेष्यते किन्तु स्वात­न्त्र्य­मे­वे­त्य­त्रा­व­य­वा­व­य­वि­नो­र्द्र­व्य­गु­णा­दीनां च विप्रकर्षः स्यात्सं­नि­धा­प­का­भा­वा­दि­त्यर्थः ।

स्वभावादेव समवायस्य पारतन्त्र्यमिति पक्षमुत्थापयति -
अथेति ।

स्वप­र­नि­र्वा­ह­कत्वं संयोगस्यापि स्यादविशेषादिति परिहरति -
संयोगोऽपीति ।
तर्कपादे चैत­द्व्य­क्ती­भ­वि­ष्यति ।

द्रव्यगुणादिषु सम­वा­य­क­ल्प­ना­म­ङ्गी­कृत्य दोषमुक्त्वा तत्क­ल्प­नै­वा­यु­क्ते­त्याह -
तादात्म्येति ।
सिद्धे हि भेदे द्रव्यगुणादीनां समवायसिद्धिः समवायसिद्धौ च भेद­सि­द्धि­रि­त्य­त्रा­न्यो­न्या­श्र­यता । नहि सामानाधिकरण्येन तादात्म्ये तेषां भाति स्वारसिको भेदः सिध्यतीति भावः ।

अस­त्का­र्य­वा­द­नि­रा­सेन कार्यस्य कारणे कल्पि­त­त्व­मु­क्तम् । इदानीं कार्यस्य कारणे वृत्त्य­नु­प­प­त्तेश्च कल्पि­त­त्व­मि­त्याह -
कथं चेति ।

कथंशब्दसूचितं विकल्पद्वयं विशदयति -
किमिति ।

तत्रा­द्य­म­नू­द्या­व­य­विनः स्वरूपेण वावयवेषु वृत्तिरवयवशो वेति विकल्प्याद्ये दोषमाह -
यदीत्यादिना ।

तत्र हेतुमाह -
समस्तेति ।
मध्य­प­र­भा­ग­यो­र­र्वा­ग्भा­ग­व्य­व­हि­त­त्वा­दि­त्यर्थः ।

सर्वा­व­य­व­व्या­प्ता­वपि कति­प­या­व­य­व­सं­नि­क­र्षा­द­व­य­विनो दृष्टि­रि­ष्टे­त्या­श­ङ्क्याह -
नहीति ।

कल्पा­न्त­र­मु­त्था­प­यति -
अथेति ।
तथाच यथावयवैः सूत्रं कुसुमानि व्याप्नु­व­त्क­ति­प­य­कु­सु­म­ग्र­ह­णेऽपि गृह्यते तथा कति­प­या­व­य­व­ग्र­ह­णेऽपि भवत्यवयविनो ग्रहणमित्यर्थः ।

तत्र किमा­र­म्भ­का­व­य­वै­रेव तेष्ववयवी वर्तते किंवा तद­ति­रि­क्ता­व­य­वै­रिति विकल्प्याद्यं प्रत्याह -
तदापीति ।

यत्र यद्वर्तते तत्त­द­रि­क्ता­व­य­वै­रेव तत्र वर्तमानं दृष्टमिति दृष्टान्तगर्भं हेतुमाचष्टे -
कोशेति ।

द्वितीयं दूषयति -
अनवस्थेति ।
कल्पि­ता­न­न्ता­व­य­व­व्य­व­हि­त­तया प्रकृतावयविनो दूर­वि­प्र­क­र्षा­त्त­न्तु­नि­ष्ठत्वं पटस्य न स्यादिति भावः ।

कल्पा­न्त­र­म­नु­व­दति -
अथेति ।

तत्रापि क्रमेण वा प्रत्यवयवं वर्तेताक्रमेण वेति विकल्प्याद्ये दोषमाह -
तदेति ।

तदेव दृष्टा­न्ते­नो­प­पा­द­यति -
नहीति

द्वितीयं निराचष्टे -
युगपदिति ।

यथा प्रतिव्यक्ति साकल्येन युगपद्वर्तमानं सामान्यं न भिद्यते तथावयविनोऽपि वस्तुतो न भेदोऽस्तीति शङ्कते -
गोत्वादिवदिति ।

वैषम्यं दर्शयन्दूषयति -
न तथेति ।

तदेव स्पष्टयति -
यदीति ।

प्रत्ये­क­म­व­य­वे­ष्व­व­य­विनः परिसमाप्तिपक्षे दोषान्तरमाह -
प्रत्येकेति ।

यद्धि गोत्वस्य शाबलेये कार्यं न तद्बा­हु­लेे­येऽस्ति तथेहापि स्यादि­त्या­श­ङ्क्याह -
कार्येणेति ।
न हि गोत्वस्य कार्यान्वयः किन्तु व्यक्तेरेव । प्रकृते त्ववयवानां तद­न­न्व­या­द­व­य­वि­न­स्त­द्भा­वा­त्तस्य सर्व­त्रै­क्या­द­र्थ­क्रि­या­व्य­व­स्था­नु­प­पत्तिः । न च तत्त­द­व­य­व­नि­ष्ठ­स्यै­वा­व­य­वि­न­स्त­त्का­र्य­म­व­य­वानां कार्यानन्वये सत्यु­क्त­नि­य­मा­यो­गा­त्प्र­तीत्या तन्नियमे युक्त्य­भि­मा­नि­त्व­व्या­घा­ता­दिति भावः ।

वृत्ति­वि­क­ल्पा­नु­प­पत्त्या कार्यस्य कारणे कल्पितत्वं प्रसा­ध्या­स­त्का­र्य­वादे दोषान्तरमाह -
प्रागिति ।

भव­त्व­क­र्तृ­क­त्व­मि­त्या­श­ङ्क्या­श्र­य­रू­प­का­र­णा­भा­वा­दु­त्प­त्ति­क्रि­याख्यं कार्यमनुत्पन्नं निरात्मकं स्यादित्याह -
निरात्मिकेति ।

इत­श्चो­त्प­त्ते­र­क­र्तृ­क­त्व­म­यु­क्त­मि­त्य­नु­मा­नेन दर्शयति -
उत्पत्तिश्चेति ।

क्रियात्वेऽपि सकर्तृकत्वाभावे किं बाध­क­मि­त्या­श­ङ्क्याह -
क्रिया चेति ।

अस्तु तर्हि कार­णा­श्र­यो­त्प­त्ति­स्त­थाच सिद्ध­सा­ध्य­ते­त्या­श­ङ्क्याह -
घटस्येति ।

घटो­त्प­त्ता­वु­क्त­न्यायं कपा­लो­त्प­त्ता­व­ति­दि­शति -
तथेति ।

इष्टा­प­त्ति­मा­शङ्क्य निराचष्टे -
तथाचेति ।
उत्पादना हि कारकव्यापारो नोत्पत्तिः । नच तयोरैक्यं, प्रयो­ज्य­प्र­यो­ज­क­व्या­पा­र­तया भिन्नत्वात् । अन्यथा घट­मु­त्पा­द­य­ती­ति­व­द्ध­ट­मु­त्प­द्यत इति स्यादिति भावः ।

ननु घटो जायत इत्यत्र घटशब्दो घटजननोन्मुखेषु कारकेषु तादा­त्म्य­नि­मि­त्तो­प­चा­रा­त्प्र­यु­ज्यते, तथाच घटो­त्प­त्त्युक्तौ कुला­ला­दि­का­र­को­त्प­त्त्यु­क्ति­र­वि­रु­द्धेति, तत्राह -
नचेति ।

सिद्ध­सा­ध्य­त्वा­भा­वेऽपि क्रिया­त्व­हे­तो­र­सि­द्धि­रिति शङ्कते -
अथेति ।
स्वका­र­ण­स­त्ता­स­म्बन्धः । स्वकारणसमवायः सत्तासमवायो वेति यावत् ।

कार्यस्य क्रिया­रू­पो­त्प­त्त्य­न­भ्यु­प­गमे कथमात्मलाभः स्यादि­त्या­श­ङ्क्याह -
आत्मलाभश्चेति ।

क्रिया­त्वा­भा­व­म­ङ्गी­कृ­त्यो­त्पत्तेः साश्रयत्वं साधयति -
कथमिति ।

आक्षेपमेव विवृणोति -
सतोर्हीति ।
असतोर्वेति दृष्टान्तोक्तिः । उत्पत्तिः साश्रया, सम्बन्धत्वात् , संयो­ग­व­दि­त्य­क्रि­या­त्वेऽपि शक्यं साश्रयत्वं प्रति­पा­द­यि­तु­मिति भावः ।

कार्यस्यासतोऽपि तदा­श्र­य­त्वो­प­पत्तेः सिद्ध­सा­ध्य­ते­त्या­शङ्क्य निरुपाख्यत्वं तद्विलक्षणत्वं वा कार्यस्य विवक्षितमिति विकल्प्याद्ये मर्या­दा­क­र­णा­नु­प­प­त्ति­रि­त्याह -
अभावस्येति ।
कार्य­श­ब्दि­त­स्येति शेषः ।

अनुपपत्तिमेव स्फोरयति -
सतां हीति ।

अभावस्य मर्यादा न दृष्टेत्यत्र दृष्टान्तमाह -
नहीति ।

कार्यस्य कार­क­व्या­पा­र­सा­ध्य­तया निरु­पा­ख्य­वै­ल­क्ष­ण्यान्न वन्ध्या­पु­त्र­तु­ल्य­तेति द्विती­य­मा­श­ङ्क्याह -
यदि चेति ।

