न्यायनिर्णयव्याख्या
२ परिच्छेदः
यत्तावदेकत्वैकान्ताभ्युपगमे लौकिकवैदिकव्यवहारव्याहतिरिति, तत्राह -
नैष दोष इति ।
तत्त्वज्ञानादूर्ध्वं प्राचि वा काले व्यवहारानुपपत्तिरिति विकल्प्याद्यमङ्गीकृत्य द्वितीयं प्रत्याह -
सर्वव्यवहाराणामिति ।
प्रत्यक्षादीनां द्वैतावगाहिनां तात्त्विकप्रमाणत्वाभावेऽपि व्यवहारे बाधाभावाद्व्यवहारसमर्थवस्त्वङ्गतारूपप्रामाण्यसिद्धेः सम्यग्ज्ञानात्पूर्वं सर्वव्यवहारसिद्धिरित्यर्थः ।
तत्त्वज्ञानात्पूर्वं सत्यत्वाभिमानद्वारा व्यवहारोपपत्तौ दृष्टान्तमाह -
स्वप्नेति ।
आत्मनो ब्रह्मात्मतायाः स्वाभाविकत्वाद्विकारेष्वनृतत्वमनीषासमन्मेषे कथं सर्वव्यवहारसिद्धिरित्याशङ्क्याह -
यावद्वीति ।
तथापि स्वभावसिद्धब्रह्मात्मतानुरोधेन विकारेष्वौदासीन्यसम्भवात्कुतो व्यवहारोपपत्तिरित्याशङ्क्याह -
विकारानिति ।
मिथ्याभिमानवतो वस्तुस्वाभाव्यमपहाय प्राक्तत्त्वज्ञानाद्व्यवहारोपपत्तिं निगमयति -
तस्मादिति ।
यदुक्तं स्वप्नव्यवहारस्येव प्राग्बोधादिति, तद्विवृणोति -
यथेति ।
‘या निशा सर्वभूतानाम्’ इत्यादिस्मृतेर्ज्ञानी व्यवहारावस्थायां सुप्तो भवति, ततो व्यावर्तयति -
प्राकृतस्येति ।
प्रत्यक्षाभिमतमित्युक्तत्वादाभसत्वाभिमाने प्राप्ते प्रत्याह -
नचेति ।
उक्तदृष्टान्तवशात्तत्वज्ञानात्प्राच्यामवस्थायां प्रमाणादिषु सत्यत्वाभिमानद्वारा सर्वव्यवहारसिद्धिरिति दार्ष्टान्तिकमाह -
तद्वदिति ।
कथं चानृतेन मोक्षशास्त्रेणेत्युक्तमनुभाषते -
कथमिति ।
असत्यान्न सत्यप्रतिपत्तिरित्यत्र दृष्टान्तमाह -
नहीति ।
असत्यादपि मरणातिरिक्तं सत्यमेव कार्यं भविष्यतीत्याशङ्क्याह -
नापीति ।
इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः ।
सत्यस्यासत्यादुत्पत्तिर्वा प्रतिपत्तिर्वा प्रतिषिध्यते । नाद्य, सत्यस्योत्पत्तेरनिष्टत्वादुत्पद्यमानस्य सर्वस्यैव वाचारम्भणत्वादित्यभिप्रत्याह -
नैष दोष इति ।
सत्यस्यापि केचिदुत्पत्तिमुपगच्छन्ति, तत्पक्षेऽपि न दोष इत्याह -
शङ्केति ।
शङ्कायाः स्वरूपेण सत्यत्वेऽपि विषयविशेषितत्वेनासत्यतेति भावः ।
द्वितीयेऽपि सत्या वाऽसत्या वा प्रतिपत्तिरसत्यान्नेति विकल्प्याद्यं निरस्यति -
स्वप्नेति ।
स्वप्नदर्शनवत्तत्कार्यस्यापि सर्पदंशनादेरसत्यत्वात्तद्विशेषितदर्शनमपि तथेति नासत्यात्सत्यप्रतिपत्त्युत्पत्ताविदमुदाहरणमिति शङ्कते -
तत्कार्यमपीति ।
विषयस्यासत्यत्वेऽपि विषयिणो ज्ञानस्य सत्यत्वान्मैवमिति परिहरति -
तत्रेति ।
नन्ववगतिशब्देन स्वरूपचैतन्यं वृत्तिज्ञानं वोच्यते । प्रथमे तस्याजन्यत्वादसत्यान्न सत्यप्रतिपत्त्युत्पत्तौ दृष्टान्तत्वम् । द्वितीये तस्य विषयातिरिक्ताकाराभावात् ‘अर्थेनैव विशेषो हि निराकारतया धियाम्’ इत्यङ्गीकारात्तदनिर्वाच्यतायामनिर्वाच्यत्वेनासत्यत्वान्नासत्यात्सत्यप्रतिपत्त्युत्पत्तिः, तत्राह -
नहीति ।
परपक्षे सत्यस्यापि ज्ञानस्य जन्यत्वाभ्युपगमादस्मत्पक्षे चाभिव्यक्तिस्वीकाराद्वृत्तिरूपस्यापि ज्ञास्य लौकिकाभिप्रायेण सत्यत्वादसत्यात्सत्यप्रतिपत्त्युत्पत्तौ दृष्टान्तत्वमविरुद्धमिति भावः ।
नन्ववगतिर्न स्वरूपचैतन्यं नापि वृत्तिज्ञानं किन्तु शरीराकारपरिणतभूतचतुष्टयनिविष्टं रूपादितुल्यं ज्ञानमिति लौकायतिकमतमाशङ्क्याह -
एतेनेति ।
एतच्छब्दार्थमेव विशदयति -
स्वप्नदृश इति ।
स्वप्नजाग्रद्देहयोर्व्यभिचारेऽपि प्रत्यभिज्ञानात्तदनुगतात्मैक्यसिद्धेः, चैतन्यस्य च देहधर्मत्वे रूपादिवत्तदनुपलब्धावनुपलब्धिप्रसङ्गात् , अवगतेश्चाबाधात्तद्रूपस्यात्मनो देहद्वयातिरेकसिद्धेर्देहमात्रात्मवादो न युक्त इत्यर्थः ।
सत्या प्रतिपत्तिरसत्याद्भवतीत्युपपाद्य सत्यस्य प्रतिपत्तिर्नासत्यादिति पक्षं श्रुत्या निराचष्टे -
तथाचेति ।
असत्यात्सत्यप्रतिपत्त्युत्पत्तौ छान्दोग्यश्रुतिवदैतरेयकश्रुतिरपि भवतीत्याह -
तथेति ।
सत्यस्य प्रतिपत्तिरसत्याद्भवति, तत्रान्वयव्यतिरेकावपि प्रमाणमित्याह -
प्रसिद्धं चेति ।
असत्यात्सत्यस्य प्रतिपत्तौ दृष्टान्तान्तरमाह -
तथेति ।
रेखास्वरूपस्य सत्यत्वेऽप्यकारादिरूपतया तथात्वाभावादसत्यात्सत्यप्रतिपत्तिरित्यभिसन्धायानृतेति विशेषणम् ।
आगमादसत्यादेव सत्यस्य ब्रह्मात्मनः सुज्ञानत्वेऽपि पूर्वोक्तनीत्या बलवतोऽध्यक्षादेरागमबाध्यत्वं कथमित्याशङ्क्याह -
अपिचेति ।
उक्तशङ्कानिवृत्त्यर्थमपिचेत्युक्तम् ।
निरपेक्षत्वे सत्युत्तरभाविप्रमाणत्वात्प्रत्यक्षादिबाधकत्वमागमस्येत्याह -
अन्त्यमिति ।
आगमप्रामाण्यस्य फलपर्यन्तत्वात्तस्य क्रियासाध्यत्वात्तस्या भेदप्रमितिपूर्वकत्वात्कथमात्मैक्यज्ञानस्यान्त्यतेत्याशङ्क्याह -
नात इति ।
तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति -
यथेति ।
तत्त्वमसीत्युक्ते सर्वाकाङ्क्षोपशान्तिरित्यत्र हेतुमाह -
सर्वात्मेति ।
या वाक्यादवगतिरुत्पद्यते सा सर्वस्य पूर्णस्य ब्रह्मणः प्रत्यगात्मनश्चैकरस्यमधिकृत्य भवति । तथाच प्रत्यगात्मातिरिक्तस्याकाङ्क्षणीयस्यानवशिष्टत्वाद्युक्ता सर्वाकाङ्क्षोपशान्तिरित्यर्थः ।
श्रुताद्वाक्यादवगतौ सत्यामवशिष्यमाणार्थाभावेनाकाङ्क्षाभावं विवृणोति -
सति हीति ।
प्रत्यक्षादिविरोधादवगतिरेवाद्वैतमवगाहमाना नोत्पद्यते, कुतः सर्वकाङ्क्षानिवृत्तिरित्याशङ्क्याह -
न चेति ।
अस्य पितुर्वचनात्तदात्मततत्त्वं श्वेतकेतुर्विज्ञातवान्किलेति यावत् । आदिशब्दात् ‘आनन्दो ब्रह्मेति व्यजानात्’ इत्याद्या श्रुतिर्गृह्यते ।
किञ्चावगतिमुद्दिश्यान्तरङ्गबहिरङ्गसाधनविधानादपि तदुत्पत्तिरेष्टव्येत्याह -
अवगतीति ।
नन्ववगतिरुत्पन्नापि नार्थवती, सिद्धेऽर्थे स्वरूपेण फलाभावान्मानान्तरविरोधाद्वा भ्रान्तिरेवेत्याशङ्क्याह -
न चेयमिति ।
आनर्थक्याभावे हेतुमाह -
अविद्येति ।
भ्रान्तित्वाभावे हेतुमाह -
बाधकेति ।
नहि प्रत्यक्षादि बाधकं, तस्य कल्पितद्वैतविषयत्वेन तात्त्विकाद्वैतप्रमित्यविरोधित्वादित्यर्थः ।
ननु सर्वस्य कल्पितत्वे सत्यासत्यव्यवहारो लौकिको वैदिकश्च न स्यादित्याशङ्क्य स्वप्नदृष्टान्तेनोक्तं स्मारयति -
प्राक्चेति ।
आगमादर्थवती सर्वाकाङ्क्षाशान्तिहेतुर्ब्रह्मात्मप्रतिपत्तिर्भवतीति स्थिते फलितमाह -
तस्मादिति ।
कल्पनाममृष्यमाणः श्रौतमेव ब्रह्मणोऽनेकात्मकत्वमिति शङ्कते -
नन्विति ।
कथं यथोक्तदृष्टान्तावष्टम्भात्परिणामि ब्रह्म श्रौतमित्याशङ्क्य दृष्टान्तदार्ष्टान्तिकयोः साम्यध्रौव्यादित्याह -
परिणामिनो हीति ।
दृष्टान्तगतं विवक्षितमंशं हित्वा मानान्तरविरुद्धोंऽशो दार्ष्टान्तिके नाभ्युपेतव्योऽतिप्रसङ्गात् । अस्ति च परिणामित्वे ब्रह्मणो मानान्तरविरोधस्तस्य कौटस्थ्यश्रुतेरिति परिहरति -
नेत्युच्यत इति ।
श्रुतिद्वयानुरोधात्कूटस्थत्वपरिणामित्वे स्यातामित्याशङ्क्य युगपत्क्रमेण वेति विकल्प्याद्यं विरोधेन निरस्यति -
नहीति ।
द्वितीयं शङ्कते -
स्थितीति ।
कूटस्थस्य ब्रह्मणो न परिणामितेति विशेषणान्न तस्य कदाचिदपि परिणामयोग्यता स्वरूपप्रच्युतिप्रसङ्गादित्याह -
नेति ।
तदेव स्फुटयति -
नहीति ।
परिणामिनां हि बाणपाषाणादीनां क्रमेण स्थितिगती युक्ते, नतु परिणामायोग्यस्य क्रमेण परिणामतद्राहित्ये ब्रह्मणः स्यातामित्यर्थः ।
ब्रह्मणि विरुद्धधर्मासम्भवे कूटस्थत्वं हित्वा परिणामित्वमेवेष्यतामित्याशङ्क्याह -
कूटस्थं चेति ।