घटप्रागभावस्य घटेन प्रति­यो­गि­नो­पा­ख्ये­य­तया कार­क­व्या­पा­र­सा­ध्यत्वं युक्तं, वन्ध्यापुत्रस्य तु नैव­मि­त्या­श­ङ्क्याह -
वयं त्विति ।
विमतं न कारकव्यापारवत् , असत्त्वात् , संमतवदिति भावः ।

कार्य­स्या­सत्त्वं निरस्यता सत्त्वमेव साधितमिति मन्वानश्चोदयति –
नन्विति ।
कारकव्यापारो हि सत्कार्यवादे कार्य­स्व­रू­प­सि­द्धये वा ।

नाद्य इत्याह -
यथेति ।

द्वितीयं प्रत्याह -
तद­न­न्य­त्वा­च्चेति ।
कार्यस्य कार­णे­ना­भि­न्न­त्वस्य सत्कार्यवादे सदा भावान्न तादर्थ्येनापि कार­क­व्या­पा­रोऽ­र्थ­वा­नि­त्यर्थः ।

मा तर्हि कारकव्यापारो भूदि­त्या­श­ङ्क्याह -
व्याप्रियते चेति ।

परमते कार­क­व्या­पा­र­स्या­न­र्थ­क्या­त्त­द­र्थ­व­त्त्वा­नु­प­प­त्ति­र­सत्त्वं कार्यस्य प्राक्काले साधयतीति फलितमाह -
अत इति ।

मायाविनो व्याघ्रा­द्या­का­र­ता­पत्तौ मन्त्रा­द्य­पे­क्षा­व­त्का­र­ण­स्यापि कार्याकारापत्तौ कार­क­व्या­पा­रा­पे­क्षा­स्तीति समाधत्ते -
नैष दोष इति ।

ननु प्रागपि कार्याकारोऽस्ति न वा । प्रथमे कार­क­व्या­पा­र­वै­य­र्थ्यम् । चरमे त्वसदुत्पत्तिः । तत्राह -
कार्याकारोऽपीति ।
रज्जुरिव भुजङ्गस्य कारणमेव कार्यस्य तत्त्व­म­तोऽ­नि­र्वाच्यं कार्यरूपं भिन्नमिव चाभिन्नमिव च भाति । असत्कार्यवादस्य प्रागु­क्त­न्या­य­प्र­त्यु­द­स्त­त्वा­दि­त्यर्थः ।

विवर्तवादेन परिहारमुक्त्वा परिणामवादेनापि परिहरति -
नचेति ।
वस्त्वन्यत्वं परमार्थतो भिन्नत्वमिति यावत् ।

तदेव दृष्टान्तेन स्पष्टयति -
नहीति ।

देवदत्ते विशे­ष­दृ­ष्टि­मा­त्रेण वस्तु­तोऽ­न्य­त्वा­भावे हेतुमाह -
स एवेति ।

उक्ता­र्थ­मु­दा­ह­र­णा­न्त­रेण द्रढयति -
तथेति ।

दृष्टान्ते जन्मो­च्छे­द­व्य­व­धा­ना­भा­वान्न वस्त्व­न्य­त्व­मिति युक्तं, दार्ष्टान्तिके तु वस्त्वन्यत्वमेव जन्मो­च्छे­द­रू­प­वि­रु­द्ध­ध­र्मा­ध्या­सा­दिति शङ्कते -
जन्मेति ।

हेत्वसिद्ध्या परिहरति -
नेत्यादिना ।
क्षीरस्य मृदः सुवर्णादीनां च दधि­घ­ट­रु­च­का­दि­भा­व­स्या­ध्य­क्ष­त्वा­त्सं­स्था­न­ना­शेऽपि तदन्वयिन एवो­पा­दा­न­त्वा­द्धे­त्व­सि­द्धि­रि­त्यर्थः ।

यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्र वट­बी­जा­दी­ना­म­ङ्कु­रा­दा­व­न्वयो न दृश्यते जन्म­वि­ना­श­व्य­व­धा­ना­त्तत्र वस्त्व­न्य­त्व­मि­त्या­श­ङ्क्याह -
अदृ­श्य­मा­ना­ना­मिति ।
तत्रा­प्य­न्व­यि­ना­म­व­य­वानां न स्त एव जन्मविनाशौ किं त्वव­य­वो­प­च­या­प­च­य­नि­मि­त्त­स्त­द्व्य­व­हार इति नास्ति वस्त्व­न्य­त्व­मि­त्यर्थः ।

यथो­क्त­ज­न्म­वि­ना­शो­प­ग­मे­नापि वस्त्व­न्य­त्व­म­नु­मे­य­मि­त्या­श­ङ्क्या­नै­का­न्ति­क­त्व­माह -
तत्रेति ।
बीजा­ङ्कु­रा­दा­विति यावत् ।

व्यभि­चा­रा­न्त­र­माह -
तथेति ।

अतिप्रसङ्गाच्च भेदा­नु­मा­न­म­यु­क्त­मि­त्याह -
पित्रादीति ।

अन्वयिकारणस्य प्रत्य­भि­ज्ञा­य­मा­न­तया नित्यत्वसाधनेन क्षणभङ्गवादोऽपि प्रत्युक्तो वेदितव्य इति प्रस­ङ्गा­द­ति­दि­शति -
एतेनेति ।

स्वपक्षे दोषं परिहृत्य परपक्षे तं प्रसञ्जयति -
यस्येति ।

तन्मते कारकव्यापारस्य कार्यप्रागभावो वा तत्समवायिकारणं वा विषयः । नाद्य इत्याह -
अभावस्येति ।

द्वितीयं शङ्कते -
समवायीति ।

कार्यं सम­वा­यि­का­र­णा­द्भि­न्न­म­भिन्नं वेति विकल्प्याद्यं निरस्यति -
नेत्यादिना ।

द्वितीयं शङ्कित्वा दूषयति -
समवायीति ।

अस­त्का­र्य­वा­द­नि­र­स­न­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ।
कार्यस्य कारणादभेदे कारकव्यापारस्य सविषयत्वं नान्यथेति तच्छब्दार्थः ।

कथं तर्हि प्रतिकार्यं क्षीरा­दि­का­र­ण­भे­दा­त्का­र­णत्वं ब्रह्मणः सिध्य­ती­त्या­श­ङ्क्याह -
तथेति ।
कार­णा­न्ना­न्य­त्का­र्य­मिति स्थिते सतीत्यर्थः । विवर्तवादं व्यक्तीकर्तुं नट­व­दि­त्यु­दा­ह­र­णम् ।

युक्तेरिति सूत्रा­व­य­व­व्या­ख्या­न­मु­प­सं­ह­रति -
एवमिति ।

सूत्रा­व­य­वा­न्त­र­मु­पा­दत्ते -
शब्दा­न्त­रा­च्चेति ।

युक्तेरिव शब्दादपि कार्यस्य सत्त्वमनन्यत्वं च सिध्यतीति वक्तव्ये कथ­म­न्त­र­प­द­म­न्त­राले प्रयुज्यते, तत्राह -
पूर्वसूत्र इति ।

प्रकारान्तरेण शब्दान्तरं विभजते -
तद्धैक इति ।

कारणस्येत्थं सत्त्वेऽपि कथं कार्यस्य सत्त्व­सि­द्धि­रि­त्या­श­ङ्क्याह -
तत्रेति ।
उक्ता श्रुतिः सप्तम्यर्थः ।

प्रति­ज्ञा­नु­प­प­त्तेश्च न सत्का­र्य­वा­दा­नु­प­प­त्ति­रिति चका­र­सू­चि­ता­मु­प­प­त्ति­माह -
यदि त्विति ।

कथं तर्हि प्रति­ज्ञो­प­प­द्यते, तत्राह -
सत्त्वेति ॥ १८ ॥

कार्य­मु­पा­दा­ना­द्भिन्नं, तदु­प­ल­ब्धा­व­प्य­नु­प­ल­भ्य­त्वात् , ततोऽ­धि­क­प­रि­मा­ण­त्वाच्च, संम­त­व­दि­त्य­नु­मा­न­यो­र्व्य­भि­चा­र­माह -
पटवच्चेति ।

सूत्रं व्याचष्टे -
यथा चेति ।

व्याख्या­ना­न्त­र­माह -
यथा चेत्यादिना ।

दृष्टा­न्त­नि­वि­ष्ट­मर्थं दार्ष्टान्तिके योजयति -
एवमिति ।

तथापि किमायातं जग­द्ब्र­ह्म­णो­रि­त्या­श­ङ्क्याह -
अत इति ।
प्रागुक्तहेतोः सव्यभिचारत्वेन दुष्टत्वादिति यावत् ॥ १९ ॥

कार्य­मु­पा­दा­ना­द्भिन्नं, भिन्न­का­र्य­क­र­त्वात् , संम­त­व­दि­त्या­शङ्क्य व्यभिचारमाह -
यथा चेति ।

सूत्रं विभजते -
यथा चेत्यादिना ।

तेषामात्यन्तिकं निरोधं व्यासेधति -
कारणमात्रेति ।

पुनः­प्र­वृ­त्तानां प्राणभेदानां भिन्न­त्व­मे­वे­त्या­श­ङ्क्याह -
नचेति ।

दृष्टा­न्तो­क्त­मर्थं दार्ष्टान्तिके दर्शयति -
एवमिति ।

अधि­क­र­णा­र्थ­मु­प­सं­ह­रति -
अतश्चेति ॥ २० ॥

एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­सि­द्धये कार्यस्य कारणादनन्यत्वं वदता तेनैव न्यायेन जीवस्यापि ततोऽ­न­न्य­त्व­मुक्तं, तर्हि जीवधर्मा हिताकरणादयो ब्रह्मणि प्रसज्येरन्निति शङ्कते -
इतरव्यपदेशादिति ।

जीवाभिन्नं ब्रह्म जगदुपादानं वदन्समन्वयो विषयः । स किं यदि तादृग्ब्रह्म जगज्जनयेत्तर्हि स्वानिष्टं न जनयेदिति न्यायेन विरुध्यते न वेति तद­ना­भा­स­त्वा­भा­स­त्वाभ्यां सन्देहे पूर्व­प­क्ष­सू­त्र­ता­त्प­र्य­माह -
अन्यथेति ।

समन्वयस्य न्याय­वि­रो­ध­स­मा­धा­ना­त्पा­दा­दि­स­ङ्ग­ती­र­भि­प्रेत्य फलं च पूर्व­व­त्पू­र्वो­त्त­र­प­क्ष­यो­र्वि­व­क्षि­त्वा­क्षेपं विवृ­ण्व­न्प्र­ति­ज्ञा­भागं विभजते -
चेतनाद्धीति ।

यस्य ब्रह्मणः स्रष्टृत्वं न तस्य हितादिसम्बन्धः, यस्य च जीवस्य हितादिसम्बन्धो न तस्य स्रष्टृ­त्व­मि­त्या­क्षि­पति -
कुत इति ।

सूत्रावयवेन परिहरति -
इतरेति ।

इतरशब्दो जीवविषय इति व्याख्याय परमात्मविषय इति व्याख्यान्तरमाह -
इतरस्य चेति ।

परि­णा­मि­ब्र­ह्म­णोऽ­नु­प्र­वे­श­पक्षं प्रतिक्षिपति -
अविकृतस्येति ।

ब्रह्मकर्तृको व्यपदेश इतरव्यपदेश इति व्याख्या­ना­न्त­र­माह -
अनेनेति ।

जीव­ब्र­ह्म­णो­र­भेदे श्रुतिसिद्धे फलितमाह -
तस्मादिति ।

भृत्यो राजादिना नियुक्तः स्वयमेव स्वस्यानर्थं कुर्वन्दृश्यते ततो विशिनष्टि -
स्वतन्त्र इति ।
स्वत­न्त्र­स्या­प्य­ज्ञस्य स्वान­र्थ­का­रित्वं सम्भवति । ब्रह्मणस्तु सर्वज्ञस्य नैवमिति भावः ।

हितमेव विभजते -
आत्मन इति ।

अहितं विशिनष्टि -
जन्मेति ।

जीव­स्यो­पा­ध्य­वि­वे­का­त्प­र­मा­त्मा­भे­द­म­प­श्यतो युक्त­म­न­र्थ­का­रि­त्व­मि­त्या­शङ्क्य तस्य पर­मा­त्म­ता­न­नु­भ­वेऽपि परमात्मा जीव­मा­त्मा­भि­न्न­म­नु­भ­वन्न तं बध्नीयादित्याह -
नहीति ।

मिथ्या­ज्ञा­न­मुक्त्वा तात्त्वि­कोऽ­नु­प्र­वे­शोऽपि नास्ती­त्या­श­ङ्क्या­ता­त्त्वि­कोऽपि न स्यादित्याह -
नचेति ।

लीलया परस्यात्मनो जग­त्क­र्तृ­त्व­मि­त्या­श­ङ्क्याह -
कृतमपीति ।

स्मर्तृत्वमपि प्रसज्येत सर्व­ज्ञ­त्वा­दि­त्याह -
स्मरेच्चेति ।

अनुभूते स्मृति­नि­य­मा­भा­वा­न्मै­व­मि­त्या­शङ्क्य स्पष्टत्वेन स्मृति­यो­ग्य­मे­त­द­ति­त्याह -
सर्वो हीति ।
न चेश्व­र­स्या­स्त्येव स्मर्तृत्वं जीवेऽपि तदभिन्ने तत्प्रसङ्गादिति भावः ।

जगतो माया­म­य­त्वा­दु­क्त­दो­षा­न­व­का­शा­त्त­त्प­रि­हा­रा­र्थ­म­धि­क­र­ण­म­ना­र­भ्य­मि­त्या­श­ङ्क्याह -
यथा चेति ।

शारीरस्यापि क्वचि­दु­प­सं­ह­र्तृत्वं दृष्ट­मि­त्य­नि­ष्टा­प­त्ति­रा­हि­त्य­मा­श­ङ्‌क्याह -
स्वमपीति ।

बुद्धिपूर्वकारी हितमेवात्मनः सृजतीति न्याय­वि­रो­धा­ज्जी­वा­भि­न्ना­द्ब्र­ह्मणो विश्व­सृ­ष्टि­वा­दिनः सम­न्व­य­स्या­सि­द्धि­रि­त्यु­प­सं­ह­रति -
एवमिति ।
ब्रह्मानिष्टस्य कार्यप्रपञ्चस्य न कारणं, चेतनत्वे सति स्वतन्त्रत्वात् , विव­क्षि­त­पु­रु­ष­व­दिति भावः ॥ २१ ॥

सिद्धा­न्त­सू­त्र­म­व­ता­र­यति -
अधिकं त्विति ।

तद्व्याचष्टे -
तुशब्द इति ।

यदुक्तं हिताकरणादयो दोषा ब्रह्मणि प्रादुः­ष्यु­रिति, तत्राह -
यत्सर्वज्ञमिति ।

तत्र हेतुमाह -
नहीति ।
नित्य­मु­क्त­स्यापि ब्रह्मणो माया­श­क्ति­यो­गा­द्वि­श्व­नि­र्मा­तृ­त्व­म­वि­रु­द्ध­मिति भावः ।

यत्तु कर्तृत्वेन स्मर्तृत्वेन च भवितव्यं स्वयमेव चोप­सं­ह­र्त­व्य­मिति, तत्राह -
नचेति ।

क्वचिदपि ज्ञानप्रतिबन्धो नेत्यत्र हेतुमाह -
सर्व­ज्ञा­त्वा­दिति ।

क्वचिदपि शक्तिप्रतिबन्धो नास्तीत्यत्रापि हेतुमाह -
सर्व­श­क्ति­त्वा­च्चेति ।

तर्हि क्वचिदपि ज्ञान­प्र­ति­ब­न्धा­द्य­भा­वा­द­स्म­दा­दि­ष्वपि स्मर­णा­दि­प्र­स­क्ति­रि­त्या­श­ङ्क्याह -
शारीरस्त्विति ।

तद­भे­दा­त्प­र­स्मि­न्नपि स्रष्टरि तेषां प्रस­क्ति­मा­श­ङ्क्यो­क्तम् -
न त्विति ।

सत्यभेदे दर्शि­त­व्य­व­स्था­नु­प­प­त्ति­रिति शङ्कते -
कुत इति ।

सूत्रावयवं हेतुमवतार्थ व्याचष्टे -
भेदनिर्देशादिति ।
कर्तृ­क­र्मा­दी­त्या­दि­शब्दो व्यक्तिभेदविषयः । सर्वस्यापि जीव­ब्र­ह्म­णो­र्भे­द­नि­र्दे­शस्य कर्तृ­क­र्मा­न्त­र्भा­वात् ।

इदानीं पूर्ववादी पूर्वोक्तं स्मार­य­न्भे­द­नि­र्दे­श­स्या­सा­ध­क­त्व­मा­श­ङ्कते -
नन्विति ।

तुल्यबलतया द्वयोरपि निर्देशयोः साध­क­त्व­मा­श­ङ्क्याह -
कथमिति ।

वास्त­व­मे­क­त्व­मौ­पा­धिकं नाना­त्व­मि­त्यु­भ­य­नि­र्दे­शो­प­प­त्ति­रिति परिहरति -
नैष दोष इति ।

इतश्च ब्रह्मगतं स्रष्टृत्वं जीवगतं वा हिताकरणादि परस्परं न सम्भवतीत्याह -
अपि चेति ।

तत्त्वमसीति वाक्या­र्थ­ज्ञा­ना­दू­र्ध्व­म­भे­दा­व­ग­मा­द्ब्र­ह्मणः स्वष्टृत्वं जीवस्य तस्य हिताकरणादि ब्रह्मणः स्यादिति वा प्रागेव वा तदवगमादिति विकल्प्याद्ये दोषमाह -
यदेति ।

भेदव्यवहारस्य भिथ्या­ज्ञा­न­वि­जृ­म्भि­त­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याह -
अविद्येति ।

कार्य­क­र­णा­वि­वे­क­कृता भ्रान्ति­रि­त्यत्र दृष्टान्तमाह -
जन्मेति ।

द्वितीयं प्रत्याह -
अबाधिते त्विति ॥ २२ ॥

पर­स्यै­वा­वि­द्या­कृ­ता­व­च्छे­दस्य जीवशब्दितस्य सुख­दुः­खा­दि­स­म्बन्धो नतु तत्त्वतो जीवो वा तन्निष्ठदुःखादि वाऽस्तीति पश्यतो हिता­क­र­णा­दि­दो­षा­सं­स्प­र्शा­द्युक्तं तस्य जग­त्का­र­ण­त्व­मि­त्यु­क्तम् । इदानीं चिदा­त्म­क­त्वे­नै­क­रू­पस्य ब्रह्मणो जगत्कार्यं चेत्तदपि चेतनमेव स्यादि­त्या­श­ङ्क्याह -
अश्मादिवच्चेति ।