अनवयवावच्छिन्नकूटस्थब्रह्मणः स्वरूपादप्रच्युतस्वभावस्य सर्वप्रकारतद्विपरीतकार्याकारपरिणामश्रुत्यनुपपत्त्या कार्यप्रपञ्चस्य स्वरूपादप्रच्युतशुक्त्यादे रजतादिपरिणामवन्मिथ्याविवर्तत्वं सिध्यतीत्युक्तम् । सम्प्रति परिणामश्रुतेः स्वार्थे फलाभावादपि परिणामो न विवक्षित इत्याह -
नचेति ।
यद्ब्रह्मज्ञानस्य फलं तदेव परिणामिब्रह्मज्ञानस्यापि शास्त्रमेव चात्र प्रमाणमित्याशङ्क्याह -
कूटस्थेति ।
तर्हि परिणामिश्रुतीनामानर्थक्यादध्ययनविधिविरोधः स्यादित्याशङ्क्य फलवच्छेषतया साफल्यान्मैवमित्याह -
तत्रेति ।
सृष्ट्यादिश्रुतीनां स्वार्थे फलवैकल्ये सतीति यावत् ।
तत्र मीमांसकसंमतमुदाहरणमाह -
फलवदिति ।
यथाहि स्वर्गादिफलवतो दर्शपूर्णमासादेः संनिधाने श्रुतं प्रयाजादि स्वतो विफलं तदङ्गमित्यङ्गीक्रियते, तथा सृष्ट्यादिदर्शनमपि ब्रह्मज्ञानशेषतया तत्फलेनैव फलवत्त्वात्तदङ्गमित्यर्थः ।
ननु प्रयाजादेः श्रूयमाणफलेनैव फलवत्त्वसम्भवे फलवदङ्गत्वं किमित्यङ्गीकर्तव्यमित्याशङ्क्य प्रधानफलेनैव फलवत्त्वसिद्धौ फलान्तरकल्पने गौरवादङ्गेषु च फलश्रुतेरर्थवादत्वाङ्गीकारादित्याह -
नत्विति ।
इतिशब्दः सिद्धं भवतीत्यनेन सम्बध्यते ।
‘तं यथा यथोपासते तदेव भवति’ इति श्रुत्या परिणामिब्रह्मज्ञानात्तत्प्राप्तिरेव फलमित्याशङ्क्याह -
नहीति ।
‘तस्य तावदेव’ इत्यादिना प्रतिपन्नं कैवल्यं विहाय सामान्यशास्त्रसिद्धफलाकर्षणे वाक्यभेदः स्यादिति भावः ।
कूटस्थाद्वयत्वे ब्रह्मणः श्रुतिप्रतिज्ञयोर्विरोधः स्यादिति शङ्कते -
कूटस्थेति ।
विरोधद्वयं परिहरति -
नेत्यादिना ।
अविद्यात्मके नामरूपे एव बीजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्षत्वादैश्वर्यस्य प्रतिज्ञासूत्रस्य तदनुसारिश्रुतिवचनस्य च पारमार्थिककूटस्थाद्वयत्वे न विरोधोऽस्तीत्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति -
तस्मादित्यादिना ।
उक्तमेवार्थं चोद्यपरिहाराभ्यां स्फोरयति -
कथमित्यादिना ।
नामरूपयोरात्मभूतत्वे वस्तुत्वशङ्कायामिवेत्युक्तमुपमार्थत्वमिवकारस्य वारयन्नाभासार्थत्वं स्फुटयति -
अविद्येति ।
तयोरविद्याकल्पितत्वं साधयति -
तत्त्वान्यत्वाभ्यामिति ।
न हीश्वरत्वेन ते निरुच्येते, जडाजडयोरभेदायोगात् । नापि ततोऽन्यत्वेन निरुक्तिमर्हतः, स्वातन्त्र्येण सत्तास्फूर्त्यसम्भवात् । नहि जडमजडानपेक्षं सत्तास्फूर्तिमदुपलक्ष्यते, जडत्वभङ्गप्रसङ्गात् । तस्मादविद्यात्मके नामरूपे इत्यर्थः ।
तयोश्च कार्यलिङ्गकमनुमानं प्रमाणयति -
संसारेति ।
तयोराश्रयं विषयं च दर्शयति -
सर्वज्ञस्येति ।
तयोरेव श्रुतिस्मृती प्रमाणयति -
मायेति ।
‘मायां तु प्रकृतिं विद्यात् , ‘ ‘देवात्मशक्तिम्’ इत्येवंविधा श्रुतिः । ‘प्रकृतिं पुरुषं चैव’ ‘मायाह्येषा’ इत्येवंप्रकारा च स्मृतिः ।
नामरूपे चेदीश्वरात्मभूते तर्हि सोऽपि ताभ्यामभिन्नत्वात्तद्वदेव जडः स्यादित्याशङ्क्याह -
ताभ्यामिति ।
ईश्वरस्य नामरूपाभ्यामर्थान्तरत्वे प्रमाणमाह -
आकाश इति ।
यत्तु नामरूपबीजव्याकरणापेक्षमैश्वर्यमिति, तत्र तद्व्याकरणे प्रमाणमाह -
नामरूपे इति ।
जीवस्य व्याकर्तृत्वं व्यासेद्धुं वाक्यान्तरमुदाहरति -
सर्वाणीति ।
नामरूपव्याकरणस्य नानाविधत्वसिद्ध्यर्थं श्रुत्यन्तरं पठति -
एकमिति ।
आदिशब्देन ‘सच्च त्यच्चाभवत्’ इत्याद्या श्रुतिर्गृह्यते । दर्शितश्रुतिभ्यो नामरूपव्याकरणमीश्वरायत्तं सिद्धं तदपेक्षं चास्यैश्वर्यमित्यर्थः ।
स्वाभाविकत्वादैश्वर्यस्य कुतो व्याकरणापेक्षेत्याशङ्क्याह -
एवमिति ।
उक्तश्रुतिस्मृत्यनुरोधादविद्याकृते तदात्मके ये नामरूपे तद्रूपानवच्छिन्नोपाध्यभिव्यक्तश्चिदात्मा ताभ्यामेव नामरूपाभ्यां विरचितं विचित्रं प्रपञ्चं नियमयन्नीश्वरो नाम । ततो न स्वाभाविकमैश्वर्यमित्यर्थः ।
ईश्वरस्योपाध्यनुरोधित्वे दृष्टान्तमाह -
व्योमेति ।
अविद्याकृतजगदीशितृत्वेऽपि जीवानामतत्कृतत्वात्कुतस्तान्प्रत्यैश्वर्यमित्याशङ्क्याह -
स चेति ।
स्वात्मभूतत्वे भेदाभावात्कुतो नियम्येत्याशङ्क्याह -
घटेति ।
ननु घटवदुपाधेरनधिगमे कथमौपाधिकभेदानुरोधेन नियम्यनियन्तृत्वं कल्प्यते, तत्राह -
अविद्येति ।
ईश्वरस्येश्वरत्वं काल्पनिकमिति स्पष्टयितुं विशिनष्टि -
व्यवहारेति ।
कल्पितमीश्वरत्वमित्युपपादितं निगमयति -
तदेवमिति ।
सर्वज्ञत्वादिवदीश्वरत्वस्य वास्तवत्वमाशङ्क्याह -
सर्वज्ञत्वमिति ।
सर्वज्ञत्वं चाविद्यात्मकोपाधिपरिच्छेदापेक्षमिति सम्बन्धः । पूर्वत्रोक्तेन प्रकारेणाविद्यात्मको योऽसावुपाधिस्तेन कृतो यो जीवप्रपञ्चाख्यः परिच्छेदस्तदपेक्षमिति यावत् ।
अन्वयमुखेनोक्तमर्थं व्यतिरेकद्वारा निरूपयति -
नेत्यादिना ।
परमार्थतश्चिद्धातोरीश्वरत्वानुपपत्तौ श्रुतिं प्रमाणयति -
तथाचेति ।
ननु परमार्थावस्थायां दर्शनादिव्यवहारराहित्यमिहोच्यते न पुनरीशित्रीशितव्यादिव्यवहारासत्त्वमित्याशङ्क्य दर्शनादिव्यवहाराभावस्योपलक्षणत्वादत्र समस्तव्यवहारराहित्यं विवक्षितमित्याह -
एवमिति ।
बहुवचनं ‘स एष नेति नेत्यात्मा’ ‘अदृश्येऽनात्म्ये’ ‘यत्तदद्रेश्यम्’ ‘अस्थूलम्’ इत्यादिवाक्यसङ्ग्रहार्थम् ।
श्रौतेऽर्थे भगवतोऽपि संमतिमाह -
तथेति ।
वेदान्तेष्विव भगवद्गीतास्वपि परमार्थावस्थायां व्यवहाराभावः प्रदर्श्यत इति सम्बन्धः ।
कथं तर्हि क्रियाकारकफलतत्सम्बन्धबुद्धिः, तत्राह -
स्वभावस्त्विति ।
अनाद्यविद्यावशात्क्रियाकारकादिप्रवृत्तिरित्यर्थः ।
तथापि भक्तानितरांश्चानुगृह्णन्निगृह्णंश्च तदीयसुकृतदुष्कृते परमेश्वरो वस्तुतो नाशयतीत्याशङ्क्याह -
नादत्त इति ।
सर्वेषां परमात्मैक्य कुतः सुकृतदुष्कृतयोर्विभागेन प्रवृत्तिरित्याशङ्क्याह -
अज्ञानेनेति ।
ऐश्वर्यादेर्वस्तुतोऽनुपपत्तिमुक्त्वा कल्पनयोपपत्तौ श्रुतिस्मृती क्रमेणोदाहरति -
व्यवहारेति ।
श्रुताविवेश्वरगाीतास्वपि व्यवहारावस्थायामीश्वरादिव्यवहार उक्त इति सम्बन्धः ।
परमार्थावस्थायां सर्वव्यवहाराभावे सूत्रकारस्यापि संमतिमाह -
सूत्रेति ।
‘तदनन्यत्वम्’ इत्यनेनायुक्तं कार्यमिथ्यात्वं कथ्यते, ‘स्याल्लोकवत्’ इति पूर्वसूत्रे तत्सत्यत्ववचनादित्याशङ्क्याह -
व्यवहारेति ।
‘आत्मकृतेः परिणामात् ‘ ‘क्षीरवद्धि’ इत्यादिना परिणामोक्तेरेष्टव्यं कार्यप्रपञ्चस्य सत्यत्वमित्याशङ्क्यान्यार्थत्वात्परिणामवादस्य न तद्विवक्षेत्याह -
परिणामेति ॥ १४ ॥
तदनन्यत्वमित्यस्य श्रुत्यादिविरोधः समाहितः । सम्प्रति तदनन्यत्वे मानमनुमानमाह -
भावे चेति ।
कारणभावे भाने च कार्यस्य भावाद्भानाच्च तस्य कारणादनन्यत्वमित्यर्थः ।
विमतं कारणानतिरिक्तं, तद्भावभाननियतभावभानत्वात् , तत्स्वरूपवदित्यनुमानं सूत्रयोजनया दर्शयितुं चकारार्थमाह -
इतश्चेति ।
इतःशब्दार्थं स्फुटन्नवशिष्टं व्याचष्टे -
यत्कारणमिति ।
हेतुमुदाहरणारूढतया द्रढयति -
तद्यथेति ।
सत्यपि घटे पटोपलब्धिदर्शनात्कारणभावे कार्योपलब्धिर्नाभेदसाधनमित्याशङ्क्याह -
नचेति ।
अन्यस्य भावेऽन्यस्योपलब्धिनियतेत्यत्र दृष्टान्तमाह -
नहीति ।
ननु गवाश्वयोरकार्यकारणत्वादनियतोपलम्भेऽपि कार्यकारणयोरनन्यत्वमन्तरेणैव कार्यकारणत्वकृता नियतोपलब्धिरित्याशङ्क्याह -
नचेति ।
नियमेनोपलम्भेऽपि नानन्यत्वमिति व्यभिचारं शङ्कते -
नन्विति ।
धूममात्रस्याग्निना नियतोपलब्धिर्धूमविशेषस्य वेति विकल्प्याद्यं प्रत्याह -
नेत्युच्यत इति ।
द्वितीयं शङ्कते -
अथेति ।
ईदृशत्वं बहलोर्ध्वाग्रत्वादिविशिष्टत्वमसत्यग्नौ न भवति न भाति चेति द्रष्टव्यम् ।
धूमविशेषस्याग्निना नियतोपलब्धिमुपेत्य हेतुशिक्षया व्यभिचारं परिहरति -
नैवमिति ।