तत्र स्वरू­प­वै­चि­त्र्य­प­र­म­श्म­दृ­ष्टान्तं व्याचष्टे -
यथा चेति ।

धर्म­वै­चि­त्र्य­दृ­ष्टा­न्त­माह -
यथा चैकेति ।

अर्थ­क्रि­या­वै­चि­त्र्य­मु­दा­ह­रति -
यथा चैकस्येति ।

दृष्टा­न्त­त्र­यस्य दार्ष्टन्तिकं दर्शयति -
एवमिति ।
ब्रह्म­ण­श्चे­त­न­त्वा­त्त­त्का­र्यत्वे जगतोऽपि तथात्वं स्यात्तदभावान्न ब्रह्म जगत्कारणमिति परपरिकल्पितो दोषः ।

सौत्रस्य चकारस्यार्थमाह -
श्रुतेश्चेति ।
ब्रह्म­का­र­ण­वा­दिन्याः श्रुते­र­प्रा­माण्ये हेत्व­भा­वा­त्पू­र्व­प­क्षा­नु­मानं तद्बि­रो­धा­द­प्र­मा­ण­मि­त्वर्थः ।

ब्रह्म स्वाभिन्नं जीवं न पश्यति चेदसर्वज्ञं स्यात् , पश्यति चेदात्मन्येव संसारं पश्ये­दि­त्या­श­ङ्क्याह -
विकारस्येति ।
यथा दर्पणादौ मलिनमात्मानं पश्यन्नपि मैत्रस्तस्य मिथ्यात्वं जानन्न तेनात्मानं शोचति । तथा स्वाभिन्नं जीवं पश्यदपि ब्रह्म तद्गतत्वेन भातसंसारस्य वाचा­र­म्भ­ण­मा­त्र­त्वान्न तेनात्मानं शोचि­तु­म­र्ह­ती­त्यर्थः ।

यत्तु जग­त्ये­क­रू­प­ब्र­ह्म­कार्ये कुतो वैचित्र्यमिति, तत्राह -
स्वप्नेति ।
यथा स्वप्रदृश्यानां भावा­ना­मे­क­स्व­प्न­दृ­ग­धि­ष्ठा­न­त्वेऽपि पण्डि­त­मू­र्खा­दि­वै­चित्र्यं दृष्ट­मे­व­मे­क­चि­दा­त्मा­धि­ष्ठा­न­त्वेऽपि जीवे­श्व­रा­दि­वै­चि­त्र्या­वि­रो­धा­ज्ज­ग­त­श्चे­त­न­का­र­ण­त्व­म­वि­रु­द्ध­मिति भावः ॥ २३ ॥

सजा­ती­य­भे­दा­भा­वा­व­ष्ट­म्भेन ब्रह्मणो जग­द्धे­तु­त्व­मा­क्षिप्य परिहृतम् । इदानीं विजा­ती­य­भे­दा­भा­व­मा­दाय तद्धे­तु­त्व­मा­क्षिप्य परिहरति -
उप­सं­हा­र­द­र्श­ना­दिति ।

अस­हा­या­द्ब्र­ह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किं ब्रह्म नोपा­दा­न­म­स­हा­य­त्वा­त्सं­म­त­व­दिति न्यायेन विरुध्यते न वेति तद­ना­भा­स­त्वा­भा­स­त्वाभ्यां सन्देहे पूर्व­त्रौ­पा­धि­क­भे­दा­द्धि­ता­क­र­णा­दि­दोषः समाहितः । संप्र­त्यु­पा­धि­तोऽपि विभ­क्त­म­धि­ष्ठा­त्रादि नास्ती­श्व­र­ना­ना­त्वा­भा­वात् , ततश्च विचि­त्र­का­र्या­नु­प­प­त्ति­रिति पूर्वपक्षमाह -
चेतनमिति ।
अत्रापि समन्वयस्य न्याय­वि­शे­ष­वि­रो­ध­स­मा­धा­ना­त्पू­र्व­व­देव पादादिसङ्गतिफले ।

प्रतिज्ञाते पूर्वपक्षे प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।

लोके कारणभेदादेव कार्य­भे­द­द­र्श­ना­द­न्यथा तदा­क­स्मि­क­त्वा­पा­तात् , कार्यक्रमस्य च कार­ण­क्र­मा­पे­क्ष­त्वा­द­द्वि­तीये ब्रह्मणि क्रम­व­त्स­ह­का­रि­स­म्ब­न्धा­भा­वा­दै­क­रू­प्याच्च न क्रम­व­द्वि­चि­त्र­रू­प­ज­ग­ज्ज­न्म­हे­तु­ते­त्याह -
इह हीति ।

अत्र साध­न­श­ब्द­स्त­त्सा­मग्रीं ब्रूते । ब्रह्म नोपादानं, असहायत्वात् , केवलमृद्वत् । ब्रह्म जगतो न निमित्तं, असहायत्वात् , केव­ल­कु­म्भ­का­र­व­दिति मन्वानः सन्नाह -
ब्रह्म चेति ।

उक्ता­नु­मा­न­फ­ल­मु­प­सं­ह­रति -
तस्मादिति ।

विशु­द्ध­ब्र­ह्मा­पे­क्षया विशि­ष्ट­ब्र­ह्मा­पे­क्षया वेदमुच्यते, नाद्यः, सिद्ध­सा­ध्य­त्वा­दि­त्य­भि­प्रेत्य द्वितीये तस्यो­पा­दा­न­त्व­नि­षेधं दूषयति -
नैष दोष इति ।

किं बाह्य­स­ह­का­रि­वि­र­हा­द­नु­पा­दा­नत्वं, किं वान्त­र­स­ह­का­रि­रा­हि­त्या­दिति विकल्प्याद्यं व्यभिचारित्वेन निर­स्य­न्नु­दा­ह­रणं विवृणोति -
यथा हीति ।

दृष्टान्ते विवदमानः शङ्कते -
नन्विति ।

क्षीरादिषु स्वत एव कालपरिपाकवशेन परि­णा­म­द­र्श­ना­द­स­म्प्र­ति­प­त्ति­र­यु­क्तेति परिहरति -
नैष दोष इति ।

औष्ण्या­द्य­पे­क्षया तत्रा­न्व­य­व्य­ति­रे­क­सि­द्धेति कुतो नैर­पे­क्ष्य­मि­त्या­श­ङ्क्याह -
त्वार्यते त्विति ।
त्वार्यते शैध्र्यं कार्यते क्षीरं दधि­भा­वा­यौ­ष्ण्या­दिना ।

किञ्चाशक्तस्य सह­का­र्य­पे­क्ष­यापि कार्यो­त्पा­द­क­त्वा­द­र्श­ना­द्द­ध्या­दि­भावे स्वतःसिद्धं क्षीरादेः सामर्थ्यमित्याह -
यदि चेति ।

तदेव दृष्टान्तेन स्पष्टयति -
नहीति ।

किमर्था तर्हि कार­ण­सा­म­ग्र्य­पे­क्षेति, तत्राह -
साधनेति ।
नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यत इति न्याया­द्वि­द्य­मा­नैव क्षीरादिशक्तिः साध­न­सा­म­ग्र्यो­प­ची­यत इत्यर्थः ।

क्षीरा­दे­र्बा­ह्य­सा­ध­ना­भा­वेऽ­प्या­न्त­र­सा­ध­न­स­द्भा­वा­त्का­र­णता युक्ता । ब्रह्म­ण­स्त्वै­क­र­स्या­न्ना­न्त­र­मपि साध­न­म­दृ­ष्टा­दी­ष्ट­मिति कथं कारणतेति द्विती­य­मा­श­ङ्क्याह -
परिपूर्णेति ।

ब्रह्म परि­पू­र्ण­श­क्ति­क­मि­त्यत्र प्रमाणमाह -
श्रुतिश्चेति ।

कार्यक्रमेण तच्छ­क्ति­प­रि­पा­कोऽपि क्रमवानुन्नेयः शक्तिभेदाच्च तद्वि­शि­ष्ट­का­र­णेऽपि भेद­सि­द्धि­रि­त्य­भि­स­न्धा­यो­प­सं­ह­रति -
तस्मादिति ॥ २४ ॥

चेतनत्वे सत्य­स­हा­य­त्वा­दिति विशे­ष­णा­दु­क्त­म­नै­का­न्ति­कत्वं परिहर्तुं शक्य­मि­त्या­श­ङ्क्याह -
देवादिवदिति ।

सूत्र­व्या­व­र्त्या­मा­श­ङ्का­माह -
स्यादेतदिति ।

चेतनत्वविशेषणेन व्यभि­चा­र­नि­वा­र­ण­माह -
उपपद्यत इति ।

विशिष्टेन हेतुना ब्रह्मणो जगद्धेतुत्वं निषेद्धुं दृष्टान्तमाह -
चेतना इति ।

विवक्षितमनुमानं निगमयति -
कथमिति ।

विशिष्टस्यापि हेतो­र­नै­का­न्ति­कत्वं तदवस्थमिति परिहरति -
देवादिवदिति ।

तत्र दृष्टान्तं व्याचष्टे -
यथेति ।

अस्मदादिभ्यो देवादिषु विशेषं दर्शयति -
महाप्रभावा इति ।

तेषा­म­पी­श्व­रा­नु­ग्र­ह­सा­पे­क्ष­त्वा­द­सि­द्ध­म­स­हा­य­त्व­मि­त्या­श­ङ्क्याह -
अनपेक्ष्येति ।

तथापि शुक्र­शो­णि­त­सं­नि­पा­तस्य मृद्दार्वादीनां चाभावे कुतो देहादीनां प्रासादादीनां च निर्मा­ण­मि­त्या­श­ङ्क्याह -
ऐश्वर्येति ।
अस्म­दा­दि­ष्व­स­म्भा­व्य­मा­न­मै­श्व­र्य­वि­शे­ष­स्त­द्व­शेन योग­स्त­त्का­र्य­घ­ट­न­सा­मर्थ्यं तस्मादिति यावत् ।

तत्त­त्का­र्यो­चि­त­सा­म­ग्री­स­म्पत्तौ हेत्वन्तरमाह -
अभिध्यानेति ।
सङ्क­ल्पा­ति­रि­क्त­का­र­णा­न­पे­क्ष­त्व­मु­क्त­मेव मात्रशब्दार्थः ।

तस्यैव स्पष्टीकरणम् -
स्वत एवेति ।

लोके नैव­मु­प­ल­म्भोऽ­स्ती­त्य­श­ङ्क्याह -
मन्त्रेति ।

सूत्रे लोकशब्देन लोक्यतेऽनेनेति व्युत्पत्त्या शास्त्रं, अपिशब्देन वृद्धव्यवहारश्च सङ्गृहीतः । यस्तु देवादिषु मन्त्रा­दि­प्रा­माण्ये च विप्रतिपद्यते, तं प्रति लौकि­का­न्यु­दा­ह­र­णानि दर्शयति -
तन्तुनाभश्चेति ।

उक्त­दृ­ष्टा­न्तानां दार्ष्टा­न्ति­क­माह -
एवमिति ।

देवा­दि­दृ­ष्टा­न्तेन विशिष्टस्य हेतोर्न व्यभिचारः, तत्रोपादानांशे चेत­न­त्वा­भा­वा­दिति शङ्कते -
स यदीति ।

ऊर्ण­ना­भ­दृ­ष्टान्ते च तुल्यं व्यभि­चा­र­नि­वा­र­ण­मि­त्याह -
तन्तुनाभस्येति ।

बलाकादृष्टान्ते चास­हा­य­त्वा­भा­वा­द्वि­शि­ष्ट­हे­तोर्न व्यभि­चा­रोऽ­स्ती­त्याह -
बलाका चेति ।

पद्मि­नी­दृ­ष्टा­न्तेऽ­प्यू­र्ण­ना­भ­दृ­ष्टा­न्त­व­द्व्य­भि­चा­र­स­मा­धि­रि­त्याह -
पद्मिनी चेति ।

व्यभि­चा­र­प­रि­हा­र­फ­ल­पू­र्वो­क्ता­नु­मा­नो­प­प­त्ति­माह -
तस्मादिति ।

देवा­दि­दे­ह­स्या­प­न्न­चै­त­न्य­स्यैव देहा­दि­का­र­ण­त्वान्न व्यभि­चा­र­स­मा­धि­रिति समाधत्ते -
तं प्रतीति ।
प्रागु­क्त­दृ­ष्टा­न्ता­ना­म­स­म्भ­वोऽ­य­मु­च्यते ।

विवक्षितं वैलक्षण्यमेव स्पष्टयति -
यथा हीति ।

सिद्धे व्यभिचारे फलितं सूत्र­ता­त्प­र्य­मु­प­सं­ह­रति -
तस्मादिति ।
कुलालादेरिव ससहायस्यैव कारणत्वं ब्रह्मणो न शक्यं नियन्तुं देवा­दि­व­द­स­हा­य­स्यापि तदुपपत्तेरिति भावः ॥ २५ ॥

पूर्वा­धि­क­र­णो­क्त­क्षी­रा­दि­दृ­ष्टा­न्ता­त्प­रि­णा­मि­त्व­भ्रमे तन्नि­रा­क­र­णा­र्थ­म­धि­क­र­ण­म­व­ता­र­य­न्पू­र्व­प­क्ष­यति -
कृत्स्न­प्र­स­क्ति­रिति ।
निर­व­य­वा­द्ब्र­ह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः ।

स किं सावयवस्यैव नाना­का­र्यो­पा­दा­न­तेति न्यायेन विरुध्यते न वेति तद­ना­भा­स­त्वा­भा­स­त्वाभ्यां सन्देहे वक्ष्य­मा­ण­पू­र्व­प­क्षस्य मायामयत्वेन परि­हा­रा­द­धि­क­र­णा­ना­र­म्भ­मा­शङ्क्य सङ्गतिमाह -
चेतनमिति ।
शास्त्रार्थस्य परिशुद्धिर्नाम परिणामपराकरणेन विवर्तदृढीकरणं तद­र्थ­म­धि­क­र­णा­रम्भे प्रथ­म­मा­क्षे­प­सू­त्र­मि­त्यर्थः । अत्रापि समन्वयस्य न्याय­वि­रो­ध­स­मा­धा­ना­त्पा­दा­दि­स­ङ्ग­ति­च­तु­ष्टयं फलं च द्रष्टव्यम् ।

यदि क्षीरमिव दध्यात्मना ब्रह्म जगदाकारेण परिणमेत्तदा साकल्येन वा तदेकदेशेन वा । आद्यं प्रत्याह -
कृत्स्नेति ।
ततश्च कार­ण­भू­त­ब्र­ह्मा­भावे तत्पराधीनस्य कार्यस्यापि सत्त्वायोगान्न किञ्चिदपि स्यादिति शेषः ।

द्वितीयं निरस्यति -
यदीति ।
ब्रह्मणः साव­य­व­त्वा­भा­वा­दे­क­दे­श­प­रि­णा­मा­नु­प­प­त्ति­रि­त्यर्थः ।

भवतु तर्हि ब्रह्मणः सावयवत्वं, नेत्याह -
निरवयवं त्विति ।

अमूर्तत्वादपि ब्रह्म निरवयवमित्याह -
दिव्यो हीति ।

सर्व­ग­त्व­नि­र­व­य­व­त्वाभ्यां नित्यत्वाभ्यां च तन्नि­र­व­य­व­मि­त्याह -
इदमिति ।

आपे­क्षि­क­मा­नन्त्यं वारयति -
अपारमिति ।

विज्ञ­प्ति­ता­व­न्मा­त्र­त्वाच्च निरवयवमित्याह -
विज्ञानेति ।

मूर्ता­मू­र्त­द्वै­त­नि­षे­धाच्च तथेत्याह -
स एष इति ।
न हि ब्रह्मणः साव­य­व­त्व­मु­पा­दा­न­त्वेऽपि सुव­र्णा­दि­व­त्प्र­ति­पत्तुं शक्यं श्रुति­वि­रो­धा­दि­त्यर्थः ।

द्विती­य­वि­क­ल्पा­स­म्भवे प्रथ­म­वि­क­ल्प­प्राप्तौ फलितमाह -
ततश्चेति ।

कृत्स्न­प­रि­णा­म­पक्षे दोषान्तरमाह -
द्रष्टव्यतेति ।

ब्रह्मणो द्रष्ट­व्य­त्व­स­म्भ­वा­त्कु­त­स्त­दु­प­दे­शा­न­र्थ­क्य­मि­त्या­शङ्क्य परिणतं वा ब्रह्म तदतिरिक्तं वा द्रष्टव्यमिति विकल्प्याद्ये दोषमाह -
अयत्नेति ।

द्वितीयं दूषयति -
तद्व्य­ति­रि­क्त­स्येति ।

किञ्च ब्रह्मणः साकल्येन कार्यात्माना जन्माभ्युपगमे ‘न जायते म्रियते वा’ इत्या­दि­श्रु­ति­स्मृ­ति­वि­रोधः स्यादित्याह -
अजत्वादीति ।

प्रथमपक्षदूषणं सङ्क्षे­प­वि­स्त­रा­भ्या­मुक्त्वा द्विती­य­प­क्ष­दू­षणं सङ्क्षिप्तं विवृणोति -
अथेत्यादिना ।

न केवलं शब्दविरोधो न्याय­वि­रो­ध­श्चे­त्याह -
सावयवत्वे चेति ।

पूर्व­प­क्ष­मु­प­सं­ह­रति -
सर्वथेति ॥ २६ ॥

सिद्धा­न्त­सू­त्र­मा­दत्ते -
श्रुतेरिति ।

परि­णा­म­वा­द­मे­वा­श्रित्य प्रथमं व्याचष्टे -
तुशब्देनेति ।

परि­हा­र­मे­वा­भि­न­यति -
न खल्विति ।

यदुक्तं ब्रह्मणो जगदाकारेण परिणामे कृत्स्न­प्र­स­क्ति­रिति, तत्राह -
न तावदिति ।

निरवयवं ब्रह्म परिणमते च, न च कृत्स्नमिति कुतः सम्भावनेति पृच्छति -
कुत इति ।

श्रौतेऽर्थे नासम्भावनेति परिहरति -
श्रुतेरिति ।

यत्तु ब्रह्मणो विरुद्धाकारेण परिणामे मूलो­च्छे­दा­द्द्र­ष्ट­व्य­तो­प­दे­शा­न­र्थ­क्य­मिति तत्परिहरन्हेतुं विवृणोति -
यथेति ।

विकारातिरेकेण स्थितं ब्रह्मेति श्रुतिरश्रुता, तत्कुतस्तथाविधं ब्रह्माधिकृत्य द्रष्ट­व्य­तो­प­दे­श­स्या­र्थ­व­त्ते­त्या­श­ङ्क्याह -
प्रकृतीति ।

तत्र द्रष्टृ­द्र­ष्ट­व्य­त्वेन प्रवे­ष्टृ­प्र­वे­ष्ट­व्य­त्वेन व्याक­र्तृ­व्या­का­र्य­त्वेन च भेदव्यपदेशं दर्शयति -
सेयमिति ।