तद्भावानुविधायिभावत्वं तद्भानानुविधायिभानत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । घूमविशेषस्य चाग्निभावानुविधायिभावत्वेऽपि न तद्भानानुविधायिभावत्वं तद्भानानुविधायिभानत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । धूमविशेषस्य चाग्निभावानुविधायिभावत्वेऽपि न तद्भानानुविधायिभानत्वमग्निभानस्य धूमभानाधीनत्वात् । नच तद्भानानुविधायिभानत्वमेवास्तु हेतुः, प्रभाभानानुविधायिभाने चाक्षुषरूपे व्यभिचारात् । तस्माद्विशिष्टहेत्ववष्टम्भात्कार्यस्य कारणादनन्यत्वमुचितमिति भावः ।
एतदेव सूत्रं पाठान्तरेण व्याकुर्वन्कार्यस्य कारणादनन्यत्वे मानान्तरमाह -
भावाच्चेति ।
प्रत्यक्षोपलब्धिभेव प्रतिज्ञोदाहरणाभ्यां विवृणोति -
भवति हीति ।
तन्तुव्यतिरेकेणातानवितानाभ्यां पटो भातीत्याशङ्क्याह -
केवलास्त्विति ।
बहुत्वेऽपि तन्तूनामेकप्रावरणार्थक्रियावच्छेदादेकशब्दगोचरत्वं, बहूनामपि वर्णानामेकार्थबुद्धिहेतुत्ववदेकार्थक्रियाकारित्वं च तेषामविरुद्धमिति भावः ।
तन्तुव्यतिरिक्तपटाभाववदंशुव्यतिरिक्ततन्त्वभावोऽपि प्रत्यक्षः सिध्यतीत्याह -
तथेति ।
अंशवोऽपि स्वावयवव्यतिरेकेण न सन्तीति प्रत्यक्षमित्याह -
अंशुष्विति ।
ननु प्रत्यक्षे कार्यकारणभावे कार्यं कारणमात्रमिति शक्यं प्रत्यक्षयितुं, यत्र त्वसौ प्रत्यक्षो न भवति तत्र कथमिति, तत्राह -
अनयेति ।
विमतं स्वोपादानाव्यतिरिक्तं, कार्यत्वात् , पटवदित्यनुमानं मूलकारणपर्यन्तं धावतीत्यर्थः ।
प्रत्यक्षानुमानाभ्यां फलितमर्थमाह -
तत इति ।
ब्रह्मैव मूलकारणं परमार्थसदवान्तरकरणानि त्वनिर्वाच्यनीत्यर्थः ।
कारणत्वाविशेषात्तन्त्वादिवद्ब्रह्मणोऽपि कारणान्तरमनुमेयमित्याशङ्क्याह -
तत्रेति ।
सर्वजगद्भ्रमाधिष्ठानतया तस्याकल्पितत्वान्नाधिष्ठानान्तरापेक्षेति भावः ॥ १५ ॥
कार्यस्य कारणादनन्यत्वे श्रुतार्थापत्तिं प्रमाणान्तरमाह -
सत्त्वाच्चेति ।
श्रुतार्थापत्तिमेव स्फोरयितुं प्रथमं चशब्दव्याख्यानपूर्वकं श्रुतिमुदाहरति -
इतश्चेति ।
प्रागुत्पत्तेः सत्त्वं कारणस्यैवात्र श्रुतं न कार्यस्येत्याशङ्क्याह -
इदंशब्देति ।
यदिदानीं स्थूलकार्यं दृष्टं तस्य सृष्टेः प्राक्कारणसामानाधिकरण्यानुपपत्त्या तत्तादात्म्यावागमान्न वस्तुभेदोऽस्तीत्यर्थः ।
कार्यकारणयोरनन्यत्वे प्रमिते प्रमाणानुग्राहिकां युक्तिमपि समुच्चिनोति -
यच्चेति ।
कार्यस्य प्रागवस्थायां कारणात्मना सत्त्वेऽपि निष्पन्नं ततो भिन्नं स्यादित्याशङ्क्याह -
तस्मादिति ।
यथा सिकतास्वविद्यमानं तैलं न ततो जायते, तथात्मनोऽपि जगन्न जायेत यद्यात्मरूपेण प्रागवस्थायां नासीत् । जायते च । तस्मादात्मात्मना प्रागासीदिति निश्चयसिद्धिरित्यर्थः ।
कार्यकारणयोरनन्यत्वे युक्त्यन्तरं वक्तुं भूमिकां करोति -
यथा चेति ।
यथा घटः सदा घट एव न जातु पटो भवत्येवं सदपि कारणं सदा सदेव न कदाचिदसदिष्टं, तथा कार्यमपि सच्चेन्न कदाचिदसद्भवितुमर्हतीत्यर्थः ।
कार्यकारणयोर्भेदेनापि सत्त्वसम्भवादनन्यत्वं कथमित्याशङ्क्याह -
एकं चेति ।
सतोऽसतो वा सद्भेदकत्वाभावात्तदेकतेत्यर्थः ।
अभिन्नसत्त्वाभिन्नत्वान्मिथोऽपि कार्यकारणेन न भिद्येते सत्त्ववदिति फलितमाह -
अतोऽपीति ॥ १६ ॥
प्रागुत्पत्तेः सत्त्वं कारणात्मना कार्यस्येत्युक्तमाक्षिप्य समाधत्ते -
असदिति ।
तत्र चोद्यं विभजते -
निन्वित्यादिना ।
परिहारभागमवतारयति -
नेतीति ।
नञर्थमाह -
नहीति ।
तर्हि केनाभिप्रायेणायमसद्व्यपदेश इत्याशङ्क्य धर्मान्तरेणेति व्याचष्टे -
किं तर्हीति ।
तत्र प्रश्नपूर्वकं गमकं कथयति -
कथमिति ।
सूत्रावयवं व्याख्याति -
यदिति ।
‘ अक्ताः शर्करा उपदधाति’ इत्यत्र केनेति तैलघृतादौ सन्देहे ‘तेजो वै घृतम्’ इति वाक्यशेषाद्धृतेनेति निश्चितमित्यर्थः ।
सामान्यन्यायं प्रकृते दर्शयति -
इह चेति ।
‘असदेवेदम्’ इत्यादावसच्छब्देन तुच्छमुच्यते किंवा सदेवानभिव्यक्तनामरूपमिति सन्देहे ‘तत्सदासीत्’ इति वाक्यशेषात्तुच्छव्यावृत्तं सदेवानभिव्यक्तनामरूपमसच्छब्दितमिति निश्चीयते, तस्य तच्छब्देन परामृष्टस्य सच्छब्देन निर्देशादित्यर्थः ।
इतश्चात्र तुच्छमसच्छब्दवाच्यं न भवतीत्याह -
असतश्चेति ।
‘असद्वा इदम्’ इत्यत्र ‘तत्सदासीत्’ इति वाक्यशेषाभावात्कुतो निश्चयसिद्धिरित्याशङ्क्याह -
असद्वेति ।
वाक्यशेषस्य सत्कार्यविषयत्वे फलितमाह -
तस्मादिति ।
वृद्धव्यवहाराभावे कथमसच्छब्दस्य सति प्रयोग इत्याशङ्क्योपचारादित्याह -
नामेति ॥ १७ ॥
ननु कार्यस्यासतोऽर्थान्तरत्वे सत्त्वमास्थेयं, परस्परविरोधिनोर्विधान्तराभावात् । तथाच कार्यस्यानिर्वाच्यत्वाभ्युपगमभङ्गप्रसङ्गादपसिद्धान्तः स्यादित्याशङ्क्य कारणस्यैवाप्राकृतकारणत्वस्य सत्त्वं, कार्यस्य पुनरनिर्वाच्यत्वमेवेति प्रतिपादयितुं प्रक्रमते -
युक्तेरिति ।
हेतुद्वयं प्रतिज्ञाद्वयेन योजयति -
युक्तेश्चेति ।
कासौ युक्तिरित्यपेक्षायां युक्तिं प्रकटयन्नसदुत्पत्तिं तावत्प्रत्याह -
युक्तिरिति ।
प्रतिनियममेव प्रकटयति -
नेत्यादिना ।
कार्यार्थिनां प्रतिनियतकारणोपादानानुपपत्त्या कार्यस्य तत्र सत्त्वं सिद्धयतीत्यर्थापत्तिमाह -
तदिति ।
नन्वपेक्ष्यमाणघटादिजनकत्वान्मृदादिरेवोपादानं न तु मृदादौ घटादेः सत्त्वादित्यन्यथोपपत्तिरर्थापत्तेरिति, तत्राह -
अविशिष्टे हीति ।
नियामकाभावादसज्जननासम्भवान्नान्यथोपपत्तिरित्यर्थः ।
नियामकमतिशयमाशङ्कते -
अथेति ।
अतिशयो हि कार्यस्य कारणस्य वेति विकल्प्याद्ये धर्मस्य धर्मिपरतन्त्रत्वादपसिद्धान्तापत्तिरित्याह -
अत इति ।
सार्वविभक्तिकत्वात्तसिः सप्तम्यर्थे शङ्कितपक्षवाची । प्रागवस्था दध्यादिकार्यावस्था ।
द्वितीयं दूषयति -
शक्तिश्चेति ।
कारणस्य हि धर्मः । शक्तिरतिशयशब्दिता नियामकत्वेनेष्टा कार्यकारणाभ्यामन्या कार्यात्मना चासती कार्यं न नियच्छेदिति । अत्र हेतुमाह -
असत्त्वेति ।
कार्यात्मना शक्तेरसत्त्वे तथैवानियामकत्वमसत्त्वस्योभयत्र तुल्यत्वात् । द्वाभ्यामन्यत्वे च तस्या न नियामकत्वं, तयोरिवान्योन्यं शक्तेस्ताभ्यामन्यत्वस्येष्टत्वादित्यर्थः ।
शक्तेरसत्त्वेऽन्यत्वे च नियामकत्वासम्भवे फलितमाह -
तस्मादिति ।
तथाचापसिद्धान्ततादवस्थ्यमिति शेषः ।
असत्कार्यवादे दोषान्तरमाह -
अपिचेति ।
भेदबुद्ध्यभावे समवायो निमित्तं न तु तादात्म्यमित्याशङ्क्य समवायस्तर्हि परतन्त्रः स्वतन्त्रो वेति विकल्प्याद्ये सम्बन्धद्वारा स्वभावाद्वा पारतन्त्र्यमिति पुनर्विकल्प्याद्यं प्रत्याह -
समवायेति ।
समवायस्य स्वातन्त्र्यपक्षं दूषयति -
अनभ्युगम्यमाने चेति ।
समवायस्य समवायिभिः सम्बन्धो नेष्यते किन्तु स्वातन्त्र्यमेवेत्यत्रावयवावयविनोर्द्रव्यगुणादीनां च विप्रकर्षः स्यात्संनिधापकाभावादित्यर्थः ।
स्वभावादेव समवायस्य पारतन्त्र्यमिति पक्षमुत्थापयति -
अथेति ।
स्वपरनिर्वाहकत्वं संयोगस्यापि स्यादविशेषादिति परिहरति -
संयोगोऽपीति ।
तर्कपादे चैतद्व्यक्तीभविष्यति ।
द्रव्यगुणादिषु समवायकल्पनामङ्गीकृत्य दोषमुक्त्वा तत्कल्पनैवायुक्तेत्याह -
तादात्म्येति ।
सिद्धे हि भेदे द्रव्यगुणादीनां समवायसिद्धिः समवायसिद्धौ च भेदसिद्धिरित्यत्रान्योन्याश्रयता । नहि सामानाधिकरण्येन तादात्म्ये तेषां भाति स्वारसिको भेदः सिध्यतीति भावः ।
असत्कार्यवादनिरासेन कार्यस्य कारणे कल्पितत्वमुक्तम् । इदानीं कार्यस्य कारणे वृत्त्यनुपपत्तेश्च कल्पितत्वमित्याह -
कथं चेति ।
कथंशब्दसूचितं विकल्पद्वयं विशदयति -
किमिति ।
तत्राद्यमनूद्यावयविनः स्वरूपेण वावयवेषु वृत्तिरवयवशो वेति विकल्प्याद्ये दोषमाह -
यदीत्यादिना ।
तत्र हेतुमाह -
समस्तेति ।
मध्यपरभागयोरर्वाग्भागव्यवहितत्वादित्यर्थः ।
सर्वावयवव्याप्तावपि कतिपयावयवसंनिकर्षादवयविनो दृष्टिरिष्टेत्याशङ्क्याह -
नहीति ।
कल्पान्तरमुत्थापयति -
अथेति ।
तथाच यथावयवैः सूत्रं कुसुमानि व्याप्नुवत्कतिपयकुसुमग्रहणेऽपि गृह्यते तथा कतिपयावयवग्रहणेऽपि भवत्यवयविनो ग्रहणमित्यर्थः ।
तत्र किमारम्भकावयवैरेव तेष्ववयवी वर्तते किंवा तदतिरिक्तावयवैरिति विकल्प्याद्यं प्रत्याह -
तदापीति ।
यत्र यद्वर्तते तत्तदरिक्तावयवैरेव तत्र वर्तमानं दृष्टमिति दृष्टान्तगर्भं हेतुमाचष्टे -
कोशेति ।
द्वितीयं दूषयति -
अनवस्थेति ।
कल्पितानन्तावयवव्यवहिततया प्रकृतावयविनो दूरविप्रकर्षात्तन्तुनिष्ठत्वं पटस्य न स्यादिति भावः ।
कल्पान्तरमनुवदति -
अथेति ।
तत्रापि क्रमेण वा प्रत्यवयवं वर्तेताक्रमेण वेति विकल्प्याद्ये दोषमाह -
तदेति ।
तदेव दृष्टान्तेनोपपादयति -
नहीति
द्वितीयं निराचष्टे -
युगपदिति ।
यथा प्रतिव्यक्ति साकल्येन युगपद्वर्तमानं सामान्यं न भिद्यते तथावयविनोऽपि वस्तुतो न भेदोऽस्तीति शङ्कते -
गोत्वादिवदिति ।
वैषम्यं दर्शयन्दूषयति -
न तथेति ।
तदेव स्पष्टयति -
यदीति ।
प्रत्येकमवयवेष्ववयविनः परिसमाप्तिपक्षे दोषान्तरमाह -
प्रत्येकेति ।
यद्धि गोत्वस्य शाबलेये कार्यं न तद्बाहुलेेयेऽस्ति तथेहापि स्यादित्याशङ्क्याह -
कार्येणेति ।
न हि गोत्वस्य कार्यान्वयः किन्तु व्यक्तेरेव । प्रकृते त्ववयवानां तदनन्वयादवयविनस्तद्भावात्तस्य सर्वत्रैक्यादर्थक्रियाव्यवस्थानुपपत्तिः । न च तत्तदवयवनिष्ठस्यैवावयविनस्तत्कार्यमवयवानां कार्यानन्वये सत्युक्तनियमायोगात्प्रतीत्या तन्नियमे युक्त्यभिमानित्वव्याघातादिति भावः ।
वृत्तिविकल्पानुपपत्त्या कार्यस्य कारणे कल्पितत्वं प्रसाध्यासत्कार्यवादे दोषान्तरमाह -
प्रागिति ।
भवत्वकर्तृकत्वमित्याशङ्क्याश्रयरूपकारणाभावादुत्पत्तिक्रियाख्यं कार्यमनुत्पन्नं निरात्मकं स्यादित्याह -
निरात्मिकेति ।
इतश्चोत्पत्तेरकर्तृकत्वमयुक्तमित्यनुमानेन दर्शयति -
उत्पत्तिश्चेति ।
क्रियात्वेऽपि सकर्तृकत्वाभावे किं बाधकमित्याशङ्क्याह -
क्रिया चेति ।
अस्तु तर्हि कारणाश्रयोत्पत्तिस्तथाच सिद्धसाध्यतेत्याशङ्क्याह -
घटस्येति ।
घटोत्पत्तावुक्तन्यायं कपालोत्पत्तावतिदिशति -
तथेति ।
इष्टापत्तिमाशङ्क्य निराचष्टे -
तथाचेति ।
उत्पादना हि कारकव्यापारो नोत्पत्तिः । नच तयोरैक्यं, प्रयोज्यप्रयोजकव्यापारतया भिन्नत्वात् । अन्यथा घटमुत्पादयतीतिवद्धटमुत्पद्यत इति स्यादिति भावः ।
ननु घटो जायत इत्यत्र घटशब्दो घटजननोन्मुखेषु कारकेषु तादात्म्यनिमित्तोपचारात्प्रयुज्यते, तथाच घटोत्पत्त्युक्तौ कुलालादिकारकोत्पत्त्युक्तिरविरुद्धेति, तत्राह -
नचेति ।
सिद्धसाध्यत्वाभावेऽपि क्रियात्वहेतोरसिद्धिरिति शङ्कते -
अथेति ।
स्वकारणसत्तासम्बन्धः । स्वकारणसमवायः सत्तासमवायो वेति यावत् ।
कार्यस्य क्रियारूपोत्पत्त्यनभ्युपगमे कथमात्मलाभः स्यादित्याशङ्क्याह -
आत्मलाभश्चेति ।
क्रियात्वाभावमङ्गीकृत्योत्पत्तेः साश्रयत्वं साधयति -
कथमिति ।
आक्षेपमेव विवृणोति -
सतोर्हीति ।
असतोर्वेति दृष्टान्तोक्तिः । उत्पत्तिः साश्रया, सम्बन्धत्वात् , संयोगवदित्यक्रियात्वेऽपि शक्यं साश्रयत्वं प्रतिपादयितुमिति भावः ।
कार्यस्यासतोऽपि तदाश्रयत्वोपपत्तेः सिद्धसाध्यतेत्याशङ्क्य निरुपाख्यत्वं तद्विलक्षणत्वं वा कार्यस्य विवक्षितमिति विकल्प्याद्ये मर्यादाकरणानुपपत्तिरित्याह -
अभावस्येति ।
कार्यशब्दितस्येति शेषः ।
अनुपपत्तिमेव स्फोरयति -
सतां हीति ।
अभावस्य मर्यादा न दृष्टेत्यत्र दृष्टान्तमाह -
नहीति ।
कार्यस्य कारकव्यापारसाध्यतया निरुपाख्यवैलक्षण्यान्न वन्ध्यापुत्रतुल्यतेति द्वितीयमाशङ्क्याह -
यदि चेति ।
घटप्रागभावस्य घटेन प्रतियोगिनोपाख्येयतया कारकव्यापारसाध्यत्वं युक्तं, वन्ध्यापुत्रस्य तु नैवमित्याशङ्क्याह -
वयं त्विति ।
विमतं न कारकव्यापारवत् , असत्त्वात् , संमतवदिति भावः ।
कार्यस्यासत्त्वं निरस्यता सत्त्वमेव साधितमिति मन्वानश्चोदयति –
नन्विति ।
कारकव्यापारो हि सत्कार्यवादे कार्यस्वरूपसिद्धये वा ।
नाद्य इत्याह -
यथेति ।
द्वितीयं प्रत्याह -
तदनन्यत्वाच्चेति ।
कार्यस्य कारणेनाभिन्नत्वस्य सत्कार्यवादे सदा भावान्न तादर्थ्येनापि कारकव्यापारोऽर्थवानित्यर्थः ।
मा तर्हि कारकव्यापारो भूदित्याशङ्क्याह -
व्याप्रियते चेति ।
परमते कारकव्यापारस्यानर्थक्यात्तदर्थवत्त्वानुपपत्तिरसत्त्वं कार्यस्य प्राक्काले साधयतीति फलितमाह -
अत इति ।
मायाविनो व्याघ्राद्याकारतापत्तौ मन्त्राद्यपेक्षावत्कारणस्यापि कार्याकारापत्तौ कारकव्यापारापेक्षास्तीति समाधत्ते -
नैष दोष इति ।
ननु प्रागपि कार्याकारोऽस्ति न वा । प्रथमे कारकव्यापारवैयर्थ्यम् । चरमे त्वसदुत्पत्तिः । तत्राह -
कार्याकारोऽपीति ।
रज्जुरिव भुजङ्गस्य कारणमेव कार्यस्य तत्त्वमतोऽनिर्वाच्यं कार्यरूपं भिन्नमिव चाभिन्नमिव च भाति । असत्कार्यवादस्य प्रागुक्तन्यायप्रत्युदस्तत्वादित्यर्थः ।
विवर्तवादेन परिहारमुक्त्वा परिणामवादेनापि परिहरति -
नचेति ।
वस्त्वन्यत्वं परमार्थतो भिन्नत्वमिति यावत् ।
तदेव दृष्टान्तेन स्पष्टयति -
नहीति ।
देवदत्ते विशेषदृष्टिमात्रेण वस्तुतोऽन्यत्वाभावे हेतुमाह -
स एवेति ।
उक्तार्थमुदाहरणान्तरेण द्रढयति -
तथेति ।
दृष्टान्ते जन्मोच्छेदव्यवधानाभावान्न वस्त्वन्यत्वमिति युक्तं, दार्ष्टान्तिके तु वस्त्वन्यत्वमेव जन्मोच्छेदरूपविरुद्धधर्माध्यासादिति शङ्कते -
जन्मेति ।
हेत्वसिद्ध्या परिहरति -
नेत्यादिना ।
क्षीरस्य मृदः सुवर्णादीनां च दधिघटरुचकादिभावस्याध्यक्षत्वात्संस्थाननाशेऽपि तदन्वयिन एवोपादानत्वाद्धेत्वसिद्धिरित्यर्थः ।
यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्र वटबीजादीनामङ्कुरादावन्वयो न दृश्यते जन्मविनाशव्यवधानात्तत्र वस्त्वन्यत्वमित्याशङ्क्याह -
अदृश्यमानानामिति ।
तत्राप्यन्वयिनामवयवानां न स्त एव जन्मविनाशौ किं त्ववयवोपचयापचयनिमित्तस्तद्व्यवहार इति नास्ति वस्त्वन्यत्वमित्यर्थः ।
यथोक्तजन्मविनाशोपगमेनापि वस्त्वन्यत्वमनुमेयमित्याशङ्क्यानैकान्तिकत्वमाह -
तत्रेति ।
बीजाङ्कुरादाविति यावत् ।
व्यभिचारान्तरमाह -
तथेति ।
अतिप्रसङ्गाच्च भेदानुमानमयुक्तमित्याह -
पित्रादीति ।
अन्वयिकारणस्य प्रत्यभिज्ञायमानतया नित्यत्वसाधनेन क्षणभङ्गवादोऽपि प्रत्युक्तो वेदितव्य इति प्रसङ्गादतिदिशति -
एतेनेति ।
स्वपक्षे दोषं परिहृत्य परपक्षे तं प्रसञ्जयति -
यस्येति ।
तन्मते कारकव्यापारस्य कार्यप्रागभावो वा तत्समवायिकारणं वा विषयः । नाद्य इत्याह -
अभावस्येति ।
द्वितीयं शङ्कते -
समवायीति ।
कार्यं समवायिकारणाद्भिन्नमभिन्नं वेति विकल्प्याद्यं निरस्यति -
नेत्यादिना ।
द्वितीयं शङ्कित्वा दूषयति -
समवायीति ।
असत्कार्यवादनिरसनफलमुपसंहरति -
तस्मादिति ।
कार्यस्य कारणादभेदे कारकव्यापारस्य सविषयत्वं नान्यथेति तच्छब्दार्थः ।
कथं तर्हि प्रतिकार्यं क्षीरादिकारणभेदात्कारणत्वं ब्रह्मणः सिध्यतीत्याशङ्क्याह -
तथेति ।
कारणान्नान्यत्कार्यमिति स्थिते सतीत्यर्थः । विवर्तवादं व्यक्तीकर्तुं नटवदित्युदाहरणम् ।
युक्तेरिति सूत्रावयवव्याख्यानमुपसंहरति -
एवमिति ।
सूत्रावयवान्तरमुपादत्ते -
शब्दान्तराच्चेति ।