व्याप्य­व्या­प­क­त्वे­नापि भेद­व्य­प­दे­शोऽ­स्ती­त्याह -
तावानिति ।

अंशांशित्वेनापि भेद­व्य­प­दे­श­मु­दा­ह­रति -
पादोऽस्येति ।

इत­श्चा­वि­कृ­त­मस्ति ब्रह्मेत्याह -
त्रिपादिति ।

अवि­कृ­त­ब्र­ह्मा­स्तित्वे हेत्वन्तरमाह -
तथेति ।
सर्वस्य ब्रह्मणो विकारात्मना समाप्तौ सर्वा­य­त­न­त्वा­द्वि­शे­षेण हृदयायतनत्वं ‘हृद्य­न्त­र्ज्योतिः’ इत्यादिना नोच्येत तद्व­च­ना­द­वि­कृ­त­स्यैव हृद्य­व­स्था­न­सि­द्धे­स्त­द­स्ति­ते­त्यर्थः ।

अस्त्यविकृतं ब्रह्मेत्यत्र हेत्वन्तरमाह -
सदिति ।

सुषुप्तौ जीवस्य सत्स­म्प­त्ति­श्रु­ति­मा­त्रेण कथमविकृतमस्ति ब्रह्मे­त्या­श­ङ्क्याह -
यदि चेति ।

कुतो विशे­ष­णा­नु­प­प­त्ति­रि­त्या­शङ्क्य विकृतेनाविकृतेन वा ब्रह्मणा सम्पत्तिः सुषु­प्ता­वि­ष्टेति विकल्प्य क्रमेण दूष­य­न्न­नु­प­पत्तिं प्रकटयति -
विकृ­ते­ने­त्या­दिना ।

किञ्च विका­र­स्ये­न्द्रि­य­गो­च­र­त्वात् ‘न चक्षुषा गृह्यते नापि वाचा’ इत्यादिना ब्रह्म­ण­स्त­द्गो­च­र­त्व­नि­षे­धा­त्त­दस्ति विका­रा­ति­रि­क्त­मि­त्याह -
तथेति ।

यत्तु परिणामित्वे ब्रह्मणो निर­व­य­व­त्व­श­ब्द­कोपः स्यादिति, तत्राह -
न चेति ।

श्रुत्यापि कथं विरुद्धोऽर्थः समर्प्यते, तस्याः स्वार्थ­प्र­ति­पा­द­न­स्या­वि­रो­ध­सा­पे­क्ष­त्वा­दि­त्या­श­ङ्क्याह -
शब्देति ।

ब्रह्मणः शब्द­प्र­मा­ण­क­त्वा­द्य­था­श­ब्द­मि­ष्ट­त्वेऽपि कथ­म­कृ­त्स्न­प­रि­णा­म­नि­र­व­य­व­त्व­यो­रु­प­पत्तिः, तत्राह -
शब्दश्चेति ।
तत्रा­कृ­त्स्न­प्र­सक्तौ भेद­व्य­प­दे­श­श्रु­ति­रुक्ता, निरवयवत्वे तु श्रुतिरुदाहृता पूर्वपक्षे ।

ननु निर­व­य­व­त्व­प­रि­णा­मित्वे नैकाधिकरणे सिध्यतो मिथो विरु­द्ध­त्वा­दौ­ष्ण्य­शै­त्य­व­दि­त्या­शङ्क्य श्रुति­वि­रो­धा­न्मै­व­मिति मत्वा कैमुतिकन्यायमाह -
लौकिकानामपीति ।
स्वरूपेण प्रत्य­क्षा­दि­सि­द्धा­ना­मपि यत्र शक्त­य­स्त­र्का­गो­च­रा­स्तत्र किमु वक्तव्यं शब्दैकगम्यस्य तर्का­गो­च­र­त्व­मि­त्यर्थः ।

उक्तेऽर्थे स्मृतिं संवादयति -
तथा चेति ।

अचिन्त्यानां भावा­ना­म­चि­न्त्य­त्वा­देव तर्का­यो­ग्य­त्वेऽपि किं तद­चि­न्त्य­मि­त्य­पे­क्षा­या­माह -
प्रकृतिभ्य इति ।
प्रत्य­क्ष­दृ­ष्ट­प­दा­र्थ­स्व­भा­वेभ्यो यत्परं विल­क्ष­ण­मा­चा­र्या­द्यु­प­दे­श­गम्यं तद­चि­न्त्य­मि­त्यर्थः ।

शब्दमूलं चेत्यादिना शब्द­मू­ल­त्वा­दि­त्ये­त­द्व्या­ख्याय शब्दै­क­स­म­धि­ग­म्यस्य ब्रह्म­ण­स्त­र्का­गो­च­रत्वे फलितमाह -
तस्मादिति ।

आकाङ्क्षादिवशेन शब्द­स्या­र्थ­प्र­त्या­य­क­त्वा­द्वि­रु­द्धा­र्थ­प्र­त्या­यने चाका­ङ्क्षा­द्य­भा­वान्न शब्दस्यापि तथा­वि­धा­र्थ­बो­ध­क­ते­त्ये­क­दे­शि­व्या­ख्या­न­मा­क्षि­पति -
नन्विति ।

विरोधमेव दर्शयति -
निरवयवं चेति ।

कथमयमर्थो विरुध्यते, न हि प्रमाणसिद्धं विरु­द्ध­मु­प­य­न्ती­त्या­शङ्क्य विरोधं प्रपञ्चयति -
यदीति ।

सावयवेष्वेव क्षीरादिषु परि­णा­म­दृ­ष्टे­रि­त्यर्थः । विपक्षे कृत्स्न­प्र­स­क्ति­ता­द­व­स्थ्य­मि­त्याह -
कृत्स्नमेवेति ।

यदि कथ­ञ्चि­त्कृ­त्स्न­प्र­सक्तिः समाधीयते तदा निरवयवशब्दकोपः स्यादि­त्या­श­य­वा­नाह -
अथेति ।

एकत्रापि परिणामापरिणामौ षोड­शि­ग्र­ह­णा­ग्र­ह­ण­व­द­वि­रु­द्धा­वि­त्या­श­ङ्क्याह -
क्रियेति ।
इहेति । ब्रह्मणि परि­णा­मा­प­रि­णा­म­यो­रि­त्यर्थः । परिणामादिविषयो वस्तुशब्दः ।

स्वयूथ्यो व्याख्या­न­स्या­नु­प­प­न्न­त्व­मु­प­सं­ह­रति -
तस्मादिति ।

विवर्तवादमादाय सिद्धान्ती परिहरति -
नैष दोष इति ।
निरवयवस्य ब्रह्मणो विका­रा­स्पृ­ष्ट­त­या­व­स्था­नस्य विकारात्मना परिणामस्य च श्रूयमाणस्य मिथो विरोधे तात्त्विकं विका­रा­स्पृ­ष्टत्वं मायिकं च परिणामित्वमिति व्यवस्थायां नास्ति दौस्थ्य­मि­त्यर्थः ।

रूप­भे­द­म­भ्यु­प­ग­च्छ­त­स्त­त्सा­व­य­वत्वं दुर्वा­र­मि­त्या­श­ङ्क्याह -
न हीति ।

तदेव दृष्टान्तेन स्पष्टयति -
नहि तिमिरेति ।

नाम­रू­प­भे­द­श्चे­द­वि­द्या­कृ­त­स्तर्हि ब्रह्मणो न कार­ण­त्व­म­वि­द्याया एव तद्भा­वा­दि­त्या­श­ङ्क्याह -
अविद्येति ।

नामरूपभेदसिद्धौ कार­ण­त्व­सि­द्धि­स्त­त्सिद्धौ च नाम­रू­प­भे­द­सि­द्धि­रि­त्य­न्यो­न्या­श्र­य­ते­त्या­श­ङ्क्याह -
व्याकृतेति ।

विवर्तवादेऽपि विरु­द्धा­का­र­प्राप्तौ पूर्व­रू­प­नि­वृ­त्ते­स्तुल्या मूलो­च्छि­त्ति­रि­त्या­श­ङ्क्या­नि­र्वा­च्य­र­ज­ता­का­रा­पत्तौ शुक्ति­का­दे­र­न्य­था­त्वा­द­र्श­ना­द्ब्र­ह्म­णोऽपि कल्पि­ता­का­रा­पत्तौ पूर्व­रू­पा­नि­वृ­त्ते­र्मै­व­मि­त्याह -
तत्त्वेति ।

ब्रह्मणो मायाविवन्मायया सर्व­व्य­व­हा­रा­स्प­द­त्वेऽपि कुतोऽ­स्या­प­रि­णा­मि­त्वा­दि­सि­द्धि­रि­त्या­श­ङ्क्याह -
पारमार्थिकेनेति ।

एवं कृत्स्न­प्र­सक्तिं निराकृत्य निर­व­य­व­त्व­श­ब्द­कोपं निराकरोति -
वाचारम्भणेति ।

प्रतिपाद्यत्वं सृष्टे­र­भ्यु­पे­त्यै­त­दु­क्तम् । तदेव नास्तीत्याह -
न चेति ।

किम्परा तर्हीयं श्रुति­रि­त्या­श­ङ्क्याह -
सर्वेति ।
ब्रह्मा­त्म्यै­क्य­प्र­ति­पा­द­न­प­र­तया सृष्टिवाक्यानां स्वशे­षि­वि­रो­धि­त्वा­यो­गा­न्नास्ति सृष्टौ तात्प­र्य­मि­त्यर्थः ।