युक्तेरिव शब्दादपि कार्यस्य सत्त्वमनन्यत्वं च सिध्यतीति वक्तव्ये कथमन्तरपदमन्तराले प्रयुज्यते, तत्राह -
पूर्वसूत्र इति ।
प्रकारान्तरेण शब्दान्तरं विभजते -
तद्धैक इति ।
कारणस्येत्थं सत्त्वेऽपि कथं कार्यस्य सत्त्वसिद्धिरित्याशङ्क्याह -
तत्रेति ।
उक्ता श्रुतिः सप्तम्यर्थः ।
प्रतिज्ञानुपपत्तेश्च न सत्कार्यवादानुपपत्तिरिति चकारसूचितामुपपत्तिमाह -
यदि त्विति ।
कथं तर्हि प्रतिज्ञोपपद्यते, तत्राह -
सत्त्वेति ॥ १८ ॥
कार्यमुपादानाद्भिन्नं, तदुपलब्धावप्यनुपलभ्यत्वात् , ततोऽधिकपरिमाणत्वाच्च, संमतवदित्यनुमानयोर्व्यभिचारमाह -
पटवच्चेति ।
सूत्रं व्याचष्टे -
यथा चेति ।
व्याख्यानान्तरमाह -
यथा चेत्यादिना ।
दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
तथापि किमायातं जगद्ब्रह्मणोरित्याशङ्क्याह -
अत इति ।
प्रागुक्तहेतोः सव्यभिचारत्वेन दुष्टत्वादिति यावत् ॥ १९ ॥
कार्यमुपादानाद्भिन्नं, भिन्नकार्यकरत्वात् , संमतवदित्याशङ्क्य व्यभिचारमाह -
यथा चेति ।
सूत्रं विभजते -
यथा चेत्यादिना ।
तेषामात्यन्तिकं निरोधं व्यासेधति -
कारणमात्रेति ।
पुनःप्रवृत्तानां प्राणभेदानां भिन्नत्वमेवेत्याशङ्क्याह -
नचेति ।
दृष्टान्तोक्तमर्थं दार्ष्टान्तिके दर्शयति -
एवमिति ।
अधिकरणार्थमुपसंहरति -
अतश्चेति ॥ २० ॥
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये कार्यस्य कारणादनन्यत्वं वदता तेनैव न्यायेन जीवस्यापि ततोऽनन्यत्वमुक्तं, तर्हि जीवधर्मा हिताकरणादयो ब्रह्मणि प्रसज्येरन्निति शङ्कते -
इतरव्यपदेशादिति ।
जीवाभिन्नं ब्रह्म जगदुपादानं वदन्समन्वयो विषयः । स किं यदि तादृग्ब्रह्म जगज्जनयेत्तर्हि स्वानिष्टं न जनयेदिति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वपक्षसूत्रतात्पर्यमाह -
अन्यथेति ।
समन्वयस्य न्यायविरोधसमाधानात्पादादिसङ्गतीरभिप्रेत्य फलं च पूर्ववत्पूर्वोत्तरपक्षयोर्विवक्षित्वाक्षेपं विवृण्वन्प्रतिज्ञाभागं विभजते -
चेतनाद्धीति ।
यस्य ब्रह्मणः स्रष्टृत्वं न तस्य हितादिसम्बन्धः, यस्य च जीवस्य हितादिसम्बन्धो न तस्य स्रष्टृत्वमित्याक्षिपति -
कुत इति ।
सूत्रावयवेन परिहरति -
इतरेति ।
इतरशब्दो जीवविषय इति व्याख्याय परमात्मविषय इति व्याख्यान्तरमाह -
इतरस्य चेति ।
परिणामिब्रह्मणोऽनुप्रवेशपक्षं प्रतिक्षिपति -
अविकृतस्येति ।
ब्रह्मकर्तृको व्यपदेश इतरव्यपदेश इति व्याख्यानान्तरमाह -
अनेनेति ।
जीवब्रह्मणोरभेदे श्रुतिसिद्धे फलितमाह -
तस्मादिति ।
भृत्यो राजादिना नियुक्तः स्वयमेव स्वस्यानर्थं कुर्वन्दृश्यते ततो विशिनष्टि -
स्वतन्त्र इति ।
स्वतन्त्रस्याप्यज्ञस्य स्वानर्थकारित्वं सम्भवति । ब्रह्मणस्तु सर्वज्ञस्य नैवमिति भावः ।
हितमेव विभजते -
आत्मन इति ।
अहितं विशिनष्टि -
जन्मेति ।
जीवस्योपाध्यविवेकात्परमात्माभेदमपश्यतो युक्तमनर्थकारित्वमित्याशङ्क्य तस्य परमात्मताननुभवेऽपि परमात्मा जीवमात्माभिन्नमनुभवन्न तं बध्नीयादित्याह -
नहीति ।
मिथ्याज्ञानमुक्त्वा तात्त्विकोऽनुप्रवेशोऽपि नास्तीत्याशङ्क्यातात्त्विकोऽपि न स्यादित्याह -
नचेति ।
लीलया परस्यात्मनो जगत्कर्तृत्वमित्याशङ्क्याह -
कृतमपीति ।
स्मर्तृत्वमपि प्रसज्येत सर्वज्ञत्वादित्याह -
स्मरेच्चेति ।
अनुभूते स्मृतिनियमाभावान्मैवमित्याशङ्क्य स्पष्टत्वेन स्मृतियोग्यमेतदतित्याह -
सर्वो हीति ।
न चेश्वरस्यास्त्येव स्मर्तृत्वं जीवेऽपि तदभिन्ने तत्प्रसङ्गादिति भावः ।
जगतो मायामयत्वादुक्तदोषानवकाशात्तत्परिहारार्थमधिकरणमनारभ्यमित्याशङ्क्याह -
यथा चेति ।
शारीरस्यापि क्वचिदुपसंहर्तृत्वं दृष्टमित्यनिष्टापत्तिराहित्यमाशङ्क्याह -
स्वमपीति ।
बुद्धिपूर्वकारी हितमेवात्मनः सृजतीति न्यायविरोधाज्जीवाभिन्नाद्ब्रह्मणो विश्वसृष्टिवादिनः समन्वयस्यासिद्धिरित्युपसंहरति -
एवमिति ।
ब्रह्मानिष्टस्य कार्यप्रपञ्चस्य न कारणं, चेतनत्वे सति स्वतन्त्रत्वात् , विवक्षितपुरुषवदिति भावः ॥ २१ ॥
सिद्धान्तसूत्रमवतारयति -
अधिकं त्विति ।
तद्व्याचष्टे -
तुशब्द इति ।
यदुक्तं हिताकरणादयो दोषा ब्रह्मणि प्रादुःष्युरिति, तत्राह -
यत्सर्वज्ञमिति ।
तत्र हेतुमाह -
नहीति ।
नित्यमुक्तस्यापि ब्रह्मणो मायाशक्तियोगाद्विश्वनिर्मातृत्वमविरुद्धमिति भावः ।
यत्तु कर्तृत्वेन स्मर्तृत्वेन च भवितव्यं स्वयमेव चोपसंहर्तव्यमिति, तत्राह -
नचेति ।
क्वचिदपि ज्ञानप्रतिबन्धो नेत्यत्र हेतुमाह -
सर्वज्ञात्वादिति ।
क्वचिदपि शक्तिप्रतिबन्धो नास्तीत्यत्रापि हेतुमाह -
सर्वशक्तित्वाच्चेति ।
तर्हि क्वचिदपि ज्ञानप्रतिबन्धाद्यभावादस्मदादिष्वपि स्मरणादिप्रसक्तिरित्याशङ्क्याह -
शारीरस्त्विति ।
तदभेदात्परस्मिन्नपि स्रष्टरि तेषां प्रसक्तिमाशङ्क्योक्तम् -
न त्विति ।
सत्यभेदे दर्शितव्यवस्थानुपपत्तिरिति शङ्कते -
कुत इति ।
सूत्रावयवं हेतुमवतार्थ व्याचष्टे -
भेदनिर्देशादिति ।
कर्तृकर्मादीत्यादिशब्दो व्यक्तिभेदविषयः । सर्वस्यापि जीवब्रह्मणोर्भेदनिर्देशस्य कर्तृकर्मान्तर्भावात् ।
इदानीं पूर्ववादी पूर्वोक्तं स्मारयन्भेदनिर्देशस्यासाधकत्वमाशङ्कते -
नन्विति ।
तुल्यबलतया द्वयोरपि निर्देशयोः साधकत्वमाशङ्क्याह -
कथमिति ।
वास्तवमेकत्वमौपाधिकं नानात्वमित्युभयनिर्देशोपपत्तिरिति परिहरति -
नैष दोष इति ।
इतश्च ब्रह्मगतं स्रष्टृत्वं जीवगतं वा हिताकरणादि परस्परं न सम्भवतीत्याह -
अपि चेति ।
तत्त्वमसीति वाक्यार्थज्ञानादूर्ध्वमभेदावगमाद्ब्रह्मणः स्वष्टृत्वं जीवस्य तस्य हिताकरणादि ब्रह्मणः स्यादिति वा प्रागेव वा तदवगमादिति विकल्प्याद्ये दोषमाह -
यदेति ।
भेदव्यवहारस्य भिथ्याज्ञानविजृम्भितत्वमसिद्धमित्याशङ्क्याह -
अविद्येति ।
कार्यकरणाविवेककृता भ्रान्तिरित्यत्र दृष्टान्तमाह -
जन्मेति ।
द्वितीयं प्रत्याह -
अबाधिते त्विति ॥ २२ ॥
परस्यैवाविद्याकृतावच्छेदस्य जीवशब्दितस्य सुखदुःखादिसम्बन्धो नतु तत्त्वतो जीवो वा तन्निष्ठदुःखादि वाऽस्तीति पश्यतो हिताकरणादिदोषासंस्पर्शाद्युक्तं तस्य जगत्कारणत्वमित्युक्तम् । इदानीं चिदात्मकत्वेनैकरूपस्य ब्रह्मणो जगत्कार्यं चेत्तदपि चेतनमेव स्यादित्याशङ्क्याह -
अश्मादिवच्चेति ।
तत्र स्वरूपवैचित्र्यपरमश्मदृष्टान्तं व्याचष्टे -
यथा चेति ।
धर्मवैचित्र्यदृष्टान्तमाह -
यथा चैकेति ।
अर्थक्रियावैचित्र्यमुदाहरति -
यथा चैकस्येति ।
दृष्टान्तत्रयस्य दार्ष्टन्तिकं दर्शयति -
एवमिति ।
ब्रह्मणश्चेतनत्वात्तत्कार्यत्वे जगतोऽपि तथात्वं स्यात्तदभावान्न ब्रह्म जगत्कारणमिति परपरिकल्पितो दोषः ।
सौत्रस्य चकारस्यार्थमाह -
श्रुतेश्चेति ।
ब्रह्मकारणवादिन्याः श्रुतेरप्रामाण्ये हेत्वभावात्पूर्वपक्षानुमानं तद्बिरोधादप्रमाणमित्वर्थः ।
ब्रह्म स्वाभिन्नं जीवं न पश्यति चेदसर्वज्ञं स्यात् , पश्यति चेदात्मन्येव संसारं पश्येदित्याशङ्क्याह -
विकारस्येति ।
यथा दर्पणादौ मलिनमात्मानं पश्यन्नपि मैत्रस्तस्य मिथ्यात्वं जानन्न तेनात्मानं शोचति । तथा स्वाभिन्नं जीवं पश्यदपि ब्रह्म तद्गतत्वेन भातसंसारस्य वाचारम्भणमात्रत्वान्न तेनात्मानं शोचितुमर्हतीत्यर्थः ।
यत्तु जगत्येकरूपब्रह्मकार्ये कुतो वैचित्र्यमिति, तत्राह -
स्वप्नेति ।
यथा स्वप्रदृश्यानां भावानामेकस्वप्नदृगधिष्ठानत्वेऽपि पण्डितमूर्खादिवैचित्र्यं दृष्टमेवमेकचिदात्माधिष्ठानत्वेऽपि जीवेश्वरादिवैचित्र्याविरोधाज्जगतश्चेतनकारणत्वमविरुद्धमिति भावः ॥ २३ ॥
सजातीयभेदाभावावष्टम्भेन ब्रह्मणो जगद्धेतुत्वमाक्षिप्य परिहृतम् । इदानीं विजातीयभेदाभावमादाय तद्धेतुत्वमाक्षिप्य परिहरति -
उपसंहारदर्शनादिति ।
असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किं ब्रह्म नोपादानमसहायत्वात्संमतवदिति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वत्रौपाधिकभेदाद्धिताकरणादिदोषः समाहितः । संप्रत्युपाधितोऽपि विभक्तमधिष्ठात्रादि नास्तीश्वरनानात्वाभावात् , ततश्च विचित्रकार्यानुपपत्तिरिति पूर्वपक्षमाह -
चेतनमिति ।
अत्रापि समन्वयस्य न्यायविशेषविरोधसमाधानात्पूर्ववदेव पादादिसङ्गतिफले ।
प्रतिज्ञाते पूर्वपक्षे प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
लोके कारणभेदादेव कार्यभेददर्शनादन्यथा तदाकस्मिकत्वापातात् , कार्यक्रमस्य च कारणक्रमापेक्षत्वादद्वितीये ब्रह्मणि क्रमवत्सहकारिसम्बन्धाभावादैकरूप्याच्च न क्रमवद्विचित्ररूपजगज्जन्महेतुतेत्याह -
इह हीति ।
अत्र साधनशब्दस्तत्सामग्रीं ब्रूते । ब्रह्म नोपादानं, असहायत्वात् , केवलमृद्वत् । ब्रह्म जगतो न निमित्तं, असहायत्वात् , केवलकुम्भकारवदिति मन्वानः सन्नाह -
ब्रह्म चेति ।
उक्तानुमानफलमुपसंहरति -
तस्मादिति ।
विशुद्धब्रह्मापेक्षया विशिष्टब्रह्मापेक्षया वेदमुच्यते, नाद्यः, सिद्धसाध्यत्वादित्यभिप्रेत्य द्वितीये तस्योपादानत्वनिषेधं दूषयति -
नैष दोष इति ।
किं बाह्यसहकारिविरहादनुपादानत्वं, किं वान्तरसहकारिराहित्यादिति विकल्प्याद्यं व्यभिचारित्वेन निरस्यन्नुदाहरणं विवृणोति -
यथा हीति ।
दृष्टान्ते विवदमानः शङ्कते -
नन्विति ।
क्षीरादिषु स्वत एव कालपरिपाकवशेन परिणामदर्शनादसम्प्रतिपत्तिरयुक्तेति परिहरति -
नैष दोष इति ।
औष्ण्याद्यपेक्षया तत्रान्वयव्यतिरेकसिद्धेति कुतो नैरपेक्ष्यमित्याशङ्क्याह -
त्वार्यते त्विति ।
त्वार्यते शैध्र्यं कार्यते क्षीरं दधिभावायौष्ण्यादिना ।
किञ्चाशक्तस्य सहकार्यपेक्षयापि कार्योत्पादकत्वादर्शनाद्दध्यादिभावे स्वतःसिद्धं क्षीरादेः सामर्थ्यमित्याह -
यदि चेति ।
तदेव दृष्टान्तेन स्पष्टयति -
नहीति ।
किमर्था तर्हि कारणसामग्र्यपेक्षेति, तत्राह -
साधनेति ।
नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यत इति न्यायाद्विद्यमानैव क्षीरादिशक्तिः साधनसामग्र्योपचीयत इत्यर्थः ।
क्षीरादेर्बाह्यसाधनाभावेऽप्यान्तरसाधनसद्भावात्कारणता युक्ता । ब्रह्मणस्त्वैकरस्यान्नान्तरमपि साधनमदृष्टादीष्टमिति कथं कारणतेति द्वितीयमाशङ्क्याह -
परिपूर्णेति ।
ब्रह्म परिपूर्णशक्तिकमित्यत्र प्रमाणमाह -
श्रुतिश्चेति ।
कार्यक्रमेण तच्छक्तिपरिपाकोऽपि क्रमवानुन्नेयः शक्तिभेदाच्च तद्विशिष्टकारणेऽपि भेदसिद्धिरित्यभिसन्धायोपसंहरति -
तस्मादिति ॥ २४ ॥
चेतनत्वे सत्यसहायत्वादिति विशेषणादुक्तमनैकान्तिकत्वं परिहर्तुं शक्यमित्याशङ्क्याह -
देवादिवदिति ।
सूत्रव्यावर्त्यामाशङ्कामाह -
स्यादेतदिति ।
चेतनत्वविशेषणेन व्यभिचारनिवारणमाह -
उपपद्यत इति ।
विशिष्टेन हेतुना ब्रह्मणो जगद्धेतुत्वं निषेद्धुं दृष्टान्तमाह -
चेतना इति ।
विवक्षितमनुमानं निगमयति -
कथमिति ।
विशिष्टस्यापि हेतोरनैकान्तिकत्वं तदवस्थमिति परिहरति -
देवादिवदिति ।
तत्र दृष्टान्तं व्याचष्टे -
यथेति ।
अस्मदादिभ्यो देवादिषु विशेषं दर्शयति -
महाप्रभावा इति ।
तेषामपीश्वरानुग्रहसापेक्षत्वादसिद्धमसहायत्वमित्याशङ्क्याह -
अनपेक्ष्येति ।
तथापि शुक्रशोणितसंनिपातस्य मृद्दार्वादीनां चाभावे कुतो देहादीनां प्रासादादीनां च निर्माणमित्याशङ्क्याह -
ऐश्वर्येति ।
अस्मदादिष्वसम्भाव्यमानमैश्वर्यविशेषस्तद्वशेन योगस्तत्कार्यघटनसामर्थ्यं तस्मादिति यावत् ।
तत्तत्कार्योचितसामग्रीसम्पत्तौ हेत्वन्तरमाह -
अभिध्यानेति ।
सङ्कल्पातिरिक्तकारणानपेक्षत्वमुक्तमेव मात्रशब्दार्थः ।
तस्यैव स्पष्टीकरणम् -
स्वत एवेति ।
लोके नैवमुपलम्भोऽस्तीत्यशङ्क्याह -
मन्त्रेति ।
सूत्रे लोकशब्देन लोक्यतेऽनेनेति व्युत्पत्त्या शास्त्रं, अपिशब्देन वृद्धव्यवहारश्च सङ्गृहीतः । यस्तु देवादिषु मन्त्रादिप्रामाण्ये च विप्रतिपद्यते, तं प्रति लौकिकान्युदाहरणानि दर्शयति -
तन्तुनाभश्चेति ।
उक्तदृष्टान्तानां दार्ष्टान्तिकमाह -
एवमिति ।
देवादिदृष्टान्तेन विशिष्टस्य हेतोर्न व्यभिचारः, तत्रोपादानांशे चेतनत्वाभावादिति शङ्कते -
स यदीति ।
ऊर्णनाभदृष्टान्ते च तुल्यं व्यभिचारनिवारणमित्याह -
तन्तुनाभस्येति ।
बलाकादृष्टान्ते चासहायत्वाभावाद्विशिष्टहेतोर्न व्यभिचारोऽस्तीत्याह -
बलाका चेति ।
पद्मिनीदृष्टान्तेऽप्यूर्णनाभदृष्टान्तवद्व्यभिचारसमाधिरित्याह -
पद्मिनी चेति ।
व्यभिचारपरिहारफलपूर्वोक्तानुमानोपपत्तिमाह -
तस्मादिति ।
देवादिदेहस्यापन्नचैतन्यस्यैव देहादिकारणत्वान्न व्यभिचारसमाधिरिति समाधत्ते -
तं प्रतीति ।
प्रागुक्तदृष्टान्तानामसम्भवोऽयमुच्यते ।
विवक्षितं वैलक्षण्यमेव स्पष्टयति -
यथा हीति ।
सिद्धे व्यभिचारे फलितं सूत्रतात्पर्यमुपसंहरति -
तस्मादिति ।
कुलालादेरिव ससहायस्यैव कारणत्वं ब्रह्मणो न शक्यं नियन्तुं देवादिवदसहायस्यापि तदुपपत्तेरिति भावः ॥ २५ ॥
पूर्वाधिकरणोक्तक्षीरादिदृष्टान्तात्परिणामित्वभ्रमे तन्निराकरणार्थमधिकरणमवतारयन्पूर्वपक्षयति -
कृत्स्नप्रसक्तिरिति ।
निरवयवाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः ।
स किं सावयवस्यैव नानाकार्योपादानतेति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे वक्ष्यमाणपूर्वपक्षस्य मायामयत्वेन परिहारादधिकरणानारम्भमाशङ्क्य सङ्गतिमाह -
चेतनमिति ।
शास्त्रार्थस्य परिशुद्धिर्नाम परिणामपराकरणेन विवर्तदृढीकरणं तदर्थमधिकरणारम्भे प्रथममाक्षेपसूत्रमित्यर्थः । अत्रापि समन्वयस्य न्यायविरोधसमाधानात्पादादिसङ्गतिचतुष्टयं फलं च द्रष्टव्यम् ।
यदि क्षीरमिव दध्यात्मना ब्रह्म जगदाकारेण परिणमेत्तदा साकल्येन वा तदेकदेशेन वा । आद्यं प्रत्याह -
कृत्स्नेति ।
ततश्च कारणभूतब्रह्माभावे तत्पराधीनस्य कार्यस्यापि सत्त्वायोगान्न किञ्चिदपि स्यादिति शेषः ।
द्वितीयं निरस्यति -
यदीति ।
ब्रह्मणः सावयवत्वाभावादेकदेशपरिणामानुपपत्तिरित्यर्थः ।
भवतु तर्हि ब्रह्मणः सावयवत्वं, नेत्याह -
निरवयवं त्विति ।
अमूर्तत्वादपि ब्रह्म निरवयवमित्याह -
दिव्यो हीति ।
सर्वगत्वनिरवयवत्वाभ्यां नित्यत्वाभ्यां च तन्निरवयवमित्याह -
इदमिति ।
आपेक्षिकमानन्त्यं वारयति -
अपारमिति ।
विज्ञप्तितावन्मात्रत्वाच्च निरवयवमित्याह -
विज्ञानेति ।
मूर्तामूर्तद्वैतनिषेधाच्च तथेत्याह -
स एष इति ।
न हि ब्रह्मणः सावयवत्वमुपादानत्वेऽपि सुवर्णादिवत्प्रतिपत्तुं शक्यं श्रुतिविरोधादित्यर्थः ।
द्वितीयविकल्पासम्भवे प्रथमविकल्पप्राप्तौ फलितमाह -
ततश्चेति ।
कृत्स्नपरिणामपक्षे दोषान्तरमाह -
द्रष्टव्यतेति ।
ब्रह्मणो द्रष्टव्यत्वसम्भवात्कुतस्तदुपदेशानर्थक्यमित्याशङ्क्य परिणतं वा ब्रह्म तदतिरिक्तं वा द्रष्टव्यमिति विकल्प्याद्ये दोषमाह -
अयत्नेति ।
द्वितीयं दूषयति -
तद्व्यतिरिक्तस्येति ।
किञ्च ब्रह्मणः साकल्येन कार्यात्माना जन्माभ्युपगमे ‘न जायते म्रियते वा’ इत्यादिश्रुतिस्मृतिविरोधः स्यादित्याह -
अजत्वादीति ।
प्रथमपक्षदूषणं सङ्क्षेपविस्तराभ्यामुक्त्वा द्वितीयपक्षदूषणं सङ्क्षिप्तं विवृणोति -
अथेत्यादिना ।
न केवलं शब्दविरोधो न्यायविरोधश्चेत्याह -
सावयवत्वे चेति ।
पूर्वपक्षमुपसंहरति -
सर्वथेति ॥ २६ ॥