ब्रह्मा­त्म­प्र­ति­पत्तौ फलावगतिमुदाहरति -
स एष इति ।

विवर्तवादे दोषा­भा­व­मु­प­सं­ह­रति -
तस्मादिति ॥ २७ ॥

उक्तं विवर्तवादं सूत्र­का­रा­भि­प्रे­त­त्वेन स्पष्टयति -
आत्मनीति ।

सूत्रार्थं विवृ­ण्व­न्दृ­ष्टा­न्त­स­द्भा­वा­द्वि­व­र्त­वादे विवादो नास्तीत्याह -
अपि चेति ।

विवा­द­स्या­क­र्त­व्यत्वे हेतुमाह -
यत इति ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­रे­का­र्थत्वं विशिनष्टि -
स्वप्नदृशीति ।

स्वप्नस्य स्मृति­त्वा­भ्यु­प­ग­मा­द्वि­रुद्धा सृष्टिरेव तत्र नास्तीति कुतोऽस्य दृष्टा­न्त­ते­त्या­श­ङ्क्या­प­रो­क्ष­तया स्वप्न­स्या­स्मृ­ति­त्व­म­भि­प्रे­त्याह -
पठ्यत इति ।

स्वप्ने रथादीनामभावे कथं तत्प्र­थे­त्या­श­ङ्क्याह -
अथेति ।

आत्मनि चेति व्याख्याय विचित्राश्च हीति व्याचष्टे -
लोकेऽपीति ।

एवमिति सूत्रपदं व्याकु­र्व­न्दा­र्ष्टा­न्ति­क­माह -
तथेति ।
इतिशब्दो विव­र्त­वा­द­स­मा­प्त्यर्थः ॥ २८ ॥

‘यश्चोभयोः’ इति न्यायेन कृत्स्न­प्र­स­क्त्या­दी­ना­म­नु­द्भा­व्यत्वं दर्शयति -
स्वपक्षेति ।

सूत्राक्षराणि व्याचष्टे -
परेषामिति ।
तथा च ब्रह्मवादिनि विशे­षे­णा­नु­द्भा­व्य­तेति शेषः ।

तत्र प्रधानवादे दोषसाम्यं वक्तुं तत्पक्षमनुभाषते -
प्रधानेति ।

दोषसाम्यमधुना दर्शयति -
तत्रापीति ।
प्रधानं हि महदाद्याकारेण परिणममानं साकल्येन वा परिणमत एकदेशेन वा प्रथमे निर­व­य­व­त्वा­त्प्र­धा­नस्य कृत्स्नस्यैव कार्याकारेण परि­ण­त­त्वा­द­व­शि­ष्ट­स्या­भा­वा­त्त­दा­श्रि­तस्य कार्य­स्या­प्य­यो­गा­त्कार्यं कारणं चेत्युभयमपि समुच्छिद्येत । द्वितीये प्रधानस्य निर­व­य­व­त्व­स्वी­कारो विरु­ध्ये­ते­त्यर्थः ।

दोषद्वयं परिहर्तुं शङ्कते -
नन्विति ।

निर­व­य­व­त्वा­नु­प­गमं स्फुटयितुं प्रधा­न­स्व­रू­प­म­नु­व­दति -
सत्त्वेति ।

कथमेतावता निर­व­य­व­त्वा­न­भ्यु­प­गमः, तत्राह -
तैरिति ।
सावयवत्वे च प्रधा­न­स्यै­क­दे­शेन परिणामोऽवस्थानं चैक­दे­शे­ने­त्य­ङ्गी­का­रान्न कृत्स्न­प्र­स­क्त्या­दि­दो­षा­व­का­शोऽ­स्ती­त्यर्थः ।

उक्तं साव­य­व­त्व­म­ङ्गी­कृत्य परिहरति -
नेत्यादिना ।

तत्र हेतुमाह -
यत इति ।
समुदायस्य सावयवत्वेऽपि प्रत्येकं सत्त्वादीनां निर­व­य­व­त्वा­त्तेषां च परि­णा­म­स्वी­का­रा­त्कृ­त्स्न­प­रि­णामे मूलो­च्छि­त्ते­क­दे­श­प­रि­णामे सावयवत्वम् । अतो दोषद्वयं प्रधानवादे दुर्वा­र­मि­त्यर्थः ।

सम्भूय सत्त्वादीनां परि­णा­म­प­रि­ग्र­हान्न दोष­द्व­य­मि­त्या­श­ङ­क्याह -
एकैकमेवेति ।
समुदायस्यैव परिणामित्वे कार्य­वै­ष­म्या­सि­द्धि­रिति भावः ।

एवं प्रधानवादे कृत्स्न­प्र­स­क­त्या­दि­दो­ष­सा­म्यान्न तेन ब्रह्मवादिनि तदु­द्भा­व­नी­य­मि­त्यु­प­सं­ह­रति -
समानत्वादिति ।

तर्का­प्र­ति­ष्ठा­न­न्या­येन निर­व­य­व­त्वा­पा­द­क­त­र्क­स्या­प्र­ति­ष्ठा­न­त्वा­त्प्र­धा­नस्य सावयवत्वमेवेति शङ्कते -
तर्केति ।

अभ्यु­पे­त­हा­न­म­पिना सूचयन्दूषयति -
एवमपीति ।
आदिशब्देन घटा­दि­व­न्मू­ल­का­र­ण­त्वा­स­म्भ­वोऽपि गृहीतः ।

घटादीनामिव द्रव्यावयवत्वेन प्रधानस्य साव­य­व­त्वा­न­भ्यु­प­ग­मा­द­ने­क­ध­र्म­व­त्तया तद­ङ्गी­का­रा­न्ना­नि­त्या­त्वा­दि­दो­ष­प्र­स­क्ति­रि­त्याह -
अथेति ।

ब्रह्मणोऽपि कार्य­वै­चि­त्र्य­सू­चि­त­वि­चि­त्र­श­क्ति­रू­पा­व­य­वो­प­ग­मा­दु­क्त­दो­ष­स­मा­धि­रि­त्याह -
ता इति ।

प्रधानवादिनो दोष­सा­म्य­मुक्त्वा परमाणुवादिनोऽपि तत्साम्यमाह -
तथेति ।
अणुवादिनोऽपि समान एव दोष इत्यत्र सम्बन्धः ।

द्वाभ्या­म­णुभ्यां संयु­ज्य­मा­नाभ्यां द्व्यणु­क­मा­र­भ्यते त्रिभि­र्द्व्य­णुकैः संयु­क्तै­स्त्र्य­णुकं त्र्यणुकैः संयु­क्तै­श्च­तु­र­णु­क­मि­त्यस्यां प्रक्रि­या­या­म­णु­र­ण्व­न्त­रेण संयुज्यमानः कार्त्स्न्येन वा संयुज्यत एकदेशेन वेति विक­ल्प्या­द्य­म­नूद्य दूषयति -
अणुरिति ।
कार्त्स्न्यन संयोगे सत्ये­क­स्मि­न्प­र­माणौ परमाण्वन्तरस्य संमि­त­त्वा­त्त­दा­रब्धे द्व्यणुके पर­मा­णो­र­धि­क­प­रि­मा­णा­भा­वा­त्त­स्यापि पारि­मा­ण्ड­ल्य­व­त्त्व­प्र­स­ङ्गा­द­णु­त्वा­दि­प­रि­मा­णा­न्त­रा­ङ्गी­का­र­वि­रोधः स्यादित्यर्थः ।

द्वितीयमनूद्य प्रत्याह -
अथेति ।

तदेवं परमाणुवादिन्यपि प्रागु­क्त­दो­ष­सा­म्यान्न तेनापि ब्रह्मवादिनि तदु­द्भा­व­न­मु­चि­त­मि­त्याह -
इति स्वपक्षेऽपीति ।

त्वं चोर इत्युक्ते त्वमपि चोर इतिवत्स्वस्य दोषोद्भावने परस्यापि तदु­द्भा­व­न­मा­त्रेण न तत्प­रि­हा­र­सि­द्धि­रि­त्या­शङ्क्य परस्य यः परिहारः स एवा­स्मा­क­म­पी­त्य­भि­प्रे­त्याह -
समानत्वाच्चेति ।

आपाततः साम्यमुक्त्वा पारमार्थिकं कार्य­का­र­ण­त्व­मि­च्छ­ता­मेव चायं दोषो नास्माकं विवर्तवादिनां कार्यं कारणं च कल्पि­त­मि­च्छ­ता­मि­त्याह -
परिहृतस्त्विति ॥ २९ ॥
पूर्वाधिकरणे ब्रह्मणो विचि­त्र­श­क्ति­यु­क्त­त्वाद् युक्तं कार­ण­त्व­मि­त्यु­क्तम् ।

इदानीं तस्य विचि­त्र­श­क्तित्वे प्रमाणमाह –
सर्वोपेता चेति ।
मायाशक्तिमतो ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः ।

तस्य किमशरीरस्य नास्ति मायेति न्यायेन विरोधोऽस्ति न वेति तद­ना­भा­स­त्व­भा­स­त्वा­भ्या­मेव सन्देहे सङ्गतिमाह -
एकस्येति ।

प्रमा­ण­प्र­श्न­पू­र्वकं तदुपन्यासपरं सूत्रमादत्ते -
तत्पुनरिति ।
पूर्ववदिहापि सङ्गतिफले द्रष्टव्ये ।