सिद्धान्तसूत्रमादत्ते -
श्रुतेरिति ।
परिणामवादमेवाश्रित्य प्रथमं व्याचष्टे -
तुशब्देनेति ।
परिहारमेवाभिनयति -
न खल्विति ।
यदुक्तं ब्रह्मणो जगदाकारेण परिणामे कृत्स्नप्रसक्तिरिति, तत्राह -
न तावदिति ।
निरवयवं ब्रह्म परिणमते च, न च कृत्स्नमिति कुतः सम्भावनेति पृच्छति -
कुत इति ।
श्रौतेऽर्थे नासम्भावनेति परिहरति -
श्रुतेरिति ।
यत्तु ब्रह्मणो विरुद्धाकारेण परिणामे मूलोच्छेदाद्द्रष्टव्यतोपदेशानर्थक्यमिति तत्परिहरन्हेतुं विवृणोति -
यथेति ।
विकारातिरेकेण स्थितं ब्रह्मेति श्रुतिरश्रुता, तत्कुतस्तथाविधं ब्रह्माधिकृत्य द्रष्टव्यतोपदेशस्यार्थवत्तेत्याशङ्क्याह -
प्रकृतीति ।
तत्र द्रष्टृद्रष्टव्यत्वेन प्रवेष्टृप्रवेष्टव्यत्वेन व्याकर्तृव्याकार्यत्वेन च भेदव्यपदेशं दर्शयति -
सेयमिति ।
व्याप्यव्यापकत्वेनापि भेदव्यपदेशोऽस्तीत्याह -
तावानिति ।
अंशांशित्वेनापि भेदव्यपदेशमुदाहरति -
पादोऽस्येति ।
इतश्चाविकृतमस्ति ब्रह्मेत्याह -
त्रिपादिति ।
अविकृतब्रह्मास्तित्वे हेत्वन्तरमाह -
तथेति ।
सर्वस्य ब्रह्मणो विकारात्मना समाप्तौ सर्वायतनत्वाद्विशेषेण हृदयायतनत्वं ‘हृद्यन्तर्ज्योतिः’ इत्यादिना नोच्येत तद्वचनादविकृतस्यैव हृद्यवस्थानसिद्धेस्तदस्तितेत्यर्थः ।
अस्त्यविकृतं ब्रह्मेत्यत्र हेत्वन्तरमाह -
सदिति ।
सुषुप्तौ जीवस्य सत्सम्पत्तिश्रुतिमात्रेण कथमविकृतमस्ति ब्रह्मेत्याशङ्क्याह -
यदि चेति ।
कुतो विशेषणानुपपत्तिरित्याशङ्क्य विकृतेनाविकृतेन वा ब्रह्मणा सम्पत्तिः सुषुप्ताविष्टेति विकल्प्य क्रमेण दूषयन्ननुपपत्तिं प्रकटयति -
विकृतेनेत्यादिना ।
किञ्च विकारस्येन्द्रियगोचरत्वात् ‘न चक्षुषा गृह्यते नापि वाचा’ इत्यादिना ब्रह्मणस्तद्गोचरत्वनिषेधात्तदस्ति विकारातिरिक्तमित्याह -
तथेति ।
यत्तु परिणामित्वे ब्रह्मणो निरवयवत्वशब्दकोपः स्यादिति, तत्राह -
न चेति ।
श्रुत्यापि कथं विरुद्धोऽर्थः समर्प्यते, तस्याः स्वार्थप्रतिपादनस्याविरोधसापेक्षत्वादित्याशङ्क्याह -
शब्देति ।
ब्रह्मणः शब्दप्रमाणकत्वाद्यथाशब्दमिष्टत्वेऽपि कथमकृत्स्नपरिणामनिरवयवत्वयोरुपपत्तिः, तत्राह -
शब्दश्चेति ।
तत्राकृत्स्नप्रसक्तौ भेदव्यपदेशश्रुतिरुक्ता, निरवयवत्वे तु श्रुतिरुदाहृता पूर्वपक्षे ।
ननु निरवयवत्वपरिणामित्वे नैकाधिकरणे सिध्यतो मिथो विरुद्धत्वादौष्ण्यशैत्यवदित्याशङ्क्य श्रुतिविरोधान्मैवमिति मत्वा कैमुतिकन्यायमाह -
लौकिकानामपीति ।
स्वरूपेण प्रत्यक्षादिसिद्धानामपि यत्र शक्तयस्तर्कागोचरास्तत्र किमु वक्तव्यं शब्दैकगम्यस्य तर्कागोचरत्वमित्यर्थः ।
उक्तेऽर्थे स्मृतिं संवादयति -
तथा चेति ।
अचिन्त्यानां भावानामचिन्त्यत्वादेव तर्कायोग्यत्वेऽपि किं तदचिन्त्यमित्यपेक्षायामाह -
प्रकृतिभ्य इति ।
प्रत्यक्षदृष्टपदार्थस्वभावेभ्यो यत्परं विलक्षणमाचार्याद्युपदेशगम्यं तदचिन्त्यमित्यर्थः ।
शब्दमूलं चेत्यादिना शब्दमूलत्वादित्येतद्व्याख्याय शब्दैकसमधिगम्यस्य ब्रह्मणस्तर्कागोचरत्वे फलितमाह -
तस्मादिति ।
आकाङ्क्षादिवशेन शब्दस्यार्थप्रत्यायकत्वाद्विरुद्धार्थप्रत्यायने चाकाङ्क्षाद्यभावान्न शब्दस्यापि तथाविधार्थबोधकतेत्येकदेशिव्याख्यानमाक्षिपति -
नन्विति ।
विरोधमेव दर्शयति -
निरवयवं चेति ।
कथमयमर्थो विरुध्यते, न हि प्रमाणसिद्धं विरुद्धमुपयन्तीत्याशङ्क्य विरोधं प्रपञ्चयति -
यदीति ।
सावयवेष्वेव क्षीरादिषु परिणामदृष्टेरित्यर्थः । विपक्षे कृत्स्नप्रसक्तितादवस्थ्यमित्याह -
कृत्स्नमेवेति ।
यदि कथञ्चित्कृत्स्नप्रसक्तिः समाधीयते तदा निरवयवशब्दकोपः स्यादित्याशयवानाह -
अथेति ।
एकत्रापि परिणामापरिणामौ षोडशिग्रहणाग्रहणवदविरुद्धावित्याशङ्क्याह -
क्रियेति ।
इहेति । ब्रह्मणि परिणामापरिणामयोरित्यर्थः । परिणामादिविषयो वस्तुशब्दः ।
स्वयूथ्यो व्याख्यानस्यानुपपन्नत्वमुपसंहरति -
तस्मादिति ।
विवर्तवादमादाय सिद्धान्ती परिहरति -
नैष दोष इति ।
निरवयवस्य ब्रह्मणो विकारास्पृष्टतयावस्थानस्य विकारात्मना परिणामस्य च श्रूयमाणस्य मिथो विरोधे तात्त्विकं विकारास्पृष्टत्वं मायिकं च परिणामित्वमिति व्यवस्थायां नास्ति दौस्थ्यमित्यर्थः ।
रूपभेदमभ्युपगच्छतस्तत्सावयवत्वं दुर्वारमित्याशङ्क्याह -
न हीति ।
तदेव दृष्टान्तेन स्पष्टयति -
नहि तिमिरेति ।
नामरूपभेदश्चेदविद्याकृतस्तर्हि ब्रह्मणो न कारणत्वमविद्याया एव तद्भावादित्याशङ्क्याह -
अविद्येति ।
नामरूपभेदसिद्धौ कारणत्वसिद्धिस्तत्सिद्धौ च नामरूपभेदसिद्धिरित्यन्योन्याश्रयतेत्याशङ्क्याह -
व्याकृतेति ।
विवर्तवादेऽपि विरुद्धाकारप्राप्तौ पूर्वरूपनिवृत्तेस्तुल्या मूलोच्छित्तिरित्याशङ्क्यानिर्वाच्यरजताकारापत्तौ शुक्तिकादेरन्यथात्वादर्शनाद्ब्रह्मणोऽपि कल्पिताकारापत्तौ पूर्वरूपानिवृत्तेर्मैवमित्याह -
तत्त्वेति ।
ब्रह्मणो मायाविवन्मायया सर्वव्यवहारास्पदत्वेऽपि कुतोऽस्यापरिणामित्वादिसिद्धिरित्याशङ्क्याह -
पारमार्थिकेनेति ।
एवं कृत्स्नप्रसक्तिं निराकृत्य निरवयवत्वशब्दकोपं निराकरोति -
वाचारम्भणेति ।
प्रतिपाद्यत्वं सृष्टेरभ्युपेत्यैतदुक्तम् । तदेव नास्तीत्याह -
न चेति ।
किम्परा तर्हीयं श्रुतिरित्याशङ्क्याह -
सर्वेति ।
ब्रह्मात्म्यैक्यप्रतिपादनपरतया सृष्टिवाक्यानां स्वशेषिविरोधित्वायोगान्नास्ति सृष्टौ तात्पर्यमित्यर्थः ।
ब्रह्मात्मप्रतिपत्तौ फलावगतिमुदाहरति -
स एष इति ।
विवर्तवादे दोषाभावमुपसंहरति -
तस्मादिति ॥ २७ ॥
उक्तं विवर्तवादं सूत्रकाराभिप्रेतत्वेन स्पष्टयति -
आत्मनीति ।
सूत्रार्थं विवृण्वन्दृष्टान्तसद्भावाद्विवर्तवादे विवादो नास्तीत्याह -
अपि चेति ।
विवादस्याकर्तव्यत्वे हेतुमाह -
यत इति ।
दृष्टान्तदार्ष्टान्तिकयोरेकार्थत्वं विशिनष्टि -
स्वप्नदृशीति ।
स्वप्नस्य स्मृतित्वाभ्युपगमाद्विरुद्धा सृष्टिरेव तत्र नास्तीति कुतोऽस्य दृष्टान्ततेत्याशङ्क्यापरोक्षतया स्वप्नस्यास्मृतित्वमभिप्रेत्याह -
पठ्यत इति ।
स्वप्ने रथादीनामभावे कथं तत्प्रथेत्याशङ्क्याह -
अथेति ।
आत्मनि चेति व्याख्याय विचित्राश्च हीति व्याचष्टे -
लोकेऽपीति ।
एवमिति सूत्रपदं व्याकुर्वन्दार्ष्टान्तिकमाह -
तथेति ।
इतिशब्दो विवर्तवादसमाप्त्यर्थः ॥ २८ ॥
‘यश्चोभयोः’ इति न्यायेन कृत्स्नप्रसक्त्यादीनामनुद्भाव्यत्वं दर्शयति -
स्वपक्षेति ।
सूत्राक्षराणि व्याचष्टे -
परेषामिति ।
तथा च ब्रह्मवादिनि विशेषेणानुद्भाव्यतेति शेषः ।
तत्र प्रधानवादे दोषसाम्यं वक्तुं तत्पक्षमनुभाषते -
प्रधानेति ।
दोषसाम्यमधुना दर्शयति -
तत्रापीति ।
प्रधानं हि महदाद्याकारेण परिणममानं साकल्येन वा परिणमत एकदेशेन वा प्रथमे निरवयवत्वात्प्रधानस्य कृत्स्नस्यैव कार्याकारेण परिणतत्वादवशिष्टस्याभावात्तदाश्रितस्य कार्यस्याप्ययोगात्कार्यं कारणं चेत्युभयमपि समुच्छिद्येत । द्वितीये प्रधानस्य निरवयवत्वस्वीकारो विरुध्येतेत्यर्थः ।
दोषद्वयं परिहर्तुं शङ्कते -
नन्विति ।
निरवयवत्वानुपगमं स्फुटयितुं प्रधानस्वरूपमनुवदति -
सत्त्वेति ।
कथमेतावता निरवयवत्वानभ्युपगमः, तत्राह -
तैरिति ।
सावयवत्वे च प्रधानस्यैकदेशेन परिणामोऽवस्थानं चैकदेशेनेत्यङ्गीकारान्न कृत्स्नप्रसक्त्यादिदोषावकाशोऽस्तीत्यर्थः ।
उक्तं सावयवत्वमङ्गीकृत्य परिहरति -
नेत्यादिना ।
तत्र हेतुमाह -
यत इति ।
समुदायस्य सावयवत्वेऽपि प्रत्येकं सत्त्वादीनां निरवयवत्वात्तेषां च परिणामस्वीकारात्कृत्स्नपरिणामे मूलोच्छित्तेकदेशपरिणामे सावयवत्वम् । अतो दोषद्वयं प्रधानवादे दुर्वारमित्यर्थः ।
सम्भूय सत्त्वादीनां परिणामपरिग्रहान्न दोषद्वयमित्याशङक्याह -
एकैकमेवेति ।
समुदायस्यैव परिणामित्वे कार्यवैषम्यासिद्धिरिति भावः ।
एवं प्रधानवादे कृत्स्नप्रसकत्यादिदोषसाम्यान्न तेन ब्रह्मवादिनि तदुद्भावनीयमित्युपसंहरति -
समानत्वादिति ।
तर्काप्रतिष्ठानन्यायेन निरवयवत्वापादकतर्कस्याप्रतिष्ठानत्वात्प्रधानस्य सावयवत्वमेवेति शङ्कते -
तर्केति ।
अभ्युपेतहानमपिना सूचयन्दूषयति -
एवमपीति ।
आदिशब्देन घटादिवन्मूलकारणत्वासम्भवोऽपि गृहीतः ।
घटादीनामिव द्रव्यावयवत्वेन प्रधानस्य सावयवत्वानभ्युपगमादनेकधर्मवत्तया तदङ्गीकारान्नानित्यात्वादिदोषप्रसक्तिरित्याह -
अथेति ।
ब्रह्मणोऽपि कार्यवैचित्र्यसूचितविचित्रशक्तिरूपावयवोपगमादुक्तदोषसमाधिरित्याह -
ता इति ।
प्रधानवादिनो दोषसाम्यमुक्त्वा परमाणुवादिनोऽपि तत्साम्यमाह -
तथेति ।
अणुवादिनोऽपि समान एव दोष इत्यत्र सम्बन्धः ।
द्वाभ्यामणुभ्यां संयुज्यमानाभ्यां द्व्यणुकमारभ्यते त्रिभिर्द्व्यणुकैः संयुक्तैस्त्र्यणुकं त्र्यणुकैः संयुक्तैश्चतुरणुकमित्यस्यां प्रक्रियायामणुरण्वन्तरेण संयुज्यमानः कार्त्स्न्येन वा संयुज्यत एकदेशेन वेति विकल्प्याद्यमनूद्य दूषयति -
अणुरिति ।
कार्त्स्न्यन संयोगे सत्येकस्मिन्परमाणौ परमाण्वन्तरस्य संमितत्वात्तदारब्धे द्व्यणुके परमाणोरधिकपरिमाणाभावात्तस्यापि पारिमाण्डल्यवत्त्वप्रसङ्गादणुत्वादिपरिमाणान्तराङ्गीकारविरोधः स्यादित्यर्थः ।
द्वितीयमनूद्य प्रत्याह -
अथेति ।
तदेवं परमाणुवादिन्यपि प्रागुक्तदोषसाम्यान्न तेनापि ब्रह्मवादिनि तदुद्भावनमुचितमित्याह -
इति स्वपक्षेऽपीति ।
त्वं चोर इत्युक्ते त्वमपि चोर इतिवत्स्वस्य दोषोद्भावने परस्यापि तदुद्भावनमात्रेण न तत्परिहारसिद्धिरित्याशङ्क्य परस्य यः परिहारः स एवास्माकमपीत्यभिप्रेत्याह -
समानत्वाच्चेति ।
आपाततः साम्यमुक्त्वा पारमार्थिकं कार्यकारणत्वमिच्छतामेव चायं दोषो नास्माकं विवर्तवादिनां कार्यं कारणं च कल्पितमिच्छतामित्याह -
परिहृतस्त्विति ॥ २९ ॥
पूर्वाधिकरणे ब्रह्मणो विचित्रशक्तियुक्तत्वाद् युक्तं कारणत्वमित्युक्तम् ।
इदानीं तस्य विचित्रशक्तित्वे प्रमाणमाह –
सर्वोपेता चेति ।
मायाशक्तिमतो ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः ।
तस्य किमशरीरस्य नास्ति मायेति न्यायेन विरोधोऽस्ति न वेति तदनाभासत्वभासत्वाभ्यामेव सन्देहे सङ्गतिमाह -
एकस्येति ।
प्रमाणप्रश्नपूर्वकं तदुपन्यासपरं सूत्रमादत्ते -
तत्पुनरिति ।
पूर्ववदिहापि सङ्गतिफले द्रष्टव्ये ।
सूत्राक्षराणि व्याचष्टे -
सर्वेति ।
अवगतिहेतुं प्रश्नपूर्वकमाह -
कुत इति ।
सिद्धान्तहेतुं नानाविधश्रुत्यवष्टम्भेन विवृणोति -
तथा हीति ॥ ३० ॥
पूर्वपक्षमनुभाष्य दूषयति -
विकरणत्वादिति ।
यद्यप्यन्तर्याम्यधिकरणे जगद्ब्रह्मणोर्मायार्जितत्वसम्बन्धे सिद्धे कार्यकरणविरहिणोऽपि नियन्तृत्वमुक्तं, तथापि कार्यकारणविरहिणो मायासम्बन्ध एव न सम्भवतीति विवक्षितत्वात्कुलालादीनां कार्यकरणवतां मृदाद्यधिष्ठातृत्वदर्शनाद्ब्रह्मणस्तद्धीनस्य नाधिष्ठातृत्वेन कारणत्वमिति चोद्यं विवृणोति -
स्यादेतदिति ।
ब्रह्मणः सर्वशक्तित्वादकार्यकरणत्वेऽपि कारणत्वमुपपन्नमित्याशङ्क्याह -
कथं सेति ।
न हि कार्यकरणरहितस्य मुक्तवन्मायाशक्तिमत्त्वं, तद्वत्त्वेऽपि न कार्यक्षमत्वम् । सुषुप्तवदित्यर्थः ।
सर्वशक्तियोगाद्देवादिवद्ब्रह्मणः सम्भवति विचित्रकार्यकरत्वमित्याशङ्क्याह -
देवादयो हीति ।
विज्ञायन्ते । मन्त्रार्थवादादिष्विति शेषः ।
कथं सा सर्वशक्तियुक्तापीत्यत्रापिना सूचितमर्थं स्फोरयति -
कथं चेति ।
‘तदुक्तम् ‘ इति सूत्रावयवेन परिहरति -
यदत्रेति ।
किं तदुक्तमित्यपेक्षायां न विलक्षणत्वाधिकरणादावुक्तं स्मारयति -
श्रुतीति ।
यत्तु कुलालादीनां कार्यकरणवतामेव मृदाद्यधिष्ठातृत्वोपलम्भाद्ब्रह्मणस्तद्रहितस्य नाधिष्ठातृत्वेन कारणत्वमिति, तदपि परिहृतमित्याह -
न चेति ।
न हि कार्यकरणविरहिणः सुषुप्तवदकार्यकरत्वं शक्यं नियन्तुं, समुत्थानसमये शरीराद्यभिमानशून्यस्य देहेन्द्रियाद्युपादानव्यापारतस्तच्छक्तिमत्तोपलब्ध्या दृष्टान्तस्य साध्यविकलत्वादिति भावः ।
यत्तु ब्रह्मणो मायाशक्तिमत्त्वं मुक्तवदशरीरत्वादयुक्तमिति, तदपि पुरस्तादेव परास्तमित्याह -
प्रतिषिद्धेति ।
परमार्थतो व्यवहारतो वा मायाशक्तिरमत्त्वाभावः साध्यते । नाद्यः, सिद्धसाधनत्वात् । न द्वितीयः, मायायाश्चिन्मात्रे प्रतीतिसिद्धत्वात् । न चाज्ञोऽहमिति प्रतीतिर्जीवमधिकरोति । तस्य ब्रह्मानतिरेकात्कल्पितस्य चाविद्यामयत्वेनाविद्याश्रयत्वायोगादिति भावः ।
किञ्च मायाविनां देहेन्द्रियवतां बाह्यं हेतुमनपेक्ष्य कार्यकरत्वदर्शनात् , कुलालादीनां च तथाविधानामेव बाह्यसाधनव्यपेक्षाणामर्थक्रियाकारित्वात् , तेषु दृष्टवैचित्र्यावष्टम्भादन्तरेणापि शरीरादिना ब्रह्मणि मायासम्बन्धसिद्धिरित्यभिसन्धाय प्रागुक्तानुमानद्वयस्यागमविरोधं दर्शयति -
तथा चेति ॥ ३१ ॥
पूर्वं श्रुत्यवष्टम्भेन सर्वशक्ति ब्रह्मेत्युक्तम् । सम्प्रति शक्तस्यापि प्रयोजनाभिसन्ध्यभावादकर्तृत्वमित्याक्षिपति -
न प्रयोजनवत्त्वादिति ।
परितृप्ताद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किं ब्रह्म विना फलेन न सृजत्यभ्रान्तचेतनत्वाद्विवक्षितपुरुषवदिति न्यायेन विरुध्यते न वेति पूर्ववदेव सन्देहे पूर्वपक्षसूत्रतात्पर्यमाह -
अन्यथेति ।
पादादिसङ्गतिफले पूर्ववदुन्नेये ।
सूत्राक्षराणि व्याकुर्वन्नञोऽर्थमाह -
न खल्विति ।
तत्र प्रश्नपूर्वकं हेतुमादाय व्याचष्टे -
कुत इति ।
भ्रान्तस्याबुद्धिपूर्वकारिणः स्वपरप्रयोजनानुपयोगिन्यपि प्रवृत्तिर्दृष्टेति विशिनष्टि -
बुद्धिपूर्वकारीति ।
लीलादौ फलाभावेऽपि प्रवृत्तिर्दृष्टेत्याशङ्क्य तत्रापि तात्कालिकमुद्देश्यफलाभावेऽपि फलमस्त्येवेति मत्वाह -
न मन्देति ।
या चेतनस्याभ्रान्तस्य प्रवृत्तिः सा फलाभिसन्धिपूर्विकेति व्याप्तिमुक्त्वा कैमुतिकन्यायमपिना सूचितं दर्शयति -
किमुतेति ।
लीलादेरल्पायाससाध्यत्वेऽपि फलवत्त्वदर्शनान्महायाससाध्यजगतः सृष्टिरफला न श्लिष्टेत्यर्थः ।
फलाभिसन्धिपूर्विका बुद्धिपूर्वकारिप्रवृत्तिरित्यत्र श्रुतिमुपन्यस्यति -
भवति चेति ।
प्रवृत्त्याभासत्वाज्जगद्विरचनायां न फलापेक्षेत्याशङ्क्याह -
गुरुतरेति ।
अस्तु तर्हि फलाभिसन्धिपूर्विकैवेयमपि प्रवृत्तिरित्याशङ्क्य स्वस्य परस्य वा फलमुद्देश्यमिति विकल्प्याद्ये दोषमाह -
यदीति ।
अस्मदादीनां गुरुतरसंरम्भापीयं प्रवृत्तिरीश्वरस्यानायाससाध्या न प्रयोजनपूर्विकेत्याशङ्क्य, ब्रह्म न जगत्कारणं, साक्षात्परम्परया वा स्वफलविकलत्वात् , तथाभूतलौकिकपुरुषवदित्याह -
प्रयोजनाभावे वेति ।
दृष्टान्तेन शङ्कयित्वा दूषयति -
अथेत्यादिना ।
बुद्ध्यपराधो विवेकवैधुर्यम् ।
नापि परप्रयोजनोपयोगिनी परस्येश्वरस्य प्रवृत्तिः, प्रागुत्पत्तेरनुग्राह्याभावादिति मत्त्वोपसंहरति -
तस्मादिति ॥ ३२ ॥
सिद्धान्तयति -
लोकवत्त्विति ।
सूत्रं व्याचष्टे -
तुशब्देनेति ।
यत्तु साक्षात्परम्परया वा स्वप्रयोजनाभावान्न ब्रह्म जगत्कारणमिति, तत्र सुखोल्लासनिमित्तक्रीडायामुच्छ्वासादौ च फलाभिसन्ध्यभावादनैकान्तिको हेतुरित्याह -
यथेति ।
एषणासम्पत्तौ सम्भावितमुदाहरणद्वयमाह -
राज्ञ इति ।
व्यतिरिक्तं लीलायाः सकाशादिति यावत् । क्रीडार्था विहारा देशविशेषाः संस्कृतास्तेष्विति यावत् ।