सूत्राक्षराणि व्याचष्टे -
सर्वेति ।

अवगतिहेतुं प्रश्नपूर्वकमाह -
कुत इति ।

सिद्धान्तहेतुं नाना­वि­ध­श्रु­त्य­व­ष्ट­म्भेन विवृणोति -
तथा हीति ॥ ३० ॥

पूर्व­प­क्ष­म­नु­भाष्य दूषयति -
विकरणत्वादिति ।

यद्य­प्य­न्त­र्या­म्य­धि­क­रणे जग­द्ब्र­ह्म­णो­र्मा­या­र्जि­त­त्व­स­म्बन्धे सिद्धे कार्य­क­र­ण­वि­र­हि­णोऽपि निय­न्तृ­त्व­मुक्तं, तथापि कार्य­का­र­ण­वि­र­हिणो मायासम्बन्ध एव न सम्भवतीति विव­क्षि­त­त्वा­त्कु­ला­ला­दीनां कार्यकरणवतां मृदा­द्य­धि­ष्ठा­तृ­त्व­द­र्श­ना­द्ब्र­ह्म­ण­स्त­द्धी­नस्य नाधिष्ठातृत्वेन कारणत्वमिति चोद्यं विवृणोति -
स्यादेतदिति ।

ब्रह्मणः सर्व­श­क्ति­त्वा­द­का­र्य­क­र­ण­त्वेऽपि कार­ण­त्व­मु­प­प­न्न­मि­त्या­श­ङ्क्याह -
कथं सेति ।
न हि कार्यकरणरहितस्य मुक्त­व­न्मा­या­श­क्ति­मत्त्वं, तद्वत्त्वेऽपि न कार्यक्षमत्वम् । सुषु­प्त­व­दि­त्यर्थः ।

सर्व­श­क्ति­यो­गा­द्दे­वा­दि­व­द्ब्र­ह्मणः सम्भवति विचि­त्र­का­र्य­क­र­त्व­मि­त्या­श­ङ्क्याह -
देवादयो हीति ।
विज्ञायन्ते । मन्त्रा­र्थ­वा­दा­दि­ष्विति शेषः ।

कथं सा सर्व­श­क्ति­यु­क्ता­पी­त्य­त्रा­पिना सूचितमर्थं स्फोरयति -
कथं चेति ।

‘तदुक्तम् ‘ इति सूत्रावयवेन परिहरति -
यदत्रेति ।

किं तदु­क्त­मि­त्य­पे­क्षायां न विल­क्ष­ण­त्वा­धि­क­र­णा­दा­वुक्तं स्मारयति -
श्रुतीति ।

यत्तु कुलालादीनां कार्यकरणवतामेव मृदा­द्य­धि­ष्ठा­तृ­त्वो­प­ल­म्भा­द्ब्र­ह्म­ण­स्त­द्र­हि­तस्य नाधिष्ठातृत्वेन कारणत्वमिति, तदपि परिहृतमित्याह -
न चेति ।
न हि कार्यकरणविरहिणः सुषु­प्त­व­द­का­र्य­क­रत्वं शक्यं नियन्तुं, समुत्थानसमये शरी­रा­द्य­भि­मा­न­शू­न्यस्य देहे­न्द्रि­या­द्यु­पा­दा­न­व्या­पा­र­त­स्त­च्छ­क्ति­म­त्तो­प­लब्ध्या दृष्टान्तस्य साध्य­वि­क­ल­त्वा­दिति भावः ।

यत्तु ब्रह्मणो माया­श­क्ति­मत्त्वं मुक्त­व­द­श­री­र­त्वा­द­यु­क्त­मिति, तदपि पुरस्तादेव परास्तमित्याह -
प्रतिषिद्धेति ।
परमार्थतो व्यवहारतो वा माया­श­क्ति­र­म­त्त्वा­भावः साध्यते । नाद्यः, सिद्धसाधनत्वात् । न द्वितीयः, माया­या­श्चि­न्मात्रे प्रती­ति­सि­द्ध­त्वात् । न चाज्ञोऽहमिति प्रती­ति­र्जी­व­म­धि­क­रोति । तस्य ब्रह्मा­न­ति­रे­का­त्क­ल्पि­तस्य चावि­द्या­म­य­त्वे­ना­वि­द्या­श्र­य­त्वा­यो­गा­दिति भावः ।

किञ्च मायाविनां देहेन्द्रियवतां बाह्यं हेतुमनपेक्ष्य कार्य­क­र­त्व­द­र्श­नात् , कुलालादीनां च तथाविधानामेव बाह्य­सा­ध­न­व्य­पे­क्षा­णा­म­र्थ­क्रि­या­का­रि­त्वात् , तेषु दृष्ट­वै­चि­त्र्या­व­ष्ट­म्भा­द­न्त­रे­णापि शरीरादिना ब्रह्मणि माया­स­म्ब­न्ध­सि­द्धि­रि­त्य­भि­स­न्धाय प्रागु­क्ता­नु­मा­न­द्व­य­स्या­ग­म­वि­रोधं दर्शयति -
तथा चेति ॥ ३१ ॥

पूर्वं श्रुत्य­व­ष्ट­म्भेन सर्वशक्ति ब्रह्मे­त्यु­क्तम् । सम्प्रति शक्तस्यापि प्रयो­ज­ना­भि­स­न्ध्य­भा­वा­द­क­र्तृ­त्व­मि­त्या­क्षि­पति -
न प्रयो­ज­न­व­त्त्वा­दिति ।

परि­तृ­प्ता­द्ब्र­ह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किं ब्रह्म विना फलेन न सृज­त्य­भ्रा­न्त­चे­त­न­त्वा­द्वि­व­क्षि­त­पु­रु­ष­व­दिति न्यायेन विरुध्यते न वेति पूर्ववदेव सन्देहे पूर्व­प­क्ष­सू­त्र­ता­त्प­र्य­माह -
अन्यथेति ।
पादादिसङ्गतिफले पूर्ववदुन्नेये ।

सूत्राक्षराणि व्याकु­र्व­न्न­ञोऽ­र्थ­माह -
न खल्विति ।

तत्र प्रश्नपूर्वकं हेतुमादाय व्याचष्टे -
कुत इति ।

भ्रान्त­स्या­बु­द्धि­पू­र्व­का­रिणः स्वप­र­प्र­यो­ज­ना­नु­प­यो­गि­न्यपि प्रवृ­त्ति­र्दृ­ष्टेति विशिनष्टि -
बुद्धि­पू­र्व­का­रीति ।

लीलादौ फलाभावेऽपि प्रवृ­त्ति­र्दृ­ष्टे­त्या­शङ्क्य तत्रापि तात्का­लि­क­मु­द्दे­श्य­फ­ला­भा­वेऽपि फलमस्त्येवेति मत्वाह -
न मन्देति ।

या चेत­न­स्या­भ्रा­न्तस्य प्रवृत्तिः सा फला­भि­स­न्धि­पू­र्वि­केति व्याप्ति­मुक्त्वा कैमु­ति­क­न्या­य­म­पिना सूचितं दर्शयति -
किमुतेति ।
लीला­दे­र­ल्पा­या­स­सा­ध्य­त्वेऽपि फल­व­त्त्व­द­र्श­ना­न्म­हा­या­स­सा­ध्य­ज­गतः सृष्टिरफला न श्लिष्टेत्यर्थः ।

फला­भि­स­न्धि­पू­र्विका बुद्धि­पू­र्व­का­रि­प्र­वृ­त्ति­रि­त्यत्र श्रुति­मु­प­न्य­स्यति -
भवति चेति ।

प्रवृ­त्त्या­भा­स­त्वा­ज्ज­ग­द्वि­र­च­नायां न फला­पे­क्षे­त्या­श­ङ्क्याह -
गुरुतरेति ।

अस्तु तर्हि फला­भि­स­न्धि­पू­र्वि­कै­वे­य­मपि प्रवृ­त्ति­रि­त्या­शङ्क्य स्वस्य परस्य वा फलमुद्देश्यमिति विकल्प्याद्ये दोषमाह -
यदीति ।

अस्मदादीनां गुरु­त­र­सं­र­म्भा­पीयं प्रवृ­त्ति­री­श्व­र­स्या­ना­या­स­साध्या न प्रयो­ज­न­पू­र्वि­के­त्या­शङ्क्य, ब्रह्म न जगत्कारणं, साक्षा­त्प­र­म्प­रया वा स्वफलविकलत्वात् , तथा­भू­त­लौ­कि­क­पु­रु­ष­व­दि­त्याह -
प्रयोजनाभावे वेति ।

दृष्टान्तेन शङ्कयित्वा दूषयति -
अथेत्यादिना ।
बुद्ध्यपराधो विवेकवैधुर्यम् ।

नापि पर­प्र­यो­ज­नो­प­यो­गिनी परस्येश्वरस्य प्रवृत्तिः, प्रागु­त्प­त्ते­र­नु­ग्रा­ह्या­भा­वा­दिति मत्त्वोपसंहरति -
तस्मादिति ॥ ३२ ॥

सिद्धान्तयति -
लोकवत्त्विति ।

सूत्रं व्याचष्टे -
तुशब्देनेति ।

यत्तु साक्षा­त्प­र­म्प­रया वा स्वप्र­यो­ज­ना­भा­वान्न ब्रह्म जगत्कारणमिति, तत्र सुखो­ल्ला­स­नि­मि­त्त­क्री­डा­या­मु­च्छ्वा­सादौ च फला­भि­स­न्ध्य­भा­वा­द­नै­का­न्तिको हेतुरित्याह -
यथेति ।

एषणासम्पत्तौ सम्भा­वि­त­मु­दा­ह­र­ण­द्व­य­माह -
राज्ञ इति ।
व्यतिरिक्तं लीलायाः सकाशादिति यावत् । क्रीडार्था विहारा देशविशेषाः संस्कृ­ता­स्ते­ष्विति यावत् ।